श्रीमदाञ्जनेयभुजङ्गप्रयातस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ आञ्जनेयाय विद्महे । रामदूताय धीमहि । तन्नो यजः प्रचोदयात् ॥ सदारामभक्तिप्रसारप्रडीनं सदातारकानन्दनामोपगङ्गम् । सदाध्यानलीनं सदानामगानं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १॥ सदारामनामप्लवाह्लादरूपं सदारामनामाधरस्मेरवक्त्रम् । सदारामगानातिमाधुर्यकण्ठं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ २॥ सदानामयोगं सदारामरागं सदाचित्तसम्पूर्णनामप्रभावम् । सदाब्रह्मनिष्ठं वरज्ञानपूर्णं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ३॥ सदारामदासं महावीरवर्यं सदानामपेयूषपानप्रमत्तम् । सुनामप्रहृष्टं सभक्ताग्रगण्यं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ४॥ सुनामस्वरालापबाष्पाकुलाक्षं सुसङ्गीतनामप्रभावस्वभावम् । स्वरस्वादुनामोपभोग्यं सुभाग्यं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ५॥ ससूर्यप्रकाशं ससत्त्वप्रवाचं असाध्यप्रभावं सुसाध्यप्रमाणम् । सदाध्यातरामस्वरूपप्रकाशं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ६॥ ससत्त्वं फलाशं सुमेधाविलासं सुसीतामनश्शोकनाशं प्रशान्तम् । सुवेगं यजं तं भजे रामदूतं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ७॥ महद्ब्रह्मचर्यं मनोवाक्स्थरामं मनस्कायसञ्जीवनौषध्यधेयम् । महीधारकन्धारधारप्रतापं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ८॥ ससीतस्वरारामनामप्रगेयं ससङ्गीतसाहित्यविद्याप्रवीणम् । सुसप्तस्वरानन्दनृत्याभिलास्यं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ९॥ हरिश्रेष्ठरत्नं हरिप्रेष्ठभक्तं हरिस्मेरहृत्पद्मवासानुरागम् । हरप्रीतनामप्रियं भक्तवर्यं हरांशं हनूमन्तशूरं नमामि ॥ १०॥ हिमागप्रशान्तिस्वमाधुर्यगायं हिमानन्दगङ्गाप्लवाह्लादगेयम् । हिमापूतरम्याष्ट्रध्यानस्थदेवं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ११॥ मनोगालनागीतरामाभिरामं सुरागानुरागं सुनामाभिजप्यम् । मनोजस्वरागीतसीतावराप्तं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १२॥ वरानन्दरामस्ववाचाभिनन्दं सरागप्रभाषं स्वरारामरामम् । कुरोगप्रणाशं वरारोग्यदायं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १३॥ सुसत्कार्यसिद्धिं सुसद्भक्तिबुद्धिं विरागत्ववृद्धिं सुरागप्रवृद्धिम् । सुनादप्रवृत्तिं सुबोधं सुशक्तिं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १४॥ सुसङ्गीतवाणिं सुसत्पुष्पपाणिं कविस्फूर्तिरक्तिं कपिं रागहृष्टिम् । सदासत्त्वदृष्टिं सदासक्तिपुष्टिं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १५॥ गुरुत्यागराजेन्द्रसद्गानलोलं तदाह्लादसन्नामगानप्रसन्नम् । कृताञ्जल्यतिप्रेष्ठनामप्रलीनं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १६॥ गुरुत्यागराजेन्द्रशिष्योपगीतं सुपुष्पोपहारं सुभक्तिप्रणीतम् । मनोजस्तुतिस्फूर्तिपुष्पार्चितं तं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १७॥ भुजङ्गप्रयातस्फुरद्भक्तिगीतं भुजङ्गप्रयातप्रगीतिप्रमोदम् । भुजङ्गावतारानुजप्रेष्ठभक्तं भजे मारुतिं तं सभक्तं सुभद्रम् ॥ १८॥ सुभद्रं वरानन्दरामानुरागं सुभद्रं स्वरानन्दनामाभिगेयम् । सुभद्रं वरारामरामोपसेवं सुभद्रं हनूमन्तधीरं भजेहम् ॥ १९॥ श्रीसीतारामभक्ताय रामनामरताय च । नामगानाभिलोलाय आञ्जनेयाय मङ्गलम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं आञ्जनेयभुजङ्गप्रयातस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Anjaneya Bhujangaprayata stotram
% File name             : Anjaneyabhujangam.itx
% itxtitle              : AnjaneyabhujaNgaprayAtastotram (puShpA shrIvatsena virachitam)
% engtitle              : Anjaneya Bhujangaprayata stotram
% Category              : hanumaana, puShpAshrIvatsan, bhujanga
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali
% Indexextra            : (Collection)
% Latest update         : September 5, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP