॥ श्रीमद्भागवतम् - दशमस्कन्धः उत्तरार्धम् ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ दशमस्कन्धः उत्तरार्धम् ॥

॥ पञ्चाशत्तमोऽध्यायः - ५० ॥

श्रीशुक उवाच अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ। मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान् ॥१॥ पित्रे मगधराजाय जरासन्धाय दुःखिते। वेदयांचक्रतुः सर्वमात्मवैधव्यकारणम् ॥२॥ स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप। अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ॥३॥ अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः। यदुराजधानीं मथुरां न्यरुणत्सर्वतोदिशम् ॥४॥ निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम्। स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् ॥५॥ चिन्तयामास भगवान् हरिः कारणमानुषः। तद्देशकालानुगुणं स्वावतारप्रयोजनम् ॥६॥ हनिष्यामि बलं ह्येतद्भुवि भारं समाहितम्। मागधेन समानीतं वश्यानां सर्वभूभुजाम् ॥७॥ अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः। मागधस्तु न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥८॥ एतदर्थोऽवतारोऽयं भूभारहरणाय मे। संरक्षणाय साधूनां कृतोऽन्येषां वधाय च ॥९॥ अन्योऽपि धर्मरक्षायै देहः संभ्रियते मया। विरामायाप्यधर्मस्य काले प्रभवतः क्वचित् ॥१०॥ एवं ध्यायति गोविन्द आकाशात्सूर्यवर्चसौ। रथावुपस्थितौ सद्यः ससूतौ सपरिच्छदौ ॥११॥ आयुधानि च दिव्यानि पुराणानि यदृच्छया। दृष्ट्वा तानि हृषीकेशः सङ्कर्षणमथाब्रवीत् ॥१२॥ पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो। एष ते रथ आयातो दयितान्यायुधानि च ॥१३॥ यानमास्थाय जह्येतद्व्यसनात्स्वान् समुद्धर । एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत् ॥१४॥ त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु । एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ॥१५॥ निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसाऽऽवृतौ । शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथिः ॥१६॥ ततोऽभूत्परसैन्यानां हृदि वित्रासवेपथुः। तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम ॥१७॥ न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया। गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन् ॥१८॥ तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह। हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि ॥१९॥ श्रीभगवानुवाच न वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम्। न गृह्णीमो वचो राजन्नातुरस्य मुमूर्षतः ॥२०॥ श्रीशुक उवाच जरासुतस्तावभिसृत्य माधवौ महाबलौघेन बलीयसाऽऽवृणोत्। ससैन्ययानध्वजवाजिसारथी सूर्यानलौ वायुरिवाभ्ररेणुभिः ॥२१॥ सुपर्णतालध्वजचिह्नितौ रथा- वलक्षयन्त्यो हरिरामयोर्मृधे । स्त्रियः पुराट्टालकहर्म्यगोपुरं समाश्रिताः सम्मुमुहुः शुचार्दिताः ॥२२॥ हरिः परानीकपयोमुचां मुहुः शिलीमुखात्युल्बणवर्षपीडितम्। स्वसैन्यमालोक्य सुरासुरार्चितं व्यस्फूर्जयच्छार्ङ्गशरासनोत्तमम् ॥२३॥ गृह्णन् निषङ्गादथ सन्दधच्छरान् विकृष्य मुञ्चन् शितबाणपूगान् । निघ्नन् रथान् कुञ्जरवाजिपत्तीन् निरन्तरं यद्वदलातचक्रम् ॥२४॥ निर्भिन्नकुम्भाः करिणो निपेतु- रनेकशोऽश्वाः शरवृक्णकन्धराः। रथा हताश्वध्वजसूतनायकाः पदातयश्छिन्नभुजोरुकन्धराः ॥२५॥ सञ्छिद्यमानद्विपदेभवाजिनामङ्ग प्रसूताः शतशोऽसृगापगाः। भुजाहयः पूरुषशीर्षकच्छपा हतद्विपद्वीपहयग्रहाकुलाः ॥२६॥ करोरुमीना नरकेशशैवला धनुस्तरङ्गायुधगुल्मसङ्कुलाः। अच्छूरिकावर्तभयानका महामणिप्रवेकाभरणाश्मशर्कराः ॥२७॥ प्रवर्तिता भीरुभयावहा मृधे मनस्विनां हर्षकरीः परस्परम्। विनिघ्नतारीन् मुसलेन दुर्मदान् सङ्कर्षणेनापरीमेयतेजसा ॥२८॥ बलं तदङ्गार्णवदुर्गभैरवं दुरन्तपारं मगधेन्द्रपालितम्। क्षयं प्रणीतं वसुदेवपुत्रयोर्विक्रीडितं तज्जगदीशयोः परम् ॥२९॥ स्थित्युद्भवान्तं भुवनत्रयस्य यः समीहतेऽनन्तगुणः स्वलीलया । न तस्य चित्रं परपक्षनिग्रहस्तथापि मर्त्यानुविधस्य वर्ण्यते ॥३०॥ जग्राह विरथं रामो जरासन्धं महाबलम्। हतानीकावशिष्टासुं सिंहः सिंहमिवौजसा ॥३१॥ बध्यमानं हतारातिं पाशैर्वारुणमानुषैः। वारयामास गोविन्दस्तेन कार्यचिकीर्षया ॥३२॥ स मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः। तपसे कृतसङ्कल्पो वारितः पथि राजभिः ॥३३॥ वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि। स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः ॥३४॥ हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा। उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥३५॥ मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णवः। विकीर्यमाणः कुसुमैस्त्रिदशैरनुमोदितः ॥३६॥ माथुरैरुपसङ्गम्य विज्वरैर्मुदितात्मभिः। उपगीयमानविजयः सूतमागधवन्दिभिः ॥३७॥ शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः। वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ ॥३८॥ सिक्तमार्गां हृष्टजनां पताकाभिरलङ्कृताम्। निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम् ॥३९॥ निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरैः। निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः ॥४०॥ आयोधनगतं वित्तमनन्तं वीरभूषणम्। यदुराजाय तत्सर्वमाहृतं प्रादिशत्प्रभुः ॥४१॥ एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबलः। युयुधे मागधो राजा यदुभिः कृष्णपालितैः ॥४२॥ अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा। हतेषु स्वेष्वनीकेषु त्यक्तोऽयादरिभिर्नृपः ॥४३॥ अष्टादशमसङ्ग्रामे आगामिनि तदन्तरा। नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत ॥४४॥ रुरोध मथुरामेत्य तिसृभिर्म्लेच्छकोटिभिः। नृलोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वाऽऽत्मसम्मितान्॥४५॥ तं दृष्ट्वाचिन्तयत्कृष्णः सङ्कर्षणसहायवान्। अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत् ॥४६॥ यवनोऽयं निरुन्धेऽस्मानद्य तावन्महाबलः। मागधोऽप्यद्य वा श्वो वा परश्वो वाऽऽगमिष्यति॥४७॥ आवयोर्युध्यतोरस्य यद्यागन्ता जरासुतः। बन्धून् वधिष्यत्यथ वा नेष्यते स्वपुरं बली ॥४८॥ तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम्। तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥४९॥ इति सम्मन्त्र्य भगवान् दुर्गं द्वादशयोजनम्। अन्तःसमुद्रे नगरं कृत्स्नाद्भुतमचीकरत् ॥५०॥ दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम्। रथ्याचत्वरवीथीभिर्यथावास्तु विनिर्मितम् ॥५१॥ सुरद्रुमलतोद्यानविचित्रोपवनान्वितम्। हेमशृङ्गैर्दिविस्पृग्भिः स्फटिकाट्टालगोपुरैः ॥५२॥ राजतारकुटैः कोष्ठैर्हेमकुम्भैरलङ्कृतैः। रत्नकूटैर्गृहैर्हैमैर्महामारकतस्थलैः ॥५३॥ वास्तोष्पतीनां च गृहैर्वलभीभिश्च निर्मितम्। चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥५४॥ सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः। यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते ॥५५॥ श्यामैककर्णान् वरुणो हयान् शुक्लान् मनोजवान्। अष्टौ निधिपतिः कोशान् लोकपालो निजोदयान्॥५६॥ यद्यद्भगवता दत्तमाधिपत्यं स्वसिद्धये। सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप ॥५७॥ तत्र योगप्रभावेण नीत्वा सर्वजनं हरिः। प्रजापालेन रामेण कृष्णः समनुमन्त्रितः। निर्जगाम पुरद्वारात्पद्ममाली निरायुधः ॥५८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥

॥ एकपञ्चाशत्तमोऽध्यायः - ५१ ॥

श्रीशुकउवाच तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम्। दर्शनीयतमं श्यामं पीतकौशेयवाससम् ॥१॥ श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम्। पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम् ॥२॥ नित्यप्रमुदितं श्रीमत्सुकपोलं शुचिस्मितम्। मुखारविन्दं बिभ्राणं स्फुरन्मकरकुण्डलम् ॥३॥ वासुदेवो ह्ययमिति पुमान् श्रीवत्सलाञ्छनः। चतुर्भुजोऽरविन्दाक्षो वनमाल्यतिसुन्दरः ॥४॥ लक्षणैर्नारदप्रोक्तैर्नान्यो भवितुमर्हति। निरायुधश्चलन् पद्भ्यां योत्स्येऽनेन निरायुधः ॥५॥ इति निश्चित्य यवनःप्राद्रवन्तं पराङ्मुखम्। अन्वधावज्जिघृक्षुस्तं दुरापमपि योगिनाम् ॥६॥ हस्तप्राप्तमिवात्मानं हरिणा स पदे पदे। नीतो दर्शयता दूरं यवनेशोऽद्रिकन्दरम् ॥७॥ पलायनं यदुकुले जातस्य तव नोचितम्। इति क्षिपन्ननुगतो नैनं प्रापाहताशुभः ॥८॥ एवं क्षिप्तोऽपि भगवान् प्राविशद्गिरिकन्दरम्। सोऽपि प्रविष्टस्तत्रान्यं शयानं ददृशे नरम् ॥९॥ नन्वसौ दूरमानीय शेते मामिह साधुवत्। इति मत्वाच्युतं मूढस्तं पदा समताडयत् ॥१०॥ स उत्थाय चिरं सुप्तः शनैरुन्मील्य लोचने। दिशो विलोकयन् पार्श्वे तमद्राक्षीदवस्थितम् ॥११॥ स तावत्तस्य रुष्टस्य दृष्टिपातेन भारत। देहजेनाग्निना दग्धो भस्मसादभवत्क्षणात् ॥१२॥ राजोवाच को नाम स पुमान् ब्रह्मन् कस्य किंवीर्य एव च। कस्माद्गुहां गतः शिश्ये किंतेजो यवनार्दनः ॥१३॥ श्रीशुकउवाच स इक्ष्वाकुकुले जातो मान्धातृतनयो महान्। मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्यसङ्गरः ॥१४॥ स याचितः सुरगणैरिन्द्राद्यैरात्मरक्षणे। असुरेभ्यः परित्रस्तैस्तद्रक्षां सोऽकरोच्चिरम् ॥१५॥ लब्ध्वा गुहं ते स्वःपालं मुचुकुन्दमथाब्रुवन्। राजन् विरमतां कृच्छ्राद्भवान्नः परिपालनात् ॥१६॥ नरलोके परित्यज्य राज्यं निहतकण्टकम्। अस्मान् पालयतो वीर कामास्ते सर्व उज्झिताः॥१७॥ सुता महिष्यो भवतो ज्ञातयोऽमात्यमन्त्रिणः। प्रजाश्च तुल्यकालीया नाधुना सन्ति कालिताः॥१८॥ कालो बलीयान् बलिनां भगवानीश्वरोऽव्ययः। प्रजाः कालयते क्रीडन् पशुपालो यथा पशून् ॥१९॥ वरं वृणीष्व भद्रं ते ऋते कैवल्यमद्य नः। एक एवेश्वरस्तस्य भगवान् विष्णुरव्ययः ॥२०॥ एवमुक्तः स वै देवानभिवन्द्य महायशाः। अशयिष्ट गुहाविष्टो निद्रया देवदत्तया ॥२१॥ स्वापं यातं यस्तु मध्ये बोधयेत्त्वात्मचेतनः । स त्वया दृष्टमात्रस्तु भस्मीभवतु तत्क्ष्णात् ॥२२॥ यवने भस्मसान्नीते भगवान् सात्वतर्षभः। आत्मानं दर्शयामास मुचुकुन्दाय धीमते ॥२३॥ तमालोक्य घनश्यामं पीतकौशेयवाससम्। श्रीवत्सवक्षसं भ्राजत्कौस्तुभेन विराजितम् ॥२४॥ चतुर्भुजं रोचमानं वैजयन्त्या च मालया। चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥२५॥ प्रेक्षणीयं नृलोकस्य सानुरागस्मितेक्षणम्। अपीच्यवयसं मत्तमृगेन्द्रोदारविक्रमम् ॥२६॥ पर्यपृच्छन्महाबुद्धिस्तेजसा तस्य धर्षितः। शङ्कितः शनकै राजा दुर्धर्षमिव तेजसा ॥२७॥ मुचुकुन्दउवाच को भवानिह सम्प्राप्तो विपिने गिरिगह्वरे। पद्भ्यां पद्मपलाशाभ्यां विचरस्युरुकण्टके ॥२८॥ किंस्वित्तेजस्विनां तेजो भगवान् वा विभावसुः। सूर्यः सोमो महेन्द्रो वा लोकपालोऽपरोऽपि वा॥२९॥ मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम्। यद्बाधसे गुहाध्वान्तं प्रदीपः प्रभया यथा ॥३०॥ शुश्रूषतामव्यलीकमस्माकं नरपुङ्गव। स्वजन्म कर्म गोत्रं वा कथ्यतां यदि रोचते ॥३१॥ वयं तु पुरुषव्याघ्र ऐक्ष्वाकाः क्षत्रबन्धवः। मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो ॥३२॥ चिरप्रजागरश्रान्तो निद्रयोपहतेन्द्रियः। शयेऽस्मिन् विजने कामं केनाप्युत्थापितोऽधुना॥३३॥ सोऽपि भस्मीकृतो नूनमात्मीयेनैव पाप्मना। अनन्तरं भवान् श्रीमांल्लक्षितोऽमित्रशातनः ॥३४॥ तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः। हतौजसो महाभाग माननीयोऽसि देहिनाम् ॥३५॥ एवं सम्भाषितो राज्ञा भगवान् भूतभावनः। प्रत्याह प्रहसन् वाण्या मेघनादगभीरया ॥३६॥ श्रीभगवानुवाच जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः। न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयापि हि ॥३७॥ क्वचिद्रजांसि विममे पार्थिवान्युरुजन्मभिः। गुणकर्माभिधानानि न मे जन्मानि कर्हिचित् ॥३८॥ कालत्रयोपपन्नानि जन्मकर्माणि मे नृप। अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥३९॥ तथाप्यद्यतनान्यङ्ग शृणुष्व गदतो मम। विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये । भूमेर्भारायमाणानामसुराणां क्षयायच ॥४०॥ अवतीर्णो यदुकुले गृह आनकदुन्दुभेः। वदन्ति वासुदेवेति वसुदेवसुतं हि माम् ॥४१॥ कालनेमिर्हतः कंसः प्रलम्बाद्याश्च सद्द्विषः। अयं च यवनो दग्धो राजंस्ते तिग्मचक्षुषा ॥४२॥ सोऽहं तवानुग्रहार्थं गुहामेतामुपागतः। प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्तवत्सलः ॥४३॥ वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते। मां प्रसन्नो जनः कश्चिन्न भूयोऽर्हति शोचितुम्॥४४॥ श्रीशुकउवाच इत्युक्तस्तं प्रणम्याह मुचुकुन्दो मुदान्वितः। ज्ञात्वा नारायणं देवं गर्गवाक्यमनुस्मरन् ॥४५॥ मुचुकुन्द उवाच विमोहितोऽयं जन ईशमायया त्वदीयया त्वां न भजत्यनर्थदृक्। सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित्पुरुषश्च वञ्चितः ॥४६॥ लब्ध्वा जनो दुर्लभमत्र मानुषं कथञ्चिदव्यङ्गमयत्नतोऽनघ । पादारविन्दं न भजत्यसन्मतिर्गृहान्धकूपे पतितो यथा पशुः ॥४७॥ ममैष कालोऽजित निष्फलो गतो राज्यश्रियोन्नद्धमदस्य भूपतेः। मर्त्यात्मबुद्धेः सुतदारकोश- भूष्वासज्जमानस्य दुरन्तचिन्तया ॥४८॥ कलेवरेऽस्मिन् घटकुड्यसन्निभे निरूढमानो नरदेव इत्यहम् । वृतो रथेभाश्वपदात्यनीकपैर्गां पर्यटंस्त्वागणयन् सुदुर्मदः ॥४९॥ प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम्। त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥५०॥ पुरा रथैर्हेमपरिष्कृतैश्चरन् मतङ्गजैर्वा नरदेवसंज्ञितः । स एव कालेन दुरत्ययेन ते कलेवरो विट्कृमिभस्मसंज्ञितः ॥५१॥ निर्जित्य दिक्चक्रमभूतविग्रहो वरासनस्थः समराजवन्दितः। गृहेषु मैथुन्यसुखेषु योषितां क्रीडामृगः पूरुष ईश नीयते ॥५२॥ करोति कर्माणि तपःसुनिष्ठितो निवृत्तभोगस्तदपेक्षया ददत्। पुनश्च भूयेयमहं स्वराडिति प्रवृद्धतर्षो न सुखाय कल्पते ॥५३॥ भवापवर्गो भ्रमतो यदा भवेज्जनस्य तर्ह्यच्युत सत्समागमः। सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायतेमतिः ॥५४॥ मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया। यः प्रार्थ्यते साधुभिरेकचर्यया वनं विविक्षद्भिरखण्डभूमिपैः ॥५५॥ न कामयेऽन्यं तव पादसेवना- दकिञ्चनप्रार्थ्यतमाद्वरं विभो। आराध्य कस्त्वां ह्यपवर्गदं हरे वृणीत आर्यो वरमात्मबन्धनम् ॥५६॥ तस्माद्विसृज्याशिष ईश सर्वतो रजस्तमःसत्त्वगुणानुबन्धनाः। निरञ्जनं निर्गुणमद्वयं परं त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥५७॥ चिरमिह वृजिनार्तस्तप्यमानोऽनुतापै- रवितृषषडमित्रोऽलब्धशान्तिः कथञ्चित्। शरणद समुपेतस्त्वत्पदाब्जं परात्मन् अभयमृतमशोकं पाहि माऽऽपन्नमीश ॥५८॥ श्रीभगवानुवाच सार्वभौम महाराज मतिस्ते विमलोर्जिता। वरैः प्रलोभितस्यापि न कामैर्विहता यतः ॥५९॥ प्रलोभितो वरैर्यत्त्वमप्रमादाय विद्धि तत्। न धीरेकान्तभक्तानामाशीर्भिर्भिद्यते क्वचित् ॥६०॥ युञ्जानानामभक्तानां प्राणायामादिभिर्मनः। अक्षीणवासनं राजन् दृश्यते पुनरुत्थितम् ॥६१॥ विचरस्व महीं कामं मय्यावेशितमानसः। अस्त्वेव नित्यदा तुभ्यं भक्तिर्मय्यनपायिनी ॥६२॥ क्षात्रधर्मस्थितो जन्तून् न्यवधीर्मृगयादिभिः। समाहितस्तत्तपसा जह्यघं मदुपाश्रितः ॥६३॥ जन्मन्यनन्तरे राजन् सर्वभूतसुहृत्तमः। भूत्वा द्विजवरस्त्वं वै मामुपैष्यसि केवलम् ॥६४॥ इति श्रीमद्भागवते महापुराणे पारमहंसयां संहितायां दशमस्कन्धे उत्तरार्धे मुचुकुन्दस्तुतिर्नामैकपञ्चाशत्तमोऽध्यायः॥५१॥

॥ द्विपञ्चाशत्तमोऽध्यायः - ५२ ॥

श्रीशुकउवाच इत्थं सोऽनुगृहीतोऽङ्ग कृष्णेनेक्ष्वाकुनन्दनः। तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् ॥१॥ स वीक्ष्य क्षुल्लकान्मर्त्यान् पशून् वीरुद्वनस्पतीन्। मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम् ॥२॥ तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः। समाधाय मनःकृष्णे प्राविशद्गन्धमादनम् ॥३॥ बदर्याश्रममासाद्य नरनारायणालयम्। सर्वद्वन्द्वसहः शान्तस्तपसाऽऽराधयद्धरिम् ॥४॥ भगवान् पुनराव्रज्य पुरीं यवनवेष्टिताम्। हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम् ॥५॥ नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः। आजगाम जरासन्धस्त्रयोविंशत्यनीकपः ॥६॥ विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ। मनुष्यचेष्टामापन्नौ राजन् दुद्रुवतुर्द्रुतम् ॥७॥ विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत्। पद्भ्यां पद्मपलाशाभ्यां चेरतुर्बहुयोजनम् ॥८॥ पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली। अन्वधावद्रथानीकैरीशयोरप्रमाणवित् ॥९॥ प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम्। प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति ॥१०॥ गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप। ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन् ॥११॥ तत उत्पत्य तरसा दह्यमानतटादुभौ। दशैकयोजनोत्तुङ्गान्निपेततुरधो भुवि ॥१२॥ अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ। स्वपुरं पुनरायातौ समुद्रपरिखां नृप ॥१३॥ सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ। बलमाकृष्य सुमहन्मगधान् मागधो ययौ ॥१४॥ आनर्ताधिपतिः श्रीमान् रैवतो रेवतीं सुताम्। ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम् ॥१५॥ भगवानपि गोविन्द उपयेमे कुरूद्वह। वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे ॥१६॥ प्रमथ्य तरसा राज्ञः शाल्वादींश्चैद्यपक्षगान्। पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधामिव ॥१७॥ राजोवाच भगवान् भीष्मकसुतां रुक्मिणीं रुचिराननाम्। राक्षसेन विधानेन उपयेम इति श्रुतम् ॥१८॥ भगवन् श्रोतुमिच्छामि कृष्णस्यामिततेजसः। यथा मागधशाल्वादीन् जित्वा कन्यामुपाहरत्॥१९॥ ब्रह्मन् कृष्णकथाःपुण्या माध्वीर्लोकमलापहाः। को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनाः ॥२०॥ श्रीशुक उवाच राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान्। तस्य पञ्चाभवन् पुत्राः कन्यैका च वरानना ॥२१॥ रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः। रुक्मकेशो रुक्ममाली रुक्मिण्येषां स्वसा सती॥२२॥ सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः। गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् ॥२३॥ तां बुद्धिलक्षणौदार्यरूपशीलगुणाश्रयाम्। कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥२४॥ बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप। ततो निवार्य कृष्णद्विड् रुक्मी चैद्यममन्यत ॥२५॥ तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम्। विचिन्त्याप्तं द्विजं कञ्चित्कृष्णाय प्राहिणोद्द्रुतम्॥२६॥ द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः। अपश्यदाद्यं पुरुषमासीनं काञ्चनासने ॥२७॥ दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात्। उपवेश्यार्हयांचक्रे यथाऽऽत्मानं दिवौकसः ॥२८॥ तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः। पाणिनाभिमृशन् पादावव्यग्रस्तमपृच्छत ॥२९॥ कच्चिद्द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः। वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा ॥३०॥ सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित्। अहीयमानः स्वाद्धर्मात्स ह्यस्याखिलकामधुक्॥३१॥ असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः। अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः ॥३२॥ विप्रान् स्वलाभसन्तुष्टान् साधून् भूतसुहृत्तमान्। निरहङ्कारिणः शान्तान्नमस्ये शिरसासकृत् ॥३३॥ कच्चिद्वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः। सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥३४॥ यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया। सर्वं नो ब्रूह्यगुह्यं चेत्किं कार्यं करवाम ते ॥३५॥ एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना। लीलागृहीतदेहेन तस्मै सर्वमवर्णयत् ॥३६॥ रुक्मिण्युवाच श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् । रूपं दृशां दृशिमतामखिलार्थलाभं त्वय्यच्युताविशति चित्तमपत्रपं मे ॥३७॥ का त्वा मुकुन्द महती कुलशीलरूप- विद्यावयोद्रविणधामभिरात्मतुल्यम् । धीरा पतिं कुलवती न वृणीत कन्या काले नृसिंह नरलोकमनोऽभिरामम् ॥३८॥ तन्मे भवान् खलु वृतः पतिरङ्ग जाया- मात्मार्पितश्च भवतोऽत्र विभो विधेहि। मा वीरभागमभिमर्शतु चैद्य आराद्- गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष ॥३९॥ पूर्तेष्टदत्तनियमव्रतदेवविप्र- गुर्वर्चनादिभिरलं भगवान् परेशः । आराधितो यदि गदाग्रज एत्य पाणिं गृह्णातु मे न दमघोषसुतादयोऽन्ये ॥४०॥ श्वोभाविनि त्वमजितोद्वहने विदर्भान् गुप्तः समेत्य पृतनापतिभिः परीतः । निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य मां राक्षसेनविधिनोद्वह वीर्यशुल्काम् ॥४१॥ अन्तःपुरान्तरचरीमनिहत्य बन्धून् त्वामुद्वहे कथमिति प्रवदाम्युपायम् । पूर्वेद्युरस्ति महती कुलदेवियात्रा यस्यां बहिर्नववधूर्गिरिजामुपेयात् ॥४२॥ यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै । यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात् ॥४३॥ ब्राह्मण उवाच इत्येते गुह्यसन्देशा यदुदेव मयाहृताः। विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम् ॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहप्रस्तावे द्विपञ्चाशत्तमोऽध्यायः॥५२॥

॥ त्रिपञ्चाशत्तमोऽध्यायः - ५३ ॥

श्रीशुक उवाच वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः। प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् ॥१॥ श्रीभगवानुवाच तथाहमपि तच्चित्तो निद्रां च न लभे निशि। वेदाहं रुक्मिणा द्वेषान्ममोद्वाहो निवारितः ॥२॥ तामानयिष्य उन्मथ्य राजन्यापसदान् मृधे। मत्परामनवद्याङ्गीमेधसोऽग्निशिखामिव ॥३॥ श्रीशुक उवाच उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः। रथः संयुज्यतामाशु दारुकेत्याह सारथिम् ॥४॥ स चाश्वैः शैब्यसुग्रीवमेघपुष्पबलाहकैः। युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः ॥५॥ आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः। आनर्तादेकरात्रेण विदर्भानगमद्धयैः ॥६॥ राजा स कुण्डिनपतिः पुत्रस्नेहवशं गतः। शिशुपालाय स्वां कन्यां दास्यन् कर्माण्यकारयत्॥७॥ पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम्। चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् ॥८॥ स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः। जुष्टं स्त्रीपुरुषैः श्रीमद्गृहैरगुरुधूपितैः ॥९॥ पितॄन् देवान् समभ्यर्च्य विप्रांश्च विधिवन्नृप। भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ॥१०॥ सुस्नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम्। अहतांशुकयुग्मेन भूषितां भूषणोत्तमैः ॥११॥ चक्रुः सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमाः। पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये ॥१२॥ हिरण्यरूप्यवासांसि तिलांश्च गुडमिश्रितान्। प्रादाद्धेनूश्च विप्रेभ्यो राजा विधिविदां वरः ॥१३॥ एवं चेदिपती राजा दमघोषः सुताय वै। कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम् ॥१४॥ मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः। पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ ॥१५॥ तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च। निवेशयामास मुदा कल्पितान्यनिवेशने ॥१६॥ तत्र शाल्वो जरासन्धो दन्तवक्त्रो विदूरथः। आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः ॥१७॥ कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम्। यद्यागत्य हरेत्कृष्णो रामाद्यैर्यदुभिर्वृतः ॥१८॥ योत्स्यामः संहतास्तेन इति निश्चितमानसाः। आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः ॥१९॥ श्रुत्वैतद्भगवान् रामो विपक्षीयनृपोद्यमम्। कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः ॥२०॥ बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः। त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः ॥२१॥ भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः। प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा ॥२२॥ अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः। नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम्। सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः ॥२३॥ अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम्। मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः ॥२४॥ दुर्भगाया न मे धाता नानुकूलो महेश्वरः। देवी वा विमुखा गौरी रुद्राणी गिरिजा सती ॥२५॥ एवं चिन्तयती बाला गोविन्दहृतमानसा। न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥२६॥ एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप। वाम ऊरुर्भुजो नेत्रमस्फुरन् प्रियभाषिणः ॥२७॥ अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः। अन्तःपुरचरीं देवीं राजपुत्रीं ददर्श ह ॥२८॥ सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती। आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता ॥२९॥ तस्या आवेदयत्प्राप्तं शशंस यदुनन्दनम्। उक्तं च सत्यवचनमात्मोपनयनं प्रति ॥३०॥ तमागतं समाज्ञाय वैदर्भी हृष्टमानसा। न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥३१॥ प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ। अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणैः ॥३२॥ मधुपर्कमुपानीय वासांसि विरजांसि सः। उपायनान्यभीष्टानि विधिवत्समपूजयत् ॥३३॥ तयोर्निवेशनं श्रीमदुपाकल्प्य महामतिः। ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा ॥३४॥ एवं राज्ञां समेतानां यथावीर्यं यथावयः। यथाबलं यथावित्तं सर्वैः कामैः समर्हयत् ॥३५॥ कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः। आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम् ॥३६॥ अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा। असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥३७॥ किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत्। अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः ॥३८॥ एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः। कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताम्बिकालयम् ॥३९॥ पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम्। सा चानुध्यायती सम्यङ्मुकुन्दचरणाम्बुजम् ॥४०॥ यतवाङ्मातृभिः सार्धं सखीभिः परिवारिता। गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः। मृदङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे ॥४१॥ नानोपहारबलिभिर्वारमुख्याः सहस्रशः। स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्यः स्वलङ्कृताः ॥४२॥ गायन्तश्च स्तुवन्तश्च गायका वाद्यवादकाः। परिवार्य वधूं जग्मुः सूतमागधवन्दिनः ॥४३॥ आसाद्य देवीसदनं धौतपादकराम्बुजा। उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ॥४४॥ तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः। भवानीं वन्दयांचक्रुर्भवपत्नीं भवान्विताम् ॥४५॥ नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम्। भूयात्पतिर्मे भगवान् कृष्णस्तदनुमोदताम् ॥४६॥ अद्भिर्गन्धाक्षतैर्धूपैर्वासःस्रङ्माल्यभूषणैः। नानोपहारबलिभिः प्रदीपावलिभिः पृथक् ॥४७॥ विप्रस्त्रियः पतिमतीस्तथा तैः समपूजयत्। लवणापूपताम्बूलकण्ठसूत्रफलेक्षुभिः ॥४८॥ तस्यै स्त्रियस्ताः प्रददुः शेषां युयुजुराशिषः। ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधूः ॥४९॥ मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात्। प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ॥५०॥ तां देवमायामिव वीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननाम्। श्यामां नितम्बार्पितरत्नमेखलां व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् ॥५१॥ शुचिस्मितां बिम्बफलाधरद्युति शोणायमानद्विजकुन्दकुड्मलाम्। पदा चलन्तीं कलहंसगामिनीं शिञ्जत्कलानूपुरधामशोभिना । विलोक्य वीरा मुमुहुः समागता यशस्विनस्तत्कृतहृच्छयार्दिताः ॥५२॥ यां वीक्ष्य ते नृपतयस्तदुदारहास- व्रीडावलोकहृतचेतस उज्झितास्त्राः । पेतुः क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम् ॥५३॥ सैवं शनैश्चलयती चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा । उत्सार्य वामकरजैरलकानपाङ्गैः प्राप्तान् ह्रियैक्षत नृपान् ददृशेऽच्युतं सा ॥५४। तां राजकन्यां रथमारुरुक्षतीं जहार कृष्णो द्विषतां समीक्षताम् । रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः ॥५५॥ ततो ययौ रामपुरोगमैः शनैः शृगालमध्यादिव भागहृद्धरिः ॥५६॥ तं मानिनः स्वाभिभवं यशःक्षयं परे जरासन्धमुखा न सेहिरे । अहो धिगस्मान्यश आत्तधन्वनां गोपैर्हृतं केसरिणां मृगैरिव ॥५७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिणीहरणं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३॥

॥ चतुःपञ्चाशत्तमोऽध्यायः - ५४ ॥

श्रीशुक उवाच इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः। स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः ॥१॥ तानापतत आलोक्य यादवानीकयूथपाः। तस्थुस्तत्सम्मुखा राजन् विस्फूर्ज्य स्वधनूंषि ते ॥२॥ अश्वपृष्ठे गजस्कन्धे रथोपस्थे च कोविदाः। मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा ॥३॥ पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा। सव्रीडमैक्षत्तद्वक्त्रं भयविह्वललोचना ॥४॥ प्रहस्य भगवानाह मा स्म भैर्वामलोचने। विनङ्क्ष्यत्यधुनैवैतत्तावकैः शात्रवं बलम् ॥५॥ तेषां तद्विक्रमं वीरा गदसङ्कर्षणादयः। अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान् रथान् ॥६॥ पेतुः शिरांसि रथिनामश्विनां गजिनां भुवि। सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः ॥७॥ हस्ताः सासिगदेष्वासाः करभा ऊरवोऽङ्घ्रयः। अश्वाश्वतरनागोष्ट्रखरमर्त्यशिरांसि च ॥८॥ हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः। राजानो विमुखा जग्मुर्जरासन्धपुरःसराः ॥९॥ शिशुपालं समभ्येत्य हृतदारमिवातुरम्। नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन् ॥१०॥ भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज। न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते ॥११॥ यथा दारुमयी योषिन्नृत्यते कुहकेच्छया। एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः ॥१२॥ शौरेः सप्तदशाहं वै संयुगानि पराजितः। त्रयोविंशतिभिः सैन्यैर्जिग्ये एकमहं परम् ॥१३॥ तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित्। कालेन दैवयुक्तेन जानन् विद्रावितं जगत् ॥१४॥ अधुनापि वयं सर्वे वीरयूथपयूथपाः। पराजिताः फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः ॥१५॥ रिपवो जिग्युरधुना काल आत्मानुसारिणि। तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः ॥१६॥ एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम्। हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः ॥१७॥ रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन् स्वसुः। पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली ॥१८॥ रुक्म्यमर्षी सुसंरब्धः शृण्वतां सर्वभूभुजाम्। प्रतिजज्ञे महाबाहुर्दंशितः सशरासनः ॥१९॥ अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम्। कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः ॥२०॥ इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः। चोदयाश्वान् यतः कृष्णस्तस्य मे संयुगं भवेत्॥२१॥ अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मतेः। नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता ॥२२॥ विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित्। रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत् ॥२३॥ धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः। आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन ॥२४॥ कुत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद्धविः। हरिष्येऽद्य मदं मन्द मायिनः कूटयोधिनः ॥२५॥ यावन्न मे हतो बाणैः शयीथा मुञ्च दारीकाम्। स्मयन् कृष्णो धनुश्छित्त्वा षड्भिर्विव्याध रुक्मिणम् ॥२६॥ अष्टभिश्चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः। स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभिः ॥२७॥ तैस्ताडितः शरौघैस्तु चिच्छेद धनुरच्युतः। पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः ॥२८॥ परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ। यद्यदायुधमादत्त तत्सर्वं सोऽच्छिनद्धरिः ॥२९॥ ततो रथादवप्लुत्य खड्गपाणिर्जिघांसया। कृष्णमभ्यद्रवत्क्रुद्धः पतङ्ग इव पावकम् ॥३०॥ तस्य चापततः खड्गं तिलशश्चर्म चेषुभिः। छित्त्वासिमाददे तिग्मं रुक्मिणं हन्तुमुद्यतः ॥३१॥ दृष्ट्वा भ्रातृवधोद्योगं रुक्मिणी भयविह्वला। पतित्वा पादयोर्भर्तुरुवाच करुणं सती ॥३२॥ योगेश्वराप्रमेयात्मन् देव देव जगत्पते। हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज ॥३३॥ श्रीशुक उवाच तया परित्रासविकम्पिताङ्गया शुचावशुष्यन्मुखरुद्धकण्ठया। कातर्यविस्रंसितहेममालया गृहीतपादः करुणो न्यवर्तत ॥३४॥ चैलेन बद्ध्वा तमसाधुकारिणं सश्मश्रुकेशं प्रवपन् व्यरूपयत्। तावन्ममर्दुः परसैन्यमद्भुतं यदुप्रवीरा नलिनीं यथा गजाः ॥३५॥ कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुक्मिणम्। तथा भूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः। विमुच्य बद्धं करुणो भगवान् कृष्णमब्रवीत् ॥३६॥ असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम्। वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधः ॥३७॥ मैवास्मान् साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया। सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक् पुमान् ॥३८॥ बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति। त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥३९॥ क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः। भ्रातापि भ्रातरं हन्याद्येन घोरतरस्ततः ॥४०॥ राज्यस्य भूमेर्वित्तस्य स्त्रियो मानस्य तेजसः। मानिनोऽन्यस्य वा हेतोः श्रीमदान्धाः क्षिपन्ति हि ॥४१॥ तवेयं विषमा बुद्धिः सर्वभूतेषु दुर्हृदाम्। यन्मन्यसे सदाभद्रं सुहृदां भद्रमज्ञवत् ॥४२॥ आत्ममोहो नृणामेष कल्पते देवमायया। सुहृद्दुर्हृदुदासीन इति देहात्ममानिनाम् ॥४३॥ एक एव परो ह्यात्मा सर्वेषामपि देहिनाम्। नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥४४॥ देह आद्यन्तवानेष द्रव्यप्राणगुणात्मकः। आत्मन्यविद्यया कॢप्तः संसारयति देहिनम् ॥४५॥ नात्मनोऽन्येन संयोगो वियोगश्चासतः सति। तद्धेतुत्वात्तत्प्रसिद्धेर्दृग्रूपाभ्यां यथा रवेः ॥४६॥ जन्मादयस्तु देहस्य विक्रिया नात्मनः क्वचित्। कलानामिव नैवेन्दोर्मृतिर्ह्यस्य कुहूरिव ॥४७॥ यथा शयान आत्मानं विषयान् फलमेव च। अनुभुङ्क्तेऽप्यसत्यर्थे तथाऽऽप्नोत्यबुधो भवम् ॥४८॥ तस्मादज्ञानजं शोकमात्मशोषविमोहनम्। तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ॥४९॥ श्रीशुक उवाच एवं भगवता तन्वी रामेण प्रतिबोधिता। वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥५०॥ प्राणावशेष उत्सृष्टो द्विड्भिर्हतबलप्रभः। स्मरन् विरूपकरणं वितथात्ममनोरथः ॥ ५१ ॥ चक्रे भोजकटं नाम निवासाय महत्पुरम् । अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम्। कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद्रुषा ॥५२॥ भगवान् भीष्मकसुतामेवं निर्जित्य भूमिपान्। पुरमानीय विधिवदुपयेमे कुरूद्वह ॥५३॥ सगोनसंगोगो तदा महोत्सवो नॄणां यदुपुर्यां गृहे गृहे। अभूदनन्यभावानां कृष्णे यदुपतौ नृप ॥५४॥ नरा नार्यश्च मुदिताः प्रमृष्टमणिकुण्डलाः। पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससोः ॥५५॥ सा वृष्णिपुर्युत्तभितेन्द्रकेतुभि- र्विचित्रमाल्याम्बररत्नतोरणैः । बभौ प्रतिद्वार्युपकॢप्तमङ्गलै- रापूर्णकुम्भागुरुधूपदीपकैः ॥५६॥ सिक्तमार्गा मदच्युद्भिराहूतप्रेष्ठभूभुजाम्। गजैर्द्वाःसु परामृष्टरम्भापूगोपशोभिता ॥५७॥ कुरुसृञ्जयकैकेयविदर्भयदुकुन्तयः। मिथो मुमुदिरे तस्मिन् सम्भ्रमात्परिधावताम् ॥५८॥ रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः। राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः ॥५९॥ द्वारकायामभूद्राजन् महामोदः पुरौकसाम्। रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियःपतिम् ॥६०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहे चतुःपञ्चाशत्तमोऽध्यायः॥५४॥

॥ पञ्चपञ्चाशत्तमोऽध्यायः - ५५ ॥

श्रीशुक उवाच कामस्तु वासुदेवांशो दग्धः प्राग्रुद्रमन्युना। देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥१॥ स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः। प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥२॥ तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम्। स विदित्वाऽऽत्मनः शत्रुं प्रास्योदन्वत्यगाद्गृहम् ॥३॥ तं निर्जगार बलवान् मीनः सोऽप्यपरैः सह। वृतो जालेन महता गृहीतो मत्स्यजीविभिः ॥४॥ तं शम्बराय कैवर्ता उपाजह्रुरुपायनम्। सूदा महानसं नीत्वावद्यन् सुधितिनाद्भुतम् ॥५॥ दृष्ट्वा तदुदरे बालं मायावत्यै न्यवेदयन्। नारदोऽकथयत्सर्वं तस्याः शङ्कितचेतसः। बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् ॥६॥ सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी। पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षती ॥७॥ निरूपिता शम्बरेण सा सूदौदनसाधने। कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥८॥ नातिदीर्घेण कालेन स कार्ष्णी रूढयौवनः। जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥९॥ सा तं पतिं पद्मदलायतेक्षणं प्रलम्बबाहुं नरलोकसुन्दरम्। सव्रीडहासोत्तभितभ्रुवेक्षती प्रीत्योपतस्थे रतिरङ्ग सौरतैः ॥१०॥ तामाह भगवान् कार्ष्णिर्मातस्ते मतिरन्यथा। मातृभावमतिक्रम्य वर्तसे कामिनी यथा ॥११॥ रतिरुवाच भवान् नारायणसुतः शम्बरेण हृतो गृहात्। अहं तेऽधिकृता पत्नी रतिः कामो भवान् प्रभो ॥१२॥ एष त्वानिर्दशं सिन्धावक्षिपच्छम्बरोऽसुरः। मत्स्योऽग्रसीत्तदुदरादिह प्राप्तो भवान् प्रभो ॥१३॥ तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः। मायाशतविदं त्वं च मायाभिर्मोहनादिभिः ॥१४॥ परिशोचति ते माता कुररीव गतप्रजा। पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा ॥१५॥ प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने। मायावती महामायां सर्वमायाविनाशिनीम् ॥१६॥ स च शम्बरमभ्येत्य संयुगाय समाह्वयत्। अविषह्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥१७॥ सोऽधिक्षिप्तो दुर्वचोभिः पादाहत इवोरगः। निश्चक्राम गदापाणिरमर्षात्ताम्रलोचनः ॥१८॥ गदामाविध्य तरसा प्रद्युम्नाय महात्मने। प्रक्षिप्य व्यनदन्नादं वज्रनिष्पेषनिष्ठुरम् ॥१९॥ तामापतन्तीं भगवान् प्रद्युम्नो गदया गदाम्। अपास्य शत्रवे क्रुद्धः प्राहिणोत्स्वगदां नृप ॥२०॥ स च मायां समाश्रित्य दैतेयीं मयदर्शिताम्। मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः ॥२१॥ बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः। सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् ॥२२॥ ततो गौह्यकगान्धर्वपैशाचोरगराक्षसीः। प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः ॥२३॥ निशातमसिमुद्यम्य सकिरीटं सकुण्डलम्। शम्बरस्य शिरः कायात्ताम्रश्मश्र्वोजसाहरत् ॥२४॥ आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः। भार्ययाम्बरचारिण्या पुरं नीतो विहायसा ॥२५॥ अन्तःपुरवरं राजन् ललनाशतसङ्कुलम्। विवेश पत्न्या गगनाद्विद्युतेव बलाहकः ॥२६॥ तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम्। प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥२७॥ स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः। कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह ॥२८॥ अवधार्य शनैरीषद्वैलक्षण्येन योषितः। उपजग्मुः प्रमुदिताः सस्त्रीरत्नं सुविस्मिताः ॥२९॥ अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी। अस्मरत्स्वसुतं नष्टं स्नेहस्नुतपयोधरा ॥३०॥ को न्वयं नरवैदूर्यः कस्य वा कमलेक्षणः। धृतः कया वा जठरे केयं लब्धा त्वनेन वा ॥३१॥ मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात्। एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ॥३२॥ कथं त्वनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः। आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ॥३३॥ स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भकः। अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः ॥३४॥ एवं मीमांसमानायां वैदर्भ्यां देवकीसुतः। देवक्यानकदुन्दुभ्यामुत्तमश्लोक आगमत् ॥३५॥ विज्ञातार्थोऽपि भगवांस्तूष्णीमास जनार्दनः। नारदोऽकथयत्सर्वं शम्बराहरणादिकम् ॥३६॥ तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः। अभ्यनन्दन् बहूनब्दान् नष्टं मृतमिवागतम् ॥३७॥ देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः। दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम् ॥३८॥ नष्टं प्रद्युम्नमायातमाकर्ण्य द्वारकौकसः। अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥३९॥ यं वै मुहुः पितृसरूपनिजेशभावा- स्तन्मातरो यदभजन् रहरूढभावाः । चित्रं न तत्खलु रमास्पदबिम्बबिम्बे कामे स्मरेऽक्षविषये किमुतान्यनार्यः ॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥

॥ षट्पञ्चाशत्तमोऽध्यायः - ५६ ॥

श्रीशुक उवाच सत्राजितः स्वतनयां कृष्णाय कृतकिल्बिषः। स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् ॥१॥ राजोवाच सत्राजितः किमकरोद्ब्रह्मन् कृष्णस्य किल्बिषम्। स्यमन्तकः कुतस्तस्य कस्माद्दत्ता सुता हरेः ॥२॥ श्रीशुक उवाच आसीत्सत्राजितः सूर्यो भक्तस्य परमः सखा। प्रीतस्तस्मै मणिं प्रादात्सूर्यस्तुष्टः स्यमन्तकम् ॥३॥ स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः। प्रविष्टो द्वारकां राजंस्तेजसा नोपलक्षितः ॥४॥ तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टयः। दीव्यतेऽक्षैर्भगवते शशंसुः सूर्यशङ्किताः ॥५॥ नारायण नमस्तेस्तु शङ्खचक्रगदाधर। दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥६॥ एष आयाति सविता त्वां दिदृक्षुर्जगत्पते। मुष्णन् गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगुः ॥७॥ नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः। ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो ॥८॥ श्रीशुक उवाच निशम्य बालवचनं प्रहस्याम्बुजलोचनः। प्राह नासौ रविर्देवः सत्राजिन्मणिना ज्वलन् ॥९॥ सत्राजित्स्वगृहं श्रीमत्कृतकौतुकमङ्गलम्। प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत्॥१०॥ दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो। दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभाः। न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः ॥११॥ स याचितो मणिं क्वापि यदुराजाय शौरिणा। नैवार्थकामुकः प्रादाद्याच्ञाभङ्गमतर्कयन् ॥१२॥ तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम्। प्रसेनो हयमारुह्य मृगयां व्यचरद्वने ॥१३॥ प्रसेनं सहयं हत्वा मणिमाच्छिद्य केसरी। गिरिं विशन् जाम्बवता निहतो मणिमिच्छता ॥१४॥ सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले। अपश्यन् भ्रातरं भ्राता सत्राजित्पर्यतप्यत ॥१५॥ प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः। भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपन् जनाः ॥१६॥ भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि। मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः ॥१७॥ हतं प्रसेनमश्वं च वीक्ष्य केसरिणा वने। तं चाद्रिपृष्ठे निहतं ऋक्षेण ददृशुर्जनाः ॥१८॥ ऋक्षराजबिलं भीममन्धेन तमसाऽऽवृतम्। एको विवेश भगवानवस्थाप्य बहिः प्रजाः ॥१९॥ तत्र दृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम्। हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके ॥२०॥ तमपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत्। तच्छ्रुत्वाभ्यद्रवत्क्रुद्धो जाम्बवान् बलिनां वरः ॥२१॥ स वै भगवता तेन युयुधे स्वामिनाऽऽत्मनः। पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित्॥२२॥ द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतोः। आयुधाश्मद्रुमैर्दोर्भिः क्रव्यार्थे श्येनयोरिव ॥२३॥ आसीत्तदष्टाविंशाहमितरेतरमुष्टिभिः। वज्रनिष्पेषपरुषैरविश्रममहर्निशम् ॥२४॥ कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धनः। क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीव विस्मितः ॥२५॥ जाने त्वां सर्वभूतानां प्राण ओजः सहो बलम्। विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥२६॥ त्वं हि विश्वसृजां स्रष्टा सृज्यानामपि यच्च सत्। कालः कलयतामीशः पर आत्मा तथाऽऽत्मनाम् ॥२७॥ यस्येषदुत्कलितरोषकटाक्षमोक्षै- र्वर्त्मादिशत्क्षुभितनक्रतिमिङ्गिलोऽब्धिः । सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का रक्षः शिरांसि भुवि पेतुरिषुक्षतानि ॥२८॥ इति विज्ञातवीज्ञानं ऋक्षराजानमच्युतः। व्याजहार महाराज भगवान् देवकीसुतः ॥२९॥ अभिमृश्यारविन्दाक्षः पाणिना शंकरेण तम्। कृपया परया भक्तं प्रेमगम्भीरया गिरा ॥३०॥ मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम्। मिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना ॥३१॥ इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा। अर्हणार्थं स मणिना कृष्णायोपजहार ह ॥३२॥ अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः। प्रतीक्ष्य द्वादशाहानि दुःखिताः स्वपुरं ययुः ॥३३॥ निशम्य देवकी देवी रुक्मिण्यानकदुन्दुभिः। सुहृदो ज्ञातयोऽशोचन् बिलात्कृष्णमनिर्गतम् ॥३४॥ सत्राजितं शपन्तस्ते दुःखिता द्वारकौकसः। उपतस्थुर्महामायां दुर्गां कृष्णोपलब्धये ॥३५॥ तेषां तु देव्युपस्थानात्प्रत्यादिष्टाशिषा स च। प्रादुर्बभूव सिद्धार्थः सदारो हर्षयन् हरिः ॥३६॥ उपलभ्य हृषीकेशं मृतं पुनरिवागतम्। सह पत्न्या मणिग्रीवं सर्वे जातमहोत्सवाः ॥३७॥ सत्राजितं समाहूय सभायां राजसन्निधौ। प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत्॥३८॥ स चातिव्रीडितो रत्नं गृहीत्वावाङ्मुखस्ततः। अनुतप्यमानो भवनमगमत्स्वेन पाप्मना ॥३९॥ सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः। कथं मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम् ॥४०॥ किं कृत्वा साधु मह्यं स्यान्न शपेद्वा जनो यथा। अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम् ॥४१॥ दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नमेव च। उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यथा ॥४२॥ एवं व्यवसितो बुद्ध्या सत्राजित्स्वसुतां शुभाम्। मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह ॥४३॥ तां सत्यभामां भगवानुपयेमे यथाविधि। बहुभिर्याचितां शीलरूपौदार्यगुणान्विताम् ॥४४॥ भगवानाह न मणिं प्रतीच्छामो वयं नृप। तवास्तां देवभक्तस्य वयं च फलभागिनः ॥४५॥ इति श्रीमद्भागवाते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने षट्पञ्चाशत्तमोऽध्यायः॥५६

॥ सप्तपञ्चाशत्तमोऽध्यायः - ५७ ॥

श्रीशुक उवाच विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान्। कुन्तीं च कुल्यकरणे सह रामो ययौ कुरून् ॥१॥ भीष्मं कृपं सविदुरं गान्धारीं द्रोणमेव च। तुल्यदुःखौ च सङ्गम्य हा कष्टमिति होचतुः ॥२॥ लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतुः। अक्रूरकृतवर्माणौ मणिः कस्मान्न गृह्यते ॥३॥ योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः। कृष्णायादान्न सत्राजित्कस्माद्भ्रातरमन्वियात्॥४॥ एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः। शयानमवधील्लोभात्स पापः क्षीणजीवितः ॥५॥ स्त्रीणां विक्रोशमानानां क्रन्दन्तीनामनाथवत्। हत्वा पशून् सौनिकवन्मणिमादाय जग्मिवान् ॥६॥ सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता। व्यलपत्तात तातेति हा हतास्मीति मुह्यती ॥७॥ तैलद्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम्। कृष्णाय विदितार्थाय तप्ताऽऽचख्यौ पितुर्वधम् ॥८॥ तदाकर्ण्येश्वरौ राजन्ननुसृत्य नृलोकताम्। अहो नः परमं कष्टमित्यस्राक्षौ विलेपतुः ॥९॥ आगत्य भगवांस्तस्मात्सभार्यः साग्रजः पुरम्। शतधन्वानमारेभे हन्तुं हर्तुं मणिं ततः ॥१०॥ सोऽपि कृष्णोद्यमं ज्ञात्वा भीतः प्राणपरीप्सया। साहाय्ये कृतवर्माणमयाचत स चाब्रवीत् ॥११॥ नाहमीश्वरयोः कुर्यां हेलनं रामकृष्णयोः। को नु क्षेमाय कल्पेत तयोर्वृजिनमाचरन् ॥१२॥ कंसः सहानुगोऽपीतो यद्द्वेषात्त्याजितः श्रिया। जरासन्धः सप्तदश संयुगान् विरथो गतः ॥१३॥ प्रत्याख्यातः स चाक्रूरं पार्ष्णिग्राहमयाचत। सोऽप्याह को विरुध्येत विद्वानीश्वरयोर्बलम् ॥१४॥ य इदं लीलया विश्वं सृजत्यवति हन्ति च। चेष्टां विश्वसृजो यस्य न विदुर्मोहिताजया ॥१५॥ यः सप्तहायनः शैलमुत्पाट्यैकेन पाणिना। दधार लीलया बाल उच्छिलीन्ध्रमिवार्भकः ॥१६॥ नमस्तस्मै भगवते कृष्णायाद्भुतकर्मणे। अनन्तायादिभूताय कूटस्थायात्मने नमः ॥१७॥ प्रत्याख्यातः स तेनापि शतधन्वा महामणिम्। तस्मिन् न्यस्याश्वमारुह्य शतयोजनगं ययौ ॥१८॥ गरुडध्वजमारुह्य रथं रामजनार्दनौ। अन्वयातां महावेगैरश्वै राजन् गुरुद्रुहम् ॥१९॥ मिथिलायामुपवने विसृज्य पतितं हयम्। पद्भ्यामधावत्सन्त्रस्तः कृष्णोऽप्यन्वद्रवद्रुषा ॥२०॥ पदातेर्भगवांस्तस्य पदातिस्तिग्मनेमिना। चक्रेण शिर उत्कृत्य वाससोर्व्यचिनोन्मणिम् ॥२१॥ अलब्धमणिरागत्य कृष्ण आहाग्रजान्तिकम्। वृथा हतः शतधनुर्मणिस्तत्र न विद्यते ॥२२॥ तत आह बलो नूनं स मणिः शतधन्वना। कस्मिंश्चित्पुरुषे न्यस्तस्तमन्वेष पुरं व्रज ॥२३॥ अहं विदेहमिच्छामि द्रष्टुं प्रियतमं मम। इत्युक्त्वा मिथिलां राजन् विवेश यदुनन्दनः ॥२४॥ तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीतमानसः। अर्हयामास विधिवदर्हणीयं समर्हणैः ॥२५॥ उवास तस्यां कतिचिन्मिथिलायां समा विभुः। मानितः प्रीतियुक्तेन जनकेन महात्मना। ततोऽशिक्षद्गदां काले धार्तराष्ट्रः सुयोधनः ॥२६॥ केशवो द्वारकामेत्य निधनं शतधन्वनः। अप्राप्तिं च मणेः प्राह प्रियायाः प्रियकृद्विभुः ॥२७॥ ततः स कारयामास क्रिया बन्धोर्हतस्य वै। साकं सुहृद्भिर्भगवान् या याः स्युः साम्परायिकाः ॥२८॥ अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर्वधम्। व्यूषतुर्भयवित्रस्तौ द्वारकायाः प्रयोजकौ ॥२९॥ अक्रूरे प्रोषितेऽरिष्टान्यासन् वै द्वारकौकसाम्। शारीरा मानसास्तापा मुहुर्दैविकभौतिकाः ॥३०॥ इत्यङ्गोपदिशन्त्येके विस्मृत्य प्रागुदाहृतम्। मुनिवासनिवासे किं घटेतारिष्टदर्शनम् ॥३१॥ देवेऽवर्षति काशीशः श्वफल्कायागताय वै। स्वसुतां गान्दिनीं प्रादात्ततोऽवर्षत्स्म काशिषु ॥३२॥ तत्सुतस्तत्प्रभावोऽसावक्रूरो यत्र यत्र ह। देवोऽभिवर्षते तत्र नोपतापा न मारीकाः ॥३३॥ इति वृद्धवचः श्रुत्वा नैतावदिह कारणम्। इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः ॥३४॥ पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः। विज्ञाताखिलचित्तज्ञः स्मयमान उवाच ह ॥३५॥ ननु दानपते न्यस्तस्त्वय्यास्ते शतधन्वना। स्यमन्तको मणिः श्रीमान् विदितः पूर्वमेव नः ॥३६॥ सत्राजितोऽनपत्यत्वाद्गृह्णीयुर्दुहितुः सुताः। दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम् ॥३७॥ तथापि दुर्धरस्त्वन्यैस्त्वय्यास्तां सुव्रते मणिः। किन्तु मामग्रजः सम्यङ्न प्रत्येति मणिं प्रति ॥३८॥ दर्शयस्व महाभाग बन्धूनां शान्तिमावह। अव्युच्छिन्ना मखास्तेऽद्य वर्तन्ते रुक्मवेदयः ॥३९॥ एवं सामभिरालब्धः श्वफल्कतनयो मणिम्। आदाय वाससाच्छन्नं ददौ सूर्यसमप्रभम् ॥४०॥ स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः। विमृज्य मणिना भूयस्तस्मै प्रत्यर्पयत्प्रभुः ॥४१॥ यस्त्वेतद्भगवत ईश्वरस्य विष्णोर्वीर्याढ्यं वृजिनहरं सुमङ्गलं च । आख्यानं पठति शृणोत्यनुस्मरेद्वा दुष्कीर्तिं दुरितमपोह्य याति शान्तिम् ॥४२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने सप्तपञ्चाशत्तमोऽध्यायः॥५७॥

॥ अष्टपञ्चाशत्तमोऽध्यायः - ५८ ॥

श्रीशुक उवाच एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः। इन्द्रप्रस्थं गतः श्रीमान् युयुधानादिभिर्वृतः ॥१॥ दृष्ट्वा तमागतं पार्था मुकुन्दमखिलेश्वरम्। उत्तस्थुर्युगपद्वीराः प्राणा मुख्यमिवागतम् ॥२॥ परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनसः। सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः ॥३॥ युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम्। फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः ॥४॥ परमासन आसीनं कृष्णा कृष्णमनिन्दिता। नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत ॥५॥ तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः। निषसादासनेऽन्ये च पूजिताः पर्युपासत ॥६॥ पृथां समागत्य कृताभिवादन- स्तयातिहार्दार्द्रदृशाभिरम्भितः। आपृष्टवांस्तां कुशलं सहस्नुषां पितृष्वसारं परिपृष्टबान्धवः ॥७॥ तमाह प्रेमवैक्लव्यरुद्धकण्ठाश्रुलोचना। स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्मदर्शनम् ॥८॥ तदैव कुशलं नोऽभूत्सनाथास्ते कृता वयम्। ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया ॥९॥ न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः। तथापि स्मरतां शश्वत्क्लेशान् हंसि हृदि स्थितः ॥१०॥ युधिष्ठिर उवाच किं न आचरितं श्रेयो न वेदाहमधीश्वर। योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम् ॥११॥ इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितः सुखम्। जनयन् नयनानन्दमिन्द्रप्रस्थौकसां विभुः ॥१२॥ एकदा रथमारुह्य विजयो वानरध्वजम्। गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ ॥१३॥ साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं वनम्। बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा ॥१४॥ तत्राविध्यच्छरैर्व्याघ्रान् सूकरान् महिषान् रुरून्। शरभान् गवयान् खड्गान् हरिणान् शशशल्लकान् ॥१५॥ तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्युपागते। तृट् परीतः परिश्रान्तो बीभत्सुर्यमुनामगात् ॥१६॥ तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ। कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम् ॥१७॥ तामासाद्य वरारोहां सुद्विजां रुचिराननाम्। पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् ॥१८॥ का त्वं कस्यासि सुश्रोणि कुतोऽसि किं चिकीर्षसि। मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने ॥१९॥ कालिन्द्युवाच अहं देवस्य सवितुर्दुहिता पतिमिच्छती। विष्णुं वरेण्यं वरदं तपः परममास्थिता ॥२०॥ नान्यं पतिं वृणे वीर तमृते श्रीनिकेतनम्। तुष्यतां मे स भगवान् मुकुन्दोऽनाथसंश्रयः ॥२१॥ कालिन्दीति समाख्याता वसामि यमुनाजले। निर्मिते भवने पित्रा यावदच्युतदर्शनम् ॥२२॥ तथावदद्गुडाकेशो वासुदेवाय सोऽपि ताम्। रथमारोप्य तद्विद्वान् धर्मराजमुपागमत् ॥२३॥ यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्भुतम्। कारयामास नगरं विचित्रं विश्वकर्मणा ॥२४॥ भगवांस्तत्र निवसन् स्वानां प्रियचिकीर्षया। अग्नये खाण्डवं दातुमर्जुनस्यास सारथिः ॥२५॥ सोऽग्निस्तुष्टो धनुरदाद्धयान् श्वेतान् रथं नृप। अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः ॥२६॥ मयश्च मोचितो वह्नेः सभां सख्य उपाहरत्। यस्मिन् दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः ॥२७॥ स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः। आययौ द्वारकां भूयः सात्यकिप्रमुखैर्वृतः ॥२८॥ अथोपयेमे कालिन्दीं सुपुण्यर्त्वर्क्ष ऊर्जिते। वितन्वन् परमानन्दं स्वानां परममङ्गलम् ॥२९॥ विन्दानुविन्दावावन्त्यौ दुर्योधनवशानुगौ। स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम् ॥३०॥ राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसुः। प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥३१॥ नग्नजिन्नाम कौसल्य आसीद्राजातिधार्मिकः। तस्य सत्याभवत्कन्या देवी नाग्नजिती नृप ॥३२॥ न तां शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान्। तीक्ष्णशृङ्गान् सुदुर्धर्षान् वीरगन्धासहान् खलान् ॥३३॥ तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वतां पतिः। जगाम कौसल्यपुरं सैन्येन महता वृतः ॥३४॥ स कोसलपतिः प्रीतः प्रत्युत्थानासनादिभिः। अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः ॥३५॥ वरं विलोक्याभिमतं समागतं नरेन्द्रकन्या चकमे रमापतिम्। भूयादयं मे पतिराशिषोऽमलाः करोतु सत्या यदि मे धृतो व्रतैः ॥३६॥ यत्पादपङ्कजरजः शिरसा बिभर्ति श्रीरब्जजः सगिरिशः सह लोकपालैः । लीलातनूः स्वकृतसेतुपरीप्सयेशः काले दधत्स भगवान् मम केन तुष्येत् ॥३७॥ अर्चितं पुनरित्याह नारायण जगत्पते। आत्मानन्देन पूर्णस्य करवाणि किमल्पकः ॥३८॥ श्रीशुक उवाच तमाह भगवान् हृष्टः कृतासनपरिग्रहः। मेघगम्भीरया वाचा सस्मितं कुरुनन्दन ॥३९॥ श्रीभगवानुवाच नरेन्द्र याच्ञा कविभिर्विगर्हिता राजन्यबन्धोर्निजधर्मवर्तिनः। तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्कदा वयम् ॥४०॥ राजोवाच कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सितः। गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपायिनी ॥४१॥ किन्त्वस्माभिः कृतः पूर्वं समयः सात्वतर्षभ। पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया ॥४२॥ सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः। एतैर्भग्नाः सुबहवो भिन्नगात्रा नृपात्मजाः ॥४३॥ यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन। वरो भवानभिमतो दुहितुर्मे श्रियःपते ॥४४॥ एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः। आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलयैव तान् ॥४५॥ बद्ध्वा तान् दामभिः शौरिर्भग्नदर्पान् हतौजसः। व्यकर्षल्लीलया बद्धान् बालो दारुमयान् यथा ॥४६॥ ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः। तां प्रत्यगृह्णाद्भगवान् विधिवत्सदृशीं प्रभुः ॥४७॥ राजपत्न्यश्च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम्। लेभिरे परमानन्दं जातश्च परमोत्सवः ॥४८॥ शङ्खभेर्यानका नेदुर्गीतवाद्यद्विजाशिषः। नरा नार्यः प्रमुदिताः सुवासःस्रगलङ्कृताः ॥४९॥ दशधेनुसहस्राणि पारिबर्हमदाद्विभुः। युवतीनां त्रिसाहस्रं निष्कग्रीवसुवासाम् ॥५०॥ नवनागसहस्राणि नागाच्छतगुणान् रथान्। रथाच्छतगुणानश्वानश्वाच्छतगुणान् नरान् ॥५१॥ दम्पती रथमारोप्य महत्या सेनया वृतौ। स्नेहप्रक्लिन्नहृदयो यापयामास कोसलः ॥५२॥ श्रुत्वैतद्रुरुधुर्भूपा नयन्तं पथि कन्यकाम्। भग्नवीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा ॥५३॥ तानस्यतः शरव्रातान् बन्धुप्रियकृदर्जुनः। गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव ॥५४॥ पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया। रेमे यदूनामृषभो भगवान् देवकीसुतः ॥५५॥ श्रुतकीर्तेः सुतां भद्रामुपयेमे पितृष्वसुः। कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः ॥५६॥ सुतां च मद्राधिपतेर्लक्ष्मणां लक्षणैर्युताम्। स्वयंवरे जहारैकः स सुपर्णः सुधामिव ॥५७॥ अन्याश्चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः। भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः ॥५८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अष्टमहिष्युद्वाहो नामाष्टपञ्चाशत्तमोऽध्यायः॥ ५८॥

॥ एकोनषष्टितमोऽध्यायः - ५९ ॥

राजोवाच यथा हतो भगवता भौमो येने च ताः स्त्रियः। निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः ॥१॥ श्रीशुक उवाच इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना। हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् । सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ ॥२॥ गिरिदुर्गैः शस्त्रदुर्गैर्जलाग्न्यनिलदुर्गमम्। मुरपाशायुतैर्घोरैर्दृढैः सर्वत आवृतम् ॥३॥ गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः। चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना ॥४॥ शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम्। प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥५॥ पाञ्चजन्यध्वनिं श्रुत्वा युगान्ताशनिभीषणम्। मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात्॥६॥ त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः। ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखै- रभ्यद्रवत्तार्क्ष्यसुतं यथोरगः ॥७॥ आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत्स पञ्चभिः। स रोदसी सर्वदिशोऽम्बरं महा- नापूरयन्नण्डकटाहमावृणोत् ॥८॥ तदापतद्वै त्रिशिखं गरुत्मते हरिः शराभ्यामभिनत्त्रिधौजसा। मुखेषु तं चापि शरैरताडयत्तस्मै गदां सोऽपि रुषा व्यमुञ्चत ॥९॥ तामापतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा। उद्यम्य बाहूनभिधावतोऽजितः शिरांसि चक्रेण जहार लीलया ॥१०॥ व्यसुः पपाताम्भसि कृत्तशीर्षो निकृत्तशृङ्गोऽद्रिरिवेन्द्रतेजसा। तस्यात्मजाः सप्त पितुर्वधातुराः प्रतिक्रियामर्षजुषः समुद्यताः ॥११॥ ताम्रोऽन्तरिक्षः श्रवणो विभावसु- र्वसुर्नभस्वानरुणश्च सप्तमः । पीठं पुरस्कृत्य चमूपतिं मृधे भौमप्रयुक्ता निरगन् धृतायुधाः ॥१२॥ प्रायुञ्जतासाद्य शरानसीन् गदाः शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः। तच्छस्त्रकूटं भगवान् स्वमार्गणै- रमोघवीर्यस्तिलशश्चकर्त ह ॥१३॥ तान् पीठमुख्याननयद्यमक्षयं निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः । स्वानीकपानच्युतचक्रसायकैस्तथा निरस्तान् नरको धरासुतः ॥१४॥ निरीक्ष्य दुर्मर्षण आस्रवन्मदैर्गजैः पयोधिप्रभवैर्निराक्रमत्। दृष्ट्वा सभार्यं गरुडोपरि स्थितं सूर्योपरिष्टात्सतडिद्घनं यथा । कृष्णं स तस्मै व्यसृजच्छतघ्नीं योधाश्च सर्वे युगपत्स्म विव्यधुः ॥१५॥ तद्भौमसैन्यं भगवान् गदाग्रजो विचित्रवाजैर्निशितैः शिलीमुखैः । निकृत्तबाहूरुशिरोध्रविग्रहं चकार तर्ह्येव हताश्वकुञ्जरम् ॥१६॥ यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह। हरिस्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रिभिः ॥१७॥ उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान्। गरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः ॥१८॥ पुरमेवाविशन्नार्ता नरको युध्ययुध्यत। दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं ॥१९॥ तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः। नाकम्पत तया विद्धो मालाहत इव द्विपः ॥२०॥ शूलं भौमोऽच्युतं हन्तुमाददे वितथोद्यमः। तद्विसर्गात्पूर्वमेव नरकस्य शिरो हरिः। अपाहरद्गजस्थस्य चक्रेण क्षुरनेमिना ॥२१॥ सकुण्डलं चारुकिरीटभूषणं बभौ पृथिव्यां पतितं समुज्ज्वलत्। हा हेति साध्वित्यृषयः सुरेश्वरा माल्यैर्मुकुन्दं विकिरन्त ईडिरे ॥२२॥ ततश्च भूः कृष्णमुपेत्य कुण्डले प्रतप्तजाम्बूनदरत्नभास्वरे । सवैजयन्त्या वनमालयार्पय- त्प्राचेतसं छत्रमथो महामणिम् ॥२३॥ अस्तौषीदथ विश्वेशं देवी देववरार्चितम्। प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया ॥२४॥ भूमिरुवाच नमस्ते देवदेवेश शङ्खचक्रगदाधर। भक्तेच्छोपात्तरूपाय परमात्मन् नमोऽस्तु ते ॥२५॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने। नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥२६॥ नमो भगवते तुभ्यं वासुदेवाय विष्णवे। पुरुषायादिबीजाय पूर्णबोधाय ते नमः ॥२७॥ अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये। परावरात्मन् भूतात्मन् परमात्मन् नमोस्तु ते ॥२८॥ त्वं वै सिसृक्षू रज उत्कटं प्रभो तमो निरोधाय बिभर्ष्यसंवृतः । स्थानाय सत्त्वं जगतो जगत्पते कालः प्रधानं पुरुषो भवान् परः ॥२९॥ अहं पयो ज्योतिरथानिलो नभो मात्राणि देवा मन इन्द्रियाणि। कर्ता महानित्यखिलं चराचरं त्वय्यद्वितीये भगवन्नयं भ्रमः ॥३०॥ तस्यात्मजोऽयं तव पादपङ्कजं भीतः प्रपन्नार्तिहरोपसादितः। तत्पालयैनं कुरु हस्तपङ्कजं शिरस्यमुष्याखिलकल्मषापहम् ॥३१॥ श्रीशुक उवाच इति भूम्यार्थितो वाग्भिर्भगवान् भक्तिनम्रया। दत्त्वाभयं भौमगृहं प्राविशत्सकलर्द्धिमत् ॥३२॥ तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम्। भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥३३॥ तं प्रविष्टं स्त्रियो वीक्ष्य नरवीरं विमोहिताः। मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ॥३४॥ भूयात्पतिरयं मह्यं धाता तदनुमोदताम्। इति सर्वाः पृथक्कृष्णे भावेन हृदयं दधुः ॥३५॥ ताः प्राहिणोद्द्वारवतीं सुमृष्टविरजोऽम्बराः। नरयानैर्महाकोशान् रथाश्वान् द्रविणं महत् ॥३६॥ ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः। पाण्डुरांश्च चतुःषष्टिं प्रेषयामास केशवः ॥३७॥ गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले। पूजितस्त्रिदशेन्द्रेण सहेन्द्राण्या च सप्रियः ॥३८॥ चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति। आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत्पुरम् ॥३९॥ स्थापितः सत्यभामाया गृहोद्यानोपशोभनः। अन्वगुर्भ्रमराः स्वर्गात्तद्गन्धासवलम्पटाः ॥४०॥ ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन्नच्युतमर्थसाधनम्। सिद्धार्थ एतेन विगृह्यते महानहो सुराणां च तमो धिगाढ्यताम् ॥४१॥ अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः। यथोपयेमे भगवान् तावद्रूपधरोऽव्ययः ॥४२॥ गृहेषु तासामनपाय्यतर्क्यकृ- न्निरस्तसाम्यातिशयेष्ववस्थितः। रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन् ॥४३॥ इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् । भेजुर्मुदाविरतमेधितयानुराग- हासावलोकनवसङ्गमजल्पलज्जाः ॥४४॥ प्रत्युद्गमासनवरार्हणपदशौच- ताम्बूलविश्रमणवीजनगन्धमाल्यैः । केशप्रसारशयनस्नपनोपहार्यैः दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नामैकोनषष्टितमोऽध्यायः॥५९॥

॥ षष्टितमोऽध्यायः - ६० ॥

श्रीशुक उवाच कर्हिचित्सुखमासीनं स्वतल्पस्थं जगद्गुरुम्। पतिं पर्यचरद्भैष्मी व्यजनेन सखीजनैः ॥१॥ यस्त्वेतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः। स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः ॥२॥ तस्मिन्नन्तर्गृहे भ्राजन्मुक्तादामविलम्बिना। विराजिते वितानेन दीपैर्मणिमयैरपि ॥३॥ मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादितैः। जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलैः ॥४॥ पारिजातवनामोदवायुनोद्यानशालिना। धूपैरगुरुजै राजन् जालरन्ध्रविनिर्गतैः ॥५॥ पयःफेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे। उपतस्थे सुखासीनं जगतामीश्वरं पतिम् ॥६॥ वालव्यजनमादाय रत्नदण्डं सखीकरात्। तेन वीजयती देवी उपासांचक्र ईश्वरम् ॥७॥ सोपाच्युतं क्वणयती मणिनूपुराभ्यां रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता । वस्त्रान्तगूढकुचकुङ्कुमशोणहार- भासानितम्बधृतया च परार्ध्यकाञ्च्या ॥८॥ तां रूपिणीं श्रियमनन्यगतिं निरीक्ष्य या लीलया धृततनोरनुरूपरूपा । प्रीतः स्मयन्नलककुण्डलनिष्ककण्ठ- वक्त्रोल्लसत्स्मितसुधां हरिराबभाषे ॥९॥ श्रीभगवानुवाच राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः। महानुभावैः श्रीमद्भी रूपौदार्यबलोर्जितैः ॥१०॥ तान् प्राप्तानर्थिनो हित्वा चैद्यादीन् स्मरदुर्मदान्। दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषेऽसमान् ॥११॥ राजभ्यो बिभ्यतः सुभ्रूः समुद्रं शरणं गतान्। बलवद्भिः कृतद्वेषान् प्रायस्त्यक्तनृपासनान् ॥१२॥ अस्पष्टवर्त्मनां पुंसामलोकपथमीयुषाम्। आस्थिताः पदवीं सुभ्रूः प्रायः सीदन्ति योषितः ॥१३॥ निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रियाः। तस्मात्प्रायेण न ह्याढ्या मां भजन्ति सुमध्यमे ॥१४॥ ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भवः। तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥१५॥ वैदर्भ्येतदविज्ञाय त्वयादीर्घसमीक्षया। वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा ॥१६॥ अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम्। येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे ॥१७॥ चैद्यशाल्वजरासन्धदन्तवक्त्रादयो नृपाः। मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः ॥१८॥ तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये। आनीतासि मया भद्रे तेजोऽपहरतासताम् ॥१९॥ उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः। आत्मलब्ध्याऽऽस्महे पूर्णा गेहयोर्ज्योतिरक्रियाः ॥२०॥ श्रीशुक उवाच एतावदुक्त्वा भगवानात्मानं वल्लभामिव। मन्यमानामविश्लेषात्तद्दर्पघ्न उपारमत् ॥२१॥ इति त्रिलोकेशपतेस्तदात्मनः प्रियस्य देव्यश्रुतपूर्वमप्रियम्। आश्रुत्य भीता हृदि जातवेपथुश्चिन्तां दुरन्तां रुदती जगाम ह ॥२२॥ पदा सुजातेन नखारुणश्रीया भुवं लिखन्त्यश्रुभिरञ्जनासितैः। आसिञ्चती कुङ्कुमरूषितौ स्तनौ तस्थावधोमुख्यतिदुःखरुद्धवाक् ॥२३॥ तस्याः सुदुःखभयशोकविनष्टबुद्धेः हस्ताच्छ्लथद्वलयतो व्यजनं पपात । देहश्च विक्लवधियः सहसैव मुह्यन् रम्भेव वायुविहता प्रविकीर्य केशान् ॥२४॥ तद्दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम्। हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत ॥२५॥ पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुजः। केशान् समुह्य तद्वक्त्रं प्रामृजत्पद्मपाणिना ॥२६॥ प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा। आश्लिष्य बाहुना राजन्ननन्यविषयां सतीम् ॥२७॥ सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः। हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः ॥२८॥ श्रीभगवानुवाच मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम्। त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥२९॥ मुखं च प्रेमसंरम्भस्फुरिताधरमीक्षितुम्। कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् ॥३०॥ अयं हि परमो लाभो गृहेषु गृहमेधिनाम्। यन्नर्मैरीयते यामः प्रियया भीरु भामिनि ॥३१॥ श्रीशुक उवाच सैवं भगवता राजन् वैदर्भी परिसान्त्विता। ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ ॥३२॥ बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम्। सव्रीडहासरुचिरस्निग्धापाङ्गेन भारत ॥३३॥ रुक्मिण्युवाच नन्वेवमेतदरविन्दविलोचनाह यद्वै भवान् भगवतोऽसदृशी विभूम्नः। क्व स्वे महिम्न्यभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरज्ञगृहीतपादा ॥३४॥ सत्यं भयादिव गुणेभ्य उरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा । नित्यं कदिन्द्रियगणैः कृतविग्रहस्त्वं त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् ॥३५॥ त्वत्पादपद्ममकरन्दजुषां मुनीनां वर्त्मास्फुटं नृपशुभिर्ननु दुर्विभाव्यम् । यस्मादलौकिकमिवेहितमीश्वरस्य भूमंस्तवेहितमथो अनु ये भवन्तम् ॥३६॥ निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चि- द्यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः । न त्वा विदन्त्यसुतृपोऽन्तकमाढ्यतान्धाः प्रेष्ठो भवान् बलिभुजामपि तेऽपि तुभ्यम् ॥३७॥ त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् । तेषां विभो समुचितो भवतः समाजः पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ॥३८॥ त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव आत्माऽऽत्मदश्च जगतामिति मे वृतोऽसि । हित्वा भवद्भ्रुव उदीरितकालवेग- ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्ये ॥३९॥ जाड्यं वचस्तव गदाग्रज यस्तु भूपान् विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम् । सिंहो यथा स्वबलिमीश पशून् स्वभागं तेभ्यो भयाद्यदुदधिं शरणं प्रपन्नः ॥४०॥ यद्वाञ्छया नृपशिखामणयोऽङ्ग वैन्यजायन्तनाहुषगयादय ऐकपत्यम् । राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष सीदन्ति तेऽनुपदवीं त इहास्थिताः किम् ॥४१॥ कान्यं श्रयेत तव पादसरोजगन्ध- माघ्राय सन्मुखरितं जनतापवर्गम् । लक्ष्म्यालयं त्वविगणय्य गुणालयस्य मर्त्या सदोरुभयमर्थविविक्तदृष्टिः ॥४२॥ तं त्वानुरूपमभजं जगतामधीश- मात्मानमत्र च परत्र च कामपूरम् । स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या यो वै भजन्तमुपयात्यनृतापवर्गः ॥४३॥ तस्याः स्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः। यत्कर्णमूलमरिकर्षण नोपयाया- द्युष्मत्कथा मृडविरिञ्चसभासु गीता ॥४४॥ त्वक्श्मश्रुरोमनखकेशपिनद्धमन्त- र्मांसास्थिरक्तकृमिविट्कफपित्तवातम् । जीवच्छवं भजति कान्तमतिर्विमूढा या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥४५॥ अस्त्वम्बुजाक्ष मम ते चरणानुराग आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः। यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो मामीक्षसे तदु ह नः परमानुकम्पा ॥४६॥ नैवालीकमहं मन्ये वचस्ते मधुसूदन। अम्बाया इव हि प्रायः कन्यायाः स्याद्रतिः क्वचित्॥४७॥ व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम्। बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ॥४८॥ श्रीभगवानुवाच साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्रि प्रलम्भिता। मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि ॥४९॥ यान् यान् कामयसे कामान् मय्यकामाय भामिनि। सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यदा ॥५०॥ उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे। यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ॥५१॥ ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया। कामात्मानोऽपवर्गेशं मोहिता मम मायया ॥५२॥ मां प्राप्य मानिन्यपवर्गसम्पदं वाञ्छन्ति ये सम्पद एव तत्पतिम् । ते मन्दभाग्या निरयेऽपि ये नृणां मात्रात्मकत्वान्निरयः सुसङ्गमः ॥५३॥ दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया कृतानुवृत्तिर्भवमोचनी खलैः। सुदुष्करासौ सुतरां दुराशिषो ह्यसुंभराया निकृतिं जुषः स्त्रियाः ॥५४॥ न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु पश्यामि मानिनि यया स्वविवाहकाले । प्राप्तान् नृपानवगणय्य रहो हरो मे प्रस्थापितो द्विज उपश्रुतसत्कथस्य ॥५५॥ भ्रातुर्विरूपकरणं युधि निर्जितस्य प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् । दुःखं समुत्थमसहोऽस्मदयोगभीत्या नैवाब्रवीः किमपि तेन वयं जितास्ते ॥५६॥ दूतस्त्वयाऽऽत्मलभने सुविविक्तमन्त्रः प्रस्थापितो मयि चिरायति शून्यमेतत्। मत्वाजिहास इदमङ्गमनन्ययोग्यं तिष्ठेत तत्त्वयि वयं प्रतिनन्दयामः ॥५७॥ श्रीशुक उवाच एवं सौरतसंलापैर्भगवान् जगदीश्वरः। स्वरतो रमया रेमे नरलोकं विडम्बयन् ॥५८॥ तथान्यासामपि विभुर्गृहेषु गृहवानिव। आस्थितो गृहमेधीयान् धर्मान् लोकगुरुर्हरिः ॥५९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णरुक्मिणीसंवादो नाम षष्टितमोऽध्यायः॥ ६०॥

॥ एकषष्टितमोऽध्यायः - ६१ ॥

श्रीशुक उवाच एकैकशस्ताः कृष्णस्य पुत्रान् दश दशाबलाः। अजीजनन्ननवमान् पितुः सर्वात्मसम्पदा ॥१॥ गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम्। प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः ॥२॥ चार्वब्जकोशवदनायतबाहुनेत्र- सप्रेमहासरसवीक्षितवल्गुजल्पैः । सम्मोहिता भगवतो न मनो विजेतुं स्वैर्विभ्रमैः समशकन् वनिता विभूम्नः ॥३॥ स्मायावलोकलवदर्शितभावहारि- भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः । पत्न्यस्तु षोडशसहस्रमनङ्गबाणैः यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥४॥ इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम्। भेजुर्मुदाविरतमेधितयानुराग- हासावलोकनवसङ्गमलालसाद्यम् ॥५॥ प्रत्युद्गमासनवरार्हणपादशौच- ताम्बूलविश्रमणवीजनगन्धमाल्यैः । केशप्रसारशयनस्नपनोपहार्यैः दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥६॥ तासां या दश पुत्राणां कृष्णस्त्रीणां पुरोदिताः। अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥७॥ चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान्। सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ॥८॥ चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः। प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥९॥ भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा। चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः ॥१०॥ श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश। साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥११॥ विजयश्चित्रकेतुश्च वसुमान् द्रविडः क्रतुः। जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसम्मताः ॥१२॥ वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृषः। आमः शङ्कुर्वसुः श्रीमान् कुन्तिर्नाग्नजितेः सुताः ॥१३॥ श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः। शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः ॥१४॥ प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्ध्वगः। माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः ॥१५॥ वृको हर्षोऽनिलो गृध्रो वर्धनोऽन्नाद एव च। महाशः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः ॥१६॥ सङ्ग्रामजिद्बृहत्सेनः शूरः प्रहरणोऽरिजित्। जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः ॥१७॥ दीप्तिमांस्ताम्रतप्ताद्या रोहिण्यास्तनया हरेः। प्रद्युम्नाच्चानिरुद्धोऽभूद्रुक्मवत्यां महाबलः ॥१८॥ पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे । एतेषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप। मातरः कृष्णजातानां सहस्राणि च षोडश ॥१९॥ राजोवाच कथं रुक्म्यरिपुत्राय प्रादाद्दुहितरं युधि। कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते। एतदाख्याहि मे विद्वन् द्विषोर्वैवाहिकं मिथः ॥२०॥ अनागतमतीतं च वर्तमानमतीन्द्रियम्। विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥२१॥ श्रीशुक उवाच वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया। राज्ञः समेतान् निर्जित्य जहारैकरथो युधि ॥२२॥ यद्यप्यनुस्मरन् वैरं रुक्मी कृष्णावमानितः। व्यतरद्भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥२३॥ रुक्मिण्यास्तनयां राजन् कृतवर्मसुतो बली। उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥२४॥ दौहित्रायानिरुद्धाय पौत्रीं रुक्म्यददाद्धरेः। रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया। जानन्नधर्मं तद्यौनं स्नेहपाशानुबन्धनः ॥२५॥ तस्मिन्नभ्युदये राजन् रुक्मिणी रामकेशवौ। पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः ॥२६॥ तस्मिन् निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः। दृप्तास्ते रुक्मिणं प्रोचुर्बलमक्षैर्विनिर्जय ॥२७॥ अनक्षज्ञो ह्ययं राजन्नपि तद्व्यसनं महत्। इत्युक्तो बलमाहूय तेनाक्षैर्रुक्म्यदीव्यत ॥२८॥ शतं सहस्रमयुतं रामस्तत्राददे पणम्। तं तु रुक्म्यजयत्तत्र कालिङ्गः प्राहसद्बलम्। दन्तान् सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः ॥२९॥ ततो लक्षं रुक्म्यगृह्णाद् ग्लहं तत्राजयद्बलः। जितवानहमित्याह रुक्मी कैतवमाश्रितः ॥३०॥ मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि। जात्यारुणाक्षोऽतिरुषा न्यर्बुदं ग्लहमाददे ॥३१॥ तं चापि जितवान् रामो धर्मेणच्छलमाश्रितः। रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति ॥३२॥ तदाब्रवीन्नभोवाणी बलेनैव जितो ग्लहः। धर्मतो वचनेनैव रुक्मी वदति वै मृषा ॥३३॥ तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः। सङ्कर्षणं परिहसन् बभाषे कालचोदितः ॥३४॥ नैवाक्षकोविदा यूयं गोपाला वनगोचराः। अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः ॥३५॥ रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः। क्रुद्धः परिघमुद्यम्य जघ्ने तं नृम्णसंसदि ॥३६॥ कलिङ्गराजं तरसा गृहीत्वा दशमे पदे। दन्तानपातयत्क्रुद्धो योऽहसद्विवृतैर्द्विजैः ॥३७॥ अन्ये निर्भिन्नबाहूरुशिरसो रुधिरोक्षिताः। राजानो दुद्रवर्भीता बलेन परिघार्दिताः ॥३८॥ निहते रुक्मिणि श्याले नाब्रवीत्साध्वसाधु वा। रुक्मिणीबलयो राजन् स्नेहभङ्गभयाद्धरिः ॥३९॥ ततोऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम्। रामादयो भोजकटाद्दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः ॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धविवाहे रुक्मिवधो नामैकषष्टितमोऽध्यायः॥ ६१॥

॥ द्विषष्टितमोऽध्यायः - ६२ ॥

राजोवाच बाणस्य तनयामूषामुपयेमे यदूत्तमः। तत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत्। एतत्सर्वं महायोगिन् समाख्यातुं त्वमर्हसि ॥१॥ श्रीशुक उवाच बाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः। येन वामनरूपाय हरयेऽदायि मेदिनी ॥२॥ तस्यौरसः सुतो बाणः शिवभक्तिरतः सदा। मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः ॥३॥ शोणिताख्ये पुरे रम्ये स राज्यमकरोत्पुरा। तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः। सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥४॥ भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः। वरेण छन्दयामास स तं वव्रे पुराधिपम् ॥५॥ स एकदाऽऽह गिरिशं पार्श्वस्थं वीर्यदुर्मदः। किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम् ॥६॥ नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम्। पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् ॥७॥ दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत्। त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥८॥ कण्डूत्या निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम्। आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ॥९॥ तच्छ्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा। त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते ॥१०॥ इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप। प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः ॥११॥ तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम्। कन्यालभत कान्तेन प्रागदृष्टश्रुतेन सा ॥१२॥ सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी। सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥१३॥ बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता। सख्यपृच्छत्सखीमूषां कौतूहलसमन्विता ॥१४॥ कं त्वं मृगयसे सुभ्रूः कीदृशस्ते मनोरथः। हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ॥१५॥ ऊषोवाच दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः। पीतवासा बृहद्बाहुर्योषितां हृदयङ्गमः ॥१६॥ तमहं मृगये कान्तं पाययित्वाधरं मधु। क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥१७॥ चित्रलेखोवाच व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते। तमानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥१८॥ इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान्। दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत्॥१९॥ मनुजेषु च सा वृष्णीन् शूरमानकदुन्दुभिम्। व्यलिखद्रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥२०॥ अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया। सोऽसावसाविति प्राह स्मयमाना महीपते ॥२१॥ चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी। ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥२२॥ तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता। गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥२३॥ सा च तं सुन्दरवरं विलोक्य मुदितानना। दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् ॥२४॥ परार्ध्यवासः स्रग्गन्धधूपदीपासनादिभिः। पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषयार्चितः ॥२५॥ गूढः कन्यापुरे शश्वत्प्रवृद्धस्नेहया तया। नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥२६॥ तां तथा यदुवीरेण भुज्यमानां हतव्रताम्। हेतुभिर्लक्षयांचक्रुराप्रीतां दुरवच्छदैः ॥२७॥ भटा आवेदयांचक्रू राजंस्ते दुहितुर्वयम्। विचेष्टितं लक्षयामः कन्यायाः कुलदूषणम् ॥२८॥ अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो। कन्याया दूषणं पुम्भिर्दुष्प्रेक्षाया न विद्महे ॥२९॥ ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः। त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद्यदूद्वहम् ॥३०॥ कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम्। बृहद्भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मण्डिताननम् ॥३१॥ दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम्। बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः ॥३२॥ स तं प्रविष्टं वृतमाततायिभि- र्भटैरनीकैरवलोक्य माधवः। उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया ॥३३॥ जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा सूकरयूथपोहऽनत्। ते हन्यमाना भवनाद्विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥३४॥ तं नागपाशैर्बलिनन्दनो बली घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह। ऊषा भृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्ष्यरौदिषीत् ॥३५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः॥६२॥

॥ त्रिषष्टितमोऽध्यायः - ६३ ॥

श्रीशुक उवाच अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत। चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥१॥ नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च। प्रययुः शोणितपुरं वृष्णयः कृष्णदेवताः ॥२॥ प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः। नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥३॥ अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतोदिशम्। रुरुधुर्बाणनगरं समन्तात्सात्वतर्षभाः ॥४॥ भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम्। प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥५॥ बाणार्थे भगवान् रुद्रः ससुतैः प्रमथैर्वृतः। आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ॥६॥ आसीत्सुतुमुलं युद्धमद्भुतं रोमहर्षणम्। कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि ॥७॥ कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः। साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥८॥ ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः। गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥९॥ शङ्करानुचरान् शौरिर्भूतप्रमथगुह्यकान्। डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥१०॥ प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान्। द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥११॥ पृथग्विधानि प्रायुङ्क्त पिनाक्यस्त्राणि शार्ङ्गिणे। प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः ॥१२॥ ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम्। आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥१३॥ मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम्। बाणस्य पृतनां शौरिर्जघानासिगदेषुभिः ॥१४॥ स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानः समन्ततः। असृग्विमुञ्चन् गात्रेभ्यः शिखिनापाक्रमद्रणात्॥१५॥ कुम्भाण्डः कूपकर्णश्च पेततुर्मुसलार्दितौ। दुद्रुवुस्तदनीकानि हतनाथानि सर्वतः ॥१६॥ विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः। कृष्णमभ्यद्रवत्सङ्ख्ये रथी हित्वैव सात्यकिम् ॥१७॥ धनूंष्याकृष्य युगपद्बाणः पञ्चशतानि वै। एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मदः ॥१८॥ तानि चिच्छेद भगवान् धनूंषि युगपद्धरिः। सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥१९॥ तन्माता कोटरा नाम नग्ना मुक्तशिरोरुहा। पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥२०॥ ततस्तिर्यङ्मुखो नग्नामनिरीक्षन् गदाग्रजः। बाणश्च तावद्विरथश्छिन्नधन्वाविशत्पुरम् ॥२१॥ विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात्। अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥२२॥ अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्ज्वरम्। माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥२३॥ माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः। अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः। शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥२४॥ ज्वर उवाच नमामि त्वानन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम्। विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥२५॥ कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः। तत्सङ्घातो बीजरोहप्रवाह- स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥२६॥ नानाभावैर्लीलयैवोपपन्नैर्देवान् साधून् लोकसेतून् बिभर्षि। हंस्युन्मार्गान् हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः ॥२७॥ तप्तोऽहं ते तेजसा दुःसहेन शान्तोग्रेणात्युल्बणेन ज्वरेण। तावत्तापो देहिनां तेऽङ्घ्रिमूलं नो सेवेरन् यावदाशानुबद्धाः ॥२८॥ श्रीभगवानुवाच त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम्। यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् ॥२९॥ इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः। बाणस्तु रथमारूढः प्रागाद्योत्स्यन् जनार्दनम् ॥३०॥ ततो बाहुसहस्रेण नानायुधधरोऽसुरः। मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ॥३१॥ तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना। चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः ॥३२॥ बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः। भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥३३॥ श्रीरुद्र उवाच त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये। यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥३४॥ नाभिर्नभोऽग्निर्मुखमम्बु रेतो द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्वी । चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्रः॥३५॥ रोमाणि यस्यौषधयोऽम्बुवाहाः केशा विरिञ्चो धिषणा विसर्गः । प्रजापतिर्हृदयं यस्य धर्मः स वै भवान् पुरुषो लोककल्पः ॥३६॥ तवावतारोऽयमकुण्ठधामन् धर्मस्य गुप्त्यै जगतो भवाय। वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥३७॥ त्वमेक आद्यः पुरुषोऽद्वितीयस्तुर्यः स्वदृघेतुरहेतुरीशः। प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै ॥३८॥ यथैव सूर्यः पिहितश्छायया स्वया छायां च रूपाणि च सञ्चकास्ति । एवं गुणेनापिहितो गुणांस्त्व- मात्मप्रदीपो गुणिनश्च भूमन् ॥३९॥ यन्मायामोहितधियः पुत्रदारगृहादिषु। उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥४०॥ देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः। यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥४१॥ यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम्। विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥४२॥ अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः। सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ॥४३॥ तं त्वा जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्मदैवम् । अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम् ॥४४॥ अयं ममेष्टो दयितोऽनुवर्ती मयाभयं दत्तममुष्य देव। सम्पाद्यतां तद्भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः ॥४५॥ श्रीभगवानुवाच यदात्थ भगवंस्त्वं नः करवाम प्रियं तव। भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ॥४६॥ अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः। प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः ॥४७॥ दर्पोपशमनायास्य प्रवृक्णा बाहवो मया। सूदितं च बलं भूरि यच्च भारायितं भुवः ॥४८॥ चत्वारोऽस्य भुजाः शिष्टा भविष्यन्त्यजरामरः। पार्षदमुख्यो भवतो नकुतश्चिद्भयोऽसुरः ॥४९॥ इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः। प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत् ॥५०॥ अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम्। सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥५१॥ स्वराजधानीं समलङ्कृतां ध्वजैः सतोरणैरुक्षितमार्गचत्वराम् । विवेश शङ्खानकदुन्दुभिस्वनै- रभ्युद्यतः पौरसुहृद्द्विजातिभिः ॥५२॥ य एवं कृष्णविजयं शङ्करेण च संयुगम्। संस्मरेत्प्रातरुत्थाय न तस्य स्यात्पराजयः ॥५३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः॥६३॥

॥ चतुःषष्टितमोऽध्यायः - ६४ ॥

श्रीशुक उवाच एकदोपवनं राजन् जग्मुर्यदुकुमारकाः। विहर्तुं साम्बप्रद्युम्नचारुभानुगदादयः ॥१॥ क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः। जलं निरुदके कूपे ददृशुः सत्त्वमद्भुतम् ॥२॥ कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः। तस्य चोद्धरणे यत्नं चक्रुस्ते कृपयान्विताः ॥३॥ चर्मजैस्तान्तवैः पाशैर्बद्ध्वा पतितमर्भकाः। नाशक्नुवन् समुद्धर्तुं कृष्णायाचख्युरुत्सुकाः ॥४॥ तत्रागत्यारविन्दाक्षो भगवान् विश्वभावनः। वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥५॥ स उत्तमश्लोककराभिमृष्टो विहाय सद्यः कृकलासरूपम्। सन्तप्तचामीकरचारुवर्णः स्वर्ग्यद्भुतालङ्करणाम्बरस्रक् ॥६॥ पप्रच्छ विद्वानपि तन्निदानं जनेषु विख्यापयितुं मुकुन्दः। कस्त्वं महाभाग वरेण्यरूपो देवोत्तमं त्वां गणयामि नूनम् ॥७॥ दशामिमां वा कतमेन कर्मणा सम्प्रापितोऽस्यतदर्हः सुभद्र। आत्मानमाख्याहि विवित्सतां नो यन्मन्यसे नः क्षममत्र वक्तुम् ॥८॥ श्रीशुक उवाच इति स्म राजा सम्पृष्टः कृष्णेनानन्तमूर्तिना। माधवं प्रणिपत्याह किरीटेनार्क वर्चसा ॥९॥ नृग उवाच नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो। दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् ॥१०॥ किं नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिणः। कालेनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया ॥११॥ यावत्यः सिकता भूमेर्यावत्यो दिवि तारकाः। यावत्यो वर्षधाराश्च तावतीरददं स्म गाः ॥१२॥ पयस्विनीस्तरुणीः शीलरूप- गुणोपपन्नाः कपिला हेमशृङ्गीः। न्यायार्जिता रूप्यखुराः सवत्सा दुकूलमालाभरणा ददावहम् ॥१३॥ स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः। तपःश्रुतब्रह्मवदान्यसद्भ्यः प्रादां युवभ्यो द्विजपुङ्गवेभ्यः ॥१४॥ गोभूहिरण्यायतनाश्व हस्तिनः कन्याः सदासीस्तिलरूप्यशय्याः। वासांसि रत्नानि परिच्छदान् रथानिष्टं च यज्ञैश्चरितं च पूर्तम् ॥१५॥ कस्यचिद्द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने। सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ॥१६॥ तां नीयमानां तत्स्वामी दृष्ट्रोवाच ममेति तम्। ममेति परिग्राह्याह नृगो मे दत्तवानिति ॥१७॥ विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ। भवान् दातापहर्तेति तच्छ्रुत्वा मेऽभवद्भ्रमः ॥१८॥ अनुनीतावुभौ विप्रौ धर्मकृच्छ्रगतेन वै। गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् ॥१९॥ भवन्तावनुगृह्णीतां किङ्करस्याविजानतः। समुद्धरत मां कृच्छ्रात्पतन्तं निरयेऽशुचौ ॥२०॥ नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत्। नान्यद्गवामप्ययुतमिच्छामीत्यपरो ययौ ॥२१॥ एतस्मिन्नन्तरे याम्यैर्दूतैर्नीतो यमक्षयम्। यमेन पृष्टस्तत्राहं देवदेव जगत्पते ॥२२॥ पूर्वं त्वमशुभं भुङ्क्षे उताहो नृपते शुभम्। नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥२३॥ पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः। तावदद्राक्षमात्मानं कृकलासं पतन् प्रभो ॥२४॥ ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव। स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः ॥२५॥ स त्वं कथं मम विभोऽक्षिपथः परात्मा योगेश्वरैः श्रुतिदृशामलहृद्विभाव्यः । साक्षादधोक्षज उरुव्यसनान्धबुद्धेः स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः ॥२६॥ देवदेव जगन्नाथ गोविन्द पुरुषोत्तम। नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥२७॥ अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो। यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् ॥२८॥ नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये। कृष्णाय वासुदेवाय योगानां पतये नमः ॥२९॥ इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना। अनुज्ञातो विमानाग्र्यमारुहत्पश्यतां नृणाम् ॥३०॥ कृष्णः परिजनं प्राह भगवान् देवकीसुतः। ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् ॥३१॥ दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि। तेजीयसोऽपि किमुत राज्ञामीश्वरमानिनाम् ॥३२॥ नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया। ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि ॥३३॥ हिनस्ति विषमत्तारं वह्निरद्भिः प्रशाम्यति। कुलं समूलं दहति ब्रह्मस्वारणिपावकः ॥३४॥ ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम्। प्रसह्य तु बलाद्भुक्तं दश पूर्वान् दशापरान् ॥३५॥ राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते। निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः ॥३६॥ गृह्णन्ति यावतः पांसून् क्रन्दतामश्रुबिन्दवः। विप्राणां हृतवृत्तीनां वदान्यानां कुटुम्बिनाम् ॥३७॥ राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्कुशाः। कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः ॥३८॥ स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च यः। षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥३९॥ न मे ब्रह्मधनं भूयाद्यद्गृध्वाल्पायुषो नराः। पराजिताश्च्युता राज्याद्भवन्त्युद्वेजिनोऽहयः ॥४०॥ विप्रं कृतागसमपि नैव द्रुह्यत मामकाः। घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥४१॥ यथाहं प्रणमे विप्राननुकालं समाहितः। तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ॥४२॥ ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यधः। अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ॥४३॥ एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः। पावनः सर्वलोकानां विवेश निजमन्दिरम् ॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे नृगोपाख्यानं नाम चतुःषष्टितमोऽध्यायः॥६४॥

॥ पञ्चषष्टितमोऽध्यायः - ६५ ॥

श्रीशुक उवाच बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः। सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥१॥ परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च। रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥२॥ चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः। इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥३॥ गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः। यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥४॥ समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः। विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥५॥ पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा। कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥६॥ कच्चिन्नो बान्धवा राम सर्वे कुशलमासते। कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः ॥७॥ दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः। निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥८॥ गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः। कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥९॥ कच्चित्स्मरति वा बन्धून् पितरं मातरं च सः। अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति। अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥१०॥ मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄरपि। यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥११॥ ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः। कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥१२॥ कथं नु गृह्णन्त्यनवस्थितात्मनो वचः कृतघ्नस्य बुधाः पुरस्त्रियः । गृह्णन्ति वै चित्रकथस्य सुन्दर- स्मितावलोकोच्छ्वसितस्मरातुराः ॥१३॥ किं नस्तत्कथया गोप्यः कथाः कथयतापराः। यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥१४॥ इति प्रहसितं शौरेर्जल्पितं चारु वीक्षितम्। गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥१५॥ सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयङ्गमैः। सान्त्वयामास भगवान् नानानुनयकोविदः ॥१६॥ द्वौ मासौ तत्र चावात्सीन्मधुं माधवमेव च। रामः क्षपासु भगवान् गोपीनां रतिमावहन् ॥१७॥ पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना। यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥१८॥ वरुणप्रेषिता देवी वारुणी वृक्षकोटरात्। पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् ॥१९॥ तं गन्धं मधुधाराया वायुनोपहृतं बलः। आघ्रायोपगतस्तत्र ललनाभिः समं पपौ ॥२०॥ (उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले। रेमे करेणुयूथेशो माहेन्द्र इव वारणः ॥ नेदुर्दुन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा। गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा ॥) उपगीयमानचरितो वनिताभिर्हलायुधः। वनेषु व्यचरत्क्षीबो मदविह्वललोचनः ॥२१॥ स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया। बिभ्रत्स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥२२॥ स आजुहाव यमुनां जलक्रीडार्थमीश्वरः। निजं वाक्यमनादृत्य मत्त इत्यापगां बलः । अनागतां हलाग्रेण कुपितो विचकर्ष ह ॥२३॥ पापे त्वं मामवज्ञाय यन्नायासि मयाऽऽहुता। नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥२४॥ एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम्। उवाच चकिता वाचं पतिता पादयोर्नृप ॥२५॥ राम राम महाबाहो न जाने तव विक्रमम्। यस्यैकांशेन विधृता जगती जगतः पते ॥२६॥ परं भावं भगवतो भगवन् मामजानतीम्। मोक्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥२७॥ ततो व्यमुञ्चद्यमुनां याचितो भगवान् बलः। विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ॥२८॥ कामं विहृत्य सलिलादुत्तीर्णायासिताम्बरे। भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥२९॥ वसित्वा वाससी नीले मालामामुच्य काञ्चनीम्। रेजे स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥३०॥ अद्यापि दृश्यते राजन् यमुनाऽऽकृष्ट वर्त्मना। बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥३१॥ एवं सर्वा निशा याता एकेव रमतो व्रजे। रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥३२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवविजये यमुनाकर्षणं नाम पञ्चषष्टितमोऽध्यायः॥६५॥

॥ षट्षष्टितमोऽध्यायः - ६६ ॥

श्रीशुक उवाच नन्दव्रजं गते रामे करूषाधिपतिर्नृप। वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् ॥१॥ त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः। इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम् ॥२॥ दूतं च प्राहिणोन्मन्दः कृष्णायाव्यक्तवर्त्मने। द्वारकायां यथा बालो नृपो बालकृतोऽबुधः ॥३॥ दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम्। कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ॥४॥ वासुदेवोऽवतीर्णोहमेक एव न चापरः। भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥५॥ यानि त्वमस्मच्चिह्नानि मौढ्याद्बिभर्षि सात्वत। त्यक्त्वैहि मां त्वं शरणं नो चेद्देहि ममाहवम् ॥६॥ श्रीशुक उवाच कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः। उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा ॥७॥ उवाच दूतं भगवान् परिहासकथामनु। उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ॥८॥ मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः। शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ॥९॥ इति दूतस्तदाक्षेपं स्वामिने सर्वमाहरत्। कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह ॥१०॥ पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः। अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद्द्रुतम् ॥११॥ तस्य काशिपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप। अक्षौहिणीभिस्तिसृभिरपश्यत्पौण्ड्रकं हरिः ॥१२॥ शङ्खार्यसिगदाशार्ङ्गश्रीवत्साद्युपलक्षितम्। बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् ॥१३॥ कौशेयवाससी पीते वसानं गरुडध्वजम्। अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम् ॥१४॥ दृष्ट्वा तमात्मनस्तुल्यवेषं कृत्रिममास्थितम्। यथा नटं रङ्गगतं विजहास भृशं हरिः ॥१५॥ शूलैर्गदाभिः परिघैः शक्त्यृष्टिप्रासतोमरैः। असिभिः पट्टिशैर्बाणैः प्राहरन्नरयो हरिम् ॥१६॥ कृष्णस्तु तत्पौण्ड्रककाशिराजयोर्बलं गजस्यन्दनवाजिपत्तिमत्। गदासिचक्रेषुभिरार्दयद्भृशं यथा युगान्ते हुतभुक्पृथक् प्रजाः ॥१७॥ आयोधनं तद्रथवाजिकुञ्जर- द्विपत्खरोष्ट्रैररिणावखण्डितैः। बभौ चितं मोदवहं मनस्विना- माक्रीडनं भूतपतेरिवोल्बणम् ॥१८॥ अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद्भवान्। दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते ॥१९॥ त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम्। व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम् ॥२०॥ इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम्। शिरोऽवृश्चद्रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः ॥२१॥ तथा काशीपतेः कायाच्छिर उत्कृत्य पत्रिभिः। न्यपातयत्काशीपुर्यां पद्मकोशमिवानिलः ॥२२॥ एवं मत्सरिणं हत्वा पौण्ड्रकं ससखं हरिः। द्वारकामाविशत्सिद्धैर्गीयमाकथामृतः ॥२३॥ स नित्यं भगवद्ध्यानप्रध्वस्ताखिलबन्धनः। बिभ्राणश्च हरे राजन् स्वरूपं तन्मयोऽभवत् ॥२४॥ शिरः पतितमालोक्य राजद्वारे सकुण्डलम्। किमिदं कस्य वा वक्त्रमिति संशिश्यिरे जनाः ॥२५॥ राज्ञः काशीपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः। पौराश्च हा हता राजन् नाथ नाथेति प्रारुदन् ॥२६॥ सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पितुः। निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः ॥२७॥ इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम्। सुदक्षिणोऽर्चयामास परमेण समाधिना ॥२८॥ प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद्भवः। पितृहन्तृवधोपायं स वव्रे वरमीप्सितम् ॥२९॥ दक्षिणाग्निं परिचर ब्राह्मणैः सममृत्विजम्। अभिचारविधानेन स चाग्निः प्रमथैर्वृतः ॥३०॥ साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः। इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् व्रती ॥३१॥ ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानतिभीषणः। तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः ॥३२॥ दंष्ट्रोग्रभ्रुकुटीदण्डकठोरास्यः स्वजिह्वया। आलिहन् सृक्किणी नग्नो विधुन्वंस्त्रिशिखं ज्वलत्॥३३॥ पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम्। सोऽभ्यधावद्वृतो भूतैर्द्वारकां प्रदहन् दिशः ॥३४॥ तमाभिचारदहनमायान्तं द्वारकौकसः। विलोक्य तत्रसुः सर्वे वनदाहे मृगा यथा ॥३५॥ अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः। त्राहि त्राहि त्रिलोकेश वह्नेः प्रदहतः पुरम् ॥३६॥ श्रुत्वा तज्जनवैक्लव्यं दृष्ट्वा स्वानां च साध्वसम्। शरण्यः सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम् ॥३७॥ सर्वस्यान्तर्बहिः साक्षी कृत्यां माहेश्वरीं विभुः। विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् ॥३८॥ तत्सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानलप्रभम्। स्वतेजसा खं ककुभोऽथ रोदसी चक्रं मुकुन्दास्त्रमथाग्निमार्दयत् ॥३९॥ कृत्यानलः प्रतिहतः स रथाङ्गपाणेरस्त्रौजसा स नृप भग्नमुखो निवृत्तः । वाराणसीं परिसमेत्य सुदक्षिणं तं सर्त्विग्जनं समदहत्स्वकृतोऽभिचारः ॥४०॥ चक्रं च विष्णोस्तदनुप्रविष्टं वाराणसीं साट्टसभालयापणाम्। सगोपुराट्टालककोष्ठसङ्कुलां सकोशहस्त्यश्वरथान्नशालाम् ॥४१॥ दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम्। भूयः पार्श्वमुपातिष्ठत्कृष्णस्याक्लिष्टकर्मणः ॥४२॥ य एतच्छ्रावयेन्मर्त्यः उत्तमश्लोकविक्रमम्। समाहितो वा शृणुयात्सर्वपापैः प्रमुच्यते ॥४३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पौण्ड्रकादिवधो नाम षट्षष्टितमोऽध्यायः॥६६॥

॥ सप्तषष्टितमोऽध्यायः - ६७ ॥

राजोवाच भुयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः। अनन्तस्याप्रमेयस्य यदन्यत्कृतवान् प्रभुः ॥१॥ श्रीशुक उवाच नरकस्य सखा कश्चिद्द्विविदो नाम वानरः। सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान् ॥२॥ सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम्। पुरग्रामाकरान् घोषानदहद्वह्निमुत्सृजन् ॥३॥ क्वचित्स शैलानुत्पाट्य तैर्देशान् समचूर्णयत्। आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरिः ॥४॥ क्वचित्समुद्रमध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम्। देशान् नागायुतप्राणो वेलाकूलानमज्जयत् ॥५॥ आश्रमान् ऋषिमुख्यानां कृत्वा भग्नवनस्पतीन्। अदूषयच्छकृन्मूत्रैरग्नीन् वैतानिकान् खलः ॥६॥ पुरुषान् योषितो दृप्तः क्ष्माभृद्द्रोणीगुहासु सः। निक्षिप्य चाप्यधाच्छैलैः पेशस्कारीव कीटकम् ॥७॥ एवं देशान् विप्रकुर्वन् दूषयंश्च कुलस्त्रियः। श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ ॥८॥ तत्रापश्यद्यदुपतिं रामं पुष्करमालिनम्। सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् ॥९॥ गायन्तं वारुणीं पीत्वा मदविह्वललोचनम्। विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् ॥१०॥ दुष्टः शाखामृगः शाखामारूढः कम्पयन् द्रुमान्। चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् ॥११॥ तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलाः। हास्यप्रिया विजहसुर्बलदेवपरिग्रहाः ॥१२॥ ता हेलयामास कपिर्भ्रूक्षेपैः सम्मुखादिभिः। दर्शयन् स्वगुदं तासां रामस्य च निरीक्षतः ॥१३॥ तं ग्राव्णा प्राहरत्क्रुद्धो बलः प्रहरतां वरः। स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः ॥१४॥ गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हसन्। निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद्बलम् ॥१५॥ कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः। तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान् ॥१६॥ क्रुद्धो मुसलमादत्त हलं चारिजिघांसया। द्विविदोऽपि महावीर्यः सालमुद्यम्य पाणिना ॥१७॥ अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत्। तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा ॥१८॥ प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम्। मुसलाहतमस्तिष्को विरेजे रक्तधारया ॥१९॥ गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन्। पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा ॥२०॥ तेनाहनत्सुसङ्क्रुद्धस्तं बलः शतधाच्छिनत्। ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत्॥२१॥ एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः। आकृष्य सर्वतो वृक्षान् निर्वृक्षमकरोद्वनम् ॥२२॥ ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः। तत्सर्वं चूर्णयामास लीलया मुसलायुधः ॥२३॥ स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः। आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् ॥२४॥ यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुसललाङ्गले। जत्रावभ्यर्दयत्क्रुद्धः सोऽपतद्रुधिरं वमन् ॥२५॥ चकम्पे तेन पतता सटङ्कः सवनस्पतिः। पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि ॥२६॥ जयशब्दो नमः शब्दः साधु साध्विति चाम्बरे। सुरसिद्धमुनीन्द्राणामासीत्कुसुमवर्षिणाम् ॥२७॥ एवं निहत्य द्विविदं जगद्व्यतिकरावहम्। संस्तूयमानो भगवान् जनैः स्वपुरमाविशत् ॥२८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विविधवधो नाम सप्तषष्टितमोऽध्यायः॥६७॥

॥ अष्टषष्टितमोऽध्यायः - ६८ ॥

श्रीशुक उवाच दुर्योधनसुतां राजन् लक्ष्मणां समितिञ्जजयः। स्वयंवरस्थामहरत्साम्बो जाम्बवतीसुतः ॥१॥ कौरवाः कुपिता ऊचुर्दुर्विनीतोऽयमर्भकः। कदर्थीकृत्य नः कन्यामकामामहरद्बलात् ॥२॥ बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः। येऽस्मत्प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥३॥ निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः। भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः ॥४॥ इति कर्णः शलो भूरिर्यज्ञकेतुः सुयोधनः। साम्बमारेभिरे बद्धुं कुरुवृद्धानुमोदिताः ॥५॥ दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः। प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥६॥ तं ते जिघृक्षवः क्रुद्धास्तिष्ठ तिष्ठेति भाषिणः। आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥७॥ सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः। नामृष्यत्तदचिन्त्यार्भः सिंहः क्षुद्रमृगैरिव ॥८॥ विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः। कर्णादीन् षड्रथान् वीरांस्तावद्भिर्युगपत्पृथक् ॥९॥ चतुर्भिश्चतुरो वाहानेकैकेन च सारथीन्। रथिनश्च महेष्वासांस्तस्य तत्तेऽभ्यपूजयन् ॥१०॥ तं तु ते विरथं चक्रुश्चत्वारश्चतुरो हयान्। एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम् ॥११॥ तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि। कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन् ॥१२॥ तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः। कुरून् प्रत्युद्यमं चक्रुरुग्रसेनप्रचोदिताः ॥१३॥ सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान्। नैच्छत्कुरूणां वृष्णीनां कलिं कलिमलापहः ॥१४॥ जगाम हास्तिनपुरं रथेनादित्यवर्चसा। ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः ॥१५॥ गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः। उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया ॥१६॥ सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम्। दुर्योधनं च विधिवद्राममागतमब्रवीत् ॥१७॥ तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम्। तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः ॥१८॥ तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन्। तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम् ॥१९॥ बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम्। परस्परमथो रामो बभाषेऽविक्लवं वचः ॥२०॥ उग्रसेनः क्षितीशेशो यद्व आज्ञापयत्प्रभुः। तदव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम् ॥२१॥ यद्यूयं बहवस्त्वेकं जित्वाऽधर्मेण धार्मिकम्। अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया ॥२२॥ वीर्यशौर्यबलोन्नद्धमात्मशक्तिसमं वचः। कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥२३॥ अहो महच्चित्रमिदं कालगत्या दुरत्यया। आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितम् ॥२४॥ एते यौनेन सम्बद्धाः सहशय्यासनाशनाः। वृष्णयस्तुल्यतां नीता अस्मद्दत्तनृपासनाः ॥२५॥ चामरव्यजने शङ्खमातपत्रं च पाण्डुरम्। किरीटमासनं शय्यां भुञ्जतेऽस्मदुपेक्षया ॥२६॥ अलं यदूनां नरदेवलाञ्छनैर्दातुः प्रतीपैः फणिनामिवामृतम्। येऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत ॥२७॥ कथमिन्द्रोऽपि कुरुभिर्भीष्मद्रोणार्जुनादिभिः। अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः ॥२८॥ श्रीशुक उवाच जन्मबन्धुश्रियोन्नद्धमदास्ते भरतर्षभ। आश्राव्य रामं दुर्वाच्यमसभ्याः पुरमाविशन् ॥२९॥ दृष्ट्वा कुरूणां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः। अवोचत्कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥३०॥ नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः। तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥३१॥ अहो यदून् सुसंरब्धान् कृष्णं च कुपितं शनैः। सान्त्वयित्वाहमेतेषां शममिच्छन्निहागतः ॥३२॥ त इमे मन्दमतयः कलहाभिरताः खलाः। तं मामवज्ञाय मुहुर्दुर्भाषान् मानिनोऽब्रुवन् ॥३३॥ नोग्रसेनः किल विभुर्भोजवृष्ण्यन्धकेश्वरः। शक्रादयो लोकपाला यस्यादेशानुवर्तिनः ॥३४॥ सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्घ्रिपः। आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः ॥३५॥ यस्य पादयुगं साक्षाच्छ्रीरुपास्तेऽखिलेश्वरी। स नार्हति किल श्रीशो नरदेवपरिच्छदान् ॥३६॥ यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालैः मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् । ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व ॥३७॥ भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल। उपानहः किल वयं स्वयं तु कुरवः शिरः ॥३८॥ अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम्। असम्बद्धा गिरो रूक्षाः कः सहेतानुशासीता ॥३९॥ अद्य निष्कौरवीं पृथ्वीं करिष्यामीत्यमर्षितः। गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम् ॥४०॥ लाङ्गलाग्रेण नगरमुद्विदार्य गजाह्वयम्। विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः ॥४१॥ जलयानमिवाघूर्णं गङ्गायां नगरं पतत्। आकृष्यमाणमालोक्य कौरवाः जातसम्भ्रमाः ॥४२॥ तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः। सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम् ॥४३॥ राम रामाखिलाधार प्रभावं न विदाम ते। मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम् ॥४४॥ स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रयः। लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति हि ॥४५॥ त्वमेव मूर्ध्नीदमनन्त लीलया भूमण्डलं बिभर्षि सहस्रमूर्धन्। अन्ते च यः स्वात्मनि रुद्धविश्वः शेषेऽद्वितीयः परिशिष्यमाणः ॥४६॥ कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात्। बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्परः ॥४७॥ नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय। विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गताः ॥४८॥ श्रीशुक उवाच एवं प्रपन्नैः संविग्नैर्वेपमानायनैर्बलः। प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं ददौ ॥४९॥ दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान्। ददौ च द्वादशशतान्ययुतानि तुरङ्गमान् ॥५०॥ रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम्। दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः ॥५१॥ प्रतिगृह्य तु तत्सर्वं भगवान् सात्वतर्षभः। ससुतः सस्नुषः प्रागात्सुहृद्भिरभिनन्दितः ॥५२॥ ततः प्रविष्टः स्वपुरं हलायुधः समेत्य बन्धूननुरक्तचेतसः । शशंस सर्वं यदुपुङ्गवानां मध्ये सभायां कुरुषु स्वचेष्टितम् ॥५३॥ अद्यापि च पुरं ह्येतत्सूचयद्रामविक्रमम्। समुन्नतं दक्षिणतो गङ्गायामनुदृश्यते ॥५४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे हास्तिनपुरकर्षणरूपसंकर्षणविजयो नामाष्टषष्टितमोऽध्यायः॥६८॥

॥ एकोनसप्ततितमोऽध्यायः - ६९ ॥

श्रीशुक उवाच नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम्। कृष्णेनैकेन बह्वीनां तद्दिदृक्षुः स्म नारदः ॥१॥ चित्रं बतैतदेकेन वपुषा युगपत्पृथक्। गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् ॥२॥ इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत्। पुष्पितोपवनारामद्विजालिकुलनादिताम् ॥३॥ उत्फुल्लेन्दीवराम्भोजकह्लारकुमुदोत्पलैः। छुरितेषु सरःसूच्चैः कूजितां हंससारसैः ॥४॥ प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतैः। महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः ॥५॥ विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः। संसिक्तमार्गाङ्गणवीथिदेहलीं पतत्पताकाध्वजवारितातपाम् ॥६॥ तस्यामन्तःपुरं श्रीमदर्चितं सर्वधिष्ण्यपैः। हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥७॥ तत्र षोडशभिः सद्मसहस्रैः समलङ्कृतम्। विवेशैकतमं शौरेः पत्नीनां भवनं महत् ॥८॥ विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः। इन्द्रनीलमयैः कुड्यैर्जगत्या चाहतत्विषा ॥९॥ वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः। दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः ॥१०॥ दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम्। पुम्भिः सकञ्चुकोष्णीषसुवस्त्रमणिकुण्डलैः ॥११॥ रत्नप्रदीपनिकरद्युतिभिर्निरस्तध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग। नृत्यन्ति यत्र विहितागुरुधूपमक्षै- र्निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः ॥१२॥ तस्मिन् समानगुणरूपवयःसुवेष- दासीसहस्रयुतयानुसवं गृहिण्या । विप्रो ददर्श चमरव्यजनेन रुक्मदण्डेन सात्वतपतिं परिवीजयन्त्या ॥१३॥ तं सन्निरीक्ष्य भगवान् सहसोत्थितश्रीपर्यङ्कतः सकलधर्मभृतां वरिष्ठः । आनम्य पादयुगलं शिरसा किरीटजुष्टेन साञ्जलिरवीविशदासने स्वे ॥१४॥ तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना- बिभ्रज्जगद्गुरुतरोऽपि सतां पतिर्हि । ब्रह्मण्यदेव इति यद्गुणनामयुक्तं तस्यैव यच्चरणशौचमशेषतीर्थम् ॥१५॥ सम्पूज्य देवऋषिवर्यमृषिः पुराणो नारायणो नरसखो विधिनोदितेन। वाण्याभिभाष्य मितयामृतमिष्टया तं प्राह प्रभो भगवते करवाम हे किम् ॥१६॥ नारद उवाच नैवाद्भुतं त्वयि विभोऽखिललोकनाथे मैत्री जनेषु सकलेषु दमः खलानाम् । निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां स्वैरावतार उरुगाय विदाम सुष्ठु ॥१७॥ दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः । संसारकूपपतितोत्तरणावलम्बं ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥१८॥ ततोऽन्यदाविशद्गेहं कृष्णपत्न्याः स नारदः। योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥१९॥ दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च। पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥२०॥ पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति। क्रियते किं नु पूर्णानामपूर्णैरस्मदादिभिः ॥२१॥ अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु। स तु विस्मित उत्थाय तूष्णीमन्यदगाद्गृहम् ॥२२॥ तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून्। ततोऽन्यस्मिन् गृहेऽपश्यन्मज्जनाय कृतोद्यमम् ॥२३॥ जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखैः। भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम् ॥२४॥ क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम्। एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु ॥२५॥ अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम्। क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥२६॥ मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः। जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥२७॥ कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः। इतिहासपुराणानि शृण्वन्तं मङ्गलानि च ॥२८॥ हसन्तं हास्यकथया कदाचित्प्रियया गृहे। क्वापि धर्मं सेवमानमर्थकामौ च कुत्रचित् ॥२९॥ ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम्। शुश्रूषन्तं गुरून् क्वापि कामैर्भोगैः सपर्यया ॥३०॥ कुर्वन्तं विग्रहं कैश्चित्सन्धिं चान्यत्र केशवम्। कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥३१॥ पुत्राणां दुहितॄणां च काले विध्युपयापनम्। दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः ॥३२॥ प्रस्थापनोपानयनैरपत्यानां महोत्सवान्। वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥३३॥ यजन्तं सकलान् देवान् क्वापि क्रतुभिरूर्जितैः। पूर्तयन्तं क्वचिद्धर्मं कूर्पाराममठादिभिः ॥३४॥ चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम्। घ्नन्तं ततः पशून् मेध्यान् परीतं यदुपुङ्गवैः ॥३५॥ अव्यक्तलिङं प्रकृतिष्वन्तःपुरगृहादिषु। क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया ॥३६॥ अथोवाच हृषीकेशं नारदः प्रहसन्निव। योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् ॥३७॥ विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम्। योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया ॥३८॥ अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान्। पर्यटामि तवोद्गायन् लीलां भुवनपावनीम् ॥३९॥ श्रीभगवानुवाच ब्रह्मन् धर्मस्य वक्ताहं कर्ता तदनुमोदिता। तच्छिक्षयन् लोकमिममास्थितः पुत्र मा खिदः ॥४०॥ श्रीशुक उवाच इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम्। तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥४१॥ कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम्। मुहुर्दृष्ट्वा ऋषिरभूद्विस्मितो जातकौतुकः ॥४२॥ इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना। सम्यक् सभाजितः प्रीतस्तमेवानुस्मरन् ययौ ॥४३॥ एवं मनुष्यपदवीमनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः। रेमेऽङ्ग षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टः ॥४४॥ यानीह विश्वविलयोद्भववृत्तिहेतुः कर्माण्यनन्यविषयाणि हरिश्चकार । यस्त्वङ्ग गायति शृणोत्यनुमोदते वा भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्त्यदर्शनं नामैकोनसप्ततितमोऽध्यायः॥ ६९॥

॥ सप्ततितमोऽध्यायः - ७० ॥

श्रीशुक उवाच अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन्। गृहीतकण्ठ्यः पतिभिर्माधव्यो विरहातुराः ॥१॥ वयांस्यरोरुवन् कृष्णं बोधयन्तीव वन्दिनः। गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः ॥२॥ मुहूर्तं तं तु वैदर्भी नामृष्यदतिशोभनम्। परिरम्भणविश्लेषात्प्रियबाह्वन्तरं गता ॥३॥ ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः। दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ॥४॥ एकं स्वयंज्योतिरनन्यमव्ययं स्वसंस्थया नित्यनिरस्तकल्मषम्। ब्रह्माख्यमस्योद्भवनाशहेतुभिः स्वशक्तिभिर्लक्षितभावनिर्वृतिम् ॥५॥ अथाप्लुतोऽम्भस्यमले यथाविधि क्रियाकलापं परिधाय वाससी । चकार सन्ध्योपगमादि सत्तमो हुतानलो ब्रह्म जजाप वाग्यतः ॥६॥ उपस्थायार्कमुद्यन्तं तर्पयित्वात्मनः कलाः। देवान् ऋषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान् ॥७॥ धेनूनां रुक्मशृङ्गीणां साध्वीनां मौक्तिकस्रजाम्। पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥८॥ ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह। अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥९॥ गोविप्रदेवतावृद्धगुरून् भूतानि सर्वशः। नमस्कृत्यात्मसम्भूतीर्मङ्गलानि समस्पृशत् ॥१०॥ आत्मानं भूषयामास नरलोकविभूषणम्। वासोभिर्भूषणैः स्वीयैर्दिव्यस्रगनुलेपनैः ॥११॥ अवेक्ष्याज्यं तथाऽऽदर्शं गोवृषद्विजदेवताः। कामांश्च सर्ववर्णानां पौरान्तःपुरचारिणाम्। प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥१२॥ संविभज्याग्रतो विप्रान् स्रक्ताम्बूलानुलेपनैः। सुहृदः प्रकृतीर्दारानुपायुङ्क्त ततः स्वयम् ॥१३॥ तावत्सूत उपानीय स्यन्दनं परमाद्भुतम्। सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः ॥१४॥ गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत्। सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः ॥१५॥ ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः। कृच्छ्राद्विसृष्टो निरगाज्जातहासो हरन् मनः ॥१६॥ सुधर्माख्यां सभां सर्वैर्वृष्णिभिः परिवारितः। प्राविशद्यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः ॥१७॥ तत्रोपविष्टः परमासने विभुर्बभौ स्वभासा ककुभोऽवभासयन्। वृतो नृसिंहैर्यदुभिर्यदूत्तमो यथोडुराजो दिवि तारकागणैः ॥१८॥ तत्रोपमन्त्रिणो राजन् नानाहास्यरसैर्विभुम्। उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक् ॥१९॥ मृदङ्गवीणामुरजवेणुतालदरस्वनैः। ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः ॥२०॥ तत्राहुर्ब्राह्मणाः केचिदासीना ब्रह्मवादिनः। पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः ॥२१॥ तत्रैकः पुरुषो राजन्नागतोऽपूर्वदर्शनः। विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥२२॥ स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः। राज्ञामावेदयद्दुःखं जरासन्धनिरोधजम् ॥२३॥ ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः। प्रसह्य रुद्धास्तेनासन्नयुते द्वे गिरिव्रजे ॥२४॥ कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन। वयं त्वां शरणं यामो भवभीताः पृथग्धियः ॥२५॥ लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे । यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥२६॥ लोके भवाञ्जगदिनः कलयावतीर्णः सद्रक्षणाय खलनिग्रहणाय चान्यः । कश्चित्त्वदीयमतियाति निदेशमीश किं वा जनः स्वकृतमृच्छति तन्न विद्मः ॥२७॥ स्वप्नायितं नृपसुखं परतन्त्रमीश शश्वद्भयेन मृतकेन धुरं वहामः । हित्वा तदात्मनि सुखं त्वदनीहलभ्यं क्लिश्यामहेऽतिकृपणास्तव माययेह ॥२८॥ तन्नो भवान् प्रणतशोकहराङ्घ्रियुग्मो बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात्। यो भूभुजोऽयुतमतङ्गजवीर्यमेको बिभ्रद्रुरोध भवने मृगराडिवावीः ॥२९॥ यो वै त्वया द्विनवकृत्व उदात्तचक्रभग्नो मृधे खलु भवन्तमनन्तवीर्यम् । जित्वा नृलोकनिरतं सकृदूढदर्पो युष्मत्प्रजा रुजति नोऽजित तद्विधेहि ॥३०॥ दूत उवाच इति मागधसंरुद्धा भवद्दर्शनकङ्क्षिणः। प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥३१॥ श्रीशुक उवाच राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः। बिभ्रत्पिङ्गजटाभारं प्रादुरासीद्यथा रविः ॥३२॥ तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः। ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा ॥३३॥ सभाजयित्वा विधिवत्कृतासनपरिग्रहम्। बभाषे सूनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥३४॥ अपि स्विदद्य लोकानां त्रयाणामकुतोभयम्। ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥३५॥ न हि तेऽविदितं किञ्चिल्लोकेष्वीश्वरकर्तृषु। अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥३६॥ श्रीनारद उवाच दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्वसृजश्च मायिनः। भूतेषु भूमंश्चरतः स्वशक्तिभि- र्वह्नेरिवच्छन्नरुचो न मेऽद्भुतम् ॥३७॥ तवेहितं कोऽर्हति साधु वेदितुं स्वमाययेदं सृजतो नियच्छतः। यद्विद्यमानात्मतयावभासते तस्मै नमस्ते स्वविलक्षणात्मने ॥३८॥ जीवस्य यः संसरतो विमोक्षणं न जानतोऽनर्थवहाच्छरीरतः। लीलावतारैः स्वयशःप्रदीपकं प्राज्वालयत्त्वा तमहं प्रपद्ये ॥३९॥ अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम्। राज्ञः पैतृष्वसेयस्य भक्तस्य च चिकीर्षितम् ॥४०॥ यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः। पारमेष्ठ्यकामो नृपतिस्तद्भवाननुमोदताम् ॥४१॥ तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः। दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः ॥४२॥ श्रवणात्कीर्तनाद्ध्यानात्पूयन्तेऽन्तेवसायिनः। तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः ॥४३॥ यस्यामलं दिवि यशः प्रथितं रसायां भूमौ च ते भुवनमङ्गल दिग्वितानम् । मन्दाकिनीति दिवि भोगवतीति चाधो गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥४४॥ श्रीशुक उवाच तत्र तेष्वात्मपक्षेष्वगृह्णत्सु विजिगीषया। वाचः पेशैः स्मयन् भृत्यमुद्धवं प्राह केशवः ॥४५॥ श्रीभगवानुवाच त्वं हि नः परमं चक्षुः सुहृन्मन्त्रार्थतत्त्ववित्। तथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत् ॥४६॥ इत्युपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत्। निदेशं शिरसाऽऽधाय उद्धवः प्रत्यभाषत ॥४७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे भगवद्यानविचारो नाम सप्ततितमोऽध्यायः॥७०॥

॥ एकसप्ततितमोऽध्यायः - ७१ ॥

श्रीशुक उवाच इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत्। सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः ॥१॥ उद्धव उवाच यदुक्तमृषिणा देव साचिव्यं यक्ष्यतस्त्वया। कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम् ॥२॥ यष्टव्यम् राजसूयेन दिक्चक्रजयिना विभो। अतो जरासुतजय उभयार्थो मतो मम ॥३॥ अस्माकं च महानर्थो ह्येतेनैव भविष्यति। यशश्च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥४॥ स वै दुर्विषहो राजा नागायुतसमो बले। बलिनामपि चान्येषां भीमं समबलं विना ॥५॥ द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः। ब्रह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित्॥६॥ ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः। हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ॥७॥ निमित्तं परमीशस्य विश्वसर्गनिरोधयोः। हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव ॥८॥ गायन्ति ते विशदकर्म गृहेषु देव्यो राज्ञां स्वशत्रुवधमात्मविमोक्षणं च । गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः पित्रोश्च लब्धशरणा मुनयो वयं च ॥९॥ जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते। प्रायः पाकविपाकेन तव चाभिमतः क्रतुः ॥१०॥ श्रीशुक उवाच इत्युद्धववचो राजन् सर्वतोभद्रमच्युतम्। देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥११॥ अथादिशत्प्रयाणाय भगवान् देवकीसुतः। भृत्यान् दारुकजैत्रादीननुज्ञाप्य गुरून् विभुः ॥१२॥ निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान्। सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन्। सूतोपनीतं स्वरथमारुहद्गरुडध्वजम् ॥१३॥ ततो रथद्विपभटसादिनायकैः करालया परिवृत आत्मसेनया । मृदङ्गभेर्यानकशङ्खगोमुखैः प्रघोषघोषित्ककुभो निराक्रमत् ॥१४॥ नृवाजिकाञ्चनशिबिकाभिरच्युतं सहात्मजाः पतिमनु सुव्रता ययुः। वराम्बराभरणविलेपनस्रजः सुसंवृता नृभिरसिचर्मपाणिभिः ॥१५॥ नरोष्ट्रगोमहिषखराश्वतर्यनः करेणुभिः परिजनवारयोषितः । स्वलङ्कृताः कटकुटिकम्बलाम्बरा- द्युपस्करा ययुरधियुज्य सर्वतः ॥१६॥ बलं बृहद्ध्वजपटछत्रचामरै- र्वरायुधाभरणकिरीटवर्मभिः। दिवांशुभिस्तुमुलरवं बभौ रवेर्यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः ॥१७॥ अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि विदधद्विहायसा। निशम्य तद्व्यवसितमाहृतार्हणो मुकुन्दसन्दर्शननिर्वृतेन्द्रियः ॥१८॥ राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा। मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥१९॥ इत्युक्तः प्रस्थितो दूतो यथावदवदन्नृपान्। तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन्मुमुक्षवः ॥२०॥ आनर्तसौवीरमरूंस्तीर्त्वा विनशनं हरिः। गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान् ॥२१॥ ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम्। पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥२२॥ तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम्। अजातशत्रुर्निरगात्सोपाध्यायः सुहृद्वृतः ॥२३॥ गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा। अभ्ययात्स हृषीकेशं प्राणाः प्राणमिवादृतः ॥२४॥ दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः। चिराद्दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः ॥२५॥ दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर्हताशुभः। लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृतलोकविभ्रमः ॥२६॥ तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेमजलाकुलेन्द्रियः। यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥२७॥ अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः। ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः ॥२८॥ मानितो मानयामास कुरुसृञ्जयकैकयान् । सूतमागधगन्धर्वा वन्दिनश्चोपमन्त्रिणः ॥२९॥ मृदङ्गशङ्खपटहवीणापणवगोमुखैः। ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः ॥३०॥ एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः। संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥३१॥ संसिक्तवर्त्म करिणां मदगन्धतोयै- श्चित्रध्वजैः कनकतोरणपूर्णकुम्भैः । मृष्टात्मभिर्नवदुकूलविभूषणस्रग्- गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ॥३२॥ उद्दीप्तदीपबलिभिः प्रतिसद्मजाल- निर्यातधूपरुचिरं विलसत्पताकम् । मूर्धन्यहेमकलशै रजतोरुशृङ्गैर्जुष्टं ददर्श भवनैः कुरुराजधाम ॥३३॥ प्राप्तं निशम्य नरलोचनपानपात्र- मौत्सुक्यविश्लथितकेशदुकूलबन्धाः । सद्यो विसृज्य गृहकर्म पतींश्च तल्पे द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥ ३४॥ तस्मिन् सुसङ्कुल इभाश्वरथद्विपद्भिः कृष्णं सभार्यमुपलभ्य गृहाधिरूढाः । नार्यो विकीर्य कुसुमैर्मनसोपगुह्य सुस्वागतं विदधुरुत्स्मयवीक्षितेन ॥३५॥ ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीः तारा यथोडुपसहाः किमकार्यमूभिः । यच्चक्षुषां पुरुषमौलिरुदारहास- लीलावलोककलयोत्सवमातनोति ॥३६॥ तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः। चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ॥३७॥ अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः। ससम्भ्रमैरभ्युपेतः प्राविशद्राजमन्दिरम् ॥३८॥ पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम्। प्रीतात्मोत्थाय पर्यङ्कात्सस्नुषा परिषस्वजे ॥३९॥ गोविन्दं गृहमानीय देवदेवेशमादृतः। पूजायां नाविदत्कृत्यं प्रमोदोपहतो नृपः ॥४०॥ पितृष्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम्। स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥४१॥ श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वशः। आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥४२॥ कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम्। अन्याश्चाभ्यागता यास्तु वासःस्रङ्मण्डनादिभिः॥४३॥ सुखं निवासयामास धर्मराजो जनार्दनम्। ससैन्यं सानुगामात्यं सभार्यं च नवं नवम् ॥४४॥ तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः। मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥४५॥ उवास कतिचिन्मासान् राज्ञः प्रियचिकीर्षया। विहरन् रथमारुह्य फाल्गुनेन भटैर्वृतः ॥४६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्येन्द्रप्रस्थगमनं नामैकसप्ततितमोऽध्यायः॥७१॥

॥ द्विसप्ततितमोऽध्यायः - ७२ ॥

श्रीशुक उवाच एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः। ब्राह्मणैः क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः ॥१॥ आचार्यैः कुलवृद्धैश्च ज्ञातिसम्बन्धिबान्धवैः। शृण्वतामेव चैतेषामाभाष्येदमुवाच ह ॥२॥ युधिष्ठिर उवाच क्रतुराजेन गोविन्द राजसूयेन पावनीः। यक्ष्ये विभूतीर्भवतस्तत्सम्पादय नः प्रभो ॥३॥ त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्यभद्रनशने शुचयो गृणन्ति । विन्दन्ति ते कमलनाभ भवापवर्गमाशासते यदि त आशिष ईश नान्ये ॥४॥ तद्देवदेव भवतश्चरणारविन्द- सेवानुभावमिह पश्यतु लोक एषः । ये त्वां भजन्ति न भजन्त्युत वोभयेषां निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम् ॥५॥ न ब्रह्मणः स्वपरभेदमतिस्तव स्यात्सर्वात्मनः समदृशः स्वसुखानुभूतेः । संसेवतां सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न विपर्ययोऽत्र ॥६॥ श्रीभगवानुवाच सम्यग्व्यवसितं राजन् भवता शत्रुकर्शन। कल्याणी येन ते कीर्तिर्लोकाननुभविष्यति ॥७॥ ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो। सर्वेषामपि भूतानामीप्सितः क्रतुराडयम् ॥८॥ विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे। सम्भृत्य सर्वसम्भारानाहरस्व महाक्रतुम् ॥९॥ एते ते भ्रातरो राजंल्लोकपालांशसम्भवाः। जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः ॥१०॥ न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया। विभूतिभिर्वाभिभवेद्देवोऽपि किमु पार्थिवः ॥११॥ श्रीशुक उवाच निशम्य भगवद्गीतं प्रीतः फुल्लमुखाम्बुजः। भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान् ॥१२॥ सहदेवं दक्षिणस्यामादिशत्सह सृञ्जयैः। दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम्। प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ॥१३॥ ते विजित्य नृपान् वीरा आजह्रुर्दिग्भ्य ओजसा। अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते ॥१४॥ श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः। आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥१५॥ भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधरास्त्रयः। जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः ॥१६॥ ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम्। ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिनः ॥१७॥ राजन् विद्ध्यतिथीन् प्राप्तानर्थिनो दूरमागतान्। तन्नः प्रयच्छ भद्रं ते यद्वयं कामयामहे ॥१८॥ किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः। किं न देयं वदान्यानां कः परः समदर्शिनाम् ॥१९॥ योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम्। नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥२०॥ हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः। व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥२१॥ श्रीशुक उवाच स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि। राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत् ॥२२॥ राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति। ददामि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम् ॥२३॥ बलेर्नु श्रूयते कीर्तिर्वितता दिक्ष्वकल्मषा। ऐश्वर्याद्भ्रंशितस्यापि विप्रव्याजेन विष्णुना ॥२४॥ श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे। जानन्नपि महीं प्रादाद्वार्यमाणोऽपि दैत्यराट् ॥२५॥ जीवता ब्राह्मणार्थाय को न्वर्थः क्षत्रबन्धुना। देहेन पतमानेन नेहता विपुलं यशः ॥२६॥ इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान्। हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि वः॥२७॥ श्रीभगवानुवाच युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे। युद्धार्थिनो वयं प्राप्ता राजन्या नान्नकाङ्क्षिणः ॥२८॥ असौ वृकोदरः पार्थस्तस्य भ्रातार्जुनो ह्ययम्। अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥२९॥ एवमावेदितो राजा जहासोच्चैः स्म मागधः। आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः ॥३०॥ न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा। मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः ॥३१॥ अयं तु वयसातुल्यो नातिसत्त्वो न मे समः। अर्जुनो न भवेद्योद्धा भीमस्तुल्यबलो मम ॥३२॥ इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम्। द्वितीयां स्वयमादाय निर्जगाम पुराद्बहिः ॥३३॥ ततः समे खले वीरौ संयुक्तावितरेतरौ। जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ ॥३४॥ मण्डलानि विचित्राणि सव्यं दक्षिणमेव च। चरतोः शुशुभे युद्धं नटयोरिव रङ्गिणोः ॥३५॥ ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः। गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः ॥३६॥ ते वै गदे भुजजवेन निपात्यमाने अन्योन्यतोंऽसकटिपादकरोरुजत्रून् । चूर्णीबभूवतुरुपेत्य यथार्कशाखे संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्योः ॥३७॥ इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ क्रुद्धौ स्वमुष्टिभिरयःस्परशैरपिंष्टाम् । शब्दस्तयोः प्रहरतोरिभयोरिवासी- न्निर्घातवज्रपरुषस्तलताडनोत्थः ॥३८॥ तयोरेवं प्रहरतोः समशिक्षाबलौजसोः। निर्विशेषमभूद्युद्धमक्षीणजवयोर्नृप ॥३९॥ एवं तयोर्महाराज युध्यतोः सप्तविंशतिः । दिनानि निरगंस्तत्र सु?हृद्वन्निशि तिष्ठतोः ॥४०॥ एकदा मातुलेयं वै प्राह राजन् वृकोदरः । न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव ॥ ४१॥ शत्रोर्जन्ममृती विद्वाञ्जीवितं च जराकृतम्। पार्थमाप्याययन् स्वेन तेजसाचिन्तयद्धरिः ॥४२॥ सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः। दर्शयामास विटपं पाटयन्निव संज्ञया ॥४३॥ तद्विज्ञाय महासत्त्वो भीमः प्रहरतां वरः। गृहीत्वा पादयोः शत्रुं पातयामास भूतले ॥४४॥ एकं पादं पदाऽऽक्रम्य दोर्भ्यामन्यं प्रगृह्य सः। गुदतः पाटयामास शाखमिव महागजः ॥४५॥ एकपादोरुवृषणकटिपृष्ठस्तनांसके । एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः ॥४६॥ हाहाकारो महानासीन्निहते मगधेश्वरे। पूजयामासतुर्भीमं परिरभ्य जयाच्युतौ ॥४७॥ सहदेवं तत्तनयं भगवान् भूतभावनः। अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः। मोचयामास राजन्यान् संरुद्धा मागधेन ये ॥४८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्धवधो नाम द्विसप्ततितमोऽध्यायः॥७२॥

॥ त्रिसप्ततितमोऽध्यायः - ७३ ॥

श्रीशुक उवाच अयुते द्वे शतान्यष्टौ लीलया युधि निर्जिताः। ते निर्गता गिरिद्रोण्यां मलिना मलवाससः ॥१॥ क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः। ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥२॥ श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम्। चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥३॥ पद्महस्तं गदाशङ्खरथाङ्गैरुपलक्षितम्। किरीटहारकटककटिसूत्राङ्गदाञ्चितम् ॥४॥ भ्राजद्वरमणिग्रीवं निवीतं वनमालया। पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥५॥ जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः। प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ॥६॥ कृष्णसन्दर्शनाह्लादध्वस्तसंरोधनक्लमाः। प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥७॥ राजान ऊचुः नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय। प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः॥८॥ नैनं नाथान्वसूयामो मागधं मधुसूदन। अनुग्रहो यद्भवतो राज्ञां राज्यच्युतिर्विभो ॥९॥ राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः। त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः ॥१०॥ मृगतृष्णां यथा बाला मन्यन्त उदकाशयम्। एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते ॥११॥ वयं पुरा श्रीमदनष्टदृष्टयो जिगीषयास्या इतरेतरस्पृधः। घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो मृत्युं पुरस्त्वाविगणय्य दुर्मदाः ॥१२॥ त एव कृष्णाद्य गभीररंहसा दुरन्तवीर्येण विचालिताः श्रियः। कालेन तन्वा भवतोऽनुकम्पया विनष्टदर्पाश्चरणौ स्मराम ते ॥१३॥ अथो न राज्यं मृगतृष्णिरूपितं देहेन शश्वत्पतता रुजां भुवा। उपासितव्यं स्पृहयामहे विभो क्रियाफलं प्रेत्य च कर्णरोचनम् ॥१४॥ तं नः समादिशोपायं येन ते चरणाब्जयोः। स्मृतिर्यथा न विरमेदपि संसरतामिह ॥१५॥ कृष्णाय वासुदेवाय हरये परमात्मने। प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥१६॥(२) श्रीशुक उवाच संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनैः। तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा ॥१७॥ श्रीभगवानुवाच अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे। सुदृढा जायते भक्तिर्बाढमाशंसितं तथा ॥१८॥ दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः। श्रियैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् ॥१९॥ हैहयो नहुषो वेनो रावणो नरकोऽपरे। श्रीमदाद्भ्रंशिताः स्थानाद्देवदैत्यनरेश्वराः ॥२०॥ भवन्त एतद्विज्ञाय देहाद्युत्पाद्यमन्तवत्। मां यजन्तोऽध्वरैर्युक्ताः प्रजा धर्मेण रक्षथ ॥२१॥ सन्तन्वन्तः प्रजातन्तून् सुखं दुःखं भवाभवौ। प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ ॥२२॥ उदासीनाश्च देहादावात्मारामा धृतव्रताः। मय्यावेश्य मनः सम्यङ् मामन्ते ब्रह्म यास्यथ ॥२३॥ श्रीशुक उवाच इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः। तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जनकर्मणि ॥२४॥ सपर्यां कारयामास सहदेवेन भारत। नरदेवोचितैर्वस्त्रैर्भूषणैः स्रग्विलेपनैः ॥२५॥ भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान्। भोगैश्च विविधैर्युक्तांस्ताम्बूलाद्यैर्नृपोचितैः ॥२६॥ ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः। विरेजुर्मोचिताः क्लेशात्प्रावृडन्ते यथा ग्रहाः ॥२७॥ रथान् सदश्वानारोप्य मणिकाञ्चनभूषितान्। प्रीणय्य सूनृतैर्वाक्यैः स्वदेशान् प्रत्ययापयत् ॥२८॥ त एवं मोचिताः कृच्छ्रात्कृष्णेन सुमहात्मना। ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः ॥२९॥ जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम्। यथान्वशासद्भगवांस्तथा चक्रुरतन्द्रिताः ॥३०॥ जरासन्धं घातयित्वा भीमसेनेन केशवः। पार्थाभ्यां संयुतः प्रायात्सहदेवेन पूजितः ॥३१॥ गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारयः। हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः ॥३२॥ तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः। मेनिरे मागधं शान्तं राजा चाप्तमनोरथः ॥३३॥ अभिवन्द्याथ राजानं भीमार्जुनजनार्दनाः। सर्वमाश्रावयांचक्रुरात्मना यदनुष्ठितम् ॥३४॥ निशम्य धर्मराजस्तत्केशवेनानुकम्पितम्। आनन्दाश्रुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥३५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने त्रिसप्ततितमोऽध्यायः॥७३॥

॥ चतुःसप्ततितमोऽध्यायः - ७४ ॥

श्रीशुक उवाच एवं युधिष्ठिरो राजा जरासन्धवधं विभोः। कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥१॥ युधिष्ठिर उवाच ये स्युस्त्रैलोक्यगुरवः सर्वे लोकमहेश्वराः। वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम् ॥२॥ स भवानरविन्दाक्षो दीनानामीशमानिनाम्। धत्तेऽनुशासनं भूमंस्तदत्यन्तविडम्बनम् ॥३॥ न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः। कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः ॥४॥ न वै तेऽजित भक्तानां ममाहमिति माधव। त्वं तवेति च नानाधीः पशूनामिव वैकृता ॥५॥ श्रीशुक उवाच इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः। कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः ॥६॥ द्वैपायनो भरद्वाजः सुमन्तुर्गौतमोऽसितः। वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः ॥७॥ विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः। पैलः पराशरो गर्गो वैशम्पायन एव च ॥८॥ अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः। वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः ॥९॥ उपहूतास्तथा चान्ये द्रोणभीष्मकृपादयः। धृतराष्ट्रः सहसुतो विदुरश्च महामतिः ॥१०॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः। तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप ॥११॥ ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः। कृष्ट्वा तत्र यथाम्नायं दीक्षयांचक्रिरे नृपम् ॥१२॥ हैमाः किलोपकरणा वरुणस्य यथा पुरा। इन्द्रादयो लोकपाला विरिञ्चभवसंयुताः ॥१३॥ सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः। मुनयो यक्षरक्षांसि खगकिन्नरचारणाः ॥१४॥ राजानश्च समाहूता राजपत्न्यश्च सर्वशः। राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै ॥१५॥ मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः । अयाजयन् महाराजं याजका देववर्चसः ॥१६॥ राजसूयेन विधिवत्प्रचेतसमिवामराः । सौत्येऽहन्यवनीपालो याजकान् सदसस्पतीन्। अपूजयन्महाभागान् यथावत्सुसमाहितः ॥१७॥ सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः। नाध्यगच्छन्ननैकान्त्यात्सहदेवस्तदाब्रवीत् ॥१८॥ अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान् सात्वतांपतिः। एष वै देवताः सर्वा देशकालधनादयः ॥१९॥ यदात्मकमिदं विश्वं क्रतवश्च यदात्मकाः। अग्निराहुतयो मन्त्राः साङ्ख्यं योगश्च यत्परः ॥२०॥ एक एवाद्वितीयोऽसावैतदात्म्यमिदं जगत्। आत्मनाऽऽत्माश्रयः सभ्याः सृजत्यवति हन्त्यजः ॥२१॥ विविधानीह कर्माणि जनयन् यदवेक्षया। ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम् ॥२२॥ तस्मात्कृष्णाय महते दीयतां परमार्हणम्। एवं चेत्सर्वभूतानामात्मनश्चार्हणं भवेत् ॥२३॥ सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने। देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता ॥२४॥ इत्युक्त्वा सहदेवोऽभूत्तूष्णीं कृष्णानुभाववित्। तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः ॥२५॥ श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम्। समर्हयद्धृषीकेशं प्रीतः प्रणयविह्वलः ॥२६॥ तत्पादाववनिज्यापः शिरसा लोकपावनीः। सभार्यः सानुजामात्यः सकुटुम्बोऽवहन्मुदा ॥२७॥ सगोनासंगोगो वासोभिः पीतकौशेयैर्भूषणैश्च महाधनैः। अर्हयित्वाश्रुपूर्णाक्षो नाशकत्समवेक्षितुम् ॥२८॥ इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः। नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः ॥२९॥ इत्थं निशम्य दमघोषसुतः स्वपीठादुत्थाय कृष्णगुणवर्णनजातमन्युः । उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी संश्रावयन् भगवते परुषाण्यभीतः ॥३०॥ ईशो दुरत्ययः काल इति सत्यवती श्रुतिः। वृद्धानामपि यद्बुद्धिर्बालवाक्यैर्विभिद्यते ॥३१॥ यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषीतम्। सदसस्पतयः सर्वे कृष्णो यत्सम्मतोऽर्हणे ॥३२॥ तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान्। परमऋषीन् ब्रह्मनिष्ठांल्लोकपालैश्च पूजितान् ॥३३॥ सदस्पतीनतिक्रम्य गोपालः कुलपांसनः। यथा काकः पुरोडाशं सपर्यां कथमर्हति ॥३४॥ वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः। स्वैरवर्ती गुणैर्हीनः सपर्यां कथमर्हति ॥३५॥ ययातिनैषां हि कुलं शप्तं सद्भिर्बहिष्कृतम्। वृथापानरतं शश्वत्सपर्यां कथमर्हति ॥३६॥ ब्रह्मर्षिसेवितान् देशान् हित्वैतेऽब्रह्मवर्चसम्। समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः ॥३७॥ एवमादीन्यभद्राणि बभाषे नष्टमङ्गलः। नोवाच किञ्चिद्भगवान् यथा सिंहः शिवारुतम् ॥३८॥ भगवन्निन्दनं श्रुत्वा दुःसहं तत्सभासदः। कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा ॥३९॥ निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा। ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥४०॥ ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः। उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ॥४१॥ ततश्चैद्यस्त्वसम्भ्रान्तो जगृहे खड्गचर्मणी। भर्त्सयन् कृष्णपक्षीयान् राज्ञः सदसि भारत ॥४२॥ तावदुत्थाय भगवान् स्वान् निवार्य स्वयं रुषा। शिरः क्षुरान्तचक्रेण जहारापततो रिपोः ॥४३॥ शब्दः कोलाहलोऽप्यासीच्छिशुपाले हते महान्। तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिणः ॥४४॥ चैद्यदेहोत्थितं ज्योतिर्वासुदेवमुपाविशत्। पश्यतां सर्वभूतानामुल्केव भुवि खाच्च्युता ॥४५॥ जन्मत्रयानुगुणितवैरसंरब्धया धिया। ध्यायंस्तन्मयतां यातो भावो हि भवकारणम् ॥४६॥ ऋत्विग्भ्यः ससदस्येभ्यो दक्षिणां विपुलामदात्। सर्वान् सम्पूज्य विधिवच्चक्रेऽवभृथमेकराट् ॥४७॥ साधयित्वा क्रतुं राज्ञः कृष्णो योगेश्वरेश्वरः। उवास कतिचिन्मासान् सुहृद्भिरभियाचितः ॥४८॥ ततोऽनुज्ञाप्य राजानमनिच्छन्तमपीश्वरः। ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः ॥४९॥ वर्णितं तदुपाख्यानं मया ते बहुविस्तरम्। वैकुण्ठवासिनोर्जन्म विप्रशापात्पुनः पुनः ॥५०॥ राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः। ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥५१॥ राज्ञा सभाजिताः सर्वे सुरमानवखेचराः। कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर्मुदा ॥५२॥ दुर्योधनमृते पापं कलिं कुरुकुलामयम्। यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् ॥५३॥ य इदं कीर्तयेद्विष्णोः कर्म चैद्यवधादिकम्। राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते ॥५४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शिशुपालवधो नाम चतुःसप्ततितमोऽध्यायः॥७४॥

॥ पञ्चसप्ततितमोऽध्यायः - ७५ ॥

राजोवाच अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम्। सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः ॥१॥ दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः। इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् ॥२॥ ऋषिरुवाच पितामहस्य ते यज्ञे राजसूये महात्मनः। बान्धवाः परिचर्यायां तस्यासन् प्रेमबन्धनाः ॥३॥ भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः। सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥४॥ गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने। परिवेषणे द्रुपदजा कर्णो दाने महामनाः ॥५॥ युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः। बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः ॥६॥ निरूपिता महायज्ञे नानाकर्मसु ते तदा। प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः ॥७॥ ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः। चैद्ये च सात्वतपतेश्चरणं प्रविष्टे चक्रुस्ततस्त्ववभृथस्नपनं द्युनद्याम् ॥ ८॥ मृदङ्गशङ्खपणवधुन्धुर्यानकगोमुखाः। वादित्राणि विचित्राणि नेदुरावभृथोत्सवे ॥९॥ नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः। वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् ॥१०॥ चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभिः। स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः ॥११॥ यदुसृञ्जयकाम्बोजकुरुकेकयकोसलाः। कम्पयन्तो भुवं सैन्यैर्यजमानपुरःसराः ॥१२॥ सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा। देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः ॥१३॥ स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः। विलिम्पन्त्योऽभिषिञ्चन्त्यो विजह्रुर्विविधै रसैः ॥१४॥ तैलगोरसगन्धोदहरिद्रासान्द्रकुङ्कुमैः। पुम्भिर्लिप्ताः प्रलिम्पन्त्यो विजह्रुर्वारयोषितः ॥१५॥ गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद्देव्यो यथा दिवि विमानवरैर्नृदेव्यः। ता मातुलेयसखिभिः परिषिच्यमानाः सव्रीडहासविकसद्वदना विरेजुः ॥१६॥ ता देवरानुत सखीन् सिषिचुर्दृतीभिः क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः । औत्सुक्यमुक्तकबराच्च्यवमानमाल्याः क्षोभं दधुर्मलधियां रुचिरैर्विहारैः ॥१७॥ स सम्राड् रथमारुढः सदश्वं रुक्ममालिनम्। व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव ॥१८॥ पत्नीसम्याजावभृथ्यैश्चरित्वा ते तमृत्विजः। आचान्तं स्नापयांचक्रुर्गङ्गायां सह कृष्णया ॥१९॥ देवदुन्दुभयो नेदुर्नरदुन्दुभिभिः समम्। मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः ॥२०॥ सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः। महापातक्यपि यतः सद्यो मुच्येत किल्बिषात्॥२१॥ अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः। ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरैः ॥२२॥ बन्धूञ्ज्ञातिनृपान् मित्रसुहृदोऽन्यांश्च सर्वशः। अभीक्ष्णं पूजयामास नारायणपरो नृपः ॥२३॥ सर्वे जनाः सुररुचो मणिकुण्डलस्र- गुष्णीषकञ्चुकदुकूलमहार्घ्यहाराः । नार्यश्च कुण्डलयुगालकवृन्दजुष्टवक्त्रश्रियः कनकमेखलया विरेजुः ॥२४॥ अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः। ब्रह्मक्षत्रियविट् शूद्रा राजानो ये समागताः ॥२५॥ देवर्षिपितृभूतानि लोकपालाः सहानुगाः। पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप ॥२६॥ हरिदासस्य राजर्षे राजसूयमहोदयम्। नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा ॥२७॥ ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान्। प्रेम्णा निवारयामास कृष्णं च त्यागकातरः ॥२८॥ भगवानपि तत्राङ्ग न्यवात्सीत्तत्प्रियङ्करः। प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् ॥२९॥ इत्थं राजा धर्मसुतो मनोरथमहार्णवम्। सुदुस्तरं समुत्तीर्य कृष्णेनासीद्गतज्वरः ॥३०॥ एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम्। अतप्यद्राजसूयस्य महित्वं चाच्युतात्मनः ॥३१॥ यस्मिन् नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मीः नाना विभान्ति किल विश्वसृजोपकॢप्ताः । ताभिः पतीन् द्रुपदराजसुतोपतस्थे यस्यां विषक्तहृदयः कुरुराडतप्यत् ॥३२॥ यस्मिंस्तदा मधुपतेर्महिषीसहस्रं श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् । मध्ये सुचारु कुचकुङ्कुमशोणहारं श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥३३॥ सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट्। वृतोऽनुजैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥३४॥ आसीनः काञ्चने साक्षादासने मघवानिव। पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः ॥३५॥ तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप। किरीटमाली न्यविशदसिहस्तः क्षिपन् रुषा ॥३६॥ स्थलेऽभ्यगृह्णाद्वस्त्रान्तं जलं मत्वा स्थलेऽपतत्। जले च स्थलवद्भ्रान्त्या मयमायाविमोहितः ॥३७॥ जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयोऽपरे। निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ॥३८॥ स व्रीडितोऽवाग्वदनो रुषा ज्वलन्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम्। हा हेति शब्दः सुमहानभूत्सता- मजातशत्रुर्विमना इवाभवत्। बभूव तूष्णीं भगवान् भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ॥३९॥ एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया। सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्योधनमानभङ्गो नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥

॥ षट्सप्ततितमोऽध्यायः - ७६ ॥

श्रीशुक उवाच अथान्यदपि कृष्णस्य शृणु कर्माद्भुतं नृप। क्रीडानरशरीरस्य यथा सौभपतिर्हतः ॥१॥ शिशुपालसखः शाल्वो रुक्मिण्युद्वाह आगतः। यदुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा ॥२॥ शाल्वः प्रतिज्ञामकरोच्छृण्वतां सर्वभूभुजाम्। अयादवीं क्ष्मां करिष्ये पौरुषं मम पश्यत ॥३॥ इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम्। आराधयामास नृपः पांसुमुष्टिं सकृद्ग्रसन् ॥४॥ संवत्सरान्ते भगवानाशुतोष उमापतिः। वरेण च्छन्दयामास शाल्वं शरणमागतम् ॥५॥ देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्। अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम् ॥६॥ तथेति गिरिशादिष्टो मयः परपुरंजयः। पुरं निर्माय शाल्वाय प्रादात्सौभमयस्मयम् ॥७॥ स लब्ध्वा कामगं यानं तमोधाम दुरासदम्। ययौ द्वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन् ॥८॥ निरुध्य सेनया शाल्वो महत्या भरतर्षभ। पुरीं बभञ्जोपवनान्युद्यानानि च सर्वशः ॥९॥ स गोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः। विहारान् स विमानाग्र्यान्निपेतुः शस्त्रवृष्टयः ॥१०॥ शिला द्रुमाश्चाशनयः सर्पा आसारशर्कराः। प्रचण्डश्चक्रवातोऽभूद्रजसाऽऽच्छादिता दिशः ॥११॥ इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम्। नाभ्यपद्यत शं राजंस्त्रिपुरेण यथा मही ॥१२॥ प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः। मा भैष्टेत्यभ्यधाद्वीरो रथारूढो महायशाः ॥१३॥ सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूरः सहानुजः। हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ ॥१४॥ अपरे च महेष्वासा रथयूथपयूथपाः। निर्ययुर्दंशिता गुप्ता रथेभाश्वपदातिभिः ॥१५॥ ततः प्रववृते युद्धं शाल्वानां यदुभिः सह। यथासुराणां विबुधैस्तुमुलं लोमहर्षणम् ॥१६॥ ताश्च सौभपतेर्माया दिव्यास्त्रै रुक्मिणीसुतः। क्षणेन नाशयामास नैशं तम इवोष्णगुः ॥१७॥ विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः। शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः ॥१८॥ शतेनाताडयच्छाल्वमेकैकेनास्य सैनिकान्। दशभिर्दशभिर्नेतॄन् वाहनानि त्रिभिस्त्रिभिः ॥१९॥ तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः। दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः ॥२०॥ बहुरूपैकरूपं तद्दृश्यते न च दृश्यते। मायामयं मयकृतं दुर्विभाव्यं परैरभूत् ॥२१॥ क्वचिद्भूमौ क्वचिद्व्योम्नि गिरिमूर्ध्नि जले क्वचित्। अलातचक्रवद्भ्राम्यत्सौभं तद्दुरवस्थितम् ॥२२॥ यत्र यत्रोपलक्ष्येत ससौभः सह सैनिकः। शाल्वस्ततस्ततोऽमुञ्चञ्छरान् सात्वतयूथपाः ॥२३॥ शरैरग्न्यर्कसंस्पर्शैराशीविषदुरासदैः। पीड्यमानपुरानीकः शाल्वोऽमुह्यत्परेरितैः ॥२४॥ शाल्वानीकपशस्त्रौघैर्वृष्णिवीरा भृशार्दिताः। न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः ॥२५॥ शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्राक्प्रपीडितः। आसाद्य गदया मौर्व्या व्याहत्य व्यनदद्बली ॥२६॥ प्रद्युम्नं गदया शीर्णवक्षःस्थलमरिन्दमम्। अपोवाह रणात्सूतो धर्मविद्दारुकात्मजः ॥२७॥ लब्धसम्ज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत्। अहो असाध्विदं सूत यद्रणान्मेऽपसर्पणम् ॥२८॥ न यदूनां कुले जातः श्रूयते रणविच्युतः। विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात् ॥२९॥ किं नु वक्ष्येऽभिसङ्गम्य पितरौ रामकेशवौ। युद्धात्सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम् ॥३०॥ व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः। क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे ॥३१॥ सारथिरुवाच धर्मं विजानताऽऽयुष्मन् कृतमेतन्मया विभो। सूतः कृच्छ्रगतं रक्षेद्रथिनं सारथिं रथी ॥३२॥ एतद्विदित्वा तु भवान् मयापोवाहितो रणात्। उपसृष्टः परेणेति मूर्च्छितो गदया हतः ॥३३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शाल्वयुद्धे षट्सप्ततितमोऽध्यायः ॥७६॥

॥ सप्तसप्ततितमोऽध्यायः - ७७ ॥

श्रीशुक उवाच स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः। नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम् ॥१॥ विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः। प्रतिहत्य प्रत्यविध्यन्नाराचैरष्टभिः स्मयन् ॥२॥ चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत्। द्वाभ्यां धनुश्च केतुं च शरेणान्येन वै शिरः ॥३॥ गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम्। पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्नकन्धराः ॥४॥ एवं यदूनां शाल्वानां निघ्नतामितरेतरम्। युद्धं त्रिणवरात्रं तदभूत्तुमुलमुल्बणम् ॥५॥ इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना। राजसूयेऽथ निर्वृत्ते शिशुपाले च संस्थिते ॥६॥ कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम्। निमित्तान्यतिघोराणि पश्यन् द्वारवतीं ययौ ॥७॥ आह चाहमिहायात आर्यमिश्राभिसङ्गतः। राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम ॥८॥ वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम्। सौभं च शाल्वराजं च दारुकं प्राह केशवः ॥९॥ रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै। सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् ॥१०॥ इत्युक्तश्चोदयामास रथमास्थाय दारुकः। विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥११॥ शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः। प्राहरत्कृष्णसूताय शक्तिं भीमरवां मृधे ॥१२॥ तामापतन्तीं नभसि महोल्कामिव रंहसा। भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत्॥१३॥ तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत्। अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः ॥१४॥ शाल्वः शौरेस्तु दोः सव्यं सशार्ङ्गं शार्ङ्गधन्वनः। बिभेद न्यपतद्धस्ताच्छार्ङ्गमासीत्तदद्भुतम् ॥१५॥ हाहाकारो महानासीद्भूतानां तत्र पश्यताम्। विनद्य सौभराडुच्चैरिदमाह जनार्दनम् ॥१६॥ यत्त्वया मूढ नः सख्युर्भ्रातुर्भार्या हृतेक्षताम्। प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा ॥१७॥ तं त्वाद्य निशितैर्बाणैरपराजितमानिनम्। नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः ॥१८॥ श्रीभगवानुवाच वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम्। पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः ॥१९॥ इत्युक्त्वा भगवाञ्छाल्वं गदया भीमवेगया। तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक् ॥२०॥ गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत। ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम्। देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥२१॥ कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल। बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ॥२२॥ निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः। विमनस्को घृणी स्नेहाद्बभाषे प्राकृतो यथा ॥२३॥ कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः। शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः॥२४॥ इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः। वसुदेवमिवानीय कृष्णं चेदमुवाच सः ॥२५॥ एष ते जनिता तातो यदर्थमिह जीवसि। वधिष्ये वीक्षतस्तेऽमुमीशश्चेत्पाहि बालिश ॥२६॥ एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः। उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥२७॥ ततो मुहूर्तं प्रकृतावुपप्लुतः स्वबोध आस्ते स्वजनानुषङ्गतः। महानुभावस्तदबुध्यदासुरीं मायां स शाल्वप्रसृतां मयोदिताम् ॥२८॥ न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यदच्युतः। स्वाप्नं यथा चाम्बरचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यतः ॥२९॥ एवं वदन्ति राजर्षे ऋषयः के च नान्विताः। यत्स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत ॥३०॥ क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः। क्व चाखण्डितविज्ञानज्ञानैश्वर्यस्त्वखण्डितः ॥३१॥ यत्पादसेवोर्जितयाऽऽत्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम्। लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः ॥३२॥ तं शस्त्रपूगैः प्रहरन्तमोजसा शाल्वं शरैः शौरिरमोघविक्रमः। विद्ध्वाच्छिनद्वर्म धनुः शिरोमणिं सौभं च शत्रोर्गदया रुरोज ह ॥३३॥ तत्कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा। विसृज्य तद्भूतलमास्थितो गदामुद्यम्य शाल्वोऽच्युतमभ्यगाद्द्रुतम् ॥३४॥ आधावतः सगदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गमद्भुतम्। वधाय शाल्वस्य लयार्कसन्निभं बिभ्रद्बभौ सार्क इवोदयाचलः ॥३५॥ जहार तेनैव शिरः सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः। वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम् ॥३६॥ तस्मिन् निपतिते पापे सौभे च गदया हते। नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः। सखीनामपचितिं कुर्वन् दन्तवक्त्रो रुषाभ्यगात् ॥३७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे सौभवधो नाम सप्तसप्ततितमोऽध्यायः ॥७७॥

॥ अष्टसप्ततितमोऽध्यायः - ७८ ॥

श्रीशुक उवाच शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः। परलोकगतानां च कुर्वन् पारोक्ष्यसौहृदम् ॥१॥ एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन्। पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत ॥२॥ तं तथायान्तमालोक्य गदामादाय सत्वरः। अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥३॥ गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः। दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः ॥४॥ त्वं मातुलेयो नः कृष्ण मित्रध्रुङ्मां जिघांससि। अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ॥५॥ तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः। बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ॥६॥ एवं रूक्षैस्तुदन् वाक्यैः कृष्णं तोत्रैरिव द्विपम्। गदयाताडयन्मूर्ध्नि सिंहवद्व्यनदच्चसः ॥७॥ गदयाभिहतोऽप्याजौ न चचाल यदूद्वहः। कृष्णोऽपि तमहन् गुर्व्या कौमोदक्या स्तनान्तरे॥८॥ गदानिर्भिन्नहृदय उद्वमन् रुधिरं मुखात्। प्रसार्य केशबाह्वङ्घ्रीन् धरण्यां न्यपतद्व्यसुः ॥९॥ ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम्। पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥१०॥ विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः। आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया ॥११॥ तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना। शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् ॥१२॥ एवं सौभं च शाल्वं च दन्तवक्त्रं सहानुजम्। हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः ॥१३॥ मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः। अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः ॥१४॥ उपगीयमानविजयः कुसुमैरभिवर्षितः। वृतश्चवृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् ॥१५॥ एवं योगेश्वरः कृष्णो भगवान् जगदीश्वरः। ईयते पशुदृष्टीनां निर्जितो जयतीति सः ॥१६॥ श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः। तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥१७॥ स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान्। सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः ॥१८॥ पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम्। विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् ॥१९॥ यमुनामनु यान्येव गङ्गामनु च भारत। जगाम नैमिषं यत्र ऋषयः सत्रमासते ॥२०॥ तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः। अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् ॥२१॥ सोऽर्चितः सपरीवारः कृतासनपरिग्रहः। रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ॥२२॥ अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम्। अध्यासीनं च तान् विप्रांश्चुकोपोद्वीक्ष्य माधवः॥२३॥ कस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमजः। धर्मपालांस्तथैवास्मान् वधमर्हति दुर्मतिः ॥२४॥ ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च। सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः ॥२५॥ अदान्तस्याविनीतस्य वृथा पण्डितमानिनः। न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥२६॥ एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः। वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः॥२७॥ एतावदुक्त्वा भगवान् निवृत्तोऽसद्वधादपि। भावित्वात्तं कुशाग्रेण करस्थेनाहनत्प्रभुः ॥२८॥ हाहेति वादिनः सर्वे मुनयः खिन्नमानसाः। ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो ॥२९॥ अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन। आयुश्चात्माक्लमं तावद्यावत्सत्रं समाप्यते ॥३०॥ अजानतैवाचरितस्त्वया ब्रह्मवधो यथा। योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः ॥३१॥ यद्येतद्ब्रह्महत्यायाः पावनं लोकपावन। चरिष्यति भवांल्लोकसङ्ग्रहोऽनन्यचोदितः ॥३२॥ श्रीभगवानुवाच करिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया। नियमः प्रथमे कल्पे यावान् स तु विधीयताम् ॥३३॥ दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रियमेव च। आशासितं यत्तद्ब्रूत साधये योगमायया ॥३४॥ ऋषय ऊचुः अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च। यथा भवेद्वचः सत्यं तथा राम विधीयताम् ॥३५॥ श्रीभगवानुवाच आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम्। तस्मादस्य भवेद्वक्ता आयुरिन्द्रियसत्त्ववान् ॥३६॥ किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ। अजानतस्त्वपचितिं यथा मे चिन्त्यतां बुधाः ॥३७॥ ऋषय ऊचुः इल्वलस्य सुतो घोरो बल्वलो नाम दानवः। स दूषयति नः सत्रमेत्य पर्वणि पर्वणि ॥३८॥ तं पापं जहि दाशार्ह तन्नः शुश्रूषणं परम्। पूयशोणितविण्मूत्रसुरामांसाभिवर्षिणम् ॥३९॥ ततश्च भारतं वर्षं परीत्य सुसमाहितः। चरित्वा द्वादशमासांस्तीर्थस्नायी विशुध्यसे ॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवचरिते बल्वलवधोपक्रमो नामाष्टसप्ततितमोऽध्यायः॥७८॥

॥ एकोनाशीतितमोऽध्यायः - ७९ ॥

श्रीशुक उवाच ततः पर्वण्युपावृत्ते प्रचण्डः पांसुवर्षणः। भीमो वायुरभूद्राजन् पूयगन्धस्तु सर्वशः ॥१॥ ततोऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम्। अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृक् ॥२॥ तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम्। तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् ॥३॥ सस्मार मुसलं रामः परसैन्यविदारणम्। हलं च दैत्यदमनं ते तूर्णमुपतस्थतुः ॥४॥ तमाकृष्य हलाग्रेण बल्वलं गगनेचरम्। मुसलेनाहनत्क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बलः ॥५॥ सोऽपतद्भुवि निर्भिन्नललाटोऽसृक्समुत्सृजन्। मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुणः ॥६॥ संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः। अभ्यषिञ्चन्महाभागा वृत्रघ्नं विबुधा यथा ॥७॥ वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजां। रामाय वाससी दिव्ये दिव्यान्याभरणानि च ॥८॥ अथ तैरभ्यनुज्ञातः कौशिकीमेत्य ब्राह्मणैः। स्नात्वा सरोवरमगाद्यतः सरयुरास्रवत् ॥९॥ अनुस्रोतेन सरयूं प्रयागमुपगम्य सः। स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् ॥१०॥ गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः। गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमे ॥११॥ उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च। सप्तगोदावरीं वेणां पम्पां भीमरथीं ततः ॥१२॥ स्कन्दं दृष्ट्वा ययौ रामः श्रीशैलं गिरिशालयम्। द्रविडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः ॥१३॥ कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम्। श्रीरङ्गाख्यं महापुण्यं यत्र सन्निहितो हरिः ॥१४॥ ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा। सामुद्रं सेतुमगमन्महापातकनाशनम् ॥१५॥ तत्रायुतमदाद्धेनूर्ब्राह्मणेभ्यो हलायुधः। कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥१६॥ तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च। योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम्। दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः ॥१७॥ ततः फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम्। विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद्गवायुतम् ॥१८॥ ततोऽभिव्रज्य भगवान् केरलांस्तु त्रिगर्तकान्। गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥१९॥ आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकमगाद्बलः। तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम्॥२०॥ प्रविश्य रेवामगमद्यत्र माहिष्मती पुरी। मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् ॥२१॥ श्रुत्वा द्विजैः कथ्यमानं कुरुपाण्डवसंयुगे। सर्वराजन्यनिधनं भारं मेने हृतं भुवः ॥२२॥ स भीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृधे। वारयिष्यन् विनशनं जगाम यदुनन्दनः ॥२३॥ युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि। अभिवाद्याभवंस्तूष्णीं किं विवक्षुरिहागतः ॥२४॥ गदापाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ। मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् ॥२५॥ युवां तुल्यबलौ वीरौ हे राजन् हे वृकोदर। एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् ॥२६॥ तस्मादेकतरस्येह युवयोः समवीर्ययोः। न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रणः ॥२७॥ न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत्। अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च ॥२८॥ दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ। उग्रसेनादिभिः प्रीतैर्ज्ञातिभिः समुपागतः ॥२९॥ तं पुनर्नैमिषं प्राप्तमृषयोऽयाजयन् मुदा। क्रत्वङ्गं क्रतुभिः सर्वैर्निवृत्ताखिलविग्रहम् ॥३०॥ तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद्विभुः। येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदुः ॥३१॥ स्वपत्न्यावभृथस्नातो ज्ञातिबन्धुसुहृद्वृतः। रेजे स्वज्योत्स्नयेवेन्दुः सुवासाः सुष्ठ्वलङ्कृतः ॥३२॥ ईदृग्विधान्यसङ्ख्यानि बलस्य बलशालिनः। अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि ॥३३॥ योऽनुस्मरेत रामस्य कर्माण्यद्भुतकर्मणः। सायंप्रातरनन्तस्य विष्णोः स दयितो भवेत् ॥३४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवतीर्थयात्रानिरूपणं नामैकोनाशीतितमोऽध्यायः॥७९॥

॥ अशीतितमोऽध्यायः - ८० ॥

राजोवाच भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः। वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामहे प्रभो ॥१॥ को नु श्रुत्वासकृद्ब्रह्मन्नुत्तमश्लोकसत्कथाः। विरमेत विशेषज्ञो विषण्णः काममार्गणैः ॥२॥ सा वाग्यया तस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च । स्मरेद्वसन्तं स्थिरजङ्गमेषु शृणोति तत्पुण्यकथाः स कर्णः ॥३॥ शिरस्तु तस्योभयलिङ्गमानमे- त्तदेव यत्पश्यति तद्धि चक्षुः। अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि भजन्ति नित्यम् ॥४॥ सूत उवाच विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः। वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥५॥ श्रीशुक उवाच कृष्णस्यासीत्सखा कश्चिद्ब्राह्मणो ब्रह्मवित्तमः। विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥६॥ यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी। तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥७॥ पतिव्रता पतिं प्राह म्लायता वदनेन सा। दरिद्रा सीदमाना सा वेपमानाभिगम्य च ॥८॥ ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः। ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः ॥९॥ तमुपैहि महाभाग साधूनां च परायणम्। दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥१०॥ आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः। स्मरतः पादकमलमात्मानमपि यच्छति। किं न्वर्थकामान् भजतो नात्यभीष्टान् जगद्गुरुः॥११॥ स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु । अयं हि परमो लाभ उत्तमश्लोकदर्शनम् ॥१२॥ इति सञ्चिन्त्य मनसा गमनाय मतिं दधे। अप्यस्त्युपायनं किञ्चिद्गृहे कल्याणि दीयताम् ॥१३॥ याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान्। चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ॥१४॥ स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल। कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥१५॥ त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्चस द्विजः। विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम्॥१६॥ गृहं द्व्यष्टसहस्राणां महिषीणां हरेर्द्विजः। विवेशैकतमं श्रीमद्ब्रह्मानन्दं गतो यथा ॥१७॥ तं विलोक्याच्युतो दूरात्प्रियापर्यङ्कमास्थितः। सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥१८॥ सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः। प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥१९॥ अथोपवेश्य पर्यङ्के स्वयंसख्युः समर्हणम्। उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥२०॥ अग्रहीच्छिरसा राजन् भगवांल्लोकपावनः। व्यलिम्पद्दिव्यगन्धेन चन्दनागुरुकुङ्कमैः ॥२१॥ धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा। अर्चित्वावेद्य ताम्बूलं गां च स्वागतमब्रवीत् ॥२२॥ कुचैलं मलिनं क्षामं द्विजं धमनिसन्ततम्। देवी पर्यचरत्साक्षाच्चामरव्यजनेन वै ॥२३॥ अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना। विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् ॥२४॥ किमनेन कृतं पुण्यमवधूतेन भिक्षुणा। श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥२५॥ योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः। पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥२६॥ कथयांचक्रतुर्गाथाः पूर्वा गुरुकुले सतोः। आत्मनो ललिता राजन् करौ गृह्य परस्परम् ॥२७॥ श्रीभगवानुवाच अपि ब्रह्मन् गुरुकुलाद्भवता लब्धदक्षिणात्। समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा ॥२८॥ प्रायो गृहेषु ते चित्तमकामविहितं तथा। नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥२९॥ केचित्कुर्वन्ति कर्माणि कामैरहतचेतसः। त्यजन्तः प्रकृतीर्दैवीर्यथाहं लोकसङ्ग्रहम् ॥३०॥ कच्चिद्गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः। द्विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते ॥३१॥ स वै सत्कर्मणां साक्षाद्द्विजातेरिह सम्भवः। आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः ॥३२॥ नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह। ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥३३॥ नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा। तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥३४॥ अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ। गुरुदारैश्चोदितानामिन्धनानयने क्वचित् ॥३५॥ प्रविष्टानां महारण्यमपर्तौ सुमहद्द्विज। वातवर्षमभूत्तीव्रं निष्ठुराः स्तनयित्नवः ॥३६॥ सूर्यश्चास्तंगतस्तावत्तमसा चावृता दिशः। निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥३७॥ वयं भृशं तत्र महानिलाम्बुभि- र्निहन्यमाना महुरम्बुसम्प्लवे। दिशोऽविदन्तोऽथ परस्परं वने गृहीतहस्ताः परिबभ्रिमातुराः ॥३८॥ एतद्विदित्वा उदिते रवौ सान्दीपनिर्गुरुः। अन्वेषमाणो नः शिष्यानाचार्योऽपश्यदातुरान्॥३९॥ अहो हे पुत्रका यूयमस्मदर्थेऽतिदुःखिताः। आत्मा वै प्राणिनां प्रेष्ठस्तमनादृत्य मत्पराः ॥४०॥ एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम्। यद्वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥४१॥ तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः। छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥४२॥ इत्थं विधान्यनेकानि वसतां गुरुवेश्मसु। गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥४३॥ ब्राह्मण उवाच किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो। भवता सत्यकामेन येषां वासो गुरावभूत् ॥४४॥ यस्यच्छन्दोमयं ब्रह्म देह आवपनं विभो। श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते अशीतितमोऽध्यायः ॥८०॥

॥ एकाशीतितमोऽध्यायः - ८१ ॥

श्रीशुक उवाच स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः। सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम् ॥१॥ ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम्। प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥२॥ श्रीभगवानुवाच किमुपायनमानीतं ब्रह्मन् मे भवता गृहात्। अण्वप्युपाहृतं भक्तैः प्रेम्णा भूर्येव मे भवेत्। भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥३॥ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥४॥ इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः। पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्मुखः ॥५॥ सर्वभूतात्मदृक्साक्षात्तस्यागमनकारणम्। विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा ॥६॥ पत्न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया। प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः ॥७॥ इत्थं विचिन्त्य वसनाच्चीरबद्धान् द्विजन्मनः। स्वयं जहार किमिदमिति पृथुकतण्डुलान् ॥८॥ सगोनासंगोगो नन्वेतदुपनीतं मे परमप्रीणनं सखे। तर्पयन्त्यङ्ग मां विश्वमेते पृथुकतण्डुलाः ॥९॥ इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे। तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः ॥१०॥ एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये। अस्मिन् लोकेऽथ वामुष्मिन् पुंसस्त्वत्तोषकारणम् ॥११॥ ब्राह्मणस्तां तु रजनीमुषित्वाच्युतमन्दिरे। भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा ॥१२॥ श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः। जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः ॥१३॥ स चालब्ध्वा धनं कृष्णान्न तु याचितवान् स्वयम्। स्वगृहान् व्रीडितोऽगच्छन्महद्दर्शननिर्वृतः ॥१४॥ अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया। यद्दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि ॥१५॥ क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः। ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः ॥१६॥ निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा। महिष्या वीजितः श्रान्तो वालव्यजनहस्तया ॥१७॥ शुश्रूषया परमया पादसंवाहनादिभिः। पूजितो देवदेवेन विप्रदेवेन देववत् ॥१८॥ स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम्। सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥१९॥ अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत्। इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥२०॥ इति तच्चिन्तयन्नन्तः प्राप्तो निजगृहान्तिकम्। सूर्यानलेन्दुसङ्काशैर्विमानैः सर्वतो वृतम् ॥२१॥ विचित्रोपवनोद्यानैः कूजद्द्विजकुलाकुलैः। प्रोत्फुल्लकुमुदाम्भोजकह्लारोत्पलवारिभिः ॥२२॥ जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः। किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥२३॥ एवं मीमांसमानं तं नरा नार्योऽमरप्रभाः। प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥२४॥ पतिमागतमाकर्ण्य पत्न्युद्धर्षातिसम्भ्रमा। निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात् ॥२५॥ पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना। मीलिताक्ष्यनमद्बुद्ध्या मनसा परिषस्वजे ॥२६॥ पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव। दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः॥२७॥ प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम्। मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥२८॥ पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः। पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥२९॥ आसनानि च हैमानि मृदूपस्तरणानि च। मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥३०॥ स्वच्छस्फटिककुड्येषु महामारकतेषु च। रत्नदीपा भ्राजमाना ललनारत्नसंयुताः ॥३१॥ विलोक्य ब्राह्मणस्तत्र समृद्धीः सर्वसम्पदाम्। तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम् ॥३२॥ नूनं बतैतन्मम दुर्भगस्य शश्वद्दरिद्रस्य समृद्धिहेतुः। महाविभूतेरवलोकतोऽन्यो नैवोपपद्येत यदूत्तमस्य ॥३३॥ नन्वब्रुवाणो दिशते समक्षं याचिष्णवे भूर्यपि भूरिभोजः। पर्जन्यवत्तत्स्वयमीक्षमाणो दाशार्हकाणामृषभः सखा मे ॥३४॥ किञ्चित्करोत्युर्वपि यत्स्वदत्तं सुहृत्कृतं फल्ग्वपि भूरिकारी । मयोपनीतां पृथुकैकमुष्टिं प्रत्यग्रहीत्प्रीतियुतो महात्मा ॥३५॥ तस्यैव मे सौहृदसख्यमैत्रीदास्यं पुनर्जन्मनि जन्मनि स्यात्। महानुभावेन गुणालयेन विषज्जतस्तत्पुरुषप्रसङ्गः ॥३६॥ भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर्न समर्थयत्यजः। अदीर्घबोधाय विचक्षणः स्वयं पश्यन्निपातं धनिनां मदोद्भवम् ॥३७॥ इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने। विषयान् जायया त्यक्ष्यन् बुभुजे नातिलम्पटः॥३८॥ तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः। ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥३९॥ एवं स विप्रो भगवत्सुहृत्तदा दृष्ट्वा स्वभृत्यैरजितं पराजितम्। तद्ध्यानवेगोद्ग्रथितात्मबन्धन- स्तद्धाम लेभेऽचिरतः सतां गतिम् ॥४०॥ एतद्ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः। लब्धभावो भगवति कर्मबन्धाद्विमुच्यते ॥४१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पृथुकोपाख्यानं नामैकाशीतितमोऽध्यायः ॥८१॥

॥ द्व्यशीतितमोऽध्यायः - ८२ ॥

श्रीशुक उवाच अथैकदा द्वारवत्यां वसतो रामकृष्णयोः। सूर्योपरागः सुमहानासीत्कल्पक्षये यथा ॥१॥ तं ज्ञात्वा मनुजा राजन् पुरस्तादेव सर्वतः। समन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया ॥२॥ निःक्षत्रियां महीं कुर्वन् रामः शस्त्रभृतां वरः। नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥३॥ ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा। लोकस्य ग्राहयन्नीशो यथान्योऽघापनुत्तये ॥४॥ महत्यां तीर्थयात्रायां तत्रागन् भारतीः प्रजाः। वृष्णयश्च तथाक्रूरवसुदेवाहुकादयः ॥५॥ ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः। गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः ॥६॥ आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः। ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवैः ॥७॥ गजैर्नदद्भिरभ्राभैर्नृभिर्विद्याधरद्युभिः । व्यरोचन्त महातेजाः पथि काञ्चनमालिनः ॥८॥ दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव । तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः ॥९॥ ब्राह्मणेभ्यो ददुर्धेनूर्वासःस्रग्रुक्ममालिनीः । रामह्रदेषु विधिवत्पुनराप्लुत्य वृष्णयः ॥१०॥ ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति । स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः ॥११॥ भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु । तत्रागतांस्ते ददृशुः सुहृत्सम्बन्धिनो नृपान् ॥१२॥ मत्स्योशीनरकौसल्यविदर्भकुरुसृञ्जयान् । काम्बोजकैकयान्मद्रान् कुन्तीनानर्तकेरलान् ॥१३॥ अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप। नन्दादीन् सुहृदो गोपान् गोपीश्चोत्कण्ठिताश्चिरम्॥१४॥ अन्योन्यसन्दर्शनहर्षरंहसा प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः। आश्लिष्य गाढं नयनैः स्रवज्जला हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥१५॥ स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद- स्मितामलापाङ्गदृशोऽभिरेभिरे । स्तनैः स्तनान् कुङ्कुमपङ्करूषितान्निहत्य दोर्भिः प्रणयाश्रुलोचनाः ॥१६॥ ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिताः। स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः ॥१७॥ पृथा भ्रातॄन् स्वसॄर्वीक्ष्य तत्पुत्रान् पितरावपि। भ्रातृपत्नीर्मुकुन्दं च जहौ सङ्कथया शुचः ॥१८॥ कुन्त्युवाच आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम्। यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः ॥१९॥ सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि। नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् ॥२०॥ वसुदेव उवाच अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान्। ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा ॥२१॥ कंसप्रतापिताः सर्वे वयं याता दिशं दिशम्। एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः ॥२२॥ श्रीशुक उवाच वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपाः। आसन्नच्युतसन्दर्शपरमानन्दनिर्वृताः ॥२३॥ भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा। सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥२४॥ कुन्तिभोजो विराटश्च भीष्मको नग्नजिन्महान्। पुरुजिद्द्रुपदः शल्यो धृष्टकेतुः सकाशिराट् ॥२५॥ दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ। युधामन्युः सुशर्मा च ससुता बाह्लिकादयः ॥२६॥ राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः। श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः॥२७॥ अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः। प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥२८॥ अहो भोजपते यूयं जन्मभाजो नृणामिह। यत्पश्यथासकृत्कृष्णं दुर्दर्शमपि योगिनाम् ॥२९॥ यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति पादावनेजनपयश्चवचश्चशास्त्रम् । भूः कालभर्जितभगापि यदङ्घ्रिपद्म- स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् ॥३०॥ तद्दर्शनस्पर्शनानुपथप्रजल्प- शय्यासनाशनसयौनसपिण्डबन्धः । येषां गृहे निरयवर्त्मनि वर्ततां वः स्वर्गापवर्गविरमः स्वयमास विष्णुः ॥३१॥ श्रीशुक उवाच नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान्। तत्रागमद्वृतो गोपैरनःस्थार्थैर्दिदृक्षया ॥३२॥ तं दृष्ट्वा वृष्णयो हृष्टास्तन्वः प्राणमिवोत्थिताः। परिषस्वजिरे गाढं चिरदर्शनकातराः ॥३३॥ वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः। स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले॥३४॥ कृष्णरामौ परिष्वज्य पितरावभिवाद्य च। न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥३५॥ तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च। यशोदा च महाभागा सुतौ विजहतुः शुचः ॥३६॥ रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम्। स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः॥३७॥ का विस्मरेत वां मैत्रीमनिवृत्तां व्रजेश्वरि। अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥३८॥ एतावदृष्टपितरौ युवयोः स्म पित्रोः सम्प्रीणनाभ्युदयपोषणपालनानि । प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोः न्यस्तावकुत्र च भयौ न सतां परः स्वः ॥३९॥ श्रीशुक उवाच गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति । दृग्भिर्हृदीकृतमलं परिरभ्य सर्वा- स्तद्भावमापुरपि नित्ययुजां दुरापम् ॥४०॥ भगवांस्तास्तथाभूता विविक्त उपसङ्गतः। आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥४१॥ अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया। गतांश्चिरायिताञ्छत्रुपक्षक्षपणचेतसः ॥४२॥ अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया। नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥४३॥ वायुर्यथा घनानीकं तृणं तूलं रजांसि च। संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् ॥४४॥ मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते। दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः ॥४५॥ अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहिः। भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ॥४६॥ एवं ह्येतानि भूतानि भूतेष्वात्माऽऽत्मना ततः। उभयं मय्यथ परे पश्यताभातमक्षरे ॥४७॥ श्रीशुक उवाच अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः। तदनुस्मरणध्वस्तजीवकोशास्तमध्यगन् ॥४८॥ आहुश्चते नलिननाभ पदारविन्दं योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः। संसारकूपपतितोत्तरणावलम्बं गेहंजुषामपि मनस्युदियात्सदा नः ॥४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे वृष्णिगोपसङ्गमो नाम द्व्यशीतितमोऽध्यायः॥८२॥

॥ त्र्यशीतितमोऽध्यायः - ८३ ॥

श्रीशुक उवाच तथानुगृह्य भगवान् गोपीनां स गुरुर्गतिः। युधिष्ठिरमथापृच्छत्सर्वांश्च सुहृदोऽव्ययम् ॥१॥ त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः। प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः ॥२॥ कुतोऽशिवं त्वच्चरणाम्बुजासवं महन्मनस्तो मुखनिःसृतं क्वचित्। पिबन्ति ये कर्णपुटैरलं प्रभो देहंभृतां देहकृदस्मृतिच्छिदम् ॥३॥ हित्वाऽऽत्मधाम विधुतात्मकृतत्र्यवस्थ- मानन्दसम्प्लवमखण्डमकुण्ठबोधम्। कालोपसृष्टनिगमावन आत्तयोग- मायाकृतिं परमहंसगतिं नताः स्मः ॥४॥ ऋषिरुवाच इत्युत्तमश्लोकशिखामणिं जनेष्वभिष्टुवत्स्वन्धककौरवस्त्रियः । समेत्य गोविन्दकथा मिथोऽगृणं- स्त्रिलोकगीताः शृणु वर्णयामि ते ॥५॥ द्रौपद्युवाच हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौसले। हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥६॥ हे कृष्णपत्न्य एतन्नो ब्रूत वो भगवान् स्वयम्। उपयेमे यथा लोकमनुकुर्वन् स्वमायया ॥७॥ रुक्मिण्युवाच चैद्याय मार्पयितुमुद्यतकार्मुकेषु राजस्वजेयभटशेखरिताङ्घ्रिरेणुः। निन्ये मृगेन्द्र इव भागमजावियूथा- त्तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय ॥८॥ सत्यभामोवाच यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्ष्टुमुपाजहार । जित्वर्क्षराजमथ रत्नमदात्स तेन भीतः पितादिशत मां प्रभवेऽपि दत्ताम् ॥९॥ जाम्बवत्युवाच प्राज्ञाय देहकृदमुं निजनाथदैवं सीतापतिं त्रिणवहान्यमुनाभ्ययुध्यत्। ज्ञात्वा परीक्षित उपाहरदर्हणं मां पादौ प्रगृह्य मणिनाहममुष्य दासी ॥१०॥ कालिन्द्युवाच तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया। सख्योपेत्याग्रहीत्पाणिं योऽहं तद्गृहमार्जनी ॥११॥ मित्रविन्दोवाच यो मां स्वयंवर उपेत्य विजित्य भूपान् निन्ये श्वयूथगमिवात्मबलिं द्विपारिः। भ्रातॄंश्चमेऽपकुरुतः स्वपुरं श्रियौकः तस्यास्तु मेऽनुभवमङ्घ्र्यवनेजनत्वम् ॥१२॥ सत्योवाच सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णशृङ्गान् पित्रा कृतान् क्षितिपवीर्यपरीक्षणाय। तान् वीरदुर्मदहनस्तरसा निगृह्य क्रीडन् बबन्ध ह यथा शिशवोऽजतोकान् ॥१३॥ य इत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीम्। पथि निर्जित्य राजन्यान् निन्ये तद्दास्यमस्तु मे॥१४॥ भद्रोवाच पिता मे मातुलेयाय स्वयमाहूय दत्तवान्। कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः ॥१५॥ अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि। कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः ॥१६॥ लक्ष्मणोवाच ममापि राज्ञ्यच्युतजन्मकर्म श्रुत्वा मुहुर्नारदगीतमास ह। चित्तं मुकुन्दे किल पद्महस्तया वृतः सुसम्मृश्य विहाय लोकपान् ॥१७॥ ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः। बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥१८॥ यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः। अयं तु बहिराच्छन्नो दृश्यते स जले परम् ॥१९॥ श्रुत्वैतत्सर्वतो भूपा आययुर्मत्पितुः पुरम्। सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः ॥२०॥ पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः। आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः ॥२१॥ आदाय व्यसृजन् केचित्सज्यं कर्तुमनीश्वराः। आकोटि ज्यां समुत्कृष्य पेतुरेकेऽमुना हताः ॥२२॥ सज्यं कृत्वा परे वीरा मागधाम्बष्ठचेदिपाः। भीमो दुर्योधनः कर्णो नाविदंस्तदवस्थितिम् ॥२३॥ मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम्। पार्थो यत्तोऽसृजद्बाणं नाच्छिनत्पस्पृशे परम् ॥२४॥ राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु। भगवान् धनुरादाय सज्यं कृत्वाथ लीलया ॥२५॥ तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले। छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते ॥२६॥ दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि। देवाश्च कुसुमासारान् मुमुचुर्हर्षविह्वलाः ॥२७॥ तद्रङ्गमाविशमहं कलनूपुराभ्यां पद्भ्यां प्रगृह्य कनकोज्वलरत्नमालाम्। नूत्ने निवीय परिधाय च कौशिकाग्र्ये सव्रीडहासवदना कबरीधृतस्रक् ॥२८॥ उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्वि- ड्गण्डस्थलं शिशिरहासकटाक्षमोक्षैः। राज्ञो निरीक्ष्य परितः शनकैर्मुरारे- रंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥२९॥ तावन्मृदङ्गपटहाः शङ्खभेर्यानकादयः। निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः ॥३०॥ एवं वृते भगवति मयेशे नृपयूथपाः। न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुराः ॥३१॥ मां तावद्रथमारोप्य हयरत्नचतुष्टयम्। शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुजः ॥३२॥ दारुकश्चोदयामास काञ्चनोपस्करं रथम्। मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव ॥३३॥ तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन। संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम् ॥३४॥ ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्वङ्घ्रिकन्धराः। निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः ॥३५॥ ततः पुरीं यदुपतिरत्यलङ्कृतां रविच्छदध्वजपटचित्रतोरणाम् । कुशस्थलीं दिवि भुवि चाभिसंस्तुतां समाविशत्तरणिरिव स्वकेतनम् ॥३६॥ पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान्। महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः ॥३७॥ दासीभिः सर्वसम्पद्भिर्भटेभरथवाजिभिः। आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥३८॥ आत्मारामस्य तस्येमा वयं वै गृहदासिकाः। सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम ॥३९॥ महिष्य ऊचुः भौमं निहत्य सगणं युधि तेन रुद्धा ज्ञात्वाथ नः क्षितिजये जितराजकन्याः। निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः पादाम्बुजं परिणिनाय य आप्तकामः ॥४०॥ न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत। वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥४१॥ कामयामह एतस्य श्रीमत्पादरजः श्रियः। कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ॥४२॥ व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः। गावश्चारयतो गोपाः पादस्पर्शं महात्मनः ॥४३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे त्र्यशीतितमोऽध्यायः॥८३॥

॥ चतुरशीतितमोऽध्यायः - ८४ ॥

श्रीशुक उवाच श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः। कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥१॥ इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु। आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया ॥२॥ द्वैपायनो नारदश्च च्यवनो देवलोऽसितः। विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः ॥३॥ रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः। पुलस्त्यः कश्यपोऽत्रिश्चमार्कण्डेयो बृहस्पतिः॥४॥ द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिराः। अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥५॥ तान् दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः। पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान् ॥६॥ तानानर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत्। स्वागतासनपाद्यार्घ्यमाल्यधूपानुलेपनैः ॥७॥ उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः। सदसस्तस्य महतो यतवाचोऽनुशृण्वतः ॥८॥ श्रीभगवानुवाच अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम्। देवानामपि दुष्प्रापं यद्योगेश्वरदर्शनम् ॥९॥ किं स्वल्पतपसां नॄणामर्चायां देवचक्षुषाम्। दर्शनस्पर्शनप्रश्नप्रह्वपादार्चनादिकम् ॥१०॥ न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥११॥ नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्मनः। उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥१२॥ यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिः सलिले न कर्हिचि- ज्जनेष्वभिज्ञेषु स एव गोखरः ॥१३॥ श्रीशुक उवाच निशम्येत्थं भगवतः कृष्णस्याकुण्ठमेधसः। वचो दुरन्वयं विप्रास्तूष्णीमासन् भ्रमद्धियः ॥१४॥ चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम्। जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्गुरुम् ॥१५॥ मुनय ऊचुः यन्मायया तत्त्वविदुत्तमा वयं विमोहिता विश्वसृजामधीश्वराः। यदीशितव्यायति गूढ ईहया अहो विचित्रं भगवद्विचेष्टितम् ॥१६॥ अनीह एतद्बहुधैक आत्मना सृजत्यवत्यत्ति न बध्यते यथा। भौमैर्हि भूमिर्बहुनामरूपिणी अहो विभूम्नश्चरितं विडम्बनम् ॥१७॥ अथापि काले स्वजनाभिगुप्तये बिभर्षि सत्त्वं खलनिग्रहाय च। स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् ॥१८॥ ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः। यत्रोपलब्धं सद्व्यक्तमव्यक्तं च ततः परम् ॥१९॥ तस्माद्ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्त्वमात्मनः। सभाजयसि सद्धाम तद्ब्रह्मण्याग्रणीर्भवान् ॥२०॥ अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः। त्वया सङ्गम्य सद्गत्या यदन्तः श्रेयसां परः ॥२१॥ नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे। स्वयोगमाययाच्छन्नमहिम्ने परमात्मने ॥२२॥ न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः। मायाजवनिकाच्छन्नमात्मानं कालमीश्वरम् ॥२३॥ यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक्। नाममात्रेन्द्रियाभातं न वेद रहितं परम् ॥२४॥ एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया। मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् ॥२५॥ तस्याद्य ते ददृशिमाङ्घ्रिमघौघमर्ष- तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः। उत्सिक्तभक्त्युपहताशयजीवकोशा आपुर्भवद्गतिमथोऽनुगृहाण भक्तान् ॥२६॥ श्रीशुक उवाच इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम्। राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥२७॥ तद्वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः। प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः ॥२८॥ वसुदेव उवाच नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ। कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥२९॥ नारद उवाच नाति चित्रमिदं विप्रा वसुदेवो बुभुत्सया। कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥३०॥ सन्निकर्षो हि मर्त्यानामनादरणकारणम्। गाङ्गं हित्वा यथान्याम्भस्तत्रत्यो याति शुद्धये ॥३१॥ यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै। स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति ॥३२॥ तं क्लेशकर्मपरिपाकगुणप्रवाहै- रव्याहतानुभवमीश्वरमद्वितीयम्। प्राणादिभिः स्वविभवैरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागैः ॥३३॥ अथोचुर्मुनयो राजन्नाभाष्यानकदुन्दभिम्। सर्वेषां शृण्वतां राज्ञां तथैवाच्युतरामयोः ॥३४॥ कर्मणा कर्मनिर्हार एष साधु निरूपितः। यच्छ्रद्धया यजेद्विष्णुं सर्वयज्ञेश्वरं मखैः ॥३५॥ चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षषा । दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः ॥३६॥ अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः। यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥३७॥ वित्तैषणां यज्ञदानैर्गृहैर्दारसुतैषणाम्। आत्मलोकैषणां देव कालेन विसृजेद्बुधः। ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम् ॥३८॥ ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो। यज्ञाध्ययनपुत्रैस्तान्यनिस्तीर्य त्यजन् पतेत् ॥३९॥ त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते। यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव ॥४०॥ वसुदेव भवान्नूनं भक्त्या परमया हरिम्। जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः ॥४१॥ श्रीशुक उवाच इति तद्वचनं श्रुत्वा वसुदेवो महामनाः। तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च॥४२॥ त एनमृषयो राजन् वृता धर्मेण धार्मिकम्। तस्मिन्नयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः ॥४३॥ तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः। स्नाताः सुवाससो राजन् राजानः सुष्ठ्वलङ्कृताः ॥४४॥ तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः। दीक्षाशालामुपाजग्मुरालिप्ता वस्तुपाणयः ॥४५॥ नेदुर्मृदङ्गपटहशङ्खभेर्यानकादयः। ननृतुर्नटनर्तक्यस्तुष्टुवुः सूतमागधाः। जगुः सुकण्ठ्यो गन्धर्व्यः सङ्गीतं सहभर्तृकाः ॥४६॥ तमभ्यषिञ्चन् विधिवदक्तमभ्यक्तमृत्विजः। पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः ॥४७॥ ताभिर्दुकूलवलयैर्हारनूपुरकुण्डलैः। स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः ॥४८॥ तस्यर्त्विजो महाराज रत्नकौशेयवाससः। ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे ॥४९॥ तदा रामश्चकृष्णश्च स्वैः स्वैर्बन्धुभिरन्वितौ। रेजतुः स्वसुतैर्दारैर्जीवेशौ स्वविभूतिभिः ॥५०॥ ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः। प्राकृतैर्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम् ॥५१॥ अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः। स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः ॥५२॥ पत्नीसंयाजावभृथ्यैश्चरित्वा ते महर्षयः। सस्नू रामह्रदे विप्रा यजमानपुरःसराः ॥५३॥ स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः। ततः स्वलङ्कृतो वर्णानाश्वभ्योऽन्नेन पूजयत् ॥५४॥ बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा। विदर्भकोसलकुरून् काशिकेकयसृञ्जयान् ॥५५॥ सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान्। श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥५६॥ धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ। नारदो भगवान् व्यासः सुहृत्सम्बन्धिबान्धवाः॥५७॥ बन्धून् परिष्वज्य यदून् सौहृदात्क्लिन्नचेतसः। ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः ॥५८॥ नन्दस्तु सह गोपालैर्बृहत्या पूजयार्चितः। कृष्णरामोग्रसेनाद्यैर्न्यवात्सीद्बन्धुवत्सलः ॥५९॥ वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम्। सुहृद्वृतः प्रीतमना नन्दमाह करे स्पृशन् ॥६०॥ वसुदेव उवाच भ्रातरीशकृतः पाशो नृणांयः स्नेहसंज्ञितः। तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् ॥६१॥ अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः। मैत्र्यर्पिताफला वापि न निवर्तेत कर्हिचित् ॥६२॥ प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि। अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः ॥६३॥ मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद। स्वजनानुत बन्धून् वा न पश्यति ययान्धदृक् ॥६४॥ श्रीशुक उवाच एवं सौहृदशैथिल्यचित्त आनकदुन्दुभिः। रुरोद तत्कृतां मैत्रीं स्मरन्नश्रुविलोचनः ॥६५॥ नन्दस्तु सख्युः प्रियकृत्प्रेम्णा गोविन्दरामयोः। अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत्॥६६॥ ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः। परार्ध्याभरणक्षौमनानानर्घ्यपरिच्छदैः ॥६७॥ वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः। दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ॥६८॥ नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे। मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः ॥६९॥ बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः। वीक्ष्य प्रावृषमासन्नां ययुर्द्वारवतीं पुनः ॥७०॥ जनेभ्यः कथयांचक्रुर्यदुदेवमहोत्सवम्। यदासीत्तीर्थयात्रायां सुहृत्सन्दर्शनादिकम् ॥७१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे तीर्थयात्रानुवर्णनं नाम चतुरशीतितमोऽध्यायः॥८४॥

॥ पञ्चाशीतितमोऽध्यायः - ८५ ॥

श्रीबादरायणिरुवाच अथैकदाऽऽत्मजौ प्राप्तौ कृतपादाभिवन्दनौ। वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥१॥ मुनीनां स वचः श्रुत्वा पुत्रयोर्धामसूचकम्। तद्वीर्यैर्जातविश्रम्भः परिभाष्याभ्यभाषत ॥२॥ कृष्ण कृष्ण महायोगिन् सङ्कर्षण सनातन। जाने वामस्य यत्साक्षात्प्रधानपुरुषौ परौ ॥३॥ यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा। स्यादिदं भगवान् साक्षात्प्रधानपुरुषेश्वरः ॥४॥ एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज। आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्यज॥५॥ प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः। पारतन्त्र्याद्वैसादृश्याद्द्वयोश्चेष्टैव चेष्टताम् ॥६॥ कान्तिस्तेजः प्रभा सत्ता चन्द्राग्न्यर्कर्क्षविद्युताम्। यत्स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् ॥७॥ तर्पणं प्राणनमपां देवत्वं ताश्चतद्रसः। ओजः सहो बलं चेष्टा गतिर्वायोस्तवेश्वर ॥८॥ दिशां त्वमवकाशोऽसि दिशः खं स्फोट आश्रयः। नादो वर्णस्त्वमोंकार आकृतीनां पृथक्कृतिः ॥९॥ इन्द्रियं त्विन्द्रियाणां त्वं देवाश्चतदनुग्रहः। अवबोधोभवान्बुद्धेर्जीवस्यानुस्मृतिःसती ॥१०॥ भूतानामसिभूतादिरिन्द्रियाणांचतैजसः। वैकारिकोविकल्पानांप्रधानमनुशायिनम् ॥११॥ नश्वरेष्विहभावेषुतदसित्वमनश्वरम्। यथाद्रव्यविकारेषुद्रव्यमात्रंनिरूपितम् ॥१२॥ सत्त्वंरजस्तम इति गुणास्तद्वृत्तयश्चयाः। त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया ॥१३॥ तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः। त्वं चामीषु विकारेषु ह्यन्यदाव्यावहारिकः ॥१४॥ गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मनः। गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः ॥१५॥ यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम्। स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर ॥१६॥ असावहंममैवैते देहे चास्यान्वयादिषु। स्नेहपाशैर्निबध्नाति भवान् सर्वमिदं जगत् ॥१७॥ युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ। भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह ॥१८॥ तत्ते गतोऽस्म्यरणमद्य पदारविन्द- मापन्नसंसृतिभयापहमार्तबन्धो। एतावतालमलमिन्द्रियलालसेन मर्त्यात्मदृक्त्वयि परे यदपत्यबुद्धिः ॥१९॥ सूतीगृहे ननु जगाद भवानजो नौ सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै। नानातनूर्गगनवद्विदधज्जहासि को वेद भूम्न उरुगाय विभूतिमायाम् ॥२०॥ श्रीशुक उवाच आकर्ण्येत्थं पितुर्वाक्यं भगवान् सात्वतर्षभः। प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा ॥२१॥ श्रीभगवानुवाच वचो वः समवेतार्थं तातैतदुपमन्महे। यन्नः पुत्रान् समुद्दिश्य तत्त्वग्राम उदाहृतः ॥२२॥ अहं यूयमसावार्य इमे च द्वारकौकसः। सर्वेऽप्येवं यदुश्रेष्ठ विमृश्याः सचराचरम् ॥२३॥ आत्मा ह्येकः स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणैः। आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ॥२४॥ खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम्। आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि ॥२५॥ श्रीशुक उवाच एवं भगवता राजन् वसुदेव उदाहृतम्। श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् ॥२६॥ अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता। श्रुत्वाऽऽनीतं गुरोः पुत्रमात्मजाभ्यां सुविस्मिता॥२७॥ कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान्। स्मरन्ती कृपणं प्राह वैक्लव्यादश्रुलोचना ॥२८॥ देवक्युवाच राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर। वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ ॥२९॥ कलविध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनाम्। भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे ॥३०॥ यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः। भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता ॥३१॥ चिरान्मृतसुतादाने गुरुणा किल चोदितौ। आनिन्यथुः पितृस्थानाद्गुरवे गुरुदक्षिणाम् ॥३२॥ तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ। भोजराजहतान् पुत्रान् कामये द्रष्टुमाहृतान् ॥३३॥ ऋषिरुवाच एवं सञ्चोदितौ मात्रा रामः कृष्णश्चभारत। सुतलं संविविशतुर्योगमायामुपाश्रितौ ॥३४॥ तस्मिन् प्रविष्टावुपलभ्य दैत्यराड् विश्वात्मदैवं सुतरां तथात्मनः। तद्दर्शनाह्लादपरिप्लुताशयः सद्यः समुत्थाय ननाम सान्वयः ॥३५॥ तयोः समानीय वरासनं मुदा निविष्टयोस्तत्र महात्मनोस्तयोः। दधार पादाववनिज्य तज्जलं सवृन्द आब्रह्म पुनद्यदम्बु ह ॥३६॥ समर्हयामास स तौ विभूतिभिः महार्हवस्त्राभरणानुलेपनैः। ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च ॥३७॥ स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रन्मुहुः प्रेमविभिन्नया धिया। उवाच हानन्दजलाकुलेक्षणः प्रहृष्टरोमा नृप गद्गदाक्षरम् ॥३८॥ बलिरुवाच नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे। साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ॥३९॥ दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभम्। रजस्तमःस्वभावानां यन्नः प्राप्तौ यदृच्छया ॥४०॥ दैत्यदानवगन्धर्वाः सिद्धविद्याध्रचारणाः। यक्षरक्षःपिशाचाश्चभूतप्रमथनायकाः ॥४१॥ विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्त्रशरीरिणि। नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः ॥४२॥ केचनोद्बद्धवैरेण भक्त्या केचन कामतः। न तथा सत्त्वसंरब्धाः सन्निकृष्टाः सुरादयः ॥४३॥ इदमित्थमिति प्रायस्तव योगेश्वरेश्वर। न विदन्त्यपि योगेशा योगमायां कुतो वयम् ॥४४॥ तन्नः प्रसीद निरपेक्षविमृग्ययुष्मत् पादारविन्दधिषणान्यगृहान्धकूपात्। निष्क्रम्य विश्वशरणाङ्घ्र्युपलब्धवृत्तिः शान्तो यथैक उत सर्वसखैश्चरामि ॥४५॥ शाध्यस्मानीशितव्येश निष्पापान् कुरु नः प्रभो। पुमान् यच्छ्रद्धयाऽऽतिष्ठंश्चोदनाया विमुच्यते ॥४६॥ श्रीभगवानुवाच आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे। देवाः कं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥४७॥ तेनासुरीमगन् योनिमधुनावद्यकर्मणा। हिरण्यकशिपोर्जाता नीतास्ते योगमायया ॥४८॥ देवक्या उदरे जाता राजन् कंसविहिंसिताः। सा तान् शोचत्यात्मजान् स्वांस्त इमेऽध्यासतेऽन्तिके ॥४९॥ इत एतान् प्रणेष्यामो मातृशोकापनुत्तये। ततः शापाद्विनिर्मुक्ता लोकं यास्यन्ति विज्वराः॥५०॥ स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद्घृणी। षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् ॥५१॥ इत्युक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ। पुनर्द्वारवतीमेत्य मातुः पुत्रानयच्छताम् ॥५२॥ तान् दृष्ट्वा बालकान् देवी पुत्रस्नेहस्नुतस्तनी। परिष्वज्याङ्कमारोप्य मूर्ध्न्यजिघ्रदभीक्ष्णशः ॥५३॥ अपाययत्स्तनं प्रीता सुतस्पर्शपरिप्लुता। मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते ॥५४॥ पीत्वामृतं पयस्तस्याः पीतशेषं गदाभृतः। नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शनाः ॥५५॥ ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम्। मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम् ॥५६॥ तं दृष्ट्वा देवकी देवी मृतागमननिर्गमम्। मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥५७॥ एवं विधान्यद्भुतानि कृष्णस्य परमात्मनः। वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ॥५८॥ सूत उवाच य इदमनुशृणोति श्रावयेद्वा मुरारे- श्चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः। जगदघभिदलं तद्भक्तसत्कर्णपूरं भगवति कृतचित्तो याति तत्क्षेमधाम ॥५९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे मृताग्रजानयनं नाम पञ्चाशीतितमोऽध्यायः॥८५॥

