॥ श्रीमद्भागवतम् - दशमस्कन्धः पूर्वार्धम् ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ दशमस्कन्धः पूर्वार्धम् ॥

॥ प्रथमोऽध्यायः - १ ॥

राजोवाच कथितो वंशविस्तारो भवता सोमसूर्ययोः। राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम् ॥१॥ यदोश्च धर्मशीलस्य नितरां मुनिसत्तम। तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः ॥२॥ अवतीर्य यदोर्वंशे भगवान् भूतभावनः। कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥३॥ निवृत्ततर्षैरुपगीयमाना- द्भवौषधाच्छ्रोत्रमनोभिरामात्। क उत्तमश्लोकगुणानुवादा- त्पुमान् विरज्येत विना पशुघ्नात् ॥४॥ पितामहा मे समरेऽमरञ्जयै- र्देवव्रताद्यातिरथैस्तिमिङ्गिलैः। दुरत्ययं कौरवसैन्यसागरं कृत्वातरन् वत्सपदं स्म यत्प्लवाः ॥५॥ द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम्। जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे यः शरणं गतायाः ॥६॥ वीर्याणि तस्याखिलदेहभाजा- मन्तर्बहिः पूरुषकालरूपैः। प्रयच्छतो मृत्युमुतामृतं च मायामनुष्यस्य वदस्व विद्वन् ॥७॥ रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया। देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना ॥८॥ कस्मान्मुकुन्दो भगवान् पितुर्गेहाद्व्रजं गतः। क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतांपतिः ॥९॥ व्रजे वसन् किमकरोन्मधुपुर्यां च केशवः। भ्रातरं चावधीत्कंसं मातुरद्धातदर्हणम् ॥१०॥ देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः। यदुपुर्यां सहावात्सीत्पत्न्यः कत्यभवन् प्रभोः ॥११॥ एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम्। वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥१२॥ नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते। पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम् ॥१३॥ सूत उवाच एवं निशम्य भृगुनन्दन साधुवादं वैयासकिः स भगवानथ विष्णुरातम् , प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं व्याहर्तुमारभत भागवतप्रधानः ॥१४॥ श्रीशुक उवाच सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम। वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ॥१५॥ वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि। वक्तारं पृच्छकं श्रोतॄंस्तत्पादसलिलं यथा ॥१६॥ भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः। आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥१७॥ गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः। उपस्थितान्तिके तस्मै व्यसनं स्वमवोचत ॥१८॥ ब्रह्मा तदुपधार्याथ सह देवैस्तया सह। जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः ॥१९॥ तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम्। पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥२०॥ गिरं समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह। गां पौरुषीं मे शृणुतामराः पुनर्विधीयतामाशु तथैव मा चिरम् ॥२१॥ पुरैव पुंसावधृतो धराज्वरो भवद्भिरंशैर्यदुषूपजन्यताम्। स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेद्भुवि ॥२२॥ वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः। जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥२३॥ वासुदेवकलानन्तः सहस्रवदनः स्वराट्। अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥२४॥ विष्णोर्माया भगवती यया सम्मोहितं जगत्। आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति ॥२५॥ श्रीशुक उवाच इत्यादिश्यामरगणान् प्रजापतिपतिर्विभुः। आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ ॥२६॥ शूरसेनो यदुपतिर्मथुरामावसन् पुरीम्। माथुराञ्छूरसेनांश्च विषयान् बुभुजे पुरा ॥२७॥ राजधानी ततः साभूत्सर्वयादवभूभुजाम्। मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥२८॥ तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः। देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥२९॥ उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया। रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः ॥३०॥ चतुःशतं पारिबर्हं गजानां हेममालिनाम्। अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम् ॥३१॥ दासीनां सुकुमारीणां द्वे शते समलङ्कृते। दुहित्रे देवकः प्रादाद्याने दुहितृवत्सलः ॥३२॥ शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम्। प्रयाणप्रक्रमे तावद्वरवध्वोः सुमङ्गलम् ॥३३॥ पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक्। अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध ॥३४॥ इत्युक्तः स खलः पापो भोजानां कुलपांसनः। भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत् ॥३५॥ तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम्। वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥३६॥ वसुदेव उवाच श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः। स कथं भगिनीं हन्यात्स्त्रियमुद्वाहपर्वणि ॥३७॥ मृत्युर्जन्मवतां वीर देहेन सह जायते। अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥३८॥ देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः। देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः ॥३९॥ व्रजंस्तिष्ठन् पदैकेन यथैवैकेन गच्छति। यथा तृणजलूकैवं देही कर्मगतिं गतः ॥४०॥ स्वप्ने यथा पश्यति देहमीदृशं मनोरथेनाभिनिविष्टचेतनः। दृष्टश्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत्किमपि ह्यपस्मृतिः ॥४१॥ यतो यतो धावति दैवचोदितं मनो विकारात्मकमाप पञ्चसु। गुणेषु मायारचितेषु देह्यसौ प्रपद्यमानः सह तेन जायते ॥४२॥ ज्योतिर्यथैवोदकपार्थिवेष्वदः समीरवेगानुगतं विभाव्यते , एवं स्वमायारचितेष्वसौ पुमान् गुणेषु रागानुगतो विमुह्यति ॥४३॥ तस्मान्न कस्यचिद्द्रोहमाचरेत्स तथाविधः। आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥४४॥ एषा तवानुजा बाला कृपणा पुत्रिकोपमा। हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सलः ॥४५॥ श्रीशुक उवाच एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः। न न्यवर्तत कौरव्य पुरुषादाननुव्रतः ॥४६॥ निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः। प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत ॥४७॥ मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम्। यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः ॥४८॥ प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम्। सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥४९॥ विपर्ययो वा किं न स्याद्गतिर्धातुर्दुरत्यया। उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥५०॥ अग्नेर्यथा दारुवियोगयोगयो- रदृष्टतोऽन्यन्न निमित्तमस्ति। एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ॥५१॥ एवं विमृश्य तं पापं यावदात्मनिदर्शनम्। पूजयामास वै शौरिर्बहुमानपुरःसरम् ॥५२॥ प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम्। मनसा दूयमानेन विहसन्निदमब्रवीत् ॥५३॥ वसुदेव उवाच न ह्यस्यास्ते भयं सौम्य यद्वागाहाशरीरिणी। पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ॥५४॥ श्रीशुक उवाच स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित्। वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद्गृहम् ॥५५॥ अथ काल उपावृत्ते देवकी सर्वदेवता। पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥५६॥ कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः। अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः ॥५७॥ किं दुःसहं नु साधूनां विदुषां किमपेक्षितम्। किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥५८॥ दृष्ट्वा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम्। कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत् ॥५९॥ प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम्। अष्टमाद्युवयोर्गर्भान्मृत्युर्मे विहितः किल ॥६०॥ तथेति सुतमादाय ययावानकदुन्दुभिः। नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मनः ॥६१॥ नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः। वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ॥६२॥ सर्वे वै देवताप्राया उभयोरपि भारत। ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ॥६३॥ एतत्कंसाय भगवाञ्छशंसाभ्येत्य नारदः। भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ॥६४॥ ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति। देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति ॥६५॥ देवकीं वसुदेवं च निगृह्य निगडैर्गृहे। जातं जातमहन् पुत्रं तयोरजनशङ्कया ॥६६॥ मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा। घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ॥६७॥ आत्मानमिह सञ्जातं जानन् प्राग्विष्णुना हतम्। महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥६८॥ उग्रसेनं च पितरं यदुभोजान्धकाधिपम्। स्वयं निगृह्य बुभुजे शूरसेनान्महाबलः ॥६९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे श्रीकृष्णजन्मोपक्रमे प्रथमोऽध्यायः ॥१॥

॥ द्वितीयोऽध्यायः - २ ॥

श्रीशुक उवाच प्रलम्बबकचाणूरतृणावर्तमहाशनैः। मुष्टिकारिष्टद्विविदपूतनाकेशिधेनुकैः ॥१॥ अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः। यदूनां कदनं चक्रे बली मागधसंश्रयः ॥२॥ ते पीडिता निविविशुः कुरुपञ्चालकेकयान्। शाल्वान् विदर्भान्निषधान् विदेहान् कोसलानपि॥३॥ एके तमनुरुन्धाना ज्ञातयः पर्युपासते। हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ॥४॥ सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते। गर्भो बभूव देवक्या हर्षशोकविवर्धनः ॥५॥ भगवानपि विश्वात्मा विदित्वा कंसजं भयम्। यदूनां निजनाथानां योगमायां समादिशत् ॥६॥ गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम्। रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले। अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ॥७॥ देवक्या जठरे गर्भं शेषाख्यं धाम मामकम्। तत्सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥८॥ अथाहमंशभागेन देवक्याः पुत्रतां शुभे। प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि॥९॥ अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम्। धूपोपहारबलिभिः सर्वकामवरप्रदाम् ॥१०॥ नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि। दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥११॥ कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च। माया नारायणीशानी शारदेत्यम्बिकेति च ॥१२॥ गर्भसङ्कर्षणात्तं वै प्राहुः सङ्कर्षणं भुवि। रामेति लोकरमणाद्बलं बलवदुच्छ्रयात् ॥१३॥ सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः। प्रतिगृह्य परिक्रम्य गां गता तत्तथाकरोत् ॥१४॥ गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया। अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥१५॥ भगवानपि विश्वात्मा भक्तानामभयङ्करः। आविवेशांशभागेन मन आनकदुन्दुभेः ॥१६॥ स बिभ्रत्पौरुषं धाम भ्राजमानो यथा रविः। दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥१७॥ ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी। दधार सर्वात्मकमात्मभूतं काष्ठा यथाऽऽनन्दकरं मनस्तः ॥१८॥ सा देवकी सर्वजगन्निवास- निवासभूता नितरां न रेजे। भोजेन्द्रगेहेऽग्निशिखेव रुद्धा सरस्वती ज्ञानखले यथा सती ॥१९॥ तां वीक्ष्य कंसः प्रभयाजितान्तरां विरोचयन्तीं भवनं शुचिस्मिताम्, आहैष मे प्राणहरो हरिर्गुहां ध्रुवं श्रितो यन्न पुरेयमीदृशी ॥२०॥ किमद्य तस्मिन् करणीयमाशु मे यदर्थतन्त्रो न विहन्ति विक्रमम्। स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं यशः श्रियं हन्त्यनुकालमायुः ॥२१॥ स एष जीवन् खलु सम्परेतो वर्तेत योऽत्यन्तनृशंसितेन। देहे मृते तं मनुजाः शपन्ति गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ॥२२॥ इति घोरतमाद्भावात्सन्निवृत्तः स्वयं प्रभुः। आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् ॥२३॥ आसीनः संविशंस्तिष्ठन् भुञ्जानः पर्यटन्महीम्। चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥२४॥ ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः। देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् ॥२५॥ सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥२६॥ एकायनोऽसौ द्विफलस्त्रिमूल- श्चतूरसः पञ्चविधः षडात्मा। सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्यादिवृक्षः ॥२७॥ त्वमेक एवास्य सतः प्रसूतिस्त्वं सन्निधानं त्वमनुग्रहश्च। त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये ॥२८॥ बिभर्षि रूपाण्यवबोध आत्मा क्षेमाय लोकस्य चराचरस्य। सत्त्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम् ॥२९॥ त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि समाधिनाऽऽवेशितचेतसैके। त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥३०॥ स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदाः । भवत्पदाम्भोरुहनावमत्र ते निधाय याताः सदनुग्रहो भवान् ॥३१॥ येऽन्येऽरविन्दाक्ष विमुक्तमानिन- स्त्वय्यस्तभावादविशुद्धबुद्धयः, आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥३२॥ तथा न ते माधव तावकाः क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः। त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ॥३३॥ सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेय उपायनं वपुः, वेदक्रियायोगतपःसमाधिभि- स्तवार्हणं येन जनः समीहते ॥३४॥ सत्त्वं न चेद्धातरिदं निजं भवे- द्विज्ञानमज्ञानभिदापमार्जनम् , गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः ॥३५॥ न नामरूपे गुणजन्मकर्मभि- र्निरूपितव्ये तव तस्य साक्षिणः। मनो वचोभ्यामनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्यथापि हि ॥३६॥ शृण्वन् गृणन् संस्मरयंश्च चिन्तयन्नामानि रूपाणि च मङ्गलानि ते, क्रियासु यस्त्वच्चरणारविन्दयो- राविष्टचेता न भवाय कल्पते ॥३७॥ दिष्ट्या हरेऽस्या भवतः पदो भुवो भारोऽपनीतस्तव जन्मनेशितुः, दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनैर्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥३८॥ न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे। भवो निरोधः स्थितिरप्यविद्यया कृता यतस्त्वय्यभयाश्रयात्मनि ॥३९॥ मत्स्याश्वकच्छपनृसिंहवराहहंस- राजन्यविप्रविबुधेषु कृतावतारः। त्वं पासि नस्त्रिभुवनं च यथाधुनेश भारं भुवो हर यदूत्तम वन्दनं ते ॥४०॥ दिष्ट्याम्ब ते कुक्षिगतः परः पुमानंशेन साक्षाद्भगवान् भवाय नः। माभूद्भयं भोजपतेर्मुमूर्षोर्गोप्ता यदूनां भविता तवात्मजः ॥४१॥ श्रीशुक उवाच इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा। ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम् ॥४२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गर्भगतविष्णोर्ब्रह्मादिकृतस्तुतिर्नाम द्वितीयोऽध्यायः॥ २ ॥

॥ तृतीयोऽध्यायः - ३ ॥

श्रीशुक उवाच अथ सर्वगुणोपेतः कालः परमशोभनः। यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् ॥१॥ दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम्। मही मङ्गलभूयिष्ठपुरग्रामव्रजाकरा ॥२॥ नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः। द्विजालिकुलसन्नादस्तबका वनराजयः ॥३॥ ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः। अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥४॥ मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम्। जायमानेऽजने तस्मिन् नेदुर्दुन्दुभयो दिवि ॥५॥ जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः। विद्याधर्यश्च ननृतुरप्सरोभिः समं तदा ॥६॥ मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः। मन्दं मन्दं जलधरा जगर्जुरनुसागरम् ॥७॥ निशीथे तम उद्भूते जायमाने जनार्दने। देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः। आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥८॥ सगोनासंगोगो तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम्। श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ॥९॥ महार्हवैदूर्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम्। उद्दामकाञ्च्यङ्गदकङ्कणादिभि- र्विरोचमानं वसुदेव ऐक्षत ॥१०॥ सगोनासंगोगो स विस्मयोत्फुल्लविलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस्तदा। कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥११॥ अथैनमस्तौदवधार्य पूरुषं परं नताङ्गः कृतधीः कृताञ्जलिः। स्वरोचिषा भारत सूतिकागृहं विरोचयन्तं गतभीः प्रभाववित् ॥१२॥ वसुदेव उवाच विदितोऽसि भवान् साक्षात्पुरुषः प्रकृतेः परः। केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक् ॥१३॥ स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम्। तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥१४॥ यथेमेऽविकृता भावास्तथा ते विकृतैः सह। नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥१५॥ सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव। प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥१६॥ एवं भवान् बुद्ध्यनुमेयलक्षणै- र्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः। अनावृतत्वाद्बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥१७॥ य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्वव्यतिरेकतोऽबुधः। विनानुवादं न च तन्मनीषितं सम्यग्यतस्त्यक्तमुपाददत्पुमान् ॥१८॥ त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात्, त्वयीश्वरे ब्रह्मणि नो विरुध्यते त्वदाश्रयत्वादुपचर्यते गुणैः ॥१९॥ स त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः, सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ॥२०॥ त्वमस्य लोकस्य विभो रिरक्षिषु- र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर। राजन्यसंज्ञासुरकोटियूथपै- र्निर्व्यूह्यमाना निहनिष्यसे चमूः ॥२१॥ अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर। स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्युदायुधः ॥२२॥ श्रीशुक उवाच अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम्। देवकी तमुपाधावत्कंसाद्भीता शुचिस्मिता ॥२३॥ देवक्युवाच रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् , सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥२४॥ नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु। व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः ॥२५॥ योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम्, निमेषादिर्वत्सरान्तो महीयांस्तं त्वेशानं क्षेमधाम प्रपद्ये ॥२६॥ मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं नाध्यगच्छत्। त्वत्पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ॥२७॥ स त्वं घोरादुग्रसेनात्मजान्नस्त्राहि त्रस्तान् भृत्यवित्रासहासि। रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥२८॥ जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन। समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥२९॥ उपसंहर विश्वात्मन्नदो रूपमलौकिकम्। शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥३०॥ विश्वं यदेतत्स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान्। बिभर्ति सोऽयं मम गर्भगोऽभूदहो नृलोकस्य विडम्बनं हि तत् ॥३१॥ श्रीभगवानुवाच त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति। तदायं सुतपा नाम प्रजापतिरकल्मषः ॥३२॥ युवां वै ब्रह्मणाऽऽदिष्टौ प्रजासर्गे यदा ततः। सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः ॥३३॥ वर्षवातातपहिमघर्मकालगुणाननु। सहमानौ श्वासरोधविनिर्धूतमनोमलौ ॥३४॥ शीर्णपर्णानिलाहारावुपशान्तेन चेतसा। मत्तः कामानभीप्सन्तौ मदाराधनमीहतुः ॥३५॥ एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम्। दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः ॥३६॥ तदा वां परितुष्टोऽहममुना वपुषानघे। तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥३७॥ प्रादुरासं वरदराड् युवयोः कामदित्सया। व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ॥३८॥ अजुष्टग्राम्यविषयावनपत्यौ च दम्पती। न वव्राथेऽपवर्गं मे मोहितौ मम मायया ॥३९॥ गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम्। ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तमनोरथौ ॥४०॥ अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम्। अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः ॥४१॥ तयोर्वां पुनरेवाहमदित्यामास कश्यपात्। उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ॥४२॥ तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम्। जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥४३॥ एतद्वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे। नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥४४॥ युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत्। चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् ॥४५॥ श्रीशुक उवाच इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया। पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः॥४६॥ ततश्च शौरिर्भगवत्प्रचोदितः सुतं समादाय स सूतिका गृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाजनि नन्दजायया ॥४७॥ - सगोनासंगोगो तया हृतप्रत्ययसर्ववृत्तिषु द्वाःस्थेषु पौरेष्वपि शायितेष्वथ। द्वारस्तु सर्वाः पिहिता दुरत्यया बृहत्कपाटायसकीलशृङ्खलैः ॥४८॥ ताः कृष्णवाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः। ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद्वारि निवारयन् फणैः ॥४९॥ मघोनि वर्षत्यसकृद्यमानुजा गम्भीरतोयौघजवोर्मिफेनिला। भयानकावर्तशताकुला नदी मार्गं ददौ सिन्धुरिव श्रियः पतेः ॥५०॥ नन्दव्रजं शौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तानुपलभ्य निद्रया। सुतं यशोदाशयने निधाय तत्सुतामुपादाय पुनर्गृहानगात् ॥५१॥ देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम्। प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः ॥५२॥ यशोदा नन्दपत्नी च जातं परमबुध्यत। न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॥५३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोऽध्यायः॥३॥

॥ चतुर्थोऽध्यायः - ४ ॥

श्रीशुक उवाच बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः। ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः ॥१॥ ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत्। आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते ॥२॥ स तल्पात्तूर्णमुत्थाय कालोऽयमिति विह्वलः। सूतीगृहमगात्तूर्णं प्रस्खलन् मुक्तमूर्धजः ॥३॥ तमाह भ्रातरं देवी कृपणा करुणं सती। स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥४॥ बहवो हिंसिता भ्रातः शिशवः पावकोपमाः। त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥५॥ नन्वहं ते ह्यवरजा दीना हतसुता प्रभो। दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥६॥ श्रीशुक उवाच उपगुह्यात्मजामेवं रुदत्या दीनदीनवत्। याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खलः॥७॥ तां गृहीत्वा चरणयोर्जातमात्रां स्वसुः सुताम्। अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥८॥ सा तद्धस्तात्समुत्पत्य सद्यो देव्यम्बरं गता। अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा - सगोनासंगोगो ॥९॥ दिव्यस्रगम्बरालेपरत्नाभरणभूषिता। धनुःशूलेषुचर्मासिशङ्खचक्रगदाधरा ॥१०॥ सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः। उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥११॥ किं मया हतया मन्द जातः खलु तवान्तकृत्। यत्र क्व वा पूर्वशत्रुर्मा हिंसीः कृपणान् वृथा ॥१२॥ इति प्रभाष्य तं देवी माया भगवती भुवि। बहुनामनिकेतेषु बहुनामा बभूव ह ॥१३॥ तयाभिहितमाकर्ण्य कंसः परमविस्मितः। देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥१४॥ अहो भगिन्यहो भाम मया वां बत पाप्मना। पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥१५॥ स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत्खलः। कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन्॥१६॥ दैवमप्यनृतं वक्ति न मर्त्या एव केवलम्। यद्विश्रम्भादहं पापः स्वसुर्निहतवाञ्छिशून् ॥१७॥ मा शोचतं महाभागावात्मजान् स्वकृतंभुजः। जन्तवो न सदैकत्र दैवाधीनास्तदासते ॥१८॥ भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च। नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥१९॥ यथानेवंविदो भेदो यत आत्मविपर्ययः। देहयोगवियोगौ च संसृतिर्न निवर्तते ॥२०॥ तस्माद्भद्रे स्वतनयान् मया व्यापादितानपि। मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥२१॥ यावद्धतोऽस्मि हन्तास्मीत्यात्मानं मन्यते स्वदृक्। तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात् ॥२२॥ क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः। इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोरथाग्रहीत्॥२३॥ मोचयामास निगडाद्विश्रब्धः कन्यकागिरा। देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् ॥२४॥ भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी। व्यसृजद्वसुदेवश्च प्रहस्य तमुवाच ह ॥२५॥ एवमेतन्महाभाग यथा वदसि देहिनाम्। अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ॥२६॥ शोकहर्षभयद्वेषलोभमोहमदान्विताः। मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः ॥२७॥ श्रीशुक उवाच कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः। देवकीवसुदेवाभ्यामनुज्ञातोऽविशद्गृहम् ॥२८॥ तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः। तेभ्य आचष्ट तत्सर्वं यदुक्तं योगनिद्रया ॥२९॥ आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रवः। देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥३०॥ एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु। अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून्॥३१॥ किमुद्यमैः करिष्यन्ति देवाः समरभीरवः। नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥३२॥ अस्यतस्ते शरव्रातैर्हन्यमानाः समन्ततः। जिजीविषव उत्सृज्य पलायनपरा ययुः ॥३३॥ केचित्प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः। मुक्तकच्छशिखाः केचिद्भीताः स्म इति वादिनः॥३४॥ न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान्। हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः ॥३५॥ किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः। रहोजुषा किं हरिणा शम्भुना वा वनौकसा। किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥३६॥ तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे। ततस्तन्मूलखनने नियुङ्क्ष्वास्माननुव्रतान् ॥३७॥ यथाऽऽमयोऽङ्गे समुपेक्षितो नृभिर्न शक्यते रूढपदश्चिकित्सितुम्। यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् बद्धबलो न चाल्यते ॥३८॥ मूलं हि विष्णुर्देवानां यत्र धर्मः सनातनः। तस्य च ब्रह्मगोविप्रास्तपो यज्ञाः सदक्षिणाः ॥३९॥ तस्मात्सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः। तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥४०॥ विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः। श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥४१॥ स हि सर्वसुराध्यक्षो ह्यसुरद्विड्गुहाशयः। तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः। अयं वै तद्वधोपायो यदृषीणां विहिंसनम् ॥४२॥ श्रीशुक उवाच एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः। ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ॥४३॥ सन्दिश्य साधुलोकस्य कदने कदनप्रियान्। कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥४४॥ ते वै रजःप्रकृतयस्तमसा मूढचेतसः। सतां विद्वेषमाचेरुरारादागतमृत्यवः ॥४५॥ आयुः श्रियं यशो धर्मं लोकानाशिष एव च। हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥४६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वर्धे चतुर्थोऽध्यायः॥४॥

॥ पञ्चमोऽध्यायः - ५ ॥

श्रीशुक उवाच नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः। आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलङ्कृतः ॥१॥ वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै। कारयामास विधिवत्पितृदेवार्चनं तथा ॥२॥ धेनूनां नियुते प्रादाद्विप्रेभ्यः समलङ्कृते। तिलाद्रीन् सप्त रत्नौघशातकौम्भाम्बरावृतान् ॥३॥ कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया। शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्माऽऽत्मविद्यया॥४॥ सौमङ्गल्यगिरो विप्राः सूतमागधवन्दिनः। गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः ॥५॥ व्रजः सम्मृष्टसंसिक्तद्वाराजिरगृहान्तरः। चित्रध्वजपताकास्रक् चैलपल्लवतोरणैः ॥६॥ गावो वृषा वत्सतरा हरिद्रातैलरूषिताः। विचित्रधातुबर्हस्रग्वस्त्रकाञ्चनमालिनः ॥७॥ महार्हवस्त्राभरणकञ्चुकोष्णीषभूषिताः। गोपाः समाययू राजन् नानोपायनपाणयः ॥८॥ गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम्। आत्मानं भूषयांचक्रुर्वस्त्राकल्पाञ्जनादिभिः ॥९॥ नवकुङ्कुमकिञ्जल्कमुखपङ्कजभूतयः। बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः ॥१०॥ गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्य- श्चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः। नन्दालयं सवलया व्रजतीर्विरेजु-र्व्यालोलकुण्डलपयोधरहारशोभाः॥११॥ ता आशिषः प्रयुञ्जानाश्चिरं पाहीति बालके। हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्योऽजनमुज्जगुः ॥१२॥ अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे। कृष्णे विश्वेश्वरेऽनन्ते नन्दस्य व्रजमागते ॥१३॥ गोपाः परस्परं हृष्टा दधिक्षीरघृताम्बुभिः। आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च चिक्षिपुः ॥१४॥ नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनम्। सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविनः ॥१५॥ तैस्तैः कामैरदीनात्मा यथोचितमपूजयत्। विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥१६॥ रोहिणी च महाभागा नन्दगोपाभिनन्दिता। व्यचरद्दिव्यवासस्रक्कण्ठाभरणभूषिता ॥१७॥ तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान्। हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप ॥१८॥ गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः। नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥१९॥ वसुदेव उपश्रुत्य भ्रातरं नन्दमागतम्। ज्ञात्वा दत्तकरं राज्ञे ययौ तदवमोचनम् ॥२०॥ तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम्। प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः ॥२१॥ पूजितः सुखमासीनः पृष्ट्वानामयमादृतः। प्रसक्तधीः स्वात्मजयोरिदमाह विशाम्पते ॥२२॥ दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते। प्रजाशाया निवृत्तस्य प्रजा यत्समपद्यत ॥२३॥ दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भवः। उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् ॥२४॥ नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम्। ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥२५॥ कच्चित्पशव्यं निरुजं भूर्यम्बुतृणवीरुधम्। बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः ॥२६॥ भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे। तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥२७॥ पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः। न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते ॥२८॥ नन्द उवाच अहो ते देवकीपुत्राः कंसेन बहवो हताः। एकावशिष्टावरजा कन्या सापि दिवं गता ॥२९॥ नूनं ह्यदृष्टनिष्ठोऽयमदृष्टपरमो जनः। अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ॥३०॥ वसुदेव उवाच करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः। नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले ॥३१॥ श्रीशुक उवाच इति नन्दादयो गोपाः प्रोक्तास्ते शौरिणा ययुः। अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य गोकुलम् ॥३२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दवसुदेवसम्मेलनम् नाम पञ्चमोऽध्यायः॥५॥

॥ षष्ठोऽध्यायः - ६ ॥

श्रीशुक उवाच नन्दः पथि वचः शौरेर्न मृषेति विचिन्तयन्। हरिं जगाम शरणमुत्पातागमशङ्कितः ॥१॥ कंसेन प्रहिता घोरा पूतना बालघातिनी। शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥२॥ न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु। कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥३॥ सा खेचर्येकदोपेत्य पूतना नन्दगोकुलम्। योषित्वा माययाऽऽत्मानं प्राविशत्कामचारिणी॥४॥ तां केशबन्धव्यतिषक्तमल्लिकां बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् । सुवाससं कम्पितकर्णभूषण- त्विषोल्लसत्कुन्तलमण्डिताननाम् ॥५॥ वल्गुस्मितापाङ्गविसर्गवीक्षितैर्मनो हरन्तीं वनितां व्रजौकसाम्। अमंसताम्भोजकरेण रूपिणीं गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥६॥ बालग्रहस्तत्र विचिन्वती शिशून् यदृच्छया नन्दगृहेऽसदन्तकम्। बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेऽग्निमिवाहितं भसि ॥७॥ विबुध्य तां बालकमारिकाग्रहं चराचरात्मा स निमीलितेक्षणः। अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः ॥८॥ तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तरा कोशपरिच्छदासिवत्। वरस्त्रियं तत्प्रभया च धर्षिते निरीक्षमाणे जननी ह्यतिष्ठताम् ॥९॥ तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं घोराङ्कमादाय शिशोर्ददावथ। गाढं कराभ्यां भगवान् प्रपीड्य तत्प्राणैः समं रोषसमन्वितोऽपिबत् ॥१०॥ सा मुञ्च मुञ्चालमिति प्रभाषिणी निष्पीड्यमानाखिलजीवमर्मणि। विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥११॥ तस्याः स्वनेनातिगभीररंहसा साद्रिर्मही द्यौश्च चचाल सग्रहा। रसा दिशश्च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपातशङ्कया ॥१२॥ निशाचरीत्थं व्यथितस्तना व्यसुर्व्यादाय केशांश्चरणौ भुजावपि। प्रसार्य गोष्ठे निजरूपमास्थिता वज्राहतो वृत्र इवापतन्नृप ॥१३॥ पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान्। चूर्णयामास राजेन्द्र महदासीत्तदद्भुतम् ॥१४॥ ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम्। गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥१५॥ अन्धकूपगभीराक्षं पुलिनारोहभीषणम्। बद्धसेतुभुजोर्वङ्घ्रिशून्यतोयह्रदोदरम् ॥१६॥ सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम्। पूर्वं तु तन्निःस्वनितभिन्नहृत्कर्णमस्तकाः ॥१७॥ बालं च तस्या उरसि क्रीडन्तमकुतोभयम्। गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमाः ॥१८॥ यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः। रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभिः ॥१९॥ गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम्। रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभिः ॥२०॥ गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक्। न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥२१॥ अव्यादजोऽङ्घ्रिमणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः। हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥२२॥ चक्र्यग्रतः सहगदो हरिरस्तु पश्चात् त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च। कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥२३॥ इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु। श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥२४॥ पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान् परः। क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥२५॥ व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियःपतिः। भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ॥२६॥ डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः। भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥२७॥ कोटरा रेवती ज्येष्ठा पूतना मातृकादयः। उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥२८॥ स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये। सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥२९॥ श्रीशुक उवाच इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम्। पाययित्वा स्तनं माता सन्न्यवेशयदात्मजम् ॥३०॥ तावन्नन्दादयो गोपा मथुराया व्रजं गताः। विलोक्य पूतनादेहं बभूवुरतिविस्मिताः ॥३१॥ नूनं बतर्षिः सञ्जातो योगेशो वा समास सः। स एव दृष्टो ह्युत्पातो यदाहानकदुन्दुभिः ॥३२॥ कलेवरं परशुभिश्छित्त्वा तत्ते व्रजौकसः। दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठधिष्टितम् ॥३३॥ दह्यमानस्य देहस्य धूमश्चागुरुसौरभः। उत्थितः कृष्णनिर्भुक्तसपद्याहतपाप्मनः ॥३४॥ पूतना लोकबालघ्नी राक्षसी रुधिराशना। जिघांसयापि हरये स्तनं दत्त्वाऽऽप सद्गतिम् ॥३५॥ किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने। यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥३६॥ पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः। अङ्गं यस्याः समाक्रम्य भगवानपिबत्स्तनम् ॥३७॥ यातुधान्यपि सा स्वर्गमवाप जननीगतिम्। कृष्णभुक्तस्तनक्षीराः किमु गावो नु मातरः ॥३८॥ पयांसि यासामपिबत्पुत्रस्नेहस्नुतान्यलम्। भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः ॥३९॥ तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम्। न पुनः कल्पते राजन् संसारोऽज्ञानसम्भवः ॥४०॥ कटधूमस्य सौरभ्यमवघ्राय व्रजौकसः। किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥४१॥ ते तत्र वर्णितं गोपैः पूतनाऽऽगमनादिकम्। श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः॥४२॥ नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः। मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥४३॥ य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्भुतम्। शृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दश्मस्कन्धे पूर्वार्धे षष्ठोऽध्यायः॥ ६॥

॥ सप्तमोऽध्यायः - ७ ॥

राजोवाच येन येनावतारेण भगवान् हरिरीश्वरः। करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो ॥१॥ यच्छृण्वतोऽपैत्यरतिर्वितृष्णा सत्त्वं च शुद्ध्यत्यचिरेण पुंसः। भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् ॥२॥ अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम्। मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः ॥३॥ श्रीशुक उवाच कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम्। वादित्रगीतद्विजमन्त्रवाचकैश्चकार सूनोरभिषेचनं सती ॥४॥ नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितैः। अन्नाद्यवासःस्रगभीष्टधेनुभिः सञ्जातनिद्राक्षमशीशयच्छनैः ॥५॥ औत्थानिकौत्सुक्यमना मनस्विनी समागतान् पूजयती व्रजौकसः। नैवाशृणोद्वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणावुदक्षिपत् ॥६॥ अधः शयानस्य शिशोरनोऽल्पक- प्रवालमृद्वङ्घ्रिहतं व्यवर्तत। विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् ॥७॥ दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः। नन्दादयश्चाद्भुतदर्शनाकुलाः कथं स्वयं वै शकटं विपर्यगात् ॥८॥ ऊचुरव्यवसितमतीन् गोपान् गोपीश्च बालकाः। रुदतानेन पादेन क्षिप्तमेतन्न संशयः ॥९॥ न ते श्रद्दधिरे गोपा बालभाषितमित्युत। अप्रमेयं बलं तस्य बालकस्य न ते विदुः ॥१०॥ रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता। कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ॥११॥ पूर्ववत्स्थापितं गोपैर्बलिभिः सपरिच्छदम्। विप्रा हुत्वार्चयांचक्रुर्दध्यक्षतकुशाम्बुभिः ॥१२॥ येऽसूयानृतदम्भेर्ष्याहिंसामानविवर्जिताः। न तेषां सत्यशीलानामाशिषो विफलाः कृताः॥१३॥ इति बालकमादाय सामर्ग्यजुरुपाकृतैः। जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः ॥१४॥ वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः। हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् ॥१५॥ गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः। आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत ॥१६॥ विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाऽऽशिषः। ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम्॥१७॥ एकदाऽऽरोहमारूढं लालयन्ती सुतं सती। गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् ॥१८॥ भूमौ निधाय तं गोपी विस्मिता भारपीडिता। महापुरुषमादध्यौ जगतामास कर्मसु ॥१९॥ दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः। चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥२०॥ गोकुलं सर्वमावृण्वन् मुष्णंश्चक्षूंषि रेणुभिः। ईरयन् सुमहाघोरशब्देन प्रदिशो दिशः ॥२१॥ मुहूर्तमभवद्गोष्ठं रजसा तमसाऽऽवृतम्। सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यतः ॥२२॥ नापश्यत्कश्चनात्मानं परं चापि विमोहितः। तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः ॥२३॥ इति खरपवनचक्रपांशुवर्षे सुतपदवीमबलाविलक्ष्य माता। अतिकरुणमनुस्मरन्त्यशोचद्भुवि पतिता मृतवत्सका यथा गौः ॥२४॥ रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः। रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारत पांसुवर्षवेगे ॥२५॥ तृणावर्तः शान्तरयो वात्यारूपधरो हरन्। कृष्णं नभो गतो गन्तुं नाशक्नोद्भूरिभारभृत् ॥२६॥ तमश्मानं मन्यमान आत्मनो गुरुमत्तया। गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् ॥२७॥ गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः। अव्यक्तरावो न्यपतत्सह बालो व्यसुर्व्रजे ॥२८॥ तमन्तरिक्षात्पतितं शिलायां विशीर्णसर्वावयवं करालम्। पुरं यथा रुद्रशरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः ॥२९॥ प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम्। तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात्प्रमुक्तम्। गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् ॥३०॥ अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात्पुनः। हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते ॥३१॥ किं नस्तपश्चीर्णमधोक्षजार्चनं पूर्तेष्टदत्तमुत भूतसौहृदम्। यत्सम्परेतः पुनरेव बालको दिष्ट्या स्वबन्धून् प्रणयन्नुपस्थितः ॥३२॥ दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने। वसुदेववचो भूयो मानयामास विस्मितः ॥३३॥ एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी। प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥३४॥ पीतप्रायस्य जननी सा तस्य रुचिरस्मितम्। मुखं लालयती राजञ्जृम्भतो ददृशे इदम् ॥३५॥ खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवह्निश्वसनाम्बुधींश्च। द्वीपान् नगांस्तद्दुहितॄर्वनानि भूतानि यानि स्थिरजङ्गमानि ॥३६॥ सा वीक्ष्य विश्वं सहसा राजन् सञ्जातवेपथुः। सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता॥३७॥ इति श्रीमद्भागवते महापुरणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः॥७॥

॥ अष्टमोऽध्यायः - ८ ॥

श्रीशुक उवाच गर्गः पुरोहितो राजन् यदूनां सुमहातपाः। व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः ॥१॥ तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः। आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥२॥ सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम्। नन्दयित्वाब्रवीद्ब्रह्मन् पूर्णस्य करवाम किम् ॥३॥ महद्विचलनं नॄणां गृहिणां दीनचेतसाम्। निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥४॥ ज्योतिषामयनं साक्षाद्यत्तज्ज्ञानमतीन्द्रियम्। प्रणीतं भवता येन पुमान् वेद परावरम् ॥५॥ त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि। बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥६॥ गर्ग उवाच यदूनामहमाचार्यः ख्यातश्च भुवि सर्वतः। सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥७॥ कंसः पापमतिः सख्यं तव चानकदुन्दुभेः। देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥८॥ इति सञ्चिन्तयञ्छ्रुत्वा देवक्या दारिकावचः। अपि हन्ताऽऽगताशङ्कस्तर्हि तन्नोऽनयो भवेत्॥९॥ नन्द उवाच अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे। कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥१०॥ श्रीशुक उवाच एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत्। चकार नामकरणं गूढो रहसि बालयोः ॥११॥ गर्ग उवाच अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः। आख्यास्यते राम इति बलाधिक्याद्बलं विदुः। यदूनामपृथग्भावात्सङ्कर्षणमुशन्त्युत ॥१२॥ आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः। शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥१३॥ प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः। वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥१४॥ बहूनि सन्ति नामानि रूपाणि च सुतस्य ते। गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥१५॥ एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः। अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥१६॥ पुरानेन व्रजपते साधवो दस्युपीडिताः। अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥१७॥ य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः। नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥१८॥ तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः। श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥१९॥ इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते। नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥२०॥ कालेन व्रजताल्पेन गोकुले रामकेशवौ। जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥२१॥ तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु। तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥२२॥ तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्काङ्गरागरुचिरावुपगुह्य दोर्भ्याम्। दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥२३॥ यर्ह्यङ्गना दर्शनीयकुमारलीलावन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः। वत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥२४॥ शृङ्ग्यग्निदंष्ट्र्यसिजलद्विजकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् । गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोऽनवस्थाम् ॥२५॥ कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले। अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥२६॥ ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः। सह रामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥२७॥ कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम्। शृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥२८॥ वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः स्तेयं स्वाद्वत्त्यथ दधि पयः कल्पितैः स्तेययोगैः। मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति द्रव्यालाभे स गृहकुपितो यात्युपक्रोश्य तोकान्॥२९॥ हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैः छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित्। ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥३०॥ एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथाऽऽस्ते । इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिः व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत्॥३१॥ एकदा क्रीडमानास्ते रामाद्या गोपदारकाः। कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥३२॥ सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी। यशोदा भयसम्भ्रान्तप्रेक्षणाक्षमभाषत ॥३३॥ कस्मान्मृदमदान्तात्मन् भवान् भक्षितवान् रहः। वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥३४॥ श्रीकृष्ण उवाच नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः। यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥३५॥ यद्येवं तर्हि व्यादेहीत्युक्तः स भगवान् हरिः। व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥३६॥ सा तत्र ददृशे विश्वं जगत्स्थास्नु च खं दिशः। साद्रिद्वीपाब्धिभूगोलं स वाय्वग्नीन्दुतारकम् ॥३७॥ ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च। वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥३८॥ एतद्विचित्रं सह जीवकाल- स्वभावकर्माशयलिङ्गभेदम्। सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम् ॥३९॥ किं स्वप्न एतदुत देवमाया किं वा मदीयो बत बुद्धिमोहः। अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥४०॥ अथो यथावन्न वितर्कगोचरं चेतो मनःकर्मवचोभिरञ्जसा। यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥४१॥ अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती। गोप्यश्च गोपाः सह गोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः ॥४२॥ इत्थं विदिततत्त्वायां गोपिकायां स ईश्वरः। वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः ॥४३॥ सद्योनष्टस्मृतिर्गोपी साऽऽरोप्यारोहमात्मजम्। प्रवृद्धस्नेहकलिलहृदयाऽऽसीद्यथा पुरा ॥४४॥ त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः। उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥४५॥ राजोवाच नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम्। यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥४६॥ पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम्। गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥४७॥ श्रीशुक उवाच द्रोणो वसूनां प्रवरो धरया सह भार्यया । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥४८॥ जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ। भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥४९॥ अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः। जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥५०॥ ततो भक्तिर्भगवति पुत्रीभूते जनार्दने। दम्पत्योर्नितरामासीद्गोपगोपीषु भारत ॥५१॥ कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः। सह रामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥५२॥ इति श्रीमद्भाग्वते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे विश्वरूपदर्शने अष्टमोऽध्यायः॥ ८ ॥

॥ नवमोऽध्यायः - ९ ॥

श्रीशुक उवाच एकदा गृहदासीषु यशोदा नन्दगेहिनी। कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥१॥ यानि यानीह गीतानि तद्बालचरितानि च। दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥२॥ क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः। रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥३॥ तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः। गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ॥४॥ तमङ्कमारूढमपाययत्स्तनं स्नेहस्नुतं सस्मितमीक्षती मुखम्। अतृप्तमुत्सृज्य जवेन सा यया- वुत्सिच्यमाने पयसि त्वधिश्रिते ॥५॥ सञ्जातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर्दधिमन्थभाजनम्। भित्त्वा मृषाश्रुर्दृषदश्मना रहो जघास हैयङ्गवमन्तरं गतः ॥६॥ उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम्। भग्नं विलोक्य स्वसुतस्य कर्म तज्जहास तं चापि न तत्र पश्यती ॥७॥ उलूखलाङ्घ्रेरुपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम्। हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात्सुतमागमच्छनैः ॥८॥ तामात्तयष्टिं प्रसमीक्ष्य सत्वर- स्ततोऽवरुध्यापससार भीतवत्। गोप्यन्वधावन्न यमाप योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ॥९॥ अन्वञ्चमाना जननी बृहच्चल- च्छ्रोणीभराक्रान्तगतिः सुमध्यमा। जवेन विस्रंसितकेशबन्धन- च्युतप्रसूनानुगतिः परामृशत् ॥१०॥ कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जन्मषिणी स्वपाणिना। उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥११॥ त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला। इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥१२॥ न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम्। पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥१३॥ तं मत्वाऽऽत्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम्। गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥१४॥ तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः। द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥१५॥ यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे। तदपि द्व्यङ्गुलं न्यूनं यद्यदादत्त बन्धनम् ॥१६॥ एवं स्वगेहदामानि यशोदा सन्दधत्यपि। गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत्॥१७॥ स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः। दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत्स्वबन्धने ॥१८॥ एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता। स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥१९॥ नेमं विरिञ्चो न भवो न श्रीरप्यङ्ग संश्रया। प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् ॥२०॥ नायं सुखापो भगवान् देहिनां गोपिकासुतः। ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥२१॥ कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः। अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥२२॥ पुरा नारदशापेन वृक्षतां प्रापितौ मदात्। नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ ॥२३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नवमोऽध्यायः ॥ ९॥

॥ दशमोऽध्यायः -१० ॥

राजोवाच कथ्यतां भगवन्नेतत्तयोः शापस्य कारणम्। यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः ॥१॥ श्रीशुक उवाच रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ। कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥२॥ वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ। स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने ॥३॥ अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनि। चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः ॥४॥ यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव। अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥५॥ तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्किताः। वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥६॥ तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ। तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ॥७॥ नारद उवाच न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजोगुणः। श्रीमदादाभिजात्यादिर्यत्र स्त्रीद्यूतमासवः ॥८॥ हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः। मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ॥९॥ देवसंज्ञितमप्यन्ते कृमिविड्भस्मसंज्ञितम्। भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥१०॥ देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च। मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥११॥ एवं साधारणं देहमव्यक्तप्रभवाप्ययम्। को विद्वानात्मसात्कृत्वा हन्ति जन्तून् ऋतेऽसतः॥१२॥ असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम्। आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥१३॥ यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम्। जीवसाम्यं गतो लिङ्गैर्न तथाऽऽविद्धकण्टकः ॥१४॥ दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह। कृच्छ्रं यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः ॥१५॥ नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः। इन्द्रियाण्यनुशुष्यन्ति हिंसापि विनिवर्तते ॥१६॥ दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः। सद्भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥१७॥ साधूनां समचित्तानां मुकुन्दचरणैषिणाम्। उपेक्ष्यैः किं धनस्तम्भैरसद्भिरसदाश्रयैः ॥१८॥ तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः। तमो मदं हरिष्यामि स्त्रैणयोरजितात्मनोः ॥१९॥ यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ। न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥२०॥ अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः। स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् ॥२१॥ वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते। वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः ॥२२॥ श्रीशुक उवाच एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम्। नलकूवरमणिग्रीवावासतुर्यमलार्जुनौ ॥२३॥ ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरिः। जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥२४॥ देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ। तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना ॥२५॥ इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ। आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् ॥२६॥ बालेन निष्कर्षयतान्वगुलूखलं तद्दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ निष्पेततुः परमविक्रमितातिवेप- स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥२७॥ तत्र श्रिया परमया ककुभः स्फुरन्तौ सिद्धावुपेत्य कुजयोरिव जात वेदाः कृष्णं प्रणम्य शिरसाखिललोकनाथं बद्धाञ्जली विरजसाविदमूचतुः स्म ॥२८॥ कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः। व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥२९॥ त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः। त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥३०॥ त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी। त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥३१॥ गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः। को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ॥३२॥ तस्मै तुभ्यं भगवते वासुदेवाय वेधसे। आत्मद्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥३३॥ यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः। तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतैः ॥३४॥ स भवान् सर्वलोकस्य भवाय विभवाय च। अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥३५॥ नमः परमकल्याण नमः परममङ्गल। वासुदेवाय शान्ताय यदूनां पतये नमः ॥३६॥ अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ। दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥३७॥ वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः। स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥३८॥ श्रीशुक उवाच इत्थं सङ्कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः। दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥३९॥ श्रीभगवानुवाच ज्ञातं मम पुरैवैतदृषिणा करुणात्मना। यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रहः कृतः ॥४०॥ साधूनां समचित्तानां सुतरां मत्कृतात्मनाम्। दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥४१॥ तद्गच्छतं मत्परमौ नलकूबर सादनम्। सञ्जातो मयि भावो वामीप्सितः परमोऽभवः ॥४२॥ श्रीशुक उवाच इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः। बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥४३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमोऽध्यायः ॥ १०॥ एकादशोध्यायः - ११ श्रीशुक उवाच गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम्। तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः ॥१॥ भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ। बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥२॥ उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम्। कस्येदं कुत आश्चर्यमुत्पात इति कातराः ॥३॥ बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम्। विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ॥४॥ न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत्। बालस्योत्पाटनं तर्वोः केचित्सन्दिग्धचेतसः ॥५॥ उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम्। विलोक्य नन्दः प्रहसद्वदनो विमुमोच ह ॥६॥ गोपीभिः स्तोभितोऽनृत्यद्भगवान् बालवत्क्वचित्। उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥७॥ बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम्। बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥८॥ दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम्। व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ॥९॥ क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः। फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥१०॥ फलविक्रयिणी तस्य च्युतधान्यं करद्वयम्। फलैरपूरयद्रत्नैः फलभाण्डमपूरि च ॥११॥ सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत्। रामं च रोहिणीदेवी क्रीडन्तं बालकैर्भृशम् ॥१२॥ नोपेयातां यदाऽऽहूतौ क्रीडासङ्गेन पुत्रकौ। यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥१३॥ क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम्। यशोदाजोहवीत्कृष्णं पुत्रस्नेहस्नुतस्तनी ॥१४॥ कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब। अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥१५॥ हे रामागच्छ ताताशु सानुजः कुलनन्दन। प्रातरेव कृताहारस्तद्भवान् भोक्तुमर्हति ॥१६॥ प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः। एह्यावयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥१७॥ धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह। जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः ॥१८॥ पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्कृतान्। त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥१९॥ इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्नेहनिबद्धधीर्नृप। हस्ते गृहीत्वा सह राममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् ॥२०॥ गोपवृद्धा महोत्पाताननुभूय बृहद्वने। नन्दादयः समागम्य व्रजकार्यममन्त्रयन् ॥२१॥ तत्रोपनन्दनामाऽऽह गोपो ज्ञानवयोऽधिकः। देशकालार्थतत्त्वज्ञः प्रियकृद्रामकृष्णयोः ॥२२॥ उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभिः। आयान्त्यत्र महोत्पाता बालानां नाशहेतवः ॥२३॥ मुक्तः कथञ्चिद्राक्षस्या बालघ्न्या बालको ह्यसौ। हरेरनुग्रहान्नूनमनश्चोपरि नापतत् ॥२४॥ चक्रवातेन नीतोऽयं दैत्येन विपदं वियत्। शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ॥२५॥ यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः। असावन्यतमो वापि तदप्यच्युतरक्षणम् ॥२६॥ यावदौत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः। तावद्बालानुपादाय यास्यामोऽन्यत्र सानुगाः ॥२७॥ वनं वृन्दावनं नाम पशव्यं नवकाननम्। गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम् ॥२८॥ तत्तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम्। गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥२९॥ तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः। व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः॥३०॥ वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च। अनस्स्वारोप्य गोपाला यत्ता आत्तशरासनाः ॥३१॥ गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वतः। तूर्यघोषेण महता ययुः सह पुरोहिताः ॥३२॥ गोप्यो रूढरथा नूत्नकुचकुङ्कुमकान्तयः। कृष्णलीला जगुः प्रीता निष्ककण्ठ्यः सुवाससः॥३३॥ तथा यशोदारोहिण्यावेकं शकटमास्थिते। रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥३४॥ वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम्। तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत् ॥३५॥ वृन्दावनं गोवर्धनं यमुनापुलिनानि च। वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥३६॥ एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः। कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥३७॥ अविदूरे व्रजभुवः सह गोपालदारकैः। चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ ॥३८॥ क्वचिद्वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित्। क्वचित्पादैः किङ्किणीभिः क्वचित्कृत्रिमगोवृषैः॥३९॥ वृषायमाणौ नर्दन्तौ युयुधाते परस्परम्। अनुकृत्य रुतैर्जन्तूंश्चेरतुः प्राकृतौ यथा ॥४०॥ कदाचिद्यमुनातीरे वत्सांश्चारयतोः स्वकैः। वयस्यैः कृष्णबलयोर्जिघांसुर्दैत्य आगमत् ॥४१॥ तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः। दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥४२॥ गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युतः। भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम्। स कपित्थैर्महाकायः पात्यमानैः पपात ह ॥४३॥ तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति। देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ॥४४॥ तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ। सप्रातराशौ गो वत्सांश्चारयन्तौ विचेरतुः ॥४५॥ स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा। गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥४६॥ ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम्। तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्गमिव च्युतम् ॥४७॥ स वै बको नाम महानसुरो बकरूपधृक्। आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली ॥४८॥ कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः। बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥४९॥ तं तालुमूलं प्रदहन्तमग्निव- द्गोपालसूनुं पितरं जगद्गुरोः। चच्छर्द सद्योऽतिरुषाक्षतं बक- स्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥५०॥ तमापतन्तं स निगृह्य तुण्डयोर्दोर्भ्यां बकं कंससखं सतां पतिः। पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद्दिवौकसाम् ॥५१॥ तदा बकारिं सुरलोकवासिनः समाकिरन् नन्दनमल्लिकादिभिः। समीडिरे चानकशङ्खसंस्तवैस्तद्वीक्ष्य गोपालसुता विसिस्मिरे ॥५२॥ मुक्तं बकास्यादुपलभ्य बालका रामादयः प्राणमिवेन्द्रियो गणः। स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥५३॥ श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियादृताः। प्रेत्यागतमिवौत्सुक्यादैक्षन्त तृषितेक्षणाः ॥५४॥ अहो बतास्य बालस्य बहवो मृत्यवोऽभवन्। अप्यासीद्विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥५५॥ अथाप्यभिभवन्त्येनं नैव ते घोरदर्शनाः। जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ॥५६॥ अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित्। गर्गो यदाह भगवानन्वभावि तथैव तत् ॥५७॥ इति नन्दादयो गोपाः कृष्णरामकथां मुदा। कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥५८॥ एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे। निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥५९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वत्सबकवधो नमैकादशोऽध्यायः॥११॥

॥ द्वादशोऽध्यायः - १२ ॥

श्रीशुक उवाच क्वचिद्वनाशाय मनो दधद्व्रजात्प्रातः समुत्थाय वयस्यवत्सपान्। प्रबोधयञ्छृङ्गरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः ॥१॥ तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः। स्वान्स्वान्सहस्रोपरि सङ्ख्ययान्विता- न्वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥२॥ कृष्णवत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकान्। चारयन्तोऽर्भलीलाभिर्विजह्रुस्तत्र तत्र ह ॥३॥ फलप्रवालस्तबकसुमनःपिच्छधातुभिः। काचगुञ्जामणिस्वर्णभूषिता अप्यभूषयन् ॥४॥ मुष्णन्तोऽन्योन्यशिक्यादीन् ज्ञातानाराच्च चिक्षिपुः। तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः ॥५॥ यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम्। अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ॥६॥ केचिद्वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन। केचिद्भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥७॥ विच्छायाभिः प्रधावन्तो गच्छन्तः साधु हंसकैः। बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥८॥ विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान्। विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥९॥ साकं भेकैर्विलङ्घन्तः सरित्प्रस्रवसम्प्लुताः। विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ॥१०॥ इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन। मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ॥११॥ यत्पादपांसुर्बहुजन्मकृच्छ्रतो धृतात्मभिर्योगिभिरप्यलभ्यः। स एव यद्दृग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥१२॥ अथाघनामाभ्यपतन्महासुरस्तेषां सुखक्रीडनवीक्षणाक्षमः। नित्यं यदन्तर्निजजीवितेप्सुभिः पीतामृतैरप्यमरैः प्रतीक्ष्यते ॥१३॥ दृष्ट्वार्भकान् कृष्णमुखानघासुरः कंसानुशिष्टः स बकीबकानुजः। अयं तु मे सोदरनाशकृ- त्तयोर्द्वयोर्ममैनं सबलं हनिष्ये ॥१४॥ एते यदा मत्सुहृदोस्तिलापाः कृतास्तदा नष्टसमा व्रजौकसः। प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राणभृतो हि ये ते ॥१५॥ इति व्यवस्याजगरं बृहद्वपुः स योजनायाममहाद्रिपीवरम्। धृत्वाद्भुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः ॥१६॥ धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्गदंष्ट्रः। ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः ॥१७॥ दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम्। व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥१८॥ अहो मित्राणि गदत सत्त्वकूटं पुरःस्थितम्। अस्मत्सङ्ग्रसनव्यात्तव्यालतुण्डायते न वा ॥१९॥ सत्यमर्ककरारक्तमुत्तराहनुवद्घनम्। अधराहनुवद्रोधस्तत्प्रतिच्छाययारुणम् ॥२०॥ प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे। तुङ्गशृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत ॥२१॥ आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति। एषामन्तर्गतं ध्वान्तमेतदप्यन्तराननम् ॥२२॥ दावोष्णखरवातोऽयं श्वासवद्भाति पश्यत। तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत् ॥२३॥ अस्मान् किमत्र ग्रसिता निविष्टानयं तथा चेद्बकवद्विनङ्क्ष्यति। क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥२४॥ इत्थं मिथोऽतथ्यमतज्ज्ञभाषितं श्रुत्वा विचिन्त्येत्यमृषा मृषायते । रक्षो विदित्वाखिलभूतहृत्स्थितः स्वानां निरोद्धुं भगवान् मनो दधे ॥२५॥ तावत्प्रविष्टास्त्वसुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः। प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा ॥२६॥ तान् वीक्ष्य कृष्णः सकलाभयप्रदो ह्यनन्यनाथान् स्वकरादवच्युतान्। दीनांश्च मृत्योर्जठराग्निघासान् घृणार्दितो दिष्टकृतेन विस्मितः ॥२७॥ कृत्यं किमत्रास्य खलस्य जीवनं न वा अमीषां च सतां विहिंसनम्। द्वयं कथं स्यादिति संविचिन्त्य तज्ज्ञात्वाविशत्तुण्डमशेषदृग्घरिः॥२८॥ तदा घनच्छदा देवा भयाद्धा हेति चुक्रुशुः। जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ॥२९॥ तच्छ्रुत्वा भगवान् कृष्णस्त्वव्ययः सार्भवत्सकम्। चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥३०॥ ततोऽतिकायस्य निरुद्धमार्गिणो ह्युद्गीर्णदृष्टेर्भ्रमतस्त्वितस्ततः। पूर्णोऽन्तरङ्गे पवनो निरुद्धो मूर्धन् विनिष्पाट्य विनिर्गतो बहिः ॥३१॥ तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृदः परेतान्। दृष्ट्या स्वयोत्थाप्य तदन्वितः पुन- र्वक्त्रान्मुकुन्दो भगवान् विनिर्ययौ ॥३२॥ पीनाहिभोगोत्थितमद्भुतं महज्ज्योतिः स्वधाम्ना ज्वलयद्दिशो दश। प्रतीक्ष्य खेऽवस्थितमीश निर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ॥३३॥ ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं पुष्पैः सुरा अप्सरसश्च नर्तनैः । गीतैः सुगा वाद्यधराश्च वाद्यकैः स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ॥३४॥ तदद्भुतस्तोत्रसुवाद्यगीतिका- जयादिनैकोत्सवमङ्गलस्वनान्। श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद्दृष्ट्वा महीशस्य जगाम विस्मयम् ॥३५॥ राजन्नाजगरं चर्म शुष्कं वृन्दावनेऽद्भुतम्। व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥३६॥ एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम्। मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ॥३७॥ नैतद्विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः। अघोऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥३८॥ सकृद्यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम्। स एव नित्यात्मसुखानुभूत्यभि- व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥३९॥ सूत उवाच इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम्। पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकिं यन्निगृहीतचेताः ॥४०॥ राजोवाच ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत्। यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ॥४१॥ तद्ब्रूहि मे महायोगिन् परं कौतूहलं गुरो। नूनमेतद्धरेरेव माया भवति नान्यथा ॥४२॥ वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः। यत्पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ॥४३॥ सूत उवाच इत्थं स्म पृष्टः स तु बादरायणि- स्तत्स्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम ॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः॥१२॥

॥ त्रयोदशोऽध्यायः - १३ ॥

श्रीशुक उवाच साधु पृष्टं महाभाग त्वया भागवतोत्तम। यन्नूतनयसीशस्य शृण्वन्नपि कथां मुहुः ॥१॥ सतामयं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि। प्रतिक्षणं नव्यवदच्युतस्य यत्स्त्रिया विटानामिव साधुवार्ता ॥२॥ शृणुष्वावहितो राजन्नपि गुह्यं वदामि ते। ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥३॥ तथाघवदनान्मृत्यो रक्षित्वा वत्सपालकान्। सरित्पुलिनमानीय भगवानिदमब्रवीत् ॥४॥ अहोऽतिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन्मृदुलाच्छवालुकम्। स्फुटत्सरोगन्धहृतालिपत्रिक- ध्वनिप्रतिध्वानलसद्द्रुमाकुलम् ॥५॥ अत्र भोक्तव्यमस्माभिर्दिवा रूढं क्षुधार्दिताः। वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम्॥६॥ तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले। मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥७॥ कृष्णस्य विष्वक्पुरुराजिमण्डलै- रभ्याननाः फुल्लदृशो व्रजार्भकाः । सहोपविष्टा विपिने विरेजुश्छदा यथाम्भोरुहकर्णिकायाः ॥८॥ केचित्पुष्पैर्दलैः केचित्पल्लवैरङ्कुरैः फलैः। शिग्भिस्त्वग्भिर्दृषद्भिश्च बुभुजुः कृतभाजनाः ॥९॥ सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक्। हसन्तो हासयन्तश्चाभ्यवजह्रुः सहेश्वराः ॥१०॥ बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु । तिष्ठन्मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥११॥ सगोनासंगोगो भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु। वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥१२॥ तान् दृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम्। मित्राण्याशान्मा विरमतेहानेष्ये वत्सकानहम् ॥१३॥ इत्युक्त्वाद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान्। विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ॥१४॥ अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् । नीत्वान्यत्र कुरूद्वहान्तरदधात्खेऽवस्थितो यः पुरा दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम्॥१५॥ ततो वत्सानदृष्ट्वैत्य पुलिनेऽपि च वत्सपान्। उभावपि वने कृष्णो विचिकाय समन्ततः ॥१६॥ क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित्। सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥१७॥ ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च। उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥१८॥ यावद्वत्सपवत्सकाल्पकवपुर्यावत्कराङ्घ्र्यादिकं यावद्यष्टिविषाणवेणुदलशिग्यावद्विभूषाम्बरम् । यावच्छीलगुणाभिधाकृतिवयो यावद्विहारादिकं सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ॥१९॥ स्वयमात्माऽऽत्मगोवत्सान् प्रतिवार्यात्मवत्सपैः। क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद्व्रजम् ॥२०॥ तत्तद्वत्सान् पृथङ्नीत्वा तत्तद्गोष्ठे निवेश्य सः। तत्तदात्माभवद्राजंस्तत्तत्सद्म प्रविष्टवान् ॥२१॥ तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम्। स्नेहस्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतानपाययन् ॥२२॥ ततो नृपोन्मर्दनमज्जलेपना- लङ्काररक्षातिलकाशनादिभिः। संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः ॥२३॥ गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषैः परिहूतसङ्गतान्। स्वकान्स्वकान्वत्सतरानपायय- न्मुहुर्लिहन्त्यः स्रवदौधसं पयः ॥२४॥ गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना। पुरोवदास्वपि हरेस्तोकता मायया विना ॥२५॥ व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम्। शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥२६॥ इत्थमात्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः। पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥२७॥ एकदा चारयन् वत्सान् सरामो वनमाविशत्। पञ्चषासु त्रियामासु हायनापूरणीष्वजः ॥२८॥ ततो विदूराच्चरतो गावो वत्सानुपव्रजम्। गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥२९॥ दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा स गोव्रजोऽत्यात्मपदुर्गमार्गः। द्विपात्ककुद्ग्रीव उदास्यपुच्छो- ऽगाद्धुङ्कृतैरास्रुपया जवेन ॥३०॥ समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन्। गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः॥३१॥ गोपास्तद्रोधनायासमौघ्यलज्जोरुमन्युना। दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् ॥३२॥ तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोऽर्भकान्। उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैरवापुः परमां मुदं ते ॥३३॥ ततः प्रवयसो गोपास्तोकाश्लेषसुनिर्वृताः। कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रवः ॥३४॥ व्रजस्य रामः प्रेमर्धेर्वीक्ष्यौत्कण्ठ्यमनुक्षणम्। मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत् ॥३५॥ किमेतदद्भुतमिव वासुदेवेऽखिलात्मनि। व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते ॥३६॥ केयं वा कुत आयाता दैवी वा नार्युतासुरी। प्रायो मायास्तु मे भर्तुर्नान्या मेऽपि विमोहिनी ॥३७॥ इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि। सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥३८॥ नैते सुरेशा ऋषयो न चैते त्वमेव भासीश भिदाश्रयेऽपि। सर्वं पृथक्त्वं निगमात्कथं वदेत्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥३९॥ तावदेत्यात्मभूरात्ममानेन त्रुट्यनेहसा। पुरोवदब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥४०॥ यावन्तो गोकुले बालाः सवत्साः सर्व एव हि। मायाशये शयाना मे नाद्यापि पुनरुत्थिताः ॥४१॥ इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे। तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥४२॥ एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः। सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥४३॥ एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम्। स्वयैव माययाजोऽपि स्वयमेव विमोहितः ॥४४॥ तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि। महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ॥४५॥ तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात्। व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥४६॥ चतुर्भुजाः शङ्खचक्रगदाराजीवपाणयः। किरीटिनः कुण्डलिनो हारिणो वनमालिनः ॥४७॥ श्रीवत्साङ्गददोरत्नकम्बुकङ्कणपाणयः। नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः ॥४८॥ आङ्घ्रिमस्तकमापूर्णास्तुलसीनवदामभिः। कोमलैः सर्वगात्रेषु भूरि पुण्यवदर्पितैः ॥४९॥ चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः। स्वकार्थानामिव रजःसत्त्वाभ्यां स्रष्टृपालकाः ॥५०॥ आत्मादिस्तम्बपर्यन्तैर्मूर्तिमद्भिश्चराचरैः। नृत्यगीताद्यनेकार्हैः पृथक्पृथगुपासिताः ॥५१॥ अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभिः। चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः ॥५२॥ कालस्वभावसंस्कारकामकर्मगुणादिभिः। स्वमहिध्वस्तमहिभिर्मूर्तिमद्भिरुपासिताः ॥५३॥ सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तयः। अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्दृशाम् ॥५४॥ एवं सकृद्ददर्शाजः परब्रह्मात्मनोऽखिलान्। यस्य भासा सर्वमिदं विभाति सचराचरम् ॥५५॥ ततोऽतिकुतुकोद्वृत्तस्तिमितैकादशेन्द्रियः। तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥५६॥ इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके परत्राजातोऽतन्निरसनमुखब्रह्मकमितौ । अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति चच्छादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम्॥५७॥ ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः। कृच्छ्रादुन्मील्य वै दृष्टीराचष्टेदं सहात्मना ॥५८॥ सपद्येवाभितः पश्यन् दिशोऽपश्यत्पुरः स्थितम्। वृन्दावनं जनाजीव्यद्रुमाकीर्णं समाप्रियम् ॥५९॥ यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः। मित्राणीवाजितावासद्रुतरुट्तर्षकादिकम् ॥६०॥ तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं ब्रह्माद्वयं परमनन्तमगाधबोधम् । वत्सान् सखीनिव पुरा परितो विचिन्व- देकं सपाणिकवलं परमेष्ठ्यचष्ट ॥६१॥ दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य । स्पृष्ट्वा चतुर्मुकुटकोटिभिरङ्घ्रियुग्मं नत्वा मुदश्रुसुजलैरकृताभिषेकम् ॥६२॥ उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन्। आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः॥६३॥ शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः। कृताञ्जलिः प्रश्रयवान् समाहितः सवेपथुर्गद्गदयैलतेलया ॥६४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः ॥ १३॥

॥ चतुर्दशोऽध्यायः - १४ ॥

ब्रह्मोवाच नौमीड्य तेऽभ्रवपुषे तडिदम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय । वन्यस्रजे कवलवेत्रविषाणवेणुलक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥१॥ अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि। नेशे महि त्ववसितुं मनसाऽऽन्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥२॥ ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिर्ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥३॥ श्रेयःसृतिं/स्रुतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् ॥४॥ पुरेह भूमन् बहवोऽपि योगिन- स्त्वदर्पितेहा निजकर्मलब्धया। विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥५॥ तथापि भूमन् महिमागुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः। अविक्रियात्स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥६॥ गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य। कालेन यैर्वा विमिताः सुकल्पै- र्भूपांसवः खे मिहिका द्युभासाः ॥७॥ तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम्। हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥८॥ पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्वय्यपि मायिमायिनि। मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ॥९॥ अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः। अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति ॥१०॥ क्वाहं तमोमहदहंखचराग्निवार्भू- संवेष्टिताण्डघटसप्तवितस्तिकायाः । क्वेदृग्विधाविगणिताण्डपराणुचर्या- वाताध्वरोमविवरस्य च ते महित्वम् ॥११॥ उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागसे। किमस्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः ॥१२॥ जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात्। विनिर्गतोऽजस्त्विति वाङ्न वै मृषा किन्त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥१३॥ नारायणस्त्वं न हि सर्वदेहिना- मात्मास्यधीशाखिललोकसाक्षी। नारायणोऽङ्गं नरभूजलायनात्तच्चापि सत्यं न तवैव माया ॥१४॥ तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवंस्तदैव । किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि ॥१५॥ अत्रैव मायाधमनावतारे ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य। कृत्स्नस्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते ॥१६॥ यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा। तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना ॥१७॥ अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शित- मेकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि । तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासिता- स्तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते॥१८॥ अजानतां त्वत्पदवीमनात्म- न्यात्माऽऽत्मना भासि वितत्य मायाम्। सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः ॥१९॥ सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य। जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ॥२०॥ को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर्भवतस्त्रिलोक्याम्। क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥२१॥ तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत्सदिवावभाति ॥२२॥ एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयंज्योतिरनन्त आद्यः। नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥२३॥ एवं विधं त्वां सकलात्मनामपि स्वात्मानमात्माऽऽत्मतया विचक्षते। गुर्वर्कलब्धोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥२४॥ आत्मानमेवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम्। ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा ॥२५॥ अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात्। अजस्रचित्याऽऽत्मनि केवले परे विचार्यमाणे तरणाविवाहनी ॥२६॥ त्वामात्मानं परं मत्वा परमात्मानमेव च। आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥२७॥ अन्तर्भवेऽनन्त भवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति सन्तः। असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः ॥२८॥ अथापि ते देव पदाम्बुजद्वय- प्रसादलेशानुगृहीत एव हि। जानाति तत्त्वं भगवन् महिम्नो- न चान्य एकोऽपि चिरं विचिन्वन् ॥२९॥ तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र तु वा तिरश्चाम्। येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ॥३०॥ अहोऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा। यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽद्यापि न चालमध्वराः ॥३१॥ अहोभाग्यमहोभाग्यं नन्दगोपव्रजौकसाम्। यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥३२॥ एषां तु भाग्यमहिमाच्युत तावदास्ता- मेकादशैव हि वयं बत भूरिभागाः। एतद्धृषीकचषकैरसकृत्पिबामः शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं ते ॥३३॥ तद्भूरिभाग्यमिह जन्म किमप्यटव्यां यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् । यज्जीवितं तु निखिलं भगवान् मुकुन्दस्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥३४॥ एषां घोषनिवासिनामुत भवान् किं देव रातेति नः चेतो विश्वफलात्फलं त्वदपरं कुत्राप्ययन् मुह्यति । सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते॥३५॥ तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम्। तावन्मोहोऽङ्घ्रिनिगडो यावत्कृष्ण न ते जनाः ॥३६॥ प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले। प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥३७॥ जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो। मनसो वपुषो वाचो वैभवं तव गोचरः ॥३८॥ अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक्। त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ॥३९॥ श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन् क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् । उद्धर्मशार्वरहर क्षितिराक्षसध्रु- गाकल्पमार्कमर्हन् भगवन् नमस्ते ॥४०॥ श्रीशुक उवाच इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः। नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥४१॥ ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान्। वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥४२॥ एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तरात्मनः। कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥४३॥ किं किं न विस्मरन्तीह मायामोहितचेतसः। यन्मोहितं जगत्सर्वमभीक्ष्णं विस्मृतात्मकम् ॥४४॥ ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा। नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥४५॥ ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः। दर्शयंश्चर्माजगरं न्यवर्तत वनाद्व्रजम् ॥४६॥ बर्हप्रसूननवधातुविचित्रिताङ्गः प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः । वत्सान् गृणन्ननुगगीतपवित्रकीर्ति- र्गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ॥४७॥ अद्यानेन महाव्यालो यशोदानन्दसूनुना। हतोऽविता वयं चास्मादिति बाला व्रजे जगुः ॥४८॥ राजोवाच ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत्। योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम् ॥४९॥ श्रीशुक उवाच सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः। इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि ॥५०॥ तद्राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम्। न तथा ममतालम्बिपुत्रवित्तगृहादिषु ॥५१॥ देहात्मवादिनां पुंसामपि राजन्यसत्तम। यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् ॥५२॥ देहोऽपि ममताभाक्चेत्तर्ह्यसौ नात्मवत्प्रियः। यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी॥५३॥ तस्मात्प्रियतमः स्वात्मा सर्वेषामपि देहिनाम्। तदर्थमेव सकलं जगदेतच्चराचरम् ॥५४॥ कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम्। जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥५५॥ वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च। भगवद्रूपमखिलं नान्यद्वस्त्विह किञ्चन ॥५६॥ सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः। तस्यापि भगवान् कृष्णः किमतद्वस्तु रूप्यताम्॥५७॥ समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः। भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद्विपदां न तेषाम् ॥५८॥ एतत्ते सर्वमाख्यातं यत्पृष्टोऽहमिह त्वया। यत्कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥५९॥ एतत्सुहृद्भिश्चरितं मुरारेरघार्दनं शाद्वलजेमनं च। व्यक्तेतरद्रूपमजोर्वभिष्टवं शृण्वन् गृणन्नेति नरोऽखिलार्थान् ॥६०॥ एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे। निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥६१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः॥ १४ ॥

॥ पञ्चदशोऽध्यायः - १५ ॥

श्रीशुक उवाच ततश्च पौगण्डवयः श्रितौ व्रजे बभूवतुस्तौ पशुपालसम्मतौ । गाश्चारयन्तौ सखिभिः समं पदैर्वृन्दावनं पुण्यमतीव चक्रतुः ॥१॥ तन्माधवो वेणुमुदीरयन् वृतो गोपैर्गृणद्भिः स्वयशो बलान्वितः। पशून् पुरस्कृत्य पशव्यमाविश- द्विहर्तुकामः कुसुमाकरं वनम् ॥२॥ तन्मञ्जुघोषालिमृगद्विजाकुलं महन्मनःप्रख्यपयःसरस्वता। वातेन जुष्टं शतपत्रगन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे ॥३॥ स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः। स्पृशच्छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्निवाहाग्रजमादिपूरुषः ॥४॥ श्रीभगवानुवाच अहो अमी देव वरामरार्चितं पादाम्बुजं ते सुमनःफलार्हणम्। नमन्त्युपादाय शिखाभिरात्मन- स्तमोऽपहत्यै तरुजन्म यत्कृतम् ॥५॥ एतेऽलिनस्तव यशोऽखिललोकतीर्थं गायन्त आदिपुरुषानुपदं भजन्ते । प्रायो अमी मुनिगणा भवदीयमुख्या गूढं वनेऽपि न जहत्यनघात्मदैवम् ॥६॥ नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन । सूक्तैश्च कोकिलगणा गृहमागताय धन्या वनौकस इयान् हि सतां निसर्गः ॥७। धन्येयमद्य धरणी तृणवीरुधस्त्वत्पादस्पृशो द्रुमलताः करजाभिमृष्टाः । नद्योऽद्रयः खगमृगाः सदयावलोकै- र्गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ॥८॥ श्रीशुक उवाच एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून्। रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ॥९॥ क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः। उपगीयमानचरितः स्रग्वी सङ्कर्षणान्वितः ॥१०॥ (अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित्। क्वचित्स वल्गु कूजन्तमनुकूजति कोकिलम्॥) क्वचिच्च कलहंसानामनुकूजति कूजितम्। अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥११॥ मेघगम्भीरया वाचा नामभिर्दूरगान् पशून्। क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥१२॥ चकोरक्रौञ्चचक्राह्वभारद्वाजांश्च बर्हिणः। अनुरौति स्म सत्त्वानां भीतवद्व्याघ्रसिंहयोः ॥१३॥ क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम्। स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः ॥१४॥ नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः। गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥१५॥ क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्शितः। वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥१६॥ पादसंवाहनं चक्रुः केचित्तस्य महात्मनः। अपरे हतपाप्मानो व्यजनैः समवीजयन् ॥१७॥ अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः। गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः ॥१८॥ एवं निगूढात्मगतिः स्वमायया गोपात्मजत्वं चरितैर्विडम्बयन्। रेमे रमालालितपादपल्लवो ग्राम्यैः समं ग्राम्यवदीशचेष्टितः ॥१९॥ श्रीदामा नाम गोपालो रामकेशवयोः सखा। सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन् ॥२०॥ राम राम महाबाहो कृष्ण दुष्टनिबर्हण। इतोऽविदूरे सुमहद्वनं तालालिसङ्कुलम् ॥२१॥ फलानि तत्र भूरीणि पतन्ति पतितानि च। सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना ॥२२॥ सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक्। आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिरावृतः ॥२३॥ तस्मात्कृतनराहाराद्भीतैर्नृभिरमित्रहन्। न सेव्यते पशुगणैः पक्षिसङ्घैर्विवर्जितम् ॥२४॥ विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च। एष वै सुरभिर्गन्धो विषूचीनोऽवगृह्यते ॥२५॥ प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम्। वाञ्छास्ति महती राम गम्यतां यदि रोचते ॥२६॥ एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया। प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनं प्रभू ॥२७॥ बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन्। फलानि पातयामास मतङ्गज इवौजसा ॥२८॥ फलानां पततां शब्दं निशम्यासुररासभः। अभ्यधावत्क्षितितलं सनगं परिकम्पयन् ॥२९॥ समेत्य तरसा प्रत्यग्द्वाभ्यां पद्भ्यां बलं बली। निहत्योरसि का शब्दं मुञ्चन् पर्यसरत्खलः ॥३०॥ पुनरासाद्य संरब्ध उपक्रोष्टा पराक्स्थितः। चरणावपरौ राजन् बलाय प्राक्षिपद्रुषा ॥३१॥ स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना। चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ॥३२॥ तेनाहतो महातालो वेपमानो बृहच्छिराः। पार्श्वस्थं कम्पयन् भग्नः स चान्यं सोऽपि चापरम्॥३३॥ बलस्य लीलयोत्सृष्टखरदेहहताहताः। तालाश्चकम्पिरे सर्वे महावातेरिता इव ॥३४॥ नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे। ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः ॥३५॥ ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये। क्रोष्टारोऽभ्यद्रवन् सर्वे संरब्धा हतबान्धवाः ॥३६॥ तांस्तानापततः कृष्णो रामश्च नृप लीलया। गृहीतपश्चाच्चरणान् प्राहिणोत्तृणराजसु ॥३७॥ फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभिः। रराज भूः सतालाग्रैर्घनैरिव नभस्तलम् ॥३८॥ तयोस्तत्सुमहत्कर्म निशाम्य विबुधादयः। मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः ॥३९॥ अथ तालफलान्यादन् मनुष्या गतसाध्वसाः। तृणं च पशवश्चेरुर्हतधेनुककानने ॥४०॥ कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः। स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत् ॥४१॥ तं गोरजश्छुरितकुन्तलबद्धबर्ह- वन्यप्रसूनरुचिरेक्षणचारुहासम् । वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः ॥४२॥ पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गै- स्तापं जहुर्विरहजं व्रजयोषितोऽह्नि । तत्सत्कृतिं समधिगम्य विवेश गोष्ठं सव्रीडहासविनयं यदपाङ्गमोक्षम् ॥४३॥ तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले। यथाकामं यथाकालं व्यधत्तां परमाशिषः ॥४४॥ गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः। नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ॥४५॥ जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ। संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे ॥४६॥ एवं स भगवान् कृष्णो वृन्दावनचरः क्वचित्। ययौ राममृते राजन् कालिन्दीं सखिभिर्वृतः ॥४७॥ अथ गावश्च गोपाश्च निदाघातपपीडिताः। दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम् ॥४८॥ विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः। निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वह ॥४९॥ वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वरः। ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत् ॥५०॥ ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात्। आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम्॥५१॥ अन्वमंसत तद्राजन् गोविन्दानुग्रहेक्षितम्। पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः ॥५२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशोऽध्यायः ॥ १५ ॥

॥ षोडशोऽध्यायः १६ ॥

श्रीशुक उवाच विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः। तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥१॥ राजोवाच कथमन्तर्जलेऽगाधे न्यगृह्णाद्भगवानहिम्। स वै बहुयुगावासं यथाऽऽसीद्विप्र कथ्यताम् ॥२॥ ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः। गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥३॥ श्रीशुक उवाच कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना। श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥४॥ विप्रुष्मता विषोदोर्मिमारुतेनाभिमर्शिताः। म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ॥५॥ तं चण्डवेगविषवीर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः । कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गमास्फोट्य गाढरशनो न्यपतद्विषोदे ॥६॥ सर्पह्रदः पुरुषसारनिपातवेग- सङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः। पर्यक्प्लुतो विषकषायविभीषणोर्मिर्धावन् धनुःशतकमनन्तबलस्य किं तत् ॥७॥ तस्य ह्रदे विहरतो भुजदण्डघूर्णवार्घोषमङ्ग वरवारणविक्रमस्य। आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवाः समसरत्तदमृष्यमाणः ॥८॥ तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं सन्दश्य मर्मसु रुषा भुजया चछाद ॥९॥ तं नागभोगपरिवीतमदृष्टचेष्टमालोक्य तत्प्रियसखाः पशुपा भृशार्ताः। कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ॥१०॥ गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः। कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥११॥ अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः। उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः ॥१२॥ तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः। विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्॥१३॥ तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः। तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥१४॥ आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः। निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः ॥१५॥ तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः। प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥१६॥ ते?ऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः। भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥१७॥ ते तत्र तत्राब्जयवाङ्कुशाशनि- ध्वजोपपन्नानि पदानि विश्पतेः। मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः ॥१८॥ अन्तर्ह्रदे भुजगभोगपरीतमारात्कृष्णं निरीहमुपलभ्य जलाशयान्ते । गोपांश्च मूढधिषणान् परितः पशूंश्च सङ्क्रन्दतः परमकश्मलमापुरार्ताः ॥१९॥ गोप्योऽनुरक्तमनसो भगवत्यनन्ते तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः । ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥२०॥ ताः कृष्णमातरमपत्यमनुप्रविष्टां तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः । तास्ता व्रजप्रियकथाः कथयन्त्य आसन् कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥२१॥ कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम्। प्रत्यषेधत्स भगवान् रामः कृष्णानुभाववित् ॥२२॥ इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य सस्त्रीकुमारमतिदुःखितमात्महेतोः । आज्ञाय मर्त्यपदवीमनुवर्तमानः स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ॥२३॥ तत्प्रथ्यमानवपुषा व्यथितात्मभोग- स्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः । तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष- स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥२४॥ तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् । क्रीडन्नमुं परिससार यथा खगेन्द्रो बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥२५॥ एवं परिभ्रमहतौजसमुन्नतांसमानम्य तत्पृथुशिरःस्वधिरूढ आद्यः । तन्मूर्धरत्ननिकरस्पर्शातिताम्र- पादाम्बुजोऽखिलकलादिगुरुर्ननर्त स गो ना सं गो गो॥२६॥ तं नर्तुमुद्यतमवेक्ष्य तदा तदीय- गन्धर्वसिद्धसुरचारणदेववध्वः । प्रीत्या मृदङ्गपणवानकवाद्यगीत- पुष्पोपहारनुतिभिः सहसोपसेदुः ॥२७॥ यद्यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्ण- स्तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः । क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ्नस्तो वमन् परमकश्मलमाप नागः ॥२८॥ तस्याक्षिभिर्गरलमुद्वमतः शिरस्सु यद्यत्समुन्नमति निःश्वसतो रुषोच्चैः । नृत्यन् पदानुनमयन् दमयांबभूव पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥२९॥ तच्चित्रताण्डवविरुग्णफणातपत्रो रक्तं मुखैरुरु वमन् नृप भग्नगात्रः । स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम ॥३०॥ कृष्णस्य गर्भजगतोऽतिभरावसन्नं पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् । दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य आर्ताः श्लथद्वसनभूषणकेशबन्धाः ॥३१॥ तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः । साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तु- र्मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥३२॥ नागपत्न्य ऊचुः न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिं- स्तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टेर्धत्से दमं फलमेवानुशंसन् ॥३३॥ अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः। यद्दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥३४॥ तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन। धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ॥३५॥ कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्पर्शाधिकारः। यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता ॥३६॥ न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥३७॥ तदेष नाथाप दुरापमन्यैस्तमोजनिः क्रोधवशोऽप्यहीशः। संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद्विभवः समक्षः ॥३८॥ नमस्तुभ्यं भगवते पुरुषाय महात्मने। भूतावासाय भूताय पराय परमात्मने ॥३९॥ ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये। अगुणायाविकाराय नमस्ते प्राकृताय च ॥४०॥ कालाय कालनाभाय कालावयवसाक्षिणे। विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥४१॥ भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने। त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥४२॥ नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते। नानावादानुरोधाय वाच्यवाचकशक्तये ॥४३॥ नमः प्रमाणमूलाय कवये शास्त्रयोनये। प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥४४॥ नमः कृष्णाय रामाय वसुदेवसुताय च। प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥४५॥ नमो गुणप्रदीपाय गुणात्मच्छादनाय च। गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ॥४६॥ अव्याकृतविहाराय सर्वव्याकृतसिद्धये। हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥४७॥ परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः। अविश्वाय च विश्वाय तद्द्रष्ट्रेऽस्य च हेतवे ॥४८॥ त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो गुणैरनीहोऽकृतकालशक्तिधृक्। तत्तत्स्वभावान् प्रतिबोधयन् सतः समीक्षयामोघविहार ईहसे ॥४९॥ तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः ॥५०॥ अपराधः सकृद्भर्त्रा सोढव्यः स्वप्रजाकृतः। क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानतः ॥५१॥ अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः। स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥५२॥ विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया। यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतोभयात् ॥५३॥ श्रीशुक उवाच इत्थं स नागपत्नीभिर्भगवान् समभिष्टुतः। मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ॥५४॥ प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम्। कृच्छ्रात्समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः॥५५॥ कालिय उवाच वयं खलाः सहोत्पत्त्या तामसा दीर्घमन्यवः। स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः ॥५६॥ त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम्। नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥५७॥ वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः। कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम्॥५८॥ भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः। अनुग्रहं निग्रहं वा मन्यसे तद्विधेहि नः ॥५९॥ श्रीशुक उवाच इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः। नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम्। स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥६०॥ य एतत्संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम्। कीर्तयन्नुभयोः सन्ध्योर्न युष्मद्भयमाप्नुयात् ॥६१॥ योऽस्मिन् स्नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलैः। उपोष्य मां स्मरन्नर्चेत्सर्वपापैः प्रमुच्यते ॥६२॥ द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः। यद्भयात्स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम्॥६३॥ श्रीशुक उवाच एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा। तं पूजयामास मुदा नागपत्न्यश्च सादरम् ॥६४॥ दिव्याम्बरस्रङ्मणिभिः परार्ध्यैरपि भूषणैः। दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥६५॥ पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम्। ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥६६॥ सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह। तदैव सामृतजला यमुना निर्विषाभवत्। अनुग्रहाद्भगवतः क्रीडामानुषरूपिणः ॥६७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कालियमोक्षणं नाम षोडशोऽध्यायः ॥ १६ ॥

॥ सप्तदशोऽध्यायः - १७ ॥

राजोवाच नागालयं रमणकं कस्मात्तत्याज कालियः। कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १॥ श्रीशुक उवाच उपहार्यैः सर्पजनैर्मासि मासीह यो बलिः। वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः ॥२॥ स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि। गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥३॥ विषवीर्यमदाविष्टः काद्रवेयस्तु कालियः। कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥४॥ तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः। विजिघांसुर्महावेगः कालियं समुपाद्रवत् ॥५॥ तमापतन्तं तरसा विषायुधः प्रत्यभ्ययादुच्छ्रितनैकमस्तकः। दद्भिः सुपर्णं व्यदशद्ददायुधः करालजिह्वोच्छ्वसितोग्रलोचनः ॥६॥ तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगो मधुसूदनासनः । पक्षेण सव्येन हिरण्यरोचिषा जघान कद्रूसुतमुग्रविक्रमः ॥७॥ सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः। ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम् ॥८॥ तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम्। निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् ॥९॥ मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते। कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ॥१०॥ अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति। सद्यः प्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम् ॥११॥ तं कालियः परं वेद नान्यः कश्चन लेलिहः। अवात्सीद्गरुडाद्भीतः कृष्णेन च विवासितः ॥१२॥ कृष्णं ह्रदाद्विनिष्क्रान्तं दिव्यस्रग्गन्धवाससम्। महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥१३॥ उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः। प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥१४॥ यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव। कृष्णं समेत्य लब्धेहा आसन् लब्धमनोरथाः ॥१५॥ रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित्। (प्रेम्णा तमङ्कमारोप्य पुनः पुनरुदैक्षत।) नगा गावो वृषा वत्सा लेभिरे परमां मुदम् ॥१६॥ नन्दं विप्राः समागत्य गुरवः सकलत्रकाः। ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः॥१७॥ देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे। नन्दः प्रीतमना राजन् गाः सुवर्णं तदादिशत् ॥१८॥ यशोदापि महाभागा नष्टलब्धप्रजा सती। परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः ॥१९॥ तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्शिताः। ऊषुर्व्रजौकसो गावः कालिन्द्या उपकूलतः ॥२०॥ तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम्। सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे ॥२१॥ तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः। कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ॥२२॥ कृष्ण कृष्ण महाभग हे रामामितविक्रम। एष घोरतमो वह्निस्तावकान् ग्रसते हि नः ॥२३॥ सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो। न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् ॥२४॥ इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः। तमग्निमपिबत्तीव्रमनन्तोऽनन्तशक्तिधृक् ॥२५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निमोचनं नाम सप्तदशोऽध्यायः॥ १७ ॥

॥ अष्टादशोऽध्यायः -१८ ॥

श्रीशुक उवाच अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः। अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् ॥१॥ व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया। ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् ॥२॥ स च वृन्दावनगुणैर्वसन्त इव लक्षितः। यत्रास्ते भगवान् साक्षाद्रामेण सह केशवः ॥३॥ यत्र निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम्। शश्वत्तच्छीकरर्जीषद्रुममण्डलमण्डितम् ॥४॥ सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणुहारिणा। न विद्यते यत्र वनौकसां दवो निदाघवह्न्यर्कभवोऽतिशाद्वले ॥५॥ अगाधतोयह्रदिनी तटोर्मिभि- र्द्रवत्पुरीष्याः पुलिनैः समन्ततः। न यत्र चण्डांशुकरा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते ॥६॥ वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम्। गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ॥७॥ क्रीडिष्यमाणस्तत्कृष्णो भगवान् बलसंयुतः। वेणुं विरणयन् गोपैर्गोधनैः संवृतोऽविशत् ॥८॥ प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाः। रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ॥९॥ कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन्। वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे ॥१०॥ गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ। ईडिरे कृष्णरामौ च नटा इव नटं नृप ॥११॥ भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः। चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् ॥१२॥ क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम्। शशंसतुर्महाराज साधु साध्विति वादिनौ ॥१३॥ क्वचिद्बिल्वैः क्वचित्कुम्भैः क्व चामलकमुष्टिभिः। अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया ॥१४॥ क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः। कदाचित्स्पन्दोलिकया कर्हिचिन्नृपचेष्टया ॥१५॥ एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने। नद्यद्रिद्रोणिकुञ्जेषु काननेषु सरःसु च ॥१६॥ पशूंश्चारयतोर्गोपैस्तद्वने रामकृष्णयोः। गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया ॥१७॥ तं विद्वानपि दाशार्हो भगवान् सर्वदर्शनः। अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् ॥१८॥ तत्रोपाहूय गोपालान् कृष्णः प्राह विहारवित्। हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥१९॥ तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ। कृष्णसङ्घट्टिनः केचिदासन् रामस्य चापरे ॥२०॥ आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः। यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥२१॥ वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम्। भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः ॥२२॥ रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः। क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप ॥२३॥ उवाह कृष्णो भगवान् श्रीदामानं पराजितः। वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥२४॥ अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः। वहन्द्रुततरं प्रागादवरोहणतः परम् ॥२५॥ तमुद्वहन् धरणिधरेन्द्रगौरवं महासुरो विगतरयो निजं वपुः । स आस्थितः पुरटपरिच्छदो बभौ तडिद्द्युमानुडुपतिवाडिवाम्बुदः ॥२६॥ निरीक्ष्य तद्वपुरलमम्बरे चर- त्प्रदीप्तदृग्भ्रुकुटितटोग्रदंष्ट्रकम् । ज्वलच्छिखं कटककिरीटकुण्डल- त्विषाद्भुतं हलधर ईषदत्रसत् ॥२७॥ अथागतस्मृतिरभयो रिपुं बलो विहायसार्थमिव हरन्तमात्मनः। रुषाहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा ॥२८॥ स आहतः सपदि विशीर्णमस्तको मुखाद्वमन् रुधिरमपस्मृतोऽसुरः। महारवं व्यसुरपतत्समीरयन् गिरिर्यथा मघवत आयुधाहतः ॥२९॥ दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना। गोपाः सुविस्मिता आसन् साधु साध्विति वादिनः ॥३०॥ आशिषोऽभिगृणन्तस्तं प्रशशंसुस्तदर्हणम्। प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः ॥३१॥ पापे प्रलम्बे निहते देवाः परमनिर्वृताः। अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्विति ॥३२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पुर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः ॥ १८ ॥

॥ एकोनविंशोऽध्यायः -१९ ॥

श्रीशुक उवाच क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः। स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम् ॥१॥ अजा गावो महिष्यश्च निर्विशन्त्यो वनाद्वनम्। इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः॥२॥ तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा। जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम् ॥३॥ तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम्। मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥४॥ मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम्। सम्प्राप्य तृषिताः श्रान्तास्ततस्ते सन्न्यवर्तयन्॥५॥ ता आहूता भगवता मेघगम्भीरया गिरा। स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥६॥ ततः समन्ताद्वनधूमकेतु- र्यदृच्छयाभूत्क्षयकृद्वनौकसाम्। समीरितः सारथिनोल्बणोल्मुकै- र्विलेलिहानः स्थिरजङ्गमान् महान्॥७॥ तमापतन्तं परितो दवाग्निं गोपाश्च गावः प्रसमीक्ष्य भीताः। ऊचुश्च कृष्णं सबलं प्रपन्ना यथा हरिं मृत्युभयार्दिता जनाः ॥८॥ कृष्ण कृष्ण महावीर हे रामामितविक्रम। दावाग्निना दह्यमानान् प्रपन्नांस्त्रातुमर्हथः ॥९॥ नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसादितुम्। वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः ॥१०॥ श्रीशुक उवाच वचो निशम्य कृपणं बन्धूनां भगवान् हरिः। निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥११॥ तथेति मीलिताक्षेषु भगवानग्निमुल्बणम्। पीत्वा मुखेन तान् कृच्छ्राद्योगाधीशो व्यमोचयत्॥१२॥ ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः। निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः॥१३॥ कृष्णस्य योगवीर्यं तद्योगमायानुभावितम्। दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् ॥१४॥ गाः सन्निवर्त्य सायाह्ने सह रामो जनार्दनः। वेणुं विरणयन् गोष्ठमगाद्गोपैरभिष्टुतः ॥१५॥ गोपीनां परमानन्द आसीद्गोविन्ददर्शने। क्षणं युगशतमिव यासां येन विनाभवत् ॥१६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दवाग्निपानं नामैकोनविंशोऽध्यायः ॥ १९॥

॥ विंशोऽध्यायः - २० ॥

श्रीशुक उवाच तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः। गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ॥१॥ गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः। मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥२॥ ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा। विद्योतमानपरिधिर्विस्फूर्जितनभस्तला ॥३॥ सान्द्रनीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभिः। अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ ॥४॥ अष्टौ मासान् निपीतं यद्भूम्याश्चोदमयं वसु। स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ॥५॥ तडित्वन्तो महामेघाश्चण्डश्वसनवेपिताः। प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव ॥६॥ तपःकृशा देवमीढा आसीद्वर्षीयसी मही। यथैव काम्यतपसस्तनुः सम्प्राप्य तत्फलम् ॥७॥ निशामुखेषु खद्योतास्तमसा भान्ति न ग्रहाः। यथा पापेन पाखण्डा न हि वेदाः कलौ युगे ॥८॥ श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः। तूष्णीं शयानाः प्राग्यद्वद्ब्राह्मणा नियमात्यये ॥९॥ आसन्नुत्पथगामिन्यः क्षुद्रनद्योऽनुशुष्यतीः। पुंसो यथास्वतन्त्रस्य देहद्रविणसम्पदः ॥१०॥ हरिता हरिभिः शष्पैरिन्द्रगोपैश्च लोहिता। उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ॥११॥ क्षेत्राणि सस्यसम्पद्भिः कर्षकाणां मुदं ददुः। धनिनामुपतापं च दैवाधीनमजानताम् ॥१२॥ जलस्थलौकसः सर्वे नववारिनिषेवया। अबिभ्रद्रुचिरं रूपं यथा हरिनिषेवया ॥१३॥ सरिद्भिः सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान्। अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा ॥१४॥ गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः। अभिभूयमाना व्यसनैर्यथाधोक्षजचेतसः ॥१५॥ मार्गा बभूवुः सन्दिग्धास्तृणैश्छन्ना ह्यसंस्कृताः। नाभ्यस्यमानाः श्रुतयो द्विजैः कालाहता इव॥१६॥ लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः। स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव ॥१७॥ धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात्। व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा ॥१८॥ न रराजोडुपश्छन्नः स्वज्योत्स्ना राजितैर्घनैः। अहं मत्या भासितया स्वभासा पुरुषो यथा ॥१९॥ मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ्छिखण्डिनः। गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे ॥२०॥ पीत्वापः पादपाः पद्भिरासन् नानात्ममूर्तयः। प्राक्क्षामास्तपसा श्रान्ता यथा कामानुसेवया ॥२१॥ सरःस्वशान्तरोधःसु न्यूषुरङ्गापि सारसाः। गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः ॥२२॥ जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे। पाखण्डिनामसद्वादैर्वेदमार्गाः कलौ यथा ॥२३॥ व्यमुञ्चन् वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः। यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः॥२४॥ एवं वनं तद्वर्षिष्ठं पक्वखर्जुरजम्बुमत्। गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्धरिः ॥२५॥ धेनवो मन्दगामिन्य ऊधोभारेण भूयसा। ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः ॥२६॥ वनौकसः प्रमुदिता वनराजीर्मधुच्युतः। जलधारा गिरेर्नादादासन्ना ददृशे गुहाः ॥२७॥ क्वचिद्वनस्पतिक्रोडे गुहायां चाभिवर्षति। निर्विश्य भगवान् रेमे कन्दमूलफलाशनः ॥२८॥ दध्योदनं समानीतं शिलायां सलिलान्तिके। सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः ॥२९॥ शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान्। तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभरश्रमाः॥३०॥ प्रावृट् श्रियं च तां वीक्ष्य सर्वकालसुखावहाम्। भगवान् पूजयांचक्रे आत्मशक्त्युपबृंहिताम् ॥३१॥ एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे। शरत्समभवद्व्यभ्रा स्वच्छाम्ब्वपरुषानिला ॥३२॥ शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः। भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ॥३३॥ व्योम्नोऽब्दं भूतशाबल्यं भुवः पङ्कमपां मलम्। शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ॥३४॥ सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः। यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः॥३५॥ गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम्। यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥३६॥ नैवाविदन् क्षीयमाणं जलं गाधजलेचराः। यथायुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥३७॥ गाधवारिचरास्तापमविन्दञ्छरदर्कजम्। यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः ॥३८॥ शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः। यथाहंममतां धीराः शरीरादिष्वनात्मसु ॥३९॥ निश्चलाम्बुरभूत्तूष्णीं समुद्रः शरदागमे। आत्मन्युपरते सम्यङ्मुनिर्व्युपरतागमः ॥४०॥ केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः। यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः ॥४१॥ शरदर्कांशुजांस्तापान् भूतानामुडुपोऽहरत्। देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥४२॥ खमशोभत निर्मेघं शरद्विमलतारकम्। सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ॥४३॥ अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी। यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥४४॥ आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम्। जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ॥४५॥ गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन्। अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव ॥४६॥ उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्विना। राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥४७॥ पुरग्रामेष्वाग्रयणैरिन्द्रियैश्च महोत्सवैः। बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः ॥४८॥ वणिङ्मुनिनृपस्नाता निर्गम्यार्थान् प्रपेदिरे। वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते॥४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रावृड्शरद्वर्णनं नाम विंशोऽध्यायः॥ २० ॥

॥ एकविंशोऽध्यायः - २१ ॥

श्रीशुक उवाच इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना। न्यविशद्वायुना वातं सगोगोपालकोऽच्युतः ॥१॥ कुसुमितवनराजिशुष्मिभृङ्ग- द्विजकुलघुष्टसरःसरिन्महीध्रम्। मधुपतिरवगाह्य चारयन् गाः सह पशुपालबलश्चुकूज वेणुम् ॥२॥ तद्व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम्। काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योन्ववर्णयन् ॥३॥ तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम्। नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥४॥ बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम्। रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दै- र्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥५॥सगोसंगोगो इति वेणुरवं राजन् सर्वभूतमनोहरम्। श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ॥६॥ गोप्य ऊचुः अक्षण्वतां फलमिदं न परं विदामः सख्यः पशूननु विवेशयतोर्वयस्यैः । वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टं यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥७॥ चूतप्रवालबर्हस्तबकोत्पलाब्ज- मालानुपृक्तपरिधानविचित्रवेषौ। मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्व च गायमानौ ॥८॥ गोप्यः किमाचरदयं कुशलं स्म वेणुर्दामोदराधरसुधामपि गोपिकानाम् । भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथाऽऽर्यः ॥९॥ वृन्दावनं सखि भुवो वितनोति कीर्तिं यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि । गोविन्दवेणुमनु मत्तमयूरनृत्यं प्रेक्ष्याद्रिसान्वपरतान्यसमस्तसत्त्वम् ॥१०॥ धन्याः स्म मूढगतयोऽपि हरिण्य एता या नन्दनन्दनमुपात्तविचित्रवेषम् । आकर्ण्य वेणुरणितं सहकृष्णसाराः पूजां दधुर्विरचितां प्रणयावलोकैः ॥११॥ कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं श्रुत्वा च तत्क्वणितवेणुविचित्रगीतम् । देव्यो विमानगतयः स्मरनुन्नसारा भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः ॥१२॥ गावश्च कृष्णमुखनिर्गतवेणुगीत- पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः । शावाः स्नुतस्तनपयःकवलाः स्म तस्थु- र्गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः॥ १३॥ प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदितं कलवेणुगीतम् । आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् शृण्वन्त्यमीलितदृशो विगतान्यवाचः ॥१४। नद्यस्तदा तदुपधार्य मुकुन्दगीत- मावर्तलक्षितमनोभवभग्नवेगाः । आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेः गृह्णन्ति पादयुगलं कमलोपहाराः ॥१५॥ दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैः सञ्चारयन्तमनु वेणुमुदीरयन्तम् । प्रेमप्रवृद्ध उदितः कुसुमावलीभिः सख्युर्व्यधात्स्ववपुषाम्बुद आतपत्रम् ॥१६॥ पूर्णाः पुलिन्द्य उरुगायपदाब्जराग- श्रीकुङ्कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥१७॥ हन्तायमद्रिरबला हरिदासवर्यो यद्रामकृष्णचरणस्पर्शप्रमोदः, मानं तनोति सह गोगणयोस्तयोर्यत् पानीयसूयवसकन्दरकन्दमूलैः ॥१८॥ गा गोपकैरनुवनं नयतोरुदारवेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः । अस्पन्दनं गतिमतां पुलकस्तरूणां निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥१९॥ एवं विधा भगवतो या वृन्दावनचारिणः। वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः॥२०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः॥२१॥

॥ द्वाविंशोऽध्यायः - २२ ॥

श्रीशुक उवाच हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः। चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥१॥ आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे। कृत्वा प्रतिकृतिं देवीमानर्चुर्नृप सैकतीम् ॥२॥ गन्धैर्माल्यैः सुरभिभिर्बलिभिर्धूपदीपकैः। उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः ॥३॥ कात्यायनि महामाये महायोगिन्यधीश्वरि। नन्दगोपसुतं देवि पतिं मे कुरु ते नमः। इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कमारिकाः॥४॥ एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः। भद्रकालीं समानर्चुर्भूयान्नन्दसुतः पतिः ॥५॥ उषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धबाहवः। कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम्॥६॥ नद्यां कदाचिदागत्य तीरे निक्षिप्य पूर्ववत्। वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा॥७॥ भगवांस्तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः। वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ॥८॥ तासां वासांस्युपादाय नीपमारुह्य सत्वरः। हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥९॥ अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम्। सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः ॥१०॥ न मयोदितपूर्वं वा अनृतं तदिमे विदुः। एकैकशः प्रतीच्छध्वं सहैवोत सुमध्यमाः ॥११॥ तस्य तत्क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः। व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः॥१२॥ एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतसः। आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ॥१३॥ मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम्। जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः॥१४॥ श्यामसुन्दर ते दास्यः करवाम तवोदितम्। देहि वासांसि धर्मज्ञ नो चेद्राज्ञे ब्रुवामहे ॥१५॥ श्रीभगवानुवाच भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ। अत्रागत्य स्ववासांसि प्रतीच्छत शुचिस्मिताः। (नो चेन्नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति)॥१६॥ ततो जलाशयात्सर्वा दारिकाः शीतवेपिताः। पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः॥१७॥ भगवानाह ता वीक्ष्य शुद्धभावप्रसादितः। स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम्॥१८॥ यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत्तदु देवहेलनम्। बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः कृत्वा नमोऽधो वसनं प्रगृह्यताम् ॥१९॥ इत्यच्युतेनाभिहिता व्रजाबला मत्वा विवस्त्राप्लवनं व्रतच्युतिम्। तत्पूर्तिकामास्तदशेषकर्मणां साक्षात्कृतं नेमुरवद्यमृग्यतः ॥२०॥ तास्तथावनता दृष्ट्वा भगवान् देवकीसुतः। वासांसि ताभ्यः प्रायच्छत्करुणस्तेन तोषितः ॥२१॥ दृढं प्रलब्धास्त्रपया च हापिताः प्रस्तोभिताः क्रीडनवच्च कारिताः । वस्त्राणि चैवापहृतान्यथाप्यमुं ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ॥२२॥ परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः। गृहीतचित्ता नो चेलुस्तस्मिन् लज्जायितेक्षणाः॥२३॥ तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया। धृतव्रतानां सङ्कल्पमाह दामोदरोऽबलाः ॥२४॥ सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम्। मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥२५॥ न मय्यावेशितधियां कामः कामाय कल्पते। भर्जिता क्वथिता धानाः प्रायो बीजाय नेष्यते ॥२६॥ याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः। यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥२७॥ श्रीशुक उवाच इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः। ध्यायन्त्यस्तत्पदाम्भोजं कृच्छ्रान्निर्विविशुर्व्रजम्॥२८॥ अथ गोपैः परिवृतो भगवान् देवकीसुतः। वृन्दावनाद्गतो दूरं चारयन् गाः सहाग्रजः ॥२९॥ निदाघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः। आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ॥३०॥ हे स्तोक कृष्ण हे अंशो श्रीदामन् सुबलार्जुन। विशालवृषभ तेजस्विन् देवप्रस्थ वरूथप ॥३१॥ पश्यतैतान् महाभागान् परार्थैकान्तजीवितान्। वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥३२॥ अहो एषां वरं जन्म सर्वप्राण्युपजीवनम्। सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥३३॥ पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः। गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते॥३४॥ एतावज्जन्मसाफल्यं देहिनामिह देहिषु। प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा ॥३५॥ इति प्रवालस्तबकफलपुष्पदलोत्करैः। तरूणां नम्रशाखानां मध्येन यमुनां गतः ॥३६॥ तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः। ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ॥३७॥ तस्या उपवने कामं चारयन्तः पशून् नृप। कृष्णरामावुपागम्य क्षुधार्ता इदमब्रुवन् ॥३८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीवस्त्रापहरणं नाम द्वाविंशोऽध्यायः ॥ २२ ॥

॥ त्रयोविंशोऽध्यायः - २३ ॥

गोपा ऊचुः राम राम महावीर्य कृष्ण दुष्टनिबर्हण। एषा वै बाधते क्षुन्नस्तच्छान्तिं कर्तुमर्हथः ॥१॥ श्रीशुक उवाच इति विज्ञापितो गोपैर्भगवान् देवकीसुतः। भक्ताया विप्रभार्यायाः प्रसीदन्निदमब्रवीत् ॥२॥ प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः। सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया ॥३॥ तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिताः। कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥४॥ इत्यादिष्टा भगवता गत्वायाचन्त ते तथा। कृताञ्जलिपुटा विप्रान् दण्डवत्पतिता भुवि ॥५॥ हे भूमिदेवाः शृणुत कृष्णस्यादेशकारिणः। प्राप्ताञ्जानीत भद्रं वो गोपान्नो रामचोदितान् ॥६॥ गाश्चारयन्तावविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ। तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः ॥७॥ दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः। अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥८॥ इति ते भगवद्याच्ञां शृण्वन्तोऽपि न शुश्रुवुः। क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥९॥ देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः। देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥१०॥ तं ब्रह्म परमं साक्षाद्भगवन्तमधोक्षजम्। मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥११॥ न ते यदोमिति प्रोचुर्न नेति च परन्तप। गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥१२॥ तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः। व्याजहार पुनर्गोपान् दर्शयन् लौकिकीं गतिम्॥१३॥ मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम्। दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया॥१४॥ गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलङ्कृताः। नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ॥१५॥ नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः। इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥१६॥ गाश्चारयन् स गोपालैः सरामो दूरमागतः। बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥१७॥ श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुकाः। तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥१८॥ चतुर्विधं बहुगुणमन्नमादाय भाजनैः। अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ॥१९॥ निषिध्यमानाः पतिभिर्भ्रातृभिर्बन्धुभिः सुतैः। भगवत्युत्तमश्लोके दीर्घश्रुतधृताशयाः ॥२०॥ यमुनोपवनेऽशोकनवपल्लवमण्डिते। विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥२१॥ श्यामं हिरण्यपरिधिं वनमाल्यबर्ह- धातुप्रवालनटवेषमनुव्रतांसे । विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालककपोलमुखाब्जहासम् ॥२२॥ प्रायः श्रुतप्रियतमोदयकर्णपूरैर्यस्मिन् निमग्नमनसस्तमथाक्षिरन्ध्रैः । अन्तः प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥२३॥ तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया। विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ॥२४॥ स्वागतं वो महाभागा आस्यतां करवाम किम्। यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः ॥२५॥ नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः। अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥२६॥ प्राणबुद्धिमनःस्वात्मदारापत्यधनादयः। यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः॥२७॥ तद्यात देवयजनं पतयो वो द्विजातयः। स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ॥२८॥ पत्न्य ऊचुः मैवं विभोऽर्हति भवान् गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पदमूलम् । प्राप्ता वयं तुलसिदामपदावसृष्टं केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून् ॥२९॥ गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये । तस्माद्भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद्गतिररिन्दम तद्विधेहि ॥३०॥ श्रीभगवानुवाच पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः। लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥३१॥ न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह। तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ ॥३२॥ (श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात्। न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥) श्रीशुक उवाच इत्युक्ता द्विजपत्न्यस्ता यज्ञवाटं पुनर्गताः। ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् ॥३३॥ तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम्। हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥३४॥ भगवानपि गोविन्दस्तेनैवान्नेन गोपकान्। चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥३५॥ एवं लीलानरवपुर्नृलोकमनुशीलयन्। रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतैः ॥३६॥ अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः। यद्विश्वेश्वरयोर्याच्ञामहन्म नृविडम्बयोः ॥३७॥ दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम्। आत्मानं च तया हीनमनुतप्ता व्यगर्हयन् ॥३८॥ धिग्जन्म नस्त्रिवृद्विद्यां धिग्व्रतं धिग्बहुज्ञताम्। धिक्कुलं धिक्क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥३९॥ नूनं भगवतो माया योगिनामपि मोहिनी। यद्वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥४०॥ अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ। दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान्॥४१॥ नासां द्विजातिसंस्कारो न निवासो गुरावपि। न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः॥४२॥ अथापि ह्युत्तमश्लोके कृष्णे योगेश्वरेश्वरे। भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥४३॥ ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया। अहो नः स्मारयामास गोपवाक्यैः सतां गतिः॥४४॥ अन्यथा पूर्णकामस्य कैवल्याद्याशिषां पतेः। ईशितव्यैः किमस्माभिरीशस्यैतद्विडम्बनम् ॥४५॥ हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत्। आत्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥४६॥ देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः। देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥४७॥ स एष भगवान् साक्षाद्विष्णुर्योगेश्वरेश्वरः। जातो यदुष्वित्यशृण्म ह्यपि मूढा न विद्महे ॥४८॥ अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः । भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ ॥ ४९॥ नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे। यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ॥५०॥ स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम्। अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥५१॥ इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः। दिदृक्षवोऽप्यच्युतयोः कंसाद्भीता न चाचलन् ॥५२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धारणं नाम त्रयोविंशोऽध्यायः॥२३॥

॥ चतुर्विंशोऽध्यायः - २४ ॥

श्रीशुक उवाच भगवानपि तत्रैव बलदेवेन संयुतः। अपश्यन्निवसन् गोपानिन्द्रयागकृतोद्यमान् ॥१॥ तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः। प्रश्रयावनतोऽपृच्छद् वृद्धान् नन्दपुरोगमान् ॥२॥ कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः। किं फलं कस्य चोद्देशः केन वा साध्यते मखः॥३॥ एतद्ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः। न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ॥४॥ अस्त्यस्वपरदृष्टीनाममित्रोदास्तविद्विषाम्। उदासीनोऽरिवद्वर्ज्य आत्मवत्सुहृदुच्यते ॥५॥ ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति। विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ॥६॥ तत्र तावत्क्रियायोगो भवतां किं विचारितः। अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम् ॥७॥ नन्द उवाच पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः। तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥८॥ तं तात वयमन्ये च वार्मुचां पतिमीश्वरम्। द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः ॥९॥ तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे। पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ॥१०॥ य एवं विसृजेद्धर्मं पारम्पर्यागतं नरः। कामाल्लोभाद्भयाद्द्वेषात्स वै नाप्नोति शोभनम् ॥११॥ श्रीशुक उवाच वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम्। इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥१२॥ श्रीभगवानुवाच कर्मणा जायते जन्तुः कर्मणैव विलीयते। सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥१३॥ अस्ति चेदीश्वरः कश्चित्फलरूप्यन्यकर्मणाम्। कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥१४॥ किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम्। अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ॥१५॥ स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते। स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥१६॥ देहानुच्चावचाञ्जन्तुः प्राप्योत्सृजति कर्मणा। शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥१७॥ तस्मात्सम्पूजयेत्कर्म स्वभावस्थः स्वकर्मकृत्। अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥१८॥ आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति। न तस्माद्विन्दते क्षेमं जारं नार्यसती यथा ॥१९॥ वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः। वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया ॥२०॥ कृषिवाणिज्यगोरक्षा कुसीदं तुर्यमुच्यते। वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥२१॥ सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः। रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥२२॥ रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः। प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति ॥२३॥ न नः पुरो जनपदा न ग्रामा न गृहा वयम्। नित्यं वनौकसस्तात वनशैलनिवासिनः ॥२४॥ तस्माद्गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः। य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः ॥२५॥ पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः। संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् ॥२६॥ हूयन्तामग्नयः सम्यग्ब्राह्मणैर्ब्रह्मवादिभिः। अन्नं बहुविधं तेभ्यो देयं वो धेनुदक्षिणाः ॥२७॥ अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो यथार्हतः। यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥२८॥ स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः। प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥२९॥ एतन्मम मतं तात क्रियतां यदि रोचते। अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥३०॥ श्रीशुक उवाच कालात्मना भगवता शक्रदर्पं जिघांसता। प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः ॥३१॥ तथा च व्यदधुः सर्वं यथाह मधुसूदनः। वाचयित्वा स्वस्त्ययनं तद्द्रव्येण गिरिद्विजान् ॥३२॥ उपहृत्य बलीन् सर्वानादृता यवसं गवाम्। गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥३३॥ अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः। गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः॥३४॥ कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः। शैलोऽस्मीति ब्रुवन् भूरि बलिमादद्बृहद्वपुः ॥३५॥ तस्मै नमो व्रजजनैः सह चक्रे आत्मनाऽऽत्मने। अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात्॥३६॥ एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः। हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम्॥३७॥ इत्यद्रिगोद्विजमखं वासुदेवप्रणोदिताः। यथा विधाय ते गोपा सह कृष्णा व्रजं ययुः ॥३८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः॥ २४ ॥

॥ पञ्चविंशोऽध्यायः - २५ ॥

श्रीशुक उवाच इन्द्रस्तदात्मनः पूजां विज्ञाय विहतां नृप। गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप सः ॥१॥ गणं सांवर्तकं नाम मेघानां चान्तकारिणाम्। इन्द्रः प्राचोदयत्क्रुद्धो वाक्यं चाहेशमान्युत ॥२॥ अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम्। कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥३॥ यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः। विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम्॥४॥ २ वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम्। कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥५॥ एषां श्रियावलिप्तानां कृष्णेनाध्मायितात्मनाम्। धुनुत श्रीमदस्तम्भं पशून् नयत सङ्क्षयम् ॥६॥ अहं चैरावतं नागमारुह्यानुव्रजे व्रजम्। मरुद्गणैर्महावीर्यैर्नन्दगोष्ठजिघांसया ॥७॥ श्रीशुक उवाच इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः। नन्दगोकुलमासारैः पीडयामासुरोजसा ॥८॥ विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः। तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः ॥९॥ स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णशः। जलौघैः प्लाव्यमाना भूर्नादृश्यत नतोन्नतम् ॥१०॥ अत्यासारातिवातेन पशवो जातवेपनाः। गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥११॥ शिरः सुतांश्च कायेन प्रच्छाद्यासारपीडिताः। वेपमाना भगवतः पादमूलमुपाययुः ॥१२॥ कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो। त्रातुमर्हसि देवान्नः कुपिताद्भक्तवत्सल ॥१३॥ शिलावर्षनिपातेन हन्यमानमचेतनम्। निरीक्ष्य भगवान्मेने कुपितेन्द्रकृतं हरिः ॥१४॥ अपर्त्वत्युल्बणं वर्षमतिवातं शिलामयम्। स्वयागे विहतेऽस्माभिरिन्द्रो नाशाय वर्षति ॥१५॥ तत्र प्रतिविधिं सम्यगात्मयोगेन साधये। लोकेशमानिनां मौढ्याद्धरिष्ये श्रीमदं तमः ॥१६॥ न हि सद्भावयुक्तानां सुराणामीशविस्मयः। मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते ॥१७॥ तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम्। गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥१८॥ इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम्। दधार लीलया कृष्णश्छत्राकमिव बालकः - सगोनासंगोगो॥१९॥ अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः। यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥२०॥ न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने। वातवर्षभयेनालं तत्त्राणं विहितं हि वः ॥२१॥ तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसाः। यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥२२॥ क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः। वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत्पदात् ॥२३॥ कृष्णयोगानुभावं तं निशाम्येन्द्रोऽतिविस्मितः। निःस्तम्भो भ्रष्टसङ्कल्पः स्वान्मेघान् सन्न्यवारयत् ॥२४॥ खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम्। निशाम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥२५॥ निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः। उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥२६॥ ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम्। शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥२७॥ भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः। पश्यतां सर्वभूतानां स्थापयामास लीलया ॥२८॥ तं प्रेमवेगान्निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः । गोप्यश्च सस्नेहमपूजयन्मुदा दध्यक्षताद्भिर्युयुजुः सदाशिषः ॥२९॥ यशोदा रोहिणी नन्दो रामश्च बलिनां वरः। कृष्णमालिङ्ग्य युयुजुराशिषः स्नेहकातराः ॥३०॥ दिवि देवगणाः साध्याः सिद्धगन्धर्वचारणाः। तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ॥३१॥ शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः। जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ॥३२॥ ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स गोष्ठं सबलोऽव्रजद्धरिः। तथाविधान्यस्य कृतानि गोपिकाः गायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥३३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्ययः॥२५॥

॥ षड्विंशोऽध्यायः - २६ ॥

श्रीशुक उवाच एवं विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते। अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥१॥ बालकस्य यदेतानि कर्माण्यत्यद्भुतानि वै। कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ॥२॥ यः सप्तहायनो बालः करेणैकेन लीलया। कथं बिभ्रद्गिरिवरं पुष्करं गजराडिव ॥३॥ तोकेनामीलिताक्षेण पूतनाया महौजसः। पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः ॥४॥ हिन्वतोऽधःशयानस्य मास्यस्य चरणावुदक्। अनोऽपतद्विपर्यस्तं रुदतः प्रपदाहतम् ॥५॥ एकहायन आसीनो ह्रियमाणो विहायसा। दैत्येन यस्तृणावर्तमहन् कण्ठग्रहातुरम् ॥६॥ क्वचिद्धैयङ्गवस्तैन्ये मात्रा बद्ध उदूखले। गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ॥७॥ वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः। हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् ॥८॥ वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया। हत्वा न्यपातयत्तेन कपित्थानि च लीलया ॥९॥ हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः। चक्रे तालवनं क्षेमं परिपक्वफलान्वितम् ॥१०॥ प्रलम्बं घातयित्वोग्रं बलेन बलशालिना। अमोचयद्व्रजपशून् गोपांश्चारण्यवह्नितः ॥११॥ आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात्। प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् ॥१२॥ दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम्। नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम्॥१३॥ क्व सप्तहायनो बालः क्व महाद्रिविधारणम्। ततो नो जायते शङ्का व्रजनाथ तवात्मजे ॥१४॥ नन्द उवाच श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके। एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥१५॥ वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः। शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥१६॥ प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः। वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥१७॥ बहूनि सन्ति नामानि रूपाणि च सुतस्य ते। गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥१८॥ एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः। अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥१९॥ पुरानेन व्रजपते साधवो दस्युपीडिताः। अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥२०॥ य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः। नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥२१॥ तस्मान्नन्द कुमारोऽयं नारायणसमो गुणैः। श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः ॥२२॥ इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते। मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम् ॥२३॥ इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः। दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः। मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः ॥२४॥ देवे वर्षति यज्ञविप्लवरुषा वज्राश्मपर्षानिलैः सीदत्पालपशुस्त्रि आत्मशरणं दृष्ट्वानुकम्प्युत्स्मयन् । उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा बिभ्रद्गोष्ठमपान्महेन्द्रमदभित्प्रीयान्न इन्द्रो गवाम् ॥२५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षड्विंशोऽध्यायः॥२६॥

॥ सप्तविंशोऽध्यायः -२७ ॥

श्रीशुक उवाच गोवर्धने धृते शैले आसाराद्रक्षिते व्रजे। गोलोकादाव्रजत्कृष्णं सुरभिः शक्र एव च ॥१॥ विविक्त उपसङ्गम्य व्रीडीतः कृतहेलनः। पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥२॥ दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः। नष्टत्रिलोकेशमद इन्द्र आह कृताञ्जलिः ॥३॥ इन्द्र उवाच विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम्। मायामयोऽयं गुणसम्प्रवाहो न विद्यते तेऽग्रहणानुबन्धः ॥४॥ कुतो नु तद्धेतव ईश तत्कृता लोभादयो येऽबुधलिङ्गभावाः। तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥५॥ पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः। हिताय चेच्छातनुभिः समीहसे मानं विधुन्वन् जगदीशमानिनाम् ॥६॥ ये मद्विधाज्ञा जगदीश मानिनस्त्वां वीक्ष्य कालेऽभयमाशु तन्मदम्। हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया ईहा खलानामपि तेऽनुशासनम् ॥७॥ स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्तेऽविदुषः प्रभावम्। क्षन्तुं प्रभोऽथार्हसि मूढचेतसो मैवं पुनर्भून्मतिरीश मेऽसती ॥८॥ तवावतारोऽयमधोक्षजेह स्वयम्भराणामुरुभारजन्मनाम्। चमूपतीनामभवाय देव भवाय युष्मच्चरणानुवर्तिनाम् ॥९॥ नमस्तुभ्यं भगवते पुरुषाय महात्मने। वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥१०॥ स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये। सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥११॥ मयेदं भगवन् गोष्ठनाशायासारवायुभिः। चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥१२॥ त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः। ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः ॥१३॥ श्रीशुक उवाच एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम्। मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् ॥१४॥ श्रीभगवानुवाच मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता। मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥१५॥ मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति। तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥१६॥ गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम्। स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः ॥१७॥ अथाह सुरभिः कृष्णमभिवन्द्य मनस्विनी। स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् ॥१८॥ सुरभिरुवाच कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव। भवता लोकनाथेन सनाथा वयमच्युत ॥१९॥ त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते। भवाय भव गोविप्रदेवानां ये च साधवः ॥२०॥ इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा नोदिता वयम्। अवतीर्णोऽसि विश्वात्मन् भूमेर्भारापनुत्तये ॥२१॥ श्रीशुक उवाच एवं कृष्णमुपामन्त्र्य सुरभिः पयसाऽऽत्म नः। जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः ॥२२॥ इन्द्रः सुरर्षिभिः साकं नोदितो देवमातृभिः। अभ्यषिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥२३॥ सगोनासंगोगो तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः। जगुर्यशो लोकमलापहं हरेः सुराङ्गनाः सन्ननृतुर्मुदान्विताः ॥२४॥ तं तुष्टुवुर्देवनिकायकेतवो ह्यवाकिरंश्चाद्भुतपुष्पवृष्टिभिः। लोकाः परां निर्वृतिमाप्नुवंस्त्रयो गावस्तदा गामनयन् पयोद्रुताम् ॥२५॥ नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः। अकृष्टपच्यौषधयो गिरयोऽबिभ्रदुन्मणीन् ॥२६॥ कृष्णेऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन। निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः ॥२७॥ इति गोगोकुलपतिं गोविन्दमभिषिच्य सः। अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥२८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः ॥ २७॥ अष्टाविंशोऽध्यायः-२८ श्रीशुक उवाच एकादश्यां निराहारः समभ्यर्च्य जनार्दनम्। स्नातुं नन्दस्तु कालिन्द्या द्वादश्यां जलमाविशत्॥१॥ तं गृहीत्वानयद्भृत्यो वरुणस्यासुरोऽन्तिकम्। अविज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥२॥ चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः। भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम्। तदन्तिकं गतो राजन् स्वानामभयदो विभुः ॥३॥ प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया। महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः ॥४॥ वरुण उवाच अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो। त्वत्पादभाजो भगवन्नवापुः पारमध्वनः ॥५॥ नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने। न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥६॥ अजानता मामकेन मूढेनाकार्यवेदिना। आनीतोऽयं तव पिता तद्भवान् क्षन्तुमर्हति ॥७॥ ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषदृक्। गोविन्द नीयतामेष पिता ते पितृवत्सल ॥८॥ श्रीशुक उवाच एवं प्रसादितः कृष्णो भगवानीश्वरेश्वरः। आदायागात्स्वपितरं बन्धूनां चावहन् मुदम् ॥९॥ नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम्। कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत्॥१०॥ ते त्वौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम्। अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः ॥११॥ इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम्। सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥१२॥ जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः। उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥१३॥ इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः। दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥१४॥ सत्यं ज्ञानमनन्तं यद्ब्रह्म ज्योतिः सनातनम्। यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥१५॥ ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः। ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात्पुरा ॥१६॥ नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः। कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः॥१७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टादशोऽध्यायः ॥२८॥

॥ एकोनत्रिंशोऽध्यायः - २९ ॥

श्रीशुक उवाच भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः। वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥१॥ तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः। स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥२॥ दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं रमाननाभं नवकुङ्कुमारुणम् वनं च तत्कोमलगोभिरञ्जितं जगौ कलं वामदृशां मनोहरम् ॥३॥ निशम्य गीतं तदनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः। आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥४॥ दुहन्त्योऽभिययुः काश्चिद्दोहं हित्वा समुत्सुकाः। पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः ॥५॥ परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः। शुश्रूषन्त्यः पतीन् काश्चिदश्नन्त्योऽपास्य भोजनम्॥६॥ लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने। व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः॥७॥ ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः। गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥८॥ अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः। कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥९॥ दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः। ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥१०॥ तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः। जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥११॥ राजोवाच कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने। गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥१२॥ श्रीशुक उवाच उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः। द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥१३॥ नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप। अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥१४॥ कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च। नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥१५॥ न चैवं विस्मयः कार्यो भवता भगवत्यजे। योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते ॥१६॥ ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः। अवदद्वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥१७॥ श्रीभगवानुवाच स्वागतं वो महाभागाः प्रियं किं करवाणि वः। व्रजस्यानामयं कच्चिद्ब्रूतागमनकारणम् ॥१८॥ रजन्येषा घोररूपा घोरसत्त्वनिषेविता। प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥१९॥ मातरः पितरः पुत्रा भ्रातरः पतयश्च वः। विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम्॥२०॥ दृष्टं वनं कुसुमितं राकेशकररञ्जितम्। यमुनानिललीलैजत्तरुपल्लवशोभितम् ॥२१॥ तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः। क्रन्दन्ति वत्सा बालाश्च तान्पाययत दुह्यत ॥२२॥ अथ वा मदभिस्नेहाद्भवत्यो यन्त्रिताशयाः। आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥२३॥ भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया। तद्बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् ॥२४॥ दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा। पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥२५॥ अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम्। जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥२६॥ श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात्। न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥२७॥ श्रीशुक उवाच इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम्। विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम् ॥२८॥ कृत्वा मुखान्यव शुचः श्वसनेन शुष्य- द्बिम्बाधराणि चरणेन भुवं लिखन्त्यः । अस्रैरुपात्तमषिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥२९॥ प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्थविनिवर्तितसर्वकामाः । नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः ॥३०॥ गोप्य ऊचुः मैवं विभोऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तवपादमूलम् । भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून् ॥३१॥ यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥३२॥ कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् । तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या आशां धृतां त्वयि चिरादरविन्दनेत्र ॥३३॥ चित्तं सुखेन भवतापहृतं गृहेषु यन्निर्विशत्युत करावपि गृह्यकृत्ये । पादौ पदं न चलतस्तव पादमूलाद्यामः कथं व्रजमथो करवाम किं वा ॥३४॥ सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् । नो चेद्वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ॥३५॥ यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य । अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातुं त्वयाभिरमिता बत पारयामः ॥३६॥ श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् । यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयासः तद्वद्वयं च तव पादरजः प्रपन्नाः ॥३७॥ तन्नः प्रसीद वृजिनार्दन तेऽङ्घ्रिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः । त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम- तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥३८॥ वीक्ष्यालकावृतमुखं तव कुण्डलश्री- गण्डस्थलाधरसुधं हसितावलोकम् । दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षःश्रियैकरमणं च भवाम दास्यः ॥३९॥ का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन सम्मोहिताऽऽर्यचरितान्न चलेत्त्रिलोक्याम् । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥४०॥ व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता । तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ॥४१॥ श्रीशुक उवाच इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः। प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥४२॥ ताभिः समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः। उदारहासद्विजकुन्ददीधति- र्व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥४३॥ उपगीयमान उद्गायन् वनिताशतयूथपः। मालां बिभ्रद्वैजयन्तीं व्यचरन्मण्डयन् वनम् ॥४४॥ नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम्। रेमे तत्तरलानन्दकुमुदामोदवायुना ॥४५॥ बाहुप्रसारपरिरम्भकरालकोरु- नीवीस्तनालभननर्मनखाग्रपातैः। क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणा- मुत्तम्भयन् रतिपतिं रमयांचकार ॥४६॥ एवं भगवतः कृष्णाल्लब्धमाना महात्मनः। आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि॥४७॥ तासां तत्सौभगमदं वीक्ष्य मानं च केशवः। प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥४८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नाम एकोनत्रिंशोऽध्यायः॥ २९ ॥ त्रिंशोऽध्यायः- ३० श्रीशुक उवाच अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः। अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥१॥ गत्यानुरागस्मितविभ्रमेक्षितै- र्मनोरमालापविहारविभ्रमैः। आक्षिप्तचित्ताः प्रमदा रमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥२॥ गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः। असावहं त्वित्यबलास्तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः ॥३॥ गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद्वनाद्वनम्। पप्रच्छुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥४॥ दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः। नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः ॥५॥ कच्चित्कुरबकाशोकनागपुन्नागचम्पकाः। रामानुजो मानिनीनामितो दर्पहरस्मितः ॥६॥ कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये। सह त्वालिकुलैर्बिभ्रद्दृष्टस्तेऽतिप्रियोऽच्युतः ॥७॥ मालत्यदर्शि वः कच्चिन्मल्लिके जाति यूथिके। प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ॥८॥ चूतप्रियालपनसासनकोविदार- जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः। येऽन्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥९॥ किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि- स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि । अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भणेन ॥१०॥ अप्येणपत्न्युपगतः प्रिययेह गात्रै- स्तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥११॥ बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः । अन्वीयमान इह वस्तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥१२॥ पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः। नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥१३॥ इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः। लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥१४॥ कस्याश्चित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनम्। तोकायित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥१५॥ दैत्यायित्वा जहारान्यामेका कृष्णार्भभावनाम्। रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः ॥१६॥ कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन। वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥१७॥ आहूय दूरगा यद्वत्कृष्णस्तमनुकुर्वतीम्। वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति॥१८॥ कस्याञ्चित्स्वभुजं न्यस्य चलन्त्याहापरा ननु। कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः ॥१९॥ मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मया। इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥२०॥ आरुह्यैका पदाऽऽक्रम्य शिरस्याहापरां नृप। दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डधृक् ॥२१॥ तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम्। चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥२२॥ (बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले।) बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति। भीता सुदृक् पिधायास्यं भेजे भीतिविडम्बनम् ॥२३॥ एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून्। व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥२४॥ पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः। लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभिः ॥२५॥ तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः। वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन्॥२६॥ कस्याः पदानि चैतानि याताया नन्दसूनुना। अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥२७॥ अनयाऽऽराधितो नूनं भगवान् हरिरीश्वरः। यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः ॥२८॥ धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः। यान् ब्रह्मेशौ रमादेवी दधुर्मूर्ध्न्यघनुत्तये ॥२९॥ तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्। यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥३०॥ न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः । खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥३१॥ इमान्यधिकमग्नानि पदानि वहतो वधूम्। गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः॥३२॥ अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना। अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः। प्रपदाक्रमणे एते पश्यतासकले पदे ॥३३॥ केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम्। तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥३४॥ रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः। कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥३५॥ इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः। यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ॥३६॥ सा च मेने तदाऽऽत्मानं वरिष्ठं सर्वयोषिताम्। हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥३७॥ ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत्। न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥३८॥ एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति। ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥३९॥ हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज। दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥४०॥ अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरितः। ददृशुः प्रियविश्लेषमोहितां दुःखितां सखीम् ॥४१॥ तया कथितमाकर्ण्य मानप्राप्तिं च माधवात्। अवमानं च दौरात्म्याद्विस्मयं परमं ययुः ॥४२॥ ततोऽविशन् वनं चन्द्रज्योत्स्ना यावद्विभाव्यते। तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥४३॥ तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः। तद्गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः॥४४॥ पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः। समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः ॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां कृष्णान्वेषणं नाम त्रिंशोऽध्यायः॥ ३० ॥

॥ एकत्रिंशोऽध्यायः - ३१ ॥

गोप्य ऊचुः जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि। दयित दृश्यतां दिक्षु तावकास्त्वयि धृतासवस्त्वां विचिन्वते ॥१॥ शरदुदाशये साधुजातस- त्सरसिजोदर श्रीमुषा दृशा। सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥२॥ विषजलाप्ययाद्व्यालराक्षसा- द्वर्षमारुताद्वैद्युतानलात्। वृषमयात्मजाद्विश्वतोभयादृषभ ते वयं रक्षिता मुहुः ॥३॥ न खलु गोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक्। विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥४॥ विरचिताभयं वृष्णिधुर्य ते चरणमीयुषां संसृतेर्भयात्। करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥५॥ व्रजजनार्तिहन् वीरयोषितां निजजनस्मयध्वंसनस्मित। भज सखे भवत्किङ्करीः स्म नो जलरुहाननं चारु दर्शय ॥६॥ प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम्। फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥७॥ मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण। विधिकरीरिमा वीर मुह्यती- रधरसीधुनाऽऽप्याययस्व नः ॥८॥ तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम्। श्रवणमङ्गलं श्रीमदाततं भुविगृणन्ति ते भूरिदा जनाः ॥९॥ प्रहसितं प्रियप्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम्। रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयन्ति हि ॥१०॥ चलसि यद्व्रजाच्चारयन् पशून् नलिनसुन्दरं नाथ ते पदम्। शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥११॥ दिनपरिक्षये नीलकुन्तलै- र्वनरुहाननं बिभ्रदावृतम्। घनरजस्वलं दर्शयन् मुहुर्मनसि नः स्मरं वीर यच्छसि ॥१२॥ प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि। चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन् ॥१३॥ सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम्। इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥१४॥ अटति यद्भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम्। कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥१५॥ पतिसुतान्वयभ्रातृबान्धवा- नतिविलङ्घ्य तेऽन्त्यच्युतागताः। गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥१६॥ रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम्। बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरति स्पृहा मुह्यते मनः ॥१७॥ व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम्। त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥१८॥ यत्ते सुजात चरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद्व्यथते न किंस्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥१९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपिकागीतं नामैकत्रिंशोऽध्यायः ॥३१॥

॥ द्वात्रिंशोऽध्यायः - ३२ ॥

श्रीशुक उवाच इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा। रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥१॥ तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः। पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥२॥ सगोनासंगोगो तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः। उत्तस्थुर्युगपत्सर्वास्तन्वः प्राणमिवागतम् ॥३॥ काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा। काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ॥४॥ काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम्। एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥५॥ एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला। घ्नन्तीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा ॥६॥ अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम्। आपीतमपि नातृप्यत्सन्तस्तच्चरणं यथा ॥७॥ तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च। पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥८॥ सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः। जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥९॥ ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः। व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥१०॥ ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः। विकसत्कुन्दमन्दारसुरभ्यनिलषट्पदम् ॥११॥ शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम्। कृष्णाया हस्ततरलाचितकोमलवालुकम् ॥१२॥ तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः। स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितै- रचीकॢपन्नासनमात्मबन्धवे ॥१३॥ तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः। चकास गोपीपरिषद्गतोऽर्चित- स्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥१४॥ सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा। संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे ॥१५॥ गोप्य ऊचुः भजतोऽनुभजन्त्येक एक एतद्विपर्ययम्। नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥१६॥ श्रीभगवानुवाच मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते। न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥१७॥ भजन्त्यभजतो ये वै करुणाः पितरौ यथा। धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥२८॥ भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः। आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥१९॥ नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये। यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद ॥२०॥ एवं मदर्थोज्झितलोकवेदस्वानां हि वो मय्यनुवृत्तयेऽबलाः। मया परोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत्प्रियं प्रियाः ॥२१॥ न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः। या माभजन् दुर्जरगेहशृङ्खलाः संवृश्च्य तद्वः प्रतियातु साधुना ॥२२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वर्धे रासक्रीडायां गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः ॥३२॥

॥ त्रयस्त्रिंशोऽध्यायः ३३ ॥

श्रीशुक उवाच इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः। जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥१॥ तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः। स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ॥२॥ रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः। योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः। प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ॥३॥ यं मन्येरन् नभस्तावद्विमानशतसङ्कुलम्। दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥४॥ ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः। जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् ॥५॥ वलयानां नूपुराणां किङ्किणीनां च योषिताम्। सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥६॥ तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः। मध्ये मणीनां हैमानां महामरकतो यथा ॥७॥ पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः भज्यन् मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः । स्विद्यन् मुख्यः कबररशनाग्रन्थयः कृष्णवध्वो गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥८॥ उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः। कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥९॥ काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः। उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति। तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥१०॥ काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः। जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥११॥ तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम्। चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥१२॥ कस्याश्चिन्नाट्यविक्षिप्तकुण्डलत्विषमण्डितम्। गण्डं गण्डे सन्दधत्या अदात्ताम्बूलचर्वितम् ॥१३॥ नृत्यन्ती गायती काचित्कूजन्नूपुरमेखला। पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयोः शिवम् ॥१४॥ गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम्। गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥१५॥ कर्णोत्पलालकविटङ्ककपोलघर्म- वक्त्रश्रियो वलयनूपुरघोषवाद्यैः । गोप्यः समं भगवता ननृतुः स्वकेश- स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥१६॥ एवं परिष्वङ्गकराभिमर्श- स्निग्धेक्षणोद्दामविलासहासैः। रेमे रमेशो व्रजसुन्दरीभि- र्यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥१७॥ तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुचपट्टिकां वा। नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह ॥१८॥ कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः। कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत्॥१९॥ कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः। रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥२०॥ तासामतिविहारेण श्रान्तानां वदनानि सः। प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्गपाणिना ॥२१॥ गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्- गण्डश्रिया सुधितहासनिरीक्षणेन । मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥२२॥ ताभिर्युतः श्रममपोहितुमङ्गसङ्ग- घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः । गन्धर्वपालिभिरनुद्रुत आविशद्वाः श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥२३॥ सोऽम्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग । वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥२४॥ ततश्च कृष्णोपवने जलस्थल- प्रसूनगन्धानिलजुष्टदिक्तटे। चचार भृङ्गप्रमदागणावृतो यथा मदच्युद्द्विरदः करेणुभिः ॥२५॥ एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः। सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः ॥२६॥ राजोवाच संस्थापनाय धर्मस्य प्रशमायेतरस्य च। अवतीर्णो हि भगवानंशेन जगदीश्वरः ॥२७॥ स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता। प्रतीपमाचरद्ब्रह्मन् परदाराभिमर्शनम् ॥२८॥ आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम्। किमभिप्राय एतं नः संशयं छिन्धि सुव्रत ॥२९॥ श्रीशुक उवाच धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम्। तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥३०॥ नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः। विनश्यत्याचरन् मौढ्याद्यथा रुद्रोऽब्धिजं विषम्॥३१॥ ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित्। तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ॥३२॥ कुशलाचरितेनैषामिह स्वार्थो न विद्यते। विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥३३॥ किमुताखिलसत्त्वानां तिर्यङ्मर्त्यदिवौकसाम्। ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥३४॥ यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः । स्वैरं चरन्ति मुनयोऽपि न नह्यमाना- स्तस्येच्छयात्तवपुषः कुत एव बन्धः ॥३५॥ गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम्। योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥३६॥ अनुग्रहाय भूतानां मानुषं देहमास्थितः। भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत्॥३७॥ नासूयन् खलु कृष्णाय मोहितास्तस्य मायया। मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः॥३८॥ ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः। अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥३९॥ विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुशृणुयादथ वर्णयेद्यः । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

॥ चतुस्त्रिंशोऽध्यायः - ३४ ॥

श्रीशुक उवाच एकदा देवयात्रायां गोपाला जातकौतुकाः। अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम् ॥१॥ तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम्। आनर्चुरर्हणैर्भक्त्या देवीं च नृपतेऽम्बिकाम् ॥२॥ गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः। ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति ॥३॥ ऊषुः सरस्वतीतीरे जलं प्राश्य धृतव्रताः। रजनीं तां महाभागा नन्दसुनन्दकादयः ॥४॥ कश्चिन्महानहिस्तस्मिन् विपिनेऽतिबुभुक्षितः। यदृच्छयाऽऽगतो नन्दं शयानमुरगोऽग्रसीत् ॥५॥ स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम्। सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥६॥ तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः। ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः ॥७॥ अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः। तमस्पृशत्पदाभ्येत्य भगवान् सात्वतां पतिः ॥८॥ स वै भगवतः श्रीमत्पादस्पर्शहताशुभः। भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ॥९॥ तमपृच्छद्धृषीकेशः प्रणतं समुपस्थितम्। दीप्यमानेन वपुषा पुरुषं हेममालिनम् ॥१०॥ को भवान् परया लक्ष्म्या रोचतेऽद्भुतदर्शनः। कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः ॥११॥ सर्प उवाच अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः। श्रिया स्वरूपसम्पत्त्या विमानेनाचरं दिशः ॥१२॥ ऋषीन् विरूपानङ्गिरसः प्राहसं रूपदर्पितः। तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना ॥१३॥ शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः। यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः ॥१४॥ तं त्वाहं भवभीतानां प्रपन्नानां भयापहम्। आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन् ॥१५॥ प्रपन्नोऽस्मि महायोगिन् महापुरुष सत्पते। अनुजानीहि मां देव सर्वलोकेश्वरेश्वर ॥१६॥ ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात्। यन्नाम गृह्णन्नखिलान् श्रोतॄनात्मानमेव च। सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते ॥१७॥ इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च। सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः ॥१८॥ निशाम्य कृष्णस्य तदात्मवैभवं व्रजौकसो विस्मितचेतसस्ततः । समाप्य तस्मिन्नियमं पुनर्व्रजं नृपाययुस्तत्कथयन्त आदृताः ॥१९॥ कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः। विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥२०॥ उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः। स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विणौ विरजोऽम्बरौ ॥२१॥ निशामुखं मानयन्तावुदितोडुपतारकम्। मल्लिकागन्धमत्तालिजुष्टं कुमुदवायुना ॥२२॥ जगतुः सर्वभूतानां मनःश्रवणमङ्गलम्। तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम् ॥२३॥ गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन् नृप। स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः ॥२४॥ एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत्। शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ॥२५॥ तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम्। क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः ॥२६॥ क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम्। यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् ॥२७॥ मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ। आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ॥२८॥ स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन्। विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया ॥२९॥ तमन्वधावद्गोविन्दो यत्र यत्र स धावति। जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बलः ॥३०॥ अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः। जहार मुष्टिनैवाङ्ग सहचूडामणिं विभुः ॥३१॥ शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम्। अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम्॥३२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

॥ पञ्चत्रिंशोऽध्यायः - ३५ ॥

श्रीशुक उवाच गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः। कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥१॥ गोप्य ऊचुः वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम्। कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ॥२॥ व्योमयानवनिताः सहसिद्धै- र्विस्मितास्तदुपधार्य सलज्जाः। काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥३॥ हन्त चित्रमबलाः शृणुतेदं हारहास उरसि स्थिरविद्युत्। नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः ॥४॥ वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात्। दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन् ॥५॥ बर्हिणस्तबकधातुपलाशै- र्बद्धमल्लपरिबर्हविडम्बः। कर्हिचित्सबल आलि सगोपैर्गाः समाह्वयति यत्र मुकुन्दः ॥६॥ तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम्। स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः ॥७॥ अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः। वनचरो गिरितटेषु चरन्ती- र्वेणुनाऽऽह्वयति गाः स यदा हि ॥८॥ वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः। प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवः ससृजुः स्म ॥९॥ दर्शनीयतिलको वनमाला- दिव्यगन्धतुलसीमधुमत्तैः। अलिकुलैरलघुगीतमभीष्ट- माद्रियन् यर्हि सन्धितवेणुः ॥१०॥ सरसि सारसहंसविहङ्गा- श्चारुगीतहृतचेतस एत्य। हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ॥११॥ सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः। हर्षयन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥१२॥ महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः। सुहृदमभ्यवर्षत्सुमनोभि- श्छायया च विदधत्प्रतपत्रम् ॥१३॥ विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः। तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत्स्वरजातीः ॥१४॥ सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः। कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः ॥१५॥ निजपदाब्जदलैर्ध्वजवज्र- नीरजाङ्कुशविचित्रललामैः। व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः ॥१६॥ व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः। कुजगतिं गमिता न विदामः कश्मलेन कबरं वसनं वा ॥१७॥ मणिधरः क्वचिदागणयन् गा मालया दयित गन्धतुलस्याः। प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र ॥१८॥ क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः। गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः ॥१९॥ कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम्। नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिणां विजहार ॥२०॥ मन्दवायुरुपवात्यनकूलं मानयन् मलयजस्पर्शेन। वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः ॥२१॥ वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः। कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः ॥२२॥ उत्सवं श्रमरुचापि दृशीना- मुन्नयन् खुररजश्छुरितस्रक्। दित्सयैति सुहृदाशिष एष देवकीजठरभूरुडुराजः ॥२३॥ मदविघूर्णितलोचन ईषन्मानदः स्वसुहृदां वनमाली। बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥२४॥ यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते। मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम् ॥२५॥ श्रीशुक उवाच एवं व्रजस्त्रियो राजन् कृष्णलीला नु गायतीः। रेमिरेऽहःसु तच्चित्तास्तन्मनस्का महोदयाः ॥२६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः॥ ३५ ॥

॥ षट् त्रिंशोऽध्यायः - ३६ ॥

श्रीशुक उवाच अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुरः। महीं महाककुत्कायः कम्पयन् खुरविक्षताम् ॥१॥ रम्भमाणः खरतरं पदा च विलिखन् महीम्। उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ॥२॥ किञ्चित्किञ्चिच्छकृन्मुञ्चन् मूत्रयन् स्तब्धलोचनः । यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ॥३॥ पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै। निर्विशन्ति घना यस्य ककुद्यचलशङ्कया ॥४॥ तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः। पशवो दुद्रुवुर्भीता राजन् सन्त्यज्य गोकुलम् ॥५॥ कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः। भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम् ॥६॥ मा भैष्टेति गिराऽऽश्वास्य वृषासुरमुपाह्वयत्। गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम ॥७॥ बलदर्पहा दुष्टानां त्वद्विधानां दुरात्मनाम्। इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन् ॥८॥ सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः। सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन्। उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् ॥९॥ अग्रन्यस्तविषाणाग्रः स्तब्धासृग्लोचनोऽच्युतम्। कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा ॥१०॥ गृहीत्वा शृङ्गयोस्तं वा अष्टादश पदानि सः। प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ॥११॥ सोऽपविद्धो भगवता पुनरुत्थाय सत्वरः। आपतत्स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्च्छितः॥१२॥ तमापतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले। निष्पीडयामास यथाऽऽर्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् ॥१३॥ असृग्वमन् मूत्रशकृत्समुत्सृजन् क्षिपंश्च पादाननवस्थितेक्षणः। जगाम कृच्छ्रं निरृतेरथ क्षयं पुष्पैः किरन्तो हरिमीडिरे सुराः ॥१४॥ एवं कुकुद्मिनं हत्वा स्तूयमानः स्वजातिभिः। विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥१५॥ अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा। कंसायाथाह भगवान् नारदो देवदर्शनः ॥१६॥ यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च। रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ॥१७॥ न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः । निशम्य तद्भोजपतिः कोपात्प्रचलितेन्द्रियः ॥१८॥ निशातमसिमादत्त वसुदेवजिघांसया । निवारितो नारदेन तत्सुतौ मृत्युमात्मनः ॥१९॥ ज्ञात्वा लोहमयैः पाशैर्बबन्ध सहभार्यया । प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ॥२०॥ प्रेषयामास हन्येतां भवता रामकेशवौ । ततो मुष्टिकचाणूरशलतोशलकादिकान् ॥२१॥ अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् । भो भो निशम्यतामेतद्वीरचाणूरमुष्टिकौ ॥२२॥ नन्दव्रजे किलासाते सुतावानकदुन्दुभेः । रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ॥२३॥ भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया । मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः। पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ॥२४॥ महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम्। द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥२५॥ आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि। विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ॥२६॥ इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम्। गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥२७॥ भो भो दानपते मह्यं क्रियतां मैत्रमादृतः। नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥२८॥ अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम्। यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभुः ॥२९॥ गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभेः। आसाते ताविहानेन रथेनानय मा चिरम् ॥३०॥ निसृष्टः किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयैः। तावानय समं गोपैर्नन्दाद्यैः साभ्युपायनैः ॥३१॥ घातयिष्य इहानीतौ कालकल्पेन हस्तिना। यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमैः ॥३२॥ तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान्। तद्बन्धून्निहनिष्यामि वृष्णिभोजदशार्हकान् ॥३३॥ उग्रसेनं च पितरं स्थविरं राज्यकामुकं। तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥३४॥ ततश्चैषा मही मित्र भवित्री नष्टकण्टका। जरासन्धो मम गुरुर्द्विविदो दयितः सखा ॥३५॥ शम्बरो नरको बाणो मय्येव कृतसौहृदाः। तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥३६॥ एतज्ज्ञात्वाऽऽनय क्षिप्रं रामकृष्णाविहार्भकौ। धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥३७॥ अक्रूर उवाच राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम्। सिद्ध्यसिद्ध्योः समं कुर्याद्दैवं हि फलसाधनम् ॥३८॥ मनोरथान् करोत्युच्चैर्जनो दैवहतानपि। युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥३९॥ श्रीशुक उवाच एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य सः। प्रविवेश गृहं कंसस्तथाक्रूरः स्वमालयम् ॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसम्प्रेषणं नाम षट्त्रिंशोऽध्यायः ॥ ३६॥

॥ सप्तत्रिंशोऽध्यायः - ३७ ॥

श्रीशुक उवाच केशी तु कंसप्रहितः खुरैर्महीं महाहयो निर्जरयन् मनोजवः । सटावधूताभ्रविमानसङ्कुलं कुर्वन्नभो हेषितभीषिताखिलः ॥१॥ विशालनेत्रो विकटास्यकोटरो बृहद्गलो नीलमहाम्बुदोपमः । दुराशयः कंसहितं चिकीर्षुर्व्रजं स नन्दस्य जगाम कम्पयन् ॥२॥ तं त्रासयन्तं भगवान् स्वगोकुलं तद्धेषितैर्वालविघूर्णिताम्बुदम् । आत्मानमाजौ मृगयन्तमग्रणी- रुपाह्वयत्स व्यनदन्मृगेन्द्रवत् ॥३॥ स तं निशाम्याभिमुखो मुखेन खं पिबन्निवाभ्यद्रवदत्यमर्षणः । जघान पद्भ्यामरविन्दलोचनं दुरासदश्चण्डजवो दुरत्ययः ॥४॥ तद्वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः। सावज्ञमुत्सृज्य धनुः शतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥५॥ स लब्धसंज्ञः पुनरुत्थितो रुषा व्यादाय केशी तरसाऽऽपतद्धरिम् । सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन् प्रवेशयामास यथोरगं बिले ॥६॥ दन्ता निपेतुर्भगवद्भुजस्पृशस्ते केशिनस्तप्तमयः स्पृशो यथा । बाहुश्च तद्देहगतो महात्मनो यथाऽऽमयः संववृधे उपेक्षितः ॥७॥ समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन्। प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लेण्डं विसृजन् क्षितौ व्यसुः ॥८॥ तद्देहतः कर्कटिकाफलोपमाद्- व्यसोरपाकृष्य भुजं महाभुजः। अविस्मितोऽयत्नहतारिरुत्स्मयैः प्रसूनवर्षैर्दिविषद्भिरीडितः ॥९॥ देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप। कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥१०॥ कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर। वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥११॥ त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम्। गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥१२॥ आत्मनाऽऽत्माऽऽश्रयः पूर्वं मायया ससृजे गुणान्। तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः ॥१३॥ स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम्। अवतीर्णो विनाशाय सेतूनां रक्षणाय च ॥१४॥ दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः। यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् ॥१५॥ चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम्। कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥१६॥ तस्यानु शङ्खयवनमुराणां नरकस्य च। पारिजातापहरणमिन्द्रस्य च पराजयम् ॥१७॥ उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम्। नृगस्य मोक्षणं पापाद्द्वारकायां जगत्पते ॥१८॥ स्यमन्तकस्य च मणेरादानं सह भार्यया। मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥१९॥ पौण्ड्रकस्य वधं पश्चात्काशिपुर्याश्च दीपनम्। दन्तवक्त्रस्य निधनं चैद्यस्य च महाक्रतौ ॥२०॥ यानि चान्यानि वीर्याणि द्वारकामावसन् भवान्। कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥२१॥ अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै। अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥२२॥ विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थममोघवाञ्छितम् । स्वतेजसा नित्यनिवृत्तमाया- गुणप्रवाहं भगवन्तमीमहि ॥२३॥ त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम्। क्रीडार्थमद्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥२४॥ श्रीशुक उवाच एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः। प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥२५॥ भगवानपि गोविन्दो हत्वा केशिनमाहवे। पशूनपालयत्पालैः प्रीतैर्व्रजसुखावहः ॥२६॥ एकदा ते पशून् पालाश्चारयन्तोऽद्रिसानुषु। चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः ॥२७॥ तत्रासन् कतिचिच्चोराः पालाश्च कतिचिन्नृप। मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ॥२८॥ मयपुत्रो महामायो व्योमो गोपालवेषधृक्। मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥२९॥ गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः। शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥३०॥ तस्य तत्कर्म विज्ञाय कृष्णः शरणदः सताम्। गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥३१॥ स निजं रूपमास्थाय गिरीन्द्रसदृशं बली। इच्छन् विमोक्तुमात्मानं नाशक्नोद्ग्रहणातुरः ॥३२॥ तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले। पश्यतां दिवि देवानां पशुमारममारयत् ॥३३॥ गुहापिधानं निर्भिद्य गोपान्निःसार्य कृच्छ्रतः। स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ॥३४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥

॥ अष्टात्रिंशोऽध्यायः - ३८ ॥

श्रीशुक उवाच अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः। उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥१॥ गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे। भक्तिं परामुपगत एवमेतदचिन्तयत् ॥२॥ किं मयाऽऽचरितं भद्रं किं तप्तं परमं तपः। किं वाथाप्यर्हते दत्तं यद्द्रक्ष्याम्यद्य केशवम् ॥३॥ ममैतद्दुर्लभं मन्य उत्तमश्लोकदर्शनम्। विषयात्मनो यथा ब्रह्मकीर्तनं शूद्रजन्मनः ॥४॥ मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम्। ह्रियमाणः कालनद्या क्वचित्तरति कश्चन ॥५॥ ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः। यन्नमस्ये भगवतो योगिध्येयांघ्रिपङ्कजम् ॥६॥ कंसो बताद्याकृत मेऽत्यनुग्रहं द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः। कृतावतारस्य दुरत्ययं तमः पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥७॥ यदर्चितं ब्रह्मभवादिभिः सुरैः श्रिया च देव्या मुनिभिस्ससात्वतैः । गोचारणायानुचरैश्चरद्वने यद्गोपिकानां कुचकुङ्कुमाङ्कितम् ॥८॥ द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम्। मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥९॥ अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया। लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात्फलमञ्जसा दृशः ॥१०॥ य ईक्षिताहंरहितोऽप्यसत्सतोः स्वतेजसापास्ततमोभिदाभ्रमः। स्वमाययाऽऽत्मन् रचितैस्तदीक्षया प्राणाक्षधीभिः सदनेष्वभीयते ॥११॥ यस्याखिलामीवहभिः सुमङ्गलैर्वाचो विमिश्रा गुणकर्मजन्मभिः। प्राणन्ति शुम्भन्ति पुनन्ति वै जग- द्यास्तद्विरक्ताः शवशोभना मताः ॥१२॥ स चावतीर्णः किल सात्वतान्वये स्वसेतुपालामरवर्यशर्मकृत्। यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम् ॥१३॥ तं त्वद्य नूनं महतां गतिं गुरुं त्रैलोक्यकान्तं दृशिमन्महोत्सवम् । रूपं दधानं श्रिय ईप्सितास्पदं द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ॥१४॥ अथावरूढः सपदीशयो रथा- त्प्रधानपुंसोश्चरणं स्वलब्धये। धिया धृतं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकसः ॥१५॥ अप्यङ्घ्रिमूले पतितस्य मे विभुः शिरस्यधास्यन्निजहस्तपङ्कजम् । दत्ताभयं कालभुजङ्गरंहसा प्रोद्वेजितानां शरणैषिणां नृणाम् ॥१६॥ समर्हणं यत्र निधाय कौशिकस्तथा बलिश्चाप जगत्त्रयेन्द्रताम्। यद्वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥१७॥ न मय्युपैष्यत्यरिबुद्धिमच्युतः कंसस्य दूतः प्रहितोऽपि विश्वदृक् । योऽन्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥१८॥ अप्यङ्घ्रिमूलेऽवहितं कृताञ्जलिं मामीक्षिता सस्मितमार्द्रया दृशा । सपद्यपध्वस्तसमस्तकिल्बिषो वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥१९॥ सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम्। आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यतः ॥२०॥ लब्ध्वाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः । तदा वयं जन्मभृतो महीयसा नैवादृतो यो धिगमुष्य जन्म तत् ॥२१॥ न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा। तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥२२॥ किं चाग्रजो मावनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतमञ्जलौ। गृहं प्रवेश्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥२३॥ श्रीशुक उवाच इति सञ्चिन्तयन् कृष्णं श्वफल्कतनयोऽध्वनि। रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ॥२४॥ पदानि तस्याखिललोकपाल- किरीटजुष्टामलपादरेणोः। ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यैः ॥२५॥ तद्दर्शनाह्लादविवृद्धसम्भ्रमः प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः । रथादवस्कन्द्य स तेष्वचेष्टत प्रभोरमून्यङ्घ्रिरजांस्यहो इति ॥२६॥ देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम्। सन्देशाद्यो हरेर्लिङ्गदर्शनश्रवणादिभिः ॥२७॥ ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ। पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ ॥२८॥ किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ। सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥२९॥ ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम्। शोभयन्तौ महात्मानावनुक्रोशस्मितेक्षणौ ॥३०॥ उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ। पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥३१॥ प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती। अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥३२॥ दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया। यथा मारकतः शैलो रौप्यश्च कनकाचितौ ॥३३॥ रथात्तूर्णमवप्लुत्य सोऽक्रूरः स्नेहविह्वलः। पपात चरणोपान्ते दण्डवद्रामकृष्णयोः ॥३४॥ भगवद्दर्शनाह्लादबाष्पपर्याकुलेक्षणः। पुलकाचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ॥३५॥ भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना। परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥३६॥ सङ्कर्षणश्च प्रणतमुपगुह्य महामनाः। गृहीत्वा पाणिना पाणी अनयत्सानुजो गृहम् ॥३७॥ पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम्। प्रक्षाल्य विधिवत्पादौ मधुपर्कार्हणमाहरत् ॥३८॥ निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः। अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद्विभुः ॥३९॥ तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित्। मुखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात्पुनः ॥४०॥ पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे। कंसे जीवति दाशार्ह सौनपाला इवावयः ॥४१॥ योऽवधीत्स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खलः। किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे॥४२॥ इत्थं सूनृतया वाचा नन्देन सुसभाजितः। अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ॥४३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नामाष्टात्रिंशोऽध्यायः ॥ ३८॥

॥ एकोनचत्वारिंशोऽध्यायः - ३९ ॥

श्रीशुक उवाच सुखोपविष्टः पर्यङ्के रामकृष्णोरुमानितः। लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥१॥ किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने। तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन ॥२॥ सायन्तनाशनं कृत्वा भगवान् देवकीसुतः। सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥३॥ श्रीभगवानुवाच तात सौम्यागतः कच्चित्स्वागतं भद्रमस्तु वः। अपि स्वज्ञातिबन्धूनामनमीवमनामयम् ॥४॥ किं नु नः कुशलं पृच्छे एधमाने कुलामये। कंसे मातुलनाम्न्यङ्ग स्वानां नस्तत्प्रजासु च ॥५॥ अहो अस्मदभूद्भूरि पित्रोर्वृजिनमार्ययोः। यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ॥६॥ दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम्। सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥७॥ श्रीशुक उवाच पृष्टो भगवता सर्वं वर्णयामास माधवः। वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥८॥ यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम्। यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ॥९॥ श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा। प्रहस्य नन्दं पितरं राज्ञाऽऽदिष्टं विजज्ञतुः ॥१०॥ गोपान् समादिशत्सोऽपि गृह्यतां सर्वगोरसः। उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥११॥ यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान्। द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल। एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले ॥१२॥ गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम्। रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥१३॥ काश्चित्तत्कृतहृत्तापश्वासम्लानमुखश्रियः। स्रंसद्दुकूलवलयकेशग्रन्थ्यश्च काश्चन ॥१४॥ अन्याश्च तदनुध्याननिवृत्ताशेषवृत्तयः। नाभ्यजानन्निमं लोकमात्मलोकं गता इव ॥१५॥ स्मरन्त्यश्चापराः शौरेरनुरागस्मितेरिताः। हृदिस्पृशश्चित्रपदा गिरः सम्मुमुहुः स्त्रियः ॥१६॥ गतिं सुललितां चेष्टां स्निग्धहासावलोकनम्। शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥१७॥ चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः। समेताः सङ्घशः प्रोचुरश्रुमुख्योऽच्युताशयाः ॥१८॥ गोप्य ऊचुः अहो विधातस्तव न क्वचिद्दया संयोज्य मैत्र्या प्रणयेन देहिनः। तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा ॥१९॥ यस्त्वं प्रदर्श्यासितकुन्तलावृतं मुकुन्दवक्त्रं सुकपोलमुन्नसम् । शोकापनोदस्मितलेशसुन्दरं करोषि पारोक्ष्यमसाधु ते कृतम् ॥२०॥ क्रूरस्त्वमक्रूर समाख्यया स्म नश्चक्षुर्हि दत्तं हरसे बताज्ञवत्। येनैकदेशेऽखिलसर्गसौष्ठवं त्वदीयमद्राक्ष्म वयं मधुद्विषः ॥२१॥ न नन्दसूनुः क्षणभङ्गसौहृदः समीक्षते नः स्वकृतातुरा बत । विहाय गेहान् स्वजनान् सुतान् पतींस्तद्दास्यमद्धोपगता नवप्रियः ॥२२॥ सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम्। याः संप्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्यपाङ्गोत्कलितस्मितासवम् ॥२३॥ तासां मुकुन्दो मधुमञ्जुभाषितै- र्गृहीतचित्तः परवान् मनस्व्यपि । कथं पुनर्नः प्रतियास्यतेऽबला ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् ॥२४॥ अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धकवृष्णिसात्वताम्। महोत्सवः श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥२५॥ मैतद्विधस्याकरुणस्य नाम भूदक्रूर इत्येतदतीव दारुणः। योऽसावनाश्वास्य सुदुःखितं जनं प्रियात्प्रियं नेष्यति पारमध्वनः ॥२६॥ अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः। गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते ॥२७॥ निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुलवृद्धबान्धवाः। मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद्दैवेन विध्वंसितदीनचेतसाम् ॥२८॥ यस्यानुरागललितस्मितवल्गुमन्त्र- लीलावलोकपरिरम्भणरासगोष्ठ्याम् । नीताः स्म नः क्षणमिव क्षणदा विना तं गोप्यः कथं न्वतितरेम तमो दुरन्तम् ॥२९॥ योऽह्नः क्षये व्रजमनन्तसखः परीतो गोपैर्विशन्खुररजश्छुरितालकस्रक्, वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन चित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥३०॥ श्रीशुक उवाच एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः। विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ॥३१॥ स्त्रीणामेवं रुदन्तीनामुदिते सवितर्यथ। अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ॥३२॥ गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः। आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥३३॥ गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिताः। प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ॥३४॥ तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः। सान्त्वयामस सप्रेमैरायास्य इति दौत्यकैः ॥३५॥ यावदालक्ष्यते केतुर्यावद्रेणू रथस्य च। अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥३६॥ ता निराशा निववृतुर्गोविन्दविनिवर्तने। विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् ॥३७॥ भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप। रथेन वायुवेगेन कालिन्दीमघनाशिनीम् ॥३८॥ तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम्। वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ॥३९॥ अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि। कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् ॥४०॥ निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम्। तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥४१॥ तौ रथस्थौ कथमिह सुतावानकदुन्दुभेः। तर्हि स्वित्स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः॥४२॥ तत्रापि च यथा पूर्वमासीनौ पुनरेव सः। न्यमज्जद्दर्शनं यन्मे मृषा किं सलिले तयोः ॥४३॥ भूयस्तत्रापि सोऽद्राक्षीत्स्तूयमानमहीश्वरम्। सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरैः ॥४४॥ सहस्रशिरसं देवं सहस्रफणमौलिनम्। नीलाम्बरं बिसश्वेतं शृङ्गैः श्वेतमिव स्थितम् ॥४५॥ तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम्। पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥४६॥ चारुप्रसन्नवदनं चारुहासनिरीक्षणम्। सुभ्रून्नसं चारुकर्णं सुकपोलारुणाधरम् ॥४७॥ प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम्। कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥४८॥ बृहत्कटितटश्रोणिकरभोरुद्वयान्वितम्। चारुजानुयुगं चारुजङ्घायुगलसंयुतम् ॥४९॥ तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतम्। नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम् ॥५०॥ सुमहार्हमणिव्रातकिरीटकटकाङ्गदैः। कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलैः ॥५१॥ भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम्। श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥५२॥ सुनन्दनन्दप्रमुखैः पार्षदैः सनकादिभिः। सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमैः ॥५३॥ प्रह्लादनारदवसुप्रमुखैर्भागवतोत्तमैः। स्तूयमानं पृथग्भावैर्वचोभिरमलात्मभिः ॥५४॥ श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया। विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥५५॥ विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः। हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचनः ॥५६॥ गिरा गद्गदयास्तौषीत्सत्त्वमालम्ब्य सात्वतः। प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥५७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्क्न्धे पूर्वार्धे अक्रूरप्रतियाने एकोनचत्वारिंशोऽध्यायः॥ ३९॥

॥ चत्वारिंशोऽध्यायः ४० ॥

अक्रूर उवाच नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम्। यन्नाभिजातादरविन्दकोशा- द्ब्रह्माऽऽविरासीद्यत एष लोकः ॥१॥ भूस्तोयमग्निः पवनः खमादि- र्महानजादिर्मन इन्द्रियाणि। सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्ग भूताः ॥२॥ नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीताः। अजोऽनुबद्धः स गुणैरजाया गुणात्परं वेद न ते स्वरूपम् ॥३॥ त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम्। साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥४॥ त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजाः। यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥५॥ एके त्वाखिलकर्माणि सन्न्यस्योपशमं गताः। ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥६॥ अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते। यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥७॥ त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम्। बह्वाचार्यविभेदेन भगवन् समुपासते ॥८॥ सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम्। येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥९॥ यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो। विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः ॥१०॥ सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः। तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ॥११॥ तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्यया कृतः प्रवर्तते देवनृतिर्यगात्मसु ॥१२॥ अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवाः कुक्षिर्मरुत्प्राणबलं प्रकल्पितम् ॥१३॥ रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थि नखानि तेऽद्रयः । निमेषणं रात्र्यहनी प्रजापतिर्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥१४॥ त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः। यथा जले सञ्जिहते जलौकसो- ऽप्युदुम्बरे वा मशका मनोमये ॥१५॥ यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि। तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥१६॥ नमः कारणमत्स्याय प्रलयाब्धिचराय च। हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥१७॥ अकूपाराय बृहते नमो मन्दरधारिणे। क्षित्युद्धारविहाराय नमः सूकरमूर्तये ॥१८॥ नमस्तेऽद्भुतसिंहाय साधुलोकभयापह। वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥१९॥ नमो भृगुणां पतये दृप्तक्षत्रवनच्छिदे। नमस्ते रघुवर्याय रावणान्तकराय च ॥२०॥ नमस्ते वासुदेवाय नमः सङ्कर्षणाय च। प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥२१॥ नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने। म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥२२॥ भगवन् जीवलोकोऽयं मोहितस्तव मायया। अहंममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥२३॥ अहं चात्माऽऽत्मजागारदारार्थस्वजनादिषु। भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो ॥२४॥ अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम्। द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मनः प्रियम् ॥२५॥ यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः। अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुखः ॥२६॥ नोत्सहेऽहं कृपणधीः कामकर्महतं मनः। रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः ॥२७॥ सोऽहं तवाङ्घ्र्युपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये । पुंसो भवेद्यर्हि संसरणापवर्ग- स्त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ॥२८॥ नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे। पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥२९॥ नमस्ते वासुदेवाय सर्वभूतक्षयाय च। हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥३०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः ॥ ४०॥

॥ एकचत्वारिंशोऽध्यायः - ४१ ॥

श्रीशुक उवाच स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः। भूयः समाहरत्कृष्णो नटो नाट्यमिवात्मनः ॥१॥ सोऽपि चान्तर्हितं वीक्ष्य जलादुन्मज्य सत्वरः। कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ॥२॥ तमपृच्छद्धृषीकेशः किं ते दृष्टमिवाद्भुतम्। भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥३॥ अक्रूर उवाच अद्भुतानीह यावन्ति भूमौ वियति वा जले। त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥४॥ यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले। तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टमिहाद्भुतम् ॥५॥ इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः। मथुरामनयद्रामं कृष्णं चैव दिनात्यये ॥६॥ मार्गे ग्रामजना राजंस्तत्र तत्रोपसङ्गताः। वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥७॥ तावद्व्रजौकसस्तत्र नन्दगोपादयोऽग्रतः। पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे ॥८॥ तान् समेत्याह भगवानक्रूरं जगदीश्वरः। गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ॥९॥ भवान् प्रविशतामग्रे सह यानः पुरीं गृहम्। वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥१०॥ अक्रूर उवाच नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो। त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥११॥ आगच्छ याम गेहान्नः सनाथान् कुर्वधोक्षज। सहाग्रजः सगोपालैः सुहृद्भिश्च सुहृत्तम ॥१२॥ पुनीहि पादरजसा गृहान्नो गृहमेधिनाम्। यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥१३॥ अवनिज्याङ्घ्रियुगलमासीच्छ्लोक्यो बलिर्महान्। ऐश्वर्यमतुलं लेभे गतिं चैकान्तिनां तु या ॥१४॥ आपस्तेऽङ्घ्र्यवनेजन्यस्त्रींल्लोकान् शुचयोऽपुनन्। शिरसाधत्त याः शर्वः स्वर्याताः सगरात्मजाः॥१५॥ देव देव जगन्नाथ पुण्यश्रवणकीर्तन। यदूत्तमोत्तमश्लोक नारायण नमोऽस्तु ते ॥१६॥ श्रीभगवनुवाच आयास्ये भवतो गेहमहमार्यसमन्वितः। यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् ॥१७॥ श्रीशुक उवाच एवमुक्तो भगवता सोऽक्रूरो विमना इव। पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥१८॥ अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः। मथुरां प्राविशद्गोपैर्दिदृक्षुः परिवारितः ॥१९॥ ददर्श तां स्फाटिकतुङ्गगोपुरद्वारां बृहद्धेमकपाटतोरणाम्। ताम्रारकोष्ठां परिखादुरासदा- मुद्यानरम्योपवनोपशोभिताम् ॥२०॥ सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः श्रेणीसभाभिर्भवनैरुपस्कृताम्। वैदूर्यवज्रामलनीलविद्रुमै- र्मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥२१॥ जुष्टेषु जालामुखरन्ध्रकुट्टिमे- ष्वाविष्टपारावतबर्हिनादिताम्। संसिक्तरथ्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् ॥२२॥ आपूर्णकुम्भैर्दधिचन्दनोक्षितैः प्रसून दीपावलिभिः सपल्लवैः। सवृन्दरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतद्वारगृहां सपट्टिकैः ॥२३॥ तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्त्मना। द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः ॥२४॥ काश्चिद्विपर्यग्धृतवस्त्रभूषणा विस्मृत्य चैकं युगलेष्वथापराः । कृतैकपत्रश्रवणैकनूपुरा नांक्त्वा द्वितीयं त्वपराश्च लोचनम् ॥२५॥ अश्नन्त्य एकास्तदपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः। स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्योऽर्भमपोह्य मातरः ॥२६॥ मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोकैः। जहार मत्तद्विरदेन्द्रविक्रमो दृशां ददच्छ्रीरमणात्मनोत्सवम् ॥२७॥ दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः । आनन्दमूर्तिमुपगुह्य दृशाऽऽत्मलब्धं हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् ॥२८॥ प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः। अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ ॥२९॥ दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः। तावानर्चुः प्रमुदितास्तत्र तत्र द्विजातयः ॥३०॥ ऊचुः पौरा अहो गोप्यस्तपः किमचरन् महत्। या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ ॥३१॥ रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः। दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च ॥३२॥ देह्यावयोः समुचितान्यङ्ग वासांसि चार्हतोः। भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ॥३३॥ स याचितो भगवता परिपूर्णेन सर्वतः। साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ॥३४॥ ईदृशान्येव वासांसी नित्यं गिरिवनेचराः। परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ ॥३५॥ याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीविषा। बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै ॥३६॥ एवं विकत्थमानस्य कुपितो देवकीसुतः। रजकस्य कराग्रेण शिरः कायादपातयत् ॥३७॥ तस्यानुजीविनः सर्वे वासः कोशान् विसृज्य वै। दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः ॥३८॥ वसित्वाऽऽत्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा। शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित्॥३९॥ ततस्तु वायकः प्रीतस्तयोर्वेषमकल्पयत्। विचित्रवर्णैश्चैलेयैराकल्पैरनुरूपतः ॥४०॥ नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः। स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ॥४१॥ तस्य प्रसन्नो भगवान् प्रादात्सारूप्यमात्मनः। श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ॥४२॥ ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः। तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥४३॥ तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः। पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः ॥४४॥ प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो। पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ॥४५॥ भवन्तौ किल विश्वस्य जगतः कारणं परम्। अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥४६॥ न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः। समयोः सर्वभूतेषु भजन्तं भजतोरपि ॥४७॥ तावाज्ञापयतं भृत्यं किमहं करवाणि वाम्। पुंसोऽत्यनुग्रहो ह्येष भवद्भिर्यन्नियुज्यते ॥४८॥ इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः। शस्तैः सुगन्धैः कुसुमैर्माला विरचिता ददौ ॥४९॥ ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ। प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ॥५०॥ सोऽपि वव्रेऽचलां भक्तिं तस्मिन्नेवाखिलात्मनि। तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥५१॥ इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम्। बलमायुर्यशःकान्तिं निर्जगाम सहाग्रजः ॥५२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नमैकचत्वारिंशोऽध्यायः॥४१॥

॥ द्विचत्वारिंशोऽध्यायः - ४२ ॥

श्रीशुक उवाच अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम्। विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥१॥ का त्वं वरोर्वेतदु हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः। देह्यावयोरङ्गविलेपमुत्तमं श्रेयस्ततस्ते न चिराद्भविष्यति ॥२॥ सैरन्ध्र्युवाच दास्यस्म्यहं सुन्दर कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्मणि । मद्भावितं भोजपतेरतिप्रियं विना युवां कोऽन्यतमस्तदर्हति ॥३॥ रूपपेशलमाधुर्यहसितालापवीक्षितैः। धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम् ॥४॥ ततस्तावङ्गरागेण स्ववर्णेतरशोभिना। सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥५॥ प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम्। ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥६॥ पद्भ्यामाक्रम्य प्रपदे द्व्यङ्गुल्युत्तानपाणिना। प्रगृह्य चिबुकेऽध्यात्ममुदनीनमदच्युतः ॥७॥ सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा। मुकुन्दस्पर्शनात्सद्यो बभूव प्रमदोत्तमा ॥८॥ ततो रूपगुणौदार्यसम्पन्ना प्राह केशवम्। उत्तरीयान्तमकृष्य स्मयन्ती जातहृच्छया ॥९॥ एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे। त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥१०॥ एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः। मुखं वीक्ष्यानुगानां च प्रहसंस्तामुवाच ह ॥११॥ एष्यामि ते गृहं सुभ्रूः पुंसामाधिविकर्शनम्। साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम्॥१२॥ विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः। नानोपायनताम्बूलस्रग्गन्धैः साग्रजोऽर्चितः ॥१३॥ तद्दर्शनस्मरक्षोभादात्मानं नाविदन् स्त्रियः। विस्रस्तवासःकबरवलयालेख्यमूर्तयः ॥१४॥ ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः। तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रमिवाद्भुतम् ॥१५॥ पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत्। वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ॥१६॥ करेण वामेन सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम्। नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः ॥१७॥ धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः। पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥१८॥ तद्रक्षिणः सानुचराः कुपिता आततायिनः। ग्रहीतुकामा आवव्रुर्गृह्यतां वध्यतामिति ॥१९॥ अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ। क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः ॥२०॥ बलं च कंसप्रहितं हत्वा शालामुखात्ततः। निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ॥२१॥ तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः। तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥२२॥ तयोर्विचरतोः स्वैरमादित्योऽस्तमुपेयिवान्। कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ॥२३॥ गोप्यो मुकुन्दविगमे विरहातुरा याः आशासताशिष ऋता मधुपुर्यभूवन्। सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान् नु भजतश्चकमेऽयनं श्रीः ॥२४॥ अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम्। ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥२५॥ कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च। वधं निशम्य गोविन्दरामविक्रीडितं परम् ॥२६॥ दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः। बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥२७॥ अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि। असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥२८॥ छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः। स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥२९॥ स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम्। यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बरः ॥३०॥ अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च। पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥३१॥ व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते। कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥३२॥ आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे। मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः ॥३३॥ तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः। यथोपजोषं विविशू राजानश्च कृतासनाः ॥३४॥ कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत्। मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥३५॥ वाद्यमानेषु तूर्येषु मल्लतालोत्तरेषु च। मल्लाः स्वलङ्कृता दृप्ताः सोपाध्यायाः समाविशन्॥३६॥ चाणूरो मुष्टिकः कूटः शलस्तोशल एव च। त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ॥३७॥ नन्दगोपादयो गोपा भोजराजसमाहुताः। निवेदितोपायनास्त एकस्मिन् मञ्च आविशन् ॥३८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः॥ ४२॥

॥ त्रिचत्वारिंशोऽध्यायः - ४३ ॥

श्रीशुक उवाच अथ कृष्णश्च रामश्च कृतशौचौ परन्तप। मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ॥१॥ रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम्। अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥२॥ बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान्। उवाच हस्तिपं वाचा मेघनादगभीरया ॥३॥ अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम्। नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥४॥ एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम्। चोदयामास कृष्णाय कालान्तकयमोपमम् ॥५॥ करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत्। कराद्विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत ॥६॥ सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम्। परामृशत्पुष्करेण स प्रसह्य विनिर्गतः ॥७॥ पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम्। विचकर्ष यथा नागं सुपर्ण इव लीलया ॥८॥ स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः। बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥९॥ ततोऽभिमुखमभ्येत्य पाणिनाऽऽहत्य वारणम्। प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ॥१०॥ स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः। तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत्क्षितिम्॥११॥ स्वविक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्यमर्षितः। चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद्रुषा ॥१२॥ तमापतन्तमासाद्य भगवान्मधुसूदनः। निगृह्य पाणिना हस्तं पातयामास भूतले ॥१३॥ पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया। दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः ॥१४॥ मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत्। अंसन्यस्तविषाणोऽसृङ्मदबिन्दुभिरङ्कितः। विरूढस्वेदकणिकावदनाम्बुरुहो बभौ ॥१५॥ वृतौ गोपैः कतिपयैर्बलदेवजनार्दनौ। रङ्गं विविशतू राजन् गजदन्तवरायुधौ ॥१६॥ मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः॥१७॥ हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ। कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ॥१८॥ तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ। यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥१९ निरीक्ष्य तावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप। प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम् ॥२०॥ पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया। जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥२१॥ ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम्। तद्रूपगुणमाधुर्यप्रागल्भ्यस्मारिता इव ॥२२॥ एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि। अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥२३॥ एष वै किल देवक्यां जातो नीतश्च गोकुलम्। कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥२४॥ पूतनानेन नीतान्तं चक्रवातश्च दानवः। अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः ॥२५॥ गावः सपाला एतेन दावाग्नेः परिमोचिताः। कालियो दमितः सर्प इन्द्रश्च विमदः कृतः ॥२६॥ सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना। वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥२७॥ गोप्योऽस्य नित्यमुदितहसितप्रेक्षणं मुखम्। पश्यन्त्यो विविधांस्तापांस्तरन्ति स्माश्रमं मुदा॥२८॥ वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः। श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥२९॥ अयं चास्याग्रजः श्रीमान् रामः कमललोचनः। प्रलम्बो निहतो येन वत्सको ये बकादयः ॥३०॥ जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च। कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥३१॥ हे नन्दसूनो हे राम भवन्तौ वीरसम्मतौ। नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा ॥३२॥ प्रियं राज्ञः प्रकुर्वन्त्यः श्रेयो विन्दन्ति वै प्रजाः। मनसा कर्मणा वाचा विपरीतमतोऽन्यथा ॥३३॥ नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम्। वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ॥३४॥ तस्माद्राज्ञः प्रियं यूयं वयं च करवाम हे। भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥३५॥ तन्निशम्याब्रवीत्कृष्णो देशकालोचितं वचः। नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥३६॥ प्रजा भोजपतेरस्य वयं चापि वनेचराः। करवाम प्रियं नित्यं तन्नः परमनुग्रहः ॥३७॥ बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम्। भवेन्नियुद्धं माधर्मः स्पृशेन्मल्लसभासदः ॥३८॥ चाणूर उवाच न बालो न किशोरस्त्वं बलश्च बलिनां वरः। लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥३९॥ तस्माद्भवद्भ्यां बलिभिर्योद्धव्यं नानयोऽत्र वै। मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशोऽध्यायः॥४३॥

॥ चतुश्चत्वारिंशोऽध्यायः - ४४ ॥

श्रीशुक उवाच एवं चर्चितसङ्कल्पो भगवान्मधुसूदनः। आससादाथ चाणूरं मुष्टिकं रोहिणीसुतः ॥१॥ हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः। विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ॥२॥ अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी। शिरः शीर्ष्णोरसोरस्तावन्योन्यमभिजघ्नतुः ॥३॥ परिभ्रामणविक्षेपपरिरम्भावपातनैः। उत्सर्पणापसर्पणैश्चान्योन्यं प्रत्यरुन्धताम् ॥४॥ उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि। परस्परं जिगीषन्तावपचक्रतुरात्मनः ॥५॥ तद्बलाबलवद्युद्धं समेताः सर्वयोषितः। ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥६॥ महानयं बताधर्म एषां राजसभासदाम्। ये बलाबलवद्युद्धं राज्ञोऽन्विच्छन्ति पश्यतः ॥७॥ क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ। क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ॥८॥ धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत्। यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् ॥९॥ न सभां प्रविशेत्प्राज्ञः सभ्यदोषाननुस्मरन्। अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते ॥१०॥ वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम्। वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ॥११॥ किं न पश्यत रामस्य मुखमाताम्रलोचनम्। मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ॥१२॥ पुण्या बत व्रजभुवो यदयं नृलिङ्गगूढः पुराणपुरुषो वनचित्रमाल्यः । गाः पालयन् सहबलः क्वणयंश्च वेणुं विक्रीडयाञ्चति गिरित्ररमार्चिताङ्घ्रिः ॥१३॥ गोप्यस्तपः किमचरन् यदमुष्य रूपं लावण्यसारमसमोर्ध्वमनन्यसिद्धम् । दृग्भिः पिबन्त्यनुसवाभिनवं दुराप- मेकान्तधाम यशसः श्रीय ऐश्वरस्य ॥१४॥ या दोहनेऽवहनने मथनोपलेप- प्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ। गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥१५॥ प्रातर्व्रजाद्व्रजत आविशतश्च सायं गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् । निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः पश्यन्ति सस्मितमुखं सदयावलोकम् ॥१६॥ एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः। शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ॥१७॥ सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचाऽऽतुरौ। पितरावन्वतप्येतां पुत्रयोरबुधौ बलम् ॥१८॥ तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ। युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ॥१९॥ भगवद्गात्रनिष्पातैर्वज्रनिष्पेषनिष्ठुरैः। चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह ॥२०॥ स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ। भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत ॥२१॥ नाचलत्तत्प्रहारेण मालाहत इव द्विपः। बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥२२॥ भूपृष्ठे पोथयामास तरसा क्षीणजीवितम्। विस्रस्ताकल्पकेशस्रगिन्द्रध्वज इवापतत् ॥२३॥ तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै। बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥२४॥ प्रवेपितः स रुधिरमुद्वमन् मुखतोऽर्दितः। व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः ॥२५॥ ततः कूटमनुप्राप्तं रामः प्रहरतां वरः। अवधील्लीलया राजन् सावज्ञं वाममुष्टिना ॥२६॥ तर्ह्येव हि शलः कृष्णपदापहतशीर्षकः। द्विधा विशीर्णस्तोशलक उभावपि निपेततुः ॥२७॥ चाणूरे मुष्टिके कूटे शले तोशलके हते। शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः ॥२८॥ गोपान् वयस्यानाकृष्य तैः संसृज्य विजह्रतुः। वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥२९॥ जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः। ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति ॥३०॥ हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट्। न्यवारयत्स्वतूर्याणि वाक्यं चेदमुवाच ह ॥३१॥ निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात्। धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥३२॥ वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः। उग्रसेनः पिता चापि सानुगः परपक्षगः ॥३३॥ एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः। लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् ॥३४॥ तमाविशन्तमालोक्य मृत्युमात्मन आसनात्। मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ॥३५॥ तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे। समग्रहीद्दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य ॥३६॥ प्रगृह्य केशेषु चलत्किरीटं निपात्य रङ्गोपरि तुङ्गमञ्चात्। तस्योपरिष्टात्स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः ॥३७॥ तं सम्परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः। हा हेति शब्दः सुमहांस्तदाभू- दुदीरितः सर्वजनैर्नरेन्द्र ॥३८॥ स नित्यदोद्विग्नधिया तमीश्वरं पिबन् वदन् वा विचरन् स्वपन् श्वसन्। ददर्श चक्रायुधमग्रतो यत- स्तदेव रूपं दुरवापमाप ॥३९॥ तस्यानुजा भ्रातरोऽष्टौ कङ्कन्यग्रोधकादयः। अभ्यधावन्नतिक्रुद्धा भ्रातुर्निर्वेशकारिणः ॥४०॥ तथातिरभसांस्तांस्तु संयत्तान् रोहिणीसुतः। अहन् परिघमुद्यम्य पशूनिव मृगाधिपः ॥४१॥ नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः। पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ॥४२॥ तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः। तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः ॥४३॥ शयानान् वीरशय्यायां पतीनालिङ्ग्य शोचतीः। विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥४४॥ हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल। त्वया हतेन निहता वयं ते सगृहप्रजाः ॥४५॥ त्वया विरहिता पत्या पुरीयं पुरुषर्षभ। न शोभते वयमिव निवृत्तोत्सवमङ्गला ॥४६॥ अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम्। तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम् ॥४७॥ सर्वेषामिह भूतानामेष हि प्रभवाप्ययः। गोप्ता च तदवध्यायी न क्वचित्सुखमेधते ॥४८॥ श्रीशुक उवाच राजयोषित आश्वास्य भगवांल्लोकभावनः। यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ॥४९॥ मातरं पितरं चैव मोचयित्वाथ बन्धनात्। कृष्णरामौ ववन्दाते शिरसाऽऽस्पृश्य पादयोः॥५०॥ देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ। कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥५१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुश्चत्वारिंशोऽध्यायः॥४४॥

॥ पञ्चचत्वारिंशोऽध्यायः - ४५ ॥

श्रीशुक उवाच पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः। मा भूदिति निजां मायां ततान जनमोहिनीम् ॥१॥ उवाच पितरावेत्य साग्रजः सात्वतर्षभः। प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥२॥ नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि। बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन् क्वचित्॥३॥ न लब्धो दैवहतयोर्वासो नौ भवदन्तिके। यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम्॥४॥ सर्वार्थसम्भवो देहो जनितः पोषितो यतः। न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥५॥ यस्तयोरात्मजः कल्प आत्मना च धनेन च। वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ॥६॥ मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम्। गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृतः ॥७॥ तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः। मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥८॥ तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः। अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ॥९॥ श्रीशुक उवाच इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा। मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् ॥१०॥ सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ। न किञ्चिदूचतू राजन् बाष्पकण्ठौ विमोहितौ ॥११॥ एवमाश्वास्य पितरौ भगवान् देवकीसुतः। मातामहं तूग्रसेनं यदूनामकरोन्नृपम् ॥१२॥ आह चास्मान् महाराज प्रजाश्चाज्ञप्तुमर्हसि। ययातिशापाद्यदुभिर्नासितव्यं नृपासने ॥१३॥ मयि भृत्य उपासीने भवतो विबुधादयः। बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥१४॥ सर्वान् स्वान् ज्ञातिसम्बन्धान् दिग्भ्यः कंसभयाकुलान्। यदुवृष्ण्यन्धकमधुदाशार्हकुकुरादिकान् ॥१५॥ सभाजितान् समाश्वास्य विदेशावासकर्शितान्। न्यवासयत्स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत् ॥१६॥ कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः। गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः ॥१७॥ वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम्। नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् ॥१८॥ तत्र प्रवयसोऽप्यासन् युवानोऽतिबलौजसः। पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः ॥१९॥ अथ नन्दं समासाद्य भगवान् देवकीसुतः। सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः ॥२०॥ पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम्। पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि ॥२१॥ स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत्। शिशून् बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे ॥२२॥ यात यूयं व्रजं तात वयं च स्नेहदुःखितान्। ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥२३॥ एवं सान्त्वय्य भगवान् नन्दं सव्रजमच्युतः। वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् ॥२४॥ इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः। पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ ॥२५॥ अथ शूरसुतो राजन् पुत्रयोः समकारयत्। पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम् ॥२६॥ तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः। स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः॥२७॥ याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः। ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः ॥२८॥ ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ। गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ ॥२९॥ प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ। नान्यसिद्धामलज्ञानं गूहमानौ नरेहितैः ॥३०॥ अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः। काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् ॥३१॥ यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम्। ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ ॥३२॥ तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः। प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः ॥३३॥ सरहस्यं धनुर्वेदं धर्मान् न्यायपथांस्तथा। तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम्॥३४॥ सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ। सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ॥३५॥ अहोरात्रैश्चतुःषष्ट्या संयत्तौ तावतीः कलाः। गुरुदक्षिणयाऽऽचार्यं छन्दयामासतुर्नृप ॥३६॥ द्विजस्तयोस्तं महिमानमद्भुतं संलक्ष्य राजन्नतिमानुषीं मतिम् । सम्मन्त्र्य पत्न्या स महार्णवे मृतं बालं प्रभासे वरयांबभूव ह ॥३७॥ तेथेत्यथारुह्य महारथौ रथं प्रभासमासाद्य दुरन्तविक्रमौ । वेलामुपव्रज्य निषीदतुः क्षणं सिन्धुर्विदित्वार्हणमाहरत्तयोः ॥३८॥ तमाह भगवानाशु गुरुपुत्रः प्रदीयताम्। योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ॥३९॥ समुद्र उवाच नैवाहार्षमहं देव दैत्यः पञ्चजनो महान्। अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ॥४०॥ आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः। जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ॥४१॥ तदङ्गप्रभवं शङ्खमादाय रथमागमत्। ततः संयमनीं नाम यमस्य दयितां पुरीम् ॥४२॥ गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः। शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः ॥४३॥ तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम्। उवाचावनतः कृष्णं सर्वभूताशयालयम्। लीलामनुष्य हे विष्णो युवयोः करवाम किम् ॥४४॥ श्रीभगवानुवाच गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम्। आनयस्व महाराज मच्छासनपुरस्कृतः ॥४५॥ तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ। दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः ॥४६॥ गुरुरुवाच सम्यक्सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः। को नु युष्मद्विधगुरोः कामानामवशिष्यते ॥४७॥ गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी। छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥४८॥ गुरुणैवमनुज्ञातौ रथेनानिलरंहसा। आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ॥४९॥ समनन्दन् प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ। अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ॥५०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः॥४५॥

॥ षट्चत्वारिंशोऽध्यायः - ४६ ॥

श्रीशुक उवाच वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा। शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः ॥१॥ तमाह भगवान् प्रेष्ठं भक्तमेकान्तिनं क्वचित्। गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ॥२॥ गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह। गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय ॥३॥ ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः। मामेव दयितं प्रेष्ठमात्मानं मनसा गताः। ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम् ॥४॥ मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः। स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः॥५॥ धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन। प्रत्यागमनसन्देशैर्वल्लव्यो मे मदात्मिकाः ॥६॥ श्रीशुक उवाच इत्युक्त उद्धवो राजन् सन्देशं भर्तुरादृतः। आदाय रथमारुह्य प्रययौ नन्दगोकुलम् ॥७॥ प्राप्तो नन्दव्रजं श्रीमान् निम्लोचति विभावसौ। छन्नयानः प्रविशतां पशूनां खुररेणुभिः ॥८॥ वासितार्थेऽभियुध्यद्भिर्नादितं शुष्मिभिर्वृषैः। धावन्तीभिश्च वास्राभिरूधोभारैः स्ववत्सकान्॥९॥ इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डितं सितैः। गोदोहशब्दाभिरवं वेणूनां निःस्वनेन च ॥१०॥ गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः। स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् ॥११॥ अग्न्यर्कातिथिगोविप्रपितृदेवार्चनान्वितैः। धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम् ॥१२॥ सर्वतः पुष्पितवनं द्विजालिकुलनादितम्। हंसकारण्डवाकीर्णैः पद्मषण्डैश्च मण्डितम् ॥१३॥ तमागतं समागम्य कृष्णस्यानुचरं प्रियम्। नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत् ॥१४॥ भोजितं परमान्नेन संविष्टं कशिपौ सुखम्। गतश्रमं पर्यपृच्छत्पादसंवाहनादिभिः ॥१५॥ कच्चिदङ्ग महाभाग सखा नः शूरनन्दनः। आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तः सुहृद्वृतः ॥१६॥ दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना। साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा ॥१७॥ अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन्। गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम्॥१८॥ अप्यायास्यति गोविन्दः स्वजनान् सकृदीक्षितुम्। तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम् ॥१९॥ दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिताः। दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना ॥२०॥ स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम्। हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः॥२१॥ सरिच्छैलवनोद्देशान् मुकुन्दपदभूषितान्। आक्रीडानीक्षमाणानां मनो याति तदात्मताम्॥२२॥ मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ। सुराणां महदर्थाय गर्गस्य वचनं यथा ॥२३॥ कंसं नागायुतप्राणं मल्लौ गजपतिं तथा। अवधिष्टां लीलयैव पशूनिव मृगाधिपः ॥२४॥ तालत्रयं महासारं धनुर्यष्टिमिवेभराट्। बभञ्जैकेन हस्तेन सप्ताहमदधाद्गिरिम् ॥२५॥ प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादयः। दैत्याः सुरासुरजितो हता येनेह लीलया ॥२६॥ श्रीशुक उवाच इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः। अत्युत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वलः ॥२७॥ यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च। शृण्वन्त्यश्रूण्यवास्राक्षीत्स्नेहस्नुतपयोधरा ॥२८॥ तयोरित्थं भगवति कृष्णे नन्दयशोदयोः। वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥२९॥ उद्धव उवाच युवां श्लाघ्यतमौ नूनं देहिनामिह मानद । नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी ॥३०॥ एतौ हि विश्वस्य च बीजयोनी रामो मुकुन्दः पुरुषः प्रधानम्। अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ ॥३१॥ यस्मिन् जनः प्राणवियोगकाले क्षणं समावेश्य मनोविशुद्धम्। निर्हृत्य कर्माशयमाशु याति परां गतिं ब्रह्ममयोऽर्कवर्णः ॥३२॥ तस्मिन् भवन्तावखिलात्महेतौ नारायणे कारणमर्त्यमूर्तौ। भावं विधत्तां नितरां महात्मन् किं वावशिष्टं युवयोः सुकृत्यम् ॥३३॥ आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः। प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पतिः ॥३४॥ हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम्। यदाह वः समागत्य कृष्णः सत्यं करोति तत् ॥३५॥ मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके। अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ॥३६॥ न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियो वास्त्यमानिनः। नोत्तमो नाधमो नापि समानस्यासमोऽपि वा ॥३७॥ न माता न पिता तस्य न भार्या न सुतादयः। नात्मीयो न परश्चापि न देहो जन्म एव च ॥३८॥ न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु। क्रीडार्थः सोऽपि साधूनां परित्राणाय कल्पते ॥३९॥ सत्त्वं रजस्तम इति भजते निर्गुणो गुणान्। क्रीडन्नतीतोऽत्र गुणैः सृजत्यवति हन्त्यजः ॥४०॥ यथा भ्रमरिका दृष्ट्या भ्राम्यतीव महीयते। चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृतः ॥४१॥ युवयोरेव नैवायमात्मजो भगवान् हरिः। सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः ॥४२॥ दृष्टं श्रुतं भूतभवद्भविष्य- त्स्थास्नुश्चरिष्णुर्महदल्पकं च । विनाच्युताद्वस्तु तरां न वाच्यं स एव सर्वं परमात्मभूतः ॥४३॥ एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन्। गोप्यः समुत्थाय निरूप्य दीपा- न्वास्तून्समभ्यर्च्य दधीन्यमन्थन् ॥४४॥ ता दीपदीप्तैर्मणिभिर्विरेजू रज्जूर्विकर्षद्भुजकङ्कणस्रजः। चलन्नितम्बस्तनहारकुण्डल- त्विषत्कपोलारुणकुङ्कुमाननाः ॥४५॥ उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः। दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम् ॥४६॥ भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकसः। दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन् ॥४७॥ अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः। येन नीतो मधुपुरीं कृष्णः कमललोचनः ॥४८॥ किं साधयिष्यत्यस्माभिर्भर्तुः प्रेतस्य निष्कृतिम्। इति स्त्रीणां वदन्तीनामुद्धवोऽगात्कृताह्निकः ॥४९॥ इति श्रीमद्भागवाते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दशोकापनयनं नाम षट्चत्वारिंशोऽध्यायः॥४६॥

॥ सप्तचत्वारिंशोऽध्यायः - ४७ ॥

श्रीशुक उवाच तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम् । पीताम्बरं पुष्करमालिनं लसन्- मुखारविन्दं परिमृष्टकुण्डलम् ॥१॥ शुचिस्मिताः कोऽयमपीच्यदर्शनः कुतश्च कस्याच्युतवेषभूषणः । इति स्म सर्वाः परिवव्रुरुत्सुका- स्तमुत्तमश्लोकपदाम्बुजाश्रयम् ॥२॥ तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः। रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः ॥३॥ जानीमस्त्वां यदुपतेः पार्षदं समुपागतम्। भर्त्रेह प्रेषितः पित्रोर्भवान् प्रियचिकीर्षया ॥४॥ अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे। स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥५॥ अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम्। पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ॥६॥ निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः। अधीतविद्या आचार्यं ऋत्विजो दत्तदक्षिणम् ॥७॥ खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम्। दग्धं मृगास्तथारण्यं जारो भुक्त्वा रतां स्त्रियम्॥८॥ इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः। कृष्णदूते व्रजं याते उद्धवे त्यक्तलौकिकाः ॥९॥ गायन्त्यः प्रियकर्माणि रुदत्यश्च गतह्रियः। तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः॥१०॥ काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम्। प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥११॥ गोप्युवाच मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः । वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥१२॥ सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् । परिचरति कथं तत्पादपद्मं तु पद्मा ह्यपि बत हृतचेता ह्युत्तमश्लोकजल्पैः ॥१३॥ किमिह बहु षडङ्घ्रे गायसि त्वं यदूना- मधिपतिमगृहाणामग्रतो नः पुराणम् । विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥१४॥ दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः । चरणरज उपास्ते यस्य भूतिर्वयं काः अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः ॥१५॥ विसृज शिरसि पादं वेद्म्यहं चाटुकारै- रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात्। स्वकृत इह विसृष्टापत्यपत्यन्यलोकाः व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥१६॥ मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् । बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यः तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥१७॥ यदनुचरितलीलाकर्णपीयूषविप्रुट् सकृददनविधूतद्वन्द्वधर्मा विनष्टाः । सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥१८॥ वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः । ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र- स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ॥१९॥ प्रियसख पुनरागाः प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग । नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥२०॥ अपि बत मधुपुर्यामार्यपुत्रोऽधुनाऽऽस्ते स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् । क्वचिदपि स कथा नः किङ्करीणां गृणीते भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥२१॥ श्रीशुक उवाच अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः। सान्त्वयन् प्रियसन्देशैर्गोपीरिदमभाषत ॥२२॥ उद्धव उवाच अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः। वासुदेवे भगवति यासामित्यर्पितं मनः ॥२३॥ दानव्रततपोहोमजपस्वाध्यायसंयमैः। श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥२४॥ भगवत्युत्तमश्लोके भवतीभिरनुत्तमा। भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा ॥२५॥ दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च। हित्वावृणीत यूयं यत्कृष्णाख्यं पुरुषं परम् ॥२६॥ सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे। विरहेण महाभागा महान् मेऽनुग्रहः कृतः ॥२७॥ श्रूयतां प्रियसन्देशो भवतीनां सुखावहः। यमादायागतो भद्रा अहं भर्तू रहस्करः ॥२८॥ श्रीभगवानुवाच भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्। यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही। तथाहं च मनः प्राणभूतेन्द्रियगुणाश्रयः ॥२९॥ आत्मन्येवात्मनाऽऽत्मानं सृजे हन्म्यनुपालये। आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥३०॥ आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः। सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥३१॥ येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः। तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥३२॥ एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम्। त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥३३॥ यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम्। मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ॥३४॥ यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते। स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥३५॥ मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत्। अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥३६॥ या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः। अलब्धरासाः कल्याण्यो माऽऽपुर्मद्वीर्यचिन्तया॥३७॥ श्रीशुक उवाच एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः। ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ॥३८॥ गोप्य ऊचुः दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत्। दिष्ट्याऽऽप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना॥३९॥ कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम्। प्रीतिं नः स्निग्धसव्रीडहासोदारेक्षणार्चितः ॥४०॥ कथं रतिविशेषज्ञः प्रियश्च वरयोषिताम्। नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ॥४१॥ अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित्। गोष्ठीमध्ये पुरस्त्रीणां ग्राम्याः स्वैरकथान्तरे ॥४२॥ ताः किं निशाः स्मरति यासु तदा प्रियाभि- र्वृन्दावने कुमुदकुन्दशशाङ्करम्ये । रेमे क्वणच्चरणनूपुररासगोष्ठ्या- मस्माभिरीडितमनोज्ञकथः कदाचित् ॥४३॥ अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा। सञ्जीवयन् नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ॥४४॥ कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः। नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ॥४५॥ किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः। श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ॥४६॥ परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला। तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥४७॥ क उत्सहेत सन्त्यक्तुमुत्तमश्लोकसंविदम्। अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित्॥४८॥ सरिच्छैलवनोद्देशा गावो वेणुरवा इमे। सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ॥४९॥ पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत। श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ॥५०॥ गत्या ललितयोदारहासलीलावलोकनैः। माध्व्या गिरा हृतधियः कथं तं विस्मरामहे ॥५१॥ हे नाथ हे रमानाथ व्रजनाथार्तिनाशन। मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥५२॥ श्रीशुक उवाच ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः। उद्धवं पूजयांचक्रुर्ज्ञात्वाऽऽत्मानमधोक्षजम् ॥५३॥ उवास कतिचिन्मासान् गोपीनां विनुदन् शुचः। कृष्णलीलाकथां गायन् रमयामास गोकुलम् ॥५४॥ यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः। व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥५५॥ सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान्। कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ॥५६॥ दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम्। उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ॥५७॥ एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥५८॥ क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः कृष्णे क्व चैष परमात्मनि रूढभावः । नन्वीश्वरोऽनुभजतोऽविदुषोपि साक्षा- च्छ्रेयस्तनोत्यगदराज इवोपयुक्तः ॥५९॥ नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः । रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ- लब्धाशिषां य उदगाद्व्रजवल्लवीनाम् ॥६०॥ आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् । या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥६१॥ या वै श्रियार्चितमजादिभिराप्तकामै- र्योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् । कृष्णस्य तद्भगवतश्चरणारविन्दं न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥६२॥ वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः। यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥६३॥ श्रीशुक उवाच अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च। गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥६४॥ तं निर्गतं समासाद्य नानोपायनपाणयः। नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ॥६५॥ मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः। वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ॥६६॥ कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया। मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ॥६७॥ एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप। उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ॥६८॥ कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम्। वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ॥६९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने सप्तचत्वारिंशोऽध्यायः॥४७॥

॥ अष्टचत्वारिंशोऽध्यायः - ४८ ॥

श्रीशुक उवाच अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः। सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ॥१॥ महार्होपस्करैराढ्यं कामोपायोपबृंहितम्। मुक्तादामपताकाभिर्वितानशयनासनैः। धूपैः सुरभिभिर्दीपैः स्रग्गन्धैरपि मण्डितम् ॥२॥ गृहं तमायान्तमवेक्ष्य साऽऽसनात्सद्यः समुत्थाय हि जातसम्भ्रमा। यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सदासनादिभिः ॥३॥ तथोद्धवः साधुतयाभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम्। कृष्णोऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः ॥४॥ सा मज्जनालेपदुकूलभूषणस्र- ग्गन्धताम्बूलसुधासवादिभिः। प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥५॥ आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे। प्रगृह्य शय्यामधिवेश्य रामया रेमेऽनुलेपार्पणपुण्यलेशया ॥६॥ सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णो- र्जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती । दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्त- मानन्दमूर्तिमजहादतिदीर्घतापम् ॥७॥ सैवं कैवल्यनाथं तं प्राप्य दुष्प्रापमीश्वरम्। अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥८॥ आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया। रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥९॥ तस्यै कामवरं दत्त्वा मानयित्वा च मानदः। सहोद्धवेन सर्वेशः स्वधामागमदर्चितम् ॥१०॥ दुरारार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम्। यो वृणीते मनोग्राह्यमसत्त्वात्कुमनीष्यसौ ॥११॥ अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः। किञ्चिच्चिकीर्षयन् प्रागादक्रूरप्रियकाम्यया ॥१२॥ स तान् नरवरश्रेष्ठानाराद्वीक्ष्य स्वबान्धवान्। प्रत्युत्थाय प्रमुदितः परिष्वज्याभ्यनन्दत ॥१३॥ ननाम कृष्णं रामं च स तैरप्यभिवादितः। पूजयामास विधिवत्कृतासनपरिग्रहान् ॥१४॥ पादावनेजनीरापो धारयन् शिरसा नृप। अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः ॥१५॥ अर्चित्वा शिरसाऽऽनम्य पादावङ्कगतौ मृजन्। प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत ॥१६॥ दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम्। भवद्भ्यामुद्धृतं कृच्छ्राद्दुरन्ताच्च समेधितम्॥१७॥ युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ। भवद्भ्यां न विना किञ्चित्परमस्ति न चापरम् ॥१८॥ आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभिः। ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥१९॥ यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति नाना। एवं भवान् केवल आत्मयोनि- ष्वात्माऽऽत्मतन्त्रो बहुधा विभाति ॥२०॥ सृजस्यथो लुम्पसि पासि विश्वं रजस्तमःसत्त्वगुणैः स्वशक्तिभिः। न बध्यसे तद्गुणकर्मभिर्वा ज्ञानात्मनस्ते क्व च बन्धहेतुः ॥२१॥ देहाद्युपाधेरनिरूपितत्वाद्भवो न साक्षान्न भिदाऽऽत्मनः स्यात्। अतो न बन्धस्तव नैव मोक्षः स्यातां निकामस्त्वयि नोऽविवेकः ॥२२॥ त्वयोदितोऽयं जगतो हिताय यदा यदा वेदपथः पुराणः। बाध्येत पाखण्डपथैरसद्भिस्तदा भवान् सत्त्वगुणं बिभर्ति ॥२३॥ स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्णः स्वांशेन भारमपनेतुमिहासि भूमेः । अक्षौहिणीशतवधेन सुरेतरांशराज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥२४॥ अद्येश नो वसतयः खलु भूरिभागा यः सर्वदेवपितृभूतनृदेवमूर्तिः । यत्पादशौचसलिलं त्रिजगत्पुनाति स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः ॥२५॥ कः पण्डितस्त्वदपरं शरणं समीयात् भक्तप्रियादृतगिरः सुहृदः कृतज्ञात्। सर्वान् ददाति सुहृदो भजतोऽभिकामा- नात्मानमप्युपचयापचयौ न यस्य ॥२६॥ दिष्ट्या जनार्दन भवानिह नः प्रतीतो योगेश्वरैरपि दुरापगतिः सुरेशैः । छिन्ध्याशु नः सुतकलत्रधनाप्तगेह- देहादिमोहरशनां भवदीयमायाम् ॥२७॥ श्रीशुक उवाच इत्यर्चितः संस्तुतश्च भक्तेन भगवान् हरिः। अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ॥२८॥ श्रीभगवानुवाच त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा। वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः॥२९॥ भवद्विधा महाभागा निषेव्या अर्हसत्तमाः। श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ॥३०॥ न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥३१॥ स भवान् सुहृदां वै नः श्रेयान् श्रेयश्चिकीर्षया। जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम्॥३२॥ पितर्युपरते बालाः सह मात्रा सुदुःखिताः। आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥३३॥ तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः। समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् ॥३४॥ गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा। विज्ञाय तद्विधास्यामो यथा शं सुहृदां भवेत् ॥३५॥ इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः। सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः॥४८॥

॥ एकोनपञ्चाशत्तमोऽध्यायः - ४९ ॥

श्रीशुक उवाच स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम्। ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥१॥ सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम्। कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदोऽपरान् ॥२॥ यथावदुपसङ्गम्य बन्धुभिर्गान्दिनीसुतः। सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ॥३॥ उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया। दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ॥४॥ तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान्। प्रजानुरागं पार्थेषु न सहद्भिश्चिकीर्षितम् ॥५॥ कृतं च धार्तराष्ट्रैर्यद्गरदानाद्यपेशलम्। आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ॥६॥ पृथा तु भ्रातरं प्राप्तमक्रूरमुपसृत्य तम्। उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ॥७॥ अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे। भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च ॥८॥ भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः। पैतृष्वसेयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥९॥ सापत्नमध्ये शोचन्तीं वृकानां हरिणीमिव। सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान्॥१०॥ कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन। प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ॥११॥ नान्यत्तव पदाम्भोजात्पश्यामि शरणं नृणाम्। बिभ्यतां मृत्युसंसारादीश्वरस्यापवर्गिकात् ॥१२॥ नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने। योगेश्वराय योगाय त्वामहं शरणं गता ॥१३॥ श्रीशुक उवाच इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम्। प्रारुदद्दुःखिता राजन् भवतां प्रपितामही ॥१४॥ समदुःखसुखोऽक्रूरो विदुरश्च महायशाः। सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ॥१५॥ यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम्। अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥१६॥ अक्रूर उवाच भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन। भ्रातर्युपरते पाण्डावधुनाऽऽसनमास्थितः ॥१७॥ धर्मेण पालयन्नुर्वीं प्रजाः शीलेन रञ्जयन्। वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि ॥१८॥ अन्यथा त्वाचरंल्लोके गर्हितो यास्यसे तमः। तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च ॥१९॥ नेह चात्यन्तसंवासः कस्यचित्केनचित्सह। राजन् स्वेनापि देहेन किमु जायात्मजादिभिः ॥२०॥ एकः प्रसूयते जन्तुरेक एव प्रलीयते। एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥२१॥ अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः। सम्भोजनीयापदेशैर्जलानीव जलौकसः ॥२२॥ पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम्। तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥२३॥ स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः। असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः ॥२४॥ तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम्। वीक्ष्यायम्यात्मनाऽऽत्मानं समः शान्तो भव प्रभो ॥२५॥ धृतराष्ट्र उवाच यथा वदति कल्याणीं वाचं दानपते भवान्। तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥२६॥ तथापि सूनृता सौम्य हृदि न स्थीयते चले। पुत्रानुरागविषमे विद्युत्सौदामनी यथा ॥२७॥ ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान्। भूमेर्भारावताराय योऽवतीर्णो यदोःकुले ॥२८॥ यो दुर्विमर्शपथया निजमाययेदं सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः । तस्मै नमो दुरवबोधविहारतन्त्र- संसारचक्रगतये परमेश्वराय ॥२९॥ श्रीशुक उवाच इत्यभिप्रेत्य नृपतेरभिप्रायं स यादवः। सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात् ॥३०॥ शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम्। पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ॥३१॥ इति श्रीमद्भागवते महापुराणे वैयसक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥

॥ समाप्तमिदं दशमस्कन्धस्य पूर्वार्धम्॥

श्रीकृष्णार्पणमस्तु॥


GRETIL txt edited as per Gita Press edition along with paaThabheda by PSA Easwaran
% Text title            : shrImadbhAgavatam - 10-1 - dashamaskandhaH pUrvArdham
% File name             : bhagpur-10a.itx
% itxtitle              : shrImadbhAgavatam - 10-1 - dashamaskandhaH pUrvArdham
% engtitle              : shrImadbhAgavatam - dashamaskandhaH pUrvArdham
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Indexextra            : ()
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP