रामगीता अद्भुतरामायणान्तर्गतम्

रामगीता अद्भुतरामायणान्तर्गतम्

एकादशः सर्गः ।

हनूमते श्रीरामकृतं साङ्ख्ययोगवर्णनम् - रामःप्राह हनूमन्तमात्मानं पुरुषोत्तमः । वत्स वत्स हनूमन्स्त्वं भक्तो यत्पृष्टशनसि ॥ १॥ तत्तेऽहं सम्प्रवक्ष्यामि श‍ृणुष्वावहितो मम । अवाच्यमेतद्विज्ञानमात्मगुह्यं सनातनम् ॥ २॥ यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः । इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ॥ ३॥ न संसारं प्रपश्यन्ति पूर्वेऽपि ब्रह्मवादिनः । गुह्याद्गुह्यतमं साक्षाद्गोपनीयं प्रयत्नतः ॥ ४॥ वंशे भक्तिमतो ह्यस्य भवन्ति ब्रह्मवादिनः । आत्मा यः केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः ॥ ५॥ अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः । सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ॥ ६॥ स कालाग्निस्तदव्यक्तं सद्यो वेदयति श्रुतिः । तस्माद्विजायते विश्वमत्रैव प्रविलीयते ॥ ७॥ मायावी मायया बद्धः करोति विविधास्तनूः । न चाप्ययं संसरति न च संसारयेत्प्रभुम् ॥ ८॥ नायं पृथ्वी न सलिलं न तेजः पवनो नभः । न प्राणो न मनो व्यक्तं न शब्दः स्पर्श एव च ॥ ९॥ न रूपरसगन्धाश्च नाहङ्कर्ता ना वागपि । न पाणिपादौ नो पायुर्न चोपस्थं प्लवङ्गम ॥ १०॥ न कर्ता न च भोक्ता च न च प्रकृतिपूरूषौ । न माया नैव च प्राणश्चैतन्यं परमार्थतः ॥ ११॥ तथा प्रकाशतमसोः सम्बन्धो नोपपद्यते । तद्वदेव न सम्बन्धः प्रपञ्चपरमात्मनोः ॥ १२॥ छायातरू यथा लोके परस्परविलक्षणौ । तद्वत्प्रञ्चपुरुषौ विभिन्नौ परमार्थतः ॥ १३॥ यद्यात्मा मलिनोऽवस्थौ विकारी स्यात्स्वभावतः । नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ १४॥ पश्यन्ति मुनयो मुक्ताः स्वात्मानं परमार्थतः । विकारहीनं निर्दुःखमानन्दात्मानमव्यययम् ॥ १५॥ अहं कर्ता सुखी दुःखी कृशः स्थूलेति या मतिः । साप्यहङ्कृतिसम्बन्धादात्मन्यारोप्यते जनैः ॥ १६॥ वदन्ति वेदविद्वान्सः साक्षिणं प्रकृतेः परम् । भोक्तारमक्षयं बुद्ध्वा सर्वत्र समवस्थितम् ॥ १७॥ तस्मादज्ञान मूलोऽयं संसारः सर्व देहिनाम् । अज्ञानादन्यथा ज्ञातं तच्च प्रकृतिसङ्गतम् ॥ १८॥ नित्योदितः स्वयञ्ज्योतिः सर्वगः पुरुषः परः । अहङ्कारीऽविवेकेन कर्ताहमिति मन्यते ॥ १९॥ पश्यन्ति ऋषयो व्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ॥ २०॥ तेनात्र सङ्गतो ह्यात्मा कूटस्थोऽपि निरञ्जनः । आत्सानमक्षरं ब्रह्म नावबुद्‍ध्यन्ति तत्त्वतः ॥ २१॥ अनात्मन्यात्मविज्ञानं तस्माद्दुःखः तथेतरत् । रागद्वेषादयो दोषाः सर्वभ्रान्तिनिबन्धनाः ॥ २२॥ कार्ये ह्यस्य भवेदेषा पुण्यापुण्यमिति श्रुतिः । तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ॥ २३॥ नित्य सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः । एकः स भिद्यते शक्त्या मायया न स्वभावतः ॥ २४॥ तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः । भेदोऽव्यक्तस्वभावेन सा च मायाऽऽत्मसंश्रया ॥ २५॥ यथाहि धूमसम्पर्कान्नाकाशो मलिनो भवेत् । अन्तःकरणजैर्भावैरात्मा तद्वन्न लिप्यते ॥ २६॥ यथा स्वप्रभया भाति केवलः स्फटिकोपलः । उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥ २७॥ ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः । अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुबुद्धयः ॥ २८॥ कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः । दृश्यते ह्यर्थरूपेण पुरुषं भ्रान्तदृष्टिभिः ॥ २९॥ यथा संलक्ष्यते व्यक्तः केवलः स्फटिको जनैः । रक्तिकाव्यवधानेन तद्वत्परमपूरुषः ॥ ३०॥ तस्मादात्माक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः । उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥ ३१॥ यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ३२॥ यदा सर्वाणि भूतानि स्वात्मन्येवाभि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते स्वयम् ॥ ३३॥ यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति । एकीभूतः परेणासौ तदा भवति केवलः ॥ ३४॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । तदासावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ ३५॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३६॥ यदा पश्यति चात्मायं केवलं परमार्थतः । मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतः ॥ ३७॥ यदा जन्मजरादुःखव्याधीनामेकभेषजम् । केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ ३८॥ यथा नदीनदा लोके सागरेणैकतां ययुः । तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ ३९॥ तस्माद्विज्ञानमेवास्ति न प्रपञ्चो न संस्थितिः । अज्ञानेनावृतं लोकं विज्ञानं तेन मुह्यति ॥ ४०॥ तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् । अज्ञानमिति तत्सर्वं विज्ञानमिति मे मतम् ॥ ४१॥ एतत्ते परमं साङ्ख्यं भावितं ज्ञानमुत्तमम् । सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ ४२॥ योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रजायते । योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ ४३॥ यदेव योगिनो यान्ति साङ्ख्यं तदभिगम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४४॥ अन्ये च योगिनो वत्स ऐश्वर्यासक्तचेतसः । मज्जन्ति तत्र तत्रैव सत्त्वात्मैक्यमिति श्रुतिः ॥ ४५॥ यत्तत्सर्वगतं दिव्यमैश्वर्यमचलं महत् । ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ ४६॥ एष आत्माहमव्यक्तो मायावी परमेश्वरः । कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ ४७॥ सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः । सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ ४८॥ अपाणिपादो जवनो गृहीतो हृदि संस्थितः । अचक्षुरपि पश्यामि तथाऽकर्णः श‍ृणोम्यहम् ॥ ४९॥ वेदाहं सर्वमेवेदं न मां जानाति कश्चन । प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ ५०॥ निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् । यत्र देवा विजानन्ति मोहिता मायया मम ॥ ५१॥ यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः । प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ ५२॥ येषां हि न समापन्ना माया वै विश्वरूपिणी । लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ ५३॥ न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि । प्रसादान्मम ते वत्स एतद्वेदानुशासनम् ॥ ५४॥ नापुत्रशिष्ययोगिभ्यो दातव्यं हनुमन्क्वचित् । यदुक्तमेतद्विज्ञानं साङ्ख्ययोगसमाश्रयम् ॥ ५५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे साङ्ख्ययोगो नामैकादशः सर्गः ॥ ११॥

द्वादशः सर्गः ।

उपनिषत्कथनम् - पुनः रामः प्रवचनमुवाच द्विजपुङ्गव । अव्यक्तादभवत्कालः प्रधानं पुरुषः परः ॥ १॥ तेभ्यः सर्वमिदं जातं तस्मात्सर्वमिदं जगत् । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ २॥ सर्वत श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ३॥ सर्वाधारं स्थिरानन्दमव्यक्तं द्वैतवर्जितम् । सर्वोपमानरहितं प्रमाणातीतगोचरम् ॥ ४॥ निर्विकल्पं निराभासं सर्वाभासं परामृतम् । अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ॥ ५॥ निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः । स आत्मा सर्वभूतानां स बाह्याभ्यन्तरात्परः ॥ ६॥ सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः । मया ततमिदं विश्वं जगदव्यक्तरूपिणा ॥ ७॥ मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् । प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम् ॥ ८॥ तयोरनादिनिर्दिष्टः कालः संयोजकः परः । त्रयमेतदनाद्यन्तमव्यक्तं समवस्थितम् ॥ ९॥ तदात्मकं तदन्यत्स्यात्तद्रूपं मामकं विदुः । महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् ॥ १०॥ या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् । पुरुषः प्रकृतिस्थोतोऽपिभुङ्क्ते यः प्राकृतान्गुणान् ॥ ११॥ अहङ्कारो विविक्तत्वात्प्रोच्यते पञ्चविंशकः । आद्यो विकारः प्रकृतिर्महनात्मेति कथ्यते ॥ १२॥ विज्ञानशक्तिर्विज्ञानादहङ्कारस्तदुत्थितः । एक एव महानात्मा सोहङ्कारोऽभिधीयते ॥ १३॥ रा जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः । तेन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १४॥ स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् । तेनाविवेकतस्तस्मात्संसारं पुरुषस्य तु ॥ १५॥ स चाविवेकः प्रकृतौ सङ्गात्कालेन सोऽभवत् । कालः सृजति भूतानि कालः संहरते प्रजाः ॥ १६॥ सर्वे कालस्य वशगा न कालः कस्यचिद्वशे । सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ॥ १७॥ प्रोच्यते भगवान्प्राणः सर्वज्ञः पुरुषः परः । सर्वेन्द्रियेभ्यः परमं मनः प्राहुर्मनीषिणः ॥ १८॥ मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ १९॥ पुरुषाद्भगवान्प्राणस्तस्य सर्वमिदं जगत् । प्राणात्परतरं व्योम व्योमातीतोऽग्निरीश्वरः ॥ २०॥ सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः । नास्ति मत्परमं भूतं मां विज्ञाय विमुच्यते ॥ २१॥ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ २२॥ सोऽहं सृजामि सकलं संहरामि सदा जगत् । मायी मायामयो देवः कालेन सह सङ्गतः ॥ २३॥ मत्सन्निधावेष कालः करोति सकलं जगत् । नियोजयत्यनन्तात्मा ह्येतद्वेदानुशासनम् ॥ २४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे उपनिषत्कथनं नाम द्वादशः सर्गः ॥ १२॥

त्रयोदशः सर्गः

भक्तियोगकथनम् - वक्ष्ये समाहितमनाः श‍ृणुष्व पवनात्मज । येनेदं लीयते रूपं येनेदं सम्प्रवर्तते ॥ १॥ नाहं तपोभिर्विविधैर्न दानेन नच चेज्यया । शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ २॥ अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः । मां सर्वसाक्षिणं लोके न जानन्ति प्लवङ्गम ॥ ३॥ यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः । सोऽहं धाता विधाता च लोकेऽस्मिन्विश्वतोमुखः ॥ ४॥ न मां पश्यन्ति मुनयः सर्वेऽपि त्रिदिवौकसः । ब्राह्मणा मनवः शक्रा ये चान्ये प्रथितौजसः ॥ ५॥ गृणन्ति सततं वेदा मामेकं परमेश्वरम् । यजन्ति विविधैरग्नौ ब्राह्मणा वैदिकैर्मखैः ॥ ६॥ सर्वेलोका नमस्यन्ति ब्रह्मलोके पितामहम् । ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ७॥ अहं हि सर्वयज्ञानां भोक्ता चैव फलप्रदः । सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्तुतः ॥ ८॥ मां पश्यन्तीह विद्वान्सो धार्मिका वेदवादिनः । तेषां सन्निहितो नित्यं ये भक्ता मामुपासते ॥ ९॥ ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते । तेषां ददामि तत्स्थानमानन्दं परमं पदम् ॥ १०॥ अन्येऽपि ये विकर्मस्थाः शूद्राद्या नीचजातयः । भक्तिमन्तः प्रमुच्यन्ते कालेन मयि सङ्गताः ॥ ११॥ न मद्भक्ता विनश्यन्ते मद्भक्ता वीतकल्मषाः । आदावेतत्प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ १२॥ यो वा निन्दति तं मूढो देवदेवं स निन्दति । यो हि तं पूजयेद्भक्त्या स पूजयति मां सदा ॥ १३॥ पत्रं पुष्पं फलं तोयं मदाराधनकारणात् । यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥ १४॥ अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् । विधाय दत्तवान्वेदानशेषानास्यनिःसृतान् ॥ १५॥ अहमेव हि सर्वेषां योगिनां गुरुरव्ययः । धार्मिकानां च गोप्ताहं निहन्ता वेदविद्विषाम् ॥ १६॥ अहं वै सर्वसंसारान्मोचको योगिनामिह । संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ १७॥ अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः । मायावी मामिका शक्तिर्माया लोकविमोहिनी ॥ १८॥ ममैव च पराशक्तिर्या सा विद्येति गीयते । नाशयामि तया मायां योगिनां हृदि संस्थितः ॥ १९॥ अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः । आधारभूतः सर्वेषां निधानममृतस्य च ॥ २०॥ एका सर्वान्तरा शक्तिः करोति विविधं जगत् । भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ २१॥ तृतीया महती शक्तिर्निहन्ति सकलं जगत् । तामसी मे समाख्याता कालात्मा रुद्रकपिणी ॥ २२॥ ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे । अपरे भक्तियोगेन कर्मयोगेन चापरे । सर्वेषामेव भक्तानामेष प्रियतरो मम ॥ २३॥ यो विज्ञानेन मां नित्यमाराधयति नान्यथा अन्ये च ये त्रयो भक्ता मदाराधनकाङ्क्षिणः ॥ २४॥ तेऽपि मां प्राप्नुवन्त्येव नावर्तते च वै पुनः । मया ततमिदं कृत्स्नं प्रधानपुरुषात्मकम् । मय्येव संस्थितं विश्वं मया सम्प्रेर्यते जगत् ॥ २५॥ नाहं प्रेरयिता कीश परमं योगमाश्रितः । प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ २६॥ पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः । करोति काले भगवान्महायोगेश्वरः स्वयम् ॥ २७॥ योगं सम्प्रोच्यते योगी मायी शास्त्रेषु सूरिभिः । योगेश्वरोऽसौ भगवान्महादेवो महाप्रभुः ॥ २८॥ महत्वात्सर्वसत्त्वानां वरत्वात्परमेश्वरः । प्रोच्यते भगवान्ब्रह्मा महान्ब्रह्ममयो यतः ॥ २९॥ यो मामेवं विजानाति महायोगेश्वरेश्वरम् । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ३०॥ सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः । तिष्ठामि सततं योगी यस्तद्वेद स वेदवित् ॥ ३१॥ इति गुह्यतमं ज्ञानं सर्ववेदेषु निश्चितम् । प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ३२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे भक्तियोगो नाम त्रयोदशः सर्गः ॥ १३॥

चतुर्दशः सर्गः ।

श्रीरामचन्द्रहनुमत्संवादवर्णनम् - सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता । सर्वलोकैकसंहर्ता सर्वात्माऽहं सनातनः ॥ १॥ सर्वेषामेव वस्तूनामन्तर्यामी पिता ह्यहम् । मय्येवान्तःस्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ २॥ भवता चाद्भुतं दृष्टं यत्स्वरूपं तु मामकम् । ममैषा ह्युपमा वत्स मायया दर्शिता मया ॥ ३॥ सर्वेषामेव भावानामन्तरा समवस्थितः । प्रेरयामि जगत्सर्वं क्रियाशक्तिरियं मम ॥ ४॥ मयेदं चेष्टते विश्वं मत्स्वभावानुवर्ति च । सोऽहं काले जगत्कृत्स्नं करोमि हनुमन् किल ॥ ५॥ संहराम्येकरूपेण द्विधावस्था ममैव तु । आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्तकः ॥ ६॥ क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ । ताभ्यां सञ्जायते सर्वं संयुक्ताभ्यां परस्परम् ॥ ७॥ महदादिक्रमेणैव मम तेजोविजृम्भितम् । यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः ॥ ८॥ हिरण्यगर्भो मार्तण्डः सोऽपि मद्देहसम्भवः । तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ॥ ९॥ दत्तवानात्मजान् वेदान् कल्पादौ वतुरः किल । स मन्नियोगतो ब्रह्मा सदा मद्भावभावितः ॥ १०॥ दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् । स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ॥ ११॥ भूत्वा चतुर्मुखः सर्वं सृजत्येवात्मसम्भवः । योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ॥ १२॥ ममैव परमा मूर्तिः करोति परिपालनम् । योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ॥ १३॥ मदाज्ञयाऽसौ सततं संहारत्येव मे तनुः । हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ १४॥ पाकं च कुरुते वह्निः सोऽपि मच्छक्तिचोदितः । भुक्तमाहारजातं यत्पचत्येतदहर्निशम् ॥ १५॥ वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः । यो हि सर्वाम्भसां योनिर्वरुणो देवपुङ्गवः ॥ १६॥ स सञ्जीवयते सर्वमीशस्यैव नियोगतः । योऽन्तस्तिष्ठति भूतानां बहिर्देवो निरञ्जनः ॥ १७॥ मदाज्ञयासौ भूतानां शरीराणि बिभर्ति हि । योऽपि सञ्जीवनो नृणां देवानाममृताकरः ॥ १८॥ सोमः स मन्नियोगेन चोदितः किल वर्तते । यः स्वभासा जगत्कृत्स्नं प्रकाशयति सर्वदा ॥ १९॥ सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयम्भुवः । योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ॥ २०॥ यज्ञानां फलदो देवो वर्ततेऽसौ मदाज्ञया । यः प्रशास्ता ह्यसाधूनां वर्तते नियमादिह ॥ २१॥ यमो वैवस्वतो देवो देवदेवनियोगतः । योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ॥ २२॥ सोऽपीश्वरनियोगेन कुबेरो वर्तते सदा । यः सर्वरक्षसां नाथस्तापसानां फलप्रदाः ॥ २३॥ मन्नियोगादसौ देवो वर्तते निरृतिः सदा । वैतालगणभूतानां स्वामी भोगफलप्रदः ॥ २४॥ ईशानः सर्वभक्तानां सोऽपि तिष्ठेन्ममाज्ञया । यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः ॥ २५॥ रक्षको योगिनां नित्यं वर्ततेऽसौ मदाज्ञया । यश्च सर्वजगत्पूज्ययो वर्तते विघ्नकारकः ॥ २६॥ विनायको धर्मनेता सोऽपि मद्वचनात्किल । योऽपि वेदविदां श्रेष्ठो देवसेनापतिः प्रभुः ॥ २७॥ स्कन्दोऽसौ वर्तते नित्यं स्वयम्भूप्रतिचोदितः । ये च प्रजानां पतयो मरीच्याद्या महर्षयः ॥ २८॥ सृजन्ति विविधान् लोकान् परस्यैव नियोगतः । या च श्री सर्वभूतानां ददाति विपुलां श्रियम् ॥ २९॥ पत्नी नारायणस्यासौ वर्तते मदनुग्रहात् । वाचं ददाति विपुलां या च देवी सरस्वती ॥ ३०॥ सापीश्वरनियोगेन चोदिता सम्प्रवर्तते । याशेषपुरुषान् घोरान्नरकात्तारयत्यपि ॥ ३१॥ सावित्री संस्मृता देवी देवाज्ञानुविधायिनी । पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ३२॥ यापि ध्याता विशेषेण सापि मद्वचनानुगा । योऽनन्तो महिमानन्तः शेषोऽशेषामरः प्रभुः ॥ ३३॥ दधाति शिरसा लोकं सोऽपि देवनियोगतः । योऽग्निः संवर्तको नित्यं वडवारूपसंस्थितः ॥ ३४॥ पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः । आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ ॥ ३५॥ अन्याश्च देवताः सर्वा मच्छासनमधिष्ठिताः । गन्धर्वा उरगा यक्षाः सिद्धाः साध्याश्च चारणाः ॥ ३६॥ भूतरक्षःपिशाचाश्च स्थिताः शास्त्रे स्वयम्भुवः । कलाकाष्ठानिमेषाश्च मुहूर्ता दिवसाः क्षणाः ॥ ३७॥ ऋत्वब्दमासपक्षाश्च स्थिताः शास्त्रे प्रजापतेः । युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ॥ ३८॥ पराश्चैव परार्द्धाश्च कालभेदास्तथापरे । चतुर्विधानि भूतानि स्थावराणि चराणि च ॥ ३९॥ नियोगादेव वर्तन्ते सर्वाण्येव स्वयम्भुवः । पत्तनानि च सर्वाणि भुवनानि च शासनात् ॥ ४०॥ ब्रह्माण्डानि च वर्तन्ते देवस्य परमात्मनः । अतीतान्यप्यसङ्ख्यानि ब्रह्माण्डानि मदाज्ञया ॥ ४१॥ प्रवृत्तानि पदार्थौघैः सहितानि समं ततः । ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मजैः ॥ ४२॥ हरिष्यन्ति सहैवाज्ञां परस्य परमात्मनः । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ४३॥ भूतादिरादिप्रकृतिर्नियोगान्मम वर्तते । याऽशेषसर्वजगतां मोहिनीं सर्वदेहिनाम् ॥ ४४॥ मायापि वर्तते नित्यं सापीश्वरनियोगतः । विधूय मोहकलिलं यथा पश्यति तत्पदम् ॥ ४५॥ सापि विद्या महेशस्य नियोगाद्वशवर्तिनी । बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥ ४६॥ मयैव पूर्यते विश्वं मयैव प्रलयं व्रजेत् । अहं हि भगवानीशः स्वयञ्ज्योतिः सनातनः ॥ ४७॥ परमात्मा परम्ब्रह्म मत्तो ह्यन्यन्न विद्यते । इत्येतत्परमं ज्ञानं भवते कथितं मया ॥ ४८॥ ज्ञात्वा विमुच्यते जन्तुर्जन्म संसारबन्धनात् । मायामाश्रित्य जातोऽहं गृहे दशरथस्य हि ॥ ४९॥ रामोऽहं लक्ष्मणो ह्येष शत्रुघ्नो भारतोऽपि च । चतुर्धा सम्प्रभूतोऽहं कथितं तेऽनिलात्मज ॥ ५०॥ मायास्वरूपं च तव कथितं यत्प्लवङ्गम । कृपया तद्धृदा धार्यं न विस्मर्तव्यमेव हि ॥ ५१॥ येनायं पठ्यते नित्यं संवादो भवतो मम । जीवन्मुक्तो भवेत्सोऽपि सर्वपापैः प्रमुच्यते ॥ ५२॥ श्रावयेद्वा द्विजाञ्छुद्धान्ब्रह्मचर्यपरायणान् । यो वा विचारयेदर्थं स याति परमां गतिम् ॥ ५३॥ यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ५४॥ तस्मात्सर्वप्रयत्नेन पठितव्यो मनीषिभिः । श्रोतव्यश्चापि मन्तव्यो विशेषाद्ब्राह्मणैः सदा ॥ ५५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे भगवद्धनूमत्संवादो नाम चतुर्दशः सर्गः ॥ १४॥ Adbhutaramayana Sarga 11-14 Encoded by Vishwas Bhide vrbhide at rediffmail.com Proofread by Vishwas Bhide and PSA Easwaran
% Text title            : rAmagItAadbhutarAmAyaNa
% File name             : rAmagItAadbhutarAmAyaNa.itx
% itxtitle              : rAmagItA 2 (adbhutarAmAyaNAntargatam)
% engtitle              : rAmagItAadbhutarAmAyaNa
% Category              : giitaa, raama
% Location              : doc_giitaa
% Sublocation           : giitaa
% SubDeity              : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide and PSA Easwaran
% Description/comments  : Adbhutaramayana Sarga 11-14
% Indexextra            : (Hindi
% Latest update         : September 17, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org