भगवद्गीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

भगवद्गीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

अथ प्रथमोऽध्यायः । श‍ृणु राजन्हतानन्तसामन्तः शन्तनोः सुतः । विदधे पाण्डुपुत्राणां यथा विजयसंशयम् ॥ ६.२८॥ वज्रसूचीमुखाख्याभ्यां प्यूहाभ्यां राजकुञ्जरैः मिथो व्यूढेष्वनीकेषु गाङ्गेयेनार्जुनेन च ॥ ६.२९॥ तस्मिन्क्षत्त्रक्षयक्षेत्रे सर्वक्षत्त्रसमागमे । दुर्योधनेऽतिसंरब्धे पृथुसैन्याभिमानिनि ॥ ६.३०॥ गाङ्गेयशङ्खनादेन समुद्भूते बलार्णवे । शङ्खशब्देन पार्थानां पाञ्चजन्यानुयायिना ॥ ६.३१॥ पूरिते भुवनाभोगे दिक्षु विस्फूर्जितास्विव । सर्वसेनाश्रयः श्रीमान्विजयोऽच्युतसारथिः ॥ ६.३२॥ ददर्श कुरुसेनासु गुरुसम्बन्धिबान्धवान् । निजप्रतापदहने स तेषां शलभायितम् । मत्वा जगाद गोविन्दं विषण्णः करुणानिधिः ॥ ६.३३॥ अहो वत विमूढानां राज्यलेशे सुखाय नः । कृष्ण बन्धुवधेऽप्यस्मिन्ससंरम्भोऽयमुद्यमः ॥ ६.३४॥ अवतीर्य सदाचारस्तुतिक्रम्यकुलस्थितिम् । कथं गुरुवधप्राप्यां भजेदस्मद्विधऋ श्रियम् ॥ ६.३५॥ इत्युक्त्वा सास्रुनयनो बीभत्सुः कृपया रथे । करादुत्सृज्य गाण्डीवं निषसाद विषादवान् ॥ ६.३६॥ इति श्रीमद्भगवद्गीतासु प्रथमोऽध्यायः ॥ १॥

तं दृष्ट्वा शोकविवशं जगाद मधुसूदनः । अकाण्डे धैर्यसारस्य केयं कातरता तव ॥ ६.३७॥ तरस्वी क्षत्रियो मानी प्राणैरपि यशःक्रयी । निजां कुलस्थितिं पार्थ न धर्म्यां हातुमर्हसि ॥ ६.३८॥ संयुक्तं वा वियुक्तं वा नित्यं देहेन देहिनम् । विश्वमायाप्रपञ्चेऽस्मन्कोऽनुशोचति तत्त्वधीः ॥ ६.३९॥ सुखाद्यवस्था देहस्य काले काले यथाविधाः । देहिनोऽस्य तथा देहाः सतः सत्ताविवर्जिताः ॥ ६.४०॥ विषयेन्द्रियसंयोगान्क्षयिनो हर्षशोकदान् । सहते यो विलुप्तात्मा निर्वाणं तस्य शाश्वतम् ॥ ६.४१॥ अजस्य पुराणस्य देहिनोऽस्याविनाशिनः । जीर्णपर्णपरावृत्तितुल्येयं देहकल्पना ॥ ६.४२॥ आदिमध्यावसानेषु व्यक्ताव्यक्तस्वरूपिणः । सत एवास्य सततं न विरामः शरीरिणः ॥ ६.४३॥ अयशस्यमतस्त्यक्त्वा सङ्कोचं विपुलाशयः । जयाजयौ समं मत्वा विश स्वर्गोन्मुखो रणम् ॥ ६.४४॥ आस्थाय यौगिकीं बुद्धिं कर्मबन्धविवर्जितः । शुष्कवेदक्रियाहीनं गुणातीतं पदं भुज ॥ ६.४५॥ सर्ववेदेषु विदुषामेतदेव प्रयोजनम् । जलाशयेषु पूर्णेषु यथा सलिलहारिणाम् ॥ ६.४६॥ निःसङ्गः फलसन्न्यासी कुरु कर्म सदोदितः । परमेश्वरमेवाहि(?)वाणिज्यं हि फलार्थिनाम् ॥ ६.४७॥ यदा ते वीतमोहस्य बुद्धिर्यास्यति निर्वृतिम् । कृती भविष्यसि तदा श्रुतेष्वर्थेष्वनादरः ॥ ६.४८॥ इति ब्रुवाणः पार्थेन स्थितप्रज्ञस्य लक्षणम् । पृष्टः समाधिसक्तस्य भगवानित्यभाषत ॥ ६.४९॥ ईश्वरादपरो नाहमिति स्वानन्दनिर्भरः । निरस्ताखिलसङ्कल्पः स्थितप्रज्ञोऽभिधीयते ॥ ६.५०॥ आस्ते कूर्म इवाङ्गानि कामान्संवृत्ययः श्रयम् । विषयाध्यानविरहात्स्थितधीर्न स नश्यति ॥ ६.५१॥ कष्टैस्तपोभिर्विषयाः शुष्यन्त्येव रसं विना । अनादरविरक्तानां सदाप्यध्यात्मदर्शिनाम् ॥ ६.५२॥ निद्रार्लुभूतकालेषु प्रबुद्धिस्तिमिरेषु यः । स महाब्धिरिवाक्षोभ्यः स्थितिं ब्राह्मीं प्रपद्यते ॥ ६.५३॥ इति श्रीगीतासु द्वितीयोऽध्यायः ॥ २॥

श्रुत्वैतदर्जुनः कृष्णमुवाचाकुलिताशयः । कथमेवं वदन्घोरे समरेऽस्मिन्युनक्षि माम् ॥ ६.५४॥ कर्मणः श्रेयसी बुद्धिरित्युक्त्वापि स्वयं विभो । कर्म दुर्मतियोग्यं मां प्रशंससि विमोहयन् ॥ ६.५५॥ श्रेयो वदेत्युक्तवति श्वेताश्वे केशवोऽब्रवीत् । निष्ठा प्रज्ञानकर्मभ्यां मयोक्ता साङ्ख्ययोगयोः ॥ ६.५६॥ अनारम्भान्न च त्यागात्कर्मणो मुच्यते जनः । श्रोत्रादयो बलादस्य धावन्त्येव स्वकर्मसु ॥ ६.५७॥ स्मरन्ति मनसा सर्वं रुद्धकर्मेन्द्रिया अपि । मिथ्याचारानत्वसक्ताः(?)कर्मिणो नियतान्तराः ॥ ६.५८॥ श्रेयो ह्यकर्मणः कर्म न यज्ञः कर्मणा विना । यज्ञशेषाशिनः पुण्यद्रुमाः केवलभोगिनः ॥ ६.५९॥ कर्मस्थितोऽपि निःसंज्ञो(सङ्गो) यदा प्राप्नोति मानवः । आत्मारामदशास्तुष्ठस्तदा कार्यान्निवर्तते ॥ ६.६०॥ कर्मणैव गताः सिद्धिं जनकप्रमुखाः पुरा । तन्मा कार्यान्निवर्तस्व लोकस्त्वामनुवर्तताम् ॥ ६.६१॥ ममापि कृतकृत्यस्य कर्मेदं स्थितिरक्षिणः । विनस्यत्यन्यथा लोको मत्प्रमाणविश‍ृङ्खलः ॥ ६.६२॥ पात्रं सर्वज्ञयोग्येषु नादरेषु पृथग्जनः । तस्मान्नोत्साहयेदेतान्पङ्गून्वेगगतानिव ॥ ६.६३॥ युध्यस्व सर्वकर्माणि मयि सन्न्यस्य निर्वृतः । तरन्ति हि तमो घोरं नित्यं मन्मतवर्तिनः ॥ ६.६४॥ प्रकृतेरुचितं सर्वं स्वधर्मनिरतः कुरु । रागद्वेषौ परित्यज्य प्रियाप्रियसमुद्भवौ ॥ ६.६५॥ श्रुत्वैतदर्जुनोऽवादीत्प्रेरितः केन पातकम् । चरत्यनीश्वरः प्राणी बलादिव वशीकृतः ॥ ६.६६॥ इति पृष्टो हृषीकेशो जगाद जगतां पतिः । रजोगुणसमुत्थेन हर्षशोकादिदायिना ॥ ६.६७॥ लोकसंहारशीलेन कामेन क्रोधबन्धुना । अहङ्कारेण बलिना घोरेणानेन वैरिणा ॥ ६.६८॥ शेवालेनैव सलिलं रजसेवामलं नभः । आवृतो मलिनोनात्मा मेघेनैवोदितो रविः ॥ ६.६९॥ मनोबुद्धिसमायुक्तं स्थानमिन्द्रियपञ्जरम् । यस्य तं दुःसहं शत्रुं कामरूप विनाशय ॥ ६.७०॥ इति श्रीमद्भगवद्गीतासु तृतीयोऽध्यायः ॥ ३॥

सूर्येणाप्तः पुरा मत्तो योगोऽयं मनुना ततः । य एव कालेनोत्सन्नस्तुभ्यमद्य मयोदितः ॥ ६.७१॥ अनेकजन्मसाक्षी त्वं भक्तः सहचरोऽपि मे । न तत्स्मृतिपथं यातं किन्तु ते प्राक्तनं वपुः ॥ ६.७२॥ अहं तु नित्यधरमस्य स्थितये गुप्तये सताम् । युगे युगे भवाम्येष विनाशाय दृरात्मनाम् ॥ ६.७३॥ अकृतं धर्मकर्तारं कर्मैतन्नावृणोति माम् । त्वमप्यसक्तो निष्कामः कुरु कर्म कुलोचितम् ॥ ६.७४॥ दुर्ज्ञेयः प्रविभागस्तु कर्माकर्मविकर्मणाम् । स्वोचितं फलहीनं च विरुद्धं चेति भेदतः ॥ ६.७५॥ कर्मणः फलसन्न्यासाद्योऽनुपश्यत्यकर्मताम् । जानात्यकर्मणः पापात्कर्म यश्च स बुद्धिमान् ॥ ६.७६॥ ज्ञानाग्निना दग्धकर्मा नित्यानन्दो निराश्रयः । निराशीर्निरहङ्कारो यज्वा ब्रह्मणि लीयते ॥ ६.७७॥ ब्रह्मार्पणेन ब्रह्मग्नौ हुत्वा ब्रह्ममयं हविः । प्राणयज्ञरतो याति ब्रह्म ब्रह्मसमाधिना ॥ ६.७८॥ संयमाग्नाविन्द्रियाणि विषयानिन्द्रियानले । तत्कर्माण्यात्मयोगाग्नौ हुत्वा यान्ति परां गतिम् ॥ ६.७९॥ येऽपि द्रव्यतपोयोगस्वाध्यायज्ञानयाजिनः । प्राणापानादिह विषो धृत्वा नाडीषु धारणम् ॥ ६.८०॥ समर्पयन्ति निखिलं ज्ञानं विगतकल्मषाः । ते प्रयान्ति परं धाम यज्ञशिष्टामृताशिनः ॥ ६.८१॥ तद्विधाः प्रणिपातेन सेविता ज्ञानिनस्त्वया । अयत्नात्त्वां विधास्यन्ति स्वात्मन्यखिलदर्शिनम् ॥ ६.८२॥ ज्ञानाग्निना दग्धपापः पवित्रेण भविष्यसि । कालेन श्रद्दधानानां स्वयं ज्ञानं प्रसीदति ॥ ६.८३॥ नश्यन्ति संशयजुषो मूढा न त्वस्तसंशयाः । ज्ञानिनः संशयं त्वस्मात्स्थित्वोत्तिष्ठ विभूतये ॥ ६.८४॥ इति श्रीमद्भगवद्गीतासु चतुर्थोऽध्यायः ॥ ४॥

निशम्य तत्पुनः पार्थः पप्रच्छ मधुसूदनम् । सन्न्यासकर्मयोगाभ्यां श्रेयो ब्रूहि जनार्दन ॥ ६.८५॥ इति पृष्टोऽवदच्छौरिरुभावेतौ विमुक्तये । कर्मयोगस्तु सन्न्यासाद्विशिष्ट इति मे मतिः ॥ ६.८६॥ श‍ृण्वन्तोऽपि वदन्तोऽपि स्पृशन्तोऽपि स्वकर्मणि । सक्ता अपि न सज्जन्ति पङ्के रविकरा इव ॥ ६.८७॥ तदेव विहितं किञ्चित्पुंसां सुकृतदुष्कृतम् । अज्ञानपिहिते ज्ञाने किं त्वेषा कर्मवासना ॥ ६.८८॥ ज्ञानेनोत्सारिता ज्ञानाः परां निष्ठामुपागताः । ब्राह्मणे वा श्वपाके वा विबुधाः समदृष्टयः ॥ ६.८९॥ बाह्ये सुखे विरक्तानां दुःखजन्मनि नश्वरे । अन्तःसुखारामतया परं ज्योतिः प्रसीदति ॥ ६.९०॥ बहिः स्पर्शान्समुत्सृज्य भ्रूमध्यनिहितेक्षणः । नासान्तरे समौ धृत्वा प्राणापानौ विमुक्तये ॥ ६.९१॥ कामरागमदद्वेषभयक्रोधविवर्जितः । अहन्ता ज्ञानतमसां शान्तिं विन्दत्यमत्सरः ॥ ६.९२॥ इति श्रीमद्भगवद्गीतासु पञ्चमोऽध्यायः ॥ ५॥

क्रियावानफलाकाङ्क्षी निजं कर्म करोति यः । आरुरुक्षुदशातीतो योगारूढो विमत्सरः ॥ ६.९३॥ कूटस्थो ज्ञानतृप्तश्च पश्यत्यात्मानमात्मना । समासनः समाकारो निस्तरङ्ग इवोदधिः ॥ ६.९४॥ घ्राणाग्रदर्शी शान्तात्मा मामुपैति समाधिना । युक्ताहारादिचेष्टस्य नित्यं निष्कम्पचेतसः ॥ ६.९५॥ आत्मलाभो भवत्येव त्यक्तकामस्य योगिनः । मनः संयम्य पश्यन्ति स्रवत्येतद्यतो यतः ॥ ६.९६॥ आत्मानं मां च सर्वत्र ममात्मनि तथाखिलम् । मनसश्चञ्चलस्यास्य वैराग्येणैव संयमः ॥ ६.९७॥ तथाभ्यासेन बलिना वातस्येव प्रमाथिनः । एतदाकर्ण्य कौन्तेयः पुनः पप्रच्छ केशवम् ॥ ६.९८॥ लोलत्वान्मनसो देव योगाद्भ्रष्टस्य का गतिः । अर्जुनेनेति भगवान्पुनः पृष्टोऽभ्यभाषत ॥ ६.९९॥ योगभ्रष्टोऽपि पुरुषः शुभकृत्तु भविष्यति । चिरं भुक्त्वा सुखं दिव्यं स कल्याणपुरः सरः ॥ ६.१००॥ भोगिनां योगिनां वापि सम्भूतो महतां कुले । पूर्वाभ्यस्तं पुनर्धीमाञ्जन्मभिः प्रतिपद्यते । तपो ज्ञानाधिकं योगं तस्माद्योगी भवार्जुन ॥ ६.१०१॥ इति श्रीमद्भगवद्गीतासु षष्ठोऽध्यायः ॥ ६॥

मयि न्यस्तमना नित्यं भक्त्या मां वेत्ति मानव । अष्टमूर्तिरहं सर्वं जीवभूतश्चराचरे ॥ ६.१०२॥ उत्पत्तिस्थितिसंहारकारणं मां विदुर्बुधाः । सर्वे मत्प्राणिता भावा मयि सर्वं प्रतिष्ठितम् ॥ ६.१०३॥ देवीं मायां दधानं मां न जानाति विमोहितः । ये तु जानन्ति मां मायां भवन्ति कृतिनः सदा ॥ ६.१०४॥ अर्थी जिज्ञासुरार्तो वा ज्ञानी वा मां प्रपद्यते । प्रियः प्रियस्य सततं ज्ञानिनस्त्वस्मि गोचरे ॥ ६.१०५॥ अनन्यदेवताभक्ताः श्रद्धावन्तो विसंशयाः । वासुदेवः सर्वमिति यजन्ते मां मुमुक्षवः ॥ ६.१०६॥ ते ब्रह्माध्यात्मकर्माख्यं साधिभूतं विदन्ति माम् । साधिदैवाधियज्ञं च देहव्युपरमेष्वपि ॥ ६.१०७॥ इति श्रीमद्भगवद्गीतासु सप्तमोऽध्यायः ॥ ७॥

अच्युतेनेत्यभिहिते शक्रसूनुरभाषत । किमेतद्ब्रह्म भगवन्नधियज्ञः किमुच्यते ॥ ६.१०८॥ इति पृष्टो हृषीकेशो बभाषे श्वेतवाहनम् । अनश्वरं परब्रह्म भावोऽध्यात्मा तथात्मनः ॥ ६.१०९॥ निःसङ्गो भवकृत्कर्म नश्वरेष्वधिभूतता । अधिदैवोऽहमेवात्र ह्यधियज्ञोऽप्यहं विभुः ॥ ६.११०॥ अन्तकाले स्मरन्तो मां प्रविशन्त्येव भाविताः । पर्यन्ते भावतुल्या हि नृणां जन्मान्तरस्थितिः ॥ ६.१११॥ कविं पुराणं शास्तारमणीयांसमणोरपि । परस्तात्तमसो नित्यं ये स्मरन्ति रविप्रभम् ॥ ६.११२॥ भ्रूमध्ये विहितप्राणा ब्रह्मरन्ध्रविभेदिनः । ओमित्येकाक्षरं ब्रह्म जपन्तो यान्ति ते परम् ॥ ६.११३॥ ब्रह्मादिभिर्भूतसर्गश्चक्रवत्परिवर्तते । परं मां प्रतिपन्नास्ते न भवन्ति भवे पुनः ॥ ६.११४॥ वैरञ्चेऽस्मिन्नहोरात्रे भवन्ति न भवन्ति च । भूतान्येकस्तु भगवानव्यक्तो न विनश्यति । तेजोमयमहः शुक्लो मोक्षायैवोत्तरायणम् ॥ ६.११५॥ इति श्रीमद्भगवद्गीतास्वष्टमोऽध्यायः ॥ ८॥

राजगुह्यमिदं चान्यत्पवित्रं श‍ृणु फल्गुण । अश्रद्दधानो नाप्नोति मां संसारवशीकृतः ॥ ६.११६॥ सर्वकर्तरि भूतानि मयि सन्ति न तेष्वहम् । लोकाः स्थिता न स्थिताश्च मयि व्योम्नीव वायवः ॥ ६.११७॥ अधिष्ठितैषा प्रकृतिर्मया सूते चराचरम् । असक्तं मां न जानन्ति मलिनामोघदर्शिनः ॥ ६.११८॥ सर्वं सर्वगतं यज्ञं वेद्यं बीजं भवाभवम् । विदन्ति मां सुकुतिनः सर्वकारणकारणम् ॥ ६.११९॥ त्रयीधर्मजुषः स्वर्गभोगलाभक्षयाकुलाः । न प्राप्नुवन्ति मां शुष्कक्रियापाशवशीकृताः ॥ ६.१२०॥ मदेकशरणा नित्यं कृतिनोऽनन्ययाजिनः । अप्यन्ययोनिसम्भूताः स्वयमायान्ति यत्पदम् ॥ ६.१२१॥ इति श्रीमद्भगवद्गीतासु नवमोऽध्यायः ॥ ९॥

१०

भूयोऽपि मे श‍ृणु सखे प्रीत्या यत्प्रतिबोध्यसे । न तत्त्वेनामरगणा मुनयो वा विदन्ति माम् ॥ ६.१२२॥ चराचरेऽस्मिन्प्रवरं यद्यत्पश्यसि भूतिमत् । तदहं सर्वभूतात्मा न हि किञ्चिन्मया विना ॥ ६.१२३॥ अहं विष्णुरहं सूर्यश्चन्द्रोऽहं मघवानहम् । शङ्करोऽहं धनेशश्च वह्निः सुरगुरुस्तथा । अक्षरोऽहमहं कालो जयोऽहं भूतिरप्यहम् ॥ ६.१२४॥ इति श्रीमद्भगवद्गीतासु दशमोऽध्यायः ॥ १०॥

११

श्रुत्वैतदवदत्पार्थो जाने त्वां सर्वमच्युत । किन्तु विश्वमयं रूपं द्रष्टुमिच्छमि ते विभो ॥ ६.१२५॥ इत्युक्तः पाण्डुपुत्रेण भगवान्कैटभान्तकः । विश्वाविष्कारकलया विश्वरूपमदर्शयत् । ६.१२६॥ तस्यानन्तशिरोनेत्रसहस्रभुजशालिनः । देहे जगन्निवासस्य लीनं विश्वमदृश्यत ॥ ६.१२७॥ अतिसूर्याग्निमहसा तेजसा पूरिताम्बरम् । दृष्ट्वा पुलकितः पार्थस्तमुवाच कृताञ्जलिः ॥ ६.१२८॥ पश्याम्युदग्रगीर्वाणग्रामव्याप्तोरुविग्रहम् । त्वां येन पूरितं सर्वमनवच्छिन्नवर्ष्मणा ॥ ६.१२९॥ ब्रह्मरुद्रमरुद्वह्निमुनीन्द्रभुजगाकुलम् । द्रष्टुं तदेव पर्यन्तरहितं नोत्सहे वपुः ॥ ६.१३०॥ भीष्मद्रोणमुखान्वीरान्प्रविष्टान्वदनानि ते । दंष्ट्रोत्कटानि पश्यामि कालस्येव युगक्षये ॥ ६.१३१॥ को भवान्सर्वसंहारारौद्रेण वपुषासूदनः । अकाण्डे दग्धुमखिलान्स्वयं लोकान्समुद्यतः ॥ ६.१३२॥ इत्युक्तवति कौन्तेये जगाद मधुसूदनः । अहं जगत्क्षयोत्क्षोपदीक्षितः क्षितिपान्तकः ॥ ६.१३३॥ कुरुसेनाग्रगान्वीरान्पूर्वं विनिहतान्मया । हत्वा यशःश्रिया जृष्टमवाप्नुहि कुलोचितम् ॥ ६.१३४॥ तच्छ्रुत्वा कालियारातेर्वचः पार्थः कृताञ्जलिः । उवाच कम्पितमनाः प्रणतो गद्गदस्वनः ॥ ६.१३५॥ कीर्त्या जगन्ति हृष्यन्ति स्तुतया सिद्धचारणैः । दीप्त्या द्रवन्ति रक्षांसि स्थाने तव जनार्दन ॥ ६.१३६॥ नौमि त्वां जगदावासं विश्वरूपमधोक्षजम् । अनन्तं शाश्वतं धाम सर्वात्मानं पुनः पुनः ॥ ६.१३७॥ क्षम्यतां तत्सुहृदिति स्वयं यत्प्रणतप्रियः । उक्तोऽसि कृष्ण गोविन्द यादवेति पुरा मया ॥ ६.१३८॥ उग्रं तदेवं भगवन्दृष्ट्वा रूपमहं महत् । चक्रारूढमिवाशेषं पश्यामि निखिलं जगत् । ६.१३९॥ प्रसीद दर्शय विभो वपुः सौम्यं तदेव मे । शान्तिं मे याति सहसा नान्यता व्यथितं मनः ॥ ६.१४०॥ इति प्रसादितः कृष्णः प्रणतेन किरीटिना । अदर्शयन्निजं रूपं तदेवाथ चतुर्भुजम् ॥ ६.१४१॥ देवा अपि न पश्यन्ति ममेदं सर्वगं वपुः । इत्युक्त्वाश्वासयामास कौन्तेयं कमलाधवः ॥ ६.१४२॥ इति श्रीमद्भगवद्गीतास्वेकादशोऽध्यायः ॥ ११॥

१२

अथार्जुनोऽवदत्कृष्णं ये भक्तास्त्वामुपासते । अव्यक्तमक्षरं ये च तेषां केऽधिकयोगिनः ॥ ६.१४३॥ पार्थेनेति हरिः पृष्टो विहितानुग्रहोऽवदत् । मद्भक्ताः श्रद्धयोपेताः सर्वथा योगिनोऽधिकाः ॥ ६.१४४॥ क्लेशेनैव तु मत्प्राप्तिरव्यक्ताक्षरसेवनात् । सूक्ष्मस्थूलगतिर्दुःखं तत्त्वज्ञैरप्यवाप्यते ॥ ६.१४५॥ मद्भक्तास्त्वचिरादेव प्राप्नुवन्ति परं पदम् । अतस्त्वं मन्मना नित्यमनन्यनिरतो भव ॥ ६.१४६॥ वशे यदि न ते चित्तमभ्यासेन गृहाण तत् । तत्राप्यशक्तो मत्कर्मा सततं श्रेयसे भव ॥ ६.१४७॥ अथवा फलसन्न्यासं कर्मणां कुरु मत्परः । ज्ञानं हि परमाभ्यासाज्ज्ञानाद्‍ध्यानमिहोत्तमम् ॥ ६.१४८॥ ध्यानाच्च फलसन्न्यासस्ततः शान्तिर्विशिष्यते । अद्वेष्टा करुणासिन्धुः सुखदुःखसमः शमी ॥ ६.१४९॥ उदासीनः शुचिर्दक्षः क्षमी भक्तः प्रियो मम । इति श्रीमद्भगवद्गीतासु द्वादशोऽध्यायः ॥ १२॥

१३

शरीरं क्षेत्रमित्याहुः क्षेत्रज्ञं मां विदुर्बुधाः । क्षेत्रं तत्सविकारं तु माया भूतादि च स्थितम् ॥ ६.१५०॥ शान्तानां दृष्टदोषाणां ज्ञानिनां न विमोहनम् । मानदम्भमदक्रोधत्यागो गुरुनिषेवणम् ॥ ६.१५१॥ असक्तिर्नश्वरे नित्यं ज्ञानमज्ञानमन्यथा । ज्ञेयं तु मन्मयं ब्रह्म शुद्धं सदसतोः परम् ॥ ६.१५२॥ सर्वतः पाणिवदनं सर्वाकारमनामयम् । प्रकृतिः पुरुषश्चेति क्षेत्रक्षेत्रज्ञसङ्गमः ॥ ६.१५३॥ प्रकृतिः करणे हेतुर्भोक्ता तु पुरुषः स्मृतः । एकस्थानं पृथग्भावं भूतानां योऽनुपश्यति ॥ ६.१५४॥ तत्सङ्गमाच्च विस्तारं स याति ब्रह्म शाश्वतम् । परमात्मा गुणातीतो नित्यत्वादयमव्ययः । भौतिकेऽपि स्थितः काये सर्वव्यापी न लिप्यते ॥ ६.१५५॥ इति श्रीमद्भगवद्गीतासु त्रयोदशोऽध्यायः ॥ १३॥

१४

सर्वज्ञानमिदं भूयः श्रूयतां सुरसेवितम् । यद्योगो ब्रह्मगर्भेऽस्मिन्सम्भवन्मूर्तिसम्भवः ॥ ६.१५६॥ सत्त्वादयस्तदुद्भूता विभान्त्येते गुणास्त्रयः । वैचित्र्यादनिशं येषां संसरन्ति शरीरिणः ॥ ६.१५७॥ सत्त्वं प्रकाशकं ज्ञेयं यदुत्थैः स्तम्भकं रजः । तमो ह्यावरणं मोहप्रमादाद्यस्य सम्भवः ॥ ६.१५८॥ सततं सङ्करेणैषां न्यूनाधिक्यविभेदतः । गुणदोषाश्च दृश्यन्ते ते ते किल शरीरिणाम् ॥ ६.१५९॥ मद्भक्ताः शान्तमनसो जीवन्मुक्तिदशां श्रिताः । गुणैरेतैः परित्यक्ता भजन्ते सुखमक्षयम् ॥ ६.१६०॥ इति श्रीमद्भगवद्गीतासु चतुर्दशोऽध्यायः ॥ १४॥

१५

ऊर्ध्वमूलं भवाश्वत्थमाब्रह्मसदनोदितम् । लोकान्तरानेकशाखं विचित्रविषयाङ्कुरम् ॥ ६.१६१॥ गुणकर्मप्रबुद्धानां शुभाशुभफलोदयम् । स्वभावभूमाववृतं जानीते यः स वेदवित् । ६.१६२॥ तमसङ्गकुठारेण च्छित्त्वा यान्ति पदं मम । निरस्तमोहं वैमल्यादतिसूर्येन्दुपावकम् ॥ ६.१६३॥ यदंशो जीवलोकेऽस्मिञ्जीवश्चरति सर्वगः । वायुर्गन्धमिवादाय यो यातीन्द्रियवासनाः ॥ ६.१६४॥ तद्विधं गुणयुक्तानां सर्वावस्थासु निर्गुणम् । पश्यन्ति ज्ञानिनः सर्वजगतां जीवनं परम् ॥ ६.१६५॥ भूतसर्गामिवागत्य अक्षरोऽहं सनातनः । मन्मया धृतिमन्तो मां भजन्ते पुरुषोत्तमम् ॥ ६.१६६॥ इति श्रीमद्भगवद्गीतासु पञ्चदशोऽध्यायः ॥ १५॥

१६

अभीः सत्त्वं शुचिर्ज्ञानं दमो दानं तपः क्रतुः । अहिंसाया गुणाश्चान्ये जायन्ते दिव्यसम्पदाम् ॥ ६.१६७॥ दम्भमानमदक्रोधपारुष्याज्ञानचापलैः । आसुरी सूच्यते सम्पन्मोहसोकविवर्धिनी ॥ ६.१६८॥ युक्तोऽपि सततं दिव्यसम्पदा मा शुचः सखे । आसुरं भावमापन्ना भजन्ते योनिमासुरीम् ॥ ६.१६९॥ सत्त्वादिभिर्गुणैर्बद्धो ज्ञायते चेष्टितैर्जनः । मनोभोजनमाचारो गुणतुल्यो हि देहिनाम् ॥ ६.१७०॥ इति श्रीमद्भगवद्गीतासु षोडशोऽध्यायः ॥ १६॥

१७

आकर्ण्यैतदथोवाच फल्गुनः पुनरच्युतम् । सन्न्यासत्यागयोस्तत्वं ज्ञातुमिच्छाम्यहं विभो ॥ ६.१७१॥ उक्ते पाण्डुसुतेनेति भगवानभ्यभाषत । काम्यकर्मफलत्यागं सन्न्यासं सम्प्रचक्षते ॥ ६.१७२॥ सर्वकर्मफलत्यागस्त्याग इत्यभिधीयते । म(स)त्कर्म न परित्याज्यं त्याज्यं तु विधिगर्हितम् ॥ ६.१७३॥ नित्यकर्मपरित्यागो मोहात्तामस उच्यते । क्लेशदुःखभयात्त्यागो राजसो निष्फलः स्मृतः । कुर्वतामप्यसक्तानां त्यागः सत्त्वोचितो मतः ॥ ६.१७४॥ इति श्रीमद्भगवद्गीतासु सप्तदशोऽध्यायः ॥ १७॥

१८

कर्म कर्ता च बुद्धिश्च त्रिविधा गुणभेदतः । धृतिः सुखं च त्रैगुण्यात्त्रिविधं देहिनां मतम् ॥ ६.१७५॥ यथोक्तसेवी निःसङ्गः कुरु कर्म निजं सखे । मद्भक्तो मत्स्तुतिपरः परं पदमवाप्स्यसि ॥ ६.१७६॥ इदं भक्ताय ते ज्ञानमुपदिष्टं मया स्वयम् । यः श्रोष्यति स संसारदुःखान्यतितरिष्यति ॥ ६.१७७॥ कच्चिन्मोहो विनष्टस्ते कच्चिदेतच्छ्रुतं त्वया । केशवेनेति कथिते बभाषे शक्रनन्दनः ॥ ६.१७८॥ भगवन्वीतमोहोऽहं करिष्ये तव शासनम् । उक्त्वेति वीरो गाण्डीवमाचकर्ष रणोत्सुकः ॥ ६.१७९॥ इति श्रीमद्भगवद्गीतास्वष्टादशोऽध्यायः ॥ १८॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता भगवद्गीता समाप्ता ।
% Text title            : bhagavadgItA from Bharatamanjari of Kshemendra
% File name             : bhagavadgItABM.itx
% itxtitle              : bhagavadgItA (bhAratamanjaryAM kShemendravirachitA)
% engtitle              : bhagavadgItA from Bharata manjari of Kshemendra
% Category              : giitaa, kShemendra
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Kshemendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : kAvyamAlA 65. Bharatamanjari
% Indexextra            : (Scan)
% Latest update         : October 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org