३ श्रीमद्देवीभागवतमहापुराणे तृतीयः स्कन्धः
३.१ प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।
जनमेजय उवाच -
भगवन् भवता प्रोक्तं यज्ञमम्बाभिधं महत् ।
सा का कथं समुत्पन्ना कुत्र कस्माच्च किङ्गुणा ॥ १॥
कीदृशश्च मखस्तस्याः स्वरूपं कीदृशं तथा ।
विधानं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ २॥
ब्रह्माण्डस्य तथोत्पत्तिं वद विस्तरतस्तथा ।
यथोक्तं यादृशं ब्रह्मन्नखिलं वेत्सि भूसुर ॥ ३॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा मया श्रुताः ।
सृष्टिपालनसंहारकारकाः सगुणास्त्वमी ॥ ४॥
स्वतन्त्रास्ते महात्मानः पाराशर्य वदस्व मे ।
आहोस्वित्परतन्त्रास्ते श्रोतुमिच्छामि साम्प्रतम् ॥ ५॥
मृत्युधर्माश्च ते नो वा सच्चिदानन्दरूपिणः ।
अधिभूतादिभिर्युक्ता न वा दुःखैस्त्रिधात्मकैः ॥ ६॥
कालस्य वशगा नो वा ते सुरेन्द्रा महाबलाः ।
कथं ते वै समुत्पन्ना कस्मादिति च संशयः ॥ ७॥
हर्षशोकयुतास्ते वै निद्रालस्यसमन्विताः ।
सप्तधातुमयास्तेषां देहाः किं वान्यथा मुने ॥ ८॥
कैर्द्रव्यैर्निर्मितास्ते वै कैर्गुणैरिन्द्रियैस्तथा ।
भोगश्च कीदृशस्तेषां प्रमाणमायुषस्तथा ॥ ९॥
निवासस्थानमप्येषां विभूतिं च वदस्व मे ।
श्रोतुमिच्छाम्यहं ब्रह्मन् विस्तरेण कथामिमाम् ॥ १०॥
व्यास उवाच -
दुर्गमः प्रश्नभारोऽयं कृतो राजंस्त्वयाऽधुना ।
ब्रह्मादीनां समुत्पत्तिः कस्मादिति महामते ॥ ११॥
एतदेव मया पूर्वं पृष्टोऽसौ नारदो मुनिः ।
विस्मितः प्रत्युवाचेदमुत्थितः शृणु भूपते ॥ १२॥
कस्मिंश्च समये चाहं गङ्गातीरे स्थितं मुनिम् ।
अपश्यं नारदं शान्तं सर्वज्ञं वेदवित्तमम् ॥ १३॥
दृष्ट्वाहं मुदितो भूत्वा पादयोरपतं मुनेः ।
तेजाज्ञप्तः समीपेऽस्य संविष्टश्च वरासने ॥ १४॥
श्रुत्वा कुशलवार्तां वै तमपृच्छं विधेः सुतम् ।
निर्विष्टं जाह्नवीतीरे निर्जने सूक्ष्मवालुके ॥ १५॥
मुनेऽतिविततस्यास्य ब्रह्माण्डस्य महामते ।
कः कर्ता परमः प्रोक्तस्तन्मे ब्रूहि विधानतः ॥ १६॥
कस्मादेतत्समुत्पन्नं ब्रह्माण्डं मुनिसत्तम ।
अनित्यं वा तथा नित्यं तदाचक्ष्व द्विजोत्तम ॥ १७॥
एककर्तृकमेतद्वा बहुकर्तृकमन्यथा ।
अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे ॥ १८॥
इति सन्देहसन्दोहे मग्नं मां तारयाधुना ।
विकल्पकोटीः कृर्वाणं संसारेऽस्मिन् प्रविस्तरे ॥ १९॥
ब्रुवन्ति शङ्करं केचिन्मत्वा कारणकारणम् ।
सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम् ॥ २०॥
आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम् ।
संसारतारकं नित्यं सृष्टिस्थित्यन्तकारणम् ॥ २१॥
अन्ये विष्णुं स्तुवन्त्येनं सर्वेषां प्रभुमीश्वरम् ।
परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम् ॥ २२॥
भुक्तिदं मुक्तिदं शान्तं सर्वादिं सर्वतोमुखम् ।
व्यापकं विश्वशरणमनादिनिधनं हरिम् ॥ २३॥
धातारं च तथा चान्ये ब्रुवन्ति सृष्टिकारणम् ।
तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम् ॥ २४॥
चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम् ।
स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम् ॥ २५॥
दिनेशं प्रवदन्त्यन्ये सर्वेशं वेदवादिनः ।
स्तुवन्ति चैव गायन्ति सायं प्रातरतन्द्रिताः ॥ २६॥
यजन्ति च तथा यज्ञे वासवं च शतक्रतुम् ।
सहस्राक्षं देवदेवं सर्वेषां प्रभुमुल्बणम् ॥ २७॥
यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् ।
यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम् ॥ २८॥
वरुणं च तथा सोमं पावकं पवनं तथा ।
यमं कुबेरं धनदं गणाधीशं तथापरे ॥ २९॥
हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् ।
स्मरणात्सिद्धिदं कामं कामदं कामगं परम् ॥ ३०॥
भवानीं केचनाचार्याः प्रवदन्त्यखिलार्थदाम् ।
आदिमायां महाशक्तिं प्रकृतिं पुरुषानुगाम् ॥ ३१॥
ब्रह्मैकतासमापन्नां सृष्टिस्थित्यन्तकारिणीम् ।
मातरं सर्वभूतानां देवतानां तथैव च ॥ ३२॥
अनादिनिधनां पूर्णां व्यापिकां सर्वजन्तुषु ।
ईश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम् ॥ ३३॥
वैष्णवीं शाङ्करीं ब्राह्मीं वासवीं वारुणीं तथा ।
वाराहीं नारसिंहीं च महालक्ष्मीं तथाद्भुताम् ॥ ३४॥
वेदमातरमेकां च विद्यां भवतरोः स्थिराम् ।
सर्वदुःखनिहन्त्रीं च स्मरणात्सर्वकामदाम् ॥ ३५॥
मोक्षदां च मुमुक्षूणां कामदां च फलार्थिनाम् ।
त्रिगुणातीतरूपां च गुणविस्तारकारकाम् ॥ ३६॥
निर्गुणां सगुणां तस्मात्तां ध्यायन्ति फलार्थिनः ।
निरञ्जनं निराकारं निर्लेपं निर्गुणं किल ॥ ३७॥
अरूपं व्यापकं ब्रह्म प्रवदन्ति मुनीश्वराः ।
वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित् ॥ ३८॥
सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा ।
सहस्रकरकर्णश्च सहस्रास्यः सहस्रपात् ॥ ३९॥
विष्णोः पादमथाकाशं परमं समुदाहृतम् ।
विराजं विरजं शान्तं प्रवदन्ति मनीषिणः ॥ ४०॥
पुरुषोत्तमं तथा चान्ये प्रवदन्ति पुराविदः ।
नैकोऽपीति वदन्त्यन्ये प्रभुरीशः कदाचन ॥ ४१॥
अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन ।
न कदापीशजन्यं यज्जगदेतदचिन्तितम् ॥ ४२॥
सदैवेदमनीशं च स्वभावोत्थं सदेदृशम् ।
अकर्तासौ पुमान्प्रोक्तः प्रकृतिस्तु तथा च सा ॥ ४३॥
एवं वदन्ति साङ्ख्याश्च मुनयः कपिलादयः ।
एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे ॥ ४४॥
विकल्पोपहतं चेतः किं करोमि मुनीश्वर ।
धर्माधर्मविवक्षायां न मनो मे स्थिरं भवेत् ॥ ४५॥
को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते ।
देवाः सत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः ॥ ४६॥
पीड्यन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः ।
धर्मस्थिताः सदाचाराः पाण्डवा मम वंशजाः ॥ ४७॥
दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः ।
अतो मे हृदयं तात वेपतेऽतीव संशये ॥ ४८॥
कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने ।
त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने ॥ ४९॥
मज्जन्तं चोत्पतन्तं च मग्नं मोहजलाविले ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे भुवनेश्वरीवर्णनं नाम प्रथमोऽध्यायः ॥ ३.१॥
३.२ द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।
व्यास उवाच ।
यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम ।
तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः ॥ १॥
नारद उवाच ।
व्यास किं ते ब्रवीम्यद्य पुराऽयं संशयो मम ।
उत्पन्नो हृदयेऽत्यर्थं सन्देहासारपीडितः ॥ २॥
गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् ।
अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमुत्तमम् ॥ ३॥
पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो ।
भवत्कृतेन वा सम्यक् किं वा विष्णुकृतं त्विदम् ॥ ४॥
रुद्रकृतं वा विश्वात्मन् ब्रूहि सत्यं जगत्पते ।
आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः ॥ ५॥
तत्सर्वं वद मे ब्रह्मन्सन्देहांश्छिन्धि चानघ ।
निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे ॥ ६॥
सन्देहान्दोलितं चेतो न प्रशाम्यति कुत्रचित् ।
न तीर्थेषु न देवेषु साधनेष्वितरेषु च ॥ ७॥
अविज्ञाय परं तत्त्वं कुतः शान्तिः परन्तप ।
विकीर्णं बहुधा चित्तं नैकत्र स्थिरतां व्रजेत् ॥ ८॥
कं स्मरामि यजे कं वा कं व्रजाम्यर्चयामि कम् ।
स्तौमि कं नाभिजानामि देव सर्वेश्वरेश्वरम् ॥ ९॥
ततो मां प्रत्युवाचेदं ब्रह्मा लोकपितामहः ।
मया सत्यवतीसूनो कृते प्रश्ने सुदुस्तरे ॥ १०॥
ब्रह्मोवाच ।
किं ब्रवीमि सुताद्याहं दुर्बोधं प्रश्नमुत्तमम् ।
त्वयाशक्यं महाभाग विष्णोरपि सुनिश्चयात् ॥ ११॥
रागी कोऽपि न जानाति संसारेऽस्मिन्महामते ।
विरक्तश्च विजानाति निरीहो यो विमत्सरः ॥ १२॥
एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे
भूतमात्रे समुत्पन्ने सञ्जज्ञे कमलादहम् ॥ १३॥
नापश्यं तरणिं सोमं न वृक्षान्न च पर्वतान् ।
कर्णिकायां समाविष्टश्चिन्तामकरवं तदा ॥ १४॥
कस्मादहं समुद्भूतः सलिलेऽस्मिन्महार्णवे ।
को मे त्राता प्रभुः कर्ता संहर्ता वा युगात्यये ॥ १५॥
न च भूर्विद्यते स्पष्टा यदाधारं जलं त्विदम् ।
पङ्कजं कथमुत्पन्नं प्रसिद्धं रूढियोगयोः ॥ १६॥
पश्याम्यद्यास्य पङ्कं तं मूलं वै पङ्कजस्य च ।
भविष्यति धरा तत्र मूलं नास्त्यत्र संशयः ॥ १७॥
उत्तरन्सलिले तत्र यावद्वर्षसहस्रकम् ।
अन्वेषमाणो धरणीं नावाप तां यदा तदा ॥ १८॥
तपस्तपेति चाकाशे वागभूदशरीरिणी ।
ततो मया तपस्तप्तं पद्मे वर्षसहस्रकम् ॥ १९॥
सृजेति पुनरुद्भूता वाणी तत्र श्रुता मया ।
विमूढोऽहं तदाकर्ण्य कं सृजामि करोमि किम् ॥ २०॥
तदा दैत्यावपि प्राप्तौ दारुणौ मधुकैटभौ ।
ताभ्यां विभीषितश्चाहं युद्धाय मकरालये ॥ २१॥
ततोऽहं नालमालम्ब्य वारिमध्यमवातरम् ।
तदा तत्र मया दृष्टः पुरुषः परमाद्भुतः ॥ २२॥
मेघश्यामशरीरस्तु पीतवासाश्चतुर्भुजः ।
शेषशायी जगन्नाथो वनमालाविभूषितः ॥ २३॥
शङ्खचक्रगदापद्माद्यायुधैः सुविराजितः ।
तमद्राक्षं महाविष्णुं शेषपर्यङ्कशायिनम् ॥ २४॥
योगनिद्रासमाक्रान्तमविस्पन्दिनमच्युतम् ।
शयानं तं समालोक्य भोगिभोगोपरि स्थितम् ॥ २५॥
चिन्ता ममाद्भुता जाता किं करोमीति नारद ।
मया स्मृता तदा देवी स्तुता निद्रास्वरूपिणी ॥ २६॥
देहान्निर्गत्य सा देवी गगने संस्थिता शिवा ।
अवितर्क्यशरीरा सा दिव्याभरणमण्डिता ॥ २७॥
विष्णोर्देहं विहायाशु विरराज नभःस्थिता ।
उदतिष्ठदमेयात्मा तया मुक्तो जनार्दनः ॥ २८॥
पञ्चवर्षसहस्राणि कृतवान् युद्धमुत्तमम् ।
तदा विलोकितौ दैत्यौ हरिणा विनिपातितौ ॥ २९॥
उत्सङ्गं विमलं कृत्वा तत्रैव निहतौ च तौ ।
रुद्रस्तत्रैव सम्प्राप्तो यत्रावां संस्थितावुभौ ॥ ३०॥
त्रिभिः संवीक्षितास्मामिः स्वस्था देवी मनोहरा ।
संस्तुता परमा शक्तिरुवाचास्मानवस्थितान् ॥ ३१॥
कृपावलोकनैः कृत्वा पावनैर्मुदितानथ ।
देव्युवाच ।
काजेशाः स्वानि कार्याणि कुरुध्वं समतन्द्रिताः ॥ ३२॥
सृष्टिस्थितिविशिष्टानि हतावेतौ महासुरौ ।
कृत्वा स्वानि निकेतानि वसध्वं विगतज्वराः ॥ ३३॥
प्रजाश्चतुर्विधाः सर्वाः सृजध्वं स्वविभूतिभिः ।
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं तस्याः पेशलं सुखदं मृदु ॥ ३४॥
अब्रूम तामशक्तिः स्मः कथं कुर्मस्त्विमाः प्रजाः ।
न मही वितता मातः सर्वत्र विततं जलम् ॥ ३५॥
न भूतानि गुणाश्चापि तन्मात्राणीन्द्रियाणि च ।
तदाकर्ण्य वचोऽस्माकं शिवा जाता स्मितानना ॥ ३६॥
झटित्येवागतं तत्र विमानं गगनाच्छुभम् ।
सोवाचास्मिन्सुराः कामं विशध्वं गतसाध्वसाः ॥ ३७॥
विमाने ब्रह्मविष्ण्वीशा दर्शयाम्यद्य चाद्भुतम् ।
तन्निशम्य वचस्तस्या ओमित्युक्त्वा पुनर्वयम् ॥ ३८॥
समारुह्योपविष्टाः स्मो विमाने रत्नमण्डिते ।
मुक्तादामसुसंवीते किङ्किणीजालशब्दिते ॥ ३९॥
सुरसद्मनिभे रम्ये त्रयस्तत्राविशङ्किताः ।
सोपविष्टांस्ततो दृष्ट्वा देव्यस्मान्विजितेन्द्रियान् ॥ ४०॥
स्वशक्त्या तद्विमानं वै नोदयामास चाम्बरे ॥ ४१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे ब्रह्मादीनाङ्गतिवर्णनं नाम द्वितीयोऽध्यायः ॥ ३.२॥
३.३ तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।
ब्रह्मोवाच ।
विमानं तन्मनोवेगं यत्र स्थानान्तरे गतम् ।
न जलं तत्र पश्यामो विस्मिताः स्मो वयं तदा ॥ १॥
वृक्षाः सर्वफला रम्याः कोकिलारावमण्डिताः ।
मही महीधराः कामं वनान्युपवनानि च ॥ २॥
नार्यश्च पुरुषाश्चैव पशवश्च सरिद्वराः ।
वाप्यः कूपास्तडागाश्च पल्वलानि च निर्झराः ॥ ३॥
पुरतो नगरं रम्यं दिव्यप्राकारमण्डितम् ।
यज्ञशालासमायुक्तं नानाहर्म्यविराजितम् ॥ ४॥
प्रत्यभिज्ञा तदा जाताप्यस्माकं प्रेक्ष्य तत्पुरम् ।
स्वर्गोऽयमिति केनासौ निर्मितोस्ति तदाद्भुतम् ॥ ५॥
राजानं देवसङ्काशं व्रजन्तं मृगयां वने ।
अस्माभिः संस्थिता दृष्टा विमानोपरि चाम्बिका ॥ ६॥
क्षणाच्चचाल गगने विमानं पवनेरितम् ।
मुहूर्ताद्वा ततः प्राप्तं देशे चान्ये मनोहरे ॥ ७॥
नन्दनं च वनं तत्र दृष्टमस्माभिरुत्तमम् ।
पारिजाततरुच्छायासंश्रिता सुरभिः स्थिता ॥ ८॥
चतुर्दन्तो गजस्तस्याः समीपे समवस्थितः ।
अप्सरसां तत्र वृन्दानि मेनकाप्रभृतीनि च ॥ ९॥
क्रीडन्ति विविधैर्भावैर्गाननृत्यसमन्वितैः ।
गन्धर्वाः शतशस्तत्र यक्षा विद्याधरास्तथा ॥ १०॥
मन्दारवाटिकामध्ये गायन्ति च रमन्ति च
दृष्टः शतक्रतुस्तत्र पौलोम्या सहितः प्रभुः ॥ ११॥
वयं तु विस्मिताश्चास्म दृष्ट्वा त्रैविष्टपं तदा ।
यादःपतिं कुबेरं च यमं सूर्यं विभावसुम् ॥ १२॥
विलोक्य विस्मिताश्चास्म वयं तत्र सुरान्स्थितान् ।
तदा विनिर्गतो राजा पुरात्तस्मात्सुमण्डितात् ॥ १३॥
देवराज इवाक्षोभ्यो नरवाह्यावनौ स्थितः ।
विमानस्था वयं तच्च चचाल तरसागतम् ॥ १४॥
ब्रह्मलोकं तदा दिव्यं सर्वदेवनमस्कृतम् ।
तत्र ब्रह्माणमालोक्य विस्मितौ हरकेशवौ ॥ १५॥
सभायां तत्र वेदाश्च सर्वे साङ्गाः स्वरूपिणः ।
सागराः सरितश्चैव पर्वताः पन्नगोरगाः ॥ १६॥
मामूचतुश्चतुर्वक्त्रः कोऽयं ब्रह्मा सनातनः ।
ताववोचमहं नैव जाने सृष्टिपतिं पतिम् ॥ १७॥
कोऽहं कोऽयं किमर्थं वा भ्रमोऽयं मम चेश्वरौ ।
क्षणादथ विमानं तच्चचालाशु मनोजवम् ॥ १८॥
कैलासशिखरे प्राप्तं रम्ये यक्षगणान्विते ।
मन्दारवाटिकारम्ये कीरकोकिलकूजिते ॥ १९॥
वीणामुरजवाद्यैश्च नादिते सुखदे शिवे ।
यदा प्राप्तं विमानं तत्तदैव सदनाच्छुभात् ॥ २०॥
निर्गतो भगवाञ्छम्भुर्वृषारूढस्त्रिलोचनः ।
पञ्चाननो दशभुजः कृतसोमार्धशेखरः ॥ २१॥
व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ।
पार्ष्णिरक्षौ महावीरौ गजाननषडाननौ ॥ २२॥
शिवेन सह पुत्रौ द्वौ व्रजमानौ विरेजतुः ।
नन्दिप्रभृतयः सर्वे गणपाश्च वराश्च ते ॥ २३॥
जयशब्दं प्रयुञ्जाना व्रजन्ति शिवपृष्ठगाः ।
तं वीक्ष्य शङ्करं चान्यं विस्मितास्तत्र नारद ॥ २४॥
मातृभिः संशयाविष्टस्तत्राहं न्यवसं मुने ।
क्षणात्तस्माद्गिरेः शृङ्गाद्विमानं वातरंहसा ॥ २५॥
वैकुण्ठसदनं प्राप्तं रमारमणमन्दिरम् ।
असम्भाव्या विभूतिश्च तत्र दृष्टा मया सुत ॥ २६॥
विसिष्मिये तदा विष्णुर्दृष्ट्वा तत्पुरमुत्तमम् ।
सदनाग्रे ययौ तावद्धरिः कमललोचनः ॥ २७॥
अतसीकुसुमाभासः पीतवासाश्चतुर्भुजः ।
द्विजराजाधिरूढश्च दिव्याभरणभूषितः ॥ २८॥
वीज्यमानस्तदा लक्ष्म्या कामिन्या चामरैः शुभैः ।
तं वीक्ष्य विस्मिताः सर्वे वयं विष्णुं सनातनम् ॥ २९॥
परस्परं निरीक्षन्तः स्थितास्तस्मिन् वरासने ।
ततश्चचाल तरसा विमानं वातरंहसा ॥ ३०॥
सुधासमुद्रः सम्प्राप्तौ मिष्टवारिमहोर्मिमान् ।
यादोगणसमाकीर्णश्चलद्वीचिविराजितः ॥ ३१॥
मन्दारपारिजाताद्यैः पादपैरतिशोभितः ।
नानास्तरणसंयुक्तो नानाचित्रविचित्रितः ॥ ३२॥
मुक्तादामपरिक्लिष्टो नानादामविराजितः ।
अशोकबकुलाख्यैश्च वृक्षैः कुरुबकादिभिः ॥ ३३॥
संवृतः सर्वतः सौम्यैः केतकीचम्पकैर्वृतः ।
कोकिलारावसङ्घुष्टो दिव्यगन्धसमन्वितः ॥ ३४॥
द्विरेफातिरणत्कारैरञ्जितः परमाद्भुतः ।
तस्मिन्द्वीपे शिवाकारः पर्यङ्कः सुमनोहरः ॥ ३५॥
रत्नालिखचितोऽत्यर्थं नानारत्नविराजितः ।
दृष्टोऽस्माभिर्विमानस्थैर्दूरतः परिमण्डितः ॥ ३६॥
नानास्तरणसञ्छन्न इन्द्रचापसमन्वितः ।
पर्यङ्कप्रवरे तस्मिन्नुपविष्टा वराङ्गना ॥ ३७॥
रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।
सुरक्तनयना कान्ता विद्युत्कोटिसमप्रभा ॥ ३८॥
सुचारुवदना रक्तदन्तच्छदविराजिता ।
रमाकोट्यधिका कान्त्या सूर्यबिम्बनिभाखिला ॥ ३९॥
वरपाशाङ्कुशाभीष्टधरा श्रीभुवनेश्वरी ।
अदृष्टपूर्वा दृष्टा सा सुन्दरी स्मितभूषणा ॥ ४०॥
ह्रीङ्कारजपनिष्ठैस्तु पक्षिवृन्दैर्निषेविता ।
अरुणा करुणामूर्तिः कुमारी नवयौवना ॥ ४१॥
सर्वशृङ्गारवेषाढ्या मन्दस्मितमुखाम्बुजा ।
उद्यत्पीनकुचद्वन्द्वनिर्जिताम्भोजकुड्मला ॥ ४२॥
नानामणिगणाकीर्णभूषणैरुपशोभिता ।
कनकाङ्गदकेयूरकिरीटपरिशोभिता ॥ ४३॥
कनकच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा ।
हृल्लेखा भुवनेशीति नामजापपरायणैः ॥ ४४॥
सखीवृन्दैः स्तुता नित्यं भुवनेशी महेश्वरी ।
हृल्लेखाद्याभिरमरकन्याभिः परिवेष्टिता ॥ ४५॥
अनङ्गकुसुमाद्याभिर्देवीभिः परिवेष्टिता ।
देवी षट्कोणमध्यस्था यन्त्रराजोपरि स्थिता ॥ ४६॥
दृष्ट्वा तां विस्मिताः सर्वे वयं तत्र स्थिताऽभवन् ।
केयं कान्ता च किं नाम न जानीमोऽत्र संस्थिताः ॥ ४७॥
सहस्रनयना रामा सहस्रकरसंयुता ।
सहस्रवदना रम्या भाति दूरादसंशयम् ॥ ४८॥
नाप्सरा नापि गन्धर्वी नेयं देवाङ्गना किल ।
इति संशयमापन्नास्तत्र नारद संस्थिताः ॥ ४९॥
तदाऽसौ भगवान्विष्णुर्दृष्ट्वा तां चारुहासिनीम् ।
उवाचाम्बां स्वविज्ञानात्कृत्वा मनसि निश्चयम् ॥ ५०॥
एषा भगवती देवी सर्वेषां कारणं हि नः ।
महाविद्या महामाया पूर्णा प्रकृतिरव्यया ॥ ५१॥
दुर्ज्ञेयाऽल्पधियां देवी योगगम्या दुराशया ।
इच्छा परात्मनः कामं नित्यानित्यस्वरूपिणी ॥ ५२॥
दुराराध्याऽल्पभाग्यैश्च देवी विश्वेश्वरी शिवा ।
वेदगर्भा विशालाक्षी सर्वेषामादिरीश्वरी ॥ ५३॥
एषा संहृत्य सकलं विश्वं क्रीडति सङ्क्षये ।
लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च ॥ ५४॥
सर्वबीजमयी ह्येषा राजते साम्प्रतं सुरौ ।
विभूतयः स्थिताः पार्श्वे पश्यतां कोटिशः क्रमात् ॥ ५५॥
दिव्याभरणभूषाढ्या दिव्यगन्धानुलेपनाः ।
परिचर्यापराः सर्वाः पश्यतां ब्रह्मशङ्करौ ॥ ५६॥
धन्या वयं महाभागाः कृतकृत्याः स्म साम्प्रतम् ।
यदत्र दर्शनं प्राप्तं भगवत्याः स्वयं त्विदम् ॥ ५७॥
तपस्तप्तं पुरा यत्नात्तस्येदं फलमुत्तमम् ।
अन्यथा दर्शनं कुत्र भवेदस्माकमादरात् ॥ ५८॥
पश्यन्ति पुण्यपुञ्जा ये ये वदान्यास्तपस्विनः ।
रागिणो नैव पश्यन्ति देवीं भगवतीं शिवाम् ॥ ५९॥
मूलप्रकृतिरेवैषा सदा पुरुषसङ्गता ।
ब्रह्माण्डं दर्शयत्येषा कृत्वा वै परमात्मने ॥ ६०॥
द्रष्टाऽसौ दृश्यमखिलं ब्रह्माण्डं देवताः सुरौ ।
तस्यैषा कारणं सर्वा माया सर्वेश्वरी शिवा ॥ ६१॥
क्वाहं वा क्व सुराः सर्वे रम्भाद्याः सुरयोषितः ।
लक्षांशेन तुलामस्या न भवामः कथञ्चन ॥ ६२॥
सैषा वराङ्गना नाम या वै दृष्टा महार्णवे ।
बालभावे महादेवी दोलयन्तीव मां मुदा ॥ ६३॥
शयनं वटपत्रे च पर्यङ्के सुस्थिरे दृढे ।
पादाङ्गुष्ठं करे कृत्वा निवेश्य मुखपङ्कजे ॥ ६४॥
लेलिहन्तञ्च क्रीडन्तमनेकैबालचेष्टितैः ।
रममाणं कोमलाङ्गं वटपत्रपुटे स्थितम् ॥ ६५॥
गायन्ती दोलयन्ती च बालभावान्मयि स्थिते ।
सेयं सुनिश्चितं ज्ञातं जातं मे दर्शनादिव ॥ ६६॥
कामं नो जननी सैषा शृणु तं प्रवदाम्यहम् ।
अनुभूतं मया पूर्वं प्रत्यभिज्ञा समुत्थिता ॥ ६७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे विमानस्थैर्हरादिभिर्देवीदर्शनं नाम तृतीयोऽध्यायः ॥ ३.३॥
३.४ चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।
ब्रह्मोवाच ।
इत्युक्त्वा भगवान्विष्णुः पुनराह जनार्दनः ।
वयं गच्छेम पार्श्वेऽस्याः प्रणमन्तः पुनः पुनः ॥ १॥
सेयं वरा महामाया दास्यत्येषा वरान् हि नः ।
स्तुवामः सन्निधिं प्राप्य निर्भयाश्चरणान्तिके ॥ २॥
यदि नो वारयिष्यन्ति द्वारस्थाः परिचारकाः ।
पठिष्यामश्च तत्रस्थाः स्तुतिं देव्याः समाहिताः ॥ ३॥
ब्रह्मोवाच ।
इत्युक्ते हरिणा वाक्ये सुप्रहृष्टौ सुसंस्थितौ ।
जातौ प्रमुदितौ कामं निकटे गमनाय च ॥ ४॥
ओमित्युक्त्वा हरिं सर्वे विमानात्त्वरितास्त्रयः ।
उत्तीर्य निर्गता द्वारि शङ्कमाना मनस्यलम् ॥ ५॥
द्वारस्थान् वीक्ष्य तान्सर्वान्देवी भगवती तदा ।
स्मितं कृत्वा चकाराशु तांस्त्रीन्स्त्रीरूपधारिणः ॥ ६॥
वयं युवतयो जाताः सुरूपाश्चारुभूषणाः ।
विस्मयै परमं प्राप्ता गतास्तत्सन्निधिं पुनः ॥ ७॥
सा दृष्ट्वा नः स्थितांस्तत्र स्त्रीरूपांश्चरणान्तिके ।
व्यलोकयत चार्वङ्गी प्रेमसम्पूर्णया दृशा ॥ ८॥
प्रणम्य तां महादेवीं पुरतः संस्थिता वयम् ।
परस्परं लोकयन्तः स्त्रीरूपाश्चारुभूषणाः ॥ ९॥
पादपीठं प्रेक्षमाणा नानामणिविभूषितम् ।
सूर्यकोटिप्रतीकाशं स्थितास्तत्र वयं त्रयः ॥ १०॥
काश्चिद्रक्ताम्बरास्तत्र सहचर्यः सहस्रशः ।
काश्चिन्नीलाम्बरा नार्यस्तथा पीताम्बराः शुभाः ॥ ११॥
देव्यः सर्वाः शुभाकारा विचित्राम्बरभूषणाः ।
विरेजुः पार्श्वतस्तस्याः परिचर्यापराः किल ॥ १२॥
जगुश्च ननृतुश्चान्याः पर्युपासन्त ताः स्त्रियः ।
वीणामारुतवाद्यानि वादयन्तो मुदान्विताः ॥ १३॥
शृणु नारद वक्ष्यामि यद्दृष्टं तत्र चाद्भुतम् ।
नखदर्पणमध्ये वै देव्याश्चरणपङ्कजे ॥ १४॥
ब्रह्माण्डमखिलं सर्वं तत्र स्थावरजङ्गमम् ।
अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः ॥ १५॥
वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः ।
पर्वताः सागरा नद्यो गन्धर्वाप्सरसस्तथा ॥ १६॥
विश्वावसुश्चित्रकेतुः श्वेतश्चित्राङ्गदस्तथा ।
नारदस्तुम्बुरुश्चैव हाहाहूहूस्तथैव च ॥ १७॥
अश्विनौ वसवः साध्याः सिद्धाश्च पितरस्तथा ।
नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः ॥ १८॥
वैकुण्ठो ब्रह्मलोकश्च कैलासः पर्वतोत्तमः ।
सर्वं तदखिलं दृष्टं नखमध्यस्थितं च नः ॥ १९॥
मज्जन्मपङ्कजं तत्र स्थितोऽहं चतुराननः ।
शेषशायी जगन्नाथस्तथा च मधुकैटभौ ॥ २०॥
ब्रह्मोवाच ।
एवं दृष्टं मया तत्र पादपद्मनखे स्थितम् ।
विस्मतोऽहं ततो वीक्ष्य किमेतदिति शङ्कितः ॥ २१॥
विष्णुश्च विस्मयाविष्टः शङ्करश्च तथा स्थितः ।
तां तदा मेनिरे देवीं वयं विश्वस्य मातरम् ॥ २२॥
ततो वर्षशतं पूर्णं व्यतिक्रान्तं प्रपश्यतः ।
सुधामये शिवे द्वीपे विहारं विविधं तदा ॥ २३॥
सख्य इव तदा तत्र मेनिरेऽस्मानवस्थितान् ।
देव्यः प्रमुदिताकारा नानाभरणमण्डिताः ॥ २४॥
वयमप्यतिरम्यत्वाद्बभूविम विमोहिताः ।
प्रहृष्टमनसः सर्वे पश्यन्भावान्मनोरमान् ॥ २५॥
एकदा तां महादेवीं देवीं श्रीभुवनेश्वरीम् ।
तुष्टाव भगवान्विष्णुर्युवतीभावसंस्थितः ॥ २६॥
श्रीभगवानुवाच ।
नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
कल्याणै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः ॥ २७॥
सच्चिदानन्दरूपिण्यै संसारारणये नमः ।
पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः ॥ २८॥
सर्वाधिष्टानरूपायै कूटस्थायै नमो नमः ।
अर्धमात्रार्थभूतायै हृल्लेखायै नमो नमः ॥ २९॥
ज्ञातं मयाऽखिलमिदं त्वयि सन्निविष्टं
त्वत्तोऽस्य सम्भवलयावपि मातरद्य ।
शक्तिश्च तेऽस्य करणे विततप्रभावा
ज्ञाताऽधुना सकललोकमयीति नूनम् ॥ ३०॥
विस्तार्य सर्वमखिलं सदसद्विकारं
सन्दर्शयस्यविकलं पुरुषाय काले ।
तत्त्वैश्च षोडशभिरेव च सप्तभिश्च
भासीन्द्रजालमिव नः किल रञ्जनाय ॥ ३१॥
न त्वामृते किमपि वस्तुगतं विभाति
व्याप्यैव सर्वमखिलं त्वमवस्थिताऽसि ।
शक्तिं विना व्यवहृतो पुरुषोऽप्यशक्तो
वम्भण्यते जननि बुद्धिमता जनेन ॥ ३२॥
प्रीणासि विश्वमखिलं सततं प्रभावैः
स्वैस्तेजसा च सकलं प्रकटीकरोषि ।
अत्स्येव देवि तरसा किल कल्पकाले
को वेद देवि चरितं तव वै भवस्य ॥ ३३॥
त्राता वयं जननि ते मधुकैटभाभ्यां
लोकाश्च ते सुवितताः खलु दर्शिता वै ।
नीताः सुखस्य भवने परमां च कोटिं
यद्दर्शनं तव भवानि महाप्रभावम् ॥ ३४॥
नाहं भवो न च विरिञ्चि विवेद मातः
कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यम् ।
कानीह सन्ति भुवनानि महाप्रभावे
ह्यस्मिन्भवानि रचिते रचनाकलापे ॥ ३५॥
अस्माभिरत्र भुवने हरिरन्य एव
दृष्टः शिवः कमलजः प्रथितप्रभावः ।
अन्येषु देवि भुवनेपु न सन्ति किं ते
किं विद्म देवि विततं तव सुप्रभावम् ॥ ३६॥
याचेऽम्ब तेऽङ्घ्रिकमलं प्रणिपत्य कामं
चित्ते सदा वसतु रूपमिदं तवैतत् ।
नामापि वक्त्रकुहरे सततं तवैव
सन्दर्शनं तव पदाम्बुजयोः सदैव ॥ ३७॥
भृत्योऽयमस्ति सततं मयि भावनीयं
त्वां स्वामिनीति मनसा ननु चिन्तयामि ।
एषाऽऽवयोरविरता किल देवि भूया-
द्व्याप्तिः सदैव जननी सुतयोरिवार्थे ॥ ३८॥
त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं
सर्वज्ञता परिसमाप्तिनितान्तभूमिः ।
किं पामरेण जगदम्ब निवेदनीयं
यद्युक्तमाचर भवानि तवेङ्गितं स्यात् ॥ ३९॥
ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च
संहारकारक इयं तु जने प्रसिद्धिः ।
किं सत्यमेतदपि देवि तवेच्छया वै
कर्तुं क्षमा वयमजे तव शक्तियुक्ताः ॥ ४०॥
धात्री धराधरसुते न जगद्बिभर्ति
आधारशक्तिरखिलं तव वै बिभर्ति ।
सूर्योऽपि भाति वरदे प्रभया युतस्ते
त्वं सर्वमेतदखिलं विरजा विभासि ॥ ४१॥
ब्रह्माऽहमीश्वरवरः किल ते प्रभावा-
त्सर्वे वयं जनियुता न यदा तु नित्याः ।
केऽन्ये सुराः शतमखप्रमुखाश्च नित्या
नित्या त्वमेव जननी प्रकृतिः पुराणा ॥ ४२॥
त्वं चेद्भवानि दयसे पुरुषं पुराणं
जानेऽहमद्य तव सन्निधिगः सदैव ।
नोचेदहं विभुरनादिरनीह ईशो
विश्वात्मधीरिति तमःप्रकृतिः सदैव ॥ ४३॥
विद्या त्वमेव ननु बुद्धिमतां नराणां
शक्तिस्त्वमेव किल शक्तिमतां सदैव ।
त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा
मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ ४४॥
गायत्र्यसि प्रथमवेदकला त्वमेव
स्वाहा स्वधा भगवती सगुणार्धमात्रा ।
आम्नाय एव विहितो निगमो भवत्यै
सञ्जीवनाय सततं सुरपूर्वजानाम् ॥ ४५॥
मोक्षार्थमेव रचयस्यखिलं प्रपञ्चं
तेषां गताः खलु यतो ननु जीवभावम् ।
अंशा अनादिनिधनस्य किलानघस्य
पूर्णार्णवस्य वितता हि यथा तरङ्गाः ॥ ४६॥
जीवो यदा तु परिवेत्ति तवैव कृत्यं
त्वं संहरस्यखिलमेतदिति प्रसिद्धम् ।
नाट्यं नटेन रचितं वितथेऽन्तरङ्गे
कार्ये कृते विरमसे प्रथितप्रभावा ॥ ४७॥
त्राता त्वमेव मम मोहमयाद्भवाब्धे-
स्त्वामम्बिके सततमेमि महार्तिदे च ।
रागादिभिर्विरचिते वितथे किलान्ते
मामेव पाहि बहुदुःखकरे च काले ॥ ४८॥
नमो देवि महाविद्ये नमामि चरणौ तव ।
सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ॥ ४९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे विष्णुना कृतं देवीस्तोत्रं नाम चतुर्थोऽध्यायः ॥ ३.४॥
३.५ पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।
ब्रह्मोवाच ।
इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने ।
उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ १॥
शिव उवाच ।
यदि हरिस्तव देवि विभावज-
स्तदनु पद्मज एव तवोद्भवः ।
किमहमत्र तवापि न सद्गुणः
सकललोकविधौ चतुरा शिवे ॥ २॥
त्वमसि भूः सलिलं पवनस्तथा
खमपि वह्निगुणश्च तथा पुनः ।
जननि तानि पुनः करणानि च
त्वमसि बुद्धिमनोऽप्यथ हङ्कृतिः ॥ ३॥
न च विदन्ति वदन्ति च येऽन्यथा
हरिहराजकृतं निखिलं जगत् ।
तव कृतास्त्रय एव सदैव ते
विरचयन्ति जगत्सचराचरम् ॥ ४॥
अवनिवायुखवह्निजलादिभिः
सविषयैः सगुणैश्च जगद्भवेत् ।
यदि तदा कथमद्य च तत्स्फुटं
प्रभवतीति तवाम्ब कलामृते ॥ ५॥
भवसि सर्वमिदं सचराचरं
त्वमजविष्णुशिवाकृतिकल्पितम् ।
विविधवेषविलासकुतूहलै-
र्विरमसे रमसेऽम्ब यथारुचि ॥ ६॥
सकललोकसिसृक्षुरहं हरिः
कमलभूश्च भवाम यदाऽम्बिके ।
तव पदाम्बुजपांसुपरिग्रहं
समधिगम्य तदा ननु चक्रिम ॥ ७॥
यदि दयार्द्रमना न सदाम्बिके
कथमहं विहितश्च तमोगुणः ।
कमलजश्च रजोगुणसम्भवः
सुविहितः किमु सत्त्वगुणो हरिः ॥ ८॥
यदि न ते विषमा मतिरम्बिके
कथमिदं बहुधा विहितं जगत् ।
सचिवभूपतिभृत्यजनावृतं
बहुधनैरधनैश्च समाकुलम् ॥ ९॥
तव गुणास्रय एव सदा क्षमाः
प्रकटनावनसंहरणेषु वै ।
हरिहरद्रुहिणाश्च क्रमात्त्वया
विरचितास्त्रिजगतां किल कारणम् ॥ १०॥
परिचितानि मया हरिणा तथा
कमलजेन विमानगतेन वै ।
पथिगतैर्भुवनानि कृतानि वा
कथय केन भवानि नवानि च ॥ ११॥
सृजसि पासि जगज्जगदम्बिके
स्वकलया कियदिच्छसि नाशितुम् ।
रमयसे स्वपतिं पुरुषं सदा
तव गतिं न हि विद्म वयं शिवे ॥ १२॥
जननि देहि पदाम्बुजसेवनं
युवतिभागवतानपि नः सदा ।
पुरुषतामधिगम्य पदाम्बुजा-
द्विरहिताः क्व लभेम सुखं स्फुटम् ॥ १३॥
न रुचिरस्ति ममाम्ब पदाम्बुजं
तव विहाय शिवे भुवनेष्वलम् ।
निवसितुं नरदेहमवाप्य च
त्रिभुवनस्य पतित्वमवाप्य वै ॥ १४॥
सुदति नास्ति मनागपि मे रति-
र्युवतिभावमवाप्य तवान्तिके ।
पुरुषता क्व सुखाय भवत्यलं
तव पदं न यदीक्षणगोचरम् ॥ १५॥
त्रिभुवनेषु भवत्वियमम्बिके
मम सदैव हि कीर्तिरनाविला ।
युवतिभावमवाप्य पदाम्बुजं
परिचितं तव संसृतिनाशनम् ॥ १६॥
भुवि विहाय तवान्तिकसेवनं
क इह वाञ्छति राज्यमकण्टकम् ।
त्रुटिरसौ किल याति युगात्मतां
न निकटं यदि तेऽङ्घ्रिसरोरुहम् ॥ १७॥
तपसि ये निरता मुनयोऽमला-
स्तव विहाय पदाम्बुजपूजनम् ।
जननि ते विधिना किल वञ्चिताः
परिभवो विभवे परिकल्पितः ॥ १८॥
न तपसा न दमेन समाधिना
न च तथा विहितैः क्रतुभिर्यथा ।
तव पदाब्जपरागनिषेवणा-
द्भवति मुक्तिरजे भवसागरात् ॥ १९॥
कुरु दयां दयसे यदि देवि मां
कथय मन्त्रमनाविलमद्भुतम् ।
समभवं प्रजपन्सुखितो ह्यहं
सुविशदं च नवार्णमनुत्तमम् ॥ २०॥
प्रथमजन्मनि चाधिगतो मया
तदधुना न विभाति नवाक्षरः ।
कथय मां मनुमद्य भवार्णवा-
ज्जननि तारय तारय तारके ॥ २१॥
इत्युक्ता सा तदा देवी शिवेनाद्भुततेजसा ।
उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम् ॥ २२॥
तं गृहीत्वा महादेवः परां मुदमवाप ह ।
प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः ॥ २३॥
जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा ।
बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवांस्तदा ॥ २४॥
तं तथाऽवस्थितं दृष्ट्वा शङ्करं लोकशङ्करम् ।
अवोचं तां महामायां संस्थितोऽहं पदान्तिके ॥ २५॥
न वेदास्त्वामेवं कलयितुमिहासन्नपटवो
यतस्ते नोचुस्त्वां सकलजनधात्रीमविकलाम् ।
स्वधाभूता देवी सकलमखहोमेषु विहिता
तदा त्वं सर्वज्ञा जननि खलु जाता त्रिभुवने ॥ २६॥
कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्भुतं
कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् ।
धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो
मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति ॥ २७॥
अद्याहं तव पादपङ्कजपरागादानगर्वेण वै
धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते ।
याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं
हित्वा मोहकृतं महार्तिनिगडं त्वद्भक्तियुक्तं कुरु ॥ २८॥
अतोऽहञ्च जातो विमुक्तः कथं स्यां
सरोजादमेयात्त्वदाविष्कृताद्वै ।
तवाज्ञाकरः किङ्करोऽस्मीति नूनं
शिवे पाहि मां मोहमग्नं भवाब्धौ ॥ २९॥
न जानन्ति ये मानवास्ते वदन्ति
प्रभुं मां तवाद्यं चरित्रं पवित्रम् ।
यजन्तीह ये याजकाः स्वर्गकामा
न ते ते प्रभावं विदन्त्येव कामम् ॥ ३०॥
त्वया निर्मितोऽहं विधित्वे विहारं
विकर्तुं चतुर्धा विधायादिसर्गम् ।
अहं वेद्मि कोऽन्यो विवेदातिमाये
क्षमस्वापराधं त्वहङ्कारजं मे ॥ ३१॥
श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः
प्रकुर्वन्ति मूढाः समाधौ स्थिता वै ।
न जानन्ति ते नाम मोक्षप्रदं वा
समुच्चारितं जातु मातर्मिषेण ॥ ३२॥
विचारे परे तत्त्वसङ्ख्याविधाने
पदे मोहिता नाम ते संविहाय ।
न किं ते विमूढा भवाब्धौ भवानि
त्वमेवासि संसारमुक्तिप्रदा वै ॥ ३३॥
परं तत्त्वविज्ञानमाद्यैर्जनैर्यै-
रजे चानुभूतं त्यजन्त्येव ते किम् ।
निमेषार्धमात्रं पवित्रं चरित्रं
शिवा चाम्बिका शक्तिरीशेति नाम ॥ ३४॥
न किं त्वं समर्थाऽसि विश्वं विधातुं
दृशैवाशु सर्वं चतुर्धा विभक्तम् ।
विनोदार्थमेवं विधिं मां विधाया-
दिसर्गे किलेदं करोषीति कामम् ॥ ३५॥
हरिः पालकः किं त्वयाऽसौ मधोर्वा
तथा कैटभाद्रक्षितः सिन्धुमध्ये ।
हरः संहृतः किं त्वयाऽसौ न काले
कथं मे भ्रुवोर्मध्यदेशात्स जातः ॥ ३६॥
न ते जन्म कुत्रापि दृष्टं श्रुतं वा
कुतः सम्भवस्ते न कोऽपीह वेद ।
किलाद्यासि शक्तिस्त्वमेका भवानि
स्वतन्त्रैः समस्तैरतो बोधिताऽसि ॥ ३७॥
त्वया संयुतोऽहं विकर्तुं समर्थो
हरिस्त्रातुमम्ब त्वया संयुतश्च ।
हरः सम्प्रहर्तुं त्वयैवेह युक्तः
क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः ॥ ३८॥
यथाऽहं हरिः शङ्करः किं तथाऽन्ये
न जाता न सन्तीह नो वाऽभविष्यन् ।
न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे
विनोदे विवादास्पदेऽल्पाशयानाम् ॥ ३९॥
अकर्ता गुणस्पष्ट एवाद्य देवो
निरीहोऽनुपाधिः सदैवाकलश्च ।
तथापीश्वरस्ते वितीर्णं विनोदं
सुसम्पश्यतीत्याहुरेवं विधिज्ञाः ॥ ४०॥
दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः ।
नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते ॥ ४१॥
न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन ।
विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः ॥ ४२॥
एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै ।
सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय ॥ ४३॥
निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् ।
द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः ॥ ४४॥
स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् ।
पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः ॥ ४५॥
पुमानसि त्वं स्त्री वासि वद विस्तरतो मम ।
ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात् ॥ ४६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे हरब्रह्मकृतस्तुतिवर्णनं पञ्चमोऽध्यायः ॥ ३.५॥
३.६ षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।
ब्रह्मोवाच ।
इति पृष्टा मया देवी विनयावनतेन च ।
उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा ॥ १॥
देव्युवाच ।
सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च ।
योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात् ॥ २॥
आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः ।
विमुक्तः स तु संसारान्मुच्यते नात्र संशयः ॥ ३॥
एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् ।
द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके ॥ ४॥
यथा दीपस्तथोपाधेर्योगात्सञ्जायते द्विधा ।
छायेवादर्शमध्ये वा प्रतिबिम्बं तथावयोः ॥ ५॥
भेद उत्पत्तिकाले वै सर्गार्थं प्रभवत्यज ।
दृश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा ॥ ६॥
नाहं स्त्री न पुमांश्चाहं न क्लीबं सर्गसङ्क्षये ।
सर्गे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः ॥ ७॥
अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा ।
श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा ॥ ८॥
कान्तिः शान्तिः पिपासा च निद्रा तन्द्रा जराजरा ।
विद्याविद्या स्पृहा वाञ्छा शक्तिश्चाशक्तिरेव च ॥ ९॥
वसा मज्जा च त्वक्चाहं दृष्टिर्वागनृतानृता ।
परा मध्या च पश्यन्ती नाड्योऽहं विविधाश्च याः ॥ १०॥
किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि ।
सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज ॥ ११॥
एतैर्मे निश्चितै रूपैर्विहीनं किं वदस्व मे ।
तस्मादहं विधे चास्मिन्सर्गे वै वितताभवम् ॥ १२॥
नूनं सर्वेषु देवेषु नानानामधरा ह्यहम् ।
भवामि शक्तिरूपेण करोमि च पराक्रमम् ॥ १३॥
गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी शिवा ।
वारूणी चाथ कौबेरी नारसिंही च वासवी ॥ १४॥
उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् ।
करोमि सर्वकार्याणि निमित्तं तं विधाय वै ॥ १५॥
जले शीतं तथा वह्नावौष्ण्यं ज्योतिर्दिवाकरे ।
निशानाथे हिमा कामं प्रभवामि यथा तथा ॥ १६॥
मया त्यक्तं विधे नूनं स्पन्दितुं न क्षमं भवेत् ।
जीवजातं च संसारे निश्चयोऽयं ब्रुवे त्वयि ॥ १७॥
अशक्तः शङ्करो हन्तुं दैत्यान्किल मयोज्झितः ।
शक्तिहीनं नरं ब्रूते लोकश्चैवातिदुर्बलम् ॥ १८॥
रुद्रहीनं विष्णुहीनं न वदन्ति जनाः किल ।
शक्तिहीनं यथा सर्वे प्रवदन्ति नराधमम् ॥ १९॥
पतितः स्खलितो भीतः शान्तः शत्रुवशं गतः ।
अशक्तः प्रोच्यते लोके नारुद्रः कोऽपि कथ्यते ॥ २०॥
तद्विद्धि कारणं शक्तिर्यथा त्वं च सिसृक्षसि ।
भविता च यदा युक्तः शक्त्या कर्ता तदाखिलम् ॥ २१॥
तथा हरिस्तथा शम्भुस्तथेन्द्रोऽथ विभावसुः ।
शशी सूर्यो यमस्त्वष्टा वरुणः पवनस्तथा ॥ २२॥
धरा स्थिरा तदा धर्तुं शक्तियुक्ता यदा भवेत् ।
अन्यथा चेदशक्ता स्यात्परमाणोश्च धारणे ॥ २३॥
तथा शेषस्तथा कूर्मो येऽन्ये सर्वे च दिग्गजाः ।
मद्युक्ता वै समर्थाश्च स्वानि कार्याणि साधितुम् ॥ २४॥
जलं पिबामि सकलं संहरामि विभावसुम् ।
पवनं स्तम्भयाम्यद्य यदिच्छामि तथाचरम् ॥ २५॥
तत्त्वानां चैव सर्वेषां कदापि कमलोद्भव ।
असतां भावसन्देहः कर्तव्यो न कदाचन ॥ २६॥
कदाचित्प्रागभावः स्यात्प्रध्वंसाभाव एव वा ।
मृत्पिण्डेषु कपालेषु घटाभावो यथा तथा ॥ २७॥
अद्यात्र पृथिवी नास्ति क्व गतेति विचारणे ।
सञ्जाता इति विज्ञेया अस्यास्तु परमाणवः ॥ २८॥
शाश्वतं क्षणिकं शून्यं नित्यानित्यं सकर्तुकम् ।
अहङ्काराग्रिमञ्चैव सप्तभेदैर्विवक्षितम् ॥ २९॥
गृहाणाज महतत्त्वमहङ्कारस्तदुद्भवः ।
ततः सर्वाणि भूतानि रचयस्व यथा पुरा ॥ ३०॥
व्रजन्तु स्वानि धिष्ण्यानि विरच्य निवसन्तु वः ।
स्वानि स्वानि च कार्याणि कुर्वन्तु दैवभाविताः ॥ ३१॥
गृहाणेमां विधे शक्तिं सुरूपां चारुहासिनीम् ।
महासरस्वतीं नाम्ना रजोगुणयुतां वराम् ॥ ३२॥
श्वेताम्बरधरां दिव्यां दिव्यभूषणभूषिताम् ।
वरासनसमारूढां क्रीडार्थं सहचारिणीम् ॥ ३३॥
एषा सहचरी नित्यं भविष्यति वराङ्गना ।
मावमंस्था विभूतिं मे मत्वा पूज्यतमां प्रियाम् ॥ ३४॥
गच्छ त्वमनया सार्धं सत्यलोकं बताशु वै ।
बीजाच्चतुर्विधं सर्वं समुत्पादय साम्प्रतम् ॥ ३५॥
लिङ्गकोशाश्च जीवैस्तैः सहिताः कर्मभिस्तथा ।
वर्तन्ते संस्थिताः काले तान्कुरु त्वं यथा पुरा ॥ ३६॥
कालकर्मस्वभावाख्यैः कारणैः सकलं जगत् ।
स्वभावस्वगुणैर्युक्तं पूर्ववत्सचराचरम् ॥ ३७॥
माननीयस्त्वया विष्णुः पूजनीयश्च सर्वदा ।
सत्त्वगुणप्रधानत्वादधिकः सर्वतः सदा ॥ ३८॥
यदा यदा हि कार्यं वो भविष्यति दुरत्ययम् ।
करिष्यति पृथिव्यां वै अवतारं तदा हरिः ॥ ३९॥
तिर्यग्योनावथान्यत्र मानुषीं तनुमाश्रितः ।
दानवानां विनाशं वै करिष्यति जनार्दनः ॥ ४०॥
भवोऽयं ते सहायश्च भविष्यति महाबलः ।
समुत्पाद्य सुरान्सर्वान्विहरस्व यथासुखम् ॥ ४१॥
ब्राह्मणाः क्षत्रिया वैश्या नानायज्ञैः सदक्षिणैः ।
यजिष्यन्ति विधानेन सर्वान्वः सुसमाहिताः ॥ ४२॥
मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च ।
सदा तृप्ताश्च सन्तुष्टा भविष्यध्वं सुराः किल ॥ ४३॥
शिवश्च माननीयो वै सर्वथा यत्तमोगुणः ।
यज्ञकार्येषु सर्वेषु पूजनीयः प्रयत्नतः ॥ ४४॥
यदा पुनः सुराणां वै भयं दैत्याद्भविष्यति ।
शक्तयो मे तदोत्पन्ना हरिष्यन्ति सुविग्रहाः ॥ ४५॥
वाराही वैष्णवी गौरी नारसिंही सदाशिवा ।
एताश्चान्याश्च कार्याणि कुरु त्वं कमलोद्भव ॥ ४६॥
नवाक्षरमिमं मन्त्रं बीजध्यानयुतं सदा ।
जपन्सर्वाणि कार्याणि कुरु त्वं कमलोद्भव ॥ ४७॥
मन्त्राणामुत्तमोऽयं वै त्वं जानीहि महामते ।
हृदये ते सदा धार्यः सर्वकामार्थसिद्धये ॥ ४८॥
इत्युक्त्वा मां जगन्माता हरिं प्राह शुचिस्मिता ।
विष्णो व्रज गृहाणेमां महालक्ष्मीं मनोहराम् ॥ ४९॥
सदा वक्षःस्थले स्थाने भविता नात्र संशयः ।
क्रीडार्थं ते मया दत्ता शक्तिः सर्वार्थदा शिवा ॥ ५०॥
त्वयेयं नावमन्तव्या माननीया च सर्वदा ।
लक्ष्मीनारायणाख्योऽयं योगो वै विहितो मया ॥ ५१॥
जीवनार्थं कृता यज्ञा देवानां सर्वथा मया ।
अविरोधेन सङ्गेन वर्तितव्यं त्रिभिः सदा ॥ ५२॥
त्वं च वेधाः शिवस्त्वेते देवा मद्गुणसम्भवाः ।
मान्याः पूज्याश्च सर्वेषां भविष्यन्ति न संशयः ॥ ५३॥
ये विभेदं करिष्यन्ति मानवा मूढचेतसः ।
निरयं ते गमिष्यन्ति विभेदान्नात्र संशयः ॥ ५४॥
यो हरिः स शिवः साक्षाद्यः शिवः स स्वयं हरिः ।
एतयोर्भेदमातिष्ठन्नरकाय भवेन्नरः ॥ ५५॥
तथैव द्रुहिणो ज्ञेयो नात्र कार्या विचारणा ।
अपरो गुणभेदोऽस्ति शृणु विष्णो ब्रवीमि ते ॥ ५६॥
मुख्यः सत्त्वगुणस्तेऽस्तु परमात्मविचिन्तने ।
गौणत्वेऽपि परौ ख्यातौ रजोगुणतमोगुणौ ॥ ५७॥
लक्ष्म्या सह विकारेषु नानाभेदेषु सर्वदा ।
रजोगुणयुतो भूत्वा विहरस्वानया सह ॥ ५८॥
वाग्बीजं कामराजं च मायाबीजं तृतीयकम् ।
मन्त्रोऽयं त्वं रमाकान्त मद्दत्तः परमार्थदः ॥ ५९॥
गृहीत्वा जप तं नित्यं विहरस्व यथासुखम् ।
न ते मृत्युभयं विष्णो न कालप्रभवं भयम् ॥ ६०॥
यावदेष विहारो मे भविष्यति सुनिश्चयः ।
संहरिष्याम्यहं सर्वं यदा विश्वं चराचरम् ॥ ६१॥
भवन्तोऽपि तदा नूनं मयि लीना भविष्यथ ।
स्मर्तव्योऽयं सदा मन्त्रः कामदो मोक्षदस्तथा ॥ ६२॥
उद्गीथेन च संयुक्तः कर्तव्यः शुभमिच्छता ।
कारयित्वाथ वैकुण्ठं वस्तव्यं पुरुषोत्तम ॥ ६३॥
विहरस्व यथाकामं चिन्तयन्मां सनातनीम् ।
ब्रह्मोवाच ।
इत्युक्त्वा वासुदेवं सा त्रिगुणा प्रकृतिः परा ॥ ६४॥
निर्गुणा शङ्करं देवमवोचदमृतं वचः ।
देव्युवाच ।
गृहाण हरगौरीं त्वं महाकालीं मनोहराम् ॥ ६५॥
कैलासं कारयित्वा च विहरस्व यथासुखम् ।
मुख्यस्तमोगुणस्तेऽस्तु गौणौ सत्त्वरजोगुणौ ॥ ६६॥
विहरासुरनाशार्थं रजोगुणतमोगुणौ ।
तपस्तप्तं तथा कर्तुं स्मरणं परमात्मनः ॥ ६७॥
सर्वसत्त्वगुणः शान्तो गृहीतव्यः सदानघ ।
सर्वथा त्रिगुणा यूयं सृष्टिस्थित्यन्तकारकाः ॥ ६८॥
एभिर्विहीनं संसारे वस्तु नैवात्र कुत्रचित् ।
वस्तुमात्रं तु यद्दृश्यं संसारे त्रिगुणं हि तत् ॥ ६९॥
दृश्यं च निर्गुणं लोके न भूतं नो भविष्यति ।
निर्गुणः परमात्मासौ न तु दृश्यः कदाचन ॥ ७०॥
सगुणा निर्गुणा चाहं समये शङ्करोत्तमा ।
सदाहं कारणं शम्भो न च कार्यं कदाचन ॥ ७१॥
सगुणा कारणत्वाद्वै निर्गुणा पुरुषान्तिके ।
महत्तत्त्वमहङ्कारो गुणाः शब्दादयस्तथा ॥ ७२॥
कार्यकारणरूपेण संसरन्ते त्वहर्निशम् ॥
सदुद्भूतस्त्वहङ्कारस्तेनाहं कारणं शिवा ॥ ७३॥
अहङ्कारश्च मे कार्यं त्रिगुणोऽसौ प्रतिष्ठितः ।
अहङ्कारान्महत्तत्त्वं बुद्धिः सा परिकीर्तिता ॥ ७४॥
महत्तत्त्वं हि कार्यं स्यादहङ्कारो हि कारणम् ।
तन्मात्राणि त्वहङ्कारादुत्पद्यन्ते सदैव हि ॥ ७५॥
कारणं पञ्चभूतानां तानि सर्वसमुद्भवे ।
कर्मेन्द्रियाणि पञ्चैव पञ्च ज्ञानेन्द्रियाणि च ॥ ७६॥
महाभूतानि पञ्चैव मनः षोडशमेव च ।
कार्यञ्च कारणञ्चैव गणोऽयं षोडशात्मकः ॥ ७७॥
परमात्मा पुमानाद्यो न कार्यं न च कारणम् ।
एवं समुद्भवः शम्भो सर्वेषामादिसम्भवे ॥ ७८॥
सङ्क्षेपेण मया प्रोक्तस्तव तत्र समुद्भवः ।
व्रजन्त्वद्य विमानेन कार्यार्थं मम सत्तमाः ॥ ७९॥
स्मरणाद्दर्शनं तुभ्यं दास्येऽहं विषमे स्थिते ।
स्मर्तव्याहं सदा देवाः परमात्मा सनातनः ॥ ८०॥
उभयोः स्मरणादेव कार्यसिद्धिरसंशयम् ।
ब्रह्मोवाच ।
इत्युक्त्वा विससर्जास्मान्दत्त्वा शक्तीः सुसंस्कृताः ॥ ८१॥
विष्णवेऽथ महालक्ष्मीं महाकालीं शिवाय च ।
महासरस्वतीं मह्यं स्थानात्तस्माद्विसर्जिताः ॥ ८२॥
स्थलान्तरं समासाद्य ते जाताः पुरुषा वयम् ।
चिन्तयन्तः स्वरूपं तत्प्रभावं परमाद्भुतम् ॥ ८३॥
विमानं तत्समासाद्य संरूढास्तत्र वै त्रयः ।
न द्वीपोऽसौ न सा देवी सुधासिन्धुस्तथैव च ॥
पुनर्दृष्टं विमानं वै तत्रास्माभिर्न चान्यथा ॥ ८४॥
आसाद्य तस्मिन्वितते विमाने
प्राप्ता वयं पङ्कजसन्निधौ च ।
महार्णवे यत्र हतौ दुरत्ययौ
मुरारिणा तौ मधुकैटभाख्यौ ॥ ८५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे ब्रह्मणे श्रीदेव्या उपदेशवर्णनं नाम षष्ठोऽध्यायः ॥ ३.६॥
३.७ सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।
ब्रह्मोवाच ।
एवम्प्रभावा सा देवी मया दृष्टाथ विष्णुना ।
शिवेनापि महाभाग तास्ता देव्यः पृथक्पृथक् ॥ १॥
व्यास उवाच ।
इत्याकर्ण्य पितुर्वाक्यं नारदो मुनिसत्तमः ।
पप्रच्छ परमप्रीतः प्रजापतिमिदं वचः ॥ २॥
नारद उवाच ।
पुमानाद्योऽविनाशी यो निर्गुणोऽच्युतिरव्ययः ।
दृष्टश्चैवानुभूतश्च तद्वदस्व पितामह ॥ ३॥
त्रिगुणा वीक्षिता शक्तिर्निर्गुणा कीदृशी पितः ।
तस्याः स्वरूपं मे ब्रूहि पुरुषस्य च पद्मज ॥ ४॥
यदर्थञ्च मया तप्तं श्वेतद्वीपे महातपः ।
दृष्टाः सिद्धा महात्मानस्तापसा गतमन्यवः ॥ ५॥
परमात्मा न सम्प्राप्तो मयाऽसौ दृष्टिगोचरः ।
पुनः पुनस्तपस्तीव्रं कृतं तत्र प्रजापते ॥ ६॥
भवता सगुणा शक्तिर्दृष्टा तात मनोरमा ।
निर्गुणा निर्गुणश्चैव कीदृशौ तौ वदस्व मे ॥ ७॥
व्यास उवाच ।
इति पृष्ठः पिता तेन नारदेन प्रजापतिः ।
उवाच वचनं तथ्यं स्मितपूर्वं पितामहः ॥ ८॥
ब्रह्मोवाच ।
निर्गुणस्य मुने रूपं न भवेद्दृष्टिगोचरम् ।
दृश्यञ्च नश्वरं यस्मादरूपं दृश्यते कथम् ॥ ९॥
निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च तथा पुमान् ।
ज्ञानगम्यौ मुनीनां तु भावनीयौ तथा पुनः ॥ १०॥
अनादिनिधनौ विद्धि सदा प्रकृतिपूरुषौ ।
विश्वासेनाभिगम्यौ तौ नाविश्वासेन कर्हिचित् ॥ ११॥
चैतन्यं सर्वभूतेषु यत्तद्विद्धि परात्मकम् ।
तेजः सर्वत्रगं नित्यं नानाभावेषु नारद ॥ १२॥
तञ्च ताञ्च महाभाग व्यापकौ विद्धि सर्वगौ ।
ताभ्यां विहीनं संसारे न किञ्चिद्वस्तु विद्यते ॥ १३॥
तौ विचिन्त्यौ सदा देहे मिश्रीभूतौ सदाव्ययौ ।
एकरूपौ चिदात्मानौ निगुणौ निर्मलावुभौ ॥ १४॥
या शक्तिः परमात्माऽसौ सा योऽसौ सा परमा मता ।
अन्तरं नैतयोः कोऽपि सूक्ष्मं वेद च नारद ॥ १५॥
अधीत्य सर्वशास्त्राणि वेदान्साङ्गांश्च नारद ।
न जानाति तयोः सूक्ष्ममन्तरं विरतिं विना ॥ १६॥
अहङ्कारकृतं सर्वं विश्वं स्थावरजङ्गमम् ।
कथं तद्रहितं पुत्र भवेत्कल्पशतैरपि ॥ १७॥
निर्गुणं सगुणः पुत्र कथं पश्यति चक्षुषा ।
सगुणं च महाबुद्धे चेतसा संविचारय ॥ १८॥
पित्तेनाच्छादिता जिह्वा चक्षुश्च मुनिसत्तम ।
कटु पित्तं विजानाति रसं रूपं न तत्तथा ॥ १९॥
गुणैः समावृतं चेतः कथं जानाति निर्गुणम् ।
अहङ्कारोद्भवं तच्च तद्विहीनं कथं भवेत् ॥ २०॥
यावन्न गुणविच्छेदस्तावत्तद्दर्शनं कुतः ।
तं पश्यति तदा चित्ते यदाऽहङ्कारवर्जितः ॥ २१॥
नारद उवाच ।
स्वरूपं देवदेवेश त्रयाणामेव विस्तरात् ।
गुणानां यत्स्वरूपोऽस्ति ह्यहङ्कारस्त्रिरूपकः ॥ २२॥
सात्त्विको राजसश्चैव तामसश्च तथापरः ।
विभेदेन स्वरूपाणि वदस्व पुरुषोत्तम ॥ २३॥
यज्ज्ञात्वा विप्रमुच्येऽहं ज्ञानं तद्वद मे प्रभो ।
गुणानां लक्षणान्येव विततानि विभागशः ॥ २४॥
ब्रह्मोवाच ।
त्रयाणां शक्तयस्तिस्त्रस्तद्ब्रवीमि तवानघ ।
ज्ञानशक्तिः क्रियाशक्तिरर्थशक्तिस्तथापरा ॥ २५॥
सात्त्विकस्य ज्ञानशक्ती राजसस्य क्रियात्मिका ।
द्रव्यशक्तिस्तामसस्य तिस्रश्च कथितास्तव ॥ २६॥
तेषां कार्याणि वक्ष्यामि शृणु नारद तत्त्वतः ।
तामस्या द्रव्यशक्तेश्च शब्दस्पर्शसमुद्भवः ॥ २७॥
रूपं रसश्च गन्धश्च तन्मात्राणि प्रचक्षते ।
शब्दैकगुणमाकाशं वायुः स्पर्शगुणस्तथा ॥ २८॥
सुरूपैकगुणोऽग्निश्च जलं रसगुणात्मकम् ।
पृथ्वी गन्धगुणा ज्ञेया सूक्ष्माण्येतानि नारद ॥ २९॥
दशैतानि मिलित्वा तु द्रव्यशक्तियुतानि वै ।
तामसाहङ्कारजः स्यात्सर्गस्तदनुवृत्तिकः ॥ ३०॥
राजस्याश्च क्रियाशक्तेरुत्पन्नानि शृणुष्व मे ।
श्रोत्रं त्वग्रसना चक्षुर्घ्राणं चैव च पञ्चमम् ॥ ३१॥
ज्ञानेन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
वाक्पाणिपादपायुश्च गुह्यान्तानि च पञ्च वै ॥ ३२॥
प्राणोऽपानश्च व्यानश्च समानोदानवायवः ।
पञ्चदश मिलित्वैव राजसः सर्ग उच्यते ॥ ३३॥
साधनानि किलैतानि क्रियाशक्तिमयानि च ।
उपादानं किलैतेषां चिदनुवृत्तिरुच्यते ॥ ३४॥
ज्ञानशक्तिसमायुक्ताः सात्त्विकाच्च समुद्भवाः ।
दिशो वायुश्च सूर्यश्च वरुणश्चाश्विनावपि ॥ ३५॥
ज्ञानेन्द्रियाणां पञ्चानां पञ्चाधिष्ठातृदेवताः ।
चन्द्रो ब्रह्मा तथा रुद्रः क्षेत्रज्ञश्च चतुर्थकः ॥ ३६॥
इत्यन्तःकरणाख्यस्य बुद्ध्यादेश्चाधिदैवतम् ।
चत्वार्येव तथा प्रोक्ताः किलाधिष्ठातृदेवताः ॥ ३७॥
मनसा सह चैतानि नूनं पञ्चदशैव तु ।
सात्त्विकस्य तु सर्गोऽयं सात्त्विकाख्यः प्रकीर्तितः ॥ ३८॥
स्थूलसूक्ष्मादिभेदेन द्वे रूपे परमात्मनः ।
ज्ञानरूपं निराकारं निदानं तत्प्रचक्षते ॥ ३९॥
साधकस्य तु ध्यानादौ स्थूलरूपं प्रचक्षते ।
शरीरं सूक्ष्ममेवेदं पुरुषस्य प्रकीर्तितम् ॥ ४०॥
मम चैव शरीरं वै सूत्रमित्यभिधीयते ।
स्थूलं शरीरं वक्ष्यामि ब्रह्मणः परमात्मनः ॥ ४१॥
शृणु नारद यत्नेन यच्छ्रुत्वा विप्रमुच्यते ।
तन्मात्राणि पुरोक्तानि भूतसूक्ष्माणि यानि वै ॥ ४२॥
पञ्चीकृत्य तु तान्येव पञ्चभूतसमुद्भवः ।
पञ्चीकरणभेदोऽयं शृणु संवदतः किल ॥ ४३॥
प्रथमं रसतन्मात्रामुपादाय मनस्यपि ।
कल्पयेच्च तथा तद्वै यथा भवति चोदकम् ॥ ४४॥
शिष्टानां चैव भूतानामंशान्कृत्वा पृथक्पृथक् ।
उदके मिश्रयेच्चांशान्कृते रसमये ततः ॥ ४५॥
तदा भूतविभागे च चैतन्ये च प्रकाशिते ।
चैतन्यस्य प्रवेशात्तु तदाऽहमिति संशयः ॥ ४६॥
प्रतीयमाने तेनैव विशेषेणाभिमानतः ।
आदिनारायणो देवो भगवानिति चोच्यते ॥ ४७॥
घनीभूतेऽथ भूतानां विभागे स्पष्टतां गते ।
वृद्धिं प्राप्य गुणैश्चेत्थमेकैकगुणवृद्धितः ॥ ४८॥
आकाशस्य गुणश्चैकः शब्द एव न चापरः ।
शब्दस्पर्शौ च वायोश्च द्वौ गुणौ परिकीर्तितौ ॥ ४९॥
अग्नेः शब्दश्च स्पर्शश्च रूपमेते त्रयो गुणाः ।
शब्दस्पर्शरूपरसाश्चत्वारो वै जलस्य च ॥ ५०॥
स्पर्शशब्दरसा रूपं गन्धश्च पृथिवीगुणाः ।
एवं मिलितयोगैश्च ब्रह्माण्डोत्पत्तिरुच्यते ॥ ५१॥
सर्वे जीवा मिलित्वैव ब्रह्माण्डांशसमुद्भवाः ।
चतुरशीतिलक्षाश्च प्रोक्ता वै जीवजातयः ॥ ५२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे तत्त्वनिरूपणवर्णनं नाम सप्तमोऽध्यायः ॥ ३.७॥
३.८ अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।
ब्रह्मोवाच ।
सर्गोऽयं कथितस्तात यत्पृष्टोऽहं त्वयाऽधुना ।
गुणानां रूपसंस्थां वै शृणुष्वैकाग्रमानसः ॥ १॥
सत्त्वं प्रीत्यात्मकं ज्ञेयं सुखात्प्रीतिसमुद्भवः ।
आर्जवं च तथा सत्यं शौचं श्रद्धा क्षमा धृतिः ॥ २॥
अनुकम्पा तथा लज्जा शान्तिः सन्तोष एव च ।
एतैः सत्त्वप्रतीतिश्च जायते निश्चला सदा ॥ ३॥
श्वेतवर्णं तथा सत्त्वं धर्मे प्रीतिकरः सदा ।
सच्छ्रद्धोत्पादकं नित्यमसच्छ्रद्धानिवारकम् ॥ ४॥
सात्त्विकी राजसी चैव तामसी च तथापरा ।
श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ ५॥
रक्तवर्णं रजः प्रोक्तमप्रीतिकरमद्भुतम् ।
अप्रीतिर्दुःखयोगत्वाद्भवत्येव सुनिश्चिता ॥ ६॥
प्रद्वेषोऽथ तथा द्रोहो मत्सरः स्तम्भ एव च ।
उत्कण्ठा च तथा निद्रा श्रद्धा तत्र च राजसी ॥ ७॥
मानो मदस्तथा गर्वो रजसा किल जायते ।
प्रत्येतव्यं रजस्त्वेतैर्लक्षणैश्च विचक्षणैः ॥ ८॥
कृष्णवर्णं तमः प्रोक्तं मोहनं च विषादकृत् ।
आलस्यं च तथाऽज्ञानं निद्रा दैन्यं भयं तथा ॥ ९॥
विवादश्चैव कार्पण्यं कौटिल्यं रोष एव च ।
वैषम्यं वातिनास्तिक्यं परदोषानुदर्शनम् ॥ १०॥
प्रत्येतव्यं तमस्त्वेतैर्लक्षणैः सर्वथा बुधैः ।
तामस्या श्रद्धया युक्तं परतापोपपादकम् ॥ ११॥
सत्त्वं प्रकाशयितव्यं नियन्तव्यं रजः सदा ।
संहर्तव्यं तमः कामं जनेन शुभमिच्छता ॥ १२॥
अन्योन्याभिभवाच्चैते विरुध्यन्ति परस्परम् ।
तथोऽन्योन्याश्रयाः सर्वे न तिष्ठन्ति निराश्रयाः ॥ १३॥
सत्त्वं न केवलं क्वापि न रजो न तमस्तथा ।
मिलिताश्च सदा सर्वे तेनान्योन्याश्रयाः स्मृताः ॥ १४॥
अन्योन्यमिथुनाच्चैव विस्तारं कथयाम्यहम् ।
शृणु नारद यज्ज्ञात्वा मुच्यते भवबन्धनात् ॥ १५॥
सन्देहोऽत्र न कर्तव्यो ज्ञात्वेत्युक्तं मया वचः ।
ज्ञातं तदनुभूतं यत्परिज्ञातं फले सति ॥ १६॥
श्रवणाद्दर्शनाच्चैव सपद्येव महामते ।
संस्कारानुभवाच्चैव परिज्ञातं न जायते ॥ १७॥
श्रुतं तीर्थं पवित्रञ्च श्रद्धोत्पन्ना च राजसी ।
निर्गतस्तत्र तीर्थे वै दृष्टं चैव यथाश्रुतम् ॥ १८॥
स्नातस्तत्र कृतं कृत्यं दत्तं दानं च राजसम् ।
स्थितस्तत्र कियत्कालं रजोगुणसमावृतः ॥ १९॥
रागद्वेषान्न निर्मुक्तः कामक्रोधसमावृतः ।
पुनरेव गृहं प्राप्तो यथापूर्वं तथा स्थितः ॥ २०॥
श्रुतं च नानुभूतं वै तेन तीर्थं मुनीश्वर ।
न प्राप्तं च फलं यस्मादश्रुतं विद्धि नारद ॥ २१॥
निष्पापत्वं बलं विद्धि तीर्थस्य मुनिसत्तम ।
कृषेः फलं यथा लोके निष्पन्नान्नस्य भक्षणम् ॥ २२॥
पापदेहविकारा ये कामक्रोधादयः परे ।
लोभो मोहस्तथा तृष्णा द्वेषो रागस्तथा मदः ॥ २३॥
असूयेर्ष्याक्षमाशान्तिः पापान्येतानि नारद ।
न निर्गतानि देहात्तु तावत्पापयुतो नरः ॥ २४॥
कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् ।
निष्फलः श्रम एवैकः कर्षकस्य यथा तथा ॥ २५॥
श्रमेणापीडितं क्षेत्रं कृष्टा भूमिः सुदुर्घटा ।
उप्तं बीजं महार्घं च हिता वृत्तिरुदाहृता ॥ २६॥
अहोरात्रं परिक्लिष्टो रक्षणार्थं फलोत्सुकः ।
काले सुप्तस्तु हेमन्ते वने व्याघ्रादिभिर्भृशम् ॥ २७॥
भक्षितं शलभैः सर्वं निराशश्च कृतः पुनः ।
तद्वत्तीर्थश्रमः पुत्र कष्टदो न फलप्रदः ॥ २८॥
सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् ।
वैराग्यं तत्फलं जातं तामसार्थेषु नारद ॥ २९॥
प्रसह्याभिभवत्येव तद्रजस्तमसी उभे ।
रजः समुत्कटं जातं प्रवृत्तं लोभयोगतः ॥ ३०॥
तत्तथाभिभवत्येव तमःसत्त्वे तथा उभे ।
तमस्तथोत्कटं भूत्वा प्रवृद्धं मोहयोगतः ॥ ३१॥
तत्सत्त्वरजसी चोभे सङ्गम्याभिभवत्यपि ।
विस्तरं कथयाम्यद्य यथाभिभवतीति वै ॥ ३२॥
यदा सत्त्वं प्रवृद्धं वै मतिर्धर्मे स्थिता तदा ।
न चिन्तयति बाह्यार्थं रजस्तमःसमुद्भवम् ॥ ३३॥
अर्थं सत्त्वसमुद्भूतं गृह्णाति च न चान्यथा ।
अनायासकृतं चार्थं धर्मं यज्ञं च वाञ्छति ॥ ३४॥
सात्त्विकेष्वेव भोगेषु कामं वै कुरुते तदा ।
राजसेषु न मोक्षार्थं तामसेषु पुनः कुतः ॥ ३५॥
एवं जित्वा रजः पूर्वं ततश्च तमसो जयः ।
सत्त्वं च केवलं पुत्र तदा भवति निर्मलम् ॥ ३६॥
यदा रजः प्रवृद्धं वै त्यक्त्वा धर्मान् सनातनान् ।
अन्यथाकुरुते धर्माच्छ्रद्धां प्राप्य तु राजसीम् ॥ ३७॥
राजसादर्थसंवृद्धिस्तथा भोगस्तु राजसः ।
सत्त्वं विनिर्गतं तेन तमसश्चापि निग्रहः ॥ ३८॥
यदा तमो विवृद्धं स्यादुत्कटं सम्बभूव ह ।
तदा वेदे न विश्वासो धर्मशास्त्रे तथैव च ॥ ३९॥
श्रद्धां च तामसीं प्राप्य करोति च धनात्ययम् ।
द्रोहं सर्वत्र कुरुते न शान्तिमधिगच्छति ॥ ४०॥
जित्वा सत्त्वं रजश्चैव क्रोधनो दुर्मतिः शठः ।
वर्तते कामचारेण भावेषु विततेषु च ॥ ४१॥
एकं सत्त्वं न भवति रजश्चैकं तमस्तथा ।
सहैवाश्रित्य वर्तन्ते गुणा मिथुनधर्मिणः ॥ ४२॥
रजो विना न सत्त्वं स्याद्रजः सत्त्वं विना क्वचित् ।
तमो विना न चैवैते वर्तन्ते पुरुषर्षभ ॥ ४३॥
तमस्ताभ्यां विहीनं तु केवलं न कदाचन ।
सर्वे मिथुनधर्माणो गुणाः कार्यान्तरेषु वै ॥ ४४॥
अन्योन्यसंश्रिताः सर्वे तिष्ठन्ति न वियोजिताः ।
अन्योन्यजनकाश्चैव यतः प्रसवधर्मिणः ॥ ४५॥
सत्त्वं कदाचिच्च रजस्तमसी जनयत्युत ।
कदाचित्तु रजः सत्त्वतमसी जनयत्यपि ॥ ४६॥
कदाचित्तु तमः सत्त्वरजसी जनयत्युभे ।
जनयन्त्येवमन्योन्यं मृत्पिण्डश्च घटं यथा ॥ ४७॥
बुद्धिस्थास्ते गुणाः कामान्बोधयन्ति परस्परम् ।
देवदत्तविष्णुमित्रयज्ञदत्तादयो यथा ॥ ४८॥
यथा स्त्रीपुरुषश्चैव मिथुनौ च परस्परम् ।
तथा गुणाः समायान्ति युग्मभावं परस्परम् ॥ ४९॥
रजसो मिथुने सत्त्वं सत्त्वस्य मिथुने रजः ।
उभे ते सत्त्वरजसी तमसो मिथुने विदुः ॥ ५०॥
नारद उवाच ।
इत्येतत्कथितं पित्रा गुणरूपमनुत्तमम् ।
श्रुत्वाप्येतत्स एवाहं ततोऽपृच्छं पितामहम् ॥ ५१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे गुणानां रूपसंस्थानादिवर्णनं नाम अष्टमोऽध्यायः ॥ ३.८॥
३.९ नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।
नारद उवाच ।
गुणानां लक्षणं तात भवता कथितं किल ।
न तृप्तोऽस्मि पिबन्मिष्टं त्वन्मुखात्प्रच्युतं रसम् ॥ १॥
गुणानां तु परिज्ञानं यथावदनुवर्णय ।
येनाहं परमां शान्तिमधिगच्छामि चेतसि ॥ २॥
व्यास उवाच ।
इति पृष्टस्तु पुत्रेण नारदेन महात्मना ।
उवाच च जगत्कर्ता रजोगुणसमुद्भवः ॥ ३॥
ब्रह्मोवाच ।
शृणु नारद वक्ष्यामि गुणानां परिवर्णनम् ।
सम्यङ् नाहं विजानामि यथामति वदामि ते ॥ ४॥
सत्त्वं तु केवलं नैव कुत्रापि परिलक्ष्यते ।
मिश्रीभावात्तु तेषां वै मिश्रत्वं प्रतिभाति वै ॥ ५॥
यथा काचिद्वरा नारी सर्वभूषणभूषिता ।
हावभावयुता कामं भर्तुः प्रीतिकरी भवेत् ॥ ६॥
मातापित्रोस्तथा सैव बन्धुवर्गस्य प्रीतिदा ।
दुःखं मोहं सपत्नीषु जनयत्यपि सैव हि ॥ ७॥
एवं सत्त्वेन तेनैव स्त्रीत्वमापादितेन च ।
रजसस्तमसश्चैव जनिता वृत्तिरन्यथा ॥ ८॥
रजसा स्त्रीकृतेनैव तमसा च तथा पुनः ।
अन्योन्यस्य समायोगादन्यथा प्रतिभाति वै ॥ ९॥
अवस्थानात्स्वभावेषु न वै जात्यन्तराणि च ।
लक्ष्यते विपरीतानि योगान्नारद कुत्रचित् ॥ १०॥
यथा रूपवती नारी यौवनेन विभूषिता ।
लज्जामाधुर्ययुक्ता च तथा विनयसंयुता ॥ ११॥
कामशास्त्रविधिज्ञा च धर्मशास्त्रेऽपि सम्मता ।
भर्तुःप्रीतिकरी भूत्वा सपत्नीनां च दुःखदा ॥ १२॥
मोहदुःखस्वभावस्था सत्त्वस्थेत्युच्यते जनैः ।
तथा सत्त्वं विकुर्वाणमन्यभावं विभाति वै ॥ १३॥
चोरैरुपद्रुतानां हि साधूनां सुखदा भवेत् ।
दुःखा मूढा च दस्यूनां सैव सेना तथागुणा ॥ १४॥
विपरीतप्रतीतिं वै वर्जयन्ति स्वभावतः ।
यथा च दुर्दिनं जातं महामेघघनावृतम् ॥ १५॥
विद्युत्स्तनितसंयुक्तं तिमिरेणावगुण्ठितम् ।
सिञ्चद्भूमिं प्रवर्षद्वै तमोरूपमुदाहृतम् ॥ १६॥
यदेतत्कर्षकाणां वै तदेवातीव दुर्दिनम् ।
बीजोपस्करयुक्तानां सुखदं प्रभवत्युत ॥ १७॥
अप्रच्छन्नगृहाणां च दुर्भगानां विशेषतः ।
तृणकाष्ठगृहीतानां दुःखदं गृहमेधिनाम् ॥ १८॥
प्रोषितभर्तृकाणां वै मोहदं प्रवदन्त्यपि ।
स्वभावस्था गुणाः सर्वे विपरीता विभान्ति वै ॥ १९॥
लक्षणानि पुनस्तेषां शृणु पुत्र ब्रवीम्यहम् ।
लघुप्रकाशकं सत्त्वं निर्मलं विशदं सदा ॥ २०॥
यदाङ्गानि लघून्येव नेत्रादीनीन्द्रियाणि च ।
निर्मलं च तथा चेतो गृह्णाति विषयान्न तान् ॥ २१॥
तदा सत्त्वं शरीरे वै मन्तव्यञ्च समुत्कटम् ।
जृम्भां स्तम्भं च तन्द्रां च चलञ्चैव रजः पुनः ॥ २२॥
यदा तदुत्कटं जातं देहे यस्य च कस्यचित् ।
कलिं मृगयते कर्तुं गन्तुं ग्रामान्तरं तथा ॥ २३॥
चलचित्तस्य सोऽत्यर्थं विवादे चोद्यतस्तथा ।
गुरुमावरणं कामं तमो भवति तद्यदा ॥ २४॥
तदाङ्गानि गुरूण्याशु प्रभवन्त्यावृतानि च ।
इन्द्रियाणि मनः शून्यं निद्रां नैवाभिवाञ्छति ॥ २५॥
गुणानां लक्षणान्येवं विज्ञेयानीह नारद ।
नारद उवाच ।
विभिन्नलक्षणाः प्रोक्ताः पितामह गुणास्त्रयः ॥ २६॥
कथमेकत्र संस्थाने कार्यं कुर्वन्ति शाश्वतम् ।
परस्परं मिलित्वा हि विभिन्नाः शत्रवः किल ॥ २७॥
एकत्रस्थाः कथं कार्यं कुर्वन्तीति वदस्व मे ।
ब्रह्मोवाच ।
शृणु पुत्र प्रवक्ष्यामि गुणास्ते दीपवृत्तयः ॥ २८॥
प्रदीपश्च यथा कार्यं प्रकरोत्यर्थदर्शनम् ।
वर्तिस्तैलं यथार्चिश्च विरुद्धाश्च परस्परम् ॥ २९॥
विरुद्धं हि तथा तैलमग्निना सह सङ्गतम् ।
तैलं वर्तिविरोध्येव पावकोऽपि परस्परम् ॥ ३०॥
एकत्रस्थाः पदार्थानां प्रकुर्वन्ति प्रदर्शनम् ।
नारद उवाच ।
एवं प्रकृतिजाः प्रोक्ता गुणाः सत्यवतीसुत ॥ ३१॥
विश्वस्य कारणं ते वै मया पूर्वं यथा श्रुतम् ।
व्यास उवाच ।
इत्युक्तं नारदेनाथ मम सर्वं सविस्तरम् ॥ ३२॥
गुणानां लक्षणं सर्वं कार्यं चैव विभागशः ।
आराध्या परमा शक्तिर्यया सर्वमिदं ततम् ॥ ३३॥
सगुणा निर्गुणा चैव कार्यभेदे सदैव हि ।
अकर्ता पुरुषः पूर्णो निरीहः परमोऽव्ययः ॥ ३४॥
करोत्येषा महामाया विश्वं सदसदात्मकम् ।
ब्रह्मा विष्णुस्तथा रुद्रःसूर्यश्चन्द्रः शचीपतिः ॥ ३५॥
अश्विनौ वसवस्त्वष्टा कुबेरो यादसां पतिः ।
वह्निर्वायुस्तथा पूषा सेनानीश्च विनायकः ॥ ३६॥
सर्वे शक्तियुताः शक्ताः कर्तुं कार्याणि स्वानि च ।
अन्यथा तेऽप्यशक्ता वै प्रस्पन्दितुमनीश्वराः ॥ ३७॥
सा चैव कारणं राजन् जगतः परमेश्वरी ।
समाराधय तां भूप कुरु यज्ञं जनाधिप ॥ ३८॥
पूजनं परया भक्त्या तस्या एव विधानतः ।
महालक्ष्मीर्महाकाली तथा महासरस्वती ॥ ३९॥
ईश्वरी सर्वभूतानां सर्वकारणकारणम् ।
सर्वकामार्थदा शान्ता सुखसेव्या दयान्विता ॥ ४०॥
नामोच्चारणमात्रेण वाञ्छितार्थफलप्रदा ।
देवैराराधिता पूर्वं ब्रह्मविष्णुमहेश्वरैः ॥ ४१॥
मोक्षकामैश्च विविधैस्तापसैर्विजितात्मभिः ।
अस्पष्टमपि यन्नाम प्रसङ्गेनापि भाषितम् ॥ ४२॥
ददाति वाञ्छितानर्थान्दुर्लभानपि सर्वथा ।
ऐ ऐ इति भयार्तेन दृष्ट्वा व्याघ्रादिकं वने ॥ ४३॥
बिन्दुहीनमपीत्युक्तं वाञ्छितं प्रददाति वै ।
तत्र सत्यव्रतस्यैव दृष्टान्तो नृपसत्तम ॥ ४४॥
प्रत्यक्ष एव चास्माकं मुनीनां भावितात्मनाम् ।
ब्राह्मणानां समाजेषु तस्योदाहरणं बुधैः ॥ ४५॥
कथ्यमानं मया राजञ्छ्रुतं सर्वं सविस्तरम् ।
अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः ॥ ४६॥
श्रुत्वाऽक्षरं कोलमुखात्समुच्चार्य स्वयं ततः ।
बिन्दुहीनं प्रसङ्गेन जातोऽसौ विबुधोत्तमः ॥ ४७॥
ऐकारोच्चारणाद्देवी तुष्टा भगवती तदा ।
चकार कविराजं तं दयार्द्रा परमेश्वरी ॥ ४८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे गुणपरिज्ञानवर्णनं नाम नवमोऽध्यायः ॥ ३.९॥
३.१० दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।
जनमेजय उवाच ।
कोऽसौ सत्यव्रतो नाम ब्राह्मणो द्विजसत्तमः ।
कस्मिन्देशे समुत्पन्नः कीदृशश्च वदस्व मे ॥ १॥
कथं तेन श्रुतः शब्दः कथमुच्चारितः पुनः ।
सिद्धिश्च कीदृशी जाता तस्य विप्रस्य तत्क्षणात् ॥ २॥
कथं तुष्टा भवानी सा सर्वज्ञा सर्वसंस्थिता ।
विस्तरेण वदस्वाद्य कथामेतां मनोरमाम् ॥ ३॥
सूत उवाच ।
इति पृष्टस्तदा राज्ञा व्यासः सत्यवतीसुतः ।
उवाच परमोदारं वचनं रसवच्छुचि ॥ ४॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् ।
श्रुता मुनिसमाजेषु मया पूर्वं कुरूद्वह ॥ ५॥
एकदाऽहं कुरुश्रेष्ठ कुर्वंस्तीर्थाटनं शुचि ।
सम्प्राप्तो नैमिषारण्यं पावनं मुनिसेवितम् ॥ ६॥
प्रणम्याहं मुनीन्सर्वान् स्थितस्तत्र वराश्रमे ।
विधिपुत्रास्तु यत्रासञ्जीवन्मुक्ता महाव्रताः ॥ ७॥
कथाप्रसङ्ग एवासीत्तत्र विप्रसमागमे ।
जमदग्निस्तु पप्रच्छ मुनीनेवं समास्थितः ॥ ८॥
जमदग्निरुवाच ।
सन्देहोऽस्ति महाभागा मम चेतसि तापसाः ।
समाजेषु मुनीनां वै निःसन्देहो भवाम्यहम् ॥ ९॥
ब्रह्मा विष्णुस्तथा रुद्रो मघवा वरुणोऽनलः ।
कुबेरः पवनस्त्वष्टा सेनानीश्च गणाधिपः ॥ १०॥
सूर्योऽश्विनौ भगः पूषा निशानाथो ग्रहास्तथा ।
आराधनीयतमः कोऽत्र वाञ्छितार्थफलप्रदः ॥ ११॥
सुखसेव्यश्च सततं चाशुतोषश्च मानदाः ।
ब्रुवन्तु मुनयः शीघ्रं सर्वज्ञाः संशितव्रताः ॥ १२॥
एवं प्रश्ने कृते तत्र लोमशो वाक्यमब्रवीत् ।
जमदग्ने शृणुष्वैतद्यत्पृष्टं वै त्वयाऽधुना ॥ १३॥
सेवनीयतमा शक्तिः सर्वेषां शुभमिच्छताम् ।
परा प्रकृतिराद्या च सर्वगा सर्वदा शिवा ॥ १४॥
देवानां जननी सैव ब्रह्मादीनां महात्मनाम् ।
आदिप्रकृतिमूलं सा संसारपादपस्य वै ॥ १५॥
स्मृता चोच्चारिता देवी ददाति किल वाञ्छितम् ।
सर्वदैवार्द्रचित्ता सा वरदानाय सेविता ॥ १६॥
इतिहासं प्रवक्ष्यामि शृण्वन्तु मुनयः शुभम् ।
अक्षरोच्चारणादेव यथा प्राप्तं द्विजेन वै ॥ १७॥
कोसलेषु द्विजः कश्चिद्देवदत्तेति विश्रुतः ।
अनपत्यश्चकारेष्टिं पुत्राय विधिपूर्वकम् ॥ १८॥
तमसातीरमास्थाय कृत्वा मण्डपमुत्तमम् ।
द्विजानाहूय वेदज्ञान्सत्रकर्मविशारदान् ॥ १९॥
कृत्वा वेदीं विधानेन स्थापयित्वा विभावसून् ।
पुत्रेष्टिं विधिवत्तत्र चकार द्विजसत्तमः ॥ २०॥
ब्रह्माणं कल्पयामास सुहोत्रं मुनिसत्तमम् ।
अध्वर्युं याज्ञवल्क्यं च होतारं च बृहस्पतिम् ॥ २१॥
प्रस्तोतारं तथा पैलमुद्गातारं च गोभिलम् ।
सभ्यानन्यान्मुनीन्कृत्वा विधिवत्प्रददौ वसु ॥ २२॥
उद्गाता सामगः श्रेष्ठः सप्तस्वरसमन्वितम् ।
रथन्तरमगायत्तु स्वरितेन समन्वितम् ॥ २३॥
तदाऽस्य स्वरभङ्गोऽभूत्कृते श्वासे मुहुर्मुहुः ।
देवदत्तश्चुकोपाशु गोभिलं प्रत्युवाच ह ॥ २४॥
मूर्खोऽसि मुनिमुख्याद्य स्वरभङ्गस्त्वया कृतः ।
काम्यकर्मणि सञ्जाते पुत्रार्थं यजतश्च मे ॥ २५॥
गोभिलस्तु तदोवाच देवदत्तं सुकोपितः ।
मूर्खस्ते भविता पुत्रः शठः शब्दविवर्जितः ॥ २६॥
सर्वप्राणिशरीरे तु श्वासोच्छ्वासः सुदुर्ग्रहः ।
न मेऽत्र दूषणं किञ्चित्स्वरभङ्गे महामते ॥ २७॥
तच्छ्रुत्वा वचनं तस्य गोभिलस्य महात्मनः ।
शापाद्भीतो देवदत्तस्तमुवाचातिदुःखितः ॥ २८॥
कथं क्रुद्धोऽसि विप्रेन्द्र वृथा मयि निरागसि ।
अक्रोधना हि मुनयो भवन्ति सुखदाः सदा ॥ २९॥
स्वल्पेऽपराधे विप्रेन्द्र कथं शप्तस्त्वया ह्यहम् ।
अपुत्रोऽहं सुतप्तः प्राक् तापयुक्तः पुनः कृतः ॥ ३०॥
मूर्खपुत्रादपुत्रत्वं वरं वेदविदो विदुः ।
तथापि ब्राह्मणो मूर्खः सर्वेषां निन्द्य एव हि ॥ ३१॥
पशुवच्छूद्रवच्चैव न योग्यः सर्वकर्मसु ।
किं करोमीह मूर्खेण पुत्रेण द्विजसत्तम ॥ ३२॥
यथा शूद्रस्तथा मूर्खो ब्राह्मणो नात्र संशयः ।
न पूजार्हो न दानार्हो निन्द्यश्च सर्वकर्मसु ॥ ३३॥
देशे वै वसमानश्च ब्राह्मणो वेदवर्जितः ।
करदः शूद्रवच्चैव मन्तव्यः स च भूभुजा ॥ ३४॥
नासने पितृकार्येषु देवकार्येषु स द्विजः ।
मूर्खः समुपवेश्यश्च कार्यश्च फलमिच्छता ॥ ३५॥
राज्ञा शूद्रसमो ज्ञेयो न योज्यः सर्वकर्मसु ।
कर्षकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः ॥ ३६॥
विना विप्रेण कर्तव्यं श्राद्धं कुशचटेन वै ।
न तु विप्रेण मूर्खेण श्राद्धं कार्यं कदाचन ॥ ३७॥
आहारादधिकं चान्नं न दातव्यमपण्डिते ।
दाता नरकमाप्नोति ग्रहीता तु विशेषतः ॥ ३८॥
धिग्राज्यं तस्य राज्ञो वै यस्य देशेऽबुधा जनाः ।
पूज्यन्ते ब्राह्मणा मूर्खा दानमानादिकैरपि ॥ ३९॥
आसने पूजने दाने यत्र भेदो न चाण्वपि ।
मूर्खपण्डितयोर्भेदो ज्ञातव्यो विबुधेन वै ॥ ४०॥
मूर्खा यत्र सुगर्विष्ठा दानमानपरिग्रहैः ।
तस्मिन्देशे न वस्तव्यं पण्डितेन कथञ्चन ॥ ४१॥
असतामुपकाराय दुर्जनानां विभूतयः ।
पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥ ४२॥
भुक्त्वान्नं वेदविद्विप्रो वेदाभ्यासं करोति वै ।
क्रीडन्ति पूर्वजास्तस्य स्वर्गे प्रमुदिताः किल ॥ ४३॥
गोभिलातः विमुक्तं वै त्वया वेदविदुत्तम ।
संसारे मूर्खपुत्रत्वं मरणादतिगर्हितम् ॥ ४४॥
कृपां कुरु महाभाग शापस्यानुग्रहं प्रति ।
दीनोद्धारणशक्तोऽसि पतामि तव पादयोः ॥ ४५॥
लोमश उवाच ।
इत्युक्त्वा देवदत्तस्तु पतितस्तस्य पादयोः ।
स्तुवन्दीनहृदत्यर्थं कृपणः साश्रुलोचनः ॥ ४६॥
गोभिलस्तु तदा तत्र दृष्ट्वा तं दीनचेतसम् ।
क्षणकोपा महान्तो वै पापिष्ठाः कल्पकोपनाः ॥ ४७॥
जलं स्वभावतः शीतं पावकातपयोगतः ।
उष्णं भवति तच्छीघ्रं तद्विना शिशिरं भवेत् ॥ ४८॥
दयावान्गोभिलस्त्वाह देवदत्तं सुदुःखितम् ।
मूर्खो भूत्वा सुतस्ते वै विद्वानपि भविष्यति ॥ ४९॥
इति दत्तवरः सोऽथ मुदितोऽभूद्द्विजर्षभः ।
इष्टिं समाप्य विप्रान्वै विससर्ज यथाविधि ॥ ५०॥
कालेन कियता तस्य भार्या रूपमती सती ।
गर्भं दधार काले सा रोहिणी रोहिणीसमा ॥ ५१॥
गर्भाधानादिकं कर्म चकार विधिवद्द्विजः ।
पुंसवनविधानञ्च शृङ्गारकरणं तथा ॥ ५२॥
सीमन्तोन्नयनञ्चैव कृतं वेदविधानतः ।
ददौ दानानि मुदितो मत्वेष्टिं सफलां तथा ॥ ५३॥
शुभेऽह्नि सुषुवे पुत्रं रोहिणी रोहिणीयुते ।
दिने लग्ने शुभेऽत्यर्थं जातकर्म चकार सः ॥ ५४॥
पुत्रदर्शनकं कृत्वा नामकर्म चकार च ।
उतथ्य इति पुत्रस्य कृतं नाम पुराविदा ॥ ५५॥
स चाष्टमे तथा वर्षे शुभे वै शुभवासरे ।
तस्योपनयनं कर्म चकार विधिवत्पिता ॥ ५६॥
वेदमध्यापयामास गुरुस्तं वै व्रते स्थितम् ।
नोच्चचार तथोतथ्यः संस्थितो मुग्धवत्तदा ॥ ५७॥
बहुधा पाठितः पित्रा न दधार मतिं शठः ।
मूढवत्तिष्ठतेऽत्यर्थं तं शुशोच पिता तदा ॥ ५८॥
एवं कुर्वन्सदाऽभ्यासं जातो द्वादशवार्षिकः ।
न वेद विधिवत्कर्तुं सन्ध्यावन्दनकं विधिम् ॥ ५९॥
मूर्खोऽभूदिति लोकेषु गता वार्ताऽतिविस्तरा ।
ब्राह्मणेषु च सर्वेषु तापसेष्वितरेषु च ॥ ६०॥
जहास लोकस्तं विप्रं यत्र तत्र गतं मुने ।
पिता माता निनिन्दाथ मूर्खं तमतिभर्त्सयन् ॥ ६१॥
निन्दितोऽथ जनैः कामं पितृभ्यामथ बान्धवैः ।
वैराग्यमगमद्विप्रो जगाम वनमप्यसौ ॥ ६२॥
अन्धो वरस्तथा पङ्गुर्न मूर्खस्तु वरः सुतः ।
इत्युक्तोऽसौ पितृभ्यां वै विवेश काननं प्रति ॥ ६३॥
गङ्गातीरे शुभे स्थाने कृत्वोटजमनुत्तमम् ।
वन्यां वृत्तिं च सङ्कल्प्य स्थितस्तत्र समाहितः ॥ ६४॥
नियमं च परं कृत्वा नासत्यं प्रब्रवीम्यहम् ।
स्थितस्तत्राश्रमे रम्ये ब्रह्मचर्यव्रतो हि सः ॥ ६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ ३.१०॥
३.११ एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।
लोमश उवाच ।
न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा ।
ध्यानं न देवतानाञ्च न चैवाराधनं तथा ॥ १॥
नासनं वेद विप्रोऽसो प्राणायामं तथा पुनः ।
प्रत्याहारं तु नो वेद भूतशुद्धिञ्च कारणम् ॥ २॥
न मन्त्रकीलकं जाप्यं गायत्रीञ्च न वेद सः ।
शौचं स्नानविधिञ्चैव तथाचमनकं पुनः ॥ ३॥
प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिम् ।
न सन्ध्यां समिधो होमं विवेद च तथा मुनिः ॥ ४॥
सोऽकरोत्प्रातरुत्थाय यत्किञ्चिद्दन्तधावनम् ।
स्नानं च शूद्रवत्तत्र गङ्गायां मन्त्रवर्जितम् ॥ ५॥
फलान्यादाय वन्यानि मध्यान्हेऽपि यदृच्छया ।
भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा ॥ ६॥
सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः ।
जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै ॥ ७॥
नाहितं कस्यचित्कुर्यान्न तथाऽविहितं क्वचित् ।
सुखं स्वपिति तत्रैव निर्भयश्चिन्तयन्निति ॥ ८॥
कदा मे मरणं भावि दुःखं जीवामि कानने ।
जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम् ॥ ९॥
दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम ।
प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना ॥ १०॥
यथा वन्ध्या सुरूपा च यथा वा निष्फलो द्रुमः ।
अदुग्धदोहा धेनुश्च तथाऽहं निष्फलः कृतः ॥ ११॥
किं नु निन्दाम्यहं दैवं नूनं कर्म ममेदृशम् ।
न दत्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने ॥ १२॥
न वै विद्या मया दत्ता पूर्वजन्मनि निर्मला ।
तेनाहं कर्मयोगेन शठोऽस्मि च द्विजाधमः ॥ १३॥
न च तीर्थे तपस्तप्तं सेविता न च साधवः ।
न द्विजाः पूजिता द्रव्यैस्तेन जातोऽस्मि दुष्टधीः ॥ १४॥
वर्तन्ते मुनिपुत्राश्च वेदशास्त्रार्थपारगाः ।
अहं सुमूढः सञ्जातो दैवयोगेन केनचित् ॥ १५॥
न जानामि तपस्तप्तुं किं करोमि सुसाधनम् ।
मिथ्यायं मेऽत्र सङ्कल्पो न मे भाग्यं शुभं किल ॥ १६॥
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
वृथा श्रमकृतं कार्यं दैवाद्भवति सर्वथा ॥ १७॥
ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्याः किल देवताः ।
कालस्य वशगाः सर्वे कालो हि दुरतिक्रमः ॥ १८॥
एवंविधान्वितर्कांस्तु कुर्वाणोऽहर्निशं द्विजः ।
स्थितस्तत्राश्रमे तीरे जान्हव्याः पावने स्थले ॥ १९॥
विरक्तः स तु सञ्जातः स्थितस्तत्राश्रमे द्विजः ।
कालातिवाहनं शान्तश्चकार विजने वने ॥ २०॥
एवं स्थितस्य तु वने विमलोदके वै
वर्षाणि तत्र नवपञ्च गतानि कामम् ।
नाराधनं न च जपं न विवेद मन्त्रं
कालातिवाहनमसौ कृतवान् वने वै ॥ २१॥
जानाति तस्य विततं व्रतमेव लोकः
सत्यं वदत्यपि मुनिः किल नामजातम् ।
जातं यशश्च सकलेषु जनेषु कामं
सत्यव्रतोऽयमनिशं न मृषाभिभाषी ॥ २२॥
तत्रैकदा तु मृगयां रममाण एव
प्राप्तो निषादनिशठो धृतचापबाणः ।
क्रीडन् वनेऽतिविपुले यमतुल्यदेहः
क्रूराकृतिर्हननकर्मणि चातिदक्षः ॥ २३॥
तेनातिकृष्टेन शरेण विद्धः
कोलः किरातेन धनुर्धरेण ।
पलायमानो भयविह्वलश्च
मुनेः समीपं विद्रुतो जगाम ॥ २४॥
विकम्पमानो रुधिरार्द्रदेहो
यदा जगामाश्रममण्डलं वै ।
कालस्तदातीव दयार्द्रभावं
प्राप्तो मुनिस्तत्र समीक्ष्य दीनम् ॥ २५॥
अग्रे व्रजन्तं रुधिरार्द्रदेहं
दृष्ट्वा मुनिः सूकरमाशु विद्धम् ।
दयाभिवेशादतिकम्पमानः
सारस्वतं बीजमथोच्चचार ॥ २६॥
अज्ञातपूर्वं च तथाश्रुतञ्च
दैवान्मुखे वै समुपागतञ्च ।
न ज्ञातवान्बीजमसौ विमूढो
ममज्ज शोके स मुनिर्महात्मा ॥ २७॥
कोलः प्रविश्याश्रममण्डलं तद्
गतो निकुञ्जे प्रविलीय गूढम् ।
अप्राप्तमार्गो दृढनिर्विण्णचेताः
प्रवेपमानः शरपीडितत्वात् ॥ २८॥
ततः क्षणादाकरणान्तकृष्टं
चापं दधानोऽतिकरालदेहः ।
प्राप्तस्तदन्ते स च मृग्यमाणो
निषादराजः किल काल एव ॥ २९॥
दृष्ट्वा मुनिं तत्र कुशासने स्थितं
नाम्ना तु सत्यव्रतमद्वितीयम् ।
व्याधः प्रणम्य प्रमुखे स्थितोऽसौ
पप्रच्छ कोलः क्व गतो द्विजेश ॥ ३०॥
जानामि तेऽहं सुव्रतं प्रसिद्धं
तेनाद्य पृच्छे मम बाणविद्धः ।
क्षुधार्दितं मे सकलं कुटुम्बं
विभर्तुकामः किल आगतोऽस्मि ॥ ३१॥
वृत्तिर्ममैषा विहिता विधात्रा
नान्याऽस्ति विप्रेन्द्र ऋतं ब्रवीमि ।
भर्तव्यमेवेह कुटुम्बमञ्जसा
केनाप्युपायेन शुभाशुभेन ॥ ३२॥
सत्यं ब्रवीत्वद्य सत्यव्रतोऽसि
क्षुधातुरो वर्तते पोष्यवर्गः ।
क्वासो गतः सूकरो बाणविद्धः
पृच्छाम्यहं वाडव ब्रूहि तूर्णम् ॥ ३३॥
तेनेति पृष्टः स मुनिर्महात्मा
वितर्कमग्नः प्रबभूव कामम् ।
सत्यव्रतं मेऽद्य भवेन्न भग्नं
न दृष्ट इत्युच्चरितेन किं वै ॥ ३४॥
गतोऽत्र कोलः शरविद्धदेहः
कथं ब्रवीम्यद्य मृषाऽमृषा वा ।
क्षुधार्दितोऽयं परिपृच्छतीव
दृष्ट्वा हनिष्यत्यपि सूकरं वै ॥ ३५॥
सत्यं न सत्यं खलु यत्र हिंसा
दयान्वितं चानृतमेव सत्यम् ।
हितं नराणां भवतीह येन
तदेव सत्यं न तथाऽन्यथैव ॥ ३६॥
हितं कथं स्यादुभयोर्विरुद्धयो-
स्तदुत्तरं किं न यथा मृषा वचः ।
विचारयन्वाडव धर्मसङ्कटे
न प्राप वक्तुं वचनं यथोचितम् ॥ ३७॥
बाणाहतं वीक्ष्य दयान्वितञ्च
कोलं तदन्ते समुदाहृतं वचः ।
तेन प्रसन्ना निजबीजतः शिवा
विद्यां दुरापां प्रददौ च तस्मै ॥ ३८॥
बीजोच्चारणतो देव्या विद्या प्रस्फुरिताखिला ।
वाल्मीकेश्च यथापूर्वं तथा स ह्यभवत्कविः ॥ ३९॥
तमुवाच द्विजो व्याधं सम्मुखस्थं धनुर्धरम् ।
सत्यकामस्तु धर्मात्मा श्लोकमेकं दयापरः ॥ ४०॥
या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति ।
अहो व्याध स्वकार्यार्थिन् किं पृच्छसि पुनः पुनः ॥ ४१॥
इत्युक्तस्तु तदा तेन गतोऽसौ पशुहा पुनः ।
निराशः सूकरे तस्मिन्परावृत्तो निजालये ॥ ४२॥
ब्राह्मणस्तु कविर्जातः प्राचेतस इवापरः ।
प्रसिद्धः सर्वलोकेषु नाम्ना सत्यव्रतो द्विजः ॥ ४३॥
सारस्वतं ततो बीजं जजाप विधिपूर्वकम् ।
पण्डितश्चातिविख्यातो द्विजोऽसौ धरणीतले ॥ ४४॥
प्रतिपर्वसु गायन्ति ब्राह्मणा यद्यशः सदा ।
आख्यानं चातिविस्तीर्ण स्तुवन्ति मुनयः किल ॥ ४५॥
तच्छ्रुत्वा सदनं तस्य समागम्य तदाश्रमे ।
येन त्यक्तः पुरा तेन गृहं नीतोऽतिमानितः ॥ ४६॥
तस्माद्राजन्सदा सेव्या पूजनीया च भक्तितः ।
आदिशक्तिः परा देवी जगतां कारणं हि सा ॥ ४७॥
तस्या यज्ञं महाराज कुरु वेदविधानतः ।
सर्वकामप्रदं नित्यं निश्चयं कथितं पुरा ॥ ४८॥
स्मृता सम्पूजिता भक्त्या ध्याता चोच्चारिता स्तुता ।
ददाति वाञ्छितानर्थान्कार्यदा तेन कीर्त्यते ॥ ४९॥
अनुभावमिदं राजन् कर्तव्यं सर्वथा बुधैः ।
दृष्ट्वा रोगयुतान्दीनान्क्षुधितान्निर्धनाञ्छठान् ॥ ५०॥
जनानार्तांस्तथा मूर्खान्पीडितान्वैरिभिः सदा ।
दासानाज्ञाकरान्क्षुद्रान्विकलान्विह्वलानथ ॥ ५१॥
अतृप्तान्भोजने भोगे सदार्तानजितेन्द्रियान् ।
तृष्णाधिकानशक्तांश्च सदाधिपरिपीडितान् ॥ ५२॥
तथा विभवसम्पन्नान् पुत्रपौत्रविवर्धनान् ।
पुष्टदेहांश्च सम्भोगैः संयुतान्वेदवादिनः ॥ ५३॥
राजलक्ष्म्या युताञ्छूरान्वशीकृतजनानथ ।
स्वजनैरवियुक्तांश्च सर्वलक्षणलक्षितान् ॥ ५४॥
व्यतिरेकान्वयाभ्यां च विचेतव्यं विचक्षणैः ।
एभिर्न पूजिता देवी सर्वार्थफलदा शिवा ॥ ५५॥
समाराधिता च तथा नृभिरेभिः सदाम्बिका ।
यतोऽमी सुखिनः सर्वे संसारेऽस्मिन्न संशयः ॥ ५६॥
व्यास उवाच ।
इति राजञ्छ्रुतं तत्र मया मुनिसमागमे ।
लोमशस्य मुखात्कामं देवीमाहात्म्यमुत्तमम् ॥ ५७॥
इति सञ्चिन्त्य राजेन्द्र कर्तव्यं च सदार्चनम् ।
भक्त्या परमया देव्याः प्रीत्या च पुरुषर्षभ ॥ ५८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नामैकादशोऽध्यायः ॥ ३.११॥
३.१२ द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।
राजोवाच ।
वद यज्ञविधिं सम्यग्देव्यास्तस्याः समन्ततः ।
श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतन्द्रितः ॥ १॥
पूजाविधिं च मन्त्रांश्च होमद्रव्यमसंशयम् ।
ब्राह्मणाः कतिसङ्ख्याश्च दक्षिणाश्चतथा पुनः ॥ २॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि देव्या यज्ञं विधानतः ।
त्रिविधं तु सदा ज्ञेयं विधिदृष्टेन कर्मणा ॥ ३॥
सात्त्विकं राजसं चैव तामसं च तथापरम् ।
मुनीनां सात्त्विकं प्रोक्तं नृपाणां राजसं स्मृतम् ॥ ४॥
तामसं राक्षसानां वै ज्ञानिनां तु गुणोज्झितम् ।
विमुक्तानां ज्ञानमयं विस्तरात्प्रब्रवीमि ते ॥ ५॥
देशः कालस्तथा द्रव्यं मन्त्राश्च ब्राह्मणास्तथा ।
श्रद्धा च सात्वकी यत्र तं यज्ञं सात्त्विकं विदुः ॥ ६॥
द्रव्यशुद्धिः क्रियाशुद्धिर्मन्त्रशुद्धिश्च भूमिप ।
भवेद्यदि तदा पूर्णं फलं भवति नान्यथा ॥ ७॥
अन्यायोपार्जितेनैव कर्तव्यं सुकृतं कृतम् ।
न कीर्तिरिह लोके च परलोके न तत्फलम् ॥ ८॥
तस्मान्न्यायार्जितेनैव कर्तव्यं सुकृतं सदा ।
यशसे परलोकाय भवत्येव सुखाय च ॥ ९॥
प्रत्यक्षं तव राजेन्द्र पाण्डवैस्तु मखः कृतः ।
राजसूयः क्रतुवरः समाप्तवरदक्षिणः ॥ १०॥
यत्र साक्षाद्धरिः कृष्णो यादवेन्द्रो महामनाः ।
ब्राह्मणाः पूर्णविद्याश्च भारद्वाजादयस्तथा ॥ ११॥
कृत्वा यज्ञं सुसम्पूर्णं मासमात्रेण पाण्डवैः ।
प्राप्तं महत्तरं कष्टं वनवासश्च दारुणः ॥ १२॥
पीडनञ्चैव पाञ्चाल्यास्तथा द्यूते पराजयः ।
वनवासो महत्कष्टं क्व गतं मखजं फलम् ॥ १३॥
दासत्वञ्च विराटस्य कृतं सर्वमहात्मभिः ।
कीचकेन परिक्लिष्टा द्रौपदी च प्रमद्वरा ॥ १४॥
आशीर्वादा द्विजातीनां क्व गताः शुद्धचेतसाम् ।
भक्तिर्वा वासुदेवस्य क्व गता तत्र सङ्कटे ॥ १५॥
न रक्षिता तदा बाला केनापि द्रुपदात्मजा ।
प्राप्तकेशग्रहा काले साध्वी च वरवर्णिनी ॥ १६॥
किमत्र चिन्तनीयं वै धर्मवैगुण्यकारणम् ।
केशवे सति देवेशे धर्मपुत्रे युधिष्ठिरे ॥ १७॥
भवितव्यमिति प्रोक्ते निष्फलः स्यात्तदागमः ।
वेदमन्त्रास्तथान्ये च वितथाः स्युरसंशयम् ॥ १८॥
साधनं निष्फलं सर्वमुपायश्च निरर्थकः ।
भवितव्यं भवत्येव वचने प्रतिपादके ॥ १९॥
आगमोऽप्यर्थवादः स्यात्क्रियाः सर्वा निरर्थकाः ।
स्वर्गार्थञ्च तपो व्यर्थं वर्णधर्मश्च वै तथा ॥ २०॥
सर्वं प्रमाणं व्यर्थं स्याद्भवितव्ये कृते हृदि ।
उभयञ्चापि मन्तव्यं दैवं चोपाय एव च ॥ २१॥
कृते कर्मणि चेत्सिद्धिर्विपरिता यदा भवेत् ।
वैगुण्यं कल्पनीयं स्यात्प्राज्ञैः पण्डितमौलिभिः ॥ २२॥
तत्कर्म बहुधा प्रोक्तं विद्वद्भिः कर्मकारिभिः ।
कर्तृभेदान्मन्त्रभेदाद्द्रव्यभेदात्तथा पुनः ॥ २३॥
यथा मघवता पूर्वं विश्वरूपो वृतो गुरुः ।
विपरीतं कृतं तेन कर्म मातृहिताय वै ॥ २४॥
देवेभ्यो दानवेभ्यस्तु स्वस्तीत्युक्त्वा पुनः पुनः ।
असुरा मातृपक्षीयाः कृतं तेषाञ्च रक्षणम् ॥ २५॥
दैत्यान् दृष्ट्वातिसम्पुष्टांश्चुकोप मघवा तदा ।
शिरांसि तस्य वज्रेण चिच्छेद तरसा हरिः ॥ २६॥
क्रियावैगुण्यमत्रैव कर्तृभेदादसंशयम् ।
नोचेत्पञ्चालराजेन रोषेणापि कृता क्रिया ॥ २७॥
भारद्वाजविनाशाय पुत्रस्योत्पादनाय च ।
धृष्टद्युम्नः समुत्पन्नो वेदिमध्याच्च द्रौपदी ॥ २८॥
पुरा दशरथेनापि पुत्रेष्टिस्तु कृता यदा ।
अपुत्रस्य सुतास्तस्य चत्वारः सम्प्रजज्ञिरे ॥ २९॥
अतः क्रिया कृता युक्त्या सिद्धिदा सर्वथा भवेत् ।
अयुक्त्या विपरिता स्यात्सर्वथा नृपसत्तम ॥ ३०॥
पाण्डवानां यथा यज्ञे किञ्चिद्वैगुण्ययोगतः ।
विपरीतं फलं प्राप्तं निर्जितास्ते दुरोदरे ॥ ३१॥
सत्यवादी तथा राजन् धर्मपुत्रो युधिष्ठिरः ।
द्रौपदी च तथा साध्वी तथान्येप्यनुजाः शुभाः ॥ ३२॥
कुद्रव्ययोगाद्वैगुण्यं समुत्पन्नं मखेऽथवा ।
साभिमानैः कृताद्वापि दूषणं समुपस्थितम् ॥ ३३॥
सात्त्विकस्तु महाराज दुर्लभो वै मखः स्मृतः ।
वैखानसमुनीनां हि विहितोऽसौ महामखः ॥ ३४॥
सात्त्विकं भोजनं ये वै नित्यं कुर्वन्ति तापसाः ।
न्यायार्जितञ्च वन्यञ्च तथा ऋष्यं सुसंस्कृतम् ॥ ३५॥
पुरोडाशपरा नित्यं वियूपा मन्त्रपूर्वकाः ।
श्रद्धाधिका मखा राजन् सात्त्विकाः परमाः स्मृताः ॥ ३६॥
राजसा द्रव्यबहुलाः सयूपाश्च सुसंस्कृताः ।
क्षत्रियाणां विशाञ्चैव साभिमानाश्च वै मखाः ॥ ३७॥
तामसा दानवानां वै सक्रोधा मदवर्धकाः ।
सामर्षाः संस्कृताः क्रूरा मखाः प्रोक्ता महात्मभिः ॥ ३८॥
मुनीनां मोक्षकामानां विरक्तानां महात्मनाम् ।
मानसस्तु स्मृतो यागः सर्वसाधनसंयुतः ॥ ३९॥
अन्येषु सर्वयज्ञेषु किञ्चिन्न्यूनं भवेदपि ।
द्रव्येण श्रद्धया वाऽपि क्रियया ब्राह्मणैस्तथा ॥ ४०॥
देशकालपृथग्द्रव्यसाधनैः सकलैस्तथा ।
नान्यो भवति पूर्णे वै तथा भवति मानसः ॥ ४१॥
प्रथमं तु मनः शोध्यं कर्तव्यं गुणवर्जितम् ।
शुद्धे मनसि देहो वै शुद्ध एव न संशयः ॥ ४२॥
इन्द्रियार्थपरित्यक्तं यदा जातं मनः शुचि ।
तदा तस्य मखस्यासौ प्रभवेदधिकारवान् ॥ ४३॥
तदाऽसौ मण्डपं कृत्वा बहुयोजनविस्तृतम् ।
स्तम्भैश्च विपुलैः श्लक्ष्णैर्यज्ञियद्रुमसम्भवैः ॥ ४४॥
वेदीं च विशदां तत्र मनसा परिकल्पयेत् ।
अग्नयोऽपि तथा स्थाप्या विधिवन्मनसा किल ॥ ४५॥
ब्राह्मणानाञ्च वरणं तथैव प्रतिपाद्य च ।
ब्रह्माध्वर्युस्तथा होता प्रस्तोता विधिपूर्वकम् ॥ ४६॥
उद्गाता प्रतिहर्ता च सभ्याश्चान्ये यथाविधि ।
पूजनीयाः प्रयत्नेन मनसैव द्विजोत्तमाः ॥ ४७॥
प्राणोऽपानस्तथा व्यानः समानोदान एव च ।
पावकाः पञ्च एवैते स्थाप्या वेद्यां विधानतः ॥ ४८॥
गार्हपत्यस्तदा प्राणोऽपानश्चाहवनीयकः ।
दक्षिणाग्निस्तथा व्यानः समानश्चावसथ्यकः ॥ ४९॥
सभ्योदानः स्मृता ह्येते पावकाः परमोत्कटाः ।
द्रव्यञ्च मनसा भाव्यं निर्गुणं परमं शुचि ॥ ५०॥
मन एव तदा होता यजमानस्तथैव तत् ।
यज्ञाधिदेवता ब्रह्म निर्गुणं च सनातनम् ॥ ५१॥
फलदा निर्गुणा शक्तिः सदा निर्वेददा शिवा ।
ब्रह्मविद्याखिलाधारा व्याप्य सर्वत्र संस्थिता ॥ ५२॥
तदुद्देशेन तद्द्रव्यं हुनेत्प्राणाग्निषु द्विजः ।
पश्चाच्चित्तं निरालम्बं कृत्वा प्राणानपि प्रभो ॥ ५३॥
कुण्डलीमुखमार्गेण हुनेद्ब्रह्मणि शाश्वते ।
स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम् ॥ ५४॥
समाधिनैव योगेन ध्यायेच्चेतस्यनाकुलः ।
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ॥ ५५॥
यदा पश्यति भूतात्मा तदा पश्यति तां शिवाम् ।
दृष्ट्वा तां ब्रह्मविद्भूयात्सच्चिदानन्दरूपिणीम् ॥ ५६॥
तदा मायादिकं सर्वं दग्धं भवति भूमिप ।
प्रारब्धं कर्ममात्रं तु यावद्देहं च तिष्ठति ॥ ५७॥
जीवन्मुक्तस्तदा जातो मृतो मोक्षमवाप्नुयात् ।
कृतकृत्यो भवेत्तात यो भजेज्जगदम्बिकाम् ॥ ५८॥
तस्मात्सर्वप्रयत्नेन ध्येया श्रीभुवनेश्वरी ।
श्रोतव्या चैव मन्तव्या गुरुवाक्यानुसारतः ॥ ५९॥
राजन्नेवं कृतो यज्ञो मोक्षदो नात्र संशयः ।
अन्ये यज्ञाः सकामास्तु प्रभवन्ति क्षयोन्मुखाः ॥ ६०॥
अग्निष्टोमेन विधिवत्स्वर्गकामो यजेदिति ।
वेदानुशासनं चैतत्प्रवदन्ति मनीषिणः ॥ ६१॥
क्षीणे पुण्ये मृत्युलोकं विशन्ति च यथामति ।
तस्मात्तु मानसः श्रेष्ठो यज्ञोऽप्यक्षय एव सः ॥ ६२॥
न राज्ञा साधितुं योग्यो मखोऽसौ जयमिच्छता ।
तामसस्तु कृतः पूर्वं सर्पयज्ञस्त्वयाधुना ॥ ६३॥
वैरं निर्वाहितं राजंस्तक्षकस्य दुरात्मनः ।
यत्कृते निहताः सर्पास्त्वयाऽग्नौ कोटिशः परे ॥ ६४॥
देवीयज्ञं कुरुष्वाद्य विततं विधिपूर्वकम् ।
विष्णुना यः कृतः पूर्वं सृष्ट्यादौ नृपसत्तम ॥ ६५॥
तथा त्वं कुरु राजेन्द्र विधिं ते प्रब्रवीम्यहम् ।
ब्राह्मणाः सन्ति राजेन्द्र विधिज्ञा वेदवित्तमाः ॥ ६६॥
देवीबीजविधानज्ञा मन्त्रमार्गविचक्षणाः ।
याजकास्ते भविष्यन्ति यजमानस्त्वमेव हि ॥ ६७॥
कृत्वा यज्ञं विधानेन दत्त्वा पुण्यं मखार्जितम् ।
समुद्धर महाराज पितरं दुर्गतिङ्गतम् ॥ ६८॥
विप्रावमानजं पापं दुर्घटं नरकप्रदम् ।
तथैव शापजो दोषः प्राप्तः पित्रा तवानघ ॥ ६९॥
तथा दुर्मरणं प्राप्तं सर्पदंशेन भूभुजा ।
अन्तराले तथा मृत्यूर्न भूमौ कुशसंस्तरे ॥ ७०॥
न सङ्ग्रामे न गङ्गायां स्नानदानादिवर्जितम् ।
मरणं ते पितुस्तत्र सौधे जातं कुरूद्वह ॥ ७१॥
कृपणानि च सर्वाणि नरकस्य नृपोत्तम ।
तत्रैकं कारणं तस्य न जातं चातिदुर्लभम् ॥ ७२॥
यत्र यत्र स्थितःप्राणो ज्ञात्वा कालं समागतम् ।
साधनानामभावेऽपि ह्यवशश्चातिसङ्कटे ॥ ७३॥
यदा निर्वेदमायाति मनसा निर्मलेन वै ।
पञ्चभूतात्मको देहो मम किञ्चात्र दुःखदम् ॥ ७४॥
पतत्वद्य यथाकामं मुक्तोऽहं निर्गुणोऽव्ययः ।
नाशात्मकानि तत्त्वानि तत्र का परिदेवना ॥ ७५॥
ब्रह्मैवाहं न संसारी सदा मुक्तः सनातनः ।
देहेन मम सम्बन्धः कर्मणा प्रतिपादितः ॥ ७६॥
तानि सर्वाणि मुक्तानि शुभानि चेतराणि च ।
मनुष्यदेहयोगेन सुखदुःखानुसाधनात् ॥ ७७॥
विमुक्तोऽतिभयाद्घोरादस्मात्संसारसङ्कटात् ।
इत्येवं चिन्त्यमानस्तु स्नानदानविवर्जितः ॥ ७८॥
मरणं चेदवाप्नोति स मुच्च्येज्जन्मदुःखतः ।
एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा ॥ ७९॥
पिता ते नृपशार्दूल श्रुत्वा शापं द्विजोदितम् ।
देहे ममत्वं कृतवान्न निर्वेदमवाप्तवान् ॥ ८०॥
नीरोगो मम देहोऽयं राज्यं निहतकण्टकम् ।
कथं जीवाम्यहं कामं मन्त्रज्ञानानयन्तु वै ॥ ८१॥
औषधं मणिमन्त्रं च यन्त्रं परमकं तथा ।
आरोहणं तथा सौधे कृतवान्नृपतिस्तदा ॥ ८२॥
न स्नानं न कृतं दानं न देव्याः स्मरणं कृतम् ।
न भूमौ शयनं चैव दैवं मत्वा परं तथा ॥ ८३॥
मग्नो मोहार्णवे घोरे मृतः सौधेऽहिना हतः ।
कृत्वा पापं कलेर्योगात्तापसस्यावमानजम् ॥ ८४॥
अवश्यमेव नरकमेतैराचरणैर्भवेत् ।
तस्मात्तं पितरं पापात्समुद्धर नृपोत्तम ॥ ८५॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्य व्यासस्यामिततेजसः ।
साश्रुकण्ठोऽतिदुःखार्तो बभूव जनमेजयः ॥ ८६॥
धिगिदं जीवितं मेऽद्य पिता मे नरके स्थितः ।
तत्करोमि यथैवाद्य स्वर्गं यात्युत्तरासुतः ॥ ८७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे अम्बायज्ञविधिवर्णनं नाम द्वादशोऽध्यायः ॥ ३.१२॥
३.१३ त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।
राजोवाच ।
हरिणा तु कथं यज्ञः कृतः पूर्वं पितामह ।
जगत्कारणरूपेण विष्णुना प्रभविष्णुना ॥ १॥
के सहायास्तु तत्रासन्ब्राह्मणाः के महामते ।
ऋत्विजो वेदतत्त्वज्ञास्तन्मे ब्रूहि परन्तप ॥ २॥
पश्चात्करोम्यहं यज्ञं विधिदृष्टेन कर्मणा ।
श्रुत्वा विष्णुकृतं यागमम्बिकायाः समाहितः ॥ ३॥
व्यास उवाच ।
राजञ्छृणु महाभाग विस्तरं परमाद्भुतम् ।
यथा भगवता यज्ञः कृतश्च विधिपूर्वकः ॥ ४॥
विसर्जिता यदा देव्या दत्त्वा शक्तीश्च तास्त्रयः ।
काजेशाः पुरुषा जाता विमानवरमास्थिताः ॥ ५॥
प्राप्ता महार्णवं घोरं त्रयस्ते विबुधोत्तमाः ।
चक्रुः स्थानानि वासार्थं समुत्पाद्य धरां स्थिताः ॥ ६॥
आधारशक्तिरचला मुक्ता देव्या स्वयं ततः ।
तदाधारा स्थिता जाता धरा मेदःसमन्विता ॥ ७॥
मधुकैटभयोर्मेदः संयोगान्मेदिनी स्मृता ।
धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥ ८॥
मही चापि महीयस्त्वाद्धृता सा शेषमस्तके ।
गिरयश्च कृताः सर्वे धारणार्थ प्रविस्तराः ॥ ९॥
लोहकीलं यथा काष्टे तथा ते गिरयः कृताः ।
महीधरो महाराज प्रोच्यते विबुधैर्जनैः ॥ १०॥
जातरूपमयो मेरुर्बहुयोजनविस्तरः ।
कृतो मणिमयैः शृङ्गैः शोभितः परमाद्भुतः ॥ ११॥
मरीचिर्नारदोऽत्रिश्च पुलस्त्यः पुलहः क्रतुः ।
दक्षो वसिष्ठ इत्येते ब्रह्मणः प्रथिताः सुताः ॥ १२॥
मरीचेः कश्यपो जातो दक्षकन्यास्त्रयोदश ।
ताभ्यो देवाश्च दैत्याश्च समुत्पन्ना ह्यनेकशः ॥ १३॥
ततस्तु काश्यपी सृष्टिः प्रवृत्ता चातिविस्तरा ।
मनुष्यपशुसर्पादिजातिभेदैरनेकधा ॥ १४॥
ब्रह्मणश्चार्धदेहात्तु मनुः स्वायम्भुवोऽभवत् ।
शतरूपा तथा नारी सञ्जाता वामभागतः ॥ १५॥
प्रियव्रतोत्तानपादौ सुतौ तस्या बभूवतुः ।
तिस्त्रः कन्या वरारोहा ह्यभवन्नतिसुन्दरीः ॥ १६॥
एवं सृष्टिं समुत्पाद्य भगवान्कमलोद्भवः ।
चकार ब्रह्मलोकञ्च मेरुशृङ्गे मनोहरम् ॥ १७॥
वैकुण्ठं भगवान्विष्णू रमारमणमुत्तमम् ।
क्रीडास्थानं सुरम्यञ्च सर्वलोकोपरिस्थितम् ॥ १८॥
शिवोऽपि परमं स्थानं कैलासाख्यं चकार ह ।
समासाद्य भूतगणं विजहार यथारुचि ॥ १९॥
स्वर्गस्त्रिविष्टपो मेरुशिखरोपरि कल्पितः ।
तच्च स्थानं सुरेन्द्रस्य नानारत्नविराजितम् ॥ २०॥
समुद्रमथनात्प्राप्तः पारिजातस्तरुत्तमः ।
चतुर्दन्तस्तथा नागः कामधेनुश्च कामदा ॥ २१॥
उच्चैःश्रवास्तथाश्वो वै रम्भाद्यप्सरसस्तथा ।
इन्द्रेणोपात्तमखिलं जातं वै स्वर्गभूषणम् ॥ २२॥
धन्वन्तरिश्चन्द्रमाश्च सागराच्च समुद्बभौ ।
स्वर्गस्थितौ विराजेते देवौ बहुगणैर्वृतौ ॥ २३॥
एवं सृष्टिः समुत्पन्ना त्रिविधा नृपसत्तम ।
देवतिर्यङ्मनुष्यादिभेदैर्विविधकल्पिता ॥ २४॥
अण्डजाः स्वेदजाश्चैव चोद्भिज्जाश्च जरायुजाः ।
चतुर्भेदैः समुत्पन्ना जीवाः कर्मयुताः किल ॥ २५॥
एवं सृष्टिं समासाद्य ब्रह्मविष्णुमहेश्वराः ।
विहारं स्वेषु स्थानेषु चक्रुः सर्वे यथेप्सितम् ॥ २६॥
एवं प्रवर्तिते सर्गे भगवान्प्रभुरच्युतः ।
महालक्ष्म्या समं तत्र चिक्रीड भुवने स्वके ॥ २७॥
एकस्मिन्समये विष्णुर्वैकुण्ठे संस्थितः पुरा ।
सुधासिन्धुस्थितं द्वीपं सस्मार मणिमण्डितम् ॥ २८॥
यत्र दृष्ट्वा महामायां मन्त्रश्चासादितः शुभः ।
स्मृत्वा तां परमां शक्तिं स्त्रीभावं गमितो यथा ॥ २९॥
यज्ञं कर्तुं मनश्चक्रे अम्बिकाया रमापतिः ।
उत्तीर्य भुवनात्तस्मात्समाहूय महेश्वरम् ॥ ३०॥
ब्रह्माणं वरुणं शक्रं कुबेरं पावकं यमम् ।
वसिष्ठं कश्यपं दक्षं वामदेवं बृहस्पतिम् ॥ ३१॥
सम्भारं कल्पयामास यज्ञार्थं चातिविस्तरम् ।
महाविभवसंयुक्तं सात्त्विकञ्च मनोहरम् ॥ ३२॥
मण्डपं विततं तत्र कारयामास शिल्पिभिः ।
ऋत्विजो वरयामास सप्तविंशतिसुव्रतान् ॥ ३३॥
चितिञ्च कारयामास वेदीश्चैव सुविस्तराः ।
प्रजेपुर्ब्राह्मणा मन्त्रान्देव्या बीजसमन्वितान् ॥ ३४॥
जुहुवुस्ते हविः कामं विधिवत्परिकल्पिते ।
कृते तु वितते होमे वागुवाचाशरीरिणी ॥ ३५॥
विष्णुं तदा समाभाष्य सुस्वरा मधुराक्षरा ।
विष्णो त्वं भव देवानां हरे श्रेष्ठतमः सदा ॥ ३६॥
मान्यश्च पूजनीयश्च समर्थश्च सुरेष्वपि ।
सर्वे त्वामर्चयिष्यन्ति ब्रह्माद्याश्च सवासवाः ॥ ३७॥
प्रभविष्यन्ति भो भक्त्या मानवा भुवि सर्वतः ।
वरदस्त्वं च सर्वेषां भविता मानवेषु वै ॥ ३८॥
कामदः सर्वदेवानां परमः परमेश्वरः ।
सर्वयज्ञेषु मुख्यस्त्वं पूज्यः सर्वैश्च याज्ञिकैः ॥ ३९॥
त्वां जनाः पूजयिष्यन्ति वरदस्त्वं भविष्यसि ।
श्रयिष्यन्ति च देवास्त्वां दानवैरतिपीडिताः ॥ ४०॥
शरणस्त्वञ्च सर्वेषां भविता पुरुषोत्तम ।
पुराणेषु च सर्वेषु वेदेषु विततेषु च ॥ ४१॥
त्वं वै पूज्यतमः कामं कीर्तिस्तव भविष्यति ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भूतले ॥ ४२॥
तदांशेनावतीर्याशु कर्तव्यं धर्मरक्षणम् ।
अवताराः सुविख्याताः पृथिव्यां तव भागशः ॥ ४३॥
भविष्यन्ति धरायां वै माननीया महात्मनाम् ।
अवतारेषु सर्वेषु नानायोनिषु माधव ॥ ४४॥
विख्यातः सर्वलोकेषु भविता मधुसूदन ।
अवतारेषु सर्वेषु शक्तिस्ते सहचारिणी ॥ ४५॥
भविष्यति ममांशेन सर्वकार्यप्रसाधिनी ।
वाराही नारसिंही च नानाभेदैरनेकधा ॥ ४६॥
नानायुधाः शुभाकाराः सर्वाभरणमण्डीताः ।
ताभिर्युक्तः सदा विष्णो सुरकार्याणि माधव ॥ ४७॥
साधयिष्यसि तत्सर्वं मद्दत्तवरदानतः ।
तास्त्वया नावमन्तव्याः सर्वदा गर्वलेशतः ॥ ४८॥
पूजनीयाः प्रयत्नेन माननीयाश्च सर्वथा ।
नूनं ता भारते खण्डे शक्तयः सर्वकामदाः ॥ ४९॥
भविष्यन्ति मनुष्याणां पूजिताः प्रतिमासु च ।
तासां तव च देवेश कीर्तिः स्यान्दखिलेष्वपि ॥ ५०॥
द्वीपेषु सप्तस्वपि च विख्याता भुवि मण्डले ।
ताश्च त्वां वै महाभाग मानवा भुवि मण्डले ॥ ५१॥
अर्चयिष्यन्ति वाञ्छार्थं सकामाः सततं हरे ।
अर्चासु चोपहारैश्च नानाभावसमन्विताः ॥ ५२॥
पूजयिष्यन्ति वेदोक्तैर्मन्त्रैर्नामजपैस्तथा ।
महिमा तव भूर्लोके स्वर्गे च मधुसूदन ॥ ५३॥
पूजनाद्देवदेवेश वृद्धिमेष्यति मानवैः ।
व्यास उवाच ।
इति दत्त्वा वरान्वाणी विरराम खसम्भवा ॥ ५४॥
भगवानपि प्रीतात्मा ह्यभवच्छ्रवणादिव ।
समाप्य विधिवद्यज्ञं भगवान्हरिरीश्वरः ॥ ५५॥
विसर्जयित्वा तान्देवान्ब्रह्मपुत्रान्मुनीनथ ।
जगामानुचरैः सार्धं वैकुण्ठं गरुडध्वजः ॥ ५६॥
स्वानि स्वानि च धिष्ण्यानि पुनः सर्वे सुरास्ततः ।
मुनयो विस्मिता वार्तां कुर्वन्तस्ते परस्परं ।५७॥
ययुः प्रमुदिताः कामं स्वाश्रमान्पावनानथ ॥ ५८॥
श्रुत्वा वाणीं परमविशदां व्योमजां श्रोत्ररम्यां
सर्वेषां वै प्रकृतिविषये भक्तिभावश्च जातः ।
चक्रुः सर्वे द्विजमुनिगणाः पूजनं भक्तियुक्ता-
स्तस्याः कामं निखिलफलदं चागमोक्तं मुनीन्द्राः ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
अम्बिकामखस्य विष्णुनानुष्ठानवर्णनं त्रयोदशोऽध्यायः ॥ ३.१३॥
३.१४ चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।
जनमेजय उवाच ।
श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज ।
महिमानं तथाम्बाया वद विस्तरतो मम ॥ १॥
श्रुत्वा देव्याश्चरित्रं वै कुर्वे मखमनुत्तमम् ।
प्रसादात्तव विप्रेन्द्र भविष्यामि च पावनः ॥ २॥
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि देव्याश्चरितमुत्तमम् ।
इतिहासं पुराणञ्च कथयामि सुविस्तरम् ॥ ३॥
कोसलेषु नृपश्रेष्ठः सूर्यवंशसमुद्भवः ।
पुष्यपुत्रो महातेजा ध्रुवसन्धिरिति स्मृतः ॥ ४॥
धर्मात्मा सत्यसन्धश्च वर्णाश्रमहिते रतः ।
अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः ॥ ५॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये तथा द्विजाः ।
स्वां स्वां वृत्तिं समास्थाय तद्राज्ये धर्मतोऽभवन् ॥ ६॥
न चौराः पिशुना धूर्तास्तस्य राज्ये च कुत्रचित् ।
दम्भाः कृतघ्ना मूर्खाश्च वसन्ति किल मानवाः ॥ ७॥
एवं वै वर्तमानस्य नृपस्य कुरुसत्तम ।
द्वे पत्न्यौ रूपसम्पन्ने ह्यासतुः कामभोगदे ॥ ८॥
मनोरमा धर्मपत्नी सुरूपाऽतिविचक्षणा ।
लीलावती द्वितीया च साऽपि रूपगुणान्विता ॥ ९॥
विजहार सपत्नीभ्यां गृहेषूपवनेषु च ।
क्रीडागिरौ दीर्घिकासु सौधेषु विविधेषु च ॥ १०॥
मनोरमा शुभे काले सुषुवे पुत्रमुत्तमम् ।
सुदर्शनाभिधं पुत्रं राजलक्षणसंयुतम् ॥ ११॥
लीलावत्यपि तत्पत्नी मासेनैकेन भामिनी ।
सुषुवे सुन्दरं पुत्रं शुभे पक्षे दिने तथा ॥ १२॥
चकार नृपतिस्तत्र जातकर्मादिकं द्वयोः ।
ददौ दानानि विप्रेभ्यः पुत्रजन्मप्रमोदितः ॥ १३॥
प्रीतिं तयोः समां राजा चकार सुतयोर्नृप ।
नृपश्चकार सौहार्देष्वन्तरं न कदाचन ॥ १४॥
चूडाकर्म तयोश्चक्रे विधिना नृपसत्तमः ।
यथाविभवमेवासौ प्रीतियुक्तः परन्तपः ॥ १५॥
कृतचूडौ सुतौ कामं जह्रतुर्नृपतेर्मनः ।
क्रीडमानावुभौ कान्तौ लोकानामनुरञ्जकौ ॥ १६॥
तयोः सुदर्शनो ज्येष्ठो लीलावत्याः सुतः शुभः ।
शत्रुजित्संज्ञकः कामं चाटुवाक्यो बभूव ह ॥ १७॥
नृपतेः प्रीतिजनको मञ्जुवाक्चारुदर्शनः ।
प्रजानां वल्लभः सोऽभूत्तथा मन्त्रिजनस्य वै ॥ १८॥
तथा तस्मिन्नृपः प्रीतिञ्चकार गुणयोगतः ।
मन्दभाग्यान्मन्दभावो न तथा वै सुदर्शने ॥ १९॥
एवं गच्छति काले तु ध्रुवसन्धिर्नृपोत्तमः ।
जगाम वनमध्येऽसौ मृगयाभिरतः सदा ॥ २०॥
निघ्नन्मृगान् रुरून्कम्बून्सूकरान्गवयाञ्छशान् ।
महिषाञ्छरभान्खड्गांश्चिक्रीड नृपतिर्वने ॥ २१॥
क्रीडमाने नृपे तत्र वने घोरेऽतिदारुणे ।
उदतिष्ठन्निकुञ्जात्तु सिंहः परमकोपनः ॥ २२॥
राज्ञा शिलीमुखेनादौ विद्धः क्रोधवशं गतः ।
दृष्ट्वाग्रे नृपतिं सिंहो ननाद मेघनिःस्वनः ॥ २३॥
कृत्वा चोर्ध्वं स लाङ्गूलं प्रसारितबृहत्सटः ।
हन्तुं नृपतिमाकाशादुत्पपातातिकोपनः ॥ २४॥
नृपतिस्तरसा वीक्ष्य दधारासिं करे तदा ।
वामे चर्म समादाय स्थितः सिंह इवापरः ॥ २५॥
सेवकास्तस्य ये सर्वे तेऽपि बाणान्पृथक्पृथक् ।
अमुञ्चन्कुपिताः कामं सिंहोपरि रुषान्विताः ॥ २६॥
हाहाकारो महानासीत्सम्प्रहारश्च दारुणः ।
उत्पपात ततः सिंहो नृपस्योपरि दारुणः ॥ २७॥
तं पतन्तं समालोक्य खड्गेनाभ्यहनन्नृपः ।
सोऽपि क्रूरैर्नखाग्रैश्च तत्रागत्य विदारितः ॥ २८॥
स नखैराहतो राजा पपात च ममार वै ।
चुक्रुशुः सैनिकास्ते तु निर्जघ्नुर्विशिखैस्तदा ॥ २९॥
मृतः सिंहोऽपि तत्रैव भूपतिश्च तथा मृतः ।
सैनिकैर्मन्त्रिमुख्याश्च तत्रागत्य निवेदिताः ॥ ३०॥
परलोकगतं भूपं श्रुत्वा ते मन्त्रिसत्तमाः ।
संस्कारं कारयामासुर्गत्वा तत्र वनान्तिके ॥ ३१॥
परलोकक्रियां सर्वां वसिष्ठो विधिपूर्वकम् ।
कारयामास तत्रैव परलोकसुखावहम् ॥ ३२॥
प्रजाः प्रकृतयश्चैव वसिष्ठश्च महामुनिः ।
सुदर्शनं नृपं कर्तुं मन्त्रं चक्रुः परस्परम् ॥ ३३॥
धर्मपत्नीसुतः शान्तः पुरुषश्च सुलक्षणः ।
अयं नृपासनार्हश्च ह्यब्रुवन्मन्त्रिसत्तमाः ॥ ३४॥
वसिष्ठोऽपि तथैवाह योग्योऽयं नृपतेः सुतः ।
बालोऽपि धर्मवान् राजा नृपासनमिहार्हति ॥ ३५॥
कृते मन्त्रे मन्त्रिवृद्धैर्युधाजिन्नाम पार्थिवः ।
तत्राजगाम तरसा श्रुत्वा तूज्जयिनीपतिः ॥ ३६॥
मृतं जामातरं श्रुत्वा लीलावत्याः पिता तदा ।
तत्राजगाम त्वरितो दौहित्रप्रियकाम्यया ॥ ३७॥
वीरसेनस्तथाऽऽयातः सुदर्शनहितेच्छया ।
कलिङ्गाधिपतिश्चैव मनोरमापिता नृपः ॥ ३८॥
उभौ तौ सैन्यसंयुक्तौ नृपौ साध्वससंस्थितौ ।
चक्रतुर्मन्त्रिमुख्यैस्तैर्मन्त्रं राज्यस्य कारणात् ॥ ३९॥
युधाजित्तु तदाऽपृच्छज्ज्येष्ठः कः सुततोर्द्वयोः ।
राज्यं प्राप्नोति ज्येष्ठो वै न कनीयान्कदाचन ॥ ४०॥
वीरसेनोऽपि तत्राह धर्मपत्नीसुतः किल ।
राज्यार्हः स यथा राजन् शास्त्रज्ञेभ्यो मया श्रुतम् ॥ ४१॥
युधाजित्पुनराहेदं ज्येष्ठोऽयं च यथा गुणैः ।
राजलक्षणसंयुक्तो न तथायं सुदर्शनः ॥ ४२॥
विवादोऽत्र सुसम्पन्नो नृपयोस्तत्र लुब्धयोः ।
कः सन्देहमपाकर्तुं क्षमः स्यादतिसङ्कटे ॥ ४३॥
युधाजिन्मन्त्रिणः प्राह यूयं स्वार्थपराः किल ।
सुदर्शनं नृपं कृत्वा धनं भोक्तुं किलेच्छथ ॥ ४४॥
युष्माकं तु विचारोऽयं मया ज्ञातस्तथेङ्गितैः ।
शत्रुजित्सबलस्तस्मात्सम्मतो वो नृपासने ॥ ४५॥
मयि जीवति कः कुर्यात्कनीयांसं नृपं किल ।
त्यक्त्वा ज्येष्ठं गुणार्हञ्च सेनया च समन्वितम् ॥ ४६॥
नूनं युद्धं करिष्यामि तस्मिन्खड्गस्य मेदिनी ।
धारया च द्विधा भूयाद्युष्माकं तत्र का कथा ॥ ४७॥
वीरसेनस्तु तच्छ्रुत्वा युधाजितमभाषत ।
बालौ द्वौ सदृशप्रज्ञौ को भेदोऽत्र विचक्षण ॥ ४८॥
एवं विवदमानौ तौ संस्थितौ नृपती तदा ।
प्रजाश्च ऋषयश्चैव बभूवुर्व्यग्रमानसाः ॥ ४९॥
समाजग्मुश्च सामन्ताः ससैन्याः क्लेशतत्पराः ।
विग्रहञ्चाभिकाङ्क्षन्तः परस्परमतन्द्रिताः ॥ ५०॥
निषादा ह्याययुस्तत्र शृङ्गवेरपुराश्रयाः ।
राजद्रव्यमपाहर्तुं मृतं श्रुत्वा महीपतिम् ॥ ५१॥
पुत्रौ च बालकौ श्रुत्वा विग्रहं च परस्परम् ।
चौरास्तत्र समाजग्मुर्देशदेशान्तरादपि ॥ ५२॥
सम्मर्दस्तत्र सञ्जातः कलहे समुपस्थिते ।
युधाजिद्वीरसेनश्च युद्धकामौ बभूवतुः ॥ ५३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनं नाम चतुर्दशोऽध्यायः ॥ ३.१४॥
३.१५ पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।
व्यास उवाच ।
संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः ।
क्रोधलोभवशयोः समं ततः सम्बभूव तुमुलस्तु विमर्दः ॥ १॥
संस्थितः स समरे धृतचापः पार्थिवः पृथुलबाहुयुधाजित् ।
संयुतः स्वबलवाहनादिकैराहवाय कृतनिश्चयो नृपः ॥ २॥
वीरसेन इह सैन्यसंयुतः क्षात्रधर्ममनुसृत्य सङ्गरे ।
पुत्रिकात्मजहिताय पार्थिवः संस्थितः सुरपतेः समतेजाः ॥ ३॥
स बाणवृष्टिं विससर्ज पार्थिवो
युधाजितं वीक्ष्य रणे स्थितञ्च ।
गिरिं तडित्वानिव तोयवृष्टिभिः
क्रोधान्वितः सत्यपराक्रमोऽसौ ॥ ४॥
तं वीरसेनो विशिखैः शिलाशितैः
समावृणोदाशुगमैरजिह्मगैः ।
चिच्छेद बाणैश्च शिलीमुखानसौ
तेनैव मुक्तानतिवेगपातिनः ॥ ५॥
गजरथतुरगाणां सम्बभूवातियुद्धं
सुरनरमुनिसङ्घैर्वीक्षितञ्चातिघोरम् ।
विततविहगवृन्दैरावृतं व्योम सद्यः
पिशितमशितुकामैः कामगृध्रादिभिश्च ॥ ६॥
तत्राद्भुता क्षतजसिन्धुरुवाह घोरा
वृन्देभ्य एव गजवीरतुरङ्गमाणाम् ।
त्रासावहा नयनमार्गगता नराणां
पापात्मनां रविजमार्गभवेव कामम् ॥ ७॥
कीर्णानि भिन्नपुलिने नरमस्तकानि
केशावृतानि च विभान्ति यथैव सिन्धौ ।
तुम्बीफलानि विहितानि विहर्तुकामै-
र्बालैर्यथा रविसुताप्रभवैश्च नूनम् ॥ ८॥
वीरं मृतं भुवि गतं पतितं रथाद्वै
गृध्रः पलार्थमुपरि भ्रमतीति मन्ये ।
जीवोऽप्यसौ निजशरीरमवेक्ष्य कान्तं
काङ्क्षत्यहोऽतिविवशोऽपि पुनः प्रवेष्टुम् ॥ ९॥
आजौ हतोऽपि नृवरः सुविमानरूढः
स्वाङ्के स्थितां सुरवधूं प्रवदत्यभीष्टम् ।
पश्याधुना मम शरीरमिदं पृथिव्यां
बाणाहतं निपतितं करभोरु कान्तम् ॥ १०॥
एको हतस्तु रिपुणैव गतोऽन्तरिक्षं
देवाङ्गनां समधिगम्य युतो विमाने ।
तावत्प्रिया हुतवहे सुसमर्प्य देहं
जग्राह कान्तमबला सबला स्वकीया ॥ ११॥
युद्धे मृतौ च सुभटौ दिवि सङ्गतौ ता-
वन्योन्यशस्त्रनिहतौ सह सम्प्रयातौ ।
तत्रैव जघ्नतुरलं परमाहितास्त्रा-
वेकाप्सरोऽर्थविहतौ कलहाकुलौ च ॥ १२॥
कश्चिद्युवा समधिगम्य सुराङ्गनां वै
रूपाधिकां गुणवतीं किल भक्तियुक्तः ।
स्वीयान् गुणान्प्रविततान्प्रवदंस्तदाऽसौ
तां प्रेमदामनुचकार च योगयुक्तः ॥ १३॥
भौमं रजोऽतिविततं दिवि संस्थितञ्च
रात्रिं चकार तरणिञ्च समावृणोद्यत् ।
मग्नं तदेव रुधिराम्बुनिधावकस्मात्
प्रादुर्बभूव रविरप्यतिकान्तियुक्तः ॥ १४॥
कश्चिद्गतस्तु गगनं किल देवकन्यां
सम्प्राप्य चारुवदनां किल भक्तियुक्ताम् ।
नाङ्गीचकार चतुरो व्रतनाशभीतो
यास्यत्ययं मम वृथा ह्यनुकूलशब्दः ॥ १५॥
सङ्ग्रामे संवृते तत्र युधाजित्पृथिवीपतिः ।
जघान वीरसेनं तं बाणैस्तीव्रैः सुदारुणैः ॥ १६॥
निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः ।
प्रभग्नं तद्बलं सर्वं निर्गतं च चतुर्दिशम् ॥ १७॥
मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि ।
भयत्रस्ताथ सञ्जाता पितुर्वैरमनुस्मरन् ॥ १८॥
हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः ।
राज्यलोभेन पापात्मा सेति चिन्तापराभवत् ॥ १९॥
किं करोमि क्व गच्छामि पिता मे निहतो रणे ।
भर्ता चापि मृतोऽद्यैव पुत्रोऽयं मम बालकः ॥ २०॥
लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः ।
किं न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः ॥ २१॥
पितरं मातरं भ्रातॄन्गुरून्स्वजनबान्धवान् ।
हन्ति लोभसमाविष्टो जनो नात्र विचारणा ॥ २२॥
अभक्ष्यभक्षणं लोभादगम्यागमनं तथा ।
करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः ॥ २३॥
न सहायोऽस्ति मे कश्चिन्नगरेऽत्र महाबलः ।
यदाधारे स्थिता चाहं पालयामि सुतं शुभम् ॥ २४॥
हते पुत्रे नृपेणाद्य किं करिष्याम्यहं पुनः ।
न मे त्राताऽस्ति भुवने येन वै सुस्थिता ह्यहम् ॥ २५॥
सापि वैरयुता कामं सपत्नी सर्वदा भवेत् ।
लीलावती न मे पुत्रे भविष्यति दयावती ॥ २६॥
युधाजिति समायाते न मे निःसरणं भवेत् ।
ज्ञात्वा बालं सुतं सोऽद्य कारागारं नयिष्यति ॥ २७॥
श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतः शिशुः ।
कृन्तितः सप्तधा पश्चात्कृतास्ते सप्त सप्तधा ॥ २८॥
प्रविश्य चोदरं मातुः करे कृत्वाल्पकं पविम् ।
एकोनपञ्चाशदपि तेऽभवन्मरुतो दिवि ॥ २९॥
सपत्न्यै गरलं दत्तं सपत्न्या नृपभार्यया ।
गर्भनाशार्थमुद्दिश्य पुरैतद्वै मया श्रुतम् ॥ ३०॥
जातस्तु बालकः पश्चाद्देहे विषयुतः किल ।
तेनासौ सगरो नाम विख्यातो भुवि मण्डले ॥ ३१॥
जीवमानोऽथ भर्ता वै कैकेय्या नृपभार्यया ।
रामः प्रव्राजितो ज्येष्ठो मृतो दशरथो नृपः ॥ ३२॥
मन्त्रिणस्त्ववशाः कामं ये मे पुत्रं सुदर्शनम् ।
राजानं कर्तुकामा वै युधाजिद्वशगाश्च ते ॥ ३३॥
न मे भ्राता तथा शूरो यो मां बन्धात्प्रमोचयेत् ।
महत्कष्टञ्च सम्प्राप्तं मया वै दैवयोगतः ॥ ३४॥
उद्यमः सर्वथा कार्यः सिद्धिर्दैवाद्धि जायते ।
उपायं पुत्ररक्षार्थं करोम्यद्य त्वरान्विता ॥ ३५॥
इति सञ्चिन्त्य सा बाला विदल्लं चातिमानिनम् ।
निपुणं सर्वकार्येषु चिन्त्यं मन्त्रिवरोत्तमम् ॥ ३६॥
समाहूय तमेकान्ते प्रोवाच बहुदुःखिता ।
गृहीत्वा बालकं हस्ते रुदती दीनमानसा ॥ ३७॥
पिता मे निहतः सङ्ख्ये पुत्रोऽयं बालकस्तथा ।
युधाजिद्बलवान् राजा किं विधेयं वदस्व मे ॥ ३८॥
तामुवाच विदल्लोऽसौ नात्र स्थातव्यमेव च ।
गमिष्यामो वने कामं वाराणस्याः पुनः किल ॥ ३९॥
तत्र मे मातुलः श्रीमान्वर्तते बलवत्तरः ।
सुबाहुरिति विख्यातो रक्षिता स भविष्यति ॥ ४०॥
युधाजिद्दर्शनोत्कण्ठमनसा नगराद्बहिः ।
निर्गत्य रथमारुह्य गन्तव्यं नात्र संशयः ॥ ४१॥
इत्युक्ता तेन सा राज्ञी गत्वा लीलावतीं प्रति ।
उवाच पितरं द्रष्टुं गच्छाम्यद्य सुलोचने ॥ ४२॥
इत्युक्त्वा रथमारुह्य सैरन्ध्रीसंयुता तदा ।
विदल्लेन च संयुक्ता निःसृता नगराद्बहिः ॥ ४३॥
त्रस्ता ह्यार्तातिकृपणा पितुः शोकसमाकुला ।
दृष्ट्वा युधाजितं भूपं पितरं गतजीवितम् ॥ ४४॥
संस्कार्य च त्वरायुक्ता वेपमाना भयाकुला ।
दिनद्वयेन सम्प्राप्ता राज्ञी भागीरथीतटम् ॥ ४५॥
निषादैलुण्ठिता तत्र गृहीतं सकलं वसु ।
रथञ्चापि गृहीत्वा ते निर्गता दस्यवः शठाः ॥ ४६॥
रुदती सुतमादाय चारुवस्त्रा मनोरमा ।
निर्ययौ जाह्नवीतीरे सैरन्ध्रीकरलम्बिता ॥ ४७॥
आरुह्य च भयाच्छीघ्रमुडुपं सा भयाकुला ।
तीर्त्वा भागीरथीं पुण्यां ययौ त्रिकूटपर्वतम् ॥ ४८॥
भारद्वाजाश्रमं प्राप्ता त्वरया च भयाकुला ।
संवीक्ष्य तापसांस्तत्र सञ्जाता निर्भया तदा ॥ ४९॥
मुनिना सा ततः पृष्टा काऽसि कस्य परिग्रहः ।
कष्टेनात्र कथं प्राप्ता सत्यं ब्रूहि शुचिस्मिते ॥ ५०॥
देवी वा मानुषी वासि बालपुत्रा वने कथम् ।
राज्यभ्रष्टेव वामोरु भासि त्वं कमलेक्षणे ॥ ५१॥
एवं सा मुनिना पृष्टा नोवाच वरवर्णिनी ।
रुदती दुःखसन्तप्ता विदल्लं च समादिशत् ॥ ५२॥
विदल्लस्तमुवाचेदं ध्रुवसन्धिर्नृपोत्तमः ।
तस्य भार्या धर्मपत्नी नाम्ना चेयं मनोरमा ॥ ५३॥
सिंहेन निहतो राजा सूर्यवंशी महाबलः ।
पुत्रोऽयं नृपतेस्तस्य नाम्ना चैव सुदर्शनः ॥ ५४॥
अस्याः पितातिधर्मात्मा दौहित्रार्थं मृतो रणे ।
युधाजिद्भयसन्त्रस्ता सम्प्राप्ता विजने वने ॥ ५५॥
त्वामेव शरणं प्राप्ता बालपुत्रा नृपात्मजा ।
त्राता भव महाभाग त्वमस्या मुनिसत्तम ॥ ५६॥
आर्तस्य रक्षणे पुण्यं यज्ञाधिकमुदाहृतम् ।
भयतस्तस्य दीनस्य विशेषफलदं स्मृतम् ॥ ५७॥
ऋषिरुवाच ।
निर्भया वस कल्याणि पुत्रं पालय सुव्रते ।
न ते भयं विशालाक्षि कर्तव्यं शत्रुसम्भवम् ॥ ५८॥
पालयस्व सुतं कान्तं राजा तेऽयं भविष्यति ।
नात्र दुःखं तथा शोकः कदाचित्सम्भविष्यति ॥ ५९॥
व्यास उवाच ।
इत्युक्ता मुनिना राज्ञी स्वस्था सा सम्बभूव ह ।
उटजे मुनिना दत्ते वीतशोका तदावसत् ॥ ६०॥
सैरन्ध्रीसहिता तत्र विदल्लेन च संयुता ।
सुदर्शनं पालयाना न्यवसत्सा मनोरमा ॥ ६१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
मनोरमया भारद्वाजाश्रमं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ ३.१५॥
३.१६ षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।
व्यास उवाच ।
युधाजित्त्वथ सङ्ग्रामाद्गत्वाऽयोध्यां महाबलः ।
मनोरमां च पप्रच्छ सुदर्शनजिघांसया ॥ १॥
सेवकान् प्रेषयामास क्व गतेति मुहुर्वदन् ।
शुभे दिनेऽथ दौहित्रं स्थापयामास चासने ॥ २॥
मन्त्रिभिश्च वसिष्ठेन मन्त्रैराथर्वणैः शुभैः ।
अभिषिक्तश्च सम्पूर्णैः कलशैर्जलपूरितैः ॥ ३॥
भेरीशङ्खनिनादैश्च तूर्याणां चाथ निःस्वनैः ।
उत्सवस्तु नगर्या वै सम्बभूव कुरूद्वह ॥ ४॥
विप्राणां वेदपाठैश्च बन्दिनां स्तुतिभिस्तथा ।
अयोध्या मुदितेवासीज्जयशब्दैः सुमङ्गलैः ॥ ५॥
हृष्टपुष्टजनाकीर्णा स्तुतिवादित्रनिःस्वना ।
नवे तस्मिन्महीपाले पूर्बभौ नूतनेव सा ॥ ६॥
केचित्साधुजना ये वै चक्रुः शोकं गृहे स्थिताः ।
सुदर्शनं विचिन्त्याद्य क्व गतोऽसौ नृपात्मजः ॥ ७॥
मनोरमातिसाध्वी सा क्व गता सुतसंयुता ।
पिताऽस्या निहतः सङ्ख्ये राज्यलोभेन वैरिणा ॥ ८॥
इत्येवं चिन्त्यमानास्ते साधवः समबुद्धयः ।
अतिष्ठन्दुःखितास्तत्र शत्रुजिद्वशवर्तिनः ॥ ९॥
युधाजिदपि दौहित्रं स्थापयित्वा विधानतः ।
राज्यञ्च मन्त्रिसात्कृत्वा चलितः स्वां पुरीं प्रति ॥ १०॥
श्रुत्वा सुदर्शनं तत्र मुनीनामाश्रमे स्थितम् ।
हन्तुकामो जगामाशु चित्रकूटं स पर्वतम् ॥ ११॥
निषादाधिपतिं शूरं पुरस्कृत्य बलाभिधम् ।
दुर्दर्शाख्यमगादाशु शृङ्गवेरपुराधिपम् ॥ १२॥
श्रुत्वा मनोरमा तत्र बभूवातिसुदुःखिता ।
आगच्छन्तं बालपुत्रा भयार्ता सैन्यसंयुतम् ॥ १३॥
तमुवाचातिशोकार्ता मुनिं साश्रुविलोचना ।
किं करोमि क्व गच्छामि युधाजित्समुपस्थितः ॥ १४॥
पिता मे निहतोऽनेन दौहित्रो भूपतिः कृतः ।
सुतं मे हन्तुकामोऽत्र समायाति बलान्वितः ॥ १५॥
पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः ।
मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा ॥ १६॥
गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते ।
द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे ॥ १७॥
धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः ।
च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः ॥ १८॥
वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः ।
राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः ॥ १९॥
एते चान्ये च मुनयो भारद्वाजादयः शुभाः ।
वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः ॥ २०॥
दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने ।
आश्रमे चारुसर्वाङ्गी निर्भया मुनिसंवृते ॥ २१॥
पार्था मृगानुगास्तावत्प्रयाताश्च वनाद्वनम् ।
धनुर्बाणधरा वीराः पञ्च वै शत्रुतापनाः ॥ २२॥
तावत्सिन्धुपतिः श्रीमान्मार्गस्थो बलसंयुतः ।
आगतश्चाश्रमाभ्याशे श्रुत्वा तु निगमन्ध्वनिम् ॥ २३॥
श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाम् ।
उत्ततार रथात्तूर्णं दर्शनाकाङ्क्षया नृपः ॥ २४॥
यदा निरगमत्तत्र भृत्यद्वयसमन्वितः ।
वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थितः ॥ २५॥
कृताञ्जलिपुटः स्वामिन्संस्थितोऽथ जयद्रथः ।
आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह ॥ २६॥
तत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा ।
आययुर्मुनिभार्याश्च कोऽयमित्यब्रुवन्नृपम् ॥ २७॥
तासां मध्ये वरारोहा याज्ञसेनी समागता ।
जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा ॥ २८॥
तां विलोक्यासितापाङ्गीं देवकन्यामिवापराम् ।
पप्रच्छ नृपतिर्धौम्यं केयं श्यामा वरानना ॥ २९॥
भार्या कस्य सुता कस्य नाम्ना का वरवर्णिनी ।
रूपलावण्यसंयुक्ता शचीव वसुधाङ्गता ॥ ३०॥
बर्बूलवनमध्यस्था लवङ्गलतिका यथा ।
राक्षसीवृन्दगा नूनं रम्भेवाभाति भामिनी ॥ ३१॥
सत्यं वद महाभाग कस्येयं वल्लभाबला ।
राजपत्नीव चाभाति नैषा मुनिवधूर्द्विज ॥ ३२॥
धौम्य उवाच ।
पाण्डवानां प्रिया भार्या द्रौपदी शुभलक्षणा ।
पाञ्चाली सिन्धुराजेन्द्र वसत्यत्र वराश्रमे ॥ ३३॥
जयद्रथ उवाच ।
क्व गताः पाण्डवाः पञ्च शूराः सम्प्रति विश्रुताः ।
वसन्त्यत्र वने वीरा वीतशोका महाबलाः ॥ ३४॥
धौम्य उवाच ।
मृगयार्थं गताः पञ्च पाण्डवा रथसंस्थिताः ।
आगमिष्यन्ति मध्यान्हे मृगानादाय पार्थिवाः ॥ ३५॥
तच्छ्रुत्वा वचनं तस्य उदतिष्ठदसौ नृपः ।
द्रौपदीसन्निधौ गत्वा प्रगम्येदमुवाच ह ॥ ३६॥
कुशलं ते वरारोहे क्व गताः पतयश्च ते ।
एकादश गतान्यद्य वर्षाणि च वने किल ॥ ३७॥
द्रौपदी तु तदोवाच स्वस्ति तेऽस्तु नृपात्मज ।
विश्रमस्वाश्रमाभ्याशे क्षणादायान्ति पाण्डवाः ॥ ३८॥
एवं ब्रुवन्त्यां तस्यां तु लोभाविष्टः स भूपतिः ।
जहार द्रौपदीं वीरोऽनादृत्य मुनिसत्तमान् ॥ ३९॥
कस्यचिन्नैव विश्वासः कर्तव्यः सर्वथा बुधैः ।
कुर्वन्दुःखमवाप्नोति दृष्टान्तस्त्वत्र वै बलिः ॥ ४०॥
वैरोचनसुतः श्रीमान्धर्मिष्ठः सत्यसङ्गरः ।
यज्ञकर्ता च दाता च शरण्यः साधुसम्मतः ॥ ४१॥
नाधर्मे निरतः क्वापि प्रल्हादस्य च पौत्रकः ।
एकोनशतयज्ञान्वै स चकार सदक्षिणान् ॥ ४२॥
सत्त्वमूर्त्तिः सदा विष्णुः सेव्यः स योगिनामपि ।
निर्विकारोऽपि भगवान्देवकार्यार्थसिद्धये ॥ ४३॥
कश्यपाच्च समुद्भूतो विष्णुः कपटवामनः ।
राज्यं छलेन हृतवान्महीं चैव ससागराम् ॥ ४४॥
सोऽभवत्सत्यवाग्राजा बलिर्वैरोचनिस्तदा ।
कपटं कृतवान्विष्णुरिन्द्रार्थे तु मया श्रुतम् ॥ ४५॥
अन्यः किं न करोत्येवं कृतं वै सत्त्वमूर्तिना ।
वामनं रूपमास्थाय यज्ञपातं चिकीर्षता ॥ ४६॥
न च विश्वसितव्यं वै कदाचित्केनचित्तथा ।
लोभश्चेतसि चेत्स्वामिन्कीदृक्पापकृतं भयम् ॥ ४७॥
लोभाहताः प्रकुर्वन्ति पापानि प्राणिनः किल ।
परलोकाद्भयं नास्ति कस्यचित्कर्हिचिन्मुने ॥ ४८॥
मनसा कर्मणा वाचा परस्वादानहेतुतः ।
प्रपतन्ति नराः सम्यग्लोभोपहतचेतसः ॥ ४९॥
देवानाराध्य सततं वाञ्छन्ति च धनं नराः ।
न देवास्तत्करे कृत्वा समर्था दातुमञ्जसा ॥ ५०॥
अन्यस्यानीयते वित्तं प्रयच्छन्ति मनीषितम् ।
वाणिज्येनाथ दानेन चौर्येणापि बलेन वा ॥ ५१॥
विक्रयार्थं गृहीत्वा च धान्यवस्त्रादिकं बहु ।
देवानर्चयते वैश्यो महर्द्धिर्मे भवेदिति ॥ ५२॥
नात्र किं परवित्तेच्छा वाणिज्येन परन्तप ।
ग्रहणकाले तु सम्प्राप्ते महर्घञ्चापि काङ्क्षति ॥ ५३॥
एवं हि प्राणिनः सर्वे परस्वादानतत्पराः ।
वर्तन्ते सततं ब्रह्मन् विश्वासः कीदृशः पुनः ॥ ५४॥
वृथा तीर्थं वृथा दानं वृथाऽध्ययनमेव च ।
लोभमोहावृतानां वै कृतं तदकृतं भवेत् ॥ ५५॥
तस्मादेनं महाभाग विसर्जय गृहं प्रति ।
सपुत्राऽहं वसिष्यामि जानकीवद्द्विजोत्तम ॥ ५६॥
इत्युक्तोऽसौ मुनिस्तावद्गत्वा युधाजितं नृपम् ।
उवाच वचनं राज्ञे भारद्वाजः प्रतापवान् ॥ ५७॥
गच्छ राजन् यथाकामं स्वपुरं नृपसत्तम ।
नेयं मनोरमाभ्येति बालपुत्रा सुदुःखिता ॥ ५८॥
युधाजिदुवाच ।
मुने मुञ्च हठं सौम्य विसर्जय मनोरमाम् ।
न च यास्याम्यहं मुक्त्वा नेष्याम्यद्य बलात्पुनः ॥ ५९॥
ऋषिरुवाच ।
नयस्व यदि शक्तिस्ते बलेनाद्य ममाश्रमात् ।
विश्वामित्रो यथा धेनुं वसिष्ठस्य मुनेः पुरा ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
युधाजिद्भारद्वाजयोः संवादवर्णनं नाम षोडशोऽध्यायः ॥ ३.१६॥
३.१७ सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।
व्यास उवाच ।
इत्याकर्ण्य वचस्तस्य मुनेस्तत्रावनीपतिः ।
मन्त्रिवृद्धं समाहूय पप्रच्छ तमतन्द्रितः ॥ १॥
किं कर्तव्यं सुबुद्धेऽत्र मयाऽद्य वद सुव्रत ।
बलान्नयामि तां कामं सपुत्राञ्च सुभाषिणीम् ॥ २॥
रिपुरल्पोऽपि नोपेक्ष्यः सर्वथा शुभमिच्छता ।
राजयक्ष्मेव संवृद्धो मृत्यवे परिकल्पयेत् ॥ ३॥
नात्र सैन्यं न योद्धास्ति यो मामत्र निवारयेत् ।
गृहीत्वा हन्मि तं तत्र दौहित्रस्य रिपुं किल ॥ ४॥
निष्कण्टकं भवेद्राज्यं यताम्यद्य बलादहम् ।
हते सुदर्शने नूनं निर्भयोऽसौ भवेदिति ॥ ५॥
प्रधान उवाच ।
साहसं न हि कर्तव्यं श्रुतं राजन् मुनेर्वचः ।
विश्वामित्रस्य दृष्टान्तः कथितस्तेन मारिष ॥ ६॥
पुरा गाधिसुतः श्रीमान्विश्वामित्रोऽतिविश्रुतः ।
विचरन्स नृपश्रेष्ठो वसिष्ठाश्रममभ्यगात् ॥ ७॥
नमस्कृत्य च तं राजा विश्वामित्रः प्रतापवान् ।
उपविष्टो नृपश्रेष्ठो मुनिना दत्तविष्टरः ॥ ८॥
निमन्त्रितो वसिष्ठेन भोजनाय महात्मना ।
ससैन्यश्च स्थितो राजा गाधिपुत्रो महायशाः ॥ ९॥
नन्दिन्याऽऽसादितं सर्वं भक्ष्यभोज्यादिकं च यत् ।
भुक्त्वा राजा ससैन्यश्च वाञ्छितं तत्र भोजनम् ॥ १०॥
प्रतापं तञ्च नन्दिन्याः परिज्ञाय स पार्थिवः ।
ययाचे नन्दिनीं राजा वसिष्ठं मुनिसत्तमम् ॥ ११॥
विश्वामित्र उवाच ।
मुने धेनुसहस्रं ते घटोध्नीनां ददाम्यहम् ।
नन्दिनीं देहि मे धेनुं प्रार्थयामि परन्तप ॥ १२॥
वसिष्ठ उवाच ।
होमधेनुरियं राजन्न ददामि कथञ्चन ।
सहस्रञ्चापि धेनूनां तवेदं तव तिष्ठतु ॥ १३॥
विश्वामित्र उवाच ।
अयुतं वाथ लक्ष्यं वा ददामि मनसेप्सितम् ।
द्देहि मे नन्दिनीं साधो ग्रहीष्यामि बलादथ ॥ १४॥
वसिष्ठ उवाच ।
कामं गृहाण नृपते बलादद्य यथारुचि ।
नाहं ददामि ते राजन्स्वेच्छया नन्दिनीं गृहात् ॥ १५॥
तच्छ्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान् ।
नयघ्वं नन्दिनीं धेनुं बलदर्पसुसंस्थिताः ॥ १६॥
ते भृत्या जगृहुस्तां तु हठादाक्रम्य यन्त्रिताम् ।
वेपमाना मुनिं प्राह सुरभिः साश्रुलोचना ॥ १७॥
मुने त्यजसि मां कस्मात्कर्षयन्ति सुयन्त्रिताम् ।
मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्धदे ॥ १८॥
बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे ।
किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल ॥ १९॥
इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह ।
हम्भारवं चकाराशु क्रूरशब्दं सुदारुणम् ॥ २०॥
उद्गतास्तत्र देहात्तु दैत्या घोरतरास्तदा ।
सायुधास्तिष्ठ तिष्ठेति ब्रुवन्तः कवचावृताः ॥ २१॥
सैन्यं सर्वं हतं तैस्तु नन्दिनी प्रतिमोचिता ।
एकाकी निर्गतो राजा विश्वामित्रोऽतिदुःखितः ॥ २२॥
हन्त पापोऽतिदीनात्मा निन्दन् क्षात्रबलं महत् ।
ब्राह्मं बलं दुराराध्यं मत्वा तपसि संस्थितः ॥ २३॥
तप्त्वा बहूनि वर्षाणि तपो घोरं महावने ।
ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः ॥ २४॥
तस्मात्त्वमपि राजेन्द्र मा कृथा वैरमद्भुतम् ।
कुलनाशकरं नूनं तापसैः सह संयुगम् ॥ २५॥
मुनिवर्यं व्रजाद्य त्वं समाश्वास्य तपोनिधिम् ।
सुदर्शनोऽपि राजेन्द्र तिष्ठत्वत्र यथासुखम् ॥ २६॥
बालोऽयं निर्धनः किं ते करिष्यति नृपाहितम् ।
वृथा ते वैरभावोऽयमनाथे दुर्बले शिशौ ॥ २७॥
दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् ।
ईर्ष्यया किं नृपश्रेष्ठ यद्भाव्यं तद्भविष्यति ॥ २८॥
वज्रं तृणायते राजन् दैवयोगान्न संशयः ।
तृणं वज्रायते क्वापि समये दैवयोगतः ॥ २९॥
शशको हन्ति शार्दूलं मशको वै तथा गजम् ।
साहसं मुञ्च मेधाविन् कुरु मे वचनं हितम् ॥ ३०॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्य युधाजिन्नृपसत्तमः ।
प्रणम्य तं मुनिं मूर्घ्ना जगाम स्वपुरं नृपः ॥ ३१॥
मनोरमाऽपि स्वस्थाऽभूदाश्रमे तत्र संस्थिता ।
पालयामास पुत्रं तं सुदर्शनमृतव्रतम् ॥ ३२॥
दिने दिने कुमारोऽसौ जगामोपचयं ततः ।
मुनिबालगतः क्रीडन्निर्भयः सर्वतः शुभः ॥ ३३॥
एकस्मिन्समये तत्र विदल्लं समुपागतम् ।
क्लीबेति मुनिपुत्रस्तमामन्त्रयत्तदन्तिके ॥ ३४॥
सुदर्शनस्तु तच्छ्रुत्वा दधारैकाक्षरं स्फुटम् ।
अनुस्वारयुतं तच्च प्रोवाचापि पुनः पुनः ॥ ३५॥
बीजं वै कामराजाख्यं गृहीतं मनसा तदा ।
जजाप बालकोऽत्यर्थं धृत्वा चेतसि सादरम् ॥ ३६॥
भावियोगान्महाराज कामराजाख्यमद्भुतम् ।
स्वभावेनैव तेनेत्थं गृहीतं बालकेन वै ॥ ३७॥
तदाऽसौ पञ्चमे वर्षे प्राप्य मन्त्रमनुत्तमम् ।
ऋषिच्छन्दोविहीनञ्च ध्यानन्यासविवर्जितम् ॥ ३८॥
प्रजपन्मनसा नित्यं क्रीडत्यपि स्वपित्यपि ।
विसस्मार न तं मन्त्रं ज्ञात्वा सारमिति स्वयम् ॥ ३९॥
वर्षे चैकादशे प्राप्ते कुमारोऽसौ नृपात्मजः ।
मुनिना चोपनीतोऽथ वेदमध्यापितस्तथा ॥ ४०॥
धनुर्वेदं तथा साङ्गं नीतिशास्त्रं विधानतः ।
अभ्यस्ताः सकला विद्यास्तेन मन्त्रबलादिना ॥ ४१॥
कदाचित्सोऽपि प्रत्यक्षं देवीरूपं ददर्श ह ।
रक्ताम्बरं रक्तवर्णं रक्तसर्वाङ्गभूषणम् ॥ ४२॥
गरुडे वाहने संस्थां वैष्णवीं शक्तिमद्भुताम् ।
दृष्ट्वा प्रसन्नवदनः स बभूव नृपात्मजः ॥ ४३॥
वने तस्मिंस्थितः सोऽथ सर्वविद्यार्थतत्त्ववित् ।
मातरं सेवमानस्तु विजहार नदीतटे ॥ ४४॥
शरासनञ्च सम्प्राप्तं विशिखाश्च शिलाशिताः ।
तूणीरकवचं तस्मै दत्तं चाम्बिकया वने ॥ ४५॥
एतस्मिन्समये पुत्री काशिराजस्य सुप्रिया ।
नाम्ना शशिकला दिव्या सर्वलक्षणसंयुता ॥ ४६॥
शुश्राव नृपपुत्रं तं वनस्थञ्च सुदर्शनम् ।
सर्वलक्षणसम्पन्नं शूरं काममिवापरम् ॥ ४७॥
बन्दीजनमुखाच्छ्रुत्वा राजपुत्रं सुसङ्गतम् ।
चकमे मनसा तं वै वरं वरयितुं धिया ॥ ४८॥
स्वप्ने तस्याः समागम्य जगदम्बा निशान्तरे ।
उवाच वचनं चेदं समाश्वास्य सुसंस्थिता ॥ ४९॥
वरं वरय सुश्रोणि मम भक्तः सुदर्शनः ।
सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि ॥ ५०॥
एवं शशिकला दृष्टा स्वप्ने रूपं मनोहरम् ।
अम्बाया वचनं स्मृत्वा जहर्ष भृशभामिनी ॥ ५१॥
उत्थिता सा मुदा युक्ता पृष्टा मात्रा पुनः पुनः ।
प्रमोदे कारणं बाला नोवाचातित्रपान्विता ॥ ५२॥
जहास मुदमापन्ना स्मृत्वा स्वप्नं मुहुर्मुहुः ।
सखीं प्राह तदान्यां वै स्वप्नवृत्तं सविस्तरम् ॥ ५३॥
कदाचित्सा विहारार्थमवापोपवनं शुभम् ।
सखीयुक्ता विशालाक्षी चम्पकैरुपशोभितम् ॥ ५४॥
पुष्पाणि चिन्वती बाला चम्पकाधःस्थिताबला ।
अपश्यद्ब्राह्मणं मार्गे आगच्छन्तं त्वरान्वितम् ॥ ५५॥
तं प्रणम्य द्विजं श्यामा बभाषे मधुरं वचः ।
कुतो देशान्महाभाग कृतमागमनं त्वया ॥ ५६॥
द्विज उवाच ।
भारद्वाजाश्रमाद्बाले नूनमागमनं मम ।
जातं वै कार्ययोगेन किं पृच्छसि वदस्व मे ॥ ५७॥
शशिकलोवाच ।
तत्राश्रमे महाभाग वर्णनीयं किमस्ति वै ।
लोकातिगं विशेषेण प्रेक्षणीयतमं किल ॥ ५८॥
ब्राह्मण उवाच ।
ध्रुवसन्धिसुतः श्रीमानास्ते सुदर्शनो नृपः ।
यथार्थनामा सुश्रोणि वर्तते पुरुषोत्तमः ॥ ५९॥
तस्य लोचनमत्यन्तं निष्फलं प्रतिभाति मे ।
येन दृष्टो न वामोरु कुमारस्तु सुदर्शनः ॥ ६०॥
एकत्र निहिता धात्रा गुणाः सर्वे सिसृक्षुणा ।
गुणानामाकरं द्रष्टुं मन्ये तेनैव कौतुकात् ॥ ६१॥
तव योग्यः कुमारोऽसौ भर्ता भवितुमर्हति ।
योगोऽयं विहितोऽप्यासीन्मणिकाञ्चनयोरिव ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥ ३.१७॥
३.१८ अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।
व्यास उवाच ।
श्रुत्वा तद्वचनं श्यामा प्रेमयुक्ता बभूव ह ।
प्रतस्थे ब्राह्मणस्तस्मात्स्थानादुक्त्वा समाहितः ॥ १॥
सा तु पूर्वानुरागाद्वै मग्ना प्रेम्णाऽतिचञ्चला ।
कामबाणहतेवास गते तस्मिन्द्विजोत्तमे ॥ २॥
अथ कामार्दिता प्राह सखीं छन्दोऽनुवर्तिनीम् ।
विकारश्च समुत्पन्नो देहे यच्छ्रवणादनु ॥ ३॥
अज्ञातरसविज्ञानं कुमारं कुलसम्भवम् ।
दुनोति मदनः पापः किं करोमि क्व यामि च ॥ ४॥
स्वप्नेषु वा मया दृष्टः पञ्चबाण इवापरः ।
तपते मे मनोऽत्यर्थं विरहाकुलितं मृदु ॥ ५॥
चन्दनं देहलग्नं मे विषवद्भाति भामिनि ।
स्रगियं सर्पवच्चैव चन्द्रपादाश्च वह्निवत् ॥ ६॥
न च हर्म्ये वने शं मे दीर्घिकायां न पर्वते ।
न दिवा न निशायां वा न सुखं सुखसाधनैः ॥ ७॥
न शय्या न च ताम्बूलं न गीतं न च वादनम् ।
प्रीणयन्ति मनो मेऽद्य न तृप्ते मम लोचने ॥ ८॥
प्रयाम्यद्य वने तत्र यत्रासौ वर्तते शठः ।
भीतास्मि कुललज्जायाः परतन्त्रा पितुस्तथा ॥ ९॥
स्वयंवरं पिता मेऽद्य न करोति करोमि किम् ।
दास्यामि राजपुत्राय कामं सुदर्शनाय वै ॥ १०॥
सन्त्यन्ये पृथिवीपालाः शतशः सम्भृतर्द्धयः ।
रमणीया न मे तेऽद्य राज्यहीनोऽप्यसौ मतः ॥ ११॥
व्यास उवाच ।
एकाकी निर्धनश्चैव बलहीनः सुदर्शनः ।
वनवासी फलाहारस्तस्याश्चित्ते सुसंस्थिता ॥ १२॥
वाग्बीजस्य जपात्सिद्धिस्तस्या एषाप्युपस्थिता ।
सोपि ध्यानपरोऽत्यन्तं जजाप मन्त्रमुत्तमम् ॥ १३॥
स्वप्ने पश्यत्यसौ देवीं विष्णुमायामखण्डिताम् ।
विश्वमातरमव्यक्तां सर्वसम्पत्कराम्बिकाम् ॥ १४॥
शृङ्गवेरपुराध्यक्षो निषादः समुपेत्य तम् ।
ददौ रथवरं तस्मै सर्वोपस्करसंयुतम् ॥ १५॥
चतुर्भिस्तुरगैर्युक्तं पताकावरमण्डितम् ।
जैत्रं राजसुतं ज्ञात्वा ददौ चोपायनं तदा ॥ १६॥
सोऽपि जग्राह तं प्रीत्या मित्रत्वेन सुसंस्थितम् ।
वन्यैर्मूलफलैः सम्यगर्चयामास शम्बरम् ॥ १७॥
कृतातिथ्ये गते तस्मिन्निषादाधिपतौ तदा ।
मुनयः प्रीतियुक्तास्ते तमूचुस्तापसा मिथः ॥ १८॥
राजपुत्र ध्रुवं राज्यं प्राप्स्यसि त्वं च सर्वथा ।
स्वल्पैरहोभिरव्यग्रः प्रतापान्नात्र संशयः ॥ १९॥
प्रसन्ना तेऽम्बिका देवी वरदा विश्वमोहिनी ।
सहायस्तु सुसम्पन्नो न चिन्तां कुरु सुव्रत ॥ २०॥
मनोरमां तथोचुस्ते मुनयः संशितव्रताः ।
पुत्रस्तेऽद्य धराधीशो भविष्यति शुचिस्मिते ॥ २१॥
सा तानुवाच तन्वङ्गी वचनं वोऽस्तु सत्फलम् ।
दासोऽयं भवतां विप्राः किं चित्रं सदुपासनात् ॥ २२॥
न सैन्यं सचिवाः कोशो न सहायश्च कश्चन ।
केन योगेन पुत्रो मे राज्यं प्राप्तुमिहार्हति ॥ २३॥
आशीर्वादैश्च वो नूनं पुत्रोऽयं मे महीपतिः ।
भविष्यति न सन्देहो भवन्तो मन्त्रवित्तमाः ॥ २४॥
व्यास उवाच ।
रथारूढः स मेधावी यत्र याति सुदर्शनः ।
अक्षौहिणीसमावृत्त इवाभाति स तेजसा ॥ २५॥
प्रतापो मन्त्रबीजस्य नान्यः कश्चन भूपते ।
एवं वै जपतस्तस्य प्रीतियुक्तस्य सर्वथा ॥ २६॥
सम्प्राप्य सद्गुरोर्बीजं कामराजाख्यमद्भुतम् ।
जपेद्यस्तु शुचिः शान्तः सर्वान्कामानवाप्नुयात् ॥ २७॥
न तदस्ति पृथिव्यां वा दिवि वापि सुदुर्लभम् ।
प्रसन्नायाः शिवायाश्च यदप्राप्यं नृपोत्तम ॥ २८॥
ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समभिद्रुताः ।
येषां चित्ते न विश्वासो भवेदम्बार्चनादिषु ॥ २९॥
या माता सर्वदेवानां युगादौ परिकीर्तिता ।
आदिमातेति विख्याता नाम्ना तेन कुरूद्वह ॥ ३०॥
बुद्धिः कीर्तिर्धृतिर्लक्ष्मीः शक्तिः श्रद्धा मतिः स्मृतिः ।
सर्वेषां प्राणिनां सा वै प्रत्यक्षं वै विभासते ॥ ३१॥
न जानन्ति नरा ये वै मोहिता मायया किल ।
न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवाम् ॥ ३२॥
ब्रह्मा विष्णुस्तथा शम्भुर्वासवो वरुणो यमः ।
वायुरग्निः कुबेरश्च त्वष्टा पूषाश्विनौ भगः ॥ ३३॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणीम् ॥ ३४॥
को न सेवेत विद्वान्वै तां शक्तिं परमात्मिकाम् ।
सुदर्शनेन सा ज्ञाता देवी सर्वार्थदा शिवा ॥ ३५॥
ब्रह्मैव साऽतिदुष्प्राप्या विद्याविद्यास्वरूपिणी ।
योगगम्या परा शक्तिर्मुमुक्षूणां च वल्लभा ॥ ३६॥
परमात्मस्वरूपं को वेत्तुमर्हति तां विना ।
या सृष्टिं त्रिविधां कृत्वा दर्शयत्यखिलात्मने ॥ ३७॥
सुदर्शनस्तु तां देवीं मनसा परिचिन्तयन् ।
राज्यलाभात्परं प्राप्य सुखं वै कानने स्थितः ॥ ३८॥
सापि चन्द्रकलात्यर्थं कामबाणप्रपीडिता ।
नानोपचारैरनिशं दधार दुःखितं वपुः ॥ ३९॥
तावत्तस्याः पिता ज्ञात्वा कन्यां पुत्रवरार्थिनीम् ।
सुबाहुः कारयामास स्वयंवरमतन्द्रितः ॥ ४०॥
स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः ।
राज्ञां विवाहयोग्यौ वै नान्येषां कथितः किल ॥ ४१॥
इच्छास्वयंवरश्चैको द्वितीयश्च पणाभिधः ।
यथा रामेण भग्नं वै त्र्यम्बकस्य शरासनम् ॥ ४२॥
तृतीयः शौर्यशुल्कश्च शूराणां परिकीर्तितः ।
इच्छास्वयंवरं तत्र चकार नृपसत्तमः ॥ ४३॥
शिल्पिभिः कारिता मञ्चाः शुभैरास्तरणैर्युताः ।
ततश्च विविधाकाराः सुक्लृप्ताः सभ्यमण्डपाः ॥ ४४॥
एवं कृतेऽतिसम्भारे विवाहार्थं सुविस्तरे ।
सखीं शशिकला प्राह दुःखिता चारुलोचना ॥ ४५॥
इदं मे मातरं ब्रूहि त्वमेकान्ते वचो मम ।
मया वृतः पतिश्चित्ते ध्रुवसन्धिसुतः शुभः ॥ ४६॥
नान्यं वरं वरिष्यामि तमृते वै सुदर्शनम् ।
स मे भर्ता नृपसुतो भगवत्या प्रतिष्ठितः ॥ ४७॥
व्यास उवाच ।
इत्युक्ता सा सखी गत्वा मातरं प्राह सत्वरा ।
वैदर्भीं विजने वाक्यं मधुरं मञ्जुभाषिणी ॥ ४८॥
पुत्री ते दुःखिता प्राह साध्वी त्वां मन्मुखेन यत् ।
शृणु त्वं कुरु कल्याणि तद्धितं त्वरिताऽधुना ॥ ४९॥
भारद्वाजाश्रमे पुण्ये ध्रुवसन्धिसुतोऽस्ति यः ।
स मे भर्ता वृतश्चित्ते नान्यं भूपं वृणोम्यहम् ॥ ५०॥
व्यास उवाच ।
राज्ञी तद्वचनं श्रुत्वा स्वपतौ गृहमागते ।
निवेदयामास तदा पुत्रीवाक्यं यथातथम् ॥ ५१॥
तच्छ्रुत्वा वचनं राजा विस्मितः प्रहसन्मुहुः ।
भार्यामुवाच वैदर्भीं सुबाहुस्तु ऋतं वचः ॥ ५२॥
सुभ्रु जानासि बालोऽसौ राज्यान्निष्कासितो वने ।
एकाकी सह मात्रा वै वसते निर्जने वने ॥ ५३॥
तत्कृते निहतो राजा वीरसेनो युधाजिता ।
स कथं निर्धनो भर्ता योग्यः स्याच्चारुलोचने ॥ ५४॥
ब्रूहि पुत्रीं ततो वाक्यं कदाचिदपि विप्रियम् ।
आगमिष्यन्ति राजानः स्थितिमन्तः स्वयंवरे ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
शशिकलया मातरं प्रति सन्देशप्रेषणं नामाष्टादशोऽध्यायः ॥ ३.१८॥
३.१९ एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।
व्यास उवाच ।
भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वाङ्कसंस्थिताम् ।
उवाच वचनं श्लक्ष्णं समाश्वास्य शुचिस्मिताम् ॥ १॥
किं वृथा सुदति त्वं हि विप्रियं मम भाषसे ।
पिता ते दुःखमाप्नोति वाक्येनानेन सुव्रते ॥ २॥
सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः ।
बलकोशविहीनश्च परित्यक्तस्तु बान्धवैः ॥ ३॥
मात्रा सह वनं प्राप्तः फलमूलाशनः कृशः ।
न ते योग्यो वरोऽयं वै वनवासी च दुर्भगः ॥ ४॥
राजपुत्राः कृतप्रज्ञा रूपवन्तः सुसम्मताः ।
तवार्हाः पुत्रि सन्त्यन्ये राजचिह्नैरलङ्कृताः ॥ ५॥
भ्राताऽस्य वर्तते कान्तः स राज्यं कोसलेषु वै ।
करोति रूपसम्पन्नः सर्वलक्षणसंयुतः ॥ ६॥
अन्यच्च कारणं सुभ्रु शृणु यच्च यथा श्रुतम् ।
युधाजित्सततं तस्य वधकामोऽस्ति भूमिपः ॥ ७॥
दौहित्रः स्थापितस्तेन राज्ये कृत्वाऽतिसङ्गरम् ।
वीरसेनं नृपं हत्वा सम्मन्त्र्य सचिवैः सह ॥ ८॥
भारद्वाजाश्रमं प्राप्तं हन्तुकामः सुदर्शनम् ।
मुनिना वारितः पश्चाज्जगाम निजमन्दिरम् ॥ ९॥
शशिकलोवाच ।
मातर्ममेप्सितः कामं वनस्थोऽपि नृपात्मजः ।
शर्यातिवचनेनैव सुकन्या च पतिव्रता ॥ १०॥
च्यवनञ्च यथा प्राप्य पतिशुश्रूषणे रता ।
भर्तृशुश्रूषणं स्त्रीणां स्वर्गदं मोक्षदं तथा ॥ ११॥
अकैतवकृतं नूनं सुखदं भवति स्त्रियाः ।
भगवत्या समादिष्टं स्वप्ने वरमनुत्तमम् ॥ १२॥
तमृतेऽहं कथं चान्यं संश्रयामि नृपात्मजम् ।
मच्चित्तभित्तौ लिखितो भगवत्या सुदर्शनः ॥ १३॥
तं विहाय प्रियं कान्तं करिष्येऽहं न चापरम् ।
व्यास उवाच ।
प्रत्यादिष्टाऽथ वैदर्भी तया बहुनिदर्शनैः ॥ १४॥
भर्तारं सर्वमाचष्ट पुत्र्योक्तं वचनं भृशम् ।
विवाहस्य दिनादर्वागाप्तं श्रुतसमन्वितम् ॥ १५॥
द्विजं शशिकला तत्र प्रेषयामास सत्वरम् ।
यथा न वेद मे तातस्तथा गच्छ सुदर्शनम् ॥ १६॥
भारद्वाजाश्रमे ब्रूहि मद्वाक्यात्तरसा विभो ।
पित्रा मे सम्भृतः कामं मदर्थेन स्वयंवरः ॥ १७॥
आगमिष्यन्ति राजानो बलयुक्ता ह्यनेकशः ।
मया त्वं वै वृतश्चित्ते सर्वथा प्रीतिपूर्वकम् ॥ १८॥
भगवत्या समादिष्टः स्वप्ने मम सुरोपम ।
विषमद्मि हुताशे वा प्रपतामि प्रदीपिते ॥ १९॥
वरये त्वदृते नान्यं पितृभ्यां प्रेरिताऽपि वा ।
मनसा कर्मणा वाचा संवृतस्त्वं मया वरः ॥ २०॥
भगवत्याः प्रसादेन शर्मावाभ्यां भविष्यति ।
आगन्तव्यं त्वयात्रैव दैवं कृत्वा परं बलम् ॥ २१॥
यदधीनं जगत्सर्वं वर्तते सचराचरम् ।
भगवत्या यदादिष्टं न तन्मिथ्या भविष्यति ॥ २२॥
यद्वशे देवताः सर्वा वर्तन्ते शङ्करादयः ।
वक्तव्योऽसौ त्वया ब्रह्मन्नेकान्ते वै नृपात्मजः ॥ २३॥
यथा भवति मे कार्यं तत्कर्तव्यं त्वयानघ ।
इत्युक्त्वा दक्षिणां दत्त्वा मुनिर्व्यापारितस्तया ॥ २४॥
गत्वा सर्वं निवेद्याशु तत्र प्रत्यागतो द्विजः ।
सुदर्शनस्तु तज्ज्ञात्वा निश्चयं गमने तदा ॥ २५॥
चकार मुनिना तेन प्रेरितः परमादरात् ।
व्यास उवाच ।
गमनायोद्यतं पुत्रं तमुवाच मनोरमा ॥ २६॥
वेपमानाऽतिदुःखार्ता जातत्रासाऽश्रुलोचना ।
कुत्र गच्छसि पुत्राद्य समाजे भूभृतां किल ॥ २७॥
एकाकी कृतवैरश्च किं विचिन्त्य स्वयंवरे ।
युधाजिद्धन्तुकामस्त्वां समेष्यति महीपतिः ॥ २८॥
न तेऽन्योऽस्ति सहायश्च तस्मान्मा व्रज पुत्रक ।
एकपुत्रातिदीनास्मि तवाधारा निराश्रया ॥ २९॥
नार्हसि त्वं महाभाग निराशां कर्तुम्मद्य माम् ।
पिता ते निहतो येन सोऽपि तत्रागतो नृपः ॥ ३०॥
एकाकिनं गतं तत्र युधाजित्त्वां हनिष्यति ।
सुदर्शन उवाच ।
भवितव्यं भवत्येव नात्र कार्या विचारणा ॥ ३१॥
आदेशाच्च जगन्मातुर्गच्छाम्यद्य स्वयंवरे ।
मा शोकं कुरु कल्याणि क्षत्रियाऽसि वरानने ॥ ३२॥
न बिभेमि प्रसादेन भगवत्या निरन्तरम् ।
व्यास उवाच ।
इत्युक्त्वा रथमारुह्य गन्तुकामं सुदर्शनम् ॥ ३३॥
दृष्ट्वा मनोरमा पुत्रमाशीर्भिश्चान्वमोदयत् ।
अग्रतस्तेऽम्बिका पातु पार्वती पातु पृष्ठतः ॥ ३४॥
पार्वती पार्श्वयोः पातु शिवा सर्वत्र साम्प्रतम् ।
वाराही विषमे मार्गे दुर्गा दुर्गेषु कर्हिचित् ।
कालिका कलहे घोरे पातु त्वां परमेश्वरी ॥ ३५॥
मण्डपे तत्र मातङ्गी तथा सौम्या स्वयंवरे ।
भवानी भूपमध्ये तु पातु त्वां भवमोचनी ॥ ३६॥
गिरिजा गिरिदुर्गेषु चामुण्डा चत्वरेषु च ।
कामगा काननेष्वेवं रक्षतु त्वां सनातनी ॥ ३७॥
विवादे वैष्णवी शक्तिरवतात्त्वां रघूद्वह ।
भैरवी चरणे सौम्य शत्रूणां वै समागमे ॥ ३८॥
सर्वदा सर्वदेशेषु पातु त्वां भुवनेश्वरी ।
महामाया जगद्धात्री सच्चिदानन्दरूपिणी ॥ ३९॥
व्यास उवाच ।
इत्युक्त्वा तं तदा माता वेपमाना भयाकुला ।
उवाचाहं त्वया सार्धमागमिष्यामि सर्वथा ॥ ४०॥
निमिषार्धं विना त्वां वै नाहं स्थातुमिहोत्सहे ।
सहैव नय मां वत्स यत्र ते गमने मतिः ॥ ४१॥
इत्युक्त्वा निःसृता माता धात्रेयीसंयुता तदा ।
विप्रैर्दत्ताशिषः सर्वे निर्ययुर्हर्षसंयुताः ॥ ४२॥
वाराणस्यां ततः प्राप्तो रथेनैकेन राघवः ।
ज्ञातः सुबाहुना तत्र पूजितश्चार्हणादिभिः ॥ ४३॥
निवेशार्थं गृहं दत्तमन्नपानादिकं तथा ।
सेवकं समनुज्ञाप्य परिचर्यार्थमेव च ॥ ४४॥
मिलितास्त्वथ राजानो नानादेशाधिपाः किल ।
युधाजिदपि सम्प्राप्तो दौहित्रेण समन्वितः ॥ ४५॥
करूषाधिपतिश्चैव तथा मद्रेश्वरो नृपः ।
सिन्धुराजस्तथा वीरो योद्धा माहिष्मतीपतिः ॥ ४६॥
पाञ्चालः पर्वतीयश्च कामरूपोऽतिवीर्यवान् ।
कार्णाटश्चोलदेशीयो वैदर्भश्च महाबलः ॥ ४७॥
अक्षौहिणी त्रिषष्टिश्च मिलिता सङ्ख्यया तदा ।
वेष्टिता नगरी सा तु सैन्यैः सर्वत्र संस्थितैः ॥ ४८॥
एते चान्ये च बहवः स्वयंवरदिदृक्षया ।
मिलितास्तत्र राजानो वरवारणसंयुताः ॥ ४९॥
अन्योन्यं नृपपुत्रास्त इत्यूचुर्मिलितास्तदा ।
सुदर्शनो नृपसुतो ह्यागतोऽस्ति निराकुलः ॥ ५०॥
एकाकी रथमारुह्य मात्रा सह महामतिः ।
विवाहार्थमिहायातः काकुत्स्थः किं नु साम्प्रतम् ॥ ५१॥
एतान् राजसुतांस्त्यक्त्वा ससैन्यान्सायुधानथ ।
किमेनं राजपुत्री सा वरिष्यति महाभुजम् ॥ ५२॥
युधाजिदथ राजेशस्तानुवाच महीपतीन् ।
अहमेनं हनिष्यामि कन्यार्थे नात्र संशयः ॥ ५३॥
केरलाधिपतिः प्राह तं तदा नीतिसत्तमः ।
नात्र युद्धं प्रकर्तव्यं राजन्निच्छास्वयंवरे ॥ ५४॥
बलेन हरणं नास्ति नात्र शुल्कस्वयंवरः ।
कन्येच्छयाऽत्र वरणं विवादः कीदृशस्त्विह ॥ ५५॥
अन्यायेन त्वया पूर्वमसौ राज्यात्प्रवासितः ।
दौहित्रायार्पितं राज्यं बलवन्नृपसत्तम ॥ ५६॥
काकुत्स्थोऽयं महाभाग कोसलाधिपतेः सुतः ।
कथमेनं राजपुत्रं हनिष्यसि निरागसम् ॥ ५७॥
लप्स्यसे तत्फलं नूनमनयस्य नृपोत्तम ।
शास्तास्ति कश्चिदायुष्मञ्जगतोऽस्य जगत्पतिः ॥ ५८॥
धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।
मानयं कुरु राजेन्द्र त्यज पापमतिं किल ॥ ५९॥
दौहित्रस्तव सम्प्राप्तः सोऽपि रूपसमन्वितः ।
राज्ययुक्तस्तथा श्रीमान्कथं तं न वरिष्यति ॥ ६०॥
अन्ये राजसुताः कामं वर्तन्ते बलवत्तराः ।
कन्यास्वयंवरे कन्या स्वीकरिष्यति साम्प्रतम् ॥ ६१॥
वृते तथा विवादः कः प्रवदन्तु महीभुजः ।
परस्परं विरोधोऽत्र न कर्तव्यो विजानता ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे राजसंवादवर्णनं नामैकोनविंशोऽध्यायः ॥ ३.१९॥
३.२० विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।
व्यास उवाच ।
इतिवादिनि भूपाले केरलाधिपतौ तदा ।
प्रत्युवाच महाभाग युधाजिदपि पार्थिवः ॥ १॥
नीतिरेषा महीपाल यद्ब्रवीति भवानिह ।
समाजे पार्थिवानां वै सत्यवाग्विजितेन्द्रियः ॥ २॥
योग्येषु वर्तमानेषु कन्यारत्नं कुलोद्वह ।
अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते ॥ ३॥
भागं सिंहस्य गोमायुर्भोक्तुमर्हति वा कथम् ।
तथा सुदर्शनोऽयं वै कन्यारत्नं किमर्हति ॥ ४॥
बलं वेदो हि विप्राणां भूभुजां चापजं बलम् ।
किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना ॥ ५॥
बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् ।
बलवानेव गृह्णातु नाबलस्तु कदाचन ॥ ६॥
तस्मात्कन्यापणं कृत्वा नीतिरत्र विधीयताम् ।
अन्यथा कलहः कामं भविष्यति महीभुजाम् ॥ ७॥
एवं विवादे संवृत्ते राज्ञां तत्र परस्परम् ।
आहूतस्तु सभामध्ये सुबाहुर्नृपसत्तमः ॥ ८॥
समाहूय नृपाः सर्वे तमूचुस्तत्त्वदर्शिनः ।
राजन्नीतिस्त्वया कार्या विवाहेऽत्र समाहिता ॥ ९॥
किं ते चिकीर्षितं राजंस्तद्वदस्व समाहितः ।
पुत्र्याः प्रदानं कस्मै ते रोचते नृप चेतसि ॥ १०॥
सुबाहुरुवाच ।
पुत्र्या मे मनसा कामं वृतः किल सुदर्शनः ।
मया निवारितोऽत्यर्थं न सा प्रत्येति मे वचः ॥ ११॥
किं करोमि सुताया मे न वशे वर्तते मनः ।
सुदर्शनस्तथैकाकी सम्प्राप्तोऽस्ति निराकुलः ॥ १२॥
व्यास उवाच ।
सम्पन्ना भूभुजः सर्वे समाहूय सुदर्शनम् ।
ऊचुः समागतं शान्तमेकाकिनमतन्द्रिताः ॥ १३॥
राजपुत्र महाभाग केनाहूतोऽसि सुव्रत ।
एकाकी यः समायातः समाजे भूभृतामिह ॥ १४॥
न वै सैन्यं न सचिवा न कोशो न बृहद्बलम् ।
किमर्थञ्च समायातस्तत्त्वं ब्रूहि महामते ॥ १५॥
युद्धकामा नृपतयो वर्तन्तेऽत्र समागमे ।
कन्यार्थं सैन्यसम्पन्नाः किं त्वं कर्तुमिहेच्छसि ॥ १६॥
भ्राता ते सुबलः शूरः सम्प्राप्तोऽस्ति जिघृक्षया ।
युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः ॥ १७॥
गच्छ वा तिष्ठ राजेन्द्र याथातथ्यमुदाहृतम् ।
त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत ॥ १८॥
सुदर्शन उवाच ।
न बलं न सहायो मे न कोशो दुर्गसंश्रयः ।
न मित्राणि न सौहार्दी न नृपा रक्षका मम ॥ १९॥
अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः ।
स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः ॥ २०॥
नान्यच्चिकीर्षितं मेऽद्य मामाह जगदीश्वरी ।
तया यद्विहितं तच्च भविताऽद्य न संशयः ॥ २१॥
न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्वराः ।
सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम् ॥ २२॥
यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः ।
शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम् ॥ २३॥
यद्भावि तद्वै भविता नान्यथा नृपसत्तमाः ।
का चिन्ता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा ॥ २४॥
देवभूतमनुष्येषु सर्वभूतेषु सर्वदा ।
सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः ॥ २५॥
सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः ।
निर्धनं वा नरं कामं का चिन्ता वै तदा मम ॥ २६॥
तामृते परमां शक्तिं ब्रह्मविष्णुहरादयः ।
न शक्ताः स्पन्दितुं देवाः का चिन्ता मे तदा नृपाः ॥ २७॥
अशक्तो वा सशक्तो वा यादृशस्तादृशस्त्वहम् ।
तदाज्ञया नृपाद्यैव सम्प्राप्तोऽस्मि स्वयंवरे ॥ २८॥
सा यदिच्छति तत्कुर्यान्मम किं चिन्तनेन वै ।
नात्र शङ्का प्रकर्तव्या सत्यमेतद्ब्रवीम्यहम् ॥ २९॥
जये पराजये लज्जा न मेऽत्राण्वपि पार्थिवाः ।
भगवत्यास्तु लज्जास्ति तदधीनोऽस्मि सर्वथा ॥ ३०॥
व्यास उवाच ।
इति तस्य तदाकर्ण्य वचनं राजसत्तमाः ।
ऊचुः परस्परं प्रेक्ष्य निश्चयज्ञा नराधिपाः ॥ ३१॥
सत्यमुक्तं त्वया साधो न मिथ्या कर्हिचिद्भवेत् ।
तथाप्युज्जयनीनाथस्त्वां हन्तुं परिकाङ्क्षति ॥ ३२॥
त्वत्कृते न दयादिष्टा त्वां ब्रवीमो महामते ।
यद्युक्तं तत्त्वया कार्यं विचार्य मनसाऽनघ ॥ ३३॥
सुदर्शन उवाच ।
सत्यमुक्तं भवद्भिश्च कृपावद्भिः सुहृज्जनैः ।
किं ब्रवीमि पुनर्वाक्यमुक्त्वा नृपतिसत्तमाः ॥ ३४॥
न मृत्युः केनचिद्भाव्यः कस्यचिद्वा कदाचन ।
दैवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ ३५॥
स्ववशोऽयं न जीवोऽस्ति स्वकर्मवशगः सदा ।
तत्कर्म त्रिविधं प्रोक्तं विद्वद्भिस्तत्त्वदर्शिभिः ॥ ३६॥
सञ्चितं वर्तमानञ्च प्रारब्धञ्च तृतीयकम् ।
कालकर्मस्वभावैश्च ततं सर्वमिदं जगत् ॥ ३७॥
न देवो मानुषं हन्तुं शक्तः कालागमं विना ।
हतं निमित्तमात्रेण हन्ति कालः सनातनः ॥ ३८॥
यथा पिता मे निहतः सिंहेनामित्रकर्षणः ।
तथा मातामहोऽप्येवं युद्धे युधाजिता हतः ॥ ३९॥
यत्नकोटिं प्रकुर्वाणो हन्यते दैवयोगतः ।
जीवेद्वर्षसहस्राणि रक्षणेन विना नरः ॥ ४०॥
नाहं बिभेमि धर्मिष्ठाः कदाचिच्च युधाजितः ।
दैवमेव परं मत्वा सुस्थितोऽस्मि सदा नृपाः ॥ ४१॥
स्मरणं सततं नित्यं भगवत्याः करोम्यहम् ।
विश्वस्य जननी देवी कल्याणं सा करिष्यति ॥ ४२॥
पूर्वार्जितं हि भोक्तव्यं शुभं वाप्यशुभं तथा ।
स्वकृतस्य च भोगेन कीदृक्शोको विजानताम् ॥ ४३॥
स्वकर्मफलयोगेन प्राप्य दुःखमचेतनः ।
निमित्तकारणे वैरं करोत्यल्पमतिः किल ॥ ४४॥
न तथाऽहं विजानामि वैरं शोकं भयं तथा ।
निःशङ्कमिह सम्प्राप्तः समाजे भूभृतामिह ॥ ४५॥
एकाकी द्रष्टुकामोऽहं स्वयंवरमनुत्तमम् ।
भविष्यति च यद्भाव्यं प्राप्तोऽस्मि चण्डिकाज्ञया ॥ ४६॥
भगवत्याः प्रमाणं मे नान्यं जानामि संयतः ।
तत्कृतञ्च सुखं दुःखं भविष्यति च नान्यथा ॥ ४७॥
युधाजित्सुखमाप्नोतु न मे वैरं नृपोत्तमाः ।
यः करिष्यति मे वैरं स प्राप्स्यति फलं तथा ॥ ४८॥
व्यास उवाच ।
इत्युक्तास्ते तथा तेन सन्तुष्टा भूभुजः स्थिताः ।
सोऽपि स्वमाश्रमं प्राप्य सुस्थितः सम्बभूव ह ॥ ४९॥
अपरेऽह्नि शुभे काले नृपाः सम्मन्त्रिताः किल ।
सुबाहुना नृपेणाथ रुचिरे वै स्वमण्डपे ॥ ५०॥
दिव्यास्तरणयुक्तेषु मञ्चेषु रचितेषु च ।
उपविष्टाश्च राजानः शुभालङ्करणैर्युताः ॥ ५१॥
दिव्यवेषधराः कामं विमानेष्वमरा इव ।
दीप्यमानाः स्थितास्तत्र स्वयंवरदिदृक्षया ॥ ५२॥
इति चिन्तापराः सर्वे कदा साप्यागमिष्यति ।
भाग्यवन्तं नृपश्रेष्ठं श्रुतपुण्यं वरिष्यति ॥ ५३॥
यदा सुदर्शनं दैवात्स्रजा सम्भूषयेदिह ।
विवादो वै नृपाणां च भविता नात्र संशयः ॥ ५४॥
इत्येवं चिन्त्यमानास्ते भूपा मञ्चेषु संस्थिताः ।
वादित्रघोषः सुमहानुत्थितो नृपमण्डपे ॥ ५५॥
अथ काशीपतिः प्राह सुतां स्नातां स्वलङ्कृताम् ।
मधूकमालासंयुक्तां क्षौमवासोविभूषिताम् ॥ ५६॥
विवाहोपस्करैर्युक्तां दिव्यां सिन्धुसुतोपमाम् ।
चिन्तापरां सुवसनां स्मितपूर्वमिदं वचः ॥ ५७॥
उत्तिष्ठ पुत्रि सुनसे करे धृत्वा शुभां स्रजम् ।
व्रज मण्डपमध्येऽद्य समाजं पश्य भूभुजाम् ॥ ५८॥
गुणवान् रूपसम्पन्नः कुलीनश्च नृपोत्तमः ।
तव चित्ते वसेद्यस्तु तं वृणुष्व सुमध्यमे ॥ ५९॥
देशदेशाधिपाः सर्वे मञ्चेषु रचितेषु च ।
संविष्टाः पश्य तन्वङ्गि वरयस्व यथारुचि ॥ ६०॥
व्यास उवाच ।
तं तथा भाषमाणं वै पितरं मितभाषिणी ।
उवाच वचनं बाला ललितं धर्मसंयुतम् ॥ ६१॥
शशिकलोवाच ।
नाहं दृष्टिपथे राज्ञां गमिष्यामि पितः किल ।
कामुकानां नरेशानां गच्छन्त्यन्याश्च योषितः ॥ ६२॥
धर्मशास्त्रे श्रुतं तात मयेदं वचनं किल ।
एक एव वरो नार्या निरीक्ष्यः स्यान्न चापरः ॥ ६३॥
सतीत्वं निर्गतं तस्या या प्रयाति बहूनथ ।
सङ्कल्पयन्ति ते सर्वे दृष्ट्वा मे भवतात्त्विति ॥ ६४॥
स्वयंवरे स्रजं धृत्वा यदागच्छति मण्डपे ।
सामान्या सा तदा जाता कुलटेवापरा वधूः ॥ ६५॥
वारस्त्री विपणे गत्वा यथा वीक्ष्य नरांस्थितान् ।
गुणागुणपरिज्ञानं करोति निजमानसे ॥ ६६॥
नैकभावा यथा वेश्या वृथा पश्यति कामुकम् ।
तथाऽहं मण्डपे गत्वा कुर्वे वारस्त्रिया कृतम् ॥ ६७॥
वृद्धैरेतैः कृतं धर्मं न करिष्यामि साम्प्रतम् ।
पत्नीव्रतं तथा कामं चरिष्येऽहं धृतव्रता ॥ ६८॥
सामान्या प्रथमं गत्वा कृत्वा सङ्कल्पितं बहु ।
वृणोति चैकं तद्वद्वै वृणोमि कथमद्य वै ॥ ६९॥
सुदर्शनो मया पूर्वं वृतः सर्वात्मना पितः ।
तमृते नान्यथा कर्तुमिच्छामि नृपसत्तम ॥ ७०॥
विवाहविधिना देहि कन्यादानं शुभे दिने ।
सुदर्शनाय नृपते यदीच्छसि शुभं मम ॥ ७१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
स्वपितरं प्रति शशिकलावाक्यं नामविंशोऽध्यायः ॥ ३.२०॥
३.२१ एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।
व्यास उवाच ।
सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा ।
चिन्ताविष्टो बभूवाशु किं कर्तव्यमतः परम् ॥ १॥
सङ्गताः पृथिवीपालाः ससैन्याः सपरिग्रहाः ।
उपविष्टाश्च मञ्चेषु योद्धुकामा महाबलाः ॥ २॥
यदि ब्रवीमि तान्सर्वान्सुता नायाति साम्प्रतम् ।
तथापि कोपसंयुक्ता हन्युर्मा दुष्टबुद्धयः ॥ ३॥
न मे सैन्यबलं तादृङ्न दुर्गबलमद्भुतम् ।
येनाहं नृपतीन्सर्वान् प्रत्यादेष्टुमिहोत्सहे ॥ ४॥
सुदर्शनस्तथैकाकी ह्यसहायोऽधनः शिशुः ।
किं कर्तव्यं निमग्नोऽहं सर्वथा दुःखसागरे ॥ ५॥
इति चिन्तापरो राजा जगाम नृपसन्निधौ ।
प्रणम्य तानुवाचाथ प्रश्रयावनतो नृपः ॥ ६॥
किं कर्तव्यं नृपाः कामं नैति मे मण्डपे सुता ।
बहुशः प्रेर्यमाणाऽपि सा मात्राऽपि मयाऽपि च ॥ ७॥
मूर्घ्ना पतामि पादेषु राज्ञां दासोऽस्मि साम्प्रतम् ।
पूजादिकं गृहीत्वाऽद्य व्रजन्तु सदनानि वः ॥ ८॥
ददामि बहुरत्नानि वस्त्राणि च गजान् रथान् ।
गृहीत्वाऽद्य कृपां कृत्वा व्रजन्तु भवनान्युत ॥ ९॥
न वशे मे सुता बाला म्रियते यदि खेदिता ।
तदा मे स्यान्महद्दुःखं तेन चिन्तातुरोऽस्म्यहम् ॥ १०॥
भवन्तः करुणावन्तो महाभाग्या महौजसः ।
किं मे तया दुहित्रा तु मन्दया दुर्विनीतया ॥ ११॥
अनुग्राह्योऽस्मि वः कामं दासोऽहमिति सर्वथा ।
सुता सुतेव मन्तव्या भवद्भिः सर्वथा मम ॥ १२॥
व्यास उवाच ।
श्रुत्वा सुबाहुवचनं नोचुः केचन भूमिपाः ।
युधाजित्क्रोधताम्राक्षस्तमुवाच रुषान्वितः ॥ १३॥
राजन्मूर्खोऽसि किं ब्रूषे कृत्वा कार्य सुनिन्दितम् ।
स्वयंवरः कथं मोहाद्रचितः संशये सति ॥ १४॥
मिलिता भूभुजः सर्वे त्वयाहूताः स्वयंवरे ।
कथमद्य नृपा गन्तुं योग्यास्ते स्वगृहान्प्रति ॥ १५॥
अवमान्य नृपान्सर्वांस्त्वं किं सुदर्शनाय वै ।
दातुमिच्छसि पुत्रीञ्च किमनार्यमतः परम् ॥ १६॥
विचार्य पुरुषेणादौ कार्यं वै शुभमिच्छता ।
आरब्धव्यं त्वया तत्तु कृतं राजन्नजानता ॥ १७॥
एतान्विहाय नृपतीन्बलवाहनसंयुतान् ।
वरं सुदर्शनं कर्तुं कथमिच्छसि साम्प्रतम् ॥ १८॥
अहं त्वां हन्मि पापिष्ठं तथा पश्चात्सुदर्शनम् ।
दौहित्रायाद्य ते कन्यां दास्यामीति विनिश्चयः ॥ १९॥
मयि तिष्ठति कोऽन्योस्ति यः कन्यां हर्तुमिच्छति ।
सुदर्शनः कियानद्य निर्धनो निर्बलः शिशुः ॥ २०॥
भारद्वाजाश्रमे पूर्वं मुक्तो मुनिकृते मया ।
नाद्याहं मोचयिष्यामि सर्वथा जीवितं शिशोः ॥ २१॥
तस्माद्विचार्य सम्यक्त्वं पुत्र्या च भार्यया सह ।
दौहित्राय प्रियां कन्यां देहि मे सुभ्रुवं किल ॥ २२॥
सम्बन्धी भव दत्त्वा त्वं पुत्रीमेतां मनोरमाम् ।
उच्चाश्रयः प्रकर्तव्यः सर्वदा शुभमिच्छता ॥ २३॥
सुदर्शनाय दत्त्वा त्वं पुत्रीं प्राणप्रियां शुभाम् ।
एकाकिनेऽप्यराज्याय किं सुखं प्राप्तुमिच्छसि ॥ २४॥
(कुलं वित्तं बलं रूपं राज्यं दुर्गं सुहृज्जनम् ।
दृष्ट्वा कन्या प्रदातव्या नान्यथा सुखमृच्छति)॥
परिचिन्तय धर्मं त्वं राजनीतिञ्च शाश्वतीम् ।
कुरु कार्यं यथायोग्यं मा कृथा मतिमन्यथा ॥ २५॥
सुहृदसि ममात्यर्थं हितं ते प्रब्रवीम्यहम् ।
समानय सुतां राजन् मण्डपे तां सखीवृताम् ॥ २६॥
सुदर्शनमृते चेयं वरिष्यति यदाऽप्यसौ ।
विग्रहो मे तदा न स्याद्विवाहोऽस्तु तवेप्सितः ॥ २७॥
अन्ये नृपतयः सर्वे कुलीनाः सबलाः समाः ।
विरोधः कीदृशस्त्वेनं वृणोद्यदि नृपोत्तम ॥ २८॥
अन्यथाऽहं हरिष्येऽद्य बलात्कन्यामिमां शुभाम् ।
मा विरोधं सुदुःसाध्यं गच्छ पार्थिवसत्तम ॥ २९॥
व्यास उवाच ।
युधाजिता समादिष्टः सुबाहुः शोकसंयुतः ।
निःश्वसन्भवनं गत्वा भार्यां प्राह शुचावृतः ॥ ३०॥
पुत्रीं ब्रूहि सुधर्मज्ञे कलहे समुपस्थिते ।
किं कर्त्तव्यं मया शक्यं त्वद्वशोऽस्मि सुलोचने ॥ ३१॥
व्यास उवाच ।
सा श्रुत्वा पतिवाक्यं तु गत्वा प्राह सुतान्तिकम् ।
वत्से राजातिदुःखार्तः पिता तेऽद्यापि वर्तते ॥ ३२॥
त्वदर्थे विग्रहः कामं समुत्पन्नोऽद्य भूभृताम् ।
अन्यं वरय सुश्रोणि सुदर्शनमृते नृपम् ॥ ३३॥
यदि सुदर्शनं वत्से हठात्त्वं वै वरिष्यसि ।
युधाजित्त्वां च मां चैव हनिष्यति बलान्वितः ॥ ३४॥
सुदर्शनं च राजाऽसौ बलमत्तः प्रतापवान् ।
द्वितीयस्ते पतिः पश्चाद्भविता कलहे सति ॥ ३५॥
तस्मात्सुदर्शनं त्यक्त्वा वरयान्यं नृपोत्तमम् ।
सुखमिच्छसि चेन्मह्यं तुभ्यं वा मृगलोचने ।
इति मात्रा बोधितां तां पश्चाद्राजाप्यबोधयत् ॥ ३६॥
उभयोर्वचनं श्रुत्वा निर्भयोवाच कन्यका
कन्योवाच ।
सत्यमुक्तं नृपश्रेष्ठ जानासि च व्रतं मम ॥ ३७॥
नान्यं वृणोमि भूपाल सुदर्शनमृते क्वचित् ।
बिभेषि यदि राजेन्द्र नृपेभ्यः किल कातरः ॥ ३८॥
सुदर्शनाय दत्त्वा मां विसर्जय पुराद्बहिः ।
स मां रथे सामारोप्य निर्गमिष्यति ते पुरात् ॥ ३९॥
भवितव्यं तु पश्चाद्वै भविष्यति न चान्यथा ।
नात्र चिन्ता त्वया कार्या भवितव्ये नृपोत्तम ॥ ४०॥
यद्भावि तद्भवत्येव सर्वथात्र न संशयः ।
राजोवाच ।
न पुत्रि साहसं कार्यं मतिमद्भिः कदाचन ॥ ४१॥
बहुभिर्न विरोद्धव्यमिति वेदविदो विदुः ।
विस्रक्ष्यामि कथं कन्यां दत्त्वा राजसुताय च ॥ ४२॥
राजानो वरसंयुक्ताः किं न कुर्युरसाम्प्रतम् ।
यदि ते रोचते वत्से पणं संविदधाम्यहम् ॥ ४३॥
जनकेन यथा पूर्वं कृतः सीतास्वयंवरे ।
शैवं धनुर्यथा तेन धृतं कृत्वा पणं तथा ॥ ४४॥
तथाहमपि तन्वङ्गि करोम्यद्य दुरासदम् ।
विवादो येन राज्ञां वै कृते सति शमं व्रजेत् ॥ ४५॥
पालयिष्यति यः कामं स ते भर्ता भविष्यति ।
सुदर्शनस्तथाऽन्यो वा यः कश्चिद्बलवत्तरः ॥ ४६॥
पालयित्वा पणं त्वां वै वरयिष्यति सर्वथा ।
एवं कृते नृपाणां तु विवादः शमितो भवेत् ॥ ४७॥
सुखेनाहं विवाहं ते करिष्यामि ततः परम् ।
कन्योवाच ।
सन्देहे नैव मज्जामि मूर्खकृत्यमिदं यतः ॥ ४८॥
मया सुदर्शनः पूर्वं धृतश्चेतसि नान्यथा ।
कारणं पुण्यपापानां मन एव महीपते ॥ ४९॥
मनसा विधृतं त्यक्त्वा कथमन्यं वृणे पितः ।
कृते पणे महाराज सर्वेषां वशगा ह्यहम् ॥ ५०॥
एकः पालयिता द्वौ वा बहवो वा भवन्ति चेत् ।
किं कर्तव्यं तदा तात विवादे समुपस्थिते ॥ ५१॥
संशयाधिष्ठिते कार्ये मतिं नाहं करोम्यतः ।
मा चिन्तां कुरु राजेन्द्र देहि सुदर्शनाय माम् ॥ ५२॥
विवाहं विधिना कृत्वा शं विधास्यति चण्डिका ।
यन्नामकीर्तनादेव दुःखौघो विलयं व्रजेत् ॥ ५३॥
तां स्मृत्वा परमां शक्तिं कुरु कार्यमतन्द्रितः ।
गत्वा वद नृपेभ्यस्त्वं कृताञ्जलिपुटोऽद्य वै ॥ ५४॥
आगन्तव्यञ्च श्वः सर्वैरिह भूपैः स्वयंवरे ।
इत्युक्त्वा त्वं विसृज्याशु सर्वं नृपतिमण्डलम् ॥ ५५॥
विवाहं कुरु रात्रौ मे वेदोक्तविधिना नृप ।
पारिबर्हं यथायोग्यं दत्त्वा तस्मै विसर्जय ॥ ५६॥
गमिष्यति गृहीत्वा मां ध्रुवसन्धिसुतः किल ।
कदाचित्ते नृपाः क्रुद्धाः सङ्ग्रामं कर्त्तुमुद्यताः ॥ ५७॥
भविष्यति तदा देवी साहाय्यं नः करिष्यति ।
सोऽपि राजसुतस्तैस्तु सङ्ग्रामं संविधास्यति ॥ ५८॥
दैवान्मृधे मृते तस्मिन्मरिष्याम्यहमप्युत ।
स्वस्ति तेस्तु गृहे तिष्ठ दत्त्वा मां सहसैन्यकः ॥ ५९॥
एकैवाहं गमिष्यामि तेन सार्धं रिरंसया ।
व्यास उवाच ।
इति तस्या वचः श्रुत्वा राजाऽसौ कृतनिश्चयः ।
मतिं चक्रे तथा कर्तुं विश्वासं प्रतिपद्य च ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनं नामैकविंशोऽध्यायः ॥ ३.२१॥
३.२२ द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।
व्यास उवाच ।
श्रुत्वा सुतावाक्यमनिन्दितात्मा
नृपांश्च गत्वा नृपतिर्जगाद ।
व्रजन्तु कामं शिविराणि भूपाः
श्वो वा विवाहं किल संविधास्ये ॥ १॥
भक्ष्याणि पेयानि मयाऽर्पितानि
गृह्णन्तु सर्वे मयि सुप्रसन्नाः ।
श्वो भावि कार्यं किल मण्डपेऽत्र
समेत्य सर्वैरिह संविधेयम् ॥ २॥
नायाति पुत्री किल मण्डपेऽद्य
करोमि किं भूपतयोऽत्र कामम् ।
प्रातः समाश्वास्य सुतां नयिष्ये
गच्छन्तु तस्माच्छिविराणि भूपाः ॥ ३॥
न विग्रहो बुद्धिमतां निजाश्रिते
कृपा विधेया सततं ह्यपत्ये ।
विधाय तां प्रातारिहानयिष्ये
सुतां तु गच्छन्तु नृपा यथेष्टम् ॥ ४॥
इच्छापणं वा परिचिन्त्य चित्ते
प्रातः करिष्याम्यथ संविवाहम् ।
सर्वैः समेत्यात्र नृपैः समेतैः
स्वयंवरः सर्वमतेन कार्यः ॥ ५॥
श्रुत्वा नृपास्तेऽवितथं विदित्वा
वचो ययुः स्वानि निकेतनानि ।
विधाय पार्श्वे नगरस्य रक्षां
चक्रुः क्रिया मध्यदिनोदिताश्च ॥ ६॥
सुबाहुरप्यार्यजनैः समेत-
श्चकार कार्याणि विवाहकाले ।
पुत्रीं समाहूय गृहे सुगुप्ते
पुरोहितैर्वेदविदां वरिष्ठैः ॥ ७॥
स्नानादिकं कर्म वरस्य कृत्वा
विवाहभूषाकरणं तथैव ।
आनाय्य वेदीरचिते गृहे वै
तस्यार्हणां भूमिपतिश्चकार ॥ ८॥
सविष्टरं चाचमनीयमर्घ्यं
वस्त्रद्वयं गामथ कुण्डले द्वे ।
समर्प्य तस्मै विधिवन्नरेन्द्र
ऐच्छत्सुतादानमहीनसत्त्वः ॥ ९॥
सोऽप्यग्रहीत्सर्वमदीनचेताः
शशाम चिन्ताऽथ मनोरमायाः ।
कन्यां सुकेशीं निधिकन्यकासमां
मेने तदाऽऽत्मानमनुत्तमञ्च ॥ १०॥
सुपूजितं भूषणवस्त्रदानै-
र्वरोत्तमं तं सचिवास्तदानीम् ।
निन्युश्च ते कौतुकमण्डपान्त-
र्मुदान्विता वीतभयाश्च सर्वे ॥ ११॥
समाप्तभूषां विधिवद्विधिज्ञाः
स्त्रियश्च तां राजसुतां सुयाने ।
आरोप्य निन्युर्वरसन्निधानण्
चतुष्कयुक्ते किल मण्डपे वै ॥ १२॥
अग्निं समाधाय पुरोहितः स
हुत्वा यथावच्च तदन्तराले ।
आह्वाययत्तौ कृतकौतुकौ तु
वधूवरौ प्रेमयुतौ निकामम् ॥ १३॥
लाजाविसर्गं विधिवद्विधाय
कृत्वा हुताशस्य प्रदक्षिणाञ्च ।
तौ चक्रतुस्तत्र यथोचित्तं तत्
सर्वं विधानं कुलगोत्रजातम् ॥ १४॥
शतद्वयं चाश्चयुजां रथानां
सुभूषितं चापि शरौघसंयुतम् ।
ददौ नृपेन्द्रस्तु सुदर्शनाय
सुपूजितं पारिबर्हं विवाहे ॥ १५॥
मदोत्कटान्हेमविभूषितांश्च
गजान्गिरेः शृङ्गसमानदेहान् ।
शतं सपादं नृपसूनवेऽसौ
ददावथ प्रेमयुतो नृपेन्द्रः ॥ १६॥
दासीशतं काञ्चनभूषितं च
करेणुकानां च शतं सुचारु ।
समर्पयामास वराय राजा
विवाहकाले मुदितोऽनुवेलम् ॥ १७॥
अदात्पुनर्दाससहस्रमेकं
सर्वायुधैः सम्भृतभूषितञ्च ।
रत्नानि वासांसि यथोचितानि
दिव्यानि चित्राणि तथाविकानि ॥ १८॥
ददौ पुनर्वासगृहाणि तस्मै
रम्याणि दीर्घाणि विचित्रितानि ।
सिन्धूद्भवानां तुरगोत्तमाना-
मदात्सहस्रद्वितयं सुरम्यम् ॥ १९॥
क्रमेलकानाञ्च शतत्रयं वै
प्रत्यादिशद्भारभृतां सुचारु ।
शतद्वयं वै शकटोत्तमानां
तस्मै ददौ धान्यरसैः प्रपूरितम् ॥ २०॥
मनोरमां राजसुतां प्रणम्य
जगाद वाक्यं विहिताञ्जलिः पुरः ।
दासोऽस्मि ते राजसुते वरिष्ठे
तद्ब्रूहि यत्स्यात्तु मनोगतं ते ॥ २१॥
तं चारुवाक्यं निजगाद सापि
स्वस्त्यस्तु ते भूप कुलस्य वृद्धिः ।
सम्मानिताऽहं मम सूनवे त्वया
दत्ता यतो रत्नवरा स्वकन्या ॥ २२॥
न बन्दिपुत्री नृप मागधी वा
स्तौमीह किं त्वां स्वजनं महत्तरम् ।
सुमेरुतुल्यस्तु कृतः सुतोऽद्य मे
सम्बन्धिना भूपतिनोत्तमेन ॥ २३॥
अहोऽतिचित्रं नृपतेश्चरित्रं
परं पवित्रं तव किं वदामि ।
यद्भ्रष्टराज्याय सुताय मेऽद्य
दत्ता त्वया पूज्यसुता वरिष्ठा ॥ २४॥
वनाधिवासाय किलाधनाय
पित्रा विहीनाय विसैन्यकाय ।
सर्वानिमान्भूमिपतीन्विहाय
फलाशनायार्थविवर्जिताय ॥ २५॥
समानवित्तेऽथ कुले बले च
ददाति पुत्रीं नृपतिश्च भूयः ।
न कोऽपि मे भूपसुतेऽर्थहीने
गुणान्वितां रूपवतीञ्च दद्यात् ॥ २६॥
वैरं तु सर्वैः सह संविधाय
नृपैर्वरिष्ठैर्बलसंयुतैश्च ।
सुदर्शनायाथ सुताऽर्पिता मे
किं वर्णये धैर्यमिदं त्वदीयम् ॥ २७॥
निशम्य वाक्यानि नृपः प्रहृष्टः
कृताञ्जलिर्वाक्यमुवाच भूयः ।
गृहाण राज्यं मम सुप्रसिद्धं
भवामि सेनापतिरद्य चाहम् ॥ २८॥
नोचेत्तदर्धं प्रतिगृह्य चात्र
सुतान्वितो राज्यफलानि भुङ्क्ष्व ।
विहाय वाराणसिकानिवासं
वने पुरे वासमतो न मेऽस्ति ॥ २९॥
नृपास्तु सन्त्येव रुषान्विता वै
गत्वा करिष्ये प्रथमं तु सान्त्वनम् ।
ततः परं द्वावपरावुपायौ
नोचेत्ततो युद्धमहं करिष्ये ॥ ३०॥
जयाजयो दैववशो तथापि
धर्मे जयो नैव कृतेऽप्यधर्मे ।
तेषां किलाधर्मवतां नृपाणां
कथं भविष्यत्यनुचिन्तितं वै ॥ ३१॥
आकर्ण्य तद्भाषितमर्थवच्च
जगाद वाक्यं हितकारकं तम् ।
मनोरमा मानमवाप्य तस्मात्
सर्वात्मना मोदयुता प्रसन्ना ॥ ३२॥
राजञ्छिवं तेऽस्तु कुरुष्व राज्यं
त्यक्त्वा भयं त्वं स्वसुतैः समेतः ।
सुतोऽपि मे नूनमवाप्य राज्यं
साकेतपुर्यां प्रचरिष्यतीह ॥ ३३॥
विसर्जयास्मान्निजसद्म गन्तुं
शिवं भवानी तव संविधास्यति ।
न काऽपि चिन्ता मम भूप वर्तते
सञ्चिन्तयन्त्या परमाम्बिकां वै ॥ ३४॥
दोषा गता विविधवाक्यपदै रसालै-
रन्योन्यभाषणपदैरमृतोपमैश्च ।
प्रातर्नृपाः समधिगम्य कृतं विवाहं
रोषान्विता नगरबाह्यगतास्तथोचुः ॥ ३५॥
अद्यैव तं नृपकलङ्कधरञ्च हत्वा
बालं तथैव किल तं न विवाहयोग्यम् ।
गृह्णीम तां शशिकलां नृपतेश्च लक्ष्मीं
लज्जामवाप्य निजसद्म कथं व्रजेम ॥ ३६॥
शृण्वन्तु तूर्यनिनदान्किल वाद्यमाना-
ञ्छङ्खस्वनानभिभवन्ति मृदङ्गशब्दाः ।
गीतध्वनिं च विविधं निगमस्वनञ्च
मन्यामहे नृपतिनाऽत्र कृतो विवाहः ॥ ३७॥
अस्मान्प्रतार्य वचनैर्विधिवच्चकार
वैवाहिकेन विधिना करपीडनं वै ।
कर्तव्यमद्य किमहो प्रविचिन्तयन्तु
भूपाः परस्परमतिं च समर्थयन्तु ॥ ३८॥
एवं वदत्सु नृपतिष्वथ कन्याकायाः
कृत्वा विवाहविधिमप्रतिमप्रभावः ।
भूपान्निमन्त्रयितुमाशु जगाम राजा
काशीपतिः स्वसुहृदैः प्रथितप्रभावैः ॥ ३९॥
आगच्छन्तं च तं दृष्ट्वा नृपाः काशीपतिं तदा ।
नोचुः किञ्चिदपि क्रोधान्मौनमाधाय संस्थिताः ॥ ४०॥
स गत्वा प्रणिपत्याह कृताञ्जलिरभाषत ।
आगन्तव्यं नृपैः सर्वैर्भोजनार्थं गृहे मम ॥ ४१॥
कन्ययाऽसौ वृतो भूपः किं करोमि हिताहितम् ।
भवद्भिस्तु शुभः कार्यो महान्तो हि दयालवः ॥ ४२॥
तन्निशम्य वचस्तस्य नृपाः क्रोधपरिप्लुताः ।
प्रत्यूचुर्भुक्तमस्माभिः स्वगृहं नृपते व्रज ॥ ४३॥
कुरु कार्याण्यशेषाणि यथेष्टं सुकृतं कृतम् ।
नृपाः सर्वे प्रयान्त्वद्य स्वानि स्वानि गृहाणि वै ॥ ४४॥
सुबाहुरपि तच्छ्रुत्वा जगाम शङ्कितो गृहम् ।
किं करिष्यन्ति संविग्नाः क्रोधयुक्ता नृपोत्तमाः ॥ ४५॥
गते तस्मिन्महीपालाश्चक्रुश्च समयं पुनः ।
रुद्ध्वा मार्गं ग्रहीष्यामः कन्यां हत्वा सुदर्शनम् ॥ ४६॥
केचनोचुः किमस्माकं हन्त तेन नृपेण वै ।
दृष्ट्वा तु कौतुकं सर्वं गमिष्यामो यथागतम् ॥ ४७॥
इत्युक्त्वा ते नृपाः सर्वे मार्गमाक्रम्य संस्थिताः ।
चकारोत्तरकार्याणि सुबाहुः स्वगृहं गतः ॥ ४८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
सुदर्शनशशिकलयोर्विवाहवर्णनं नाम द्वाविंशोऽध्यायः ॥ ३.२२॥
३.२३ त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।
व्यास उवाच ।
तस्मै गौरवभोज्यानि विधाय विधिवत्तदा ।
वासराणि च षड्राजा भोजयामास भक्तितः ॥ १॥
एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवः ।
पारिबर्हं प्रदत्वाऽथ मन्त्रयन्सचिवैः सह ॥ २॥
दूतैस्तु कथितं श्रुत्वा मार्गसंरोधनं कृतम् ।
बभूव विमना राजा सुबाहुरमितद्युतिः ॥ ३॥
सुदर्शनस्तदोवाच श्वशुरं संशितव्रतः ।
अस्मान्विसर्जयाशु त्वं गमिष्यामो ह्यशङ्किताः ॥ ४॥
भारद्वाजाश्रमं पुण्यं गत्वा तत्र समाहिताः ।
निवासाय विचारो वै कर्तव्यः सर्वथा नृप ॥ ५॥
नृपेभ्यश्च न कर्तव्यं भयं किञ्चित्त्वयाऽनघ ।
जगन्माता भवानी मे साहाय्यं वै करिष्यति ॥ ६॥
व्यास उवाच ।
तस्येति मतमाज्ञाय जामातुर्नुपसत्तमः ।
विससर्ज धनं दत्वा प्रतस्थे सोऽपि सत्वरः ॥ ७॥
बलेन महताऽऽविष्टो ययावनु नृपोत्तमः ।
सुदर्शनो वृतस्तत्र चचाल पथि निर्भयः ॥ ८॥
रथैः परिवृतः शूरः सदारो रथसंस्थितः ।
गच्छन्ददर्श सैन्यानि नृपाणां रघुनन्दनः ॥ ९॥
सुबाहुरपि तान्वीक्ष्य चिन्ताविष्टो बभूव ह ।
विधिवत्स शिवां चित्ते जगाम शरणं मुदा ॥ १०॥
जजापैकाक्षरं मन्त्रं कामराजमनुत्तमम् ।
निर्भयो वीतशोकश्च पत्न्या सह नवोढया ॥ ११॥
ततः सर्वे महीपालाः कृत्वा कोलाहलं तदा ।
उत्थिताः सैन्यसंयुक्ता हन्तुकामास्तु कन्यकाम् ॥ १२॥
काशिराजस्तु तान्दृष्ट्वा हन्तुकामो बभूव ह ।
निवारितस्तदाऽत्यर्थं राघवेण जिगीषता ॥ १३॥
तत्रापि नेदुः शङ्खाश्च भेर्यश्चानकदुन्दुभिः ।
सुबाहोश्च नृपाणाञ्च परस्परजिघांसताम् ॥ १४॥
शत्रुजित्तु सुसंवृत्तः स्थितस्तत्र जिघांसया ।
युधाजित्तत्सहायार्थं सन्नद्धः प्रबभूव ह ॥ १५॥
केचिच्च प्रेक्षकास्तस्य सहानीकैः स्थितास्तदा ।
युधाजिदग्रतो गत्वा सुदर्शनमुपस्थितः ॥ १६॥
शत्रुजित्तेन सहितो हन्तुं भ्रातरमानुजः ।
परस्परं ते बाणौघैस्ततक्षुः क्रोधमूर्छिताः ॥ १७॥
सम्मर्दः सुमहांस्तत्र सम्प्रवृत्तः सुमार्गणैः ।
काशीपतिस्तदा तूर्णं सैन्येन बहुना वृतः ॥ १८॥
साहाय्यार्थं जगामाशु जामातरमनिन्दितम् ।
एवं प्रवृत्ते सङ्ग्रामे दारुणे लोमहर्षणे ॥ १९॥
प्रादुर्बभूव सहसा देवी सिंहोपरि स्थिता ।
नानायुधधरा रम्या वराभूषणभूषिता ॥ २०॥
दिव्याम्बरपरीधाना मन्दारस्रक्सुसंयुता ।
तां दृष्ट्वा तेऽथ भूपाला विस्मयं परमं गताः ॥ २१॥
केयं सिंहसमारूढा कुतो वेति समुत्थिता ।
सुदर्शनस्तु तां वीक्ष्य सुबाहुमिति चाब्रवीत् ॥ २२॥
पश्य राजन्महादेवीमागतां दिव्यदर्शनाम् ।
अनुग्रहाय मे नूनं प्रादुर्भूता दयान्विता ॥ २३॥
निर्भयोऽहं महाराज जातोऽस्मि निर्भयादपि ।
सुदर्शनः सुबाहुश्च तामालोक्य वराननाम् ॥ २४॥
प्रणामं चक्रतुस्तस्या मुदितौ दर्शनेन च ।
ननाद च तदा सिंहो गजास्त्रस्ताश्चकम्पिरे ॥ २५॥
ववुर्वाता महाघोरा दिशश्चासन्सुदारुणाः ।
सुदर्शनस्तदा प्राह निजं सेनापतिं प्रति ॥ २६॥
मार्गे व्रज त्वं तरसा भूपाला यत्र संस्थिताः ।
किं करिष्यन्ति राजानः कुपिता दुष्टचेतसः ॥ २७॥
शरणार्थञ्च सम्प्राप्ता देवी भगवती हि नः ।
निरातङ्कैश्च गन्तव्यं मार्गेऽस्मिन्भूपसङ्कुले ॥ २८॥
स्मृता मया महादेवी रक्षणार्थमुपागता ।
तच्छ्रुत्वा वचनं सेनापतिस्तेन पथाऽव्रजत् ॥ २९॥
युधाजित्तु सुसङ्क्रुद्धस्तानुवाच महीपतीन् ।
किं स्थिता भयसन्त्रस्ता निघ्नन्तु कन्यकान्वितम् ॥ ३०॥
अवमन्य च नः सर्वान्बलहीनो बलाधिकान् ।
कन्यां गृहीत्वा संयाति निर्भयस्तरसा शिशुः ॥ ३१॥
किं भीताः कामिनीं वीक्ष्य सिंहोपरि सुसंस्थिताम् ।
नोपेक्ष्यो हि महाभागा हन्तव्योऽत्र समाहितैः ॥ ३२॥
हत्वैनं सङ्ग्रहीष्यामः कन्यां चारुविभूषणाम् ।
नायं केसरिणादत्तां छेत्तुमर्हति जम्बुकः ॥ ३३॥
इत्युक्त्वा सैन्यसंयुक्तः शत्रुजित्सहितस्तदा ।
योद्धुकामः सुसम्प्राप्तो युधाजित्क्रोधसंवृतः ॥ ३४॥
मुमोच विशिखांस्तूर्णं समपुङ्खाञ्छिलाशितान् ।
धनुराकृष्य कर्णान्तं कर्मारपरिमार्जितान् ॥ ३५॥
हन्तुकामः सुदुर्मेधाः सुदर्शनमथोपरि ।
सुदर्शनस्तु तान्बाणैश्चिच्छेदापततः क्षणात् ॥ ३६॥
एवं युद्धे प्रवृत्तेऽथ चुकोप चण्डिका भृशम् ।
दुर्गादेवी मुमोचाथ बाणान् युधाजितं प्रति ॥ ३७॥
नानारूपा तदा जाता नानाशस्रधरा शिवा ।
सम्प्राप्ता तुमुलं तत्र चकार जगदम्बिका ॥ ३८॥
शत्रुजिन्निहतस्तत्र युधाजिदपि पार्थिवः ।
पतितौ तौ रथाभ्यां तु जयशब्दस्तदाऽभवत् ॥ ३९॥
विस्मयं परमं प्राप्ता भूपाः सर्वे विलोक्य ताम् ।
निधनं मातुलस्यापि भागिनेयस्य संयुगे ॥ ४०॥
सुबाहुरपि तद्दृष्ट्वा निधनं संयुगे तयोः ।
तुष्टाव परमप्रीतो दुर्गां दुर्गार्तिनाशिनीम् ॥ ४१॥
सुबाहुरुवाच ।
नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः ।
दुर्गायै भगवत्यै ते कामदायै नमो नमः ॥ ४२॥
नमः शिवायै शान्त्यै ते विद्यायै मोक्षदे नमः ।
विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे ॥ ४३॥
नाहं गतिं तव धिया परिचिन्तयन् वै
जानामि देवि सगुणः किल निर्गुणायाः ।
किं स्तौमि विश्वजननीं प्रकटप्रभावां
भक्तार्तिनाशनपरां परमाञ्च शक्तिम् ॥ ४४॥
वाग्देवता त्वमसि सर्वगतैव बुद्धि-
र्विद्या मतिश्च गतिरप्यसि सर्वजन्तोः ।
त्वां स्तौमि किं त्वमसि सर्वमनोनियन्त्री
किं स्तूयते हि सततं खलु चात्मरूपम् ॥ ४५॥
ब्रह्मा हरश्च हरिरप्यनिशं स्तुवन्तो
नान्तं गताः सुरवराः किल ते गुणानाम् ।
क्वाहं विभेदमतिरम्ब गुणैर्वृतो वै
वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः ॥ ४६॥
सत्सङ्गतिः कथमहो न करोति कामं
प्रासङ्गिकापि विहिता खलु चित्तशुद्धिः ।
जामातुरस्य विहितेन समागमेन
प्राप्तं मयाऽद्भुतमिदं तव दर्शनं वै ॥ ४७॥
ब्रह्माऽपि वाञ्छति सदैव हरो हरिश्च
सेन्द्राः सुराश्च मुनयो विदितार्थतत्त्वाः ।
यद्दर्शनं जननि तेऽद्य मया दुरापं
प्राप्तं विना दमशमादिसमाधिभिश्च ॥ ४८॥
क्वाहं सुमन्दमतिराशु तवावलोकं
क्वेदं भवानि भवभेषजमद्वितीयम् ।
ज्ञाताऽसि देवि सततं किल भावयुक्ता
भक्तानुकम्पनपरामरवर्गपूज्या ॥ ४९॥
किं वर्णयामि तव देवि चरित्रमेतद्
यद्रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम् ।
शत्रू हतौ सुबलिनौ तरसा त्वयाद्य
भक्तानुकम्पि चरितं परमं पवित्रम् ॥ ५०॥
नाश्चर्यमेतदिति देवि विचारितेऽर्थे
त्वं पासि सर्वमखिलं स्थिरजङ्गमं वै ।
त्रातस्त्वया च विनिहत्य रिपुर्दयातः
संरक्षितोऽयमधुना ध्रुवसन्धिसूनुः ॥ ५१॥
भक्तस्य सेवनपरस्य स्वयशोऽतिदीप्तं
कर्तुं भवानि रचितं चरितं त्वयैतत् ।
नोचेत्कथं सुपरिगृह्य सुतां मदीयां
युद्धे भवेत्कुशलवाननवद्यशीलः ॥ ५२॥
शक्ताऽसि जन्ममरणादिभयान्विहन्तुं
किं चित्रमत्र किल भक्तजनस्य कामम् ।
त्वं गीयसे जननि भक्तजनैरपारा
त्वं पापपुण्यरहिता सगुणाऽगुणा च ॥ ५३॥
त्वद्दर्शनादहमहो सुकृती कृतार्थो
जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा ।
बीजं न ते न भजनं किल वेद्मि मात-
र्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः ॥ ५४॥
व्यास उवाच ।
एवं स्तुता तदा देवी प्रसन्नवदना शिवा ।
उवाच च नृपं देवी वरं वरय सुव्रत ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
सुबाहुकृतदेवीस्तुतिवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ३.२३॥
३.२४ चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।
व्यास उवाच ।
तस्यास्तद्वचनं श्रुत्वा भवान्याः स नृपोत्तमः ।
प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः ॥ १॥
सुबाहुरुवाच ।
एकतो देवलोकस्य राज्यं भूमण्डलस्य च ।
एकतो दर्शनं ते वै न च तुल्यं कदाचन ॥ २॥
दर्शनात्सदृशं किञ्चित्त्रिषु लोकेषु नास्ति मे ।
कं वरं देवि याचेऽहं कृतार्थोऽस्मि धरातले ॥ ३॥
एतदिच्छाम्यहं मातर्याचितुं वाञ्छितं वरम् ।
तव भक्तिः सदा मेऽस्तु निश्चला ह्यनपायिनी ॥ ४॥
नगरेऽत्र त्वया मातः स्थातव्यं मम सर्वदा ।
दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिता ॥ ५॥
रक्षा त्वया च कर्तव्या सर्वदा नगरस्य ह ।
यथा सुदर्शनस्त्रातो रिपुसङ्घादनामयः ॥ ६॥
तथाऽत्र रक्षा कर्तव्या वाराणस्यास्त्वयाम्बिके ।
यावत्पुरी भवेद्भूमौ सुप्रतिष्ठा सुसंस्थिता ॥ ७॥
तावत्त्वयाऽत्र स्थातव्यं दुर्गे देवि कृपानिधे ।
वरोऽयं मम ते देयः किमन्यत्प्रार्थयाम्यहम् ॥ ८॥
विविधान्सकलान्कामान्देहि मे विद्विषो जहि ।
अभद्राणां विनाशञ्च कुरु लोकस्य सर्वदा ॥ ९॥
व्यास उवाच ।
इति सम्प्रार्थिता देवी दुर्गा दुर्गार्तिनाशिनी ।
तमुवाच नृपं तत्र स्तुत्वा वै संस्थितं पुरः ॥ १०॥
दुर्गोवाच ।
राजन्सदा निवासो मे मुक्तिपुर्यां भविष्यति ।
रक्षार्थं सर्वलोकानां यावत्तिष्ठति मेदिनी ॥ ११॥
अथो सुदर्शनस्तत्र समागत्य मुदान्वितः ।
प्रणम्य परया भक्त्या तुष्टाव जगदम्बिकाम् ॥ १२॥
अहो कृपा ये कथयाम्यहं किं
त्रातस्त्वया यत्किल भक्तिहीनः ।
भक्तानुकम्पी सकलो जनोऽस्ति
विमुक्तभक्तेरवनं व्रतं ते ॥ १३॥
त्वं देवि सर्वं सृजसि प्रपञ्चं
श्रुतं मया पालयसि स्वसृष्टम् ।
त्वमत्सि संहारपरे च काले
न तेऽत्र चित्रं मम रक्षणं वै ॥ १४॥
करोमि किं ते वद देवि कार्यं
क्व वा व्रजामीत्यनुमोदयाशु ।
कार्ये विमूढोऽस्मि तवाज्ञयाऽहं
गच्छामि तिष्ठे विहरामि मातः ॥ १५॥
व्यास उवाच ।
तं तथा भाषमाणं तु देवी प्राह दयान्विता ।
गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम् ॥ १६॥
स्मरणीया सदाऽहं ते पूजनीया प्रयत्नतः ।
शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम ॥ १७॥
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः ।
मम पूजा प्रकर्तव्या बलिदानविधानतः ॥ १८॥
अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ ।
पूजनीया प्रयत्नेन त्रिकालं भक्तिपूर्वकम् ॥ १९॥
शरत्काले महापूजा कर्तव्या मम सर्वदा ।
नवरात्रविधानेन भक्तिभावयुतेन च ॥ २०॥
चैत्रेऽश्विने तथाऽऽषाढे माघे कार्यो महोत्सवः ।
नवरात्रे महाराज पूजा कार्या विशेषतः ॥ २१॥
कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः ।
कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुधैः ॥ २२॥
व्यास उवाच ।
इत्युक्त्वान्तर्हिता देवी दुर्गा दुर्गार्तिनाशिनी ।
नता सुदर्शनेनाथ स्तुता च बहुविस्तरम् ॥ २३॥
अन्तर्हितां तु तां दृष्ट्वा राजानः सर्व एव ते ।
प्रणेमुस्तं समागम्य यथा शक्रं सुरास्तथा ॥ २४॥
सुबाहुरपि तं नत्वा स्थितश्चाग्रे मुदान्वितः ।
ऊचुः सर्वे महीपाला अयोध्याधिपतिं तदा ॥ २५॥
त्वमस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा ।
कुरु राज्यमयोध्यायां पालयास्मान्नृपोत्तम ॥ २६॥
त्वत्प्रसादान्महाराज दृष्टा विश्वेश्वरी शिवा ।
आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा ॥ २७॥
धन्यस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले ।
यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी ॥ २८॥
न जानीमो वयं सर्वे प्रभावं नृपसत्तम ।
चण्डिकायास्तमोयुक्ता मायया मोहिताः सदा ॥ २९॥
धनदारसुतानां च चिन्तनेऽभिरताः सदा ।
मग्ना महार्वणे घोरे कामक्रोधझषाकुले ॥ ३०॥
पृच्छामस्त्वां महाभाग सर्वज्ञोऽसि महामते ।
केयं शक्तिः कुतो जाता किं प्रभावा वदस्व तत् ॥ ३१॥
भव त्वं नौश्च संसारे साधवोऽति दयापराः ।
तस्मान्नो वद काकुत्स्थ देवीमाहात्म्यमुत्तमम् ॥ ३२॥
यत्प्रभावा च सा देवी यत्स्वरुपा यदुद्भवा ।
सत्सर्वं श्रोतुमिच्छामस्त्वं ब्रूहि नृवरोत्तम ॥ ३३॥
व्यास उवाच ।
इति पृष्टस्तदा तैस्तु ध्रुवसन्धिसुतो नृपः ।
विचिन्त्य मनसा देवीं तानुवाच मुदान्वितः ॥ ३४॥
सुदर्शन उवाच ।
किं ब्रवीमि महीपालास्तस्याश्चरितमुत्तमम् ।
ब्रह्मादयो न जानन्ति सेशाः सुरगणास्तथा ॥ ३५॥
सर्वस्याद्या महालक्ष्मीर्वरेण्या शक्तिरुत्तमा ।
सात्त्विकीयं महीपाला जगत्पालनतत्परा ॥ ३६॥
सृजते या रजोरूपा सत्त्वरूपा च पालने ।
संहारे च तमोरूपा त्रिगुणा सा सदा मता ॥ ३७॥
निर्गुणा परमा शक्तिः सर्वकामफलप्रदा ।
सर्वेषां कारणं सा हि ब्रह्मादीनां नृपोत्तमाः ॥ ३८॥
निर्गुणा सर्वथा ज्ञातुमशक्या योगिभिर्नृपाः ।
सगुणा सुखसेव्या सा चिन्तनीया सदा बुधैः ॥ ३९॥
राजान ऊचुः ।
बाल एव वनं प्राप्तस्त्वं तु नूनं भयातुरः ।
कथं ज्ञाता त्वया देवी परमा शक्तिरुत्तमा ॥ ४०॥
उपासिता कथं चैव पूजिता च कथं नृप ।
या प्रसन्ना तु साहाय्यं चकार त्वरयान्विता ॥ ४१॥
सुदर्शन उवाच ।
बालभावान्मया प्राप्तं बीजं तस्याः सुसम्मतम् ।
स्मरामि प्रजपन्नित्यं कामबीजाभिधं नृपाः ॥ ४२॥
ऋषिभिः कथ्यमाना सा मया ज्ञाताम्बिका शिवा ।
स्मरामि तां दिवारात्रं भक्त्या परमया पराम् ॥ ४३॥
व्यास उवाच ।
तन्निशम्य वचस्तस्य राजानो भक्तितत्पराः ।
तां मत्वा परमां शक्तिं निर्ययुः स्वगृहान्प्रति ॥ ४४॥
सुबाहुरगमत्काश्यां तमापृच्छ्य सुदर्शनम् ।
सुदर्शनोऽपि धर्मात्मा निर्ज्जगाम सुकोसलान् ॥ ४५॥
मन्त्रिणस्तु नृपं श्रुत्वा हतं शत्रुजितं मृधे ।
जितं सुदर्शनञ्चैव बभूवुः प्रेमसंयुताः ॥ ४६॥
आगच्छन्तं नृपं श्रुत्वा तं साकेतनिवासिनः ।
उपायनान्युपादाय प्रययुः सम्मुखे जनाः ॥ ४७॥
तथा प्रकृतयः सर्वे नानोपायनपाणयः ।
ध्रुवसन्धिसुतं दत्त्वा मुदिताः प्रययुः प्रजाः ॥ ४८॥
स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः ।
सम्मान्य सर्वलोकांश्च ययौ राजा निवेशनम् ॥ ४९॥
वन्दिभिः स्तूयमानस्तु वन्द्यमानश्च मन्त्रिभिः ।
कन्याभिः कीर्यमाणश्च लाजैः सुमनसैस्तथा ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सुदर्शनेन
देवीमहिमवर्णनं नाम तृतीयस्कन्धे चतुर्विशोऽध्यायः ॥ ३.२४॥
३.२५ पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।
व्यास उवाच ।
गत्वाऽयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्वृतः ।
शत्रुजिन्मातरं प्राह प्रणम्य शोकसङ्कुलाम् ॥ १॥
मातर्न ते मया पुत्रः सङ्ग्रामे निहतः किल ।
न पिता ते युधाजिच्च शपे ते चरणौ तथा ॥ २॥
दुर्गया तौ हतौ सङ्ख्ये नापराधो ममात्र वै ।
अवश्यम्भाविभावेषु प्रतीकारो न विद्यते ॥ ३॥
न शोकोऽत्र त्वया कार्यो मृतपुत्रस्य मानिनि ।
स्वकर्मवशगो जीवो भुङ्क्ते भोगान्सुखासुखान् ॥ ४॥
दासोऽस्मि तव भो मातर्यथा मम मनोरमा ।
तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि ॥ ५॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
तस्मान्न शोचितव्यं ते सुखे दुःखे कदाचन ॥ ६॥
दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् ।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥ ७॥
दैवाधीनमिदं सर्वं नात्माधीनं कदाचन ।
न शोकेन तदाऽऽत्मानं शोषयेन्मतिमान्नरः ॥ ८॥
यथा दारुमयी योषा नटादीनां प्रचेष्टते ।
तथा स्वकर्मवशगो देही सर्वत्र वर्तते ॥ ९॥
अहं वनगतो मातर्नाभवं दुःखमानसः ।
चिन्तयन्स्वकृतं कर्म भोक्तव्यमिति वेद्मि च ॥ १०॥
मृतो मातामहोऽत्रैव विधुरा जननी मम ।
भयातुरा गृहीत्वा मां निर्ययौ गहनं वनम् ॥ ११॥
लुण्ठिता तस्करैर्मार्गे वस्त्रहीना तथा कृता ।
पाथेयञ्च हृतं सर्वं बालपुत्रा निराश्रया ॥ १२॥
माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति ।
विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला ॥ १३॥
मुनिभिर्मुनिपत्नीभिर्दयायुक्तैः समन्ततः ।
पोषिताः फलनीवारैर्वयं तत्र स्थितास्त्रयः ॥ १४॥
दुःखं नमे तदा ह्यासीत्सुखं नाद्य धनागमे ।
न वैरं न च मात्सर्यं मम चित्ते तु कर्हिचित् ॥ १५॥
नीवारभक्षणं श्रेष्ठं राजभोगात्परन्तपे ।
तदाशी नरकं याति न नीवाराशनः क्वचित् ॥ १६॥
धर्मस्याचरणं कार्यं पुरुषेण विजानता ।
सञ्जित्येन्द्रियवर्गं वै यथा न नरकं व्रजेत् ॥ १७॥
मानुष्यं दुर्लभं मातः खण्डेऽस्मिन्भारते शुभे ।
आहारादि सुखं नूनं भवेत्सर्वासु योनिषु ॥ १८॥
प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम् ।
स्वर्गमोक्षप्रदं नॄणां दुर्लभं चान्ययोनिषु ॥ १९॥
व्यास उवाच ।
इत्युक्ता सा तदा तेन लीलावत्यतिलज्जिता ।
पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना ॥ २०॥
सापराधाऽस्मि पुत्राहं कृता पित्रा युधाजिता ।
हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै ॥ २१॥
न तं वारयितुं शक्ता तदाऽहं न सुतं मम ।
यत्कृतं कर्म तेनैव नापराधोऽस्ति मे सुत ॥ २२॥
तौ मृतौ स्वकृतेनैव कारणं त्वं तयोर्न च ।
नाहं शोचामि तं पुत्रं सदा शोचामि तत्कृतम् ॥ २३॥
पुत्र त्वमसि कल्याण भगिनी मे मनोरमा ।
न क्रोधो न च शोको मे त्वयि पुत्र मनागपि ॥ २४॥
कुरु राज्यं महाभाग प्रजाः पालय सुव्रत ।
भगवत्याः प्रसादेन प्राप्तमेतदकण्टकम् ॥ २५॥
तदाकर्ण्य वचो मातुर्नत्वा तां नृपनन्दनः ।
जगाम भवनं रम्यं यत्र पूर्वं मनोरमा ॥ २६॥
न्यवसत्तत्र गत्वा तु सर्वानाहूय मन्त्रिणः ।
दैवज्ञानथ पप्रच्छ मुहूर्तं दिवसं शुभम् ॥ २७॥
सिंहासनं तथा हैमं कारयित्वा मनोहरम् ।
सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम् ॥ २८॥
स्थापयित्वाऽऽसने देवीं धर्मार्थकाममोक्षदाम् ।
राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम् ॥ २९॥
पूजनीया सदा देवी सर्वैर्नागरिकैर्जनैः ।
माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा ॥ ३०॥
इत्युक्ता मन्त्रिणस्ते तु चक्रुर्वै राजशासनम् ।
प्रासादं कारयामासुः शिल्पिभिः सुमनोरमम् ॥ ३१॥
प्रतिमां कारयित्वाऽथ मुहूर्तेऽथ शुभे दिने ।
द्विजानाहूय वेदज्ञान्स्थापयामास भूपतिः ॥ ३२॥
हवनं विधिवत्कृत्वा पूजयित्वाऽथ देवताम् ।
प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः ॥ ३३॥
उत्सवस्तत्र संवृत्तो वादित्राणाञ्च निःस्वनैः ।
ब्राह्मणानां वेदघोषैर्गानैस्तु विधिधैर्नृप ॥ ३४॥
व्यास उवाच ।
प्रतिष्ठाप्य शिवां देवीं विधिवद्वेदवादिभिः ।
पूजां नानाविधां राजा चकारातिविधानतः ॥ ३५॥
कृत्वा पूजाविधिं राजा राज्यं प्राप्य स्वपैतृकम् ।
विख्यातश्चाम्बिका देवी कोसलेषु बभूव ह ॥ ३६॥
राज्यं प्राप्य नृपः सर्वं सामन्तकनृपानथ ।
वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः ॥ ३७॥
यथा रामः स्वराज्येऽभूद्दिलीपस्य रघुर्यथा ।
प्रजानां वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत् ॥ ३८॥
धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा ।
नाधर्मे रमते चित्तं केषामपि महीतले ॥ ३९॥
ग्रामे ग्रामे च प्रासादांश्चक्रुः सर्वे जनाधिपाः ।
देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता ॥ ४०॥
सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम् ।
कारयित्वा च प्रासादं स्थापयामास भक्तितः ॥ ४१॥
तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः ।
पूजां चक्रुर्विधानेन यथा विश्वेश्वरस्य ह ॥ ४२॥
विख्याता सा बभूवाथ दुर्गादेवी धरातले ।
देशे देशे महाराज तस्या भक्तिर्व्यवर्धत ॥ ४३॥
सर्वत्र भारते लोके सर्ववर्णेषु सर्वथा ।
भजनीया भवानी तु सर्वेषामभवत्तदा ॥ ४४॥
शक्तिभक्तिरताः सर्वे मानिनश्चाभवन्नृप ।
आगमोक्तैरथ स्तोत्रैर्जपध्यानपरायणाः ॥ ४५॥
नवरात्रेषु सर्वेषु चक्रुः सर्वे विधानतः ।
अर्चनं हवनं यागं देव्या भक्तिपरा जनाः ॥ ४६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे देवीस्थापनवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ३.२५॥
३.२६ षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।
जनमेजय उवाच ।
नवरात्रे तु सम्प्राप्ते किं कर्तव्यं द्विजोत्तम ।
विधानं विधिवद्ब्रूहि शरत्काले विशेषतः ॥ १॥
किं फलं खलु कस्तत्र विधिः कार्यो महामते ।
एतद्विस्तरतो ब्रूहि कृपया द्विजसत्तम ॥ २॥
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि नवरात्रव्रतं शुभम् ।
शरत्काले विशेषेण कर्तव्यं विधिपूर्वकम् ॥ ३॥
वसन्ते च प्रकर्तव्यं तथैव प्रेमपूर्वकम् ।
द्वावृतू यमदंष्ट्राख्यौ नूनं सर्वजनेषु वै ॥ ४॥
शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह ।
तस्माद्यत्नादिदं कार्यं सर्वत्र शुभमिच्छता ॥ ५॥
द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् ।
वसन्तशरदावेव सर्वनाशकरावुभौ ॥ ६॥
तस्मात्तत्र प्रकर्तव्यं चण्डिकापूजनं बुधैः ।
चैत्राश्विने शुभे मासे भक्तिपूर्वं नराधिप ॥ ७॥
अमावास्यां च सम्प्राप्य सम्भारं कल्पयेच्छुभम् ।
हविष्यं चाशनं कार्यमेकभुक्तं तु तद्दिने ॥ ८॥
मण्डपस्तु प्रकर्तव्यः समे देशे शुभे स्थले ।
हस्तषोडशमानेन स्तम्भध्वजसमन्वितः ॥ ९॥
गौरमृद्गोमयाभ्यां च लेपनं कारयेत्ततः ।
तन्मध्ये वेदिका शुभ्रा कर्तव्या च समा स्थिरा ॥ १०॥
चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् ।
तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत् ॥ ११॥
रात्रौ द्विजानथामन्त्र्य देवीतत्त्वविशारदान् ।
आचारनिरतान्दान्तान्वेदवेदाङ्गपारगान् ॥ १२॥
प्रतिपद्दिवसे कार्यं प्रातःस्नानं विधानतः ।
नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथवा ॥ १३॥
प्रातर्नित्यं पुरः कृत्वा द्विजानां वरणं ततः ।
अर्घ्यपाद्यादिकं सर्वं कर्तव्यं मधुपूर्वकम् ॥ १४॥
वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः ।
वित्तशाठ्यं न कर्तव्यं विभवे सति कर्हिचित् ॥ १५॥
विप्रैः सन्तोषितैः कार्यं सम्पूर्णं सर्वथा भवेत् ।
नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः ॥ १६॥
वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा ।
स्वस्तिवाचनकं कार्यं वेदमन्त्रविधानतः ॥ १७॥
वेद्यां सिंहासनं स्थाप्य क्षौमवस्त्रसमन्वितम् ।
तत्र स्थाप्याऽम्बिका देवी चतुर्हस्तायुधान्विता ॥ १८॥
रत्नभूषणसंयुक्ता मुक्ताहारविराजिता ।
दिव्याम्बरधरा सौम्या सर्वलक्षणसंयुता ॥ १९॥
शङ्खचक्रगदापद्मधरा सिंहे स्थिता शिवा ।
अष्टादशभुजा वाऽपि प्रतिष्ठाप्या सनातनी ॥ २०॥
अर्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् ।
स्थापयेत्पीठपूजार्थं कलशं तत्र पार्श्वतः ॥ २१॥
पञ्चपल्लवसंयुक्तं वेदमन्त्रैः सुसंस्कृतम् ।
सुतीर्थजलसम्पूर्णं हेमरत्नैः समन्वितम् ॥ २२॥
पार्श्वे पूजार्थसम्भारान्परिकल्प्य समन्ततः ।
गीतवादित्रनिर्घोषान्कारयेन्मङ्गलाय वै ॥ २३॥
तिथौ हस्तान्वितायां च नन्दायां पूजनं वरम् ।
प्रथमे दिवसे राजन् विधिवत्कामदं नृणाम् ॥ २४॥
नियमं प्रथमं कृत्वा पश्चात्पूजां समाचरेत् ।
उपवासेन नक्तेन चैकभुक्तेन वा पुनः ॥ २५॥
करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम् ।
साहाय्यं कुरु मे देवि जगदम्ब ममाखिलम् ॥ २६॥
यथाशक्ति प्रकर्तव्यो नियमो व्रतहेतवे ।
पश्चात्पूजा प्रकर्तव्या विधिवन्मन्त्रपूर्वकम् ॥ २७॥
चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः ।
मन्दारकरजाशोकचम्पकैः करवीरकैः ॥ २८॥
मालतीब्रह्मकापुष्पैस्तथा बिल्वदलैः शुभैः ।
पूजयेज्जगतां धात्रीं धूपैर्दीपैर्विधानतः ॥ २९॥
फलैर्नानाविधैरर्घ्यं प्रदातव्यं च तत्र वै ।
नारिकेलैर्मातुलुङ्गैर्दाडिमीकदलीफलैः ॥ ३०॥
नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः ।
अन्नदानं प्रकर्तव्यं भक्तिपूर्वं नराधिप ॥ ३१॥
मांसाशनं ये कुर्वन्ति तैः कार्यं पशुहिंसनम् ।
महिषाजवराहाणां बलिदानं विशिष्यते ॥ ३२॥
देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् ।
न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ ॥ ३३॥
अहिंसा याज्ञिकी प्रोक्ता सर्वशास्त्रविनिर्णये ।
देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा ॥ ३४॥
होमार्थं चैव कर्तव्यं कुण्डं चैव त्रिकोणकम् ।
स्थण्डिलं वा प्रकर्तव्यं त्रिकोणं मानतः शुभम् ॥ ३५॥
त्रिकालं पूजनं नित्यं नानाद्रव्यैर्मनोहरैः ।
गीतवादित्रनृत्यैश्च कर्तव्यश्च महोत्सवः ॥ ३६॥
नित्यं भूमौ च शयनं कुमारीणां च पूजनम् ।
वस्त्रालङ्करणैर्दिव्यैर्भोजनैश्च सुधामयैः ॥ ३७॥
एकैकां पूजयेन्नित्यमेकवृद्ध्या तथा पुनः ।
द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं च वा ॥ ३८॥
विभवस्यानुसारेण कर्तव्यं पूजनं किल ।
वित्तशाठ्यं न कर्तव्यं राजञ्छक्तिमखे सदा ॥ ३९॥
एकवर्षा न कर्तव्या कन्या पूजाविधौ नृप ।
परमज्ञा तु भोगानां गन्धादीनां च बालिका ॥ ४०॥
कुमारिका तु सा प्रोक्ता द्विवर्षा या भवेदिह ।
त्रिमूर्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका ॥ ४१॥
रोहिणी पञ्चवर्षा च षड्वर्षा कालिका स्मृता ।
चण्डिका सप्तवर्षा स्यादष्टवर्षा च शाम्भवी ॥ ४२॥
नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी ।
अत ऊर्ध्वं न कर्तव्या सर्वकार्यविगर्हिता ॥ ४३॥
एभिश्च नामभिः पूजा कर्तव्या विधिसंयुता ।
तासां फलानि वक्ष्यामि नवानां पूजने सदा ॥ ४४॥
कुमारी पूजिता कुर्याद्दुःखदारिद्रयनाशनम् ।
शत्रुक्षयं धनायुष्यं बलवृद्धिं करोति वै ॥ ४५॥
त्रिमूर्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत् ।
धनधान्यागमश्चैव पुत्रपौत्रादिवृद्धयः ॥ ४६॥
विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः ।
सुखार्थी पूजयेन्नित्यं कल्याणीं सर्वकामदाम् ॥ ४७॥
कालिकां शत्रुनाशार्थं पूजयेद्भक्तिपूर्वकम् ।
ऐश्वर्यधनकामश्च चण्डिकां परिपूजयेत् ॥ ४८॥
पूजयेच्छाम्भवीं नित्यं नृपसम्मोहनाय च ।
दुःखदारिद्र्यनाशाय सङ्ग्रामे विजयाय च ॥ ४९॥
क्रूरशत्रुविनाशार्थं तथोग्रकर्मसाधने ।
दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च ॥ ५०॥
वाञ्छितार्थस्य सिद्ध्यर्थं सुभद्रां पूजयेत्सदा ।
रोहिणीं रोगनाशाय पूजयेद्विधिवन्नरः ॥ ५१॥
श्रीरस्त्विति च मन्त्रेण पूजयेद्भक्तितत्परः ।
श्रीयुक्तमन्त्रैरथवा बीजमन्त्रैरथापि वा ॥ ५२॥
कुमारस्य च तत्त्वानि या सृजत्यपि लीलया ।
कादीनपि च देवांस्तां कुमारीं पूजयाम्यहम् ॥ ५३॥
सत्त्वादिभिस्त्रिमूर्तिर्या तैर्हि नानास्वरूपिणी ।
त्रिकालव्यापिनी शक्तिस्त्रिमूर्तिं पूजयाम्यहम् ॥ ५४॥
कल्याणकारिणी नित्यं भक्तानां पूजिताऽनिशम् ।
पूजयामि च तां भक्त्या कल्याणीं सर्वकामदाम् ॥ ५५॥
रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै ।
या देवी सर्वभूतानां रोहिणीं पूजयाम्यहम् ॥ ५६॥
काली कालयते सर्वं ब्रह्माण्डं सचराचरम् ।
कल्पान्तसमये या तां कालिकां पूजयाम्यहम् ॥ ५७॥
तां चण्डपापहरणीं चण्डिकां पूजयाम्यहम् ॥ ५८॥
अकारणात्समुत्पत्तिर्यन्मयैः परिकीर्तिता ।
यस्यास्तां सुखदां देवीं शाम्भवीं पूजयाम्यहम् ॥ ५९॥
दुर्गात्त्रायति भक्तं या सदा दुर्गातिनाशिनी ।
दुर्ज्ञेया सर्वदेवानां तां दुर्गां पूजयाम्यहम् ॥ ६०॥
सुभद्राणि च भक्तानां कुरुते पूजिता सदा ।
अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम् ॥ ६१॥
एभिर्मन्त्रैः पूजनीयाः कन्यकाः सर्वदा बुधैः ।
वस्त्रालङ्करणैर्माल्यैर्गन्धैरुच्चावचैरपि ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे कुमारीपूजावर्णनं नाम षड्विंशोऽध्यायः ॥ ३.२६॥
३.२७ सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।
व्यास उवाच ।
हीनाङ्गीं वर्जयेत्कन्यां कुष्ठयुक्तां व्रणाङ्किताम् ।
गन्धस्फुरितहीनाङ्गीं विशालकुलसम्भवाम् ॥ १॥
जात्यन्धां केकरां काणां कुरूपां बहुरोमशाम् ।
सन्त्यजेद्रोगिणीं कन्यां रक्तपुष्पादिनाङ्किताम् ॥ २॥
क्षामां गर्भसमुद्भूतां गोलकां कन्यकोद्भवाम् ।
वर्जनीयाः सदा चैताः सर्वपूजादिकर्मसु ॥ ३॥
अरोगिणीं सुरूपाङ्गीं सुन्दरीं व्रणवर्जिताम् ।
एकवंशसमुद्भूतां कन्यां सम्यक्प्रपूजयेत् ॥ ४॥
ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजा ।
लाभार्थे वैश्यवंशोत्था मता वा शूद्रवंशजा ॥ ५॥
ब्राह्मणैर्ब्रह्मजाः पूज्या राजन्यैर्ब्रह्मवंशजाः ।
वैश्यैस्त्रिवर्गजाः पूज्याश्चतस्रः पादसम्भवैः ॥ ६॥
कारुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत् ।
नवरात्रविधानेन भक्तिपूर्वं सदैव हि ॥ ७॥
अशक्तो नियतं पूजां कर्तुञ्चेन्नवरात्रके ।
अष्टम्यां च विशेषेण कर्तव्यं पूजनं सदा ॥ ८॥
पुराऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।
प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह ॥ ९॥
अतोऽष्टम्यां विशेषेण कर्तव्यं पूजनं सदा ।
नानाविधोपहारैश्च गन्धमाल्यानुलेपनैः ॥ १०॥
पायसैरामिषैर्होमैर्ब्राह्मणानां च भोजनैः ।
फलपुष्पोपहारैश्च तोषयेज्जगदम्बिकाम् ॥ ११॥
उपवासे ह्यशक्तानां नवरात्रव्रते पुनः ।
उपोषणत्रयं प्रोक्तं यथोक्तफलदं नृप ॥ १२॥
सप्तम्यां च तथाऽष्टम्यां नवम्यां भक्तिभावतः ।
त्रिरात्रकरणात्सर्वं फलं भवति पूजनात् ॥ १३॥
पूजाभिश्चैव होमैश्च कुमारिपूजनैस्तथा ।
सम्पूर्णं तद्व्रतं प्रोक्तं विप्राणां चैव भोजनैः ॥ १४॥
व्रतानि यानि चान्यानि दानानि विविधानि च ।
नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले ॥ १५॥
धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् ।
आयुरारोग्यदं चैव स्वर्गदं मोक्षदं तथा ॥ १६॥
विद्यार्थी वा धनार्थी वा पुत्रार्थी वा भवेन्नरः ।
तेनेदं विधिवत्कार्यं व्रतं सौभाग्यदं शिवम् ॥ १७॥
विद्यार्थी सर्वविद्यां वै प्राप्नोति व्रतसाधनात् ।
राजभ्रष्टो नृपो राज्यं समवाप्नोति सर्वदा ॥ १८॥
पूर्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् ।
ते व्याधिनो दरिद्राश्च भवन्ति पुत्रवर्जिताः ॥ १९॥
वन्ध्या च या भवेन्नारी विधवा धनवर्जिता ।
अनुमा तत्र कर्तव्या नेयं कृतवती व्रतम् ॥ २०॥
नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले ।
स कथं विभवं प्राप्य मोदते च तथा दिवि ॥ २१॥
रक्तचन्दनसम्मिश्रैः कोमलैर्बिल्वपत्रकैः ।
भवानी पूजिता येन स भवेन्नृपतिः क्षितौ ॥ २२॥
नाराधिता येन शिवा सनातनी
दुःखार्तिहा सिद्धिकरी जगद्वरा ।
दुःखावृतः शत्रुयुतश्च भूतले
नूनं दरिद्रो भवतीह मानवः ॥ २३॥
यां विष्णुरिन्द्रो हरपद्मजौ तथा
वह्निः कुबेरो वरुणो दिवाकरः ।
ध्यायन्ति सर्वार्थसमाप्तिनन्दिता-
स्तां किं मनुष्या न भजन्ति चण्डिकाम् ॥ २४॥
स्वाहा स्वधा नाम मनुप्रभावै-
स्तृप्यन्ति देवाः पितरस्तथैव ।
यज्ञेषु सर्वेषु मुदा हरन्ति
यन्नाम युग्मश्रुतिभिर्मुनीन्द्राः ॥ २५॥
यस्येच्छया सृजति विश्वमिदं प्रजेशो
नानावतारकलनं कुरुते हरिश्च ।
नूनं करोति जगतः किल भस्म शम्भु-
स्तां शर्मदां न भजते नु कथं मनुष्यः ॥ २६॥
नैकोऽस्ति सर्वभुवनेषु तया विहीनो
देवो नरोऽथ विहगः किल पन्नगो वा ।
गन्धर्वराक्षसपिशाचनगेषु नूनं
यः स्पन्दितुं भवति शक्तियुतो यथेच्छम् ॥ २७॥
तां न सेवेत कश्चण्डीं सर्वकामार्थदां शिवाम् ।
व्रतं तस्या न कः कुर्याद्वाञ्छन्नर्थचतुष्टयम् ॥ २८॥
महापातकसंयुक्तो नवरात्रव्रतं चरेत् ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ २९॥
पुरा कश्चिद्वणिग्दीनो धनहीनः सुदुःखितः ।
कुटुम्बी चाभवत्कश्चित् कोसले नृपसत्तम ॥ ३०॥
अपत्यानि बहून्यस्याभवन्क्षुत्पीडितानि च ।
भक्ष्यं किञ्चित्तु सायाह्ने प्रापुस्तस्य च बालकाः ॥ ३१॥
भुङ्क्ते स्म कार्यकर्ताऽसौ परस्याथ बुभुक्षितः ।
कुटुम्बभरणं तत्र चकारातिनिराकुलः ॥ ३२॥
सदा धर्मरतः शान्तः सदाचारश्च सत्यवाक् ।
अक्रोधनश्च धृतिमान्निर्मदश्चानसूयकः ॥ ३३॥
सम्पूज्य देवता नित्यं पितॄनप्यतिथींस्तथा ।
भुञ्जाने पोष्यवर्गेऽथ कृतवान्भोजनं वणिक् ॥ ३४॥
एवं गच्छति काले वै सुशिलो नामतो गुणैः ।
दारिद्र्यार्तो द्विजं शान्तं पप्रच्छातिबुभुक्षितः ॥ ३५॥
सुशील उवाच ।
भो भूदेव कृपां कृत्वा वदस्वाद्य महामते ।
कथं दारिद्र्यनाशः स्यादिति मे निश्चयेन वै ॥ ३६॥
धनैषणा मे नैवास्ति धनी स्यामिति मानद ।
कुटुम्बभरणार्थं वै पृच्छामि त्वां द्विजोत्तम ॥ ३७॥
पुत्री सुतस्तु मे बालो भक्षार्थी रोदते भृशम् ।
तावन्मात्रं गृहे नान्नं मुष्टिमेकां ददाम्यहम् ॥ ३८॥
विसर्जितो यतो गेहाद्गतो बालो रुदन्मया ।
अतो मे दह्यतेऽत्यर्थं किं करोमि धनं विना ॥ ३९॥
विवाहोऽस्ति सुताया मे नास्ति वित्तं करोमि किम् ।
दशवर्षाधिकायास्तु दानकालोऽपि यात्यलम् ॥ ४०॥
तेन शोचामि विप्रेन्द्र सर्वज्ञोऽसि दयानिधे ।
तपो दानं व्रतं किञ्चिद्ब्रूहि मन्त्रजपं तथा ॥ ४१॥
येनाहं पोष्यवर्गस्य करोमि द्विज पोषणम् ।
तावन्मे स्याद्धनप्राप्तिर्नाधिकं प्रार्थये किल ॥ ४२॥
त्वत्प्रसादात्कुटुम्बं मे सुखितं प्रभवेदिह ।
तत्कुरुष्व महाभाग ज्ञानेन परिचिन्त्य च ॥ ४३॥
व्यास उवाच ।
इति पृष्टस्तथा तेन ब्राह्मणः संशितव्रतः ।
उवाच परमप्रीतस्तं वैश्यं नृपसत्तम ॥ ४४॥
वैश्यवर्य कुरुष्वाद्य नवरात्रव्रतं शुभम् ।
पूजनं भगवत्याश्च हवनं भोजनं तथा ॥ ४५॥
वेदपारायणं शक्तिजपहोमादिकं तथा ।
कुरुष्वाद्य यथाशक्ति तव कार्यं भविष्यति ॥ ४६॥
एतस्मादपरं किञ्चिद्व्रतं नास्ति धरातले ।
नवरात्राभिधं वैश्य पावनं सुखदं तथा ॥ ४७॥
ज्ञानदं मोक्षदं चैव सुखसन्तानवर्धनम् ।
शत्रुनाशकरं कामं नवरात्रव्रतं सदा ॥ ४८॥
राज्यभ्रष्टेन रामेण सीताविरहितेन च ।
किष्किन्धायां व्रतं चैतत्कृतं दुःखातुरेण वै ॥ ४९॥
प्रतप्तेनापि रामेण सीताविरहवह्निना ।
विधिवत्पूजिता देवी नवरात्रव्रतेन वै ॥ ५०॥
तेन प्राप्ताऽथ वैदेही कृत्वा सेतुं महार्णवे ।
हत्वा मन्दोदरीनाथं कुम्भकर्णं महाबलम् ॥ ५१॥
मेघनादं सुतं हत्वा कृत्वा भूपं बिभीषणम् ।
पश्चादयोध्यामागत्य प्राप्तं राज्यमकण्टकम् ॥ ५२॥
नवरात्रव्रतस्यास्य प्रभावेण विशांवर ।
सुखं भूमितले प्राप्तं रामेणामिततेजसा ॥ ५३॥
व्यास उवाच ।
इति विप्रवचः श्रुत्वा स वैश्यस्तं द्विजं गुरुम् ।
कृत्वा जग्राह सन्मन्त्रं मायाबीजाभिधं नृप ॥ ५४॥
जजाप परया भक्त्या नवरात्रमतन्द्रितः ।
नानाविधोपहारैश्च पूजयामास सादरम् ॥ ५५॥
नवसंवत्सरं चैव मायाबीजपरायणः ।
नवमे वत्सरान्ते तु महाष्टम्यां महेश्वरी ॥ ५६॥
अर्धरात्रे तु सञ्जाते प्रत्यक्षं दर्शनं ददौ ।
नानावरप्रदानैश्च कृतकृत्यञ्चकार तम् ॥ ५७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे देवीपूजामहत्त्ववर्णनं नाम सप्तविंशोऽध्यायः ॥ ३.२७॥
३.२८ अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।
जनमेजय उवाच ।
कथं रामेण तच्चीर्णं व्रतं देव्याः सुखप्रदम् ।
राज्यभ्रष्टः कथं सोऽथ कथं सीता हृता पुनः ॥ १॥
व्यास उवाच ।
राजा दशरथः श्रीमानयोध्याधिपतिः पुरा ।
सूर्यवंशधरश्चासीद्देवब्राह्मणपूजकः ॥ २॥
चत्वारो जज्ञिरे तस्य पुत्रा लोकेषु विश्रुताः ।
रामलक्ष्मणशत्रुघ्ना भरतश्चेति नामतः ॥ ३॥
राज्ञः प्रियकराः सर्वे सदृशा गुणरूपतः ।
कौसल्यायाः सुतो रामः कैकेय्या भरतः स्मृतः ॥ ४॥
सुमित्रातनयौ जातौ यमलौ द्वौ मनोहरौ ।
ते जाता वै किशोराश्च धनुर्बाणधराः किल ॥ ५॥
सूनवः कृतसंस्कारा भूपतेः सुखवर्धकाः ।
कौशिकेन तदाऽऽगत्य प्रार्थितो रघुनन्दनः ॥ ६॥
राघवं मखरक्षार्थं सूनुं षोडशवार्षिकम् ।
तस्मै सोऽयं ददौ रामं कौशिकाय सलक्ष्मणम् ॥ ७॥
तौ समेत्य मुनिं मार्गे जग्मतुश्चारुदर्शनौ ।
ताटका निहता मार्गे राक्षसी घोरदर्शना ॥ ८॥
रामेणैकेन बाणेन मुनीनां दुःखदा सदा ।
यज्ञरक्षा कृता तत्र सुबाहुर्निहतः शठः ॥ ९॥
मारीचोऽथ मृतप्रायो निक्षिप्तो बाणवेगतः ।
एवं कृत्वा महत्कर्म यज्ञस्य परिरक्षणम् ॥ १०॥
गतास्ते मिथिलां सर्वे रामलक्ष्मणकौशिकाः ।
अहल्या मोचिता शापान्निष्पापा सा कृताऽबला ॥ ११॥
विदेहनगरे तौ तु जग्मतुर्मुनिना सह ।
बभञ्ज शिवचापञ्च जनकेन पणीकृतम् ॥ १२॥
उपयेमे ततः सीतां जानकीञ्च रमांशजाम् ।
लक्ष्मणाय ददौ राजा पुत्रीमेकां तथोर्मिलाम् ॥ १३॥
कुशध्वजसुते कन्ये प्रापतुर्भ्रातरावुभौ ।
तथा भरतशत्रुघ्नौ सुशिलौ शुभलक्षणौ ॥ १४॥
एवं दारक्रियास्तेषां भ्रातॄणां चाभवन्नृप ।
चतुर्णां मिथिलायां तु यथाविधि विधानतः ॥ १५॥
राज्ययोग्यं सुतं दृष्ट्वा राजा दशरथस्तदा ।
राघवाय धुरं दातुं मनश्चक्रे निजाय वै ॥ १६॥
सम्भारं विहितं दृष्ट्वा कैकेयी पूर्वकल्पितौ ।
वरौ सम्प्रार्थयामास भर्तारं वशवर्तिनम् ॥ १७॥
राज्यं सुताय चैकेन भरताय महात्मने ।
रामाय वनवासञ्च चतुर्दशसमास्तथा ॥ १८॥
रामस्तु वचनात्तस्याः सीतालक्ष्मणसंयुतः ।
जगाम दण्डकारण्यं राक्षसैरुपसेवितम् ॥ १९॥
राजा दशरथः पुत्रविरहेण प्रपीडितः ।
जहौ प्राणानमेयात्मा पूर्वशापमनुस्मरन् ॥ २०॥
भरतः पितरं दृष्ट्वा मृतं मातृकृतेन वै ।
राज्यमृद्धं न जग्राह भ्रातुः प्रियचिकीर्षया ॥ २१॥
पञ्चवट्यां वसन् रामो रावणावरजां वने ।
शूर्पणखां विरूपां वै चकारातिस्मरातुराम् ॥ २२॥
खरादयस्तु तां दृष्ट्वा छिन्ननासां निशाचराः ।
चक्रुः सङ्ग्राममतुलं रामेणामिततेजसा ॥ २३॥
स जघान खरादींश्च दैत्यानतिबलान्वितान् ।
मुनीनां हितमन्विच्छन् रामः सत्यपराक्रमः ॥ २४॥
गत्वा शूर्पणखा लङ्कां खरदूषणघातनम् ।
दूषिता कथयामास रावणाय च राघवात् ॥ २५॥
सोऽपि श्रुत्वा विनाशं तं जातः क्रोधवशः खलः ।
जगाम रथमारुह्य मारीचस्याश्रमं तदा ॥ २६॥
कृत्वा हेममृगं नेतुं प्रेषयामास रावणः ।
सीताप्रलोभनार्थाय मायाविनमसम्भवम् ॥ २७॥
सोऽथ हेममृगो भूत्वा सीतादृष्टिपथं गतः ।
मायावी चातिचित्राङ्गश्चरन्प्रबलमन्तिके ॥ २८॥
तं दृष्ट्वा जानकी प्राह राघवं दैवनोदिता ।
चर्मानयस्व कान्तेति स्वाधीनपतिका यथा ॥ २९॥
अविचार्याथ रामोऽपि तत्र संस्थाप्य लक्ष्मणम् ।
सशरं धनुरादाय ययौ मृगपदानुगः ॥ ३०॥
सारङ्गोऽपि हरिं दृष्ट्वा मायाकोटिविशारदः ।
दृश्यादृश्यो बभूवाथ जगाम च वनान्तरम् ॥ ३१॥
मत्वा हस्तगतं रामः क्रोधाकृष्टधनुः पुनः ।
जघान चातितीक्ष्णेन शरेण कृत्रिमं मृगम् ॥ ३२॥
स हतोऽतिबलात्तेन चुक्रोश भृशदुःखितः ।
हा लक्ष्मण हतोऽस्मीति मायावी नश्वरः खलः ॥ ३३॥
स शब्दस्तुमुलस्तावज्जानक्या संश्रुतस्तदा ।
राघवस्येति सा मत्वा दीना देवरमब्रवीत् ॥ ३४॥
गच्छ लक्ष्मण तूर्णं त्वं हतोऽसौ रघुनन्दनः ।
त्वामाह्वयति सौमित्रे साहाय्यं कुरु सत्वरम् ॥ ३५॥
तत्राह लक्ष्मणः सीतामम्ब रामवधादपि ।
नाहं गच्छेऽद्य मुक्त्वा त्वामसहायामिहाश्रमे ॥ ३६॥
आज्ञा मे राघवस्यात्र तिष्ठेति जनकात्मजे ।
तदतिक्रमभीतोऽहं न त्यजामि तवान्तिकम् ॥ ३७॥
दूरं वै राघवं दृष्ट्वा वने मायाविना किल ।
त्यक्त्वा त्वां नाधिगच्छामि पदमेकं शुचिस्मिते ॥ ३८॥
कृरु धैर्यं न मन्येऽद्य रामं हन्तुं क्षमं क्षिप्तौ ।
नाहं त्यक्त्वा गमिष्यामि विलङ्घ्य रामभाषितम् ॥ ।३९॥
व्यास उवाच ।
रुदती सुदती प्राह ते तदा विधिनोदिता ।
अक्रूरा वचनं क्रूरं लक्ष्मणं शुभलक्षणम् ॥ ४०॥
अहं जानामि सौमित्रे सानुरागं च मां प्रति ।
प्रेरितं भरतेनैव मदर्थमिह सङ्गतम् ॥ ४१॥
नाहं तथाविधा नारी स्वैरिणी कुहकाधम ।
मृते रामे पतिं त्वां न कर्तुमिच्छामि कामतः ॥ ४२॥
नागमिष्यति चेद्रामो जीवितं सन्त्यजाम्यहम् ।
विना तेन न जीवामि विधुरा दुःखिता भृशम् ॥ ४३॥
गच्छ वा तिष्ठ सौमित्रे न जानेऽहं तवेप्सितम् ।
क्व गतं तेऽद्य सौहार्दं ज्येष्ठे धर्मरते किल ॥ ४४॥
तच्छ्रुत्वा वचनं तस्या लक्ष्मणो दीनमानसः ।
प्रोवाच रुद्धकण्ठस्तु तां तदा जनकात्मजाम् ॥ ४५॥
किमात्थ क्षितिजे वाक्यं मयि क्रूरतरं किल ।
किं वदस्यत्यनिष्टं ते भावि जाने धिया ह्यहम् ॥ ४६॥
इत्युक्त्वा निर्ययौ वीरस्तां त्यक्त्वा प्ररुदन्भृशम् ।
अग्रजस्य ययौ पश्यञ्छोकार्तः पृथिवीपते ॥ ४७॥
गतेऽथ लक्ष्मणे तत्र रावणः कपटाकृतिः ।
भिक्षुवेषं ततः कृत्वा प्रविवेश तदाश्रमे ॥ ४८॥
जानकी तं यतिं मत्वा दत्त्वार्घ्यं वन्यमादरात् ।
भैक्ष्यं समर्पयामास रावणाय दुरात्मने ॥ ४९॥
तां पप्रच्छ स दुष्टात्मा नम्रपूर्वं मृदुस्वरम् ।
काऽसि पद्मपलाशाक्षि वने चैकाकिनी प्रिये ॥ ५०॥
पिता कस्तेऽथ वामोरु भ्राता कः कः पतिस्तव ।
मूढेवैकाकिनी चात्र स्थिताऽसि वरवर्णिनि ॥ ५१॥
निर्जने विपिने किं त्वं सौधार्हा त्वमसि प्रिये ।
उटजे मुनिपत्नीवद्देवकन्यासमप्रभा ॥ ५२॥
व्यास उवाच ।
इति तद्वचनं श्रुत्वा प्रत्युवाच विदेहजा ।
दिव्यं दिष्ट्या यतिं ज्ञात्वा मन्दोदर्याः पतिं तदा ॥ ५३॥
राजा दशरथः श्रीमांश्चत्वारस्तस्य वै सुताः ।
तेषां ज्येष्ठः पतिर्मेऽस्ति रामनामेति विश्रुतः ॥ ५४॥
विवासितोऽथ कैकेय्या कृते भूपतिना वरे ।
चतुर्दश समा रामो वसतेऽत्र सलक्ष्मणः ॥ ५५॥
जनकस्य सुता चाहं सीतानाम्नीति विश्रुता ।
भङ्क्त्वा शैवं धनुः कामं रामेणाहं विवाहिता ॥ ५६॥
रामबाहुबलेनात्र वसामो निर्भया वने ।
काञ्चनं मृगमालोक्य हन्तुं मे निर्गतः पतिः ॥ ५७॥
लक्ष्मणोऽपि पुनः श्रुत्वा रवं भ्रातुर्गतोऽधुना ।
तयोर्बाहुबलादत्र निर्भयाऽहं वसामि वै ॥ ५८॥
मयेदं कथितं सर्वं वृत्तान्तं वनवासके ।
तेऽत्रागत्यार्हणां ते वै करिष्यन्ति यथाविधि ॥ ५९॥
यतिर्विष्णुस्वरूपोऽसि तस्मात्त्वं पूजितो मया ।
आश्रमो विपिने घोरे कृतोऽस्ति रक्षसां कुले ॥ ६०॥
तस्मात्त्वां परिपृच्छामि सत्यं ब्रूहि ममाग्रतः ।
कोऽसि त्रिदण्डिरूपेण विपिने त्वं समागतः ॥ ६१॥
रावण उवाच ।
लङ्केशोऽहं मरालाक्षि श्रीमान्मन्दोदरीपतिः ।
त्वत्कृते तु कृतं रूपं मयेत्थं शोभनाकृते ॥ ६२॥
आगतोऽहं वरारोहे भगिन्या प्रेरितोऽत्र वै ।
जनस्थाने हतौ श्रुत्वा भ्रातरौ खरदूषणौ ॥ ६३॥
अङ्गीकुरु नृपं मां त्वं त्यक्त्वा तं मानुषं पतिम् ।
हृतराज्यं गतश्रीकं निर्बलं वनवासिनम् ॥ ६४॥
पट्टराज्ञी भव त्वं मे मन्दोदर्युपरि स्फुटम् ।
दासोऽस्मि तव तन्वङ्गि स्वामिनी भव भामिनि ॥ ६५॥
जेताऽहं लोकपालानां पतामि तव पादयोः ।
करं गृहाण मेऽद्य त्वं सनाथं कुरु जानकि ॥ ६६॥
पिता ते याचितः पूर्वं मया वै त्वत्कृतेऽबले ।
जनको मामुवाचेत्थं पणबन्धो मया कृतः ॥ ६७॥
रुद्रचापभयान्नाहं सम्प्राप्तस्तु स्वयंवरे ।
मनो मे संस्थितं तावन्निमग्नं विरहातुरम् ॥ ६८॥
वनेऽत्र संस्थितां श्रुत्वा पूर्वानुरागमोहितः ।
आगतोऽस्म्यसितापाङ्गि सफलं कुरु मे श्रमम् ॥ ६९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे रामचरित्रवर्णनं नाम अष्टाविंशोऽध्यायः ॥ ३.२८॥
३.२९ एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।
व्यास उवाच ।
तदाकर्ण्य वचो दुष्टं जानकी भयविह्वला ।
वेपमाना स्थिरं कृत्वा मनो वाचमुवाच ह ॥ १॥
पौलस्त्य किमसद्वाक्यं त्वमात्थ स्मरमोहितः ।
नाहं वै स्वैरिणी किन्तु जनकस्य कुलोद्भवा ॥ २॥
गच्छ लङ्कां दशास्य त्वं राम त्वां वै हनिष्यति ।
मत्कृते मरणं तत्र भविष्यति न संशयः ॥ ३॥
इत्युक्त्वा पर्णशालायां गता सा वह्निसन्निधौ ।
गच्छ गच्छेति वदती रावणं लोकरावणम् ॥ ४॥
सोऽथ कृत्वा निजं रूपं जगामोटजमन्तिकम् ।
बलाज्जग्राह तां बालां रुदती भयविह्वलाम् ॥ ५॥
रामरामेति क्रन्दन्ती लक्ष्मणेति मुहुर्मुहुः ।
गृहीत्वा निर्गतः पापो रथमारोप्य सत्वरः ॥ ६॥
गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा ।
सङ्ग्रामोऽभून्महारौद्रस्तयोस्तत्र वनान्तरे ॥ ७॥
हत्वा तं तां गृहीत्वा च गतोऽसौ राक्षसाधिपः ।
लङ्कायां क्रन्दती तात कुररीव दुरात्मनः ॥ ८॥
अशोकवनिकायां सा स्थापिता राक्षसीयुता ।
स्ववृत्तान्नैव चलिता सामदानादिभिः किल ॥ ९॥
रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः ।
आयान्तं लक्ष्मणं वीक्ष्य किं कृतं तेऽनुजासमम् ॥ १०॥
एकाकिनीं प्रियां हित्वा किमर्थं त्वमिहागतः ।
श्रुत्वा स्वनं तु पापस्य राघवस्त्वब्रवीदिदम् ॥ ११॥
सौमित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः ।
प्रभोऽत्राहं समायातः कालयोगान्न संशयः ॥ १२॥
तदा तौ पर्णशालायां गत्वा वीक्ष्यातिदुःखितौ ।
जानक्यन्वेषणे यत्नमुभौ कर्तुं समुद्यतौ ॥ १३॥
मार्गमाणौ तु सम्प्राप्तौ यत्रासौ पतितः खगः ।
जटायुः प्राणशेषस्तु पतितः पृथिवीतले ॥ १४॥
तेनोक्तं रावणेनाद्य हृताऽसौ जनकात्मजा ।
मया निरुद्धः पापात्मा पातितोऽहं मृधे पुनः ॥ १५॥
इत्युक्त्वाऽसौ गतप्राणः संस्कृतो राघवेण वै ।
कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निर्गतौ ततः ॥ १६॥
कबन्धं घातयित्वासौ शापाच्चामोचयत्प्रभुः ।
वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः ॥ १७॥
हत्वा च वालिनं वीरं किष्किन्धाराज्यमुत्तमम् ।
सुग्रीवाय ददौ रामः कृतसख्याय कार्यतः ॥ १८॥
तत्रैव वार्षिकान्मासांस्तस्थौ लक्ष्मणसंयुतः ।
चिन्तयञ्जानकीं चित्ते दशाननहृतां प्रियाम् ॥ १९॥
लक्ष्मणं प्राह रामस्तु सीताविरहपीडितः ।
सौमित्रे कैकयसुता जाता पूर्णमनोरथा ॥ २०॥
न प्राप्ता जानकी नूनं नाहं जीवामि तां विना ।
नागमिष्याम्ययोध्यायामृते जनकनन्दिनीम् ॥ २१॥
गतं राज्यं वने वासो मृतस्तातो हृता प्रिया ।
पीडयन्मां स दुष्टात्मा दैवोऽग्रे किं करिष्यति ॥ २२॥
दुर्ज्ञेयं भवितव्यं हि प्राणिनां भरतानुज ।
आवयोः का गतिस्तात भविष्यति सुदुःखदा ॥ २३॥
प्राप्य जन्म मनोर्वंशे राजपुत्रावुभौ किल ।
वनेऽतिदुःखभोक्तारौ जातौ पूर्वकृतेन च ॥ २४॥
त्यक्त्वा त्वमपि भोगांस्तु मया सह विनिर्गतः ।
दैवयोगाच्च सौमित्रे भुङ्क्ष्व दुःखं दुरत्ययम् ॥ २५॥
न कोऽप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्नरः ।
अकिञ्चनोऽक्षमः क्लिष्टो न भूतो न भविष्यति ॥ २६॥
किं करोम्यद्य सौमित्रे मग्नोऽस्मि दुःखसागरे ।
न चास्ति तरणोपायो ह्यसहायस्य मे किल ॥ २७॥
न वित्तं न बलं वीर त्वमेकः सहचारकः ।
कोपं कस्मिन्करोम्यद्य भोगेस्मिन्स्वकृतेऽनुज ॥ २८॥
गतं हस्तगतं राज्यं क्षणादिन्द्रासनोपमम् ।
वने वासस्तु सम्प्राप्तः को वेद विधिनिर्मितम् ॥ २९॥
बालभावाच्च वैदेही चलिता चावयोः सह ।
नीता दैवेन दुष्टेन श्यामा दुःखतरां दशाम् ॥ ३०॥
लङ्केशस्य गृहे श्यामा कथं दुःखं भविष्यति ।
पतिव्रता सुशीला च मयि प्रीतियुता भृशम् ॥ ३१॥
न च लक्ष्मण वैदेही सा तस्य वशगा भवेत् ।
स्वैरिणीव वरारोहा कथं स्याज्जनकात्मजा ॥ ३२॥
त्यजेत्प्राणान्नियन्तृत्वे मैथिली भरतानुज ।
न रावणस्य वशगा भवेदिति सुनिश्चितम् ॥ ३३॥
मृता चेज्जानकी वीर प्राणांस्त्यक्ष्याम्यसंशयम् ।
मृता चेदसितापाङ्गीं किं मे देहेन लक्ष्मण ॥ ३४॥
एवं विलपमानं तं रामं कमललोचनम् ।
लक्ष्मणः प्राह धर्मात्मा सान्त्वयन्नृतया गिरा ॥ ३५॥
धैर्यं कुरु महाबाहो त्यक्त्वा कातरतामिह ।
आनयिष्यामि वैदेहीं हत्वा तं राक्षसाधमम् ॥ ३६॥
आपदि सम्पदि तुल्या धैर्याद्भवन्ति ते धीराः ।
अल्पधियस्तु निमग्नाः कष्टे भवन्ति विभवेऽपि ॥ ३७॥
संयोगो विप्रयोगश्च दैवाधीनावुभावपि ।
शोकस्तु कीदृशस्तत्र देहेनात्मनि च क्वचित् ॥ ३८॥
राज्याद्यथा वने वासो वैदेह्या हरणं यथा ।
तथा काले समीचीने संयोगोऽपि भविष्यति ॥ ३९॥
प्राप्तव्यं सुखदुःखानां भोगान्निर्वर्तनं क्वचित् ।
नान्यथा जानकीजाने तस्माच्छोकं त्यजाधुना ॥ ४०॥
वानराः सन्ति भूयांसो गमिष्यन्ति चतुर्दिशम् ।
शुद्धिं जनकनन्दिन्या आनयिष्यन्ति ते किल ॥ ४१॥
ज्ञात्वा मार्गस्थितिं तत्र गत्वा कृत्वा पराक्रमम् ।
हत्वा तं पापकर्माणमानयिष्यामि मैथिलीम् ॥ ४२॥
ससैन्यं भरतं वाऽपि समाहूय सहानुजम् ।
हनिष्यामो वयं शत्रुं किं शोचसि वृथाग्रज ॥ ४३॥
रघुणैकरथेनैव जिताः सर्वा दिशः पुरा ।
तद्वंशजः कथं शोकं कर्तुमर्हसि राघव ॥ ४४॥
एकोऽहं सकलाञ्जेतुं समर्थोऽस्मि सुरासुरान् ।
किं पुनः ससहायो वै रावणं कुलपांसनम् ॥ ४५॥
जनकं वा समानीय साहाय्ये रघुनन्दन ।
हनिष्यामि दुराचारं रावणं सुरकण्टकम् ॥ ४६॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
चक्रनेमिरिवैकं यन्न भवेद्रघुनन्दन ॥ ४७॥
मनोऽतिकातरं यस्य सुखदुःखसमुद्भवे ।
स शोकसागरे मग्नो न सुखी स्यात्कदाचन ॥ ४८॥
इन्द्रेण व्यसनं प्राप्तं पुरा वै रघुनन्दन ।
नहुषः स्थापितो देवैः सर्वैर्मघवतः पदे ॥ ४९॥
स्थितः पङ्कजमध्ये च बहुवर्षगणानपि ।
अज्ञातवासं मघवा भीतस्त्यक्त्वा निजं पदम् ॥ ५०॥
पुनः प्राप्तं निजस्थानं काले विपरिवर्तिते ।
नहुषः पतितो भूमौ शापादजगराकृतिः ॥ ५१॥
इन्द्राणीं कामयानस्तु ब्राह्मणानवमन्य च ।
अगस्तिकोपात्सञ्जातः सर्पदेहो महीपतिः ॥ ५२॥
तस्माच्छोको न कर्तव्यो व्यसने सति राघव ।
उद्यमे चित्तमास्थाय स्थातव्यं वै विपश्चिता ॥ ५३॥
सर्वज्ञोऽसि महाभाग समर्थोऽसि जगत्पते ।
किं प्राकृत इवात्यर्थं कुरुषे शोकमात्मनि ॥ ५४॥
व्यास उवाच ।
इति लक्ष्मणवाक्येन बोधितो रघुनन्दनः ।
त्यक्त्वा शोकं तथात्यर्थं बभूव विगतज्वरः ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे
लक्ष्मणकृतरामशोकसान्त्वनं नामैकोनत्रिंशोऽध्यायः ॥ ३.२९॥
३.३० त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।
व्यास उवाच ।
एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः ।
आजगाम तदाऽऽकाशान्नारदो भगवानृषिः ॥ १॥
रणयन्महतीं वीणां स्वरग्रामविभूषिताम् ।
गायन्बृहद्रथं साम तदा तमुपतस्थिवान् ॥ २॥
दृष्ट्वा तं राम उत्थाय ददावथ वृषं शुभम् ।
आसनं चार्घ्यपाद्यञ्च कृतवानमितद्युतिः ॥ ३॥
पूजां परमिकां कृत्वा कृताञ्जलिरुपस्थितः ।
उपविष्टः समीपे तु कृताज्ञो मुनिना हरिः ॥ ४॥
उपविष्टं तदा रामं सानुजं दुःखमानसम् ।
पप्रच्छ नारदः प्रीत्या कुशलं मुनिसत्तमः ॥ ५॥
कथं राघव शोकार्तो यथा वै प्राकृतो नरः ।
हृतां सीतां च जानामि रावणेन दुरात्मना ॥ ६॥
सुरसद्मगतश्चाहं श्रुतवाञ्जनकात्मजाम् ।
पौलस्त्येन हृतां मोहान्मरणं स्वमजानता ॥ ७॥
तव जन्म च काकुत्स्थ पौलस्त्यनिधनाय वै ।
मैथिलीहरणं जातमेतदर्थं नराधिप ॥ ८॥
पूर्वजन्मनि वैदेही मुनिपुत्री तपस्विनी ।
रावणेन वने दृष्टा तपस्यन्ती शुचिस्मिता ॥ ९॥
प्रार्थिता रावणेनासौ भव भार्येति राघव ।
तिरस्कृतस्तयाऽसौ वै जग्राह कबरं बलात् ॥ १०॥
शशाप तत्क्षणं राम रावणं तापसी भृशम् ।
कुपिता त्यक्तुमिच्छन्ती देहं संस्पर्शदूषितम् ॥ ११॥
दुरात्मंस्तव नाशार्थं भविष्यामि धरातले ।
अयोनिजा वरा नारी त्यक्त्वा देहं जहावपि ॥ १२॥
सेयं रमांशसम्भूता गृहीता तेन रक्षसा ।
विनाशार्थं कुलस्यैव व्याली स्रगिव सम्भ्रमात् ॥ १३॥
तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः ।
प्रार्थितस्य हरेरंशादजवंशेऽप्यजन्मनः ॥ १४॥
कुरु धैर्यं महाबाहो तत्र सा वर्ततेऽवशा ।
सती धर्मरता सीता त्वां ध्यायन्ती दिवानिशम् ॥ १५॥
कामधेनुपयः पात्रे कृत्वा मघवता स्वयम् ।
पानार्थं प्रेषितं तस्याः पीतं चैवामृतं यथा ॥ १६॥
सुरभीदुग्धपानात्सा क्षुत्तुड्दुःखविवर्जिता ।
जाता कमलपत्राक्षी वर्तते वीक्षिता मया ॥ १७॥
उपायं कथयाम्यद्य तस्य नाशाय राघव ।
व्रतं कुरुष्व श्रद्धावानाश्विने मासि साम्प्रतम् ॥ १८॥
नवरात्रोपवासञ्च भगवत्याः प्रपूजनम् ।
सर्वसिद्धिकरं राम जपहोमविधानतः ॥ १९॥
मेघ्यैश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितैः ।
दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि ॥ २०॥
विष्णुना चरितं पूर्वं महादेवेन ब्रह्मणा ।
तथा मघवता चीर्णं स्वर्गमध्यस्थितेन वै ॥ २१॥
सुखिना राम कर्तव्यं नवरात्रव्रतं शुभम् ।
विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै ॥ २२॥
विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः ।
भृगुणाऽथ वसिष्ठेन कश्यपेन तथैव च ॥ २३॥
गुरुणा हृतदारेण कृतमेतन्महाव्रतम् ।
तस्मात्त्वं कुरु राजेन्द्र रावणस्य वधाय च ॥ २४॥
इन्द्रेण वृत्रनाशाय कृतं व्रतमनुत्तमम् ।
त्रिपुरस्य विनाशाय शिवेनापि पुरा कृतम् ॥ २५॥
हरिणा मधुनाशाय कृतं मेरौ महामते ।
विधिवत्कुरु काकुत्स्थ व्रतमेतदतन्द्रितः ॥ २६॥
श्रीराम उवाच ।
का देवी किं प्रभावा सा कुतो जाता किमाह्वया ।
व्रतं किं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ २७॥
नारद उवाच ।
शृणु राम सदा नित्या शक्तिराद्या सनातनी ।
सर्वकामप्रदा देवी पूजिता दुःखनाशिनी ॥ २८॥
कारणं सर्वजन्तूनां ब्रह्मादीनां रघूद्वह ।
तस्याः शक्तिं विना कोऽपि स्पन्दितुं न क्षमो भवेत् ॥ २९॥
विष्णोः पालनशक्तिः सा कर्तृशक्तिः पितुर्मम ।
रुद्रस्य नाशशक्तिः सा त्वन्याशक्तिः परा शिवा ॥ ३०॥
यच्च किञ्चित्क्वचिद्वस्तु सदसद्भुवनत्रये ।
तस्य सर्वस्य या शक्तिस्तदुत्पत्तिः कुतो भवेत् ॥ ३१॥
न ब्रह्मा न यदा विष्णुर्न रुद्रो न दिवाकरः ।
न चेन्द्राद्याः सुराः सर्वे न धरा न धराधराः ॥ ३२॥
तदा सा प्रकृतिः पूर्णा पुरुषेण परेण वै ।
संयुता विहरत्येव युगादौ निर्गुणा शिवा ॥ ३३॥
सा भूत्वा सगुणा पश्चात्करोति भुवनत्रयम् ।
पूर्वं संसृज्य ब्रह्मादीन्दत्त्वा शक्तीश्च सर्वशः ॥ ३४॥
तां ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ।
सा विद्या परमा ज्ञेया वेदाद्या वेदकारिणी ॥ ३५॥
असङ्ख्यातानि नामानि तस्या ब्रह्मादिभिः किल ।
गुणकर्मविधानैस्तु कल्पितानि च किं ब्रुवे ॥ ३६॥
अकारादिक्षकारान्तैः स्वरैर्वर्णैस्तु योजितैः ।
असङ्ख्येयानि नामानि भवन्ति रघुनन्दन ॥ ३७॥
राम उवाच ।
विधिं मे ब्रूहि विप्रर्षे व्रतस्यास्य समासतः ।
करोम्यद्यैव श्रद्धावाञ्छ्रीदेव्याः पूजनं तथा ॥ ३८॥
नारद उवाच ।
पीठं कृत्वा समे स्थाने संस्थाप्य जगदम्बिकाम् ।
उपवासान्नवैव त्वं कुरु राम विधानतः ॥ ३९॥
आचार्योऽहं भविष्यामि कर्मण्यस्मिन्महीपते ।
देवकार्यविधानार्थमुत्साहं प्रकरोम्यहम् ॥ ४०॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं सत्यं मत्वा रामः प्रतापवान् ।
कारयित्वा शुभं पीठं स्थापयित्वाम्बिकां शिवाम् ॥ ४१॥
विधिवत्पूजनं तस्याश्चकार व्रतवान् हरिः ।
सम्प्राप्ते चाश्विने मासि तस्मिन्गिरिवरे तदा ॥ ४२॥
उपवासपरो रामः कृतवान्व्रतमुत्तमम् ।
होमञ्च विधिवत्तत्र बलिदानञ्च पूजनम् ॥ ४३॥
भ्रातरौ चक्रतुः प्रेम्णा व्रतं नारदसम्मतम् ।
अष्टम्यां मध्यरात्रे तु देवी भगवती हि सा ॥ ४४॥
सिंहारूढा ददौ तत्र दर्शनं प्रतिपूजिता ।
गिरिशृङ्गे स्थितोवाच राघवं सानुजं गिरा ॥ ४५॥
मेघगम्भीरया चेदं भक्तिभावेन तोषिता ।
देव्युवाच ।
राम राम महाबाहो तुष्टाऽस्म्यद्म व्रतेन ते ॥ ४६॥
प्रार्थयस्व वरं कामं यत्ते मनसि वर्तते ।
नारायणांशसम्भूतस्त्वं वंशे मानवेऽनघे ॥ ४७॥
रावणस्य वधायैव प्रार्थितस्त्वमरैरसि ।
पुरा मत्स्यतनुं कृत्वा हत्वा घोरञ्च राक्षसम् ॥ ४८॥
त्वया वै रक्षिता वेदाः सुराणां हितमिच्छता ।
भूत्वा कच्छपरूपस्तु धृतवान्मन्दरं गिरिम् ॥ ४९॥
अकूपारं प्रमन्थानं कृत्वा देवानपोषयः ।
कोलरूपं परं कृत्वा दशनाग्रेण मेदिनीम् ॥ ५०॥
धृतवानसि यद्राम हिरण्याक्षं जघान च ।
नारसिंहीं तनुं कृत्वा हिरण्यकशिपुं पुरा ॥ ५१॥
प्रह्लादं राम रक्षित्वा हतवानसि राघव ।
वामनं वपुरास्थाय पुरा छलितवान्बलिम् ॥ ५२॥
भूत्वेन्द्रस्यानुजः कामं देवकार्यप्रसाधकः ।
जमदग्निसुतस्त्वं मे विष्णोरंशेन सङ्गतः ॥ ५३॥
कृत्वान्तं क्षत्रियाणां तु दानं भूमेरदाद्द्विजे ।
तथेदानीं तु काकुत्स्थ जातो दशरथात्मज ॥ ५४॥
प्रार्थितस्तु सुरैः सर्वै रावणेनातिपीडितैः ।
कपयस्ते सहाया वै देवांशा बलवत्तराः ॥ ५५॥
भविष्यन्ति नरव्याघ्र मच्छक्तिसंयुता ह्यमी ।
शेषांशोऽप्यनुजस्तेऽयं रावणात्मजनाशकः ॥ ५६॥
भविष्यति न सन्देहः कर्तव्योऽत्र त्वयाऽनघ ।
वसन्ते सेवनं कार्यं त्वया तत्रातिश्रद्धया ॥ ५७॥
हत्वाऽथ रावणं पापं कुरु राज्यं यथासुखम् ।
एकादश सहस्राणि वर्षाणि पृथिवीतले ॥ ५८॥
कृत्वा राज्यं रघुश्रेष्ठ गन्ताऽसि त्रिदिवं पुनः ।
व्यास उवाच ।
इत्युक्त्वान्तर्दधे देवी रामस्तु प्रीतमानसः ॥ ५९॥
समाप्य तद्व्रतं चक्रे प्रयाणं दशमीदिने ।
विजयापूजनं कृत्वा दत्त्वा दानान्यनेकशः ॥ ६०॥
कपिपतिबलयुक्तः सानुजः श्रीपतिश्च
प्रकटपरमशक्त्या प्रेरितः पूर्णकामः ।
उदधितटगतोऽसौ सेतुबन्धं विधाया-
प्यहनदमरशत्रुं रावणं गीतकीर्तिः ॥ ६१॥
यः शृणोति नरो भक्त्या देव्याश्चरितमुत्तमम् ।
स भुक्त्वा विपुलान्भोगान्प्राप्नोति परमं पदम् ॥ ६२॥
सन्त्यन्यानि पुराणानि विस्तराणि बहूनि च ।
श्रीमद्भागवतस्यास्य न तुल्यानीति मे मतिः ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे रामाय देवीवरदानं नाम त्रिंशोऽध्यायः ॥ ३.३०॥
॥ इति श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide