सूर्य गीता

सूर्य गीता

॥ श्री गणेशाय नमः ॥ ॥ अथ सूर्यगीता प्रारभ्यते ॥ ब्रह्मा उवाच - प्रपञ्चसृष्टिकर्मेदं मम श्रीगुरुनायक । अहार्यं द्विपरार्धान्तमाधिकारिकतावशात् ॥ १॥ इति त्वद्वदनाम्भोजात्सम्यग्विदितवानहम् । तथाप्यत्र न मे चिन्ता जायते त्वत्कृपाबलात् ॥ २॥ त्वयि प्रसन्ने मय्येवं बोधानन्दः स्वरूपतः । पुनर्जन्मभयाभावाद्धीर एवास्मि वृत्तिषु ॥ ३॥ तथाऽपि कर्मभागेषु श्रोतव्यमवशिष्यते । तत्सर्वं च विदित्वैव सर्वज्ञः स्यामहं प्रभो ॥ ४॥ जगज्जीवेश्वरादीनां प्रागुत्पत्तेर्निरञ्जनम् । निर्विशेषमकर्मैकं ब्रह्मैवासीत्तदद्वयम् ॥ ५॥ तस्य जीवेश स्रष्टृत्वं प्रोच्यते वेदवादिभिः । अकर्मणः कथं सृष्टिकर्मकर्तृत्वमुच्यते ॥ ६॥ सकर्मा सेन्द्रियो लोके दृश्यते न निरिन्द्रियः । ब्रह्मणोऽतीन्द्रियत्वं च सर्वशास्त्रेषु घुष्यते ॥ ७॥ नश्यमानतयोत्पत्तिमत्वादाद्यस्य कर्मणः । न मुख्यमवकल्पेताप्यनादित्वोपवर्णनम् ॥ ८॥ ब्रह्म चेत्कर्मकुर्वीत यनेकेनापि हेतुना । तथा च संसृतिस्तस्य प्रसज्येत तु नात्मनः ॥ ९॥ तस्मादाद्यस्य पुण्यस्य पापस्य च दयानिधे । कर्मणो ब्रूहि मे स्पष्टमुपपत्तिं गुरूत्तम ॥ १०॥ इत्युक्तो विधिना देवो दक्षिणामूर्तिरीश्वरः । विचित्रप्रश्नसन्तुष्ट इदं वचनमब्रवीत् ॥ ११॥ श्रीगुरुमूर्तिरुवाच - ब्रह्मन्साधुरयं प्रश्नस्तव प्रश्नविदां वर । श‍ृणुष्व सावधानेन चेतसाऽस्योत्तरं मम ॥ १२॥ प्रागुत्पत्तेरकर्मैकमकर्तृ च निरिन्द्रियम् । निर्विशेषं परं ब्रह्मैवासीन्नात्रास्ति संशयः ॥ १३॥ तथाऽपि तस्य चिच्छक्तिसंयुतत्वेन हेतुना । प्रतिच्छायात्मिके शक्ती मायाविद्ये बभूवतुः ॥ १४॥ अद्वितीयमपि ब्रह्म तयोर्यत्प्रतिबिम्बितम् । तेन द्वैविध्यमासाद्य जीव ईश्वर इत्यपि ॥ १५॥ पुण्यपापादिकर्तृत्वं जगत्सृष्ट्यादिकर्तृताम् । अभजत्सेन्द्रियत्वं च सकर्मत्वं विशेषतः ॥ १६॥ यः स्वशक्त्या समुल्लास उदभूत्परमात्मनः । स्वबन्धजनकं सूक्ष्मं तदाद्यं कर्म कथ्यते ॥ १७॥ न तेन निर्विशेषत्वं हीयते तस्य किञ्चन । न च संसारबन्धश्च कश्चिद्ब्रह्मन्प्रसज्यते ॥ १८॥ पारमार्थिकसंसारी जीवः पुण्यादिकर्मवान् । प्रातिभासिकसंसारी त्वीशः सृष्ट्यादिकर्मवान् ॥ १९॥ असंसारि परं ब्रह्म जीवेशोभयकारणम् । ततोऽप्यतीतं नीरूपं अवाङ्मनसगोचरम् ॥ २०॥ कर्मवन्तौ परित्यज्य जीवेशौ ये महाधियः । अकर्मवत्परं ब्रह्म प्रयान्त्यत्र समाधिभिः ॥ २१॥ ते विदेहविमुक्ता वा जीवन्मुक्ता नरोत्तमाः । कर्माकर्मोभयातीतास्तद्ब्रह्मारूपमाप्नुयुः ॥ २२॥ कर्मणा संसृतौ बद्धा मुच्यन्ते ते ह्यकर्मणा । बन्धमोक्षोभयातीताः कर्मिणो नाप्यकर्मिणः ॥ २३॥ जीवस्य कर्मणा बन्धस्तस्य मोक्षश्च कर्मणा । तस्माद्धेयं च कर्म स्यादुपादेयं च कर्म हि ॥ २४॥ त्यक्ते कर्मणि जीवत्वमात्मनो गच्छति स्वयम् । गृहीते कर्मणि क्षिप्रं ब्रह्मत्वं च प्रसिध्यति ॥ २५॥ आविद्यकमशुद्धं यत्कर्म दुःखाय तन्नृणाम् । विद्यासम्बन्धि शुद्धं यत् तत्सुखाय च कथ्यते ॥ २६॥ विद्याकर्मक्षुरात्तीक्ष्णात् छिनत्ति पुरुषोत्तमः । अविद्याकर्मपाशांश्चेत्स मुक्तो नात्र संशयः ॥ २७॥ सर्वस्य व्यवहारस्य विधे कर्मैव कारणम् । इति निश्चयसिद्ध्यै ते सूर्यगीतां वदाम्यहम् ॥ २८॥ कर्मसाक्षिणमादित्यं सहस्रकिरणं प्रभुम् । सप्ताश्वं सर्वधर्मज्ञमपृच्छदरुणः पुरा ॥ २९॥ अरुण उवाच - भगवन् केन संसारे प्राणिनः संभ्रमन्त्यमी । केनैतेषां निवृत्तिश्च संसाराद्वद सद्गुरो ॥ ३०॥ इति पृष्टः स सर्वज्ञः सहस्रकिरणोज्वलः । सूर्योऽब्रवीदिदं शिष्यमरुणं निजसारथिम् ॥ ३१॥ सूर्य उवाच - अरुण त्वं भवस्यद्य मम प्रियतमः खलु । यतः पृच्छसि संसारभ्रमकारणमादरात् ॥ ३२॥ भ्रमन्ति केवलं सर्वे संसारे प्राणिनोऽनिशम् । न तु तत्कारणं केनाप्यहो किञ्चिद्विचार्यते ॥ ३३। तज्जिज्ञासुतया त्वं तु श्लाघ्योऽसि विबुधोत्तमैः । श‍ृणुश्वारुण वक्ष्यामि तव संसारकारणम् ॥ ३४॥ पुण्यपापात्मकं कर्म यत्सर्वप्राणिसञ्चितम् । अनादिसुखदुःखानां जनकं चाभिधीयते ॥ ३५॥ शास्त्रैः सर्वैश्च विहितं प्रतिषिद्धं च सादरम् । कामादिजनितं तत्त्वं विद्धि संसारकारणम् ॥ ३६॥ पश्वादीनामभावेऽपि तयोर्विधिनिषेधयोः । संसारस्य न लोपोऽस्ति पूर्वकर्मानुसारतः ॥ ३७॥ पूर्वं मनुष्यभूतानां पापकर्मावशादिह । श्वखरोष्ट्रादिजन्मानि निकृष्टानि भवन्त्यहो ॥ ३८॥ पापकर्मसु भोगेन प्रक्षीणेषु पुनश्च ते । प्राप्नुवन्ति मनुष्यत्वं पुनश्च श्वादिजन्मिताम् ॥ ३९॥ जननैर्मरणैरेवं पौनःपुन्येन संसृतौ । भ्रमन्त्यब्धितरङ्गस्थदारुवद्धीमतां वर ॥ ४०॥ अरुण उवाच - प्रक्षीणपापकर्माणः प्राप्तवन्तो मनुष्यताम् । पुनश्च श्वादिजन्मानि केन गच्छन्ति हेतुना ॥ ४१॥ न हि दुर्जन्महेतुत्वं पुण्यानां युक्तमीरितुम् । न च पुण्यवतां भूयः पापकर्मोपपद्यते ॥ ४२॥ पुण्यैर्विशुद्धचित्तानां ज्ञानयोगादिसाधनैः । संसारमोक्षसंसिद्ध्या पापकर्माप्रसक्तितः ॥ ४३॥ जीवेषु पौनःपुन्यं चेदुत्तमाधमजन्मनाम् । नियमेनाभिधीयेत येन केनापि हेतुना ॥ ४४॥ मोक्षशास्त्रस्य वैयर्थ्यमापतत्येव सर्वथा । तस्मादपापिनां जन्म पुनश्चेति न युज्यते ॥ ४५॥ इत्युक्तो भगवानाह सर्वज्ञः करुणानिधिः । रविः संशयविच्छेदनिपुणोऽरुणमादरात् ॥ ४६॥ रविरुवाच - प्रक्षीणेष्वपि भोगेन पापकर्मसु देहिनः । पुनश्च पापकर्माणि कुर्वन्तो यान्ति दुर्गतिम् ॥ ४७॥ तानि दुर्जन्मबीजानि कामात्पापानि देहिनाम् । पुनरप्युपपद्यन्ते पूर्वपुण्यवतामपि ॥ ४८॥ सकामानां च पुण्यानां भोगहेतुतया नृणाम् । न चित्तशुद्धिहेतुत्वं क्वचिद्भवितुमर्हति ॥ ४९॥ कुतश्चाशुद्धचित्तानां ज्ञानयोगादिसंभवः । ज्ञानयोगादिहीनानां कुतो मोक्षश्च संसृतेः ॥ ५०॥ कामेन हेतुना सत्स्वप्युत्तमाधमजन्मसु । मोक्षशास्त्रस्य सार्थक्यं नैष्काम्योदयहेतुकम् ॥ ५१॥ सुखदुःखोपभोगेन यदा निर्वेदमागतः । निष्कामत्वमवाप्नोति स्वविवेकपुरस्सरम् ॥ ५२॥ ततःप्रभृति कैश्चित्स्याज्जन्मभिर्ज्ञानयोगवान् । श्रवणादिप्रयत्नैर्हि मुक्तिः स्वात्मन्यवस्थितिः ॥ ५३॥ कर्माध्यक्षं परात्मानं सर्वकर्मैकसाक्षिणम् । सर्वकर्मविदूरन्तं कर्मवान्कथमाप्नुयात् ॥ ५४॥ पुण्येष्वपि च पापेषु पौर्विकेषु तु भोगतः । क्षपितेषु परात्मा स स्वयमाविर्भविष्यति ॥ ५५॥ कर्तृभिर्भुज्यते जीवैः सर्वकर्मफलं न तु । साक्षिणा निर्विकल्पेन निर्लेपेन परात्मना ॥ ५६॥ जीवानां तदनन्यत्वत्भोगस्यावसरः कुतः । इति केचन शङ्कन्ते वेदान्तापातदर्शिनः ॥ ५७॥ परमार्थदशायां हि तदनन्यत्वमिष्यते । व्यवहारदशायां नानुपपत्तिश्च काचन ॥ ५८॥ परमार्थदशारूढे जीवन्मुक्तेऽपि कर्मणाम् । भोगोऽङ्गीक्रियते सम्यक् दृश्यते च तथा सति ॥ ५९॥ अज्ञानां व्यवहारैकनिष्ठानां तदनन्यता । अभोक्तृता च केनैव वक्तुं शक्या मनीषिणा ॥ ६०॥ ज्ञानिनः कर्मकर्तृत्वं दृश्यमानमपि स्फुटम् । उत्पादयेत्फलं नेति मन्यन्ते स्वप्नकर्मवत् ॥ ६१॥ तदयुक्तं न हि स्वप्ने पापकर्तुः स्वतन्त्रता । जाग्रति प्राणिनः कर्म स्वातन्त्र्यं वर्तते खलु ॥ ६२॥ तिरश्चां जागरावस्था यथा भोगैककारणम् । तथा स्वप्नदशा नॄणां फलभोगैककारणम् ॥ ६३॥ नृणां च जागरावस्था बालानां स्यात्तथा न तु । यूनां वृद्धतमानां वा किमुत स्वात्मवेदिनाम् ॥ ६४॥ भाविभोगार्थकं कर्म जाग्रत्येव नृणां भवेत् । फलं तु कर्मणः स्वप्ने जाग्रत्यपि च युज्यते ॥ ६५॥ कर्मण्यध्यस्य भोगं ये भोगेऽध्यस्याथ कर्म च । कर्म तद्भोगयोर्भेदमज्ञात्वाहुर्यथेप्सितम् ॥ ६६॥ तेषां मन्दधियां ज्ञानवादिनां पापकारिणाम् । कथं कृतार्थतां ब्रूयामध्यासक्षयसंभवाम् ॥ ६७॥ कर्मण्यकर्मधीर्येषामकर्मणि च कर्मधीः । ते चाध्यासवशा मन्दा ज्ञानिनः स्वैरचारिणः ॥ ६८॥ वर्णाश्रमादिधर्माणामद्वैतं कर्मणैव ये । अनुतिष्ठन्ति ते मूढाः कर्माकर्मोभयच्युताः ॥ ६९॥ स्वानुभूतिं वरिष्ठां तां सर्वानुष्ठानवर्जिताम् । सर्वानुष्ठानवन्तोऽपि सिद्धामाहुर्बतात्मनाम् ॥ ७०॥ अभेदध्यानसाध्यां तां स्वानुभूतिं महत्तमाम् । विचारसाध्यां मन्यन्ते ते महापापकर्मिणः ॥ ७१॥ निदिध्यासनमप्यात्मा भेदाभिध्यानलक्षणम् । उपेक्षन्ते वृथाद्वैतज्ञानवादैकमोहतः ॥ ७२॥ आश्रित्यैव विचारं ये वाक्यार्थमननात्मकम् । मन्यन्ते कृतकृत्यत्वमात्मनां ते हि मोहिताः ॥ ७३॥ आद्यज्ञानोदये काम्यकर्मत्याग उदीर्यते । द्वितीयसम्यग्ज्ञाने तु नैमित्तिकनिराकृतिः ॥ ७४॥ तृतीयपूर्णज्ञाने च नित्यकर्मनिराकृतिः । चतुर्थाद्वैतबोधे तु सोऽतिवर्णाश्रमी भवेत् ॥ ७५॥ नित्यनैमित्तिकोपेतज्ञानान्मुक्तिः क्रमाद्भवेत् । सम्यग्ज्ञानात्तु सा जीवन्मुक्तिर्नित्यैकसंयुतात् ॥ ७६॥ पूर्णज्ञानाद्विदेहाख्या शाश्वती मुक्तिरिष्यते । यथा नैष्कर्म्यसंसिद्धिर्जीवन्मुक्ते निरङ्कुशा ॥ ७७॥ अत्रैवं सति नैष्कर्म्यं ज्ञानकर्मसमुच्चयात् । सिध्येत्क्रमेण सद्यो वा नान्यथा कल्पकोटिभिः ॥ ७८॥ यावद्विदेहमुक्तिः सा न सिध्यति शरीरिणः । तावत्समुच्चयः सिद्धो ज्ञानोपासनकर्मणाम् ॥ ७९॥ तस्माद् ज्ञात्वा परात्मानं ध्याननिष्ठो महामतिः । भूयान्निजाश्रमाचारनिरतः श्रेयसे सदा ॥ ८०॥ ज्ञानोपास्ती कर्मसापेक्षके ते कर्मोपास्ती ज्ञानसापेक्षके च । कर्मज्ञाने चान्यसापेक्षके तन्- मुक्त्यै प्रोक्तं साहचर्यं त्रयाणाम् ॥ ८१॥ ज्ञानोपास्ती स्वीयकर्मस्वपास्यापेकं मुक्तिर्नैव कस्यापि सिध्येत् । तस्माद्धीमानाश्रयेदप्रमत्तस्त्री- ण्युक्तानि श्रद्धयाऽऽदेहपातात् ॥ ८२॥ ॥ इति सूर्यगीतायां प्रथमोऽध्यायः ॥ ॥ अथ द्वितीयोऽध्यायः ॥ सूर्य उवाच - अथातः सम्प्रवक्ष्यामि कर्मणां पञ्चभूमिकाः । उत्तरोत्तरमुत्कर्षाद्विद्धि सोपानपङ्क्तिवत् ॥ १॥ प्रथामा तान्त्रिकी प्रोक्ता परा पौराणिकी मता । स्मार्ता तृतीया तुर्या तु श्रौता सङ्कीर्तिता बुधैः ॥ २॥ पञ्चमी त्वौपनिषदा विबुधोत्तमसंमता । यस्याः परं न किञ्चित्स्याद्वाच्यं ज्ञेयं च सत्तम ॥ ३॥ स्वेच्छं कर्माणि कुर्वन्यः प्रमाणाश्रयणं विना । तन्त्रोक्तानि करोत्येष कर्मी प्राथमिको मतः ॥ ४॥ तानि तन्त्रोक्तकर्माणि त्यक्त्वा पौराणिकानि यः । करोति तन्त्रसम्बन्धीन्ययं कर्मी द्वितीयकः ॥ ५॥ त्यक्त्वा तान्यपि यः स्मार्तान्यनुतिष्ठति सर्वदा । श्रुतिसम्बन्धवन्त्येष तृतीयः कर्म्युदीर्यते ॥ ६॥ यश्च तान्यपि सन्त्यज्य श्रौतान्येवाचरत्ययम् । कर्मी धर्मार्थकामानां स्थानं तुर्योऽभिधीयते ॥ ७॥ श्रौतान्यपि च यस्त्यक्त्वा सदौपनिषदानि वै । करोति श्रद्धया कर्माण्ययं मोक्षी तु पञ्चमः ॥ ८॥ यान्यौपनिषदानां स्युरविरोधीनि कर्मणाम् । श्रौतादीनि सुसङ्ग्राह्यान्यमलानि मुमुक्षुभिः ॥ ९॥ कर्माण्युपनिषत्सु स्युर्ब्रह्मैकार्थासु वै कथम् । इति शङ्क्यन्नकुर्वन् हि विधिरस्ति जिजीविषेत् ॥ १०॥ ईशावास्यादिवेदान्तप्रोक्तान्यामरणादपि । कुर्वन्नेव विमुच्येत ब्रह्मवित्प्रवरोऽस्तु वा ॥ ११॥ यतयस्त्यक्तगार्हस्थ्या अपि स्वोचितकर्मभिः । आश्रमं पालयन्तः स्वं कैवल्यं प्राप्नुयुः परम् ॥ १२॥ कर्म प्रजाधनानां यस्त्यागः समभिधीयते । कामैकविषयत्वेन स यतेर्न विरुध्यते ॥ १३॥ संन्यासिनो हि कर्माणि नित्यानि विमलानि च । श्रेयोर्थानि विधीयन्ते परिव्राजेब्जजन्मना ॥ १४॥ अपेतकाम्यकर्माणो यतयोऽन्येऽपि वा जनाः । सद्यः क्रमेण वा मुक्तिमाप्नुयुर्नात्र संशयः ॥ १५॥ पञ्चमीं भूमिमारूढः ज्ञानोपासनकर्मभिः । शोकमोहादिनिर्मुक्तः सर्वदैव विराजते ॥ १६॥ न ज्ञानेन विनोपास्तिर्नोपास्त्या न विनेतरत् । कर्मापि तेन हेतुत्वं पूर्वपूर्वस्य कथ्यते ॥ १७॥ यद्वा यावन्न हि ज्ञानं तावन्नोपासनं मतम् । यावन्नोपासनं तावन्न ज्ञानं च कथञ्चन ॥ १८॥ ज्ञानं यावन्न कर्मापि न तावन्मुख्यमीर्यते । यावन्न कर्म तावच्च न ज्ञानं साधुसंमतम् ॥ १९॥ यावन्नोपासनं तावन्न कर्मापि प्रशस्यते । यावन्न कर्मोपास्तिश्च न तावत्सात्त्विकी मता ॥ २०॥ ज्ञानोपासनकर्माणि सापेक्षाणि परस्परम् । प्रयच्छन्ति परां मुक्तिं नान्यथेत्युक्तमेव ते ॥ २१॥ एतेषु साधनेष्वेकं त्रिषु यत्किञ्चिदत्र यः । त्यजेदसद्गुरूक्त्या स नाश्नुवीत परामृतम् ॥ २२॥ नानाविधानि ज्ञानानि नानारूपा उपास्तयः । नानाविधानि कर्माणि श्रुत्यन्तादिषु संविदुः ॥ २३॥ सम्बन्धस्तु त्रयाणां स्यादुचितः शिष्टवर्त्मना । निपुणैश्च सुविज्ञेयमनुबन्धचतुष्टयम् ॥ २४॥ अनुबन्धविरोधेन त्रयाणां चेत्समुच्चयः । कृतः स सद्यः प्राप्नोति तृप्तिं मानवपुङ्गवः ॥ २५॥ अनुबन्धपरिज्ञानं विना मुक्त्यै प्रयत्नवान् । न मुक्तिं विन्दते कोऽपि साधकादिविपर्ययात् ॥ २६॥ भोगाधिकारी मोक्षं चेत्फलमिच्छेत्कदाचन । अनुबन्धस्य विज्ञानं कथं नु स्यात्समञ्जसम् ॥ २७॥ अधिकारानुगुण्येन सम्बन्धः परिकीर्तितः । तत्सम्बन्धानुगुण्येन विषयश्च प्रकीर्तितः ॥ २८॥ विषयानुगुणं प्रोक्तं प्रयोजनमतो बुधैः । अनुबन्धाः सुविज्ञेया ज्ञानोपासनकर्मसु ॥ २९॥ वर्णाश्रमाणां सर्वेषामनुष्ठेयेषु कर्मसु । अविद्वान् संशयात्मा चेदनुवर्तेत पूर्वकान् ॥ ३०॥ विद्वान् चेत्संशयात्माभूच्छास्त्रे स्वमतिनिश्चितम् । आचरेत्तु न शिष्टस्यप्यबुधस्य पितुर्मतम् ॥ ३१॥ स्वकूटस्थबुधाचारः साधुसंविदितो यदि । विद्वानपि त्यजेत्स्वीयं तद्विरुद्धमसंमतम् ॥ ३२॥ पूर्वाचारानुसरणं कर्ममात्रे नियम्यते । ज्ञानोपास्त्योस्त्वबाह्यत्वादन्यथाऽपि च युज्यते ॥ ३३॥ पूर्वकेष्वपि साङ्ख्येषु स्वस्य युज्येत योगिता । अन्यथाऽपि च नैतेन प्रत्यवायः कियानपि ॥ ३४॥ यदि पूर्वविरोधेन कुर्यात्कर्माणि मानवः । स मूर्खो भवति क्षिप्रं प्रत्यवायी न संशयः ॥ ३५॥ नैमित्तिकानामकृतौ काम्यानां च न कश्चन । प्रत्यवायोऽत्र वाऽमुत्र लोके भवितुमर्हति॥ ३६॥ नित्यानां त्वकृतावत्रामुत्र वा प्रत्यवायभाक् । भवेदवश्यकार्यत्वादाश्रमच्युतिहेतवे ॥ ३७॥ न स्यादकरणं हेतुरभावात्मतया ततः । नित्याकरणहेतुः प्राक्कर्म चेत्प्रत्यवायकृत् ॥ ३८॥ अकृतौ प्रत्यवायस्य श्रवणं व्यर्थमेव तत् । पूर्वकर्मफलादन्यफलस्यानवधारणात् ॥ ३९॥ अतो नाभावता युक्ता नित्यकर्माकृतेर्यथा । निषिद्धाचरणं भावस्तथैवाकरणं मतम् ॥ ४०॥ विहिताकरणस्यापि भावात्मत्वोररीकृतेः । आस्तिकत्वमिह प्राहुरन्यथा नास्तिकत्वतः ॥ ४१॥ पूर्वकर्मफलस्यापि नित्याकरणकर्मणः । पापस्य दुःखहेतुत्वं पृथगेवाववधार्यते ॥ ४२॥ अज्ञानाद्विहिते लुप्ते ज्ञानाद्वा कर्मणि स्वके । प्रायश्चित्ती भवेन्मर्त्यो लभेद्दुर्जन्म वा पुनः ॥ ४३॥ बुद्धिपूर्वं त्यजन्नित्यमनुतापविवर्जितः । अनाश्रमी नरो घोरं रौरवं नरकं व्रजेत् ॥ ४४॥ जीवन्मुक्तस्य नित्येषु यदि लुप्तानि कानिचित् । न तेन प्रत्यवायोऽस्ति कैश्चित्स्वाश्रमसिद्धितः ॥ ४५॥ प्रायश्चित्तनिवर्त्यानि निषिद्धाचरणानि च । प्रायश्चित्तमकुर्वन्तमपि लिम्पन्ति नैव तम् ॥ ४६॥ कर्म शुद्धमशुद्धं च द्विविधं प्रोच्यते श्रुतौ । तत्राशुद्धेन बन्धः स्यान्मोक्षः शुद्धेन देहिनाम् ॥ ४७॥ अशुद्धं च तथा प्रोक्तं पुण्यं पापमिति द्विधा । परस्परं न बाधोऽस्ति तयोरत्राविरोधतः ॥ ४८॥ सुखदुःखे समस्तस्य जन्तोर्याभ्यां प्रसिध्यतः । तयोर्न वशमागच्छेच्छुद्धमात्रेण संस्थितः ॥ ४९॥ शुद्धं नित्यमनन्तं यत्सत्यं कर्म निगद्यते । नित्यशुद्धविमुक्तात्मसाक्षात्कारार्थकं विदुः ॥ ५०॥ विशुद्धैः कर्मभिः शुद्धानीन्द्रियाणि भवन्त्यलम् । इन्द्रियेषु विशुद्धेषु मनः शुद्धं स्वतो भवेत् ॥ ५१॥ शुद्धे मनसि जीवोऽपि विशुद्धो ब्रह्मणैकताम् । उपेत्य केवलानन्दं निष्कलं परमश्नुते ॥ ५२॥ बाह्यमाभ्यन्तरं चेति शुद्धं कर्म द्विधोच्यते । बाह्यं स्नानादि नित्यं स्याद्ध्यानाद्याभ्यन्तरं परम् ॥ ५३॥ अतः शुद्धेरशुद्धानां नाशो भवितुमर्हति । न शुद्धव्यतिरेकेण प्रयत्नान्तरमिष्यते ॥ ५४॥ विशुद्धकर्मनिष्ठास्ते यतयोऽन्येऽपि वा जनाः । अत्रैव परिमुच्यन्ते स्वातन्त्र्येण परामृतात् ॥ ५५॥ आरूढः पञ्चमीं भूमिं शुद्धेनैवावतिष्ठते । अतोऽत्र मतिमान्नित्यं पञ्चम्यभ्यासमाचरेत् ॥ ५६॥ इन्द्रियाणि विशुद्धान्यप्यशुद्धानां विवर्जनात् । शुद्धानामप्यनुष्ठानाद्धीमांस्तानि न विश्वसेत् ॥ ५७॥ अशुद्धेषु प्रवर्तेरन् पूर्ववासनया स्वतः । तेभ्यो नियम्य शुद्धेषु नित्यं तानि प्रवर्तयेत् ॥ ५८॥ इन्द्रियाणां च मनसः प्रसादं शुद्धकर्मभिः । उपलभ्यापि दुर्बुद्धिरशुद्धेह प्रवर्तते ॥ ५९॥ प्रसन्नमनसः स्वास्थ्यात्सुखं किञ्चित्प्रजायते । तावन्मात्रेण तृप्तस्तु क्रमेणाधः पतेन्नरः ॥ ६०॥ तृप्तिरल्पसुखप्राप्तौ महानर्थैककारणम् । अतस्तृप्तिमनाप्यैव शुद्धं नित्यं समाचरेत् ॥ ६१॥ यथा विषयभोगेषु विना तृप्तिं पुनः पुनः । प्रवर्तते तथा नित्यं यः शुद्धेषु स बुद्धिमान् ॥ ६२॥ शुद्धं शुद्धेन वर्धेत शुद्धः शुद्धं ततो व्रजेत् । अशुद्धमप्यशुद्धेनाशुद्धोऽशुद्धं तथा नरः ॥ ६३॥ यदेन्द्रियमनःप्राणाः शान्ताः सुप्ताविवाभवन् । शुद्धाशुद्धोभयातीतस्तदा तृप्तिं परां व्रजेत् ॥ ६४॥ यावन्नेन्द्रियसंशान्तिर्यावन्न मनसोऽप्ययः । यावन्न प्राणशान्तिश्च तावच्छुद्धं समाचरेत् ॥ ६५॥ परस्परोपयोगित्वाद्बाह्याभ्यन्तरशुद्धयोः । वियोगो नैव कार्योऽत्र बुधैरादेहमोचनात् ॥ ६६॥ यः शुद्धपक्षो हंसः स ऊर्ध्वं गच्छति चाम्बरे । अशुद्धपक्षः श्येनस्तु व्योमगोऽपि पतत्यधः ॥ ६७॥ छिन्नैकपक्षो हंसोऽपि नोर्ध्वं गन्तुमितोऽर्हति । अतः शुद्धद्वयं मुख्यं साधनं मुक्तये विदुः ॥ ६८॥ यद्यप्याभ्यन्तरं शुद्धं बाह्यशुद्धनिवर्तकम् । भवत्येतेन साम्यं न तयोरिति च केचन ॥ ६९॥ तथाऽपि बाह्यविलयसमकाललयात्परम् । आभ्यन्तरं समं तेन बाह्येन स्यात्स्वकर्मणा ॥ ७०॥ आभ्यन्तरं च तच्छुद्धं कर्म द्विविधमुच्यते । सम्प्रज्ञातसमाध्याख्यमसम्प्रज्ञातनाम च ॥ ७१॥ जीवन्मुक्तेः पुरावृत्तमाद्यं कर्म स्वमानसम् । पुरा विदेहमुक्तेस्तु वृतमन्यत्स्वमानसम् ॥ ७२॥ मानसत्वात्समाधेश्च कर्मत्वोक्तिर्न दूष्यते । अनन्यविषयत्वाच्च तत्फलं नैव नश्वरम् ॥ ७३॥ अन्तःशुद्धिर्बहिःशुद्धिं यथा नॄणामपेक्षते । बहिःशुद्धिस्तथैवान्तःशुद्धिं च नियमेन हि ॥ ७४॥ यस्य कर्मसु शुद्धेष्वप्यौदासीन्यं विजायते । तस्यैव जन्मसाङ्कर्यमनुमेयं विपश्चिता ॥ ७५॥ विरोधो जायते यस्य ज्ञानकर्मसमुच्चये । तस्यैव जन्मसाङ्कर्यमनुमेयं विपश्चिता ॥ ७६॥ यः श्रौतं कर्म हित्वान्यत्तान्त्रिकं समुपाश्रयेत् । तस्यैव जन्मसाङ्कर्यमनुमेयं विपश्चिता ॥ ७७॥ यश्चान्तरं च तत्कर्म मन्यते मन्दगोचरम् । तस्यैव जन्मसाङ्कर्यमनुमेयं विपश्चिता ॥ ७८॥ अशुद्धकर्मनिष्ठः सन् शुद्धं निन्दति यः सदा । तस्यैव जन्मसाङ्कर्यमनुमेयं विपश्चिता ॥ ७९॥ शुद्धं पश्यति यः शान्तमक्षिरोगीव भास्करम् । तस्यैव जन्मसाङ्कर्यमनुमेयं विपश्चिता ॥ ८०॥ विशुद्धवंशप्रभवं महामतिं विशुद्धबाह्यान्तरकर्मभास्वरम् । विशुद्धवेदान्तरहस्यवेदिनं विद्वेष्टि यः सङ्कर एव नेतरः ॥ ८१॥ अशुद्धवंशप्रभवं सुदुर्मतिं स्वशुद्धकर्मद्वयनष्टतेजसम् । अशुद्धतन्त्रार्थविदं नराधमं यः श्लाघते सङ्कर एव नेतरः ॥ ८२॥ इति सूर्यगीतायां द्वितीयोऽध्यायः ॥ ॥ अथ तृतीयोऽध्यायः ॥ अथातः सम्प्रवक्ष्यामि ममान्तर्यामिणं शिवम् । यः सर्वकर्मणां साक्षी निर्लेपः प्रभुरीश्वरः ॥ १॥ त्रिनेत्रं नीलकण्ठं यं साम्बं मृत्युञ्जयं हरम् । ध्यात्वा संसृतिमोक्षः स्यात्तं नमामि महेश्वरम् ॥ २॥ सर्वेषां कर्मणामेकः फलदाता य उच्यते । स एव मृड ईशानः सर्वज्ञः सर्वशक्तिमान् ॥ ३॥ यस्य स्मरणमात्रेण निवर्तन्तेऽखिलापदः । सम्पदश्चेह लभ्यन्ते सोऽन्तर्यामी शिवो हरः ॥ ४॥ येनैव सृष्टमखिलं जगदेतच्चराचरम् । यस्मिंस्तिष्ठति नश्यत्यप्येष एको महेश्वरः ॥ ५॥ यं नमन्ति सुराः सर्वे स्वस्वाभीष्टप्रसिद्धये । स्वातन्त्र्यं यस्य सर्वत्र सोऽन्तर्यामि महेश्वरः ॥ ६॥ उमार्धविग्रहः शम्भुः त्रिनेत्रः शशिशेखरः । गङ्गाधरो महादेवः सोऽन्तर्यामि दयानिधिः ॥ ७॥ श्रुतिस्मृतिपुराणेषु यस्यैवाधिक्यमिष्यते । यस्याधिक्यस्मृतेर्मुक्तिः सोऽन्तर्यामी पुरातनः ॥ ८॥ यन्नामजपमात्रेण पुरुषः पूज्यते सुरैः । यमाहुः सर्वदेवेशं सोऽन्तर्यामी गुरूत्तमः ॥ ९॥ यदाख्यामृतपानेन सन्तृप्ता मुनयोऽखिलाः । न वाञ्छन्ति महाभोगान् सोऽन्तर्यामी जगत्पतिः ॥ १०॥ अरुण उवाच - सद्गुरो भास्कर श्रीमन् सर्वतत्त्वार्थकोविद । श्रुतिस्मृतिपुराणेषु ह्यन्तर्याम्यन्यथा श्रुतः ॥ ११॥ सत्यं ज्ञानमनन्तं यत्प्रसिद्धं ब्रह्म निष्कलम् । निर्गुणं निष्क्रियं शान्तं केवलं सर्वगं परम् ॥ १२॥ तदेव सर्वान्तर्यामी श्रुतं सर्वान्तरत्वतः । वरेण्यं सवितुस्ते च गायत्र्यां तद्धि कथ्यते ॥ १३॥ अशरीरस्य तस्यैव ह्यादिमध्यान्तवर्जनात् । आकाशवद्विभूतेन सर्वान्तर्यामितोचिता ॥ १४॥ शिवस्य सशरीरस्य साम्बस्य सगुणस्य तु । अविभुत्वेन सा नैव युज्यते भास्कर प्रभो ॥ १५॥ सगुणैकप्रधानैश्च विशिष्टाद्वैतवादिभिः । कैश्चिद्ब्रह्महरीशानामन्तर्यामित्वमुच्यते ॥ १६॥ सर्वज्ञत्वादिधर्माणां समत्वं च त्रिमूर्तिषु । मत्वैवोपासते विप्राः ते गायत्रीपरायणाः ॥ १७॥ केचिद् द्रुहिण एव स्यादन्तर्यामी वाक्पतिः । नान्यौ हरिहरौ कर्मप्रसिद्धेरिति वै विदुः ॥ १८॥ केचित्तु विष्णुरेव स्यादन्तर्यामी रमापतिः । न विधीशौ परोपास्तिप्रसिद्धेरिति वै विदुः ॥ १९॥ केचिच्च शिव एकः स्यादन्तर्यामी ह्युमापतिः । नान्यौ ब्रह्महरी ज्ञानप्रसिद्धेरिति संविदुः ॥ २०॥ त्वदुक्तरीत्या त्वाधिक्यं ज्ञानोपासनकर्मसु । कर्मणोऽवगतं तेन विधेरेव प्रसिध्यति ॥ २१॥ एष पक्षः समीचीनस्तव नैव भविष्यति । तस्मादनिश्चितार्थं मां कुरुष्वासंशयं प्रभो ॥ २२॥ सूर्य उवाच - सम्यक्पृष्टं त्वया धीमन्नरुण श‍ृणु सादरम् । वक्ष्यामि निश्चितार्थं ते श्रुतिस्मृत्यादिभिः स्फुटम् ॥ २३॥ अन्तर्यामी द्विधा प्रोक्तः सगुणो निर्गुणोऽपि च । चरस्य केवलं त्वाद्यश्चरस्यान्योऽचरस्य च ॥ २४॥ अहं हि चर एवास्मि मदन्तर्यामिणावुभौ । गायत्र्यां चावगन्तव्यौ देवौ सगुणनिर्गुणौ ॥ २५॥ निर्गुणश्चावगन्तव्यः सगुणद्वारतोऽखिलैः । अतोऽब्रुवं शिवं साक्षान्मदन्तर्यामिणं तव ॥ २६॥ कारणत्वं यथा सिद्धं ब्रह्मणः परमात्मनः । यथा शिवस्य साम्बस्य कार्यत्वं च सतां मतम् ॥ २७॥ तथा शिवस्य हेतुत्वं विष्णोः कार्यत्वमप्यथ । विष्णोश्च हेतुतां तद्वद्विधेर्विद्धि च कार्यताम् ॥ २८॥ ब्रह्मा विष्णुः शिवो ब्रह्म ह्युत्तरोत्तरहेतवः । इति जानन्ति विद्वांसो नेतरे मायया वृताः ॥ २९॥ विशिष्टाद्वैतिनो वाऽन्ये सगुणैकाभिमानिनः । अशरीरानभिज्ञत्वान्मायापरवशा ध्रुवम् ॥ ३०॥ सर्वज्ञत्वादिधर्माणां कथं साम्यं त्रिमूर्तिषु । त्रयाणां च गुणानां हि वैषम्यं सर्वसंमतम् ॥ ३१॥ गुणत्रयवशात्तेषां वैषम्यं विद्धि सुस्थितम् । ब्रह्मा हि राजसः प्रोक्तो विष्णुस्तामस उच्यते ॥ ३२॥ रुद्रः स सात्त्विकः प्रोक्तः मूर्तिवर्णैश्च तादृशाः । चित्स्वरूपानुभूत्या च तारतम्यं निगद्यते ॥ ३३॥ निर्विशेषपरब्रह्मानन्यत्वेन तु ते समाः । तथाऽपि शिवशब्दस्य परब्रह्मात्मकत्वतः ॥ ३४॥ साक्षिणा निर्विकारेण चिन्मात्रेण महात्मना । सदाशिवेन नित्येन केवलेन समो न हि ॥ ३५॥ साम्बस्य चन्द्रचूडस्य नीलकण्ठस्य शूलिनः । उत्कर्षोऽस्ति स्वतःसिद्धः किं मया प्रतिपाद्यते ॥ ३६॥ आदौ मां जनयामास ब्रह्मा साक्षाच्चतुर्मुखः । यथा तथा विरिञ्चिं तं श्रीमान्नारायणो हरिः ॥ ३७॥ यतोऽभवन्महाविष्णुर्ममारुण पितामहः । ततो मे सुप्रसिद्धभूत्सूर्यनारायण अभ्धा ॥ ३८॥ नैतेन सकलेशस्य प्रपितामहतावशात् । सर्वोत्कृष्टत्वसंसिद्ध्या लुप्यते ह्यान्तरात्मना ॥ ३९ अथ वा योगवृत्या स्याच्छिवो नारायणाभिधः । तद्दृष्टिर्मयि कर्तव्योपासकरिति सन्मतम् ॥ ४०॥ कर्मोपासनबोधेषु ब्रह्मविष्णुशिवाः क्रमात् । प्रसिद्धा इति सन्त्यज्य धियं श‍ृणु वचो मम ॥ ४१॥ त्रिषु त्रयः प्रसिद्धाः स्युस्तारतम्येन चारुण । काम्यकर्मप्रधानोऽस्ति स्वयंभूश्चतुराननः ॥ ४२॥ नैमित्तिकप्रधानस्तु विष्णुः कमललोचनः । नित्यकर्मप्रधानः स शिवः साक्षात्त्रिलोचनः ॥ ४३॥ मूर्त्युपास्तौ विधिमुख्यस्त्वंशोपास्तौ हरिर्मतः । निरंशोपासने मुख्यो नीलकण्ठो हरो मतः ॥ ४४॥ ज्ञाने श्रवणजे ब्रह्मा विज्ञाने मननोदिते । विष्णुः स सम्यग्ज्ञाने तु निदिध्यासनजे शिवः ॥ ४५॥ अत्रैवं सति कस्याभूदाधिक्यमरुणाधुना । त्वमेव सम्यगालोच्य विनिश्चिनु महामते ॥ ४६॥ पुरा कश्चिन्महाधीरः शिवभक्ताग्रणीर्द्विजः । शिवाख्याजपसंसक्तश्चचार भुवि निस्पृहः ॥ ४७॥ स्वाश्रमाचारनिरतो भस्मरुद्राक्षभूषणः । सर्वशास्त्रार्थतत्त्वज्ञः कामक्रोधादिवर्जितः ॥ ४८॥ शमादिषट्कसम्पन्नः शिवभक्तजनादरः । शिवस्य वैभवं स्मृत्वा श्रुतिस्मृतिपुराणगम् ॥ ४९॥ सर्वेश्वरस्य साम्बस्य त्रिनेत्रस्य दयानिधेः । सदाशिवस्य माहात्म्यं स्वत एवेदमब्रवीत् ॥ ५०॥ पश्वादिभ्यो वरिष्ठाः क्षितिगतमनुजास्तेभ्य एवेन्द्रमुख्यः देवास्तेभ्यो विधाता हरिरपि च ततः शङ्करो यस्त्रिनेत्रः । नान्योऽस्माच्छङ्करात्तु श्रुतिषु निगदितो वा वरिष्ठः समो वा सर्वान्विष्ण्वादिकांस्तं न हि वयमधुना नूनमेवाश्रयामः ॥ ५१॥ मूलाधारे गणेशस्तदुपरि तु विधिर्विष्णुरस्मात्ततोऽयं रुद्रस्थाने चतुर्थे श्रुतिरपि च तथा प्राह शान्तं चतुर्थम् । अस्मादन्यः शिवोऽस्ति त्रिपुरहर इतो वा सदाद्यः शिवोऽस्ति स्वस्थोऽयं द्वादशान्तप्रबलनटनकृच्चापि साक्षात्सभेशः ॥ ५२॥ रौद्री शक्तिस्तथा स्यादयमपि च हरिः शाक्त एवं विरिञ्चो मन्तव्यो वैष्णवोऽमी सनकमुखमहाब्राह्मणा ब्राह्मणाश्च । तस्मादेवं विभक्ते न हि भवति हरेरंशितांशांशिभावे साक्षादप्यत्र नित्यं परमशिवमहं चांशिनं तं नमामि ॥ ५३॥ शम्भोरन्यन्न पश्याम्यहमिह परमे व्योम्नि सोमाच्छ्रुतौ वा यस्यैवैतेन भासा जगदखिलमिदं भासते चैत्यरूपम् । यच्छीर्षाङ्घ्री दिदृक्षु द्रुहिणमुररिपु सर्वशक्त्याप्य दृष्ट्वा खेदन्तौ जग्मतुस्तं परमशिवममुं त्वां विना कं नु वन्दे ॥ ५४॥ यं विष्णुर्नावपश्यत्यखिलजनभयध्वंसकं काशिकायां लिङ्गं चोपास्त इत्यप्यधिकभसितरुद्राक्षसंभूषितः सन् । जाबालेये बृहत्यप्यथ हरिजनिता श्रूयते सोम एकः पायाच्छ्रुत्यन्तसिद्धो जनिमृतिभयभृत्संसृतेस्तारको माम् ॥ ५५॥ मध्ये को वाऽधिकः स्याद्द्रुहिण हरिहराणामिति प्रश्नपूर्वं ब्रह्मादौ पैप्पलादं खलु वदति महान्रुद्र एवाधिकः स्यात् । इत्युक्त्वा शारभाख्ये श्रुतिशिरसि नमश्चास्तु रुद्राय तस्मै स्तुत्वैवं ध्येयमाह त्रिपुरहरमुमाकान्तमेकं भजेऽहम् ॥ ५६॥ ध्याता रुद्रो रमेशो हरिरपि तु तथा ध्यानमेकः शिवस्तु ध्येयोऽथर्वश्रुतेः सा निखिलरसवती या समाप्ता शिखाभूत् । ध्येयश्चिन्मात्र एकः परमशिव इतो वा चिदन्दशत्व- मस्य ध्यातुः स्यान्न त्वमुष्य प्रकृतिभवमनोवृत्तिरूपस्य विष्णोः ॥ ५७॥ एको रुद्रो महेशः शिव इति च महादेव एवैष सर्व व्यापी यः श्रूयतेऽस्मिञ्च्छ्रुतिशिरसि तथाथर्वशीर्षाभिधे च । देवाः सर्वे यदन्तस्थितिजुष इह ते विष्णुपूर्वास्ततोन्यः को वाऽस्याद्व्यापकोऽस्मान्निरतिशयचिदाकाशरूपान्महेशात् ॥ ५८॥ नाभौ ब्रह्माणमुक्त्वा हरिमपि हृदये रुद्रमेनं भ्रुवोस्त- न्मध्ये श्रुत्यन्त एवं प्रणवविवरणे नारसिंहाभिधे च । विज्ञेयः सोऽयमात्मा शिव इति च चतुर्थोऽद्वितीयः प्रशान्तश्चेत्याहान्ते प्रजेशस्त्रिदशपरिपदस्तत्स ईशः प्रपूज्यः ॥ ५९॥ कैवल्यं प्राप्नुयात्कः पुरुष इह शिवं केवलं त्वां विहाय स्वामिन्नीशं तथान्यं जगति सदसतोरत्र विष्णोर्विधेर्वा । चिन्मात्रः प्रत्यगात्मा त्वमसि खलु सदा पूर्व एकः शिवोऽत- स्त्वामेवैकं भजेऽहं सततमपि जगत्साक्षिणं निर्विशेषम् ॥ ६०॥ सूर्य उवाच - एवं शिवस्य माहात्म्ये सर्वश्रुत्यन्तनिश्चिते । उद्भवेत्संशयः कस्य को मुच्येत संशयात् ॥ ६१॥ अतोरुण महाप्राज्ञ मुख्यान्तर्यामिणं मम । त्रिनेत्रं भज कैवल्यसंसिध्यै परमेश्वरम् ॥ ६२॥ ॥ इति सूर्यगीतायां तृतीयोऽध्यायः ॥ ॥ अथ चतुर्थोऽध्यायः ॥ सूर्य उवाच - अथातः सम्प्रवक्ष्यामि तस्यान्तर्यामिणो गुरोः । जगत्सृष्ट्यादिकर्माणि लीलारूपाणि सुव्रत ॥ १॥ आदौ जगत्ससर्जेदं पञ्चीकरणकर्मणा । यः स ईशो महामायः सर्वज्ञः सर्वशक्तिमान् ॥ २॥ चतुर्विधेषु भूतेषु निजमायावशीकृतान् । जीवान् प्रवेशयित्वाननुप्रविवेश स्वयं वशी ॥ ३॥ लीलारूपमपीदं च कर्म तस्य महेशितुः । प्रारब्धकर्मजं ज्ञेयमाधिकारिकतावशात् ॥ ४॥ स ह्यादिकारिकः श्रेष्ठः पूर्वं जीवत्वमागतः । समुच्चयादभूदीशो ज्ञानोपासनकर्मणाम् ॥ ५॥ प्राक्कल्पाधिकृतो देवः स्वारब्धक्षपणात्स्वयम् । अपहाय निजां मायां प्राप्तवान् परमं पदम् ॥ ६॥ अथ तामाश्रितो जीवः कल्पादौ पूर्ववत्क्रमात् । सृष्ट्वा सर्वाधिकारी सन् जगत्पाति च हन्ति च ॥ ७॥ क्रियमाणतया तेन नियमेनैव कर्मणाम् । त्रयाणां तस्य कर्मित्वमीशस्याप्युपपद्यते ॥ ८॥ जीवन्मुक्तसमानत्वं यतस्तस्यावगम्यते । अतः प्रारब्धकर्मित्वं अवश्यं तस्य सिध्यति ॥ ९॥ ब्रह्मवित्त्वं हि तस्य स्यान्न तु ब्रह्मत्वमीशितुः । सृष्ट्यादिकर्मकर्तृत्वदर्शनान्माययाऽपि वा ॥ १०॥ जीवसृष्ट्यादिकर्तृत्वं ब्रह्मणोऽपि वर्तते । तथापि पूर्वकर्मित्वं तस्य न श्रूयते क्वचित् ॥ ११॥ कर्मणः प्रागभावत्वाद्भावत्वाद्ब्रह्मणो विभोः । पूर्वकर्मवतो हि स्यात्कर्म प्रारब्धसंज्ञितम् ॥ १२॥ सृष्ट्यादिकर्मबद्धत्वे तस्य मायावशत्वतः । वश्यमायत्ववचनं व्यर्थमेवेति चेन्न च ॥ १३॥ स्वाधिकारावसने हि कैवल्यं नोपरुध्यते । अतस्तस्य प्रसिद्धं तद्वश्यमायत्वमर्थवत् ॥ १४॥ स्थितौ तु तस्य मायित्वं कामित्वादिवदिष्यते । न धनित्वादिवत्कर्म पारवश्यान्निरन्तरम् ॥ १५॥ जाग्रद्वत्सृष्टिकर्म स्यात्स्वप्नवत्स्थितिकर्म च । जगत्प्रलयकर्म स्यात् सुप्तिवत्तस्य मायिनः ॥ १६॥ अवस्थात्रयवत्त्वेन कर्मत्रितयवत्तया । शरीरत्रयवत्त्वेन जीवः सोऽपीति केचन ॥ १७॥ तदयुक्तं पुरा जीवोऽप्यद्य ब्रह्मात्मवित्तया । सर्वज्ञत्वादिसम्पत्त्या स हि जीवविलक्षणः ॥ १८॥ जीवन्मुक्तसमानत्वान्न कर्मत्रयमीशितुः । प्रारब्धमात्रबद्धत्वादधिकारवशादिह ॥ १९॥ अधिकारावसाने तद्ब्रह्मत्वं सम्भविष्यति । इति वेदान्तसिद्धेऽर्थे व्यभिचारः कुतो भवेत् ॥ २०॥ ब्रह्मैवैकमकर्मोक्तं श्रुतिभिः स्मृतिभिश्च तत् । ईशस्य कर्मतोक्तिस्तु श्रूयते ह्यौपचारिकी ॥ २१॥ स कर्मत्वेऽपि तस्य स्यात्कर्ममोचकतेशितुः । सञ्चितागामिहीनत्वात्सर्वज्ञत्वाच्च सत्तम ॥ २२॥ ईश्वरब्रह्मणोर्भेदं सकर्माऽकर्मतादिभिः । सुप्रसिद्धमपह्नोतुं कः समर्थोऽस्ति मानतः ॥ २३॥ ईश्वरस्याप्यकर्मत्वं यदि ब्रूयान्निरङ्कुशम् । स द्वैती न कदाप्यस्मात्संसारान्मुक्तिमाप्नुयात् ॥ २४॥ यतस्तत्पदवाच्योऽर्थः स हेय इति कथ्यते । अतस्तस्य न नित्यत्वं नाकर्मत्वं च युज्यते ॥ २५॥ अनध्यस्तात्मभावेन न देहेनैव कश्चन । व्याप्रीयेत ततश्च स्याद्देहीशो ध्यानसंयुतः ॥ २६॥ स्वदेहेऽपीश्वरस्यास्ति नाध्यासः पारमार्थिकः । प्रातिभासिकमाश्रित्य स्रष्टृत्वादि निगद्यते ॥ २७॥ देहाध्यासस्य सत्यस्य न कदाप्यस्ति सङ्गतिः । प्रागीशदेहाभावेन देहाभावेन चाऽप्यये ॥ २८॥ जगत्प्रलयकाले स निर्व्यापारोऽपि सुप्तवत् । अध्यासबीजवत्त्वेन पुनः सृष्टौ प्रवर्तते ॥ २९॥ चतुर्युगसहस्रान्ते विधातुर्हि निशोच्यते । तदा सुप्तस्य तस्यापि जीवस्येव सबीजता ॥ ३०॥ तथा विष्णोर्युगाः प्रोक्तास्तस्माच्छतगुणाधिकाः । तथा शिवस्य तस्माच्च विष्णोः शतगुणाधिकाः ॥ ३१॥ एवं कालैरवच्छिन्नांस्तारतम्येन जीववत् । ईश्वरांस्तान् कथं ब्रूयां देहकर्मादिवर्जितान् ॥ ३२॥ व्यष्टिदेहत्रयं स्वीयं मत्वा जीवत्रयं यथा । पारमार्थिकसंसारनिबद्धं कर्मितामगात् ॥ ३३॥ समष्टिदेहत्रितयं तथा मत्वेश्वरत्रयम् । प्रातिभासिकसंसारनिबद्धं कर्मितामगात् ॥ ३४॥ शुद्धसत्त्वप्रधानायां मायायां प्रतिबिम्बितः । ईश इत्युच्यते तस्य निरुपाधिकता कथम् ॥ ३५॥ औपाधिकस्य नित्यत्वं कथं वाच्यं मनीषिभिः । अनित्यस्य च नैष्कर्म्यं कथं भवितुमर्हति ॥ ३६॥ ब्रह्मण्यारोपितो भ्रान्तैरीशाख्यः सर्वसृष्टिकृत् । आत्मयोगिभिरभ्रान्तैः स भवत्यवरोपितः ॥ ३७॥ अविद्यातिमिरान्धस्य स्थाणौ चोरवदीश्वरः । प्रतिभाति परब्रह्मण्यमले स्वात्मरूपिणि ॥ ३८॥ सद्यो मुमुक्षुदृष्ट्या हि नेश्वरस्यास्ति सत्यता । अतो विवर्तवादोऽयं सुतरामुपयुज्यते ॥ ३९॥ परिणामेऽप्यनित्यत्वसंसिद्धेरीश्वरस्य च । अद्वैतब्रह्मनिष्ठत्वं श्रोतुर्जीवस्य सम्भवेत् ॥ ४०॥ अधिकारिविभेदेन वादास्ते मतात्रयः । तत्रोत्तमाधिकारी स्याच्छृण्वन्नीशे विवर्तताम् ॥ ४१॥ जीवे तु परिणामित्वं श‍ृण्वन्नेवोत्तमोत्तमः । कीटवद्भृङ्गरूपेण परिणामे विमोक्षतः ॥ ४२॥ जीवस्येश्वरताऽवाप्तौ क्रममुक्तिर्हि सिध्यति । अतोऽस्य सद्यो मुक्त्यर्थं ब्रह्मतावाप्तिरीर्यते ॥ ४३॥ तुरीयः पञ्चमो वाऽऽस्तामीश्वरः षष्ठ एव वा । तस्मादतीतं ब्रह्मेति सिद्धान्ते कोऽनुसंशयः ॥ ४४॥ ईश्वरे तिष्ठति ब्रह्म ब्रह्मणीशश्च तिष्ठति । अत एकत्वमेव स्याद्द्वयोरिति न तर्क्यताम् ॥ ४५॥ ब्रह्मण्येवेश्वरः प्रोक्तो न तु ब्रह्मेश्वरे क्वचित् । विभोरविभुसंस्थत्वासंभवात्परमात्मनः ॥ ४६॥ ब्रह्मक्षत्रमुभे यस्य श्रुत्या भवत ओदनः । यस्योपसेचनं मृत्युः स यत्र ब्रह्मणीर्यते ॥ ४७॥ तदेतादृशमित्यत्र को वेदेदन्तयाव्ययम् । अखण्डं निर्गुणं ब्रह्म निराधारं परं महत् ॥ ४८॥ परब्रह्मांशभूतोऽपि परमः पुरुषोत्तमः । ईश्वरादधिकः प्रोक्तः किं पुनर्ब्रह्म केवलम् ॥ ४९॥ कारणं जगतामीशो जीवानां ब्रह्म कारणम् । एवं सतीशब्रह्मैक्यं व्यवहारे कथं भवेत् ॥ ५०॥ ईशस्य कर्मितायां हि पुण्यं पापं च संभवेत् । सुखं दुःखं च तेनैव जीवत्वमिति चेच्छृणु ॥ ५१॥ ईशः प्रवर्तते पुण्यपापयोर्लोकसङ्ग्रहात् । तथाऽपि सुखदुःखे स्तो नैवात्मज्ञानवत्तया ॥ ५२॥ भ्रूणहत्यादिपापानि ह्यकरोद्विष्णुरीदृशः । न तैर्दुःखमभूत्तस्य सम्प्राप्तं पारमार्थिकम् ॥ ५३॥ लोकक्षेमार्थकत्वेन तत्कृताघस्य निन्द्यता । न वाच्या न च तेनास्ति जीवत्वं तस्य सर्वथा ॥ ५४॥ ऋगादिवेदकर्ताऽपि स यथोक्तं समाचरेत् । अन्यथा सम्प्रसज्येत ह्यप्रामाणिकतेशितुः ॥ ५५॥ संसिद्धे शास्त्रकर्तृत्वे न कारयितृता वचः । व्यर्थमेवेति चेन्नैष दोष एव विचारणे ॥ ५६॥ जीवस्य कर्तृतायां हि स्यात्कारयितृतेशितुः । शास्त्रस्य कर्मतायां तु महेशस्यास्ति कर्तृता ॥ ५७॥ नैतेन शास्त्रयोनित्वं निर्गुणस्यैव हीयते । निर्गुणोद्भूतशास्त्रस्य सगुणाद्व्यक्तिदर्शनात् ॥ ५८॥ उपचर्यत ईशस्य गुणिनः शास्त्रयोनिता । यद्वाऽस्तामुभयोर्वेदवेदान्ताभ्यां च बीजता ॥ ५९॥ न चैतेनास्ति कर्मित्वसाम्यं ब्रह्मेशयोस्तयोः । कर्तुश्च कृतकर्तुश्च भेदोऽस्ति स्पष्ट एव हि ॥ ६०॥ कर्तृत्वं यस्य संसिद्धं कर्मित्वं तस्य सिद्ध्यति । इत्यत्र संशयः को वा तद्ब्रह्मेशौ च कर्मिणौ ॥ ६१॥ इति चेत्कर्मितेशस्य कामित्वादिवदिष्यते । ब्रह्मणोऽपि तु कर्मित्वं धनित्वादिवदित्यतः ॥ ६२॥ परतन्त्रो महेशः स्यात्स्वतन्त्रं ब्रह्म निर्गुणम् । आधाराधेयभावेन कार्यकारणतया द्वयोः ॥ ६३॥ कर्मित्वे ब्रह्मणः सिद्धे कथं नैर्गुण्यमीर्यते । इति चेन्नैष दोषोऽस्ति मायागुणविवर्जनात् ॥ ६४॥ अदृश्यादिभिर्विद्यागुणैरानन्दतादिभिः । सगुणव्यपदेशः स्याद्ब्रह्मणस्त्विष्ट एव सः ॥ ६५॥ जगत्संसारकर्तृत्वं यथा जीवेशयोर्मतम् । तथा जीवेशकर्तृत्वं परस्य ब्रह्मणो मतम् ॥ ६६॥ ब्रह्मणोऽन्यो न कर्ताऽस्ति प्राक्कर्मादिविवर्जनात् । अनाद्यनन्तं ब्रह्मैकमकर्माकर्तृ हीर्यते ॥ ६७॥ कालत्रयेऽप्यकर्तृत्वं ब्रह्मणः सम्मतं यदि । जीवेशरचना न स्यात् जगत्संसारयोरपि ॥ ६८॥ प्रत्यक्षसिद्धा रचना कर्तारं समपेक्षते । अतोऽद्य कर्मकर्तृत्वाद्ब्रह्मणः कर्मितोचिता ॥ ६९॥ कर्मित्वे ब्रह्मणोऽप्येवं किं वाच्यं ब्रह्मवेदिनः । ब्रह्मीभूतो न कर्मी स्यादित्येतच्च न सिद्ध्यति ॥ ७०॥ यादृशं ब्रह्म निर्णीतं तद्भूतोऽपि च तादृशः । इति निर्णय एव स्याद्युक्तेरपि समञ्जसः ॥ ७१॥ कालत्रयेऽप्यकर्मित्वमकर्तृत्वमकालता । कस्य चिद्ब्रह्मणोऽन्यस्य नीरूपस्यास्ति वस्तुनः ॥ ७२॥ तत्र कालत्रयातीतं नेह ज्ञेयं विवक्षितम् । प्रमेयत्वप्रमाणत्वप्रमातृत्वादिवर्जनात् ॥ ७३॥ ये तु ब्रह्मेशजीवाः सम्प्रोक्ताः कर्तृत्वसंयुताः । विद्यया मायया ते हि कर्मिणोऽविद्ययापि च ॥ ७४॥ कर्मिषु त्रिषु चोक्तेषु ब्रह्मणः श्रैष्ठ्यदर्शनात् । अकर्मत्वं श्रुतिस्मृत्योः प्रोच्यते युक्तमेव तत् ॥ ७५॥ एतेन कर्मिणः श्रैष्ठ्यं संसिद्धमिति ये विदुः । औदासीन्यं न तेषां स्याच्छ्रुतिस्मृत्युक्तकर्मसु ॥ ७६॥ ज्ञानादुपास्तिरुत्कृष्टा कर्मोत्कृष्टमुपासनात् । इति यो वेद वेदान्तैः स एव पुरुषोत्तमः ॥ ७७॥ इति सूर्यगीतायां चतुर्थोऽध्यायः ॥ ४॥ अथ पञ्चमोऽध्यायः ॥ सूर्य उवाच - अथातः सम्प्रवक्ष्यामि कर्मिश्रेष्ठस्य लक्षणम् । यच्छ्रुत्वा नैव भूयोऽन्यच्छ्रोतव्यं तेऽवशिष्यते ॥ १॥ यस्य देहः स्वकीयोऽपि सर्वथा न प्रतीयते । नेन्द्रियाणि च सर्वाणि स कर्मिश्रेष्ठ उच्यते ॥ २॥ यस्य प्राणाः प्रशान्ताः स्युर्मन आदीनि च स्वयम् । अव्यक्तान्तानि सर्वाणि स कर्मिश्रेष्ठ उच्यते ॥ ३॥ बालोन्मत्तपिशाचादि चेष्टितान्यपि यत्र नो । निष्ठाऽजगरवद्यस्य स कर्मिश्रेष्ठ उच्यते ॥ ४॥ नाहंभावश्च यस्यास्ति नेदंभावश्च कुत्रचित् । सर्वद्वन्द्वविहीनात्मा स कर्मिश्रेष्ठ उच्यते ॥ ५॥ प्राग्बद्धोऽहं विमुक्तोऽद्येत्येवं यस्य स्मृतिर्न च । नित्यमुक्तस्वरूपः सन् स कर्मिश्रेष्ठ उच्यते ॥ ६॥ विदेहमुक्तो यः प्रोक्तो वरिष्ठो ब्रह्मवेदिनाम् । अरूपनष्टचित्तासुः स कर्मिश्रेष्ठ उच्यते ॥ ७॥ कर्माणि यस्य सर्वाणि वासनात्रयजानि च । अभवन्नपशान्तानि स कर्मिश्रेष्ठ उच्यते ॥ ८॥ कर्माणि कर्मभिः शुद्धैरशुद्धान्युपमृद्य यः । स कर्मब्रह्ममात्रोऽभूत् स कर्मिश्रेष्ठ उच्यते ॥ ९॥ ज्ञानिनामपि यः श्रेष्ठः सप्तमीं भूमिकां गतः । उपासकानां यश्चैकः स कर्मिश्रेष्ठ उच्यते ॥ १०॥ यः सर्वैः पीडितोऽपि स्यान्निर्विकारोऽपि पूजितः । सुखदुःखे न यस्य स्तः स कर्मिश्रेष्ठ उच्यते ॥ ११॥ यः सर्वैर्मनुजैः पूज्यो यः सर्वैश्च सुरासुरैः । ब्रह्मविष्णुशिवैर्यश्च स कर्मिश्रेष्ठ उच्यते ॥ १२॥ त्यक्त्वा कर्माणि सर्वाणि स्वात्ममात्रेण तिष्ठतः । कथं कर्मित्वमित्येवं मा शङ्किष्ठा महामते ॥ १३॥ कर्मणां फलमेषा हि स्वात्ममात्रेण संस्थितिः । अतः सफलकर्मैष कर्मिश्रेष्ठो भवेद्ध्रुवम् ॥ १४॥ ज्ञानेन ज्ञायते यद्वा उपास्त्या चोपलभ्यते । तत्स्थिरं प्राप्यतेऽनेन कर्मणाऽतोऽस्य कर्मिता ॥ १५॥ देहेऽस्मिन् वर्तमानेऽपि देहस्मृतिविवर्जनात् । विदेहमुक्त इत्युक्तः कथं कर्मीति चेच्छृणु ॥ १६॥ देहविस्मृतिमत्त्वेऽपि कर्मदेहे स्थितत्वतः । अन्यदृष्ट्याऽस्य देहित्वात्कर्मित्वमुपपद्यते ॥ १७॥ देहस्थत्वादपूर्णः स्यादिति शक्यं न किञ्चन । तटाकमप्रकुंभस्थं जलं पूर्णं हि दृश्यते ॥ १८॥ प्रारब्धकर्ममुक्तोऽपि भोगान्मुक्तोऽपि चाखिलात् । कर्माकार्ये स्थितः कर्मी देहे स्याद्भोगसाधने ॥ १९॥ साधने सति देहेऽपि साध्यो भोगो न सिध्यति । देहविस्मृतिमत्त्वेन देहहीनसमत्वतः ॥ २०॥ आहिताग्नित्वसंसिद्ध्यै ज्योतिष्टोमे कृतेऽपि च । यथा न स्वर्गमाप्नोति निष्कामः पुरुषर्षभः ॥ २१॥ जाग्रस्वप्नसुषुप्त्यात्मसन्धित्रयकृतामृतः । सर्वसन्ध्यादिरहितः सन्धिभिर्वन्द्यते सदा ॥ २२॥ यः सर्वकर्मभिर्वन्द्यो नित्यं सर्वैरकर्मिभिः । स कर्मिप्रवरोऽकर्मिप्रवरश्चेति कथ्यते ॥ २३॥ सर्वसाम्यमुपेत्यस्य स्वात्मारामस्य योगिनः । सहस्रशः कृतैः किं वा वन्दनैरकृतेश्च वा ॥ २४॥ देहादिषु विकारेषु स्वीयत्वं स्वत्वपूर्वकम् । विहाय नित्यनिष्ठाभिः स्वमात्रः स विराजते ॥ २५॥ इन्द्रियार्थैर्विमूढानां दुष्कर्मत्वं निगद्यते । तैरपेतः सुकर्म्येष विदेह इति कथ्यते ॥ २६॥ यः सर्वद्वन्द्वनिर्मुक्तः सर्वत्रिपुटिवर्जितः । सर्वावस्थाविहीनः स विदेह इति कथ्यते ॥ २७॥ लौकिकं वैदिकं कर्म सर्वं यस्मिन्क्षयं गतम् । यस्मान्नैवाणुमात्रं च विदेह इति कथ्यते ॥ २८॥ यस्येन्द्रियाणि सर्वाणि न चलन्ति कदाचन । भित्तिस्थचित्राङ्गानीव विदेह इति कथ्यते ॥ २९॥ आत्मानं सत्यमद्वैतं केवलं निर्गुणामृतम् । सम्पश्यतः सदा स्वान्यविकारस्फुरणं कुतः ॥ ३०॥ आत्मेतरदसत्यं च द्वैतं नानागुणान्वितम् । अपश्यतः सदानन्दस्वरूपास्फुरणं कुतः ॥ ३१॥ आदिमध्यान्तरहितचिदानन्दस्वरूपिणः । स्थितप्रज्ञस्य को बाधः शरीरेण स्वयोगिनः ॥ ३२॥ कर्माणि कर्मणा त्यक्त्वा ब्रह्मणा ब्रह्मणि स्थितः । कर्मणा शर्म सततं सम्प्राप्तः स विराजते ॥ ३३॥ बुद्धेस्तैक्ष्ण्यं च मौढ्यं च यस्य नैवास्ति किञ्चन । बुद्धेः पारङ्गतः सोऽयं प्रबुद्धः शोभतेतराम् ॥ ३४॥ मनस्तथैव संलीनं चितीव लवणं जले । यथा निरन्तरात्मीयनिष्ठया सोऽद्वयोऽभवत् ॥ ३५॥ समनस्त्वान्महद्दुःखममनस्कस्य तत्कुतः । समनस्को हि सङ्कल्पान् करुते दुःखकारिणः ॥ ३६॥ प्रारब्धकर्मजं दुःखं जीवन्मुक्तस्य कथ्यते । कर्मत्रयविहीनस्य विदेहस्य कथं नु तत् ॥ ३७॥ कर्म कर्तव्यमिति वा न कर्तव्यमितीह वा । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ३८॥ समाधिर्वाऽथ कर्तव्यो न कर्तव्य इतीह वा । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ३९॥ पूर्वं बद्धोऽधुना मुक्तोऽस्म्यहमित्येव बन्धनात् । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४०॥ पूर्वमप्यभवन्मुक्तो मध्ये भ्रान्तिस्तु बन्धवत् । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४१॥ वन्ध्यापुत्रादिवत्सर्वं मय्यभूदसदित्यपि । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४२॥ आविद्यकं तमो ध्वस्तं स्वप्रकाशेन वा इति । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४३॥ स्वप्नेऽपि नाहंभावोऽस्ति मम देहेन्द्रियादिषु । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४४॥ अरूपनष्टमनसो विदेहत्वं प्रकीर्त्यते । तत्कथं मन्यमानस्य यत्किञ्चित्स्यादनात्मनः ॥ ४५॥ मनो नश्यति निःशेषं मननस्य विसर्जनात् । अमनस्कस्वभावं तत्पदं तस्यावशिष्यते ॥ ४६॥ मननेन विनिश्चित्य वैदेहीं मुक्तिमात्मनः । नैष्कर्म्यसिद्धिं वदतां का तृप्तिरविवेकिनाम् ॥ ४७॥ श्रुत्वा वेदान्तवाक्यानि मोदन्तेऽनुभवं विना । लीढेन ताडपत्रेण गुडाक्षरयुतेन किम् ॥ ४८॥ स्वानुभूतिं विना शास्त्रैः पण्डिताः समलङ्कृताः । कचहीनेव विधवा भूषणैर्भूषितोत्तमैः ॥ ४९॥ स्वानुभूतिं विना कर्माण्याचरन्त्यखिलान्यपि । स्वर्णयःकुम्भकारादितुल्या एवोपवीतिनः ॥ ५०॥ स्वानुभूतिं विना वेदान् पठन्ति विविधा द्विजाः । प्रावृण्णिशायां परितो मण्डूका इव दुस्स्वराः ॥ ५१॥ स्वानुभूतिं विना देहं बिभ्रत्यध्यासदार्ढ्यतः । शाकल्यस्य मृतं देहं धनबुद्ध्येव तस्कराः ॥ ५२॥ स्वानुभूतिं विना ध्यानं कुर्वन्त्यासनसंयुताः । बका इवांभसस्तीरे मत्स्यवञ्चनतत्पराः ॥ ५३॥ स्वानुभूतिं विना श्वासान्निरुन्धन्ति हठात्सदा । अयस्कारोऽनिलं बाह्यं द्रुतिकायामिवाधिकम् ॥ ५४॥ स्वानुभूतिं विना योगदण्डपट्टादिधारिणः । जीर्णकन्धाभरं भग्नदण्डभाण्डादि पित्तवत् ॥ ५५॥ स्वानुभूतिं विना यद्यत्कुर्वन्ति भुवि मानवाः । तत्तत्सर्वं वृथैव स्यान्मरुभूमौ कृषिर्यथा ॥ ५६॥ स्वानुभूत्यर्थकं कर्म निकृष्टमपि सर्वथा । उत्तमं विबुधैः श्लाघ्यं श्वेव चोरनिवर्तकः ॥ ५७॥ स्वानुभूत्युपयुक्तेभ्य इतराणि बहून्यपि । कर्मादीन्याचरन्मर्त्यो भ्रान्तवद्व्यर्थचेष्टितः ॥ ५८॥ श्रुतिस्मृतिपुराणेषु काम्यकर्माण्यनेकधा । प्रोच्यन्ते तेषु संसक्तस्त्याज्यः शिष्टैर्विटो यथा ॥ ५९॥ काम्यकर्मसमासक्तः स्वनिष्ठां स्वस्य मन्यते । जात्यन्धः स्वस्य रत्नादिपरीक्षादक्षतामिव ॥ ६०॥ अवशेन्द्रियमात्मार्थगुरुबुद्ध्यैव सेवते । बालातन्तुसुतं लोकेऽगणितं भुक्तये यथा ॥ ६१॥ यस्तु वश्येन्द्रियं शान्तं निष्कामं सद्गुरुं सदा । स्वात्मैकरसिकं मुक्त्यै स धीमानुपगच्छति ॥ ६२॥ काम्यकर्माणि चोत्सृज्य निष्कामो यो मुमुक्षया । शान्त्यादिगुणसंयुक्तं गुरुं प्राप्तः स मुच्यते ॥ ६३॥ इति श्रुत्वाऽरुणः सूर्यात्सन्तुष्टः स्वात्मनिष्ठया । कृतकृत्य इदं प्राह भास्करं विनयान्वितः ॥ ६४॥ अरुण उवाच - श्रीमन्गुरुवर स्वामिंस्त्वन्मुखात्पारमार्थिकम् । निष्कामकर्ममाहात्म्यं श्रुत्वा धन्योऽस्म्यसंशयम् ॥ ६५॥ सकर्मत्वमकर्मत्वं विदेहस्य च लक्षणम् । श्रुतं रहस्यं नातोऽन्यत्किञ्चिदप्यवशिष्यते ॥ ६६॥ तथाऽपि मम साक्षात्त्वं कर्तव्यं ब्रूहि निश्चितम् । मच्चित्तपरिपाकं हि षेत्सि सर्वज्ञ सद्गुरो ॥ ६७॥ इति पृष्ट उवाचेदं भगवान्भास्करोऽरुणम् । स्वसारथिं निजग्रस्थं बद्धबाहुं नताननम् ॥ ६८॥ सूर्य उवाच - अरुण त्वं परं ब्रह्म साक्षाद्दृष्ट्वाऽधुना कृती । तथाऽप्यादेहपतनाद्ब्रह्माभिध्यानमादरात् ॥ ६९॥ स्वाधिकारोचितं शुद्धं कर्माप्याचर सत्तम । प्रमादो माऽस्तु ते स्वप्नेऽप्युक्तयोर्ब्रह्मकर्मणोः ॥ ७०॥ संवादमावयोरेतं सर्वपापहरं शुभम् । यः श‍ृणोति सकृद्वा स कृतार्थो नात्र संशयः ॥ ७१॥ श्रीगुरुमूर्तिरुवाच - इति दिनकरवक्त्राद्ब्रह्मकर्मैनिष्ठां स्फुटतरमवगम्य प्राज्ञ एकोऽरुणः सः । अभवदखिललोकैः पूजनीयः कृतार्थ- स्त्वमपि भव तथैव क्षिप्रमंभोजजन्मन् ॥ ७२॥ विमलविगुणयोगाभ्यासदार्ढ्येन युक्तः सकलगतचिदात्मन्यद्वितीये बुधोऽपि । सततमपि कुरुष्वारब्धदुःखोपशान्त्यै रहसि निजसमाधीन्स्वोक्तकर्मापि धातः ॥ ७३॥ इति तत्त्वसारायणकर्मकाण्डोक्तश्रीसूर्यगीतायां पञ्चमोऽध्यायः ॥ ॥ इति सूर्यगीता समाप्ता ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : sUryagItA
% File name             : suuryagiitaa.itx
% itxtitle              : sUryagItA
% engtitle              : Surya Gita
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : tattvasArAyaNakarmakANda
% Indexextra            : (scanned, meaning (Karmakanda of Tattvasarayana of Vasishtha)
% Latest update         : October 12, 2008
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org