श्रीहनुमत्संहिता
१. अथ प्रथमोऽध्यायः ।
जयत्यनन्ताब्जजशङ्करप्रियो महाबली वीरबली मुखाग्रणीः ।
प्रचण्डमार्तण्डसहस्रकान्तिः श्रीरामपादद्वयचिन्ततानः ॥ १॥
कुम्भोद्भवायाम्बुधिशोषणाय विशुद्धविज्ञानशुभप्रदाय ।
श्रीरामपादद्वेयनिश्चिताय महामुनीन्द्राय नमो नमस्ते ॥ २॥
अगस्त्य उवाच -
श्रुतं रामस्य माहात्म्यं तव वक्त्रान्महाकपे ! ।
ऐश्वर्य्यमतुलं तेजः प्रभावं परमात्मनः ॥ ३॥
माधुर्य्यं गोपनीयं च यदलभ्यं सुरासुरैः ।
ब्रह्मवेदविदां श्रेष्ठः कपिलो नारदस्तथा ॥ ४॥
वैष्णवानां च प्रवरः श्रीपञ्चाननसर्व्वदृक् ।
प्रह्लादः सनको व्यासस्तथा वैयासकिर्हरिः ॥ ५॥
पराशरस्सुरास्सर्व्वे देवेन्द्रा ऋषयस्तथा ।
श्रीः शर्व्वाणी च सावित्री शेषः सिद्धा महर्षयः ॥ ६॥
विभीषणाद्या ये साध्या वैष्णव्यो वैष्णवास्तथा ।
सर्व्वेषामप्यलभ्यं यन्माधुर्य्यं जानकीपतेः ॥ ७॥
तत्सर्व्वं श्रोतुमिच्छामि विस्तरेण तवाननात् ।
त्वं शान्तश्चानुशीलश्च सतां मध्ये प्रपूजितः ॥ ८॥
इति श्रुतं मया सर्व्वं तेन त्त्वां प्रणमाम्यहम् ।
यद्यस्ति ते कृपा मह्यं गुह्यं तद् वद साम्प्रतम् ॥ ९॥
रसिकानां हृदाऽऽह्लादकारिणी पावनीं कथाम् ।
कथयन्ति महात्मानः प्राप्नुवन्ति हरेः पदम् ॥ १०॥
श्रीहनुमानुवाच -
साधुपृष्ठोऽस्मि विप्रर्षे मनसैवेति निश्चितम् ।
गुह्याद् गुह्यतरं दिव्यं तव प्रीत्या वदाम्यहम् ॥ ११॥
गोलोकनिर्णयं सर्व्वमैश्वर्यं च निवेदितम् ।
अद्य ते कथयिष्यामि प्रेमामृतमहोत्सवम् ॥ १२॥
पावनं सर्व्वसत्त्वानां रसिकानां च जीवनम् ।
न देयं कस्यचित्त्वेतत् प्राणात् प्रियतरं महत् ॥ १३॥
यच्छ्रुत्वा नियतं वासो गोलोके नात्र संशयः ।
अयोध्याधिपतिः श्रीमान् रामो राजीवलोचनः ॥ १४॥
जानक्या सह सुप्रीतः क्रीडारसविलम्पटः ।
माधुर्य्यसुखसम्पन्नामुवाच जनकात्मजाम् ॥ १५॥
गम्यतां सरयूतीरं मनो मे त्वरयत्यलम् ।
इत्युक्त्वा तां करे धृत्वा जगाम रघुनन्दनः ॥ १६॥
महारासरसोल्लासी विलासी सर्वदेहिनाम् ।
ज्ञात्वा तयोर्मनोभावं सख्यः पररसोत्सुकाः ॥ १७॥
सुकेश्यः सुस्मिताश्चैव सुश्रोण्यः परमाद्भुताः ।
रूपयौवनशालिन्यः सर्वाऽऽभरणभूषिताः ॥ १८॥
पीनोरोजा दृढोरुत्काः काश्चित्तालफलस्तनाः ।
गानविद्याकलालापकुशलाः प्रेमपूरिताः ॥ १९॥
विदग्धा विविधाकाराः कामविद्याविशारदाः ।
नानावादित्रकुशलाः रामचित्तापहारकाः ॥ २०॥
यासां कलाकलांशेन जातानार्य्यो रमादयः ।
सर्वा रामार्पितधियो जानकीपरिचारिकाः ॥ २१॥
अनन्तकोट्यस्ताभिश्च वेष्टिता जनकात्मजा ।
विचक्षणा लक्षणाढ्या स्वर्णचम्पकविग्रहाः ॥ २२॥
परमानन्दशालिन्यः नानेङ्गितसुपण्डिताः ।
तासां मध्ये विराजन्तौ परमप्रीतिवर्द्धनौ ॥ २३॥
सुकुमारौ कोमलाङ्गौ मारमाधुर्य्यमोहनौ ।
कुङ्कुमाङ्कितसर्व्वाङ्गौ चन्दनेन सुचर्चितौ ॥ २४॥
नानाकुसुममालाभिः सुरभीकृततदिङ्मुखौ ।
परस्पररसाभिज्ञौ मनोवाचामगोचरौ ॥ २५॥
कटाक्षक्षेपसम्पन्नौ लीलयाद्भुतदर्शनौ ।
प्रेमामृतरसावेशौ करग्रहणविह्वलौ ॥ २६॥
एवं नानाविधानेन गच्छन्तौ वनचारिणौ ।
यत्पादाम्बुजगन्धेन भ्रमन्त्यखिलषट्पदाः ॥ २७॥
नखं चन्द्राद्भुतं दृष्ट्वा चकोराः परिबभ्रमुः ।
सौदामिनीधनं दृष्ट्वा चातका परिबभ्रमुः ॥ २८॥
गमनं सुन्दरं दृष्ट्वा वञ्चिता हंसकुञ्जराः ।
नव्यलावण्यकं दृष्ट्वा मूर्च्छितौ रतिमन्मथौ ॥ २९॥
हास्यलास्यकटाक्षैश्च चाटुकारैर्मनोहरैः ।
नानेङ्गितैः सुमधुरैर्वाद्यैर्विविधनिर्मलैः ॥ ३०॥
वेष्टितौ वलिभिस्तौ तु तु गच्छन्तौ वनदम्पती ।
परस्पररसावेशौ प्राप्तौ तौ वनमुत्तमम् ॥ ३१॥
तत्र दिव्यासने दिव्ये कानने मणिवेष्टिते ।
विराजन्तौ कलाभिज्ञौ दृष्ट्वा सख्यः प्रमोदिताः ॥ ३२॥
पूजयन्त्यः प्रयत्नेन गन्धमाल्यैः सुसम्भृतैः ।
नानान्नपानभोगैश्च तर्पिताः प्रीतसंयुताः ॥ ३३॥
पक्वताम्बूलकर्पूरं दत्वा ताभ्यां प्रयत्नतः ।
ननृतुर्मुखमालोक्य सर्वा रामरसोत्सुकाः ॥ ३४॥
भ्रमद्भ्रमरिकायुतं वनमनन्तमत्यद्भुतं
निवेश्य जनकात्मजारुचिरकन्धरांसे भुजम् ।
नमामि रसभाजनं विजयभामिनीसंयुतं
विविक्तसरयूतटे रसिकमौलिमालं हरिम् ॥ ३५॥
॥ इति श्रीहनुमत्संहितायां परमरहस्ये महारासोत्सवे प्रथमोऽध्यायः ॥
२. अथ द्वितीयोऽध्यायः ।
अगस्त्य उवाच -
ततः किं कृतवान् रामो जानकीप्रेमलम्पटः ।
कथ्यतां रसिकश्रेष्ठ यन्मनः सुस्थिरं भवेत् ॥ १॥
श्रीहनुमानुवाच -
तौ तत्र दृष्ट्वा विपिनं मनोहरंवरं च कुन्दैः परिवेष्टितं महत् ।
यन्मूलवेदी मणिमालसंयुता हेमैर्महार्हः परितश्च सम्भृता ॥ २॥
प्रसन्नदीप्तौ परमासनस्थितौ विराजमानौ च विभूषणान्वितौ ।
परस्परावेशविलाससम्भ्रमौ शुचिस्मितौ नित्यवयः किशोरकौ ॥ ३॥
नानासुगन्धानि वनानि कानिचित् प्रफुल्लितानीह ततस्समन्ततः ।
द्विरेफमालाः शुभसंयुतानि पिबन्ति माध्वीकरसानि संहतिः ॥ ४॥
पतन्ति मत्ता रजसाऽरुणाङ्गा स्वपन्तिकेचित्कुसुमाकरेषु ।
क्वचिन्मयूराः परिनर्त्तयन्ति गायन्ति कीराः क्वचिदप्रमेयाः ॥ ५॥
अन्ये द्विजाः केचन जाङ्गलस्था निरीक्षमाणा रघुवंशनाथम् ।
ध्यानेक्षणाश्चारुनिमेषनेत्राश्चित्रार्पिताश्चिन्मनसो बभूवुः ॥ ६॥
ततः प्रविश्य श्रीरामः सीतया सह शोभनम् ।
काननं वकुलैर्जुष्टं परमानन्ददायकम् ॥ ७॥
पत्रा वृक्षा लताद्याश्च पारिजातहतश्रियः ।
सर्व्वे किशोराः कैशोर्य्यः वरपल्लवसंयुताः ॥ ८॥
प्रसूनवरभारेण नम्रशाखा महीं गताः ।
तद्गन्धवायुना शश्वत्पूरिता दशदिङ्मुखाः ॥ ९॥
तत्राद्भुतफलं रम्यं स्वादयन्तः सुधासमम् ।
खगाः सन्तुष्टमनसो नृत्यन्तश्च सुखोचिताः ॥ ११॥
यत्र भूः काञ्चनी दिव्या खचिता मणिमालकैः ।
नानावेदीदीव्यमाना मणिकुट्टिमशालिनी ॥ १२॥
मयूरकीरकलितैर्मण्डिता मधुरस्वरैः ।
सखीनां गानगाम्भीर्य्यसौन्दर्य्यपरिपूरिता ॥ १३॥
सुखास्तरणविस्तीर्णपर्य्यङ्कैरुपशोभिता ।
तत्र रामो महाबाहू रमते रमताम्वरः ॥ १४॥
ततः प्राप्तो वनं दिव्यं माधवीपुञ्जमण्डितम् ।
नानामणिगणाकीर्णं विस्तृतं परमासनैः ॥ १५॥
मत्तालिजालसङ्घुष्टं कुञ्जपुञ्जैस्सुवेष्टितम् ।
महाह्लादकरं कान्तं कान्ताचित्तापहारकम् ॥ १६॥
पक्षिसङ्घैश्च निनदैर्नादितं परमाद्भुतम् ।
मदनोन्मादनकरं श्रीमदूर्जितसुप्रभम् ॥ १७॥
परस्परं भाषयन्तौ केलिकौतूहलान्वितौ ।
तत्र प्रेमरसावेशौ विहरन्तौ सुदम्पती ॥ १८॥
महद् वनं समापेतौ सर्वाभरणभूषितौ ।
एलाकर्पूरताम्बूलचर्वणादिकृतादरौ ॥ १९॥
कटाक्षक्षेपणासक्तौ हास्यलावण्यलालितौ ।
कन्दर्पदीप्तिदर्पघ्नौ महामाधुर्य्यमण्डितौ ॥ २०॥
तत्र नानाविधाः क्रीडाः क्रीडमानौ सुनर्मभिः ।
ततः प्रविश्य श्रीरामः परमानन्ददायकम् ॥ २२॥
वनं वृन्दावनं नाम सर्व्वध्यानमयं परम् ।
तत्र वृन्दा सखी साक्षात्सेवते शिवमुत्तमम् ॥ २३॥
वज्रवैदूर्य्यमाणिक्यमण्डिता भूः सुविस्तृता ।
नानाकुञ्जकलापैश्च वेष्टिता हेमवल्लिका ॥ २४॥
यद् वहन्ति त्रिधा वाता रञ्जिताः पुष्परेणुभिः ।
प्रभया भासमाना सा मनोवाचामगोचरा ॥ २५॥
गुञ्जन्मधुव्रतश्रेणीनानाद्विजसमाकुला ।
रमते तत्र वैदेह्या सह रामो रसात्मकः ॥ २६॥
विलासनिपुणास्सख्यस्ताभिः सह विलासकृत् ।
विचित्राम्बरभूषाभिर्भासमानाभिरावृतः ॥ २७॥
ततो मन्दारकं नाम वनं सर्ववनाद्वरम् ।
सुखदं शुभदं साक्षाद् ब्रह्मज्योतिर्मयं वरम् ॥ २८॥
द्विजालिपुञ्जकूजितं कामिनां कामदं वरम् ।
सर्वपक्वफलोपेतं मधुभारैर्विलम्बितम् ॥ २९॥
वेदीमण्डपसम्बाधं मणिस्तम्भैर्विभूषितम् ।
पद्मरागस्य पद्ममाभसोपानैरुपशोभितम् ॥ ३०॥
अतीवनिर्मलं कान्तं कामिनीकामवर्धनम् ।
विनोदयन् जनकजां तत्र रामो रराम ह ॥ ३१॥
विहरन्तौ वने तस्मिन् हरिचन्दनसंज्ञिते ।
यत्र वृक्षा लता कुना हेमवल्कलशालिनः ॥ ३२॥
नानाप्रसूनप्रवरा युक्ता मत्तमधुव्रतैः ।
खगैः कनकचित्राङ्गैः कूजद्भिरभिनन्दिताः ॥ ३३॥
सुरत्नमणिमाणिक्यवेदिसुस्थानमण्डिताः ।
सखीनां गानकलनं सुगन्धानिलसेविताः ॥ ३४॥
क्रीडयंश्च ततः श्रीमान् ययौ वनमनुत्तमम् ।
पारिजातद्रुमैर्यत्तु वेष्टितं परमाद्भुतम् ॥ ३५॥
नानारत्नमणिस्तम्भकदम्वैरन्वितं गृहम् ।
सर्वभोगैः समायुक्तं मनोऽभिलषितं च यत् ॥ ३६॥
मन्मथाविष्टहृष्टः सन् रमते सीतया सह ।
ततः सन्तानेसम्पन्ने विपिने कुसुमाकरे ॥ ३७॥
भ्रमद्भ्रमरसङ्घुष्टभ्राजिते परमान्विते ।
सखीनां गीतवादित्रमहापीठे मनोरमे ॥ ३८॥
परमाद्भुत सङ्कासो हास्यलास्यविनोदकृत् ।
ययावन्यद्वनं रामो नागकेसरमण्डितम् ॥ ३९॥
यस्याविदूरे सरयूतीरं परमपावनम् ।
दृष्ट्वा सर्वाः प्रहृष्टास्ताः सख्यः प्रेमप्रपूरिताः ॥ ४०॥
गायन्त्यो नर्तयन्त्यश्च हासयन्त्यः परस्परम् ।
परमानन्दजलधौ मग्नाः कौतूहलान्विताः ॥ ४१॥
एवं पुण्यान्यरण्यानि गतास्तानि नवानि च ।
तन्मध्येऽशोकवनिका सर्वेषामप्यगोचरा ॥ ४२॥
पुंसामगोचरं स्थानं केवलं प्रेमदायकम् ।
ये तथाभावसंयुक्ता तेषां दृश्यं भवेद् ध्रुवम् ॥ ४३॥
संरुचिरं विपिनं विलोक्य सर्व्वं विहरन् नित्य विलासवांश्च रामः ।
जयति जनकजा जानिरीशो धीरोदात्तगुणाकरो रसज्ञः ॥ ४४॥
॥ इति श्रीहनुमत्संहितायां परमरहस्ये महारासोत्सवे द्वितीयोऽध्यायः ॥
३. अथ तृतीयोऽध्यायः ।
अगस्त्य उवाच -
श्रावं श्रावं रासरसं तव वक्त्रान्महामते ।
न तृप्यति मनो मेऽद्य हविर्भुक् हविषा यथा ॥ १॥
श्रीहनुमानुवाच -
मुनिवर्य्य महाभाग धन्यधन्योसि धन्यकृत् ।
यथा स्पर्शमणिस्पर्शाल्लौहोऽपि स्वर्णतां व्रजेत् ॥ २॥
तथा भागवतानाञ्च सङ्गाद् भवति मुक्तिभाक् ।
श्रूयतां तेऽभिधास्यामि रहस्यं लोकपावनम् ॥ ३॥
रम्यं सरय्वाः पुलिनं पवित्रं सुविस्तृतं काननपादपाढ्यम् ।
प्रफुल्लपद्माकरवायुयुक्तं भात्यन्यपुष्पैः परितः प्रसन्नम् ॥ ४॥
यत्सौरभास्वादुमयैः सदागतेर्गतागतैः पूरितविश्वखण्डम् ।
परिभ्रमन्ती मधुपानमत्ता यत्रालिमाला कलमण्डिता च ॥ ५॥
मही मयूखैः खचिता महद्भिर्मणिप्रवालै रुचिरा समन्तात् ।
हिरण्मयी मूर्तिमती श्रियाढ्या यत्राद्भुताः सन्ति विहारलीलाः ॥ ६॥
जलानि शीतांशुकरोर्ज्जितानि गोक्षीरशङ्खद्युतिसम्मितानि ।
सुधाशरन्मेघनिभानि यानि श्रीमन्दिरेऽस्मिन्नुपसंशितानि ॥ ७॥
हिमागमाच्छीतविडम्वितानि स्वादूनि माध्वीकरसाद्भुतानि ।
स्वच्छानि सच्चिच्चसमप्रभाणि कर्पूरकुन्दाद्भुतदर्शनानि ॥ ८॥
महार्हमाणिक्यमणिप्रकारैर्वैदूर्यवज्राङ्कुरसुप्रसन्नैः ।
युक्तैव तेषां सिकतान्विता या विराजते सा सरयू प्रसन्ना ॥ ९॥
वीचीदुकूला शतपत्रवक्त्रिका नीलेक्षणा चारु कुमुद्वतीस्मिता ।
आरालशैवालवृहच्छिरोरुहा भव्यांवरा नव्यवधूरिवाभवत् ॥ १०॥
प्रफुल्लितं यत्र चतुर्विधं महत् सरोरुहं षट्पदराजिवेष्टितम् ।
कुमुद्वतीन्दीवरमञ्जुमण्डितं कह्लारकाह्लादि जलं व्यभासत ॥ ११॥
यत्रारुचत्कौस्तुभपद्मराग स्यमन्तवंशच्छदशोभमाना ।
नाना मणीनामतिदीप्तिकानां वितर्कितार्कप्रतिमा च रेणुः ॥ १२॥
चक्राङ्गदात्यूहमरालसारसाः सदारका वै जलकुक्कुटादयः ।
क्रीडन्ति व्रीडां परिहृत्य सर्वतो निवासमप्या कलयन्ति पक्षिणः ॥ १३॥
कम्बूकशम्बूकनभोविकाशा वसन्ति मुक्ता भुजगाश्च कूर्माः ।
अन्योन्यविद्वेषमपास्य दूरात् पिबन्ति पीयूषमृणालिकानि ॥ १४॥
वनं वनं पद्ममुखैर्विकासितं विराजितं कुन्दसुमल्लिकादिभिः ।
स्मितं तनोत्येवमुदारलीलया परस्परेणाविहितां श्रियं तथा ॥ १५॥
हरिनयनोत्थविलासकारिणी प्रणतेष्वप्रणतेषु वा प्रसन्ना ।
जलदुरित कदम्वखण्डनश्री सरयू त्वंवर वर्णनि प्रसीद ॥ १६॥
तज्जलेन जलजन्तवश्चये यत्र कुम्भपतिताः खगादयः ।
प्राणमोचनकृतोऽपि तत् क्षणाद् ब्रह्मरुद्रविबुधेन्द्रवन्दिताः ॥ १७॥
तन्मध्येऽशोकवनिका दिव्यपादपसङ्कुला ।
प्रफुल्लिता चारुकान्तिः श्रीमद्भ्रमरमालिनी ॥ १८॥
ज्योतिष्मती मणिद्योतवती प्रेमप्रदा सती ।
रामप्रिया चक्ररूपा हरिनेत्रभवाऽमृता ॥ १९॥
तत्र चिन्तामणेर्भूमिर्वाञ्छाधिकफलप्रदा ।
यद्गत्वा न निवर्तन्ते प्राणिनो भाग्यगोचरात् ॥ २०॥
तत्र गुल्मलतावृक्षा वज्रसाराः स्फुरन्त्यहो ।
प्रसारिपत्रतिलकाः पद्मरागप्रसूनकाः ॥ २१॥
प्रेमामृतरसैः पूर्णान्यनन्तानि फला निच ।
केवलं रसिकानां वै जीवनाज्जीवनानि च ॥ २२॥
निर्मला वाटिका रम्या वेदादिभिरगोचराः ।
योगी योगसुनिष्पन्ना यज्ज्योतिषि निमज्जति ॥ २३॥
परमानन्ददा सा तु ब्रह्मज्योतिभिरावृता ।
तज्ज्योतिर्भेदने शक्ता रसिका रसवेदिनः ॥ २४॥
विना रामप्रसादेन नान्येषां गमनं भवेत् ।
यत्र तज्ज्योतिषः प्राणो राजते सीतया सह ॥ २५॥
सन्तानकतरोर्मध्ये दिव्यमण्डपमण्डिते ।
महार्हास्तरणैः सम्यक् वेष्टितैर्मणिमालके ॥ २६॥
नाना प्रसूनगन्धाढ्यैर्धूपवासैः तु वासिते ।
चिन्तामणिमहापीठे लसन्मणिगणाञ्चिते ॥ २७॥
पद्मदिव्यार्कसङ्काशे दृष्टिविभ्रमकारके ।
कोमलास्तरणे शुभ्रे विराजेते सुदम्पती ॥ २८॥
तयोः कटाक्षमात्रेण ब्रह्माण्डानां सहस्त्रशः ।
आविर्भावतिरोभावा भवन्त्यपि न संशयः ॥ २९॥
महाशम्भुसहस्त्रस्य महाब्रह्मशतस्य च ।
सृष्टिस्थितिलयानाञ्च कर्ता श्रीरघुनन्दनः ॥ ३०॥
रमते सीतया सार्धं प्रेम्णा प्रेमरसास्पदम् ।
हास्यलास्यकटाक्षैश्च मोदयञ्जनकात्मजाम् ॥ ३१॥
असृजद् विश्वसृक् शश्वन्मनसा मनसोद्भवम् ।
दुर्निवारं सुचार्वङ्गं रत्या सह रघूत्तमः ॥ ३२॥
दृढव्रत व्रतहरमाकीट ब्रह्ममोहनम् ।
प्रसूनचापं विगुणं विभ्रत्पञ्चेषुभिस्सह ॥ ३३॥
दम्पत्योः साम्प्रतं चित्तं मोहयन्तत्र कानने ।
प्रियं प्रियां कटाक्षेण चित्तेनाकलनेन च ॥ ३४॥
बोधयामास तां प्रेम्णा स्वेच्छया रमणेच्छया ।
रघुवंशयशश्चन्द्रः कान्ताभिः सहितस्य वै ॥ ३५॥
रामस्य हृदयं ज्ञात्वा जानकी स्वाङ्गतोऽसृजत् ।
नार्यष्टादश साहस्त्रमष्टोत्तरशतैर्युतम् ॥ ३६॥
वह्निशुद्धाशुकाधानाः सर्वाभरणभूषिताः ।
किशोर्य्यः परमाह्लादजनन्यः परमाद्भुताः ॥ ३७॥
रूपयौवनशालिन्यो मालिन्यः पद्मलोचनाः ।
नानागुणाढ्यश्चार्वङ्ग्यः कामशास्त्रविशारदाः ॥ ३८॥
नानेङ्गित्तसमायुक्ता रामप्रेमप्रपूरिकाः ।
तत्र काश्चित्पद्म गन्धाः काश्चित्मालतिसौरभाः ॥ ३९॥
मल्लिका गन्धवत्यश्च केतकी सौरभान्विताः ।
पाटलामोदवत्यश्च काश्चित्काश्मीरसौरभाः ॥ ४०॥
सर्वगन्धयुताश्चान्या मदविह्वलितेक्षणाः ।
सिताभा प्रसिताभाश्च काश्चित् क्षितिजभाः शुभाः ॥ ४१॥
सुतप्तकनकाभासा नानावर्णाश्च कोटिशः ।
मुख्यास्ता नायिका रम्या दास्यस्तासां सहस्रशः ॥ ४२॥
एकैकशः प्रयत्नेन सेवन्तेऽनिशमुत्तमाः ।
दृष्ट्वा ता भगवान् रामो रमणेच्छुरभुद् विभुः ॥ ४३॥
आत्मस्वरूपाननुगानसृजत्पुरुषान्वरान् ।
श्यामलान् सुस्मितमुखान् सर्वाभरणभूषितान् ॥ ४४॥
किशोरान् कमनीयाँश्च कामविद्याविशारदान् ।
रसास्वादानुरागांश्च किरीटकुण्डलान्वितान् ॥ ४५॥
ते सर्व्वं विपिनं दृष्ट्वा शोभमानं मनोरमम् ।
कामवाणाभिसंविद्धा मत्तगानसमुत्सुकाः ॥ ४६॥
विधुमुखशीधुभ्रमरो यो रसिकपतिर्जयत्यनन्तात्मा ।
बहुजलदपटलनीलो सुरतविदग्धसङ्गरो रामः ॥ ४७॥
॥ इति श्रीहनुमत्संहितायां परमरहस्ये महारासोत्सवे तृतीयोऽध्यायः ॥
४. अथ चतुर्थोऽध्यायः ।
अगस्त्य उवाच -
शुष्कं कर्णविलम्मेऽद्य तव वाचा सुवारिणा ।
सिञ्चयस्व महाभाग तवाऽनुग्रहमात्रतः ॥ १॥
श्रीहनुमानुवाच -
कुहूकुहूश्चैव रटन्मुहुर्मुहुर्नटन्नटेॅंश्चूतनवाङ्कुरेषु ।
उन्मत्तवत्काकभृतः प्रमत्तः प्रियम्प्रियायाः कलनं करोति ॥ २॥
नृत्यन्ति नित्यं शिखिनः समन्तात् गायन्ति गीतं विविधं शुकाद्याः ।
अन्यद्विजाश्चारुमनोहराणां गिरां प्रबन्धानभिवादयन्ति ॥ ३॥
अदृष्टपूर्वाश्च मृगाश्च गावो ग्रासं जजक्षुश्च तृणाङ्कुराणां
विलोक्य रामं प्रवरप्रभाव मर्द्धार्द्धम्भक्षन्ति विहाय चार्द्धम् ॥ ४॥
निमेषहीनोर्द्धवमुखाः समन्ता दूर्द्ध्वं स्वकर्णौ कृतवन्त एके ।
मुञ्चन्ति नेत्रैर्जलबिन्दुमन्ये कृतोर्ध्वरोमा मुदितेन्द्रियाश्च ॥ ५॥
दृष्ट्वाऽद्भुतं रासरसं मनोज्ञं योगीव भोगी गतदेहबुद्धिः ।
विनिःसृतार्धो विवराद् वराच्च निश्चेष्टितो भेकनिमग्नभोगः ॥ ६॥
काचित्तु पञ्चाननमध्यमध्या मालेवबालाप्रियकण्ठलग्ना ।
अभ्रं दधाना चपलेव मुग्धा श्यामाचलान्निः सृतहेमधाराः ॥ ७॥
काचिच्च रामा रमणीयवेषा कामातुरा राममुखं चुचुम्ब ।
मुदा शरच्चन्द्रमसः सकाशात्सुधां ययाचेव चकोरिकाकिम् ॥ ८॥
नव्या सुभव्या यत सव्यदक्षिणौ प्रियागले चारु भुजौ ददावयम् ।
सुमेरुमध्ये पतिता यथाचलाद् धाराद्विधाभूयकलिन्दजन्मनः ॥ ९॥
प्रफुल्लतापिच्छसमं स्फुरद् वपुर्नितम्बिनीमध्यगतं शुभप्रदम् ।
विभाति तन्मन्मथचित्तमर्दनं नीलं यथा स्वर्णलताभिरावृतम् ॥ १०॥
काचित्क्वचित्कुञ्जगता सुबाला कामाकुला राममुखं निरीक्ष्य ।
ह्रिया न किञ्चिद्वदति स्वभीक्ष्णङ्करे करं न्यस्य जहास प्रीत्या ॥ ११॥
काचिच्च बाला विमला निकुञ्जगा सुखेन रामं परिरभ्य सस्मिता ।
निरीक्ष्य सा चारुमुखं श्रियायुतं पुनः पुनश्चुम्बति सादरेण ह ॥ १२॥
कान्तामुखं वीक्ष्य रघूत्तमेन विहस्य पद्माननमात्मनस्तत् ।
पुनः स्वयं सङ्कुचितं च तत्र दृष्ट्वा
शरच्चन्द्रमसः प्रकाशम् ॥ १३॥
वरानना वराननाङ्गगा मुदा विराजते कदा
कुहूक्षपान्तरे हिमांशुचन्द्रिका नु किम् ।
विदग्ध चारुनागरं विधाय वक्षसि प्रिया
यथा नवीननीरदैः समाचितौ सुभूधरौ ॥ १४॥
सुराङ्गना नराङ्गना समीरपावकाङ्गना
वराङ्गना पदत्विषा विनिर्जिता सुभामिनी ।
प्रिया प्रियेण विधृता प्रनर्त्तती शुचिस्मिता
विलोलुपा दधार सत्पथं चलत्सुचचञ्चलम् ॥ १५॥
नृत्यश्रमायाःशिथिलीकृभाङ्गया मल्लिप्रसूनानि पतन्ति केशात् ।
अपूर्वशोभानितरान्समापुर्यथोदविन्दून् विकरन्ति मेघाः ॥ १६॥
आलोलपाणिचरणास्मितदृग्विभङ्गी विभ्रद्वलद्वलय कङ्कणनूपुराणि ।
आश्लिष्टकण्ठकुचको जनकात्मजाया रामो रराज भवनाटकनाट्यवेषः ॥ १७॥
लसल्ललितनीरदद्युति दधद् वपुः श्यामलं
तथा स्थिरतडिल्लता जनकनन्दिनी वामतः ।
लसत्कमलकौतुकं निजजनस्य सञ्जीवनं
हरत्स्मररिपोर्मनो रसिकमौलिमालं भजे ॥ १८॥
रामस्य वामे दक्षे च राजते प्रमदोत्तमा ।
सूत्रे मरकतस्येवोभयगा स्वर्णवल्लरी ॥ १९॥
मृदङ्गमुरलीवीणापणवानकजर्जरान् ।
वादयन्ति प्रयत्नेन नानायन्त्राणि वादिका ॥ २०॥
सप्तस्वरेण गायन्ति छालक्यं रागरागिणी ।
माधुर्य्येण वरार्हेण विदग्धा रामसद्गुणान् ॥ २१॥
तेन वाद्येन गानेन मोहितो रघुनन्दनः ।
स्वगुणेन गुणग्राही कामिनी कामनास्पदम् ॥ २२॥
प्रियया सहितः प्रेम्णा हास्यलास्ये मनोदधे ।
सभाजिरे रसावेशात् कारयामास मण्डलीम् ॥ २३॥
रणयन्नूपुरपादे कणयन्कङ्कणं करे ।
कलयन् किङ्किणीं कट्यां वलयान्वादयन्मुहुः ॥ २४॥
नीलपीताम्बरधरौ स्रग्विणौ च शुचिस्मितौ ।
विराजेते महापीठे सुन्दरे रासमण्डले ॥ २५॥
सर्वासर्वे प्रनृत्यन्ति नर्तयन्ति परस्परम् ।
गायन्ति गाययन्त्यश्च नन्दन्त्यो नन्दयन्ति च ॥ २६॥
लोलालका परिभ्रान्त्या वेणी श्रेणीभिरञ्जिताः ।
वङ्कताटङ्कधारिण्यो गण्डमण्डलमण्डिताः ॥ २७॥
ताभिः परमहर्षेण रमते रघुनन्दनः ।
यथा पूर्णशशी तारावेष्टितो भाति निर्मलः ॥ २८॥
एवं प्रियाः प्रयत्नेन प्राप्य रासरसोत्सवम् ।
न त्यजन्ति प्रियं कान्तं यथा रङ्काः श्रिया युतम् ॥ २९॥
भजामि सरयूतीरमाश्रितं रघुनन्दनम् ।
जानक्याश्च महारासरसिकं नटिनं हरिम् ॥ ३०॥
स्मृतावेश द्रवच्चित्तं नाथं गीतोत्सुकं परम् ।
अनन्तलीलासंयुक्तं रामचन्द्रं भजाम्यहम् ॥ ३१॥
नर्म्मप्रियं मर्मयुतं नर्मज्ञं नर्मकोविदम् ।
नर्मप्रियप्रियायुक्तं भजामि रघुवंशजम् ॥ ३२॥
काचिद्विरहसन्तप्ता नितान्तं कान्तमुत्तमम् ।
न जहाति प्रयत्नेन प्रवसत्पतिका यथा ॥ ३३॥
काचिदृष्ट्वा प्रियं काभिर्भुक्तं लाञ्छनलाञ्छितम् ।
छद्मना चाटुवाक्येन खण्डितेवाचरत्यहो ॥ ३४॥
काचित्प्रिये प्रणमति प्रागुक्तायाप्रियं ह्रिया ।
सन्तापमगमत्स्वैरं कलहान्तरिता यथा ॥ ३५॥
काचित्सङ्केतकुञ्जान्तर्गता तत्र न पश्यति ।
प्रियं सखीं भर्त्सति स्म विप्रलम्भेव भामिनी ॥ ३६॥
काचित्कुञ्जस्थिता बाला कान्तागमनमिच्छति ।
विरहानलतप्ताङ्ग्य भवत्सोत्कण्ठिता यथा ॥ ३७॥
काचिन्मालां ग्रथयन्ती गायन्ती प्रियचेष्टितम् ।
पुष्पशय्यां सज्जयन्ती यथा वासकज्जिका ॥ ३८॥
काचित्प्रियं न त्यजन्ती क्षणमात्रमुरस्थलात् ।
प्राणात्परञ्च सङ्गोप्य यथा स्वाधीनभर्त्तृका ॥ ३९॥
काचित्कान्तार्थिनी कान्तं द्रुतमुद्दिश्य गच्छति ।
कुञ्जात्कुञ्जं प्रविशति यथा प्रेम्णाभिसारिका ॥ ४०॥
काचिन्मानवती बाला प्रणयेन वशीकृतम् ।
कान्त प्रहितदूत्त्यग्रेटनटयन् चाटुवाक्यतः ॥ ४१॥
हावभावप्रभावज्ञा रामाग्रे कापि सस्मिता ।
नानाशोभैर्महानादैस्तोषिता राममण्डले ॥ ४२॥
काचिच्चामरहस्ताच काचिद्व्यञ्जनहस्तका ।
सुगन्धमाल्यहस्ताच स्थिता कमलहस्तका ॥ ४३॥
स्वर्णपात्रे जलं काञ्चित्कृत्वा कौतूहलान्विताः ।
मिष्ठान्नैश्च समायुक्तं काश्चित्काञ्चनभाजनम् ॥ ४४॥
काचित्घटं करे धृत्वा मैरेयकं युतं रहः ।
अव्यग्राऽग्रे प्रेमयुता ददृशू राघवं मुदा ॥ ४५॥
सितातपत्रकं काश्चित्काञ्चित्ताम्बूलमुत्तमम् ।
कुङ्कुमागुरुकस्तूरीचन्दनाद्यैः प्रपूरितम् ॥ ४६॥
लेपपात्रं करे धृत्वा चान्या रामपरायणाः ।
नानायन्त्रकराः काश्चिदिङ्गितज्ञा मनोरमाः ॥ ४७॥
सेवन्त्योऽहरहः प्रीत्या सप्रीतं रघुनन्दनम् ।
रासेश्वरीं निरीक्षन्तं सद्भक्त्या भक्तवत्सलम् ॥ ४८॥
रासार्णवसुखवारिणि चारुक्रीडातरङ्गसङ्कीर्णे ।
स्त्रीरत्नानां हेतोर्ममज्ज मनो रामचन्द्रस्य ॥ ४९॥
रासे सरोनिकाशे स्वर्गङ्गायाः प्रेमवारिपूर्णे ।
विकसितमाननकमलं पात्रं यत्र मधुव्रतो रामः ॥ ५०॥
रामोरसि शशिवदनी विलसत्यतिप्रेमभावसंयुक्ता ।
दलिताञ्जनचयसदने मनसिजदयितेव रञ्जिता भाति ॥ ५१॥
विलसदलसनेत्रां रामगात्रानुरक्तां
सुरुचिरमुखपद्मे स्वेदविन्दून्दधानाम् ।
शिथिलतनुकचश्रीशोभया भ्राजमानां
नमत जनकपुत्रीं प्रेमसंवर्द्धिनीं ताम् ॥ ५२॥
अमलकमलनेत्रं जानकीप्रेमपात्रं
सजलजलदगात्रं पीतवस्त्रं दधानम् ।
उरसि कुसुममालं कौस्तुभासक्तकण्ठं
स्मितरुचिरविकाशं रामचन्द्रं भजेऽहम् ॥ ५३॥
॥ इति श्रीहनुमत्संहिताया परमरहस्ये रासोत्सवे चतुर्थोऽध्यायः ॥
५. अथ पञ्चमोऽध्यायः ।
अगस्त्य उवाच -
तवाननाद् वाक्प्रभवप्रभाकरात् प्रफुल्लितं मद् धृदयं सरोरुहम् ।
सीतासखीभिः सह यत्र साम्प्रतं पूर्णेन्दुवन्नन्दति रामभद्रः ॥ १॥
श्रीहनुमानुवाच -
श्रान्तं कान्ताननं कान्तं स्वेदेन परिपूरितम् ।
दृष्ट्वा राम्ः प्रहृष्टात्मा मज्जनाय मनोदधे ॥ २॥
तास्सर्वा मुदितास्तत्र भगवन्तं रघूत्तमम् ।
नानाभरणसम्पन्ना वेष्टिताः स्नानचेष्टिताः ॥ ३॥
नृत्यं वाद्यैः सुमधुरैः राकीर्णौछत्रचामरैः ।
गच्छन्तौ भासमानौ तौ हंसकुञ्जरगामिनौ ॥ ४॥
प्राप्तौ तौ सलिलाभ्यासं तरङ्गैरुपशोभितम् ।
महोत्पलशिवाजुष्टं कामोद्दीपनकारकम् ॥ ५॥
सरयूतटं प्रियं दृष्ट्वा जानक्यालिङ्गितं प्रभुम् ।
शीतलेन सुगन्धेन जलेन पदपङ्कजम् ॥ ६॥
प्रक्षाल्य जलजैः पुष्पैः सत्कृत्य तदनन्तरम् ।
नानोपचारैर्नैवेद्यैः पूजयामास तं सती ॥ ७॥
ततः परमहर्षेण जानक्या सह राघवः ।
क्रीडयन् वारिमध्ये च यथा मत्तमतङ्गजः ॥ ८॥
सखीभिः सहितो भाति भगवान् सर्वकामदः ।
काचित्करे करन्धृत्वा वार्यगाधेक्षिपन्मुदा ॥ ९॥
काचिच्च कैतवतया रामाङ्गे निपतत्यहो ।
काचित्तीरात्प्रपतति जले काचिन्निमज्जति ॥ १०॥
यन्त्रिका बाहुयन्त्रेण काचित्कमललोचना ।
रामं काचित् सिञ्चयन्ती करमुक्तेन वारिणा ॥ ११॥
परस्परं जलकणान् सिञ्चयन्त्यो वराङ्गनाः ।
काचिज्जलं करतलैस्ताडयन्ती मुहुर्मुहुः ॥ १२॥
महान्शब्दोऽभवत्तत्र समुद्रमथने यथा ।
काचित्सन्तारयन्प्रेम्णा काञ्चिच्चोरसि कानयन् ॥ १३॥
न्यपतच्च महागाधे प्रहस्य रघुनन्दनः ।
काचिन्मग्नभयाक्रान्तं गाढमालिङ्गनं ददौ ॥ १४॥
काचित्प्रवाहपतिता तरङ्गैर्वारितांशुका ।
ह्रिया नायाति निकटं सङ्कटं बहु मन्यते ॥ १५॥
तां तु काचित्करे धृत्वा चागता राघवान्तिकम् ।
लज्जयाऽधोमुखी भूत्वा निमज्जति जलेऽमले ॥ १६॥
चिबुके द्वयङ्गुलं दत्वा गण्डे गण्डं नियुज्यताः ।
यथा कमलवक्त्रं ते चञ्चरीकाश्चुचुम्विरे ॥ १७॥
सुस्नाता वारिभिः क्लिन्ना निरीहा विवृतानना ।
रुक्माङ्गी सूक्ष्मवसना नग्ना मग्ना जले पुनः ॥ १८॥
एवं नानाविधानेन क्रीडयित्वा पुनः पुनः ।
उत्तस्थौ तीरमतुलं ताभिस्सह विलास कृत् ॥ १९॥
तत्र सर्वाभिरालीभिर्बभौ श्रीरघुनन्दनः ।
ततो मञ्जुलकङ्कुञ्जं प्रविश्य परमाद्भुतम् ॥ २०॥
परमंसुखदं धाम जगाम श्रीरघूत्तमः ।
हास्यलास्यविनोदेन प्राप्य स्थानमनुत्तमम् ॥ २१॥
सुरागमूले विमले मण्डपे मणिमण्डिते ।
तोरणैर्हेमकलशैर्मणिस्तम्भैर्विराजिते ॥ २२॥
राङ्कवास्तरणे दिव्ये विस्तीर्णपरमासने ।
तत्र सिंहासनं कान्तं नानामणिभिरावृतम् ॥ २३॥
तन्मध्ये षोडशदलं पद्मं ज्योतिर्मयं परम् ।
न्यवसद्राघवस्तत्र सीतया सह सुवृतः ॥ २४॥
तत्र कुञ्जान्यनेकानि प्रफुल्लानीह सर्वतः ।
पक्षिसङ्घस्य निनदैर्नादितानि मनोहरैः ॥ २५॥
यत्रर्त्तवो वसन्ताद्याः फलपुष्पसमन्विताः ।
नवपल्लवनम्राग्रा भ्रमद्भ्रमरवेष्टिताः ॥ २६॥
वहन्ति वाताः पद्मानां गन्धस्पर्शमनोरमाः ।
कामदाः कामिनीनाञ्च मनोह्लादकराः पराः ॥ २७॥
तत्पद्मे षोडशदले वयस्याः सन्ति सोत्सुकाः ।
क्रमेण तासां नामानि श्रूयतां मुनिसत्तम ॥ २८॥
उज्ज्वला काञ्चनी चित्रा चित्ररेखा सुधामुखी ।
हंसी प्रशंसी कमला विशदाक्षी सुदन्तिका ॥ २९॥
चन्द्रानना चन्द्रकला माधुर्य्यशालिनी वरा ।
कर्पूराङ्गी वरारोहा इत्याद्या षोडश स्मृताः ॥ ३०॥
तस्य पद्मस्योपदले राजन्ते षोडशाङ्गनाः ।
शृणु नामानि तासां वै महामुनिवरेश्वर ॥ ३१॥
शोभना शुभदा शान्ता सन्तोषा सुखदा सती ।
चारुस्मिता चारुरूपा चार्वङ्गी चारुलोचना ॥ ३२॥
हेमा क्षेमा क्षेमदात्री धात्री धीरा धरा स्मृताः ।
अनेकसेवाभिरताः सेवन्तेऽनिशमुत्तमाः ॥ ३३॥
क्षीरोद्भवा भद्ररूपा भद्रदा भववर्ज्जिता ।
विद्युल्लता पद्मनेत्रा पावनी हंसगामिनी ॥ ३४॥
रमणीया प्रेमदात्री कुङ्कुमाङ्गी रसोत्सुका ।
एताः सख्यो वसन्त्यत्र दलेषु द्वादशेषु च ॥ ३५॥
महार्हा माधवी माल्या कामदा काममोहिनी ।
रतिर्क्षितिर्नीतिमती प्रीतिदा कुशला कला ॥ ३६॥
नीलाद्या याश्चोपदले सेवन्ते रघुनन्दनम् ।
दृश्यन्ते च महाप्रेममग्ना कौतूहलान्विताः ॥ ३७॥
ततोऽष्टदलमध्ये च नानासौभाग्यसंयुताः ।
कुञ्जाधिपा सुसख्यस्तानित्यसेवनतत्पराः ॥ ३८॥
प्रथमं वेषकुञ्जन्तौ प्रविष्टौ नर्मभिर्वृतौ ।
विलासिनी सखी तत्र दृष्ट्वा रासेश्वरं मुदा ॥ ३९॥
वेषं चकार सा शीघ्रं वस्वालङ्कृतकाञ्जनैः ।
उभयोर्नवदम्पत्योरनुरूपं सुभक्तितः ॥ ४०॥
गत्वा तु मालतीकुञ्जं साङ्गानन्दा सखी यतः ।
तया सेवा सङ्गृहीतौ प्रेम्णा परमहर्षितौ ॥ ४१॥
केलिकुञ्जान्तर्गतः श्रीरामः सीतया सह ।
यत्र वृन्दा सखी नित्या नित्यानन्दे निमज्जति ॥ ४२॥
विहरत्यत्र हर्षेण केलिकौतूहलेन च ।
तोषयित्वा वयस्यां तां कामनाकलनेन च ॥ ४३॥
ततस्तु सुखदं राम कुञ्जं दृष्ट्वा मनोरमम् ।
उभौ परमसन्तुष्टौ विराजेते सदाऽत्रवै ॥ ४४॥
ततो हिन्दोलके कुञ्जमान्दोलित्वा मुहुर्मुहुः ।
सख्याः प्रेमप्रदर्शिन्याः पूर्णं कृत्वा मनोरथम् ॥ ४५॥
वसन्तकुसुमैर्यत्तु वेष्टितं परमाद्भुतम् ।
कोकिलालिगणैर्जुष्टं कामसन्दीपकारकम् ॥ ४६॥
सखिभिः सीतया सार्द्धं गतो भोजनकुञ्जकम् ।
सदानुमोदनी सख्या भोगैः सन्तर्पितौ मुदा ॥ ४७॥
शयनीयं चारु कुञ्जं दृष्टवान् भगवान्प्रभुः ।
प्रहर्षमतुलं लेभे कोमलास्तरणैर्वृतम् ॥ ४८॥
स्थिता यत्र सखी साक्षात् श्रीमन्मदनमञ्जरी ।
सुष्वाप सीतया सार्द्धं तया प्रेम्णा प्रबोधितः ॥ ४९॥
अष्टपत्रस्योपकोणे वल्ली पादपमण्डिता ।
माधवी चम्पका मल्ली पुन्नागा मालती तथा ॥ ५०॥
लवङ्गलतिका धात्री तुलसी परमाद्भुता ।
सर्वगन्धयुताः सर्वाः सर्वपुष्पप्रपूरिताः ॥ ५१॥
फलानि यत्र स्वादूनि पत्राण्यप्यमृतादपि ।
तत्र सख्यो विराजन्ते यत्र हास्य प्रहर्षिताः ॥ ५२॥
गायन्त्यो नृत्यवन्त्यश्च वीक्ष्यन्त्यश्च सुदम्पती ।
तासां नामान्यपि मुने ! श्रूयन्तां हृदि धारय ॥ ५३॥
वीणावती वेणुहस्ता वीणाहस्ता सुगन्धिका ।
कविलासविलासेन शोभाशोभान्विताऽभवत् ॥ ५४॥
सप्तस्वरान् सुखेनैव धृत्वा सा सुखदा सती ।
खञ्जनाक्षीकरे कृत्वा खञ्जरी रसमञ्जरी ॥ ५५॥
करे गानकलां नीत्वा मृदङ्गं मधुरस्वरम् ।
सारङ्गलोचनी शार्ङ्गी वादयत्यतिहर्षिता ॥ ५६॥
सुखदा च सुखस्पर्शा सुखमण्डलमण्डिता ।
सर्वासर्वरसाभिज्ञा श्रीरामेङ्गितबोधिका ॥ ५७॥
वराटके सन्ततहाटकान्विते महामणीन्द्राद्भुतचारुमण्डपे ।
सोमार्कवह्निद्युतिकोटिवञ्चके चिन्तामणेश्चित्तविमोहकारके ॥ ५८॥
तत्रोल्लसत्पीठपवित्रनिर्मले मन्त्रैश्चवर्णार्णशतैः समन्विते ।
सुकोमले केवलवर्च्चसां निधौ विना गुरोर्वाक्यमगम्यरूपके ॥ ६०॥
सर्वबीजैः सप्रणवैः सर्वमन्त्रैश्च वेष्टिते ।
यथा मणिगणानाञ्च राजते मध्यनायकः ॥ ६१॥
तत्रावसत्पद्मपलासलोचनः प्रलम्वबाहुः स्मितशोभिताननः ।
प्रतप्तचामीकरभूषणाञ्चितो यस्याङ्गगा श्रीजनकात्मजा प्रिया ॥ ६२॥
परस्परालिङ्गितमिङ्गिताङ्गं हास्येन वाक्येन च शोभमानम् ।
रसास्पदं सर्व्वसुखास्पदं तं नमामि रासेश्वरमप्रधृष्यम् ॥ ६३॥
तत्र सख्यः सुसेवन्ते ससीतं राघवं मुदा ।
लक्ष्मणा चारुशीला च भद्रा मानवती तथा ॥ ६४॥
परमानन्दजननी हृद्या सर्वाङ्गशोभिता ।
धृत्वातपत्रं काचित्तु बर्हिणः पुच्छगुच्छकम् ॥ ६५॥
काचिद् धृत्वा चामरञ्च काचित्ताम्बूलमुत्तमम् ।
सर्वाङ्गदर्पणं काचिज्जलं काचिदुशत्तमा ॥ ६६॥
मङ्गलं कलशं काचिद्धृत्वा स्वर्णजमुत्तमम् ।
आनन्दमग्नाः सर्वाश्च पश्यन्ति रमयन्ति च ॥ ६७॥
नित्यसिद्धा नित्यसाध्या दम्पत्योः पादसेवनम् ।
कुरुते परया भक्त्या नानाभावप्रपूरिताः ॥ ६८॥
अयोध्या सरयूश्चाग्रे यन्त्रहस्ता शुचिस्मिता ।
निरीक्षते रामवक्त्रं प्रेमामृतपरिप्लुताः ॥ ६९॥
सुरुचिर जलदाभम्भावनाभावगम्यं
कनकनिकरभास्वज्जानकीवामभागम् ।
स्मित शुचिमुख कान्तं कामनिःकामकारं
नमत हृदि वराब्जे प्रीतिरासेश्वरन्तम् ॥ ७०॥
जयति जनकजायाः पादपद्मं मनोज्ञं
हरहरिविधिवन्द्यं साधकानां सुसेव्यम् ।
नखरनिकरकान्तं मुद्रिकानूपुराद्यै-
र्हृदयकमलमध्ये योगयोगीशभाव्यम् ॥ ७१॥
जयत्याध्यारमणो रसात्मा विलासिनी केलिकलाभिलाषः ।
सुचारुचामीकरचीरधारी धरासुता चित्तविनोदकारी ॥ ७२॥
न चन्द्रस्य गतिस्तत्र न सूर्य्यस्य गतिस्तथा ।
प्रभया रामचन्द्रस्य सीतायाश्च प्रभावतः ॥ ७३॥
सदा प्रकाशतेऽत्यर्थं स्थलं परमशोभनम् ।
यद्ध्यात्वा निमिषार्द्धेन रसिका यान्ति तत्पदम् ॥ ७४॥
अयोध्या नगरी रम्या सप्तपुर्य्यधिकारिणी ।
भगवानादिपुरुषो रमते तत्र चाद्यया ॥ ७५॥
आह्लादिनी शक्तिरूपा जानकी यस्य वामतः ।
तं रामं सच्चिदानन्दं नित्यं रासेश्वरं भजे ॥ ७६॥
तुरीया जानकी प्रोक्तः तुरीयो रघुनन्दनः ।
उभयोरंशजाः सर्वे चावतारा ह्यसङ्ख्यकाः ॥ ७७॥
सर्व्वेषामवताराणामवतारी रघूत्तमः ।
श्रुतं दृष्टं मया सर्वं चिरायाजीवतान्मुने ॥ ७८॥
ब्रह्मरुद्रसुरेशाद्या सन्तीमे चिरजीविनः ।
सर्वेऽपि विभवासक्ता यतोऽहं विभवात्परः ॥ ७९॥
माधुर्य्ये च वयस्याहमैश्वर्य्ये हनुमान् कपिः ।
किञ्चित्तेनैव जानामि रहस्यं रामसीतयोः ॥ ८०॥
नित्यलीला परिकरा ये स्यू रघुवरादयः ।
तैस्सार्द्धं भगवान् रामोऽयोध्यायामेव दीप्यते ॥ ८१॥
गोलोकसाकेतसमावुभौ मुने कदापि भेदो नहि राघवस्य च ।
उभौ तु विश्रामनिवासधाम्नी परस्परावसदृशे विलासतः ॥ ८२॥
अस्माद्रासादादिभूतान्नानारासो भविष्यति ।
ज्ञात्वैवं रसिका सर्वे रमन्ते कथयन्ति च ॥ ८३॥
अस्मिन्महारासरसोत्सवाब्धौ निविष्टचेता रसिकाग्रणी यः ।
विधौ निषेधे दुरिते सुकर्मणि न बाध्यते सोऽपि यथा सदागतिः ॥ ८४॥
कैवल्यदौर्बल्यकरं महारसं सीतापतेः रामविलासमद्भुतम् ।
कायेन वाचा मनसा रमेद् बुधः यथा हि गोलोकमनामयं पदम् ॥ ८५॥
इदं रहस्यं परमं सुगोपनं मयैव चोक्तं निगमागमात्परम् ।
यः श्रद्धया भक्तियुतः पठेद् वा स याति रामस्य पदं महामुने ॥ ८६॥
यो भावुको भावयते हृदम्बुजेने रामस्य रासं रसवारिपूरितम् ।
पिबेच्च सत्सामसुधाधिकं रसं न रोचते क्षारजलं यथा किल ॥ ८७॥
श्रुत्वा रहस्यं परमं पवित्रं महामुनिः सुस्थिरमानसोऽभवत् ।
परस्परालिङ्गितभावयुक्तं दत्वा ययौ ह्याश्रमात्मनस्तम् ॥ ८८॥
गच्छन् गच्छन् पथि मुनिवरः पूर्णप्रेमामृताब्धौ
मज्जन् मज्जन् सपदि पदयोर्न्यासभेदं न वेद ।
पश्यन्पश्यन् हृदि रघुपतिं सीतया शोभिवामं
हृष्यन्हृष्यन्परममुदितः प्राप गेहं चिरायुः ॥ ८९॥
गते मुनावासुगसम्भवोऽसौ सम्भावयन् ध्यानमना बभूव ।
स्मरन् स्मरन् रासरसं हृदब्जे बाह्येन्द्रियज्ञानमनो निवृत्तम् ॥ ९०॥
हनूमतो महाकाव्यं भाव्यं श्राव्यं सदैव हि ।
तस्मिन् ससीतो रामोऽपि तुष्टो भवति सर्वर्था ॥ ९१॥
॥ इति श्रीहनुमत्संहितायां परमरहस्ये रासोत्सवे पञ्चमोऽध्यायः ॥
!! श्रीरामचन्द्रम्भजे, शुभं भवतु !!
Encoded and proofread by Mrityunjay Rajkumar Pandey