दत्तात्रेयकल्पान्तर्गता श्रीदत्तात्रेयगीता

दत्तात्रेयकल्पान्तर्गता श्रीदत्तात्रेयगीता

श्रीगणेशाय नमः । अस्य श्रीदत्तात्रेयगीतामालामन्त्रस्य । गायत्र्यादीनि छन्दांसि । श्रीदत्तात्रेयो परमात्मा देवता । येनेदं पूरितमिति बीजं । ज्ञानारसं समरसमिति शक्तिः । किमु रोदसि मानस सर्वसममिति कीलकम् । स्वरूपनिर्वाणं नाम योऽहमिति यजकम् । योगमोक्षयोः स्वनिष्ठपरिपाकसिद्ध्यर्थे श्रीदत्तात्रेयगीता जपे विनियोगः ॥ न्यासः - येनेदं पूरितं सर्वमित्यङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ज्ञानामृतं समरसमिति तर्जनीभ्यां नमः । शिरसे स्वाहा । स्वरूपनिर्वाणमिति मध्यमाभ्यां नमः । शिखायै वौषट् । किमुरोदसि मानससर्वसममित्यनामिकाभ्यां नमः । कवचाय हुम् । यदिकचैकनिरन्तरेति कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । तमीशमात्मानमुपैमि शाश्वतमिति करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥

१ द्वैताद्वैतनिरूपणम् १

॥ अथ ध्यानं ॥ नित्यं यस्यांघ्रियुग्मं हिमकरसदृशं पादुकाद्वन्द्वभूषं बिभ्रद्योगीन्द्रदोहत्सुखनिचयसुधानिर्झरं सुच्छविद्युत् । द्यूते क्रीडाविलासादभयवरकरः प्राणमूले च दृष्टि- स्तत्त्वाद्देवावधूते त्यथ सिरसि जटासूत्रकं यो बभार ॥ १॥ श्रीमत्सिद्धकिरीटरत्नकिरणाच्छन्नांघ्रियुग्मान्तरं भक्त्यासक्तमयैकसिन्धुलहरीसिक्तार्कचिन्तानलम् । तत्त्वासिं विशिखाग्रमुष्टिवसतिं श्रीदेवदत्तं प्रभुं यातः सोऽहमनन्यभावशरणं त्वं त्राहि मां माधवम् ॥ २॥ दत्तात्रेयमिदं शुद्धं ब्रह्मनिर्वाणनिष्ठितम् । अवधूतमहं नौमि विज्ञानानन्दविग्रहम् ॥ ३॥ पठिता प्रत्यहं गीता त्रिवारं येन धीमता । त्रिमासैर्लभते सिद्धिं निष्कामं च सकामतः ॥ ४॥ यस्य बाधादिदं सर्वं ज्ञानविज्ञानगोचरम् । तस्मै सदैकरूपाय दत्तात्रेयाय ते नमः ॥ ५॥ दत्तात्रेयं शिवं पूर्णं भावाभावविवर्जितम् । अद्वैतं परमं गुह्मं निर्विकल्पं निरञ्जनम् ॥ ६॥ कथं वदामि निर्भावं भेदाभेदविवर्जितम् । अमोघं चामलं पूर्णं प्रसिद्धं तत्त्वमव्ययं ॥ ७॥ ईश्वरानुग्रहादेव पुंसामद्वैतवासना । महाभयपरित्राणं द्वित्राणमिहजायते ॥ ८॥ यदेकं निर्गुणं नित्यं निराभासं निरञ्जनम् । चिदानन्दस्वरूपं च दत्तात्रेयं चिदक्रियम् ॥ ९॥ गोरक्षक उवाच - त्रिगुणं शरीरं भवतीह सारमजनं समूहे चरतीह नग्नम् । मुनिवरनमितं भवगुणरहितं परमविबुधं भोऽसावलं हि ॥ १०॥ भावाभावं भवति स भावो भावं शयति मननं हि ततू । प्रलयति तन्मननयनवशात्स्मृतवचनं श‍ृणु भो अवधूता ॥ ११॥ श्रीदत्तात्रेय उवाच - येनेदं पूरितं सर्वं आत्मन्येवात्मनात्मनि । निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ॥ १२॥ पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् । कस्यास्ति ह नमस्कारो अहमेको निरन्तरम् ॥ १३॥ वेदान्तसारसर्वज्ञं ज्ञानविज्ञानमेव च । अहं चात्मा निराकारः स्वस्वं वेद्मिस्वभावजन् ॥ १४॥ आत्मैव केवलं सर्वं भेदाभेदो न विद्यते । अस्ति नास्ति कथं ब्रूयाद्विस्मयः प्रतिभाति मे ॥ १५॥ एवं सर्वात्मकं नित्यं निष्कम्पं गगनोपमम् । स्वभावं निर्मलं शुद्धं स एवाहं न संशयः ॥ १६॥ अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः । सुखं दुःखं विजानामि कथं कस्यापि वर्तते ॥ १७॥ (न जानामि) न मानसं कर्म शुभाशुभं मे न वाचिकं कर्म शुभाशुभं मे । न कामजं कर्म शुभाशुभं मे ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ॥ १८॥ मनो वै गगनाकारं मनो वै सर्वतोमुखम् । मनो वै परमात्मैव न मनः परमार्थतः ॥ १९॥ लीयन्ते वा न लिप्यन्ते कथं कस्यापि वर्तते । नहि सर्वमसर्वं च चात्मैव केवलं यतः ॥ २०॥ मनः सर्वे प्रलीयन्ते मनस्तत्र प्रलीयते । एवं सर्वं मनः सर्वमात्मैव केवलं यतः ॥ २१॥ अहमकमिदं सर्वं व्योमाकारं निरन्तरम् । पश्यामि कथमात्मानं प्रत्यक्षं च तिरोहितम् ॥ २२॥ त्वमेव तत्त्वान्हि कथं विवुध्यसे सर्वं हि सर्वेषु विनष्टमव्ययम् । सदोदसि त्वं त्वमखण्डितं विभो दिवा च नक्तं च कथं हि मन्यते ॥ २३॥ आत्मानं सततं वित्धि सर्वमेकं निरन्तरम् । अहं ध्यात्वा परं ध्येयमखण्डं खण्डसे कथम् ॥ २४॥ न जातोऽसि मृतोऽसि त्वं न ते देहः कदाचन । सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधाश्रितः ॥ २५॥ सबाह्याभ्यन्तरेऽसि त्वं शिवः सर्वत्र सर्वदा । इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् ॥ २६॥ संयोगाश्च वियोगाश्च वर्तन्ते नहि तन्न मे । नाहं नत्वं जगन्नेति सर्वमात्मैव केवलम् ॥ २७॥ शब्दादिपञ्चकस्यास्य नैवासि त्वं हते पुनः । त्वमेव परमं तत्त्वम्मनः किं परितप्यसे ॥ २८॥ न च मृत्युर्न ते चित्तं बन्धं मोक्षं शुभाशुभम् । कथं रोदिसि रे चित्त नामरूपे न ते न मे ॥ २९॥ अहो चित्तक विभ्रान्तः प्रधावसि पिशाचवत् । अभिन्नं यस्य चात्मानं रागत्यागात्सुखी भव ॥ ३०॥ त्वमेव मोक्षो हि विकारवर्जितो निष्कम्पमेकं हि विमोक्षविग्रहः । न वीतरागो गतवीतरागो कथं हि सन्तप्ताकामकामी ॥ ३१॥ नाहं कर्ता न भोक्ता च न चे कर्म कदाचन । विशुद्धं निर्गुणं ब्रह्म बद्धमुक्तिः कथं मम ॥ ३२॥ बध्नन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् । अशरीरं समं तत्त्वं तन्मां सिद्धिर्नसंशयः ॥ ३३॥ साकारममृतं विद्धि निराकारं निरन्तरम् । एतत्तत्त्वोपदेशेन न पुनर्गर्भसम्भवः ॥ ३४॥ एकानेकसमं तत्त्वं वदन्ति ह विपश्वितः । रागत्यागेन मनसि ह्येकानेको न विद्यते ॥ ३५॥ अनित्यरूपस्य कुतो हि बन्धनं नित्यस्य रूपस्य कुतो हि बन्धनन् । नानित्यरूपं न च नित्यरूपं शिवस्वरूपं सहजामलं च ॥ ३६॥ अनाहरूपं हि कथं समाधि- मोक्षस्वरूपं यदि सर्वमेकम् । आत्मस्वरूपं हि कथं समाधि- रस्तीति नास्तीति कथं समाधिः ॥ ३७॥ विशुद्धोऽसि समं तत्त्वं विदेहिस्त्वमजोऽव्ययः । जानामि हि न जानामि चात्मानं मन्यसे कथम् ॥ ३८॥ यस्त्वं जानासि तत्त्वेन यस्त्वं पश्यसि तत्कथम् । यस्त्वं मन्यसि तत्त्वेन सर्वं ब्रह्मेति सर्वदा ॥ ३९॥ तत्त्वमस्यादिवाक्येन आत्मा हि प्रतिपादितः । नेति नेति श्रुतिर्ब्रूयान्नानृतं पाञ्चभौतिकम् ॥ ४०॥ (श्रुतिर्ब्रूयान्नानृत्यं) आत्मनैवात्मना सर्वं त्वया पूर्णं निरन्तरम् । ध्याता ध्यानं न ते चित्तं निर्लक्ष्यं ध्यायसे कथम् ॥ ४१॥ शिवं न जानामि कथं वदामि शिवं च जानामि कथं वदामि । सर्वं शिवं वै परमार्थतत्त्वं स्वच्छस्वभावद्गगनोपमोऽहम् ॥ ४२॥ आत्मस्वरूपी न च चोपकल्पना आत्मस्वभावेन मदन्यभावना । स्वयं शिवत्वं परमं विशुद्धं नाहं न मे चैव परात्परं च ॥ ४३॥ न त्वं नाहं समं तत्त्वं कलानां हेतुवर्जितम् । ग्राह्यग्राहकनिर्मुक्तं स्वयं वेद्यं कथं भवेत् ॥ ४४॥ अतत्त्वरूपं नहि वस्तु किञ्चि- त्तत्त्वं स्वरूषं नहि वस्तु किञ्चित् । आत्मैकरूपं परमार्थतत्त्वं न हिंसको वाऽपि न चापि हिंसा ॥ ४५॥ विशुद्धोऽहं समं तत्त्वं विदेहं विश्वतोमुखम् । विभ्रमे कथमात्मानं विभ्रान्तोऽहं कथं पुनः ॥ ४६॥ घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् । शिवेन मनसा तद्वन्नभिन्नं प्रति मे शिवम् ॥ ४७॥ न घटेन घटाकाशः न जीवो जीवविग्रहः । केवलं ब्रह्म संवेत्ति वेद्यवेदविवर्जितम् ॥ ४८॥ सर्वत्र सर्वदा वर्जं सर्वमात्मानजं ध्रुवम् । सर्वशून्यमशून्यं च तन्मां विद्धि न संशयः ॥ ४९॥ न देवलोकास्त्वसुरा न यक्षा वर्णाश्रमो नैव कुलं न जातिः । न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम् ॥ ५०॥ व्याप्यव्यापकनिर्मुक्तं तत्त्वमेकं च केवलम् । प्रत्यक्षं वा परोक्षं वा चात्मानं मन्यसे कथम् ॥ ५१॥ अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे । समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम् ॥ ५२॥ श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् । कथयामि कथं तत्त्वं मनोवाचामगोचरम् ॥ ५३॥ यदा हि मन्यसे सर्वं देहादिगगनोपमम् । तदहं ब्रह्म संविद्धि तत्त्वं वेत्ति परात्परम् ॥ ५४॥ परेण सर्वमात्मानं न भिन्नं प्रतिभाति मे । ब्रह्मैव केवलं सर्वं ध्याता धानं च कथ्यते ॥ ५५॥ यत्करोषि यदश्नासि यच्छृणोषि ददासि यत् । एतत्सर्वं न ते किञ्चिच्छुद्धोऽहमजमव्ययम् ॥ ५६॥ सर्वं जनद्विद्धि निराकृतिं तं सर्वं जगद्विद्धि विकारहीनम् । सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम् ॥ ५७॥ तत्त्वं तत्त्वसमं देहं किं तु जानामि वा पुनः । असंवेद्ये स्वसंवेद्यमात्मानं मन्यसे कथम् ॥ ५८॥ अष्टाङ्गयोगेन तु नैव बुद्धं गुरूपदेशेन तु नैव बुध्यम् । मनोविलासेन तु नैव बोद्धुं स्वयं स्वबोधेन विशुद्धरूपम् ॥ ५९॥ नहि भूतात्मको देहो विदेहो वर्तते नहि । आत्मैव केवलं सर्वं न तु कुर्यात्कथञ्चन ॥ ६०॥ माया माया कथं तात छाया छाया न विद्यते । तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् ॥ ६१॥ आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावानिर्मलं शुद्धमिति मे निश्च्वयो मनः ॥ ६२॥ महदादिजगत्सर्वं न किञ्चित्प्रतिभाति मे । ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमो भवेत् ॥ ६३॥ जानामि सर्वथा सर्वमहमेको निरन्तरम् । निरालम्बमशून्यं च न तु व्योमादिपञ्चकम् ॥ ६४॥ न पुमान्नपुंसको न स्त्री न बद्धो नैव कल्पना । स्वानन्दं च निरानन्दमात्मानं मन्यसे कथम् ॥ ६५॥ न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक् । न भर्ता न च भोक्ता च व्याप्यव्यापकवर्जितम् ॥ ६६॥ यथा जले जलं न्यस्तं स्वस्मिन् सम्भेदवर्जितम् । प्रकृतिं पुरुषं तद्वन्नभिन्नं प्रतिभाति मे ॥ ६७॥ जानासि ते परं रूपं प्रत्यक्षं गगनोपमम् । न चापरं हि रूपं हि मरीचिजलसन्निभम् ॥ ६८॥ न गुरुर्नोपदेशश्च न चोपाधिर्नच क्रिया। विदेहीं मां विजानीहि विशुद्धोऽहं स्वभावतः ॥ ६९॥ यदि यो वै न मुक्तोऽहं न बद्धोऽहं कदाचन । साकारं वा निराकारमात्मानं मन्यसे कथम् ॥ ७०॥ विशुद्ध ईश्वरोऽसि त्वं न ते चित्तं परात्परम् । अहमात्मा परं तत्त्वमिदं वक्तुं न शक्यते ॥ ७१॥ कथं रोदिसि रे चित्त आत्मन्येवात्मना भव । पिबन् सकलतीर्थात्मा अद्वैतं परमामृतम् ॥ ७२॥ न वै बोधो न चाबोधो न बोधो बोध एव च । यस्य निर्वासनाबोधो स बोधो नान्यथा भवेत् ॥ ७३॥ न ध्यानतर्कौ न समाधियोगो न देशकालौ न गुरुपदेशः । स्वभावसंवित्तिपरं च तत्त्व- माकाशकल्पं सहजं ध्रुवं च ॥ ७४॥ न जातोऽसि मृतोऽसि त्वं न ते कर्म शुभाशुभम् । शुद्धोऽहं निर्गुणं नित्यं बन्धमुक्तिः कथं मम ॥ ७५॥ यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरम् । अन्तरं नैव पश्यामि सबाह्याभ्यन्तरं कथम् ॥ ७६॥ स्फुरत्वेवं जगत्सर्वमखण्डितनिरन्तरम् । अन्तरं नैव पश्यामि सबाह्याभ्यन्तरं कथम् ॥ ७७॥ अहो मायामये देहे द्वैताद्वैतविकल्पना । निराकारोऽपि साकारो नेति नेतीति सर्वथा ॥ ७८॥ भेदाभेदविनिर्मुक्तं वर्तते केवलं शिवम् । न ते च माता भगिनी पिता च न ते च पत्नी न सुहृन्न पुत्रः ॥ ७९॥ न पक्षपाती न च पक्षपाती किं तप्यसे तत्परकामकामी । दिवानक्तं न ते चित्ते उदयास्तमयं न ते ॥ ८०॥ चिद्देहमशरीरत्वात्कल्पयन्ति कथं बुधाः । नहि भुक्तं विभक्तं च नहि दुःखसुखानि च ॥ ८१॥ नहि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ॥ नाहं कर्ता च भोक्ता च न मे कर्म पुराऽधुना । न मे देहो विदेहो वा निर्ममेति ममेति किम् ॥ ८२॥ न मे रागादिको दोषो दुःखं चैवादिकं नहि । आत्मनं विद्धि मामेवं विशालं गगनोपमम् ॥ ८३॥ सखे मनः किं बहुजल्पितेन सखे पुनः सर्वमिदं वितथ्यम् । संसारभूतं मम नैव सर्वं भवेत्स्वरूपं गगनोपमं च ॥ ८४॥ येनकेन च भावेन यत्र यत्र मृतः पुनः । योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे ॥ ८५॥ तीर्थेवापि त्यजेद्देहं नष्टस्मृतिः परित्यजेत । ज्ञाने समयकल्पे च कैवल्यविहितासुता ॥ ८६॥ तस्य ज्ञानं न चैवास्ति यस्य स्वर्गादिकल्प्यते । यत्पदं प्रापितं देवैः स योगी नात्र संशयः ॥ ८७॥ धर्मार्थकाममोक्षादिविपदादिचराचरम् । मन्यन्ते योगिनः सर्वे मरीचिजलसन्निभम् ॥ ८८॥ अतीतानागतं कर्म वर्तमानं तथैव च । न करोमि न भुञ्जामि इति मे निश्चला मतिः ॥ ८९॥ कदापि चित्तदोषेण कल्पितं स्वर्गमण्डलम् । तेन स्वर्गपदं भोक्ता आत्मज्ञानपरायणम् ॥ ९०॥ गोरक्षक उवाच - शून्यागारे समरसयुक्तो नित्यं तिष्ठति सुखमवधूतः । विचरति नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम् ॥ ९१॥ तृतीयं तुर्यं नहि नहि यत्र विन्दति केवलमात्मनि तत्र । धर्माधर्मौ नहि नहि यत्र बन्धविमुक्तो कथमिह तत्र ॥ ९२॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ ९३॥ सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते । स्वभावभावितं ब्रूयाच्छात्रेष्वेवेतिपूर्वकम् ॥ ९४॥ ॐ तत्सदिति दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां निर्वाणयोगे श्रीदत्तगोरक्षकंसवादे सावित्र्युपदेशे द्वैताद्वैतनिरूपणं नाम प्रथमोऽध्यायः ॥ १॥

२ द्वैताद्वैतनिरूपणम् २

सगुणगुणविभागं वर्तते नैव किञ्चि- त्समरसमविभागं सर्वथा नैव किञ्चित् । इति विरतिविहीतं निर्मलं निष्प्रपञ्चं कथमिह खलु वन्दे व्योमरूपं शिवं वै ॥ १॥ श्वेतादिवर्णरहितास्तव यं शिवश्च कार्यं च कारणमिदं हि वयं शिवश्च । एवं विकल्परहितास्तव यं च ह्यात्मा आत्मानमात्मनि च मित्र कथं वदामि ॥ २॥ निर्मूल मूलरहितो हि सदोदितोऽहं निर्धूमधूमरहितो हि सदोदितोऽहं । सन्दीप्त्यदीप्तिरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३॥ निष्कारकाममिह नाम कथं वदामि निःसङ्गसङ्गमिह नाम कथं वदामि । अव्यक्तव्यक्तमिह नाम कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४॥ अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि । अनित्यनित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ५॥ स्थूलं हि नो न च कृशं न गतागतं हि चाद्यं च मध्यरहितो न परापरं हि । सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ६॥ संवित्धि सर्वकरणानि नभो नभांसि संवित्धि सर्वविषयश्च नभोनभश्च । संवित्धि चैकममलं नहि बन्धमुक्तिः ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ७॥ दुर्बोधबोधगहनो न भवामि तात दुर्लक्ष्यलक्ष्यगहनो न भवामि तात । आसन्नदुर्गगहनो न भवामि तात ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ८॥ निष्कर्मकर्मगहनोज्ज्वलनो भवामि निर्दुःखदुःखदहनोज्ज्वलनो भवामि । निर्देहदेहदहनोज्ज्वलनो भावामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ९॥ निष्पापपापदहने हि हुताशनोऽहं निर्धर्मधर्मदहने हि हुताशनोऽहम् । निर्बन्धबन्धदहने हि हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १०॥ निःशून्यशून्यगगने हि हुताशनोऽह- मात्मस्वरूपगगने हि हुताशनोऽहम् । एवं हुताशनगुणस्य हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ११॥ निर्भावभावरहितो न भवामि वत्स निश्चित्तचित्तरहितो न भवामि वत्स । निर्योगयोगरहितो न भवामि वत्स ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १२॥ निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः । निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १३॥ संसारसन्ततिलता न च मे कदाचि- त्तापस्य शान्तिमसुखं न च मे कदाचित् । अज्ञानबन्धनमिदं न च मे कदाचि- ज्ञ्ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १४॥ संसारसंसृतिरजो न च मे विकारः संसारसन्ततितमो न च मे विकारः । सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १५॥ संसारदुःखजनकं न च मे कदाचि- त्सन्तापमोहजनिता न च मे कदाचित् । यस्मादहङ्कृतिपरं न च मे कदाचि- ज्ञ्ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १६॥ निष्कम्पकम्पनिधनं सविकल्पकल्पं स्वप्नप्रबोधनिधनं न दिवं न नक्तम् । निःसारसारनिधनं न चराचरं हि ज्ञानामृतं समरसं गगनोपमोऽहम्॥ १७॥ नो वेद्यवेदकमिदं न च हेतुकर्ता वाचामगोचरमिदं न मनो न बुद्धिः । एवं कथं हि भवतां कथयामि तत्त्वम् ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १८॥ निर्भिन्नभिन्नरहितं परमैकतत्त्व- मन्तादिमध्यरहितं परमैकतत्त्वम् । एवं कथं हि उचितं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १९॥ यद्वा समग्रसहजं स्वयमेव सर्व- मन्तर्बहिः किल कथं परमार्थतत्त्वम् । यस्मादहो परतरं नहि वस्तु किञ्चि- ज्ञ्ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २०॥ रागादिदोषरहितं त्वहमेव तत्त्वं संसारशोकरहितं त्वहमेव तत्त्वम् । देहादिदुःखरहितं त्वहमेव तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २१॥ स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयादि न च नेति कथं दिशश्च । शान्तं परं यदि ध्रुवं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २२॥ दिर्घो लघुः पुनरतीह मनोविभागः कोणं च वर्तुलमितीह मनोविभागम् । विस्तारसङ्घटमितीह मनोविभागो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २३॥ माता पिता च तनयादि न मे कदाचि- द्गर्भं च मृत्युमनसो न च मे कदाचित् । निर्व्याकुलस्थिरपरं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २४॥ निःशुद्धसर्वमविचारमनन्तरूपं निर्लेपलेपनविचारमतर्करूपम् । निर्नादनादमविचारमगाधरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २५॥ उच्चारमात्रमपि ते नहि नाममात्रं निर्भिन्नभिन्नमभि ते नहि रूपमात्रम् । निर्लज्ज मानस करोषि कथं विलापं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २६॥ ब्रह्मादयः सुरगणाः कथमत्र सन्ति स्वर्गादयो वसतयः कथमत्र सन्ति । यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २७॥ निष्कर्मकर्मसततं तु कथं करोमि निःसङ्गसङ्गरहितं परमं विनोदम् । निःसत्यसत्यरहितं सततं बलोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २८॥ मायाप्रपञ्चरचना न च मे विकाराः कौटिल्यदम्भवचना न च मे विकारः । सत्याद्यसत्यरचना न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २९॥ वितर्कतर्कमिह तात न मे विभाति वितर्कतर्क्यमिह तात न मे विभाति । शून्यस्य शून्यमिह तात न मे विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३०॥ आलम्बहीनमखिलं च निरामयं च विज्ञानरूपमखिलं दमनादिहीनम् । संसिद्धिशान्तिमचलं ननु पूर्णपूर्णं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३१॥ सत्यं वदामि विरजावचनैकजातं सत्यं वदामि सरजावचनैकजातम् । सत्यं कथं हि सततं च सितासितौ नो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३२॥ सन्ध्यादिकालरहितं न वियोगयोगं ज्ञानं प्रबोधरहितं न बधीरमूकम् । एवं विकल्परहितं निजभावशुद्धं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३३॥ धर्मादिकं तव पदं हि कथं वदामि संवित्यसंशयपदं हि कथं वदामि । एवं निरञ्जनसमं हि निरन्तरं हि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३४॥ निर्नाथनाथविगतं हि निराकुलं वै निश्चित्तचित्तविगतं हि निराकुलं वै । निर्भावभावरहितं हि निराकुलं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३५॥ किं काननं ग्रहमिदं हि कथं वदन्ति संविद्धि संशयममू हि कथं वदन्ति । एवं निरन्तरसमं हि निरञ्जनं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३६॥ निर्जीवजीवरहितं सततं विभाति सज्जीवजीवरहितं सततं विभाति । निर्बीजबीजरहितं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३७॥ सम्भूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति । संसारवर्जितमिदं सततं विभाति (duplicate) ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३८॥ किन्नामरोदसि सखे न शुभाशुभानि किन्नाम रोदसि सखे न च जन्ममृत्युः । किन्नाम रोदसि सखे न च ते विशोको ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३९॥ किन्नाम रोदसि सखे न च ते नयांसि किन्नाम रोदसि सखे न च तेन्द्रियाणि । किन्नाम रोदसि सखे न च ते मनस्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४०॥ किन्नाम रोदसि सखे न च तेऽस्ति कामः किन्नाम रोदसि सखे न च ते प्रकोपः । किन्नाम रोदसि सखे न च तेऽस्ति मोहो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४१॥ ऐश्वर्यमिच्छसि कथं न च ते धनानि ऐश्वर्यमिच्छसि कथं न च ते प्रयत्नः । ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४२॥ देहत्रयं न तु च मित्र न ते न मे च निर्भेदभेदमिह मित्र न ते न मे च । निर्मज्य मानस विनश्य कथं विभिन्नः ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४३॥ नोचाणुमात्रमपि ते हि विरागरूपं नोचाणुमात्रमपि ते हि सरागरूपम् । नोचाणुमात्रमपि ते हि विरागरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४४॥ ध्याता न तेषु हृदये च न ते समाधि- र्ध्येयं न तेषु हृदये च न ते हि देशः । ध्यानं न तेषु हृदये च न तेऽस्ति लोको ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४५॥ कान्तारध्वान्तवदिमं हि कथं वन्दति सञ्चिन्त्य संशयमिदं हि कथं वदन्ति । एकं निरन्तरसमं हि निरञ्जनं हि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४६॥ यत्सारभूतममलं कथितं मया ते तत्त्वं हि नाहमिह भावगुरुर्नशिष्यः । स्वच्छः स्वरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४७॥ कथमिह परमार्थतत्त्वमानन्दरूपं कथमिह परमार्थतत्त्वमक्षस्वरूपम् । कथमिह परमार्थतत्त्वविज्ञानरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४८॥ दहनपवनहीनं विद्धि विज्ञानमेकं धरणिजलविहीनं ज्ञानविज्ञानमेकम् । सकलगगनहीनं विद्धि विज्ञानमेकं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४९॥ निश्चिन्तरूपं न विशून्यरूपं न शुद्धरूपं न विशुद्धरूपम् । रूपं विरूपं न भवामि किञ्चि- त्स्वच्छैकरूपं परमार्थतत्त्वम् ॥ ५०॥ मुञ्च मुञ्चनिसन्नानि त्यागं मुञ्च शिवं वद । त्यागात्यागविषं मुञ्च अमृतत्त्वं विषायते ॥ ५१॥ दृश्यादृश्यपरं दृश्यमृतामृतपरं श‍ृणु । शब्दाशब्दपरं वेद वेदावेदपरं सदा ॥ ५२॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपुंसः प्रभवति तत्त्वं परमवधूतः ॥ ५३॥ ॐ तत्सदिति श्रीमद्दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे द्वैताद्वैतनिरूपणं नाम द्वितीयोऽध्यायः ॥ २॥

३ निर्वाणयोग

श्रीदत्त उवाच - आवाहनं नैव विसर्जनं च पुष्पाणि पत्राणि कथं भवन्ति । ज्ञानानि दानानि कथं भवन्ति समासमं चैव शिवार्चनं च ॥ १॥ न केवलं बन्धविबन्धमुक्तो न केवलं शुद्धविशुद्धमुक्तः । न केवलं योगवियोगमुक्तो सर्वैर्विमुक्तो गगनोपमोऽहम् ॥ २॥ सञ्जायते सर्वमिदं वितथ्यं न जायते सर्वमिदं वितथ्यम् । एवं विकल्पो मम नैव जातः संविद्धि निर्वाणमनोमयोऽहम् ॥ ३॥ न चाननं वापि निरञ्जनं वा न चान्तरं वापि निरञ्जनं वा । अन्तर्बहिर्भिन्नमिदं वितथ्यं स्वरूपनिर्वाणमनोमयोऽहम् ॥ ४॥ अबोधरूपं मम नैव जातं बोधस्वरूपं मम नैव जातम् । अबोधबोधं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ५॥ न धर्मयुक्तो न च पापयुक्तो न बद्धमुक्तो न च मोक्षयुक्तः । युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाणमनोमयोऽहम् ॥ ६॥ परस्परं वा न च मे कदाचित् मध्यस्थभावो हि न चारिमित्रः । हिताहितं चापि कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ७॥ नौपासको नैवमुपास्यरूपं न चौपदेशो न च मे क्रिया च । सिद्धिप्रसिद्धिं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ८॥ न व्यापकं व्याप्यमिहास्ति किञ्चिन्नवाऽलयं वापि निरालयं वा । अशून्यशून्यं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ९॥ न ग्राह्यकं ग्राहकमेव किञ्चिन्न कारणं वा मम नैव कार्यम् । अचिन्त्यचिन्त्यं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १०॥ न केवलं वा मम नैव भेद्यं न केवलं वा मम नैव भेदः । अनागतं मित्र कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ११॥ न चास्ति देहो न च मे विदेहो न बुद्धिर्मनो मे नहि चेन्द्रियाणि । रागो विरागश्च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १२॥ उल्लेखमात्रं नहि नम्रमुच्चैरुल्लेखमात्रं न तिरोहितं च । समासमं मित्र कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १३॥ जितेन्द्रियोऽहं त्वजितेन्द्रियो वा न संयमो मे नियमो हि जातः । जयोऽजयो वाऽपि कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १४॥ अमूर्तिमूर्तिर्न च मे कदाचिदाद्यन्तमध्यो न च मे कदाचित् । चलाचलं चित्त कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १५॥ मृतामृतं चापि न मे विषं च सञ्जायते तात न कदाचित् । अशुद्धशुद्धं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १६॥ स्वप्नप्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे कदाचित् । अतूर्यतूर्यं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १७॥ संविद्धि मां सर्वविसर्गमुक्तं ध्यानादिकं कर्म कथं करोमि । मायाविमाया च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १८॥ संविद्धि मां ध्यानसमाधियुक्तं संविद्धि मां लक्षसलक्षयुक्तम् । योगंवियोगं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १९॥ मूर्खोऽपि नाहं न च पण्डितोऽहं समौ न वार्ता न च मे कदाचित् । स्त्रेहं विमोऽहं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ २०॥ पिता न माता न कुलं न जातिः संसारभूतिर्न च मे कदाचित् । स्नेहं विमोऽहं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ २१॥ अस्तोदये नैव सदोदितोऽहं दिवा च नक्तं न च मे कथञ्चित् । तेजोवितेजश्च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ २२॥ असंशयं विद्धि निरन्तरं मामसंशयं विद्धि निरञ्जनं माम् । असंशयं विद्धि निराकुलं मां स्वरूपनिर्वाणमनोमयोऽहम् ॥ २३॥ धर्माणि सर्वाणि परित्यजन्ति शुभाशुभं कर्म परित्यजन्ति । ज्ञानामृतं चारु पिबन्ति धीराः स्वरूपनिर्वाणमनोमयोऽहम् ॥ २४॥ गोरक्ष उवाच - विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ २५॥ इति श्रीदत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे निर्वाणयोगो नाम तृतीयोऽध्यायः ॥ ३॥

४ समवृद्धिदृष्टिस्वात्मसंवित्युपदेशः

ॐकार इति खलु गगनसमो न परापरसा रविसार इति । अविशालविशालनिराकरणं कथमक्षरबिन्दुसमुच्चरणम् ॥ १॥ इह ``तत्त्वमसि'' प्रभृतिभिः श्रुतिभिः प्रतिपादितमात्मनि तत्त्वमसि । त्वमुपाधिविवर्जितसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ २॥ अधऊर्ध्वविवर्जितसर्वसमं ककुभादिविवर्जितसर्वसमम् । यदि चैकनिरन्तरसर्वसमं किमुरोदसि मानस सर्वसमम् ॥ ३॥ नहि कल्पितभावविभावरतिर्नहि रागविरागविचाररतिः । यदिसर्वविर्जितसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ ४॥ नहि बोधविबोधिसमाधिरिति नहि कालविकालसमाधिरिति । नहि देशविदेशसमाधिरिति किमु रोदसि मानस सर्वसमम् ॥ ५॥ नहि कुम्भनभो नहिकुम्भमिति नहि जीव वपुर्नहि जीव इति । नहि कारणकार्यविचार इति किमु रोदसि मानस सर्वसमम् ॥ ६॥ यदिसर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति । नहि वर्तुलकोणविचारगतिः किमु रोदसि मानस सर्वसमम् ॥ ७॥ इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति । इह सर्वविसर्व विहीन इति किमु रोदसि मानस सर्वसमम् ॥ ८॥ नहि भीतिविचित्रविचार इति न निरन्तरसन्धिमनस्यमिति । अरिमित्रविवर्जितसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ ९॥ नहि शेषविशेषणरूप इति न चराचरभेदविभेद इति । इह मोक्षनिरन्तरसर्वमिति किमु रोदसि मानस सर्वसमम् ॥ १०॥ न गुणागुणपाशविबन्ध इति द्रुतजीवनजीवकरोमि कथम् । इह शुद्धनिरञ्जनसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ ११॥ इह भावविभावविहीनपरमिह कामविकामविहीनपरम् । इह बोधतमं खलु मोक्षसमं किमु रोदसि मानस सर्वसमम् ॥ १२॥ इह तत्त्वनिरन्तरसर्वसमं नहि सन्धिविसन्धिसमागमनम् । यदि सर्वविवर्जितमेव समं किमु रोदसि मानस सर्वसमम् ॥ १३॥ इह रूपविरूपविहीन इति ननु भिन्नविभिन्नविहीन इति । ननु सर्वविसर्वविहीन इति किमु रोदसि मानस सर्वसमम् ॥ १४॥ अनिकेतकुटीपरिचारसममिह सङ्गविसङ्गविहीनपरम् । इह बोधविबोधविहीन इति किमु रोदसि मानस सर्वसमम् ॥ १५॥ अविकारविकारमसत्यमिति अविलक्षविलक्षमसत्यमिति । इह केवलमात्मनि सत्यमिति किमु रोदसि मानस सर्वसमम् ॥ १६॥ इह सर्वगतः खलु जीव इति इह सर्वनिरन्तरजीव इति । इह केवलमात्मनि जीव इति किमु रोदसि मानस सर्वसमम् ॥ १७॥ अविवेकविवेकविबोध इति अविकल्पविकल्पविबोध इति । यदि चैकनिरन्तरबोध इति किमु रोदसि मानस सर्वसमम् ॥ १८॥ यदि वर्णविवर्णविहीनसमं यदि भेदविभेदविहीनसमम् । यदि कारणकार्यविहीनसमं किमु रोदसि मानस सर्वसमम् ॥ १९॥ इह सर्व हि केवलसर्वचिते इह केवलनिर्मलसर्वचिते । वियदादिविवर्जितसर्वचिते किमु रोदसि मानस सर्वसमम् ॥ २०॥ इति निर्मलनिश्चलसर्वगतमिति सर्वनिरन्तरसर्वगतम् । दिनरात्रिविवर्जितसर्वगतं किमु रोदसि मानस सर्वसमम् ॥ २१॥ न च बन्धसमाधिसमागमनं नहि योगवियोगसमागमनम् । न च तर्कवितर्कसमागमनं किमु रोदसि मानस सर्वसमम् ॥ २२॥ इह कालविकालनिराकरणमनुपीनकृशैकनिराकरणम् । नहि केवलतत्त्वनिराकरणं किमु रोदसि मानस सर्वसमम् ॥ २३॥ इह देहविदेहविहीनपरं नहिजाग्रतिभ्रान्तितृतीयपरम् । अपिधानपिधानविचारपरं किमु रोदसि मानस सर्वसमम् ॥ २४॥ गगनोपमशुद्धविशुद्धसममिह सर्वविवर्जितसर्वसमम् । गतसारविसारविकारसमं किमु रोदसि मानस सर्वसमम् ॥ २५॥ इह धर्मविधर्मविरागपरमिह वस्तुविवस्तुविहीनपरम् । इह कामविकामविरागपरं किमु रोदसि मानस सर्वसमम् ॥ २६॥ गुणदोषविवर्णितसर्वमसि सुखदुःखविवर्जिततत्त्वमसि । यदि रे गगनोपमतत्त्वमसि किमु रोदसि मानस सर्वसमम् ॥ २७॥ बहुधा श्रुतयः प्रवदन्ति यतो वियदादिगतो यदि तोयसमम् । यदिचेद्गगनोपमतत्त्वमसि किमु रोदसि मानस सर्वसमम् ॥ २८॥ यदि रूपविवर्जितसर्वमिदं यदि चैकनिरन्तरसर्वमिदम् । यदि सर्वविवर्जितसर्वमिदं किमु रोदसि मानस सर्वसमम् ॥ २९॥ इह सारसमुच्चयसर्वयति कथितो निजभावविबोधपति । यदि यत्कारणनहि सत्यमिति किमु रोदसि मानस सर्वसमम् ॥ ३०॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ ३१॥ इति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां निर्वाणयोगे श्रीदत्तगोरक्षकसंवादे समवृद्धिदृष्टिस्वात्मसंवित्युपदेशोनाम चतुर्थोऽध्यायः ॥ ४॥

५ निर्वाणमोहद्वैतनिरूपणम्

बहुधा श्रुतयः कथयन्ति यतो वियदादिमिदं मृगतोयसमम् । यदि चैकनिरन्तरसर्वशिवं ह्युपमा च कथं ह्युपमेयहीनम् ॥ १॥ अविभक्तविभक्तविहीनपरं ननु कार्य विकार्यविहीनपरम् । यदि चैकनिरन्तरसर्वशिवं यजनं कथमध्ययनादिकम् ॥ २॥ मन एव निरन्तरसर्वगतं मन एव निरन्तरहीनपरम् । मन एव निरन्तरसर्वशिवं मन एव कथं हि विचारयति ॥ ३॥ दिनरात्रिविभेदनिराकरणमुदितानुदितस्य निराकरणम् । यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम् ॥ ४॥ गतकाम्यविकाम्यविभेद इति गतवेष्टतचेष्टतभाव इति । यदि चैकनिरन्तरसर्वशिवं बहिरन्तरसन्धिविसन्धिविहीनम् ॥ ५॥ नहि यत्रहि सारविसार इति इह शून्यविशून्यविहीन इति । यदिचैकनिरन्तरसर्वगतं प्रथमं च कथं द्वितीयं च कथम् ॥ ६॥ यदिभेदकभेद्यनिराकरणं यदि वेदकवेद्यनिराकरणम् । यदि चैकनिरन्तरसर्वशिवं तृतीयचतुर्थं कथं च तुरीयम् ॥ ७॥ गदितागदितं नहि सत्यमिति विहिताविहितं नहि सत्यमिति । यदि चैकनिरन्तरसर्वशिवं विषयेन्द्रियबुद्धिमनश्च कथम् ॥ ८॥ यदि कल्पितभेदनिराकरणं यदिकल्पितवेदनिराकरणम् । यदि चैकनिरन्तरसर्वशिवं श्रुतयश्च कथं हि पुराणतमम् ॥ ९॥ गगनं पवनो नहि सत्यमिति धरणी दहनो नहि सत्यमिति । यदि चैकनिरन्तरसर्वशिवं जलदं च कथं सलिलं च कथम् ॥ १०॥ मरणामरणस्य निराकरणं करणाकरणस्य निराकरणम् । यदि चैकनिरन्तरसर्वशिवं गगनागगनं च कथं हि वद ॥ ११॥ प्रकृती पुरुषो नहि भेद इति नहि कारणस्यन विरक्तिरिति । यदि चैकनिरन्तरसर्वशिवं पुरतोपुर्तस्य कथं हि वद ॥ १२॥ तव आश्रमवर्णविहीनपरं कारणकत्तृविहीनपरम् । यदि चैकनिरन्तारसर्वशिंव गुणदोषविचारवचांसि कथम् ॥ १३॥ ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति । यदि चैकनिरन्तरसर्वशिवमिह नेति न नेति कथं च पुनः ॥ १४॥ तनुधर्मविधर्मविहीन इति ननु कार्यविकार्यविनाश इति । यदि चैकनिरन्तरसर्वशिवमविनोदविनोदरतिश्च कथम् ॥ १५॥ पुरुषोपुरुषस्य विनष्टिरिति वनितावनितस्य विनष्ठिरिति । यदि चैकनिरन्तरसर्वशिवमविनष्टि न नष्टि कथं च भवेत ॥ १६॥ यदि मोहविमोहविहीनपरं यदि संशयशोकविहीनपरम् । यदि चैकनिरन्तरसर्वशिवमिह दुःखविदुःखमनश्च कथम् ॥ १७॥ न सितासितवर्णविचार इति न परापरभेदविभाग इति । यदि चैकनिरन्तरसर्वशिवं ननु सारविसारविभिन्नपरम् ॥ १८॥ नहि याज्ञिकयज्ञविधानमिति न हुताशनवस्तुविधानमिति । यदि चैकनिरन्तरसर्वशिवं भवकर्मफलं विभवञ्च कथम् ॥ १९॥ यदि पूर्णविपूर्णविहीन इति यदि सर्वविवर्जितसर्वमिति । यदि चैकनिरतरसर्वशिवमिह तर्कवितर्कपरञ्च कथम् ॥ २०॥ उपसंहृतभेदविभेद इति उपसंहृतिबुद्धिविबुद्धि इति । यदि चैकनिरन्तरसर्वशिंव अविवेकविवेकमतिश्च कथम् ॥ २१॥ ननु शोकविशोकविमुक्त इति ननु दर्पविदर्पविमुक्त इति । यदि चैकनिरन्तरसर्वशिवं ननुविरागमनश्च कथम् ॥ २२॥ नहि मोहविमोहविकार इति नहि लोभविलोभविकार इति । यदि चैकनिरन्तरसर्वशिवमिहतेति कथं ममतेति कथम् ॥ २३॥ त्वमहं नहि यत्र कदाचिदपि कुलजातिविचारमसत्यमिति । अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ २४॥ गुरुशिष्यविचारविशीर्ण इति उपदेशविचारविशीर्णमिति । अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ २५॥ नहि कल्पितवेदविभाग इति नहि कल्पिततत्त्वविभाग इति । अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ २६॥ सरजाविरजा न कदाचिदपि ननु निर्मलनिश्चलबुद्धिरिति । अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ २७॥ विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवित तत्त्वं परमवधूतः ॥ २८॥ ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे निर्वाणमोहद्वैतनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५॥

६ महानिर्वाणनिरूपणम्

गोरक्षक उवाच - विद्धिहिकर्परमजिनं कन्था पुण्यापुण्यविवर्जितपन्था । शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥ १॥ लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः । केवलतत्त्वनिरन्तरपूतो वादविवादः कथमवधूतः ॥ २॥ आशापाशविबन्धनमुक्तः शौचाशौचविवर्जितयुक्तः । एवं सर्वविवर्जितभोगी शुद्धनिरञ्जनसततं स योगी ॥ ३॥ श्रीदत्तात्रेय उवाच - कथमिह देही देहविचारः कथमिह रागी रागविचारः । निर्मलनिश्चलगगनाकारं त्वहमिह तत्त्वं सहजाकारम् ॥ ४॥ गगनाकारनिरन्तरहंसः तत्त्वः वितत्त्वं रहितोऽहं सः । एवं कथमिह भिन्नविभिन्नं बन्धविबन्धविकारविहीनं ॥ ५॥ वयमिह तत्त्वं विन्दति यत्र रूपविरूपं कथमिह तत्र । गगनाकारं परमं यत्र विषयी करणं कथमिह तत्र ॥ ६॥ केवलतत्त्वनिरन्तरसर्वे योगात्कथमिह गर्वं सत्यम् । सत्यं संसारसारमसारमेवं कथमिह सारासारम् ॥ ७॥ केवलतत्त्वनिरन्तरबुद्धं गगनाकारनिरन्तरशुद्धम् । एवं कथमिह सङ्गविसङ्गं सत्यं कथमिह रङ्गविरङ्गम् ॥ ८॥ योगवियोगं रहितो योगी भोगविभोगो रहितो भोगी । सन्ततसर्वविवर्जितमुक्तः सन्ततसर्वविवर्जितयुक्तः ॥ ९॥ एवं कथमिह जीवितमरणं ध्यानाध्याने कथमिह करणम् ॥ १०॥ इन्द्रजालमिदं सर्वं यथा मरुमरीचिका । अखण्डितमनाकारं वर्तते केवलः शिवः ॥ ११॥ धर्मादिमोक्षपर्यन्तं निरीहाः सर्वथा वयम् । कथं रागविरागं च कल्पयन्ती विपश्चितः ॥ १२॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ १३॥ ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे महानिर्वाणनिरूपणं नाम षष्ठोऽध्यायः ॥ ६॥

७ महानिर्वाणयोगः

बालस्य वा विषयभोगहतस्य वाऽपि मूर्खस्य सेवकजनस्य ग्रहस्थितस्य । गुह्यं परं किमपि नैव विकासनीयं भ्रान्तः कथं भजति कस्य यदि प्रदिष्टम् ॥ १॥ नैवात्र काव्यगुणदोषविवञ्चनीयो ग्राह्मं परं गुणवती खलु यस्य वासी । विभ्रान्तचित्तरहिताद्भुवि रूपशून्यान् पारं न किन्नयतिनापि त्विह त्रिकामात् ॥ २॥ प्रयत्नेन विना येन निश्चलेन चराचरम् । ग्रहस्तम्भसमं शान्तं चैतन्यं गगनोपमम् ॥ ३॥ अथ तत्त्वं पठेद्यस्तु एक एव चराचरम् । सर्वमङ्ग कथं भिन्नमद्वैतं परमामृतम् ॥ ४॥ अहमेव परं यस्मात्सारात्सारतरं शिवम् । गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ॥ ५॥ पूर्णानन्दं च गृह्णामि विभोगत्रिदशार्चितम् । समाधिनः समं देहं किङ्करिष्यामि तृप्तिमान् ॥ ६॥ उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च जले यथा । महादादीनि भूतानि ममाप्येकं स एव हि ॥ ७॥ मृदुद्रवेषु तीक्ष्णेषु गुणेषु कटकेषु च । कटुत्वं मधुरत्वं च तीक्ष्णत्वं मृदुलं यथा ॥ ८॥ प्रकृतिः पुरुषं तद्वन्नभिन्नं प्रतिभातिभो । यच्च सर्वाख्यरहितं सूक्ष्मात्सूक्ष्मतरं परम् ॥ ९॥ मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् । अदृश्यं सह यत्र त्वमहं तत्र कथं भवेत् ॥ १०॥ त्वमेव परमं तत्त्वं यत्र यत्र चराचरम् । गगनोपमं च यत्प्रोक्तं तदेव गगनं परम् ॥ ११॥ चैतन्यं दोषरहितं सम्पूर्णं सर्वमेव च । वसुधामन्तरिक्षं च मारुतेन समाहितम् ॥ १२॥ उदके पिहितं चैव तेजोमध्ये व्यवस्थितम् । आकाशं तेन सम्प्राप्तं न तद्व्याप्तं च केनचित् ॥ १३॥ सबाह्याभ्यन्तरेऽसि त्वं स्थिरपूर्णनिरन्तरम् । सूक्ष्मत्वाच्चेददृश्यत्वं निर्मलत्वाच्च योगिभिः ॥ १४॥ आलम्बनादिर्यत्प्रोक्तं त्यक्तमालम्बनं त्यजेत् । ततोभाभ्यां च निर्मुक्तो निरालम्बं यदा भवेत् ॥ १५॥ वलयं लायते तात गुणदोषविवर्जितम् । चित्स्वरूपस्य रौद्रस्य मोहमूर्छाद्र्वस्य च ॥ १६॥ एक एवं विना यत्वममोघं सहजामृतम् । भावगम्यं निराकारं साकारं दृष्टिगोचरम् ॥ १७॥ भावाभावविनोर्मुक्तमन्तरालं तदुच्यते । बाह्यभावो भवेदिथ्थमतः प्रकृतिरुच्यते ॥ १८॥ अन्तरादन्तरं ज्ञेयं नारिकेल फलं यथा । पौर्णमास्यां तथा चन्द्र एक एवोति निर्मलः ॥ १९॥ भ्रान्तिज्ञानस्थितो बाह्ये सम्यग्ज्ञानं च मध्यमे । मध्यान्मध्यतरं ज्ञेयं नारिकेलफलं यथा ॥ २०॥ अनेनैव प्रकारेण बुद्धिभेदेन सर्वगः । एष बुद्धोप्यनामा च गीयते नामकोटिभिः ॥ २१॥ गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः । यस्तु सम्बुध्यते तत्त्वं विरक्तो भवसागरात् ॥ २२॥ रागद्वेषविनिर्मुक्तः सर्वतत्त्वहिते रतः । दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् ॥ २३॥ घटे भिन्ने घटाकाशमाकाशे लीयते यथा । देहाभावे तथा योगी स्वरूपे परमात्मनि ॥ २४॥ उक्तं यत्कर्म युक्तानां मतिर्यातेऽपि सा गतिः । योगिनां या गतिः कापि अगत्याभावनोषितः ॥ २५॥ या गतिः कर्मयुक्तानां तां च वागीन्द्रियं वदेत् । एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ॥ २६॥ विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते । तीर्थे वांऽत्यजगेहे वा यत्र यत्र मृतोऽपि वा ॥ २७॥ न योगी पश्यते गर्भं परब्रह्मणि लीयते ॥ २८॥ सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेच्छं लिप्यते नैव दोषैः । सकृदपि यदभावात्कर्म किञ्चिन्नकुर्या- त्तदपि भवति बद्धः स्वयमेव वा तपस्वी ॥ २९॥ निरामयं निष्प्रतिमं निराकृतिं निराशयं निर्वपुषं निराशयम् । निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मानमुपैति शाश्वतम् ॥ ३०॥ विधौ न दीक्षा न च मण्डलक्रिया गुरुर्नशिष्यो न च मन्त्रसम्पदः । मुद्रादिकं चापि न यत्र मानस- स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३१॥ न शाम्भवी शक्तिकमाणकं न वा पिण्डञ्च रूपं च पदादिकं न वा । आरम्भनिष्पन्दघटादिकं न वा तमीशमात्मानमुपैति शाश्वतम् ॥ ३२॥ यस्य स्वरूपं च विपद्यते जग- च्चराचरं तिष्ठति लीयतेऽपि वा । पयोविकारादिव फेनबुद्बुदा- स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३३॥ नानात्वमेकत्वभावत्वमाया- त्वाणुत्वदीर्घत्वमहत्वशून्यकम् । मानत्वविद्यात्वसमाप्तवर्जितं तमीशमात्मानमुपैति शाश्वतम् ॥ ३४॥ नासानिरोधो न च दृष्टिरोधो बद्धो विबद्धो न शुभासतं सतः । नास्य प्रचारोऽपि न यत्र किञ्चि- त्तमीशमात्मानमुपैति शाश्वतम् ॥ ३५॥ सुसंयमी वा यदि वा न संयमी निष्कर्मको वा यदि वा सकर्मकः । अमानुषोघोनविमुच्यते ध्रुवं तमीशमात्मानमुपैति शाश्वतम् ॥ ३६॥ मनो न बुद्धिर्नशरीरमिन्द्रिये तदात्मभूतादिकभेदवर्जितः । शौचं न लिङ्गं यदि भावनाशकं संविद्वयं वा यदि वा न विद्यते ॥ ३७॥ मनोनु वाक्चक्षुनशक्तिमीतरं कथं च तत्रैव गुरूपदेशं । पयः कथं मुक्तवतं विभाजनं युक्तस्य तत्त्वं हि समः प्रकाशते ॥ ३८॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ ३९॥ ॐ तत्सदिति श्रीमद्दत्तगीतासूपनिषत्सारमथितार्थेषु निर्वाणविद्यायां दत्तगोरक्षकसंवादे महानिर्वाणयोगो नाम सप्तमोऽध्यायः ॥ श्रीदत्तात्रेयार्पणमस्तु ॥
% Text title            : Datta Gita
% File name             : dattagItA.itx
% itxtitle              : dattAtreyagItA athavA dattagItA (dattAtreyakalpAntargatA)
% engtitle              : dattAtreyagItA athavA dattagItA
% Category              : giitaa, deities_misc, dattAtreya
% Location              : doc_giitaa
% Sublocation           : giitaa
% SubDeity              : dattAtreya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : From dattAtreyakalpaH
% Latest update         : February 19, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org