१ श्रीमद्देवीभागवतमहापुराणे प्रथमः स्कन्धः
१.१ प्रथमोऽध्यायः । शौनकप्रश्नः ।
ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि ।
बुद्धिं या नः प्रचोदयात् ॥ १॥
शौनक उवाच -
सूत सूत महाभाग धन्योऽसि पुरुषर्षभ ।
यदधीतास्त्वया सम्यक् पुराणसंहिताः शुभाः ॥ २॥
अष्टादश पुराणानि कृष्णेन मुनिनानघ ।
कथितानि सुदिव्यानि पठितानि त्वयानघ ॥ ३॥
पञ्चलक्षणयुक्तानि सरहस्यानि मानद ।
त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात् ॥ ४॥
अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् ।
दिव्यं विश्वसनं पुण्यं कलिदोषविवर्जितम् ॥ ५॥
समाजोऽयं मुनीनां हि श्रोतुकामोऽस्ति पुण्यदाम् ।
पुराणसंहितां सूत ब्रूहि त्वं नः समाहितः ॥ ६॥
दीर्घायुर्भव सर्वज्ञ तापत्रयविवर्जितः ।
कथयाद्य महाभाग पुराणं ब्रह्मसम्मितम् ॥ ७॥
श्रोत्रेन्द्रिययुताः सूत नराः स्वादविचक्षणाः ।
न शृण्वन्ति पुराणानि वञ्चिता विधिना हि ते ॥ ८॥
यथा जिह्वेन्द्रियाह्लादः षड्रसैः प्रतिपद्यते ।
तथा श्रोत्रेन्द्रियाह्लादो वचोभिः सुधियां स्मृतः ॥ ९॥
अश्रोत्राः फणिनः कामं मुह्यन्ति हि नभोगुणैः ।
सकर्णा ये न शृण्वन्ति तेऽप्यकर्णाः कथं न च ॥ १०॥
अतः सर्वे द्विजाः सौम्य श्रोतुकामाः समाहिताः ।
वर्तन्ते नैमिषारण्ये क्षेत्रे कलिभयार्दिताः ॥ ११॥
येन केनाप्युपायेन कालातिवाहनं स्मृतम् ।
व्यसनैरिह मूर्खाणां बुधानां शास्त्रचिन्तनैः ॥ १२॥
शास्त्राण्यपि विचित्राणि जल्पवादयुतानि च ।
त्रिविधानि पुराणानि शास्त्राणि विविधानि च ।
विताण्डाच्छलयुक्तानि गर्वामर्षकराणि च ।
नानार्थवादयुक्तानि हेतुमन्ति बृहन्ति च ॥ १३॥
सात्त्विकं तत्र वेदान्तं मीमांसा राजसं मतम् ।
तामसं न्यायशास्त्रं च हेतुवादाभियन्त्रितम् ॥ १४॥
तथैव च पुराणानि त्रिगुणानि कथानकैः ।
कथितानि त्वया सौम्य पञ्चलक्षणवन्ति च ॥ १५॥
तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् ।
कथितं यत्त्वया पूर्वं सर्वलक्षणसंयुतम् ॥ १६॥
उद्देशमात्रेण तदा कीर्तितं परमाद्भुतम् ।
मुक्तिप्रदं मुमुक्षूणां कामदं धर्मदं तथा ॥ १७॥
विस्तरेण तदाख्याहि पुराणोत्तममादरात् ।
श्रोतुकामा द्विजाः सर्वे दिव्यं भागवतं शुभम् ॥ १८॥
त्वं तु जानासि धर्मज्ञ पौराणीं संहितां किल ।
कृष्णोक्तां गुरुभक्तत्वात् सम्यक् सत्त्वगुणाश्रयः ॥ १९॥
श्रुतान्यन्यानि सर्वज्ञ त्वन्मुखान्निःसृतानि च ।
नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा ॥ २०॥
धिक्सुधां पिबतां सूत मुक्तिर्नैव कदाचन ।
पिबन्भागवतं सद्यो नरो मुच्येत सङ्कटात् ॥ २१॥
सुधापाननिमित्तं यत् कृता यज्ञाः सहस्रशः ।
न शान्तिमधिगच्छामः सूत सर्वात्मना वयम् ॥ २२॥
मखानां हि फलं स्वर्गः स्वर्गात्प्रच्यवनं पुनः ।
एवं संसारचक्रेऽस्म्निन् भ्रमणं च निरन्तरम् ॥ २३॥
विना ज्ञानेन सर्वज्ञ नैव मुक्तिः कदाचन ।
भ्रमतां कालचक्रेऽत्र नराणां त्रिगुणात्मके ॥ २४॥
अतः सर्वरसोपेतं पुण्यं भागवतं वद ।
पावनं मुक्तिदं गुह्यं मुमुक्षूणां सदा प्रियम् ॥ २५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे शौनकप्रश्नः नाम प्रथमोऽध्यायः ॥ १.१॥
१.२ द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
सूत उवाच ।
धन्योऽहमतिभाग्योऽहं पावितोऽहं महात्मभिः ।
यत्पृष्टं सुमहत्पुण्यं पुराणं वेदविश्रुतम् ॥ १॥
तदहं सम्प्रवक्ष्यामि सर्वश्रुत्यर्थसम्मतम् ।
रहस्यं सर्वशास्त्राणामागमानामनुत्तमम् ॥ २॥
नत्वा तत्पदपङ्कजं सुललितं मुक्तिप्रदं योगिनाम् ॥
ब्रह्माद्यैरपि सेवितं स्तुतिपरैर्ध्येयं मुनीन्द्रैः सदा ।
वक्ष्याम्यद्य सविस्तरं बहुरसं श्रीमत्पुराणोत्तमम् ॥
भक्त्या सर्वरसालयं भगवतीनाम्ना प्रसिद्धं द्विजाः ॥ ३॥
या विद्येत्यभिधीयते श्रुतिपथे शक्तिः सदाद्या परा ॥
सर्वज्ञा भवबन्धछित्तिनिपुणा सर्वाशये संस्थिता ।
दुर्ज्ञेया सुदुरात्मभिश्च मुनिभिर्ध्यानास्पदं प्रापिता ॥
प्रत्यक्षा भवतीह सा भगवती सिद्धिप्रदा स्यात्सदा ॥ ४॥
सृष्ट्वाखिलं जगदिदं सदसत्स्वरूपं
शक्त्या स्वया त्रिगुणया परिपाति विश्वम् ।
संहृत्य कल्पसमये रमते तथैका
तां सर्वविश्वजननीं मनसा स्मरामि ॥ ५॥
ब्रह्मा सृजत्यखिलमेतदिति प्रसिद्धं
पौराणिकैश्च कथितं खलु वेदविद्भिः ।
विष्णोस्तु नाभिकमले किल तस्य जन्म
तैरुक्तमेव सृजते न हि स स्वतन्त्रः ॥ ६॥
विष्णुस्तु शेषशयने स्वपितीति काले
तन्नाभिपद्यमुकुले खलु तस्य जन्म ।
आधारतां किल गतोऽत्र सहस्रमौलिः
सम्बोध्यतां स भगवान् हि कथं मुरारिः ॥ ७॥
एकार्णवस्य सलिलं रसरूपमेव
पात्रं विना न हि रसस्थितिरस्ति कच्चित् ।
या सर्वभूतविषये किल शक्तिरूपा
तां सर्वभूतजननीं शरणं गतोऽस्मि ॥ ८॥
योगनिद्रामीलिताक्षं विष्णुं दृष्ट्वाम्बुजे स्थितः ।
अजस्तुष्टाव यां देवीं तामहं शरणं गतः ॥ ९॥
तां ध्यात्वा सगुणां मायां मुक्तिदां निर्गुणां तथा ।
वक्ष्ये पुराणमखिलं शृण्वन्तु मुनयस्त्विह ॥ १०॥
पुराणमुत्तमं पुण्यं श्रीमद्भागवताभिधम् ।
अष्टादश सहस्राणि श्लोकास्तत्र तु संस्कृताः ॥ ११॥
स्कन्धा द्वादश चैवात्र कृष्णेन विहिताः शुभाः ।
त्रिशतं पूर्णमध्याया अष्टादशयुताः स्मृताः ॥ १२॥
विंशतिः प्रथमे तत्र द्वितीये द्वादशैव तु ।
त्रिंशच्चैव तृतीये तु चतुर्थे पञ्चविंशतिः ॥ १३॥
पञ्चत्रिंशत्तथाध्यायाः पञ्चमे परिकीर्तिताः ।
एकत्रिंशत्तथा षष्ठे चत्वारिंशच्च सप्तमे ॥ १४॥
अष्टमे तत्त्वसङ्ख्याश्च पञ्चाशन्नवमे तथा ।
त्रयोदश तु सम्प्रोक्ता दशमे मुनिना किल ॥ १५॥
तथा चैकादशस्कन्धे चतुर्विंशतिरीरिताः ।
चतुर्दशैव चाध्याया द्वादशे मुनिसत्तमाः ॥ १६॥
एवं सङ्ख्या समाख्याता पुराणेऽस्मिन्महात्मना ।
अष्टादशसहस्रीया सङ्ख्या च परिकीर्तिता ॥ १७॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ १८॥
निर्गुणा या सदा नित्या व्यापिका विकृता शिवा ।
योगगम्याखिलाधारा तुरीया या च संस्थिता ॥ १९॥
तस्यास्तु सात्त्विकी शक्ती राजसी तामसी तथा ।
महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः ॥ २०॥
तासां तिसॄणां शक्तीनां देहाङ्गीकारलक्षणः ।
सृष्ट्यर्थं च समाख्यातः सर्गः शास्त्रविशारदैः ॥ २१॥
हरिद्रुहिणरुद्राणां समुत्पत्तिस्ततः स्मृता ।
पालनोत्पत्तिनाशार्थं प्रतिसर्गः स्मृतो हि सः ॥ २२॥
सोमसूर्योद्भवानां च राज्ञां वंशप्रकीर्तनम् ।
हिरण्यकशिप्वादीनां वंशास्ते परिकीर्तिताः ॥ २३॥
स्वायम्भुवमुखानां च मनूनां परिवर्णनम् ।
कालसङ्ख्या तथा तेषां तत्तन्मन्वन्तराणि च ॥ २४॥
तेषां वंशानुकथनं वंशानुचरितं स्मृतम् ।
पञ्चलक्षणयुक्तानि भवन्ति मुनिसत्तमाः ॥ २५॥
सपादलक्षं च तथा भारतं मुनिना कृतम् ।
इतिहास इति प्रोक्तं पञ्चमं वेदसम्मतम् ॥ २६॥
शौनक उवाच ।
कानि तानि पुराणानि ब्रूहि सूत सविस्तरम् ।
कतिसङ्ख्यानि सर्वज्ञ श्रोतुकामा वयं त्विह ॥ २७॥
कलिकालविभीताः स्मो नैमिषारण्यवासिनः ।
ब्रह्मणात्र समादिष्टाश्चक्रं दत्त्वा मनोमयम् ॥ २८॥
कथितं तेन नः सर्वान्गच्छन्त्वेतस्य पृष्ठतः ।
नेमिः संशीर्यते यत्र स देशः पावनः स्मृतः ॥ २९॥
कलेस्तत्र प्रवेशो न कदाचित् सम्भविष्यति ।
तावत्तिष्ठन्तु तत्रैव यावत्सत्ययुगं पुनः ॥ ३०॥
तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् ।
चालयन्निर्गतस्तूर्णं सर्वदेशदिदृक्षया ॥ ३१॥
प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः ।
तेनेदं नैमिषं प्रोक्तं क्षेत्रं परमपावनम् ॥ ३२॥
कलिप्रवेशो नैवात्र तस्मात्स्थानं कृतं मया ।
मुनिभिः सिद्धसङ्घैश्च कलिभीतैर्महात्मभिः ॥ ३३॥
पशुहीनाः कृता यज्ञाः पुरोडाशादिभिः किल ।
कालातिवाहनं कार्यं यावत्सत्ययुगागमः ॥ ३४॥
भाग्ययोगेन सम्प्राप्तः सूत त्वं चात्र सर्वथा ।
कथयाद्य पुराणं हि पावनं ब्रह्मसम्मतम् ॥ ३५॥
सूत शुश्रूषवः सर्वे वक्ता त्वं मतिमानथ ।
निर्व्यापारा वयं नूनमेकचित्तास्तथैव च ॥ ३६॥
त्वं सूत भव दीर्घायुस्तापत्रयविवर्जितः ।
कथयाद्य पुराणं हि पुण्यं भागवतं शिवम् ॥ ३७॥
यत्र धर्मार्थकामानां वर्णनं विधिपूर्वकम् ।
विद्यां प्राप्य तया मोक्षः कथितो मुनिना किल ॥ ३८॥
द्वैपायनेन मुनिना कथितं यच्च पावनम् ।
न तृप्यामो वयं सूत कथां श्रुत्वा मनोरमाम् ॥ ३९॥
सकलगुणगणानामेकपात्रं पवित्र- ॥
मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् ।
निखिलमलगणानां नाशकृत्कामकन्दम् ॥
प्रकटय भगवत्या नामयुक्तं पुराणम् ॥ ४०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे ग्रन्थसङ्ख्याविषयवर्णनं नाम द्वितीयोऽध्यायः ॥ १.२॥
१.३ तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
सूत उवाच ।
शृण्वन्तु सम्प्रवक्ष्यामि पुराणानि मुनीश्वराः ।
यथाश्रुतानि तत्त्वेन व्यासात्सत्यवतीसुतात् ॥ १॥
मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
अनापलिङ्गकूस्कानि पुराणानि पृथक्पृथक् ॥ २॥
चतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितम् ।
तथा ग्रहसहस्रं तु मार्कण्डेयं महाद्भुतम् ॥ ३॥
चतुर्दशसहस्राणि तथा पञ्चशतानि च ।
भविष्यं परिसङ्ख्यातं मुनिभिस्तत्त्वदर्शिभिः ॥ ४॥
अष्टादशसहस्रं वै पुण्यं भागवतं किल ।
तथा चायुतसङ्ख्याकं पुराणं ब्रह्मसंज्ञकम् ॥ ५॥
द्वादशैव सहस्राणि ब्रह्माण्डं च शताधिकम् ।
तथाष्टादशसाहस्रं ब्रह्मवैवर्तमेव च ॥ ६॥
अयुतं वामनाख्यं च वायव्यं षट्शतानि च ।
चतुर्विंशतिसङ्ख्यातः सहस्राणि तु शौनक ॥ ७॥
त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् ।
चतुर्विंशतिसाहस्रं वाराहं परमाद्भुतम् ॥ ८॥
षोडशैव सहस्राणि पुराणं चाग्निसंज्ञितम् ।
पञ्चविंशतिसाहस्रं नारदं परमं मतम् ॥ ९॥
पञ्चपञ्चाशत्साहस्रं पद्माख्यं विपुलं मतम् ।
एकादशसहस्राणि लिङ्गाख्यं चातिविस्मृतम् ॥ १०॥
एकोनविंशत्साहस्रं गारुडं हरिभाषितम् ।
सप्तदशसहस्रं च पुराणं कूर्मभाषितम् ॥ ११॥
एकाशीतिसहस्राणि स्कन्दाख्यं परमाद्भुतम् ।
पुराणाख्या च सङ्ख्या च विस्तरेण मयानघाः ॥ १२॥
तथैवोपपुराणानि शृण्वन्तु ऋषिसत्तमाः ।
सनत्कुमारं प्रथमं नारसिंहं ततः परम् ॥ १३॥
नारदीयं शिवं चैव दौर्वाससमनुत्तमम् ।
कापिलं मानवं चैव तथा चौशनसं स्मृतम् ॥ १४॥
वारुणं कालिकाख्यं च साम्बं नन्दिकृतं शुभम् ।
सौरं पाराशरप्रोक्तमादित्यं चातिविस्तरम् ॥ १५॥
माहेश्वरं भागवतं वासिष्ठं च सविस्तरम् ।
एतान्युपपुराणानि कथितानि महात्मभिः ॥ १६॥
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः ।
भारताख्यानमतुलं चक्रे तदुपबृंहितम् ॥ १७॥
मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे ।
प्रादुःकरोति धर्मार्थी पुराणानि यथाविधि ॥ १८॥
द्वापरे द्वापरे विष्ण्णुर्व्यासरूपेण सर्वदा ।
वेदमेकं स बहुधा कुरुते हितकाम्यया ॥ १९॥
अल्पायुषोऽल्पबुद्धींश्च विप्रान्ज्ञात्वा कलावथ ।
पुराणसंहितां पुण्यां कुरुतेऽसौ युगे युगे ॥ २०॥
स्त्रीशूद्रद्विजबन्धूनां न वेदश्रवणं मतम् ।
तेषामेव हितार्थाय पुराणानि कृतानि च ॥ २१॥
मन्वन्तरे सप्तमेऽत्र शुभे वैवस्वताभिधे ।
अष्टाविंशतिमे प्राप्ते द्वापरे मुनिसत्तमाः ॥ २२॥
व्यासः सत्यवतीसूनुर्गुरुर्मे धर्मवित्तमः ।
एकोनत्रिंशत्सम्प्राप्ते द्रौणिर्व्यासो भविष्यति ॥ २३॥
अतीतास्तु तथा व्यासाः सप्तविंशतिरेव च ।
पुराणसंहितास्तैस्तु कथितास्तु युगे युगे ॥ २४॥
ऋषय ऊचुः ।
ब्रूहि सूत महाभाग व्यासाः पूर्वयुगोद्भवाः ।
वक्तारस्तु पुराणानां द्वापरे द्वापरे युगे ॥ २५॥
सूत उवाच ।
द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा ।
प्रजापतिर्द्वितीये तु द्वापरे व्यासकार्यकृत् ॥ २६॥
तृतीये चोशना व्यासश्चतुर्थे तु बृहस्पतिः ।
पञ्चमे सविता व्यासः षष्ठे मृत्युस्तथापरे ॥ २७॥
मघवा सप्तमे प्राप्ते वसिष्ठस्त्वष्टमे स्मृतः ।
सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥ २८॥
एकादशेऽथ त्रिवृषो भरद्वाजस्ततः परम् ।
त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे ॥ २९॥
त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः ।
मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥ ३०॥
अत्रिरेकोनविंशेऽथ गौतमस्तु ततः परम् ।
उत्तमश्चैकविंशेऽथ हर्यात्मा परिकीर्तितः ॥ ३१॥
वेनो वाजश्रवाश्चैव सोमोऽमुष्यायणस्तथा ।
तृणबिन्दुस्तथा व्यासो भार्गवस्तु ततः परम् ॥ ३२॥
ततः शक्तिर्जातुकर्ण्यः कृष्णद्वैपायनस्ततः ।
अष्टाविंशतिसङ्ख्येयं कथिता या मया श्रुता ॥ ३३॥
कृष्णद्वैपायनात्प्रोक्तं पुराणं च मया श्रुतम् ।
श्रीमद्भागवतं पुण्यं सर्वदुःखौघनाशनम् ॥ ३४॥
कामदं मोक्षदं चैव वेदार्थपरिबृंहितम् ।
सर्वागमरसारामं मुमुक्षूणां सदा प्रियम् ॥ ३५॥
व्यासेन कृत्वातिशुभं पुराणं
शुकाय पुत्राय महात्मने यत् ।
वैराग्ययुक्ताय च पाठितं वै
विज्ञाय चैवारणिसम्भवाय ॥ ३६॥
श्रुतं मया तत्र तथा गृहीतं
यथार्थवद्व्यासमुखान्मुनीन्द्राः ।
पुराणगुह्यं सकलं समेतं
गुरोः प्रसादात्करुणानिधेश्च ॥ ३७॥
सूतेन पृष्टः सकलं जगाद
द्वैपायनस्तत्र पुराणगुह्यम् ।
अयोनिजेनाद्भुतबुद्धिना वै
श्रुतं मया तत्र महाप्रभावम् ॥ ३८॥
श्रीमद्भागवतामराङ्घ्रिपफलास्वादादरः सत्तमाः
संसारार्णवदुर्विगाह्यसलिलं सन्तर्तुकामः शुकः ।
नानाख्यानरसालयं श्रुतिपुटैः प्रेम्णाशृणोदद्भुतं
तच्छ्रुत्वा न विमुच्यते कलिभयादेवंविधः कः क्षितौ ॥ ३९॥
पापीयानपि वेदधर्मरहितः स्वाचारहीनाशयो ॥
व्याजेनापि शृणोति यः परमिदं श्रीमत्पुराणोत्तमम् ।
भुक्त्या भोगकलापमत्र विपुलं देहावसानेऽचलं
योगिप्राप्यमवाप्नुयाद्भगवतीनामाङ्कितं सुन्दरम् ॥ ४०॥
या निर्गुणा हरिहरादिभिरप्यलभ्या
विद्या सतां प्रियतमाथ समाधिगम्या ।
सा तस्य चित्तकुहरे प्रकरोति भावं
यः संशृणोति सततं तु सतीपुराणम् ॥ ४१॥
सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं
पोतं भवार्णवजलोत्तरणाय कामम् ।
सम्प्राप्य वाचकमहो न शृणोति मूढः
स वञ्चितोऽत्र विधिना सुखदं पुराणम् ॥ ४२॥
यः प्राप्य कर्णयुगलं पटुमानुषत्वे
रागी शृणोति सततं च परापवादान् ।
सर्वार्थदं रसनिधिं विमलं पुराणं
नष्टः कुतो न शृणुते भुवि मन्दबुद्धिः ॥ ४३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनं नाम तृतीयोऽध्यायः ॥ १.३॥
१.४ चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।
ऋषय ऊचुः ।
सौम्य व्यासस्य भार्यायां कस्यां जातः सुतः शुकः ।
कथं वा कीदृशो येन पठितेयं सुसंहिता ॥ १॥
अयोनिजस्त्वया प्रोक्तस्तथा चारणिजः शुकः ।
सन्देहोऽस्ति महांस्तत्र कथयाद्य महामते ॥ २॥
गर्भयोगी श्रुतः पूर्वं शुको नाम महातपाः ।
कथं च पठितं तेन पुराणं बहुविस्तरम् ॥ ३॥
सूत उवाच ।
पुरा सरस्वतीतीरे व्यासः सत्यवतीसुतः ।
आश्रमे कलविङ्कौ तु दृष्ट्वा विस्मयमागतः ॥ ४॥
जातमात्रं शिशुं नीडे मुक्तमण्डान्मनोहरम् ।
ताम्रास्यं शुभसर्वाङ्गं पिच्छाङ्कुरविवर्जितम् ॥ ५॥
तौ तु भक्ष्यार्थमत्यन्तं रतौ श्रमपरायणौ ।
शिशोश्चञ्चुपुटे भक्ष्यं क्षिपन्तौ च पुनः पुनः ॥ ६॥
अङ्गेनाङ्गानि बालस्य घर्षयन्तौ मुदान्वितौ ।
चुम्बन्तौ च मुखं प्रेम्णा कलविङ्कौ शिशोः शुभम् ॥ ७॥
वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा ।
व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत् ॥ ८॥
तिरश्चामपि यत्प्रेम पुत्रे समभिलक्ष्यते ।
किं चित्रं यन्मनुष्याणां सेवाफलमभीप्सताम् ॥ ९॥
किमेतौ चटकौ चास्य विवाहं सुखसाधनम् ।
विरच्य सुखिनौ स्यातां दृष्ट्वा वध्वा मुखं शुभम् ॥ १०॥
अथवा वार्धके प्राप्ते परिचर्यां करिष्यति ।
पुत्रः परमधर्मिष्ठः पुण्यार्थं कलविङ्कयोः ॥ ११॥
अर्जयित्वाथवा द्रव्यं पितरौ तर्पयिष्यति ।
अथवा प्रेतकार्याणि करिष्यति यथाविधि ॥ १२॥
अथवा किं गयाश्राद्धं गत्वा संवितरिष्यति ।
नीलोत्सर्गं च विधिवत्प्रकरिष्यति बालकः ॥ १३॥
संसारेऽत्र समाख्यातं सुखानामुत्तमं सुखम् ।
पुत्रगात्रपरिष्वङ्गो लालनञ्च विशेषतः ॥ १४॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
पुत्रादन्यतरन्नास्ति परलोकस्य साधनम् ॥ १५॥
मन्वादिभिश्च मुनिभिर्धर्मशास्त्रेषु भाषितम् ।
पुत्रवान्स्वर्गमाप्नोति नापुत्रस्तु कथञ्चन ॥ १६॥
दृश्यतेऽत्र समक्षं तन्नानुमानेन साध्यते ।
पुत्रवान्मुच्यते पापादाप्तवाक्यं च शाश्वतम् ॥ १७॥
आतुरे मृत्युकालेऽपि भूमिशय्यागतो नरः ।
करोति मनसा चिन्तां दुःखितः पुत्रवर्जितः ॥ १८॥
धनं मे विपुलं गेहे पात्राणि विविधानि च ।
मन्दिरं सुन्दरं चैतत्कोऽस्य स्वामी भविष्यति ॥ १९॥
मृत्युकाले मनस्तस्य दुःखेन भ्रमते यतः ।
अतोऽस्य दुर्गतिर्नूनं भ्रान्तचित्तस्य सर्वथा ॥ २०॥
एवं बहुविधां चिन्तां कृत्वा सत्यवतीसुतः ।
निःश्वस्य बहुधा चोष्णं विमनाः सम्बभूव ह ॥ २१॥
विचार्य मनसात्यर्थं कृत्वा मनसि निश्चयम् ।
जगाम च तपस्तप्तुं मेरुपर्वतसनिधौ ॥ २२॥
मनसा चिन्तयामास कं देवं समुपास्महे ।
वरप्रदाननिपुणं वाञ्छितार्थप्रदं तथा ॥ २३॥
विष्णुं रुद्रं सुरेन्द्रं वा ब्रह्माणं वा दिवाकरम् ।
गणेशं कार्तिकेयं च पावकं वरुणं तथा ॥ २४॥
एवं चिन्तयतस्तस्य नारदो मुनिसत्तमः ।
यदृच्छया समायातो वीणापाणिः समाहितः ॥ २५॥
तं दृष्ट्वा परमप्रीतो व्यासः सत्यवतीसुतः ।
कृत्वार्घ्यमासनं दत्त्वा पप्रच्छ कुशलं मुनिम् ॥ २६॥
श्रुत्वाथ कुशलप्रश्नं पप्रच्छ मुनिसत्तमः ।
चिन्तातुरोऽसि कस्मात्त्वं द्वैपायन वदस्व मे ॥ २७॥
व्यास उवाच ।
अपुत्रस्य गतिर्नास्ति न सुखं मानसे यतः ।
तदर्थं दुःखितश्चाहं चिन्तयामि पुन पुनः ॥ २८॥
तपसा तोषयाम्यद्य कं देवं वाच्छितार्थदम् ।
इति चिन्तातुरोऽस्म्यद्य त्वामहं शरणं गतः ॥ २९॥
सर्वज्ञोऽसि महर्षे त्वं कथयाशु कृपानिधे ।
कं देवं शरणं यामि यो मे पुत्रं प्रदास्यति ॥ ३०॥
सूत उवाच ।
इति व्यासेन पृष्टस्तु नारदो वेदविन्मुनिः ।
उवाच परया प्रीत्या कृष्णं प्रति महामनाः ॥ ३१॥
नारद उवाच ।
पाराशर्य महाभाग यत्त्वं पृच्छसि मामिह ।
तमेवार्थं पुरा पृष्टः पित्रा मे मधुसूदनः ॥ ३२॥
ध्यानस्थं च हरिं दृष्ट्वा पिता मे विस्मयं गतः ।
पर्यपृच्छत देवेशं श्रीनाथं जगतः पतिम् ॥ ३३॥
कौस्तुभोद्भासितं दिव्यं शङ्खचक्रगदाधरम् ।
पीताम्बरं चतुर्बाहुं श्रीवत्साङ्कितवक्षसम् ॥ ३४॥
कारणं सर्वलोकानां देवदेवं जगद्गुरुम् ।
वासुदेवं जगन्नाथं तप्यमानं महत्तपः ॥ ३५॥
ब्रह्मोवाच ।
देवदेव जगन्नाथ भूतभव्यभवत्प्रभो ।
तपश्चरसि कस्मात्त्वं किं ध्यायसि जनार्दन ॥ ३६॥
विस्मयोऽयं ममात्यर्थं त्वं सर्वजगतां प्रभुः ।
ध्यानयुक्तोऽसि देवेश किं च चित्रमतः परम् ॥ ३७॥
त्वन्नाभिकमलाज्जातः कर्ताहमखिलस्य ह ।
त्वत्तः कोऽप्यधिकोऽस्त्यत्र तं देवं ब्रूहि मापते ॥ ३८॥
जानाम्यहं जगन्नाथ त्वमादिः सर्वकारणम् ।
कर्ता पालयिता हर्ता समर्थः सर्वकार्यकृत् ॥ ३९॥
इच्छया ते महाराज सृजाम्यहमिदं जगत् ।
हरः संहरते काले सोऽपि ते वचने सदा ॥ ४०॥
सूर्यो भ्रमति चाकाशे वायुर्वाति शुभाशुभः ।
अग्निस्तपति पर्जन्यो वर्षतीश त्वदाज्ञया ॥ ४१॥
त्वं तु ध्यायसि कं देवं संशयोऽयं महान्मम ।
त्वत्तः परं न पश्यामि देवं वै भुवनत्रये ॥ ४२॥
कृपां कृत्वा वदस्वाद्य भक्तोऽस्मि तव सुव्रत ।
महतां नैव गोप्यं हि प्रायः किञ्चिदिति स्मृतिः ॥ ४३॥
तच्छ्रुत्वा वचनं तस्य हरिराह प्रजापतिम् ।
शृणुष्वैकमना ब्रह्मंस्त्वां ब्रवीमि मनोगतम् ॥ ४४॥
यद्यपि त्वां शिवं मां च स्थितिसृष्ट्यन्तकारणम् ।
ते जानन्ति जनाः सर्वे सदेवासुरमानुषाः ॥ ४५॥
स्रष्टा त्वं पालकश्चाहं हरः संहारकारकः ।
कृताः शक्त्येति सन्तर्कः क्रियते वेदपारगैः ॥ ४६॥
जगत्सञ्जनने शक्तिस्त्वयि तिष्ठति राजसी ।
सात्त्विकी मयि रुद्रे च तामसी परिकीर्तिता ॥ ४७॥
तया विरहितस्त्वं न तत्कर्मकरणे प्रभुः ।
नाहं पालयितुं शक्तः संहर्तुं नापि शङ्करः ॥ ४८॥
तदधीना वयं सर्वे वर्तामः सततं विभो ।
प्रत्यक्षे च परोक्षे च दृष्टान्तं शृणु सुव्रत ॥ ४९॥
शेषे स्वपिमि पर्यङ्के परतन्त्रो न संशयः ।
तदधीनः सदोत्तिष्ठे काले कालवशं गतः ॥ ५०॥
तपश्चरामि सततं तदधीनोऽस्म्यहं सदा ।
कदाचित्सह लक्ष्या च विहरामि यथासुखम् ॥ ५१॥
कदाचिद्दानवैः सार्धं सङ्ग्रामं प्रकरोम्यहम् ।
दारुणं देहदमनं सर्वलोकभयङ्करम् ॥ ५२॥
प्रत्यक्षं तव धर्मज्ञ तस्मिन्नेकार्णवे पुरा ।
पञ्चवर्षसहस्राणि बाहुयुद्धं मया कृतम् ॥ ५३॥
तौ कर्णमलजौ दुष्टौ दानवौ मदगर्वितौ ।
देव देव्याः प्रसादेन निहतौ मधुकैटभौ ॥ ५४॥
तदा त्वया न किं ज्ञातं कारणं तु परात्परम् ।
शक्तिरूपं महाभाग किं पृच्छसि पुनः पुनः ॥ ५५॥
यदिच्छः पुरुषो भूत्वा विचरामि महार्णवे ।
कच्छपः कोलसिंहश्च वामनश्च युगे युगे ॥ ५६॥
न कस्यापि प्रियो लोके तिर्यग्योनिषु सम्भवः ।
नाभवं स्वेच्छया वामवराहादिषु योनिषु ॥ ५७॥
विहाय लक्ष्या सह संविहारं
को याति मत्स्यादिषु हीनयोनिषु ।
शय्यां च मुक्त्वा गरुडासनस्थः
करोमि युद्धं विपुलं स्वतन्त्रः ॥ ५८॥
पुरा पुरस्तेऽज शिरो मदीयं
गतं धनुर्ज्यास्खलनात्क्व चापि ।
त्वया तदा वाजिशिरो गृहीत्वा
संयोजितं शिल्पिवरेण भूयः ॥ ५९॥
हयाननोऽहं परिकीर्तितश्च
प्रत्यक्षमेतत्तव लोककर्तः ।
विडम्बनेयं किल लोकमध्ये
कथं भवेदात्मपरो यदि स्याम् ॥ ६०॥
तस्मान्नाहं स्वतन्त्रोऽस्मि शक्त्यधीनोऽस्मि सर्वथा ।
तामेव शक्तिं सततं ध्यायामि च निरन्तरम् ॥ ६१॥
नातः परतरं किञ्चिज्जानामि कमलोद्भव ।
नारद उवाच ।
इत्युक्तं विष्णुना तेन पद्मयोनेस्तु सन्निधौ ॥ ६२॥
तेन चाप्यहमुक्तोऽस्मि तथैव मुनिपुङ्गव ।
तस्मात्त्वमपि कल्याण पुरुषार्थाप्तिहेतवे ॥ ६३॥
असंशयं हृदम्भोजे भज देवीपदाम्बुजम् ।
सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव ॥ ६४॥
सूत उवाच ।
नारदेनैवमुक्तस्तु व्यासः सत्यवतीसुतः ।
देवीपादाब्जनिष्णातस्तपसे प्रययौ गिरौ ॥ ६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे देवीसर्वोत्तमेतिकथनं नाम चतुर्थोऽध्यायः ॥ १.४॥
१.५ पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।
ऋषय ऊचुः ।
सूतास्माकं मनः कामं मग्नं संशयसागरे ।
यथोक्तं महदाश्चर्यं जगद्विस्मयकारकम् ॥ १॥
यन्मूर्धा माधवस्यापि गतो देहात्पुनः परम् ।
हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः ॥ २॥
वेदोऽपि स्तौति यं देवं देवाः सर्वे यदाश्रयाः ।
आदिदेवो जगन्नाथः सर्वकारणकारणः ॥ ३॥
तस्यापि वदनं छिन्नं दैवयोगात्कथं तदा ।
तत्सर्वं कथयाशु त्वं विस्तरेण महामते ॥ ४॥
सूत उवाच ।
शृण्वन्तु मुनयः सर्वे सावधानाः समन्ततः ।
चरितं देवदेवस्य विष्णोः परमतेजसः ॥ ५॥
कदाचिद्दारुणं युद्धं कृत्वा देवः सनातनः ।
दशवर्षसहस्राणि परिश्रान्तो जनार्दनः ॥ ६॥
समे देशे शुभे स्थाने कृत्वा पद्मासनं विभुः ।
अवलम्ब्य धनुः सज्यं कण्ठदेशे धरास्थितम् ॥ ७॥
दत्त्वा भारं धनुष्कोट्यां निद्रामाप रमापतिः ।
श्रान्तत्वाद्दैवयोगाच्च जातस्तत्रातिनिद्रितः ॥ ८॥
तदा कालेन कियता देवाः सर्वे सवासवाः ।
ब्रह्मेशसहिताः सर्वे यज्ञं कर्तुं समुद्यताः ॥ ९॥
गताः सर्वेऽथ वैकुण्ठं द्रष्टुं देवं जनार्दनम् ।
देवकार्यार्थसिद्ध्यर्थं मखानामधिपं प्रभुम् ॥ १०॥
अदृष्ट्वा तं तदा तत्र ज्ञानदृष्ट्या विलोक्य ते ।
यत्रास्ते भगवान् विष्णुर्जग्मुस्तत्र तदा सुराः ॥ ११॥
ददृशुस्ते तदेशानं योगनिद्रावशं गतम् ।
विचेतनं विभुं विष्णुं तत्रासाञ्चक्रिरे सुराः ॥ १२॥
स्थितेषु सर्वदेवेषु निद्रासुप्ते जगत्पतौ ।
चिन्तामापुः सुराः सर्वे ब्रह्मरुद्रपुरोगमाः ॥ १३॥
तानुवाच ततः शक्रः किं कर्तव्यं सुरोत्तमाः ।
निद्राभङ्गः कथं कार्यश्चिन्तयन्तु सुरोत्तमाः ॥ १४॥
तमुवाच तदा शम्भुर्निद्राभङ्गेऽस्ति दूषणम् ।
कार्यं चैव प्रकर्तव्यं यज्ञस्य सुरसत्तमाः ॥ १५॥
उत्पादिता तदा वम्री ब्रह्मणा परमेष्ठिना ।
तया भक्षयितुं तत्र धनुषोऽग्रं धरास्थितम् ॥ १६॥
भक्षितेऽग्रे तदा निम्नं गमिष्यति शरासनम् ।
तदा निद्राविमुक्तोऽसौ देवदेवो भविष्यति ॥ १७॥
देवकार्यं तदा सर्वं भविष्यति न संशयः ।
स वम्रीं सन्दिदेशाथ देवदेवः सनातनः ॥ १८॥
तमुवाच तदा वम्री देवदेवस्य मापतेः ।
निद्राभङ्गः कथं कार्यो देवस्य जगतां गुरोः ॥ १९॥
निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् ।
शिशुमातृविभेदश्च ब्रह्महत्यासमं स्मृतम् ॥ २०॥
तत्कथं देवदेवस्य करोमि सुखनाशनम् ।
किं फलं भक्षणाद्देव येन पापं करोम्यहम् ॥ २१॥
सर्वः स्वार्थवशो लोकः कुरुते पातकं किल ।
तस्मादहं करिष्यामि स्वार्थमेव प्रभक्षणम् ॥ २२॥
ब्रह्मोवाच ।
तव भागं करिष्यामो मखमध्ये यथा शृणु ।
तेन त्वं कुरु कार्यं नो विष्णुं बोधय माचिरम् ॥ २३॥
होमकर्मणि पार्श्वे च हविर्दानात्पतिष्यति ।
तत्ते भागं विजानीहि कुरु कार्यं त्वरान्विता ॥ २४॥
सूत उवाच ।
इत्युक्ता ब्रह्मणा वम्री धनुषोऽग्रं त्वरान्विता ।
चखाद संस्थितं भूमौ विमुक्ता ज्या तदाभवत् ॥ २५॥
प्रत्यञ्जायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा ।
शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा ॥ २६॥
ब्रह्माण्डं क्षुभितं सर्वं वसुधा कम्पिता तदा ।
समुद्राश्च समुद्विग्नास्त्रेसुश्च जलजन्तवः ॥ २७॥
ववुर्वातास्तथा चोग्राः पर्वताश्च चकम्पिरे ।
उल्कापाता महोत्पाता बभूवुर्दुःखशंसिनः ॥ २८॥
दिशो घोरतराश्चासन्सूर्योऽप्यस्तङ्गतोऽभवत् ।
चिन्तामापुः सुराः सर्वे किं भविष्यति दुर्दिने ॥ २९॥
एवं चिन्तयतां तेषां मूर्धा विष्णोः सकुण्डलः ।
गतः समुकुटः क्वापि देवदेवस्य तापसाः ॥ ३०॥
अन्धकारे तदा घोरे शान्ते ब्रह्महरौ तदा ।
शिरोहीनं शरीरं तु ददृशाते विलक्षणम् ॥ ३१॥
दृष्ट्वा कबन्धं विष्णोस्ते विस्मिताः सुरसत्तमाः ।
चिन्तासागरमग्नाश्च रुरुदुः शोककर्शिताः ॥ ३२॥
हा नाथ किं प्रभो जातमत्यद्भुतममानुषम् ।
वैशसं सर्वदेवानां देवदेव सनातन ॥ ३३॥
मायेयं कस्य देवस्य यया तेऽद्य शिरो हृतम् ।
अच्छेद्यस्त्वमभेद्योऽसि अप्रदाह्योऽसि सर्वदा ॥ ३४॥
एवं गते त्वयि विभो मरिष्यन्ति च देवताः ।
कीदृशस्त्वयि नः स्नेहः स्वार्थेनैव रुदामहे ॥ ३५॥
नायं विघ्नः कृतो दैत्यैर्न यक्षैर्न च राक्षसैः ।
देवैरेव कृतः कस्य दूषणं च रमापते ॥ ३६॥
पराधीनाः सुराः सर्वे किं कुर्मः क्व व्रजाम च ।
शरणं नैव देवेश सुराणां मूढचेतसाम् ॥ ३७॥
न चैषा सात्त्विकी माया राजसी न च तामसी ।
यया छिन्नं शिरस्तेऽद्य मायेशस्य जगद्गुरोः ॥ ३८॥
क्रन्दमानांस्तदा दृष्ट्वा देवाञ्छिवपुरोगमान् ।
बृहस्पतिस्तदोवाच शमयन्वेदवित्तमः ॥ ३९॥
रुदितेन महाभागाः क्रन्दितेन तथापि किम् ।
उपायश्चात्र कर्तव्यः सर्वथा बुद्धिगोचरः ॥ ४०॥
दैवं पुरुषकारश्च देवेश सदृशावुभौ ।
उपायश्च विधातव्यो दैवात्फलति सर्वथा ॥ ४१॥
इन्द्र उवाच ।
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
विष्णोरपि शिरश्छिन्नं सुराणां चैव पश्यताम् ॥ ४२॥
ब्रह्मोवाच ।
अवश्यमेव भोक्तव्यं कालेनापादितं च यत् ।
शुभं वाप्यशुभं वापि दैवं कोऽतिक्रमेत्पुनः ॥ ४३॥
देहवान्सुखदुःखानां भोक्ता नैवात्र संशयः ।
यथा कालवशात्कृत्तं शिरो मे शम्भुना पुरा ॥ ४४॥
तथैव लिङ्गपातश्च महादेवस्य शापतः ।
तथैवाद्य हरेर्मूर्धा पतितो लवणाम्भसि ॥ ४५॥
सहस्रभगसम्प्राप्तिर्दुःखं चैव शचीपतेः ।
स्वर्गाद्भ्रंशस्तथा वासः कमले मानसे सरे ॥ ४६॥
एते दुःखस्य भोक्तारः केन दुःखं न भुज्यते ।
संसारेऽस्मिन्महाभागास्तस्माच्छोकं त्यजन्तु वै ॥ ४७॥
चिन्तयन्तु महामायां विद्यादेवीं सनातनीम् ।
सा विधास्यति नः कार्यं निर्गुणा प्रकृतिः परा ॥ ४८॥
ब्रह्मविद्यां जगद्धात्रीं सर्वेषां जननीं तथा ।
यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ४९॥
सूत उवाच ।
इत्युक्त्वा वै सुरान्वेधा निगमानादिदेश ह ।
देहयुक्तान्स्थितानग्रे सुरकार्यार्थसिद्धये ॥ ५०॥
ब्रह्मोवाच ।
स्तुवन्तु परमां देवीं ब्रह्मविद्यां सनातनीम् ।
गूढाङ्गीं च महामायां सर्वकार्यार्थसाधनीम् ॥ ५१॥
तच्छ्रुत्वा वचनं तस्य वेदाः सर्वाङ्गसुन्दराः ।
तुष्टुवुर्ज्ञानगम्यां तां महामायां जगत्स्थिताम् ॥ ५२॥
वेदा ऊचुः ।
नमो देवि महामाये विश्वोत्पत्तिकरे शिवे ।
निर्गुणे सर्वभूतेशि मातः शङ्करकामदे ॥ ५३॥
त्वं भूमिः सर्वभूतानां प्राणाः प्राणवतां तथा ।
धीः श्रीः कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः ॥ ५४॥
त्वमुद्गीथेऽर्धमात्रासि गायत्री व्याहृतिस्तथा ।
जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया ॥ ५५॥
त्वां संस्तुमोऽम्ब भुवनत्रयसंविधान-
दक्षां दयारसयुतां जननीं जनानाम् ।
विद्यां शिवां सकललोकहितां वरेण्यां
वाग्बीजवासनिपुणां भवनाशकर्त्रीम् ॥ ५६॥
ब्रह्मा हरः शौरिसहस्रनेत्र-
वाग्वह्निसूर्या भुवनाधिनाथाः ।
ते त्वत्कृताः सन्ति ततो न मुख्या
माता यतस्त्वं स्थिरजङ्गमानाम् ॥ ५७॥
सकलभुवनमेतत्कर्तुकामा यदा त्वं
सृजसि जननि देवान्विष्णुरुद्राजमुख्यान् ।
स्थितिलयजननं तैः कारयस्येकरूपा
न खलु तव कथञ्चिद्देवि संसारलेशः ॥ ५८॥
न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो
न नाम्नां सङ्ख्यां ते कथितुमिह योग्योऽस्ति पुरुषः ।
यदल्पं कीलालं कलयितुमशक्तः स तु नरः
कथं पारावाराकलनचतुरः स्यादृतमतिः ॥ ५९॥
न देवानां मध्ये भगवति तवानन्तविभवं
विजानात्येकोऽपि त्वमिह भुवनैकासि जननी ।
कथं मिथ्या विश्वं सकलमपि चैका रचयसि
प्रमाणं त्वेतस्मिन्निगमवचनं देवि विहितम् ॥ ६०॥
निरीहैवासि त्वं निखिलजगतां कारणमहो
चरित्रं ते चित्रं भगवति मनो नो व्यथयति ।
कथङ्कारं वाच्यः सकलनिगमागोचरगुण-
प्रभावः स्वं यस्मात्स्वयमपि न जानासि परमम् ॥ ६१॥
न किं जानासि त्वं जननि मधुजिन्मौलिपतनम् ॥
शिवे किं वा ज्ञात्वा विविदिषसि शक्तिं मधुजितः ।
हरेः किं वा मातर्दुरितततिरेषा बलवती ॥
भवत्याः पादाब्जे भजननिपुणे क्वास्ति दुरितम् ॥ ६२॥
उपेक्षा किं चेयं तव सुरसमूहेऽतिविषमा ॥
हरेर्मूर्ध्नो नाशो मतमिह महाश्चर्यजनकम् ।
महद्दुःखं मातस्त्वमसि जननच्छेदकुशला ॥
न जानीमो मौलेर्विघटनविलम्बः कथमभूत् ॥ ६३॥
ज्ञात्वा दोषं सकलसुरतापादितं देवि चित्ते
किं वा विष्णावमरजनितं दुष्कृतं पातितं ते ।
विष्णोर्वा किं समरजनितः कोऽपि गर्वोऽतिवेगा-
च्छेत्तुं मातस्तव विलसितं नैव विद्मोऽत्र भावम् ॥ ६४॥
किं वा दैत्यैः समरविजितैस्तीर्थदेशे सुरम्ये
घोरं तप्त्वा भगवति वरं लब्धवद्भिर्भवत्याः ।
अन्तर्धानं गमितमधुना विष्णुशीर्षं भवानि
द्रष्टुं किं वा विगतशिरसं वासुदेवं विनोदः ॥ ६५॥
सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये
कस्मादेनां प्रेक्षसे नाथहीनाम् ।
क्षन्तव्यस्ते स्वांशजातापराधो
व्युत्थाप्यैनं मोदिता मां कुरुष्व ॥ ६६॥
एते सुरास्त्वां सततं नमन्ति
कार्येषु मुख्याः प्रथितप्रभावाः ।
शोकार्णवात्तारय देवि देवा-
नुत्थाप्य देवं सकलाधिनाथम् ॥ ६७॥
मूर्धा गतः क्वाम्ब हरेर्न विद्मो
नान्योऽस्त्युपायः खलु जीवनेऽद्य ।
यथा सुधा जीवनकर्मदक्षा
तथा जगज्जीवितदासि देवि ॥ ६८॥
सूत उवाच ।
एवं स्तुता तदा देवी गुणातीता महेश्वरी ।
प्रसन्ना परमा माया वेदैः साङ्गैश्च सामगैः ॥ ६९॥
तानुवाच तदा वाणी चाकाशस्थाशरीरिणी ।
देवान्प्रति सुखैः शब्दैर्जनानन्दकरी शुभा ॥ ७०॥
मा कुरुध्वं सुराश्चिन्तां स्वस्थास्तिष्ठन्तु चामराः ।
स्तुताहं निगमैः कामं सन्तुष्टास्मि न संशयः ॥ ७१॥
यः पुमान्मानुषे लोके स्तौत्येतां मामकीं स्तुतिम् ।
पतिष्यति सदा भक्त्या सर्वान्कामानवाप्नुयात् ॥ ७२॥
शृणोति वा स्तोत्रमिदं मदीयं
भक्त्या त्रिकालं सततं नरो यः ।
विमुक्तदुःखः स भवेत्सुखी च
वेदोक्तमेतन्ननु वेदतुल्यम् ॥ ७३॥
शृण्वन्तु कारणं चाद्य यद्गतं वदनं हरेः ।
अकारणं कथं कार्यं संसारेऽत्र भविष्यति ॥ ७४॥
उदधेस्तनयां विष्णुः संस्थितामन्तिके प्रियाम् ।
जहास वदनं वीक्ष्य तस्यास्तत्र मनोरमम् ॥ ७५॥
तया ज्ञातं हरिर्नूनं कथं मां हसति प्रभुः ।
विरूपं हरिणा दृष्टं मुखं मे केन हेतुना ॥ ७६॥
विनापि कारणेनाद्य कथं हास्यस्य सम्भवः ।
सपत्नीव कृता तेन मन्येऽन्या वरवर्णिनी ॥ ७७॥
ततः कोपयुता जाता महालक्ष्मी तमोगुणा ।
तामसी तु तदा शक्तिस्तस्या देहे समाविशत् ॥ ७८॥
केनचित्कालयोगेन देवकार्यार्थसिद्धये ।
प्रविष्टा तामसी शक्तिस्तस्या देहेऽतिदारुणा ॥ ७९॥
तामस्याविष्टदेहा सा चुकोपातिशयं तदा ।
शनकैः समुवाचेदमिदं पततु ते शिरः ॥ ८०॥
स्त्रीस्वभावाच्च भावित्वात्कालयोगाद्विनिर्गतः ।
अविचार्य तदा दत्तः शापः स्वसुखनाशनः ॥ ८१॥
सपत्नीसम्भवं दुःखं वैधव्यादधिकं त्विति ।
विचिन्त्य मनसेत्युक्तं तामसीशक्तियोगतः ॥ ८२॥
अनृतं साहसं माया मूर्खत्वमतिलोभता ।
अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ ८३॥
सशीर्षं वासुदेवं तं करोम्यद्य यथा पुरा ।
शिरोऽस्य शापयोगेन निमग्नं लवणाम्बुधौ ॥ ८४॥
अन्यच्च कारणं किञ्चिद्वर्तते सुरसत्तमाः ।
भवतां च महत्कार्यं भविष्यति न संशयः ॥ ८५॥
पुरा दैत्यो महाबाहुर्हयग्रीवोऽतिविश्रुतः ।
तपश्चक्रे सरस्वत्यास्तीरे परमदारुणम् ॥ ८६॥
जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम ।
निराहारो जितात्मा च सर्वभोगविवर्जितः ॥ ८७॥
ध्यायन्मां तामसीं शक्तिं सर्वभूषणभूषिताम् ।
एवं वर्षसहस्रं च तपश्चक्रेऽतिदारुणम् ॥ ८८॥
तदाहं तामसं रूपं कृत्वा तत्र समागता ।
दर्शने पुरतस्तस्य ध्यातं तत्तेन यादृशम् ॥ ८९॥
सिंहोपरि स्थिता तत्र तमवोचं दयान्विता ।
वरं ब्रूहि महाभाग ददामि तव सुव्रत ॥ ९०॥
इति श्रुत्वा वचो देव्या दानवः प्रेमपूरितः ।
प्रदक्षिणां प्रणामं च चकार त्वरितस्तदा ॥ ९१॥
दृष्ट्वा रूपं मदीयं स प्रेमोस्फुल्लविलोचनः ।
हर्षाश्रुपूर्णनयनस्तुष्टाव स च मां तदा ॥ ९२॥
हयग्रीव उवाच ।
नमो देव्यै महामाये सृष्टिस्थित्यन्तकारिणि ।
भक्तानुग्रहचतुरे कामदे मोक्षदे शिवे ॥ ९३॥
धराम्बुतेजःपवनखपञ्चानां च कारणम् ।
त्वं गन्धरसरूपाणां कारणं स्पर्शशब्दयोः ॥ ९४॥
घ्राणं च रसना चक्षुस्त्वक्श्रोत्रमिन्द्रियाणि च ।
कर्मेन्द्रियाणि चान्यानि त्वत्तः सर्वं महेश्वरि ॥ ९५॥
देव्युवाच ।
किं तेऽभीष्टं वरं ब्रूहि वाञ्छितं यद्ददामि तत् ।
परितुष्टास्मि भक्त्या ते तपसा चाद्भुतेन च ॥ ९६॥
हयग्रीव उवाच ।
यथा मे मरणं मातर्न भवेत्तत्तथा कुरु ।
भवेयममरो योगी तथाजेयः सुरासुरैः ॥ ९७॥
देव्युवाच ।
जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।
मर्यादा चेदृशी लोके भवेच्च कथमन्यथा ॥ ९८॥
एवं त्वं निश्चयं कृत्वा मरणे राक्षसोत्तम ।
वरं वरय चेष्टं ते विचार्य मनसा किल ॥ ९९॥
हयग्रीव उवाच ।
हयग्रीवाच्च मे मृत्युर्नान्यस्माज्जगदम्बिके ।
इति मे वाञ्छितं कामं पूरयस्व मनोगतम् ॥ १००॥
देव्युवाच ।
गृहं गच्छ महाभाग कुरु राज्यं यथासुखम् ।
हयग्रीवादृते मृत्युर्न ते नूनं भविष्यति ॥ १०१॥
इति दत्त्वा वरं तस्मा अन्तर्धानं गता तथा ।
मुदं परमिकां प्राप्य सोऽपि स्वभवनं गतः ॥ १०२॥
स पीडयति दुष्टात्मा मुनीन् वेदांश्च सर्वशः ।
न कोऽपि विद्यते तस्य हन्ताद्य भुवनत्रये ॥ १०३॥
तस्माच्छीर्षं हयस्यास्य समुद्धृत्य मनोहरम् ।
देहेऽत्र विशिरोविष्णोस्त्वष्टा संयोजयिष्यति ॥ १०४॥
हयग्रीवोऽथ भगवान्हनिष्यति तमासुरम् ।
पापिष्ठं दानवं क्रूरं देवानां हितकाम्यया ॥ १०५॥
सूत उवाच ।
एवं सुरांस्तदाभाष्य शर्वाणी विरराम ह ।
देवास्तदातिसन्तुष्टास्तमूचुर्देवशिल्पिनम् ॥ १०६॥
देवा ऊचुः ।
कुरु कार्यं सुराणां वै विष्णोः शीर्षाभियोजनम् ।
दानवप्रवरं दैत्यं हयग्रीवो हनिष्यति ॥ १०७॥
सूत उवाच ।
इति श्रुत्वा वचस्तेषां त्वष्टा चातित्वरान्वितः ।
वाजिशीर्षं चकर्ताशु खड्गेन सुरसन्निधौ ॥ १०८॥
विष्णोः शरीरे तेनाशु योजितं वाजिमस्तकम् ।
हयग्रीवो हरिर्जातो महामायाप्रसादतः ॥ १०१॥
कियता तेन कालेन दानवो मददर्पितः ।
निहतस्तरसा सङ्ख्ये देवानां रिपुरोजसा ॥ ११०॥
य इदं शुभमाख्यानं शृण्वन्ति भुवि मानवाः ।
सर्वदुःखविनिर्मुक्तास्ते भवन्ति न संशयः ॥ १११॥
महामायाचरित्रञ्च पवित्रं पापनाशनम् ।
पठतां शृण्वतां चैव सर्वसम्पत्तिकारकम् ॥ ११२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे हयग्रीवावतारकथनं नाम पञ्चमोऽध्यायः ॥ १.५॥
१.६ षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।
ऋषय ऊचुः ।
सौम्य यच्च त्वया प्रोक्तं शौरेर्युद्धं महार्णवे ।
मधुकैटभयोः सार्धं पञ्चवर्षसहस्रकम् ॥ १॥
कस्मात्तौ दानवौ जातौ तस्मिन्नेकार्णवे जले ।
महावीर्यो दुराधर्षौ देवैरपि सुदुर्जयौ ॥ २॥
कथं तावसुरौ जातौ कथं च हरिणा हतौ ।
तदाचक्ष्व महाप्राज्ञ चरितं परमाद्भुतम् ॥ ३॥
श्रोतुकामा वयं सर्वे त्वं वक्ता च बहुश्रुतः ।
दैवाच्चात्रैव सञ्जातः संयोगश्च तथावयोः ॥ ४॥
मूर्खेण सह संयोगो विषादपि सुदुर्जरः ।
विज्ञेन सह संयोगः सुधारससमः स्मृतः ॥ ५॥
जीवन्ति पशवः सर्वे खादन्ति मेहयन्ति च ।
जानन्ति विषयाकारं व्यवायसुखमद्भुतम् ॥ ६॥
न तेषां सदसज्ज्ञानं विवेको न च मोक्षदः ।
पशुभिस्ते समा ज्ञेया येषां न श्रवणादरः ॥ ७॥
मृगाद्याः पशवः केचिज्जानन्ति श्रावणं सुखम् ।
अश्रोत्राः फणिनश्चैव मुमुहुर्नादपानतः ॥ ८॥
पञ्चानामिन्द्रियाणां वै शुभे श्रवणदर्शने ।
श्रवणाद्वस्तुविज्ञानं दर्शनाच्चित्तरञ्जनम् ॥ ९॥
श्रवणं त्रिविधं प्रोक्तं सात्त्विकं राजसं तथा ।
तामसं च महाभाग सुज्ञोक्तं निश्चयान्वितम् ॥ १०॥
सात्त्विकं वेदशास्त्रादि साहित्यं चैव राजसम् ।
तामसं युद्धवार्ता च परदोषप्रकाशनम् ॥ ११॥
सात्त्विकं त्रिविधं प्रोक्तं प्रज्ञावद्भिश्च पण्डितैः ।
उत्तमं मध्यमं चैव तथैवाधममित्युत ॥ १२॥
उत्तमं मोक्षफलदं स्वर्गदं मध्यमं तथा ।
अधमं भोगदं प्रोक्तं निर्णीय विदितं बुधैः ॥ १३॥
साहित्यं चैव त्रिविधं स्वीयायां चोत्तमं स्मृतम् ।
मध्यमं वारयोषायां परोढायां तथाधमम् ॥ १४॥
तामसं त्रिविधं ज्ञेयं विद्वद्भिः शास्त्रदर्शिभिः ।
आततायिनियुद्धं यत्तदुत्तममुदाहृतम् ॥ १५॥
मध्यमं चापि विद्वेषात्पाण्डवानां तथारिभिः ।
अधमं निर्निमित्तं तु विवादे कलहे तथा ॥ १६॥
तदत्र श्रवणं मुख्यं पुराणस्य महामते ।
बुद्धिप्रवर्धनं पुण्यं ततः पापप्रणाशनम् ॥ १७॥
तदाख्याहि महाबुद्धे कथां पौराणिकीं शुभाम् ।
श्रुतां द्वैपायनात्पूर्वं सर्वार्थस्य प्रसाधिनीम् ॥ १८॥
सूत उवाच ।
यूयं धन्या महाभागा धन्योऽहं पृथिवीतले ।
येषां श्रवणबुद्धिश्च ममापि कथने किल ॥ १९॥
पुरा चैकार्णवे जाते विलीने भुवनत्रये ।
शेषपर्यङ्कसुप्ते च देवदेवे जनार्दने ॥ २०॥
विष्णुकर्णमलोद्भूतौ दानवौ मधुकैटभौ ।
महाबलौ च तौ दैत्यौ विवृद्धौ सागरे जले ॥ २१॥
कीडमानौ स्थितौ तत्र विचरन्तावितस्ततः ।
तावेकदा महाकायौ क्रीडासक्तौ महार्णवे ॥ २२॥
चिन्तामवापतुश्चित्ते भ्रातराविव संस्थितौ ।
नाकारणं भवेत्कार्यं सर्वत्रैषा परम्परा ॥ २३॥
आधेयं तु विनाधारं न तिष्ठति कथञ्चन ।
आधाराधेयभावस्तु भाति नो चित्तगोचरः ॥ २४॥
क्व तिष्ठति जलं चेदं सुखरूपं सुविस्तरम् ।
केन सृष्टं कथं जातं मग्नावावाञ्जले स्थितौ ॥ २५॥
आवां वा कथमुत्पन्नौ केन वोत्पादितावुभौ ।
पितरौ क्वेति विज्ञानं नास्ति कामं तथावयोः ॥ २६॥
सूत उवाच ।
एवं कामयमानौ तौ जग्मतुर्न विनिश्चयम् ।
उवाच कैटभस्तत्र मधुं पार्श्वे स्थितं जले ॥ २७॥
कैटभ उवाच ।
मधो वामत्र सलिले स्थातुं शक्तिर्महाबला ।
वर्तते भ्रातरचला कारणं सा हि मे मता ॥ २८॥
तया ततमिदं तोयं तदाधारं च तिष्ठति ।
सा एव परमा देवी कारणञ्च तथावयोः ॥ २९॥
एवं विबुध्यमानौ तौ चिन्ताविष्टौ यदासुरौ ।
तदाकाशे श्रुतं ताभ्यां वाग्बीजं सुमनोहरम् ॥ ३०॥
गृहीतं च ततस्ताभ्यां तस्याभ्यासो दृढः कृतः ।
तदा सौदामनी दृष्टा ताभ्यां खे चोत्थिता शुभा ॥ ३१॥
ताभ्यां विचारितं तत्र मन्त्रोऽयं नात्र संशयः ।
तथा ध्यानमिदं दृष्टं गगने सगुणं किल ॥ ३२॥
निराहारौ जितात्मानौ तन्मनस्कौ समाहितौ ।
बभूवतुर्विचिन्त्यैवं जपध्यानपरायणौ ॥ ३३॥
एवं वर्षसहस्रं तु ताभ्यां तप्तं महत्तपः ।
प्रसन्ना परमा शक्तिर्जाता सा परमा तयोः ॥ ३४॥
खिन्नौ तौ दानवौ दृष्ट्वा तपसे कृतनिश्चयौ ।
तयोरनुग्रहार्थाय वागुवाचाशरीरिणी ॥ ३५॥
वरं वां वाञ्छितं दैत्यौ ब्रूतं परमसम्मतम् ।
ददामि परितुष्टास्मि युवयोस्तपसा किल ॥ ३६॥
सूत उवाच ।
इति श्रुत्वा तु तां वाणीं दानवावूचतुस्तदा ।
स्वेच्छया मरणं देवि वरं नौ देहि सुव्रते ॥ ३७॥
वागुवाच ।
वाञ्छितं मरणं दैत्यौ भवेद्वा मत्प्रसादतः ।
अजेयौ देवदैत्यैश्च भ्रातरौ नात्र संशयः ॥ ३८॥
सूत उवाच ।
इति दत्तवरौ देव्या दानवौ मददर्पितौ ।
चक्रतुः सागरे क्रीडां यादोगणसमन्वितौ ॥ ३९॥
कालेन कियता विप्रा दानवाभ्यां यदृच्छया ।
दृष्टः प्रजापतिर्ब्रह्मा पद्मासनगतः प्रभुः ॥ ४०॥
दृष्ट्वा तु मुदितावास्तां युद्धकामौ महाबलौ ।
तमूचतुस्तदा तत्र युद्धं नौ देहि सुव्रत ॥ ४१॥
नोचेत्पद्मं परित्यज्य यथेष्टं गच्छ माचिरम् ।
यदि त्वं निर्बलश्चासि क्व योग्यं शुभमासनम् ॥ ४२॥
वीरभोग्यमिदं स्थानं कातरोऽसि त्यजाशु वै ।
तयोरिति वचः श्रुत्वा चिन्तामाप प्रजापतिः ॥ ४३॥
दृष्ट्वा च बलिनौ वीरौ किं करोमीति तापसः ।
चिन्ताविष्टस्तदा तस्थौ चिन्तयन्मनसा तदा ॥ ४४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे मधुकैटभयोर्युद्धोद्योगवर्णनं नाम षष्ठोऽध्यायः ॥ १.६॥
१.७ सप्तमोऽध्यायः । विष्णुप्रबोधः ।
सूत उवाच ।
तौ वीक्ष्य बलिनौ ब्रह्मा तदोपायानचिन्तयत् ।
सामदानभिदादींश्च युद्धान्तान्सर्वतन्त्रवित् ॥ १॥
न जानेऽहं बलं नूनमेतयोर्वा यथातथम् ।
अज्ञाते तु बले कामं नैव युद्धं प्रशस्यते ॥ २॥
स्तुतिं करोमि चेदद्य दुष्टयोर्मदमत्तयोः ।
प्रकाशितं भवेन्नूनं निर्बलत्वं मया स्वयम् ॥ ३॥
वधिष्यति तदैकोऽपि निर्बलत्वे प्रकाशिते ।
दानं नैवाद्य योग्यं वा भेदः कार्यो मया कथम् ॥ ४॥
विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्दनम् ।
चतुर्भुजं महावीर्यं दुःखहा स भविष्यति ॥ ५॥
इति सञ्चिन्त्य मनसा पद्मनालगतोऽब्जजः ।
जगाम शरणं विष्णुं मनसा दुःखनाशकम् ॥ ६॥
तुष्टाव बोधनार्थं तं शुभैः सम्बोधनैर्हरिम् ।
नारायणं जगन्नाथं निस्पन्दं योगनिद्रया ॥ ७॥
ब्रह्मोवाच ।
दीननाथ हरे विष्णो वामनोत्तिष्ठ माधव ।
भक्तार्तिहृद्धृषीकेश सर्वावास जगत्पते ॥ ८॥
अन्तर्यामिन्नमेयात्मन्वासुदेव जगत्पते ।
दुष्टारिनाशनैकाग्रचित्त चक्रगदाधर ॥ ९॥
सर्वज्ञ सर्वलोकेश सर्वशक्तिसमन्वित ।
उत्तिष्ठोत्तिष्ठ देवेश दुःखनाशन पाहि माम् ॥ १०॥
विश्वम्भर विशालाक्ष पुण्यश्रवणकीर्तन ।
जगद्योने निराकार सर्गस्थित्यन्तकारक ॥ ११॥
इमौ दैत्यौ महाराज हन्तुकामौ मदोद्धतौ ।
न जानास्यखिलाधार कथं मां सङ्कटे गतम् ॥ १२॥
उपेक्षसेऽतिदुःखार्तं यदि मां शरणं गतम् ।
पालकत्वं महाविष्णो निराधारं भवेत्ततः ॥ १३॥
एवं स्तुतोऽपि भगवान् न बुबोध यदा हरिः ।
योगनिद्रासमाक्रान्तस्तदा ब्रह्मा ह्यचिन्तयत् ॥ १४॥
नूनं शक्तिसमाक्रान्तो विष्णुर्निद्रावशं गतः ।
जजागार न धर्मात्मा किं करोम्यद्य दुःखितः ॥ १५॥
हन्तुकामावुभौ प्राप्तौ दानवौ मदगर्वितौ ।
किं करोमि क्व गच्छामि नास्ति मे शरणं क्वचित् ॥ १६॥
इति सञ्चिन्त्य मनसा निश्चयं प्रतिपद्य च ।
तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ॥ १७॥
विचार्य मनसाप्येवं शक्तिर्मे रक्षणे क्षमा ।
यया ह्यचेतनो विष्णुः कृतोऽस्ति स्पन्दवर्जितः ॥ १८॥
व्यसुर्यथा न जानाति गुणाच्छब्दादिकानिह ।
तथा हरिर्न जानाति निद्रामीलितलोचनः ॥ १९॥
न जहाति यतो निद्रां बहुधा संस्तुतोऽप्यसौ ।
मन्ये नास्य वशे निद्रा निद्रयायं वशीकृतः ॥ २०॥
यो यस्य वशमापन्तः स तस्य किङ्करः किल ।
तस्माच्च योगनिद्रेयं स्वामिनी मापतेर्हरेः ॥ २१॥
सिन्धुजाया अपि वशे यया स्वामी वशीकृतः ।
नूनं जगदिदं सर्वं भगवत्या वशीकृतम् ॥ २२॥
अहं विष्णुस्तथा शम्भुः सावित्री च रमाप्युमा ।
सर्वे वयं वशे यस्या नात्र किञ्चिद्विचारणा ॥ २३॥
हरिरप्यवशः शेते यथान्यः प्राकृतो जनः ।
ययाभिभूतः का वार्ता किलान्येषां महात्मनाम् ॥ २४॥
स्तौम्यद्य योगनिद्रां वै यया मुक्तो जनार्दनः ।
घटयिष्यति युद्धे च वासुदेवः सनातनः ॥ २५॥
इति कृत्वा मतिं ब्रह्मा पद्मनालस्थितस्तदा ।
तुष्टाव योगनिद्रां तां विष्णोरङ्गेषु संस्थिताम् ॥ २६॥
ब्रह्मोवाच ।
देवि त्वमस्य जगतः किल कारणं हि
ज्ञातं मया सकलवेदवचोभिरम्ब ।
यद्विष्णुरप्यखिललोकविवेककर्ता
निद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥ २७॥
को वेद ते जननि मोहविलासलीलां
मूढोऽस्म्यहं हरिरयं विवशश्च शेते ।
ईदृक्तया सकलभूतमनोनिवासे
विद्वत्तमो विबुधकोटिषु निर्गुणायाः ॥ २८॥
साङ्ख्या वदन्ति पुरुषं प्रकृतिं च यां तां
चैतन्यभावरहितां जगतश्च कर्त्रीम् ।
किं तादृशासि कथमत्र जगन्निवास-
श्चैतन्यताविरहितो विहितस्त्वयाद्य ॥ २९॥
नाट्यं तनोषि सगुणा विविधप्रकारं
नो वेत्ति कोऽपि तव कृत्यविधानयोगम् ।
ध्यायन्ति यां मुनिगणा नियतं त्रिकालं
सन्ध्येति नाम परिकल्प्य गुणान् भवानि ॥ ३०॥
बुद्धिर्हि बोधकरणा जगतां सदा त्वं
श्रीश्चासि देवि सततं सुखदा सुराणाम् ।
कीर्तिस्तथा मतिधृती किल कान्तिरेव
श्रद्धा रतिश्च सकलेषु जनेषु मातः ॥ ३१॥
नातः परं किल वितर्कशतैः प्रमाणं
प्राप्तं मया यदिह दुःखगतिं गतेन ।
त्वं चात्र सर्वजगतां जननीति सत्यं
निद्रालुतां वितरता हरिणात्र दृष्टम् ॥ ३२॥
त्वं देवि वेदविदुषामपि दुर्विभाव्या
वेदोऽपि नूनमखिलार्थतया न वेद ।
यस्मात्त्वदुद्भवमसौ श्रुतिराप्नुवाना
प्रत्यक्षमेव सकलं तव कार्यमेतत् ॥ ३३॥
कस्ते चरित्रमखिलं भुवि वेद धीमा-
न्नाहं हरिर्न च भवो न सुरास्तथान्ये ।
ज्ञातुं क्षमाश्च मुनयो न ममात्मजाश्च
दुर्वाच्य एव महिमा तव सर्वलोके ॥ ३४॥
यज्ञेषु देवि यदि नाम न ते वदन्ति
स्वाहेति वेदविदुषो हवने कृतेऽपि ।
न प्राप्नुवन्ति सततं मखभागधेयं
देवास्त्वमेव विबुधेष्वपि वृत्तिदासि ॥ ३५॥
त्राता वयं भगवति प्रथमं त्वया वै
देवारिसम्भवभयादधुना तथैव ।
भीतोऽस्मि देवि वरदे शरणं गतोऽस्मि
घोरं निरीक्ष्य मधुना सह कैटभं च ॥ ३६॥
नो वेत्ति विष्णुरधुना मम दुःखमेत-
ज्जाने त्वयात्मविवशीकृतदेहयष्टिः ।
मुञ्चादिदेवमथवा जहि दानवेन्द्रौ
यद्रोचते तव कुरुष्व महानुभावे ॥ ३७॥
जानन्ति ये न तव देवि परं प्रभावं
ध्यायन्ति ते हरिहरावपि मन्दचित्ताः ।
ज्ञातं मयाद्य जननि प्रकटं प्रमाणं
यद्विष्णुरप्यतितरां विवशोऽथ शेते ॥ ३८॥
सिन्धूद्भवापि न हरिं प्रतिबोधितुं वै
शक्ता पतिं तव वशानुगमद्य शक्त्या ।
मन्ये त्वया भगवति प्रसभं रमापि
प्रस्वापिता न बुबुधे विवशीकृतेव ॥ ३९॥
धन्यास्त एव भुवि भक्तिपरास्तवाङ्घ्रौ
त्यक्त्वान्यदेवभजनं त्वयि लीनभावाः ।
कुर्वन्ति देवि भजनं सकलं निकामं
ज्ञात्वा समस्तजननीं किल कामधेनुम् ॥ ४०॥
धीकान्तिकीर्तिशुभवृत्तिगुणादयस्ते
विष्णोर्गुणास्तु परिहृत्य गताः क्व चाद्य ।
बन्दीकृतो हरिरसौ ननु निद्रयात्र
शक्त्या तवैव भगवत्यतिमानवत्याः ॥ ४१॥
त्वं शक्तिरेव जगतामखिलप्रभावा
त्वन्निर्मितं च सकलं खलु भावमात्रम् ।
त्वं क्रीडसे निजविनिर्मितमोहजाले
नाट्ये यथा विहरते स्वकृते नटो वै ॥ ४२॥
विष्णुस्त्वया प्रकटितः प्रथमं युगादौ
दत्ता च शक्तिरमला खलु पालनाय ।
त्रातं च सर्वमखिलं विवशीकृतोऽद्य
यद्रोचते तव तथाम्ब करोषि नूनम् ॥ ४३॥
सृष्ट्वात्र मां भगवति प्रविनाशितुं चे-
न्नेच्छास्ति ते कुरु दयां परिहृत्य मौनम् ।
कस्मादिमौ प्रकटितौ किल कालरूपौ
यद्वा भवानि हसितुं नु किमिच्छसे माम् ॥ ४४॥
ज्ञातं मया तव विचेष्टितमद्भुतं वै
कृत्वाखिलं जगदिदं रमसे स्वतन्त्रा ।
लीनं करोषि सकलं किल मां तथैव
हन्तुं त्वमिच्छसि भवानि किमत्र चित्रम् ॥ ४५॥
कामं कुरुष्व वधमद्य ममैव मात-
र्दुःखं न मे मरणजं जगदम्बिकेऽत्र ।
कर्ता त्वयैव विहितः प्रथमं स चायं
दैत्याहतोऽथ मृत इत्ययशो गरिष्ठम् ॥ ४६॥
उत्तिष्ठ देवि कुरु रूपमिहाद्भुतं त्वं
मां वा त्विमौ जहि यथेच्छसि बाललीले ।
नो चेत्प्रबोधय हरिं निहनेदिमौ य-
स्त्वत्साध्यमेतदखिलं किल कार्यजातम् ॥ ४७॥
सूत उवाच ।
एवं स्तुता तदा देवी तामसी तत्र वेधसा ।
निःसृत्य हरिदेहात्तु संस्थिता पार्श्वतस्तदा ॥ ४८॥
त्यक्त्वाङ्गानि च सर्वाणि विष्णोरतुलतेजसः ।
निर्गता योगनिद्रा सा नाशाय च तयोस्तदा ॥ ४९॥
विस्पन्दितशरीरोऽसौ यदा जातो जनार्दनः ।
धाता परमिकां प्राप्तो मुदं दृष्ट्वा हरिं ततः ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे विष्णुप्रबोधो नाम सप्तमोऽध्यायः ॥ १.७॥
१.८ अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।
ऋषय ऊचुः ।
सन्देहोऽत्र महाभाग कथायां तु महाद्भुतः ।
वेदशास्त्रपुराणैश्च निश्चितं तु सदा बुधैः ॥ १॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवाः सनातनाः ।
नातः परतरं किञ्चिद्ब्रह्माण्डेऽस्मिन्महामते ॥ २॥
ब्रह्मा सृजति लोकान्वै विष्णुः पात्यखिलं जगत् ।
रुद्रः संहरते काले त्रय एतेऽत्र कारणम् ॥ ३॥
एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
रजःसत्त्वतमोभिश्च संयुताः कार्यकारकाः ॥ ४॥
तेषां मध्ये हरिः श्रेष्ठो माधवः पुरुषोत्तमः ।
आदिदेवो जगन्नाथः समर्थः सर्वकर्मसु ॥ ५॥
नान्यः कोऽपि समर्थोऽस्ति विष्णोरतुलतेजसः ।
स कथं स्वापितः स्वामी विवशो योगमायया ॥ ६॥
क्व गतं तस्य विज्ञानं जीवतश्चेष्टितं कुतः ।
सन्देहोऽयं महाभाग कथयस्व यथाशुभम् ॥ ७॥
का सा शक्तिः पुरा प्रोक्ता यया विष्णुजितः प्रभुः ।
कुतो जाता कथं शक्ता का शक्तिर्वद सुव्रत ॥ ८॥
यस्तु सर्वेश्वरो विष्णुर्वासुदेवो जगद्गुरुः ।
परमात्मा परानन्दः सच्चिदानन्दविग्रहः ॥ ९॥
सर्वकृत्सर्वभृत्स्रष्टा विरजः सर्वगः शुचिः ।
स कथं निद्रया नीतः परतन्त्रः परात्परः ॥ १०॥
एतदाश्चर्यभूतो हि सन्देहो नः परन्तप ।
छिन्धि ज्ञानासिना सूत व्यासशिष्य महामते ॥ ११॥
सूत उवाच ।
कः सन्देहं भिनत्त्येनं त्रैलोक्ये सचराचरे ।
मुह्यन्ति मुनयः कामं ब्रह्मपुत्राः सनातनाः ॥ १२॥
नारदः कपिलश्चैव प्रश्नेऽस्मिन्मुनिसत्तमाः ।
किं ब्रवीमि महाभागा दुर्घटेऽस्मिन्विमर्शने ॥ १३॥
देवेषु विष्णुः कथितः सर्वगः सर्वपालकः ।
यतो विराडिदं सर्वमुत्पन्नं सचराचरम् ॥ १४॥
ते सर्वे समुपासन्ते नत्वा देवं परात्परम् ।
नारायणं हृषीकेशं वासुदेवं जनार्दनम् ॥ १५॥
तथा केचिन्महादेवं शङ्करं शशिशेखरम् ।
त्रिनेत्रं पञ्चवक्त्रं च शूलपाणिं वृषध्वजम् ॥ १६॥
तथा वेदेषु सर्वेषु गीतं नाम्ना त्रियम्बकम् ।
कपर्दिनं पञ्चवक्त्रं गौरीदेहार्धधारिणम् ॥ १७॥
कैलासवासनिरतं सर्वशक्तिसमन्वितम् ।
भूतवृन्दयुतं देवं दक्षयज्ञविघातकम् ॥ १८॥
तथा सूर्यं वेदविदः सायम्प्रातर्दिने दिने ।
मध्याह्ने तु महाभागाः स्तुवन्ति विविधैः स्तवैः ॥ १९॥
तथा वेदेषु सर्वेषु सूर्योपासनमुत्तमम् ।
परमात्मेति विख्यातं नाम तस्य महात्मनः ॥ २०॥
अग्निः सर्वत्र वेदेषु संस्तुतो वेदवित्तमैः ।
इन्द्रश्चापि त्रिलोकेशो वरुणश्च तथापरः ॥ २१॥
यथा गङ्गा प्रवाहैश्च बहुभिः परिवर्तते ।
तथैव सर्वदेवेषु विष्णुः प्रोक्तो महर्षिभिः ॥ २२॥
त्रीण्येव हि प्रमाणानि पठितानि सुपण्डितैः ।
प्रत्यक्षं चानुमानं च शाब्दं चैव तृतीयकम् ॥ २३॥
चत्वार्येवेतरे प्राहुरुपमानयुतानि च ।
अर्थापत्तियुतान्यन्ये पञ्च प्राहुर्महाधियः ॥ २४॥
सप्त पौराणिकाश्चैव प्रवदन्ति मनीषिणः ।
एतैः प्रमाणैर्दुर्ज्ञेयं यद्ब्रह्म परमं च तत् ॥ २५॥
वितर्कश्चात्र कर्तव्यो बुद्ध्या चैवागमेन च ।
निश्चयात्मिकया युक्त्या विचार्य च पुनः पुनः ॥ २६॥
प्रत्यक्षतस्तु विज्ञानं चिन्त्यं मतिमता सदा ।
दृष्टान्तेनापि सततं शिष्टमार्गानुसारिणा ॥ २७॥
विद्वांसोऽपि वदन्त्येवं पुराणैः परिगीयते ।
द्रुहिणे सृष्टिशक्तिश्च हरौ पालनशक्तिता ॥ २८॥
हरे संहारशक्तिश्च सूर्ये शक्तिः प्रकाशिका ।
धराधरणशक्तिश्च शेषे कूर्मे तथैव च ॥ २९॥
साद्या शक्तिः परिणता सर्वस्मिन्या प्रतिष्ठिता ।
दाहशक्तिस्तथा वह्नौ समीरे प्रेरणात्मिका ॥ ३०॥
शिवोऽपि शवतां याति कुण्डलिन्या विवर्जितः ।
शक्तिहीनस्तु यः कश्चिदसमर्थः स्मृतो बुधैः ॥ ३१॥
एवं सर्वत्र भूतेषु स्थावरेषु चरेषु च ।
ब्रह्मादिस्तम्बपर्यन्तं ब्रह्माण्डेऽस्मिन्महातपाः ॥ ३२॥
शक्तिहीनं तु निन्द्यं स्याद्वस्तुमात्रं चराचरम् ।
अशक्तः शत्रुविजये गमने भोजने तथा ॥ ३३॥
एवं सर्वगता शक्तिः सा ब्रह्मेति विविच्यते ।
सोपास्या विविधैः सम्यग्विचार्या सुधिया सदा ॥ ३४॥
विष्णौ च सात्त्विकी शक्तिस्तया हीनोऽप्यकर्मकृत् ।
द्रुहिणे राजसी शक्तिर्यया हीनो ह्यसृष्टिकृत् ॥ ३५॥
शिवे च तामसी शक्तिस्तया संहारकारकः ।
इत्यूह्यं मनसा सर्वं विचार्य च पुनः पुनः ॥ ३६॥
शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् ।
इच्छया संहरत्येषा जगदेतच्चराचरम् ॥ ३७॥
न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः ।
न सूर्यो वरुणः शक्तः स्वे स्वे कार्ये कथञ्चन ॥ ३८॥
तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः ।
सैव कारणकार्येषु प्रत्यक्षेणावगम्यते ॥ ३९॥
सगुणा निर्गुणा सा तु द्विधा प्रोक्ता मनीषिभिः ।
सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः ॥ ४०॥
धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला ।
ददाति वाच्छितान्कामान्पूजिता विधिपूर्वकम् ॥ ४१॥
न जानन्ति जना मूढास्तां सदा माययावृताः ।
जानन्तोऽपि नराः केचिन्मोहयन्ति परानपि ॥ ४२॥
पण्डिताः स्वोदरार्थं वै पाखण्डानि पूथक्पृथक् ।
प्रवर्तयन्ति कलिना प्रेरिता मन्दचेतसः ॥ ४३॥
कलावस्मिन्महाभागा नानाभेदसमुत्थिताः ।
नान्ये युगे तथा धर्मा वेदबाह्याः कथञ्चन ॥ ४४॥
विष्णुश्चरत्यसावुग्र तपो वर्षाण्यनेकशः ।
ब्रह्मा हरस्त्रयो देवा ध्यायन्तः कमपि धुवम् ॥ ४५॥
कामयानाः सदा कामं ते त्रयः सर्वदैव हि ।
यजन्ति यज्ञान्विविधान्ब्रह्मविष्णुमहेश्वराः ॥ ४६॥
ते वै शक्तिं परां देवीं ब्रह्माख्यां परमात्मिकाम् ।
ध्यायन्ति मनसा नित्यं नित्यां मत्वा सनातनीम् ॥ ४७॥
तस्माच्छक्तिः सदा सेव्या विद्वद्भिः कृतनिश्चयैः ।
निश्चयः सर्वशास्त्राणां ज्ञातव्यो मुनिसत्तमाः ॥ ४८॥
कृष्णाच्छ्रुतं मया चैतत्तेन ज्ञातं तु नारदात् ।
पितुः सकाशात्तेनापि ब्रह्मणा विष्णुवाक्यतः ॥ ४९॥
न श्रोतव्यं न मन्तव्यमन्येषां वचनं बुधैः ।
शक्तिरेव सदा सेव्या विद्वद्भिः कृतनिश्चयैः ॥ ५०॥
प्रत्यक्षमपि द्रष्टव्यमशक्तस्य विचेष्टितम् ।
अतः सर्वेषु भूतेषु ज्ञातव्या शक्तिरेव हि ॥ ५१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे आराध्यनिर्णयवर्णनं नामाष्टमोऽध्यायः ॥ १.८॥
१.९ नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।
सूत उवाच ।
यदा विनिर्गता निद्रा देहात्तस्य जगद्गुरोः ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ १॥
निःसृत्य गगने तस्थौ तामसी शक्तिरुत्तमा ।
उदतिष्ठज्जगन्नाथो जृम्भमाणः पुनः पुनः ॥ २॥
तदापश्यत् स्थितं तत्र भयत्रस्तं प्रजापतिम् ।
उवाच च महातेजा मेघगम्भीरया गिरा ॥ ३॥
विष्णुरुवाच ।
किमागतोऽसि भगवंस्तपस्त्यक्त्वात्र पद्मज ।
कस्माच्चिन्तातुरोऽसि त्वं भयाकुलितमानसः ॥ ४॥
ब्रह्मोवाच ।
त्वत्कर्णमलजौ देव दैत्यौ च मधुकैटभौ ।
हन्तुं मां समुपायातौ घोररूपौ महाबलौ ॥ ५॥
भयात्तयोः समायातस्त्वत्समीपं जगत्पते ।
त्राहि मां वासुदेवाद्य भयत्रस्तं विचेतनम् ॥ ६॥
विष्णुरुवाच ।
तिष्ठाद्य निर्भयो जातस्तौ हनिष्याम्यहं किल ।
युद्धायाजग्मतुर्मूढौ मत्समीपं गतायुषौ ॥ ७॥
सूत उवाच ।
एवं वदति देवेशे दानवौ तौ महाबलौ ।
विचिन्वानावजं चोभौ सम्प्राप्तौ मदगर्वितौ ॥ ८॥
निराधारौ जले तत्र संस्थितौ विगतज्वरौ ।
तावूचतुर्मदोन्मत्तौ ब्रह्माणं मुनिसत्तमाः ॥ ९॥
पलायित्वा समायातः सन्निधावस्य किं ततः ।
युद्धं कुरु हनिष्यावः पश्यतोऽस्यैव सन्निधौ ॥ १०॥
पश्चादेनं हनिष्यावः सर्पभोगोपरिस्थितम् ।
त्वमद्य कुरु सङ्ग्रामं दासोऽस्मीति च वा वद ॥ ११॥
सूत उवाच ।
तच्छ्रुत्वा वचनं विष्णुस्तावुवाच जनार्दनः ।
कुरुतं समरं कामं मया दानवपुङ्गवौ ॥ १२॥
हरिष्यामि मदं चाहं युवयोर्मत्तयोः किल ।
आगच्छतं महाभागौ श्रद्धा चेद्वां महाबलौ ॥ १३॥
सूत उवाच ।
श्रुत्वा तद्वचनं चोभौ क्रोधव्याकुललोचनौ ।
निराधारौ जलस्थौ च युद्धोद्युक्तौ बभूवतुः ॥ १४॥
मधुश्च कुपितस्तत्र हरिणा सह संयुगम् ।
कर्तुं प्रचलितस्तूर्णं कैटभस्तु तथा स्थितः ॥ १५॥
बाहुयुद्धं तयोरासीन्मल्लयोरिव मत्तयोः ।
श्रान्ते मधौ कैटभस्तु सङ्ग्राममकरोत्तदा ॥ १६॥
पुनर्मधुः कैटभश्च युयुधाते पुनः पुनः ।
बाहुयुद्धेन रागान्धौ विष्णुना प्रभविष्णुना ॥ १७॥
प्रेक्षकस्तु तदा ब्रह्मा देवी चैवान्तरिक्षगा ।
न मम्लतुस्तदा तौ तु विष्णुस्तु ग्लानिमाप्तवान् ॥ १८॥
पञ्चवर्षसहस्राणि यदा जातानि युद्ध्यता ।
हरिणा चिन्तितं तत्र कारणं मरणे तयोः ॥ १९॥
पञ्चवर्षसहस्राणि मया युद्धं कृतं किल ।
न श्रान्तौ दानवौ घोरौ श्रान्तोऽहं चैतदद्भुतम् ॥ २०॥
क्व गतं मे बलं शौर्यं कस्माच्चेमावनामयौ ।
किमत्र कारणं चिन्त्यं विचार्य मनसा त्विह ॥ २१॥
इति चिन्तापरं दृष्ट्वा हरिं हर्षपरावुभौ ।
ऊचतुस्तौ मदोन्मत्तौ मेघमम्भीरनिःस्वनौ ॥ २२॥
तव नोचेद्बलं विष्णो यदि श्रान्तोऽसि युद्धतः ।
ब्रूहि दासोऽस्मि वां नूनं कृत्वा शिरसि चाञ्जलिम् ॥ २३॥
न चेद्युद्धं कुरुष्वाद्य समर्थोऽसि महामते ।
हत्वा त्वां निहनिष्यावः पुरुषं च चतुर्मुखम् ॥ २४॥
सूत उवाच ।
श्रुत्वा तद्भाषितं विष्णुस्तयोस्तस्मिन्महोदधौ ।
उवाच वचनं श्लक्ष्णं सामपूर्वं महामनाः ॥ २५॥
हरिरुवाच ।
श्रान्ते भीते त्यक्तशस्त्रे पतिते बालके तथा ।
प्रहरन्ति न वीरास्ते धर्म एष सनातनः ॥ २६॥
पञ्चवर्षसहस्राणि कृतं युद्धं मया त्विह ।
एकोऽहं भ्रातरौ वां च बलिनौ सदृशौ तथा ॥ २७॥
कृतं विश्रमणं मध्ये युवाभ्यां च पुनः पुनः ।
तथा विश्रमणं कृत्वा युध्येऽहं नात्र संशयः ॥ २८॥
तिष्ठतं हि युवां तावद्बलवन्तौ मदोत्कटौ ।
विश्रम्याहं करिष्यामि युद्धं वा न्यायमार्गतः ॥ २९॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्य विश्रब्धौ दानवोत्तमौ ।
संस्थितौ दूरतस्तत्र सङ्ग्रामे कृतनिश्चयौ ॥ ३०॥
अतिदूरे च तौ दृष्ट्वा वासुदेवश्चतुर्भुजः ।
दध्यौ च मनसा तत्र कारणं मरणे तयोः ॥ ३१॥
चिन्तनाज्ज्ञानमुत्पन्नं देवीदत्तवरावुभौ ।
कामं वाञ्छितमरणौ न मम्लतुरतस्त्विमौ ॥ ३२॥
वृथा मया कृतं युद्धं श्रमोऽयं मे वृथा गतः ।
करोमि च कथं युद्धमेवं ज्ञात्वा विनिश्चयम् ॥ ३३॥
अकृते च तथा युद्धे कथमेतौ गमिष्यतः ।
विनाशं दुःखदौ नित्यं दानवौ वरदर्पितौ ॥ ३४॥
भगवत्या वरो दत्तस्तया सोऽपि च दुर्घटः ।
मरणं चेच्छया कामं दुःखितोऽपि न वाञ्छति ॥ ३५॥
रोगग्रस्तोऽपि दीनोऽपि न मुमूर्षति कश्चन ।
कथं चेमौ मदोन्मत्तौ मर्तुकामौ भविष्यतः ॥ ३६॥
नन्वद्य शरणं यामि विद्यां शक्तिं सुकामदाम् ।
विना तया न सिध्यन्ति कामाः सम्यक्प्रसन्नया ॥ ३७॥
एवं सञ्चिन्त्यमानस्तु गगने संस्थितां शिवाम् ।
अपश्यद्भगवान्विष्णुर्योगनिद्रां मनोहराम् ॥ ३८॥
कृताज्जलिरमेयात्मा तां च तुष्टाव योगवित् ।
विनाशार्थं तयोस्तत्र वरदां भुवनेश्वरीम् ॥ ३९॥
विष्णुरुवाच ।
नमो देवि महामाये सृष्टिसंहारकारिणि ।
अनादिनिधने चण्डि भुक्तिमुक्तिप्रदे शिवे ॥ ४०॥
न ते रूपं विजानामि सगुणं निर्गुणं तथा ।
चरित्राणि कुतो देवि सङ्ख्यातीतानि यानि ते ॥ ४१॥
अनुभूतो मया तेऽद्य प्रभावश्चातिदुर्घटः ।
यदहं निद्रया लीनः सञ्जातोऽस्मि विचेतनः ॥ ४२॥
ब्रह्मणा चातियत्नेन बोधितोऽपि पुनः पुनः ।
न प्रबुद्धः सर्वथाहं सङ्कोचितषडिन्द्रियः ॥ ४३॥
अचेतनत्वं सम्प्राप्तः प्रभावात्तव चाम्बिके ।
त्वया मुक्तः प्रबुद्धोऽहं युद्धं च बहुधा कृतम् ॥ ४४॥
श्रान्तोऽहं न च तौ श्रान्तौ त्वया दत्तवरौ वरौ ।
ब्रह्माणं हन्तुमायातौ दानवौ मदगर्वितौ ॥ ४५॥
आहूतौ च मया कामं द्वन्द्वयुद्धाय मानदे ।
कृतं युद्धं महाघोरं मया ताभ्यां महार्णवे ॥ ४६॥
मरणे वरदानं ते ततो ज्ञातं महाद्भुतम् ।
ज्ञात्वाहं शरणं प्राप्तस्त्वामद्य शरणप्रदाम् ॥ ४७॥
साहाय्यं कुरु मे मातः खिन्नोऽहं युद्धकर्मणा ।
दृप्तौ तौ वरदानेन तव देवार्तिनाशने ॥ ४८॥
हन्तुं मामुद्यतौ पापौ किं करोमि क्व यामि च ।
इत्युक्ता सा तदा देवी स्मितपूर्वमुवाच ह ॥ ४९॥
प्रणमन्तं जगन्नाथं वासुदेवं सनातनम् ।
देवदेव हरे विष्णो कुरु युद्धं पुनः स्वयम् ॥ ५०॥
वञ्चयित्वा त्विमौ शूरौ हन्तव्यौ च विमोहितौ ।
मोहयिष्याम्यहं नूनं दानवौ वक्रया दृशा ॥ ५१॥
जहि नारायणाशु त्वं मम मायाविमोहितौ ।
सूत उवाच ।
तच्छ्रुत्वा वचनं विष्णुस्तस्याः प्रीतिरसान्वितम् ॥ ५२॥
सङ्ग्रामस्थलमासाद्य तस्थौ तत्र महार्णवे ।
तदायातौ च तौ वीरौ युद्धकामौ महाबलौ ॥ ५३॥
वीक्ष्य विष्णुं स्थितं तत्र हर्षयुक्तौ बभूवतुः ।
तिष्ठ तिष्ठ महाकाम कुरु युद्धं चतुर्भुज ॥ ५४॥
दैवाधीनौ विदित्वाद्य नूनं जयपराजयौ ।
सबलो जयमाप्नोति दैवाज्जयति दुर्बलः ॥ ५५॥
सर्वथैव न कर्तव्यौ हर्षशोकौ महात्मना ।
पुरा वै बहवो दैत्या जिता दानववैरिणा ॥ ५६॥
अधुना चावयोः सार्धं युध्यमानः पराजितः ।
सूत उवाच ।
इत्युक्त्वा तौ महाबाहू युद्धाय समुपस्थितौ ॥ ५७॥
वीक्ष्य विष्णुर्जघानाशु मुष्टिनाद्भुतकर्मणा ।
तावप्यतिबलोन्मत्तौ जध्नतुर्मुष्टिना हरिम् ॥ ५८॥
एवं परस्परं जातं युद्धं परमदारुणम् ।
युध्यमानौ महावीर्यौ दृष्ट्वा नारायणस्तदा ॥ ५९॥
अपश्यत्सम्मुखं देव्याः कृत्वा दीनां दृशं हरिः ।
सूत उवाच ।
तं वीक्ष्य तादृशं विष्णुं करुणारससंयुतम् ॥ ६०॥
जहासातीव ताम्राक्षी वीक्षमाणा तदासुरौ ।
तौ जघान कटाक्षैश्च कामबाणैरिवापरैः ॥ ६१॥
मन्दस्मितयुतैः कामं प्रेमभावयुतैरनु ।
दृष्ट्वा मुमुहतुः पापौ देव्या वक्रविलोकनम् ॥ ६२॥
विशेषमिति मन्वानौ कामबाणातिपीडितौ ।
वीक्षमाणौ स्थितौ तत्र तां देवीं विशदप्रभाम् ॥ ६३॥
हरिणापि च तद्दृष्टं देव्यास्तत्र चिकीर्षितम् ।
मोहितौ तौ परिज्ञाय भगवान्कार्यवित्तमः ॥ ६४॥
उवाच तौ हसन् श्लक्ष्णं मेघगम्भीरया गिरा ।
वरं वरयतां वीरौ युवयोर्योऽभिवाच्छितः ॥ ६५॥
ददामि परमप्रीतो युद्धेन युवयोः किल ।
दानवा बहवो दृष्टा युध्यमाना मया पुरा ॥ ६६॥
युवयोः सदृशः कोऽपि न दृष्टो न च वै श्रुतः ।
तस्मात्तुष्टोऽस्मि कामं वै निस्तुलेन बलेन च ॥ ६७॥
भ्रात्रोश्च वाञ्छितं कामं प्रयच्छामि महाबलौ ।
सूत उवाच ।
तच्छ्रुत्वा वचनं विष्णोः साभिमानौ स्मरातुरौ ॥ ६८॥
वीक्षमाणौ महामायां जगदानन्दकारिणीम् ।
तमूचतुश्च कामार्तौ विष्णुं कमललोचनौ ॥ ६९॥
हरे न याचकावावां त्वं किं दातुमिहेच्छसि ।
ददाव तुल्यं देवेश दातारौ नौ न याचकौ ॥ ७०॥
प्रार्थय त्वं हृषीकेश मनोऽभिलषितं वरम् ।
तुष्टौ स्वस्तव युद्धेन वासुदेवाद्भुतेन च ॥ ७१॥
तयोस्तद्वचनं श्रुत्वा प्रत्युवाच जनार्दनः ।
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ ७२॥
सूत उवाच ।
तच्छ्रुत्वा वचनं विष्णोर्दानवौ चातिविस्मितौ ।
वञ्चिताविति मन्वानौ तस्थतुः शोकसंयुतौ ॥ ७३॥
विचार्य मनसा तौ तु दानवौ विष्णुमूचतुः ।
प्रेक्ष्य सर्वं जलमयं भूमिं स्थलविवर्जिताम् ॥ ७४॥
हरे योऽयं वरो दत्तस्त्वया पूर्वं जनार्दन ।
सत्यवागसि देवेश देहि तं वाञ्छितं वरम् ॥ ७५॥
निर्जले विपुले देशे हनस्व मधुसूदन ।
वध्यावावां तु भवतः सत्यवाग्भव माधव ॥ ७६॥
स्मृत्वा चक्रं तदा विष्णुस्तावुवाच हसन्हरिः ।
हन्म्यद्य वां महाभागौ निर्जले विपुले स्थले ॥ ७७॥
इत्युक्त्या देवदेवेश ऊरू कृत्वातिविस्तरौ ।
दर्शयामास तौ तत्र निर्जलं च जलोपरि ॥ ७८॥
नास्त्यत्र दानवौ वारि शिरसी मुञ्चतामिह ।
सत्यवागहमद्यैव भविष्यामि च वां तथा ॥ ७९॥
तदाकर्ण्य वचस्तथ्यं विचिन्त्य मनसा च तौ ।
वर्धयामासतुर्देहं योजनानां सहस्रकम् ॥ ८०॥
भगवान्द्विगुणं चक्रे जघनं विस्मितौ तदा ।
शीर्षे सन्दधतां तत्र जघने परमाद्भुते ॥ ८१॥
रथाङ्गेन तदा छिन्ने विष्णुना प्रभविष्णुना ।
जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः ॥ ८२॥
गतप्राणौ तदा जातौ दानवौ मधुकैटभौ ।
सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः ॥ ८३॥
मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः ।
अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः ॥ ८४॥
इति वः कथितं सर्वं यत्पृष्टोऽस्मि सुनिश्चितम् ।
महाविद्या महामाया सेवनीया सदा बुधैः ॥ ८५॥
आराध्या परमा शक्तिः सर्वैरपि सुरासुरैः ।
नातः परतरं किञ्चिदधिकं भुवनत्रये ॥ ८६॥
सत्यं सत्यं पुनः सत्यं वेदशास्त्रार्थनिर्णयः ।
पूजनीया परा शक्तिर्निर्गुणा सगुणाथवा ॥ ८७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे हरिकृतमधुकैटभवधवर्णनं नाम नवमोऽध्यायः ॥ १.९॥
१.१० दशमोऽध्यायः । शिववरदानवर्णनम् ।
ऋषय ऊचुः ।
सूत पूर्वं त्वया प्रोक्तं व्यासेनामिततेजसा ।
कृत्वा पुराणमखिलं शुकायाध्यापितं शुभम् ॥ १॥
व्यासेन तु तपस्तप्त्वा कथमुत्पादितः शुकः ।
विस्तरं ब्रूहि सकलं यच्छ्रुतं कृष्णतस्त्वया ॥ २॥
सूत उवाच ।
प्रवक्ष्यामि शुकोत्पत्तिं व्यासात्सत्यवतीसुतात् ।
यथोत्पन्नः शुकः साक्षाद्योगिनां प्रवरो मुनिः ॥ ३॥
मेरुशृङ्गे महारम्ये व्यासः सत्यवतीसुतः ।
तपश्चचार सोऽत्युग्रं पुत्रार्थं कृतनिश्चयः ॥ ४॥
जपन्नेकाक्षरं मन्त्रं वाग्बीजं नारदाच्छ्रुतम् ।
ध्यायन्परां महामायां पुत्रकामस्तपोनिधिः ॥ ५॥
अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाप्ययम् ।
वीर्येण सम्मितः पुत्रो मम भूयादिति स्म ह ॥ ६॥
अतिष्ठत्स गताहारः शतसंवत्सरं प्रभुः ।
आराधयन्महादेवं तथैव च सदाशिवाम् ॥ ७॥
शक्तिः सर्वत्र पूज्येति विचार्य च पुनः पुनः ।
अशक्तो निन्द्यते लोके शक्तस्तु परिपूज्यते ॥ ८॥
यत्र पर्वतशृङ्गे वै कर्णिकारवनाद्भुते ।
क्रीडन्ति देवताः सर्वे मुनयश्च तपोऽधिकाः ॥ ९॥
आदित्या वसवो रुद्रा मरुतश्चाश्विनौ तथा ।
वसन्ति मुनयो यत्र ये चान्ये ब्रह्मवित्तमाः ॥ १०॥
तत्र हेमगिरेः शृङ्गे सङ्गीतध्वनिनादिते ।
तपश्चचार धर्मात्मा व्यासः सत्यवतीसुतः ॥ ११॥
ततोऽस्य तेजसा व्याप्तं विश्वं सर्वं चराचरम् ।
अग्निवर्णा जटा जाता पाराशर्यस्य धीमतः ॥ १२॥
ततोऽस्य तेज आलक्ष्य भयमाप शचीपतिः ।
तुरासाहं तदा दृष्ट्वा भयत्रस्तं श्रमातुरम् ॥ १३॥
उवाच भगवान् रुद्रो मघवन्तं तथास्थितम् ।
शङ्कर उवाच ।
कथमिन्द्राद्य भीतोऽसि किं दुःखं ते सुरेश्वर ॥ १४॥
अमर्षो नैव कर्तव्यस्तापसेषु कदाचन ।
तपश्चरन्ति मुनयो ज्ञात्वा मां शक्तिसंयुतम् ॥ १५॥
न त्वेतेऽहितमिच्छन्ति तापसाः सर्वथैव हि ।
इत्युक्तवचनः शक्रस्तमुवाच वृषध्वजम् ॥ १६॥
कस्मात्तपस्यति व्यासः कोऽर्थस्तस्य मनोगतः ।
शिव उवाच ।
पाराशर्यस्तु पुत्रार्थी तपश्चरति दुश्चरम् ॥ १७॥
पूर्णवर्षशतं जातं ददाम्यद्य सुतं शुभम् ।
सूत उवाच ।
इत्युक्त्या वासवं रुद्रो दयया मुदिताननः ॥ १८॥
गत्वा ऋषिसमीपं तु तमुवाच जगद्गुरुः ।
उत्तिष्ठ वासवीपुत्र पुत्रस्ते भविता शुभः ॥ १९॥
सर्वतेजोमयो ज्ञानी कीर्तिकर्ता तवानघ ।
अखिलस्य जनस्यात्र वल्लभस्ते सुतः सदा ॥ २०॥
भविष्यति गुणैः पूर्णः सात्त्विकैः सत्यविक्रमः ।
सूत उवाच ।
तदाकर्ण्य वचः श्लक्ष्णं कृष्णद्वैपायनस्तदा ॥ २१॥
शूलपाणिं नमस्कृत्य जगामाश्रममात्मनः ।
स गत्वाश्रममेवाशु बहुवर्षश्रमातुरः ॥ २२॥
अरणीसहितं गुह्यं ममन्थाग्निं चिकीर्षया ।
मन्थनं कुर्वतस्तस्य चित्ते चिन्ताभरस्तदा ॥ २३॥
प्रादुर्बभूव सहसा सुतोत्पत्तौ महात्मनः ।
मन्थानारणिसंयोगान्मन्थनाच्च समुद्भवः ॥ २४॥
पावकस्य यथा तद्वत्कथं मे स्यात्सुतोद्भवः ।
पुत्रारणिस्तु या ख्याता सा ममाद्य न विद्यते ॥ २५॥
तरुणी रूपसम्पन्ना कुलोत्पन्ता पतिव्रता ।
कथं करोमि कान्तां च पादयोः शृङ्खलासमाम् ॥ २६॥
पुत्रोत्पादनदक्षां च पातिव्रत्ये सदा स्थिताम् ।
पतिव्रतापि दक्षापि रूपवत्यपि कामिनी ॥ २७॥
सदा बन्धनरूपा च स्वेच्छासुखविधायिनी ।
शिवोऽपि वर्तते नित्यं कामिनीपाशसंयुतः ॥ २८॥
कथं करोम्यहं चात्र दुर्घटं च गृहाश्रमम् ।
एवं चिन्तयतस्तस्य घृताची दिव्यरूपिणी ॥ २९॥
प्राप्ता दृष्टिपथं तत्र समीपे गगने स्थिता ।
तां दृष्ट्वा चञ्चलापाङ्गीं समीपस्थां वराप्सराम् ॥ ३०॥
पञ्चबाणपरीताङ्गस्तूर्णमासीद्धृतव्रतः ।
चिन्तयामास च तदा किं करोम्यद्य सङ्कटे ॥ ३१॥
धर्मस्य पुरतः प्राप्ते कामभावे दुरासदे ।
अङ्गीकरोमि यद्येनां वञ्चनार्थमिहागताम् ॥ ३२॥
हसिष्यन्ति महात्मानस्तापसा मां तु विह्वलम् ।
तपस्तप्त्वा महाघोरं पूर्णवर्षशतं त्विह ॥ ३३॥
दृष्ट्वाप्सरां च विवशः कथं जातो महातपाः ।
कामं निन्दापि भवतु यदि स्यादतुलं सुखम् ॥ ३४॥
गहस्थाश्रमसम्भूतं सुखदं पुत्रकामदम् ।
स्वर्गदं च तथा प्रोक्तं ज्ञानिनां मोक्षदं तथा ॥ ३५॥
न भविष्यति तन्नूनमया देवकन्यया ।
नारदाच्च मया पूर्वं श्रुतमस्ति कथानकम् ।
यथोर्वशीवशो राजा पराभूतः पुरूरवाः ॥ ३६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे शिववरदानवर्णनं नाम दशमोऽध्यायः ॥ १.१०॥
१.११ एकादशोऽध्यायः । बुधोत्पत्तिः ।
ऋषय ऊचुः ।
कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका ।
कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना ॥ १॥
सर्वं कथानकं ब्रूहि लोमहर्षणजाधुना ।
श्रोतुकामा वयं सर्वे त्वन्मुखाब्जच्युतं रसम् ॥ २॥
अमृतादपि मिष्टा ते वाणी सूत रसात्मिका ।
न तृप्यामो वयं सर्वे सुधया च यथामराः ॥ ३॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे कथां दिव्यां मनोरमाम् ।
वक्ष्याम्यहं यथाबुद्ध्या श्रुतां व्यासवरोत्तमात् ॥ ४॥
गुरोस्तु दयिता भार्या तारा नामेति विश्रुता ।
रूपयौवनयुक्ता सा चार्वङ्गी मदविह्वला ॥ ५॥
गतैकदा विधोर्धाम यजमानस्य भामिनी ।
दृष्टा च शशिनात्यर्थं रूपयौवनशालिनी ॥ ६॥
कामातुरस्तदा जातः शशी शशिमुखीं प्रति ।
सापि वीक्ष्य विधुं कामं जाता मदनपीडिता ॥ ७॥
तावन्योन्यं प्रेमयुक्तौ स्मरार्तौ च बभूवतुः ।
तारा शशी मदोन्मत्तौ कामबाणप्रपीडितौ ॥ ८॥
रेमाते मदमत्तौ तौ परस्परस्पृहान्वितौ ।
दिनानि कतिचित्तत्र जातानि रममाणयोः ॥ ९॥
बृहस्पतिस्तु दुःखार्तस्तारामानयितुं गृहम् ।
प्रेषयामास शिष्यं तु नायाता सा वशीकृता ॥ १०॥
पुनः पुनर्यदा शिष्यं परावर्तत चन्द्रमाः ।
बृहस्पतिस्तदा क्रुद्धो जगाम स्वयमेव हि ॥ ११॥
गत्वा सोमगृहं तत्र वाचस्पतिरुदारधीः ।
उवाच शशिनं क्रुद्धः स्मयमानं मदान्वितम् ॥ १२॥
किं कृतं किल शीतांशो कर्म धर्मविगर्हितम् ।
रक्षिता मम भार्येयं सुन्दरी केन हेतुना ॥ १३॥
तव देव गुरुश्चाहं यजमानोऽसि सर्वथा ।
गुरुभार्या कथं मूढ भुक्ता किं रक्षिताथवा ॥ १४॥
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।
महापातकिनो ह्येते तत्संसर्गी च पञ्चमः ॥ १५॥
महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः ।
न देवसदनार्होऽसि यदि भुक्तेयमङ्गना ॥ १६॥
मुञ्चेमामसितापाङ्गीं नयामि सदनं मम ।
नोचेद्वक्ष्यामि दुष्टात्मन् गुरुदारापहारिणम् ॥ १७॥
इत्येवं भाषमाणं तमुवाच रोहिणीपतिः ।
गुरुं क्रोधसमायुक्तं कान्ताविरहदुःखितम् ॥ १८॥
इन्दुरुवाच ।
क्रोधात्ते तु दुराराध्या ब्राह्मणाः क्रोधवर्जिताः ।
पूजार्हा धर्मशास्त्रज्ञा वर्जनीयास्ततोऽन्यथा ॥ १९॥
आगमिष्यति सा कामं गृहं ते वरवर्णिनी ।
अत्रैव संस्थिता बाला का ते हानिरिहानघ ॥ २०॥
इच्छया संस्थिता चात्र सुखकामार्थिनी हि सा ।
दिनानि कतिचित्स्थित्वा स्वेच्छया चागमिष्यति ॥ २१॥
त्वयैवोदाहृतं पूर्वं धर्मशास्त्रमतं तथा ।
न स्त्री दुष्यति चारेण न विप्रो वेदकर्मणा ॥ २२॥
इत्युक्तः शशिना तत्र गुरुरत्यन्तदुःखितः ।
जगाम स्वगृहं तूर्णं चिन्ताविष्टः स्मरातुरः ॥ २३॥
दिनानि कतिचित्तत्र स्थित्वा चिन्तातुरो गुरुः ।
ययावथ गृहं तस्य त्वरितश्चौषधीपतेः ॥ २४॥
स्थितः क्षत्रा निषिद्धोऽसौ द्वारदेशे रुषान्वितः ।
नाजगाम शशी तत्र चुकोपाति बृहस्पतिः ॥ २५॥
अयं मे शिष्यतां यातो गुरुपत्नीं तु मातरम् ।
जग्राह बलतोऽधर्मी शिक्षणीयो मयाधुना ॥ २६॥
उवाच वाचं कोपात्तु द्वारदेशस्थितो बहिः ।
किं शेषे भवने मन्द पापाचार सुराधम ॥ २७॥
देहि मे कामिनीं शीघ्रं नोचेच्छापं ददाम्यहम् ।
करोमि भस्मसान्नूनं न ददासि प्रियां मम ॥ २८॥
सूत उवाच ।
क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः ।
श्रुत्वा द्विजपतिः शीघ्रं निर्गतः सदनाद्बहिः ॥ २९॥
तमुवाच हसन्सोमः किमिदं बहु भाषसे ।
न ते योग्यासितापाङ्गी सर्वलक्षणसंयुता ॥ ३०॥
कुरूपां च स्वसदृशीं गृहाणान्यां स्त्रियं द्विज ।
भिक्षुकस्य गृहे योग्या नेदृशी वरवर्णिनी ॥ ३१॥
रतिः स्वसदृशे कान्ते नार्याः किल निगद्यते ।
त्वं न जानासि मन्दात्मन् कामशास्त्रविनिर्णयम् ॥ ३२॥
यथेष्टं गच्छ दुर्बुद्धे नाहं दास्यामि कामिनीम् ।
यच्छक्यं कुरु तत्कामं न देया वरवर्णिनी ॥ ३३॥
कामार्तस्य च ते शापो न मां बाधितुमर्हति ।
नाहं ददे गुरो कान्तां यथेच्छसि तथा कुरु ॥ ३४॥
सूत उवाच ।
इत्युक्तः शशिना चेज्यश्चिन्तामाप रुषान्वितः ।
जगाम तरसा सद्म क्रोधयुक्तः शचीपतेः ॥ ३५॥
दृष्ट्वा शतक्रतुस्तत्र गुरुं दुःखातुरं स्थितम् ।
पाद्यार्घ्याचमनीयाद्यैः पूजयित्वा सुसंस्थितः ॥ ३६॥
पप्रच्छ परमोदारस्तं तथावस्थितं गुरुम् ।
का चिन्ता ते महाभाग शोकार्तोऽसि महामुने ॥ ३७॥
केनापमानितोऽसि त्वं मम राज्ये गुरुश्च मे ।
त्वदधीनमिदं सर्वं सैन्यं लोकाधिपैः सह ॥ ३८॥
बह्मा विष्णुस्तथा शम्भुर्ये चान्ये देवसत्तमाः ।
करिष्यन्ति च साहाय्यं का चिन्ता वद साम्प्रतम् ॥ ३९॥
गुरुरुवाच ।
शशिनापहृता भार्या तारा मम सुलोचना ।
न ददाति स दुष्टात्मा प्रार्थितोऽपि पुनः पुनः ॥ ४०॥
किं करोमि सुरेशान त्वमेव शरणं मम ।
साहाय्यं कुरु देवेश दुःखितोऽस्मि शतक्रतो ॥ ४१॥
इन्द्र उवाच ।
मा शोकं कुरु धर्मज्ञ दासोऽस्मि तव सुव्रत ।
आनयिष्याम्यहं नूनं भार्यां तव महामते ॥ ४२॥
प्रेषिते चेन्मया दूते न दास्यति मदाकुलः ।
ततो युद्धं करिष्यामि देवसैन्यैः समावृतः ॥ ४३॥
इत्याश्वास्य गुरुं शक्रो दूतं वक्तृविचक्षणम् ।
प्रेषयामास सोमाय वार्ताशंसिनमद्भुतम् ॥ ४४॥
स गत्वा शशिलोकं तु त्वरितः सुविचक्षणः ।
उवाच वचनेनैव वचनं रोहिणीपतिम् ॥ ४५॥
प्रेषितोऽहं महाभाग शक्रेण त्वां विवक्षया ।
कथितं प्रभुणा यच्च तद्ब्रवीमि महामते ॥ ४६॥
धर्मज्ञोऽसि महाभाग नीतिं जानासि सुव्रत ।
अत्रिः पिता ते धर्मात्मा न निद्यं कर्तुमर्हसि ॥ ४७॥
भार्या रक्ष्या सर्वभूतैर्यथाशक्ति ह्यतन्द्रितैः ।
तदर्थे कलहः कामं भविता नात्र संशयः ॥ ४८॥
यथा तव तथा तस्य यत्नः स्याद्दाररक्षणे ।
आत्मवत्सर्वभूतानि चिन्तय त्वं सुधानिधे ॥ ४९॥
अष्टाविंशतिसङ्ख्यास्ते कामिन्यो दक्षजाः शुभाः ।
गुरुपत्नीं कथं भोक्तुं त्वमिच्छसि सुधानिधे ॥ ५०॥
स्वर्गे सदा वसन्त्येता मेनकाद्या मनोरमाः ।
भुङ्क्ष्व ताः स्वेच्छया कामं मुञ्च पत्नीं गुरोरपि ॥ ५१॥
ईश्वरा यदि कुर्वन्ति जुगुप्सितमहन्तया ।
अज्ञास्तदनुवर्तन्ते तदा धर्मक्षयो भवेत् ॥ ५२॥
तस्मान्मुञ्च महाभाग गुरोः पत्नीं मनोरमाम् ।
कलहस्त्वन्निमित्तोऽद्य सुराणां न भवेद्यथा ॥ ५३॥
सूत उवाच ।
सोमः शक्रवचः श्रुत्वा किञ्चित्क्रोधसमाकुलः ।
भङ्ग्या प्रतिवचः प्राह शक्रदूतं तदा शशी ॥ ५४॥
इन्दुरावाच ।
धर्मज्ञोऽसि महाबाहो देवानामधिपः स्वयम् ।
पुरोधापि च ते तादृग्युवयोः सदृशी मतिः ॥ ५५॥
परोपदेशे कुशला भवन्ति बहवो जनाः ।
दुर्लभस्तु स्वयं कर्ता प्राप्ते कर्मणि सर्वदा ॥ ५६॥
बार्हस्पत्यप्रणीतं च शास्त्रं गृह्णन्ति मानवाः ।
को विरोधोऽत्र देवेश कामयानां भजन्स्त्रियम् ॥ ५७॥
स्वकीयं बलिनां सर्वं दुर्बलानां न किञ्चन ।
स्वीया च परकीया च भ्रमोऽयं मन्दचेतसाम् ॥ ५८॥
तारा मय्यनुरक्ता च यथा न तु तथा गुरौ ।
अनुरक्ता कथं त्याज्या धर्मतो न्यायतस्तथा ॥ ५९॥
गृहारम्भस्तु रक्तायां विरक्तायां कथं भवेत् ।
विरक्तेयं यदा जाता चकमेऽनुजकामिनीम् ॥ ६०॥
न दास्येऽहं वरारोहां गच्छ दूत वद स्वयम् ।
ईश्वरोऽसि सहस्राक्ष यदिच्छसि कुरुष्व तत् ॥ ६१॥
सूत उवाच ।
इत्युक्तः शशिना दूतः प्रययौ शक्रसन्निधिम् ।
इन्द्रायाचष्ट तत्सर्वं यदुक्तं शीतरश्मिना ॥ ६२॥
तुराषाडपि तच्छ्रुत्वा क्रोधयुक्तो बभूव ह ।
सेनोद्योगं तथा चक्रे साहाय्यार्थं गुरोर्विभुः ॥ ६३॥
शुक्रस्तु विग्रहं श्रुत्वा गुरुद्वेषात्ततो ययौ ।
मा ददस्वेति तं वाक्यमुवाच शशिनं प्रति ॥ ६४॥
साहाय्यं ते करिष्यामि मन्त्रशक्त्या महामते ।
भविता यदि सङ्ग्रामस्तव चेन्द्रेण मारिष ॥ ६५॥
शङ्करस्तु तदाकर्ण्य गुरुदाराभिमर्शनम् ।
गुरुशत्रुं भृगुं मत्वा साहाय्यमकरोत्तदा ॥ ६६॥
सङ्ग्रामस्तु तदा वृत्तो देवदानवयोर्द्रुतम् ।
बहूनि तत्र वर्षाणि तारकासुरवत्किल ॥ ६७॥
देवासुरकृतं युद्धं दृष्ट्वा तत्र पितामहः ।
हंसारूढो जगामाशु तं देशं क्लेशशान्तये ॥ ६८॥
राकापतिं तदा प्राह मुञ्च भार्यां गुरोरिति ।
नोचेद्विष्णुं समाहूय करिष्यामि तु सङ्क्षयम् ॥ ६९॥
भृगुं निवारयामास ब्रह्मा लोकपितामहः ।
किमन्यायमतिर्जाता सङ्गदोषान्महामते ॥ ७०॥
निषेधयामास ततो भृगुस्तं चौषधीपतिम् ।
मुञ्च भार्यां गुरोरद्य पित्राहं प्रेषितस्तव ॥ ७१॥
सूत उवाच ।
द्विजराजस्तु तच्छ्रुत्वा भृगोर्वचनमद्भुतम् ।
ददौ च तत्प्रियां भार्यां गुरोर्गर्भवतीं शुभाम् ॥ ७२॥
प्राप्य कान्तां गुरुर्हृष्टः स्वगृहं मुदितो ययौ ।
ततो देवास्ततो दैत्या ययुः स्वान्स्वान्गृहान्प्रति ॥ ७३॥
ब्रह्मा स्वसदनं प्राप्तः कैलासं चापि शङ्करः ।
बृहस्पतिस्तु सन्तुष्टः प्राप्य भार्यां मनोरमाम् ॥ ७४॥
ततः कालेन कियता तारासूत सुतं शुभम् ।
सुदिने शुभनक्षत्रे तारापतिसमं गुणैः ॥ ७५॥
दृष्ट्वा पुत्रं गुरुर्जातं चकार विधिपूर्वकम् ।
जातकर्मादिकं सर्वं प्रहृष्टेनान्तरात्मना ॥ ७६॥
श्रुतं चन्द्रमसा जन्म पुत्रस्य मुनिसत्तमाः ।
दूतं च प्रेषयामास गुरुं प्रति महामतिः ॥ ७७॥
न चायं तव पुत्रोऽस्ति मम वीर्यसमुद्भवः ।
कथं त्वं कृतवान्कामं जातकर्मादिकं विधिम् ॥ ७८॥
तच्छ्रुत्वा वचनं तस्य दूतस्य च बृहस्पतिः ।
उवाच मम पुत्रो मे सदृशो नात्र संशयः ॥ ७९॥
पुनर्विवादः सञ्जातो मिलिता देवदानवाः ।
युद्धार्थमागतास्तेषां समाजः समजायत ॥ ८०॥
तत्रागतः स्वयं ब्रह्मा शान्तिकामः प्रजापतिः ।
निवारयामास मुखे संस्थितान्युद्धदुर्मदान् ॥ ८१॥
तारां पप्रच्छ धर्मात्मा कस्यायं तनयः शुभे ।
सत्यं वद वरारोहे यथा क्लेशः प्रशाम्यति ॥ ८२॥
तमुवाचासितापाङ्गी लज्जमानाप्यधोमुखी ।
चन्द्रस्येति शनैरन्तर्जगाम वरवर्णिनी ॥ ८३॥
जग्राह तं सुतं सोमः प्रहृष्टेनान्तरात्मना ।
नाम चक्रे बुध इति जगाम स्वगृहं पुनः ॥ ८४॥
ययौ ब्रह्मा स्वकं धाम सर्वे देवाः सवासवाः ।
यथागतं गतं सर्वैः सर्वशः प्रेक्षकैर्जनैः ॥ ८५॥
कथितेयं बुधोत्पत्तिर्गुरुक्षेत्रे च सोमतः ।
यथा श्रुता मया पूर्वं व्यासात्सत्यवतीसुतात् ॥ ८६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे बुधोत्पत्तिर्नामेकादशोऽध्यायः ॥ १.११॥
१.१२ द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।
सूत उवाच ।
ततः पुरूरवा जज्ञे इलायां कथयामि वः ।
बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः ॥ १॥
सुद्युम्नो नाम भूपालः सत्यवादी जितेन्द्रियः ।
सैन्धवं हयमारुह्य चचार मृगयां वने ॥ २॥
युतः कतिपयामात्यैर्दर्शितश्चारुकुण्डलः ।
धनुराजगवं बद्ध्वा बाणसङ्घं तथाद्भुतम् ॥ ३॥
स भ्रमंस्तद्वनोद्देशे हन्यमानो रुरून्मृगान् ।
शशांश्च सूकरांश्चैव खड्गांश्च गवयांस्तथा ॥ ४॥
शरभान्महिषांश्चैव साम्भरान्वनकुक्कुटान् ।
निघ्नन्मेध्यान् पशून् राजा कुमारवनमाविशत् ॥ ५॥
मेरोरधस्तले दिव्यं मन्दारद्रुमराजितम् ।
अशोकलतिकाकीर्णं बकुलैरधिवासितम् ॥ ६॥
सालैस्तालैस्तमालैश्च चम्पकैः पनसैस्तथा ।
आम्रैर्नीपैर्मधूकैश्च माधवीमण्डपावृतम् ॥ ७॥
दाडिमैर्नारिकेलैश्च कदलीखण्डमण्डितम् ।
यूथिकामालतीकुन्दपुष्पवल्लीसमावृतम् ॥ ८॥
हंसकारण्डवाकीर्णं कीचकध्वनिनादितम् ।
भ्रमरालिरुतारामं वनं सर्वसुखावहम् ॥ ९॥
दृष्ट्वा प्रमुदितो राजा सुद्युम्नः सेवकैर्वृतः ।
वृक्षान्सुपुष्पितान्वीक्ष्य कोकिलारावमण्डितान् ॥ १०॥
प्रविष्टस्तत्र राजर्षिः स्त्रीत्वमाप क्षणात्ततः ।
अश्वोऽपि वडवा जातश्चिन्ताविष्टः स भूपतिः ॥ ११॥
किमेतदिति चिन्तार्तश्चिन्त्यमानः पुनः पुनः ।
दुःखं बहुतरं प्राप्तः सुद्युम्नो लज्जयान्वितः ॥ १२॥
किं करोमि कथं यामि गृहं स्त्रीभावसंयुतः ।
कथं राज्यं करिष्यामि केन वा वञ्चितो ह्यहम् ॥ १३॥
ऋषय ऊचुः ।
सूताश्चर्यमिदं प्रोक्तं त्वया यल्लोमहर्षण ।
सुद्युम्नः स्त्रीत्वमापन्नो भूपतिर्देवसन्निभः ॥ १४॥
किं तत्कारणमाचक्ष्व वने तत्र मनोहरे ।
किं कृतं तेन राज्ञा च विस्तरं वद सुव्रत ॥ १५॥
सूत उवाच ।
एकदा गिरिशं द्रष्टुमृषयः सनकादयः ।
दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ १६॥
तस्मिंश्च समये तत्र शङ्करः प्रमदायुतः ।
क्रीडासक्तो महादेवो विवस्त्रा कामिनी शिवा ॥ १७॥
उत्सङ्गे संस्थिता भर्तू रममाणा मनोरमा ।
तान्विलोक्याम्बिका देवी विवस्त्रा व्रीडिता भृशम् ॥ १८॥
भर्तुरङ्कात्समुत्थाय वस्त्रमादाय पर्यधात् ।
लज्जाविष्टा स्थिता तत्र वेपमानातिमानिनी ॥ १९॥
ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः ।
परिवृत्य ययुस्तूर्णं नरनारायणाश्रमम् ॥ २०॥
ह्रीयुतां कामिनीं वीक्ष्य प्रोवाच भगवान्हरः ।
कथं लज्जातुरासि त्वं सुखं ते प्रकरोम्यहम् ॥ २१॥
अद्यप्रभृति यो मोहात्पुमान्कोऽपि वरानने ।
वनं च प्रविशेदेतत्स वै योषिद्भविष्यति ॥ २२॥
इति शप्तं वनं तेन ये जानन्ति जनाः क्वचित् ।
वर्जयन्तीह ते कामं वनं दोषसमृद्धिमत् ॥ २३॥
सुद्युम्नस्तु तदज्ञानात्प्रविष्टः सचिवैः सह ।
तथैव स्त्रीत्वमापन्नस्तैः सहेति न संशयः ॥ २४॥
चिन्ताविष्टः स राजर्षिर्न जगाम गृहं ह्रिया ।
विचचार बहिस्तस्माद्वनदेशादितस्ततः ॥ २५॥
इलेति नाम सम्प्राप्तं स्त्रीत्वे तेन महात्मना ।
विचरंस्तत्र सम्प्राप्तो बुधः सोमसुतो युवा ॥ २६॥
स्त्रीभिः परिवृतां तां तु दृष्ट्वा कान्तां मनोरमाम् ।
हावभावकलायुक्तां चकमे भगवाम्बुधः ॥ २७॥
सापि तं चकमे कान्तं बुधं सोमसुतं पतिम् ।
संयोगस्तत्र सञ्जातस्तयोः प्रेम्णा परस्परम् ॥ २८॥
स तस्यां जनयामास पुरूरवसमात्मजम् ।
इलायां सोमपुत्रस्तु चक्रवर्तिनमुत्तमम् ॥ २९॥
सा प्रासूत सुतं बाला चिन्ताविष्टा वने स्थिता ।
सस्मार स्वकुलाचार्यं वसिष्ठं मुनिसत्तमम् ॥ ३०॥
स तदास्य दशां दृष्ट्वा सुद्युम्नस्य कृपान्वितः ।
अतोषयन्महादेवं शङ्करं लोकशङ्करम् ॥ ३१॥
तस्मै स भगवांस्तुष्टः प्रददौ वाञ्छितं वरम् ।
वसिष्ठः प्रार्थयामास पुंस्त्वं राज्ञः प्रियस्य च ॥ ३२॥
शङ्करस्तु निजां वाचमृतां कुर्वन्नुवाच ह ।
मासं पुमांस्तु भविता मासं स्त्री भूपतिः किल ॥ ३३॥
इत्थं प्राप्य वरं राजा जगाम स्वगृहं पुनः ।
चक्रे राज्यं स धर्मात्मा वसिष्ठस्याप्यनुग्रहात् ॥ ३४॥
स्त्रीत्वे तिष्ठति हर्म्येषु पुंस्त्वे राज्यं प्रशास्ति च ।
प्रजास्तस्मिन्समुद्विग्ना नाभ्यनन्दन्महीपतिम् ॥ ३५॥
काले तु यौवनं प्राप्तः पुत्रः पुरूरवास्तदा ।
प्रतिष्ठां नृपतिस्तस्मै दत्त्वा राज्यं वनं ययौ ॥ ३६॥
गत्वा तस्मिन्वने रम्ये नानाद्रुमसमाकुले ।
नारदान्मन्त्रमासाद्य नवाक्षरमनुत्तमम् ॥ ३७॥
जजाप मन्त्रमत्यर्थं प्रेमपूरितमानसः ।
परितुष्टा तदा देवी सगुणा तारिणी शिवा ॥ ३८॥
सिंहारूढा स्थिता चाग्रे दिव्यरूपा मनोरमा ।
वारुणीपानसम्मत्ता मदाघूर्णितलोचना ॥ ३९॥
दृष्ट्वा तां दिव्यरूपां च प्रेमाकुलितलोचनः ।
प्रणम्य शिरसा प्रीत्या तुष्टाव जगदम्बिकाम् ॥ ४०॥
इलोवाच ।
दिव्यं च ते भगवति प्रथितं स्वरूपं
दृष्टं मया सकललोकहितानुरूपम् ।
वन्दे त्वदङ्घ्रिकमलं सुरसङ्घसेव्यं
कामप्रदं जननि चापि विमुक्तिदं च ॥ ४१॥
को वेत्ति तेऽम्ब भुवि मर्त्यतनुर्निकामं
मुह्यन्ति यत्र मुनयश्च सुराश्च सर्वे ।
ऐश्वर्यमेतदखिलं कृपणे दयां च
दृष्ट्वैव देवि सकलं किल विस्मयो मे ॥ ४२॥
शम्भुर्हरिः कमलजो मघवा रविश्च
वित्तेशवह्निवरुणाः पवनश्च सोमः ।
जानन्ति नैव वसवोऽपि हि ते प्रभावं
बुध्येत्कथं तव गुणानगुणो मनुष्यः ॥ ४३॥
जानाति विष्णुरमितद्युतिरम्ब साक्षा-
त्त्वां सात्त्विकीमुदधिजां सकलार्थदां च ।
को राजसीं हर उमां किल तामसीं त्वां
वेदाम्बिके न तु पुनः खलु निर्गुणां त्वाम् ॥ ४४॥
क्वाहं सुमन्दमतिरप्रतिमप्रभावः
क्वायं तवातिनिपुणो मयि सुप्रसादः ।
जाने भवानि चरितं करुणासमेतं
यत्सेवकांश्च दयसे त्वयि भावयुक्तान् ॥ ४५॥
वृत्तस्त्वया हरिरसौ वनजेशयापि
नैवाचरत्यपि मुदं मधुसूदनश्च ।
पादौ तवादिपुरुषः किल पावकेन
कृत्वा करोति च करेण शुभौ पवित्रौ ॥ ४६॥
वाञ्छत्यहो हरिरशोक इवातिकामं
पादाहतिं प्रमुदितः पुरुषः पुराणः ।
तां त्वं करोषि रुषिता प्रणतं च पादे
दृष्ट्वा पतिं सकलदेवनुतं स्मरार्तम् ॥ ४७॥
वक्षःस्थले वससि देवि सदैव तस्य
पर्यङ्कवत्सुचरिते विपुलेऽतिशान्ते ।
सौदामिनीव सुघने सुविभूषिते च
किं ते न वाहनमसौ जगदीश्वरोऽपि ॥ ४८॥
त्वं चेज्जहासि मधुसूदनमम्ब कोपा-
न्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः ।
प्रत्यक्षमेव पुरुषं स्वजनास्त्वजन्ति
शान्तं श्रियोज्झितमतीव गुणैर्वियुक्तम् ॥ ४९॥
ब्रह्मादयः सुरगणा न तु किं युवत्यो
ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति ।
मन्ये त्वयैव विहिताः खलु ते पुमांसः
किं वर्णयामि तव शक्तिमनन्तवीर्ये ॥ ५०॥
त्वं नापुमान्न च पुमानिति मे विकल्पो
याकासि देवि सगुणा ननु निर्गुणा वा ।
तां त्वां नमामि सततं किल भावयुक्तो
वाञ्छामि भक्तिमचलां त्वयि मातरं तु ॥ ५१॥
सूत उवाच ।
इति स्तुत्वा महीपालो जगाम शरणं तदा ।
परितुष्टा ददौ देवी तत्र सायुज्यमात्मनि ॥ ५२॥
सुद्युम्नस्तु ततः प्राप पदं परमकं स्थिरम् ।
तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम् ॥ ५३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे सुद्युम्नस्तुतिर्नाम द्वादशोऽध्यायः ॥ १.१२॥
१.१३ त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।
सूत उवाच ।
सुद्युने तु दिवं याते राज्यं चक्रे पुरूरवाः ।
सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः ॥ १॥
प्रतिष्ठाने पुरे रम्ये राज्यं सर्वनमस्कृतम् ।
चकार सर्वधर्मज्ञः प्रजारक्षणतत्परः ॥ २॥
मन्त्रः सुगुप्तस्तस्यासीत्परत्राभिज्ञता तथा ।
सदैवोत्साहशक्तिश्च प्रभुशक्तिस्तथोत्तमा ॥ ३॥
सामदानादयः सर्वे वशगास्तस्य भूपतेः ।
वर्णाश्रमान्स्वधर्मस्थान्कुर्वन् राज्यं शशास ह ॥ ४॥
यज्ञांश्च विविधांश्चक्रे स राजा बहुदक्षिणान् ।
दानानि च पवित्राणि ददावथ नराधिपः ॥ ५॥
तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् ।
श्रुत्वोर्वशी वशीभूता चकमे तं नराधिपम् ॥ ६॥
ब्रह्मशापाभितप्ता सा मानुषं लोकमास्थिता ।
गुणिनं तं नृपं मत्वा वरयामास मानिनी ॥ ७॥
समयं चेदृशं कृत्वा स्थिता तत्र वराङ्गना ।
एतावुरणकौ राजन्न्यस्तौ रक्षस्व मानद ॥ ८॥
घृतं मे भक्षणं नित्यं नान्यत्किञ्चिन्नृपाशनम् ।
नेक्षे त्वां च महाराज नग्नमन्यत्र मैथुनात् ॥ ९॥
भाषाबन्धस्त्वयं राजन् यदि भग्नो भविष्यति ।
तदा त्यक्त्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ १०॥
अङ्गीकृतं च तद्राज्ञा कामिन्या भाषितं तु यत् ।
स्थिता भाषणबन्धेन शापानुगहकाम्यया ॥ ११॥
रेमे तदा स भूपालो लीनो वर्षगणान्बहून् ।
धर्मकर्मादिकं त्यक्त्वा चोर्वश्या मदमोहितः ॥ १२॥
एकचित्तस्तु सञ्जातस्तन्मनस्को महीपतिः ।
न शशाक तया हीनः क्षणमप्यतिमोहितः ॥ १३॥
एवं वर्षगणान्ते तु स्वर्गस्थः पाकशासनः ।
उर्वशीं नागतां दृष्ट्वा गन्धर्वानाह देवराट् ॥ १४॥
उर्वशीमानयध्वं भो गन्धर्वाः सर्व एव हि ।
हृत्वोरणौ गृहात्तस्य भूपतेः समये किल ॥ १५॥
उर्वशीरहितं स्थानं मदीयं नातिशोभते ।
येन केनाप्युपायेन तामानयत कामिनीम् ॥ १६॥
इत्युक्तास्तेऽथ गन्धर्वा विश्वावसुपुरोगमाः ।
ततो गत्वा महागाढे तमसि प्रत्युपस्थिते ॥ १७॥
जह्रुस्तावुरणौ देवा रममाणं विलोक्य तम् ।
चक्रन्दतुस्तदा तौ तु ह्रियमाणौ विहायसा ॥ १८॥
उर्वशी तदुपाकर्ण्य क्रन्दितं सुतयोरिव ।
कुपितोवाच राजानं समयोऽयं कृतो मया ॥ १९॥
नष्टाहं तव विश्वासाद्धृतौ चोरैर्ममोरणौ ।
राजन्पुत्रसमावेतौ त्वं किं शेषे स्त्रिया समः ॥ २०॥
हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ।
उरणौ मे गतौ चाद्य सदा प्राणप्रियौ मम ॥ २१॥
एवं विलप्यमानां तां दृष्ट्वा राजा विमोहितः ।
नग्न एव ययौ तूर्णं पृष्ठतः पृथिवीपतिः ॥ २२॥
विद्युत्प्रकाशिता तत्र गन्धर्वैर्नृपवेश्मनि ।
नग्नभूतस्तया दृष्टो भूपतिर्गन्तुकामया ॥ २३॥
त्यक्त्वोरणौ गताः सर्वे गन्धर्वाः पथि पार्थिवः ।
नग्नो जग्राह तौ श्रान्तो जगाम स्वगृहं प्रति ॥ २४॥
तदोर्वशीं गतां दृष्ट्वा विललापातिदुःखितः ।
नग्नं वीक्ष्य पतिं नारी गता सा वरवर्णिनी ॥ २५॥
क्रन्दन्स देशदेशेषु बभ्राम नृपतिः स्वयम् ।
तच्चित्तो विह्वलः शोचन्विवशः काममोहितः ॥ २६॥
भ्रमन्वै सकलां पृथ्वीं कुरुक्षेत्रे ददर्श ताम् ।
दृष्ट्वा संहृष्टवदनः प्राह सूक्तं नृपोत्तमः ॥ २७॥
अये जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि ।
मां त्वं त्वन्मनसं कान्तं वशगं चाप्यनागसम् ॥ २८॥
स देहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया ।
खादन्त्येनं वृकाः काकास्त्वया त्यक्तं वरोरु यत् ॥ २९॥
एवं विलपमानं तं राजानं प्राह चोर्वशी ।
दुःखितं कृपणं श्रान्तं कामार्तं विवशं भृशम् ॥ ३०॥
उर्वश्युवाच ।
मूर्खोऽसि नृपशार्दूल ज्ञानं कुत्र गतं तव ।
क्वापि सख्यं न च स्त्रीणां वृकाणामिव पार्थिव ॥ ३१॥
न विश्वासो हि कर्तव्यः स्त्रीषु चौरेषु पार्थिवैः ।
गृहं गच्छ सुखं भुङ्क्ष्व मा विषादे मनः कृथाः ॥ ३२॥
इत्येवं बोधितो राजा न विवेदातिमोहितः ।
दुःखं च परमं प्राप्तः स्वैरिणीस्नेहयन्त्रितः ॥ ३३॥
सूत उवाच ।
इति सर्वं समाख्यातमुर्वशीचरितं महत् ।
वेदे विस्तरितं चैतत्सङ्क्षेपात्कथितं मया ॥ ३४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे
पुरूरवस उर्वश्याश्च चरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १.१३॥
१.१४ चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।
सूत उवाच ।
दृष्ट्वा तामसितापाङ्गीं व्यासश्चिन्तापरोऽभवत् ।
किं करोमि न मे योग्या देवकन्येयमप्सराः ॥ १॥
एवं चिन्तयमानं तु दृष्ट्वा व्यासं तदाप्सराः ।
भयभीता हि सञ्जाता शापं मा विसृजेदयम् ॥ २॥
सा कृत्वाथ शुकीरूपं निर्गता भयविह्वला ।
कृष्णस्तु विस्मयं प्राप्तो विहङ्गीं तां विलोकयन् ॥ ३॥
कामस्तु देहे व्यासस्य दर्शनादेव सङ्गतः ।
मनोऽतिविस्मितं जातं सर्वगात्रेषु विस्मितः ॥ ४॥
स तु धैर्येण महता निगह्णन्मानसं मुनिः ।
न शशाक नियन्तुं च स व्यासः प्रसृतं मनः ॥ ५॥
बहुशो गृह्यमाणं च घृताच्या मोहितं मनः ।
भावित्वान्नैव विधृतं व्यासस्यामिततेजसः ॥ ६॥
मन्धनं कुर्वतस्तस्य मुनेरग्निचिकीर्षया ।
अरण्यामेव सहसा तस्य शुक्रमथापतत् ॥ ७॥
सोऽविचिन्त्य तथा पातं ममन्थारणिमेव च ।
तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः ॥ ८॥
विस्मयं जनयन्बालः सञ्जातस्तदरण्यजः ।
यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान् ॥ ९॥
व्यासस्तु सुतमालोक्य विस्मयं परमं गतः ।
किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै ॥ १०॥
तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः ।
द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा ॥ ११॥
विलोकयामास तदा व्यासस्तु मुदितं सुतम् ।
दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम् ॥ १२॥
गङ्गान्तः स्नापयामास समागत्य गिरेस्तदा ।
पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः ॥ १३॥
जातकर्मादिकं चक्रे व्यासस्तस्य महात्मनः ।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ १४॥
जगुर्गन्धर्वपतयो मुदितास्ते दिदृक्षवः ।
विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे ॥ १५॥
तुष्टुवुर्मुदिताः सर्वे देवा विद्याधरास्तथा ।
दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम् ॥ १६॥
अन्तरिक्षात्पपातोर्व्यां दण्डः कृष्णाजिनं शुभम् ।
कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः ॥ १७॥
सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् ।
तस्योपनयनं चक्रे व्यासो विद्याविधानवित् ॥ १८॥
उत्पन्नमात्रं तं वेदाः सरहस्याः ससङ्ग्रहाः ।
उपतस्थुर्महात्मानं यथास्य पितरं तथा ॥ १९॥
यतो दृष्टं शुकीरूपं घृताच्याः सम्भवे तदा ।
शुकेति नाम पुत्रस्य चकार मुनिसत्तमः ॥ २०॥
बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा ।
व्रतानि ब्रह्मचर्यस्य चकार विधिपूर्वकम् ॥ २१॥
सोऽधीत्य निखिलान्वेदान् सरहस्यान्ससङ्ग्रहान् ।
धर्मशास्त्राणि सर्वाणि कृत्वा गुरुकुले शुकः ॥ २२॥
गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा ।
आजगाम पितुः पार्श्वं कृष्णद्वैपायनस्य च ॥ २३॥
दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससम्भ्रमः ।
आलिलिङ्ग मुहुर्घ्राणं मूर्ध्नि तस्य चकार ह ॥ २४॥
पप्रच्छ कुशलं व्यासस्तथा चाध्ययनं शुचि ।
आश्वास्य स्थापयामास शुकं तत्राश्रमे शुभे ॥ २५॥
दारकर्म ततो व्यासः शुकस्य पर्यचिन्तयत् ।
कन्यां मुनिसुतां कान्तामपृच्छदतिवेगवान् ॥ २६॥
शुकं प्राह सुतं व्यासो वेदोऽधीतस्त्वयानघ ।
धर्मशास्त्राणि सर्वाणि कुरु भार्यां महामते ॥ २७॥
गार्हस्थ्यं च समासाद्य यज देवान्पितॄनथ ।
ऋणान्मोचय मां पुत्र प्राप्य दारान्मनोरमान् ॥ २८॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात्पुत्र महाभाग कुरुष्वाद्य गृहाश्रमम् ॥ २९॥
कृत्वा गृहाश्रमं पुत्र सुखिनं कुरु मां शुक ।
आशा मे महती पुत्र पूरयस्व महामते ॥ ३०॥
तपस्तप्त्वा महाघोरं प्राप्तोऽसि त्वमयोनिजः ।
देवरूपी महाप्राज्ञ पाहि मां पितरं शुक ॥ ३१॥
सूत उवाच ।
इति वादिनमभ्याशे प्राप्तः प्राह शुकस्तदा ।
विरक्तः सोऽतिरक्तं तं साक्षात्पितरमात्मनः ॥ ३२॥
शुक उवाच ।
किं त्वं वदसि धर्मज्ञ वेदव्यास महामते ।
तत्त्वेन शाधि शिष्यं मां त्वदाज्ञां करवाण्यलम् ॥ ३३॥
व्यास उवाच ।
त्वदर्थे यत्तपस्तप्तं मया पुत्र शतं समाः ।
प्राप्तस्त्वं चातिदुःखेन शिवस्याराधनेन च ॥ ३४॥
ददामि तव वित्तं तु प्रार्थयित्वाथ भूपतिम् ।
सुखं भुङ्क्ष्व महाप्राज्ञ प्राप्य यौवनमुत्तमम् ॥ ३५॥
शुक उवाच ।
किं सुखं मानुषे लोके ब्रूहि तात निरामयम् ।
दुःखविद्धं सुखं प्राज्ञा न वदन्ति सुखं किल ॥ ३६॥
स्त्रियं कृत्वा महाभाग भवामि तद्वशानुगः ।
सुखं किं परतन्त्रस्य स्त्रीजितस्य विशेषतः ॥ ३७॥
कदाचिदपि मुच्येत लोहकाष्ठादियन्त्रितः ।
पुत्रदारैर्निबद्धस्तु न विमुच्येत कर्हिचित् ॥ ३८॥
विण्मूत्रसम्भवो देहो नारीणां तन्मयस्तथा ।
कः प्रीतिं तत्र विप्रेन्द्र विबुधः कर्तुमिच्छति ॥ ३९॥
अयोनिजोऽहं विप्रर्षे योनौ मे कीदृशी मतिः ।
न वाञ्छाम्यहमग्रेऽपि योनावेव समुद्भवम् ॥ ४०॥
विट्सुखं किमु वाञ्छामि त्यक्त्वाऽऽत्मसुखमद्भुतम् ।
आत्मारामश्च भूयोऽपि न भवत्यतिलोलुपः ॥ ४१॥
प्रथमं पठिता वेदा मया विस्तारिताश्च ते ।
हिंसामयास्ते पतिताः कर्ममार्गप्रवर्तकाः ॥ ४२॥
बृहस्पतिर्गुरुः प्राप्तः सोऽपि मग्नो गृहार्णवे ।
अविद्याग्रस्तहृदयः कथं तारयितुं क्षमः ॥ ४३॥
रोगग्रस्तो यथा वैद्यः पररोगचिकित्सकः ।
तथा गुरुर्मुमुक्षोर्मे गृहस्थोऽयं विडम्बना ॥ ४४॥
कृत्वा प्रणामं गुरवे त्वत्समीपमुपागतः ।
त्राहि मां तत्त्वबोधेन भीतं संसारसर्पतः ॥ ४५॥
संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् ।
न च विश्रमणं क्यापि सूर्यस्येव दिवानिशि ॥ ४६॥
किं सुखं तात संसारे निजतत्त्वविचारणात् ।
मूढानां सुखबुद्धिस्तु विट्सु कीटसुखं यथा ॥ ४७॥
अधीत्य वेदशास्त्राणि संसारे रागिणश्च ये ।
तेभ्यः परो न मूर्खोऽस्ति सधर्मा श्वाश्वसूकरैः ॥ ४८॥
मानुष्यं दुर्लभं प्राप्य वेदशास्त्राण्यधीत्य च ।
बध्यते यदि संसारे को विमुच्येत मानवः ॥ ४९॥
नातः परतरं लोके क्वचिदाश्चर्यमद्भुतम् ।
पुत्रदारगृहासक्तः पण्डितः परिगीयते ॥ ५०॥
न बाध्यते यः संसारे नरो मायागुणैस्त्रिभिः ।
स विद्वान्स च मेधावी शास्त्रपारं गतो हि सः ॥ ५१॥
किं वृथाध्ययनेनात्र दृढबन्धकरेण च ।
पठितव्यं तदेवाशु मोचयेद्भवबन्धनात् ॥ ५२॥
गह्णाति पुरुषं यस्माद्गृहं तेन प्रकीर्तितम् ।
क्व सुखं बन्धनागारे तेन भीतोऽस्म्यहं पितः ॥ ५३॥
येऽबुधा मन्दमतयो विधिना मुषिताश्च ये ।
ते प्राप्य मानुषं जन्म पुनर्बन्धं विशन्त्युत ॥ ५४॥
व्यास उवाच ।
न गृहं बन्धनागारं बन्धने न च कारणम् ।
मनसा यो विनिर्मुक्तो गृहस्थोऽपि विमुच्यते ॥ ५५॥
न्यायागतधनः कुर्वन्वेदोक्तं विधिवत्क्रमात् ।
गृहस्थोऽपि विमुच्येत श्राद्धकृत्सत्यवाक् शुचिः ॥ ५६॥
ब्रह्मचारी यतिश्चैव वानप्रस्थो व्रतस्थितः ।
गृहस्थं समुपासन्ते मध्याह्नातिक्रमे सदा ॥ ५७॥
श्रद्धया चान्नदानेन वाचा सूनृतया तथा ।
उपकुर्वन्ति धर्मस्था गृहाश्रमनिवासिनः ॥ ५८॥
गृहाश्रमात्परो धर्मो न दृष्टो न च वै श्रुतः ।
वसिष्ठादिभिराचार्यैर्ज्ञानिभिः समुपाश्रितः ॥ ५९॥
किमसाध्यं महाभाग वेदोक्तानि च कुर्वतः ।
स्वर्गं मोक्षं च सज्जन्म यद्यद्वाञ्छति तद्भवेत् ॥ ६०॥
आश्रमादाश्रमं गच्छेदिति धर्मविदो विदुः ।
तस्मादग्निं समाधाय कुरु कर्माण्यतन्द्रितः ॥ ६१॥
देवान्पितॄन्मनुष्यांश्च सन्तर्प्य विधिवत्सुत ।
पुत्रमुत्पाद्य धर्मज्ञ संयोज्य च गृहाश्रमे ॥ ६२॥
त्यक्त्वागृहं वनं गत्वा कर्तासि व्रतमुत्तमम् ।
वानप्रस्थाश्रमं कृत्वा संन्यासं च ततः परम् ॥ ६३॥
इन्द्रियाणि महाभाग मादकानि सुनिश्चितम् ।
अदारस्य दुरन्तानि पञ्चैव मनसा सह ॥ ६४॥
तस्माद्दारान्प्रकुर्वीत तज्जयाय महामते ।
वार्धके तप आतिष्ठेदिति शास्त्रोदितं वचः ॥ ६५॥
विश्वामित्रो महाभाग तपः कृत्वातिदुश्चरम् ।
त्रीणि वर्षसहस्राणि निराहारो जितेन्द्रियः ॥ ६६॥
मोहितश्च महातेजा वने मेनकया स्थितः ।
शकुन्तला समुत्पन्ना पुत्री तद्वीर्यजा शुभा ॥ ६७॥
दृष्ट्वा दाशसुतां कालीं पिता मम पराशरः ।
कामबाणार्दितः कन्यां तां जग्राहोडुपे स्थितः ॥ ६८॥
ब्रह्मापि स्वसुतां दृष्ट्वा पञ्चबाणप्रपीडितः ।
धावमानश्च रुद्रेण मूर्च्छितश्च निवारितः ॥ ६९॥
तस्मात्त्वमपि कल्याण कुरु मे वचनं हितम् ।
कुलजां कन्यकां वृत्वा वेदमार्गं समाश्रय ॥ ७०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे
व्यासेन गृहस्थधर्मवर्णनं नाम चतुर्दशोऽध्यायः ॥ १.१४॥
१.१५ पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।
श्रीशुक उवाच ।
नाहं गृहं करिष्यामि दुःखदं सर्वदा पितः ।
वागुरासदृशं नित्यं बन्धनं सर्वदेहिनाम् ॥ १॥
धनचिन्तातुराणां हि क्व सुखं तात दृश्यते ।
स्वजनैः खलु पीड्यन्ते निर्धना लोलुपा जनाः ॥ २॥
इन्द्रोऽपि न सुखी तादृग्यादृशो भिक्षुनिःस्पृहः ।
कोऽन्यः स्यादिह संसारे त्रिलोकीविभवे सति ॥ ३॥
तपन्तं तापसं दृष्ट्वा मघवा दुःखितोऽभवत् ।
विघ्नान्बहुविधानस्य करोति च दिवस्पतिः ॥ ४॥
ब्रह्मापि न सुखी विष्णुर्लक्ष्मीं प्राप्य मनोरमाम् ।
खेदं प्राप्नोति सततं सङ्ग्रामैरसुरैः सह ॥ ५॥
करोति विपुलान्यत्नांस्तपश्चरति दुश्चरम् ।
रमापतिरपि श्रीमान्कस्यास्ति विपुलं सुखम् ॥ ६॥
शङ्करोऽपि सदा दुःखी भवत्येव च वेद्म्यहम् ।
तपश्चर्यां प्रकुर्वाणो दैत्ययुद्धकरः सदा ॥ ७॥
कदाचिन्न सुखी शेते धनवानपि लोलुपः ।
निर्धनस्तु कथं तात सुखं प्राप्नोति मानवः ॥ ८॥
जानन्नपि महाभाग पुत्रं वा वीर्यसम्भवम् ।
नियोक्ष्यसि महाघोरे संसारे दुःखदे सदा ॥ ९॥
जन्मदुःखं जरादुःखं दुःखं च मरणे तथा ।
गर्भवासे पुनर्दुःखं विष्ठामूत्रमये पितः ॥ १०॥
तस्मादतिशयं दुःखं तृष्णालोभसमुद्भवम् ।
याञ्चायां परमं दुःखं मरणादपि मानद ॥ ११॥
प्रतिग्रहधना विप्रा न बुद्धिबलजीवनाः ।
पराशा परमं दुःखं मरणं च दिने दिने ॥ १२॥
पठित्वा सकलान् वेदाञ्छास्त्राणि च समन्ततः ।
गत्वा च धनिनां कार्या स्तुतिः सर्वात्मना बुधैः ॥ १३॥
एकोदरस्य का चिन्ता पत्रमूलफलादिभिः ।
येनकेनाप्युपायेन सन्तुष्ट्या च प्रपूर्यते ॥ १४॥
भार्या पुत्रास्तथा पौत्राः कुटुम्बे विपुले सति ।
पूरणार्थं महद्दुःखं क्व सुखं पितरद्भुतम् ॥ १५॥
योगशास्त्रं वद मम ज्ञानशास्त्रं सुखाकरम् ।
कर्मकाण्डेऽखिले तात न रमेऽहं कदाचन ॥ १६॥
वद कर्मक्षयोपायं प्रारब्धं सञ्चितं तथा ।
वर्तमानं यथा नश्येत् त्रिविधं कर्ममूलजम् ॥ १७॥
जलूकेव सदा नारी रुधिरं पिबतीति वै ।
मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः ॥ १८॥
भोगैर्वीर्यं धनं पूर्णं मनः कुटिलभाषणैः ।
कान्ता हरति सर्वस्वं कः स्तेनस्तादृशोऽपरः ॥ १९॥
निद्रासुखविनाशार्थं मूर्खस्तु दारसङ्ग्रहम् ।
करोति वञ्चितो धात्रा दुःखाय न सुखाय च ॥ २०॥
सूत उवाच ।
एवंविधानि वाक्यानि श्रुत्वा व्यासः शुकस्य च ।
सम्प्राप महतीं चिन्तां किं करोमीत्यसंशयम् ॥ २१॥
तस्य सुस्रुवुरश्रूणि लोचनादुःखजानि च ।
वेपथुश्च शरीरेऽभूद्ग्लानिं प्राप मनस्तथा ॥ २२॥
शोचन्तं पितरं दृष्ट्वा दीनं शोकपरिप्लुतम् ।
उवाच पितरं व्यासं विस्मयोत्फुल्ललोचनः ॥ २३॥
अहो मायाबलं चोग्रं यन्मोहयति पण्डितम् ।
वेदान्तस्य च कर्तारं सर्वज्ञं वेदसम्मितम् ॥ २४॥
न जाने का च सा माया किंस्वित्सातीव दुष्करा ।
या मोहयति विद्वांसं व्यासं सत्यवतीसुतम् ॥ २५॥
पुराणानां च वक्ता च निर्माता भारतस्य च ।
विभागकर्ता वेदानां सोऽपि मोहमुपागतः ॥ २६॥
तां यामि शरणं देवीं या मोहयति वै जगत् ।
ब्रह्मविष्णुहरादींश्च कथान्येषां च कीदृशी ॥ २७॥
कोऽप्यस्ति त्रिषु लोकेषु यो न मुह्यति मायया ।
यन्मोहं गमिताः पूर्वे ब्रह्मविष्णुहरादयः ॥ २८॥
अहो बलमहो वीर्यं देव्या खलु विनिर्मितम् ।
माययैव वशं नीतः सर्वज्ञ ईश्वरः प्रभुः ॥ २९॥
विष्ण्वंशसम्भवो व्यास इति पौराणिका जगुः ।
सोऽपि मोहार्णवे मग्नो भग्नपोतो वणिग्यथा ॥ ३०॥
अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा ।
अहो मायाबलं चैतद्दुस्त्यजं पण्डितैरपि ॥ ३१॥
कोऽयं कोऽहं कथं चेह कीदृशोऽयं भ्रमः किल ।
पञ्चभूतात्मके देहे पितापुत्रेति वासना ॥ ३२॥
बलिष्ठा खलु मायेयं मायिनामपि मोहिनी ।
ययाभिभूतः कृष्णोऽपि करोति रोदनं द्विजः ॥ ३३॥
सूत उवाच ।
तां नत्वा मनसा देवीं सर्वकारणकारणाम् ।
जननीं सर्वदेवानां ब्रह्मादीनां तथेश्वरीम् ॥ ३४॥
पितरं प्राह दीनं तं शोकार्णवपरिप्लुतम् ।
अरणीसम्भवो व्यासं हेतुमद्वचनं शुभम् ॥ ३५॥
पाराशर्य महाभाग सर्वेषां बोधदः स्वयम् ।
किं शोकं कुरुषे स्वामिन्यथाज्ञः प्राकृतो नरः ॥ ३६॥
अद्याहं तव पुत्रोऽस्मि न जाने पूर्वजन्मनि ।
कोऽहं कस्त्वं महाभाग विभ्रमोऽयं महात्मनि ॥ ३७॥
कुरु धैर्यं प्रबुध्यस्व मा विषादे मनः कृथाः ।
मोहजालमिमं मत्वा मुञ्च शोकं महामते ॥ ३८॥
क्षुधानिवृत्तिर्भक्ष्येण न पुत्रदर्शनेन च ।
पिपासा जलपानेन याति नैवात्मजेक्षणात् ॥ ३९॥
घ्राणं सुखं सुगन्धेन कर्णजं श्रवणेन च ।
स्त्रीसुखं तु स्त्रिया नूनं पुत्रोऽहं किं करोमि ते ॥ ४०॥
अजीगर्तेन पुत्रोऽपि हरिश्चन्द्राय भूभुजे ।
पशुकामाय यज्ञार्थे दत्तो मौल्येन सर्वथा ॥ ४१॥
सुखानां साधनं द्रव्यं धनात्सुखसमुच्चयः ।
धनमर्जय लोभश्चेत्पुत्रोऽहं किं करोम्यहम् ॥ ४२॥
मां प्रबोधय बुद्ध्या त्वं दैवज्ञोऽसि महामते ।
यथा मुच्येयमत्यन्तं गर्भवासभयान्मुने ॥ ४३॥
दुर्लभं मानुषं जन्म कर्मभूमाविहानघ ।
तत्रापि ब्राह्मणत्वं वै दुर्लभं चोत्तमे कुले ॥ ४४॥
बद्धोऽहमिति मे बुद्धिर्नापसर्पति चित्ततः ।
संसारवासनाजाले निविष्टा वृद्धिगामिनी ॥ ४५॥
सूत उवाच ।
इत्युक्तस्तु तदा व्यासः पुत्रेणामितबुद्धिना ।
प्रत्युवाच शुकं शान्तं चतुर्थाश्रममानसम् ॥ ४६॥
व्यास उवाच ।
पठ पुत्र महाभाग मया भागवतं कृतम् ।
शुभं न चातिविस्तीर्णं पुराणं ब्रह्मसम्मितम् ॥ ४७॥
स्कन्धा द्वादश तत्रैव पञ्चलक्षणसंयुतम् ।
सर्वेषां च पुराणानां भूषणं मम सम्मतम् ॥ ४८॥
सदसज्ज्ञानविज्ञानं श्रुतमात्रेण जायते ।
येन भागवतेनेह तत्पठ त्वं महामते ॥ ४९॥
वटपत्रशयानाय विष्णवे बालरूपिणे ।
केनास्मि बालभावेन निर्मितोऽहं चिदात्मना ॥ ५०॥
किमर्थं केन द्रव्येण कथं जानामि चाखिलम् ।
इत्येवं चिन्त्यमानाय मुकुन्दाय महात्मने ॥ ५१॥
श्लोकार्धेन तया प्रोक्तं भगवत्याखिलार्थदम् ।
सर्वं खल्विदमेवाहं नान्यदस्ति सनातनम् ॥ ५२॥
तद्वचो विष्णुना पूर्वं संविज्ञातं मनस्यपि ।
केनोक्ता वागियं सत्या चिन्तयामास चेतसा ॥ ५३॥
कथं वेद्मि प्रवक्तारं स्त्रीपुंसौ वा नपुंसकम् ।
इति चिन्ताप्रपन्नेन धृतं भागवतं हृदि ॥ ५४॥
पुनः पुनः कृतोच्चारस्तस्मिनेवास्तचेतसा ।
वटपत्रे शयानः सन्नभूच्चिन्तासमन्वितः ॥ ५५॥
तदा शान्ता भगवती प्रादुरास चतुर्भुजा ।
शङ्खचक्रगदापद्मवरायुधधरा शिवा ॥ ५६॥
दिव्याम्बरधरा देवी दिव्यभूषणभूषिता ।
संयुता सदृशीभिश्च सखीभिः स्वविभूतिभिः ॥ ५७॥
प्रादुर्बभूव तस्याग्रे विष्णोरमिततेजसः ।
मन्दहास्यं प्रयुञ्जाना महालक्ष्मीः शुभानना ॥ ५८॥
सूत उवाच ।
तां तथा संस्थितां दृष्ट्वा हृदये कमलेक्षणः ।
विस्मितः सलिले तस्मिन्निराधारा मनोरमाम् ॥ ५९॥
रतिर्भूतिस्तथा बुद्धिर्मतिः कीर्तिः स्मृतिर्धृतिः ।
श्रद्धा मेधा स्वधा स्वाहा क्षुधा निद्रा दया गतिः ॥ ६०॥
तुष्टिः पुष्टिः क्षमा लज्जा जृम्भा तन्द्रा च शक्तयः ।
संस्थिताः सर्वतः पार्श्वे महादेव्याः पृथक्पृथक् ॥ ६१॥
वरायुधधराः सर्वा नानाभूषणभूषिताः ।
मन्दारमालाकुलिता मुक्ताहारविराजिताः ॥ ६२॥
तां दृष्ट्वा ताश्च संवीक्ष्य तस्मिन्नेकार्णवे जले ।
विस्मयाविष्टहृदयः सम्बभूव जनार्दनः ॥ ६३॥
चिन्तयामास सर्वात्मा दृष्टमायोऽतिविस्मितः ।
कुतो भूताः स्त्रियः सर्वाः कुतोऽहं वटतल्पगः ॥ ६४॥
अस्मिन्नेकार्णवे घोरे न्यग्रोधः कथमुत्थितः ।
केनाहं स्थापितोऽस्म्यत्र शिशुं कृत्वा शुभाकृतिम् ॥ ६५॥
ममेयं जननी नो वा माया वा कापि दुर्घटा ।
दर्शनं केनचित्त्वद्य दत्तं वा केन हेतुना ॥ ६६॥
किं मया चात्र वक्तव्यं गन्तव्यं वा न वा क्वचित् ।
मौनमास्थाय तिष्ठेयं बालभावादतन्द्रितः ॥ ६७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे शुकवैराग्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ १.१५॥
१.१६ षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।
व्यास उवाच ।
दृष्ट्वा तं विस्मितं देवं शयानं वटपत्रके ।
उवाच सस्मितं वाक्यं विष्णो किं विस्मितो ह्यसि ॥ १॥
महाशक्त्याः प्रभावेण त्वं मां विस्मृतवान्पुरा ।
प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः ॥ २॥
निर्गुणा सा परा शक्तिः सगुणस्त्वं तथाप्यहम् ।
सात्त्विकी किल या शक्तिस्तां शक्तिं विद्धि मामिकाम् ॥ ३॥
त्वन्नाभिकमलाद्ब्रह्मा भविष्यति प्रजापतिः ।
स कर्ता सर्वलोकस्य रजोगुणसमन्वितः ॥ ४॥
स तदा तप आस्थाय प्राप्य शक्तिमनुत्तमाम् ।
रजसा रक्तवर्णञ्च करिष्यति जगत्त्रयम् ॥ ५॥
सगुणान्पञ्चभूतांश्च समुत्पाद्य महामतिः ।
इन्द्रियाणीन्द्रियेशांश्च मनःपूर्वान्समन्ततः ॥ ६॥
करिष्यति ततः सर्गं तेन कर्ता स उच्यते ।
विश्वस्यास्य महाभाग त्वं वै पालयिता तथा ॥ ७॥
तद्भुवोर्मध्यदेशाच्च क्रोधाद्रुद्रो भविष्यति ।
तपः कृत्वा महाघोरं प्राप्य शक्तिं तु तामसीम् ॥ ८॥
कल्पान्ते सोऽपि संहर्ता भविष्यति महामते ।
तेनाहं त्वामुपायाता सात्त्विकीं त्वमवेहि माम् ॥ ९॥
स्थास्येऽहं त्वत्समीपस्था सदाहं मधुसूदन ।
हृदये ते कृतावासा भवामि सततं किल ॥ १०॥
विष्णुरुवाच ।
श्लोकस्यार्धं मया पूर्वं श्रुतं देवि स्फुटाक्षरम् ।
तत्केनोक्तं वरारोहे रहस्यं परमं शिवम् ॥ ११॥
तन्मे ब्रूहि वरारोहे संशयोऽयं वरानने ।
निर्धनो हि यथा द्रव्यं तत्स्मरामि पुनः पुनः ॥ १२॥
व्यास उवाच ।
विष्णोस्तद्वचनं श्रुत्वा महालक्ष्मीः स्मितानना ।
उवाच परया प्रीत्या वचनं चारुहासिनी ॥ १३॥
महालक्ष्मीरुवाच ।
शृणु शौरे वचो मह्यं सगुणाहं चतुर्भुजा ।
मां जानासि न जानासि निर्गुणां सगुणालयाम् ॥ १४॥
त्वं जानीहि महाभाग तया तत्प्रकटीकृतम् ।
पुण्यं भागवतं विद्धि वेदसारं शुभावहम् ॥ १५॥
कृपां च महतीं मन्ये देव्याः शत्रुनिषूदन ।
यया प्रोक्तं परं गुह्यं हिताय तव सुव्रत ॥ १६॥
रक्षणीयं सदा चित्ते न विस्मार्यं कदाचन ।
सारं हि सर्वशास्त्राणां महाविद्याप्रकाशितम् ॥ १७॥
नातः परं वेदितव्यं वर्तते भुवनत्रये ।
प्रियोऽसि खलु देव्यास्त्वं तेन ते व्याहृतं वचः ॥ १८॥
व्यास उवाच ।
इति श्रुत्वा वचो देव्या महालक्ष्याश्चतुर्भुजः ।
दधार हृदये नित्यं मत्वा मन्त्रमनुत्तमम् ॥ १९॥
कालेन कियता तत्र तन्नाभिकमलोद्भवः ।
ब्रह्मा दैत्यभयात्त्रस्तो जगाम शरणं हरेः ॥ २०॥
ततः कृत्वा महायुद्धं हत्वा तौ मधुकैटभौ ।
जजाप भगवान्विष्णुः श्लोकार्धं विशदाक्षरम् ॥ २१॥
जपन्तं वासुदेवं च दृष्ट्वा देवः प्रजापतिः ।
पप्रच्छ परमप्रीतः कञ्जजः कमलापतिम् ॥ २२॥
किं त्वं जपसि देवेश त्वत्तः कोऽप्यधिकोऽस्ति वै ।
यत्कृत्वा पुण्डरीकाक्ष प्रीतोऽसि जगदीश्वर ॥ २३॥
हरिरुवाच ।
मयि त्वयि च या शक्तिः क्रियाकारणलक्षणा ।
विचारय महाभाग या सा भगवती शिवा ॥ २४॥
यस्याधारे जगत्सर्वं तिष्ठत्यत्र महार्णवे ।
साकारा या महाशक्तिरमेया च सनातनी ॥ २५॥
यया विसृज्यते विश्वं जगदेतच्चराचरम् ।
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥ २६॥
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ।
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ २७॥
अहं त्वमखिलं विश्वं तस्याश्चिच्छक्तिसम्भवम् ।
विद्धि ब्रह्मन्न सन्देहः कर्तव्यः सर्वदानघ ॥ २८॥
श्लोकार्धेन तया प्रोक्तं तद्वै भागवतं किल ।
विस्तरो भविता तस्य द्वापरादौ युगे तथा ॥ २९॥
व्यास उवाच ।
ब्रह्मणा सङ्गृहीतं च विष्णोस्तु नाभिपङ्कजे ।
नारदाय च तेनोक्तं पुत्रायामितबुद्धये ॥ ३०॥
नारदेन तथा मह्यं दत्तं हि मुनिना पुरा ।
मया कृतमिदं पूर्णं द्वादशस्कन्धविस्तरम् ॥ ३१॥
तत्पठस्व महाभाग पुराणं ब्रह्मसम्मितम् ।
पञ्चलक्षणयुक्तं च देव्याश्चरितमुत्तमम् ॥ ३२॥
तत्त्वज्ञानरसोपेतं सर्वेषामुत्तमोत्तमम् ।
धर्मशास्त्रसमं पुण्यं वेदार्थेनोपबृंहितम् ॥ ३३॥
वृत्रासुरवधोपेतं नानाख्यानकथायुतम् ।
ब्रह्मविद्यानिधानं तु संसारार्णवतारकम् ॥ ३४॥
गृहाण त्वं महाभाग योग्योऽसि मतिमत्तरः ।
पुण्यं भागवतं नाम पुराणं पुरुषर्षभ ॥ ३५॥
अष्टादशसहस्राणां श्लोकानां कुरु सङ्ग्रहम् ।
अज्ञाननाशनं दिव्यं ज्ञानभास्करबोधकम् ॥ ३६॥
सुखदं शान्तिदं धन्यं दीर्घायुष्यकरं शिवम् ।
शृण्वतां पठतां चेदं पुत्रपौत्रविवर्धनम् ॥ ३७॥
शिष्योऽयं मम धर्मात्मा लोमहर्षणसम्भवः ।
पठिष्यति त्वया सार्धं पुराणीं संहितां शुभाम् ॥ ३८॥
सूत उवाच ।
इत्युक्तं तेन पुत्राय मह्यं च कथितं किल ।
मया गृहीतं तत्सर्वं पुराणं चातिविस्तरम् ॥ ३९॥
शुकोऽधीत्य पुराणं तु स्थितो व्यासाश्रमे शुभे ।
न लेभे शर्म धर्मात्मा ब्रह्मात्मज इवापरः ॥ ४०॥
एकान्तसेवी विकलः स शून्य इव लक्ष्यते ।
नात्यन्तभोजनासक्तो नोपवासरतस्तथा ॥ ४१॥
चिन्ताविष्टं शुकं दृष्ट्वा व्यासः प्राह सुतं प्रति ।
किं पुत्र चिन्त्यते नित्यं कस्माद्व्यग्रोऽसि मानद ॥ ४२॥
आस्से ध्यानपरो नित्यमृणग्रस्त इवाधनः ।
का चिन्ता वर्तते पुत्र मयि ताते तु तिष्ठति ॥ ४३॥
सुखं भुङ्क्ष्व यथाकामं मुञ्च शोकं मनोगतम् ।
ज्ञानं चिन्तय शास्त्रोक्तं विज्ञाने च मतिं कुरु ॥ ४४॥
न चेन्मनसि ते शान्तिर्वचसा मम सुव्रत ।
गच्छ त्वं मिथिलां पुत्र पालितां जनकेन ह ॥ ४५॥
स ते मोहं महाभाग नाशयिष्यति भूपतिः ।
जनको नाम धर्मात्मा विदेहः सत्यसागरः ॥ ४६॥
तं गत्वा नृपतिं पुत्र सन्देहं स्वं निवर्तय ।
वर्णाश्रमाणां धर्मांस्त्वं पृच्छ पुत्र यथातथम् ॥ ४७॥
जीवन्मुक्तः स राजर्षिर्बह्मज्ञानमतिः शुचिः ।
तथ्यवक्तातिशान्तश्च योगी योगप्रियः सदा ॥ ४८॥
सूत उवाच ।
तच्छ्रुत्वा वचनं तस्य व्यासस्यामिततेजसः ।
प्रत्युवाच महातेजाः शुकश्चारणिसम्भवः ॥ ४९॥
दम्भोऽयं किल धर्मात्मन्भाति चित्ते ममाधुना ।
जीवन्मुक्तो विदेहश्च राज्यं शास्ति मुदान्वितः ॥ ५०॥
वन्ध्यापुत्र इवाभाति राजासौ जनकः पितः ।
कुर्वन् राज्यं विदेहः किं सन्देहोऽयं ममाद्भुतः ॥ ५१॥
द्रष्टुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम् ।
कथं तिष्ठति संसारे पद्मपत्रमिवाम्भसि ॥ ५२॥
सन्देहोऽयं महांस्तात विदेहे परिवर्तते ।
मोक्षः किं वदतां श्रेष्ठ सौगतानामिवापरः ॥ ५३॥
कथं भुक्तमभुक्तं स्यादकृतं च कृतं कथम् ।
व्यवहारः कथं त्याज्य इन्द्रियाणां महामते ॥ ५४॥
माता पुत्रस्तथा भार्या भगिनी कुलटा तथा ।
भेदाभेदः कथं न स्याद्यद्येतन्मुक्तता कथम् ॥ ५५॥
कटु क्षारं तथा तीक्ष्णां कषायं मिष्टमेव च ।
रसना यदि जानाति भुङ्क्ते भोगाननुत्तमान् ॥ ५६॥
शीतोष्णुसुखदुःखादिपरिज्ञानं यदा भवेत् ।
मुक्तता कीदृशी तात सन्देहोऽयं ममाद्भुतः ॥ ५७॥
शत्रुमित्रपरिज्ञानं वैरं प्रीतिकरं सदा ।
व्यवहारे परे तिष्ठन्कथं न कुरुते नृपः ॥ ५८॥
चौरं वा तापसं वापि समानं मन्यते कथम् ।
असमा यदि बुद्धिः स्यान्मुक्तता तर्हि कीदृशी ॥ ५९॥
दृष्टपूर्वो न मे कश्चिज्जीवन्मुक्तश्च भूपतिः ।
शङ्केयं महती तात गृहे मुक्तः कथं नृपः ॥ ६०॥
दिदृक्षा महती जाता श्रुत्वा तं भूपतिं तथा ।
सन्देहविनिवृत्त्यर्थं गच्छामि मिथिलां प्रति ॥ ६१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे शुकं प्रति व्यासोपदेशवर्णनं नाम षोडशोऽध्यायः ॥ १.१६॥
१.१७ सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।
सूत उवाच ।
इत्युक्त्वा पितरं पुत्रः पादयोः पतितः शुकः ।
बद्धाञ्जलिरुवाचेदं गन्तुकामो महामनाः ॥ १॥
आपृच्छे त्वां महाभाग ग्राह्यं ते वचनं मया ।
विदेहान्द्रष्टुमिच्छामि पालिताञ्जनकेन तु ॥ २॥
विना दण्डं कथं राज्यं करोति जनकः किल ।
धर्मे न वर्तते लोको दण्डश्चेन्न भवेद्यदि ॥ ३॥
धर्मस्य कारणं दण्डो मन्वादिप्रहितः सदा ।
स कथं वर्तते तात संशयोऽयं महान्मम ॥ ४॥
मम माता त्वियं वन्ध्या तद्वद्भाति विचेष्टितम् ।
पृच्छामि त्वां महाभाग गच्छामि च परन्तप ॥ ५॥
सूत उवाच ।
तं दृष्ट्वा गन्तुकामं च शुकं सत्यवतीसुतः ।
आलिङ्ग्योवाच पुत्रं तं ज्ञानिनं निःस्पृहं दृढम् ॥ ६॥
व्यास उवाच ।
स्वस्त्यस्तु शक दीर्घायुर्भव पुत्र महामते ।
सत्यां वाचं प्रदत्त्वा मे गच्छ तात यथासुखम् ॥ ७॥
आगन्तव्यं पुनर्गत्वा ममाश्रममनुत्तमम् ।
न कुत्रापि च गन्तव्यं त्वया पुत्र कथञ्चन ॥ ८॥
सुखं जीवामि पुत्राहं दृष्ट्वा ते मुखपङ्कजम् ।
अपश्यन्दुःखमाप्नोमि प्राणस्त्वमसि मे सुत ॥ ९॥
दृष्ट्वा त्वं जनकं पुत्र सन्देहं विनिवर्त्य च ।
अत्रागत्य सुखं तिष्ठ वेदाध्ययनतत्परः ॥ १०॥
सूत उवाच ।
इत्युक्तः सोऽभिवाद्यार्यं कृत्वा चैव प्रदक्षिणाम् ।
चलितस्तरसातीव धनुर्मुक्तः शरो यथा ॥ ११॥
सम्पश्यन्विविधान्देशाँल्लोकांश्च वित्तधर्मिणः ।
वनानि पादपांश्चैव क्षेत्राणि फलितानि च ॥ १२॥
तापसांस्तप्यमानांश्च याजकान्दीक्षयान्वितान् ।
योगाभ्यासरतान्योगिवानप्रस्थान्वनौकसः ॥ १३॥
शैवान्पाशुपतांश्चैव सौराञ्छाक्तांश्च वैष्णवान् ।
वीक्ष्य नानाविधान्धर्माञ्जगामातिस्मयन्मुनिः ॥ १४॥
वर्षद्वयेन मेरुं च समुल्लङ्घ्य महामतिः ।
हिमाचलं च वर्षेण जगाम मिथिलां प्रति ॥ १५॥
प्रविष्टो मिथिलां मध्ये पश्यन्सर्वर्द्धिमुत्तमाम् ।
प्रजाश्च सुखिताः सर्वाः सदाचाराः सुसंस्थिताः ॥ १६॥
क्षत्रा निवारितस्तत्र कस्त्वमत्र समागतः ।
किं ते कार्यं वदस्वेति पृष्टस्तेन न चाब्रवीत् ॥ १७॥
निःसृत्य नगरद्वारात्स्थितः स्थाणुरिवाचलः ।
विस्मितोऽतिहसंस्तस्थौ वचो नोवाच किञ्चन ॥ १८॥
प्रतीहार उवाच ।
ब्रूहि मूकोऽसि किं ब्रह्मन्किमर्थं त्वमिहागतः ।
चलनं च विना कार्यं न भवेदिति मे मतिः ॥ १९॥
राजाज्ञया प्रवेष्टव्यं नगरेऽस्मिन्सदा द्विज ।
अज्ञातकुलशीलस्य प्रवेशो नात्र सर्वथा ॥ २०॥
तेजस्वी भासि नूनं त्वं ब्राह्मणो वेदवित्तमः ।
कुलं कार्यं च मे ब्रूहि यथेष्टं गच्छ मानद ॥ २१॥
शुक उवाच ।
यदर्थमागतोऽस्म्यत्र तत्प्राप्तं वचनात्तव ।
विदेहनगरं द्रष्टुं प्रवेशो यत्र दुर्लभः ॥ २२॥
मोहोऽयं मम दुर्बुद्धेः समुल्लङ्घ्य गिरिद्वयम् ।
राजानं द्रष्टुकामोऽहं पर्यटन्समुपागतः ॥ २३॥
वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयते ।
भ्रामितोऽहं महाभाग कर्मणा वा महीतले ॥ २४॥
धनाशा पुरुषस्येह परिभ्रमणकारणम् ।
सा मे नास्ति तथाप्यत्र सम्प्राप्तोऽस्मि भ्रमात्किल ॥ २५॥
निराशस्य सुखं नित्यं यदि मोहे न मज्जति ।
निराशोऽहं महाभाग मग्नोऽस्मिन्मोहसागरे ॥ २६॥
क्व मेरुर्मिथिला क्वेयं पद्भ्यां च समुपागतः ।
परिश्रमफलं किं मे वञ्चितो विधिना किल ॥ २७॥
प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवाशुभम् ।
उद्यमस्तद्वशे नित्यं कारयत्येव सर्वथा ॥ २८॥
न तीर्थं न च वेदोऽत्र यदर्थमिह मे श्रमः ।
अप्रवेशः पुरे जातो विदेहो नाम भूपतिः ॥ २९॥
इत्युक्त्या विररामाशु मौनीभूत इव स्थितः ।
ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद्द्विजोत्तमः ॥ ३०॥
सामपूर्वमुवाचासौ तं क्षत्ता संस्थितं मुनिम् ।
गच्छ भो यत्र ते कार्यं यथेष्टं द्विजसत्तम ॥ ३१॥
अपराधो मम ब्रह्मन्यन्निवारितवानहम् ।
तत्क्षन्तव्यं महाभाग विमुक्तानां क्षमा बलम् ॥ ३२॥
शुक उवाच ।
किं तेऽत्र दूषणं क्षत्तः परतन्त्रोऽसि सर्वदा ।
प्रभुकार्यं प्रकर्तव्यं सेवकेन यथोचितम् ॥ ३३॥
न भूपदूषणं चात्र यदहं रक्षितस्त्वया ।
चोरशत्रुपरिज्ञानं कर्तव्यं सर्वथा बुधैः ॥ ३४॥
ममैव सर्वथा दोषो यदहं समुपागतः ।
गमनं परगेहे यल्लघुतायाश्च कारणम् ॥ ३५॥
प्रतीहार उवाच ।
किं सुखं द्विज किं दुःखं किं कार्यं शुभमिच्छता ।
कः शत्रुर्हितकर्ता को ब्रूहि सर्वं ममाद्य वै ॥ ३६॥
शुक उवाच ।
द्वैविध्यं सर्वलोकेषु सर्वत्र द्विविधो जनः ।
रागी चैव विरागी च तयोश्चित्तं द्विधा पुनः ॥ ३७॥
विरागी त्रिविधः कामं ज्ञातोऽज्ञातश्च मध्यमः ।
रागी च द्विविधः प्रोक्तो मूर्खश्च चतुरस्तथा ॥ ३८॥
चातुर्यं द्विविधं प्रोक्तं शास्त्रजं मतिजं तथा ।
मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्वथा ॥ ३९॥
प्रतीहार उवाच ।
यदुक्तं भवता विद्वन्नार्थज्ञोऽहं द्विजोत्तम ।
तत्सर्वं विस्तरेणाद्य यथार्थं वद सत्तम ॥ ४०॥
शुक उवाच ।
रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् ।
दुःखं बहुविधं तस्य सुखं च विविधं पुनः ॥ ४१॥
धनं प्राप्य सुतान्दारान्मानं च विजयं तथा ।
तदप्राप्य महद्दुःखं भवत्येव क्षणे क्षणे ॥ ४२॥
कार्यस्तस्य सुखोपायः कर्तव्यं सुखसाधनम् ।
तस्यारातिः स विज्ञेयः सुखविघ्नं करोति यः ॥ ४३॥
सुखोत्पादयिता मित्रं रागयुक्तस्य सर्वदा ।
चतुरो नैव मुह्येत मूर्खः सर्वत्र मुह्यति ॥ ४४॥
विरक्तस्यात्मरक्तस्य सुखमेकान्तसेवनम् ।
आत्मानुचिन्तनं चैव वेदान्तस्य च चिन्तनम् ॥ ४५॥
दुःखं तदेतत्सर्वं हि संसारकथनादिकम् ।
शत्रवो बहवस्तस्य विज्ञस्य शुभमिच्छतः ॥ ४६॥
कामः क्रोधः प्रमादश्च शत्रवो विविधाः स्मृताः ।
बन्धुः सन्तोष एवास्य नान्योऽस्ति भुवनत्रये ॥ ४७॥
सूत उवाच ।
तच्छ्रुत्वा वचनं तस्य मत्वा तं ज्ञानिनं द्विजम् ।
क्षत्ता प्रवेशयामास कक्षां चातिमनोरमाम् ॥ ४८॥
नगरं वीक्षमाणः संस्त्रैविध्यजनसङ्कुलम् ।
नानाविपणिद्रव्याढ्यं क्रयविक्रयकारकम् ॥ ४९॥
रागद्वेषयुतं कामलोभमोहाकुलं तथा ।
विवदत्सुजनाकीर्णं वसुपूर्णं महत्तरम् ॥ ५०॥
पश्यन्स त्रिविधाँल्लोकान्प्रासरद्राजमन्दिरम् ।
प्राप्तः परमतेजस्वी द्वितीय इव भास्करः ॥ ५१॥
निवारितश्च तत्रैव प्रतीहारेण काष्ठवत् ।
तत्रैव च स्थितो द्वारि मोक्षमेवानुचिन्तयन् ॥ ५२॥
छायायामातपे चैव समदर्शी महातपाः ।
ध्यानं कृत्वा तथैकान्ते स्थितः स्थाणुरिवाचलः ॥ ५३॥
तं मुहूर्तादुपागत्य राज्ञोऽमात्यः कृताञ्जलिः ।
प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ॥ ५४॥
तत्र दिव्यं मनोरम्यं पुष्पितं दिव्यपादपम् ।
तद्वनं दर्शयित्वा तु कृत्वा चातिथिसत्क्रियाम् ॥ ५५॥
वारमुख्याः स्त्रियस्तत्र राजसेवापरायणाः ।
गीतवादित्रकुशलाः कामशास्त्रविशारदाः ॥ ५६॥
ता आदिश्य च सेवार्थं शुकस्य मन्त्रिसत्तमः ।
निर्गतः सदनात्तस्माद्व्यासपुत्रः स्थितस्तदा ॥ ५७॥
पूजितः परया भक्त्या ताभिः स्त्रीभिर्यथाविधि ।
देशकालोपपन्नेन नानान्नेनातितोषितः ॥ ५८॥
ततोऽन्तःपुरवासिन्यस्तस्यान्तःपुरकाननम् ।
रम्यं सन्दर्शयामासुरङ्गनाः काममोहिताः ॥ ५९॥
स युवा रूपवान्कान्तो मृदुभाषी मनोरमः ।
दृष्ट्वा ता मुमुहुः सर्वास्तं च काममिवापरम् ॥ ६०॥
जितेन्द्रियं मुनिं मत्त्वा सर्वाः पर्यचरंस्तदा ।
आरणेयस्तु शुद्धात्मा मातृभावमकल्पयत् ॥ ६१॥
आत्मारामो जितक्रोधो न हृष्यति न तप्यति ।
पश्यंस्तासां विकारांश्च स्वस्थ एव स तस्थिवान् ॥ ६२॥
तस्मै शय्यां सुरम्यां च ददुर्नार्यः सुसंस्कृताम् ।
परार्ध्यास्तरणोपेतां नानोपस्करसंवृताम् ॥ ६३॥
स कृत्वा पादशौचं च कुशपाणिरतन्द्रितः ।
उपास्य पश्चिमां सन्ध्यां ध्यानमेवान्वपद्यत ॥ ६४॥
याममेकं स्थितो ध्याने सुष्वाप तदनन्तरम् ।
सुप्त्वा यामद्वयं तत्र चोदतिष्ठत्ततः शुकः ॥ ६५॥
पाश्चात्यं यामिनीयामं ध्यानमेवान्वपद्यत ।
स्नात्वा प्रातःक्रियाः कृत्वा पुनरास्ते समाहितः ॥ ६६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे शुकस्य राजमन्दिरप्रवेशवर्णनं नाम सप्तदशोऽध्यायः ॥ १.१७॥
१.१८ अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।
सूत उवाच ।
श्रुत्वा तमागतं राजा मन्त्रिभिः सहितः शुचिः ।
पुरः पुरोहितं कृत्वा गुरुपुत्रं समभ्यगात् ॥ १॥
कृत्वार्हणां नृपः सम्यग्दत्तासनमनुत्तमम् ।
पप्रच्छ कुशलं गां च विनिवेद्य पयस्विनीम् ॥ २॥
स च तां नृपपूजां वै प्रत्यगृह्णाद्यथाविधि ।
पप्रच्छ कुशलं राज्ञे स्वं निवेद्य निरामयम् ॥ ३॥
कृत्वा कुशलसम्प्रश्नमुपविष्टं सुखासने ।
शुक व्याससुतं शान्तं पर्यपृच्छत पार्थिवः ॥ ४॥
किं निमित्तं महाभाग निःस्पृहस्य च मां प्रति ।
जातं ह्यागमनं ब्रूहि कार्यं तन्मुनिसत्तम ॥ ५॥
शुक उवाच ।
व्यासेनोक्तो महाराज कुरु दारपरिग्रहम् ।
सर्वेषामाश्रमाणां च गृहस्थाश्रम उत्तमः ॥ ६॥
मया नाङ्गीकृतं वाक्यं मत्त्वा बन्धं गुरोरपि ।
न बन्धोऽस्तीति तेनोक्तो नाहं तत्कृतवान्पुनः ॥ ७॥
इति सन्दिग्धमनसं मत्वा स मुनिसत्तमः ।
उवाच वचनं तथ्यं मिथिलां गच्छ मा शुचः ॥ ८॥
याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः ।
विदेहो लोकविदितः पाति राज्यमकण्टकम् ॥ ९॥
कुर्वन् राज्यं तथा राजा मायापाशैर्न बध्यते ।
त्वं बिभेषि कथं पुत्र वनवृत्तिः परन्तप ॥ १०॥
पश्य तं नृपशार्दूलं त्यज मोहं मनोगतम् ।
कुरु दारान्महाभाग पृच्छ वा भूपतिं च तम् ॥ ११॥
सन्देहं ते मनोजातं कथयिष्यति पार्थिवः ।
तच्छ्रुत्वा वचनं तस्य मामेहि तरसा सुत ॥ १२॥
सम्प्राप्तोऽहं महाराज त्वत्पुरे च तदाज्ञया ।
मोक्षकामोऽस्मि राजेन्द्र ब्रूहि कृत्यं ममानघ ॥ १३॥
तपस्तीर्थव्रतेज्याश्च स्वाध्यायस्तीर्थसेवनम् ।
ज्ञानं वा वद राजेन्द्र मोक्षं प्रति च कारणम् ॥ १४॥
जनक उवाच ।
शृणु विप्रेण कर्तव्यं मोक्षमार्गाश्रितेन यत् ।
उपनीतो वसेदादौ वेदाभ्यासाय वै गुरौ ॥ १५॥
अधीत्य वेदवेदान्तान्दत्त्वा च गुरुदक्षिणाम् ।
समावृत्तस्तु गार्हस्थ्ये सदारो निवसेन्मुनिः ॥ १६॥
न्यायवृत्तिस्तु सन्तोषी निराशी गतकल्मषः ।
अग्निहोत्रादिकर्माणि कुर्वाणः सत्यवाक्शुचिः ॥ १७॥
पुत्रं पौत्रं समासाद्य वानप्रस्थाश्रमे वसेत् ।
तपसा षड्रिपूञ्जित्वा भार्यां पुत्रे निवेश्य च ॥ १८॥
सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ।
वसेत्तुर्याश्रमे श्रान्तः शुद्धे वैराग्यसम्भवे ॥ १९॥
विरक्तस्याधिकारोऽस्ति संन्यासे नान्यथा क्वचित् ।
वेदवाक्यमिदं तथ्यं नान्यथेति मतिर्मम ॥ २०॥
शुकाष्टचत्वारिशद्वै संस्कारा वेदबोधिताः ।
चत्वारिंशद्गृहस्थस्य प्रोक्तास्तत्र महात्मभिः ॥ २१॥
अष्टौ च मुक्तिकामस्य प्रोक्ताः शमदमादयः ।
आश्रमादाश्रमं गच्छेदिति शिष्टानुशासनम् ॥ २२॥
शुक उवाच ।
उत्पन्ने हृदि वैराग्ये ज्ञानविज्ञानसम्भवे ।
अवश्यमेव वस्तव्यमाश्रमेषु वनेषु वा ॥ २३॥
जनक उवाच ।
इन्द्रियाणि बलिष्ठानि न नियुक्तानि मानद ।
अपक्वस्य प्रकुर्वन्ति विकारांस्ताननेकशः ॥ २४॥
भोजनेच्छां सुखेच्छां च शय्येच्छामात्मजस्य च ।
यती भूत्वा कथं कुर्याद्विकारे समुपस्थिते ॥ २५॥
दुर्जरं वासनाजालं न शान्तिमुपयाति वै ।
अतस्तच्छमनार्थाय क्रमेण च परित्यजेत् ॥ २६॥
ऊर्ध्वं सुप्तः पतत्येव न शयानः पतत्यधः ।
परिव्रज्य परिभ्रष्टो न मार्गं लभते पुनः ॥ २७॥
यथा पिपीलिका मूलाच्छाखायामधिरोहति ।
शनैः शनैः फलं याति सुखेन पदगामिनी ॥ २८॥
विहङ्गस्तरसा याति विघ्नशङ्कामुदस्य वै ।
श्रान्तो भवति विश्रम्य सुखं याति पिपीलिका ॥ २९॥
मनस्तु प्रबलं काममजेयमकृतात्मभिः ।
अतः क्रमेण जेतव्यमाश्रमानुक्रमेण च ॥ ३०॥
गृहस्थाश्रमसंस्थोऽपि शान्तः सुमतिरात्मवान् ।
न च हृष्येन्न च तपेल्लाभालाभे समो भवेत् ॥ ३१॥
विहतं कर्म कुर्वाणस्त्यजंश्चिन्तान्वितं च यत् ।
आत्मलाभेन सन्तुष्टो मुच्यते नात्र संशयः ॥ ३२॥
पश्याहं राज्यसंस्थोऽपि जीवन्मुक्तो यथानघ ।
विचरामि यथाकामं न मे किञ्चित्प्रजायते ॥ ३३॥
भुञ्जानो विविधान्भोगान्कुर्वन्कार्याण्यनेकशः ।
भविष्यामि यथाहं त्वं तथा मुक्तो भवानघ ॥ ३४॥
कथ्यते खलु यद्दृश्यमदृश्यं बध्यते कुतः ।
दृश्यानि पञ्चभूतानि गुणास्तेषां तथा पुनः ॥ ३५॥
आत्मा गम्योऽनुमानेन प्रत्यक्षो न कदाचन ।
स कथं बध्यते ब्रह्मन्निर्विकारो निरञ्जनः ॥ ३६॥
मनस्तु सुखदुःखानां महतां कारणं द्विज ।
जाते तु निर्मले ह्यस्मिन्सर्वं भवति निर्मलम् ॥ ३७॥
भ्रमन्सर्वेषु तीर्थेषु स्नात्वा स्नात्वा पुनः पुनः ।
निर्मलं न मनो यावत्तावत्सर्वं निरर्थकम् ॥ ३८॥
न देहो न च जीवात्मा नेन्द्रियाणि परन्तप ।
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥ ३९॥
शुद्धो मुक्तः सदैवात्मा न वै बध्येत कर्हिचित् ।
बन्धमोक्षौ मनःसंस्थौ तस्मिञ्छान्ते प्रशाम्यति ॥ ४०॥
शत्रुर्मित्रमुदासीनो भेदाः सर्वे मनोगताः ।
एकात्मत्वे कथं भेदः सम्भवेद्द्वैतदर्शनात् ॥ ४१॥
जीवो ब्रह्म सदैवाहं नात्र कार्या विचारणा ।
भेदबुद्धिस्तु संसारे वर्तमाना प्रवर्तते ॥ ४२॥
अविद्येयं महाभाग विद्या चैतन्निवर्तनम् ।
विद्याविद्ये च विज्ञेये सर्वदैव विचक्षणैः ॥ ४३॥
विनातपं हि छायाया ज्ञायते च कथं सुखम् ।
अविद्यया विना तद्वत्कथं विद्यां च वेत्ति वै ॥ ४४॥
गुणा गुणेषु वर्तन्ते भूतानि च तथैव च ।
इन्द्रियाणीन्द्रियार्थेषु को दोषस्तत्र चात्मनः ॥ ४५॥
मर्यादा सर्वरक्षार्थं कृता वेदेषु सर्वशः ।
अन्यथा धर्मनाशः स्यात्सौगतानामिवानघ ॥ ४६॥
धर्मनाशे विनष्टः स्याद्वर्णाचारोऽतिवर्तितः ।
अतो वेदप्रदिष्टेन मार्गेण गच्छतां शुभम् ॥ ४७॥
शुक उवाच ।
सन्देहो वर्तते राजन्न निवर्तति मे क्वचित् ।
भवता कथितं यत्तच्छृण्वतो मे नराधिप ॥ ४८॥
वेदधर्मेषु हिंसा स्यादधर्मबहुला हि सा ।
कथं मुक्तिप्रदो धर्मो वेदोक्तो बत भूपते ॥ ४९॥
प्रत्यक्षेण त्वनाचारः सोमपानं नराधिप ।
पशूनां हिंसनं तद्वद्भक्षणं चामिषस्य च ॥ ५०॥
सौत्रामणौ तथा प्रोक्तः प्रत्यक्षेण सुराग्रहः ।
द्यूतक्रीडा तथा प्रोक्ता व्रतानि विविधानि च ॥ ५१॥
श्रूयते स्म पुरा ह्यासीच्छशबिन्दुर्नृपोत्तमः ।
यज्वा धर्मपरो नित्यं वदान्यः सत्यसागरः ॥ ५२॥
गोप्ता च धर्मसेतूनां शास्ता चोत्पथगामिनाम् ।
यज्ञाश्च विहितास्तेन बहवो भूरिदक्षिणाः ॥ ५३॥
चर्मणां पर्वतो जातो विन्ध्याचलसमः पुनः ।
मेघाम्बुप्लावनाज्जाता नदी चर्मण्वती शुभा ॥ ५४॥
सोऽपि राजा दिवं यातः कीर्तिरस्याचला भुवि ।
एवं धर्मेषु वेदेषु न मे बुद्धिः प्रवर्तते ॥ ५५॥
स्त्रीसङ्गेन सदा भोगे सुखमाप्नोति मानवः ।
अलाभे दुःखमत्यन्तं जीवन्मुक्तः कथं भवेत् ॥ ५६॥
जनक उवाच ।
हिंसा यज्ञेषु प्रत्यक्षा साहिंसा परिकीर्तिता ।
उपाधियोगतो हिंसा नान्यथेति विनिर्णयः ॥ ५७॥
यथा चेन्धनसंयोगादग्नौ धूमः प्रवर्तते ।
तद्वियोगात्तथा तस्मिन्निर्धूमत्वं विभाति वै ॥ ५८॥
अहिंसां च तथा विद्धि वेदोक्तां मुनिसत्तम ।
रागिणां सापि हिंसैव निःस्पृहाणां न सा मता ॥ ५९॥
अरागेण च यत्कर्म तथाहङ्कारवर्जितम् ।
अकृतं वेदविद्वांसः प्रवदन्ति मनीषिणः ॥ ६०॥
गृहस्थानां तु हिंसैव या यज्ञे द्विजसत्तम ।
अरागेण च यत्कर्म तथाहङ्कारवर्जितम् ॥ ६१॥
साहिंसैव महाभाग मुमुक्षूणां जितात्मनाम् ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे शुकाय जनकोपदेशवर्णनं नामाष्टादशोऽध्यायः ॥ १.१८॥
१.१९ एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।
शुक उवाच ।
सन्देहोऽयं महाराज वर्तते हृदये मम ।
मायामध्ये वर्तमानः स कथं निःस्पृहो भवेत् ॥ १॥
शास्त्रज्ञानं च सम्प्राप्य नित्यानित्यविचारणम् ।
त्यजते न मनो मोहं स कथं मुच्यते नरः ॥ २॥
अन्तर्गतं तमश्छेत्तुं शास्त्राद्बोधो हि न क्षमः ।
यथा न नश्यति तमः कृतया दीपवार्तया ॥ ३॥
अद्रोहः सर्वभूतेषु कर्तव्यः सर्वदा बुधैः ।
स कथं राजशार्दूल गृहस्थस्य भवेत्तथा ॥ ४॥
वित्तैषणा न ते शान्ता तथा राज्यसुखैषणा ।
जयैषणा च सङ्ग्रामे जीवन्मुक्तः कथं भवेः ॥ ५॥
चौरेषु चौरबुद्धिस्तु साधुबुद्धिस्तु तापसे ।
स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप ॥ ६॥
कटुतीक्ष्णुकषायाम्लरसान्वेत्सि शुभाशुभान् ।
शुभेषु रमते चित्तं नाशुभेषु तथा नृप ॥ ७॥
जाग्रत्स्वप्नसुषुप्तिश्च तव राजन् भवन्ति हि ।
अवस्थास्तु यथाकालं तुरीया तु कथं नृप ॥ ८॥
पदात्यश्वरथेभाश्च सर्वे वै वशगा मम ।
स्वाम्यहं चैव सर्वेषां मन्यसे त्वं न मन्यसे ॥ ९॥
मिष्टमत्सि सदा राजन्मुदितो विमनास्तथा ।
मालायां च तथा सर्पे समदृक् क्व नृपोत्तम ॥ १०॥
विमुक्तस्तु भवेद्राजन् समलोष्टाश्मकाञ्चनः ।
एकात्मबुद्धिः सर्वत्र हितकृत्सर्वजन्तुषु ॥ ११॥
न मेऽद्य रमते चित्तं गृहदारादिषु क्वचित् ।
एकाकी निःस्पृहोऽत्यर्थं चरेयमिति मे मतिः ॥ १२॥
निःसङ्गो निर्ममः शान्तः पत्रमूलफलाशनः ।
मृगवद्विचरिष्यामि निर्द्वन्द्वो निष्परिग्रहः ॥ १३॥
किं मे गृहेण वित्तेन भार्यया च सुरूपया ।
विरागमनसः कामं गुणातीतस्य पार्थिव ॥ १४॥
चिन्त्यसे विविधाकारं नानारागसमाकुलम् ।
दम्भोऽयं किल ते भाति विमुक्तोऽस्मीति भाषसे ॥ १५॥
कदाचिच्छत्रुजा चिन्ता धनजा च कदाचन ।
कदाचित्सैन्यजा चिन्ता निश्चिन्तोऽसि कदा नृप ॥ १६॥
वैखानसा ये मुनयो मिताहारा जितव्रताः ।
तेऽपि मुह्यन्ति संसारे जानन्तोऽपि ह्यसत्यताम् ॥ १७॥
तव वंशसमुत्थानां विदेहा इति भूपते ।
कुटिलं नाम जानीहि नान्यथेति कदाचन ॥ १८॥
विद्याधरो यथा मूर्खो जन्मान्धस्तु दिवाकरः ।
लक्ष्मीधरो दरिद्रश्च नाम तेषां निरर्थकम् ॥ १९॥
तव वंशोद्भवा ये ये श्रुताः पूर्वे मया नृपाः ।
विदेहा इति विख्याता नामतः कर्मतो न ते ॥ २०॥
निमिनामाभवद्राजा पूर्वं तव कुले नृप ।
यज्ञार्थं स तु राजर्षिर्वसिष्ठं स्वगुरुं मुनिम् ॥ २१॥
निमन्त्रयामास तदा तमुवाच नृपं मुनिः ।
निमन्त्रितोऽस्मि यज्ञार्थं देवेन्द्रेणाधुना किल ॥ २२॥
कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै ।
तावत्कुरुष्व राजेन्द्र सम्भारं तु शनैः शनैः ॥ २३॥
इत्युक्त्या निर्ययौ सोऽथ महेन्द्रयजने मुनिः ।
निमिरन्यं गुरुं कृत्वा चकार मखमुत्तमम् ॥ २४॥
तच्छ्रुत्वा कुपितोऽत्यर्थं वसिष्ठो नृपतिं पुनः ।
शशाप च पतत्वद्य देहस्ते गुरुलोपक ॥ २५॥
राजापि तं शशापाथ तवापि च पतत्वयम् ।
अन्योन्यशापात्पतितौ तावेव च मया श्रुतम् ॥ २६॥
विदेहेन च राजेन्द्र कथं शप्तो गुरुः स्वयम् ।
विनोद इव मे चित्ते विभाति नृपसत्तम ॥ २७॥
जनक उवाच ।
सत्यमुक्तं त्वया नात्र मिथ्या किञ्चिदिदं मतम् ।
तथापि शृणु विप्रेन्द्र गुरुर्मम सुपूजितः ॥ २८॥
पितुः सङ्गं परित्यज्य त्वं वनं गन्तुमिच्छसि ।
मृगैः सह सुसम्बन्धो भविता ते न संशयः ॥ २९॥
महाभूतानि सर्वत्र निःसङ्गः क्व भविष्यसि ।
आहारार्थं सदा चिन्ता निश्चिन्तः स्याः कथं मुने ॥ ३०॥
दण्डाजिनकृता चिन्ता यथा तव वनेऽपि च ।
तथैव राज्यचिन्ता मे चिन्तयानस्य वा न वा ॥ ३१॥
विकल्पोपहतस्त्वं वै दूरदेशमुपागतः ।
न मे विकल्पसन्देहो निर्विकल्पोऽस्मि सर्वथा ॥ ३२॥
सुखं स्वपिमि विप्राहं सुखं भुञ्जामि सर्वथा ।
न बद्धोऽस्मीति बुद्ध्याहं सर्वदैव सुखी मुने ॥ ३३॥
त्वं तु दुःखी सदैवासि बद्धोऽहमिति शङ्कया ।
इति शङ्कां परित्यज्य सुखी भव समाहितः ॥ ३४॥
देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता ।
तथा धनं गृहं राज्यं न ममेति च निश्चयः ॥ ३५॥
सूत उवाच ।
तच्छ्रुत्वा वचनं तस्य शुकः प्रीतमनाभवत् ।
आपृच्छ्य तं जगामाशु व्यासस्याश्रममुत्तमम् ॥ ३६॥
आगच्छन्तं सुतं दृष्ट्वा व्यासोऽपि सुखमाप्तवान् ।
आलिङ्ग्याघ्राय मूर्धानं पप्रच्छ कुशलं पुनः ॥ ३७॥
स्थितस्तत्राश्रमे रम्ये पितुः पार्श्वे समाहितः ।
वेदाध्ययनसम्पन्नः सर्वशास्त्रविशारदः ॥ ३८॥
जनकस्य दशां दृष्ट्वा राज्यस्थस्य महात्मनः ।
स निर्वृतिं परां प्राप्य पितुराश्रमसंस्थितः ॥ ३९॥
पितॄणां सुभगा कन्या पीवरी नाम सुन्दरी ।
शुकश्चकार पत्नीं तां योगमार्गस्थितोऽपि हि ॥ ४०॥
स तस्यां जनयामास पुत्रांश्चतुर एव हि ।
कृष्णं गौरप्रभं चैव भूरिं देवश्रुतं तथा ॥ ४१॥
कन्यां कीर्तिं समुत्पाद्य व्यासपुत्रः प्रतापवान् ।
ददौ विभ्राजपुत्राय त्वणहाय महात्मने ॥ ४२॥
अणुहस्य सुतः श्रीमान्ब्रह्मदत्तः प्रतापवान् ।
ब्रह्मज्ञः पृथिवीपालः शककन्यासमुद्भवः ॥ ४३॥
कालेन कियता तत्र नारदस्योपदेशतः ।
ज्ञानं परमकं प्राप्य योगमार्गमनुत्तमम् ॥ ४४॥
पुत्रे राज्यं निधायाथ गतो बदरिकाश्रमम् ।
मायाबीजोपदेशेन तस्य ज्ञानं निरर्गलम् ॥ ४५॥
नारदस्य प्रसादेन जातं सद्यो विमुक्तिदम् ।
कैलासशिखरे रम्ये त्यक्त्वा सङ्गं पितुः शुकः ॥ ४६॥
ध्यानमास्थाय विपुलं स्थितः सङ्गपराङ्मुखः ।
उत्पपात गिरेः शृङ्गात्सिद्धिं च परमां गतः ॥ ४७॥
आकाशगो महातेजा विरराज यथा रविः ।
गिरेः शृङ्गं द्विधा जातं शुकस्योत्पतने तदा ॥ ४८॥
उत्पाता बहवो जाताः शुकश्चाकाशगोऽभवत् ।
अन्तरिक्षे यथा वायुः स्तूयमानः सुरर्षिभिः ॥ ४९॥
तेजसातिविराजन्वै द्वितीय इव भास्करः ।
व्यासस्तु विरहाक्रान्तः क्रन्दन्पुत्रेति चासकृत् ॥ ५०॥
गिरेः शृङ्गे गतस्तत्र शुको यत्र स्थितोऽभवत् ।
क्रन्दमानं तदा दीनं व्यासं मत्वा श्रमाकुलम् ॥ ५१॥
सर्वभूतगतः साक्षी प्रतिशब्दमदात्तदा ।
तत्राद्यापि गिरेः शृङ्गे प्रतिशब्दः स्फुटोऽभवत् ॥ ५२॥
रुदन्तं तं समालक्ष्य व्यासं शोकसमन्वितम् ।
पुत्र पुत्रेति भाषन्तं विरहेण परिप्लुतम् ॥ ५३॥
शिवस्तत्र समागत्य पाराशर्यमबोधयत् ।
व्यास शोकं मा कुरु त्वं पुत्रस्ते योगवित्तमः ॥ ५४॥
परमां गतिमापन्नो दुर्लभां चाकृतात्मभिः ।
तस्य शोको न कर्तव्यस्त्वयाशोकं विजानता ॥ ५५॥
कीर्तिस्ते विपुला जाता तेन पुत्रेण चानघ ।
व्यास उवाच ।
न शोको याति देवेश किं करोमि जगत्पते ॥ ५६॥
अतृप्ते लोचने मेऽद्य पुत्रदर्शनलालसे ।
महादेव उवाच ।
छायां द्रक्ष्यसि पुत्रस्य पार्श्वस्थां सुमनोहराम् ॥ ५७॥
तां वीक्ष्य मुनिशार्दूल शोकं जहि परन्तप ।
सूत उवाच ।
तदा ददर्श व्यासस्तु छायां पुत्रस्य सुप्रभाम् ॥ ५८॥
दत्त्वा वरं हरस्तस्मै तत्रैवान्तरधीयत ।
अन्तर्हिते महादेवे व्यासः स्वाश्रममभ्यगात् ॥ ५९॥
शुकस्य विरहेणापि तप्तः परमदुःखितः ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे
शुकस्य विवाहादिकार्यवर्णनं नामैकोनविंशोऽध्यायः ॥ १.१९॥
१.२० विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।
ऋषय ऊचुः ।
शुकस्तु परमां सिद्धिमाप्तवान्देवसत्तमः ।
किं चकार ततो व्यासस्तन्नो ब्रूहि सविस्तरम् ॥ १॥
सूत उवाच ।
शिष्या व्यासस्य येऽप्यासन्वेदाभ्यासपरायणाः ।
आज्ञामादाय ते सर्वे गताः पूर्वं महीतले ॥ २॥
असितो देवलश्चैव वैशम्पायन एव च ।
जैमिनिश्च सुमन्तुश्च गताः सर्वे तपोधनाः ॥ ३॥
तानेतान्वीक्ष्य पुत्रं च लोकान्तरितमप्युत ।
व्यासः शोकसमाक्रान्तो गमनायाकरोन्मतिम् ॥ ४॥
सस्मार मनसा व्यासस्तां निषादसुतां शुभाम् ।
मातरं जाह्नवीतीरे मुक्तां शोकसमन्विताम् ॥ ५॥
स्मृत्वा सत्यवतीं व्यासस्त्यक्त्वा तं पर्वतोत्तमम् ।
आजगाम महातेजा जन्मस्थानं स्वकं मुनिः ॥ ६॥
द्वीपं प्राप्याथ पप्रच्छ क्व गता सा वरानना ।
निषादास्तं समाचख्युर्दत्ता राज्ञे तु कन्यका ॥ ७॥
दाशराजोऽपि सम्पूज्य व्यासं प्रीतिपुरःसरम् ।
स्वागतेनाभिसत्कृत्य प्रोवाच विहिताञ्जलिः ॥ ८॥
दाशराज उवाच ।
अद्य मे सफलं जन्म पावितं नः कुलं मुने ।
देवानामपि दुर्दर्शं यज्जातं तव दर्शनम् ॥ ९॥
यदर्थमागतोऽसि त्वं तद्ब्रूहि द्विजसत्तम ।
अपि दारा धनं पुत्रास्त्वदायत्तमिदं विभो ॥ १०॥
सरस्वत्यास्तटे रम्ये चकाराश्रममण्डलम् ।
व्यासस्तपःसमायुक्तस्तत्रैवास समाहितः ॥ ११॥
सत्यवत्याः सुतौ जातौ शन्तनोरमितद्युतेः ।
मत्वा तौ भ्रातरौ व्यासः सुखमाप वने स्थितः ॥ १२॥
चित्राङ्गदः प्रथमजो रूपवाञ्छत्रुतापनः ।
बभूव नृपतेः पुत्रः सर्वलक्षणसंयुतः ॥ १३॥
विचित्रवीर्यनामासौ द्वितीयः समजायत ।
सोऽपि सर्वगुणोपेतः शन्तनोः सुखवर्धनः ॥ १४॥
गाङ्गेयः प्रथमस्तस्य महावीरो बलाधिकः ।
तथैव तौ सुतौ जातौ सत्यवत्यां महाबलौ ॥ १५॥
शन्तनुस्तान्सुतान्वीक्ष्य सर्वलक्षणसंयुतान् ।
अमंस्ताजय्यमात्मानं देवादीनां महामनाः ॥ १६॥
अथ कालेन कियता शन्तनुः कालपर्ययात् ।
तत्याज देहं धर्मात्मा देही जीर्णमिवाम्बरम् ॥ १७॥
कालधर्मगते राज्ञि भीष्मश्चक्रे विधानतः ।
प्रेतकार्याणि सर्वाणि दानानि विविधानि च ॥ १८॥
चित्राङ्गदं ततो राज्ये स्थापयामास वीर्यवान् ।
स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत् ॥ १९॥
चित्राङ्गदस्तु वीर्येण प्रमत्तः परदुःखदः ।
बभूव बलवान्वीरः सत्यवत्यात्मजः शुचिः ॥ २०॥
अथैकदा महाबाहुः सैन्येन महतावृतः ।
प्रचचार वनोद्देशात्पश्यन्वध्यान्मृगान् रुरून् ॥ २१॥
चित्राङ्गदस्तु गन्धर्वो दृष्ट्वा तं मार्गगं नृपम् ।
उत्ततारान्तिकं भूमेर्विमानवरमास्थितः ॥ २२॥
तत्राभूच्च महद्युद्धं तयोः सदृशवीर्ययोः ।
कुरुक्षेत्रे महास्थाने त्रीणि वर्षाणि तापसाः ॥ २३॥
इन्द्रलोकमवापाशु गन्धर्वेण हतो रणे ।
भीष्मः श्रुत्वा चकाराशु तस्यौर्ध्वदैहिकं तदा ॥ २४॥
गाङ्गेयः कृतशोकस्तु मन्त्रिभिः परिवारितः ।
विचित्रवीर्यनामानं राज्येशं च चकार ह ॥ २५॥
मन्त्रिभिर्बोधिता पश्चाद्गुरुभिश्च महात्मभिः ।
स्वपुत्रं राज्यगं दृष्ट्वा पुत्रशोकहतापि च ॥ २६॥
सत्यवत्यतिसन्तुष्टा बभूव वरवर्णिनी ।
व्यासोऽपि भ्रातरं श्रुत्वा राजानं मुदितोऽभवत् ॥ २७॥
यौवनं परमं प्राप्तः सत्यवत्याः सुतः शुभः ।
चकार चिन्तां भीष्मोऽपि विवाहार्थं कनीयसः ॥ २८॥
काशिराजसुतास्तिस्रः सर्वलक्षणसंयुताः ।
तेन राज्ञा विवाहार्थं स्थापिताश्च स्वयंवरे ॥ २९॥
राजानो राजपुत्राश्च समाहूताः सहस्रशः ।
इच्छास्वयंवरार्थं वै पूज्यमानाः समागताः ॥ ३०॥
तत्र भीष्मो महातेजास्ता जहार बलेन वै ।
निर्मथ्य राजकं सर्वं रथेनैकेन वीर्यवान् ॥ ३१॥
स जित्वा पार्थिवान्सर्वांस्ताश्चादाय महारथः ।
बाहुवीर्येण तेजस्वी ह्याससाद गजाह्वयम् ॥ ३२॥
मातृवद्भगिनीवच्च पुत्रीवच्चिन्तयन्किल ।
तिस्रः समानयामास कन्यका वामलोचनाः ॥ ३३॥
सत्यवत्यै निवेद्याशु द्विजानाहूय सत्वरः ।
दैवज्ञान्वेदविदुषः पर्यपृच्छच्छुभं दिनम् ॥ ३४॥
कृत्वा विवाहसम्भारं यदा वै भ्रातरं निजम् ।
विचित्रवीर्यं धर्मिष्ठं विवाहयति ता यदा ॥ ३५॥
तदा ज्येष्ठाप्युवाचेदं कन्यका जाह्नवीसुतम् ।
लज्जमानासितापाङ्गी तिसॄणां चारुलोचना ॥ ३६॥
गङ्गापुत्र कुरुश्रेष्ठ धर्मज्ञ कुलदीपक ।
मया स्वयंवरे शाल्वो वृतोऽस्ति मनसा नृपः ॥ ३७॥
वृताहं तेन राज्ञा वै चित्ते प्रेमसमाकुले ।
यथायोग्यं कुरुष्वाद्य कुलस्यास्य परन्तप ॥ ३८॥
तेनाहं वृतपूर्वाऽस्मि त्वं च धर्मभृतां वरः ।
बलवानसि गाङ्गेय यथेच्छसि तथा कुरु ॥ ३९॥
सूत उवाच ।
एवमुक्तस्तया तत्र कन्यया कुरुनन्दनः ।
अपृच्छत् ब्राह्मणान्वृद्धान्मातरं सचिवांस्तथा ॥ ४०॥
सर्वेषां मतमाज्ञाय गाङ्गेयो धर्मवित्तमः ।
गच्छेति कन्यकां प्राह यथारुचि वरानने ॥ ४१॥
विसर्जिताथ सा तेन गता शाल्वनिकेतनम् ।
उवाच तं वरारोहा राजानं मनसेप्सितम् ॥ ४२॥
विनिर्मुक्तास्मि भीष्मेण त्वन्मनस्केति धर्मतः ।
आगतास्मि महाराज गृहाणाद्य करं मम ॥ ४३॥
धर्मपत्नी तवात्यन्तं भवामि नृपसत्तम ।
चिन्तितोऽसि मया पूर्वं त्वयाहं नात्र संशयः ॥ ४४॥
शाल्व उवाच ।
गृहीता त्वं वरारोहे भीष्मेण पश्यतो मम ।
रथे संस्थापिता तेन न ग्रहीष्ये करं तव ॥ ४५॥
परोच्छिष्टां च कः कन्यां गृह्णाति मतिमान्नरः ।
अतोऽहं न ग्रहीष्यामि त्यक्तां भीष्मेण मातृवत् ॥ ४६॥
रुदती विलपन्ती सा त्यक्ता तेन महात्मना ।
पुनर्भीष्मं समागत्य रुदती चेदमब्रवीत् ॥ ४७॥
शाल्वो मुक्तां त्वया वीर न गृह्णाति गृहाण माम् ।
धर्मज्ञोऽसि महाभाग मरिष्याम्यन्यथा ह्यहम् ॥ ४८॥
भीष्म उवाच ।
अन्यचित्तां कथं त्वां वै गृह्णामि वरवर्णिनि ।
पितरं स्वं वरारोहे व्रज शीघ्नं निराकुला ॥ ४९॥
तथोक्ता सा तु भीष्मेण जगाम वनमेव हि ।
तपश्चकार विजने तीर्थे परमपावने ॥ ५०॥
द्वे भार्ये चातिरूपाढ्ये तस्य राज्ञो बभूवतुः ।
अम्बालिका चाम्बिका च काशिराजसुते शुभे ॥ ५१॥
राजा विचित्रवीर्योऽसौ ताभ्यां सह महाबलः ।
रेमे नानाविहारैश्च गृहे चोपवने तथा ॥ ५२॥
वर्षाणि नव राजेन्द्रः कुर्वन् क्रीडा मनोरमाम् ।
प्रापासौ मरणं भूयो गृहीतो राजयक्ष्मणा ॥ ५३॥
मृते पुत्रेऽतिदुःखार्ता जाता सत्यवती तदा ।
कारयामास पुत्रस्य प्रेतकार्याणि मन्त्रिभिः ॥ ५४॥
भीष्ममाह तदैकान्ते वचनं चातिदुःखिता ।
राज्यं कुरु महाभाग पितुस्ते शन्तनोः सुत ॥ ५५॥
भ्रातुर्भार्यां गृहाण त्वं वंशञ्च परिरक्षय ।
यथा न नाशमायाति ययातेर्वंश इत्युत ॥ ५६॥
भीष्म उवाच ।
प्रतिज्ञा मे श्रुता मातः पित्रर्थे या मया कृता ।
नाहं राज्यं करिष्यामि न चाहं दारसङ्ग्रहम् ॥ ५७॥
सूत उवाच ।
तदा चिन्तातुरा जाता कथं वंशो भवेदिति ।
नालसाद्धि सुखं मह्यं समुत्पन्ने ह्यराजके ॥ ५८॥
गाङ्गेयस्तामुवाचेदं मा चिन्तां कुरु भामिनि ।
पुत्रं विचित्रवीर्यस्य क्षेत्रजं चोपपादय ॥ ५९॥
कुलीनं द्विजमाहूय वध्वा सह नियोजय ।
नात्र दोषोऽस्ति वेदेऽपि कुलरक्षाविधौ किल ॥ ६०॥
पौत्रं चैवं समुत्पाद्य राज्यं देहि शुचिस्मिते ।
अहं च पालयिष्यामि तस्य शासनमेव हि ॥ ६१॥
तच्छ्रुत्वा वचनं तस्य कानीनं स्वसुतं मुनिम् ।
जगाम मनसा व्यासं द्वैपायनमकल्मषम् ॥ ६२॥
स्मृतमात्रस्ततो व्यास आजगाम स तापसः ।
कृत्वा प्रणामं मात्रेऽथ संस्थितो दीप्तिमान्मुनिः ॥ ६३॥
भीष्मेण पूजितः कामं सत्यवत्या च मानितः ।
तस्थौ तत्र महातेजा विधूमोऽग्निरिवापरः ॥ ६४॥
तमुवाच मुनिं माता पुत्रमुत्पादयाधुना ।
क्षेत्रे विचित्रवीर्यस्य सुन्दरं तव वीर्यजम् ॥ ६५॥
व्यासः श्रुत्वा वचो मातुराप्तवाक्यममन्यत ।
ओमित्युक्त्वा स्थितस्तत्र ऋतुकालमचिन्तयत् ॥ ६६॥
अम्बिका च यदा स्नाता नारी ऋतुमती तदा ।
सङ्गं प्राप्य मुनेः पुत्रमसूतान्धं महाबलम् ॥ ६७॥
जन्मान्धं च सुतं वीक्ष्य दुःखिता सत्यवत्यपि ।
द्वितीयां च वधूमाह पुत्रमुत्पादयाशु वै ॥ ६८॥
ऋतुकालेऽथ सम्प्राप्ते व्यासेन सह सङ्गता ।
तथा चाम्बालिका रात्रौ गर्भं नारी दधार सा ॥ ६९॥
सोऽपि पाण्डुः सुतो जातो राज्ययोग्यो न सम्मतः ।
पुत्रार्थे प्रेरयामास वर्षान्ते च पुनर्वधूम् ॥ ७०॥
आहूय च ततो व्यासं सम्प्रार्थ्य मुनिसत्तमम् ।
प्रेषयामास रात्रौ सा शयनागारमुत्तमम् ॥ ७१॥
न गता च वधूस्तत्र प्रेष्या सम्प्रेषिता तया ।
तस्यां च विदुरो जातो दास्यां धर्मांशतः शुभः ॥ ७२॥
एवं व्यासेन ते पुत्रा धृतराष्ट्रादयस्त्रयः ।
उत्पादिता महावीरा वंशरक्षणहेतवे ॥ ७३॥
एतद्वः सर्वमाख्यातं तस्य वंशसमुद्भवम् ।
व्यासेन रक्षितो वंशो भ्रातृधर्मविदानघाः ॥ ७४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
प्रथमस्कन्धे धृतराष्ट्रादीनामुत्पत्तिवर्णनं नाम विंशोऽध्यायः ॥ १.२०॥
॥ इति श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide