॥ सुन्दरस्तवः ॥

जाम्बवत्स्मारितबलं सागरोल्लङ्घनोत्सुकम् । स्मरतां स्फूर्तिदं दीनरक्षकं नौमि मारुतिम् ॥ १॥ मैनाकसुरसासिंहीरतिलङ्घ्याम्बुधेस्तटे । पृषदंशाल्पकाकारं तिष्ठन्तं नौमि मारुतिम् ॥ २॥ त्रिकूटशृङ्गवृक्षाग्रप्राकारादिष्ववस्थितम् । दुर्गरक्षेक्षणोद्विग्नचेतसं नौमि मारुतिम् ॥ ३॥ लङ्कयाऽधृष्यवाममुष्टिघातावघूर्णया । उक्त्वाऽऽयतिमनुज्ञातं सोत्साहं नौमि मारुतिम् ॥ ४॥ विविधैर्भवनैर्दीप्तां पुरीं राक्षससङ्कुलाम् । पश्यन्तं राक्षसेन्द्रान्तःपुरगं नौमि मारुतिम् ॥ ५॥ ज्यौत्स्न्यां निश्यतिरम्येषु हर्म्येषु जनकात्मजाम् । मार्गमाणमदृष्ट्वा तां विषण्णं नौमि मारुतिम् ॥॥ कुम्भकर्णादिरक्षोऽग्य्रप्रासादावृतमुत्तमम् । सुगुप्तं रावणगृहं विशन्तं नौमि मारुतिम् ॥ ७॥ पुष्पकाख्यं राजगृहं भूस्वर्गं विस्मयावहम् । दृष्ट्वाप्यदृष्ट्वा वैदेहीं दुःखितं नौमि मारुतिम् ॥ ८॥ रत्नोज्ज्वलं विश्वकर्मनिर्मितं कामगं शुभम् । पश्यन्तं पुष्पकं स्फारनयनं नौमि मारुतिम् ॥ ९॥ सङ्कुलान्तःपुरं सुप्तनानायौवतमच्छलम् । दृष्ट्वाप्यविकृतं सीतां दिदृक्षुं नौमि मारुतिम् ॥ १०॥ पीवानं रावणं सुप्तं तत्पत्नीं शयनेऽन्यतः । दृष्ट्वा सीतेति संहृष्टं चपलं नौमि मारुतिम् ॥ ११॥ सुप्तस्त्रीदृष्टिनष्टात्मब्रह्मचर्यविशङ्किनम् । अपक्रम्याऽऽपानभूमिं गच्छन्तं नौमि मारुतिम् ॥ १२॥ कालात्ययनृपक्रोधकार्यासिद्धिविशङ्कितम् । निर्विण्णमप्यनिर्वेदे दृष्टार्थं नौमि मारुतिम् ॥ १३॥ पुनर्निवृत्तौ कापेयमानुषापायशङ्किनम् । रामादीन् सिद्धये नत्वोत्तिष्ठन्तं नौमि मारुतिम् ॥ १४॥ सीतामशोकवनिकानद्यां स्नानार्थमेष्यतीम् । द्रष्टुं पुष्पितवृक्षाग्रनिलीनं नौमि मारुतिम् ॥ १५॥ सीतां दृष्ट्वा शिंशपाधःस्थितां चारित्रमातृकाम् । मनसा राममासाद्य निवृत्तं नौमि मारुतिम् ॥ १६॥ इह सीता ततो रामः ईदृशीयं स तादृशः । अन्योन्यमर्हत इति स्तुवन्तं नौमि मारुतिम् ॥ १७॥ राक्षसीवेष्टितेहेयं तद्द्रष्टाहं नृपात्मजौ । नमामि सुकृतं मेऽतीत्याश्वस्तं नौमि मारुतिम् ॥ १८॥ सुप्तोत्थितं दृष्टपूर्वं रावणं प्रमदाऽऽवृतम् । सीतोपच्छन्दकं दृष्ट्वावप्लुतं नौमि मारुतिम् ॥ १९॥ रावणागमनोद्विग्नां विषण्णां वीक्ष्य मैथिलीम् । सर्वोपमाद्रव्यदूरां सीदन्तं नौमि मारुतिम् ॥ २०॥ सान्त्वेनानुप्रदानेन शौर्येण जनकात्मजाम् । रक्षोऽधिपे लोभयति वृक्षस्थं नौमि मारुतिम् ॥ २१॥ मां प्रधृष्य सतीं नश्येरिति तद्धितवादिनीम् । करुणां रूपिणीं सीतां पश्यन्तं नौमि मारुतिम् ॥ २२॥ मासद्वयावधिं कृत्वा स्मारयित्वाऽऽत्मपौरुषम् । अपयातं रावणं धिक्वुर्वन्तं नौमि मारुतिम् ॥ २३॥ कुलं वीर्यं प्रेम गत्यन्तराभावं विवृण्वतीः । राक्षसीर्दुर्मुखीमुख्याः जिघत्सुं नौमि मारुतिम् ॥ २४॥ क्रुद्धाभिर्भर्त्स्यमानां तामात्मानमनुशोचतीम् । देवीं विलोक्य रुदतीं खिद्यन्तं नौमि मारुतिम् ॥ २५॥ पुनर्निर्भत्सनपरास्वासु वेणीस्पृगङ्गुलिम् । मानुष्यगर्हिणीं देवीं पश्यन्तं नौमि मारुतिम् ॥ २६॥ विलपन्तीं जनस्थानाहरणाद्यनुचिन्तनैः । प्राणत्यागपरां सीतां दृष्ट्वाऽऽर्तं नौमि मारुतिम् ॥ २७॥ त्रिजटास्वपनसंहृष्टां रक्षःस्त्रीभ्योऽभयप्रदाम् । अस्वस्थहृदयां देवीं पश्यन्तं नौमि मारुतिम् ॥ २८॥ अचिरादात्मनिर्यातमदृष्ट्वोद्बन्धनोद्यताम् । सीतां दृष्ट्वा शिंशपाध उद्विग्नं नौमि मारुतिम् ॥ २९॥ वामाक्ष्यूरुभुजस्पन्दैर्निमित्तैर्मुदितां शनैः । सीतां शान्तज्वरां दृष्ट्वा प्रहृष्टं नौमि मारुतिम् ॥ ३०॥ दृष्टात्रेयं कथं सान्त्व्योपेयाऽऽवेद्या न वेद्म्यहम् । इति रामकथाख्यानप्रवृत्तं नौमि मारुतिम् ॥ ३१॥ सुप्ते रक्षिगणे श्रुत्वा शुभां रामकथां द्रुमम् । उत्पश्यन्तीं जनकजां पश्यन्तं नौमि मारुतिम् ॥ ३२॥ स्वप्ने कपिर्दुर्निमित्तं, श्रुता रामकथा शुभा । देवीं द्वेधा विमुह्यन्तीं पश्यन्तं नौमि मारुतिम् ॥ ३३॥ का त्वं वसिष्ठचन्द्रात्रिपत्नीष्विति वितर्कितैः । सीतामौनमपास्यन्तं प्रणतं नौमि मारुतिम् ॥ ३४॥ रामदूतोऽस्मि मा भैषीः श्रद्धत्स्व प्रतिनेष्यसे । विशङ्कां सन्त्यजेत्येवंवदन्तं नौमि मारुतिम् ३५ सुग्रीवसख्यं भूषाद्यावेदनं वालिनो वधम् । तीर्त्वाब्धिं दर्शनं देव्या आख्यान्तं नौमि मारुतिम् ॥ ३६॥ अभिज्ञानेन सुग्रीवोद्योगेन विरहाधिना । सुखिनीं दुःखिनीं देवीं पश्यन्तं नौमि मारुतिम् ॥ ३७॥ मानिनीं दृढविस्रंभां राघवोद्योगकाङ्क्षिणीम् । रक्षो जित्वैव नेयां तां नमन्तं नौमि मारुतिम् ॥ ३८॥ काकोदन्तं रामगुणान् देवृभक्तिं शिरोमणिम् । अभिज्ञानतया दात्रीं ध्यायन्तं नौमि मारुतिम् ॥ ३९॥ मणौ प्रतीतामुत्साहोद्योजनप्रार्थिनीं सतीम् । आश्वासयन्तमुचितैर्हेतुभिर्नौमि मारुतिम् ॥ ४०॥ पुनस्तदेवाभिज्ञानं स्मारयन्त्या कृताशिषम् । मैथिल्या मनसा राममासन्नं नौमि मारुतिम् ॥ ४१॥ दृष्ट्वा सीतां ध्रुवे जन्ये ज्ञातुं रक्षोबलं वनम् । विनाश्य तोरणासीनं युयुत्सुं नौमि मारुतिम् ॥ ४२॥ राक्षसीज्ञातवृत्तान्तरावणप्रेषितान् क्षणात् । निघ्नन्तं किङ्करानेकं जयिष्णुं नौमि मारुतिम् ॥ ४३॥ जयत्यतिबल इति गर्जन्तं पादपाग्निना । दग्ध्वा चैत्यं पुनः सङ्ग्रामोत्सुकं नौमि मारुतिम् ॥ ४४॥ परिघीकृत्य सालद्रुं प्रहस्तसुतमारणम् । दशग्रीवबलेयत्ताजिज्ञासुं नौमि मारुतिम् ॥ ४५॥ सप्तामात्यसुतानात्मनिनदैर्गतजीवितान् । कृत्वा पुनस्तोरणाग्रे लसन्तं नौमि मारुतिम् ॥ ४६॥ उद्विग्नरावणाज्ञप्तपृतनापतिपञ्चकम् । प्रापय्य पञ्चतां तोरणाग्रस्थं नौमि मारुतिम् ॥ ४७॥ अक्षं राजात्मजं वीरं दर्शनीयपराक्रमम् । हत्वा नियुद्धे तिष्ठन्तं तोरणे नौमि मारुतिम् ॥ ४८॥ नीतमिन्द्रजितास्त्रेण ब्राह्मेण क्षणरोधिना । सभास्थरावणोदीक्षाविस्मितं नौमि मारुतिम् ॥ ४९॥ दशास्यं मन्त्रिसंवीतं वरोदीर्णं महाद्युतिम् । अनादृत्याहवक्लान्तिं पश्यन्तं नौमि मारुतिम् ॥ ५०॥ कोऽसि कस्यासि केनात्रागतो भग्नं वनं कुतः । प्रहस्तस्योत्तरं दातुमुद्युक्तं नौमि मारुतिम् ॥ ५१॥ सुग्रीवसचिवं रामदूतं सीतोपलब्धये । प्राप्तमुक्त्वा तद्धितोक्तिनिरतं नौमि मारुतिम् ॥ ५२॥ भ्रातृसान्त्वित पौलस्त्यादिष्ट वालाग्नियोजनम् । कर्तव्यचिन्तातिव्यग्रमुदीर्णं नौमि मारुतिम् ॥ ५३॥ वालदाहभिया सीताप्रार्थनाशीतलानलम् । प्रीणयन्तं पुरीदाहाद्भीषणं नौमि मारुतिम् ॥ ५४॥ अवध्य इति वालाग्रन्यस्ताग्निं नगरीं क्षणात् । दहन्तं सिद्धगन्धर्वैः स्तुतं तं नौमि मारुतिम् ॥ ५५॥ लब्धा सीता, रिपुर्ज्ञातः, बलं दृष्टं, वृथाखिलम् । सीतापि मौढ्याद्दग्धेति सीदन्तं नौमि मारुतिम् ॥ ५६॥ आपृच्छ्य मैथिलीं रामदर्शनत्वरयाचलात् । त्रिकूटादुत्पतन्तं तं कृतार्थं नौमि मारुतिम् ॥ ५७॥ सोपायनैरङ्गदाद्यैरुन्नदद्भिरुपास्थितम् । दृष्टा सीतेत्युदीर्याथ व्याख्यान्तं नौमि मारुतिम् ॥ ५८॥ तीर्त्वान्विष्योपलभ्याश्वास्य च भंक्त्वोपदिश्य च । दग्ध्वा दृष्ट्वाऽऽगतोऽस्मीति ब्रुवन्तं नौमि मारुतिम् ॥ ५९॥ दृष्ट्वा सीतां रामनाम श्रावयित्वा समागतः । ब्रूत कर्तव्यमित्येतान् पृच्छन्तं नौमि मारुतिम् ॥ ६०॥ न वयं, कपिराडत्र प्रमाणं प्रतियाम तम् । कुर्मस्तदादिष्टमिति प्रत्युक्तं नौमि मारुतिम् ॥ ६१॥ मध्येमार्गं मधुवने निपीय मधु पुष्कलम् । नदद्भिर्वानरैः साकं क्रीडन्तं नौमि मारुतिम् ॥ ६२॥ माद्यन्नृत्यत्कपिवृतं ध्वस्ते मधुवने क्षणात् । अभियुक्तं दधिमुखेनाव्यग्रं नौमि मारुतिम् ॥ ६३॥ सीतां दृष्टां मधुवनध्वंसाद्विज्ञाय तुष्यता । दिदृक्षितं कपीशेनात्यादरान्नौमि मारुतिम् ॥ ६४॥ निशम्य सुग्रीवादेशं त्वरितैः सखिभिवृर्तम् । सुग्रीवेणादराद्दृष्टं महितं नौमि मारुतिम् ॥ ६५॥ नियतामक्षतां सीतां अभिज्ञानं मणिं च तम् । निवेद्य प्राञ्जलिं प्रह्वं कृतार्थं नौमि मारुतिम् ॥ ६६॥ दृष्ट्वा चूडामणिं साश्रु स्मृत्वा तातविदेहयोः । रामेण वृत्तविस्तारे चोदितं नौमि मारुतिम् ॥ ६७॥ विस्रम्भं तर्जनं शोकावेगं च समयावधिम् । सन्देशमुक्त्वा कर्तव्योद्योजकं नौमि मारुतिम् ॥ ६८॥ त्वच्चित्ता त्वयि विस्रब्धा विजित्य रिपुमञ्जसा । प्रत्यादेयेति विनयाद्वदन्तं नौमि मारुतिम् ॥ ६९॥ स्निग्धरामपरीरम्भमुग्धस्मेरमुखाम्बुजम् । हृदयासीनवैदेहीराघवं नौमि मारुतिम् ॥ ७०॥ इति आत्रेय श्रीबालकृष्णशास्त्रिविरचितः सुन्दरकाण्डप्रतिसर्गसङ्ग्रहात्मकः । From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : sundarastava sundarakANDapratisargasaNgrahAtmakaH
% File name             : sundarastava.itx
% itxtitle              : sundarastavaH
% engtitle              : Sundarastava
% Category              : hanumaana, stotra
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : stotra
% Author                : Atreya shrIbAlakRRiShNashAstri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Processed by Sowmya Ramkumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update         : September 18, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP