॥ उतथ्यगीता ॥

अध्यायः ९१ यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्म वित्तमः । मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥ १॥ स यथानुशशासैनमुतथ्यो ब्रह्म वित्तमः । तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ २॥ धर्माय राजा भवति न कामकरणाय तु । मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥ ३॥ राजा चरति वै धर्मं देवत्वायैव गच्छति । न चेद्धर्मं स चरति नरकायैव गच्छति ॥ ४॥ धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति । तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥ ५॥ राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते । देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ ६॥ अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते । तदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥ ७॥ उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् । भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ ८॥ न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः । न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ ९॥ वध्यानामिव सर्वेषां मनो भवति विह्वलम् । मनुष्याणां महाराज यदा पापो न वार्यते ॥ १०॥ उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् । असृजन्सुमहद्भूतमयं धर्मो भविष्यति ॥ ११॥ यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते । यस्मिन्विलीयते धर्मं तं देवा वेषलं विदुः ॥ १२॥ वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् । वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ १३॥ धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा । तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ॥ १४॥ धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः । अकार्याणां मनुष्येन्द्र स सीमान्त करः स्मृतः ॥ १५॥ प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयं भुवा । तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रह कारणात् ॥ १६॥ तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः । स राजा यः प्रजाः शास्ति साधु कृत्पुरुषर्षभः ॥ १७॥ कामक्रोधावनादृत्य धर्ममेवानुपालयेत् । धर्मः श्रेयः करतमो राज्ञां भरतसत्तम ॥ १८॥ धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा । ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ॥ १९॥ तेषां ह्यकाम करणाद्राज्ञः सञ्जायते भयम् । मित्राणि च न वर्धन्ते तथामित्री भवन्त्यपि ॥ २०॥ ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः । अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ॥ २१॥ ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् । अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे ॥ २२॥ एतत्फलमसूयाया अभिमानस्य चाभिभो । तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ॥ २३॥ दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः । तेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥ २४॥ राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव । राजा भवति तं जित्वा दासस्तेन पराजितः ॥ २५॥ स यथा दर्पसहितमधर्मं नानुसेवते । तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ २६॥ मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः । तदभ्यासादुपावर्तादहितानां च सेवनात् ॥ २७॥ निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः । पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ २८॥ एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् । अत्यायं चाति मानं च दम्भं क्रोधं च वर्जयेत् ॥ २९॥ अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च । परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥ ३०॥ कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् । अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ ३१॥ एते चान्ये च जायन्ते यदा राजा प्रमाद्यति । तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥ ३२॥ क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् । अधर्माः सम्प्रवर्तन्ते प्रजा सङ्करकारकाः ॥ ३३॥ अशीते विद्यते शीतं शीते शीतं न विद्यते । अवृष्टिरति वृष्टिश्च व्याधिश्चाविशति प्रजाः ॥ ३४॥ नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे । उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ ३५॥ अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति । प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ॥ ३६॥ द्वावाददाते ह्येकस्य द्वयोश् च बहवोऽपरे । कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृप दूषणम् ॥ ३७॥ ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते । त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥ ३८॥
अध्यायः ९२ कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः । सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥ १॥ यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् । रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ॥ २॥ एवमेव द्विजेन्द्राणां क्षत्रियाणां विशाम् अपि । शूद्राश्चतुर्णां वर्णानां नाना कर्मस्ववस्थिताः ॥ ३॥ कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि । ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ ४॥ तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् । शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ॥ ५॥ कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ । राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ ६॥ चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च । सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ॥ ७॥ राजैव कर्ता भूतानां राजैव च विनाशकः । धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ ८॥ राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा । समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ ९॥ हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतर गर्दभाः । अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥ १०॥ दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते । अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ ११॥ यच्च भूतं स भजते भूता ये च तदन्वयाः । अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥ १२॥ दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च । अविषह्य तमं मन्ये मा स्म दुर्बलमासदः ॥ १३॥ दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् । मा त्वां दुर्बलचक्षूंषि प्रदहेयुः स बान्धवम् ॥ १४॥ न हि दुर्बलदग्धस्य कुले किं चित्प्ररोहति । आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ॥ १५॥ अबलं वै बलाच्छ्रेयो यच्चाति बलवद्बलम् । बलस्याबल दग्धस्य न किं चिदवशिष्यते ॥ १६॥ विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति । अमानुष कृतस्तत्र दण्डो हन्ति नराधिपम् ॥ १७॥ मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् । मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ॥ १८॥ यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् । तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ॥ १९॥ यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु । न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥ २०॥ यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति । महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ २१॥ युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव । अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ॥ २२॥ राज्ञो यदा जनपदे बहवो राजपूरुषाः । अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ २३॥ यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा । कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ २४॥ महावृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति । यदा वृक्षश्छिद्यते दह्यते वा तदाश्रया अनिकेता भवन्ति ॥ २५॥ यदा राष्ट्रे धर्ममग्र्यं चरन्ति संस्कारं वा राजगुणं ब्रुवाणाः । तैरेवाधर्मश्चरितो धर्ममोहात् तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥ २६॥ यत्र पापा ज्यायमानाश् चरन्ति सतां कलिर्विन्दति तत्र राज्ञः । यदा राजा शास्ति नरान्नशिष्यान् न तद्राज्ञ्य वर्धते भूमिपाल ॥ २७॥ यश्चामात्यं मानयित्वा यथार्हं मन्त्रे च युद्धे च नृपो नियुज्ञ्यात् । प्रवर्धते तस्य राष्ट्रं नृपस्य भुङ्क्ते महीं चाप्यखिलां चिराय ॥ २८॥ अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् । समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ २९॥ संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते । निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ ३०॥ त्रायते हि यदा सर्वं वाचा कायेन कर्मणा । पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ ३१॥ यदा शारणिकान्राजा पुत्र वत्परिरक्षति । भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ ३२॥ यदाप्त दक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः । कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ ३३॥ कृपणानाथ वृद्धानां यदाश्रु व्यपमार्ष्टि वै । हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ॥ ३४॥ विवर्धयति मित्राणि तथारींश्चापकर्षति । सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥ ३५॥ सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति । पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ ३६॥ निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ । अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ॥ ३७॥ यमो राजा धार्मिकाणां मान्धातः परमेश्वरः । संयच्छन्भवति प्राणान्न संयच्छंस्तु पापकः ॥ ३८॥ ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च । यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ ३९॥ यमो यच्छति भूतानि सर्वाण्येवाविशेषतः । तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ ४०॥ सहस्राक्षेण राजा हि सर्व एवोपमीयते । स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥ ४१॥ अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् । भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ॥ ४२॥ सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् । पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ॥ ४३॥ न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् । भरो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ॥ ४४॥ तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् । न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ॥ ४५॥ अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः । सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणाम् अपि ॥ ४६॥ ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् । स्वदेशे परदेशे वा न ते धर्मो विनश्यति ॥ ४७॥ धर्मश्चार्थश्च कामश् च धर्म एवोत्तरो भवेत् । अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ॥ ४८॥ त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः । सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ ४९॥ अप्रमादश्च शौचं च तात भूतिकरं महत् । एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ ५०॥ अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः । नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ ५१॥ एतद्वृत्तं वासवस्य यमस्य वरुणस्य च । राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ ५२॥ तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् । आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ॥ ५३॥ धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत । देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ॥ ५४॥ स एवमुक्तो मान्धाता तेनोतथ्येन भारत । कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ॥ ५५॥ भवानपि तथा सम्यङ्मान्धातेव महीपतिः । धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ॥ ५६॥ ॥ इति उतथ्यगीता समाप्ता ॥ Adhyaya numbers 91-92 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 90-91. Sunder Hattangadi sunderh at hotmail.com

% Text title            : utathyagItA
% File name             : utathyagiitaa.itx
% itxtitle              : utathyagItA
% engtitle              : utathyagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Professor Tokunaga in Kyoto system(?)
% Proofread by          : Sunder Hattangadi(sunderh at hotmail.com)
% Indexextra            : mahAbhArata shAntiparva Rajadharma, chapters 90-91
% Latest update         : June 2, 1998
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP