कवचयन्त्रप्रभावकथनम्
श्रीपराशर संहिता ।
अथाष्टसप्ततितमः पटलः ।
श्रीपराशरः -
पार्वत्यै शङ्करेणोक्तं कवचं तु महद्धितम् ।
अत्यादरेण विप्रेन्द्र ! प्रोक्तं लोकहितायवै ॥ १॥
पार्वत्युवाच -
देवदेव! जगन्नाथ! सर्वभूत वशङ्कर ।
केन रक्षा भवेन्नॄणां भीतानां विविधापदैः ॥ २॥
मङ्गलञ्च महापुण्यं पवित्रं पापनाशनम् ।
श्रोतुमिच्छामि देवेश! वद मे करुणाकर ॥ ३॥
शिवोवाच -
शृणु गुह्यतमं देवि! भक्तामयविनाशकम् ॥ ४॥
सर्वसम्पत्करं गौरि गोपनीयं प्रयत्नतः ॥ ५॥
मदंशजो महातेजा महाबलपराक्रमः ।
सुभगस्सुन्दरश्शूरः शङ्करो भक्तवत्सलः ॥ ६॥
विजयो विष्णुभक्ताढ्यो रामदूतः कपीश्वरः ।
एवं प्लवङ्गरूपेण जातोऽहं श्रुणु पार्वति ॥ ७॥
अजोहं लोकरक्षार्थं रामदूतोऽस्मिचादरात् ।
वक्ष्यामि तस्य कवचं सादरेण प्रिये श्रुणु ॥ ८॥
प्रातस्स्नात्वातु विधिना वस्त्राभरणभूषितः
प्रक्षाल्य पादावाचम्य सुगन्धश्चोर्ध्वपुण्ड्रधृत् ॥ ९॥
योगभूमिं प्रविश्याथ तां सम्प्रोक्ष्य च विन्यसेत् ।
आसनं कल्पयेत्प्राज्ञः सन्ध्यावन्दनमाचरेत् ॥ १०॥
गायत्री प्रजपेत् धीमान् प्राणायामत्रयं चरेत् ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ११॥
देवभूतादि कर्मेभ्यो आञ्जनेयमयः पुमान् ।
पादयोर्जानुनोरूर्वोरुदरेहृदिकन्धरे ।
मुखेशिरस्यानुपूर्व्यामोङ्कारादीनि विन्यसेत् ॥ १२॥
ॐ नमो रामदूतायेति विपर्ययमथापिवा ।
करन्यासो बुधः कुर्यात् द्वादशाक्षरविद्यया ॥ १३॥
प्रणवादि यकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ।
न्यसेद्धकारं हृदयेनुकारमनुमूर्धनि ॥ १४॥
शिखायातु मकारञ्च तेकारं भुजयोरसि ।
नकारं नेत्रयोर्युज्य मकारं स्वास्त्रमुद्दिशेत् ॥ १५॥
सविसर्गं पठेन्नित्यं सर्वदिक्षुविनिर्दिशेत् ।
मन्त्रं न्यासं ततः कृत्वा ध्यायेद्भक्त्या सुबुद्धिमान् ॥ १६॥
ध्यानं -
बालार्कसन्निभं देवं दिव्यकौपीनमुज्ज्वलम् ।
दिव्यमौञ्जीधरं शान्तं दिव्यकुण्डलधारिणम् ।
दिव्ययज्ञोपवीताढ्यं दिव्याभरणभूषितम् ।
किङ्किणीकटिसूत्रञ्च केयूरवनमालिनम् ।
रुद्रावतार सेनाढ्यमञ्जनागर्भसम्भवम् ।
भक्तानां भयहर्तारं रामदूतं नमाम्यहम् ॥ १७॥
इति स्तुत्वा हनूमन्तं निश्चलं कवचं पठेत् ॥ १८॥
कवचं प्रारम्भ -
अस्य श्रीकवचस्तोत्रमन्त्रस्य । ईश्वर ऋषिः । अनुष्ठुप्छन्दः ।
श्रीहनुमान् देवता । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः ।
रुद्रावतार इति कीलकम् । श्रीहनुमत्प्रसादसिध्यर्थे जपे विनियोगः ॥
कवचस्तोत्रम् -
ॐ नमो रामदुताय । अष्टाक्षराय । हनुमते नमः । षडक्षरोऽयम् ।
दिशमैन्द्रीं भवतु मे अञ्जनाप्रियनन्दनः ।
दिशमवतु आग्नेय्यां लङ्काप्रासादभञ्जनः ॥ १॥
याम्यां दिशिरक्षतु मे केसरीप्रियनन्दनः ।
नैरृतीं दिशपक्षघ्नः पातु मे प्लवगाधिपः ॥ २॥
पातु श्रीवायुपुत्रो मे वारुणीं दिशमव्ययः ।
सुग्रीवसचिवो नित्यं पातुम् मे वायुवीं दिशम् ॥ ३॥
रुद्रावतारोऽवतु मे कौबेरी दिशमक्षहा ।
श्रीरामदूतोऽवतु मे ईशान्यां दिशमव्ययः ॥ ४॥
अथस्तात्पातुमे नित्यं वालास्त्रो वरदो हरिः ।
ऊर्ध्वं दिशि रक्षतु मे शङ्करोऽमितविक्रमः ॥ ५॥
अन्तरिक्षं दिशं पातु नीतिज्ञो मे महाकपिः ।
बाह्याभ्यन्तर्दिशौ पातु पिङ्गाक्षोमेऽब्धिलङ्घनः ॥ ६॥
सुशिरोमे शिरः पातु फालं मे पातु पावनिः ।
दृशौ मे पातु सुदृशो कणौ पातु सुकर्णवान् ॥ ७॥
सुघ्राणः पातु घ्राणं मे मुखं तु प्लवगाननः ।
सुजिह्वः पातु जिह्वां मे कण्ठं पातु सुकन्थरः ॥ ८॥
सुस्कन्धः पातु मे स्कन्धो सुभुजोऽवतु मे भुजौ ।
सुकरोमे करौ पातु हृदयं सुहृदोमम ॥ ९॥
सुमध्यः पातु मे मध्यं नाभिं तु सुनाभिवान् ।
कटिं मे सुकटिं पातु ऊरू सुरूरुमान् मम ॥ १०॥
सुजानुः जानुनी पातु जङ्घे पातु सुजङ्घवान् ।
सुपादः पातु मे पादौ सुनखो मे नखानि च ॥ ११॥
अनुक्त सन्धिनीपातु सर्वदा च सुसन्धिमान् ।
सर्वाङ्गानि च मे पातु सर्वावयवशोभितः ॥ १२॥
सङ्कटे विषमे दुर्गे भये पारे महाहवे ।
निशायां सन्ध्ययोः पातु हनुमान् सर्वतस्सदा ॥ १३॥
जलेह्यग्नौ स्थिते चैव वायुव्यञ्च गुहान्तरे ।
नद्यां शैले च विपिने दावाग्नौ चोर सङ्कटे ॥ १४॥
राजद्वारे सभास्थाने शत्रुद्वारे च कृत्रिमे ।
पातु श्रीरामदूतोऽसौ सदा मां भक्तवत्सलः ॥ १५॥
सर्पवृश्चिकलूतादि विषेभ्यः पातु मां सदा ।
स्थावरं जङ्गमं चैव कृत्रिमांश्च हरीश्वरः ॥ १६॥
नरवानरसिंहेभ तरुक्षु व्याघ्रभल्लुकात् ।
ह्रिंस्र्राद्वनचराध्यक्षा द्रक्षो गन्धर्वकिन्नरात् ॥ १७॥
भूतप्रेतगणाश्चैव पिशाचब्रह्मराक्षसात् ।
वेतालदनुजात्पातु सीताशोकविनाशनः ॥ १८॥
दुःस्वप्नात्सलिलात्पातु दुष्कृताददुःख सङ्कुलात् ।
अज्ञानात्कर्मलोपाच्च पातु मां ब्रह्मपावनिः ॥ १९॥
परदारात्परद्रव्यात्परदान परिग्रहात् ।
परचिन्ता परध्यानं परव्याधि भयाच्च माम् ॥ २०॥
पातु प्रचण्ड दोर्दण्ड आञ्जनेयो महाबलः ।
कर्मलोपात्क्रियालोपाद्बुद्धिजाड्याच्च चंचलात् ॥ २१॥
आयुधात्कन्दनादस्त्रात्कारागाराच्च शृङ्खलात् ।
ताडना दौषधान्मन्त्रात्पातु मां ब्रह्मपावनिः ॥ २२॥
फलश्रुतिः -
हनुमत्कवचं पुण्यं सर्वसिद्धिकरं परम् ।
मृतानाममृतत्त्वाय भीतानाञ्च अभीतये ॥ २३॥
मोक्षायञ्च मुमुक्षूणां श्रीकामानां श्रिये तथा ।
विजयाय जिगीषूणां व्याधितानामरोगकृत् ॥ २४॥
वश्याय वश्यकामानां विद्यायै वेदवादिनाम् ।
द्रविणाय दरिद्राणां पापानां पापशान्तये ॥ २५॥
वादिनां वादविजयं कवीनां कविताप्रदम् ।
अन्नाय क्षुधितार्तानां स्वर्गाय स्वर्गमिच्छताम् ॥ २६॥
पशुदं पशुकामानां पुत्रेभ्यः पुत्रकामिनाम् ।
दारेभ्यो कृतदाराणां ज्ञानाय ज्ञानमिच्छताम् ॥ २७॥
राज्याय भ्रष्टराज्यानां अशान्तानाञ्च शान्तये ।
अमृत्यवे मृत्युभियामायुष्यं चायुरिच्छताम् ॥ २८॥
शत्रुक्षये शत्रुमतामन्वर्थायच योगिनाम् ।
भर्तृवश्याय च स्त्रीणां स्त्रीवव्याय नॄणामपि ॥ २९॥
राजवश्याय कवचं राजसन्निधिसेविनाम् ।
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥ ३०॥
विनायको विसृष्टानां शान्तये भवति धृवम् ।
जप्तु स्त्रीवर्गसिध्यर्थं गृहस्थेन विशेषतः ॥ ३१॥
मुनिभिः मौनसिध्यर्थं मोक्षाय परमाय च ।
उद्यन्तं चण्ड किरणं उपस्थाय कृताञ्जलिः ॥ ३२॥
कदलीकानने तिष्ठन्नासिनो वा जपन् दिवा ।
सर्वान्कामानवाप्नोति अने नैव जपप्रिये ! ॥ ३३॥
मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्धनम् ।
ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ॥ ३४॥
अङ्गमङ्गं यथा लिङ्गं कवचेन तु साधकः ॥ ३५॥
यस्या स्मृत प्रजायुक्ता तस्यामङ्गं प्रमार्जयेत् ।
सापुत्रं लभते दीर्घं जीविनं चाप्यरोगिणम् ॥ ३६॥
वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः ।
सावै संवत्सरादर्वाग्गर्भंधत्ते मनोहरम् ॥ ३७॥
पति विद्वेषिणीया तु तस्या अङ्गं प्रमार्जयेत् ।
सातमेव भजेत्प्रीत्या भर्तारं नान्यमान सा ॥ ३८॥
अश्वत्थे राजवश्यार्थी जलमग्नर्महदिच्छताम् ।
पालाशमूले विद्यार्थी तेजसेऽभिमुखेरवेः ॥ ३९॥
कन्यार्थी चण्डिकागेहे शिवगेहे रिपुक्षयम् ।
श्रीकामो विष्णुगेहे च मोक्षार्थी यत्रकुत्रच ।
किमत्र बहुनोक्तेन सर्वान्कामानवाप्नुयात् ॥ ४०॥
अन्यच्च कवचं वक्ष्ये शृणु शैलसुते! प्रिये! ।
गुह्याद्गुह्यतमं लोके मङ्गलानाञ्च मङ्गलम् ॥ ४१॥
कवच प्रारम्भः -
हनुमान् पातु मे नित्यं सिरवक्त्रोष्ठ नाशिकाः ।
कर्णौ स्कन्धौ भुजौ वक्षौ रामेष्टः पातु कक्षकौ ॥ ४२॥
पृष्ठं च जठरं सर्वं स्तनौ जतृच हृत्कटिम् ।
हरिः पातूदरं नाभिं पर्श्वं हस्ताङ्गुलीस्तथा ॥ ४३॥
जाठरं वह्निस्थानन्तु गण्डं जघन गुह्यकम् ।
पावनिः पातु मे नित्यमूरुयुग्मं सजानुकम् ॥ ४४॥
आञ्जनासूनु मे पातु जङ्घे पादौच सर्वदा ।
यदुक्तं यच्च नोक्तं मे यद्बाह्ये यत्तदन्तरम् ॥ ४५॥
सर्वाङ्गं पातु मे शूरो लक्ष्मणप्राणदायकः ॥ ४६॥
य इदं कवचं दिव्यमाञ्जनेयस्य कामदम् ।
ध्यायेज्जपेद्भजेत्तस्य श्रीविद्यायुश्च वर्धते ॥ ४७॥
श्रीयन्त्र लक्षणम् -
प्राचीष्षड्भिर्लिखेद्रेखीदीचीषट् च तथाक्रमम् ।
सपञ्चविंशतिस्तत्र कोष्टानां तु भविष्यति ।
कोष्टे कोष्टे अयं मन्त्रो साक्षराणि यथाक्रमम् ॥ ४८॥
ग्रन्थान्तरे -
उदगग्रा लिखेद्रेखाः स्थानं मूलन्तु दक्षिणम् ।
प्रागग्राश्च लिखेद्रेखाः स्थानं मूलन्तु पश्चिमम् ॥ ४९॥
प्रागग्रा मुदगग्रञ्च समारभ्य लिखेद्बुधः ।
रेखापदेषुविलिखेत्कवचस्य पदं पदम् ॥ ५०॥
सौवर्णे रजते ताम्रे तालपर्णेऽपि वा मुने ।
भूर्जे रोचनया विद्वान् सोऽपि कुङ्कुम मिश्रया ॥ ५१॥
यस्तु यन्त्रमिदं मूर्ध्नि स्थितं कण्ठे तु धारयेत् ।
सङ्ग्रामे व्यवहारे च चोरव्याघ्रभयेषु च ।
मारीभये विषभये महाद्भुतप्रपीडने ॥ ५२॥
क्षयापस्मारपीडासु सर्पवृश्चिकलूतके ।
तापनेतु तथा शोके नेत्ररोगे च दुःसहे ॥ ५३॥
नानाविध भयेष्वे च नानाव्याधिप्रपीडने ।
विन्यस्य कवचं यस्तु मन्त्रराजेन मन्त्रितम् ॥ ५४॥
नतस्य दुरितं किञ्चिदिह चामुत्र चैवहि ।
वन्ध्यया धारयेद्यन्त्रमचिरात्पुत्रिणी भवेत् ॥ ५५॥
क्षुद्रसिध्यै ततोऽन्यस्यै यस्तु प्रार्थयतेऽल्पधीः ।
पिपासतो सविहितो मृगतृष्णां पिपासति ॥ ५६॥
वश्याकर्षण विद्वेष स्तम्भनोच्चाटनादिषु ।
कृत्वा तु कवचं न्यासं जपेनमन्त्रमनुत्तमम् ॥ ५७॥
तथैव सर्वमाप्नोति नात्रकार्या विचारणा ।
श्लोके श्लोके प्रकुर्वीत होमं तर्पणमेवच ॥ ५८॥
नवरात्रौ पठेद्विद्वानेकोत्तरविधानतः ।
मल्लिकाजाति पुष्पैश्च खजूरकदलीफलैः ॥ ५९॥
द्राक्षाफलेषु खण्डैर्वा होमं कुर्याद्विचक्षणः ।
बहुशो सिद्धिमाप्नोति फलमाप्नोत्य संशयः ॥ ६०॥
एवं कृत पुरश्चर्यो कुबेर सदृशोभवेत् ।
तर्पणे तर्पयामीति स्वाहान्तञ्च हुनेद्बुधः ॥ ६१॥
जयद्वन्द्वसमायुक्तं होमांते च तथोच्चरेत् ।
इति श्रीपराशरसंहितायां पराशरमैत्रेयसंवादे
कवचस्तोत्रयन्त्रमहिमादिवर्णनं नाम अष्टसप्ततितमः पटलः ।