पृथिवीगीता
मैत्रेय पृथिवीगीता श्लोकाश्चात्र निबोध तान् ।
यानाह धर्मध्वजिने जनकायासितो मुनिः ॥ १॥
पृथिव्युवाच --
कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि ।
येन केन सधर्माणोऽप्यभिविश्वस्तचेतसः ॥ २॥
पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ ३॥
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्तधियो मृत्युं न पश्यन्त्यविदूरकम् ॥ ४॥
समुद्रावरणं याति मन्मण्डलमथो वशम् ।
कियदात्मजयादेतन्मुक्तिरात्मजये फलम् ॥ ५॥
उत्सृज्य पूर्वजा याता यां नादाय गतः पिता ।
तां ममेति विमूढत्वात् जेतुमिच्छन्ति पार्थिवाः ॥ ६॥
मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहाः ।
जायन्तेऽत्यन्तमोहेन ममताधृतचेतसाम् ॥ ७॥
पृथ्वी ममेयं सकला ममैषा ममान्वयस्यापि च शाश्वतेयम् ।
यो यो मृतो ह्यत्र बभूव राजा कुबुद्धिरासीदिति तस्य तस्य ॥ ८॥
दृष्ट्वा ममत्वायतचित्तमेकं विहाय मां मृत्युपथं व्रजन्तम् ।
तस्यान्वयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवः करोति ॥ ९॥
पृथ्वी ममैषाशु परित्यजैनं वदन्ति ये दूतमुखैः स्वशत्रुम् ।
नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाभ्युपैति ॥ १०॥
पराशर उवाच
इत्येते धरणीगीताश्लोका मैत्रेय यैः श्रुतैः ।
ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ॥ ११॥
इति पृथिवीगीता समाप्ता ।
Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com