॥ षडशीतितमोऽध्यायः - ८६ ॥

राजोवाच ब्रह्मन् वेदितुमिच्छामः स्वसारां रामकृष्णयोः। यथोपयेमे विजयो या ममासीत्पितामही ॥१॥ श्रीशुक उवाच अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभुः। गतः प्रभासमशृणोन्मातुलेयीं स आत्मनः ॥२॥ दुर्योधनाय रामस्तां दास्यतीति न चापरे। तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात्॥३॥ तत्र वै वार्षिकान् मासानवात्सीत्स्वार्थसाधकः। पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः॥४॥ एकदा गृहमानीय आतिथ्येन निमन्त्र्य तम्। श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥५॥ सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम्। प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे ॥६॥ सापि तं चकमे वीक्ष्य नारीणां हृदयङ्गमम्। हसन्ती व्रीडितापाङ्गी तन्न्यस्तहृदयेक्षणा ॥७॥ तां परं समनुध्यायन्नन्तरं प्रेप्सुरर्जुनः। न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा ॥८॥ महत्यां देवयात्रायां रथस्थां दुर्गनिर्गतां। जहारानुमतः पित्रोः कृष्णस्य च महारथः ॥९॥ रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान्। विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव ॥१०॥ तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः। गृहीतपादः कृष्णेन सुहृद्भिश्चान्वशाम्यत ॥११॥ प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः। महाधनोपस्करेभरथाश्वनरयोषितः ॥१२॥ श्रीशुक उवाच कृष्णस्यासीद्द्विजश्रेष्ठः श्रुतदेव इति श्रुतः। कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः ॥१३॥ स उवास विदेहेषु मिथिलायां गृहाश्रमी। अनीहयाऽऽगताहार्यनिर्वर्तितनिजक्रियः ॥१४॥ यात्रामात्रं त्वहरहर्दैवादुपनमत्युत। नाधिकं तावता तुष्टः क्रियाश्चक्रे यथोचिताः ॥१५॥ तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः। मैथिलो निरहम्मान उभावप्यच्युतप्रियौ ॥१६॥ तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम्। आरुह्य साकं मुनिभिर्विदेहान् प्रययौ प्रभुः ॥१७॥ नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः। अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः ॥१८॥ तत्र तत्र तमायान्तं पौरा जानपदा नृप। उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम् ॥१९॥ आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य- पाञ्चालकुन्तिमधुकेकयकोसलार्णाः। अन्ये च तन्मुखसरोजमुदारहास- स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः ॥२०॥ तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन्। शृण्वन् दिगन्तधवलं स्वयशोऽशुभघ्नं गीतं सुरैर्नृभिरगाच्छनकैर्विदेहान् ॥२१॥ तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप। अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः ॥२२॥ दृष्ट्वा त उत्तमश्लोकं प्रीत्युत्फुल्लाननाशयाः। कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वांस्तथा मुनीन् ॥२३॥ स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम्। मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः ॥२४॥ न्यमन्त्रयेतां दाशार्हमातिथ्येन सह द्विजैः। मैथिलः श्रुतदेवश्चयुगपत्संहताञ्जली ॥२५॥ भगवांस्तदभिप्रेत्य द्वयोः प्रियचिकीर्षया। उभयोराविशद्गेहमुभाभ्यां तदलक्षितः ॥२६॥ श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान्। आनीतेष्वासनाग्र्येषु सुखासीनान् महामनाः ॥२७॥ प्रवृद्धभक्त्या उद्धर्षहृदयास्राविलेक्षणः। नत्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनीः ॥२८॥ सकुटुम्बो वहन् मूर्ध्ना पूजयांचक्र ईश्वरान्। गन्धमाल्याम्बराकल्पधूपदीपार्घ्यगोवृषैः ॥२९॥ वाचा मधुरया प्रीणन्निदमाहान्नतर्पितान्। पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा ॥३०॥ राजोवाच भवान् हि सर्वभूतानामात्मा साक्षी स्वदृग्विभो। अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः ॥३१॥ स्ववचस्तदृतं कर्तुमस्मद्दृग्गोचरो भवान्। यदात्थैकान्तभक्तान्मे नानन्तः श्रीरजः प्रियः ॥३२॥ को नु त्वच्चरणाम्भोजमेवंविद्विसृजेत्पुमान्। निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः॥३३॥ योऽवतीर्य यदोर्वंशे नृणां संसरतामिह। यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् ॥३४॥ नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे। नारायणाय ऋषये सुशान्तं तप ईयुषे ॥३५॥ दिनानि कतिचिद्भूमन् गृहान् नो निवस द्विजैः। समेतः पादरजसा पुनीहीदं निमेः कुलम् ॥३६॥ इत्युपामन्त्रितो राज्ञा भगवांल्लोकभावनः। उवास कुर्वन् कल्याणं मिथिलानरयोषिताम् ॥३७॥ श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा। नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह ॥३८॥ तृणपीठबृषीष्वेतानानीतेषूपवेश्य सः। स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्योऽवनिजे मुदा ॥३९॥ तदम्भसा महाभाग आत्मानं स गृहान्वयम्। स्नापयांचक्र उद्धर्षो लब्धसर्वमनोरथः ॥४०॥ फलार्हणोशीरशिवामृताम्बुभि- र्मृदा सुरभ्या तुलसीकुशाम्बुजैः। आराधयामास यथोपपन्नया सपर्यया सत्त्वविवर्धनान्धसा ॥४१॥ स तर्कयामास कुतो ममान्वभू- द्गृहान्धकुपे पतितस्य सङ्गमः। यः सर्वतीर्थास्पदपादरेणुभिः कृष्णेन चास्यात्मनिकेतभूसुरैः ॥४२॥ सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः। सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः ॥४३॥ श्रुतदेव उवाच नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः। यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया ॥४४॥ यथा शयानः पुरुषो मनसैवात्ममायया। सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासते ॥४५॥ शृण्वतां गदतां शश्वदर्चतां त्वाभिवन्दताम्। नृणां संवदतामन्तर्हृदि भास्यमलात्मनाम् ॥४६॥ हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम्। आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेतगुणात्मनाम्॥४७॥ नमोऽस्तु तेऽध्यात्मविदां परात्मने अनात्मने स्वात्मविभक्तमृत्यवे। सकारणाकारणलिङ्गमीयुषे स्वमाययासंवृतरुद्धदृष्टये ॥४८॥ स त्वं शाधि स्वभृत्यान्नः किं देव करवाम हे। एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः ॥४९॥ श्रीशुक उवाच तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा। गृहीत्वा पाणिना पाणिं प्रहसंस्तमुवाच ह ॥५०॥ श्रीभगवानुवाच ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन्। सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः ॥५१॥ देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः। शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया ॥५२॥ ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह। तपसा विद्यया तुष्ट्या किमु मत्कलया युतः ॥५३॥ न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम्। सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम् ॥५४॥ दुष्प्रज्ञा अविदित्वैवमवजानन्त्यसूयवः। गुरुं मां विप्रमात्मानमर्चादाविज्यदृष्टयः ॥५५॥ चराचरमिदं विश्वं भावा ये चास्य हेतवः। मद्रूपाणीति चेतस्याधत्ते विप्रो मदीक्षया ॥५६॥ तस्माद्ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय। एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः ॥५७॥ श्रीशुक उवाच स इत्थं प्रभुणाऽऽदिष्टः सह कृष्णान् द्विजोत्तमान्। आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम् ॥५८॥ एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान्। उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात् ॥५९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो नाम षडशीतितमोऽध्यायः॥८६॥

॥ सप्ताशीतितमोऽध्यायः - ८७ ॥

परीक्षिदुवाच ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः। कथं चरन्ति श्रुतयः साक्षात्सदसतः परे ॥१॥ श्रीशुक उवाच बुद्धीन्द्रियमनःप्राणान् जनानामसृजत्प्रभुः। मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥२॥ सैषा ह्युपनिषद्ब्राह्मी पूर्वेषां पूर्वजैर्धृता। श्रद्धया धारयेद्यस्तां क्षेमं गच्छेदकिञ्चनः ॥३॥ अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम्। नारदस्य च संवादमृषेर्नारायणस्य च ॥४॥ एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः। सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥५॥ यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम्। धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ॥६॥ तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः। परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥७॥ तस्मै ह्यवोचद्भगवान् ऋषीणां शृण्वतामिदम्। यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥८॥ श्रीभगवानुवाच स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत्पुरा। तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥९॥ श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम्। ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते। तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥१०॥ तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः। अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥११॥ सनन्दन उवाच स्वसृष्टमिदमापीय शयानं सह शक्तिभिः। तदन्ते बोधयांचक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥१२॥ यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः। प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥१३॥ श्रुतय ऊचुः जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः। अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः ॥१४॥ बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात्। अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥१५॥ इति तव सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः। किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥१६॥ दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महदहमादयोऽण्डमसृजन् यदनुग्रहतः। पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥१७॥ उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः परिसरपद्धतिं हृदयमारुणयो दहरम्। तत उदगादनन्त तव धाम शिरः परमं पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥१८॥ स्वकृतविचित्रयोनिषु विशन्निव हेतुतया तरतमतश्चकास्स्यनलवत्स्वकृतानुकृतिः। अथ वितथास्वमूष्ववितथं तव धाम समं विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम् ॥१९॥ स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम्। इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्घ्रिमभवं भुवि विश्वसिताः ॥ २०॥ दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः चरितमहामृताब्धिपरिवर्तपरिश्रमणाः। न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥२१॥ त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत् चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च। न बत रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥२२॥ निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन्मुनय उपासते तदरयोऽपि ययुः स्मरणात्। स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥२३॥ क इह नु वेद बतावरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु देवगणा उभये । तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥२४॥ जनिमसतः सतो मृतिमुतात्मनि ये च भिदां विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः। त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे ॥२५॥ सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजा-त्सदभिमृशन्त्यशेषमिदमात्मतयाऽऽत्मविदः। न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥२६॥ तव परि ये चरन्त्यखिलसत्त्वनिकेततया त उत पदाऽऽक्रमन्त्यविगणय्य शिरो निरृतेः। परिवयसे पशूनिव गिरा विबुधानपि तांस्त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥२७॥ त्वमकरणः स्वराडखिलकारकशक्तिधरः तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः। वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥२८॥ स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त ततः। न हि परमस्य कश्चिदपरो न परश्च भवेत् वियत इवापदस्य तव शून्यतुलां दधतः ॥२९॥ अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः तर्हि न शास्यतेति नियमो ध्रुव नेतरथा। अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया ॥३०॥ न घटत उद्भवः प्रकृतिपूरुषयोरजयोः उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत्। त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥३१॥ नृषु तव मायया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिणेमिरभवच्छरणेषु भयम् ॥३२॥ विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः। व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥३३॥ स्वजनसुतात्मदारधनधामधरासुरथैः त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे। इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥३४॥ भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः। दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् ॥३५॥ सत इदमुत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक्। व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥३६॥ न यदिदमग्र आस न भविष्यदतो निधनात् अनुमितमन्तरा त्वयि विभाति मृषैकरसे। अत उपमीयते द्रविणजातिविकल्पपथैः वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥३७॥ स यदजया त्वजामनुशयीत गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमपेतभगः। त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥३८॥ यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः। असुतृपयोगिनामुभयतोऽप्यसुखं भगवन् अनपगतान्तकादनधिरूढपदाद्भवतः ॥३९॥ त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोः गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः। अनुयुगमन्वहं सगुण गीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥४०॥ द्युपतय एव ते न ययुरन्तमनन्ततया त्वमपि यदन्तराण्डनिचया ननु सावरणाः। ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयः त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥४१॥ श्रीभगवानुवाच इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम्। सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम्॥४२॥ इत्यशेषसमाम्नायपुराणोपनिषद्रसः। समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः ॥४३॥ त्वं चैतद्ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम्। धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥४४॥ श्रीशुक उवाच एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयाऽऽत्मवान्। पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः ॥४५॥ नारद उवाच नमस्तस्मै भगवते कृष्णायामलकीर्तये। यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥४६॥ इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः। ततोऽगादाश्रमं साक्षात्पितुर्द्वैपायनस्य मे ॥४७॥ सभाजितो भगवता कृतासनपरिग्रहः। तस्मै तद्वर्णयामास नारायणमुखाच्छ्रुतम् ॥४८॥ इत्येतद्वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया। यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥४९॥ योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः। यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम्॥५०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे नारदनारायणसंवादे वेदस्तुतिर्नाम सप्ताशीतितमोऽध्यायः॥८७॥

॥ अष्टाशीतितमोऽध्यायः - ८८ ॥

राजोवाच देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम्। प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम्॥१॥ एतद्वेदितुमिच्छामः सन्देहोऽत्र महान् हि नः। विरुद्धशीलयोः प्रभ्वोर्विरुद्धा भजतां गतिः ॥२॥ श्रीशुक उवाच शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः। वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥३॥ ततो विकारा अभवन् षोडशामीषु कञ्चन। उपधावन् विभूतीनां सर्वासामश्नुते गतिम् ॥४॥ हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः। स सर्वदृगुपद्रष्टा तं भजन् निर्गुणो भवेत् ॥५॥ निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः। शृण्वन् भगवतो धर्मानपृच्छदिदमच्युतम् ॥६॥ स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः। नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले ॥७॥ श्रीभगवानुवाच यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः। ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम्॥८॥ स यदा वितथोद्योगो निर्विण्णः स्याद्धनेहया। मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रहम् ॥९॥ तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम्। (विज्ञायात्मतया धीरः संसारात्परिमुच्यते ।) अतो मां सुदुराराध्यं हित्वान्यान् भजते जनः ॥१०॥ ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः। मत्ताः प्रमत्ता वरदान् विस्मरन्त्यवजानते ॥११॥ श्रीशुक उवाच शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः। सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः॥१२॥ अत्र चोदाहरन्तीममितिहासं पुरातनम्। वृकासुराय गिरिशो वरं दत्त्वाऽऽप सङ्कटम् ॥१३॥ वृको नामासुरः पुत्रः शकुनेः पथि नारदम्। दृष्ट्वाऽऽशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥१४॥ स आह देवं गिरिशमुपाधावाशु सिद्ध्यसि। योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति॥१५॥ दशास्यबाणयोस्तुष्टः स्तुवतोर्वन्दिनोरिव। ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम् ॥१६॥ इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः। केदार आत्मक्रव्येण जुह्वानोऽग्निमुखं हरम् ॥१७॥ देवोपलब्धिमप्राप्य निर्वेदात्सप्तमेऽहनि। शिरोऽवृश्चत्स्वधितिना तत्तीर्थक्लिन्नमूर्धजम् ॥१८॥ तदा महाकारुणिकः स धूर्जटिर्यथा वयं चाग्निरिवोत्थितोऽनलात्। निगृह्य दोर्भ्यां भुजयोर्न्यवारय- त्तत्स्पर्शनाद्भूय उपस्कृताकृतिः ॥१९॥ तमाह चाङ्गालमलं वृणीष्व मे यथाभिकामं वितरामि ते वरम्। प्रीयेय तोयेन नृणां प्रपद्यतामहो त्वयाऽऽत्मा भृशमर्द्यते वृथा ॥२०॥ देवं स वव्रे पापीयान् वरं भूतभयावहम्। यस्य यस्य करं शीर्ष्णि धास्ये स म्रियतामिति॥२१॥ तच्छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत। ओं इति प्रहसंस्तस्मै ददेऽहेरमृतं यथा ॥२२॥ इत्युक्तः सोऽसुरो नूनं गौरीहरणलालसः। स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः। स्वहस्तं धातुमारेभे सोऽबिभ्यत्स्वकृताच्छिवः॥२३॥ तेनोपसृष्टः सन्त्रस्तः पराधावन् सवेपथुः। यावदन्तं दिवो भूमेः काष्ठानामुदगादुदक् ॥२४॥ अजानन्तः प्रतिविधिं तूष्णीमासन् सुरेश्वराः। ततो वैकुण्ठमगमद्भास्वरं तमसः परम् ॥२५॥ यत्र नारायणः साक्षान्न्यासिनां परमा गतिः। शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः ॥२६॥ तं तथाव्यसनं दृष्ट्वा भगवान् वृजिनार्दनः। दूरात्प्रत्युदियाद्भूत्वा वटुको योगमायया ॥२७॥ मेखलाजिनदण्डाक्षैस्तेजसाग्निरिव ज्वलन्। अभिवादयामास च तं कुशपाणिर्विनीतवत् ॥२८॥ श्रीभगवानुवाच शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरमागतः। क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् ॥२९॥ यदि नः श्रवणायालं युष्मद्व्यवसितं विभो। भण्यतां प्रायशः पुम्भिर्धृतैः स्वार्थान् समीहते ॥३०॥ श्रीशुक उवाच एवं भगवता पृष्टो वचसामृतवर्षिणा। गतक्लमोऽब्रवीत्तस्मै यथापूर्वमनुष्ठितम् ॥३१॥ श्रीभगवानुवाच एवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि। यो दक्षशापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट् ॥३२॥ यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ। तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् ॥३३॥ यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षभ। तदैनं जह्यसद्वाचं न यद्वक्तानृतं पुनः ॥३४॥ इत्थं भगवतश्चित्रैर्वचोभिः स सुपेशलैः। भिन्नधीर्विस्मृतः शीर्ष्णि स्वहस्तं कुमतिर्व्यधात्॥३५॥ अथापतद्भिन्नशिराः वज्राहत इव क्षणात्। जयशब्दो नमःशब्दः साधुशब्दोऽभवद्दिवि ॥३६॥ मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे। देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच्छिवः ॥३७॥ मुक्तं गिरिशमभ्याह भगवान् पुरुषोत्तमः। अहो देव महादेव पापोऽयं स्वेन पाप्मना ॥३८॥ हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः। क्षेमी स्यात्किमु विश्वेशे कृतागस्को जगद्गुरौ ॥३९॥ य एवमव्याकृतशक्त्युदन्वतः परस्य साक्षात्परमात्मनो हरेः। गिरित्रमोक्षं कथयेच्छृणोति वा विमुच्यते संसृतिभिस्तथारिभिः॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुद्रमोक्षणं नामाष्टाशीतितमोऽध्यायः॥८८॥

॥ एकोननवतितमोऽध्यायः - ८९ ॥

श्रीशुक उवाच सरस्वत्यास्तटे राजन् ऋषयः सत्रमासत। वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् ॥१॥ तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप। तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद् ब्रह्मणः सभाम् ॥२॥ न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया। तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥३॥ स आत्मन्युत्थितं मन्युमात्मजायात्मना प्रभुः। अशीशमद्यथा वह्निं स्वयोन्या वारिणाऽऽत्मभूः॥४॥ ततः कैलासमगमत्स तं देवो महेश्वरः। परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा ॥५॥ नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह। शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचनः ॥६॥ पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा। अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः ॥७॥ शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत्। तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः ॥८॥ स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम्। आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम्। अजानतामागतान् वः क्षन्तुमर्हथ नः प्रभो ॥९॥ अतीव कोमलौ तात चरणौ ते महामुने । इत्युक्त्वा विप्रचरणौ मर्दयन् स्वेन पाणिना ॥१०॥ पुनीहि सह लोकं मां लोकपालांश्च मद्गतान्। पादोदकेन भवतस्तीर्थानां तीर्थकारिणा ॥११॥ अद्याहं भगवंल्लक्ष्म्या आसमेकान्तभाजनम्। वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहसः ॥१२॥ श्रीशुक उवाच एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा। निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः ॥१३॥ पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम्। स्वानुभूतमशेषेण राजन् भृगुरवर्णयत् ॥१४॥ तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः। भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम् ॥१५॥ धर्मः साक्षाद्यतो ज्ञानं वैराग्यं च तदन्वितम्। ऐश्वर्यं चाष्टधा यस्माद्यशश्चात्ममलापहम् ॥१६॥ मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम्। अकिञ्चनानां साधूनां यमाहुः परमां गतिम् ॥१७॥ सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः। भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः ॥१८॥ त्रिविधाकृतयस्तस्य राक्षसा असुराः सुराः। गुणिन्या मायया सृष्टाः सत्त्वं तत्तीर्थसाधनम् ॥१९॥ श्रीशुक उवाच एवं सारस्वता विप्रा नृणां संशयनुत्तये। पुरुषस्य पदाम्भोजसेवया तद्गतिं गताः ॥२०॥ सूत उवाच इत्येतन्मुनितनयास्यपद्मगन्धपीयूषं भवभयभित्परस्य पुंसः। सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णं पान्थोऽध्वभ्रमणपरिश्रमं जहाति ॥२१॥ श्रीशुक उवाच एकदा द्वारवत्यां तु विप्रपत्न्याः कुमारकः। जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत ॥२२॥ विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय सः। इदं प्रोवाच विलपन्नातुरो दीनमानसः ॥२३॥ ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः। क्षत्रबन्धोः कर्मदोषात्पञ्चत्वं मे गतोऽर्भकः ॥२४॥ हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम्। प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः॥२५॥ एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च। विसृज्य स नृपद्वारि तां गाथां समगायत ॥२६॥ तामर्जुन उपश्रुत्य कर्हिचित्केशवान्तिके। परेते नवमे बाले ब्राह्मणं समभाषत ॥२७॥ किं स्विद्ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धरः। राजन्यबन्धुरेते वै ब्राह्मणाः सत्र आसते ॥२८॥ धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः। ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भराः ॥२९॥ अहं प्रजा वां भगवन् रक्षिष्ये दीनयोरिह। अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मषः ॥३०॥ ब्राह्मण उवाच सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः। अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥३१॥ तत्कथं नु भवान् कर्म दुष्करं जगदीश्वरैः। चिकीर्षसि त्वं बालिश्यात्तन्न श्रद्दध्महे वयम् ॥३२॥ अर्जुन उवाच नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिरेव च। अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ॥३३॥ मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बकतोषणम्। मृत्युं विजित्य प्रधने आनेष्ये ते प्रजां प्रभो ॥३४॥ एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप। जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन् ॥३५॥ प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः। पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुरः ॥३६॥ स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम्। दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे ॥३७॥ न्यरुणत्सूतिकागारं शरैर्नानास्त्रयोजितैः। तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम् ॥३८॥ ततः कुमारः सञ्जातो विप्रपत्न्या रुदन् मुहुः। सद्योऽदर्शनमापेदे सशरीरो विहायसा ॥३९॥ तदाऽऽह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ। मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥४०॥ न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः। यस्य शेकुः परित्रातुं कोऽन्यस्तदवितेश्वरः ॥४१॥ धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनुः। दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मतिः ॥४२॥ एवं शपति विप्रर्षौ विद्यामास्थाय फाल्गुनः। ययौ संयमनीमाशु यत्रास्ते भगवान् यमः ॥४३॥ विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात्पुरीम्। आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीमथ। रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ॥४४॥ ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुतः। अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ॥४५॥ दर्शये द्विजसूनूंस्ते मावज्ञात्मानमात्मना। ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति॥४६॥ इति सम्भाष्य भगवानर्जुनेन सहेश्वरः। दिव्यं स्वरथमास्थाय प्रतीचीं दिशमाविशत् ॥४७॥ सप्तद्वीपान् सप्त सिन्धून्सप्तसप्त गिरीनथ। लोकालोकं तथातीत्य विवेश सुमहत्तमः ॥४८॥ तत्राश्वाः शैब्यसुग्रीवमेघपुष्पबलाहकाः। तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ ॥४९॥ तान् दृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वरः। सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत्पुरः ॥५०॥ तमः सुघोरं गहनं कृतं मह- द्विदारयद्भूरितरेण रोचिषा । मनोजवं निर्विविशे सुदर्शनं गुणच्युतो रामशरो यथा चमूः ॥५१॥ द्वारेण चक्रानुपथेन तत्तमः परं परं ज्योतिरनन्तपारम्। समश्नुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधेऽक्षिणी उभे ॥५२॥ ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्बृहदूर्मिभूषणम्। तत्राद्भुतं वै भवनं द्युमत्तमं भ्राजन्मणिस्तम्भसहस्रशोभितम् ॥५३॥ तस्मिन् महाभीममनन्तमद्भुतं सहस्रमूर्धन्यफणामणिद्युभिः। विभ्राजमानं द्विगुणोल्बणेक्षणं सिताचलाभं शितिकण्ठजिह्वम् ॥५४॥ ददर्श तद्भोगसुखासनं विभुं महानुभावं पुरुषोत्तमोत्तमम् । सान्द्राम्बुदाभं सुपिशङ्गवाससं प्रसन्नवक्त्रं रुचिरायतेक्षणम् ॥५५॥ सगोनासंगोगो महामणिव्रातकिरीटकुण्डल- प्रभापरिक्षिप्तसहस्रकुन्तलम् । प्रलम्बचार्वष्टभुजं सकौस्तुभं श्रीवत्सलक्ष्मं वनमालया वृतम् ॥५६॥ सुनन्दनन्दप्रमुखैः स्वपार्षदै- श्चक्रादिभिर्मूर्तिधरैर्निजायुधैः। पुष्ट्या श्रिया कीर्त्यजयाखिलर्धिभि- र्निषेव्यमाणं परमेष्ठिनां पतिम् ॥५७॥ ववन्द आत्मानमनन्तमच्युतो जिष्णुश्च तद्दर्शनजातसाध्वसः। तावाह भूमा परमेष्ठिनां प्रभु- र्बद्धाञ्जली सस्मितमूर्जया गिरा ॥५८॥ द्विजात्मजा मे युवयोर्दिदृक्षुणा मयोपनीता भुवि धर्मगुप्तये। कलावतीर्णाववनेर्भरासुरान् हत्वेह भूयस्त्वरयेतमन्ति मे ॥५९॥ पूर्णकामावपि युवां नरनारायणावृषी। धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ॥६०॥ इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना। ओमित्यानम्य भूमानमादाय द्विजदारकान् ॥६१॥ न्यवर्ततां स्वकं धाम सम्प्रहृष्टौ यथागतम्। विप्राय ददतुः पुत्रान् यथारूपं यथावयः ॥६२॥ निशाम्य वैष्णवं धाम पार्थः परमविस्मितः। यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥६३॥ इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन्। बुभुजे विषयान् ग्राम्यानीजे चात्यूर्जितैर्मखैः ॥६४॥ प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु। यथाकालं यथैवेन्द्रो भगवान् श्रैष्ठ्यमास्थितः ॥६५॥ हत्वा नृपानधर्मिष्ठान् घातयित्वार्जुनादिभिः। अञ्जसा वर्तयामास धर्मं धर्मसुतादिभिः ॥६६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विजकुमारानयनं नामैकोननवतितमोऽध्यायः॥८९॥

॥ नवतितमोऽध्यायः - ९० ॥

श्रीशुक उवाच सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः। सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥१॥ स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः। कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः ॥२॥ नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः। स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः ॥३॥ उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु। निर्विशद्भृङ्गविहगैर्नादितायां समन्ततः ॥४॥ रेमे षोडशसाहस्रपत्नीनामेकवल्लभः। तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु ॥५॥ प्रोत्फुल्लोत्पलकह्लारकुमुदाम्भोजरेणुभिः। वासितामलतोयेषु कूजद्द्विजकुलेषु च ॥६॥ विजहार विगाह्याम्भो ह्रदिनीषु महोदयः। कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ॥७॥ उपगीयमानो गन्धर्वैर्मृदङ्गपणवानकान्। वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः ॥८॥ सिच्यमानोऽच्युतस्ताभिर्हसन्तीभिः स्म रेचकैः। प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव ॥९॥ ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः सिञ्चन्त्य उद्धृतबृहत्कबरप्रसूनाः। कान्तं स्म रेचकजिहीरिषयोपगुह्य जातस्मरोत्सवलसद्वदना विरेजुः ॥१०॥ कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक्- क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः। सिञ्चन्मुहुर्युवतिभिः प्रतिषिच्यमानो रेमे करेणुभिरिवेभपतिः परीतः ॥११॥ नटानां नर्तकीनां च गीतवाद्योपजीविनाम्। क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः॥१२॥ कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः। नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥१३॥ ऊचुर्मुकुन्दैकधियोऽगिर उन्मत्तवज्जडम्। चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु ॥१४॥ महिष्य ऊचुः कुररि विलपसि त्वं वीतनिद्रा न शेषे स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः। वयमिव सखि कच्चिद्गाढनिर्भिन्नचेता नलिननयनहासोदारलीलेक्षितेन ॥१५॥ नेत्रे निमीलयसि नक्तमदृष्टबन्धुस्त्वं रोरवीषि करुणं बत चक्रवाकि। दास्यं गता वयमिवाच्युतपादजुष्टां किं वा स्रजं स्पृहयसे कबरेण वोढुम् ॥१६॥ भो भोः सदा निष्टनसे उदन्व- न्नलब्धनिद्रोऽधिगतप्रजागरः। किंवा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥१७॥ त्वं यक्ष्मणा बलवतासि गृहीत इन्दो क्षीणस्तमो न निजदीधितिभिः क्षिणोषि । कच्चिन्मुकुन्दगदितानि यथा वयं त्वं विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः ॥१८॥ किन्त्वाचरितमस्माभिर्मलयानिल तेऽप्रियम्। गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥१९॥ मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनं श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः। अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः॥२०॥ प्रियरावपदानि भाषसे मृतसञ्जीविकयानया गिरा। करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल ॥२१॥ न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम्। अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम् ॥२२॥ शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः। यद्वद्वयं मधुपतेः प्रणयावलोकमप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥२३॥ हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा। किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम्॥२४॥ इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे। क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥२५॥ श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः। उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः ॥२६॥ याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः। जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥२७॥ एवं वेदोदितं धर्ममनुतिष्ठन् सतां गतिः। गृहं धर्मार्थकामानां मुहुश्चादर्शयत्पदम् ॥२८॥ आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम्। आसन् षोडशसाहस्रं महिष्यश्च शताधिकम् ॥२९॥ तासां स्त्रीरत्नभूतानामष्टौ याः प्रागुदाहृताः। रुक्मिणीप्रमुखा राजंस्तत्पुत्राश्चानुपूर्वशः ॥३०॥ एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान्। यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥३१॥ तेषामुद्दामवीर्याणामष्टादश महारथाः। आसन्नुदारयशसस्तेषां नामानि मे शृणु ॥३२॥ प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च। साम्बो मधुर्बृहद्भानुश्चित्रभानुर्वृकोऽरुणः ॥३३॥ पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः। चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥३४॥ एतेषामपि राजेन्द्र तनुजानां मधुद्विषः। प्रद्युम्न आसीत्प्रथमः पितृवद्रुक्मिणीसुतः ॥३५॥ स रुक्मिणो दुहितरमुपयेमे महारथः। तस्मात्सुतोऽनिरुद्धोऽभून्नागायुतबलान्वितः ॥३६॥ स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः। वज्रस्तस्याभवद्यस्तु मौसलादवशेषितः ॥३७॥ प्रतिबाहुरभूत्तस्मात्सुबाहुस्तस्य चात्मजः। सुबाहोः शान्तसेनोऽभूच्छतसेनस्तु तत्सुतः ॥३८॥ न ह्येतस्मिन् कुले जाता अधना अबहुप्रजाः। अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ॥३९॥ यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम्। सङ्ख्या न शक्यते कर्तुमपि वर्षायुतैर्नृप ॥४०॥ तिस्रः कोट्यः सहस्राणामष्टाशीतिशतानि च। आसन् यदुकुलाचार्याः कुमाराणामिति श्रुतम्॥४१॥ सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम्। यत्रायुतानामयुतलक्षेणास्ते स आहुकः ॥४२॥ देवासुराहवहता दैतेया ये सुदारुणाः। ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥४३॥ तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले। अवतीर्णाः कुलशतं तेषामेकाधिकं नृप ॥४४॥ तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः। ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥४५॥ शय्यासनाटनालापक्रीडास्नानादिकर्मसु। न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥४६॥ तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वः सरित्पादशौचं विद्विट् स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः। यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य॥४७॥ जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् । स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम् ॥४८॥ इत्थं परस्य निजवर्त्मरिरक्षयाऽऽत्त- लीलातनोस्तदनुरूपविडम्बनानि। कर्माणि कर्मकषणानि यदूत्तमस्य श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥४९॥ मर्त्यस्तयानुसवमेधितया मुकुन्द- श्रीमत्कथाश्रवणकीर्तनचिन्तयैति। तद्धाम दुस्तरकृतान्तजवापवर्गं ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥५०॥ इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीकृष्णचरितानुवर्णनं नाम नवतितमोऽध्यायः॥९०॥

॥ इति दशमस्कन्धोत्तरार्धः समाप्तः ॥

ॐ तत्सत् ॥


GRETIL txt edited as per Gita Press edition along with paaThabheda by PSA Easwaran

% Text title            : shrImadbhAgavatam - 10-2 - dashamaskandhaH uttarArdham 
% File name             : bhagpur-10b.txt
% itxtitle              : shrImadbhAgavatam - 10-2 - dashamaskandhaH uttarArdham 
% engtitle              : shrImadbhAgavatam - dashamaskandhaH uttarArdham 
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP