श्रीरामदूतं शिरसा नमामि

श्रीरामदूतं शिरसा नमामि

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ १॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ २॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदुतं शिरसा नमामि ॥ ३॥ From next verse onwards, in each line, recite shrIrAmadutaM shirasA namAmi twice, in the middle and in the end मकुटरत्नकान्तिमथिततमिस्रं -अरुणोदयरुचिराननकमलं स्वर्णपिङ्गलभास्वर नेत्रयुगलं - चरितमकरकुण्डलगण्डभागं नवमणिमयरसनामध्यभागं - तरुणरुचिरशुभतरवरहारं समलङ्कृतदिव्यस्वर्णोपवीतं - कटितटविलसितकाञ्चनचेलं मञ्जुमञ्जीरमहितपदाब्जं - दिनमणिशतनिभदिव्यप्रकाशम् ॥ सकलसद्गुणवृन्दसारपयोधिं - दासमुखाम्बोजदशशतभानुं वाल्मीकिकृतकाव्यवरसरोहंसं - श्रितजनकुवलयशीतमयूखं रामलावण्याभ्रराजमयूरं - रामचन्द्रपदराजीवमधुपं तरुणायतदोःस्तम्भगम्भीरं - सुग्रीव-श्रीराम सन्धानहेतुं सुग्रीववेदितश्रीरामवृत्तान्तं - अग्निसाक्षीकृत अर्कजरामम् ॥ सीताभूषणसमर्पितरामं - श्रीरामसुग्रीवसख्योल्लासं वालिवधोपायवरमृदुवाक्यं - सुग्रीवपट्टाभिषेकप्रवीणं वानरसेवासमाहूतधीरं - सकलदेशागतशाखामृगनेतारं रामचन्द्रदत्तरमणीयभूषं - स्वयम्प्रभादत्तसुफलातिभोज्यं लङ्कागमनसमलङ्कृतदेहं - सागरोल्लङ्घनसम्पूर्णकायम् ॥ अब्धिमध्यमित्र अगपतिपूज्यं - सुरसामायाध्वान्तसूर्यप्रकाशं छायाग्रहिच्छेदशमनस्वरूपं - दिव्यद्वेगकृतगोष्पादजलधिं सुवेलाशिखराग्रशमिताभिगमं - लङ्किणीभञ्जनलावण्यसारं लङ्कावरोधिनिश्शङ्कितहृदयं - सीतान्वेषणसुरशत्रुसदनं वायुप्रेरितवरवनगमनं - सीतादर्शनचिन्तापहरणम् ॥ रावणदुर्वाक्य अक्षीणकोपं - सीतानिवेदितश्रीरामकुशलं राघवीयकथारञ्जितरामं - रामाङ्गुलीयकरामनिवेद्यं वसुधात्मजादत्तवरशिरोभूषं - अतिशयजलदर्प अशोकभङ्गं दनुजनिवहवनदहनदावाग्निं - वज्रायुधघोरवालकरालं सप्तमन्त्रिसुतशलभकृशानुं - जम्बुमालिवधचण्डप्रतापम् ॥ अक्षकुमारसंहरणविक्षेपं - ब्रह्मास्त्रबन्धितब्रह्मवरदानं चातुर्भागसैन्यचण्डितरूपं - वायुप्रेरितवालाग्निज्वालं सीताप्रसादितशीतलवालं - वरराक्षसगृहवह्निसन्दग्धं कपिदृक्चकोरसङ्गतचन्द्रबिम्बं - तारानन्दनादि तरुचरयुक्तं मधुवनमधुपानमत्तकपीन्द्रं - कौसलेयकार्यकरुणसमर्थम् ॥ रामनिवेदितरामवृत्तान्तं - वरविभीषणरक्षावाक्यनैपुण्यं रामसंवर्धितराक्षससङ्ख्यं - अब्धिबन्धनकार्य अमितोत्साहं प्रबलजलधिसेतुबन्धननिपुणं - धूम्रक्षाकम्पनत्रिशिरसंहारं रामनामास्त्रेण राक्षसनाशं - रणकर्कशघोरराजितवेषं रावणघनयुद्धरामतुरङ्गं - मेघनादसैन्यमृत्युस्वरूपं ॥ रक्षेन्द्रजिद्युद्धलक्ष्मणतुरङ्गं - लक्ष्मणमूर्छासंरक्षणहृदयं सञ्जीवाद्रिगमनसन्तोषस्वान्तं - कालनेमिकृतघनमायायुक्तं मकरबन्धीकृतमहितपदाब्जं - धान्यमालिनीशापधर्षितरूपं कालनेमिदनुजखण्डितधीरं - दिकृताद्य्रधीशतीव्रप्रकोपं गन्धर्वसैन्यसंक्षोभप्रतापं - स्तबकीकृतधृतसञ्जीवनाद्रिम् ॥ भरतसम्बोधितप्रशमितबाणं - माल्यवदादि महोदथधिहरणं लक्ष्मणप्राणसंरक्षणनिलयं - सौमित्रिसम्मोहजलदसमीरं अब्धिमध्यमथितराक्षसवरं - स्थूलजङ्घासुरतुमुलसंहरणं सिन्धूल्लङ्घनजलदसमीरं - वालप्राकारसंवेष्टितवीरं पाताललङ्काप्रवेशितधीरं - मत्स्यवल्लभधीरमहनीयभीतिम् ॥ मैत्रीकृतधीरमत्स्याधिपत्यं - दोर्दण्डीकृतामितधैर्यप्रतापं भिन्नतुलायन्त्रभीमस्वरूपं - बलराक्षसकोटिभञ्जिसत्त्वं श्रुतिवाक्यश्रवणसन्तोषितस्वान्तं - मैरावणकृतमर्मसंवेद्यं मैरावणसैन्यमर्दितशूरं - महनीयातिघोरमैरावणाजिं दोर्दण्डिवाक्यातिखण्तदैत्यं - नीलमेघकृतनिस्तुलराज्यं ॥ रामलक्ष्मणपूर्वलङ्काभिगमनं - सकलवानरस्तुतिसन्तोषहृदयं प्रबलमूलबलप्रलयकालाग्निं - रामारावणयुद्धरामतुरङ्गं दशकण्ठकण्ठविलुण्ठनदीक्षं - राक्षसानुजदत्तलङ्काभिषेकं पुष्पकाधिरूढपृथ्वीशसहितं - साकेतपुरवाससबलसंयुक्तं भक्तपापतिमिरभास्कररूपं - दशकण्ठवधोपायचातुर्ययुक्तम् ॥ एकैकराक्षस एकैकरूपं - दशकण्ठच्छेदनसीताप्रबोधं अवनिजाधिपयुक्तराज्यप्रवेशं - अश्वमेधयाग अमितोत्साहं दशशतशिरच्छेददीक्षाप्रतापं - दशशितशिरोधार्यभक्षाभिरक्तं राक्षससैन्यादिभेदस्वरूपं - दशशतशिरच्छेददशरथसूनुं सकलसैन्यावृतसाकेतवासं - बोधितकपिवर्यपूर्णस्वरूपम् ॥ झङ्कारोच्चाटितडाकिनीसैन्यं - चलितवालसंवेष्टितकायं यजितरामपादयजुरादिवाक्यं - श्रीकाकुलेशाश्रितमन्दारं भक्तजनकारणमुक्तिनिदानं - लीलाविनोदितदानवस्वरूपं परिपालितभक्तपादपकल्पम् - बुधजनवेदितपूर्णस्वरूपम् ॥ मोहनघनभेदमुक्तेविवासं - भद्राचलरामभद्रसमेतं वरसुन्दररामदासानुपालं - मङ्गलमञ्जनामारुतपुत्रं श्रीरामदूतं शिरसा नमामि - श्रीरामदूतं शिरसा नमामि ॥ इति श्रीरामदूतं शिरसा नमामि जपं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shriramadutam Shirasa Namami
% File name             : shrIrAmadutaMshirasAnamAmi.itx
% itxtitle              : shrIrAmadutaMshirasAnamAmi nAmAvalI
% engtitle              : shrIrAmadutaMshirasAnamAmi
% Category              : hanumaana, stotra, nAmAvalI
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (vedio)
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org