व्यासगीता कूर्मपुराणे अध्यायाः १२-३३
१२
कूर्मपुराणे उत्तरभागे द्वादशोऽध्यायः
व्यास उवाच ।
शृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् ।
कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ १२.१॥
आम्नायसिद्धमखिलं बाह्मणानां प्रदर्शितम् ।
ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः ॥ १२.२॥
सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् ।
समाहितधियो यूयं शृणुध्वं गदतो मम ॥ १२.३॥
कृतोपनयनो वेदानधीयीत द्विजोत्तमाः ।
गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ॥ १२.४॥
दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।
भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम् ॥ १२.५॥
कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा ।
ब्राह्मणानां त्रिवृत् सूत्रं कौशं वा वस्त्रमेव वा ॥ १२.६॥
सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः ।
अन्यथा यत् कृतं कर्म तद्भवत्ययथाकृतम् ॥ १२.७॥
वसेदविकृतं वासः कार्पासं वा कषायकम् ।
तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम् ॥ १२.८॥
उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम् ।
अभावे दिव्यमजिनं रौरवं वा विधीयते ॥ १२.९॥
उद्धृत्य दक्षिणं बाहुं सव्ये बाहौ समर्पितम् ।
उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥ १२.१०॥
सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः ।
प्राचीनावीतमित्युक्तं पैत्रे कर्मणि योजयेत् ॥ १२.११॥
अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च ।
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ॥ १२.१२॥
उपासने गुरूणां च सन्ध्ययोः साधुसङ्गमे ।
उपवीती भवेन्नित्यं विधिरेष सनातनः ॥ १२.१३॥
मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ॥ १२.१४॥
धारयेद्बैल्वपालाशौ दण्डौ केशान्तकौ द्विजः ।
यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥ १२.१५॥
सायं प्रातर्द्विजः सन्ध्यामुपासीत समाहितः ।
कामाल्लोभाद्भयान्मोहात् त्यक्तेन पतितो भवेत् ॥ १२.१६॥
अग्निकार्यं ततः कुर्यात् सायं प्रातः प्रसन्नधीः ।
स्नात्वा सन्तर्पयेद्देवानृषीन् पितृगणांस्तथा ॥ १२.१७॥
देवताभ्यर्चनं कुर्यात् पुष्पैः पत्रेण चाम्बुना ।
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ १२.१८॥
असावहं भो नामेति सम्यक् प्रणतिपूर्वकम् ।
आयुरारोग्यसिद्ध्यर्थं द्रव्यादिपरिवर्जितम् ॥ १२.१९॥
आयुष्णान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ १२.२०॥
न कुर्याद्योऽभिवादस्य द्विजः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ १२.२१॥
विन्यपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ १२.२२॥
लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ १२.२३॥
नोदकं धारयेद्भैक्ष्यं पुष्पाणि समिधस्तथा ।
एवंविधानि चान्यानि न दैवाद्येषु कर्मसु ॥ १२.२४॥
ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥ १२.२५॥
उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥ १२.२६॥
वर्णज्येष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ॥ १२.२७॥
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः ।
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ॥ १२.२८॥
अनुवर्त्तनमेतेषां मनोवाक्कायकर्मभिः ।
गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥ १२.२९॥
नैतैरुपविशेत् सार्द्धं विवदेन्नात्मकारणात् ।
जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणम् ॥ १२.३०॥
उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।
गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः ॥ १२.३१॥
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।
यो भावयति या सूते येन विद्योपदिश्यते ॥ १२.३२॥
ज्येष्ठो भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ।
आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ॥ १२.३३॥
पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ।
यावत् पिता च माता च द्वावेतौ निर्विकारिणौ ॥ १२.३४॥
तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ।
पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ॥ १२.३५॥
स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा ।
नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ॥ १२.३६॥
तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ।
तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा ॥ १२.३७॥
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ।
वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ॥ १२.३८॥
धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः ।
सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ॥ १२.३९॥
शिष्यो विद्याफलं भुङ्क्ते प्रेत्य वा पूज्यते दिवि ।
यो भ्रातरं पितृसमं ज्येष्ठं मूर्खोऽवमन्यते ॥ १२.४०॥
तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ।
पुंसा वर्त्मनि तिष्टेत पूज्यो भर्त्ता तु सर्वदा ॥ १२.४१॥
अपि मातरि लोकेऽस्मिन् उपकाराद्धि गौरवम् ।
ये नरा भर्त्तृपिण्डार्थं स्वान् प्राणान् सन्त्यजन्ति हि ॥ १२.४२॥
तेषामथाक्षयाँल्लोकान् प्रोवाच भगवान् मनुः ।
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ॥ १२.४३॥
असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः ।
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ॥ १२.४४॥
भोभवत्पूर्वकत्वेनमभिभाषेत धर्मवित् ।
अभिवाद्यश्च पूज्यश्च शिरसा वन्द्य एव च ॥ १२.४५॥
ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ।
नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन ॥ १२.४६॥
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ।
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ॥ १२.४७॥
सवर्णेषु सवर्णानां काम्यमेवाभिवादनम् ।
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ १२.४८॥
पतिरेव गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ।
विद्या कर्म वयो बन्धुर्वित्तं भवति पञ्चमम् ॥ १२.४९॥
मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात् ।
पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च ॥ १२.५०॥
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ।
पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे ॥ १२.५१॥
वृद्धाय भारमग्नाय रोगिणे दुर्बलाय च ।
भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ॥ १२.५२॥
निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ।
भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजोत्तमः ॥ १२.५३॥
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ।
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ॥ १२.५४॥
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ।
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ॥ १२.५५॥
भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम् ।
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ॥ १२.५६॥
ब्रह्मचारी हरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ।
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ॥ १२.५७॥
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ।
सर्वं वा विचरेद्ग्रामं पूर्वोक्तानामसम्भवे ॥ १२.५८॥
नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ।
समाहृत्य तु तद्भैक्षं यावदर्थममायया ॥ १२.५९॥
भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।
भैक्ष्येण वर्त्तयेन्नित्यमेकान्नादी भवेद्व्रती ॥ १२.६०॥
भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ।
पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ॥ १२.६१॥
दृष्ट्वा हृष्येत् प्रसीदेच्च ततो भुञ्जीत वाग्यतः १२.६२॥
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् ॥ १२.६३॥
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ॥ १२.६४॥
प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् ।
शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥ १२.६५॥
इती श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
द्वादशोऽध्यायः ॥ १२॥
१३
कूर्मपुराणे उत्तरभागे त्रयोदशोऽध्यायः ।
व्यास उवाच ।
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।
ओष्ठावलोमोकौ स्पृष्ट्वा वासो विपरिधाय च ॥ १३.१
रेतोमूत्रपुरीषाणामुत्सर्गेऽयुक्तभाषणे ।
ष्ठीवित्वाऽध्ययनारम्भे कासश्वासागमे तथा ॥ १३.२
चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ।
सन्ध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत् पुनः ॥ १३.३
चण्डालम्लेच्छसम्भाषे स्त्रीशूद्रोच्छिष्टभाषणे ।
उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ॥ १३.४॥
आचामेदश्रुपाते वा लोहितस्य तथैव च ।
भोजने सन्ध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ॥ १३.५॥
आचान्तोऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ।
अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा ॥ १३.६॥
स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च
उपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा ॥ १३.७॥
केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ।
अनुष्णाभिरफेनाभिः विशुद्धाद्भिश्च धर्मतः ॥ १३.८॥ (विशुद्धाद्भिश्च वाग्यतः)
शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ।
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ॥ १३.९॥
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।
सोपानत्को जलस्थो वा नोष्णीषी चाचमेद्बुधः ॥ १३.१०॥
न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ।
नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ॥ १३.११॥
न पादुकाऽऽसनस्थो वा बहिर्जानुरथापि वा ।
न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च
नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।
शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ॥ १३.१२॥
न चैवाङ्गुलिभिः शस्तं न कुर्वन् नान्यमानसः ।
न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः ॥ १३.१३॥
न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ।
हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ॥ १३.१४॥
प्राशिताभिस्तथा वैश्यः स्त्रीशूद्रौ स्पर्शतोऽन्ततः ।
अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ॥ १३.१५॥
अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ।
कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते ॥ १३.१६॥
अङ्गुल्यग्रे स्मृतं दैवं तद्देवार्थं प्रकीर्त्तितः ।
मूले वा दैवमादिष्टं ग्नेयं मध्यतः स्मृतम् ॥ १३.१७॥
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ।
ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १३.१८॥
कायेन वाऽथ दैवेन पैत्रेण न तु वै द्विजाः ।
त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः ॥ १३.१९॥
सम्मृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ।
अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः ॥ १३.२०॥
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ।
कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् ॥ १३.२१॥
सर्वासामथ योगेन हृदयं तु तलेन वा ।
स्पृशेद्वै शिरसस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥ १३.२२
त्रिः प्राश्नीयाद्यदम्भस्तु सुप्रीतास्तेन देवताः ।
ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ॥ १३.२३
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ १३.२४
नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।
श्रोत्रयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ॥ १३.२५
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ।
मूर्ध्नि संस्पर्शनादेव प्रीतः स पुरुषो भवेत् ॥ १३.२६
नोच्छिष्टं कुर्वते नित्यं विप्रुषोऽङ्गं नयन्ति याः ।
दन्तान्तर्दन्तलग्नेषु जिह्वोष्टैरशुचिर्भवेत् ॥ १३.२७
स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् ।
भूमिकास्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ १३.२८
मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।
फले मूले चेक्षुदण्डे न दोषं प्राह वै मनुः ॥ १३.२९
प्रचरान्नोदपानेषु द्रव्यहस्तो भवेन्नरः । वर्। - यद्युच्छिष्टो भवेद्द्विजः
भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३०
तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः ।
भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३१
यद्यमन्त्रं समादाय भवेदुच्छेषणान्वितः ।
अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ १३.३२
वस्त्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह ।
अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ॥ १३.३३॥
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ।
निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ॥ १३.३४॥
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद्दक्षिणामुखः ।
अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्टतृणेन वा ॥ १३.३५॥
प्रावृत्य च शिरः कुर्याद्विण्मूत्रस्य विसर्जनम् ।
छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ॥ १३.३६॥
अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ।
न गोमये न कृष्टे वा महावृक्षे न शाड्वले ॥ १३.३७॥
न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ।
न जीर्णदेवायतने न वल्मीके कदाचन ॥ १३.३८॥
न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ।
तुषाङ्गारकपालेषु राजमार्गे तथैव च ॥ १३.३९॥
न क्षेत्रे न विमले वाऽपि न तीर्थे न चतुष्पथे ।
नोद्याने न समीपे वा नोषरे न पराशुचौ ॥ १३.४०॥
न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ।
न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् ॥ १३.४१॥
न देवदेवालययोरपामपि कदाचन ।
नदीं ज्योतींषि वीक्षित्वा न वार्यभिमुखोऽथवा ॥ १३.४२॥
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ।
आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणात् ॥ १३.४३॥
कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ।
नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमान् ॥ १३.४४॥
न मार्गान्नोषराद्देशाच्छौचोच्छिष्टात्तथैव च ।
न देवायतनात् कूपाद्ग्रामान्न च जलात् तथा ।
उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ॥ १३.४५॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
त्रयोदशोऽध्यायः ॥ १३॥
१४
कूर्मपुराणे उत्तरभागे चतुर्दशोऽध्यायः
व्यास उवाच ।
एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः ।
आहूतोऽध्ययनं कुर्याद्वीक्षमाणो गुरोर्मुखम् ॥ १४.१॥
नित्यमुद्यतपाणिः स्यात् सन्ध्याचारः समन्वितः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ १४.२॥
प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ १४.३॥
न च शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १४.४॥
नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ १४.५॥
गुरोर्यत्र प्रतीवादो निन्दा चापि प्रवर्त्तते ।
कर्णौं तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ १४.६॥
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
न चैवास्योत्तरं ब्रूयात् स्थिते नासीत सन्निधौ ॥ १४.७॥
उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा ।
मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥ १४.८॥
नास्य निर्माल्यशयनं पादुकोपानहावपि ।
आक्रमेदासनं चास्य छायादीन् वा कदाचन ॥ १४.९॥
साधयेद्दन्तकाष्ठादीन् लब्धं चास्मै निवेदयेत् ।
अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः ॥ १४.१०॥
न पादौ सारयेदस्य सन्निधाने कदाचन ।
जृम्भहास्यादिकञ्चैव कण्ठप्रावरणं तथा ॥ १४.११॥
वर्जयेत् सन्निधौ नित्यमवस्फोटतमं वचः ।
यथाकालमधीयीत यावन्न विमना गुरुः ॥ १४.१२॥
आसीताधो गुरोरुक्ते फलके वा समाहितः ।
आसने शयने याने नैव तिष्ठेत् कदाचन ॥ १४.१३॥
धावन्तमनुधावेत्तं गच्छन्तमनुगच्छति ।
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ॥ १४.१४॥
नासीत गुरुणा सार्द्धं शिलाफलकनौषु च ।
जितेन्द्रियः स्यात् सततं वश्यात्माऽक्रोधनः शुचिः ॥ १४.१५॥
प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ।
गन्धं माल्यं रसं भव्यं शुक्लं प्राणिविहिंसनम् ॥ १४.१६॥
अभ्यङ्गं चाञ्जनोपानच्छत्रधारणमेव च ।
कामं लोभं भयं निद्रां गीतवादित्रनर्त्तनम् ॥ १४.१७॥
आतर्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा ।
परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ १४.१८॥
उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ।
आहरेद्यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ॥ १४.१९॥
कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत् ।
अनृत्यदर्शी सततं भवेद्गीतादिनिःस्पृहः ॥ १४.२०॥
नादित्यं वै समीक्षेत न चरेद्दन्तधावनम् ।
एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ॥ १४.२१॥
गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः ।
मलापकर्षणस्नानं आचरेद्धि कदाचन ॥ १४.२२॥
न कुर्यान्मानसं विप्रो गुरोस्त्यागे कदाचन ।
मोहाद्वा यदि वा लोभात् त्यक्तेन पतितो भवेत् ॥ १४.२३॥
लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च ।
आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ॥ १४.२४॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥ १४.२५॥
गुरोर्गुरौ सन्निहिते गुरुवद्भक्तिमाचरेत् ।
न चातिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ १४.२६॥
विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ १४.२७॥
श्रेयस्तु गुरुवद्वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ १४.२८॥
बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ १४.२९॥
उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च ॥ १४.३०॥
गुरुवत् परिपूज्यास्तु सवर्णा गुरुयोषितः ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ १४.३१॥
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ १४.३२॥
गुरुपत्नी तु युवती नाभिवाद्येह पादयोः ।
कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ १४.३३॥
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ १४.३४॥
मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।
सम्पूज्या गुरुपत्नी च समास्ता गुरुभार्यया ॥ १४.३५॥
भ्रातुर्भार्योपसङ्ग्राह्या सवर्णाऽहन्यहन्यपि ।
विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसम्बन्धियोषितः ॥ १४.३६॥
पितुर्भगिन्या मातुश्च ज्यायस्यां च स्वसर्यपि ।
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥ १४.३७॥
एवमाचारसम्पन्नमात्मवन्तमदाम्भिकम् ।
वेदमध्यापयेद्धर्मं पुराणाङ्गानि नित्यशः ॥ १४.३८॥
संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।
हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥ १४.३९॥
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
शक्तोऽन्नदोऽर्थदो साधुः स्वाध्याय्यादेशधर्मतः ॥ १४.४०॥
कृतज्ञश्च तथाऽद्रोही मेधावी शुभकृन्नरः ।
आप्तः प्रियोऽथ विधिवत् षडध्याप्या द्विजातयः ॥ १४.४१॥
एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ।
आचम्य संयतो नित्यमधीयीत उदङ्मुखः ॥ १४.४२॥
उपसङ्गृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति नारभेत् ॥ १४.४३॥
प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ॥ १४.४४॥
ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद्द्विजः ।
कुर्यादध्ययनं नित्यं ब्रह्माञ्जलिकरस्थितः ॥ १४.४५॥
सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् ।
अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवतेऽन्यथा ॥ १४.४६॥
योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ।
प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ॥ १४.४७॥
यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।
सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥ १४.४८॥
अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ।
धर्माङ्गानि पुराणानि मांसैश्च तर्पयेत्सुरान् ॥ १४.३९॥
अपां समीपे नियतो नैत्यिकं विधिमाश्रितः ।
गायत्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ १४.५०॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्त्तितः ॥ १४.५१॥
गायत्रीं चैव वेदांस्तु तुलयाऽतोलयत् प्रभुः ।
एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ॥ १४.५२॥
ओङ्कारमादितः कृत्वा व्याहृतीस्तदनन्तरम् ।
ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥ १४.५३॥
पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः ॥ १४.५४॥
महाव्याहृतयस्तिस्रः सर्वाशुभनिबर्हणाः ॥ १४.५५॥
प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः ।
सत्त्वं रजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥ १४.५६॥
ओङ्कारस्तत् परं ब्रह्म सावित्री स्यात् तदक्षरम् ।
एष मन्त्रो महायोगः सारात् सार उदाहृतः ॥ १४.५७॥
योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् ।
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ १४.५८॥
गायत्री वेदजननी गायत्री लोकपावनी ।
न गायत्र्याः परं जप्यमेतद्विज्ञाय मुच्यते ॥ १४.५९॥
श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।
आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ १४.६०॥
उत्सृज्य ग्रामनगरं मासान् विप्रोऽर्द्धपञ्चमान् ।
अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ १४.६१॥
पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजाः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ १४.६२॥
छन्दांस्यूर्ध्वमथोऽभ्यस्येच्छुक्लपक्षेषु वै द्विजः ।
वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवः ॥ १४.६३॥
इमान् नित्यमनध्यायानधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणो ह्यनध्यायान्विवर्जयेत् ॥ १४.६४॥
कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमुद्गमे ।
विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे ॥ १४.६५॥
आकालिकमनध्यायमेतेष्वाह प्रजापतिः
एतानभ्युदितान् विद्याद्यदा प्रादुष्कृताग्निषु ।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ॥ १४.६६॥
एतानाकालिकान् विद्यादनध्यायानृतावपि ।
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ॥ १४.६७॥
सज्योतिः स्यादनध्यायमनृतौ चात्रदर्शने ।
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ॥ १४.६८॥
धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ।
अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ ॥ १४.६९॥
अनध्यायो रुद्यमाने समवाये जनस्य च ।
उदके मध्यरात्रे च विण्मूत्रे च विसर्जने ॥ १४.७०॥
उच्छिष्टः श्राद्धभुक् चैव मनसाऽपि न चिन्तयेत् ।
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् ॥ १४.७१॥
त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ।
यावदेकान्नदिष्टस्य स्नेहो गन्धश्च तिष्ठति ॥ १४.७२॥
विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्त्तयेत् ।
शयानः प्रौढपादश्च कृत्वा वै चावसिक्थकाम् ॥ १४.७३॥
नाधीयीतामिषं जग्ध्वा सूतकाद्यन्नमेव च ।
नीहारे बाणपाते च सन्ध्ययोरुभयोरपि ॥ १४.७४॥
अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ।
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ॥ १४.७५॥
अष्टकासु त्र्यहोरात्रं ऋत्वन्तासु च रात्रिषु ।
मार्गशीर्षे तथा पौषे माघमासे तथैव च ॥ १४.७६॥
तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ।
श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ॥ १४.७७॥
कदाचिदपि नाध्येयं कोविदारकपित्थयोः ।
समानविद्ये च मृते तथा सब्रह्मचारिणि ॥ १४.७८॥
आचार्ये संस्थिते वाऽपि त्रिरात्रं क्षपणं स्मृतम् ।
छिद्राण्येतानि विप्राणां येऽनध्यायाः प्रकीर्तिताः ॥ १४.७९॥
हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ।
नैत्यके नास्त्यनध्यायः सन्ध्योपासन एव च ॥ १४.८०॥
उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ।
एकामृचमथैकं वा यजुः सामाथवा पुनः ॥ १४.८१॥
अष्टकाद्यास्वधीयीत मारुते चातिवायति ।
अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ॥ १४.८२॥
न धर्मशास्त्रेष्वन्येषु पर्वाण्येतानि वर्जयेत् ।
एष धर्मः समासेन कीर्त्तितो ब्रह्मचारिणाम् ॥ १४.८३॥
ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।
योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजाः ॥ १४.८४॥
स सम्मूढो न सम्भाष्यो वेदबाह्यो द्विजातिभिः ।
न वेदपाठमात्रेण सन्तुष्टो वै भवेद्द्विजः ॥ १४.८५॥
पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ।
योऽधीत्य विधिवद्वेदं वेदार्थं न विचारयेत् ॥ १४.८६॥
स चान्धः शूद्रकल्पस्तु पदार्थं न प्रपद्यते ।
यदि त्वात्यन्तिकं वासं कर्त्तुमिच्छति वै गुरौ ॥ १४.८७॥
युक्तः परिचरेदेनमाशरीरविमोक्षणात् ।
गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् ॥ १४.८८॥
अभ्यसेत्स तदा नित्यं ब्रह्मनिष्ठः समाहितः ।
सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।
अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः ॥ १४.८९॥
एतद्विधानं परमं पुराणं वेदागमे सम्यगिहेरितञ्च ।
पुरा महर्षिप्रवरानुपृष्टः स्वायम्भुवो यन्मनुराह देवः ॥ १४.९०॥
एवमीश्वरसमर्पितान्तरो योऽनुतिष्ठति विधिं विधानवित् ।
मोहजालमपहाय सोऽमृतो याति तत् पदमनामयं शिवम् ॥ १४.९१॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
चतुर्दशोऽध्यायः ॥ १४॥
१५
कूर्मपुराणे उत्तरभागे पञ्चदशोऽध्यायः ।
व्यास उवाच ।
वेदं वेदौ तथा वेदान् विद्याद्वा चतुरो द्विजाः ।
अधीत्य चाभिगम्यार्थं ततः स्नायाद्द्विजोत्तमाः ॥ १५.१॥
गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया ।
चीर्णव्रतोऽथ युक्तात्मा स शक्तः स्नातुमर्हति ॥ १५.२॥
वैणवीं धारयेद्यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ १५.३॥
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ १५.४॥
स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं न धारयेत् ।
अन्यत्र काञ्चनाद्विप्रः न रक्तां बिभृयात् स्त्रजम् ॥ १५.५॥
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेद्वै वैभवे सति ॥ १५.६॥
न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् ।
नोपानहौ स्रजं चाथ पादुके न प्रयोजयेत् ॥ १५.७॥
उपवीतकरान् दर्भान् तथा कृष्णाजिनानि च ।
नापसव्यं परीदध्याद्वासो न विकृतञ्च यत् ॥ १५.८॥
आहरेद्विधिवद्दारान् सदृशानात्मनः शुभान् ।
रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ १५.९॥
अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् ।
आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ १५.१०॥
ऋतुकालाभिगामी स्याद्यावत् पुत्रोऽभिजायते ।
वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ १५.११॥
षष्ट्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ १५.१२॥ (ब्राह्मणः संयतेन्द्रियः)
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।
व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ १५.१३॥
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १५.१४॥
अभ्यसेत् प्रयतो वेदं महायज्ञांश्च भावयेत् ।
कुर्याद्गृह्याणि कर्माणि सन्ध्योपासनमेव च ॥ १५.१५॥
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ।
दैवतान्यपि गच्छेत कुर्याद्भार्याभिपोषणम् ॥ १५.१६॥
न धर्मं ख्यापयेद्विद्वान् न पापं गूहयेदपि ।
कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पनम् ॥ १५.१७॥
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ १५.१८॥
श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः ।
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ १५.१९॥
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् तरिष्यति ॥ १५.२०॥
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ।
सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ १५.२१॥
सन्ध्यास्नानपरो नित्यं ब्रह्मयज्ञपरायणः ।
अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्द्धते ॥ १५.२२॥
वीतरागभयक्रोधो लोभमोहविवर्जितः ।
सावित्रीजापनिरतः श्राद्धकृन्मुच्यते गृही ॥ १५.२३॥
मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।
दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ १५.२४॥
त्रिवर्गसेवी सततं देवतानां च पूजनम् ।
कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ॥ १५.२५॥
विभागशीलः सततं क्षमायुक्तो दयालुकः ।
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ १५.२६॥
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।
अध्यात्मनिरतज्ञानमेतद्ब्राह्मणलक्षणम् ॥ १५.२७॥
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।
यथाशक्ति चरेत् कर्म निन्दितानि विवर्जयेत् ॥ १५.२८॥
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ॥ १५.२९॥
विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् ।
अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ १५.३०॥
स्वदुःखेष्विव कारुण्यं परदुःखेषु सौहृदात् ।
दयेति मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् ॥ १५.३१॥
चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमिति तद्विद्याद्यत्र धर्मो विवर्द्धते ॥ १५.३२॥
अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥ १५.३३॥
सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् ।
यथाभूतप्रवादं तु सत्यमाहुर्मनीषिणः ॥ १५.३४॥
दमः शरीरोपरमः शमः प्रज्ञाप्रसादजः ।
अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति ॥ १५.३५॥
यया स देवो भगवान् विद्यया वेद्यते परः ।
साक्षाद्देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ १५.३६॥
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।
महायज्ञपरो विप्रो लभते तत्त्वमुत्तमम् ॥ १५.३७॥
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ १५.३८॥
नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः ।
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ १५.३९॥
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।
धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ १५.४०॥
भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः ।
न वेददेवतानिन्दां कुर्यात् तैश्च न संवदेत् ॥ १५.४१॥
यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः ।
अध्यापयेत् श्रावयेद्वा ब्रह्मलोके महीयते ॥ १५.४२॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
पञ्चदशोऽध्यायः ॥ १५॥
१६
कूर्मपुराणे उत्तरभागे षोडशोऽध्यायः ।
व्यास उवाच ।
न हिंस्यात् सर्वभूतानि नानृतं वा वदेत् क्वचित् ।
नाहितं नाप्रियं वाक्यं न स्तेनः स्यात्कदाचन ॥ १६.१॥
तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।
परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ १६.२॥
न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद्बुधः ॥ १६.३॥
नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् ।
प्राणानपहरत्येष याचकस्तस्य दुर्मतिः ॥ १६.४॥
न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः ।
ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ॥ १६.५॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
देवस्वं चापि यत्नेन सदा परिहरेत् ततः ॥ १६.६॥
पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे ।
अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ॥ १६.७॥
ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः ।
नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ १६.८॥
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः ।
धर्मार्थं केवलं ग्राह्यं ह्यन्यथा पतितो भवेत् ॥ १६.९॥
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।
क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ॥ १६.१०॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रलम्भनम् ॥ १६.११॥
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाऽऽचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १६.१२॥
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ॥ १६.१३॥
बैडालव्रतिनः पापा लोके धर्मविनाशकाः ।
सद्यः पतन्ति पापेन कर्मणस्तस्य तत् फलम् ॥ १६.१४॥
पाखण्डिनो विकर्मस्थान् वामाचारांस्तथैव च ।
पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ॥ १६.१५॥
वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा ।
द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ १६.१६॥
याजनं योनिसम्बन्धं सहवासं च भाषणम् ।
कुर्वाणः पतते जन्तुस्तस्माद्यत्नेन वर्जयेत् ॥ १६.१७॥
देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ॥ १६.१८॥
गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ।
कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ १६.१९॥
कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १६.२०॥
अनृतात् पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ।
अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ १६.२१॥
अश्रोत्रियेषु वै दानाद्वृषलेषु तथैव च ।
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥ १६.२२॥
नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् ।
न शूद्रराज्ये निवसेन्न पाखण्डजनैर्वृते ॥ १६.२३॥
हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् ।
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः ॥ १६.२४॥
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।
पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद्द्विजः ॥ १६.२५॥
अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ।
नान्यत्र निवसेत् पुण्यां नान्त्यजग्रामसन्निधौ ॥ १६.२६॥
न संवसेच्च पतितैर्न चण्डालैर्न पुल्कसैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ १६.२७॥
एकशय्याऽऽसनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।
याजनाध्यापनं योनिस्तथैव सहभोजनम् ॥ १६.२८॥
सहाध्यायस्तु दशमः सहयाजनमेव च ।
एकादश समुद्दिष्टा दोषाः साङ्कर्यसञ्ज्ञिताः ॥ १६.२९॥
समीपे वा व्यवस्थानात् पापं सङ्क्रमते नृणाम् ।
तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ॥ १६.३०॥
एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।
भस्मना कृतमर्यादा न तेषां सङ्करो भवेत् ॥ १६.३१॥
अग्निना भस्मना चैव सलिलेन विशेषतः ।
द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते ॥ १६.३२॥
न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् ।
परक्षेत्रे गां चरन्तीं न चाचक्षीत कस्यचित् ॥ १६.३३॥
न संवसेत् सूतकिना न कञ्चिन्मर्मणि स्पृशेत् ।
न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् ॥ १६.३४॥
परस्मै कथयेद्विद्वान् शशिनं वा कदाचन ।
न कुर्याद्बहुभिः सार्द्धं विरोधं बन्धुभिस्तथा ॥ १६.३५॥
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि विनिर्दिशेत् ॥ १६.३६॥
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ।
न देवगुरुविप्राणां दीयमानं तु वारयेत् ॥ १६.३७॥
न चात्मानं प्रशंसेद्वा परनिन्दां च वर्जयेत् ।
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ॥ १६.३८॥
यस्तु देवानृषीन् विप्रान्वेदान् वा निन्दति द्विजः ।
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥ १६.३९॥
निन्दयेद्वै गुरुं देवं वेदं वा सोपबृंहणम् ।
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ १६.४०॥
तूष्णीमासीत निन्दायां न ब्रूयात् किञ्चिदुत्तरम् ।
कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ॥ १६.४१॥
वर्जयेद्वै रहस्यञ्च परेषां गूहयेद्बुधः ।
विवादं स्वजनैः सार्द्धं न कुर्याद्वै कदाचन ॥ १६.४२॥
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ।
स तेन तुल्यदोषः स्यान्मिथ्यादि दोषवान् भवेत् ॥ १६.४३॥
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।
तानि पुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशंसिनाम् ॥ १६.४४॥
ब्रह्महत्यासुरापाने स्तेये गुर्वङ्गनागमे ।
दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥ १६.४५॥
नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः ।
नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् ॥ १६.४६॥
तिरोहितं वाससा वा नादर्शान्तरगामिनम् ।
न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ॥ १६.४७॥
न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् ।
नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद्बुधः ॥ १६.४८॥
पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् ।
नाभिभाषेत च परमुच्छिष्टो वाऽवगुण्ठितः ॥ १६.४९॥
न स्पृशेत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।
न तैलोदकयोश्छायां न पत्नीं भोजने सति ।
नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ १६.५०॥
नाश्नीयात् भार्यया सार्द्धन्नैनामीक्षेत चाशुचिम् ।
क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ॥ १६.५१॥
नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा ।
न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ॥ १६.५२॥
न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ १६.५३॥
न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद्बुधः ।
न च क्रोधवशं गच्छेद्द्वेषं रागं च वर्जयेत् ॥ १६.५४॥
लोभं दम्भं तथा यत्नादसूयां ज्ञानकुत्सनम् ।
मानं मोहं तथा क्रोधं द्वेषञ्च परिवर्जयेत् ॥ १६.५५॥
न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् ।
न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ॥ १६.५६॥
नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ।
न विशिष्टानसत्कुर्य्यात् नात्मानं वा शपेद्बुधः ॥ १६.५७॥
न नखैर्विलिखेद्भूमिं गां च संवेशयेन्न हि ।
न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ॥ १६.५८॥
आवासे भोजने वाऽपि न त्यजेत् सहयायिनम् ।
नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा ॥ १६.५९॥
शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।
न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ॥ १६.६०॥
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ।
न पाणिपादावग्नौच चापलानि समाश्रयेत् ॥ १६.६१॥
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ।
न चाङ्गनखवाद्यं वै कुर्यान्नाञ्जलिना पिबेत् ॥ १६.६२॥
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ।
न शातयेदिष्टकाभिः फलानि न फलेन च ॥ १६.६३॥
न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ।
न भेदनमधिस्फोटं छेदनं वा विलेखनम् ॥ १६.६४॥
कुर्याद्विमर्दनं धीमान् नाकस्मादेव निष्फलम् ।
नोत्सङ्गे भक्षयेद्भक्ष्यान् वृथा चेष्टां च नाचरेत् ॥ १६.६५॥
न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ।
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ॥ १६.६६॥
न लौकिकैः स्तवैर्देवांस्तोषयेद्बाह्यजैरपि ।
नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ॥ १६.६७॥
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ।
न गच्छेन्न पठेद्वाऽपि न चैव स्वशिरः स्पृशेत् ॥ १६.६८॥
न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ।
न बालातपमासेवेत् प्रेतधूमं विवर्जयेत् ॥ १६.६९॥
नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ।
नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ॥ १६.७०॥
न पादक्षालनं कुर्यात् पादेनैव कदाचन ।
नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद्बुधः ॥ १६.७१॥
नातिप्रसारयेद्देवं ब्राह्मणान् गामथापि वा ।
वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ॥ १६.७२॥
अशुद्धः शयनं यानं स्वाध्यायं स्नानभोजनम् ।
बहिर्निष्क्रमणं चैव न कुर्वीत कथञ्चन ॥ १६.७३॥
स्वप्नमध्ययनं स्नानमुच्चारं भोजनं गतिम् ।
उभयोः सन्ध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ॥ १६.७४॥
न स्पृशेत् पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् ।
न चैवान्नं पदा वाऽपि न देवप्रतिमां स्पृशेत् ॥ १६.७५॥
नाशुद्धोऽग्निं परिचरेन्न देवान् कीर्त्तयेदृषीन् ।
नावगाहेदगाधाम्बु धारयेन्नाग्निमेकतः ॥ १६.७६॥
न वामहस्तेनोद्धृत्य पिबेद्वक्त्रेण वा जलम् ।
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ १६.७७॥
अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ।
व्यतिक्रमेन्न स्रवन्तीं नाप्सु मैथुनमाचरेत् ॥ १६.७८॥
चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ।
नास्थिभस्मकपालानि न केशान्न च कण्टकान् ।
तुषांङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ॥ १६.७९॥
न चाग्निं लङ्घयेद्धीमान् नोपदध्यादधः क्वचित् ।
न चैनं पादतः कुर्यान्मुखेन न धमेद्बुधः ॥ १६.८०॥
न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् ।
अग्नौ न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ॥ १६.८१॥
सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् ।
अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत् ॥ १६.८२॥
न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।
पुण्यस्नानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥ १६.८३॥
न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन ।
परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ॥ १६.८४॥
परबाधां न कुर्वीत जलवातातपादिभिः ।
कारयित्वा स्वकर्माणि कारून् पश्चान्न वर्जयेत् ।
सायम्प्रातर्गृहद्वारान् भिक्षार्थं नावघाटयेत् ॥ १६.८५॥
बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् ।
विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ॥ १६.८६॥
न खादन्ब्राह्मणस्तिष्ठेन्न जल्पेद्वा हसन् बुधः ।
स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ॥ १६.८७॥
न पक्षकेणोपधमेन्न शूर्पेण न पाणिना ।
मुखेनैव धमेदग्निं मुखादग्निरजायत ॥ १६.८८॥
परस्त्रियं न भाषेत नायाज्यं याजयेद्द्विजः ।
नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ।
न देवायतनं गच्छेत् कदाचिद्वाऽप्रदक्षिणम् ॥ १६.८९॥
न वीजयेद्वा वस्त्रेण न देवायतने स्वपेत् ।
नैकोऽध्वानं प्रपद्येत नाधार्मिकजनैः सह ॥ १६.९०॥
न व्याधिदूषितैर्वापि न शूद्रैः पतितैर्न वा ।
नोपानद्वर्जितोऽध्वानं जलादिरहितस्तथा ॥ १६.९१॥
न रात्रौ वारिणा सार्द्धं न विना च कमण्डलुम् ।
नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ॥ १६.९२॥
निवत्स्यन्तीं न वनितामतिक्रामेत् क्वचिद्द्विजः ।
न निन्देद्योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ॥ १६.९३॥
देवतायतनं प्राज्ञो देवानां चैव मन्त्रिणाम् ।
नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ॥ १६.९४॥
स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः ।
नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ॥ १६.९५॥
वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघटोदकम् ।
न भक्षयेदभक्ष्याणि नापेयं चापिबेद्द्विजः ॥ १६.९६॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
षोडशोऽध्यायः ॥ १६॥
१७
कूर्मपुराणे उत्तरभागे सप्तदशोऽध्यायः ।
व्यास उवाच ।
नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद्वा यदि वाऽन्यतः ।
स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ १७.१॥
षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ १७.२॥
ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ १७.३॥
राजान्नं नर्त्तकान्नं च तक्ष्णोऽन्नं कर्मकारिणः ।
गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ॥ १७.४॥
चक्रोपजीविरजकतस्करध्वजिनां तथा ।
गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ॥ १७.५॥
कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च ।
सुवर्णकारशैलूषव्याधबद्धातुरस्य च ॥ १७.६॥
सुवर्णकारशैलूषव्याधबद्धातुरस्य च ।
चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ।
स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ॥ १७.७॥
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ।
भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ॥ १७.८॥
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ।
अपाङ्क्त्यान्नं च सङ्घान्नं शस्त्रजीवस्य चैव हि ॥ १७.९॥
क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि ।
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ॥ १७.१०॥
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ।
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥ १७.११॥
अप्रजानां तु नारीणां भृतकस्य तथैव च ।
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ १७.१२॥
शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च ।
विद्धप्रजननस्यान्नं परिवेत्रन्नमेव च ॥ १७.१३॥
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।
अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ॥ १७.१४॥
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ।
दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ॥ १७.१५॥
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ।
आर्द्धिकः कुलमित्रश्च स्वगोपालश्च नापितः ॥ १७.१६॥
कुशीलवः कुम्भकारः क्षेत्रकर्मक एव च
एते शूद्रेषु भोज्यान्नं दत्वा स्वल्पं पणं बुधैः ।
पायसं स्नेहपक्वं यद्गोरसं चैव सक्तवः ॥ १७.१७॥
पिण्याकं चैव तैलं च शूद्राद्ग्राह्यं द्विजातिभिः ।
वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा ॥ १७.१८॥
पलाण्डुं लसुनं शुक्तं निर्यासं चैव वर्जयेत् ।
छत्राकं विड्वराहं च शेळं पीयूषमेव च ॥ १७.१९॥
विलयं सुमुखं चैव कवकानि च वर्जयेत् ।
गृञ्जनं किंशुकं चैव ककुभञ्च तथैव च ॥ १७.२०॥
उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ।
वृथा कृशरसंयावं पायसापूपमेव च ॥ १७.२१॥
अनुपाकृतमांसं च देवान्नानि हवींषि च ।
यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ॥ १७.२२॥
नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ।
पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च ॥ १७.२३॥
रात्रौ च तिलसम्बद्धं प्रयत्नेन दधि त्यजेत् ।
नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् ॥ १७.२४॥
क्रियादुष्टं भावदुष्टमसत्सङ्गं विवर्जयेत् ।
केशकीटावपन्नं च सुहृल्लेखं च नित्यशः ॥ १७.२५॥
श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ।
उदक्यया च पतितैर्गवा चाघ्रातमेव च ॥ १७.२६॥
अनर्चितं पुर्युषितं पर्याभ्रान्तं च नित्यशः ।
काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् ॥ १७.२७॥
मनुष्यैरथवाऽऽघ्रातं कुष्ठिना स्पृष्टमेव च ।
न रजस्वलया दत्तं न पुंश्चाल्या सरोषया ॥ १७.२८॥
मलबद्वाससा वापि परवासोऽथ वर्जयेत् ।
विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा ॥ १७.२९॥
आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ।
बलाकं हंसदात्यूहं कलविङ्कं शुकं तथा ॥ १७.३०॥
कुररञ्च चकारञ्च जालपादं च कोकिलम् ।
चाषांश्च खञ्जरीटांश्च श्येनं गृध्रं तथैव च ॥ १७.३१॥
उलूकं चक्रवाकं च भासं पारावतं तथा ।
कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ १७.३२॥
सिंहं व्याघ्रं च मार्जारं श्वानं कुक्कुरमेव च ।
शृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ।
न भक्षयेत् सर्वमृगान् पक्षिणोऽन्यान् वनेचरान् ॥ १७.३३॥
जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ।
गोधा कूर्मः शशः श्वावित् सल्लकी चेति सत्तमाः ॥ १७.३४॥
भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ।
मत्स्यान् सशल्कान् भुञ्जीयान्मांसं रौरवमेव च ॥ १७.३५॥
निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ।
मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् ॥ १७.३६॥
वाध्रीणसं द्वीपिनञ्च भक्ष्यानाह प्रजापतिः ।
शफरं सिंहतुण्डं च तथा पाठीनरोहितौ ॥ १७.३७॥
मत्स्येष्वेते समुद्दिष्टा भक्षणाया द्विजोत्तमाः ।
प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ॥ १७.३८॥
यथाविधि नियुक्तं च प्राणानामपि चात्यये ।
भक्षयेदेव मांसानि शेषभोजी न लिप्यते ॥ १७.३९॥
औषधार्थमशक्तौ वा नियोगाद्यं न कारयेत् ।
आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ १७.४०॥
अदेयं चाप्यपेयं च तथैवास्पृश्यमेव च ।
द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ १७.४१॥
तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् ।
पीत्वा पतति कर्मभ्यस्त्वसम्भाष्यो भवेद्द्विजैः ॥ १७.४२॥
भक्षयित्वा ह्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः ।
नाधिकारी भवेत् तावद्यावत्तन्न व्रजत्यधः ॥ १७.४३॥
तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।
अपेयानि च विप्रो वै तथा चेद्याति रौरवम् ॥ १७.४४॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
सप्तदशोऽध्यायः ॥ १७॥
१८
कूर्मपुराणे उत्तरभागे अष्टादशोऽध्यायः ।
ऋषय ऊचुः ।
अहन्यहनि कर्त्तव्यं ब्राह्मणानां महामुने ।
तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ॥ १८.१॥
व्यास उवाच ।
वक्ष्ये समाहिता यूयं शृणुध्वं गदतो मम ।
अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद्विधिम् ॥ १८.२॥
ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् ।
कायक्लेशं तदुद्भूतं ध्यायेत मनसेश्वरम् ॥ १८.३॥
उषः कालेऽच सम्प्राप्ते कृत्वा चावश्यकं बुधः ।
स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ॥ १८.४॥
प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ।
तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥ १८.५॥
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।
ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ॥ १८.६॥
मुखे सुप्तस्य सततं लाला याः संस्रवन्ति हि ।
ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः ॥ १८.७॥
अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ॥ १८.८॥
अतः स्नानं विना पुंसां पावनं कर्म संस्मृतम् ।
होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥ १८.९॥
अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।
आर्द्रेण वाससा वाऽथ मार्जनं कापिलं स्मृतम् ॥ १८.१०॥
असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् ।
ब्रह्मादीनामथाशक्तौ स्नानान्याहुर्मनीषिणः ॥ १८.११॥
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।
वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम् ॥ १८.१२॥
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।
आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ॥ १८.१३॥
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ॥ १८.१४॥
वारुणं चावगाहस्तु मानसं स्वात्मवेदनम् ।
यौगिकं स्नानमाख्यातं योगे विष्ण्वादिचिन्तनम् ॥ १८.१५॥
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।
मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत् ॥ १८.१६॥
शक्तश्चेद्वारुणं विद्वान् प्रायश्चित्ते तथैव च ।
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ॥ १८.१७॥
आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ।
मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ॥ १८.१८॥
सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् ।
क्षीरवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ।
अपामार्गं च बिल्वं च करवीरं विशेषतः ॥ १८.१९॥
वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् ।
परिहृत्य दिनं पापं भक्षयेद्वै विधानवित् ॥ १८.२०॥
नोत्पाटयेद्दन्तकाष्टन्नाङ्गुल्या धारयेत् क्वचित् ।
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः ॥ १८.२१॥
स्नात्वा सन्तर्पयेद्देवानृषीन् पितृगणांस्तथा ।
आचम्य मन्त्रविन्नित्यं पुनराचम्य वाग्यतः ॥ १८.२२॥
सम्मार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः ।
आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ १८.२३॥
ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् ।
जप्त्वा जलाञ्जलिं दद्याद्भास्करं प्रति तन्मनाः ॥ १८.२४॥
प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत् सन्ध्यामिति श्रुतिः ॥ १८.२५॥
या सन्ध्या सा जगत्सूतिर्मायातीता हि निष्कला ।
ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ॥ १८.२६॥
ध्यात्वाऽर्कमण्डलगतां सावित्रीं वै जपन् बुधः ।
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ॥ १८.२७॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ॥ १८.२८॥
अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।
उपास्य विधिवत् सन्ध्यां प्राप्ताः पूर्वेऽपरां गतिम् ॥ १८.२९॥
योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः ।
विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ॥ १८.३०॥
तस्मात् सर्वप्रयत्नेन सन्ध्योपासनमाचरेत् ।
उपासितो भवेत् तेन देवो योगतनुः परः ॥ १८.३१॥
सहस्रपरमां नित्यं शतमध्यां दशावराम् ।
सावित्रीं वै जपेद्विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥ १८.३२॥
अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः सौरै ऋग्यजुःसामसम्भवैः ॥ १८.३३॥
उपस्थाय महायोगं देवदेवं दिवाकरम् ।
कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥ १८.३४॥
ओं खद्योताय च शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥ १८.३५॥
नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ।
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।
भूर्भुवः स्वस्त्वमोङ्कारः शर्वो रुद्रः सनातनः ॥ १८.३६॥
पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् ।
त्वमेव विश्वं बहुधा जातो यज्जायते च यत् ।
नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥ १८.३७॥
प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।
नमो नमस्ते रुद्राय त्वामहं शरणं गतः ।
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ॥ १८.३८॥
अम्बिकापतये तुभ्यमुमायाः पतये नमः ।
नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ॥ १८.३९॥
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।
नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ॥ १८.४०॥
नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः ।
प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ॥ १८.४१॥
हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् ।
नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ॥ १८.४२॥
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ।
नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ॥ १८.४३॥
उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि ।
एतद्वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ॥ १८.४४॥
प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद्दिवाकरम् ।
इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ।
प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ॥ १८.४५॥
सर्वपापप्रशमनं वेदसारसमुद्भवम् ।
ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥ १८.४६॥
अथागम्य गृहं विप्रः समाचम्य यथाविधि ।
प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ १८.४७॥
ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥ १८.४८॥
पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः ।
अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥ १८.४९॥
विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः ।
राक्षसं तद्भवेत् सर्वं नामुत्रेह फलप्रदम् ॥ १८.५०॥
दैवतानि नमस्कुर्याद्देयसारान्निवेदयेत् ।
दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥ १८.५१॥
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ।
वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ॥ १८.५२॥
जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् ।
अवेक्ष्य तच्च शास्त्राणि धर्मादीनि द्विजोत्तमः ॥ १८.५३॥
वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ।
उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये ॥ १८.५४॥
साधयेद्विविधानर्थान् कुटुम्बार्थे ततो द्विजः
ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ॥ १८.५५॥
पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ।
नदीषु देवखातेषु तडागेषु सरस्सु च ।
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ १८.५६॥
परकीयनिपानेषु न स्नायाद्वै कदाचन ।
पञ्चपिण्डान् समुद्धृत्य स्नायाद्वाऽसम्भवे पुनः ॥ १८.५७॥
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।
अधश्च तिसृभिः कार्यः पादौ षड्भिस्तथैव च ॥ १८.५८॥
मृत्तिका च समुद्दिष्टा सार्द्रामलकमात्रिका ।
गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ॥ १८.५९॥
लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।
प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ॥ १८.६०॥
अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।
भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥ १८.६१॥
आपो नारायणोद्भूतास्ता एवास्यायनं पुनः ।
तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः ॥ १८.६२॥
प्रेक्ष्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ॥ १८.६३॥
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥ १८.६४॥
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥ १८.६५॥
द्रुपदां वा त्रिरभ्यस्येद्व्याहृतिं प्रणवान्विताम् ।
सावित्रीं वा जपेद्विद्वान् तथा चैवाघमर्षणम् ॥ १८.६६॥
ततः सम्मार्जनं कुर्यादापो हिष्ठा मयो भुवः ।
इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥ १८.६७॥
ततोऽभिमन्त्र्य तत् तोयमापो हिष्ठादिमन्त्रकैः ।
अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम् ॥ १८.६८॥
त्रिपदां वाऽथ सावित्रीं तद्विष्णोः परमं पदम् ।
आवर्त्तयेद्वा प्रणवं देवं वा संस्मरेद्धरिम् ॥ १८.६९॥
द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः ।
अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ॥ १८.७०॥
अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।
विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ॥ १८.७१॥
यथाऽश्वमेधः क्रतुराट् सर्वपापापनोदनः ।
तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ १८.७२॥
अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् ।
प्रक्षिप्यालोकयेद्देवमूर्ध्वं यस्तमसः परः ॥ १८.७३॥
उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः ।
हंसः शुचिषदेतेन सावित्र्या सविशेषतः ॥ १८.७४॥
अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।
सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥ १८.७५॥
विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।
शतरुद्रीयमथर्वशिरः सौरान् मन्त्रांश्च सर्वतः ॥ १८.७६॥
प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः ।
तिष्ठंश्च वीक्ष्यमाणोऽर्कं जप्यं कुर्यात् समाहितः ॥ १८.७७॥
स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।
कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ॥ १८.७८॥
जपकाले न भाषेत नान्यानि प्रेक्षयेद्बुधः ।
न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ॥ १८.७९॥
गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ॥ १८.८०॥
चण्डालाशौचपतितान् दृष्ट्वा चैव पुनर्जपेत् ।
तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः ॥ १८.८१॥
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ॥ १८.८२॥
यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।
अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥ १८.८३॥
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ।
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥ १८.८४॥
ततः सन्तर्पयेद्देवानृषीन् पितृगणांस्तथा ।
आदावोङ्कारमुच्चार्य नामान्ते तर्पयामि वः ॥ १८.८५॥
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।
तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥ १८.८६॥
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
देवर्षींस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् ।
यज्ञोपवीती देवानां निवीती ऋषीतर्पणे ॥ १८.८७॥
प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावितः ।
निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः ।
स्वैर्मन्त्रैरर्चयेद्देवान् पुष्पैः पत्रैरथाम्बुभिः ॥ १८.८८॥
ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम् ।
अन्यांश्चाभिमतान् देवान् भक्त्याचारो नरोत्तमः ॥ १८.८९॥
प्रदद्याद्वाऽथ पुष्पाणि सूक्तेन पौरुषेण तु ।
आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ॥ १८.९०॥
ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः ।
नमस्कारेण पुष्पाणि विन्यसेद्वै पृथक् पृथक् ॥ १८.९१॥
विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ १८.९२॥
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ।
न ताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ।
तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ १८.९३॥
अथवा देवमीशानं भगवन्तं सनातनम् ।
आराधयेन्महादेवं भावपूतो महेश्वरम् ॥ १८.९४॥
मन्त्रेण रुद्रगायत्र्या प्रणवेनाथ वा पुनः ।
ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ॥ १८.९७॥
पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् ।
उक्त्वा नमः शिवायेति मन्त्रेणानेन वा जपेत् ॥ १८.९६॥
नमस्कुर्यान्महादेवं ऋतं सत्यमितीश्वरम् ।
निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ॥ १८.९७॥
प्रदक्षिणं द्विजः कुर्यात् पञ्चब्रह्माणि वै जपन् ।
ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ॥ १८.९८॥
अथावलोकयेदर्कं हंसः सुचिषदित्यृचा ।
कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः ॥ १८.९९॥
देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च ।
मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ॥ १८.१००॥
यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ १८.१०१॥
अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।
कुशपुञ्जे समासीनः कुशपाणिः समाहितः ॥ १८.१०२॥
शालाग्नौ लौकिके वाऽथ जले भूभ्यामथापिवा ।
वैश्वदेवश्च कर्तव्यो देवयज्ञः स वै स्मृतः ॥ १८.१०३॥
यदि स्याल्लौकिके पक्षे ततोऽन्नं तत्र हूयते ।
शालाग्नौ तत्पचेदन्नं विधिरेष सनातनः ॥ १८.१०४॥
देवेभ्यस्तु हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।
भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम् ॥ १८.१०५॥
श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।
दद्याद्भूमौ बलिं त्वन्नं पक्षिभ्यो द्विजसत्तमाः ॥ १८.१०६॥
सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ॥ १८.१०७॥
एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सन्ततम् ।
नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ॥ १८.१०८॥
उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ १८.१०९॥
पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद्द्विजम् ।
मनोवाक्कर्मभिः शान्तमागतं स्वगृहं ततः ॥ १८.११०॥
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ॥ १८.१११॥
दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ।
भिक्षामाहुर्ग्रासमात्रमग्रं तत्स्याच्चतुर्गुणम् ॥ १८.११२॥
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ।
गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ॥ १८.११३॥
अभ्यागतान् यथाशक्ति पूजयेदतिथीन् सदा ।
भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ।
दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ १८.११४॥
सर्वेषामप्यलाभे हि त्वन्नं गोभ्यो निवेदयेत् ।
भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥ १८.११५॥
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः ।
भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं स गच्छति ॥ १८.११६॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः ।
नाशयत्याशु पापानि देवानामर्चनं तथा ॥ १८.११७॥
यो मोहादथवाऽऽलस्यादकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकं शूकरेष्वभिजायते ॥ १८.११८॥
तस्मात् सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः ।
भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥ १८.११९॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
अष्टादशोऽध्यायः ॥ १८॥
१९
कूर्मपुराणे उत्तरभागे एकोनविंशतितमोऽध्यायः
व्यास उवाच ।
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
आसीनस्वासने शुद्धे भूम्यां पादौ निधाय तु ॥ १९.१॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥ १९.२॥
पञ्चार्द्रो भोजनं कुर्याद्भूमौ पात्रं निधाय तु ।
उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ १९.३॥
उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।
आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ॥ १९.४॥
महाव्याहृतिभिस्त्वन्नं परिधायोदकेन तु ।
अमृतोपस्तरणमसीत्यापोशानक्रियां चरेत् ॥ १९.५॥
स्वाहाप्रणवसंयुक्तां प्राणायाद्याहुतिं ततः ।
अपानाय ततो भुक्त्वा व्यानाय तदनन्तरम् ॥ १९.६॥
उदानाय ततः कुर्यात् समानायेति पञ्चमम् ।
विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥ १९.७॥
शेषमन्नं यथाकामं भुञ्जीत व्यञ्जनैर्युतम् ।
ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥ १९.८॥
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।
आचान्तः पुनराचामेदयं गौरिति मन्त्रतः ॥ १९.९॥
द्रुपदां वा त्रिरावर्त्य सर्वपापप्रणाशनीम् ।
प्राणानां ग्रन्थिरसीत्यालभेदुदरं ततः ॥ १९.१०॥
आचम्याङ्गुष्ठमात्रेण पादाङ्गुष्ठेन दक्षिणे ।
निःस्रावयेद्धस्तजलमूर्द्ध्वहस्तः समाहितः ॥ १९.११॥
कृतानुमन्त्रणं कुर्यात् सन्ध्यायामिति मन्त्रतः ।
अथाक्षरेण स्वात्मानं योजयेद्ब्रह्मणेति हि ॥ १९.१२॥
सर्वेषामेव यागानामात्मयोगः परः स्मृतः ।
योऽनेन विधिना कुर्यात् स याति ब्रह्मणः क्षयम् ॥ १९.१३॥
यज्ञोपवीती भुञ्जीत स्त्रग्गन्धालङ्कृतः शुचिः ।
सायम्प्रापर्नान्तरा वै सन्ध्यायां तु विशेषतः ॥ १९.१४॥
नाद्यात् सूर्यग्रहात् पूर्वं प्रति सायं शशिग्रहात् ।
ग्रहकाले च नाश्नीयात् स्नात्वाऽश्नीयाद्विमुक्तयोः ॥ १९.१५॥
मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ।
अमुक्तयोरस्तङ्गतयोरद्याद्दृष्ट्वा परेऽहनि ॥ १९.१६॥
नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्मतिः ।
यज्ञावशिष्टमद्याद्वा न क्रुद्धो नान्यमानसः ॥ १९.१७॥
आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् ।
वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥ १९.१८॥
यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः ।
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात् तदासुरम् ॥ १९.१९॥
नार्द्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् ।
न च भिन्नासनगतो न शयानः स्थितोऽपि वा ॥ १९.२०॥
न भिन्नभाजने चैव न भूम्यां न च पाणिषु ।
नोच्छिष्टो घृतमादद्यान्न मूर्द्धानं स्पृशेदपि ॥ १९.२१॥
न ब्रह्म कीर्तयन् वापि न निःशेषं न भार्यया ।
नान्धकारे न चाकाशे न च देवालयादिषु ॥ १९.२२॥
नैकवस्त्रस्तु भुञ्जीत न यानशयनस्थितः ।
न पादुकानिर्गतोऽथ न हसन् विलपन्नपि ॥ १९.२३॥
भुक्त्वा वै सुखमास्थाय तदन्नं परिणामयेत् ।
इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत् ॥ १९.२४॥
ततः सन्ध्यामुपासीत पूर्वोक्तविधिना द्विजः ।
आसीनस्तु जपेद्देवीं गायत्रीं पश्चिमां प्रति ॥ १९.२५॥
न तिष्ठति तु यः पुर्वां आस्ते सन्ध्यां तु पश्चिमाम् ।
स शूद्रेण समो लोके सर्वधर्मविवर्जितः ॥ १९.२६॥
हुत्वाऽग्निं विधिवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम् ।
सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि ॥ १९.२७॥
नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न च ।
न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥ १९.२८॥
न शीर्णायां तु खट्वायां शून्यागारे न चैव हि ।
नानुवंशे न पालाशे शयने वा कदाचन ॥ १९.२९॥
इत्येतदखिलेनोक्तमहन्यहनि वै मया ।
ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् ॥ १९.३०॥
नास्तिक्यादथवाऽऽलस्यात् ब्राह्मणो न करोति यः ।
स याति नरकान् घोरान् काकयोनौ च जायते ॥ १९.३१॥
नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधिं स्वकम् ।
तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठिनः ॥ १९.३२॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
एकोनविंशोऽध्यायः ॥ १९॥
२०
कूर्मपुराणे उत्तरभागे विंशतितमोऽध्यायः ।
व्यास उवाच ।
अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ २०.१॥
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
अपराह्णे द्विजातीनां प्रशस्तेनामिषेण च ॥ २०.२॥
प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके ।
चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तरे ॥ २०.३॥
अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु ।
तिस्रस्तास्त्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ २०.४॥
त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।
शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ २०.५॥
नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नारकी स्यादतोऽन्यथा ॥ २०.६॥
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।
अयने विषुवे चैव व्यतीपातेऽप्यनन्तकम् ॥ २०.७॥
सङ्क्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।
नक्षत्रेषु च सर्वेषु कार्यं काले विशेषतः ॥ २०.८॥
स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमाः ।
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ २०.९॥
रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।
पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ २०.१०॥
सर्वान् कामांस्तथा सर्प्ये पित्र्ये सौभाग्यमेव च ।
अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ॥ २०.११॥
ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् ।
वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ २०.१२॥
मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च ।
मूले कृषिं लभेत् ज्ञानं सिद्धिमाप्नोति श्राद्धतः ॥ २०.१३॥
सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः ।
श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ २०.१४॥
अजैकपादे कुप्यं स्यादहिर्बुध्ने गृहं शुभम् ।
रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा ।
याम्येऽथ जीवितन्तु स्याद्यदि श्राद्धं प्रयच्छति ॥ २०.१५॥
आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।
कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ २०.१६॥
विद्यामभीष्टां जीवे तु धनं वै भार्गवे पुनः ।
शनैश्चरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ २०.१७॥
कन्यका वै द्वितीयायां तृतीयायां तु वेदिनः ।
पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यां शोभनान् सुतान् ॥ २०.१८॥
षष्ट्यां द्युतिं कृषिं चापि सप्तम्यां च धनं नरः ।
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ २०.१९॥
स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।
एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ २०.२०॥
द्वादश्यां जातरूपं च रजतं कुप्यमेव च ।
ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः ।
पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ २०.२१॥
तस्माच्छ्राद्धं न कर्त्तव्यं चतुर्दश्यां द्विजातिभिः ।
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ २०.२२॥
द्रव्यब्राह्मणसम्पत्तौ न कालनियमः कृतः ।
तस्माद्भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ २०.२३॥
कर्मारम्भेषु सर्वेषु कुर्यादभ्युदयं पुनः ।
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वसु स्मृतम् ॥ २०.२४॥
अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ २०.२५॥
एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् ।
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ २०.२६॥
शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् ।
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ २०.२७॥
सन्न्ध्यारात्रौ न कर्त्तव्यं राहोरन्यत्र दर्शनात् ।
देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ॥ २०.२८॥
गङ्गायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।
गायन्ति पितरो गाथां कीर्त्तयन्ति मनीषिणः ॥ २०.२९॥
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येकोऽपि गायां व्रजेत् ॥ २०.३०॥
गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् ।
तारिताः पितरस्तेन स याति परमां गतिम् ॥ २०.३१॥
वराहपर्वते चैव गङ्गायां वै विशेषतः ।
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ २०.३२॥
गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ २०.३३॥
केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।
सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥ २०.३४॥
नर्मदायां कुशावर्त्ते श्रीशैले भद्रकर्णके ।
वेत्रवत्यां विशाखायां गोदावर्यां विशेषतः ॥ २०.३५॥
एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।
नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ॥ २०.३६॥
व्रीहिभिश्च यवैर्माषैरद्भिर्मूलफलेन वा ।
श्यामाकैश्च यवैः शाकैर्नीवारैश्च प्रियङ्गुभिः ।
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ २०.३७॥
आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् ।
विदारीश्च भरुण्डांश्च श्राद्धकाले प्रदापयेत् ॥ २०.३८॥
लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह ।
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥ २०.३९॥
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ।
षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै ॥ २०.४०॥
अष्टावेणस्य मांसेन रौरवेण नवैव तु ।
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ॥ २०.४१॥
शशकूर्मर्योर्मांसेन मासानेकादशैव तु ।
संवत्सरं तु गव्येन पयसा पायसेन तु ।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ २०.४२॥
कालशाकं महाशल्कः खड्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ २०.४३॥
क्रीत्वा लब्ध्वा स्वयं वाऽथ मृतानादृत्य वै द्विजः ।
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ २०.४४॥
पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् ।
कूष्माण्डालाबुवार्त्ताकं भूतृणं सुरसं तथा ॥ २०.४५॥
कुसुम्भपिण्डमूलं वै तण्डुलीयकमेव च ।
राजमाषांस्तथा क्षीरं माहिषाजं विवर्जयेत् ॥ २०.४६॥
आढक्यः कोविदारांश्च पालक्या मरिचांस्तथा ।
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ २०.४७॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे विशोऽध्यायः ॥ २०॥
२१
कूर्मपुराणे उत्तरभागे एकविंशतितमोऽध्यायः ।
व्यास उवाच ।
स्नात्वा यथोक्तं सन्तर्प्य पितॄंश्चन्द्रक्षये द्विजः ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः ॥ २१.१॥
पूर्वमेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद्धव्यकव्यानां प्रदाने चातिथिः स्मृतः ॥ २१.२॥
ये सोमपा विरजसो धर्मज्ञाः शान्तचेतसः ।
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥ २१.३॥
पञ्चाग्निरप्यधीयानो यजुर्वेदविदेव च ।
बह्वृचश्च त्रिसौपर्णस्त्रिमधुर्वाऽथ योऽभवत् ॥ २१.४॥
त्रिणाचिकेतच्छन्दोगो ज्येष्ठसामग एव च ।
अथर्वशिरसोऽध्येता रुद्राध्यायी विशेषतः ॥ २१.५॥
अग्निहोत्रपरो विद्वान् न्यायविच्च षडङ्गवित् ।
मन्त्रब्राह्मणविच्चैव यश्च स्याद्धर्मपाठकः ॥ २१.६॥
ऋषिव्रती ऋषीकश्च तथा द्वादशवार्षिकः ।
ब्रह्मदेयानुसन्तानो गर्भशुद्धः सहस्रदः ॥ २१.७॥
चान्द्रायणव्रतचरः सत्यवादी पुराणवित् ।
गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥ २१.८॥
विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः ।
महादेवार्चनरतो वैष्णवः पङ्क्तिपावनः ॥ २१.९॥
अहिंसानिरतो नित्यमप्रतिग्रहणस्तथा ।
सत्री च दाननिरता विज्ञेयः पङ्क्तिपावनः ॥ २१.१०॥
युवानः श्रोत्रियाः स्वस्था महायज्ञपरायणाः ।
सावित्रीजापनिरता ब्राह्मणाः पङ्क्तिपावनाः ।
कुलानां श्रुतवन्तश्च शीलवन्तस्तपस्विनः ।
अग्निचित्स्नातका विप्राः विज्ञेयाः पङ्क्तिपावनाः ।
मातापित्रोर्हिते युक्तः प्रातः स्नायी तथा द्विजः ।
अध्यात्मविन्मुनिर्दान्तो विज्ञेयः पङ्क्तिपावनः ॥ २१.११॥
ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः ।
श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पङ्क्तिपावनः ॥ २१.१२॥
वेदविद्यारतः स्नातो ब्रह्मचर्यपरः सदा ।
अथर्वणो मुमुक्षुश्च ब्राह्मणः पङ्क्तिपावनः ॥ २१.१३॥
असमानप्रवरको ह्यसगोत्रस्तथैव च ।
असम्बन्धी च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः ॥ २१.१४॥
भोजयेद्योगिनं शान्तं तत्त्वज्ञानरतं यतः ।
अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तथा ॥ २१.१५॥
तदलाभे गृहस्थं तु मुमुक्षुं सङ्गवर्जितम् ।
सर्वालाभे साधकं वा गृहस्थमपि भोजयेत् ॥ २१.१६॥
प्रकृतेर्गुणतत्त्वज्ञो यस्याश्नाति यतिर्हविः ।
फलं वेदविदां तस्य सहस्रादतिरिच्यते ॥ २१.१७॥
तस्माद्यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् ।
भोजयेद्धव्यकव्येषु अलाभादितरान् द्विजान् ॥ २१.१८॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ २१.१९॥
मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ २१.२०॥
न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य सङ्ग्रहः ।
पैशाची दक्षिणाशा हि नैवामुत्र फलप्रदा ॥ २१.२१॥
कामं श्राद्धेऽर्च्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ २१.२२॥
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ २१.२३॥
यथोषरे बीजमुप्त्वा न वप्ता लभते फलम् ।
तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥ २१.२४॥
यावतो ग्रसते पिण्डान् हव्यकव्येष्वमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीप्तान् स्थूलांस्त्वयोगुडान् ॥ २१.२५॥
अपि विद्याकुलैर्युक्ता हीनवृत्ता नराधमाः
यत्रैते भुञ्जते हव्यं तद्भवेदासुरं द्विजाः ॥ २१.२६॥
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नार्हः श्राद्धादिषु कदाचन ॥ २१.२७॥
शूद्रप्रेष्यो भृतो राज्ञो वृषलग्रामयाजकः ।
वधबन्धोपजीवी च षडेते ब्रह्मबन्धवः ॥ २१.२८॥
दत्तानुयोगो द्रव्यार्थं पतितान् मनुरब्रवीत् ।
वेदविक्रयिणो ह्येते श्राद्धादिषु विगर्हिताः ॥ २१.२९॥
सुतविक्रयिणो ये तु परपूर्वासमुद्भवाः ।
असामान्यान् यजन्ते ये पतितास्ते प्रकीर्तिताः ॥ २१.३०॥
असंस्कृताध्यापका ये भृत्या वाऽध्यापयन्ति ये ।
अधीयते तथा वेदान् पतितास्ते प्रकीर्तिताः ॥ २१.३१॥
वृद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रविदो जनाः ।
कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ २१.३२॥
यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।
न तस्य तद्भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम् ॥ २१.३३॥
अनाश्रमी द्विजो यः स्यादाश्रमी वा निरर्थकः ।
मिथ्याश्रमी च ते विप्रा विज्ञेयाः पङ्क्तिदूषकाः ॥ २१.३४॥
दुश्चर्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ।
विद्धप्रजननश्चैव स्तेनः क्लीबोऽथ नास्तिकः ॥ २१.३५॥
मद्यपो वृषलीसक्तो वीरहा दिधिषूपतिः ।
आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः ॥ २१.३६॥
परिवेत्ता च हिंस्रश्च परिवित्तिर्निराकृतिः ।
पौनर्भवः कुसीदश्च तथा नक्षत्रदर्शकः ॥ २१.३७॥
गीतवादित्रनिरतो व्याधितः काण एव च ।
हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णी तथैव च ॥ २१.३८॥
कान्तादूषी कुण्डगोलौ अभिशस्तोऽथ देवलः
मित्रध्रुक् पिशुनश्चैव नित्यं भार्यानुवर्त्तितः ॥ २१.३९॥
मातापित्रोर्गुरोस्त्यागी दारत्यागी तथैव च
गोत्रस्पृक् भ्रष्टशौचश्च काण्डस्पृष्टस्तथैव च ॥ २१.४०॥
अनपत्यः कूटसाक्षी याचको रङ्गजीवकः ।
समुद्रयायी कृतहा तथा समयभेदकः ॥ २१.४१॥
देवनिन्दापरश्चैव वेदनिन्दारतस्तथा ।
द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धादिकर्मसु ॥ २१.४२॥
कृतघ्नः पिशुनः क्रूरो नास्तिको वेदनिन्दकः ।
मित्रध्रुक् कुहकश्चैव विशेषात् पङ्क्तिदूषकाः ॥ २१.४३॥
सर्वे पुनरभोज्यान्नः तदानार्हाश्च कर्मसु ।
ब्रह्मभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः ॥ २१.४४॥
शूद्रान्नरसपुष्टाङ्गः सन्ध्योपासनवर्जितः ।
महायज्ञविहीनश्च ब्राह्मणः पङ्क्तिदूषकः ॥ २१.४५॥
अधीतनाशनश्चैव स्नानहोमविवर्जितः ।
तामसो राजसश्चैव ब्राह्मणः पङ्क्तिदूषकः ॥ २१.४६॥
बहुनाऽत्र किमुक्तेन विहितान् ये न कुर्वते ।
निन्दितानाचरन्त्येते वर्ज्याः श्राद्धे प्रयत्नतः ॥ २१.४७॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
एकविशोऽध्यायः ॥ २१॥
२२
कूर्मपुराणे उत्तरभागे द्वाविंशतितमोऽध्यायः
व्यास उवाच ।
गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः ।
सन्निमन्त्र्य द्विजान् सर्वान् साधुभिः सन्निमन्त्रयेत् ॥ २२.१॥
श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च ।
असम्भवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ॥ २२.२॥
तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।
अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवाः ॥ २२.३॥
ब्राह्मणैस्तै सहाश्नन्ति पितरो ह्यन्तरिक्षगाः ।
वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ २२.४॥
आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।
वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ॥ २२.५॥
अक्रोधनोऽत्वरोऽमत्तः सत्यवादी समाहितः ।
भारं मैथुनमध्वानं श्राद्धकृद्वर्जयेद्ध्रुवम् ॥ २२.६॥
आमन्त्रितो ब्राह्मणो वा योऽन्यस्मै कुरुते क्षणम् ।
स याति नरकं घोरं सूकरत्वां प्रायाति च ॥ २२.७॥
आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद्द्विजः ।
स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ॥ २२.८॥
श्राद्धे निमन्त्रितो विप्रो मैथुनं योऽधिगच्छति ।
ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ॥ २२.९॥
निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः ।
भवन्ति पितरस्तस्य तन्मासं पापभोजनाः ॥ २२.१०॥
निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात् कलहं द्विजः ।
भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥ २२.११॥
तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद्द्विजः ।
अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ॥ २२.१२॥
श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः ।
समूलानाहरेद्वारि दक्षिणाग्रान् सुनिर्मलान् ॥ २२.१३॥
दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् ।
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ॥ २२.१४॥
नदीतीरेषु तीर्थेषु स्वभूमौ चैव नाम्बुषु ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ २२.१५॥
पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् ।
स्वामिभिस्तद्विहन्येत मोहाद्यत् क्रियते नरैः ॥ २२.१६॥
अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च ।
सर्वाण्यस्वामिकान्याहुर्न ह्येतेषु परिग्रहः ॥ २२.१७॥
तिलान् प्रविकिरेत्तत्र सर्वतो बन्धयेदजाम् ।
असुरोपहतं श्राद्धं तिलैः शुद्ध्यत्यजेन वा ॥ २२.१८॥
ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् ।
चोष्यं पेयं समृद्धं च यथाशक्त्या प्रकल्पयेत् ॥ २२.१९॥
ततो निवृत्ते मध्याह्ने लुप्तरोमनखान् द्विजान् ।
अभिगम्य यथामार्गं प्रयच्छेद्दन्तधावनम् ॥ २२.२०॥
तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् ।
पात्रैरौदुम्बरैर्दद्याद्वैश्वदैवत्यपूर्वकम् ॥ २२.२१॥
ततःस्नानान्निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः ।
पाद्यमाचमनीयं च सम्प्रयच्छेद्यथाक्रमम् ॥ २२.२२॥
ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः ।
प्राङ्मुखान्यासनान्येषां त्रिदर्भोपहितानि च ॥ २२.२३॥
दक्षिणामुखमुक्तानि पितॄणामासनानि च ।
दक्षिणाग्रेषु दर्भेषु प्रोक्षितानि तिलोदकैः ॥ २२.२४॥
तेषूपवेशयेदेतानासनं संस्पृशन्नपि ।
आसध्वमिति सञ्जल्पन्नासीरंस्ते पृथक् पृथक् ॥ २२.२५॥
द्वौ दैवे प्राङ्मुखौ पित्र्ये त्रयश्चोदङ्मुखास्तथा ।
एकैकं वा भवेत् तत्र देवमातामहेष्वपि ॥ २२.२६॥ (एकैकं तत्र दैवन्तु पितृमातामहेष्वपि)
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ २२.२७॥
अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।
श्रुतशीलादिसम्पन्नमलक्षणविवर्जितम् ॥ २२.२८॥
उद्धृत्य पात्रे चान्नं तत् सर्वस्मात् प्रकृतात् पुनः ।
देवतायतने वासौ निवेद्यान्यत्प्रवर्त्तयेत् ॥ २२.२९॥
प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे ।
तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद्द्विजम् ॥ २२.३०॥
भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥ २२.३१॥
अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते ।
तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ॥ २२.३२॥
आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः ।
काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥ २२.३३॥
हीनाङ्गः पतितः कुष्ठी व्रणी पुल्कसनास्तिकौ ।
कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥ २२.३४॥
बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।
नीलकाषायवसनपाषण्डांश्च विवर्जयेत् ॥ २२.३५॥
यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति ।
तत्सर्वमेव कर्त्तव्यं वैश्वदैवत्यपूर्वकम् ॥ २२.३६॥
यथोपविष्टान् सर्वांस्तानलङ्कुर्याद्विभूषणैः ।
स्रग्दामभिः शिरोवेष्टैर्धूपवासोऽनुलेपनैः ॥ २२.३७॥
ततस्त्वावाहयेद्देवान् ब्राह्मणानामनुज्ञया ।
उदङ्मुखो यथान्यायं विश्वेदेवास इत्यृचा ॥ २२.३८॥
द्वे पवित्रे गृहीत्वाऽथ भाजने क्षालिते पुनः ।
शन्नो देवी जलं क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ २२.३९॥
या दिव्या इति मन्त्रेण हस्ते त्वर्घं विनिक्षिपेत् ।
प्रदद्याद्गन्धमाल्यानि धूपादीनि च शक्तितः ॥ २२.४०॥
अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः ।
आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ॥ २२.४१॥
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ।
शन्नो देव्योदकं पात्रे तिलोऽसीति तिलांस्तथा ॥ २२.४२॥
क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः ।
संस्रवांश्च ततः सर्वान् पात्रे कुर्यात् समाहितः ॥ २२.४३॥
पितृभ्यः स्थानमेतच्च न्युब्जपात्रं निधापयेत् ।
अग्नौ करिष्यन्नादाय पृच्छेदन्नं घृतप्लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ॥ २२.४४॥
यज्ञोपवीतिना होमः कर्त्तव्यः कुशपाणिना ।
प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवित् ॥ २२.४५॥
दक्षिणं पातयेज्जानुं देवान् परिचरन् सदा ।
पितॄणां परिचर्यासु पातयेदितरं तथा ॥ २२.४६॥
सोमाय वै पितृमते स्वधा नम इति ब्रुवन् ।
अग्नये कव्यवाहाय स्वधेति जुहुयात् ततः ॥ २२.४७॥
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
महादेवान्तिके वाऽथ गोष्ठे वा सुसमाहितः ॥ २२.४८॥
ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् ।
गोमयेनोपलिप्योर्वीं स्थानं कुर्यात्ससैकतम् ॥ २२.४९॥
मण्डलं चतुरस्रं वा दक्षिणाप्रवणं शुभम् ।
त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ॥ २२.५०॥
ततः संस्तीर्य तत्स्थाने दर्भान्वै दक्षिणाग्रकान् ।
त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः ॥ २२.५१॥
लुप्तपिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् ।
तेषु दर्भेष्वथाचम्य त्रिराचम्य शनैरसून् ।
तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित् ॥ २२.५२॥
उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच्च तान् पिण्डान् यथान्युप्त्वा समाहितः ॥ २२.५३॥
अथ पिण्डाच्च शिष्टान्नं विधिना भोजयेद्द्विजान् ।
मांसान्यपूपान् विविधान् दद्यात् कृशरपायसम् ॥ २२.५४॥
Next verse comes after 16 verses as
verse no.70 in another version.
ततोऽन्नमुत्सृजेद्भुक्तेष्वग्रतो विकिरन्भुवि ।
पृष्ट्वा तदन्नमित्येव तृप्तानाचामयेत्ततः ॥ २२.५५॥
आचान्ताननुजानीयादभितो रम्यतामिति ।
स्वधास्त्विति च ते ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ २२.५६॥
ततो भुक्तवतां तेषां अन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्यात् अनुज्ञातस्तु तैर्द्विजैः ॥ २२.५७॥
पित्रे स्वदितमित्येव वाच्यं गोष्टेषु सुश्रितम् ।
सम्पन्नमित्यभ्युदये देवे सेवितमित्यपि ॥ २२.५८॥ (दैवे रुचितमित्यपि)
विसृज्य ब्राह्मणान् तान्वै पितृपूर्वन्तु वाग्यतः ।
दक्षिणां दिशमाकाङ्क्षन्याचेतेमान्वरान् पितॄन् ॥ २२.५९॥
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा विगमद्बहुदेयञ्च नोऽस्त्विति ॥ २२.६०॥
पिण्डांस्तु गोऽजविप्रेभ्यः दद्यादग्नौ जलेऽपि वा ।
मध्यमन्तु ततः पिण्डमद्यात्पत्नी सुतार्थिनी ॥ २२.६१॥
प्रक्षाल्य हस्तावाचम्य ज्ञातिं शेषेण तोषयेत् ।
सूपशाकफलानीक्षून् पयो दधि घृतं मधु ॥ २२.६२॥
अन्नं चैव यथाकामं विविधं भोज्यपेयकम् ।
यद्यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् ॥ २२.६३॥
धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ।
उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ।
अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ॥ २२.६४॥
न भूमौ पातयेज्जानुं न कुप्येन्नानृतं वदेत् ।
न पादेन स्पृशेदन्नं न चैवमवधूनयेत् ॥ २२.६५॥
क्रोधेनैव च यत्भुक्तं यद्भुक्तं त्वयथाविधि ।
यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ॥ २२.६६॥
स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजोत्तमाः ।
न च पश्येत काकादीन् पक्षिणः प्रतिलोमगान् ।
तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ॥ २२.६७॥
न दद्यात् तत्र हस्तेन प्रत्यक्षं लवणं तथा ।
न चायसेन पात्रेण न चैवाश्रद्धया पुनः ॥ २२.६८॥
काञ्चनेन तु पात्रेण राजतोदुम्बरेण वा
दत्तमक्षयतां याति खड्गेन च विशेषतः ॥ २२.६९॥
पात्रे तु मृण्मये यो वै श्राद्धे भोजयते द्विजान् ।
स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥ २२.७०॥
न पङ्क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् ।
याचिता दापिता दाता नरकान् यान्ति दारुणान् ॥ २२.७१॥
भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् ।
तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ २२.७२॥
नाग्रासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः ।
बहूनां पश्यतां सोऽन्यः पङ्क्त्या हरति किल्बिषम् ॥ २२.७३॥
न किञ्चिद्वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः ।
न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥ २२.७४॥
यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि ।
स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥ २२.७५॥
स्वाध्यायाञ्च्छ्रावयेदेषां धर्मशास्त्राणि चैव हि ।
इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥ २२.७६॥
In the original, verses 77 to 84 are repetitions
of verses 55 to 62. So not included.
पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ।
नोद्वासयेत् तदुच्छिष्टं यावन्नास्तङ्गतो रविः ॥ २२.८५॥ ७७
ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ।
दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् ॥ २२.८६॥ ७८
महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ॥ २२.८७॥ ७९
शुचिरक्रोधनः शान्तः सत्यवादी समाहितः ।
स्वाध्यायं च तथाऽध्वानं कर्त्ता भोक्ता च वर्जयेत् ॥ २२.८८॥ ८०
श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः ।
महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून् ॥ २२.८९॥ ८१
एष वो विहितः सम्यक् श्राद्धकल्पः सनातनः ।
आनेन वर्द्धयेन्नित्यं ब्राह्मणो व्यसनान्वितः ॥ २२.९०॥ ८२
आमश्राद्धं द्विजः कुर्याद्विधिज्ञः श्रद्धयान्वितः ।
तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥ २२.९१॥ ८३
योऽनेन विधिना श्राद्धं कुर्याद्वै शान्तमानसः ।
व्यपेतकल्मषो नित्यं योगिनां वर्त्तते पदम् ॥ २२.९२॥ ८४
तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद्द्विजोत्तमः ।
आराधितो भवेदीशस्तेन सम्यक् सनातनः ॥ २२.९३॥ ८५
अपि मूलैर्फलैर्वाऽपि प्रकुर्यान्निर्धनो द्विजः ।
तिलोदकैस्तर्पयित्वा पितॄन् स्नात्वा समाहितः ॥ २२.९४॥ ८६
न जीवत्पितृको दद्याद्धोमान्तं वा विधीयते ।
येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते ॥ २२.९५॥ ८७
पिता पितामहश्चैव तथैव प्रपितामहः ।
यो यस्य प्रीयते तस्मै देयं नान्यस्य तेन तु ॥ २२.९६॥ ८८
भोजयेद्वापि जीवन्तं यथाकामं तु भक्तितः ।
न जीवन्तमतिक्रम्य ददाति प्रयतः शुचिः ॥ २२.९७॥ ८९
द्व्यामुख्यायणिको दद्याद्बीजिक्षेत्रिकयोः समम् ।
अधिकारी भवेत्सोऽथ नियोगोत्पादितो यदि ॥ २२.९८॥ ९०
अनियुक्तः सुतो यश्च शुक्रतो जायते त्विह ।
प्रदद्याद्बीजिने पिण्डं क्षेत्रिणे तु ततोऽन्यथा ॥ २२.९९॥ ९१
द्वौ पिण्डौ निर्वपेत् ताभ्यां क्षेत्रिणे बीजिने तथा ।
कीर्त्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ।
मृताहनि तु कर्त्तव्यमेकोद्दिष्टं विधानतः ॥ २२.१००॥ ९२
अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ।
पूर्वाह्नि चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना ॥ २२.१०१॥ ९३
देववत्सर्वमेव स्याद्यवैः कार्याः तिलैः क्रिया ।
दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद्द्विजान् ॥ २२.१०१॥ ९४
नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ।
मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ॥ २२.१०३॥ ९५
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ।
दैवपूर्वं प्रदद्याद्वै न कुर्यादप्रदक्षिणम् ॥ २२.१०४॥ ९६
प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः ।
पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः ॥ २२.१०५॥ ९७
स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ।
पुष्पैर्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ॥ २२.१०६॥ ९८
पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं द्विजः ।
अकृत्वा मातृयोगं तु यः श्राद्धं परिवेषयेत् ।
तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥ २२.१०७॥ ९९
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
द्वाविशोऽध्यायः ॥ २२॥
२३
कूर्मपुराणे उत्तरभागे त्रयोविंशतितमोऽध्यायः ।
व्यास उवाच ।
दशाहं प्राहुराशौचं सपिण्डेषु विधीयते ।
मृतेषु वाऽथ जातेषु ब्राह्मणानां द्विजोत्तमाः ॥ २३.१॥
नित्यानि चैव कर्माणि काम्यानि च विशेषतः ।
न कुर्याद्विहितं किञ्चित् स्वाध्यायं मनसाऽपि च ॥ २३.२॥
शुचीनक्रोधनान् शान्तान् शालाग्नौ भावयेद्द्विजान् ।
शुष्कान्नेन फलैर्वापि वैतानान् जुहुयात् तथा ॥ २३.३॥
न स्पृशेयुरिमानन्ये न च तेभ्यः समाहरेत् ।
चतुर्थे पञ्चमे वाऽह्नि संस्पर्शः कथितो बुधैः ॥ २३.४॥
सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति ।
सूतकं सूतिकां चैव वर्जयित्वा नृणां पुनः ॥ २३.५॥
अधीयानस्तथा वेदान् वेदविच्च पिता भवेत् ।
संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः ॥ २३.६॥
दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे ।
एकद्वित्रिगुणैर्युक्तः चतुस्त्र्येकदिनैः शुचिः ॥ २३.७॥
दशाह्नादपरं सम्यगधीयीत जुहोति च ।
चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः ॥ २३.८॥
क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्येह मरणान्तमशौचकम् ॥ २३.९॥
त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् ।
प्राक्संवत्सरात् त्रिरात्रं स्यात् तस्मादूर्ध्वं दशाहकम् ॥ २३.१०॥
ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते
त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः ।
अदन्तजातमरणे पित्रोरेकाहमिष्यते
जातदन्ते त्रिरात्रं स्याद्यदि स्यातां तु निर्गुणौ ॥ २३.११॥
आ दन्तजननात् सद्य आ चौलादेकरात्रकम् ।
त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम् ॥ २३.१२॥
जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः ।
मातुश्च सूतकं तत् स्यात् पिता स्यात् स्पृश्य एव च ॥ २३.१३॥
सदाशौचं सपिण्डानां कर्त्तव्यं सोदरस्य च ।
ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ॥ २३.१४॥
अथोर्ध्वं दन्तजननात् सपिण्डानामशौचकम् ।
एकरात्रं निर्गुणानां चौलादूर्ध्वं त्रिरात्रकम् ॥ २३.१५॥
अदन्तजातमरणं सम्भवेद्यदि सत्तमाः ।
एकरात्रं सपिण्डानां यदि तेऽत्यन्तनिर्गुणाः ॥ २३.१६॥
व्रतादेशात् सपिण्डानां गर्भस्रावात् स्वपाततः ।
(सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः ।
अर्वाक् षण्मासतः स्त्रीणां यदि स्याद्गर्भसंस्रवः ।
तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ।
तत ऊर्ध्वं तु पतने स्त्रीणां द्वादशरात्रिकम् ।
सद्यः शौचं सपिण्डानां गर्भस्रावाच्च धातुतः ।
गर्भच्युतादहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे ।)
यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥ २३.१७॥
यदि स्यात् सूतके सूतिर्मरणे वा मृतिर्भवेत् ।
शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम् ॥ २३.१८॥
मरणोत्पत्तियोगेन मरणेन समाप्यते ।
आद्यं वृद्धिमदाशौचमूर्घ्वं चेत्तु न शुध्यति ॥ २३.१९॥
अथ चेत् पञ्चमीरात्रिमतीत्य परतो भवेत्
अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति ।
देशान्तरगतं श्रुत्वा सूतकं शावमेव तु
तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥ २३.२०॥
अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ।
(अथैव मरणे स्नानमूर्ध्वं संवत्सराद्यदि ॥
वेदान्तविच्चाधीयानो योऽग्निमान् वृत्तिकर्षितः ।
सद्यः शौचं भवेत् तस्य सर्वावस्थासु सर्वदा ॥
स्त्रीणामसंस्कृतानां तु प्रदानात् परतः सदा ।
सपिण्डानां त्रिरात्रं स्यात् संस्कारे भर्त्तुरेव हि ।
अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् ।
ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम् ॥
आदन्तात् सोदरे सद्य आचौलादेकरात्रकम् ।)
आप्रदानात् त्रिरात्रं स्याद्दशरात्रं ततः परम् ॥ २३.२१॥
मातामहानां मरणे त्रिरात्रं स्यादशौचकम् ।
एकोदकानां मरणे सूतके चैतदेव हि ॥ २३.२२॥
पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ।
एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि ॥ २३.२३॥
प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितिः ।
गृहे मृतासु सर्वासु कन्यासु त्र्यहं पितुः ॥ २३.२४॥
परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च ।
त्रिरात्रं स्यात् तथाचार्ये स्वभार्यास्वन्यगासु च ॥ २३.२५॥
आचार्यपुत्रे पत्न्यां च अहोरात्रमुदाहृतम् ।
एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेऽपि च ॥ २३.२६॥
त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च ।
एकाहं चास्ववर्ये स्यादेकरात्रं तदिष्यते ॥ २३.२७॥
त्रिरात्रं श्वश्रूमरणात् श्वशुरे वै तदेव हि ।
सद्यः शौचं समुद्दिष्टं स्वगोत्रे संस्थिते सति ॥ २३.२८॥
शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥ २३.२९॥
क्षत्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः ।
तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥ २३.३०॥
राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु ।
तमेव शौचं कुर्यातां विशुद्ध्यर्थमसंशयम् ॥ २३.३१॥
सर्वे तूत्तरवर्णानामशौचं कुर्युरादृताः ।
तद्वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥ २३.३२॥
षड्रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण हि ।
वैश्यक्षत्रियविप्राणां शूद्रेष्वाशौचमेव तु ॥ २३.३३॥
अर्द्धमासोऽथ षड्रात्रं त्रिरात्रं द्विजपुङ्गवाः ।
शूद्रक्षत्रियविप्राणां वैश्येष्वाशौचमिष्यते ॥ २३.३४॥
षड्रात्रं वै दशाहं च विप्राणां वैश्यशूद्रयोः ।
अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुङ्गवाः ॥ २३.३५॥
शूद्रविट्क्षत्रियाणां तु ब्राह्मणे संस्थिते सति ।
दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥ २३.३६॥
असपिण्डं द्विजं प्रेतं विप्रो निर्धृत्य बन्धुवत् ।
अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥ २३.३७॥
यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः ।
अनदंस्त्वन्नमह्ना तु न च तस्मिन् गृहे वसेत् ॥ २३.३८॥
सोदकेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु ।
दशाहेन शवस्पर्शी सपिण्डश्चैव शुध्यति ॥ २३.३९॥
यदि निर्हरति प्रेतं प्रलोभाक्रान्तमानसः ।
दशाहेन द्विजः शुध्येद्द्वादशाहेन भूमिपः ॥ २३.४०॥
अर्द्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति ।
षड्रात्रेणाथवा सर्वे त्रिरात्रेणाथवा पुनः ॥ २३.४१॥
अनाथं चैव निर्धृत्य ब्राह्मणं धनवर्जितम् ।
स्नात्वा सम्प्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः ॥ २३.४२॥
अपरश्चेत्परं वर्णमपरं वा परो यदि ।
अशौचे संस्पृशेत् स्नेहात् तदाशौचेन शुध्यति ॥ २३.४३॥
प्रेतीभूतं द्विजं विप्रो योऽनुगच्छेत कामतः ।
स्नात्वा सचैलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥ २३.४४॥
एकाहात् क्षत्रिये शुद्धिर्वैश्ये स्याच्च द्व्यहेन तु ।
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ २३.४५॥
अनस्थिसञ्चिते शूद्रे रौति चेद्ब्राह्मणः स्वकैः ।
त्रिरात्रं स्यात् तथाशौचमेकाहं त्वन्यथा स्मृतम् ॥ २३.४६॥
अस्थिसञ्चयनादर्वागेकाहं क्षत्रवैश्ययोः ।
अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ॥ २३.४७॥
अनस्थिसञ्चिते विप्रो ब्राह्मणो रौति चेत् तदा ।
स्नानेनैव भवेच्छुद्धिः सचैलेनात्र संशयः ॥ २३.४८॥
यस्तैः सहाशनं कुर्याच्छयनादीनि चैव हि ।
बान्धवो वाऽपरो वाऽपि स दशाहेन शुध्यति ॥ २३.४९॥
यस्तेषां सममश्नाति सकृदेवापि कामतः ।
तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यति ॥ २३.५०॥
यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः ।
तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत् ॥ २३.५१॥
दाहाद्यशौचं कर्त्तव्यं द्विजानामग्निहोत्रिणाम् ।
सपिण्डानां तु मरणे मरणादितरेषु च ॥ २३.५२॥
सपिण्डता च पुरुषे सप्तमे विनिवर्त्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ २३.५३॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
लेपभाजस्त्रयो ज्ञेयाः सापिण्ड्यं साप्तपौरुषम् ॥ २३.५४॥
अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम् ।
तासान्तु भर्त्तृसापिण्ड्यं प्राह देवः पितामहः ॥ २३.५५॥
ये चैकजाता बहवो भिन्नयोनय एव च ।
भिन्नवर्णास्तु सापिण्ड्यं भवेत् तेषां त्रिपूरुषम् ॥ २३.५६॥
कारवः शिल्पिनो वैद्या दासीदासास्तथैव च ।
दातारो नियमाच्चैव ब्रह्मविद्ब्रह्मचारिणौ ।
सत्रिणो व्रतिनस्तावत् सद्यः शौचं उदाहृतम् ॥ २३.५७॥
राजा चैवाभिषिक्तश्च अन्नसत्रिण एव च ।
यज्ञे विवाहकाले च दैवयागे तथैव च ।
सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे ॥ २३.५८॥
डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः ।
सद्यः शौचं समाख्यातं सर्पादिमरणे तथा ॥ २३.५९॥
अग्निमरुत्प्रपतने वीराध्वन्यप्यनाशके ।
गोब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते ॥ २३.६०॥
नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते ॥ २३.६१॥
पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः ।
नाश्रुपातो नपिण्डौ वा कार्यं श्राद्धादि कङ्क्वचित् ॥ २३.६२॥
व्यापादयेत् तथात्मानं स्वयं योऽग्निविषादिभिः ।
विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम् ॥ २३.६३॥
अथ कश्चित् प्रमादेन म्रियतेऽग्निविषादिभिः ।
तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम् ॥ २३.६४॥
जाते कुमारे तदहः कामं कुर्यात् प्रतिग्रहम् ।
हिरण्यधान्यगोवासस्तिलाश्च गुडसर्पिषा ॥ २३.६५॥
फलानि पुष्पं शाकं च लवणं काष्ठमेव च ।
तक्रं दधि घृतं तैलमौषधं क्षीरमेव च ।
आशौचिनो गृहाद्ग्राह्यं शुष्कान्नं चैव नित्यशः ॥ २३.६६॥
आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः ।
अनाहिताग्निर्गृह्येण लौकिकेनेतरो जनः ॥ २३.६७॥
देहाभावात् पलाशैस्तु कृत्वा प्रतिकृतिं पुनः ।
दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयाऽन्वितैः ॥ २३.६८॥
सकृत्प्रसिञ्चेदुदकं नामगोत्रेण वाग्यताः ।
दशाहं बान्धवैः सार्धं सर्वे चैवार्द्रवाससः ॥ २३.६९॥
पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधि ।
प्रेताय च गृहद्वारि चतुर्थे भोजयेद्द्विजान् ॥ २३.७०॥
द्वितीयेऽहनि कर्त्तव्यं क्षुरकर्म सबान्धवैः ।
चतुर्थे बान्धवैः सर्वैरस्थ्नां सञ्चयनं भवेत् ।
पूर्वं तु भोजयेद्विप्रानयुग्मान् सुश्रद्धया शुचीन् ॥ २३.७१॥
पञ्चमे नवमे चैव तथैवैकादशेऽहनि ।
अयुग्मान् भोजयेद्विप्रान् नवश्राद्धं तु तद्विजाः ॥ २३.७२॥
एकादशेऽह्नि कुर्वीत प्रेतमुद्दिश्य भावतः ।
द्वादशे वाह्नि कर्त्तव्यं नवमे त्वथवाऽहनि ।
एकं पवित्रमेकोऽर्घः पिण्डपात्रं तथैव च ॥ २३.७३॥
एवं मृताह्नि कर्त्तव्यं प्रतिमासं तु वत्सरम् ।
सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः ॥ २३.७४॥
कुर्याच्चत्वारि पात्राणि प्रेतादीनां द्विजोत्तमाः ।
प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः ॥ २३.७५॥
ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ।
सपिण्डीकरणश्राद्धं देवपूर्वं विधीयते ॥ २३.७६॥
पितॄनावाहयेत् तत्र पुनः प्रेतं विनिर्दिशेत् ।
ये सपिण्डीकृताः प्रेता न तेषां स्यात् पृथक्क्रियाः ।
यस्तु कुर्यात् पृथक् पिण्डं पितृहा सोऽभिजायते ॥ २३.७७॥
मृते पितरि वै पुत्रः पिण्डमब्दं समाचरेत् ।
दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः ॥ २३.७८॥
पार्वणेन विधानेन संवत्सरिकमिष्यते ।
प्रतिसंवत्सरं कार्यं विधिरेष सनातनः ॥ २३.७९॥
मातापित्रोः सुतैः कार्यं पिण्डदानादिकं च यत् ।
पत्नी कुर्यात् सुताभावे पत्न्यभावे तु सोदरः ॥ २३.८०॥
अनेनैव विधानेन जीवः श्राद्धं समाचरेत् ।
कृत्वा दानादिकं सर्वं श्रद्धायुक्तः समाहितः ॥ २३.८१॥
एष वः कथितः सम्यग् गृहस्थानां क्रियाविधिः ।
स्त्रीणां भर्त्तृषु शुश्रूषा धर्मो नान्य इहोच्यते ॥ २३.८२॥
स्वधर्मतत्परा नित्यमीश्वरार्पितमानसाः ।
प्राप्नुवन्ति परं स्थानं यदुक्तं वेदवादिभिः ॥ २३.८३॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
त्रयोविंशोऽध्यायः ॥ २३॥
२४
कूर्मपुराणे उत्तरभागे चतुर्विंशतितमोऽध्यायः ।
व्यास उवाच ।
अग्निहोत्रं तु जुहुयादाद्यन्तेऽहर्निशोः सदा ।
दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि ॥ २४.१॥
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः ।
पशुना त्वयनस्यान्ते समान्ते सोऽग्निकैर्मखैः ॥ २४.२॥
नानिष्ट्वा नवसस्येष्ट्या पशुना वाऽग्निमान् द्विजः ।
न चान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः ॥ २४.३॥
नवेनान्नेन चानिष्ट्वा पशुहव्येन चाग्नयः ।
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगृह्णिनः ॥ २४.४॥
सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः ।
पितॄंश्चैवाष्टकाः सर्वे नित्यमन्वष्टकासु च ॥ २४.५॥
एष धर्मः परो नित्यमपधर्मोऽन्य उच्यते ।
त्रयाणामिह वर्णानां गृहस्थाश्रमवासिनाम् ॥ २४.६॥
नास्तिक्यादथवाऽऽलस्याद्योऽग्नीन् नाधातुमिच्छति ।
यजेत वा न यज्ञेन स याति नरकान् बहून् ॥ २४.७॥
तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।
कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ।
अन्यांश्च नरकान् घोरान् सम्प्राप्यान्ते सुदुर्मतिः ।
अन्त्यजानां कुले विप्राः शूद्रयोनौ च जायते ।
तस्मात् सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः ।
आथायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥ २४.८॥
अग्निहोत्रात् परो धर्मो द्विजानां नेह विद्यते ।
तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम् ॥ २४.९॥
यस्त्वाधायाग्निमालस्यान्न यष्टुं देवमिच्छति ।
स सम्मूढो न सम्भाष्यः किं पुनर्नास्तिको जनः ॥ २४.१०॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥ २४.११॥
एष वै सर्वयज्ञानां सोमः प्रथम इष्यते ।
सोमेनाराधयेद्देवं सोमलोकमहेश्वरम् ॥ २४.१२॥
न सोमयागादधिको महेशाराधनात्ततः ।
न सोमो विद्यते तस्मात् सोमेनाभ्यर्चयेत् परम् ॥ २४.१३॥
पितामहेन विप्राणामादावभिहितः शुभः ।
धर्मो विमुक्तये साक्षाच्छ्रौतः स्मार्त्तो द्विधा पुनः ॥ २४.१४॥
श्रौतस्त्रेताग्निसम्बन्धात् स्मार्त्तः पूर्वं मयोदितः ।
श्रेयस्करतमः श्रौतस्तस्माच्छ्रौतं समाचरेत् ॥ २४.१५॥
उभावभिहितौ धर्मौ वेदावेदविनिःसृतौ ।
शिष्टाचारस्तृतीयः स्याच्छ्रुतिस्मृत्योरलाभतः ॥ २४.१६॥
धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ २४.१७॥
तेषामभिमतो यः स्याच्चेतसा नित्यमेव हि ।
स धर्मः कथितः सद्भिर्नान्येषामिति धारणा ॥ २४.१८॥
पुराणं धर्मशास्त्रं च वेदानामुपबृंहणम् ।
एकस्माद्ब्रह्मविज्ञानं धर्मज्ञानं तथैकतः ॥ २४.१९॥
धर्मं जिज्ञासमानानां तत्प्रमाणतरं स्मृतम् ।
धर्मशास्त्रं पुराणानि ब्रह्मज्ञानपरायणाः ॥ २४.२०॥
नान्यतो जायते धर्मो ब्रह्मविद्या च वैदिकी ।
तस्माद्धर्मं पुराणं च श्रद्धातव्यं द्विजातिभिः ॥ २४.२१॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
चतुर्विशोऽध्यायः ॥ २४॥
२५
कूर्मपुराणे उत्तरभागे पञ्चविंशतितमोऽध्यायः ।
व्यास उवाच ।
एष वोऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः ।
द्विजातेः परमो धर्मो वर्त्तनानि निबोधत ॥ २५.१॥
द्विविधस्तु गृही ज्ञेयः साधकश्चाप्यसाधकः ।
अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् ।
कुसीदकृषिवाणिज्यं प्रकुर्वन्तः स्वयङ्कृतम् ॥ २५.२॥
कृषेरभावे वाणिज्यं तदभावे कुसीदकम् ।
आपत्कल्पस्त्वयं ज्ञेयः पूर्वोक्तो मुख्य इष्यते ॥ २५.३॥
स्वयं वा कर्षणा कुर्याद्वाणिज्यं वा कुसीदकम् ।
कष्टा पापीयसी वृत्तिः कुसीदं तद्विवर्जयेत् ॥ २५.४॥
क्षात्रवृत्तिं परां प्रहुर्न स्वयं कर्षणं द्विजैः ।
तस्मात् क्षात्रेण वर्त्तेत वर्त्तने नापदि द्विजः ॥ २५.५॥
तेन चावाप्यजीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् ।
न कथञ्चन कुर्वीत ब्राह्मणः कर्म कर्षणम् ॥ २५.६॥
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चापि पूजयेत् ।
ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ २५.७॥
देवेभ्यश्च पितृभ्यश्च दद्याद्भागं तु विंशकम् ।
त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति ॥ २५.८॥
वणिक् प्रदद्याद्द्विगुणं कुसीदी त्रिगुणं पुनः ।
कृषीपालान्न दोषेण युज्यते नात्र संशयः ॥ २५.९॥
शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः ।
विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥ २५.१०॥
असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ।
शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ॥ २५.११॥
अमृतेनाथवा जीवेन्मृतेनाप्यथवा यदि ।
अयाचितं स्यादमृतं मृतं भेक्षं तु याचितम् ॥ २५.१२॥
कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यह्निको वापि च भवेदश्वस्तनिक एव च ॥ २५.१३॥
चतुर्णामपि वै तेषां द्विजानां गृहमेधिनाम् ।
श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ २५.१४॥
षट्कर्मको भवेत्तेषां त्रिभिरन्यः प्रवर्त्तते ।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ २५.१५॥
वर्त्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः ।
इष्टिः पार्वायणान्तायाः केवला निर्वपेत् सदा ॥ २५.१६॥
न लोकवृतिं वर्त्तेत वृत्तिहेतोः कथञ्चन ।
अजिह्मामशठां शुद्धां जीवेद्ब्राह्मणजीविकाम् ॥ २५.१७॥
याचित्वा वाऽपि सद्भ्योऽन्नं पितॄन्देवांस्तु तोषयेत् ।
याचयेद्वा शुचिं दान्तं न तृप्येत स्वयं ततः ॥ २५.१८॥
यस्तु द्रव्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु ।
देवान् पितॄंश्च विधिना शुनां योनिं व्रजत्यधः ॥ २५.१९॥
धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम् ।
धर्माद्विरुद्धः कामः स्याद्ब्राह्मणानां तु नेतरः ॥ २५.२०॥
योऽर्थो धर्माय नात्मार्थं सोऽर्थो नार्थस्तथेतरः ।
तस्मादर्थं समासाद्य दद्याद्वै जुहुयाद्द्विजः ॥ २५.२१॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
पञ्चविंशोऽध्यायः ॥ २५॥
२६
कूर्मपुराणे उत्तरभागे षड्विंशतितमोऽध्यायः ।
व्यास उवाच ।
अथातः सम्प्रवक्ष्यामि दानधर्ममनुत्तमम् ।
ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम् ॥ २६.१॥
अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ २६.२॥
यद्ददाति विशिष्टेभ्यः श्रद्धया परया युतः ।
तद्विचित्रमहं मन्ये शेषं कस्यापि रक्षति ॥ २६.३॥
नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ २६.४॥
अहन्यहनि यत् किञ्चिद्दीयतेऽनुपकारिणे ।
अनुद्दिश्य फलं तस्माद्ब्राह्मणाय तु नित्यकम् ॥ २६.५॥
यत् तु पापोपशान्त्यर्थं दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ २६.६॥
अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते ।
दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ २६.७॥
यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।
चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम् ॥ २६.८॥
दानधर्मं निषेवेत पात्रमासाद्य शक्तितः ।
उत्पत्स्यते हि तत्पात्रं यत् तारयति सर्वतः ॥ २६.९॥
कुटुम्बभक्तवसनाद्देयं यदतिरिच्यते ।
अन्यथा दीयते यद्धि न तद्दानं फलप्रदम् ॥ २६.१०॥
श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।
वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ २६.११॥
यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये ।
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ २६.१२॥
इक्षुभिः सन्ततां भुमिं यवगोधूमशलिनीम् ।
ददाति वेदविदुषे यः स भूयो न जायते ॥ २६.१३॥
गोचर्ममात्रामपि वा यो भूमिं सम्प्रयच्छति ।
ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ॥ २६.१४॥
भूमिदानात् परं दानं विद्यते नेह किञ्चन ।
अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकम् ॥ २६.१५॥
यो ब्राह्मणाय शान्ताय शुचये धर्मशालिने ।
ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ २६.१६॥
दद्यादहरहस्त्वन्नं श्रद्धया ब्रह्मचारिणे ।
सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ॥ २६.१७॥
गृहस्थायान्नदानेन फलं प्राप्नोति मानवः ।
आममेवास्य दातव्यं दत्त्वाऽऽप्नोति परां गतिम् ॥ २६.१८॥
वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ॥ २६.१९॥
पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः ।
गन्धादिभिः समभ्यर्च्य वाचयेद्वा स्वयं वदेत् ॥ २६.२०॥
प्रीयतां धर्मराजेति यद्वा मनसि वर्त्तते ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ २६.२१॥
कृष्णाजिने तिलान् कृत्त्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ २६.२२॥
कृतान्नमुदकुम्भं च वैशाख्यां च विशेषतः ।
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ॥ २६.२३॥
सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्त पञ्च वा ।
तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ॥ २६.२४॥
(माघमासे तु विप्रस्तु द्वादश्यां समुपोषितः ।)
शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।
प्रदद्याद्ब्राह्मणेभ्यस्तु तिलानेव समाहितः ।
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ॥ २६.२५॥
अमावस्यामनुप्राप्य ब्राह्मणाय तपस्विने ।
यत्किचिद्देवदेवेशं दद्याद्वोद्दिश्य शङ्करम् ॥ २६.२६॥
प्रीयतामीश्वरः सोमो महादेवः सनातनः ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ २६.२७॥
यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् ।
आराधयेद्द्विजमुखे न तस्यास्ति पुनर्भवः ॥ २६.२८॥
कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये ।
स्नात्वाऽभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ॥ २६.२९॥
प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ २६.३०॥
द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ।
अमावास्यायां वै भक्तैस्तु पूजनीयस्त्रिलोचनः ॥ २६.३१॥
एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ।
अर्चयेद्बाह्मणमुखे स गच्छेत् परमं पदम् ॥ २६.३२॥
एषा तिथिर्वैष्णवी स्याद्द्वादशी शुक्लपक्षके ।
तस्यामाराधयेद्देवं प्रयत्नेन जनार्दनम् ॥ २६.३३॥
यत्किञ्चिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ।
दीयते विष्णवे वापि तदनन्तफलप्रदम् ॥ २६.३४॥
यो हि यां देवतामिच्छेत् समाराधयितुं नरः ।
ब्राह्मणान् पूजयेद्यत्नात् स तस्यास्तोषहेतुतः ॥ २६.३५॥
द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः ।
पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित् ॥ २६.३६॥
तस्मात् सर्वप्रयत्नेन तत् तत् फलमभीप्सुभिः ।
द्विजेषु देवता नित्यं पूजनीया विशेषतः ॥ २६.३७॥
विभूतिकामः सततं पूजयेद्वै पुरन्दरम् ।
ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः ॥ २६.३८॥
आरोग्यकामोऽथ रविं धनकामो हुताशनम् ।
कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् ॥ २६.३९॥
भोगकामस्तु शशिनं बलकामः समीरणम् ।
मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिम् ॥ २६.४०॥
यस्तु योगं तथा मोक्षं इच्छेत्तज्ज्ञानमैश्वरम् ।
सोऽर्चयेद्वै विरूपाक्षं प्रयत्नेन महेश्वरम् ॥ २६.४१॥
ये वाञ्छन्ति महायोगान् ज्ञानानि च महेश्वरम् ।
ते पूजयन्ति भूतेशं केशवं चापि भोगिनः ॥ २६.४२॥
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ २६.४३॥
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ २६.४४॥
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।
अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ॥ २६.४५॥
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम् ॥ २६.४६॥
धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ।
वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते ॥ २६.४७॥
गवां वा सम्प्रदानेन सर्वपापैः प्रमुच्यते ।
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ॥ २६.४८॥
फलमूलानि शाकानि भोज्यानि विविधानि च ।
प्रदद्याद्ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ॥ २६.४९॥
औषधं स्नेहमाहारं रोगिणे रोगशान्तये ।
ददानो रोगरहितः सुखी दीर्घायुरेव च ॥ २६.५०॥
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।
तीव्रितापं च तरति छत्रोपानत्प्रदो नरः ॥ २६.५१॥
यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ २६.५२॥
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
सङ्क्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥ २६.५३॥
प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ।
दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ॥ २६.५४॥
दानधर्मात् परो धर्मो भूतानां नेह विद्यते ।
तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥ २६.५५॥
स्वर्गायुर्भूतिकामेन तथा पापोपशान्तये ।
मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथाऽन्वहम् ॥ २६.५६॥
दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च ।
निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः ॥ २६.५७॥
यस्तु द्रव्यार्जनं कृत्वा नार्चयेद्ब्राह्मणान् सुरान् ।
सर्वस्वमपहृत्यैनं राजा राष्ट्रात् प्रवासयेत् ॥ २६.५८॥
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ।
म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ॥ २६.५९॥
न तस्मात् प्रतिगृह्णीयात् न वै देयञ्च तस्य हि ।
अङ्कयित्वा स्वकाद्राष्ट्रात् तं राजा विप्रवासयेत् ॥ २६.६०॥
यस्त्वसद्भ्यो ददातीह न द्रव्यं धर्मसाधनम् ।
स पूर्वाभ्यधिकः पापी नरके पच्यते नरः ॥ २६.६१॥
स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ।
सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्द्विजोत्तमाः ॥ २६.६२॥
सुभुक्तमपि विद्वांसं धार्मिकं भोजयेद्द्विजम् ।
न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ॥ २६.६३॥
सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ।
स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ॥ २६.६४॥
यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ।
तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम् ॥ २६.६५॥
योऽर्च्चितं प्रतिगृह्णीयाद्दद्यादर्चितमेव च ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ २६.६६॥
न वार्यपि प्रयच्छेत नास्तिके हैतुकेऽपि च ।
पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित् ॥ २६.६७॥
अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् ।
अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ॥ २६.६८॥
द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः ।
अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन ॥ २६.६९॥
वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् ।
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ॥ २६.७०॥
वेदानधीत्य सकलान् यज्ञांश्चावाप्य सर्वशः ।
न तां गतिमवाप्नोति सङ्कोचाद्यामवाप्नुयात् ॥ २६.७१॥
प्रतिग्रहरुचिर्न स्यात् यात्रार्थं तु धनं हरेत् ।
स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम् ॥ २६.७२॥
यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम् ।
उद्वेजयति भूतानि यथा चौरस्तथैव सः ॥ २६.७३॥
गुरून् भृत्यांश्चोज्जिहीर्षन् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयं ततः ॥ २६.७४॥
एवं गृहस्थो युक्तात्मा देवताऽतिथिपूजकः ।
वर्त्तमानः संयातात्मा याति तत् परमं पदम् ॥ २६.७५॥
पुत्रे निधाय वा सर्वं गत्वाऽरण्यं तु तत्त्ववित् ।
एकाकी विचरेन्नित्यमुदासीनः समाहितः ॥ २६.७६॥
एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः ।
ज्ञात्वा तु तिष्ठेन्नियतं तथाऽनुष्ठापयेद्द्विजान् ॥ २६.७७॥
इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्रम् ।
समतीत्य स सर्वभूतयोनिं प्रकृतिं वै स परं न याति जन्म ॥ २६.७८॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
षड्विंशोऽध्यायः ॥ २६॥
२७
कूर्मपुराणे उत्तरभागे सप्तविंशतितमोऽध्यायः
व्यास उवाच ।
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः ।
वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ॥ २७.१॥
निक्षिप्य भार्यां पुत्रेषु गच्छेद्वनमथापि वा ।
दृष्ट्वाऽपत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥ २७.२॥
शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे ।
गत्वाऽरण्यं नियमवांस्तपः कुर्यात् समाहितः ॥ २७.३॥
फलमूलानि पूतानि नित्यमाहारमाहरेत् ।
यताहारो भवेत् तेन पूजयेत् पितृदेवताः ॥ २७.४॥
पूजयित्वाऽतिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् ।
गृहादादाय चाश्नीयादष्टौ ग्रासान् समाहितः ॥ २७.५॥
जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् ।
स्वाध्यायं सर्वदा कुर्यान्नियच्छेद्वाचमन्यतः ॥ २७.६॥
अग्निहोत्रं च जुहुयात् पञ्चयज्ञान् समाचरेत् ।
मुन्यन्नैर्विविधैर्वन्यैः शाकमूलफलेन च ॥ २७.७॥
चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः ।
सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ॥ २७.८॥
दर्शेन पौर्णमासेन यजेत नियतं द्विजः ।
ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत् ॥ २७.९॥
उत्तरायणं च क्रमशो दक्षस्यायनमेव च ।
वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ॥ २७.१०॥
पुरोडाशांश्चरूंश्चैव द्विविधं निर्वपेत् पृथक् ।
देवताभ्यश्च तद्धुत्वा वन्यं मेध्यतरं हविः ॥ २७.११॥
शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् ।
वर्जयेन्मधुमांसानि भौमानि कवचानि च ॥ २७.१२॥
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ।
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ॥ २७.१३॥
न ग्रामजातान्यार्त्तोऽपि पुष्पाणि च फलानि च ।
श्रावणेनैव विधिना वह्निं परिचरेत् सदा ॥ २७.१४॥
न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ।
न नक्तं किञ्चिदश्नीयाद्रात्रौ ध्यानपरो भवेत् ॥ २७.१५॥
जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः ।
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ २७.१६॥
यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् ।
तद्व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ २७.१७॥
तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः ।
न हि वेदेऽधिकारोऽस्य तद्वंशेप्येवमेव हि ॥ २७.१८॥
अधः शयीत सततं सावित्रीजाप्यतत्परः
शरण्यः सर्वभूतानां संविभागपरः सदा ॥ २७.१९॥
परिवादं मृषावादं निद्राऽऽलस्यं विवर्जयेत् ।
एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ॥ २७.२०॥
मृगैः सह चरेद्वासं तैः सहैव च संवसेत् ।
शिलायां शर्करायां वा शयीत सुसमाहितः ॥ २७.२१॥
सद्यः प्रक्षालको वा स्यान्माससञ्चयिकोऽपि वा ।
षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ २७.२२॥
त्यजेदाश्वयुजे मासि सम्पन्नं पूर्वसञ्चितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ २७.२३॥
दन्तोलूखलिको वा स्यात् कापोतीं वृत्तिमाश्रयेत् ।
अश्मकुट्टो भवेद्वाऽपि कालपक्वभुगेव वा ॥ २७.२४॥
नक्तं चान्नं समश्नीयाद्दिवा चाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात् स्याद्वाचाष्टमकालिकः ॥ २७.२५॥
चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्त्तयेत् ।
पक्षे पक्षे समश्नीयाद्द्यवागूं क्वथितां सकृत् ॥ २७.२६॥
पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदा ।
स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ २७.२७॥
भूमौ वा परिवर्त्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां विहरेन्न क्वचिद्धैर्यमुत्सृजेत् ॥ २७.२८॥
ग्रीष्मे पञ्चतपास्तद्वत् वर्षास्वभ्रावकाशकः ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्द्धयंस्तपः ॥ २७.२९॥
उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् ।
एकपादेन तिष्ठेत मरीचीन् वा पिबेत् तदा ॥ २७.३०॥
पञ्चाग्निर्धूमपो वा स्यादुष्मपः सोमपोऽथ वा ।
पयः पिबेच्छुक्लपक्षे कृष्णापक्षे तु गोमयम् ॥ २७.३१॥
शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर्वा वर्त्तयेत् सदा ।
योगाभ्यासरतश्च स्याद्रुद्राध्यायी भवेत् सदा ॥ २७.३२॥
अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः ।
यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ २७.३३॥
कृष्णाजिनः सोत्तरीयः शुक्लयज्ञोपवीतवान् ।
अथ चाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ २७.३४॥
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ।
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ २७.३५॥
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ।
ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान् वने वसन् ॥ २७.३६॥
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।
विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ॥ २७.३७॥
विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ।
महाप्रास्थानिकं वासौ कुर्यादनशनं तु वा ।
अग्निप्रवेशमन्यद्वा ब्रर्ह्मार्पणविधौ स्थितः ॥ २७.३८॥
यस्तु सम्यगिममाश्रमं शिवं
संश्रयन्त्यशिवपुञ्जनाशनम् ।
ते विशन्ति परमैश्वरं पदं
यान्ति यत्र गतमस्य संस्थितेः ॥ २७.३९॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
सप्तविशोऽध्यायः ॥ २७॥
२८
कूर्मपुराणे उत्तरभागे अष्टाविंशतितमोऽध्यायः ।
व्यास उवाच ।
एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः ।
चतुर्थमायुषो भागं संन्यासेन नयेत् क्रमात् ॥ २८.१॥
अग्नीनात्मनी संस्थाप्य द्विजः प्रव्रजितो भवेत् ।
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ २८.२॥
यदा मनसि सञ्जातं वैतृष्ण्यं सर्ववस्तुषु ।
तदा संन्यासमिच्छन्ति पतितः स्याद्विपर्यये ॥ २८.३॥
प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः ।
दान्तः पक्वकषायोऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ २८.४॥
ज्ञानसंन्यासिनः केचिद्वेदसन्न्यासिनः परे ।
कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ २८.५॥
यः सर्वसङ्गनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः ।
प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः ॥ २८.६॥
वेदमेवाभ्यसेन्नित्यं निर्द्वन्दो निष्परिग्रहः ।
प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः ॥ २८.७॥
यस्त्वग्नीनात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः ।
ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ॥ २८.८॥
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।
न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ॥ २८.९॥
निर्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः ।
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥ २८.१०॥
ब्रह्मचारी मिताहारो ग्रामादन्नं समाहरेत् ।
अध्यात्ममतिरासीत निरपेक्षो निरामिषः ॥ २८.११॥
आत्मनैव सहायेन सुखार्थी विचरेदिह ।
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ २८.१२॥
कालमेव प्रतीक्षेत निदेशं भृतको यथा ।
नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन ॥ २८.१३॥
एवं ज्ञात्वा परो योगी ब्रह्मभूयाय कल्पते ।
एकवासाऽथवा विद्वान् कौपीनाच्छादनस्तथा ॥ २८.१४॥
मुण्डी शिखी वाऽथ भवेत् त्रिदण्डी निष्परिग्रहः ।
काषायवासाः सततं ध्यानयोगपरायणः ॥ २८.१५॥
ग्रामान्ते वृक्षमूले वा वसेद्देवालयेऽपि वा ।
समः शत्रौ च मित्रे च तथा मानापमानयोः ॥ २८.१६॥
भैक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ।
यस्तु मोहेन वान्यस्मादेकान्नादी भवेद्यतिः ॥ २८.१७॥
न तस्य निष्कृतिः काचिद्धर्मशास्त्रेषु कथ्यते ।
रागद्वेषविमुक्तात्मा समलोष्टाश्मकाञ्चनः ॥ २८.१८॥
प्राणिहिंसानिवृत्तश्च मौनी स्यात् सर्वनिःस्पृहः ।
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
शास्त्रपूतां वदेद्वाणीं मनः पूतं समाचरेत् ॥ २८.१९॥
नैकत्र निवसेद्देशे वर्षाभ्योऽन्यत्र भिक्षुकः ।
स्नानशौचरतो नित्यं कमण्डलुकरः शुचिः ॥ २८.२०॥
ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् ।
मोक्षशास्त्रेषु निरतो ब्रह्मचारी जितेन्द्रियः ॥ २८.२१॥
दम्भाहङ्कारनिर्मुक्तो निन्दापैशुन्यवर्जितः ।
आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥ २८.२२॥
अभ्यसेत् सततं वेदं प्रणवाख्यं सनातनम् ।
स्नात्वाऽऽचम्य विधानेन शुचिर्देवालयादिषु ॥ २८.२३॥
यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ।
धौतकाषायवसनो भस्मच्छन्नतनूरहः ॥ २८.२४॥
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव वा ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ २८.२५॥
पुत्रेषु चाऽथ निवसन् ब्रह्मचारी यतिर्मुनिः ।
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ॥ २८.२६॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् ।
क्षमा दया च सन्तोषो व्रतान्यस्य विशेषतः ॥ २८.२७॥
वेदान्तज्ञाननिष्ठो वा पञ्च यज्ञान् समाहितः ।
ज्ञान ध्यान समायुक्तो भिक्षार्थे नैव तेन हि ॥ २८.२८॥
(वे - कुर्यादहरहः स्नात्वा भिक्षान्नेनैव तेन हि)
होममन्त्राञ्जपेन्नित्यं काले काले समाहितः ।
स्वाध्यायं चान्वहं कुर्यात् सावित्रीं सन्ध्ययोर्जपेत् ॥ २८.२९॥
ध्यायीत सततं देवमेकान्ते परमेश्वरम् ।
एकान्ते वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् ॥ २८.३०॥
एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् ।
कमण्डलुकरो विद्वान् त्रिदण्डी याति तत्परम् ॥ २८.३१॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां
संहितायामुपरिविभागेऽष्टाविंशोऽध्यायः ॥ २८॥
२९
कूर्मपुराणे उत्तरभागे एकोनत्रिंशत्तमोऽध्यायः ।
व्यास उवाच ।
एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।
भैक्षेण वर्त्तनं प्रोक्तं फलमूलैरथापि वा ॥ २९.१॥
एककालं चरेद्भैक्षं न प्रसज्येत विस्तरे ।
भैक्ष्यप्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ २९.२॥
सप्तागारं चरेद्भैक्षमलाभात् तु पुनश्चरेत् ।
प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु पुनः ॥ २९.३॥
अथवाऽन्यदुपादाय पात्रे भुञ्जीत नित्यशः ।
भुक्त्वा तत् सन्त्यजेत् पात्रं यात्रामात्रमलोलुपः ॥ २९.४॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ २९.५॥
गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।
भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद्वाग्यतः शुचिः ॥ २९.६॥
प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि ।
आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोत्तरः ॥ २९.७॥
हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः ।
आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ॥ २९.८॥
अलाबुं दारुपात्रं च मृण्मयं वैणवं ततः ।
चत्वारि यतिपात्राणि मनुराह प्रजापतिः ॥ २९.९॥
प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च ।
सन्ध्यास्वग्निविशेषेण चिन्तयेन्नित्यमीश्वरम् ॥ २९.१०॥
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसम्भवम् ।
आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम् ॥ २९.११॥
सर्वस्याधारभूतानामानन्दं ज्योतिरव्ययम् ।
प्रधानपुरुषातीतमाकाशं दहनं शिवम् ॥ २९.१२॥
तदन्तः सर्वभावानामीश्वरं ब्रह्मरूपिणम् ।
ध्यायेदनादिमध्यान्तमानन्दादिगुणालयम् ॥ २९.१३॥
महान्तं पुरुषं ब्रह्म ब्रह्माणं सत्यमव्ययम् ।
तरुणादित्यसङ्काशं महेशं विश्वरूपिणम् ॥ २९.१४॥
ओङ्कारान्तेऽथ चात्मानं संस्थाप्य परमात्मनि ।
आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ॥ २९.१५॥
कारणं सर्वभावानामानन्दैकसमाश्रयम् ।
पुराणं पुरुषं शुभ्रं ध्यायन् मुच्येत बन्धनात् ॥ २९.१६॥
यद्वा गुहायां प्रकृतं जगत्सम्मोहनालये ।
विचिन्त्य परमं व्योम सर्वभूतैककारणम् ॥ २९.१७॥
जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।
आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः ॥ २९.१८॥
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥ २९.१९॥
गुह्याद्गुह्यतमं ज्ञानं यतीनामेतदीरितम् ।
योऽनुतिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम् ॥ २९.२०॥
तस्माद्ध्यानरतो नित्यमात्मविद्यापरायणः ।
ज्ञानं समभ्यसेद्ब्राह्मं येन मुच्येत बन्धनात् ॥ २९.२१॥
गत्वा पृथक् स्वमात्मानं सर्वस्मादेव केवलम् ।
आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम् ॥ २९.२२॥
यस्मात् भवन्ति भूतानि यद्गत्वा नेह जायते ।
स तस्मादीश्वरो देवः परस्माद्योऽधितिष्ठति ॥ २९.२३॥
यदन्तरे तद्गगनं शाश्वतं शिवमच्युतम् ।
यदाहुस्तत्परो यः स्यात् स देवः स्यान्महेश्वरः ॥ २९.२४॥
व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ २९.२५॥
उपेत्य च स्त्रियं कामात् प्रायश्चित्तं समाहितः ।
प्राणायामसमायुक्तः कुर्यात् सान्तपनं शुचिः ॥ २९.२६॥
ततश्चरेत नियमात् कृच्छ्रं संयतमानसः ।
पुनराश्रममागम्य चरेद्भिक्षुरतन्द्रितः ॥ २९.२७॥
न नर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।
तथापि च न कर्त्तव्यं प्रसङ्गो ह्येष दारुणः ॥ २९.२८॥
एकरात्रोपवासश्च प्राणायामशतं तथा ।
उक्त्वा नूनं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥ २९.२९॥
परमापद्गतेनापि न कार्यं स्तेयमन्यतः ।
स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ॥ २९.३०॥
हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका ।
यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः ॥ २९.३१॥
स तस्य हरति प्राणान् यो यस्य हरते धनम् ।
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताहतः ।
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ॥ २९.३२॥
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।
भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः ॥ २९.३३॥
अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ।
कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा ॥ २९.३४॥
स्कन्नमिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि ।
तेन धारयितव्या वै प्राणायामास्तु षोडश ॥ २९.३५॥
दिवास्कन्ने त्रिरात्रं स्यात् प्राणायामशतं तथा ।
एकान्ते मधुमांसे च नवश्राद्धे तथैव च ।
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ॥ २९.३६॥
ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् ।
तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत् ॥ २९.३७॥
यद्ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमद्वयम् ।
योऽन्तरा परमं ब्रह्म स विज्ञेयो महेश्वरः ॥ २९.३८॥
एष देवो महादेवः केवलः परमः शिवः ।
तदेवाक्षरमद्वैतं तदादित्यान्तरं परम् ॥ २९.३९॥
यस्मान्महीयसो देवः स्वधाम्नि ज्ञानसंस्थिते ।
आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥ २९.४०॥
नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति ।
तमेवात्मानमात्मेति यः स याति परमं पदम् ॥ २९.४१॥
मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।
न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ॥ २९.४२॥
एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।
स देवस्तु महादेवो नैतद्विज्ञाय बध्यते ॥ २९.४३॥
तस्माद्यतेत नियतं यतिः संयतमानसः ।
ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ २९.४४॥
एष वः कथितो विप्रो यतीनामाश्रमः शुभः ।
पितामहेन विभुना मुनीनां पूर्वमीरितम् ॥ २९.४५॥
नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् ।
ज्ञानं स्वयम्भुना प्रोक्तं यतिधर्माश्रयं शिवम् ॥ २९.४६॥
इति यतिनियमानामेतदुक्तं विधानं
पशुपतिपरितोषे यद्भवेदेकहेतुः ।
न भवति पुनरेषामुद्भवो वा विनाशः
प्रणिहितमनसो ये नित्यमेवाचरन्ति ॥ २९.४७॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
एकोनत्रिंशोऽध्यायः ॥ २९॥
३०
कूर्मपुराणे उत्तरभागे त्रिंशत्तमोऽध्यायः ।
व्यास उवाच ।
अतः परं प्रवलक्ष्यामि प्रायश्चित्तविधिं शुभम् ।
हिताय सर्वविप्राणां दोषाणामपनुत्तये ॥ ३०.१॥
अकृत्वा विहितं कर्म कृत्वा निन्दितमेव च ।
दोषमाप्नोति पुरुषः प्रायश्चित्तं विशोधनम् ॥ ३०.२॥
प्रायश्चित्तमकृत्वा तु न तिष्ठेद्ब्राह्मणः क्वचित् ।
यद्ब्रूयुर्ब्राह्मणाः शान्ता विद्वांसस्तत्समाचरेत् ॥ ३०.३॥
वेदार्थवित्तमः शान्तो धर्मकामोऽग्निमान् द्विजः ।
स एव स्यात् परो धर्मो यमेकोऽपि व्यवस्यति ॥ ३०.४॥
अनाहिताग्नयो विप्रास्त्रयो वेदार्थपारगाः ।
यद्ब्रूयुर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम् ॥ ३०.५॥
अनेकधर्मशास्त्रज्ञा ऊहापोहविशारदाः ।
वेदाध्ययनसम्पन्नाः सप्तैते परिकीर्त्तिताः ॥ ३०.६॥
मीमांसाज्ञानतत्त्वज्ञा वेदान्तकुशला द्विजाः ।
एकविंशतिविख्याताः प्रायश्चित्तं वदन्ति वै ॥ ३०.७॥
ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च ।
महापातकिनस्त्वेते यश्चैतैः सह संवसेत् ॥ ३०.८॥
संवत्सरं तु पतितैः संसर्गं कुरुते तु यः ।
यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत् ॥ ३०.९॥
याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः ।
कृत्वा सद्यः पतत्येव सह भोजनमेव च ॥ ३०.१०॥
अविज्ञायाथ यो मोहात् कुर्यादध्यापनं द्विजः ।
संवत्सरेण पतति सहाध्ययनमेव च ॥ ३०.११॥
ब्रह्माहा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ।
भैक्षमात्मविशुद्ध्यर्थे कृत्वा शवशिरोर्ध्वजम् ॥ ३०.१२॥
ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् ।
विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन् ॥ ३०.१३॥
असङ्कल्पितयोग्यानि सप्तागाराणि संविशेत् ।
विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने ॥ ३०.१४॥
एककालं चरेद्भैक्षं दोषं विख्यापयन् नृणाम् ।
वन्यमूलफलैर्वापि वर्त्तयेद्वै समाश्रितः ॥ ३०.१५॥
कपालपाणिः खट्वाङ्गी ब्रह्मचर्यपरायणः ।
पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ३०.१६॥
अकामतः कृते पापे प्रायश्चित्तमिदं शुभम् ।
कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित् ॥ ३०.१७॥
कुर्यादनशनं वाऽथ भृगोः पतनमेव वा ।
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत् स्वयम् ॥ ३०.१८॥
ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।
ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु ॥ ३०.१९॥
दीर्घामयाविनं विप्रं कृत्वानामयमेव वा ।
दत्त्वा चान्नं सुविदुषे ब्रह्महत्यां व्यपोहति ॥ ३०.२०॥
अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः ।
सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु ॥ ३०.२१॥
सरस्वत्यास्त्वरुणया सङ्गमे लोकविश्रुते ।
शुध्येत् त्रिषवणस्नानात् त्रिरात्रोपोषितो द्विजः ॥ ३०.२२॥
गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महोदधौ ।
ब्रह्मचर्यादिभिर्युक्तो दृष्ट्वा रुद्रं विमुच्यते ॥ ३०.२३॥
कपालमोचनं नाम तीर्थं देवस्य शूलिनः ।
स्नात्वाऽभ्यर्च्य पितॄन् देवान् ब्रह्महत्यां व्यपोहति ॥ ३०.२४॥
यत्र देवादिदेवेन भैरवेणामितौजसा ।
कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः ॥ ३०.२५॥
समभ्यर्च्य महादेवं तत्र भैरवरूपिणम् ।
तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया ॥ ३०.२६॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे त्रिशोऽध्यायः ॥ ३०॥
३१
कूर्मपुराणे उत्तरभागे एकत्रिंशत्तमोऽध्यायः ।
ऋषय ऊचुः ।
कथं देवेन रुद्रेण शङ्करेणातितेजसा ।
कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि ॥ ३१.१॥
सूत उवाच ।
शृणुध्वमृषयः पुण्यां कथां पापप्रणाशनीम् ।
माहात्म्यं देवदेवस्य महादेवस्य धीमतः ॥ ३१.२॥
पुरा पितामहं देवं मेरुशृङ्गे महर्षयः ।
प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम् ॥ ३१.३॥
स मायया महेशस्य मोहितो लोकसम्भवः ।
अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम् ॥ ३१.४॥
अहं धाता जगद्योनिः स्वयम्भूरेक ईश्वरः ।
अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते ॥ ३१.५॥
अहं हि सर्वदेवानां प्रवर्त्तकनिवर्त्तकः ।
न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ॥ ३१.६॥
तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः ।
प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः ॥ ३१.७॥
किं कारणमिदं ब्रह्मन् वर्त्तते तव साम्प्रतम् ।
अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ॥ ३१.८॥
अहं धाता हि लोकानां जज्ञे नारायणात्प्रभोः ।
न मामृतेऽस्य जगतो जीवनं सर्वदा क्वचित् ॥ ३१.९॥
अहमेव परं ज्योतिरहमेव परा गतिः ।
मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम् ॥ ३१.१०॥
एवं विवदतोर्मोहात् परस्परजयैषिणोः ।
आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ॥ ३१.११॥
अन्वीक्ष्य देवं ब्रह्माणं यज्ञात्मानं च संस्थितम् ।
प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः ॥ ३१.१२॥
ऋग्वेद उवाच ।
यस्यान्तःस्थानि भूतानि यस्मात्सर्वं प्रवर्त्तते ।
यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ ३१.१३॥
यजुर्वेद उवाच ।
यो यज्ञैरखिलैरीशो योगेन च समर्च्यते ।
यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक् ॥ ३१.१४॥
सामवेद उवाच ।
येनेदं भ्राम्यते विश्वं यदाकाशान्तरं शिवम् ।
योगिभिर्विद्यते तत्त्वं महादेवः स शङ्करः ॥ ३१.१५॥
अथर्ववेद उवाच ।
यं प्रपश्यन्ति देवेशं यतन्तो यतयः परम् ।
महेशं पुरुषं रुद्रं स देवो भगवान् भवः ॥ ३१.१६॥
एवं स भगवान् ब्रह्मा वेदानामीरितं शुभम् ।
श्रुत्वाऽऽह प्रहसन् वाक्यं विश्वात्माऽपि विमोहितः ॥ ३१.१७॥
कथं तत्परमं ब्रह्म सर्वसङ्गविवर्जितम् ।
रमते भार्यया सार्द्धं प्रमथैश्चातिगर्वितैः ॥ ३१.१८॥
इतिरितेऽथ भगवान् प्रणवात्मा सनातनः ।
अमूर्त्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम् ॥ ३१.१९॥
प्रणव उवाच ।
न ह्येष भगवानीशः स्वात्मनो व्यतिरिक्तया ।
कदाचिद्रमते रुद्रस्तादृशो हि महेश्वरः ॥ ३१.२०॥
अयं स भगवानीशः स्वयञ्ज्योतिः सनातनः ।
स्वानन्दभूता कथिता देवी आगन्तुका शिवा ॥ ३१.२१॥
इत्येवमुक्तेऽपि तदा यज्ञमूर्त्तेरजस्य च ।
नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ॥ ३१.२२॥
तदन्तरे महाज्योतिर्विरिञ्चो विश्वभावनः ।
प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम् ॥ ३१.२३॥
तन्मध्यसंस्थं विमलं मण्डलं तेजसोज्ज्वलम् ।
व्योममध्यगतं दिव्यं प्रादुरासीद्द्विजोत्तमाः ॥ ३१.२४॥
स दृष्ट्वा वदनं दिव्यं मूर्ध्नि लोकपितामहः ।
तैजसं मण्डलं घोरमालोकयदनिन्दितम् ॥ ३१.२५॥
प्रजज्वालातिकोपेन ब्रह्मणः पञ्चमं शिरः ।
क्षणादपश्यत महान् पुरुषो नीललोहितः ॥ ३१.२६॥
त्रिशूलपिङ्गलो देवो नागयज्ञोपवीतवान् ।
तं प्राह भगवान् ब्रह्मा शङ्करं नीललोहितम् ॥ ३१.२७॥
जानामि भगवान् पूर्वं ललाटादद्य शङ्करम् ।
प्रादुर्भूतं महेशानं मामतः शरणं व्रज ॥ ३१.२८॥
श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः ।
प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम् ॥ ३१.२९॥
स कृत्वा सुमहद्युद्धं ब्रह्मणा कालभैरवः ।
चकर्त्त तस्य वदनं विरिञ्चस्याथ पञ्चमम् ॥ ३१.३०॥
निकृत्तवदनो देवो ब्रह्मा देवेन शम्भुना ।
ममार चेशो योगेन जीवितं प्राप विश्वसृक् ॥ ३१.३१॥
अथान्वपश्यद्गिरिशं मण्डलान्तरसंस्थितम् ।
समासीनं महादेव्या महादेवं सनातनम् ॥ ३१.३२॥
भुजङ्गराजवलयं चन्द्रावयवभूषणम् ।
कोटिसूर्यप्रतीकाशं जटाजूटविराजितम् ॥ ३१.३३॥
शार्दूलचर्मवसनं दिव्यमालासमन्वितम् ।
त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम् ॥ ३१.३४॥
यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम् ।
तमादिमेकं ब्रह्माणं महादेवं ददर्श ह ॥ ३१.३५॥
यस्य सा परमा देवी शक्तिराकाशसंस्थिता ।
सोऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ॥ ३१.३६॥
यस्याशेषजगद्बीजं विलयं याति मोहनम् ।
सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ ३१.३७॥
योऽथ नाचारनिरतास्तद्भक्तानेव केवलम् ।
विमोचयति लोकात्मा नायको दृश्यते किल ॥ ३१.३८॥
यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः ।
अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ॥ ३१.३९॥
यस्याशेषजगत्सूतिः विज्ञानतनुरीश्वरः ।
न मुञ्चति सदा पार्श्वं शङ्करोऽसौ च दृश्यते ॥ ३१.४०॥
विद्यासहायो भगवान् यस्यासौ मण्डलान्तरम् ।
हिरण्यगर्भपुत्रोऽसावीश्वरो दृश्यते परः ॥ ३१.४१॥
पुष्पं वा यदि वा पत्रं यत्पादयुगले जलम् ।
दत्त्वा तरति संसारं रुद्रोऽसौ दृश्यते किल ॥ ३१.४२॥
तत्सन्निधाने सकलं नियच्छति सनातनः ।
कालं किल स योगात्मा कालकालो हि दृश्यते ॥ ३१.४३॥
जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम् ।
सोमः स दृश्यते देवः सोमो यस्य विभूषणम् ॥ ३१.४४॥
देव्या सह सदा साक्षाद्यस्य योगः स्वभावतः ।
गीयते परमा मुक्तिः महादेवः स दृश्यते ॥ ३१.४५॥
योगिनो योगतत्त्वज्ञा वियोगाभिमुखोऽनिशम् ।
योगं ध्यायन्ति देव्याऽसौ स योगी दृश्यते किल ॥ ३१.४६॥
सोऽनुवीक्ष्य महादेवं महादेव्या सनातनम् ।
वरासने समासीनमवाप परमां स्मृतिम् ॥ ३१.४७॥
लब्ध्वा माहेश्वरीं दिव्यां संस्मृतिं भगवानजः ।
तोषयामास वरदं सोमं सोमविभूषणम् ॥ ३१.४८॥
ब्रह्मोवाच ।
नमो देवाय महते महादेव्यै नमो नमः ।
नमः शिवाय शान्ताय शिवायै सततं नमः ॥ ३१.४९॥
ओं नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः ।
मूलप्रकृतये तुभ्यं महेशाय नमो नमः ॥ ३१.५०॥
नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।
नमोऽस्तु कालकालाय ईश्वरायै नमो नमः ॥ ३१.५१॥
नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।
नमो नमस्ते कामाय मायायै च नमो नमः ॥ ३१.५२॥
नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः ।
नमोऽस्तु ते प्रकृतये नमो नारायणाय च ॥ ३१.५३॥
योगादाय नमस्तुभ्यं योगिनां गुरवे नमः ।
नमः संसारनाशाय संसारोत्पत्तये नमः ॥ ३१.५६॥
नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्त्तये ।
नमः कार्यविहीनाय विश्वप्रकृतये नमः ॥ ३१.५७॥
ओङ्कारमूर्त्तये तुभ्यं तदन्तः संस्थिताय च ।
नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥ ३१.५८॥
इति सोमाष्टकेनेशं प्रणिपत्य पितामहः ।
पपात दण्डवद्भूमौ गृणन् वै शतरुद्रियम् ॥ ३१.५९॥
अथ देवो महादेवः प्रणतार्तिहरो हरः ।
प्रोवाचोत्थाप्य हस्ताभ्यां प्रीतोऽस्मि तव साम्प्रतम् ॥ ३१.६०॥
दत्त्वाऽस्मै परमं योगमैश्वर्यमतुलं महत् ।
प्रोवाचान्ते स्थितं देवं नीललोहितमीश्वरम् ॥ ३१.५९॥
एष ब्रह्माऽस्य जगतः सम्पूज्यः प्रथमः स्थितः ।
आत्मना रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ॥ ३१.६०॥
अयं पुराणपुरुषो न हन्तव्यस्त्वयाऽनघ ।
स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः ॥ ३१.६१॥
अयं च यज्ञो भगवान् सगर्वो भवताऽनघ ।
शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया ॥ ३१.६२॥
ब्रह्महत्यापनोदार्थं व्रतं लोके प्रदर्शयन् ।
चरस्व सततं भिक्षां संस्थापय सुरद्विजान् ॥ ३१.६३॥
इत्येतदुक्त्वा वचनं भगवान् परमेश्वरम् ।
स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम् ॥ ३१.६४॥
ततः स भगवानीशः कपर्दी नीललोहितः ।
ग्राहयामास वदनं ब्रह्मणः कालभैरवम् ॥ ३१.६५॥
चर त्वं पापनाशार्थं व्रतं लोकहितावहम् ।
कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः ॥ ३१.६६॥
उक्त्वैवं प्राहिणोत् कन्यां ब्रह्महत्येति विश्रुताम् ।
दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम् ॥ ३१.६७॥
यावद्वाराणसीं दिव्यां पुरीमेष गमिष्यति ।
तावत् विभीषणाकारा ह्यनुगच्छ त्रिशूलिनम् ॥ ३१.६८॥
एवमाभाष्य कालाग्निं प्राह देवो महेश्वरम् ।
अटस्व निखिलं लोकं भिक्षार्थी मन्नियोगतः ॥ ३१.६९॥
यदा द्रक्ष्यसि देवेशं नारायणमनामयम् ।
तदाऽसौ वक्ष्यति स्पष्टमुपायं पापशोधनम् ॥ ३१.७०॥
स देवदेवतावाक्यमाकर्ण्य भगवान् हरः ।
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥ ३१.७१॥
आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा ।
श्रीमत् पवित्रं रुचिरं लेचनत्रयसंयुतम् ॥ ३१.७२॥
कोटिसूर्यप्रतीकाशैः प्रमथैश्चातिगर्वितैः ।
भाति कालाग्निनयनो महादेवः समावृतः ॥ ३१.७३॥
पीत्वा तदमृतं दिव्यमानन्दं परमेष्ठिनः ।
लीलाविलासबहुलो लोकानागच्छतीश्वरः ॥ ३१.७४॥
तं दृष्ट्वा कालवदनं शङ्करं कालभैरवम् ।
रूपलावण्यसम्पन्नं नारीकुलमगादनु ॥ ३१.७५॥
गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः ।
सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च ॥ ३१.७६॥
स देवदानवादीनां देशानभ्येत्य शूलधृक् ।
जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः ॥ ३१.७७॥
निरीक्ष्य दिव्यभवनं शङ्करो लोकशङ्करः ।
सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे ॥ ३१.७८॥
अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम् ।
न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः ॥ ३१.७९॥
शङ्खचक्रगदापाणिः पीतवासा महाभुजः ।
विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ॥ ३१.८०॥
(अथैनं शङ्करगणं युयुधे विष्णुसम्भवः ।
भीषणो भैरवादेशात् कालवेग इति श्रुतः )॥
विजित्य तं कालवेगं क्रोधसंरक्तलोचनः ।
दुद्रावाभिमुखं रुद्रं चिक्षेप च सुदर्शनम् ॥ ३१.८१॥
अथ देवो महादेवस्त्रिपुरारिस्त्रिशूलभृत् ।
तमापतन्तं सावज्ञमालोकयदमित्रजित् ॥ ३१.८२॥
तदन्तरे महद्भूतं युगान्तदहनोपमम् ।
शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ ३१.८३॥
स शूलाभिहतोऽत्यर्थं त्यक्त्वा स्वं परमं बलम् ।
तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव ॥ ३१.८४॥
निहत्य विष्णुपुरुषं सार्धं प्रमथपुङ्गवैः ।
विवेश चान्तरगृहं समादाय कलेवरम् ॥ ३१.८५॥
निरीक्ष्य जगतो हेतुमीश्वरं भगवान् हरिः ।
शिरो ललाटात् सम्भिद्य रक्तधारामपातयत् ॥ ३१.८६॥
गृहाण भगवन् भिक्षां मदीयाममितद्युते ।
न विद्यतेऽन्या ह्युचिता तव त्रिपुरमर्दन ॥ ३१.८७॥
न सम्पूर्णं कपालं तद्ब्रह्मणः परमेष्ठिनः ।
दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता ॥ ३१.८८॥
अथाब्रवीत् कालरुद्रं हरिर्नारायणः प्रभुः ।
संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरःसरम् ॥ ३१.८९॥
किमर्थमेतद्वदनं ब्रह्मणो भवता धृतम् ।
प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः ॥ ३१.९०॥
समाहूय हृषीकेशो ब्रह्महत्यामथाच्युतः ।
प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम् ॥ ३१.९१॥
न तत्याजाथ सा पार्श्वं व्याहृताऽपि मुरारिणा ।
चिरं ध्यात्वा जगद्योनिं शङ्करं प्राह सर्ववित् ॥ ३१.९२॥
व्रजस्व भगवन् दिव्यां पुरीं वाराणसीं शुभाम् ।
यत्राखिलजगद्दोषात् क्षिप्रं नाशयतीश्वरः ॥ ३१.९३॥
ततः सर्वाणि भूतानि तीर्थान्यायतनानि च ।
जगाम लीलया देवो लोकानां हितकाम्यया ॥ ३१.९४॥
संस्तूयमानः प्रमथैर्महायोगैरितस्ततः ।
नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ॥ ३१.९५॥
तमभ्यधावद्भगवान् हरिर्नारायणः प्रभुः ।
अथास्थायापरं रूपं नृत्यदर्शनलालसः ॥ ३१.९६॥
निरीक्षमाणो गोविन्दं वृषेन्द्राङ्कितशासनः ।
सस्मितोऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः ॥ ३१.९७॥
अथ सानुचरो रुद्रः सहरिर्धर्मवाहनः ।
भेजे महादेवपुरीं वाराणसीति विश्रुताम् ॥ ३१.९८॥
प्रविष्टमात्रे देवेशे ब्रह्महत्या कपर्दिनी ।
हा हेत्युक्त्वा सनादं वै पातालं प्राप दुःखिता ॥ ३१.९९॥
प्रविश्य परमं स्थानं कपालं ब्रह्मणो हरः ।
गणानामग्रतो देवः स्थापयामास शङ्करः ॥ ३१.१००॥
स्थापयित्वा महादेवो ददौ तच्च कलेवरम् ।
उक्त्वा सजीवमस्त्विति विष्णवेऽसौ घृणानिधिः ॥ ३१.१०१॥
ये स्मरन्ति ममाजस्रं कापालं वेषमुत्तमम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ ३१.१०२॥
आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।
तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया ॥ ३१.१०३॥
अशाश्वतं जगज्ज्ञात्वा येऽस्मिन् स्थाने वसन्ति वै ।
देहान्ते तत् परं ज्ञानं ददामि परमं पदम् ॥ ३१.१०४॥
इतीदमुक्त्वा भगवान् समालिङ्ग्य जनार्दनम् ।
सहैव प्रमथेशानैः क्षणादन्तरधीयत ॥ ३१.१०५॥
स लब्ध्वा भगवान् कृष्णो विष्वक्सेनं त्रिशूलिनः ।
स्वं देशमगात् तूष्णीं गृहीत्वा परमं बुधः ॥ ३१.१०६॥
एतद्वः कथितं पुण्यं महापातकनाशनम् ।
कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम् ॥ ३१.१०७॥
य इमं पठतेऽध्यायं ब्राह्मणानां समीपतः ।
वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ॥ ३१.१०८॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
एकत्रिशोऽध्यायः ॥ ३१॥
३२
कूर्मपुराणे उत्तरभागे द्वात्रिंशत्तमोऽध्यायः ।
व्यास उवाच ।
सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् ।
तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ॥ ३२.१॥
गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा ।
पयो घृतं जलं वाऽथ मुच्यते पातकात् ततः ॥ ३२.२॥
जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् ।
ब्रह्महत्याव्रतं चाथ चरेत् पापप्रशान्तये ॥ ३२.३॥
सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति ॥ ३२.४॥
गृहीत्वा मुसलं राजा सकृद्धन्यात् ततः स्वयम् ।
वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसाथवा ॥ ३२.५॥
स्कन्धेनादाय मुसलं लकुडं वाऽपि खादिरम् ।
शक्तिं चादाय तीक्ष्णाग्रामायसं दण्डमेव वा ॥ ३२.६॥
राजा तेन च गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत्पापमेवङ्कर्माऽस्मि शाधि माम् ॥ ३२.७॥
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते ।
अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ ३२.८॥
तपसापनोतुमिच्छंस्तु सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ॥ ३२.९॥
स्नात्वाऽश्वमेधावभृथे पूतः स्यादथवा द्विजः ।
प्रदद्याद्वाऽथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ॥ ३२.१०॥
चरेद्वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः ।
ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ॥ ३२.११॥
गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः ।
अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ॥ ३२.१२॥
स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्चलौ ।
आतिष्ठेद्दक्षिणामाशामानिपातादजिह्मगः ॥ ३२.१३॥
गुर्वङ्गनागमः शुद्ध्यै चरेद्ब्रह्महणो व्रतम् ।
शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् ॥ ३२.१४॥
अधः शयीत नियतो मुच्यते गुरुतल्पगः ।
कृच्छ्रं वाब्दं चरेद्विप्रश्चीरवासाः समाहितः ॥ ३२.१५॥
अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः ।
कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती ॥ ३२.१६॥
स्थानाशनाभ्यां विहरंस्त्रिरह्नोऽभ्युपयत्नतः ।
अधःशायी त्रिभिर्वर्षैस्तद्व्यपोहति पातकम् ॥ ३२.१७॥
चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः ।
पतितैः सम्प्रयुक्तात्मा अथ वक्ष्यामि निष्कृतिम् ॥ ३२.१८॥
पतितेन तु संसर्गं यो येन कुरुते द्विजः ।
स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ॥ ३२.१९॥
तप्तकृच्छ्रं चरेद्वाऽथ संवत्सरमतन्द्रितः ।
षाण्मासिके तु संसर्गे प्रायश्चित्तार्धमाचरेत् ॥ ३२.२०॥
एभिर्व्रतैरपोहन्ति महापातकिनो मलम् ।
पुण्यतीर्थाभिगमनात् पृथिव्यां वाऽथ निष्कृतिः ॥ ३२.२१॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः ॥ ३२.२२॥
कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः ।
ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम् ॥ ३२.२३॥
न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः ।
तस्मात् पुण्येषु तीर्थेषु दहन्वापि स्वदेहकम् ॥ ३२.२४॥
इति श्रीकूर्मपुराणे द्वात्रिंशोऽध्यायः ॥ ३२॥
३३
कूर्मपुराणे उत्तरभागे त्रयस्त्रिंशत्तमोऽध्यायः ।
व्यास उवाच ।
गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि ।
प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ॥ ३३.१॥
मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् ।
भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ ॥ ३३.२॥
चान्द्रायणं च कुर्वीत तस्य पापस्य शान्तये ।
ध्यायन् देवं जगद्योनिमनादिनिधनं परम् ॥ ३३.३॥
भ्रातृभार्यां समारुह्य कुर्यात् तत्पापशान्तये ।
चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः ॥ ३३.४॥
पैतृष्वस्त्रेयीं गत्वा तु स्वस्रीयां मातुरेव च ।
मातुलस्य सुतां वाऽपि गत्वा चान्द्रायणं चरेत् ॥ ३३.५॥
सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च ।
अहोरात्रोषितो भूत्वा ततः कृच्छ्रं समाचरेत् ॥ ३३.६॥
उदक्या गमने विप्रस्त्रिरात्रेण विशुध्यति ।
चाण्डालीगमने चैव तप्तकृच्छ्रत्रयं विदुः ॥ ३३.७॥
शुद्धिसान्तपनेन स्यान्नान्यथा निष्कृतिः स्मृता ।
मातृगोत्रां समारुह्य समानप्रवरां तथा ॥ ३३.८॥
चाद्रायणेन शुध्येत प्रयतात्मा समाहितः ।
ब्राह्मणो ब्राह्मणीं गत्वा कृच्छ्रमेकं समाचरेत् ॥ ३३.९॥
कन्यकान् दूषयित्वा तु चरेच्चान्द्रायणव्रतम् ।
अमानुषीषु पुरुष उदक्यायामयोनिषु ॥ ३३.१०॥
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ।
वार्द्धिकीगमने विप्रस्त्रिरात्रेण विशुद्ध्यति ॥ ३३.११॥
गवि मैथुनमासेव्य चरेच्चान्द्रायणव्रतम् ।
वेश्यायां मैथुनं कृत्वा प्राजापत्यं चरेद्द्विजः ॥ ३३.१२॥
पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रैर्विशुद्ध्यति ।
पुल्कसीगमने चैव कृच्छ्रं चान्द्रायणं चरेत् ॥ ३३.१३॥
नटीं शैलूषकीं चैव रजकीं वेणुजीविनीम् ।
गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम् ॥ ३३.१४॥
ब्रहमचारी स्त्रियं गच्छेत् कथञ्चित्काममोहितः ।
सप्तागारं चरेद्भैक्षं वसित्वा गर्दभाजिनम् ॥ ३३.१५॥
उपस्पृशेत् त्रिषवणं स्वपापं परिकीर्त्तयन् ।
संवत्सरेण चैकेन तस्मात् पापात् प्रमुच्यते ॥ ३३.१६॥
ब्रह्महत्याव्रतश्चापि षण्मासानाचरेद्यमी ।
मुच्यते ह्यवकीर्णी तु ब्राह्मणानुमते स्थितः ॥ ३३.१७॥
सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपूजनम् ।
रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत् ॥ ३३.१८॥
ओङ्कारपूर्विकाभिस्तु महाव्याहृतिभिः सदा ।
संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः ॥ ३३.१९॥
सावित्रीं च जपेच्चैव नित्यं क्रोधविवर्जितः ।
नदीतीरेषु तीर्थेषु तस्मात् पापाद्विमुच्यते ॥ ३३.२०॥
हत्वा तु क्षत्रियं विप्रः कुर्याद्ब्रह्महणो व्रतम् ।
अकामतो वै षण्मासान् दद्यात् पञ्चशतं गवाम् ॥ ३३.२१॥
अब्दं चरेद्यानयतो वनवासी समाहितः ।
प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम् ॥ ३३.२२॥
प्रमादात्कामतो वैश्यं कुर्यात् संवत्सरत्रयम् ।
गोसहस्रन्तु पादं च कुर्याद्ब्रह्महणो व्रतम् ॥ ३३.२३॥
कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा ।
संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः ॥ ३३.२४॥
गोसहस्रार्द्धपादं च दद्यात् तत्पापशान्तये ।
अष्टौ वर्षाणि वा त्रीणि कुर्याद्ब्रह्महणो व्रतम् ।
हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम् ॥ ३३.२५॥
निहत्य ब्राह्मणीं विप्रस्त्वष्टवर्षं व्रतं चरेत् ।
राजकन्यां वर्षषट्कं वैश्यां संवत्सरत्रयम् ॥ ३३.२६॥
वत्सरेण विशुद्ध्येत शूद्रीं हत्वा द्विजोत्तमः ।
वैश्यां हत्वा द्विजातिस्तु किञ्चिद्दद्याद्द्विजातये ॥ ३३.२७॥
अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम् ।
पराकेणाथवा शुद्धिरित्याह भगवानजः ॥ ३३.२८॥
मण्डूकं नकुलं काकं बिडालं खरमूषकौ ।
श्वानं हत्वा द्विजः कुर्यात् षोडशांशं व्रतं ततः ॥ ३३.२९॥
पयः पिबेत् त्रिरात्रं तु श्वानं हत्वा ह्ययन्त्रितः ।
मार्जारं वाऽथ नकुलं योजनं वाध्वनो व्रजेत् ॥ ३३.३०॥
कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ।
अर्च्चां कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ॥ ३३.३१॥
पलालभारकं षण्डे सीसकं चैकमाषकम् ।
घृतकुम्भं वराहे तु तिलद्रोणं च तित्तिरे ॥ ३३.३२॥
शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ।
हत्वा हंसं बलाकां च बकं बर्हिणमेव च ॥ ३३.३३॥
वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् ।
क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ॥ ३३.३४॥
अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ।
किञ्चिद्देयन्तु विप्राय दद्यादस्थिमतां वधे ॥ ३३.३५॥
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ।
फलदानां तु वृक्षाणां छेदने जप्यमृक्षतम् ॥ ३३.३६॥
गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम् ।
अन्येषां चैव वृक्षाणां सरसानां च सर्वशः ॥ ३३.३७॥
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ।
हस्तिनां च वधे दृष्टं तप्तकृच्छ्रं विशोधनम् ॥ ३३.३८॥
चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः ।
मतिपूर्ववधे चास्याः प्रायश्चित्तं न विद्यते ॥ ३३.३९॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
त्रयस्त्रिंशोऽध्यायः ॥ ३३॥
इति व्यासगीता समाप्ता
kUrmapurANa uttarabhAge adhyAya 12-33
Chaudhuri Narayan Singh, in his preface to
Kurma Purana with Hindi translation 1962 (DLI)
says that chapters 12-33 are Vyasa Gita. This
is repeated by Anand Swarup Gupta in critical
edition of Kurma Purana (DLI). Some others (V
Raghavan's list, Kurma Purana Calcutta edition
1890) are of the opinion that the complete
Uttarabhaga of Kurma Purana is Vyasa Gita. This
would mean Ishvara Gita is a part of Vyasa Gita.
Proofread by PSA Easwaran