६ श्रीमद्देवीभागवतमहापुराणे षष्ठः स्कन्धः
६.१ प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।
ऋषय ऊचुः ।
सूत सूत महाभाग मिष्टं ते वचनामृतम् ।
न तृप्ताः स्मो वयं पीत्वा द्वैपायनकृतं शुभम् ॥ १॥
पुनस्त्वां प्रष्टुमिच्छामः कथां पौराणिकीं शुभाम् ।
वेदेऽपि कथितां रम्यां प्रसिद्धां पापनाशिनीम् ॥ २॥
वृत्रासुर इति ख्यातो वीर्यवांस्त्वष्टुरात्मजः ।
स कथं निहतः सङ्ख्ये वासवेन महात्मना ॥ ३॥
त्वष्टा वै सुरपक्षीयस्तत्पुत्रो बलवत्तरः ।
शक्रेण घातितः कस्माद्ब्रह्मयोनिर्महाबलः ॥ ४॥
देवाः सत्त्वगुणोत्पना मानुषा राजसाः स्मृताः ।
तिर्यञ्चस्तामसाः प्रोक्ताः पुराणागमवादिभिः ॥ ५॥
विरोधोऽत्र महान् भाति नूनं शतमखेन ह ।
छलेन बलवान् वृत्रः शक्रेण विनिपातितः ॥ ६॥
विष्णुः प्रेरयिता तत्र स तु सत्त्वधरः परः ।
प्रविष्टः पविमध्ये स छद्मना भगवान् प्रभुः ॥ ७॥
सन्धिं विधाय स ह्येवं मन्त्रितोऽसौ महाबलः ।
हरिभ्यां सत्यमुत्सृज्य जलफेनेन शातितः ॥ ८॥
कृतमिन्द्रेण हरिणा किमेतत्सूत साहसम् ।
महान्तोऽपि च मोहेन वञ्चिताः पापबुद्धयः ॥ ९॥
अन्यायवर्तिनोऽत्यर्थं भवन्ति सुरसत्तमाः ।
सदाचारेण युक्तेन देवाः शिष्टत्वमागताः ॥ १०॥
एवं विशिष्टधर्मेण शिष्टत्वं कीदृशं पुनः ।
हत्वा वृत्रं तु विश्वस्तं शक्रेण छद्मना पुनः ॥ ११॥
प्राप्तं पापफलं नो वा ब्रह्महत्यासमुद्भवम् ।
किं च त्वया पुरा प्रोक्तं वृत्रासुरवधः कृतः ॥ १२॥
श्रीदेव्या इति तच्चापि चित्तं मोहयतीह नः ।
सूत उवाच ।
शृण्वन्तु मुनयो वृत्तं वृत्रासुरवधाश्रयम् ॥ १३॥
यथेन्द्रेण च सम्प्राप्तं दुःखं हत्यासमुद्भवम् ।
एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ॥ १४॥
पारीक्षितेन राज्ञापि स यदाह च तद्ब्रुवे ।
जनमेजय उवाच ।
कथं वृत्रासुरः पूर्वं हतो मघवता मुने ॥ १५॥
सहायं विष्णुमासाद्य छद्मना सात्त्विकेन ह ।
कथं च देव्या निहतो दैत्योऽसौ केन हेतुना ॥ १६॥
कथमेकवधो द्वाभ्यां कृतः स्यान्मुनिपुङ्गव ।
तदेतच्छ्रोतुमिच्छामि परं कौतूहलं हि मे ॥ १७॥
महतां चरितं शृण्वन् को विरज्येत मानवः ।
कथयाम्बावैभवं त्वं वृत्रासुरवधाश्रितम् ॥ १८॥
व्यास उवाच ।
धन्योऽसि राजंस्तव बुद्धिरीदृशी
जाता पुराणश्रवणेऽतिसादरा ।
पीत्वामृतं देववरास्तु सर्वथा
पाने वितृष्णाः प्रभवन्ति वै पुनः ॥ १९॥
दिने दिने तेऽधिकभक्तिभावः
कथासु राजन् महनीयकीर्तेः ।
श्रोता यदैकप्रवणः शृणोति
वक्ता तदा प्रीतमना ब्रवीति ॥ २०॥
युद्धं पुरा वासववृत्रयोर्यद्
वेदे प्रसिद्धं च तथा पुराणे ।
दुःखं सुरेन्द्रेण तथैव लब्धं
हत्वा रिपुं त्वाष्ट्रमपापमेव ॥ २१॥
चित्रं किमत्र नृपते हरिवज्रभृद्भ्यां
यच्छद्मना विनिहतस्त्रिशिरोऽथ वृत्रः ।
मायाबलेन मुनयोऽपि विमोहितास्ते
चक्रुश्च निन्द्यमनिशं किल पापभीताः ॥ २२॥
विष्णुः सदैव कपटेन जघान दैत्यान्
सत्त्वात्ममूर्तिरपि मोहमवाप्य कामम् ।
कोऽन्योऽस्ति तां भगवतीं मनसापि जेतुं
शक्तः समस्तजनमोहकरीं भवानीम् ॥ २३॥
मत्स्यादियोनिषु सहस्रयुगेषु सद्यः
साक्षाद्भवत्यपि यया विनियोजितोऽत्र ।
नारायणो नरसखो भगवाननन्तः
कार्यं करोति विहिताविहितं कदाचित् ॥ २४॥
देहं धनं गृहमिदं स्वजना मदीयं
पुत्राः कलत्रमिति मोहमुपेत्य सर्वः ।
पुण्यं करोत्यथ च पापचयं करोति
मायागुणैरतिबलैर्विकलीकृतो यत् ॥ २५॥
न जातु मोहं क्षपितुं नरः क्षमः
कश्चिद्भवेद्भूप परावरार्थवित् ।
विमोहितस्तैस्त्रिभिरेव मूलतो
वशीकृतात्मा जगतीतले भृशम् ॥ २६॥
अथ तौ मायया विष्णुवासवौ मोहितौ भृशम् ।
जघ्नतुश्छद्मना वृत्रं स्वार्थसाधनतत्परौ ॥ २७॥
तदहं सम्प्रवक्ष्यामि वृत्तान्तमवनीपते ।
कारणं पूर्ववैरस्य वृत्रवासवयोर्मिथः ॥ २८॥
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
देवानां कार्यकर्ता च निपुणो ब्राह्मणप्रियः ॥ २९॥
स पुत्रं वै त्रिशिरसमिन्द्रद्वेषात्किलासृजत् ।
विश्वरूपेति विख्यातं नाम्ना रूपेण मोहनम् ॥ ३०॥
त्रिभिः स वदनैः श्रेष्ठैर्व्यरोचत मनोहरैः ।
त्रिभिर्भिन्नानि कार्याणि मुखैः समकरोन्मुनिः ॥ ३१॥
वेदानेकेन सोऽधीते सुरां चैकेन सोऽपिबत् ।
तृतीयेन दिशः सर्वा युगपच्च निरीक्षते ॥ ३२॥
त्रिशिरा भोगमुत्सृज्य तपश्चक्रे सुदुष्करम् ।
तपस्वी स मृदुर्दान्तो धर्ममेव समाश्रितः ॥ ३३॥
पञ्चाग्निसाधनं काले पादपाग्रे निवेशनम् ।
जलमध्ये निवासं च हेमन्ते शिशिरे तथा ॥ ३४॥
निराहारो जितात्मासौ त्यक्तसर्वपरिग्रहः ।
तपश्चचार मेधावी दुष्करं मन्दबुद्धिभिः ॥ ३५॥
तं च दृष्ट्वा तपस्यन्तं खेदमाप शचीपतिः ।
विषादमगमत्तत्र शक्रोऽयं मास्मभूदिति ॥ ३६॥
दृष्ट्वा तस्य तपो वीर्यं सत्यं चामिततेजसः ।
चिन्तां च महतीं प्राप ह्यनिशं पाकशासनः ॥ ३७॥
विवर्धमानस्त्रिशिरा मामयं शातयिष्यति ।
नोपेक्ष्यः सर्वथा शत्रुर्वर्धमानबलो बुधैः ॥ ३८॥
तस्मादुपायः कर्तव्यस्तपोनाशाय साम्प्रतम् ।
कामस्तु तपसां शत्रुः कामान्नश्यति वै तपः ॥ ३९॥
तथैवाद्य प्रकर्तव्यं भोगासक्तो भवेद्यथा ।
इति सञ्चिन्त्य मनसा बुद्धिमान्बलमर्दनः ॥ ४०॥
आज्ञापयत्सोऽप्सरसस्त्वाष्ट्रपुत्रप्रलोभने ।
उर्वशीं मेनकां रम्भां घृताचीं च तिलोत्तमाम् ॥ ४१॥
समाहूयाब्रवीच्छक्रस्तास्तदा रूपगर्विताः ।
प्रियं कुरुध्वं मे सर्वाः कार्येऽद्य समुपस्थिते ॥ ४२॥
यत्तो मेऽद्य महाञ्छत्रुस्तपस्तपति दुर्जयः ।
कार्यं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥ ४३॥
शृङ्गारवेषैर्विविधैर्हावैर्देहसमुद्भवैः ।
प्रलोभयत भद्रं वः शमयध्वं ज्वरं मम ॥ ४४॥
अस्वस्थोऽहं महाभागास्तस्य ज्ञात्वा तपोबलम् ।
बलवानासनं मेऽद्य ग्रहीष्यत्यविलम्बितः ॥ ४५॥
भयं मे समुपायातं क्षिप्रं नाशयताबलाः ।
उपकुर्वन्तु सहिताः कार्येऽद्य समुपस्थिते ॥ ४६॥
तच्छ्रुत्वा वचनं नार्य ऊचुस्तं प्रणताः पुरः ।
मा भयं कुरु देवेश यतिष्यामः प्रलोभने ॥ ४७॥
यथा न स्याद्भयं तस्मात्तथा कार्यं महाद्युते ।
नृत्यगीतविहारैश्च मुनेस्तस्य प्रलोभने ॥ ४८॥
कटाक्षैरङ्गभेदैश्च मोहयित्वा मुनिं विभो ।
लोलुपं वशमस्माकं करिष्यामो नियन्त्रितम् ॥ ४९॥
व्यास उवाच ।
इत्याभाष्य हरिं नार्यो ययुस्त्रिशिरसोऽन्तिकम् ।
कुर्वन्त्यो विविधान्भावान्कामशास्त्रोचितानपि ॥ ५०॥
गायन्त्यस्तालभेदैस्ता नृत्यन्त्यः पुरतो मुनेः ।
तं प्रलोभयितुं चक्रुर्नानाभावान्वराङ्गनाः ॥ ५१॥
नापश्यत्स तपोराशिरङ्गनानां विडम्बनम् ।
इन्द्रियाणि वशे कृत्वा मूकान्धबधिरः स्थितः ॥ ५२॥
दिनानि कतिचित्तस्थुर्नार्यस्तस्याश्रमे वरे ।
कुर्वन्त्यो गाननृत्यादिप्रपञ्चानतिमोहदान् ॥ ५३॥
न चचाल यदा कामं ध्यानाच्च त्रिशिरा मुनिः ।
परावृत्य तदा देव्यः पुनः शक्रमुपस्थिताः ॥ ५४॥
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ।
श्रान्ता दीना भयत्रस्ता विवर्णवदना भृशम् ॥ ५५॥
देवदेव महाराज यत्नश्च परमः कृतः ।
न स शक्यो दुराधर्षो धैर्याच्चालयितुं विभो ॥ ५६॥
उपायोऽन्यः प्रकर्तव्यः सर्वथा पाकशासन ।
नास्माकं बलमेतस्मिंस्तापसे विजितेन्द्रिये ॥ ५७॥
दिष्ट्या वयं न शप्ताः स्म यदनेन महात्मना ।
मुनिना वह्नितुल्येन तपसा द्योतितेन हि ॥ ५८॥
विसृज्याप्सरसः शक्रश्चिन्तयामास मन्दधीः ।
तस्यैव च वधोपायं पापबुद्धिरसाम्प्रतम् ॥ ५९॥
विसृज्य लोकलज्जां स तथा पापभयं भृशम् ।
चकार पापबुद्धिं तु तद्वधाय महीपते ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां षष्ठस्कन्धे त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा
नानोपायचिन्तनवर्णनं नाम प्रथमोऽध्यायः ॥ ६.१॥
६.२ द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।
व्यास उवाच ।
अथ स लोभमुपेत्य सुराधिपः
समधिगम्य गजासनसंस्थितः ।
त्रिशिरसं प्रति दुष्टमतिस्तदा
मुनिमपश्यदमेयपराक्रमम् ॥ १॥
तमभिवीक्ष्य दृढासनसंस्थितं
जितगिरं सुसमाधिवशं गतम् ।
रविविभावसुसन्निभमोजसा
सुरपतिः परमापदमभ्यगात् ॥ २॥
कथमसौ विनिहन्तुमहो मया
मुनिरपापमतिः किल सम्मतः ।
रिपुरयं सुसमिद्धतपोबलः
कथमुपेक्ष्य इहासनकामुकः ॥ ३॥
इति विचिन्त्य पविं परमायुधं
प्रति मुमोच मुनिं तपसि स्थितम् ।
शशिदिवाकरसन्निभमाशुगं
त्रिशिरसं सुरसङ्घपतिः स्वयम् ॥ ४॥
तदभिघातहतः स धरातले
किल पपात ममार च तापसः ।
शिखरिणः शिखरं कुलिशार्दितं
निपतितं भुवि चाद्भुतदर्शनम् ॥ ५॥
तं निहत्य मुदमाप सुरेश-
श्चुक्रुशुश्च मुनयस्तु संस्थिताः ।
हा हतेति भृशमार्तनिःस्वनाः
किं कृतं शतमखेन पापिना ॥ ६॥
विनापराधं तपसां निधिर्हतः
शचीपतिः पापमतिर्दुरात्मा ।
फलं किलायं तरसा कृतस्य
प्राप्नोतु पापी हननोद्भवस्य ॥ ७॥
तं निहत्य तरसा सुरराजो
निर्जगाम निजमन्दिरमाशु ।
स हतोऽपि विरराज महात्मा
जीवमान इव तेजसां निधिः ॥ ८॥
तं दृष्ट्वा पतितं भूमौ जीवन्तमिव वृत्रहा ।
चिन्तामापातिखिन्नाङ्गः किं वा जीवेदयं पुनः ॥ ९॥
विमृश्य मनसातीव तक्षाणं पुरतः स्थितम् ।
मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः ॥ १०॥
तक्षंश्छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ।
मा जीवतु महातेजा भाति जीवन्निव स्वयम् ॥ ११॥
इत्याकर्ण्य वचस्तस्य तक्षोवाच विगर्हयन् ।
तक्षोवाच ।
महास्कन्धो भृशं भाति परशुर्न तरिष्यति ॥ १२॥
ततो नाहं करिष्यामि कार्यमेतद्विगर्हितम् ।
त्वया वै निन्दितं कर्म कृतं सद्भिर्विगर्हितम् ॥ १३॥
अहं बिभेमि पापाद्वै मृतस्यैव च मारणे ।
मृतोऽयं मुनिरस्त्येव शिरसः कृन्तनेन किम् ॥ १४॥
भयं किं तेऽत्र सञ्जातं पाकशासन कथ्यताम् ।
इन्द्र उवाच ।
सजीव इव देहोऽयमाभाति विशदाकृतिः ॥ १५॥
तस्माद्बिभेमि मा जीवेन्मुनिः शत्रुरयं मम ।
तक्षोवाच ।
नात्र किं त्रपसे विद्वन् क्रूरेणानेन कर्मणा ॥ १६॥
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न किम् ।
इन्द्र उवाच ।
प्रायश्चित्तं करिष्यामि पश्चात्पापक्षयाय वै ॥ १७॥
शत्रुस्तु सर्वथा वध्यश्छलेनापि महामते ।
तक्षोवाच ।
त्वं लोभाभिहतः पापं करोषि मघवन्निह ॥ १८॥
तं विनाहं कथं पापं करोमि वद मे विभो ।
इन्द्र उवाच ।
मखेषु खलु भागं ते करिष्यामि सदैव हि ॥ १९॥
शिरः पशोस्तु ते भागं यज्ञे दास्यन्ति मानवाः ।
शुल्केनानेन छिन्धि त्वं शिरांस्यस्य कुरु प्रियम् ॥ २०॥
व्यास उवाच ।
एतच्छ्रुत्वा महेन्द्रस्य वचस्तक्षा मुदान्वितः ।
कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि ॥ २१॥
छिन्नानि त्रीणि शीर्षाणि पतितानि यदा भुवि ।
तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः ॥ २२॥
कलविङ्कास्तित्तिरयस्तथैव च कपिञ्जलाः ।
पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा ॥ २३॥
येन वेदानधीते स्म सोमं च पिबते तथा ।
तस्माद्वक्त्रात्किलोत्पेतुः सद्य एव कपिञ्जलाः ॥ २४॥
येन सर्वा दिशः कामं पिबन्निव निरीक्षते ।
तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः ॥ २५॥
यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटकाः किल ।
विनिष्पेतुस्त्रिशिरस एवं ते विहगा नृप ॥ २६॥
एवंविनिःसृतान्दृष्ट्वा तेभ्यः शक्रस्तदाण्डजान् ।
मुमोद मनसा राजन् जगाम त्रिदिवं पुनः ॥ २७॥
गते शक्रे तु तक्षापि स्वगृहं तरसा ययौ ।
यज्ञभागं परं लब्ध्वा मुदमाप महीपते ॥ २८॥
इन्द्रोऽथ स्वगृहं गत्वा हत्वा शत्रुं महाबलम् ।
मेने कृतार्थमात्मानं ब्रह्महत्यामचिन्तयन् ॥ २९॥
तं श्रुत्वा निहतं त्वष्टा पुत्रं परमधार्मिकम् ।
चुकोपातीव मनसा वचनं चेदमब्रवीत् ॥ ३०॥
अनागसं मुनिं यस्मात्पुत्रं निहतवान्मम ।
तस्मादुत्पादयिष्यामि तद्वधार्थं सुतं पुनः ॥ ३१॥
सुराः पश्यन्तु मे वीर्यं तपसश्च बलं तथा ।
जानातु सर्वं पापात्मा स्वकृतस्य फलं महत् ॥ ३२॥
इत्युक्त्वाग्निं जुहावाथ मन्त्रैराथर्वणोदितैः ।
पुत्रस्योत्पादनार्थाय त्वष्टा क्रोधसमाकुलः ॥ ३३॥
कृते होमेऽष्टरात्रं तु सन्दीप्ताच्च विभावसोः ।
प्रादुर्बभूव तरसा पुरुषः पावकोपमः ॥ ३४॥
तं दृष्ट्वाग्रे सुतं त्वष्टा तेजोबलसमन्वितम् ।
वेगात्प्रकटितं वह्नेर्दीप्यमानमिवानलम् ॥ ३५॥
उवाच वचनं त्वष्टा सुतं वीक्ष्य पुरःस्थितम् ।
इन्द्रशत्रो विवर्धस्व प्रतापात्तपसो मम ॥ ३६॥
इत्युक्ते वचने त्वष्ट्रा क्रोधप्रज्वलितेन च ।
सोऽवर्धत दिवं स्तब्ध्वा वैश्वानरसमद्युतिः ॥ ३७॥
जातः स पर्वताकारः कालमृत्युसमः स्वराट् ।
किं करोमीति तं प्राह पितरं परमातुरम् ॥ ३८॥
कुरु मे नामकं नाथ कार्यं कथय सुव्रत ।
चिन्तातुरोऽसि कस्मात्त्वं ब्रूहि मे शोककारणम् ॥ ३९॥
नाशयाम्यद्य ते शोकमिति मे व्रतमाहितम् ।
तेन जातेन किं भूयः पिता भवति दुःखितः ॥ ४०॥
पिबामि सागरं सद्यश्चूर्णयामि धराधरान् ।
उद्यन्तं वारयाम्यद्य तरणिं तिग्मतेजसम् ॥ ४१॥
हन्मीन्द्रं ससुरं सद्यो यमं वा देवतान्तरम् ।
क्षिपामि सागरे सर्वान्समुत्पाट्य च मेदिनीम् ॥ ४२॥
इत्याकर्ण्य वचस्तस्य त्वष्टा पुत्रस्य पेशलम् ।
प्रत्युवाचातिमुदितस्तं सुतं पर्वतोपमम् ॥ ४३॥
वृजिनात्त्रातुमधुना यस्माच्छक्तोऽसि पुत्रक ।
तस्माद्वृत्र इति ख्यातं तव नाम भविष्यति ॥ ४४॥
भ्राता तव महाभाग त्रिशिरा नाम तापसः ।
त्रीणि तस्य च शीर्षाणि ह्यभवन्वीर्यवन्ति च ॥ ४५॥
वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः ।
संस्थितस्तपसि प्रायस्त्रिलोकीविस्मयप्रदे ॥ ४६॥
शक्रेण तु हतः सोऽद्य वज्रघातेन साम्प्रतम् ।
विनापराधं सहसा छिन्नानि मस्तकानि च ॥ ४७॥
तस्मात्त्वं पुरुषव्याघ्र जहि शक्रं कृतागसम् ।
ब्रह्महत्यायुतं पापं निस्त्रपं दुर्मतिं शठम् ॥ ४८॥
इत्युक्त्वा च तदा त्वष्टा पुत्रशोकसमाकुलः ।
आयुधानि च दिव्यानि चकार विविधानि च ॥ ४९॥
ददावस्मै सहस्राक्षवधाय प्रबलानि च ।
खड्गशूलगदाशक्तितोमरप्रमुखानि वै ॥ ५०॥
शार्ङ्ग धनुस्तथा बाणं परिघं पट्टिशं तथा ।
चक्रं दिव्यं सहस्रारं सुदर्शनसमप्रभम् ॥ ५१॥
तूणीरौ चाक्षयौ दिव्यौ कवचं चातिसुन्दरम् ।
रथं मेघप्रतीकाशं दृढं भारसहं जवम् ॥ ५२॥
युद्धोपकरणं सर्वं कृत्वा पुत्राय पार्थिव ।
दत्त्वासौ प्रेरयामास त्वष्टा क्रोधसमन्वितः ॥ ५३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां षष्ठस्कन्धे त्रिशिरवधानन्तरं
वृत्रोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ६.२॥
६.३ तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।
व्यास उवाच ।
कृतस्वस्त्ययनो वृत्रो ब्राह्मणैर्वेदपारगैः ।
निर्जगाम रथारूढो हन्तुं शक्रं महाबलः ॥ १॥
तदैव राक्षसाः क्रूराः पुरा देवपराजिताः ।
समाजग्मुश्च सेवार्थं वृत्रं ज्ञात्वा महाबलम् ॥ २॥
इन्द्रदूतास्तु तं दृष्ट्वा युद्धाय तु समागतम् ।
वेगादागत्य वृत्तान्तं शशंसुस्तस्य चेष्टितम् ॥ ३॥
दूता ऊचुः ।
स्वामिञ्छीघ्रमिहायाति वृत्रो नाम रिपुस्तव ।
बलवान्स्यन्दने रूढस्त्वष्ट्रा चोत्पादितः किल ॥ ४॥
अविचारेण नाशार्थं तव क्रोधान्वितेन वै ।
पुत्रघाताभितप्तेन दुःसहो राक्षसैर्युतः ॥ ५॥
यत्नं कुरु महाभाग शीघ्रमायाति साम्प्रतम् ।
मेरुमन्दरसङ्काशो घोरशब्दोऽतिदारुणः ॥ ६॥
एतस्मिन्नन्तरे तत्र भीता देवगणा भृशम् ।
आगत्योचुः सुरपतिं शृण्वन्तं दूतभाषितम् ॥ ७॥
गणाः ऊचुः ।
मघवन् दुर्निमित्तानि भवन्ति त्रिदशालये ।
बहूनि भयशंसीनि पक्षिणां विरुतानि च ॥ ८॥
काकगृध्रास्तथा श्येनाः कङ्काद्या दारुणाः खगाः ।
रुदन्ति विकृतैः शब्दैरुत्कारैर्भवनोपरि ॥ ९॥
चीचीकूचीति निनदान् कुर्वन्ति विहगा भृशम् ।
वाहनानां च नेत्रेभ्यो जलधाराः पतन्त्यधः ॥ १०॥
श्रूयतेऽतिमहाञ्छब्दो रुदतीनां निशासु च ।
राक्षसीनां महाभाग भवनोपरि दारुणः ॥ ११॥
प्रपतन्ति ध्वजास्तूर्णं विना वातेन मानद ।
प्रभवन्ति महोत्पाता दिवि भूम्यन्तरिक्षजाः ॥ १२॥
कृष्णाम्बरधरा नार्यो भ्रमन्ति च गृहे गृहे ।
यान्तु यान्तु गृहात्तूर्णं कुर्वन्त्यो विकृताननाः ॥ १३॥
रात्रौ स्वप्नेषु कान्तानां सुप्तानां निजमन्दिरे ।
केशाँल्लुनन्ति राक्षस्यो भीषयन्त्यो भृशातुराः ॥ १४॥
एवंविधानि देवेश भूकम्पोल्कादयस्तथा ।
गोमायवो रुदन्ति स्म निशायां भवनाङ्गणे ॥ १५॥
सरटानां च जालानि प्रभवन्ति गृहे गृहे ।
अङ्गप्रस्फुरणादीनि दुर्निमित्तानि सर्वशः ॥ १६॥
व्यास उवाच ।
इति तेषां वचः श्रुत्वा चिन्तामाप सुरेश्वरः ।
बृहस्पतिं समाहूय पप्रच्छ च मनोगतम् ॥ १७॥
इन्द्र उवाच ।
ब्रह्मन् किमुत घोराणि निमित्तानि भवन्ति वै ।
वाताश्च दारुणा वान्ति प्रपतन्त्युलकाः खतः ॥ १८॥
सर्वज्ञोऽसि महाभाग समर्थो विघ्ननाशने ।
बुद्धिमाञ्छास्त्रतत्त्वज्ञो देवतानां गुरुस्तथा ॥ १९॥
कुरु शान्तिं विधानज्ञ शत्रुक्षयविधायिनीम् ।
यथा मे न भवेद्दुःखं तथा कार्यं विधीयताम् ॥ २०॥
बृहस्पतिरुवाच ।
किं करोमि सहस्राक्ष त्वयाद्य दुष्कृतं कृतम् ।
अनागसं मुनिं हत्वा किं फलं समुपार्जितम् ॥ २१॥
अत्युग्रं पुण्यपापानां फलं भवति सत्वरम् ।
विचार्य खलु कर्तव्यं कार्यं तद्भूतिमिच्छता ॥ २२॥
परोपतापनं कर्म न कर्तव्यं कदाचन ।
न सुखं विन्दते प्राणी परपीडापरायणः ॥ २३॥
मोहाल्लोभाद्ब्रह्महत्या कृता शक्र त्वयाधुना ।
तस्य पापस्य सहसा फलमेतदुपागतम् ॥ २४॥
अवध्यः सर्वदेवानां जातोऽसौ वृत्रसंज्ञकः ।
हन्तुं त्वां स समायाति दानवैर्बहुभिर्वृतः ॥ २५॥
आयुधानि च सर्वाणि वज्रतुल्यानि वासव ।
त्वष्ट्रा दत्तानि दिव्यानि गृहीत्वा समुपस्थितः ॥ २६॥
समागच्छति दुर्धर्षो रथारूढः प्रतापवान् ।
देवेन्द्र प्रलयं कुर्वन्नास्य मृत्युर्भविष्यति ॥ २७॥
कोलाहलस्तदा जातस्तथा ब्रुवति वाक्पतौ ।
गन्धर्वाः किन्नरा यक्षा मुनयश्च तपोधनाः ॥ २८॥
सदनानि विहायैवामराः सर्वे पलायिताः ।
तद्दृष्ट्वा महदाश्चर्यं शक्रश्चिन्तापरायणः ॥ २९॥
आज्ञापयामास तदा सेनोद्योगाय सेवकान् ।
आनयध्वं वसून् रुद्रानश्विनौ च दिवाकरान् ॥ ३०॥
पूषणं च भगं वायुं कुबेरं वरुणं यमम् ।
विमानेषु समारुह्य सायुधाः सुरसत्तमाः ॥ ३१॥
समागच्छन्तु तरसा शत्रुरायाति साम्प्रतम् ।
इत्याज्ञाप्य सुरपतिः समारुह्य गजोत्तमम् ॥ ३२॥
बृहस्पतिं पुरोधाय निर्गतो निजमन्दिरात् ।
तथैव त्रिदशाः सर्वे स्वं स्वं वाहनमास्थिताः ॥ ३३॥
युद्धाय कृतसङ्कल्पा निर्ययुः शस्त्रपाणयः ।
वृत्रोऽथ दानवैर्युक्तः सम्प्राप्तो मानसोत्तरम् ॥ ३४॥
पर्वतं देवतावासं रम्यं पादपशोभितम् ।
इन्द्रोऽप्यागत्य सङ्ग्रामं चकार मानसोत्तरे ॥ ३५॥
पर्वते देवतायुक्तो वाचस्पतिपुरःसरः ।
तत्राभूद्दारुणं युद्धं वृत्रवासवयोस्तदा ॥ ३६॥
गदासिपरिघैः पाशैर्बाणैः शक्तिपरश्वधैः ।
मानुषेण प्रमाणेन सङ्ग्रामः शरदां शतम् ॥ ३७॥
बभूव भयदो नॄणामृषीणां भावितात्मनाम् ।
वरुणः प्रथमं भग्नस्ततो वायुगणः किल ॥ ३८॥
यमो विभावसुः शक्रः सर्वे ते निर्गता रणात् ।
पलायनपरान् दृष्ट्वा देवानिन्द्रपुरोगमान् ॥ ३९॥
वृत्रोऽपि पितरं प्रागादाश्रमस्थं मुदान्वितम् ।
प्रणम्य प्राह त्वष्टारं पितः कार्यं मया कृतम् ॥ ४०॥
देवा विनिर्जिताः सर्वे सेन्द्राः समरसंस्थिताः ।
विद्रुतास्ते गताः स्थानं यथा सिंहान्मृगा गजाः ॥ ४१॥
इन्द्रः पदातिरगमन्मयानीतो गजोत्तमः ।
ऐरावतोऽयं भगवन् गृहाण द्विरदोत्तमम् ॥ ४२॥
न हतास्ते मया यस्मादयुक्तं भीतमारणम् ।
आज्ञापय पुनस्तात किं करोमि तवेप्सितम् ॥ ४३॥
निर्जरा निर्गताः सर्वे भयभीता श्रमातुराः ।
इन्द्रोऽप्यैरावतं त्यक्त्वा भयभीतः पलायितः ॥ ४४॥
व्यास उवाच ।
इति पुत्रवचः श्रुत्वा त्वष्टा प्राह मुदान्वितः ।
पुत्रवानद्य जातोऽस्मि सफलं मम जीवितम् ॥ ४५॥
त्वयाहं पावितः पुत्र गतो मे मानसो ज्वरः ।
निश्चलं मे मनो जातं दृष्ट्वा वीर्यं तवाद्भुतम् ॥ ४६॥
शृणु वक्ष्याम्यहं पुत्र हितं तेऽद्य निशामय ।
तपः कुरु महाभाग सावधानः स्थिरासनः ॥ ४७॥
विश्वासो नैव कर्तव्यः केषाञ्चित्पाकशासनः ।
शत्रुस्ते छलकर्तास्ति नानाभेदविशारदः ॥ ४८॥
तपसा प्राप्यते लक्ष्मीस्तपसा राज्यमुत्तमम् ।
तपसा बलवृद्धिः स्यात्सङ्ग्रामे विजयस्तथा ॥ ४९॥
आराध्य द्रुहिणं देवं लब्ध्वा वरमनुत्तमम् ।
जहि शक्रं दुराचारं ब्रह्महत्यासमावृतम् ॥ ५०॥
सावधानः स्थिरो भूत्वा दातारं भज शङ्करम् ।
वाञ्छितं स वरं दद्यात्सन्तुष्टश्चतुराननः ॥ ५१॥
तोषयित्वा विश्वयोनिं ब्रह्माणममितौजसम् ।
अविनाशित्वमासाद्य जहि शक्रं कृतागसम् ॥ ५२॥
वैरं मनसि मे पुत्र वर्तते सुतघातजम् ।
न शान्तिमनुगच्छामि न स्वपामि सुखेन ह ॥ ५३॥
तापसो मे हतः पुत्रो निरागाः पाप्मना यतः ।
न विन्दामि सुखं वृत्र त्वं मामुद्धर दुःखितम् ॥ ५४॥
व्यास उवाच ।
तदाकर्ण्य पितुर्वाक्यं वृत्रः क्रोधयुतस्तदा ।
आज्ञामादाय च पितुर्जगाम तपसे मुदा ॥ ५५॥
गन्धमादनमासाद्य पुण्यां देवधुनीं शुभाम् ।
स्नात्वा कुशासनं कृत्वा संस्थितश्च स्थिरासनः ॥ ५६॥
त्यक्त्वान्नं वारिपानं च योगाभ्यासपरायणः ।
ध्यायन्विश्वसृजं चित्ते सोपविष्टः स्थिरासने ॥ ५७॥
मघवा तं तपस्यन्तं ज्ञात्वा चिन्तातुरो ह्यभूत् ।
गन्धर्वान्प्रेषयामास विघ्नार्थं पाकशासनः ॥ ५८॥
यक्षांश्च पन्नगान्सर्पान्किन्नरानमितौजसः ।
विद्याधरानप्सरसो देवदूताननेकशः ॥ ५९॥
उपायास्तैः कृताः सम्यक् तपोविघ्नाय मायिभिः ।
न चचाल ततो ध्यानात्त्वाष्ट्रः परमतापसः ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां षष्ठस्कन्धे ब्रह्मणः समाराधनाय
त्वष्ट्रा वृत्रोपदेशवर्णनं नाम तृतीयोऽध्यायः ॥ ६.३॥
६.४ चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।
व्यास उवाच ।
निर्गतास्ते परावृत्तास्तपोविघ्नकराः सुराः ।
निराशाः कार्यसंसिद्ध्यै तं दृष्ट्वा दृढचेतसम् ॥ १॥
जाते वर्षशते पूर्णे ब्रह्मा लोकपितामहः ।
तत्राजगाम तरसा हंसारूढश्चतुर्मुखः ॥ २॥
आगत्य तमुवाचेदं त्वष्ट्टपुत्र सुखी भव ।
त्यक्त्वा ध्यानं वरं ब्रूहि ददामि तव वाञ्छितम् ॥ ३॥
तपसा तेऽद्य तुष्टोऽस्मि त्वां दृष्ट्वा चातिकर्शितम् ।
वरं वरय भद्रं ते मनोऽभिलषितं तव ॥ ४॥
व्यास उवाच ।
वृत्रस्तदातिविशदां पुरतो निशम्य
वाचं सुधासमरसां जगदेककर्तुः ।
सन्त्यज्य योगकलनां सहसोदतिष्ठ-
त्सञ्जातहर्षनयनाश्रुकलाकलापः ॥ ५॥
पादौ प्रणम्य शिरसा प्रणयाद्विधातु-
र्बद्धाञ्जलिः पुरत एव समाससाद ।
प्रोवाच तं सुवरदं तपसा प्रसन्नं
प्रेम्णातिगद्गदगिरा विनयेन नम्रः ॥ ६॥
प्राप्तं मया सकलदेवपदं प्रभोऽद्य
यद्दर्शनं तव सुदुर्लभमाशु जातम् ।
वाञ्छास्ति नाथ मनसि प्रवणे दुरापा
तां प्रब्रवीमि कमलासन वेत्सि भावम् ॥ ७॥
मृत्युश्च मा भवतु मे किल लोहकाष्ठ-
शुष्कार्द्रवंशनिचयैरपरैश्च शस्त्रैः ।
वृद्धि प्रयातु मम वीर्यमतीव युद्धे
यस्माद्भवामि सबलैरमरैरजेयः ॥ ८॥
व्यास उवाच ।
इत्थं सम्प्रार्थितो ब्रह्मा तमाह प्रहसन्निव ।
उत्तिष्ठ गच्छ भद्रं ते वाञ्छितं सफलं सदा ॥ ९॥
न शुष्केण न चार्द्रेण न पाषाणेन दारुणा ।
भविष्यति च ते मृत्युरिति सत्यं ब्रवीम्यहम् ॥ १०॥
इति दत्त्वा वरं ब्रह्मा जगाम भुवनं परम् ।
वृत्रस्तु तं वरं लब्धा मुदितः स्वगृहं ययौ ॥ ११॥
शशंस पितुरग्रे तद्वरदानं महामतिः ।
त्वष्टा तु मुदितः प्राप्तं पुत्रं प्राप्तवरं तदा ॥ १२॥
स्वस्ति तेऽस्तु महाभाग जहि शक्रं रिपुं मम ।
हत्वागच्छ त्रिशिरसो हन्तारं पापसंयुतम् ॥ १३॥
भव त्वं त्रिदशाधीशः सम्प्राप्य विजयं रणे ।
ममाधिं छिन्धि विपुलं पुत्रनाशसमुद्भवम् ॥ १४॥
जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् ।
गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता ॥ १५॥
तस्मात्पुत्र ममात्यर्थं दुःखं नाशितुमर्हसि ।
त्रिशिरा मम चित्तात्तु नापसर्पति कर्हिचित् ॥ १६॥
सुशीलः सत्यवादी च तापसो वेदवित्तमः ।
अपराधं विना तेन निहतः पापबुद्धिना ॥ १७॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा वृत्रः परमदुर्जयः ।
रथमारुह्य तरसा निर्जगाम पितुर्गृहात् ॥ १८॥
रणदुन्दुभिनिर्घोषं शङ्खनादं महाबलम् ।
कारयित्वा प्रयाणं स चकार मदगर्वितः ॥ १९॥
निर्ययौ नयसंयुक्तः सेवकानिति संवदन् ।
हत्वा शक्रं ग्रहीष्यामि सुरराज्यमकण्टकम् ॥ २०॥
इत्युक्त्वा निर्जगामाशु स्वसैन्यपरिवारितः ।
महता सैन्यनादेन भीषयन्नमरावतीम् ॥ २१॥
तमागच्छन्तमाज्ञाय तुराषाडपि सत्वरः ।
सेनोद्योगं भयत्रस्तः कारयामास भारत ॥ २२॥
सर्वानाहूय तरसा लोकपालानरिन्दमः ।
युद्धार्थं प्रेरयन्सर्वान्व्यरोचत महाद्युतिः ॥ २३॥
गृध्रन्व्यूहं ततः कृत्वा संस्थितः पाकशासनः ।
तत्राजगाम वेगात्तु वृत्रः परबलार्दनः ॥ २४॥
देवदानवयोस्तावत्सङ्ग्रामस्तुमुलोऽभवत् ।
वृत्रवासवयोः सङ्ख्ये मनसा विजयैषिणोः ॥ २५॥
एवं परस्परं युद्धे सन्दीप्ते भयदे भृशम् ।
आकूतं देवताः प्रापुर्दैत्याश्च परमां मुदम् ॥ २६॥
तोमरैर्भिन्दिपालैश्च खड्गैः परशुपट्टिशैः ।
जघ्नुः परस्परं देवदैत्या स्वस्ववरायुधैः ॥ २७॥
एवं युद्धे वर्तमाने दारुणे लोमहर्षणे ।
शक्रं जग्राह सहसा वृत्रः क्रोधसमन्वितः ॥ २८॥
अपावृत्य मुखे क्षिप्त्वा स्थितो वृत्रः शतक्रतुम् ।
मुदितोऽभून्महाराज पूर्ववैरमनुस्मरन् ॥ २९॥
शक्रे ग्रस्तेऽथ वृत्रेण सम्भ्रान्ता निर्जरास्तदा ।
चुक्रुशः परमार्तास्ते हा शक्रेति मुहुर्मुहुः ॥ ३०॥
अपावृतं मुखे शक्रं ज्ञात्वा सर्वे दिवौकसः ।
बृहस्पतिं प्रणम्योचुर्दीना व्यथितचेतसः ॥ ३१॥
किं कर्तव्यं द्विजश्रेष्ठ त्वमस्माकं गुरुः परः ।
शक्रो ग्रस्तस्तु वृत्रेण रक्षितो देवतान्तरैः ॥ ३२॥
विना शक्रेण किं कुर्मः सर्वे हीनपराक्रमाः ।
अभिचारं कुरु विभो सत्वरः शक्रमुक्तये ॥ ३३॥
बृहस्पतिरुवाच ।
किं कर्तव्यं सुराः क्षिप्तो मुखमध्येऽस्ति वासवः ।
वृत्रेणोत्सादितो जीवन्नस्ति कोष्ठान्तरे रिपोः ॥ ३४॥
व्यास उवाच ।
देवाश्चिन्तातुराः सर्वे तुरासाहं तथाकृतम् ।
दृष्ट्वा विमृश्य तरसा चक्रुर्यत्नं विमुक्तये ॥ ३५॥
असृजन्त महासत्त्वां जृम्भिकां रिपुनाशिनीम् ।
ततो विजृम्भमाणः स व्यावृतास्यो बभूव ह ॥ ३६॥
विजृम्भमाणस्य ततो वृत्रस्यास्यादवापतत् ।
स्वान्यङ्गान्यपि सङ्क्षिप्य निष्क्रान्तो बलसूदनः ॥ ३७॥
ततः प्रभृति लोकेषु जृम्भिका प्राणिसंस्थिता ।
जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिर्गतम् ॥ ३८॥
ततः प्रववृते युद्धं तयोर्लोकभयप्रदम् ।
वर्षाणामयुतं यावद्दारुणं लोमहर्षणम् ॥ ३९॥
एकतश्च सुराः सर्वे युद्धाय समुपस्थिताः ।
एकतो बलवांस्त्वाष्ट्रः सङ्ग्रामे समवर्तत ॥ ४०॥
यदा व्यवर्धत रणे वृत्रो वरमदावृतः ।
पराजितस्तदा शक्रस्तेजसा तस्य धर्षितः ॥ ४१॥
विव्यथे मघवा युद्धे ततः प्राप्य पराजयम् ।
विषादमगमन्देवा दृष्ट्वा शक्रं पराजितम् ॥ ४२॥
जग्मुस्त्यक्त्वा रणं सर्वे देवा इन्द्रपुरोगमाः ।
गृहीतं देवसदनं वृत्रेणागत्य रंहसा ॥ ४३॥
देवोद्यानानिसर्वाणि भुङ्क्तेऽसौ दानवो बलात् ।
ऐरावतोऽपि दैत्येन गृहीतोऽसौ गजोत्तमः ॥ ४४॥
विमानानि च सर्वाणि गृहीतानि विशाम्पते ।
उच्चैःश्रवा हयवरो जातस्तस्य वशे तदा ॥ ४५॥
कामधेनुः पारिजातो गणश्चाप्सरसां तथा ।
गृहीतं रत्नमात्रं तु तेन त्वष्ट्टसुतेन ह ॥ ४६॥
स्थानभ्रष्टाः सुराः सर्वे गिरिदुर्गेषु संस्थिताः ।
दुःखमापुः परिभ्रष्टा यज्ञभागात्सुरालयात् ॥ ४७॥
वृत्रः सुरपदं प्राप्य बभूव मदगर्वितः ।
त्वष्टातीव सुखं प्राप्य मुमोद सुतसंयुतः ॥ ४८॥
अमन्त्रयन्हितं देवा मुनिभिः सह भारत ।
किं कर्तव्यमिति प्राप्ते विचिन्त्य भयमोहिताः ॥ ४९॥
जग्मुः कैलासमचलं सुराः शक्रसमन्विताः ।
महादेवं प्रणम्योचुः प्रह्वाः प्राञ्जलयो भृशम् ॥ ५०॥
देवदेव महादेव कृपासिन्धो महेश्वर ।
रक्षास्मान्भयभीतांस्तु वृत्रेणातिपराजितान् ॥ ५१॥
गृहीतं देवसदनं तेन देव बलीयसा ।
किं कर्तव्यमतः शम्भो ब्रूहि सत्यं शिवाद्य नः ॥ ५२॥
किं कुर्मः क्व च गच्छामः स्थानभ्रष्टा महेश्वर ।
दुःखस्य नाधिगच्छामो विनाशोपायमीश्वर ॥ ५३॥
साहाय्यं कुरु भूतेश व्यथिताः स्म कृपानिधे ।
वृत्रं जहि मदोत्सिक्तं वरदानबलाद्विभो ॥ ५४॥
शिव उवाच ।
ब्रह्माणं पुरतः कृत्वा वयं सर्वे हरेः क्षयम् ।
गत्वा समेत्य तं विष्णुं चिन्तयामो वधोद्यमम् ॥ ५५॥
स शक्तश्च छलज्ञश्च बलवान्बुद्धिमत्तरः ।
शरण्यश्च दयाब्धिश्च वासुदेवो जनार्दनः ॥ ५६॥
विना तं देवदेवेशं नार्थसिद्धिर्भविष्यति ।
तस्मात्तत्र च गन्तव्यं सर्वकार्यार्थसिद्धये ॥ ५७॥
व्यास उवाच ।
इति सञ्चिन्त्य ते सर्वे ब्रह्मा शक्रः सशङ्करः ।
जग्मुर्विष्णोः क्षयं देवाः शरण्यं भक्तवत्सलम् ॥ ५८॥
गत्वा विष्णुपदं देवास्तुष्टुवुः परमेश्वरम् ।
हरिं पुरुषसूक्तेन वेदोक्तेन जगद्गुरुम् ॥ ५९॥
प्रत्यक्षोऽभूज्जगन्नाथस्तेषां स कमलापतिः ।
सम्मान्य च सुरान्सर्वानित्युवाच पुरःस्थितः ॥ ६०॥
किमागताः स्म लोकेशा हरब्रह्मसमन्विताः ।
कारणं कथयध्वं वः सर्वेषां सुरसत्तमाः ॥ ६१॥
व्यास उवाच ।
इति श्रुत्वा हरेर्वाक्यं नोचुर्देवा रमापतिम् ।
चिन्ताविष्टाः स्थिताः प्रायः सर्वेप्राञ्जलयस्तथा ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां षष्ठस्कन्धे ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः
शरणगमनवर्णनं नाम चतुर्थोऽध्यायः ॥ ६.४॥
६.५ पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।
व्यास उवाच ।
तथा चिन्तातुरान्वीक्ष्य सर्वान्मर्वार्थतत्त्ववित् ।
प्राह प्रेमभरोद्भ्रान्तान्माधवो मेदिनीपते ॥ १॥
विष्णुरुवाच ।
किं मौनमाश्रिता यूयं ब्रुवन्तु कारणं सुराः ।
सदसद्वापि यच्छ्रुत्वा यतिष्ये तन्निवारणे ॥ २॥
देवा ऊचुः ।
किमज्ञातं तव विभो त्रिषु लोकेषु वर्तते ।
सर्वं वेद भवान्कार्यं किं पृच्छसि पुनः पुनः ॥ ३॥
त्वया पूर्वं बलिर्बद्धः शक्रो देवाधिपः कृतः ।
वामनं वपुरास्थाय क्रान्तं त्रिभुवनं पदैः ॥ ४॥
अमृतं त्वाहृतं विष्णो दैत्याश्च विनिपातिताः ।
त्वं प्रभुः सर्वदेवानां सर्वापद्विनिवारणे ॥ ५॥
विष्णुरुवाच ।
न भेतव्यं सुरवरा वेद्म्युपायं सुसम्मतम् ।
तद्वधाय प्रवक्ष्यामि येन सौख्यं भविष्यति ॥ ६॥
अवश्यं करणीयं मे भवतां हितमात्मना ।
बुद्ध्या बलेन चार्थेन येन केनच्छलेन वा ॥ ७॥
उपायाः खलु चत्वारः कथितास्तत्त्वदर्शिभिः ।
सामादयः सुहृत्स्वेव दुर्हृदेषु विशेषतः ॥ ८॥
ब्रह्मणास्य वरो दत्तस्तपसाऽऽराधितेन च ।
दुर्जयत्वं च सम्प्राप्तं वरदानप्रभावतः ॥ ९॥
अजेयः सर्वभूतानां त्वष्ट्रा समुपपादितः ।
ततो बलेन वृद्धिं स प्राप्तः परपुरञ्जयः ॥ १०॥
दुःसाध्योऽसौ सुराः शत्रुर्विना सामप्रतारणम् ।
प्रलोभ्य वशमानेयो हन्तव्यस्तु ततः परम् ॥ ११॥
गच्छध्वं सर्वगन्धर्वा यत्रास्ति बलवत्तरः ।
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ १२॥
सङ्गम्य शपथात्कृत्वा विश्वास्य समयेन हि ।
मित्रत्वं च समाधाय हन्तव्यः प्रबलो रिपुः ॥ १३॥
अदृश्यः सम्प्रवेक्ष्यामि वज्रमस्य वरायुधम् ।
साहाय्यं च करिष्यामि शक्रस्याहं सुरोत्तमाः ॥ १४॥
समयं च प्रतीक्षध्वं सर्वथैवायुषः क्षये ।
मरणं विबुधास्तस्य नान्यथा सम्भविष्यति ॥ १५॥
गच्छध्वमृषिभिः सार्धं गन्धर्वाः कपटावृताः ।
इन्द्रेण सह मित्रत्वं कुरुध्वं वाक्यदानतः ॥ १६॥
यथा स याति विश्वासं तथा कार्यं प्रतारणम् ।
गुप्तोऽहं सम्प्रवेक्ष्यामि पविं सञ्छादितं दृढम् ॥ १७॥
विश्वस्तं मघवा शत्रुं हनिष्यति न चान्यथा ।
विश्वासस्य कृते पापं कृत्वा शक्रस्तु पृष्ठतः ॥ १८॥
मत्सहायोऽथ वज्रेण शातयिष्यति पापिनम् ।
न दोषोऽत्र शठे शत्रौ शाठ्यमेव प्रकुर्वतः ॥ १९॥
नान्यथा बलवान्वध्यः शूरधर्मेण जायते ।
वामनं रूपमाधाय मयायं वञ्चितो बलिः ॥ २०॥
कृत्वा च मोहिनीवेषं दैत्याः सर्वेऽपिवञ्चिताः ।
भवन्तः सहिताः सर्वे देवीं भगवतीं शिवाम् ॥ २१॥
गच्छध्वं शरणं भावैः स्तोत्रमन्त्रैः सुरोत्तमाः ।
साहाय्यं सा योगमाया भवतां संविधास्यति ॥ २२॥
वन्दामहे सदा देवीं सात्त्विकीं प्रकृतिं पराम् ।
सिद्धिदां कामदां कामां दुरापामकृतात्मभिः ॥ २३॥
इन्द्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे ।
मोहिनी सा महामाया मोहयिष्यति दानवम् ॥ २४॥
मोहितो मायया वृत्रः सुखसाध्यो भविष्यति ।
प्रसन्नायां पराम्बायां सर्वं साध्यं भविष्यति ॥ २५॥
नोचेन्मनोरथावाप्तिर्न कस्यापि भविष्यति ।
अन्तर्यामिस्वरूपा सा सर्वकारणकारणा ॥ २६॥
तस्मात्तां विश्वजननीं प्रकृतिं परमादृताः ।
भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः ॥ २७॥
पुरा मयापि सङ्ग्रामं कृत्वा परमदारुणम् ।
पञ्चवर्षसहस्राणि निहतौ मधुकैटभौ ॥ २८॥
स्तुता मया तदात्यर्थं प्रसन्ना प्रकृतिः परा ।
मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ ॥ २९॥
विप्रलब्धौ महाबाहू दानवौ मदगर्वितौ ।
तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः ॥ ३०॥
सर्वथा कार्यसिद्धिं सा करिष्यति सुरोत्तमाः ।
एवं ते दत्तमतयो विष्णुना प्रभविष्णुना ॥ ३१॥
जग्मुस्ते मेरुशिखरं मन्दारद्रुममण्डितम् ।
एकान्ते संस्थिता देवाः कृत्वा ध्यानं जपं तपः ॥ ३२॥
तुष्टुवुर्जगतां धात्रीं सृष्टिसंहारकारिणीम् ।
भक्तकामदुघामम्बां संसारक्लेशनाशिनीम् ॥ ३३॥
देवा ऊचुः ।
देवि प्रसीद परिपाहि सुरान्प्रतप्तान्
वृत्रासुरेण समरे परिपीडितांश्च ।
दीनार्तिनाशनपरे परमार्थतत्त्वे
प्राप्तांस्त्वदङ्घ्रिकमलं शरणं सदैव ॥ ३४॥
त्वं सर्वविश्वजननी परिपालयास्मान्
पुत्रानिवातिपतितान् रिपुसङ्कटेऽस्मिन् ।
मातर्न तेऽस्त्यविदितं भुवनत्रयेऽपि
कस्मादुपेक्षसि सुरानसुरप्रतप्तान् ॥ ३५॥
त्रैलोक्यमेतदखिलं विहितं त्वयैव
ब्रह्मा हरिः पशुपतिस्तव वासनोत्थाः ।
कुर्वन्ति कार्यमखिलं स्ववशा न ते ते
भ्रूभङ्गचालनवशाद्विहरन्ति कामम् ॥ ३६॥
माता सुतान्परिभवात्परिपाति दीनान्
रीतिस्त्वयैव रचिता प्रकटापराधान् ।
कस्मान्न पालयसि देवि विनापराधा-
नस्मांस्त्वदङ्घ्रिशरणान्करुणारसाब्धे ॥ ३७॥
नूनं मदङ्घ्रिभजनाप्तपदाः किलैते
भक्तिं विहाय विभवे सुखभोगलुब्धाः ।
नेमे कटाक्षविषया इति चेन्न चैषा
रीतिः सुते जननकर्तरि चापि दृष्टा ॥ ३८॥
दोषो न नोऽत्र जननि प्रतिभाति चित्ते
यत्ते विहाय भजनं विभवे निमग्नाः ।
मोहस्त्वया विरचितः प्रभवत्यसौ न-
स्तस्मात्स्वभावकरुणे दयसे कथं न ॥ ३९॥
पूर्वं त्वया जननि दैत्यपतिर्बलिष्ठो
व्यापादितो महिषरूपधरः किलाजौ ।
अस्मत्कृते सकललोकभयावहोऽसौ
वृत्रं कथं न भयदं विधुनोषि मातः ॥ ४०॥
शुम्भस्तथातिबलवाननुजो निशुम्भ-
स्तौ भ्रातरौ तदनुगा निहता हतौ च ।
वृत्रं तथा जहि खलं प्रबलं दयार्द्रे
मत्तं विमोहय तथा न भवेद्यथासौ ॥ ४१॥
त्वं पालयाद्य विबुधानसुरेण मातः
सन्तापितानतितरां भयविह्वलांश्च ।
नान्योऽस्ति कोऽपि भुवनेषु सुरार्तिहन्ता
यः क्लेशजालमखिलं निदहेत्स्वशक्त्या ॥ ४२॥
वृत्रे दया तव यदि प्रथिता तथापि
जह्येनमाशु जनदुःखकरं खलं च ।
पापात्समुद्धर भवानि शरैः पुनाना
नोचेत्प्रयास्यति तमो ननु दुष्टबुद्धिः ॥ ४३॥
ते प्रापिताः सुरवनं विबुधारयो ये
हत्वा रणेऽपि विशिखैः किल पावितास्ते ।
त्राता न किं निरयपातभयाद्दयार्द्रे
यच्छत्रवोऽपि न हि किं विनिहंसि वृत्रम् ॥ ४४॥
जानीमहे रिपुरसौ तव सेवको न
प्रायेण पीडयति नः किल पापबुद्धिः ।
यस्तावकस्त्विह भवेदमरानसौ किं
त्वत्पादपङ्कजरतान्ननु पीडयेद्वा ॥ ४५॥
कुर्मः कथं जननि पूजनमद्य तेऽम्ब
पुष्पादिकं तव विनिर्मितमेव यस्मात् ।
मन्त्रा वयं च सकलं परशक्तिरूपं
तस्माद्भवानि चरणे प्रणताः स्म नूनम् ॥ ४६॥
धन्यास्त एव मनुजा हि भजन्ति भक्त्या
पादाम्बुजं तव भवाब्धिजलेषु पोतम् ।
यं योगिनोऽपि मनसा सततं स्मरन्ति
मोक्षार्थिनो विगतरागविकारमोहाः ॥ ४७॥
ये याज्ञिकाः सकलवेदविदोऽपि नूनं
त्वां संस्मरन्ति सततं किल होमकाले ।
स्वाहां तु तृप्तिजननीममरेश्वराणां
भूयः स्वधां पितृगणस्य च तृप्तिहेतुम् ॥ ४८॥
मेधासि कान्तिरसि शान्तिरपि प्रसिद्धा
बुद्धिस्त्वमेव विशदार्थकरी नराणाम् ।
सर्वं त्वमेव विभवं भुवनत्रयेऽस्मि-
न्कृत्वा ददासि भजतां कृपया सदैव ॥ ४९॥
व्यास उवाच ।
एवं स्तुता सुरैर्देवी प्रत्यक्षा साभवत्तदा ।
चारुरूपधरा तन्वी सर्वाभरणभूषिता ॥ ५०॥
पाशाङ्कुशवराभीतिलसद्बाहुचतुष्टया ।
रणत्किङ्किणिकाजालरसनाबद्धसत्कटिः ॥ ५१॥
कलकण्ठीरवा कान्ता क्वणत्कङ्कणनूपुरा ।
चन्द्रखण्डसमाबद्धरत्नमौलिविराजिता ॥ ५२॥
मन्दस्मितारविन्दास्या नेत्रत्रयविभूषिता ।
पारिजातप्रसूनाच्छनालवर्णसमप्रभा ॥ ५३॥
रक्ताम्बरपरीधाना रक्तचन्दनचर्चिता ।
प्रसादसुमुखी देवी करुणारससागरा ॥ ५४॥
सर्वशृङ्गारवेषाढ्या सर्वद्वैतारणिः परा ।
सर्वज्ञा सर्वकर्त्री च सर्वाधिष्ठानरूपिणी ॥ ५५॥
सर्ववेदान्तसंसिद्धा सच्चिदानन्दरूपिणी ।
प्रणेमुस्तां समालोक्य सुरा देवीं पुरःस्थिताम् ॥ ५६॥
तानाह प्रणतानम्बा किं वः कार्यं ब्रुवन्तु माम् ।
देवा ऊचुः ।
मोहयैनं रिपुं वृत्रं देवानामतिदुःखदम् ॥ ५७॥
यथा विश्वसते देवांस्तथा कुरु विमोहितम् ।
आयुधे च बलं देहि हतः स्याद्येन वा रिपुः ॥ ५८॥
व्यास उवाच ।
तथेत्युक्त्वा भगवती तत्रैवान्तरधीयत ।
स्वानि स्वानि निकेतानि जग्मुर्देवा मुदान्विताः ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
देवीसमाराधनाय देवकृतस्तुतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ६.५॥
६.६ षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।
व्यास उवाच ।
एवं प्राप्तवरा देवा ऋषयश्च तपोधनाः ।
(जग्मुः सर्वे च सम्मन्त्र्य वृत्रस्याश्रममुत्तमं ।)
ददृशुस्तत्र तं वृत्रं ज्वलन्तमिव तेजसा ॥ १॥
धक्ष्यन्तमिव लोकांस्त्रीन्ग्रसन्तमिव चामरान् ।
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः ॥ २॥
देवकार्यार्थसिद्ध्यर्थं सामयुक्तं रसात्मकम् ।
ऋषय ऊचुः ।
वृत्र वृत्र महाभाग सर्वलोकभयङ्कर ॥ ३॥
व्याप्तं त्वयैतत्सकलं ब्रह्माण्डमखिलं किल ।
शक्रेण तव वैरं यत्तत्तु सौख्यविघातकम् ॥ ४॥
युवयोर्दुःखदं कामं चिन्तावृद्धिकरं परम् ।
न त्वं स्वपिषि सन्तुष्टो न चापि मघवा तथा ॥ ५॥
सुखं स्वपिति चिन्तार्तो द्वयोर्यद्वैरिजं भयम् ।
युवयोर्युध्यतोः कालो व्यतीतस्तु महानिह ॥ ६॥
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः ।
संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ ७॥
न सुखं कृतवैरस्य भवतीति विनिर्णयः ।
सङ्ग्रामरसिकाः शूराः प्रशंसन्ति न पण्डिताः ॥ ८॥
युद्धं शृङ्गारचतुरा इन्द्रियार्थविघातकम् ।
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ॥ ९॥
युद्धे विजयसन्देहो निश्चयं बाणताडनम् ।
दैवाधीनमिदं विश्वं तथा जयपराजयौ ॥ १०॥
दैवाधीनाविति ज्ञात्वा न योद्धव्यं कदाचन ।
कालेऽथ भोजनं स्नानं शय्यायां शयनं तथा ॥ ११॥
परिचर्यापरा भार्या संसारे सुखसाधनम् ।
किं सुखं युध्यतः सङ्ख्ये बाणवृष्टिभयङ्करे ॥ १२॥
खड्गपातातिरौद्रे च तथारातिसुखप्रदे ।
सङ्ग्रामे मरणात्स्वर्गसुखप्राप्तिरिति स्फुटम् ॥ १३॥
प्रलोभनपरं वाक्यं नोदनार्थं निरर्थकम् ।
छित्त्वा देहं व्यथां प्राप्य शृगालकरटादिभिः ॥ १४॥
पश्चात्स्वर्गसुखावाप्तिं को वा वाञ्छति मन्दधीः ।
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥ १५॥
अवाप्स्यसि सुखं त्वं च शक्रश्चापि निरन्तरम् ।
वयं च तापसाः सर्वे गन्धर्वाश्च निजाश्रमे ॥ १६॥
सुखवासं गमिष्यामः शान्ते वैरेऽधुनैव वाम् ।
सङ्ग्रामे युवयोर्धीर वर्तमाने दिवानिशम् ॥ १७॥
पीड्यन्ते मुनयः सर्वे गन्धर्वाः किन्नरा नराः ।
सर्वेषां शान्तिकामानां सख्यमिच्छामहे वयम् ॥ १८॥
मुनयस्त्वं च शक्रश्च प्राप्नुवन्तु सुखं किल ।
मध्यस्थाश्च वयं वृत्र युवयोः सख्यकारणे ॥ १९॥
शपथं कारयित्वात्र योजयामो मिथः प्रियम् ।
शक्रस्तु शपथान्कृत्वा यथोक्तांश्च तवाग्रतः ॥ २०॥
चित्तं ते प्रीतिसंयुक्तं करिष्यति तु साम्प्रतम् ।
सत्याधारा धरा नूनं सत्येन च दिवाकरः ॥ २१॥
तपत्ययं यथाकालं वायुः सत्येन वात्यथ ।
उदन्वानपि मर्यादां सत्येनैव न मुञ्चति ॥ २२॥
तस्मात्सत्येन सख्यं वा भवत्वद्य यथासुखम् ।
एकत्र शयनं क्रीडा जलकेलिं सुखासनम् ॥ २३॥
युवाभ्यां सर्वथा कार्यं कर्तव्यं सख्यमेत्य च ।
व्यास उवाच ।
महर्षिवचनं श्रुत्वा तानुवाच महामतिः ॥ २४॥
अवश्यं भगवन्तो मे माननीयास्तपस्विनः ।
भवन्तो मुनयः क्वापि न मिथ्यावादिनो भृशम् ॥ २५॥
सदाचाराः सुशान्ताश्च न विदुश्छलकारणम् ।
कृतवैरे शठे स्तब्धे कामुके च गतत्विषि ॥ २६॥
निर्लज्जे नैव कर्तव्यं सख्यं मतिमता सदा ।
निर्लज्जोऽयं दुराचारो ब्रह्महा लम्पटः शठः ॥ २७॥
न विश्वासस्तु कर्तव्यः सर्वथैवेदृशे जने ।
भवन्तो निपुणाः सर्वे न द्रोहमतयः सदा ॥ २८॥
अनभिज्ञास्तु शान्तत्वाच्चित्तानामतिवादिनाम् ।
मुनय ऊचुः ।
जन्तुः कृतस्य भोक्ता वै शुभस्य त्वशुभस्य च ॥ २९॥
द्रोहं कृत्वा कुतः शान्तिमाप्नुयान्नष्टचेतनः ।
विश्वासघातकर्तारो नरकं यान्ति निश्चयम् ॥ ३०॥
दुःखं च समवाप्नोति नूनं विश्वासघातकः ।
निष्कृतिर्ब्रह्महन्तॄणां सुरापानां च निष्कृतिः ॥ ३१॥
विश्वासघातिनां नैव मित्रद्रोहकृतामपि ।
समयं ब्रूहि सर्वज्ञ यथा ते चेतसि ध्रुवम् ॥ ३२॥
तेनैव समयेनाद्य सन्धिः स्यादुभयोः किल ।
वृत्र उवाच ।
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा ॥ ३३॥
न वज्रेण महाभाग न दिवा निशि नैव च ।
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ॥ ३४॥
एवं मे रोचते सन्धिः शक्रेण सह नान्यथा ।
व्यास उवाच ।
ऋषयस्तं तदा प्राहुर्बाढमित्येव चादृताः ॥ ३५॥
समयं श्रावयामासुस्तत्रानीय सुरेश्वरम् ।
इन्द्रोऽपि शपथांस्तत्र चकार विगतज्वरः ॥ ३६॥
साक्षिणं पावकं कृत्वा मुनीनां सन्निधौ किल ।
वृत्रस्तु वचनैस्तस्य विश्वासमगमत्तदा ॥ ३७॥
बभूव मित्रवच्छक्रे सहचर्यापरायणः ।
कदाचिन्नन्दने चोभौ कदाचिद्गन्धमादने ॥ ३८॥
कदाचिदुदधेस्तीरे मोदमानौ विचेरतुः ।
एवं कृते च सन्धाने वृत्रः प्रमुदितोऽभवत् ॥ ३९॥
शक्रोऽपि वधकामस्तु तदुपायानचिन्तयत् ।
रन्ध्रान्वेषी समुद्विग्नस्तदासीन्मघवा भृशम् ॥ ४०॥
एवं चिन्तयतस्तस्य कालः समभिवर्तत ।
विश्वासं परमं प्राप वृत्रः शक्रेऽतिदारुणे ॥ ४१॥
एवं कतिचिदब्दानि गतानि समये कृते ।
वृत्रस्य मरणोपायान्मनसीन्द्रोऽप्यचिन्तयत् ॥ ४२॥
त्वष्टैकदा सुतं प्राह विश्वस्तं पाकशासने ।
पुत्र वृत्र महाभाग शृणु मे वचनं हितम् ॥ ४३॥
न विश्वासस्तु कर्तव्यः कृतवैरे कथञ्चन ।
मघवा कृतवैरस्ते सदासूयापरः परैः ॥ ४४॥
लोभान्मत्तो द्वेषरतः परदुःखोत्सवान्वितः ।
परदारलम्पटः स पापबुद्धिः प्रतारकः ॥ ४५॥
रन्ध्रान्वेषी द्रोहपरो मायावी मदगर्वितः ।
यः प्रविश्योदरे मातुर्गर्भच्छेदं चकार ह ॥ ४६॥
सप्तकृत्वः सप्तकृत्वः क्रन्दमानमनातुरः ।
तस्मात्पुत्र न कर्तव्यो विश्वासस्तु कथञ्चन ॥ ४७॥
कृतपापस्य का लज्जा पुनः पुत्र प्रकुर्वतः ।
व्यास उवाच ।
एवं प्रबोधितः पित्रा वचनैर्हेतुसंयुतैः ॥ ४८॥
न बुबोध तदा वृत्र आसन्नमरणः किल ।
स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् ॥ ४९॥
सन्ध्याकाल उपावृत्ते मुहूर्तेऽतीव दारुणे ।
ततः सञ्चिन्त्य मघवा वरदानं महात्मनाम् ॥ ५०॥
सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसो न च ।
हन्तव्योऽयं मया चाद्य बलेनैव न संशयः ॥ ५१॥
एकाकी विजने चात्र सम्प्राप्तः समयोचितः ।
एवं विचार्य मनसा सस्मार हरिमव्ययम् ॥ ५२॥
तत्राजगाम भगवानदृश्यः पुरुषोत्तमः ।
वज्रमध्ये प्रविश्यासौ संस्थितो भगवान्हरिः ॥ ५३॥
इन्द्रो बुद्धिं चकाराशु तदा वृत्रवधं प्रति ।
इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे ॥ ५४॥
अजेयं सर्वथा सर्वदेवैश्च दानवैस्तथा ।
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महाबलम् ॥ ५५॥
न श्रेयो मम नूनं स्यात्सर्वथा रिपुरक्षणात् ।
अपां फेनं तदापश्यत्समुद्रे पर्वतोपमम् ॥ ५६॥
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा ।
अपां फेनं तदा शक्रो जग्राह किल लीलया ॥ ५७॥
परां शक्तिं च सस्मार भक्त्या परमया युतः ।
स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत् ॥ ५८॥
वज्रं तदावृतं तत्र चकार हरिसंयुतम् ।
फेनावृतं पविं तत्र शक्रश्चिक्षेप तं प्रति ॥ ५९॥
सहसा निपपाताशु वज्राहत इवाचलः ।
वासवस्तु प्रहृष्टात्मा बभूव निहते तदा ॥ ६०॥
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ।
हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ॥ ६१॥
देवीं सम्पूजयामास यत्प्रसादाद्धतो रिपुः ।
प्रसादयामास तदा स्तोत्रैर्नानाविधैरपि ॥ ६२॥
देवोद्याने पराशक्तेः प्रासादमकरोद्धरिः ।
पद्मरागमयीं मूर्तिं स्थापयामास वासवः ॥ ६३॥
त्रिकालं महतीं पूजां चक्रुः सर्वेऽपि निर्जराः ।
तदाप्रभृति देवानां श्रीदेवी कुलदैवतम् ॥ ६४॥
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास वासवः ।
ततो हते महावीर्ये वृत्रे देवभयङ्करे ॥ ६५॥
प्रववौ च शिवो वायुर्जहृषुर्देवतास्तथा ।
हते तस्मिन्सगन्धर्वा यक्षराक्षसकिन्नराः ॥ ६६॥
इत्थं वृत्रः पराशक्तिप्रवेशयुतफेनतः ।
तया कृतविमोहाच्च शक्रेण सहसा हतः ॥ ६७॥
ततो वृत्रनिहन्त्रीति देवी लोकेषु गीयते ।
शक्रेण निहतत्वाच्च शक्रेण हत उच्यते ॥ ६८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां षष्ठस्कन्धे छद्मेनेन्द्रेण फेनद्वारा पराशक्ति-
स्मरणमूर्वकं वृत्रहननवर्णनं नाम षष्ठोऽध्यायः ॥ ६.६॥
६.७ सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।
व्यास उवाच ।
अथ तं पतितं दृष्ट्वा विष्णुर्विष्णुपुरीं ययौ ।
मनसा शङ्कमानस्तु तस्य हत्याकृतं भयम् ॥ १॥
इन्द्रोऽपि भयसन्त्रस्तो ययाविन्द्रपुरीं ततः ।
मुनयो भयसंविग्ना ह्यभवन्निहते रिपौ ॥ २॥
किमस्माभिः कृतं पापं यदसौ वञ्चितः किल ।
मुनिशब्दो वृथा जातः सुरेशस्य च सङ्गमात् ॥ ३॥
अस्माकं वचनाद्वृत्रो विश्वासमगमत्किल ।
विश्वासघातिनः सङ्गाद्वयं विश्वासघातकाः ॥ ४॥
धिगियं ममता पापमूलमेवमनर्थकृत् ।
यदस्माभिश्छलं कृत्वा शपथैर्वञ्चितोऽसुरः ॥ ५॥
मन्त्रकृद्बुद्धिदाता च प्रेरकः पापकारिणाम् ।
पापभाक्स भवेन्नूनं पक्षकर्ता तथैव च ॥ ६॥
विष्णुनापि कृतं पापं यत्साहाय्यमवाप्तवान् ।
वज्रं प्रविश्य येनासौ पातितः सत्त्वमूर्तिना ॥ ७॥
नूनं स्वार्थपरः प्राणी न पापात्त्रासमश्नुते ।
हरिणा हरिसङ्गेन सर्वथा दुष्कृतं कृतम् ॥ ८॥
द्वावेव स्तः पदार्थानां द्वावेव निधनं गतौ ।
प्रथमश्च तुरीयश्च यौ त्रिलोक्यां तु दुर्लभौ ॥ ९॥
अर्थकामौ प्रशस्तौ द्वौ सर्वेषां सम्मतौ प्रियौ ।
धर्माधर्मेति वाग्वादो दम्भोऽयं महतामपि ॥ १०॥
मुनयोऽपि मनस्तापमेवं कृत्वा पुनः पुनः ।
जग्मुः स्वानाश्रमानेव विमनस्का हतोद्यमाः ॥ ११॥
त्वष्टा तु निहतं श्रुत्वा पुत्रमिन्द्रेण भारत ।
रुरोद दुःखसन्तप्तो निर्वेदमगमत्पुनः ॥ १२॥
यत्रासौ पतितस्तत्र गत्वा वीक्ष्य तथागतम् ।
संस्कारं कारयामास विधिवत्पारलौकिकम् ॥ १३॥
स्नात्वास्य सलिलं दत्त्वा कृत्वा चैवौर्ध्वदैहिकम् ।
शशापेन्द्रं स शोकार्तः पापिष्ठं मित्रघातकम् ॥ १४॥
यथा मे निहतः पुत्रः प्रलोभ्य शपथैर्भृशम् ।
तथेन्द्रोऽपि महद्दुःखं प्राप्नोतु विधिनिर्मितम् ॥ १५॥
इति शप्त्वा सुरेशानं त्वष्टा तापसमन्वितः ।
मेरोः शिखरमास्थाय तपस्तेपे सुदुष्करम् ॥ १६॥
जनमेजय उवाच ।
हत्वा त्वाष्ट्रं सुरेशोऽथ कामवस्थामवाप्तवान् ।
सुखं वा दुःखमेवाग्रे तन्मे ब्रूहि पितामह ॥ १७॥
व्यास उवाच ।
किं पृच्छसि महाभाग सन्देहः कीदृशस्तव ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १८॥
बलिष्ठैर्दुर्बलैर्वापि स्वल्पं वा बहु वा कृतम् ।
सर्वथैव हि भोक्तव्यं सदेवासुरमानुषैः ॥ १९॥
शक्रायेत्थं मतिर्दत्ता हरिणा वृत्रघातिने ।
प्रविष्टोऽथ पविं विष्णुः सहायः प्रत्यपद्यत ॥ २०॥
न चापदि सहायोऽभूद्वासुदेवः कथञ्चन ।
समये स्वजनः सर्वः संसारेऽस्मिन्नराधिप ॥ २१॥
दैवे विमुखतां प्राप्ते न कोऽप्यस्ति सहायवान् ।
पिता माता तथा भार्या भ्राता वाथ सहोदरः ॥ २२॥
सेवको वापि मित्रं वा पुत्रश्चैव तथौरसः ।
प्रतिकूले गते दैवे न कोऽप्येति सहायताम् ॥ २३॥
भोक्ता पापस्य पुण्यस्य कर्ता भवति सर्वथा ।
वृत्रं हत्वा गताः सर्वे निस्तेजस्कः शचीपतिः ॥ २४॥
शेपुस्तं त्रिदशाः सर्वे ब्रह्महेत्यब्रुवञ्छनैः ।
को नाम शपथान्कृत्वा सत्यं दत्त्वा वचः पुनः ॥ २५॥
जिघांसति सुविश्वस्तं मुनिं मित्रत्वमागतम् ।
देवगोष्ठ्यां सुरोद्याने गन्धर्वाणां समागमे ॥ २६॥
सर्वत्रैव कथा तस्य विस्तारमगमत्किल ।
किं कृतं दुष्कृतं कर्म शक्रेणाद्य जिघांसता ॥ २७॥
वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् ।
वेदप्रमाणमुत्सृज्य स्वीकृतं सौगतं मतम् ॥ २८॥
यदयं निहतः शनुर्वञ्चयित्वातिसाहसात् ।
को नाम वचनं दत्त्वा विपरीतमथाचरेत् ॥ २९॥
विना शक्रं हरिं वापि यथायं विनिपातितः ।
एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम् ॥ ३०॥
शुश्रावेन्द्रोऽपि विविधाः स्वकीर्तेर्हानिकारकाः ।
यस्य कीर्तिर्हता लोके धिक्तस्यैव कुजीवितम् ॥ ३१॥
यं दृष्ट्वा पथि गच्छन्तं शत्रुः स्मेरमुखो भवेत् ।
इन्द्रद्युम्नोऽपि राजर्षिः पतितः कीर्तिसङ्क्षयात् ॥ ३२॥
स्वर्गादकृतपापोऽसौ पापकृत्किं न पात्यते ।
स्वल्पेऽपराधेऽपि नृपो ययातिः पतितः किल ॥ ३३॥
नृपः कर्कटतां प्राप्तो युगानष्टादशैव तु ।
भृगुपत्नीशिरश्छेदाद्भगवान्हरिरच्युतः ॥ ३४॥
ब्रह्मशापात्पशोर्योनौ सञ्जातो मकरादिषु ।
विष्णुश्च वामनो भूत्वा याचनार्थं बलेर्गृहे ॥ ३५॥
गतः किमपरं दुःखं प्राप्नोति दुष्कृती नरः ।
रामोऽपि वनवासेषु सीताविरहजं बहु ॥ ३६॥
दुःखं च प्राप्तवान्घोरं भृगुशापेन भारत ।
तथेन्द्रोऽपि ब्रह्महत्याकृतं प्राप्य महद्भयम् ॥ ३७॥
न स्वास्थ्यं प्राप गेहेऽसौ सर्वसिद्धिसमन्विते ।
पौलोमी तं सभाहीनं दृष्ट्वा प्रोवाच वासवम् ॥ ३८॥
निःश्वसन्तं भयत्रस्तं नष्टसंज्ञं विचेतसम् ।
किं प्रभोऽद्य भयार्तोऽसि मृतस्ते दारुणो रिपुः ॥ ३९॥
का चिन्ता वर्तते कान्त तव शत्रुनिषूदन ।
कस्माच्छोचसि लोकेश निःश्वसन्प्राकृतो यथा ॥ ४०॥
नान्योऽस्ति बलवाञ्छत्रुर्येन चिन्तापरो भवान् ।
इन्द्र उवाच ।
नारातिर्बलवान्मेऽस्ति न शान्तिर्न सुखं तथा ॥ ४१॥
ब्रह्महत्याभयाद्राज्ञि बिभेमि सततं गृहे ।
न नन्दनं सुखकरं नामृतं न गृहं वनम् ॥ ४२॥
गन्धर्वाणां तथा गेयं नृत्यमप्सरसां पुनः ।
न त्वं सुखकरा नारी नाना च सुरयोषितः ॥ ४३॥
न तथा कामधेनुश्च देववृक्षः सुखप्रदः ।
किं करोमि क्व गच्छामि क्व शर्म मम जायते ॥ ४४॥
इति चिन्तापरः कान्ते न लभे सुखमात्मनि ।
व्यास उवाच ।
इत्युक्त्वा वचनं शक्रः प्रियां परमकातराम् ॥ ४५॥
निर्जगाम गृहान्मन्दो मानसं सर उत्तमम् ।
पद्मनाले प्रविष्टोऽसौ भयार्तः शोककर्षितः ॥ ४६॥
न प्राज्ञायत देवेन्द्रस्त्वभिभूतश्च कल्मषैः ।
प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥ ४७॥
असहायस्तुराषाडैच्चिन्तार्तो विकलेन्द्रियः ।
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते ॥ ४८॥
सुराश्चिन्तातुराश्चासन्नुत्पाताश्चाभवन्नथ ।
ऋषयः सिद्धगन्धर्वा भयार्ताश्चाभवन्भृशम् ॥ ४९॥
अराजकं जगत्सर्वमभिभूतमुपद्रवैः ।
अवर्षणं तदा जातं पृथिवी क्षीणवैभवा ॥ ५०॥
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि वै ।
एवं त्वराजके जाते देवता मुनयस्तथा ॥ ५१॥
विचार्य नहुषं चक्रुः शक्रं सर्वे दिवौकसः ।
सम्प्राप्य नहुषो राजा धर्मिष्ठोऽपि रजोबलात् ॥ ५२॥
बभूव विषयासक्तः पञ्चबाणशराहतः ।
अप्सरोभिर्वृतः क्रीडन्देवोद्यानेषु भारत ॥ ५३॥
शक्रपत्नीगुणाञ्छ्रुत्वा चकमे तां स पार्थिवः ।
ऋषीनाह किमिन्द्राणी नोपगच्छति मां किल ॥ ५४॥
भवद्भिश्चामरैः सर्वैः कृतोऽहं वासवस्त्विह ।
प्रेषयध्वं सुराः कामं सेवार्थं मम वै शचीम् ॥ ५५॥
प्रियं चेन्मम कर्तव्यं सर्वथा मुनयोऽमराः ।
अहमिन्द्रोऽद्य देवानां लोकानां च तथेश्वरः ॥ ५६॥
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ।
इति तस्य वचः श्रुत्वा देवा देवर्षयस्तथा ॥ ५७॥
गत्वा चिन्तातुराः प्रोचुः पौलोमीं प्रणतास्ततः ।
इन्द्रपत्नि दुराचारो नहुषस्त्वामिहेच्छति ॥ ५८॥
कुपितोऽस्मानुवाचेदं प्रेषयध्वं शचीमिह ।
किं कुर्मस्तदधीनाः स्मो येनेन्द्रोऽयं कृतः किल ॥ ५९॥
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह ।
रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता ॥ ६०॥
बृहस्पतिरुवाच ।
न भेतव्यं त्वया देवि नहुषात्पापमोहितात् ।
न त्वां दास्याम्यहं वत्से त्यक्त्वा धर्मं सनातनम् ॥ ६१॥
शरणागतमार्तं च यो ददाति नराधमः ।
स एव नरकं याति यावदाभूतसम्प्लवम् ।
स्वस्था भव पृथुश्रोणि न त्यक्ष्ये त्वां कदाचन ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां षष्ठस्कन्धे इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य
देवेन्द्रपदेऽभिषेकवर्णनं नाम सप्तमोऽध्यायः ॥ ६.७॥
६.८ अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।
व्यास उवाच ।
नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् ।
चुक्रोध स्मरबाणार्तस्तमाङ्गिरसमाशु वै ॥ १॥
देवानाहाङ्गिरासूनुर्हन्तव्योऽयं मया किल ।
इतीन्द्राणीं गृहे मूढो रक्षतीति मया श्रुतम् ॥ २॥
इति तं कुपितं दृष्ट्वा देवाः सर्षिपुरोगमाः ।
अब्रुवन्नहुषं घोरं सामपूर्वं वचस्तदा ॥ ३॥
क्रोधं संहर राजेन्द्र त्यज पापमतिं प्रभो ।
निन्दन्ति धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ ४॥
शक्रपत्नी सदा साध्वी जीवमाने पतौ पुनः ।
कथमन्ये पतिं कुर्यात्सुभगातिपतिव्रता ॥ ५॥
त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो ।
त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम् ॥ ६॥
सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम् ।
वारमुख्याश्च शतशो वर्तन्तेऽत्र शचीसमाः ॥ ७॥
रतिस्तु कारणं प्रोक्तं शृङ्गारस्य महात्मभिः ।
रसहानिर्बलात्कारे कृते सति तु जायते ॥ ८॥
उभयोः सदृशं प्रेम यदि पार्थिवसत्तम ।
तदा वै सुखसम्पत्तिरुभयोरुपजायते ॥ ९॥
तस्माद्भावमिमं मुञ्च परदाराभिमर्शने ।
सद्भावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम् ॥ १०॥
ऋद्धिक्षयस्तु पापेन पुण्येनातिविवर्धनम् ।
तस्मात्पापं परित्यज्य सन्मतिं कुरु पार्थिव ॥ ११॥
नहुष उवाच ।
गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः ।
वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा ॥ १२॥
परोपदेशे कुशला प्रभवन्ति नराः किल ।
कर्ता चैवोपदेष्टा च दुर्लभः पुरुषो भवेत् ॥ १३॥
मामागच्छतु सा देवी हितं स्यादद्भुतं हि वः ।
एतस्याः परमं देवाः सुखमेव भविष्यति ॥ १४॥
अन्यथा न हि तुष्येऽहं सत्यमेतद्ब्रवीमि वः ।
विनयाद्वा बलाद्वापि तामाशु प्रापयन्त्विह ॥ १५॥
इति तस्य वचः श्रुत्वा देवाश्च मुनयस्तथा ।
तमूचुश्चातिसन्त्रस्ता नहुषं मदनातुरम् ॥ १६॥
इन्द्राणीमानयिष्यामः सामपूर्वं तवान्तिकम् ।
इत्युक्त्वा ते तदा जग्मुर्बृहस्पतिनिकेतनम् ॥ १७॥
व्यास उवाच ।
ते गत्वाङ्गिरसः पुत्रं प्रोचुः प्राञ्जलयः सुराः ।
जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि ॥ १८॥
सा देया नहुषायाद्य वासवोऽसौ कृतो यतः ।
वृणोत्वियं वरारोहा पतित्वे वरवर्णिनी ॥ १९॥
बृहस्पतिः सुरानाह तच्छ्रुत्वा दारुणं वचः ।
नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम् ॥ २०॥
देवा ऊचुः ।
उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति ।
अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति ॥ २१॥
गुरुरुवाच ।
तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम् ।
करोतु समयं बाला पतिं ज्ञात्वा मृतं भजे ॥ २२॥
इन्द्रे जीवति मे कान्ते कथमन्यं करोम्यहम् ।
अन्वेषणार्थं गन्तव्यं मया तस्य महात्मनः ॥ २३॥
इति सा समयं कृत्वा वञ्चयित्वा च भूपतिम् ।
भर्तुरानयने यत्नं करोतु मम वाक्यतः ॥ २४॥
इति सञ्चिन्त्य मे सर्वे बृहस्पतिपुरोगमाः ।
नहुषं सहिता जग्मुरिन्द्रपत्न्या दिवौकसः ॥ २५॥
तानागतान्ममीक्ष्याह तदा कृत्रिमवासवः ।
जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत् ॥ २६॥
अद्यास्मि वासवः कान्ते भज मां चारुलोचने ।
पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः ॥ २७॥
इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता ।
वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर ॥ २८॥
किञ्चित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् ।
इन्द्रोऽस्तीति न वास्तीति सन्देहो मे हृदि स्थितः ॥ २९॥
ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि ।
तावत्क्षमस्व राजेन्द्र सत्यमेतद्ब्रवीमि ते ॥ ३०॥
न हि विज्ञायते शक्रो नष्टः किं वा क्व वा गतः ।
एवमुक्तः स चेन्द्राण्या नहुषः प्रीतिमानभूत् ॥ ३१॥
व्यसर्जयत्स तां देवीं तथेत्युक्त्वा मुदान्वितः ।
सा विसृष्टा नृपेणाशु गत्वा प्राह सुरान्सती ॥ ३२॥
इन्द्रस्यागमने यत्नं कुरुताद्य कृतोद्यमाः ।
श्रुत्वा तद्वचनं देवा इन्द्राण्या रसवच्छुचि ॥ ३३॥
मन्त्रयामासुरेकाग्राः शक्रार्थं नृपसत्तम ।
ते गत्वा वैष्णवं धाम तुष्टुवुः परमेश्वरम् ॥ ३४॥
आदिदेवं जगन्नाथं शरणागतवत्सलम् ।
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ ३५॥
देवदेव सुरपतिर्ब्रह्महत्याप्रपीडितः ।
अदृश्यः सर्वभूतानां क्वापि तिष्ठति वासवः ॥ ३६॥
त्वद्धिया निहते विप्रे ब्रह्महत्या कुतः प्रभो ।
त्वं गतिस्तस्य भगवन्नस्माकं च तथैव हि ॥ ३७॥
त्राहि नः परमापन्नान्मोक्षं तस्य विनिर्दिश ।
देवानां वचनं श्रुत्वा कातरं विष्णुरब्रवीत् ॥ ३८॥
यजतामश्वमेधेन शक्रपापनिवृत्तये ।
पुण्येन हयमेधेन पावितः पाकशासनः ॥ ३९॥
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ।
हयमेधेन सन्तुष्टा देवी श्रीजगदम्बिका ॥ ४०॥
ब्रह्महत्यादिपापानि नाशयिष्यत्यसंशयम् ।
यस्याः स्मरणमात्रेण पापजालं विनश्यति ॥ ४१॥
किं पुनर्वाजिमेधेन तत्प्रीत्यर्थं कृतेन च ।
इन्द्राणी कुरुतान्नित्यं भगवत्याः प्रपूजनम् ॥ ४२॥
आराधनं शिवायास्तु सुखकारि भविष्यति ।
नहुषोऽपि जगन्मातुर्मायया मोहितः किल ॥ ४३॥
विनाशं स्वकृतेनाशु गमिष्यत्येनसा सुराः ।
पावितश्चाश्वमेधेन तुराषाडपि वैभवम् ॥ ४४॥
प्राप्स्यत्यचिरकालेन स्वमासनमनुत्तमम् ।
ते तु श्रुत्वा शुभां वाणीं विष्णोरमिततेजसः ॥ ४५॥
जग्मुस्तं देशमनिशं यत्रास्ते पाकशासनः ।
तमाश्वास्य सुराः शक्रं बृहस्पतिपुरोगमाः ॥ ४६॥
कारयामासुरखिलं हयमेधं महाक्रतुम् ।
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च ॥ ४७॥
पर्वतेषु पृथिव्यां च स्त्रीषु चैवाक्षिपद्विभुः ।
तां विसृज्य च भूतेषु विपापः पाकशासनः ॥ ४८॥
विज्वरः समभूद्भूयः कालाकाङ्क्षी स्थितो जले ।
अदृश्यः सर्वभूतानां पद्मनाले व्यतिष्ठत ॥ ४९॥
देवास्तु निर्गताः स्थाने कृत्वा कार्यं तदद्भुतम् ।
पौलोमी तु गुरुं प्राह दुःखिता विरहाकुला ॥ ५०॥
कृतयज्ञोऽपि मे भर्ता किमदृश्यः पुरन्दरः ।
कथं द्रक्ष्ये प्रियं स्वामिंस्तमुपायं वदस्व मे ॥ ५१॥
बृहस्पतिरुवाच ।
त्वमाराधय पौलोमि देवीं भगवतीं शिवाम् ।
दर्शयिष्यति ते नाथं देवी विगतकल्मषम् ॥ ५२॥
आराधिता जगद्धात्री नहुषं वारयिष्यति ।
मोहयित्वा नृपं स्थानात्पातयिष्यति चाम्बिका ॥ ५३॥
इत्युक्ता सा तदा तेन पुलोमतनया नृप ।
जग्राह मन्त्रं विधिवद्गुरोर्देव्याः ससाधनम् ॥ ५४॥
विद्यां प्राप्य गुरोर्देवी देवीं श्रीभुवनेश्वरीम् ।
सम्यगाराधयामास बलिपुष्पार्चनैः शुभै ॥ ५५॥
त्यक्तान्यभोगसम्भारा तापसीवेषधारिणी ।
चकार पूजनं देव्याः प्रियदर्शनलालसा ॥ ५६॥
कालेन कियता तुष्टा प्रत्यक्षं दर्शनं ददौ ।
सौम्यरूपधरा देवी वरदा हंसवाहिनी ॥ ५७॥
सूर्यकोटिप्रतीकाशा चन्द्रकोटिसुशीतला ।
विद्युत्कोटिसमानाभा चतुर्वेदसमन्विता ॥ ५८॥
पाशाङ्कुशाभयवरान्दधती निजबाहुभिः ।
आपादलम्बिनीं स्वच्छां मुक्तामालां च बिभ्रती ॥ ५९॥
प्रसन्तस्मेरवदना लोचनत्रयभूषिता ।
आब्रह्मकीटजननी करुणामृतसागरा ॥ ६०॥
अनन्तकोटिब्रह्माण्डनायिका परमेश्वरी ।
सौम्यानन्तरसैर्युक्तस्तनद्वयविराजिता ॥ ६१॥
सर्वेश्वरी च सर्वज्ञा कूटस्थाक्षररूपिणी ।
तामुवाच प्रसन्ना सा शक्रपत्नीं कृतोद्यमाम् ॥ ६२॥
मेघगम्भीरशब्देन मुदमाददती भृशम् ।
देव्युवाच ।
वरं वरय सुश्रोणि वाञ्छितं शक्रवल्लभे ॥ ६३॥
ददाम्यद्य प्रसन्नास्मि पूजिता सुभृशं त्वया ।
वरदाहं समायाता दर्शनं सहजं न मे ॥ ६४॥
अनेककोटिजन्मोत्थपुण्यपुञ्जैर्हि लभ्यते ।
इत्युक्ता सा तदा देवी तामाह प्रणता पुरः ॥ ६५॥
शक्रपत्नी भगवतीं प्रसन्नां परमेश्वरीम् ।
वाञ्छामि दर्शनं मातः पत्युः परमदुर्लभम् ॥ ६६॥
नहुषाद्भयनाशं च स्वपदप्रापणं तथा ।
देव्युवाच ।
गच्छ त्वमनया दूत्या सार्धं श्रीमानसं सरः ॥ ६७॥
यत्र मे मूर्तिरचला विश्वकामाभिधा मता ।
तत्र पश्यसि शक्रं त्वं दुःखितं भयविह्वलम् ॥ ६८॥
मोहयिष्यामि राजानं कालेन कियता पुनः ।
स्वस्था भव विशालाक्षि करोमि तव चेप्सितम् ॥ ६९॥
भ्रंशयिष्यामि भूपालं मोहितं त्रिदशासनात् ।
व्यास उवाच ।
देवीदूती तां गृहीत्वा शक्रपत्नीं त्वरान्विता ॥ ७०॥
प्रापयामास सान्निध्यं स्वपत्युः परमेश्वरीम् ।
सा दृष्ट्वा तं पतिं बाला सुरेशं गुप्तसंस्थितम् ।
मुदिताभूद्वरं वीक्ष्य बहुकालाभिवाञ्छितम् ॥ ७१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे इन्द्राण्या शक्रदर्शनं नामाष्टमोऽध्यायः ॥ ६.८॥
६.९ नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।
व्यास उवाच ।
तां वीक्ष्य विपुलापाङ्गीं रहः शोकसमन्विताम् ।
आखण्डलः प्रियां भार्यां विस्मितश्चाब्रवीत्तदा ॥ १॥
कथमत्रागता कान्ते कथं ज्ञातस्त्वया ह्यहम् ।
दुर्ज्ञेयः सर्वभूतानां संस्थितोऽस्मि शुभानने ॥ २॥
शच्युवाच ।
देव देव्याः प्रसादेन ज्ञातोऽस्यद्य भवानिह ।
पुनस्तस्याः प्रसादेन प्राप्तास्मि त्वां दिवस्पते ॥ ३॥
नहुषो नाम राजर्षिः स्थापितो भवदासने ।
त्रिदशैर्मुनिभिश्चैव स मां बाधति नित्यशः ॥ ४॥
पतिं मां कुरु चार्वङ्गिः तुरासाहं सुराधिपम् ।
एवं वदति मां पाप्मा किं करोमि बलार्दन ॥ ५॥
इन्द्र उवाच ।
कालाकाङ्क्षी वरारोहे संस्थितोऽस्मि यदृच्छया ।
तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु ॥ ६॥
व्यास उवाच ।
इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना ।
निःश्वसन्त्याह तं शक्रं वेपमानातिदुःखिता ॥ ७॥
कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् ।
करिष्यति मदोन्मत्तो वरदानेन गर्वितः ॥ ८॥
देवाश्च मुनयः सर्वे मामूचुस्तद्भयाकुलाः ।
तं भजस्व वरारोहे देवराजं स्मरातुरम् ॥ ९॥
बृहस्पतिस्तु शत्रुघ्न वाडवो बलवर्जितः ।
कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदा ॥ १०॥
तस्माच्चिन्तास्ति महती नार्यहं वशवर्तिनी ।
अनाथा किं करिष्यामि विपरीते विधौ विभो ॥ ११॥
नार्यस्म्यहं न कुलटा त्वच्चित्तातिपतिव्रता ।
नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम् ॥ १२॥
इन्द्र उवाच ।
उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने ।
शीलं ते दुःखिते काले परित्रातं भविष्यति ॥ १३॥
परेण रक्षिता नारी न भवेच्च पतिव्रता ।
उपायैः कोटिभिः कामभिन्नचित्तातिचञ्चला ॥ १४॥
शीलमेव हि नारीणां सदा रक्षति पापतः ।
तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते ॥ १५॥
यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः ।
तदा त्वं समयं कृत्वा गजं वञ्चय भूपतिम् ॥ १६॥
एकान्ते तत्समीपे त्वं गत्वा वद मदालसे ।
ऋषियानेन दिव्येन मामुपैहि जगत्पते ॥ १७॥
एवं तव वशे प्रीता भविष्यामीति मे ततम् ।
इति तं वद सुश्रोणि तदा तु परिमोहितः ॥ १८॥
कामान्धः स मुनीन् याने योजयिष्यति पार्थिवः ।
अवश्यं तापसो भूपं शापदग्धं करिष्यति ॥ १९॥
साहाय्यं जगदम्बा ते करिष्यति न संशयः ।
जगदम्बापदस्मर्तुः सङ्कटं न कदाचन ॥ २०॥
यदि जायेत तच्चापि ज्ञेयं तत्स्वस्तये किल ।
तस्मात्सर्वप्रयत्नेन मणिद्वीपाधिवासिनीम् ॥ २१॥
भज त्वं भुवनेशानीं गुरुवाक्यानुसारतः ।
व्यास उवाच ।
इत्याख्याता शची तेन जगाम नहुषं प्रति ॥ २२॥
तथेत्युक्त्वातिविश्वस्ता भाविकार्ये कृतोद्यमा ।
नहुषस्तां समालोक्य मुदितो वाक्यमब्रवीत् ॥ २३॥
स्वागतं सत्यवचनैस्त्वदधीनोऽस्मि कामिनि ।
दासोऽहं तव सत्येन पालितं वचनं त्वया ॥ २४॥
यदागता समीपे मे तुष्टोऽस्मि मितभाषिणि ।
न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते ॥ २५॥
कार्यं वद विशालाक्षि करिष्यामि तव प्रियम् ।
शच्युवाच ।
सर्वं कृतं त्वया कार्यं मम कृत्रिमवासव ॥ २६॥
मनोरथोऽस्ति मे देव शृणु चित्तेऽधुना विभो ।
वाञ्छितं कुरु कल्याण त्वद्वशाहमतः परम् ॥ २७॥
ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि ।
नहुष उवाच ।
कार्यं त्वं ब्रूहि चन्द्रास्ये करोमि तव वाञ्छितम् ॥ २८॥
अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम् ।
शच्युवाच ।
कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव ॥ २९॥
शपथं कुरु राजेन्द्र यत्करोमि प्रियं तव ।
राजानः सत्यवचसो दुर्लभा एव भूतले ॥ ३०॥
पश्चाद्ब्रवीम्यहं राजन् ज्ञात्वा सत्येन यन्त्रितम् ।
कृते चेद्वाञ्छिते भूप सदा ते वशवर्तिनी ॥ ३१॥
भविष्यामि तुराषाड् वै सत्यमेतद्वचो मम ।
नहुष उवाच ।
अवश्यमेव कर्तव्यं वचनं तव सुन्दरि ॥ ३२॥
शपामि सुकृतेनाहं यज्ञदानकृतेन वै ।
शच्युवाच ।
इन्द्रस्य हरयो वाहा गजश्चैव रथस्तथा ॥ ३३॥
गरुडो वासुदेवस्य यमस्य महिषस्तथा ।
वृषभः शङ्करस्यापि ब्रह्मणो वरटापतिः ॥ ३४॥
मयूरः कार्तिकेयस्य गजास्यस्य तु मूषकः ।
इच्छाम्यहमपूर्वं वै वाहनं ते सुराधिप ॥ ३५॥
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् ।
वहन्तु त्वां महाराज मुनयः संशितव्रताः ॥ ३६॥
सर्वे शिबिकया राजन्नेतद्धि मम वाञ्छितम् ।
सर्वदेवाधिकं त्वां वै जानामि वसुधाधिप ॥ ३७॥
तेन ते तेजसो वृद्धिं वाञ्छाम्यहमतन्द्रिता ।
व्यास उवाच ।
तस्यास्तद्वचनं श्रुत्वा प्रहस्य ज्ञानदुर्बलः ॥ ३८॥
मोहितस्तु महादेव्या कृतमोहेन तत्क्षणम् ।
उवाच वचनं भूपः संस्तुवन्वासवप्रियाम् ॥ ३९॥
नहुष उवाच ।
सत्यमुक्तं त्वया तन्वि वाहनं रुचिरं मम ।
करिष्यामि सुकेशान्ते वचनं तव सर्वथा ॥ ४०॥
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् ।
अहमारुह्य यानेन त्वामेष्यामि शुचिस्मिते ॥ ४१॥
सप्तर्षयो मां वक्ष्यन्ति सर्वे देवर्षयस्तथा ।
समर्थं त्रिषु लोकेषु ज्ञात्वा मां तपसाधिकम् ॥ ४२॥
व्यास उवाच ।
इत्युक्त्वा तां सुसन्तुष्टो विससर्ज हरिप्रियाम् ।
मुनीनाहूय सर्वास्तानित्युवाच स्मरान्वितः ॥ ४३॥
नहुष उवाच ।
अहमिन्द्रोऽद्य भो विप्राः सर्वशक्तिसमन्वितः ।
कार्यमत्र प्रकुर्वन्तु भवन्तो विगतस्मयाः ॥ ४४॥
इन्द्रासनं मया प्राप्तं नेन्द्राणी मामुपैति च ।
आकारिता च मां सूते प्रेमपूर्वमिदं वचः ॥ ४५॥
मुनियानेन देवेन्द्र मामुपैहि सुराधिप ।
देवदेव महाराज मत्प्रियं कुरु मानद ॥ ४६॥
एतत्कार्यं मुनिश्रेष्ठा ममात्यन्तं दुरासदम् ।
भवद्भिस्तु प्रकर्तव्यं सर्वथैव दयालुभिः ॥ ४७॥
मनो दहति मे कामः शक्रपत्न्यां प्रवर्तितम् ।
भवन्तः शरणं मेऽद्य कुरुध्वं कार्यमद्भुतम् ॥ ४८॥
अगस्तिप्रमुखास्तस्य श्रुत्वा वाक्यमसत्करम् ।
अङ्गीचक्रुश्च भावित्वात्कृपया परमर्षयः ॥ ४९॥
अङ्गीकृतेऽथ तद्वाक्ये मुनिभिस्तत्त्वदर्शिभिः ।
मुदं प्राप नृपः कामं पौलोमीकृतमानसः ॥ ५०॥
आरुह्य शिबिकां रम्यां संस्थितस्त्वरयान्वितः ।
वाहात्कृत्वा मुनीन्दिव्यान्सर्प सर्पेति चाब्रवीत् ॥ ५१॥
कामार्तः सोऽस्मृशन्मूढः पादेन मुनिमस्तकम् ।
अगस्तिं तापसश्रेष्ठं लोपामुद्रापतिं तदा ॥ ५२॥
वातापिभक्षकर्तारं समुद्रस्यापि शोषकम् ।
कशया ताडयामास पञ्चबाणशराहतः ॥ ५३॥
इन्द्राणीहृतचित्तोऽसौ सर्पेति प्रब्रुवन्मुनिम् ।
तं शशाप मुनिः क्रुद्धः कशाघातमनुस्मरन् ॥ ५४॥
सर्पो भव दुराचार वने घोरवपुर्महान् ।
बहुवर्षसहस्राणि यत्र क्लेशो महान्भवेत् ॥ ५५॥
विचरिष्यसि वीर्येण पुनः स्वर्गमवाप्स्यसि ।
दृष्ट्वा युधिष्ठिरं नाम तव मोक्षो भविष्यति ॥ ५६॥
प्रश्नानामुत्तरं श्रुत्वा धर्मपुत्रमुखात्ततः ।
व्यास उवाच ।
एवं शप्तः स राजर्षिः स्तुत्वा तं मुनिसत्तमम् ॥ ५७॥
स्वर्गात्पपात सहसा सर्परूपधरोऽभवत् ।
बृहस्पतिस्ततो गत्वा तरसा मानसं प्रति ॥ ५८॥
इन्द्राय सर्ववृत्तान्तं कथयामास विस्तरात् ।
तच्छ्रुत्वा मघवा राज्ञः स्वर्गात्प्रच्यवनादिकम् ॥ ५९॥
मुदितोऽभून्महाराज स्थितस्तत्रैव वासवः ।
देवाश्च मुनयो दृष्ट्वा नहुषं पतितं भुवि ॥ ६०॥
जग्मुः सर्वेऽपि तत्रैव यत्रेन्द्रः सरसि स्थितः ।
तमाश्वास्य सुराः सर्वे मुनिभिः सहितास्तदा ॥ ६१॥
स्वर्गे समानयामासुर्मानपूर्वं शचीपतिम् ।
समागतं ततः शक्रं सर्वे ते मुनयः सुराः ॥ ६२॥
स्थापयित्वाऽऽसने पश्चादभिषेकं दधुः शिवम् ।
इन्द्रोऽपि स्वासनं प्राप्य शच्या सह सुरालये ॥ ६३॥
चिक्रीड नन्दने रम्ये कानने प्रेमयुक्तया ।
व्यास उवाच ।
एवमिन्द्रेण सम्प्राप्तं दुःखं परमदारुणम् ॥ ६४॥
हत्वासुरं कामरूपं विश्वरूपं महामुनिम् ।
पुनर्देव्याः प्रसादेन स्वस्थानं प्राप्तवान्नृप ॥ ६५॥
एतत्ते सर्वमाख्यातं वृत्रासुरवधाश्रयम् ।
यत्पृष्टोऽहं त्वया राजन् कथानकमनुत्तमम् ॥ ६६॥
यादृशं कुरुते कर्म तादृशं फलमाप्नुयात् ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ६७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां षष्ठस्कन्धे
नहुषस्वर्गच्युतिवर्णनं नाम नवमोऽध्यायः ॥ ६.९॥
६.१० दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।
जनमेजय उवाच ।
कथितं चरितं ब्रह्मञ्छक्रस्याद्भुतकर्मणः ।
स्थानभ्रंशस्तथा दुःखप्राप्तिरुक्ता विशेषतः ॥ १॥
यत्र देवाधिदेव्याश्च महिमातीव वर्णितः ।
सन्देहोऽत्र ममाप्यस्ति यच्छक्रोऽपि महातपाः ॥ २॥
देवाधिपत्यमासाद्य दुःसहं दुःखमन्वभूत् ।
मखानां तु शतं कृत्वा प्राप्तं स्थानमनुत्तमम् ॥ ३॥
देवेशत्वं च सम्प्राप्य भ्रष्टः स्थानादसौ कथम् ।
एतत्सर्वं समाचक्ष्व कारणं करुणानिधे ॥ ४॥
सर्वज्ञोऽसि मुनिश्रेष्ठ पुराणानां प्रवर्तकः ।
नावाच्यं महतां किञ्चिच्छिष्ये च श्रद्धयान्विते ॥ ५॥
तस्मात्कुरु महाभाग मत्सन्देहापनोदनम् ।
सूत उवाच ।
इति पृष्टः स राज्ञा वै तदा सत्यवतीसुतः ॥ ६॥
तमाहातिप्रसन्नात्मा यथानुक्रममुत्तरम् ।
व्यास उवाच ।
निबोध नृपतिश्रेष्ठ कारणं परमाद्भुतम् ॥ ७॥
कर्मणस्तु त्रिधा प्रोक्ता गतिस्तत्त्वविदां वरैः ।
सञ्चितं वर्तमानं च प्रारब्धमिति भेदतः ॥ ८॥
अनेकजन्मसञ्जातं प्राक्तनं सञ्चितं स्मृतम् ।
सात्त्विकं राजसं कर्म तामसं त्रिविधं पुनः ॥ ९॥
शुभं वाप्यशुभं भूप सञ्चितं बहुकालिकम् ।
अवश्यमेव भोक्तव्यं सुकृतं दुष्कृतं तथा ॥ १०॥
जन्मजन्मनि जीवानां सञ्चितानां च कर्मणाम् ।
निःशेषस्तु क्षयो नाभूत्कल्पकोटिशतैरपि ॥ ११॥
क्रियमाणं च यत्कर्म वर्तमानं तदुच्यते ।
देहं प्राप्य शुभं वापि ह्यशुभं वा समाचरेत् ॥ १२॥
सञ्चितानां पुनर्मध्यात्समाहृत्य कियान्किल ।
देहारम्भे च समये कालः प्रेरयतीव तत् ॥ १३॥
प्रारब्धं कर्म विज्ञेयं भोगात्तस्य क्षयः स्मृतः ।
प्राणिभिः खलु भोक्तव्यं प्रारब्धं नात्र संशयः ॥ १४॥
पुरा कृतानि राजेन्द्र ह्यशुभानि शुभानि च ।
अवश्यमेव कर्माणि भोक्तव्यानीति निश्चयः ॥ १५॥
देवैर्मनुष्यैरसुरैर्यक्षगन्धर्वकिन्नरैः ।
कर्मैव हि महाराज देहारम्भस्य कारणम् ॥ १६॥
कर्मक्षये जन्मनाशः प्राणिनां नात्र संशयः ।
ब्रह्मा विष्णुस्तथा रुद्र इन्द्राद्याश्च सुरास्तथा ॥ १७॥
दानवा यक्षगन्धर्वाः सर्वे कर्मवशा किल ।
अन्यथा देहसम्बन्धः कथं भवति भूपते ॥ १८॥
कारणं यस्तु भोगस्य देहिनः सुखदुःखयोः ।
तस्मादनेकजन्मोत्थसञ्चितानां च कर्मणाम् ॥ १९॥
मध्ये वेगः समायाति कस्यचित्कालपाकतः ।
तत्प्रारब्धवशात्पुण्यं करोति च यथा तथा ॥ २०॥
पापं करोति मनुजस्तथा देवादयोऽपि च ।
तथा नारायणो राजन्नरश्च धर्मजावुभौ ॥ २१॥
जातौ कृष्णार्जुनौ काममंशौ नारायणस्य तौ ।
पुराणपीठिकेयं वै मुनिभिः परिकीर्तिता ॥ २२॥
देवांशः स तु विज्ञेयो यो भवेद्विभवाधिकः ।
नानृषिः कुरुते काव्यं नारुद्रो रुद्रमर्चते ॥ २३॥
नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः ।
इन्द्रादग्नेर्यमाद्विष्णोर्धनदादिति भूपते ॥ २४॥
प्रभुत्वं च प्रभावं च कोपं चैव पराक्रमम् ।
आदाय क्रियते नूनं शरीरमिति निश्चयः ॥ २५॥
यः कश्चिद्बलवाँल्लोके भाग्यवानथ भोगवान् ।
विद्यावान्दानवान्वापि स देवांशः प्रपढ्यते ॥ २६॥
तथैवैते मयाख्याता पाण्डवाः पृथिवीपते ।
देवांशो वासुदेवोऽपि नारायणसमद्युतिः ॥ २७॥
शरीरं प्राणिनां नूनं भाजनं सुखदुःखयोः ।
शरीरी प्राप्नुयात्कामं सुखं दुःखमनन्तरम् ॥ २८॥
देही नास्ति वशः कोऽपि दैवाधीनः सदैव हि ।
जननं मरणं दुःखं सुखं प्राप्नोति चावशः ॥ २९॥
पाण्डवास्ते वने जाताः प्राप्तास्तु स्वगृहं पुनः ।
स्वबाहुबलतः पश्चाद्राजसूयं क्रतूत्तमम् ॥ ३०॥
वनवासं पुनः प्राप्ता बहुदुःखकरं परम् ।
अर्जुनेन तपस्तप्तं दुष्करं ह्यजितेन्द्रियैः ॥ ३१॥
सन्तुष्टैस्तु सुरैर्दत्तं वरदानं पुनः शुभम् ।
नरदेहकृतं पुण्यं क्व गतं वनवासजम् ॥ ३२॥
नरदेहे तपस्तप्तं चोग्रं बदरिकाश्रमे ।
नार्जुनस्य शरीरे तत्फलदं सम्बभूव ह ॥ ३३॥
प्राणिनां देहसम्बन्धे गहना कर्मणो गतिः ।
दुर्ज्ञेया सर्वथा देवैर्मानवानां तु का कथा ॥ ३४॥
वासुदेवोऽपि सञ्जातः कारागारेऽतिसङ्कटे ।
नीतोऽसौ वसुदेवेन नन्दगोपस्य गोकुलम् ॥ ३५॥
एकादशैव वर्षाणि संस्थितस्तत्र भारत ।
पुनः स मथुरां गत्वा जघानोग्रसुतं बलात् ॥ ३६॥
मोचयामास पितरौ बन्धनाद्भृशदुःखितौ ।
उग्रसेनं च राजानञ्चकार मधुरापुरे ॥ ३७॥
जगाम द्वारवत्यां स म्लेच्छराजभयात्पुनः ।
सर्वं भाविवशात्कृष्णः कृतवान्पौरुषं महत् ॥ ३८॥
कृत्वा कार्याण्यनेकानि द्वारवत्यां जनार्दनः ।
देहं त्यक्त्वा प्रभासे तु सकुटुम्बो दिवं गतः ॥ ३९॥
पुत्राः पौत्राश्च सुहृदो भ्रातरो जामयस्तथा ।
प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥ ४०॥
एवं ते कथिता राजन् कर्मणो गहना गतिः ।
वासुदेवोऽपि व्याधस्य बाणेन निधनं गतः ॥ ४१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां षष्ठस्कन्धे कर्मणां
गहनगतिवर्णनं नाम दशमोऽध्यायः ॥ ६.१०॥
६.११ एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।
जनमेजय उवाच ।
भारावतारणार्थाय कथितं जन्म कृष्णयोः ।
संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्ठति ॥ १॥
पृथिवी गोस्वरूपेण ब्रह्माणं शरणं गता ।
द्वापरान्तेऽतिदीनार्ता गुरुभारप्रपीडिता ॥ २॥
वेधसा प्रार्थितो विष्णुः कमलापतिरीश्वरः ।
भूभारोत्तारणार्थाय साधूनां रक्षणाय च ॥ ३॥
भगवन् भारते खण्डे देवैः सह जनार्दन ।
अवतारं गृहाणाशु वसुदेवगृहे विभो ॥ ४॥
एवं सम्प्रार्थितो धात्रा भगवान्देवकीसुतः ।
बभूव सह रामेण भूभारोत्तारणाय वै ॥ ५॥
कियानुत्तारितो भारो हत्वा दुष्टाननेकशः ।
ज्ञात्वा सर्वान्दुराचारान्पापबुद्धिनृपानिह ॥ ६॥
हतो भीष्मो हतो द्रोणो विराटो द्रुपदस्तथा ।
बाह्लीकः सोमदत्तश्च कर्णो वैकर्तनस्तथा ॥ ७॥
यैर्लुण्ठितं धनं सर्वं हृताश्च हरियोषितः ।
कथं न नाशिता दुष्टा ये स्थिताः पृथिवीतले ॥ ८॥
आभीराश्च शका म्लेच्छा निषादाः कोटिशस्तथा ।
भारावतरणं किं तत्कृतं कृष्णेन धीमता ॥ ९॥
सन्देहोऽयं महाभाग न निवर्तति चित्ततः ।
कलावस्मिन्मजाः सर्वाः पश्यतः पापनिश्चयाः ॥ १०॥
व्यास उवाच ।
राजन् यस्मिन्युगे यादृक्प्रजा भवति कालतः ।
नान्यथा तद्भवेन्नूनं युगधर्मोऽत्र कारणम् ॥ ११॥
ये धर्मरसिका जीवास्ते वै सत्ययुगेऽभवन् ।
धर्मार्थरसिका ये तु ते वै त्रेतायुगेऽभवन् ॥ १२॥
धर्मार्थकामरसिका द्वापरे चाभवन्युगे ।
अर्थकामपराः सर्वे कलावस्मिन्भवन्ति हि ॥ १३॥
युगधर्मस्तु राजेन्द्र न याति व्यत्ययं पुनः ।
कालः कर्तास्ति धर्मस्य ह्यधर्मस्य च वै पुनः ॥ १४॥
राजोवाच ।
ये तु सत्ययुगे जीवा भवन्ति धर्मतत्पराः ।
कुत्र तेऽद्य महाभाग तिष्ठन्ति पुण्यभागिनः ॥ १५॥
त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः ।
वर्तन्ते मुनयः श्रेष्ठाः कुत्र ब्रूहि पितामह ॥ १६॥
कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः ।
आद्ये युगे क्व यास्यन्ति पापिष्ठा देवनिन्दकाः ॥ १७॥
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ।
सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम् ॥ १८॥
व्यास उवाच ।
ये वै कृतयुगे राजन् सम्भवन्तीह मानवाः ।
कृत्वा ते पुण्यकर्माणि देवलोकान्व्रजन्ति वै ॥ १९॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम ।
स्वधर्मनिरता यान्ति लोकान्कर्मजितान्किल ॥ २०॥
सत्यं दया तथा दानं स्वदारगमनं तथा ।
अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु ॥ २१॥
एतत्साधारणं धर्मं कृत्वा सत्ययुगे पुनः ।
स्वर्गं यान्तीतरे वर्णा धर्मतो रजकादयः ॥ २२॥
तथा त्रेतायुगे राजन् द्वापरेऽथ युगे तथा ।
कलावस्मिन्युगे पापा नरकं यान्ति मानवाः ॥ २३॥
तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः ।
पुनश्च मानुषे लोके भवन्ति भुवि मानवाः ॥ २४॥
यदा सत्ययुगस्यादिः कलेरन्तश्च पार्थिव ।
तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः ॥ २५॥
यदा कलियुगस्यादिर्द्वापरस्य क्षयस्तथा ।
नरकात्पापिनः सर्वे भवन्ति भुवि मानवाः ॥ २६॥
एवं कालसमाचारो नान्यथाभूत्कदाचन ।
तस्मात्कलिरसत्कर्ता तस्मिंस्तु तादृशी प्रजा ॥ २७॥
कदाचिद्दैवयोगात्तु प्राणिनां व्यत्ययो भवेत् ।
कलौ ये साधवः केचिद्द्वापरे सम्भवन्ति ते ॥ २८॥
तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा ।
दुष्टाः सत्ययुगे ये तु ते भवन्ति कलावपि ॥ २९॥
कृतकर्मप्रभावेण प्राप्नुवन्त्यसुखानि च ।
पुनश्च तादृशं कर्म कुर्वन्ति युगभावतः ॥ ३०॥
जनमेजय उवाच ।
युगधर्मान्महाभाग ब्रूहि सर्वानशेषतः ।
यस्मिन्वै यादृशो धर्मो ज्ञातुमिच्छामि तं तथा ॥ ३१॥
व्यास उवाच ।
निबोध नृपशार्दूल दृष्टान्तं ते ब्रवीम्यहम् ।
साधूनामपि चेतांसि युगभावाद्भ्रमन्ति हि ॥ ३२॥
पितुर्यथा ते राजेन्द्र वुद्धिर्विप्रावहेलने ।
कृता वै कलिना राजन् धर्मज्ञस्य महात्मनः ॥ ३३॥
अन्यथा क्षत्रियो राजा ययातिकुलसम्भवः ।
तापसस्य गले सर्पं मृतं कस्मादयोजयत् ॥ ३४॥
सर्वं युगबलं राजन्वेदितव्यं विजानता ।
प्रयत्नेन हि कर्तव्यं धर्मकर्म विशेषतः ॥ ३५॥
नूनं सत्ययुगे राजन् ब्राह्मणा वेदपारगाः ।
पराशक्त्यर्चनरता देवीदर्शनलालसाः ॥ ३६॥
गायत्रीप्रणवासक्ता गायत्रीध्यानकारिणः ।
गायत्रीजपसंसक्ता मायाबीजैकजापिनः ॥ ३७॥
ग्रामे ग्रामे पराम्बायाः प्रासादकरणोत्सुकाः ।
स्वकर्मनिरताः सर्वे सत्यशौचदयान्विताः ॥ ३८॥
त्रय्युक्तकर्मनिरतास्तत्त्वज्ञानविशारदाः ।
अभवन्क्षत्रियास्तत्र प्रजाभरणतत्पराः ॥ ३९॥
वैश्यास्तु कृषिवाणिज्यगोसेवानिरतास्तथा ।
शूद्राः सेवापरास्तत्र पुण्ये सत्ययुगे नृप ॥ ४०॥
पराम्बापूजनासक्ताः सर्वे वर्णाः परे युगे ।
तथा त्रेतायुगे किञ्चिन्न्यूना धर्मस्य संस्थितिः ॥ ४१॥
द्वापरे च विशेषेण न्यूना सत्ययुगस्थितिः ।
पूर्वं ये राक्षसा राजन् ते कलौ ब्राह्मणाः स्मृताः ॥ ४२॥
पाखण्डनिरताः प्रायो भवन्ति जनवञ्चकाः ।
असत्यवादिनः सर्वे वेदधर्मविवर्जिताः ॥ ४३॥
दाम्भिका लोकचतुरा मानिनो वेदवर्जिताः ।
शूद्रसेवापराः केचिन्नानाधर्मप्रवर्तकाः ॥ ४४॥
वेदनिन्दाकराः क्रूरा धर्मभ्रष्टातिवादुकाः ।
यथा यथा कलिर्वृद्धिं याति राजंस्तथा तथा ॥ ४५॥
धर्मस्य सत्यमूलस्य क्षयः सर्वात्मना भवेत् ।
तथैव क्षत्रिया वैश्याः शूद्राश्च धर्मवर्जिताः ॥ ४६॥
असत्यवादिनः पापास्तथा वर्णेतराः कलौ ।
शूद्रधर्मरता विप्राः प्रतिग्रहपरायणाः ॥ ४७॥
भविष्यन्ति कलौ राजन् युगे वृद्धिं गताः किल ।
कामचाराः स्त्रियः कामलोभमोहसमन्विताः ॥ ४८॥
पापा मिथ्याभिवादिन्यः सदा क्लेशरता नृप ।
स्वभर्तृवञ्जका नित्यं धर्मभाषणपण्डिताः ॥ ४९॥
भवन्त्येवंविधा नार्यः पापिष्ठाश्च कलौ युगे ।
आहारशुद्ध्या नृपते चित्तशुद्धिस्तु जायते ॥ ५०॥
शुद्धे चित्ते प्रकाशः स्याद्धर्मस्य नृपसत्तम ।
वृत्तसङ्करदोषेण जायते धर्मसङ्करः ॥ ५१॥
धर्मस्य सङ्करे जाते नूनं स्याद्वर्णसङ्करः ।
एवं कलियुगे भूप सर्वधर्मविवर्जिते ॥ ५२॥
स्ववर्णधर्मवार्तैषा न कुत्राप्युपलभ्यते ।
महान्तोऽपि च धर्मज्ञा अधर्मं कुर्वते नृप ॥ ५३॥
कलिस्वभाव एवैष परिहार्यो न केनचित् ।
तस्मादत्र मनुष्याणां स्वभावात्पापकारिणाम् ॥ ५४॥
निष्कृतिर्न हि राजेन्द्र सामान्योपायतो भवेत् ।
जनमेजय उवाच ।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ ५५॥
कलावधर्मबहुले नराणां का गतिर्भवेत् ।
यद्यस्ति तदुपायश्चेद्दयया तं वदस्व मे ॥ ५६॥
व्यास उवाच ।
एक एव महाराज तत्रोपायोऽस्ति नापरः ।
सर्वदोषनिरासार्थं ध्यायेद्देवीपदाम्बुजम् ॥ ५७॥
न सन्त्यघानि तावन्ति यावती शक्तिरस्ति हि ।
नास्ति देव्याः पापदाहे तस्माद्भीतिः कुतो नृप ॥ ५८॥
अवशेनापि यन्नाम लीलयोच्चारितं यदि ।
किं किं ददाति तज्ज्ञातुं समर्था न हरादयः ॥ ५९॥
प्रायश्चित्तं तु पापानां श्रीदेवीनामसंस्मृतिः ।
तस्मात्कलिभयाद्राजन् पुण्यक्षेत्रे वसेन्नरः ॥ ६०॥
निरन्तरं पराम्बाया नामसंस्मरणं चरेत् ।
छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत् ॥ ६१॥
देवीं नमति भक्त्या यो न स पापैर्विलिप्यते ।
रहस्यं सर्वशास्त्राणां मया राजन्नुदीरितम् ॥ ६२॥
विमृश्यैतदशेषेण भज देवीपदाम्बुजम् ।
अजपां नाम गायत्रीं जपन्ति निखिला जनाः ॥ ६३॥
महिमानं न जानन्ति मायाया वैभवं महत् ।
गायत्रीं ब्राह्मणाः सर्वे जपन्ति हृदयान्तरे ॥ ६४॥
महिमानं न जानन्ति मायाया वैभवं महत् ।
एतत्सर्वं समाख्यातं यत्पृष्टं तत्त्वया नृप ।
युगधर्मव्यवस्थायां किं भूयः श्रोतुमिच्छसि ॥ ६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे युगधर्मव्यवस्थावर्णनं नामकादशोऽध्यायः ॥ ६.११॥
६.१२ द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।
राजोवाच ।
तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम ।
गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा ॥ १॥
फलं च यादृशं यत्र तीर्थेषु स्नानदानतः ।
विधिं तु तीर्थयात्रायां नियमांश्च विशेषतः ॥ २॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि तीर्थानि विविधानि च ।
येषु तीर्थेषु देवीनां प्रशस्तान्यायनानि च ॥ ३॥
नदीनां जाह्नवी श्रेष्ठा यमुना च सरस्वती ।
नर्मदा गण्डकी सिन्धुर्गोमती तमसा तथा ॥ ४॥
कावेरी चन्द्रभागा च पुण्या वेत्रवती शुभा ।
चर्मण्वती च सरयूस्तापी साभ्रमती तथा ॥ ५॥
एताश्च कथिता राजन्नन्याश्च शतशः पुनः ।
तासां समुद्रगाः पुण्याः स्वल्पपुण्या ह्यनब्धिगाः ॥ ६॥
समुद्रगानां ताः पुण्याः सर्वदौघवहास्तु याः ।
मासद्वयं श्रावणादौ ताश्च सर्वा रजस्वलाः ॥ ७॥
भवन्ति वृष्टियोगेन ग्राम्यवारिवहास्तथा ।
पुष्करं च कुरुक्षेत्रं धर्मारण्यं सुपावनम् ॥ ८॥
प्रभासं च प्रयागं च नैमिषारण्यमेव च ।
विश्रुतं चार्बुदारण्यं शैलाश्च पावनास्तथा ॥ ९॥
श्रीशैलश्च सुमेरुश्च पर्वतो गन्धमादनः ।
सरांसि चैव पुण्यानि मानसं सर्वविश्रुतम् ॥ १०॥
तथा बिन्दुसरः श्रेष्ठमच्छोदं नाम पावनम् ।
आश्रमास्तु तथा पुण्या मुनीनां भावितात्मनाम् ॥ ११॥
विश्रुतस्तु सदा पुण्यः ख्यातो बदरिकाश्रमः ।
नरनारायणौ यत्र तेपाते तौ मुनी तपः ॥ १२॥
वामनाश्रम आख्यातः शतयूपाश्रमस्तथा ।
येन यत्र तपस्तप्तं तस्य नाम्नातिविश्रुतः ॥ १३॥
एवं पुण्यानि स्थानानि ह्यसङ्ख्यातानि भूतले ।
मुनिभिः परिगीतानि पावनानि महीपते ॥ १४॥
एषु स्थानेषु सर्वत्र देवीस्थानानि भूपते ।
दर्शनात्पापहारीणि वसन्ति नियमेन च ॥ १५॥
कथयिष्यामि तान्यग्रे प्रसङ्गेन च कानिचित् ।
तीर्थानि नृप दानानि व्रतानि च मखास्तथा ॥ १६॥
तपांसि पुण्यकर्माणि सापेक्षाणि महीपते ।
द्रव्यशुद्धिं क्रियाशुद्धिं मनःशुद्धिमपेक्ष्य च ॥ १७॥
पावनानि हि तीर्थानि तपांसि च व्रतानि च ।
कदाचिद्द्रव्यशुद्धिः स्यात्क्रियाशुद्धिः कदाचन ॥ १८॥
दुर्लभा मनसः शुद्धिः सर्वेषां सर्वदा नृप ।
मनस्तु चञ्चलं राजन्ननेकविषयाश्रितम् ॥ १९॥
कथं शुद्धं भवेद्राजन्नानाभावसमाश्रितम् ।
कामक्रोधौ तथा लोभो ह्यहङ्कारो मदस्तथा ॥ २०॥
सर्वविघ्नकरा ह्येते तपस्तीर्थव्रतेषु च ।
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ॥ २१॥
स्वधर्मपालनं राजन् सर्वतीर्थफलप्रदम् ।
नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः ॥ २२॥
व्यर्थं तीर्थाधिगमनं पापमेवावशिष्यते ।
क्षालयन्ति हि तीर्थानि सर्वथा देहजं मलम् ॥ २३॥
मानसं क्षालितुं तानि न समर्थानि वै नृप ।
शक्तानि यदि चेत्तानि गङ्गातीरनिवासिनः ॥ २४॥
मुनयो द्रोहसंयुक्ताः कथं स्युर्भावितेश्वराः ।
वसिष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल ॥ २५॥
रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा ।
चित्तशुद्धिमयं तीर्थं गङ्गादिभ्योऽतिपावनम् ॥ २६॥
यदि स्याद्दैवयोगेन क्षालयत्यान्तरं मलम् ।
विशेषेण तु सत्सङ्गो ज्ञाननिष्ठस्य भूपते ॥ २७॥
न वेदा न च शास्त्राणि न व्रतानि तपांसि न ।
न मखा न च दानानि चित्तशुद्धेस्तु कारणम् ॥ २८॥
वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः ।
रागद्वेषान्वितः कामं गङ्गातीरसमाश्रितः ॥ २९॥
आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः ।
जातं निरर्थकं द्वेषाद्देवानां विस्मयप्रदम् ॥ ३०॥
विश्वामित्रो बकस्तत्र जातः परमतापसः ।
शप्तः स तु वसिष्ठेन हरिश्चन्द्रस्य कारणात् ॥ ३१॥
कौशिकेन वसिष्ठोऽपि शस्त्वाडीदेहभाक्कृतः ।
शापादाडीबकौ जातौ तौ मुनी विशदप्रभौ ॥ ३२॥
निवासं प्रापतुस्तीरे सरसो मानसस्य च ।
चक्रतुर्दारुणं युद्धं नखचञ्चुप्रताडनैः ॥ ३३॥
वर्षाणामयुतं यावत्तावृषी रोषसंयुतौ ।
युयुधाते मदोन्मत्तौ सिंहाविव परस्परम् ॥ ३४॥
राजोवाच ।
कथं तौ मुनिशार्दूलौ तापसौ धर्मतत्परौ ।
परस्परं वैरपरौ सञ्जातौ केन हेतुना ॥ ३५॥
शापं परस्परं केन कारणेन महामती ।
दत्तवन्तौ मिथः क्लेशकारकौ दुःखदौ नृणाम् ॥ ३६॥
व्यास उवाच ।
हरिश्चन्द्रो नृपश्रेष्ठस्त्रिशङ्कुतनयः पुरा ।
बभूव रविवंशीयो रामचन्द्रस्य पूर्वजः ॥ ३७॥
अनपत्यः स राजर्षिर्वरुणाय महाक्रतुम् ।
प्रतिजज्ञे पुत्रकामो नरमेधं दुरासदम् ॥ ३८॥
वरुणस्तस्य सन्तुष्टो यज्ञस्य नियमे कृते ।
दधार गर्भं राज्ञस्तु भार्या परमसुन्दरी ॥ ३९॥
राजा बभूव सन्तुष्टो दृष्ट्वा भार्यां सदोहदाम् ।
चकार विधिवत्कर्म गर्भसंस्कारकारकम् ॥ ४०॥
सुषुवे तनयं नारी सर्वलक्षणसंयुतम् ।
मुदं प्राप नृपस्तत्र पुत्रे जाते विशाम्पते ॥ ४१॥
कृतवाञ्जातकर्मादिसंस्कारविधिमुत्तमम् ।
ददौ हिरण्यं गा दोग्धीर्ब्राह्मणेभ्यो विशेषतः ॥ ४२॥
जन्मोत्सवेऽतिसंवृत्ते गेहे वै यादसाम्पतिः ।
आजगाम महाराज विप्रवेषधरस्तथा ॥ ४३॥
पूजितः पार्थिवेनाथ दत्त्वा विधिवदासनम् ।
कार्ये पृष्टेऽब्रवीद्वाक्यं वरुणोऽस्मीति भूपतिम् ॥ ४४॥
कुरु यज्ञं सुतं कृत्वा पशुं परमपावनम् ।
सत्यवाग्भव राजेन्द्र सङ्कल्पस्तु त्वया कृतः ॥ ४५॥
तच्छ्रुत्वा वचनं राजा विह्वलोऽतिव्यथाकुलः ।
संस्तभ्याधिं नृपः प्राह वरुणं सत्कृताञ्जलिः ॥ ४६॥
स्वामिन्करोमि तं यज्ञं सर्वथा विधिपूर्वकम् ।
मया ते यत्प्रतिज्ञातं भवामि सत्यवागहम् ॥ ४७॥
पूर्णे मासे विशुध्येत धर्मपत्नी सुरोत्तम ।
विशुद्धायां तु भार्यायां कर्तव्यः स पशोर्मखः ॥ ४८॥
व्यास उवाच ।
इत्युक्ते वचने राज्ञा वरुणः स्वगृहं गतः ।
राजा बभूव सन्तुष्टः किञ्चिच्चिन्तातुरस्तथा ॥ ४९॥
पूर्णे मासि पुनः पाशी परीक्षार्थं नृपालये ।
आजगाम द्विजो भूत्वा सुवेषः सुष्ठुभाषकः ॥ ५०॥
कृतार्हणं सुखासीनं भूपतिस्तं सुरोत्तमम् ।
उवाच विनयोपेतो हेतुगर्भं वचस्तदा ॥ ५१॥
असंस्कृतं सुतं स्वामिन्यूपे बध्नामि तं कथम् ।
संस्कत्य क्षत्रियं कृत्वा यजेऽहं यज्ञमुत्तमम् ॥ ५२॥
दयसे यदि देव त्वं ज्ञात्वा दीनं स्वसेवकम् ।
असंस्कृतस्य बालस्य नाधिकारोऽस्ति कुत्रचित् ॥ ५३॥
वरुण उवाच ।
प्रतारयसि राजेन्द्र कृत्वा समयमग्रतः ।
दुस्त्यजस्तव जानामि सुतस्नेहो ह्यपुत्रिणः ॥ ५४॥
गृहं व्रजामि भूपाल वचनात्तव कोमलात् ।
कियत्कालं प्रतीक्ष्याहमागमिष्यामि ते गृहम् ॥ ५५॥
भवितव्यं त्वया तात तदा सत्यवचोऽन्वितम् ।
अन्यथा त्वयि मुञ्चामि कोपं शापसमन्वितम् ॥ ५६॥
राजोवाच ।
समावर्तनकर्मान्ते सर्वथा यादसाम्पते ।
कृत्वा पुत्रपशुं यज्ञे यजिष्ये विधिपूर्वकम् ॥ ५७॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं राज्ञो वरुणः प्रीतमानसः ।
तथेत्युक्त्वा ययौ तूर्णं नृपस्तु सुस्थितोऽभवत् ॥ ५८॥
रोहिताख्य इति ख्यातः सुतस्तस्य विवृद्धिमान् ।
सञ्जातश्चतुरः सर्वविद्यानां च विशारदः ॥ ५९॥
यज्ञस्य कारणं तेन ज्ञातं सर्वं सविस्तरम् ।
भयभीतस्ततः सोऽपि मत्वा मरणमात्मनः ॥ ६०॥
कृत्वा पलायनं वीरो गतोऽसौ गिरिगह्वरे ।
अगम्ये नृपतिस्थाने स्थितस्तत्र भयातुरः ॥ ६१॥
प्राप्ते कालेऽथ वरुणो यज्ञार्थी नृपतेर्गृहम् ।
गत्वा तमाह भूपालं कुरु यज्ञं विशाम्पते ॥ ६२॥
प्रम्लानवदनो राजा तमाह व्यथितेन्द्रियः ।
किं करोमि गतः क्वापि सुतो मे सुरसत्तम ॥ ६३॥
श्रुत्वा तद्वचनं राज्ञः कुपितो यादसाम्पतिः ।
शशाप तं नृपं कोपादसत्यवादिनं भृशम् ॥ ६४॥
जलोदराभिधो व्याधिर्देहे भवतु ते नृप ।
यतः प्रतारितश्चाहं कृत्वा कपटपण्डित ॥ ६५॥
इति शप्त्वा ययौ धाम स्वकं पाशधरस्तदा ।
राजा चिन्तातुरस्तस्थौ भवने व्याधिपीडितः ॥ ६६॥
यदातिव्याधितो राजा रोगेण शापजेन ह ।
तदा शुश्राव पुत्रोऽपि पितरं व्याधिपीडितम् ॥ ६७॥
पान्थिकः प्राह पुत्रं हि पिता ते भृशदुःखितः ।
जलोदरविकारेण शापजेन नृपात्मज ॥ ६८॥
विनष्टं जीवितं तेऽद्य वृथा जातस्य दुर्मते ।
यत्त्यक्त्वा पितरं दुःस्थं प्राप्तोऽसि गिरिगह्वरम् ॥ ६९॥
किमनेन शरीरेण प्राप्तं ते जन्मनः फलम् ।
देहदं दुःखितं कृत्वा स्थितोऽस्यत्र सुताधम ॥ ७०॥
प्राणास्त्याज्याः पितुः कार्ये सत्पुत्रेणेति निश्चयः ।
त्वदर्थे दुःखितो राजा क्रन्दति व्याधिपीडितः ॥ ७१॥
व्यास उवाच ।
तदाकर्ण्य वचस्तथ्यं पान्थिकाद्धर्मसंयुतम् ।
यदा चक्रे मनो गन्तुं द्रष्टुं तातं व्यथातुरम् ॥ ७२॥
तदा विप्रवपुर्भूत्वा वासवस्तमुपागमत् ।
रहः प्राह हितं वाक्यं दयावानिव भारत ॥ ७३॥
मूर्खोऽसि राजपुत्र त्वं गमनाय मतिं वृथा ।
करोषि पितरं त्वद्य न जानासि व्यथायुतम् ॥ ७४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनं नाम द्वादशोऽध्यायः ॥ ६.१२॥
६.१३ त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।
इन्द्र उवाच ।
साहसं कृतवान् राजा पूर्वं यत्कथितो मखः ।
वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम् ॥ १॥
गते त्वयि पिता पुत्रं बद्ध्वा यूपेऽघृणः पुनः ।
पशुं कृत्वा महाबुद्धे वधिष्यति व्यथातुरः ॥ २॥
इत्थं निषिद्धस्तत्पुत्रः शक्रेणामिततेजसा ।
स्थितस्तत्रैव मायेशीमायया मोहितो भृशम् ॥ ३॥
यदा पुनः पुनः श्रुत्वा पितरं रोगपीडितम् ।
गमनाय मतिं चक्रे तदेन्द्रः प्रत्यषेधयत् ॥ ४॥
हरिश्चन्द्रोऽतिदुःखार्तः पप्रच्छ गुरुमन्तिके ।
स्थितं वसिष्ठमेकान्ते सर्वज्ञं हिततत्परम् ॥ ५॥
राजोवाच ।
भगवन् कि करोम्यद्य कातरोऽस्मि व्यथाकुलः ।
त्राहि मां दुःखमनसं महाव्याधिभयातुरम् ॥ ६॥
वसिष्ठ उवाच ।
शृणु राजन्नुपायोऽस्ति रोगनाशं प्रति स्तुतः ।
त्रयोदशविधाः पुत्राः कथिता धर्मसङ्ग्रहे ॥ ७॥
तस्मात्क्रीतं सुतं कृत्वा यजस्व मखमुत्तमम् ।
द्रव्यं दत्त्वा यथोद्दिष्टमानयस्व द्विजोत्तमम् ॥ ८॥
एवं कृते मखे भूप रोगनाशो भविष्यति ।
वरुणोऽपि प्रसन्नात्मा भविष्यति यथासुखम् ॥ ९॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा राजा प्रोवाच मन्त्रिणम् ।
अन्वेषय महाबुद्धे विषयेष्वतियत्नतः ॥ १०॥
कदाचित्कोऽपि लोभार्थी ददाति स्वसुतं पिता ।
समानय धनं दत्त्वा यावत्प्रार्थयतेऽप्यसौ ॥ ११॥
सर्वथैव समानेयो यज्ञार्थे द्विजबालकः ।
न कार्या कृपणा बुद्धिस्त्वया मत्कार्यहेतवे ॥ १२॥
प्रार्थनीयस्त्वया पुत्रः कस्यचिद्द्विजवादिनः ।
द्रव्येण देहि यज्ञार्थं कर्तव्योऽसौ पशुः किल ॥ १३॥
इति सञ्चोदितस्तेन सचिवः कार्यहेतवे ।
अन्वेषयामास पुरे ग्रामे ग्रामे गृहे गृहे ॥ १४॥
एवमन्वेषतस्तस्य विषये कश्चिदातुरः ।
निर्धनस्त्रिसुतश्चासीदजीगर्तेति नामतः ॥ १५॥
तस्य पुत्रं शुनःशेपं मध्यमं मन्त्रिसत्तमः ।
आनयामास दत्त्वार्थं प्रार्थितं यद्धनं तदा ॥ १६॥
समानीय शुनःशेपं सचिवः कार्यतत्परः ।
राज्ञे निवेदयामास पशुयोग्यं द्विजात्मजम् ॥ १७॥
राजातिमुदितस्तेन विप्रानानीय सर्वतः ।
कारयामास सम्भारान्यज्ञार्थं वेदवित्तमान् ॥ १८॥
प्रारब्धे तु मखे तत्र विश्वामित्रो महामुनिः ।
बद्धं दृष्ट्वा शुनःशेपं निषिषेध नृपं तदा ॥ १९॥
राजन्मा साहसं कार्षीर्मुञ्चैनं द्विजबालकम् ।
प्रार्थयाम्यहमायुष्मन् सुखं तेऽद्य भविष्यति ॥ २०॥
क्रन्दत्ययं शुनःशेपः करुणा मां दुनोत्यपि ।
दयावान्भव राजेन्द्र कुरु मे वचनं नृप ॥ २१॥
परदेहस्य रक्षायै स्वदेहं ये दयापराः ।
ददति क्षत्रियाः पूर्वं स्वर्गकामाः शुचिव्रताः ॥ २२॥
त्वं स्वदेहस्य रक्षार्थं हंसि द्विजसुतं बलात् ।
पापं मा कुरु राजेन्द्र दयावान् भव बालके ॥ २३॥
सर्वेषां सदृशी प्रीतिर्देहे वेत्सि स्वयं नृप ।
मुञ्चैनं बालकं तस्मात्प्रमाणं यदि मे वचः ॥ २४॥
व्यास क्त्वच
अनादृत्य च तद्वाक्यं राजा दुःखातुरो भृशम् ।
न मुमोच मुनिस्तस्मै चूकोपातीव तापसः ॥ २५॥
उपदेशं ददौ तस्मै शुनःशेपाय कौशिकः ।
मन्त्रं पाशधरस्याथ दयावान्वेदवित्तमः ॥ २६॥
शुनःशेपोऽपि तं मन्त्रमसकृद्वधकर्शितः ।
स्तुतस्वरेण चुक्रोश संस्मरन्वरुणं भृशम् ॥ २७॥
स्तुवन्तं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः ।
तत्रागत्य शुनःशेपं मुमोच करुणार्णवः ॥ २८॥
रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ ।
विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः ॥ २९॥
न कृतं वचनं राज्ञा कौशिकस्य महात्मनः ।
रोषं दधार मनसा राजोपरि स गाधिजः ॥ ३०॥
एकस्मिन्समये राजा हयारूढो वनं गतः ।
सूकरं हन्तुकामस्तु मध्याह्ने कौशिकीतटे ॥ ३१॥
वृद्धब्राह्मणवेषेण विश्वामित्रेण वञ्चितः ।
सर्वस्वं प्रार्थितं तस्य गृहीतं राज्यमद्भुतम् ॥ ३२॥
पीडितोऽसौ हरिश्चन्द्रो यजमानो यतो भृशम् ।
वसिष्ठः कौशिकं प्राह वने प्राप्तं यदृच्छया ॥ ३३॥
क्षत्रियाधम दुर्बुद्धे वृथा ब्राह्मणवेषभृत् ।
बकधर्म वृथा किं त्वं गर्वं वहसि दाम्भिक ॥ ३४॥
कस्मात्त्वया नृपश्रेष्ठो यजमानो ममाप्यसौ ।
अपराधं विना जाल्म गमितो दुःखमद्भुतम् ॥ ३५॥
बकध्यानपरो यस्मात्तस्मात्त्वं वै बको भव ।
इति शप्तो वसिष्ठेन कौशिकः प्राह तं पुनः ॥ ३६॥
त्वमप्याडिर्भवायुष्मन् बकोऽहं यावदेव हि ।
व्यास उवाच ।
एवं परस्परं दत्त्वा शापं तौ क्रोधपीडितौ ॥ ३७॥
अण्डजौ तरसा जातौ सरस्याडीबकौ मुनी ।
एकस्मिन्पादपे नीडं कृत्वासौ बकरूपभाक् ॥ ३८॥
विश्वामित्रः स्थितस्तत्र दिव्ये सरसि मानसे ।
अन्यस्मित्पादपे कृत्वा वसिष्ठो नीडमुत्तमम् ॥ ३९॥
आडीरूपधरस्तस्थावन्योन्यं द्वेषतत्परौ ।
दिने दिने तौ सङ्ग्रामं चक्रतुः क्रोधसंयुतौ ॥ ४०॥
दुःखदं सर्वलोकानां क्रन्दमानावुभौ भृशम् ।
चञ्चुपक्षप्रहारैस्तु नखाघातैः परस्परम् ॥ ४१॥
जघ्नतू रुधिरक्लिनौ पुष्पिताविव किंशुकौ ।
एवं बहूनि वर्षाणि पक्षिरूपधरौ मुनी ॥ ४२॥
स्थितौ तत्र महाराज शापपाशेन यन्त्रितौ ।
राजोवाच ।
कथं मुक्तौ मुनिश्रेष्ठौ शापाद्वसिष्ठकौशिकौ ॥ ४३॥
तन्ममाचक्ष्व विप्रर्षे परं कौतूहलं हि मे ।
व्यास उवाच ।
युध्यमानाब्वुभौ दृष्ट्वा ब्रह्मा लोकपितामहः ॥ ४४॥
तत्राजगामानिमिषैर्वृतः सर्वैर्दयापरैः ।
तावाश्वास्य जगत्कर्ता युद्धतो विनिवार्य च ॥ ४५॥
शापं सम्मोचयामास तयोः क्षिप्तं परस्परम् ।
ततो जग्मुः सुराः सर्वे स्वानि धिष्ण्यानि पद्मभूः ॥ ४६॥
सत्यलोकं जगामाशु हंसारूढः प्रतापवान् ।
विश्वामित्रोऽप्यगात्तूर्णं वसिष्ठः स्वाश्रमं गतः ॥ ४७॥
मिथः स्नेहं ततः कृत्वा प्रजापत्युपदेशतः ।
मैत्रावरुणिनाप्येवं कृतं युद्धमकारणम् ॥ ४८॥
कौशिकेन समं भूप दुःखदं च परस्परम् ।
को नाम मानवो लोके देवो वा दानवोऽपि वा ॥ ४९॥
अहङ्कारजयं कृत्वा सर्वदा सुखभाग्भवेत् ।
तस्माद्राजंश्चित्तशुद्धिर्महतामपि दुर्लभा ॥ ५०॥
यत्नेन साधनीया सा तद्विहीनं निरर्थकम् ।
तीर्थं दानं तपः सत्यं यत्किञ्चिद्धर्मसाधनम् ॥ ५१॥
(श्रद्धात्र त्रिविधा प्रोक्ता सात्त्विकी राजसी तथा ।
तामसी सर्वदेहेषु देहिनां धर्मकर्मसु ॥
सात्त्विकी दुर्लभा लोके यथोक्तफलदा सदा ।
तदर्धफलदा प्रोक्ता राजसी विधिसंयुता ॥
तामसी त्वफला राजन्न तु कीर्तिकरी पुनः ।
कामक्रोधाभिभूतानां जनानां नृपसत्तम ॥)
वासनारहितं कृत्वा तच्चित्तं श्रवणादिना ।
तीर्थादिषु वसेन्नित्यं देवीपूजनतत्परः ॥ ५२॥
देवीनामानि वचसा गृह्णंस्तस्या गुणान्स्तुवन् ।
ध्यायंस्तस्याः पदाम्भोजं कलिदोषभयार्दितः ॥ ५३॥
एवं तु कुर्वतस्तस्य न कदाचित्कलेर्भयम् ।
अनायासेन संसारान्मुच्यते पातकी जनः ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ६.१३॥
६.१४ चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।
जनमेजय उवाच ।
मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् ।
वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह ॥ १॥
किमसौ कर्मतो नाम प्राप्तवान् गुणतस्तथा ।
ब्रूहि मे वदतांश्रेष्ठ कारणं तस्य नामजम् ॥ २॥
व्यास उवाच ।
निबोध नृपतिश्रेष्ठ वसिष्ठो ब्रह्मणः सुतः ।
निमिशापात्तनुं त्यक्त्वा पुनर्जातो महाद्युतिः ॥ ३॥
मित्रावरुणयोर्यस्मात्तस्मात्तन्नाम विश्रुतम् ।
मैत्रावरुणिरित्यस्मिँल्लोके सर्वत्र पार्थिव ॥ ४॥
राजोवाच ।
कस्माच्छप्तः स धर्मात्मा राज्ञा ब्रह्मात्मजो मुनिः ।
चित्रमेतन्मुनिं लग्नो राज्ञः शापोऽतिदारुणः ॥ ५॥
अनागसं मुनिं राजा किमसौ शप्तवान्मुने ।
कारणं वद धर्मज्ञ तस्य शापस्य मूलतः ॥ ६॥
व्यास उवाच ।
कारणं तु मया प्रोक्तं तव पूर्वं विनिश्चितम् ।
संसारोऽयं त्रिभिर्व्याप्तो राजन्मायागुणैः किल ॥ ७॥
धर्मं करोतु भूपालश्चरन्तु तापसास्तपः ।
सर्वेषां तु गुणैर्विद्धं नोज्ज्वलं तद्भवेदिह ॥ ८॥
कामक्रोधाभिभूताश्च राजानो मुनयस्तथा ।
लोभाहङ्कारसंयुक्ताश्चरन्ति दुश्चरं तपः ॥ ९॥
यजन्ति क्षत्रिया राजन् रजोगुणसमावृताः ।
ब्राह्मणास्तु तथा राजन् न कोऽपि सत्त्वसंयुतः ॥ १०॥
ऋषिणासौ निमिः शप्तस्तेन शप्तो मुनिः पुनः ।
दुःखाद्दुःखतरं प्राप्तावुभावपि विधेर्बलात् ॥ ११॥
द्रव्यशुद्धिः क्रियाशुद्धिर्मनसः शुद्धिरुज्ज्वला ।
दुर्लभा प्राणिनां भूप संसारे त्रिगुणात्मके ॥ १२॥
पराशक्तिप्रभावोऽयं नोल्लङ्घ्यः केनचित्क्वचित् ।
यस्यानुगृहमिच्छेत्सा मोचयत्येव तं क्षणात् ॥ १३॥
महान्तोऽपि न मुच्यन्ते हरिब्रह्महरादयः ।
पामरा अपि मुच्यन्ते यथा सत्यव्रतादयः ॥ १४॥
तस्यास्तु हृदयं कोऽपि न वेत्ति भुवनत्रये ।
तथापि भक्तवश्येयं भवत्येव सुनिश्चितम् ॥ १५॥
तस्मात्तद्भक्तिरास्थेया दोषनिर्भूलनाय च ।
रागदम्भादियुक्ता चेत्सा भक्तिर्नाशिनी भवेत् ॥ १६॥
इक्ष्याकुकुलसम्भूतो निमिर्नाम नराधिपः ।
रूपवान् गुणसम्पन्नो धर्मज्ञो लोकरञ्जकः ॥ १७॥
सत्यवादी दानपरो याजको ज्ञानवाच्छुचिः ।
द्वादशस्तनयो धीमान्प्रजापालनतत्परः ॥ १८॥
पुरं निवेशयामास गौतमाश्रमसन्निधौ ।
जयन्तपुरसंज्ञं तु ब्राह्मणानां हिताय सः ॥ १९॥
बुद्धिस्तस्य समुत्पन्ना यजेयमिति राजसी ।
यज्ञेन बहुकालेन दक्षिणासंयुतेन च ॥ २०॥
इस्वाकुं पितरं पृष्ट्वा यज्ञकार्याय पार्थिवः ।
कारयामास सम्भारं यथोद्दिष्टं महात्मभिः ॥ २१॥
भृगुमङ्गिरसं चैव वामदेवं च गौतमम् ।
वसिष्ठं च पुलस्त्यं च ऋचीकं पुलहं क्रतुम् ॥ २२॥
मुनीनामन्त्रयामास सर्वज्ञान्वेदपारगान् ।
यज्ञविद्याप्रवीणांश्च तापसान्वेदवित्तमान् ॥ २३॥
राजा सम्भृतसम्भारः सम्पूज्य गुरुमात्मनः ।
वसिष्ठं प्राह धर्मज्ञो विनयेन समन्वितः ॥ २४॥
यजेयं मुनिशार्दूल याजयस्व कृपानिधे ।
गुरुस्त्वं सर्ववेत्तासि कार्यं मे कुरु साम्प्रतम् ॥ २५॥
यज्ञोपकरणं सर्वं समानीतं सुसंस्कृतम् ।
पञ्चवर्षसहस्रं तु दीक्षां कर्तुं मतिश्च मे ॥ २६॥
यस्मिन्यज्ञे समाराध्या देवी श्रीजगदम्बिका ।
तत्प्रीत्यर्थमहं यज्ञं करोमि विधिपूर्वकम् ॥ २७॥
तच्छ्रुत्वासौ निमेर्वाक्यं वसिष्ठः प्राह भूपतिम् ।
इन्द्रेणाहं वृतः पूर्वं यज्ञार्थं नृपसत्तम ॥ २८॥
पराशक्तिमखं कर्तुमुद्युक्तः पाकशासनः ।
स दीक्षां गमितो देवः पञ्चवर्षशतात्मिकाम् ॥ २९॥
तस्मात्त्वमन्तरं तावत्प्रतिपालय पार्थिव ।
इन्द्रयज्ञे समाप्तेऽत्र कृत्वा कार्यं दिवस्पतेः ॥ ३०॥
आगमिष्याम्यहं राजंस्तावत्त्वं प्रतिपालय ।
राजोवाच ।
मया निमन्त्रिताश्चान्ये मुनयो यज्ञकारणात् ॥ ३१॥
सम्भाराः सम्भृताः सर्वे पालयामि कथं गुरो ।
इक्ष्वाकूणां कुले ब्रह्मन्गुरुस्त्वं वेदवित्तमः ॥ ३२॥
कथं त्यक्त्वाद्य मे कार्यमुद्यतो गन्तुमाशु वै ।
न ते युक्तं द्विजश्रेष्ठ यदुत्सृज्य मखं मम ॥ ३३॥
गन्तासि धनलोभेन लोभाकुलितचेतनः ।
निवारितोऽपि राज्ञा स जगामेन्द्रमखं गुरुः ॥ ३४॥
राजापि विमना भूत्वा गौतमं प्रत्यपूजयत् ।
इयाज हिमवत्पार्श्वे सागरस्य समीपतः ॥ ३५॥
दक्षिणा बहुला दत्ता विप्रेभ्यो मखकर्मणि ।
निमिना पञ्चसाहस्री दीक्षा तत्र कृता नृप ॥ ३६॥
ऋत्विजः पूजिताः कामं धनैर्गोभिर्मुदा युताः ।
शक्रयज्ञसमाप्ते तु पञ्चवर्षशतात्मके ॥ ३७॥
आजगाम वसिष्ठस्तु राज्ञः सत्रदिदृक्षया ।
आगत्य संस्थितस्तत्र दर्शनार्थं नृपस्य च ॥ ३८॥
तदा राजा प्रसुप्तस्तु निद्रयापहृतो भृशम् ।
नासौ प्रबोधितो भृत्यैर्नागतस्तु मुनिं नृपः ॥ ३९॥
वसिष्ठस्य ततो मन्युः प्रादुर्भूतोऽवमानतः ।
अदर्शनान्निमेस्तत्र चुकोप मुनिसत्तमः ॥ ४०॥
शापं च दत्तवांस्तस्मै राज्ञे मन्युवशं गतः ।
यस्मात्त्वं मां गुरुं त्यक्त्वा कृत्वान्यं गुरुमात्मनः ॥ ४१॥
दीक्षितोऽसि बलान्मन्द मामवज्ञाय पार्थिव ।
वारितोऽपि मया तस्माद्विदेहस्त्वं भविष्यसि ॥ ४२॥
पतत्विदं शरीरं ते विदेहो भव भूपते ।
व्यास उवाच ।
इति तद्व्याहृतं श्रुत्वा राज्ञस्तु परिचारकाः ॥ ४३॥
सद्यः प्रबोधयामासुर्मुनिमाहुः प्रकोपितम् ।
कुपितं तं समागत्य राजा विगतकल्मषः ॥ ४४॥
उवाच वचनं श्लक्ष्णं हेतुगर्भं च युक्तिमत् । ।
मम दोषो न धर्मज्ञ गतस्त्वं तृष्णयाऽऽकुलः ॥ ४५॥
हित्वा मां यजमानं वै प्रार्थितोऽपि मया भृशम् ।
न लज्जसे द्विजश्रेष्ठ कृत्वा कर्म जुगुप्सितम् ॥ ४६॥
सन्तोषे ब्राह्मणश्रेष्ठ जानन्धर्मस्य निश्चयम् ।
पुत्रोऽसि ब्रह्मणः साक्षाद्वेदवेदाङ्गवित्तमः ॥ ४७॥
न वेत्सि विप्रधर्मस्य गतिं सूक्ष्मां दुरत्ययाम् ।
आत्मदोषं मयि ज्ञात्वा मृषा मां शस्तुमिच्छसि ॥ ४८॥
त्याज्यस्तु सुजनैः क्रोधश्चण्डालादधिको यतः ।
वृथा क्रोधपरीतेन मयि शापः प्रपातितः ॥ ४९॥
तवापि च पतत्वद्य देहोऽयं क्रोधसंयुतः ।
एवं शप्तो मुनी राज्ञा राजा च मुनिना तथा ॥ ५०॥
परस्परं प्राप्य शापं दुःखितौ तौ बभूवतुः ।
वसिष्ठस्त्वतिचिन्तार्तो ब्रह्माणं शरणं गतः ॥ ५१॥
निवेदयामास तथा शापं भूपकृतं महत् ।
वसिष्ट उवाच ।
राज्ञा शप्तोऽस्मि देहोऽयं पतत्वद्य तवेति वै ॥ ५२॥
किं करोमि पितः प्राप्यं कष्टं कायप्रपातजम् ।
अन्यदेहसमुत्पत्तौ जनकं वद साम्प्रतम् ॥ ५३॥
तथा मे देहसंयोगः पूर्ववत्समपद्यताम् ।
यादृशं ज्ञानमेतस्मिन्देहे तत्रास्तु तत्पितः ॥ ५४॥
समर्थोऽसि महाराज प्रसादं कर्तुमर्हसि ।
वसिष्ठस्य वचः श्रुत्वा ब्रह्मा प्रोवाच तं सुतम् ॥ ५५॥
मित्रावरुणयोस्तेजस्त्वं प्रविश्य स्थिरो भव ।
तस्मादयोनिजः काले भविता त्वं न संशयः ॥ ५६॥
पुनर्देहं समासाद्य धर्मयुक्तो भविष्यसि ।
भूतात्मा वेदवित्कामं सर्वज्ञः सर्वपूजितः ॥ ५७॥
एवमुक्तस्तदा पित्रा प्रययौ वरुणालयम् ।
कृत्वा प्रदक्षिणं प्रीत्या प्रणम्य च पितामहम् ॥ ५८॥
विवेश स तयोर्देहे मित्रावरुणयोः किल ।
जीवांशेन वसिष्ठोऽथ त्यक्त्वा देहमनुत्तमम् ॥ ५९॥
कदाचित्तूर्वशी राजन्नागता वरुणालयम् ।
यदृच्छया वरारोहा सखीगणसमावृता ॥ ६०॥
दृष्ट्वा तामप्सरां दिव्यां रूपयौवनसंयुताम् ।
जातौ कामातुरौ देवौ तदा तामूचतुर्नृप ॥ ६१॥
विवशौ चारुसर्वाङ्गीं देवकन्यां मनोरमाम् ।
आवां त्वमनवद्याङ्गि वरयस्व समाकुलौ ॥ ६२॥
विहरस्व यथाकामं स्थानेऽस्मिन्वरवर्णिनि ।
तथोक्ता सा ततो देवी ताभ्यां तत्र स्थितावशा ॥ ६३॥
कृत्वा भावं स्थिरं देवी मित्रावरुणयोर्गृहे ।
सा गृहीत्वा तयोर्भावं संस्थिता चारुदर्शना ॥ ६४॥
तयोस्तु पतितं वीर्यं कुम्भे दैवादनावृते ।
तस्माज्जातौ मुनी राजन्द्वावेवातिमनोहरौ ॥ ६५॥
अगस्तिः प्रथमस्तत्र वसिष्ठश्चापरस्तथा ।
मित्रावरुणयोर्वीर्यात्तापसावृषिसत्तमौ ॥ ६६॥
प्रथमस्तु वनं प्राप्तो बाल एव महातपाः ।
इक्ष्वाकुस्तु वसिष्ठं तं बालं वव्रे पुरोहितम् ॥ ६७॥
वंशस्यास्य सुखार्थं ते पालयामास पार्थिव ।
विशेषेण मुनिं ज्ञात्वा प्रीत्या युक्तो बभूव ह ॥ ६८॥
एतत्ते सर्वमाख्यातं वसिष्ठस्य च कारणम् ।
शापाद्देहान्तरप्राप्तिर्मित्रावरुणयोः कुले ॥ ६९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनं नाम चतुर्दशोऽध्यायः ॥ ६.१४॥
६.१५ पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।
जनमेजय उवाच ।
देहप्राप्तिर्वसिष्ठस्य कथिता भवता किल ।
निमिः कथं पुनर्देहं प्राप्तवानिति मे वद ॥ १॥
व्यास उवाच ।
वसिष्ठेन च सम्प्राप्तः पुनर्देहो नराधिप ।
निमिना न तथा प्राप्तो देहः शापादनन्तरम् ॥ २॥
यदा शप्तो वसिष्ठेन तदा ते ब्राह्मणाः क्रतौ
ऋत्विजो ये वृता राज्ञा ते सर्वे समचिन्तयन् ॥ ३॥
किं कर्तव्यमहोऽस्माभिः शापदग्धो महीपतिः ।
अस्मिन्यज्ञे त्वसम्पूर्णे दीक्षायुक्तश्च धार्मिकः ॥ ४॥
किं कर्तव्यं कार्यमेतद्विपरीतमभूत्किल ।
अवश्यम्भाविभावत्वादशक्ताः स्म निवारणे ॥ ५॥
मन्त्रैर्बहुविधैर्देहं तदा तस्य महात्मनः ।
रक्षितं धारयामासुः किञ्चिच्छ्वसनसंयुतम् ॥ ६॥
गन्धैर्माल्यैश्च विविधैः पूज्यमानं मुहुर्मुहुः ।
मन्त्रशक्त्या प्रतिष्टभ्य निर्विकारं सुपूजितम् ॥ ७॥
समाप्ते च क्रतौ तत्र देवाः सर्वे समागताः ।
ऋत्विग्भिस्तु स्तुताः सर्वे सुप्रीताश्चाभवन्नृप ॥ ८॥
विज्ञप्ता मुनिभिः स्तोत्रैर्निर्विण्णात्मानमब्रुवन् ।
प्रसन्नाः स्म महीपाल वरं वरय सुव्रत ॥ ९॥
यज्ञेनानेन राजर्षे वरं जन्म विधीयते ।
देवदेहं नृदेहं वा यत्ते मनसि वाञ्छितम् ॥ १०॥
दृप्तः कामं पुरोधास्ते मृत्युलोके यथासुखम् ।
एवमुक्तो निमेरात्मा सन्तुष्टस्तानुवाच ह ॥ ११॥
न देहे मम वाञ्छास्ति सर्वदैव विनश्वरे ।
वासो मे सर्वसत्त्वानां दृष्टावस्तु सुरोत्तमाः ॥ १२॥
नेत्रेषु सर्वभूतानां वायुभूतश्चराम्यहम् ।
एवमुक्ताः सुरास्तत्र निमेरात्मानमब्रुवन् ॥ १३॥
प्रार्थय त्वं महाराज देवीं सर्वेश्वरीं शिवाम् ।
मखेनानेन सन्तुष्टा सा तेऽभीष्टं विधास्यति ॥ १४॥
स देवैरेवमुक्तस्तु प्रार्थयामास देवताम् ।
स्तोत्रैर्नानाविधैर्दिव्यैर्भक्त्या गद्गदया गिरा ॥ १५॥
प्रसन्ना सा तदा देवी प्रत्यक्षं दर्शनं ददौ ।
कोटिसूर्यप्रतीकाशं रूपं लावण्यदीपितं । १६
दृष्ट्वा प्रमुदिताः सर्वे कृतकृत्याश्च चेतसि ।
प्रसन्नायां देवतायां राजा वव्रे वरं नृप ॥ १७॥
ज्ञानं तद्विमलं देहि येन मोक्षो भवेदपि ।
नेत्रेषु सर्वभूतानां निवासो मे भवेदिति ॥ १८॥
ततः प्रसन्ना देवेशी प्रोवाच जगदम्बिका ।
ज्ञानं ते विमलं भूयात्प्रारब्धस्यावशेषतः ॥ १९॥
नेत्रेषु सर्वभूतानां निवासोऽपि भविष्यति ।
निमिषं यान्ति चक्षूंषि त्वत्कृतेनैव देहिनाम् ॥ २०॥
तव वासात्सनिमिषा मानवाः पशवस्तथा ।
पतङ्गाश्च भविष्यन्ति पुनश्चानिमिषाः सुराः ॥ २१॥
इति दत्त्वा वरं तस्मै तदा श्रीवरदेवता ।
आमन्त्र्य च मुनीन्सर्वांस्तत्रैवान्तर्हिताभवत् ॥ २२॥
अन्तर्हितायां देव्यां तु मुनयस्तत्र संस्थिताः ।
विचिन्त्य विथिवत्सर्वे निमेर्देहं समाहरन् ॥ २३॥
अरणिं तत्र संस्थाप्य ममन्धुर्मन्त्रवत्तदा ।
मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेरथ ॥ २४॥
अरण्यां मथ्यमानायां पुत्रः प्रादुरभूत्तदा ।
सर्वलक्षणसम्पन्नः साक्षान्निमिरिवापरः ॥ २५॥
अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः ।
येनायं जनकाज्जातस्तेनासौ जनकोऽभवत् ॥ २६॥
विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये ।
समुद्भूतास्तु राजानो विदेहा इति कीर्तिताः ॥ २७॥
एवं निमिसुतो राजा प्रथितो जनकोऽभवत् ।
नगरी निर्मिता तेन गङ्गातीरे मनोहरा ॥ २८॥
मिथिलेति सुविख्याता गोपुराट्टालसंयुता ।
धनधान्यसमायुक्ता हट्टशालाविराजिता ॥ २९॥
वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा ।
विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः ॥ ३०॥
एतत्ते कथितं राजन्निमेराख्यानमुत्तमम् ।
शापाद्यस्य विदेहत्वं विस्तरादुदितं मया ॥ ३१॥
राजोवाच ।
भगवन्भवता प्रोक्तं निमिशापस्य कारणम् ।
श्रुत्वा सन्देहमापन्नं मनो मेऽतीव चञ्चलम् ॥ ३२॥
वसिष्ठो ब्राह्मणः श्रेष्ठो राज्ञश्चैव पुरोहितः ।
पुत्रः पङ्कजयोनेस्तु राज्ञा शप्तः कथं मुनिः ॥ ३३॥
गुरुं च ब्राह्मणं ज्ञात्वा निमिना न कृता क्षमा ।
यज्ञकर्म शुभं कृत्वा कथं क्रोधमुपागतः ॥ ३४॥
ज्ञात्वा धर्मस्य विज्ञानं कथमिक्ष्वाकुसम्भवः ।
क्रोधस्य वशमापन्तः शप्तवान्ब्राह्मणं गुरुम् ॥ ३५॥
व्यास उवाच ।
क्षमातिदुर्लभा राजन्प्राणिभिरजितात्मभिः ।
क्षमावान्दुर्लभो लोके सुसमर्थो विशेषतः ॥ ३६॥
सर्वसङ्गपरित्यागी मुनिर्भवतु तापसः ।
निद्राक्षुधोर्विजेता च योगाभ्यासे सुनिष्ठितः ॥ ३७॥
कामः क्रोधस्तथा लोभो ह्यहङ्कारश्चतुर्थकः ।
दुर्ज्ञेया देहमध्यस्था रिपवस्तेन सर्वथा ॥ ३८॥
न भूतपूर्वः संसारे न चैव वर्ततेऽधुना ।
भविता न पुमान्कश्चिद्यो जयेत रिपूनिमान् ॥ ३९॥
न स्वर्गे न च भूलोके ब्रह्मलोके हरेः पदे ।
कैलासे नेदृशः कश्चिद्यो जयेत रिपूनिमान् ॥ ४०॥
मुनयो ब्रह्मपुत्राश्च तथान्ये तापसोत्तमाः ।
तेऽपि गुणत्रयाविद्धाः किं पुनर्मानवा भुवि ॥ ४१॥
कपिलः साङ्ख्यवेत्ता च योगाभ्यासरतः शुचिः ।
तेनापि दैवयोगाद्धि प्रदग्धाः सगरात्मजाः ॥ ४२॥
तस्माद्राजन्नहङ्कारात्सञ्जातं भुवनत्रयम् ।
कार्यकारणभावात्तु तद्वियुक्तं कथं भवेत् ॥ ४३॥
ब्रह्मा गुणत्रयाविष्टो विष्णुश्चैवाथ शङ्करः ।
प्रभवन्ति शरीरेषु तेषां भावाः पृथक्पृथक् ॥ ४४॥
मानवानां च का वार्ता सत्त्वैकान्तव्यवस्थितौ ।
गुणानां सङ्करो राजन्सर्वत्र समवस्थितः ॥ ४५॥
कदाचित्सत्त्ववृद्धिः स्यात्कदाचिद्रजसः किल ।
कदाचित्तमसो वृद्धिः समभावः कदाचन ॥ ४६॥
निर्गुणः परमात्मासौ निर्लेपः परमोऽव्ययः ।
अलक्ष्यः सर्वसत्त्वानामप्रमेयः सनातनः ॥ ४७॥
तथैव परमा शक्तिर्निर्गुणा ब्रह्मसंस्थिता ।
दुर्ज्ञेया चाल्पमतिभिः सर्वभूतव्यवस्थितिः ॥ ४८॥
परात्मनस्तथा शक्तेस्तयोरैक्यं सदैव हि ।
अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते सर्वदोषतः ॥ ४९॥
तज्ज्ञानादेव मोक्षः स्यादिति वेदान्तडिण्डिमः ।
यो वेद स विमुक्तोऽस्मिन्संसारे त्रिगुणात्मके ॥ ५०॥
ज्ञानं तु द्विविधं प्रोक्तं शाब्दिकं प्रथमं स्मृतम् ।
वेदशास्त्रार्थविज्ञानात्तद्भवेद्बुद्धियोगतः ॥ ५१॥
विकल्पास्तत्र बहवो भवन्ति मतिकल्पिताः ।
(कुतर्ककल्पिताः केचित्सतर्ककल्पिताः परे ।
वितर्कैर्विभ्रमोत्पत्तिर्विभ्रमाद्बुद्धिभ्रंशता ।
बुद्धिभ्रंशाज्ज्ञाननाशः प्राणिनां परिकीर्तितः । )
अनुभवाख्यं द्वितीयं तु ज्ञानं तद्दुर्लभं नृप ॥ ५२॥
तत्तदा प्राप्यते तस्य वेत्तुः सङ्गो यदा भवेत् ।
शब्दज्ञानान्न कार्यस्य सिद्धिर्भवति भारत ॥ ५३॥
तस्मान्नानुभवज्ञानं सम्भवत्यतिमानुषम् ।
अन्तर्गतं तमश्छेत्तुं शाब्दबोधो हि न क्षमः ॥ ५४॥
यथा न नश्यति तमः कृतया दीपवार्तया ।
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ॥ ५५॥
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ।
शीलं परहितत्वं च कोपाभावः क्षमा धृतिः ॥ ५६॥
सन्तोषश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् ।
विद्यया तपसा वापि योगाभ्यासेन भूपते ॥ ५७॥
विना कामादिशत्रूणां नैव नाशः कदाचन ।
(मनस्तु चञ्चलं रास्वभावादतिदुर्ग्रहम् ।
तद्वशः सर्वथा प्राणी त्रिविधो भुवनत्रये । )
कामक्रोधादयो भावाश्चित्तजाः परिकीर्तिताः ॥ ५८॥
ते तदा न भवन्त्येव यदा वै निर्जितं मनः ।
तस्मात्तु निमिना राजन्न क्षमा विहिता मुनौ ॥ ५९॥
यथा ययातिना पूर्वं कृता शुक्रे कृतागसि ।
भृगुपुत्रेण शप्तोऽपि ययातिर्नृपसत्तमः ॥ ६०॥
न शशाप मुनिं क्रोधाज्जरां राजा गृहीतवान् ।
कश्चित्सौम्यो भवेत्कश्चित्क्रूरो भवति पार्थिवः ॥ ६१॥
स्वभावभेदान्नृपते कस्य दोषोऽत्र कल्प्यते ।
हैहया भार्गवान्पूर्वं धनलोभात्पुरोहितान् ॥ ६२॥
ब्राह्मणान्मूलतः सर्वांश्चिच्छिदुः क्रोधमूर्च्छिताः ।
पातकं पृष्ठतः कृत्वा ब्रह्महत्यासमुद्भवम् ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे देवीमहिम्नि नानाभाववर्णनं नाम पञ्चदशोऽध्यायः ॥ ६.१५॥
६.१६ षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।
जनमेजय उवाच ।
कुले कस्य समुत्पन्नाः क्षत्रिया हैहयाश्च ते ।
ब्रह्महत्यामनादृत्य निजघ्नुर्भार्गवांश्च ये ॥ १॥
वैरस्य कारणं तेषां किं मे ब्रूहि पितामह ।
निमित्तेन विना क्रोधं कथं कुर्वन्ति सत्तमाः ॥ २॥
वैरं पुरोहितैः सार्धं कस्मात्तेषामजायत ।
नाल्पहेतोर्हि तद्वैरं क्षत्रियाणां भविष्यति ॥ ३॥
अन्यथा ब्राह्मणान् पूज्यान्कथं जघ्नुरनागसः ।
बाहुजा बलवन्तोऽपि पापभीताः कथं न ते ॥ ४॥
स्वल्पेऽपराधे को हन्याद्वाडवान्क्षत्रियर्षभः ।
सन्देहो मे मुनिश्रेष्ठ कारणं वक्तुमर्हसि ॥ ५॥
सूत उवाच ।
इति पृष्टस्तदा तेन राज्ञा सत्यवतीसुतः ।
उवाच परमप्रीतः कथां संस्मृत्य चेतसा ॥ ६॥
व्यास उवाच ।
शृणु पारिक्षिते वार्तां क्षत्रियाणां पुरातनीम् ।
आश्चर्यकारिणीं सम्यग्विदितां च पुरा मया ॥ ७॥
कार्तवीर्येति नाम्नाभूद्धैहयः पृथिवीपतिः ।
सहस्रबाहुर्बलवानर्जुनो धर्मतत्परः ॥ ८॥
दत्तात्रेयस्य शिष्योऽभूदवतारो हरेरिव ।
सिद्धः सर्वार्थदः शाक्तो भृगूणां याज्य एव सः ॥ ९॥
यज्वा परमधर्मिष्ठः सदा दानपरायणः ।
ददौ वित्तं भृगुभ्योऽसौ कृत्वा यज्ञाननेकशः ॥ १०॥
धनिनस्ते द्विजा जाता भृगवो नृपदानतः ।
हयरत्नसमृद्ध्याढ्याः सञ्जाताः प्रथिता भुवि ॥ ११॥
स्वर्याते नृपशार्दूले कार्तवीर्यार्जुने पुनः ।
हैहया निर्धना जाताः कालेन महता नृप ॥ १२॥
धनकार्यं समुत्पन्नं हैहयानां कदाचन ।
याचिष्णवोऽभिजग्मुस्तान्भूगूंस्ते हैहया नृप ॥ १३॥
विनयं क्षत्रियाः कृत्वाप्ययाचन्त धनं बहु ।
न ददुस्तेऽतिलोभार्ता नास्ति नास्तीतिवादिनः ॥ १४॥
भूमौ च निदधुः केचिद्भृगवो धनमुत्तमम् ।
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥ १५॥
कृत्वा स्थानान्तरे द्रव्यं ब्राह्मणा भयविह्वलाः ।
त्यक्त्वाऽऽश्रमान्ययुः सर्वे भृगवस्तृष्णयान्विताः ॥ १६॥
याज्यांश्च दुःखितान्दृष्ट्वा न ददुर्लोभमोहिताः ।
पलायित्वा गताः सर्वे गिरिदुर्गानुपाश्रिताः ॥ १७॥
ततस्ते हैहयास्तात दुःखिताः कार्यगौरवात् ।
भृगूणामाश्रमाञ्जग्मुर्द्रव्यार्थं क्षत्रियर्षभाः ॥ १८॥
भृगूंस्तु निर्गतान्वीक्ष्य शून्यांस्त्यक्त्या गृहानथ ।
चखनुर्भूतलं तत्र द्रव्यार्थं हैहया भृशम् ॥ १९॥
खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ।
ददृशुः क्षत्रियाः सर्वे तद्वित्तं श्रमकर्शिताः ॥ २०॥
यत्र यत्र समुत्पन्नं भूरि द्रव्यं महीतलात् ।
तदा ते पार्श्वभागस्थब्राह्मणानां गृहाण्यपि ॥ २१॥
निर्भिद्य हैहया द्रव्यं ददृशुर्धनलिप्सया ।
ब्राह्मणाश्चुकुशः सर्वे भीताश्च शरणं गताः ॥ २२॥
अतिचिन्वत्सु विप्राणां भवनान्निःसृतं बहु ।
निजघ्नुस्ताञ्छरैः कोपाद्वाडवाञ्छरणागतान् ॥ २३॥
ययुस्ते गिरिदुर्गांश्च यत्र वै भृगवः स्थिताः ।
आगर्भादनुकृन्तन्तश्चेरुश्चैव महीमिमाम् ॥ २४॥
प्राप्तान्प्राप्तान्भृगून्सर्वान्निजघ्नुर्निशितैः शरैः ।
आबालवृद्धानपरानवमन्य च पातकम् ॥ २५॥
एवमुत्पाट्यमानेषु भार्गवेषु यतस्ततः ।
हन्युर्गर्भांश्च नारीणां गृहीत्वा हैहया भृशम् ॥ २६॥
रुरुदुस्ताः स्त्रियः कामं कुरर्य इव दुःखिताः ।
गर्भाश्च कृन्तिता यासां क्षत्रियैः पापनिश्चयैः ॥ २७॥
अन्येऽप्याहुश्च तान्दृप्तान्मुनयस्तीर्थवासिनः ।
मुञ्चन्तु क्षत्रियाः क्रोधं ब्राह्मणेषु भयावहम् ॥ २८॥
अयुक्तमेतदारब्धं भवद्भिः कर्म गर्हितम् ।
यद्गर्भान्भृगुपत्नीनां निहन्युः क्षत्रियर्षभाः ॥ २९॥
अत्युग्रपुण्यपापानामिहैव फलमाप्नुयात् ।
तस्माज्जुगुप्सितं कर्म त्यक्तव्यं भूतिमिच्छता ॥ ३०॥
तानाहुर्हैहयाः क्रुद्धा मुनीनथ दयापरान् ।
भवन्तः साधवः सर्वे नार्थज्ञाः पापकर्मणाम् ॥ ३१॥
एभिर्हृतं धनं सर्वं पूर्वजानां महात्मनाम् ।
वञ्चयित्वा छलाभिज्ञैर्मार्गे पाटच्चरैरिव ॥ ३२॥
एते प्रतारका दम्भास्तादृशा बकवृत्तयः ।
उत्पन्ने च महाकार्ये प्रार्थिता विनयेन ते ॥ ३३॥
न ददुः प्रार्थितं विप्राः पादवृद्ध्यापि याचिताः ।
नास्तीतिवादिनः स्तब्धाः दुःखितान्वीक्ष्य याज्यकान् ॥ ३४॥
धनं प्राप्तं कार्तवीर्याद्रक्षितं केन हेतुना ।
न कृताः क्रतवः किं तैर्दानं चार्थिषु भूरिशः ॥ ३५॥
न सञ्चितव्यं विप्रैस्तु धनं चापि कदाचन ।
यष्टव्यं विधिवद्देयं भोक्तव्यं च यथासुखम् ॥ ३६॥
द्रव्ये चौरभयं प्रोक्तं तथा राजभयं द्विजाः ।
वह्नेर्भयं महाघोरं तथा धूर्तभयं महत् ॥ ३७॥
येन केनाप्युपायेन धनं त्यजति रक्षकम् ।
अथवासौ मृतो याति द्रव्यं त्यक्त्वा ह्यसद्गतिम् ॥ ३८॥
पादवृद्ध्या तथास्माभिः प्रार्थितं विनयान्वितैः ।
तथापि लोभसन्दिग्धैर्न दत्तं नः पुरोहितैः ॥ ३९॥
दानं भोगस्तथा नाशो धनस्य गतिरीदृशी ।
दानभोगौ कृतीनां च नाशः पापात्मनां किल ॥ ४०॥
न दाता न च यो भोक्ता कृपणो गुप्तितत्परः ।
राज्ञासौ सर्वथा दण्ड्यो वञ्चको दुःखभाङ्नरः ॥ ४१॥
तस्माद्वयं गुरूनेतान्वञ्चकान्ब्राह्मणाधमान् ।
हन्तुं समुद्यताः सर्वे न क्रोधव्यं महात्मभिः ॥ ४२॥
व्यास उवाच ।
इत्युक्त्वा हेतुमद्वाक्यं तानाश्वास्य मुनीनथ ।
विचेरुश्च विचिन्वाना भृगुदाराननेकशः ॥ ४३॥
भयार्ता भृगुपत्न्यस्तु हिमवन्तं धराधरम् ।
प्रपेदिरे रुदन्त्यश्च वेपमानाः कृशा भृशम् ॥ ४४॥
एवं ते हैहयैर्विप्राः पीडिता धनकामुकैः ।
निहताश्च यथाकामं संरब्धैः पापकर्मभिः ॥ ४५॥
लोभ एव मनुष्याणां देहसंस्थो महारिपुः ।
सर्वदुःखाकरः प्रोक्तो दुःखदः प्राणनाशकः ॥ ४६॥
सर्वपापस्य मूलं हि सर्वदा तृष्णयान्वितः ।
विरोधकृत्त्रिवर्णानां सर्वार्तेः कारणं तथा ॥ ४७॥
लोभात्त्यजन्ति धर्मं वै कुलधर्मं तथैव हि ।
मातरं भ्रातरं हन्ति पितरं बान्धवं तथा ॥ ४८॥
गुरुं मित्रं तथा भार्यां पुत्रं च भगिनीं तथा ।
लोभाविष्टो न किं कुर्यादकृत्यं पापमोहितः ॥ ४९॥
क्रोधात्कामादहङ्काराल्लोभ एव महारिपुः ।
प्राणांस्त्यजति लोभेन किं पुनः स्यादनावृतम् ॥ ५०॥
पूर्वजास्ते महाराज धर्मज्ञाः सत्पथे स्थिताः ।
पाण्डवाः कौरवाश्चैव लोभेन निधनं गताः ॥ ५१॥
यत्र भीष्मश्च द्रोणश्च कृपः कर्णश्च बाह्लिकः ।
भीमसेनो धर्भपुत्रस्तथैवार्जुनकेशवौ ॥ ५२॥
तथापि युद्धमत्युग्रं कृतं तैश्च परस्परम् ।
कुटुम्बकदनं भूरि कृतं लोभातुरैरिह ॥ ५३॥
हतो द्रोणो हतो भीष्मस्तथैव पाण्डवात्मजाः ।
भ्रातरः पितरः पुत्राः सर्वे वै निहता रणे ॥ ५४॥
तस्माल्लोभाभिभूतस्तु किं न कुर्यान्नरः किल ।
हैहयैर्निहताः सर्वे भृगवः पापबुद्धिभिः ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनं नाम षोडशोऽध्यायः ॥ ६.१६॥
६.१७ सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।
जनमेजय उवाच ।
कथं ताश्च स्त्रियः सर्वा भृगूणां दुःखसागरात् ।
मुक्ता वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत् ॥ १॥
हैहयैः किं कृतं कार्यं हत्वा तान्ब्राह्मणानपि ।
क्षत्रियैर्लोभसंयुक्तैः पापाचारैर्वदस्व तत् ॥ २॥
न तृप्तिरस्ति मे ब्रह्मन् पिबतस्ते कथामृतम् ।
पावनं सुखदं नॄणां परलोके फलप्रदम् ॥ ३॥
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
यथा स्त्रियस्तु ता मुक्ता दुःखात्तस्माद्दुरत्ययात् ॥ ४॥
भृगुपत्न्यो यदा राजन् हिमवन्तं गिरिं गताः ।
भयत्रस्ता विभग्नाशा हैहयैः पीडिता भृशम् ॥ ५॥
गौरीं तत्र तु संस्थाप्य मृण्मयीं सरितस्तटे ।
उपोषणपराश्चकुर्निश्चयं मरणं प्रति ॥ ६॥
स्वप्ने गत्वा तदा देवी प्राह ताः प्रमदोत्तमाः ।
युष्मासु मध्ये कस्याश्चिद्भविता चोरुजः पुमान् ॥ ७॥
मदंशशक्तिसम्भिन्नः स वः कार्यं विधास्यति ।
इत्यादिश्य पराम्बा सा पश्चादन्तर्हिताभवत् ॥ ८॥
जागृतास्तु ततः सर्वा मुदमापुर्वराङ्गनाः ।
काचित्तासां भयोद्विग्ना कामिनी चतुरा भृशम् ॥ ९॥
दधार चोरुणैकेन गर्भं सा कुलवृद्धये ।
पलायनपरा दृष्टा क्षत्रियैर्ब्राह्मणी यदा ॥ १०॥
विह्वला तेजसा युक्ता तदा ते दुद्रुवुर्भृशम् ।
गृह्यतां वध्यतां नारी सगर्भा याति सत्वरा ॥ ११॥
इति ब्रुवन्तः सम्प्राप्ताः कामिनीं खड्गपाणयः ।
सा भयार्ता तु तान्दृष्ट्वा रुरोद समुपागतान् ॥ १२॥
गर्भस्य रक्षणार्थं सा चुक्रोशातिभयातुरा ।
रुदतीं मातरं श्रुत्वा दीनां प्राणविवर्जिताम् ॥ १३॥
निराधारां क्रन्दमानां क्षत्रियैर्भृशतापिताम् ।
गृहीतामिव सिंहेन सगर्भां हरिणीं यथा ॥ १४॥
साश्रुनेत्रां वेपमानां सङ्क्रुध्य बालकस्तदा ।
भित्त्वोरुं निर्जगामाशु गर्भः सूर्य इवापरः ॥ १५॥
मुष्णन्दृष्टीः क्षत्रियाणां तेजसा बालकः शुभः ।
दर्शनाद्बालकस्याशु सर्वे जाता विलोचनाः ॥ १६॥
बभ्रमुर्गिरिदुर्गेषु जन्मान्धा इव क्षत्रियाः ।
चिन्तितं मनसा सर्वैः किमेतदिति साम्प्रतम् ॥ १७॥
सर्वे चक्षुर्विहीना यज्जाता स्म बालदर्शनात् ।
ब्राह्मण्यास्तु प्रभावोऽयं सतीव्रतबलं महत् ॥ १८॥
क्षणाद्वामोघसङ्कल्पाः किं करिष्यन्तिदुःखिताः ।
इति सञ्चिन्त्य मनसा नेत्रहीना निराश्रयाः ॥ १९॥
ब्राह्मणीं शरणं जग्मुर्हैहया गतचेतसः ।
प्रणेमुस्तां भयत्रस्तां कृताञ्जलिपुटाश्च ते ॥ २०॥
ऊचुश्चैनां भयोद्विग्नां दृष्ट्यर्थं क्षत्रियर्षभाः ।
प्रसीद सुभगे मातः सेवकास्ते वयं किल ॥ २१॥
कृतापराधा रम्भोरु क्षत्रियाः पापबुद्धयः ।
दर्शनात्तव तन्वङ्गि जाताः सर्वे विलोचनाः ॥ २२॥
मुखं ते नैव पश्यामो जन्मान्धा इव भामिनि ।
अद्भुतं ते तपो वीर्यं किं कुर्मः पापकारिणः ॥ २३॥
शरणं ते प्रपन्नाः स्मो देहि चक्षूंषि मानदे ।
अन्धत्वं मरणादुग्रं कृपां कर्तुं त्वमर्हसि ॥ २४॥
पुनर्दृष्टिप्रदानेन सेवकान्क्षत्रियान्कुरु ।
उपरम्य च गच्छेम सहिताः पापकर्मणः ॥ २५॥
अतः परं न कर्तव्यमीदृशं कर्म कर्हिचित् ।
भार्गवाणां तु सर्वेषां सेवकाः स्मो वयं किल ॥ २६॥
अज्ञानाद्यत्कृतं पापं क्षन्तव्यं तत्त्वयाधुना ।
वैरं नातः परं क्वापि भृगुभिः क्षत्रियैः सह ॥ २७॥
कर्तव्यं शपथैः सम्यग्वर्तितव्यं तु हैहयैः ।
सपुत्रा भव सुश्रोणि प्रणताः स्मो वयं च ते ॥ २८॥
प्रसादं कुरु कल्याणि न द्विष्यामः कदाचन ।
व्यास उवाच ।
इति तेषां वचः श्रुत्वा ब्राह्मणी विस्मयान्विता ॥ २९॥
तानाह प्रणतान्दुःस्थानाश्वास्य गतलोचनान् ।
गृहीता न मया दृष्टिर्युष्माकं क्षत्रियाः किल ॥ ३०॥
नाहं रुषान्विता सत्यं कारणं शृणुताद्य यत् ।
अयं च भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥ ३१॥
चक्षूंषि तेन युष्माकं स्तम्भितानि रुषावता ।
स्वबन्धून्निहतांज्ञात्वा गर्भस्थानपि क्षत्रियैः ॥ ३२॥
अनागसो धर्मपरांस्तापसान्धनकाम्यया ।
गर्भानपि यदा यूयं भृगूनघ्नंस्तु पुत्रकाः ॥ ३३॥
तदायमूरुणा गर्भो मया वर्षशतं धृतः ।
षडङ्गश्चाखिलो वेदो गृहीतोऽनेन चाञ्जसा ॥ ३४॥
गर्भस्थेनापि बालेन भृगुवंशविवृद्धये ।
सोऽपि पितृवधान्नूनं क्रोथेद्धो हन्तुमिच्छति ॥ ३५॥
भगवत्याः प्रसादेन जातोऽयं मम बालकः ।
तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥ ३६॥
तस्मादौर्वं सुतं मेऽद्य याचध्वं विनयान्विताः ।
प्रणिपातेन तुष्टोऽसौ दृष्टिं वः प्रतिमोक्ष्यति ॥ ३७॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्या हैहयास्तुष्टुवुश्च तम् ।
प्रणेमुर्विनयोपेता ऊरुजं मुनिसत्तमम् ॥ ३८॥
स सन्तुष्टो बभूवाथ तानुवाच विचक्षुषः ।
गच्छध्वं स्वगृहान्भूपा ममाख्यानकृतं वचः ॥ ३९॥
अवश्यम्भाविभावास्ते भवन्ति देवनिर्मिताः ।
नात्र शोकस्तु कर्तव्यः पुरुषेण विजानता ॥ ४०॥
पूर्ववदृषयः सर्वे प्राप्नुवन्तु यथासुखम् ।
व्रजन्तु विगतक्रोधा भवनानि यथासुखम् ॥ ४१॥
इति तेन समादिष्टा हैहयाः प्राप्तलोचनाः ।
और्वमामन्त्र्य जग्मुस्ते सदनानि यथारुचि ॥ ४२॥
ब्राह्मणी तं सुतं दिव्यं गृहीत्वा स्वाश्रमं गता ।
पालयामास भूपाल तेजस्विनमतन्द्रिता ॥ ४३॥
एवं ते कथितं राजन् भृगूणां तु विनाशनम् ।
लोभाविष्टैः क्षत्रियैश्च यत्कृतं पातकं किल ॥ ४४॥
जनमेजय उवाच ।
श्रुतं मया महत्कर्म क्षत्रियाणाञ्च दारुणम् ।
कारणं लोभ एवात्र दुःखदश्चोभयोस्तु सः ॥ ४५॥
किञ्चित्प्रष्टुमिहेच्छामि संशयं वासवीसुत ।
हैहयास्ते कथं नाम्ना ख्याता भुवि नृपात्मजाः ॥ ४६॥
यदोस्तु यादवाः कामं भरताद्भारतास्तथा ।
हैहयः कोऽपि राजाभूत्तेषां वंशे प्रतिष्ठितः ॥ ४७॥
तदहं श्रोतुमिच्छामि कारणं करुणानिधे ।
हैहयास्ते कथं जाताः क्षत्रियाः केन कर्मणा ॥ ४८॥
व्यास उवाच ।
हैहयानां समुत्पत्तिं शृणु भूप सविस्तराम् ।
पुरातनीं सुपुण्यां च कथां पापप्रणाशिनीम् ॥ ४९॥
कस्मिंश्चित्समये भूप सूर्यपुत्रः सुशोभनः ।
रेवन्तेति च विख्यातो रूपवानमितप्रभः ॥ ५०॥
उच्चैःश्रवसमारुह्य हयरत्नं मनोहरम् ।
जगाम विष्णुसदनं वैकुण्ठं भास्करात्मजः ॥ ५१॥
भगवद्दर्शनाकाङ्क्षी हयारूढो यदागतः ।
हयस्थस्तु तदा दृष्टो लक्ष्म्यासौ रविनन्दनः ॥ ५२॥
रमा वीक्ष्य हयं दिव्यं भ्रातरं सागरोद्भवम् ।
रूपेण विस्मिता तस्य तस्थौ स्तम्भितलोचना ॥ ५३॥
भगवानपि तं दृष्ट्वा हयारूढं मनोहरम् ।
आगच्छन्तं रमां विष्णुः पप्रच्छ प्रणयात्प्रभुः ॥ ५४॥
कोऽयमायाति चार्वङ्गि हयारूढ इवापरः ।
स्मरतेजस्तनुः कान्ते मोहयन्भुवनत्रयम् ॥ ५५॥
प्रेक्षमाणा तदा लक्ष्मीस्तच्चित्ता दैवयोगतः ।
नोवाच वचनं किञ्चित्पृष्टापि च पुनः पुनः ॥ ५६॥
व्यास उवाच ।
अश्वासक्तमतिं वीक्ष्य कामिनीमतिमोहिताम् ।
पश्यन्तीं परमप्रेम्णा चञ्चलाक्षीं च चञ्चलाम् ॥ ५७॥
तामाह भगवान्कुद्धः किं पश्यसि सुलोचने ।
मोहिता च हरिं दृष्ट्वा पृष्टा नैवाभिभाषसे ॥ ५८॥
सर्वत्र रमसे यस्माद्रमा तस्माद्भविष्यसि ।
चञ्चलत्वाच्चलेत्येवं सर्वथैव न संशयः ॥ ५९॥
प्राकृता च यथा नारी नूनं भवति चञ्चला ।
तथा त्वमपि कल्याणि स्थिरा नैव कदाचन ॥ ६०॥
त्वं हयं मत्समीपस्था समीक्ष्य यदि मोहिता ।
वडवा भव वामोरु मर्त्यलोकेऽतिदारुणे ॥ ६१॥
इति शप्ता रमा देवी हरिणा दैवयोगतः ।
रुरोद वेपमाना सा भयभीतातिदुःखिता ॥ ६२॥
तमुवाच रमानाथ शङ्किता चारुहासिनी ।
प्रणम्य शिरसा देवं स्वपतिं विनयान्विता ॥ ६३॥
देवदेव जगन्नाथ करुणाकर केशव ।
स्वल्पेऽपराधे गोविन्द कस्माच्छापं ददासि मे ॥ ६४॥
न कदाचिन्मया दृष्टः क्रोधस्ते हीदृशः प्रभो ।
क्व गतस्ते मयि स्नेहः सहजो न तु नश्वरः ॥ ६५॥
वज्रपातस्तु शत्रौ वै कर्तव्यो न सुहृज्जने ।
सदाहं वरयोग्या ते शापयोग्या कथं कृता ॥ ६६॥
प्राणांस्त्यक्ष्यामि गोविन्द पश्यतोऽद्य तवाग्रतः ।
कथं जीवे त्वया हीना विरहानलतापिता ॥ ६७॥
प्रसादं कुरु देवेश शापादस्मात्सुदारुणात् ।
कदा मुक्ता समीपं ते प्राप्नोमि सुखदं विभौ ॥ ६८॥
हरिरुवाच ।
यदा ते भविता पुत्रः पृथिव्यां मत्समः प्रिये ।
तदा मां प्राप्य तन्वङ्गि सुखिता त्वं भविष्यसि ॥ ६९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ ६.१७॥
६.१८ अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।
जनमेजय उवाच ।
इति शप्ता भगवता सिन्धुजा कोपयोगतः ।
कथं सा वडवा जाता रेवन्तेन च किं कृतम् ॥ १॥
कस्मिन्देशेऽब्धिजा देवी वडवारूपधारिणी ।
संस्थितैकाकिनी बाला परोषित्पतिका यथा ॥ २॥
कालं कियन्तमायुष्मन् वियुक्ता पतिना रमा ।
संस्थिता विजनेऽरण्ये किं कृतं च तया पुनः ॥ ३॥
समागमं कदा प्राप्ता वासुदेवस्य सिन्धुजा ।
पुत्रः कथं तया प्राप्तो नारायणवियुक्तया ॥ ४॥
एतद्वृत्तान्तमार्येश कथयस्व सविस्तरम् ।
श्रोतुकामोऽस्मि विप्रेन्द्र कथाख्यानमनुत्तमम् ॥ ५॥
सूत उवाच ।
इति पृष्टस्तदा व्यासः परीक्षित्तनयेन वै ।
कथयामास भो विप्राः कथामेतां सुविस्तराम् ॥ ६॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् ।
पावनीं सुखदां कर्णे विशदाक्षरसंयुताम् ॥ ७॥
रेवन्तस्तु रमां दृष्ट्वा शप्ता देवेन कामिनीम् ।
भयार्तः प्रययौ दूरात्प्रणम्य जगतां पतिम् ॥ ८॥
पितुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः ।
निवेदयामास कथां भास्कराय स शापजाम् ॥ ९॥
दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् ।
आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना ॥ १०॥
सूर्यपत्न्या तपस्तप्तं यत्र पूर्वं सुदारुणम् ।
तत्रैव सा ययावाशु वडवारूपधारिणी ॥ ११॥
कालिन्दीतमसासङ्गे सुपर्णाक्षस्य चोत्तरे ।
सर्वकामप्रदे स्थाने सुरम्यवनमण्डिते ॥ १२॥
तत्र स्थिता महादेवं शङ्करं वाञ्छितप्रदम् ।
दध्यौ चैकेन मनसा शूलिनं चन्द्रशेखरम् ॥ १३॥
पञ्चाननं दशभुजं गौरीदेहार्धधारिणम् ।
कर्पूरगौरदेहाभं नीलकण्ठं त्रिलोचनम् ॥ १४॥
व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम् ।
कपालमालाकलितं नागयज्ञोपवीतिनम् ॥ १५॥
सागरस्य सुता कृत्वा हयीरूपं मनोहरम् ।
तस्मिंस्तीर्थे रमादेवी चकार दुश्चरं तपः ॥ १६॥
ध्यायमाना परं देवं वैराग्यं समुपाश्रिता ।
दिव्यं वर्षसहस्रं तु गतं तत्र महीपते ॥ १७॥
ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः ।
प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः ॥ १८॥
तत्रैत्य सगणः शम्भुस्तामाह हरिवल्लभाम् ।
तपस्यन्तीं महाभागामश्विनीरूपधारिणीम् ॥ १९॥
किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे ।
सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः ॥ २०॥
हरिं त्यक्त्वाद्य मां कस्मात्स्तौषि देवि जगत्पतिम् ।
वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम् ॥ २१॥
वेदोक्तं वचनं कार्यं नारीणां देवता पतिः ।
नान्यस्मिन्सर्वथा भावः कर्तव्यः कर्हिचित्क्वचित् ॥ २२॥
पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः ।
यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया ॥ २३॥
नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि ।
तं त्यक्त्वा देवदेवेशं किं मां ध्यायसि सिन्धुजे ॥ २४॥
लक्ष्मीरुवाच ।
आशुतोष महेशान शप्ताहं पतिना शिव ।
मां समुद्धर देवेश शापादस्माद्दयानिधे ॥ २५॥
तदोक्तं हरिणा शम्भो शापानुग्रहकारणम् ।
विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना ॥ २६॥
यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् ।
भविष्यति च वैकुण्ठवासस्ते कमलालये ॥ २७॥
इत्युक्ताहं तपस्तप्तुमागतास्मि तपोवने ।
आराधितो मया देव त्वं सर्वार्थप्रदायकः ॥ २८॥
पतिसङ्गं विना पुत्रं देवदेव लभे कथम् ।
स तु तिष्ठति वैकुण्ठे त्यक्त्वा वामामनागसम् ॥ २९॥
वरं मे देहि देवेश यदि तुष्टोऽसि शङ्कर ।
तव तस्य द्विधा भावो नास्ति नूनं कदाचन ॥ ३०॥
मयैतद्गिरिजाकान्त ज्ञातं पत्युः पुरो हर ।
यस्त्वं योऽसौ पुनर्योऽसौ स त्वं नास्त्यत्र संशयः ॥ ३१॥
एकत्वं च मया ज्ञात्वा मया ते स्मरणं कृतम् ।
अन्यथा मम दोषस्त्वामाश्रयन्त्या भवेच्छिव ॥ ३२॥
शिव उवाच ।
कथं ज्ञातस्त्वया देवि मम तस्य च सुन्दरि ।
ऐक्यभावो हरेर्नूनं सत्यं मे वद सिन्धुजे ॥ ३३॥
एकत्वं च न जानन्ति देवाश्च मुनयस्तथा ।
ज्ञानिनो वेदतत्त्वज्ञाः कुतर्कोपहताः किल ॥ ३४॥
मद्भक्ता वासुदेवस्य निन्दका बहवस्तथा ।
विष्णभक्तास्तु बहवो मम निन्दापरायणाः ॥ ३५॥
भवन्ति कालभेदेन कलौ देवि विशेषतः ।
कथं ज्ञातस्त्वया भद्रे दुर्ज्ञेयो ह्यकृतात्मभिः ॥ ३६॥
सर्वथा त्वैक्यभावस्तु हरेर्मम च दुर्लभः ।
व्यास उवाच ।
इति सा शम्भुना पुष्टा तुष्टेन हरिवल्लभा ॥ ३७॥
वृत्तान्तं तस्य विज्ञातं प्रवक्तुमुपचक्रमे ।
शिवं प्रति रमा तत्र प्रसन्नवदना भृशम् ॥ ३८॥
लक्ष्मीरुवाच ।
एकदा देवदेवेश विष्णुर्ध्यानपरो रहः ।
दृष्टो मया तपः कुर्वन्पद्मासनगतो यदा ॥ ३९॥
तदाहं विस्मिता देवं तमपृच्छं पतिं किल ।
प्रबुद्धं सुप्रसन्नं च ज्ञात्वा विनयपूर्वकम् ॥ ४०॥
देवदेव जगन्नाथ यदाहं निर्गतार्णवात् ।
मथ्यमानात्सुरैर्दैत्यैः सर्वैर्ब्रह्मादिभिः प्रभो ॥ ४१॥
वीक्षिताश्च मया सर्वे पतिकामनया तदा ।
वृतस्त्वं सर्वदेवेभ्यः श्रेष्ठोऽसीति विनिश्चयात् ॥ ४२॥
त्वं कं ध्यायसि सर्वेश संशयोऽयं महान्मम ।
प्रियोऽसि कैटभारे मे कथयस्व मनोगतम् ॥ ४३॥
विष्णुरुवाच ।
शृणु कान्ते प्रवक्ष्यामि यं ध्यायामि सुरोत्तमम् ।
आशुतोषं महेशानं गिरिजावल्लभं हृदि ॥ ४४॥
कदाचिद्देवदेवो मां ध्यायत्यमितविक्रमः ।
ध्यायाम्यहं च देवेशं शङ्करं त्रिपुरान्तकम् ॥ ४५॥
शिवस्याहं प्रियः प्राणः शङ्करस्तु तथा मम ।
उभयोरन्तरं नास्ति मिथः संसक्तचेतसोः ॥ ४६॥
नरकं यान्ति ते नूनं ये द्विषन्ति महेश्वरम् ।
भक्ता मम विशालाक्षि सत्यमेतद्ब्रवीम्यहम् ॥ ४७॥
इत्युक्तं देवदेवेन विष्णुना प्रभविष्णुना ।
एकान्ते किल पृष्टेन मया शैलसुताप्रिय ॥ ४८॥
तस्मात्त्वां वल्लभं विष्णोर्ज्ञात्वा ध्यातवती ह्यहम् ।
तथा कुरु महेशान यथा मे प्रियसङ्गमः ॥ ४९॥
व्यास उवाच ।
इति श्रियो वचः श्रुत्वा प्रत्युवाच महेश्वरः ।
तामाश्वास्य प्रियैर्वाक्यैर्यथार्थं वाक्यकोविदः ॥ ५०॥
स्वस्था भव पृथुश्रोणि तुष्टोऽहं तपसा तव ।
समागमस्ते पतिना भविष्यति न संशयः ॥ ५१॥
अत्रैव हयरूपेण भगवाञ्जगदीश्वरः ।
आगमिष्यति ते कामं पूर्णं कर्तुं मयेरितः ॥ ५२॥
तथाहं प्रेरयिष्यामि तं देवं मधुसूदनम् ।
यथासौ हयरूपेण त्वामेष्यति मदातुरः ॥ ५३॥
पुत्रस्ते भविता सुभ्रु नारायणसमः क्षितौ ।
भविष्यति स भूपालः सर्वलोकनमस्कृतः ॥ ५४॥
सुतं प्राप्य महाभागे त्वं तेन पतिना सह ।
गन्तासि देवि वैकुण्ठं प्रिया तस्य भविष्यसि ॥ ५५॥
एकवीरेति नाम्नासौ ख्यातिं यास्यति ते सुतः ।
तस्मात्तु हैहयो वंशो भुवि विस्तारमेष्यति ॥ ५६॥
परं तु विस्मृतासि त्वं हृदिस्थां परमेश्वरीम् ।
मदान्धा मत्तचित्ता च तेन ते फलमीदृशम् ॥ ५७॥
अतस्तद्दोषशान्त्यर्थं हृदिस्थां परदेवताम् ।
शरणं याहि सर्वात्मभावेन जलधेः सुते ॥ ५८॥
अन्यथा तव चित्तं तु कथं गच्छेद्धयोत्तमे ।
व्यास उवाच ।
इति दत्त्वा वरं देव्यै भगवाञ्छैलजापतिः ॥ ५९॥
अन्तर्धानं गतः साक्षादुमया सहितः शिवः ।
सापि तत्रैव चार्वङ्गी संस्थिता कमलासना ॥ ६०॥
ध्यायन्ती चरणाम्भोजं देव्याः परमशोभनम् ।
देवासुरशिरोरत्ननिघृष्टनखमण्डलम् ॥ ६१॥
प्रेमगद्गदया वाचा तुष्टाव च मुहुर्मुहुः ।
प्रतीक्षमाणा भर्तारं हयरूपधरं हरिम् ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनं नामाष्टादशोऽध्यायः ॥ ६.१८॥
६.१९ एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।
व्यास उवाच ।
तस्यै दत्त्वा वरं शम्भुः कैलासं त्वरितो ययौ ।
रम्यं देवगणैर्जुष्टमप्सरोभिश्च मण्डितम् ॥ १॥
तत्र गत्वा चित्ररूपं गणं कार्यविशारदम् ।
प्रेषयामास वैकुण्ठे लक्ष्मीकार्यार्थसिद्धये ॥ २॥
शिव उवाच ।
चित्ररूप हरिं गत्वा ब्रूहि त्वं वचनान्मम ।
यथासौ दुःखितां पत्नीं विशोकां च करिष्यति ॥ ३॥
इत्युक्तश्चित्ररूपोऽथ निर्जगाम त्वरान्वितः ।
वैकुण्ठं परमं स्थानं वैष्णवैश्च गणैर्वृतम् ॥ ४॥
नानाद्रुमगणाकीर्णं वापीशतविराजितम् ।
सञ्जुष्टं हंसकारण्डमयूरशुककोकिलैः ॥ ५॥
उच्चप्रासादसंयुक्तं पताकाभिरलङ्कृतम् ।
नृत्यगीतकलापूर्णं मन्दारद्रुमसंयुतम् ॥ ६॥
बकुलाशोकतिलकचम्पकालिविमण्डितम् ।
कूजितैर्विहगानां तु कर्णाह्लादकरैर्युतम् ॥ ७॥
संवीक्ष्य भवनं विष्णोर्द्वास्थौ प्राह प्रणम्य च ।
जयविजयनामानौ वेत्रपाणी स्थितावुभौ ॥ ८॥
चित्ररूप उवाच ।
भो निवेदयत शीघ्रं हरये परमात्मने ।
दूतं प्राप्यं हरस्यात्र प्रेरितं शूलपाणिना ॥ ९॥
तच्छ्रुत्वा वचनं तस्य जयः परमबुद्धिमान् ।
गत्वा हरिं प्रणम्याह कृताञ्जलिपुटः पुरः ॥ १०॥
देवदेव रमाकान्त करुणाकर केशव ।
द्वारि तिष्ठति दूतोऽत्र शङ्करस्य समागतः ॥ ११॥
आज्ञापय प्रवेष्टव्यो न वेति गरुडध्वज ।
चित्ररूपधरोऽप्यस्ति न जाने कार्यगौरवम् ॥ १२॥
इत्याकर्ण्य हरिः प्राह जयं प्रज्ञातकारणः ।
प्रवेशयात्र रुद्रस्य भृत्यं समयसंस्थितम् ॥ १३॥
इत्याकर्ण्य जयस्तूर्णं गत्वा तं परमाद्भुतम् ।
एहीत्याकारयामास जयः शङ्करसेवकम् ॥ १४॥
प्रवेशितो जयेनाथ चित्ररूपस्तथाकृतिः ।
प्रणम्य दण्डवद्विष्णुं कृताञ्जलिपुटः स्थितः ॥ १५॥
दृष्ट्वा तं विस्मयं प्राप भगवान् गरुडध्वजः ।
चित्ररूपधरं शम्भोः सेवकं विनयान्वितम् ॥ १६॥
पप्रच्छ तं स्मितं कृत्वा चित्ररूपं रमापतिः ।
कुशलं देवदेवस्य सकुटुम्बस्य चानघ ॥ १७॥
कस्मात्त्वं प्रेषितोऽस्यत्र ब्रूहिकार्यं हरस्य किम् ।
अथवा देवतानां च किञ्चित्कार्यं समुत्थितम् ॥ १८॥
दूत उवाच ।
किमज्ञातं तवास्तीह संसारे गरुडध्वज ।
वर्तमानं त्रिकालज्ञ यदहं प्रब्रवीमि वै ॥ १९॥
प्रेषितोऽस्मि भवेनात्र विज्ञस्तु त्वां जनार्दन ।
हरस्य वचनाद्वाक्यं प्रब्रवीमि त्वयि प्रभो ॥ २०॥
तेनोक्तमेतद्देवेश भार्या ते कमलालया ।
तपस्तपति कालिन्दीतमसासङ्गमे विभो ॥ २१॥
हयीरूपधरा देवी सर्वार्थसिद्धिदायिनी ।
ध्यातुं योग्यामरगणैर्मानवैर्यक्षकिन्नरैः ॥ २२॥
विना तया नरः कोऽपिसुखभागी भवेन्न हि ।
तां त्यक्त्वा पुण्डरीकाक्ष प्राप्नोषि किं सुखं हरे ॥ २३॥
दुर्बलोऽपि स्त्रियं पाति निर्धनोऽपि जगत्पते ।
विनापराधं च विभो किं त्यक्ता जगदीश्वरी ॥ २४॥
दुःखं प्राप्नोति संसारे यस्य भार्या जगद्गुरो ।
धिक्तस्य जीवितं लोके निन्दितं त्वरिमण्डले ॥ २५॥
सकामा रिपवस्तेऽद्य दृष्ट्वा तां दुःखिता भृशम् ।
त्वां वियुक्तं च रमया हसिष्यन्ति दिवानिशम् ॥ २६॥
रमां रमय देवेश त्वदुत्सङ्गगतां कुरु ।
सर्वलक्षणसम्पन्नां सुशीलां च सुरूपिणीम् ॥ २७॥
सुखितो भव तां प्राप्य वल्लभां चारुहासिनीम् ।
कान्ताविरहजं दुःखं स्मराम्यहमनातुरः ॥ २८॥
मम भार्या मृता विष्णो दक्षयज्ञे सती यदा ।
तदाहं दुःसहं दुःखं भुक्तवानम्बुजेक्षण ॥ २९॥
संसारेऽस्मिन्नरः कोऽपि माभून्मत्सदृशोऽपरः ।
मनसाकरवं शोकं तस्या विरहपीडितः ॥ ३०॥
कालेन महता प्राप्ता मया गिरिसुता पुनः ।
तपस्तप्त्वातिदुःसाध्यं या दग्धा तु रुषाध्वरे ॥ ३१॥
हरे किं सुखमापन्नं त्वया सन्त्यज्य कामिनीम् ।
एकाकी तिष्ठता कालं सहस्रवत्सरात्मकम् ॥ ३२॥
गत्वाश्वास्य महाभागां समानय निजालयम् ।
माभूत्कोऽपीह संसारे विमुक्तो रमया तया ॥ ३३॥
कृत्वा तुरगरूपं त्वं भज तां कमलालयाम् ।
उत्पाद्य पुत्रमायुष्मंस्तामानय शुचिस्मिताम् ॥ ३४॥
व्यास उवाच ।
हरिराकर्ण्य तद्वाक्यं चित्ररूपस्य भारत ।
तथेत्युक्त्वा तु तं दूतं प्रेषयामास शङ्करम् ॥ ३५॥
गते दूतेऽथ भगवान्वैकुण्ठात्कामसंयुतः ।
जगाम धृत्वा तत्राशु वाजिरूपं मनोहरम् ॥ ३६॥
यत्र सा वडवारूपं कृत्वा तपति सिन्धुजा ।
विष्णुस्तं देशमासाद्य तामपश्यद्धयीं स्थिताम् ॥ ३७॥
सापि तं वीक्ष्य गोविन्दं हयरूपधरं पतिम् ।
ज्ञात्वा वीक्ष्य स्थिता साध्वी विस्मिता साश्रुलोचना ॥ ३८॥
तयोस्तु सङ्गमस्तत्र प्रवृत्तो मन्मथार्तयोः ।
कालिन्दीतमसासङ्गे पावने लोकविश्रुते ॥ ३९॥
सगर्भा सा तदा जाता वडवा हरिवल्लभा ।
सुषुवे सुन्दरं बालं तत्रैव सुगुणोत्तरम् ॥ ४०॥
तामाह भगवान्वाक्यं प्रहस्य समयाश्रितम् ।
त्यजाद्य वाडवं देहं पूर्वदेहा भवाधुना ॥ ४१॥
गमिष्यावः स्ववैकुण्ठमावां कृत्वा निजं वपुः ।
तिष्ठत्वत्र कुमारोऽयं त्वया जातः सुलोचने ॥ ४२॥
लक्ष्मीरुवाच ।
स्वदेहसम्भवं पुत्रं कथं हित्वा व्रजाम्यहम् ।
स्नेहः सुदुस्त्यजः कामं स्वात्मजस्य सुरर्षभ ॥ ४३॥
का गतिः स्यादमेयात्मन् बालस्यास्य नदीतटे ।
अनाथस्यासमर्थस्य विजनेऽल्पतनोरिह ॥ ४४॥
अनाश्रयं सुतं त्यक्त्वा कथं गन्तुं मनो मम ।
समर्थं सदयं स्वामिन् भवेदम्बुजलोचन ॥ ४५॥
दिव्यदेहौ ततो जातौ लक्ष्मीनारायणावुभौ ।
विमानवरसंविष्टौ स्तूयमानौ सुरैर्दिवि ॥ ४६॥
गन्तुकामं पतिं प्राह कमला कमलापतिम् ।
गृहाणेमं सुतं नाथ नाहं शक्तास्मि हापितुम् ॥ ४७॥
प्राणप्रियोऽस्ति मे पुत्रः कान्त्या त्वत्सदृशः प्रभो ।
गृहीत्वैनं गमिष्यावो वैकुण्ठं मधुसूदन ॥ ४८॥
हरिरुवाच ।
मा विषादं प्रिये कर्तुं त्वमर्हसि वरानने ।
तिष्ठत्वयं सुखेनात्र रक्षा मे विहिता त्विह ॥ ४९॥
कार्यं किमपि वामोरु वर्तते महदद्भुतम् ।
निबोध कथयाम्यद्य सुतस्यात्र विमोचने ॥ ५०॥
तुर्वसुर्नाम विख्यातो ययातितनुजो भुवि ।
हरिवर्मेति पित्रास्य कृतं नाम सुविश्रुतम् ॥ ५१॥
स राजा पुत्रकामोऽद्य तपस्तपति पावने ।
तीर्थे वर्षशतं जातं तस्य वै कुर्वतस्तपः ॥ ५२॥
तस्यार्थे निर्मितः पुत्रो मयायं कमलालये ।
तत्र गत्वा नृपं सुभ्रु प्रेरयिष्यामि साम्प्रतम् ॥ ५३॥
तस्मै दास्याम्यहं पुत्रं पुत्रकामाय कामिनि ।
गृहीत्वा स्वगृहं राजा प्रापयिष्यति बालकम् ॥ ५४॥
व्यास उवाच ।
इत्याश्वास्य प्रियां पद्मां कृत्वा रक्षां च बालके ।
विमानवरमारुह्य प्रययौ प्रियया सह ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनं नामैकोनविंशोऽध्यायः ॥ ६.१९॥
६.२० विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।
जनमेजय उवाच ।
संशयोऽयं महानत्र जातमात्रः शिशुस्तथा ।
मुक्तः केन गृहीतोऽसावेकाकी विजने वने ॥ १॥
का गतिस्तस्य बालस्य जाता सत्यवतीसुत ।
व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः ॥ २॥
व्यास उवाच ।
लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा ।
तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल ॥ ३॥
विमानवरमारूढः कामिन्या सहितो नृप ।
मदनालसया कामं क्रीडमानो यदृच्छया ॥ ४॥
विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् ।
देवपुत्रप्रतीकाशं रममाणं यथासुखम् ॥ ५॥
विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् ।
जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः ॥ ६॥
गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् ।
मदनालसायै तं बालं जातमात्रं मनोहरम् ॥ ७॥
सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया ।
मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम् ॥ ८॥
आलिङ्गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् ।
उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत ॥ ९॥
कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा ।
पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा ॥ १०॥
कस्यायं बालकः कान्त त्यक्तः केन च कानने ।
पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना ॥ ११॥
चम्पक उवाच ।
प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै ।
देवो वा दानवो वापि गन्धर्वो वा शिशुः किल ॥ १२॥
तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् ।
अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम् ॥ १३॥
इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः ।
ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः ॥ १४॥
प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् ।
निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः ॥ १५॥
देवदेव मया लब्धस्तीर्थे परमपावने ।
कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः ॥ १६॥
कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते ।
आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम् ॥ १७॥
अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः ।
कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा ॥ १८॥
इन्द्र उवाच ।
पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह ।
हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः ॥ १९॥
उत्पादितो भगवता कार्यार्थं किल बालकः ।
दातुं नृपतये नूनं ययातितनयाय च ॥ २०॥
हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः ।
आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे ॥ २१॥
तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् ।
यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः ॥ २२॥
गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर ।
अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति ॥ २३॥
तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् ।
एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले ॥ २४॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः ।
जगाम पुत्रमादाय स्थले तस्मिन्महीपते ॥ २५॥
मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् ।
आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम् ॥ २६॥
तदैव कमलाकान्तो लक्ष्म्या सह जगद्गुरुः ।
विमानवरमारूढो जगाम नृपतिं प्रति ॥ २७॥
दृष्टस्तदा तेन नृपेण विष्णुः
समुत्तरंस्तत्र विमानमुख्यात् ।
जहर्ष राजा हरिदर्शनेन
पपात भूमौ खलु दण्डवच्च ॥ २८॥
उत्तिष्ठ वत्सेति हरिः पतन्त-
माश्वासयद्भूमिगतं स्वभक्तम् ।
सोऽप्युत्सुको वासुदेवं पुरःस्थं
तुष्टाव भक्त्या मुखरीकृतोऽथ ॥ २९॥
देवाधिदेवाखिललोकनाथ
कृपानिधे लोकगुरो रमेश ।
मन्दस्य मे ते किल दर्शनं य-
त्सुदुर्लभं योगिजनैरलभ्यम् ॥ ३०॥
ये निःस्पृहास्ते विषयैरपेता-
स्तेषां त्वदीयं खलु दर्शनं स्यात् ।
आशापरोऽहं भगवन्ननन्त
योग्यो न ते दर्शने देवदेव ॥ ३१॥
इति स्तुतस्तेन नृपेण विष्णु-
स्तमाह वाक्येन सुधामयेन ।
वृणीष्व राजन् मनसेप्सितं ते
ददामि तुष्टस्तपसा तवेति ॥ ३२॥
ततो नृपस्तं प्रणिपत्य पादयोः
प्रोवाच विष्णुं पुरतः स्थितं च ।
तपस्तु तप्तं हि मया सुतार्थे
पुत्रं ददस्वात्मसमं मुरारे ॥ ३३॥
श्रुत्वा नृपप्रार्थितमादिदेव-
स्तमाह राजानममोघवाक्यम् ।
ययातिसूनो व्रज तत्र तीर्थे
कलिन्दकन्यातमसाप्रसङ्गे ॥ ३४॥
मयाद्य पुत्रस्तु यथेप्सितस्ते
तत्रैव मुक्तोऽस्त्यमितप्रभावः ।
लक्ष्म्याः प्रसूतो मम वीर्यजश्च
कृतस्तवार्थेऽथ गृहाण राजन् ॥ ३५॥
श्रुत्वा हरेर्वाक्यमतीव मृष्टं
सन्तुष्टचित्तः प्रबभूव राजा ।
हरिस्तु दत्त्वेति वरं जगाम
वैकुण्ठलोकं रमया युतश्च ॥ ३६॥
गते हरौ सोऽथ ययातिसूनु-
र्ययावनुद्धातरथेन राजा ।
प्रेमान्वितस्तत्र सुतोऽस्ति यत्र
वचो निशम्येति जनार्दनस्य ॥ ३७॥
स तत्र गत्वातिमनोहरं तं
ददर्श बालं भुवि खेलमानम् ।
मुखे निवेश्यैककरेण कृत्वा
श्लक्ष्णं पदाङ्गुष्ठमनन्यसत्त्वः ॥ ३८॥
तं वीक्ष्य पुत्रं मदनस्वरूपं
नारायणांशं कमलाप्रसूतम् ।
हरिप्रभावं हरिवर्मनामा
हर्षप्रफुल्लाननपङ्कजोऽभूत् ॥ ३९॥
गृह्णन् सुवेगात् करपङ्कजाभ्यां
बभूव प्रेमार्णवमग्नदेहः ।
मूर्धन्युपाघ्राय मुदान्वितोऽसौ
ननन्द राजा सुतमालिलिङ्ग ॥ ४०॥
मुखं समीक्ष्यातिमनोहरं त-
मुवाच नेत्राम्बुनिरुद्धकण्ठः ।
दत्तोऽसि देवेन जनार्दनेन
मात्रा हि पुत्रावमदुःखभीतेः ॥ ४१॥
तप्तं मया पुत्र तपस्तवार्थे
सुदुष्करं वर्षशतं च पूर्णम् ।
तेनैव तुष्टेन रमाप्रियेण
दत्तोऽसि संसारसुखोदयाय ॥ ४२॥
माता रमा त्वां तनुजं मदर्थे
त्यक्त्वा गता सा हरिणा समेता ।
धन्या तु सा या प्रहसन्तमङ्के
कृत्वा सुतं त्वां मुदितानना स्यात् ॥ ४३॥
त्वमेव संसारसमुद्रनौका-
रूपः कृतः पुत्र लक्ष्मीधरेण ।
इत्येवमुक्त्वा नृपतिः सुतं तं
मुदा समादाय ययौ गृहाय ॥ ४४॥
पुरीसमीपे नृपमागतं त-
माकर्ण्य सर्वे सचिवास्तु राज्ञः ।
ययुः समीपं नृपतेश्च लोकाः
सोपायनास्ते सपुरोहिताश्च ॥ ४५॥
बन्दीजना गायनकाश्च सूताः
समाययुः सम्मुखमाशु राज्ञः ।
नृपः पुरं प्राप्य पुरः समागतं
जनं समाश्वास्य वाक्यैश्च दृष्ट्या ॥ ४६॥
सम्पूजितः पौरजनेन राजा
विवेश पुत्रेण युतो नगर्याम् ।
मार्गेषु लाजैः कुसुमैः समन्ता-
द्विकीर्यमाणो नृपतिर्जगाम ॥ ४७॥
गृहं समृद्धं सचिवैः समेतः
सुतं समादाय मुदा कराभ्याम् ।
राज्ये ददौ चाथ सुतं मनोज्ञं
सद्यःप्रसूतं च मनोभवाभम् ॥ ४८॥
राज्ञी गृहीत्वाभिनवं तनूजं
पप्रच्छ राजानमनिन्दिता सा ।
राजन् कुतश्चैव सुतः सुजन्मा
प्राप्तस्त्वया मन्मथतुल्यरूपः ॥ ४९॥
केनैष दत्तः कथयाशु कान्त
चेतो मदीयं प्रहृतं सुतेन ।
नृपस्तदोवाच मुदान्वितोऽसौ
प्रिये रमेशेन सुतो हि मह्यम् ॥ ५०॥
लोलाक्षि दत्तः कमलासमुत्थो
जनार्दनांशोऽयमहीनसत्त्वः ।
सा तं गृहीत्वा मुदमाप राज्ञी
राजा चकारोत्सवमद्भुतं च ॥ ५१॥
ददौ च दानं किल याचकेभ्यो
गीतानि वाद्यानि बहूनि नेदुः ।
कृत्वोत्सवं भूपतिरात्मजस्य
नामैकवीरेति चकार विश्रुतम् ॥ ५२॥
सुखं च सम्प्राप्य मुदान्वितोऽसौ
ननन्द देवाधिपतुल्यवीर्यः ।
पुत्रं हरे रूपगुणानुरूपं
सम्प्राप्य वंशस्य ऋणाच्च मुक्तः ॥ ५३॥
इति सकलसुराणामीश्वरेणार्पितं तं
सकलगुणगणाढ्यं पुत्रमासाद्य राजा ।
विविधसुखविनोदैर्भार्यया सेव्यमानो
व्यहरत निजगेहे शक्रतुल्यप्रतापः ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे एकवीराख्यानवर्णनं नाम विंशोऽध्यायः ॥ ६.२०॥
६.२१ एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।
व्यास उवाच ।
जातकर्मादिसंस्कारांश्चकार नृपतिस्तदा ।
दिने दिने जगामाशु वृद्धिं बालः सुलालितः ॥ १॥
नृपः संसारजं प्राप्य सुखं पुत्रसभुद्भवम् ।
ऋणत्रयविमोक्षं च मेने तेन महात्मना ॥ २॥
षष्ठेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि ।
तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम् ॥ ३॥
चकार ब्राह्मणान् द्रव्यैः सम्पूज्य विविधैर्धनैः ।
गोभिश्च विविधैर्दानैर्याचकानितरानपि ॥ ४॥
वर्षे चैकादशे तस्य मौञ्जीबन्धनकर्म वै ।
कारयित्वा धनुर्वेदमध्यापयत पार्थिवः ॥ ५॥
अधीतवेदं पुत्रं तं राजधर्मविशारदम् ।
दृष्ट्वा तस्याभिषेकाय मतिं चक्रे जनाधिपः ॥ ६॥
पुष्यार्कयोगसंयुक्ते दिवसे नृपसत्तमः ।
कारयामास सम्भारानभिषेकार्थमादरात् ॥ ७॥
द्विजानाहूय वेदज्ञान् सर्वशास्त्रविचक्षणान् ।
अभिषेकं चकारासौ विधिवत् स्वात्मजस्य ह ॥ ८॥
जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः ।
स्वयं चकार विथिवदभिषेकं शुभे दिने ॥ ९॥
धनं दत्त्वाथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः ।
जगाम वनमेवाशु स्वर्गकामः स भूपतिः ॥ १०॥
एकवीरं नृपं कृत्वा सम्मान्य सचिवानथ ।
भार्यया सह भूपालः प्रविवेश वनं वशी ॥ ११॥
मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम् ।
नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम् ॥ १२॥
एवं स नृपतिः कृत्वा दिष्टान्ते सह भार्यया ।
मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा ॥ १३॥
इन्द्रलोकं पिता प्राप्त इति श्रुत्वाथ हैहयः ।
चकार वेदनिर्दिष्टं कर्म चैवौर्ध्वदैहिकम् ॥ १४॥
कृत्वोत्तराः क्रियाः सर्वाः पितुः पार्थिवनन्दनः ।
राज्यं चकार मेधावी पित्रा दत्तं सुसम्मतम् ॥ १५॥
एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् ।
बुभुजे विविधान् भोगान्सचिवैश्च सुमानितः ॥ १६॥
एकस्मिन् दिवसे राजा मन्त्रिपुत्रैः समन्वितः ।
जगाम जाह्नवीतीरे हयारूढः प्रतापवान् ॥ १७॥
सम्पश्यन् पादपान् रम्यान् कोकिलालापसंयुतान् ।
पुष्पितान् फलसंयुक्तान् षट्पदालिविराजितान् ॥ १८॥
मुनीनामाश्रमान्दिव्यान् वेदध्वनिनिनादितान् ।
होमधूमावृताकाशान् मृगशावसमावृतान् ॥ १९॥
केदाराञ्छालिसम्पक्वान् गोपिकाभिः सुरक्षितान् ।
प्रफुल्लपङ्कजारामान्निकुञ्जांश्च मनोरमान् ॥ २०॥
प्रेक्षमाणः प्रियालांस्तु चम्पकान् पनसद्रुमान् ।
बकुलांस्तिलकान्नीपान्मन्दारांश्च प्रफुल्लितान् ॥ २१॥
शालांस्तालांस्तमालांश्च जम्बूचूतकदम्बकान् ।
स गच्छञ्जाह्नवीतोये प्रफुल्लं शतपत्रकम् ॥ २२॥
पङ्कजं चातिगन्धाढ्यमपश्यदवनीपतिः ।
दक्षिणे जलजस्याथ पार्श्वे कमललोचनाम् ॥ २३॥
कनकाभां सुकेशीं च कम्बुग्रीवां कृशोदरीम् ।
बिम्बोष्ठी सुन्दरीं किञ्चित्समुद्यत्सुपयोधराम् ॥ २४॥
सुनासां चारुसर्वाङ्गीमपश्यत् कन्यकां नृपः ।
रुदतीं तां सखीं त्यक्त्वा विह्वलां दुःखपीडिताम् ॥ २५॥
साश्रुनेत्रां क्रन्दमानां विजने कुररीमिव ।
संवीक्ष्य राजा पप्रच्छ कन्यकां शोककारणम् ॥ २६॥
सुनसे ब्रूहि कासि त्वं कस्य पुत्री शुभानने ।
गन्धर्वी देवकन्याथ कथं रोदिषि सुन्दरि ॥ २७॥
कथमेकाकिनी बाले त्यक्ता केन पिकस्वरे ।
पतिस्ते क्व गतः कान्ते पिता वा ब्रूहि साम्प्रतम् ॥ २८॥
किं ते दुःखमरालभ्रु कथयाद्य ममान्तिके ।
करोमि दुःखनाशं ते सर्वथैव कृशोदरि ॥ २९॥
न राज्ये मम तन्वङ्गि पीडां कोऽपि करोत्यलम् ।
न भयं चौरजं कान्ते न राक्षसभयं तथा ॥ ३०॥
मयि शासति भूपाले नोत्पाता दारुणा भुवि ।
भयं न व्याघ्रसिंहेभ्यो न भयं कस्यचिद्भवेत् ॥ ३१॥
वद वामोरु कस्मात्त्वं विलापं जाह्नवीतटे ।
करोषि त्राणहीनात्र किं ते दुःखं वदस्व मे ॥ ३२॥
हन्म्यहं दुःखमत्युग्रं प्राणिनां पृथिवीतले ।
दैवं च मानुषं कान्ते व्रतमेतन्ममाद्भुतम् ॥ ३३॥
विशाललोचने ब्रूहि करोमि तव चिन्तितम् ।
इत्युक्ते वचने राज्ञा श्रुत्वोवाच मृदुस्वना ॥ ३४॥
शृणु राजेन्द्र वक्ष्यामि मम शोकस्य कारणम् ।
विपत्तिरहितः प्राणी कथं रुदति भूपते ॥ ३५॥
प्रब्रवीमि महाबाहो यदर्थं रुदती त्वहम् ।
तव राज्यादन्यदेशे राजा परमधार्मिकः ॥ ३६॥
रैभ्यो नाम महाराजः सन्तानरहितो भृशम् ।
तस्य भार्या सुविख्याता रुक्मरेखेति नामतः ॥ ३७॥
सुरूपा चतुरा साध्वी सर्वलक्षणसंयुता ।
अपुत्रा दुःखिता कान्तमित्युवाच पुनः पुनः ॥ ३८॥
किं जीवितेन मे नाथ धिग्वृथा जीवितं मम ।
वन्ध्यायाः सुखहीनाया ह्यपुत्राया धरातले ॥ ३९॥
इत्येवं भार्यया भूपः प्रेरितो मखमुत्तमम् ।
चकार ब्राह्मणांस्तज्ज्ञानाहूय विधिवत्तदा ॥ ४०॥
पुत्रकामो धनं भूरि ददावथ यथोदितम् ।
हूयमाने घृतेऽत्यर्थं पावकादतिसुप्रभात् ॥ ४१॥
आविर्बभूव चार्वङ्गी कन्यका शुभलक्षणा ।
बिम्बोष्ठी सुदती सुभ्रूः पूर्णचन्द्रनिभानना ॥ ४२॥
कनकाभा सुकेशान्ता रक्तपाणितला मृदुः ।
सुरक्तनयना तन्वी रक्तपादतला भृशम् ॥ ४३॥
हुताशनात्समुद्भूता होत्रा सा स्वीकृता तदा ।
होता प्रोवाच राजानं गृहीत्वा तां सुमध्यमाम् ॥ ४४॥
राजन् पुत्रीं गृहाणेमां सर्वलक्षणसंयुताम् ।
एकावलीव सम्भूता हूयमानाद्धुताशनात् ॥ ४५॥
नाम्ना चैकावली लोके ख्याता पुत्री भविष्यति ।
सुखितो भव भूपाल पुत्र्या पुत्रसमानया ॥ ४६॥
सन्तोषं कुरु राजेन्द्र दत्ता देवेन विष्णुना ।
होतुर्वाक्यं नृपः श्रुत्वा दृष्ट्वा तां कन्यकां शुभाम् ॥ ४७॥
जग्राह परमप्रीतो होत्रा दत्तां सुसम्मताम् ।
गृहीत्वा नृपतिस्तां तु ददौ पत्न्यै वराननाम् ॥ ४८॥
आभाष्य रुक्मरेखायै गृहाण सुभगे सुताम् ।
सा तां कमलपत्राक्षीं प्राप्य कन्यां मनोरमाम् ॥ ४९॥
जहर्ष मुदिता राज्ञी पुत्रं प्राप्य यथासुखम् ।
चकार मङ्गलं कर्म जातकर्मादिकं शुभम् ॥ ५०॥
पुत्रजन्मसमुत्थं यत्तत्सर्वं विधिवत्ततः ।
समाप्य च मखं राजा द्विजेभ्यो दक्षिणां शुभाम् ॥ ५१॥
दत्त्वा विसृज्य विप्रेन्द्रान् मुदं प्राप महीपतिः ।
दिने दिनेऽसितापाङ्गी पुत्रवृद्ध्या भृशं बभौ ॥ ५२॥
मुदं च परमां प्राप नृपभार्या सुतान्विता ।
उत्सवस्तद्दिने तस्य प्रवृत्तः सुतजन्मजः ॥ ५३॥
पुत्री पुत्रसमात्यर्थं बभूव वल्लभा किल ।
राज्ञो मन्त्रिसुता चाहं सुबुद्धे मन्मथाकृते ॥ ५४॥
यशोवती च मे नाम समानं वय आवयोः ।
वयस्याहं कृता राज्ञा क्रीडनाय तया सह ॥ ५५॥
सदा सहचरी जाता प्रेमयुक्ता दिवानिशम् ।
एकावली गन्धवन्ति यत्र पद्मानि पश्यति ॥ ५६॥
तत्र सा रमते बाला नान्यत्र सुखमाप्नुयात् ।
सुदूरे जाह्नवीतीरे भवन्ति कमलान्यपि ॥ ५७॥
रममाणा तत्र याता मत्समेता सखीयुता ।
मया निवेदितं राजन् पुत्री ते कमलाकरान् ॥ ५८॥
प्रेक्षमाणातिदूरे सा प्रयाति निर्जने वने ।
निषेधिताथ पित्रासौ गृहे कृत्वा जलाशयान् ॥ ५९॥
कमलान् वापयित्वाथ पुष्पितान् भ्रमरावृतान् ।
तथापि निर्ययौ बाला कमलासक्तचेतना ॥ ६०॥
तदा राज्ञा रक्षपालाः प्रेरिताः शस्त्रपाणयः ।
एवं रक्षायुता तन्वी मत्समेता सखीयुता ।
क्रीडार्थं जाह्नवीतोये नित्यमायाति याति च ॥ ६१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे राजपुत्र्याः एकावल्याः वर्णनं नामैकविंशोऽध्यायः ॥ ६.२१॥
६.२२ द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।
यशोवत्युवाच ।
प्रातरुत्थाय तन्वङ्गी चलिता च सखीयुता ।
चामरैर्वीज्यमाना सा रक्षिता बहुरक्षिभिः ॥ १॥
सायुधैश्चातिसन्नद्धैः सहिता वरवर्णिनी ।
क्रीडार्थमत्र राजेन्द्र सम्प्राप्ता नलिनीं शुभाम् ॥ २॥
अहमप्यनया सार्धं गङ्गातीरे समागता ।
अप्सरोभिः समेता च कमलैः क्रीडमानया ॥ ३॥
एकावली तथा चाहं जाते क्रीडापरे यदा ।
सहसैव तदायातो दानवो बलसंयुतः ॥ ४॥
कालकेतुरिति ख्यातो राक्षसैर्बहुभिर्युतः ।
परिघासिगदाचापबाणतोमरपाणिभिः ॥ ५॥
दृष्टा चैकावली तेन रूपयौवनशालिनी ।
द्वितीया कामपत्नीव क्रीडमाना सुपङ्कजैः ॥ ६॥
मयोक्तैकावली राजन् कोऽयं दैत्यः समागतः ।
गच्छावो रक्षपालानां मध्ये पङ्कजलोचने ॥ ७॥
विमृश्यैव सखी चाहं त्वरयैव गते भयात् ।
मध्ये वै सैनिकानां तु सायुधानां नृपात्मज ॥ ८॥
कालकेतुस्तु तां दृष्ट्वा मोहिनीं मदनातुरः ।
गदां गुर्वी गृहीत्वा तु धावमानः समागतः ॥ ९॥
रक्षकान्दूरतः कृत्वा जग्राहाम्बुजलोचनाम् ।
त्रस्तां वेपथुसंयुक्तां क्रन्दमानां कृशोदरीम् ॥ १०॥
त्यजैनां मां गृहाणेति मया चोक्तोऽपि दानवः ।
न मां जग्राह कामार्तस्तां गृहीत्वा विनिःसृतः ॥ ११॥
तिष्ठ तिष्ठेति भाषन्तो रक्षकास्तं महाबलम् ।
प्रतिषिध्य तु सङ्ग्रामं चक्रुर्विस्मयकारकम् ॥ १२॥
तस्यापि राक्षसाः क्रूराः सर्वतः शस्त्रपाणयः ।
युयुधू रक्षकैः सार्धं स्वामिकार्ये कृतोद्यमाः ॥ १३॥
सङ्ग्रामस्तु तदा जातः कालकेतोस्तथा रणे ।
निहत्य रक्षकान्सर्वान्गृहीत्वैनां महाबलः ॥ १४॥
युक्तो राक्षससैन्येन निर्जगाम पुरं प्रति ।
वीक्ष्य तां रुदतीं बालां गृहीता दानवेन तु ॥ १५॥
पृष्ठतोऽहं गता तत्र यत्र नीता सखी मम ।
विक्रोशन्ती यथा सा मां पश्येदिति पदानुगा ॥ १६॥
सापि मामागतां वीक्ष्य किञ्चित्स्वस्थाभवत्तदा ।
गताहं तत्समीपे तु तामाभाष्य पुनः पुनः ॥ १७॥
सा मां प्राप्यातिदुःखार्ता स्तम्भस्वेदसमाकुला ।
कण्ठे गृहीत्वा मां भूप रुरोद भृशदुःखिता ॥ १८॥
स मामाह कालकेतुः प्रीतिपूर्वमिदं वचः ।
समाश्वासय भीतां त्वं सखीं चञ्चललोचनाम् ॥ १९॥
प्राप्तं ममाद्य नगरं देवलोकसमं प्रिये ।
दासोऽस्मि तव रत्या हि कस्मात्क्रन्दसि कातरा ॥ २०॥
कथयैनां सखीं तेऽद्य स्वस्था भव सुलोचने ।
इत्युक्त्वा मां सखीपार्श्वे समारोप्य रथोत्तमे ॥ २१॥
जगाम तरसा दुष्टः पुरे स्वस्य मनोहरे ।
सैन्येन महता युक्तः प्रफुल्लवदनाम्बुजः ॥ २२॥
एकावली तथा मां च संस्थाप्य धवले गृहे ।
राक्षसान् गृहरक्षार्थं कल्पयामास कोटिशः ॥ २३॥
द्वितीये दिवसे सोऽथ मामुवाच रहो नृप ।
प्रबोधय सखीं बालां शोचन्तीं विरहातुराम् ॥ २४॥
पत्नी मे भव सुश्रोणि सुखं भुङ्क्षव यथेप्सितम् ।
राज्यं त्वदीयं चन्द्रास्ये सेवकोऽहं सदा तव ॥ २५॥
पुनरुक्तं मया वाक्यं श्रुत्वा तद्भाषितं खरम् ।
नाहं क्षमाप्रियं वक्तुं त्वमेनां कथय प्रभो ॥ २६॥
इत्युक्ते वचने दुष्टो मदनक्षतमानसः ।
उवाच विनयादेनां सखीं क्षामोदरीं प्रियाम् ॥ २७॥
कृशोदरि त्वया मन्त्रो निक्षिप्तोऽस्ति ममोपरि ।
तेन मे हृदयं कान्ते हृतं ते वशतां गतम् ॥ २८॥
तेनाहं तव दासोऽद्य कृतोऽस्मीति विनिश्चयः ।
भज मां कामबाणेन पीडितं विवशं भृशम् ॥ २९॥
यौवनं याति रम्भोरु चञ्चलं दुर्लभं तदा ।
सफलं कुरु कल्याणि पतिं मां परिरभ्य च ॥ ३०॥
एकावल्युवाच ।
पित्राहं कल्पिता पूर्वं दातुं राजसुताय वै ।
हैहयस्तु महाभाग स मया मनसा वृतः ॥ ३१॥
कथमन्यं भजे कान्तं त्यक्त्वा धर्मं सनातनम् ।
कन्याधर्मं विहायाद्य वेत्सि शास्त्रविनिश्चयम् ॥ ३२॥
यस्मै दद्यात्पिता कामं कन्या तं पतिमाप्नुयात् ।
परतन्त्रा सदा कन्या न स्वातन्त्र्यं कदाचन ॥ ३३॥
इत्युक्तोऽपि तया पापी विरराम न मोहितः ।
न मुमोच विशालाक्षीं मां च पार्श्वस्थितां तथा ॥ ३४॥
पातालविवरे तस्य पुरं परमसङ्कटे ।
राक्षसै रक्षितं दुर्गं मण्डितं परिखावृतम् ॥ ३५॥
तत्र तिष्ठति दुःखार्ता सखी मे प्राणवल्लभा ।
तेनाहं विरहेणात्र रारटीमि सुदुःखिता ॥ ३६॥
एकवीर उवाच ।
कथं त्वमत्र सम्प्राप्ता पुरात्तस्य दुरात्मनः ।
विस्मयो मे महानत्र तत्त्वं ब्रूहि वरानने ॥ ३७॥
त्वया च कथितं वाक्यं सन्दिग्धं भाति भामिनि ।
हैहयार्थे कल्पिता सा पित्रेति मम साम्प्रतम् ॥ ३८॥
हैहयो नाम राजाहं नान्योऽस्ति पृथिवीपतिः ।
मदर्थे कथिता सा किं सखी तव सुलोचना ॥ ३९॥
एतन्मे संशयं सुभ्रु छेत्तुमर्हसि भामिनि ।
अहं तामानयिष्यामि तं हत्वा राक्षसाधमम् ॥ ४०॥
स्थानं दर्शय मे तस्य यदि जानासि सुव्रते ।
राज्ञे निवेदितं किं वा तत्पित्रे चातिदुःखिता ॥ ४१॥
यस्यैषा वल्लभा पुत्री न किं जानाति तां हृताम् ।
नोद्यमः किं कृतस्तेन ततो मोचनहेतवे ॥ ४२॥
बन्दीकृतां सुतां ज्ञात्वा कथं तिष्ठति सुस्थिरः ।
असमर्थो नृपः किं वा कारणं ब्रूहि सत्वरम् ॥ ४३॥
त्वया मेऽपहृतं चेतो गुणानुक्त्वा ह्यमानुषान् ।
सख्याः पङ्कजपत्राक्षि कृतः कामवशो भृशम् ॥ ४४॥
कदा पश्यामि तां कान्तां मोचयित्वातिसङ्कटात् ।
इति मे हृदयं चाद्य करोत्यतिमनोरथम् ॥ ४५॥
ब्रूहि मे गमनोपायं पुरे तस्यातिदुर्गमे ।
कथं त्वमागता तस्मात्सङ्कटादत्र तद्वद ॥ ४६॥
यशोवत्युवाच ।
बालभावान्मया मन्त्रो भगवत्या विशाम्पते ।
प्राप्तोऽस्ति ब्राह्मणात्सिद्धात्सबीजध्यानपूर्वकः ॥ ४७॥
तत्रावस्थितया राजन् मया चित्ते विचारितम् ।
आराधयामि सततं चण्डिकां चण्डविक्रमाम् ॥ ४८॥
सा देवी सेविता कामं बन्धमोक्षं करिष्यति ।
भक्तानुकम्पिनी शक्तिः समर्था सर्वसाधने ॥ ४९॥
या विश्वं सृजते शक्त्या पालयत्येव सा पुनः ।
कल्पान्ते संहरत्येव निराकारा निराश्रया ॥ ५०॥
इति सञ्चिन्त्य मनसा देवीं विश्वेश्वरीं शिवाम् ।
ध्यात्वा रक्ताम्बरां सौम्यां सुरक्तनयनां हृदि ॥ ५१॥
संस्मृत्य मनसा रूपं मन्त्रजाप्यपराभवम् ।
उपासिता मया देवी मासमेकं समाधिना ॥ ५२॥
स्वप्ने मम समायाता भक्तिभावेन तोषिता ।
मामाहामृतया वाचा किं सुप्तासीति चण्डिका ॥ ५३॥
उत्तिष्ठ याहि तरसा गङ्गातीरं मनोहरम् ।
आगमिष्यति तत्रासौ हैहयो नृपपुङ्गवः ॥ ५४॥
एकवीरो महाबाहुः सर्वशत्रुविमर्दनः ।
दत्तात्रेयेण मन्मन्त्रो महाविद्याभिधः परः ॥ ५५॥
दत्तोऽस्मै सोऽपि सततं मामुपास्तेऽतिभक्तितः ।
मय्यासक्तमतिर्नित्यं मम पूजापरायणः ॥ ५६॥
मामेव सर्वभूतेषु ध्यायन्नास्ते च मत्परः ।
स ते दुःखविनाशं वै करिष्यति महामतिः ॥ ५७॥
मासुतो विहरंस्तत्र तव त्राता भविष्यति ।
हत्वा तं राक्षसं घोरं मोचयिष्यति मानिनीम् ॥ ५८॥
एकावलीमेकवीरः सर्वशास्त्रविशारदः ।
पश्चात्सैव पतिः कार्यस्त्वया राजसुतः शुभः ॥ ५९॥
इत्युक्त्वान्तर्दधे देवी प्रबुद्धाहं तदैव हि ।
कथितं स्वप्नवृत्तान्तं देव्याश्चाराधनं तथा ॥ ६०॥
प्रसन्नवदना जाता श्रुत्वा सा कमलेक्षणा ।
विशेषेण च सन्तुष्टा मामुवाच शुचिस्मिता ॥ ६१॥
गच्छ तत्र त्वरायुक्ता कुरु कार्यं मम प्रिये ।
सत्यवाक्या भगवती सावां मोक्षं विधास्यति ॥ ६२॥
इत्याज्ञप्ता तया चाहं सख्या वै प्रेमयुक्तया ।
मत्वोपसरणं युक्तं तस्मात्स्थानात्तदा नृप ॥ ६३॥
चालिताहं ततः शीघ्रं महादेवीप्रसादतः ।
मार्गज्ञानं शीघ्रगतिर्मया प्राप्ता नृपात्मज ॥ ६४॥
इत्येतत्कथितं सर्वं कारणं मम दुःखजम् ।
कस्त्वं कस्य सुतश्चेति वद वीर यथा तथा ॥ ६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनं नाम द्वाविंशोऽध्यायः ॥ ६.२२॥
६.२३ त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।
व्यास उवाच ।
तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् ।
प्रफुल्लवदनाम्भोजस्तामुवाच विशाम्पते ॥ १॥
राजोवाच ।
रम्भोरु यस्त्वया पृष्टो वृत्तान्तो विशदाक्षरः ।
हेहयोऽहं चैकवीरनाम्ना सिन्धुसुतासुतः ॥ २॥
मनो मे यत्त्वया नूनं परतन्त्रं कृतं किल ।
किं करोमि क्व गच्छामि विरहेणातिपीडितः ॥ ३॥
प्रथमं रूपमाख्यातं सर्वलोकातिगं त्वया ।
तेन मे विह्वलं जातं कामबाणहतं मनः ॥ ४॥
ततस्तस्या गुणाः प्रोक्तास्तैस्तु चित्तं हृतं पुनः ।
यत्त्वयोक्तं पुनर्वाक्यं तेन मे विस्मयोऽभवत् ॥ ५॥
एकावल्या वचः प्रोक्तं दानवाग्रे मया वृतः ।
हैहयस्तं विना नान्यं वृणोमीति विनिश्चयः ॥ ६॥
तेन वाक्येन तन्वङ्गि भृत्योऽहमधुना कृतः ।
त्वया तस्याः सुकेशान्ते ब्रूहि किं करवाणि वाम् ॥ ७॥
स्थानं तस्य न जानामि राक्षसस्य दुरात्मनः ।
गतिर्मे नास्ति गमने पुरे तस्मिन्सुलोचने ॥ ८॥
वद मां त्वं विशालाक्षि तत्र प्रापयितुं क्षमा ।
प्रापयाशु सखी ते सा यत्र तिष्ठति सुन्दरी ॥ ९॥
हत्वा तं राक्षसं क्रूरं मोचयिष्यामि साम्प्रतम् ।
विवशां शोकसन्तप्तां राजपुत्रीं तव प्रियाम् ॥ १०॥
विमुक्तदुःखां कृत्वाऽऽशु प्रापयिष्यामि ते पुरम् ।
पित्रे चास्याः प्रदास्यामि कन्यामेकावलीमहम् ॥ ११॥
पश्चाद्विवाहं कर्तासौ राजा पुत्र्याः परन्तपः ।
एवं ते मनसः कामो मम चापि प्रियंवदे ॥ १२॥
भविष्यति स सम्पूर्णः साधनेन तवाधुना ।
दर्शयाशु पुरं तस्य पश्य मे त्वं पराक्रमम् ॥ १३॥
यथा हन्मि दुराचारं परदारापहारकम् ।
तथा कुरु प्रियं कर्तुं शक्तासि वरवर्णिनि ॥ १४॥
मार्गं दर्शय तस्याद्य पुरस्य दुर्गमस्य च ।
व्यास उवाच ।
तन्निशम्य प्रियं वाक्यं मुदिता च यशोवती ॥ १५॥
तमुवाच रमापुत्रं गमनोपायमादरात् ।
मन्त्रं गृहाण राजेन्द्र भगवत्यास्तु सिद्धिदम् ॥ १६॥
दर्शयिष्यामि तस्याद्य पुरं राक्षसपालितम् ।
सज्जो भव महाभाग गमनाय मया सह ॥ १७॥
सैन्येन महता युक्तस्तत्र युद्धं भविष्यति ।
कालकेतुर्महावीरो राक्षसैर्बलिभिर्वृतः ॥ १८॥
तस्मान्मन्त्रं गृहीत्वा त्वं व्रज तत्र मया सह ।
दर्शयिष्यामि ते मार्गं पुरस्यास्य दुरात्मनः ॥ १९॥
हत्वा तं पापकर्माणं मोचयाशु च मे सखीम् ।
श्रुत्वा तद्वचनं वीरो मन्त्रं जग्राह सत्वरः ॥ २०॥
दत्तात्रेयाद्दैवयोगात्प्राप्ताज्ज्ञानिवराच्छुभात् ।
योगेश्वरीमहामन्त्रं त्रिलोकीतिलकाभिधम् ॥ २१॥
तेन सर्वज्ञता जाता सर्वान्तश्चारिता तथा ।
तया सह जगामाशु पुरं तस्य सुदुर्गमम् ॥ २२॥
रक्षितं राक्षसैघोरैः पातालमिव पन्नगैः ।
यशोवत्या च सैन्येन महता संयुतो नृपः ॥ २३॥
तमायान्तं समालोक्य दूतास्तस्य भयातुराः ।
क्रोशन्तोऽभिययुः पार्श्वं कालकेतोस्तरस्विनः ॥ २४॥
तमूचुः सहसा मत्वा राक्षसं काममोहितम् ।
एकावलीसमीपस्थं कुर्वन्तं विनयान्बहून् ॥ २५॥
दूता ऊचुः ।
राजन् यशोवती नारी कामिन्याः सहचारिणी ।
आयाति सह सैन्येन राजपुत्रेण संयुता ॥ २६॥
जयन्तो वा महाराज कार्तिकेयोऽथवा नु किम् ।
आगच्छति बलोन्मत्तो वाहिनीसहितः किल ॥ २७॥
संयत्तो भव राजेन्द्र सङ्ग्रामः समुपस्थितः ।
देवपुत्रेण युध्यस्व त्यज वा कमलेक्षणाम् ॥ २८॥
इतो दूरेऽस्ति सैन्यं तद्योजनत्रयमात्रतः ।
सज्जो भव महीपाल दुन्दुभिं घोषयाशु वै ॥ २९॥
व्यास उवाच ।
तेषां तद्वचनं श्रुत्वा राक्षसः क्रोधमूर्च्छितः ।
राक्षसान्प्रेरयामास सायुधान्सबलान्वहून् ॥ ३०॥
गच्छध्वं राक्षसाः सर्वे सम्मुखाः शस्त्रपाणयः ।
तानाज्ञाप्य कालकेतुः पप्रच्छ प्रणयान्वितः ॥ ३१॥
एकावलीं समीपस्थां विवशां भृशदुःखिताम् ।
कोऽयमायाति तन्वङ्गि पिता ते वापरः पुमान् ॥ ३२॥
त्वदर्थे सैन्यसंयुक्तो ब्रूहि सत्यं कृशोदरि ।
पिता ते यदि सम्प्राप्तो नेतुं त्वां विरहातुरः ॥ ३३॥
ज्ञात्वा ते पितरं सम्यक् सङ्ग्रामं न करोम्यहम् ।
आनयित्वा गृहे पूजां रत्नैर्वस्त्रैर्हयैः शुभैः ॥ ३४॥
करोमि तस्य चातिथ्यं गृहे प्राप्तस्य सर्वथा ।
अन्यश्चेद्यदि सम्प्राप्तस्तं हन्मि निशितैः शरैः ॥ ३५॥
आनीतः किल कालेन मरणाय महात्मना ।
तस्माद्वद विशालाक्षि कोऽयमायाति मन्दधीः ॥ ३६॥
अज्ञात्वा मां दुराधर्षं कालरूपं महाबलम् ।
एकावल्युवाच ।
न जानेऽहं महाभाग कोऽयमायाति सत्वरः ॥ ३७॥
नमेऽस्ति विदितः कोऽपि स्थितायास्तव बन्धने ।
नायं पिता मे न भ्राता कोऽप्यन्योऽस्ति महाबलः ॥ ३८॥
किमर्थमिह चायाति नाहं वेद विनिश्चयम् ।
दैत्य उवाच ।
एवं वदन्त्यमी दूता वयस्या ते यशोवती ॥ ३९॥
समानीय च तं वीरमागतेति कृतोद्यमा ।
क्व गता सा सखी कान्ते विदग्धा कार्यनिश्चये ॥ ४०॥
नान्यः कोऽपि ममारातिर्यो मे प्रतिबलो भवेत् ।
व्यास उवाच ।
एतस्मिन्नन्तरे दूतास्तत्रान्ये वै समागताः ॥ ४१॥
ते होचुस्त्वरिता भीताः कालकेतुं गृहे स्थितम् ।
किं स्वस्थोऽसि महाराज समीपे सैन्यमागतम् ॥ ४२॥
निर्गच्छ नगरात्तूर्णं सैन्येन महताऽऽवृतः ।
इति तेषां वचः श्रुत्वा कालकेतुर्महाबलः ॥ ४३॥
रथमारुह्य त्वरितो निर्ययौ स्वपुराद्बहिः ।
एकवीरोऽपि सहसा हयारूढः प्रतापवान् ॥ ४४॥
आगतस्तत्र कामिन्या विरहेण समाकुलः ।
युद्धं तयोरभूत्तत्र वृत्रवासवयोरिव ॥ ४५॥
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।
वर्तमाने तदा युद्धे कातराणां भयावहे ॥ ४६॥
गदया ताडयामास दैत्यं सिन्धुसुतासुतः ।
स गतासुः पपातोर्व्यां वज्राहत इवाचलः ॥ ४७॥
पलायित्वा गताः सर्वे राक्षसा भयपीडिताः ।
यशोवती ततो गत्वा वेगादेकावलीं तदा ॥ ४८॥
उवाच मधुरां वाणीं विस्मिता मुदिता भृशम् ।
एह्यालि नृपपुत्रेण दानवोऽसौ निपातितः ॥ ४९॥
एकवीरेण धीरेण युद्धं कृत्वा सुदारुणम् ।
स्कन्धावारेऽप्यसौ राजा तिष्ठत्यद्य श्रमातुरः ॥ ५०॥
दर्शनं काङ्क्षमाणस्ते श्रुतरूपगुणस्तव ।
पश्य तं कुटिलापाङ्गि मनोभवसमं नृपम् ॥ ५१॥
कथिता त्वं मया पूर्वं तस्याग्रे जाह्नवीतटे ।
पूर्णानुरागः सञ्जातस्तेनासौ विरहातुरः ॥ ५२॥
वाञ्छति त्वां चारुरूपां द्रष्टुं नृपतिनन्दनः ।
सा तस्या वचनं श्रुत्वा गमनाय मनो दधे ॥ ५३॥
लज्जमाना भृशं भीत्या कौमारं प्राप्तया तया ।
कथं तस्य मुखं द्रक्ष्ये कुमारी ह्यवशा भृशम् ॥ ५४॥
स मां गृह्णाति कामार्त इति चिन्ताकुला सती ।
यशोवत्या युता तत्र नरयानस्थिता ययौ ॥ ५५॥
स्कन्धावारेऽतिमलिना मलिनाम्बरधारिणी ।
तामागतां विशालाक्षीं दृष्ट्वा राजसुतोऽब्रवीत् ॥ ५६॥
दर्शनं देहि तन्वङ्गि तृषिते नयने मम ।
कामातुरं च तं वीक्ष्य तां च लज्जाभरावृताम् ॥ ५७॥
नीतिज्ञा शिष्टमार्गज्ञा तमुवाच यशोवती ।
राजपुत्र पिताप्यस्यास्त्वामेनां दातुमिच्छति ॥ ५८॥
एषापि त्वद्वशा नूनं भविता सङ्गमस्तव ।
कालं प्रतीक्ष्य राजेन्द्र नयैनां पितुरन्तिकम् ॥ ५९॥
स विवाहविधिं कृत्वा दास्यतीति विनिश्चयः ।
स तस्या वचनं तथ्यं मत्वा सैन्यसमन्वितः ॥ ६०॥
समेतः कामिनीभ्यां तु ययौ तत्पितुराश्रमम् ।
राजपुत्रीं तथायातां श्रुत्वा प्रेमसमन्वितः ॥ ६१॥
प्रययौ सम्मुखस्तूर्णं सचिवैः परिवेष्टितः ।
बहुभिर्दिवसैर्दृष्टा पुत्री सा मलिनाम्बरा ॥ ६२॥
यशोवत्या तु वृत्तान्तः कथितो विस्तरात्पुनः ।
एकवीरं मिलित्वासौ गृहमानीय चादरात् ॥ ६३॥
पुण्येऽह्नि कारयामास विवाहं विधिपूर्वकम् ।
पारिबर्हं ततो दत्त्वा सम्पूज्य विधिवत्तदा ॥ ६४॥
पुत्रीं विसर्जयामास यशोवत्या समन्विताम् ।
एवं विवाहे संवृत्ते रमापुत्रो मुदान्वितः ॥ ६५॥
गृहं प्राप्य बहून्भोगाम्बुभुजे प्रियया समम् ।
बभूव तस्यां पुत्रस्तु कृतवीर्याभिधः किल ।
तत्सुतः कार्तवीर्यस्तु वंशोऽयं कथितो मया ॥ ६६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे एकवीरैकावल्योर्विवाहवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ६.२३॥
६.२४ चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।
राजोवाच ।
भगवंस्त्वन्मुखाम्भोजाच्च्युतं दिव्यकथारसम् ।
न तृप्तिमधिगच्छामि पिबंस्तु सुधया समम् ॥ १॥
विचित्रमिदमाख्यानं कथितं भवता मम ।
हैहयानां समुत्पत्तिर्विस्तराद्विस्मयप्रदा ॥ २॥
परं कौतूहलं मेऽत्र यद्विष्णुः कमलापतिः ।
देवदेवो जगन्नाथः सृष्टिस्थित्यन्तकारकः ॥ ३॥
सोऽप्यश्वभावमापन्नो भगवान्हरिरच्युतः ।
परतन्त्रः कथं जातः स्वतन्त्रः पुरुषोत्तमः ॥ ४॥
एतन्मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् ।
सर्वज्ञस्त्वं मुनिश्रेष्ठ ब्रूहि वृत्तान्तमद्भुतम् ॥ ५॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि सन्देहस्यास्य निर्णयम् ।
यथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात् ॥ ६॥
ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः ।
सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः ॥ ७॥
स चैकदा मुनिश्रेष्ठो विचरन्पृथिवीमिमाम् ।
वादयन्महतीं वीणां स्वरतानसमन्विताम् ॥ ८॥
बृहद्रथन्तरादीनां साम्नां भेदाननेकशः ।
गायन्गायत्रममृतं सम्प्राप्तोऽथ ममाश्रमम् ॥ ९॥
शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् ।
निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा ॥ १०॥
तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् ।
अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम् ॥ ११॥
अर्घ्यपाद्यविधिं कृत्वा तस्यासनस्थितस्य च ।
उपविष्टः समीपेऽहं मुनेरमिततेजसः ॥ १२॥
दृष्ट्वा विश्रमिणं शान्तं नारदं ज्ञानपारदम् ।
तमपृच्छमहं राजन् यत्पृष्टोऽहं त्वयाधुना ॥ १३॥
असारेऽस्मिंस्तु संसारे प्राणिनां किं सुखं मुने ।
न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्क्वचित् ॥ १४॥
द्वीपे जातो जनन्याहं सन्त्यक्तस्तत्क्षणादपि ।
अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः ॥ १५॥
तपस्तप्तं मया चोग्रं पर्वते बहुवार्षिकम् ।
पुत्रकामेन देवर्षे शङ्करः समुपासितः ॥ १६॥
ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः ।
पाठितस्तु मया सम्यग्वेदानां सार आदितः ॥ १७॥
स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् ।
लोकाल्लोकान्तरं साधो वचनात्तव बोधितः ॥ १८॥
ततोऽहं पुत्रसन्तप्तस्त्यक्त्वा मेरुं महागिरिम् ।
मातरं मनसा कृत्वा सम्प्राप्तः कुरुजाङ्गलम् ॥ १९॥
पुत्रस्नेहादतितरां कृशाङ्गः शोकसंयुतः ।
जानन्मिथ्येति संसारं मायापाशनियन्त्रितः ॥ २०॥
ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् ।
स्थितोऽत्रैवाश्रमं कृत्वा सरस्वत्यास्तटे शुभे ॥ २१॥
शन्तनुः स्वर्गतिं प्राप्तो विधुरा जननी स्थिता ।
पुत्रद्वययुता साध्वी भीष्मेण प्रतिपालिता ॥ २२॥
चित्राङ्गदः कृतो राजा गङ्गापुत्रेण धीमता ।
कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः ॥ २३॥
ततः सत्यवती माता निमग्ना शोकसागरे ।
चित्राङ्गदं मृतं पुत्रं रुरोद भृशमातुरा ॥ २४॥
सम्प्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् ।
आश्वासिता मयात्यर्थं भीष्मेण च महात्मना ॥ २५॥
विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः ।
कृतो भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह ॥ २६॥
काशिराजसुते रम्ये विजित्य पृथिवीपतीन् ।
भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते ॥ २७॥
सत्यवत्यै शुभे काले विवाहः परिकल्पितः ।
भ्रातुर्विचित्रवीर्यस्य तदाहं सुखितोऽभवम् ॥ २८॥
पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् ।
अनपत्यो युवा धन्वी माता मे दुःखिताभवत् ॥ २९॥
काशिराजसुते द्वे तु मृतं दृष्ट्वा पतिं तदा ।
पतिव्रताधर्मपरे भगिन्यौ सम्बभूवतुः ॥ ३०॥
ते ऊचतुः सतीं श्वश्रूं रुदतीं भृशदुःखिताम् ।
पतिना सहगामिन्यौ भविष्यावो हुताशने ॥ ३१॥
पुत्रेण सह ते श्वश्रु स्वर्गे गत्वाथ नन्दने ।
सुखेन विहरिष्यावः पतिना सह संयुते ॥ ३२॥
निवारिते तदा मात्रा वध्वौ तस्मान्महोद्यमात् ।
स्नेहभावं समाश्रित्य भीष्मस्य वचनात्तदा ॥ ३३॥
गाङ्गेयेन च मात्रा मे सम्मन्त्र्य च परस्परम् ।
कृत्वौर्ध्वदैहिकं सर्वं संस्मृतोऽहं गजाह्वये ॥ ३४॥
स्मृतमात्रस्तु मात्रा वै ज्ञात्वा भावं मनोगतम् ।
तरसैवागतश्चाहं नगरं नागसाह्वयम् ॥ ३५॥
प्रणम्य मातरं मूर्ध्ना संस्थितोऽथ कृताञ्जलिः ।
तामब्रवं सुतप्ताङ्गीं पुत्रशोकेन कर्शिताम् ॥ ३६॥
मातस्त्वया किमाहूतो मनसाहं तपस्विनि ।
आज्ञापय महत्कार्ये दासोऽस्मि करवाणि किम् ॥ ३७॥
त्वं मे तीर्थं परं मातर्देवश्च प्रथितः परः ।
आगतश्चिन्तितश्चात्र ब्रूहि कृत्यं तव प्रियम् ॥ ३८॥
व्यास उवाच ।
इत्युक्त्वाहं स्थितस्तत्र मातुरग्रे यदा मुने ।
तदा सा मामुवाचेदं पश्यन्ती भीष्ममन्तिके ॥ ३९॥
पुत्र तेऽद्य मृतो भ्राता पीडितो राजयक्ष्मणा ।
तेनाहं दुःखिता जाता वंशच्छेदभयादिह ॥ ४०॥
तस्मात्त्वमद्य मेधाविन् मयाहूतः समाधिना ।
गाङ्गेयस्य मतेनात्र पाराशर्यार्थसिद्धये ॥ ४१॥
कुलं स्थापय नष्टं त्वं शन्तनोर्नामकारणात् ।
रक्ष मां दुःखतः कृष्ण वंशच्छेदोद्भवाद्द्रुतम् ॥ ४२॥
काशिराजसुते भार्ये भ्रातुस्तव यवीयसः ।
साधोर्विचित्रवीर्यस्य रूपयौवनभूषिते ॥ ४३॥
ताभ्यां सङ्गम्य मेधाविन् पुत्रोत्पादनकं कुरु ।
रक्षस्व भारतं वंशं नात्र दोषोऽस्ति कर्हिचित् ॥ ४४॥
व्यास उवाच ।
इति मातुर्वचः श्रुत्वा जातश्चिन्तातुरो ह्यहम् ।
लज्जयाऽऽकुलचित्तस्तामब्रवं विनयानतः ॥ ४५॥
मातः पापाधिकं कर्म परदाराभिमर्शनम् ।
ज्ञात्वा धर्मपथं सम्यक्करोमि कथमादरात् ॥ ४६॥
तथा यवीयसो भ्रातुर्वधूः कन्या प्रकीर्तिता ।
व्यभिचारं कथं कुर्यामधीत्य निगमानहम् ॥ ४७॥
अन्यायेन न कर्तव्यं सर्वथा कुलरक्षणम् ।
न तरन्ति हि संसारात्पितरः पापकारिणः ॥ ४८॥
लोकानामुपदेष्टा यः पुराणानां प्रवर्तकः ।
स कथं कुत्सितं कर्म ज्ञात्वा कुर्यान्महाद्भुतम् ॥ ४९॥
पुनरुक्तो ह्यहं मात्रा रुदत्या भृशमन्तिके ।
पुत्रशोकातितप्ता या वंशरक्षणकाम्यया ॥ ५०॥
पाराशर्य न ते दोषो वचनान्मम पुत्रक ।
गुरूणां वचनं तथ्यं सदोषमपि मानवैः ॥ ५१॥
कर्तव्यमविचार्यैव शिष्टाचारप्रमाणतः ।
वचनं कुरु मे पुत्र न ते दोषोऽस्ति मानद ॥ ५२॥
पुत्रस्य जननं कृत्वा सुखिनी कुरु मातरम् ।
विशेषेण तु सन्तप्तां मग्नां शोकार्णवे सुत ॥ ५३॥
इति तां ब्रुवतीं श्रुत्वा तदा सुरनदीसुतः ।
मामुवाच विशेषज्ञः सूक्ष्मधर्मस्य निर्णये ॥ ५४॥
द्वैपायन विचारोऽत्र न कर्तव्यस्त्वयानघ ।
मातुर्वचनमादाय विहरस्व यथासुखम् ॥ ५५॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा मातुश्च प्रार्थनं तथा ।
निःशङ्कोऽहं तदा जातः कार्ये तस्मिञ्जुगुप्सिते ॥ ५६॥
अम्बिकायां प्रवृत्तोऽहमृतुमत्यां मुदा निशि ।
मयि विमनसायां तु तापसे कुत्सिते भृशम् ॥ ५७॥
शप्ता मया सा सुश्रोणी प्रसङ्गे प्रथमे तदा ।
अन्धस्ते भविता पुत्रो यतो नेत्रे निमीलिते ॥ ५८॥
द्वितीयेऽह्नि मुनिश्रेष्ठ पृष्टो मात्रा रहः पुनः ।
भविष्यति सुतः पुत्र काशिराजसुतोदरे ॥ ५९॥
मयोक्ता जननी तत्र व्रीडानम्रमुखेन ह ।
विनेत्रो भविता पुत्रो मातः शापान्ममैव हि ॥ ६०॥
तया निर्भर्त्सितस्तत्र कठोरवचसा मुने ।
कथं पुत्र त्वया शप्ता पुत्रस्तेऽन्धो भविष्यति ॥ ६१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
अम्बिकायां नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ६.२४॥
६.२५ पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।
व्यास उवाच ।
वासवी चकिता जाता श्रुत्वा मे वाक्यमीदृशम् ।
दाशेयी मामुवाचेदं पुत्रार्थे भृशमातुरा ॥ १॥
अम्बालिका वधूर्धन्या काशिराजसुता सुत ।
भार्या विचित्रवीर्यस्य विधवा शोकसंयुता ॥ २॥
सर्वलक्षणसम्पन्ना रूपयौवनशालिनी ।
तस्यां जनय सङ्गं त्वं कृत्वा पुत्रं सुसम्मतम् ॥ ३॥
नान्धो राजाधिकारी स्यात्तस्मात्पुत्र मनोहरम् ।
उत्पादय राजपुत्र्यां वचनान्मम मानद ॥ ४॥
इत्युक्तोऽहं तदा मात्रा स्थितस्तत्र गजाह्वये ।
यावदृतुमती जाता काशिराजसुता मुने ॥ ५॥
एकान्ते शयनागारे प्राप्ता सा मम सन्निधौ ।
लज्जमाना सुकेशान्ता स्वश्वश्रूवचनात्तदा ॥ ६॥
दृष्ट्वा मां जटिलं दान्तं तापसं रसवर्जितम् ।
सा स्वेदवदना जाता पाण्डुरा विमना भृशम् ॥ ७॥
कुपितोऽहं तदा दृष्ट्वा कामिनीं निशि सङ्गताम् ।
वेपमानां स्थितां पार्श्वे ह्यब्रवं तामहं रुषा ॥ ८॥
दृष्ट्वा मां यदि गर्वेण पाण्डुवर्णा समावृता ।
अतस्ते तनयः पाण्डुर्भविष्यति सुमध्यमे ॥ ९॥
इत्युक्त्वा निशि तत्रैव स्थितोऽम्बालिकया युतः ।
भुक्त्वा तां निशि निर्यातः स्थानमापृच्छ्य मातरम् ॥ १०॥
ततस्ताभ्यां सुतौ काले प्रसूतावन्धपाण्डुरौ ।
धृतराष्ट्रश्च पाण्डुश्च प्रथितौ सम्बभूवतुः ॥ ११॥
माता मे विमना जाता तादृशौ वीक्ष्य तौ सुतौ ।
ततः संवत्सरस्यान्ते मामाहूय तदाब्रवीत् ॥ १२॥
द्वैपायन सुतौ जातौ राज्ययोग्यौ न तादृशौ ।
अन्यं मनोहरं पुत्रं समुत्पादय मे प्रियम् ॥ १३॥
तथेति सा मया प्रोक्ता मुदिता जननी तदा ।
अम्बिकां प्रार्थयामास सुतार्थे काल आगते ॥ १४॥
पुत्रि व्यासं समालिङ्ग्य पुत्रमुत्पादयाद्भुतम् ।
कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने ॥ १५॥
वधूर्लज्जान्विता किञ्चिन्नोवाच वचनं तदा ।
गतोऽहं शयनागारे मातुस्तद्वचनान्निशि ॥ १६॥
दासी विचित्रवीर्यस्य रूपयौवनसंयुता ।
प्रेषिताम्बिकया त्वत्र विचित्राभरणाम्बरा ॥ १७॥
चन्दनारक्तदेहा सा पुष्पमालाविभूषिता ।
आयाता हावसंयुक्ता सुकेशी हंसगामिनी ॥ १८॥
पर्यङ्के मां समावेश्य संस्थिता प्रेमसंयुता ।
प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने ॥ १९॥
रात्रौ सङ्क्रीडितं प्रेम्णा तया सह मया भृशम् ।
वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद ॥ २०॥
सुभगे भविता पुत्रः सर्वलक्षणसंयुतः ।
सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः ॥ २१॥
स तदा विदुरो जातस्त्रयः पुत्रा मयाभवन् ।
माया वृद्धिं गता साधो परक्षेत्रोद्भवे मम ॥ २२॥
विस्मृतः शुकसम्बन्धी विरहः शोककारणम् ।
दृष्ट्वा त्रीन्स्वसुतान्कामं बलिनो वीर्यसम्मतान् ॥ २३॥
माया बलवती ब्रह्मन् दुस्त्यजा ह्यकृतात्मभिः ।
अरूपा च निरालम्बा ज्ञानिनामपि मोहिनी ॥ २४॥
मातरि स्नेहसम्बद्धं तथा पुत्रेषु संवृतम् ।
न मे चित्तं वने शान्तिमगान्मुनिवरोत्तम ॥ २५॥
दोलारूढं मनो जातं कदाचिद्धस्तिनापुरे ।
पुनः सरस्वतीतीरे न चैकत्र व्यवस्थितिः ॥ २६॥
कदाचिच्चिन्तयन् ज्ञानं मानसे प्रतिभाति वै ।
केऽमी पुत्राः क्व मोहोऽयं न श्राद्धार्हा मृतस्य मे ॥ २७॥
व्यभिचारोद्भवाः किं मे सुखदाः स्युः सुताः किल ।
माया बलवती मोहं वितनोति हि मानसे ॥ २८॥
जानन्मोहान्धकूपेऽस्मिन्पतितोऽहं मृषा मुने ।
इत्यकुर्वं रहस्तापं कदाचित्स्सुसमाहितः ॥ २९॥
राज्यं प्राप ततः पाण्डुर्बलवान्भीष्मसम्मतः ।
तदा मम मनो जातं प्रसन्नं सुतकारणात् ॥ ३०॥
कुन्ती माद्री सुरूपे द्वे भार्ये तस्य बभूवतुः ।
शूरसेनसुता कुन्ती मद्रराजसुतापरा ॥ ३१॥
स शापं द्विजतः प्राप्य कामिनीद्वयसंयुतः ।
पाण्डुर्निर्वेदमापन्नस्त्यक्त्वा राज्यं वनं गतः ॥ ३२॥
तदा मामाविशच्छोकः श्रुत्वा पुत्रं वने स्थितम् ।
गतोऽहं तत्र यत्रासौ भार्याभ्यां सह संस्थितः ॥ ३३॥
तमाश्वास्य वने पाण्डुं पुनः प्राप्तो गजाह्वये ।
धृतराष्ट्रं समाभाष्य ह्यगमं ब्रह्मजातटे ॥ ३४॥
क्षेत्रजान्पञ्चपुत्रान्स समुत्पाद्य वनाश्रमे ।
धर्मतो वायुतः शक्रादश्विभ्यां पञ्च पाण्डवान् ॥ ३५॥
युधिष्ठिरो भीमसेनस्तथैवार्जुन इत्यपि ।
कुन्तीपुत्राः समाख्याता धर्मानिलसुरेशजाः ॥ ३६॥
नकुलः सहदेवश्च मद्रराजसुतासुतौ ।
कदाचित्तु रहो माद्रीं समालिङ्ग्य महीपतिः ॥ ३७॥
मृतः शापात्तु मुनिभिः संस्कृतो हुतभुङ्मुखे ।
माद्री तत्र सती भूत्वा प्रविष्टा पतिना सह ॥ ३८॥
स्थिता पुत्रयुता कुन्ती ज्वलिते जातवेदसि ।
मुनयः सुतसंयुक्तां शूरसेनसुतां तदा ॥ ३९॥
दुःखितां पतिहीनां तामानिन्युर्गजसाह्वये ।
समर्पिताथ भीष्माय विदुराय महात्मने ॥ ४०॥
श्रुत्वाहं सुखदुःखाभ्यां पीडितस्तु परात्मभिः ।
भीष्मेण पालिताः पुत्राः पाण्डोरिति विचिन्त्य ते ॥ ४१॥
विदुरेण तथा प्रीत्या धृतराष्ट्रेण धीमता ।
दुर्योधनादयस्तस्य पुत्रा ये क्रूरमानसाः ॥ ४२॥
एकत्र स्थितिमापन्ना विरोधं चकुरद्भुतम् ।
द्रोणाचार्यस्तु सम्माप्तस्तत्र भीष्मेण मानितः ॥ ४३॥
अध्यापनाय पुत्राणां पुरे तस्मिन्निवासितः ।
कर्णः कुन्त्या परित्यक्तो जातमात्रः शिशुर्यदा ॥ ४४॥
सूतेन पालितो नद्यां प्रान्तश्चाधिरथेन ह ।
दुर्योधनप्रियश्चाभूत्कर्णः शूरतमस्तथा ॥ ४५॥
परस्परं विरोधोऽभूद्भीमदुर्योधनादिषु ।
धृतराष्ट्रस्तु सञ्चिन्त्य क्लेशं पुत्रेषु तेषु च ॥ ४६॥
निवासं कल्पयामास पाण्डवानां महात्मनाम् ।
विरोधशमनायैव नगरे वारणावते ॥ ४७॥
दुर्योधनेन तत्रैव द्रोहाज्जतुगृहाणि वै ।
कारितानि च दिव्यानि प्रेष्य मित्रं पुरोचनम् ॥ ४८॥
श्रुत्वा जतुगृहे दग्धान्पाण्डवान्पृथया युतान् ।
पौत्रभावान्मुनिश्रेष्ठ मग्नोऽहं व्यसनार्णवे ॥ ४९॥
शोकातुरो भृशं शून्ये वने पश्यन्नहर्निशम् ।
दृष्टा मयैकचक्रायां पाण्डवा दुःखकर्शिताः ॥ ५०॥
ततस्तुष्टमनाश्चाहं जातः पार्थान्विलोक्य च ।
प्रेरितास्ते मया तूर्णं द्रुपदस्य पुरं प्रति ॥ ५१॥
ते गतास्तत्र दुःखार्ता विप्रवेषधराः कृशाः ।
मृगचर्मपरीधानाः सभायां संस्थितास्तदा ॥ ५२॥
कृत्वा पराक्रमं जिष्णुः स जित्वा द्रुपदात्मजाम् ।
चक्रुर्विवाहं मानिन्या पञ्चैव मातृवाक्यतः ॥ ५३॥
दृष्ट्वा विवाहं तेषां तु मुदितोऽहं भृशं तदा ।
ततो नागाह्वये प्राप्ताः पाञ्चालीसहिता मुने ॥ ५४॥
निवासं खाण्डवप्रस्थं धृतराष्ट्रेण कल्पितम् ।
पाण्डवानां द्विजश्रेष्ठ वसुदेवसुतेन वै ॥ ५५॥
तर्पितः पावकस्तत्र विष्णुना सह जिष्णुना ।
राजसूयः कृतो यज्ञस्तदाहं मुदितोऽभवम् ॥ ५६॥
दृष्ट्वाथ विभवं तेषां तथा मयकृतां सभाम् ।
दुर्योधनोऽतिसन्तप्तो दुरोदरमथाकरोत् ॥ ५७॥
दुर्द्यूतवेदी शकुनिरनक्षज्ञश्च धर्मजः ।
हृतं राज्यं धनं सर्वं याज्ञसेनी च क्लेशिता ॥ ५८॥
वने द्वादश वर्षाणि पाण्डवास्ते विवासिताः ।
पाञ्चालीसहितास्तेन दुःखं मे जनितं भृशम् ॥ ५९॥
एवं नारद संसारे सुखदुःखात्मके भृशम् ।
निमग्नोऽहं भ्रमेणैव जानन् धर्मं सनातनम् ॥ ६०॥
कोऽहं कस्य सुतास्तेऽमी का माता किं सुखं पुनः ।
येन मे हृदयं मोहाद्भ्रमतीति दिवानिशम् ॥ ६१॥
किं करोमि क्व गच्छामि सन्तोषो नाधिगच्छति ।
दोलारूढं मनो मेऽत्र चञ्चलं न स्थिरं भवेत् ॥ ६२॥
सर्वज्ञोऽसि मुनिश्रेष्ठ सन्देहं मे निवर्तय ।
तथा कुरु यथाहं स्यां सुखितो विगतज्वरः ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे व्यासस्वकीयमोहवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ६.२५॥
६.२६ षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।
व्यास उवाच ।
इति मे वचनं श्रुत्वा नारदः परमार्थवित् ।
मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम् ॥ १॥
नारद उवाच ।
पाराशर्य पुराणज्ञ किं पृच्छसि सुनिश्चयम् ।
संसारेऽस्मिन्विना मोहं कोऽपि नास्ति शरीरवान् ॥ २॥
ब्रह्माविष्णुस्तथा रुद्रः सनकः कपिलस्तथा ।
मायया वेष्टिताः सर्वे भ्रमन्ति भववर्त्मनि ॥ ३॥
ज्ञानिनं मां जनो वेत्ति भ्रान्तोऽहं सर्वलोकवत् ।
शृणु मे पूर्ववृत्तान्तं प्रब्रवीमि सुनिश्चितम् ॥ ४॥
दुःखं मया यथा पूर्वमनुभूतं महत्तरम् ।
स्वकृतेन च मोहेन भार्यार्थे वासवीसुत ॥ ५॥
एकदा पर्वतश्चाहं देवलोकान्महीतलम् ।
प्राप्तो विलोकनार्थाय भारतं खण्डमुत्तमम् ॥ ६॥
भ्रमन्तौ सहितावुर्व्यां पश्यन्तौ तीर्थमण्डलम् ।
पावनानि च स्थानानि मुनीनामाश्रमाञ्छुभान् ॥ ७॥
शपथं देवलोकात्तु कृत्वा पूर्वं परस्परम् ।
चलितौ समयं चेमं सम्मन्त्र्य निश्चयेन वै ॥ ८॥
चित्तवृत्तिस्तु वक्तव्या यादृशी यस्य जायते ।
शुभा वाप्यशुभा वापि न गोप्तव्या कदाचन ॥ ९॥
भोजनेच्छा धनेच्छापि रतीच्छा वा भवेदपि ।
यादृशी यस्य चित्ते तु कथनीया परस्परम् ॥ १०॥
इत्यावां समयं कृत्वा स्वर्गाद्भूलोकमागतौ ।
एकचित्तौ मुनीभूतौ विचरन्तौ यथेच्छया ॥ ११॥
एवं भ्रमन्तौ लोकेऽस्मिन्ग्रीष्मान्ते समुपागते ।
सञ्जयस्य पुरं रम्यं सम्प्राप्तौ नृपते पुनः ॥ १२॥
तेन सम्पूजितौ भक्त्या राज्ञा सम्मानितौ भृशम् ।
स्थितौ तत्र गृहे तस्य चातुर्मास्यं महात्मनः ॥ १३॥
वार्षिकाश्चतुरो मासा दुर्गमाः पथि सर्वदा ।
तस्मादेकत्र विबुधैः स्थातव्यमिति निश्चयः ॥ १४॥
अष्टौ मासांस्तु प्रवसेत्सदा कार्यवशाद्द्विजः ।
वर्षाकाले न गन्तव्यं प्रवासे सुखमिच्छता ॥ १५॥
इति सञ्चिन्त्य मनसा सञ्जयस्य गृहे तदा ।
संस्थितौ मानितौ राज्ञा कृतातिथ्यौ महात्मना ॥ १६॥
दमयन्तीति विख्याता तस्य पुत्री महीपतेः ।
आज्ञप्ता परिचर्यार्थं सुदती सुन्दरी भृशम् ॥ १७॥
विवेकज्ञा विशालाक्षी राजपुत्री कृतोद्यमा ।
सेवनं सर्वकाले च व्यदधादुभयोरपि ॥ १८॥
स्नानार्थमुदकं काले भोजनं मृष्टमायतम् ।
मुखवासं तथा चान्यं यदिष्टं तद्ददाति सा ॥ १९॥
मनोऽभिलषितान्कामानुभयोरपि कन्यका ।
व्यजनासनशय्यादीन्वाञ्छितानप्यकल्पयत् ॥ २०॥
एवं संसेव्यमानौ तु स्थितौ राज्ञो गृहे किल ।
वेदाध्ययनसंशीलावावां वेदव्रते रतौ ॥ २१॥
अहं वीणां करे कृत्वा साधयित्वा स्वरोत्तमम् ।
गायत्रं साम सुस्वादमगां कर्णरसायनम् ॥ २२॥
राजपुत्री तु तच्छ्रुत्वा सामगानं मनोहरम् ।
बभूव मयि रागाढ्या प्रीतियुक्ता विशारदा ॥ २३॥
दिने दिनेऽनुरागोऽस्या मयि वृद्धिं गतः परः ।
ममापि प्रीतियुक्तायां मनो जातं स्पृहापरम् ॥ २४॥
मम तस्य च सा कन्या भोजनादिषु कर्हिचित् ।
अकरोदन्तरं किञ्चित्सेवाभेदं रसान्विता ॥ २५॥
स्नानायोष्णजलं मह्यं पर्वताय च शीतलम् ।
दधि मह्यं तथा तक्रं पर्वतायाप्यकल्पयत् ॥ २६॥
शयनास्तरणं शुभ्रं मदर्थे पर्यकल्पयत् ।
प्रीत्या परमया यद्वत्पर्वताय न तादृशम् ॥ २७॥
विलोकयति मां प्रेम्णा सुन्दरी न च पर्वतम् ।
ततोऽस्यास्तादृशं दृष्ट्वा पर्वतः प्रेमकारणम् ॥ २८॥
मनसा चिन्तयामास किमेतदिति विस्मितः ।
पप्रच्छ मां रहः सम्यग्ब्रूहि नारद सर्वथा ॥ २९॥
राजपुत्री त्वयि प्रेम करोति मुदिता भृशम् ।
ददाति भक्ष्यभोज्यानि स्नेहयुक्ता समन्ततः ॥ ३०॥
न तथा मयि भेदोऽत्र सन्देहं जनयत्यसौ ।
मन्यते त्वां पतिं कर्तुं सर्वथा सञ्जयात्मजा ॥ ३१॥
तवापि तादृशं भावं जानामि लक्षणैरहम् ।
नेत्रवक्त्रविकारैश्च ज्ञायते प्रीतिकारणम् ॥ ३२॥
सत्यं वद न ते मिथ्या वक्तव्यं वचनं मुने ।
स्वर्गतः समयं कृत्वा चलितौ संस्मराधुना ॥ ३३॥
नारद उवाच ।
पृष्टोऽहं पर्वतेनेदं कारणं तु हठाद्यदा ।
तदाहं ह्रीसमाक्रान्तः सञ्जातश्चाब्रुवं पुनः ॥ ३४॥
पर्वतैषा विशालाक्षी पतिं मां कर्तुमुद्यता ।
ममापि मानसो भावो वर्ततेऽस्यां विशेषतः ॥ ३५॥
तच्छ्रुत्वा वचनं सत्यं पर्वतः कोपसंयुतः ।
मामुवाच मुनिर्वाक्यं धिग्धिगिति पुनः पुनः ॥ ३६॥
प्रथमं शपथान्कृत्वा वञ्चितोऽहं त्वया यतः ।
भव वानरवक्त्रस्त्वं शापाच्च मम मित्रधुक् ॥ ३७॥
इति शप्तस्तु तेनाहं कुपितेन महात्मना ।
सहसा ह्यभवं क्रूरः शाखामृगमुखस्तदा ॥ ३८॥
मयापि न कृता तस्मिन्क्षमा तु भगिनीसुते ।
सोऽपि शप्तोऽतिकोपाद्वै मा स्वर्गे ते गतिः किल ॥ ३९॥
स्वल्पेऽपराधे यस्मान्मां शप्तवानसि पर्वत ।
तस्मात्तवापि मन्दात्मन् मृत्युलोके स्थितिः किल ॥ ४०॥
पर्वतस्तु गतस्तस्मान्नगराद्विमना भृशम् ।
अहं वानरवक्त्रस्तु सञ्जातस्तत्क्षणादपि ॥ ४१॥
दृष्ट्वा मां वानरं क्रूरं राजपुत्री विलक्षणा ।
विमनातीव सञ्जाता वीणाश्रवणलालसा ॥ ४२॥
व्यास उवाच ।
ततः किमभवद्ब्रह्मन् कथं शापान्निवर्तितः ।
मानुषास्यः पुनर्जातो भवान्ब्रूहि यथाविधि ॥ ४३॥
पर्वतः क्व गतो भूयः सङ्गमो युवयोरभूत् ।
कदा कुत्र कथं सर्वं विस्तरेण वदस्व ह ॥ ४४॥
नारद उवाच ।
किं ब्रवीमि महाभाग मायायाश्चरितं महत् ।
दुःखितोऽहं भृशं तत्र पर्वते रुषिते गते ॥ ४५॥
पुनः सेवापरात्यर्थं राजपुत्री ममाभवत् ।
गतेऽथ पर्वते कामं स्थितस्तत्रैव सद्मनि ॥ ४६॥
अहं दुःखान्वितो दीनस्तथा वानरवन्मुखः ।
विशेषेण तु चिन्तार्तः किं मे स्यादिति चिन्तयन् ॥ ४७॥
सञ्जयोऽथ सुतां दृष्ट्वा किञ्चित्प्रकटयौवनाम् ।
विवाहार्थे राजसुतामपृच्छत्सचिवं तदा ॥ ४८॥
विवाहकालः सम्प्राप्तः सुताया मम साम्प्रतम् ।
योग्यं वरं मम ब्रूहि राजपुत्रं सुसम्मतम् ॥ ४९॥
रूपौदार्यगुणैर्युक्तं शूरं सुकुलसम्भवम् ।
विवाहं विधिवत्पुत्र्याः करोमि किल साम्प्रतम् ॥ ५०॥
प्रधानस्त्वब्रवीद्राजन् राजपुत्रा ह्यनेकशः ।
वर्तन्ते भुवि पुत्र्यास्ते योग्याः सर्वगुणान्विताः ॥ ५१॥
यस्मिन् रुचिस्ते राजेन्द्र तमाहूय नृपात्मजम् ।
देहि कन्यां धनं भूरि हस्त्यश्वरथसंयुतम् ॥ ५२॥
नारद उवाच ।
पितुश्चिकीर्षितं ज्ञात्वा दमयन्ती तदा नृपम् ।
धात्र्या मुखेन वाक्यज्ञा तमुवाच रहः स्थितम् ॥ ५३॥
धात्र्युवाच ।
दमयन्ती महाराज पुत्री ते मामथाब्रवीत् ।
पितरं ब्रूहि धात्रेयि वचनान्मे सुखान्वितम् ॥ ५४॥
मया वृतोऽथ मेधावी नारदो महतीयुतः ।
नादमोहितया कामं नान्यः कोऽपि प्रियो मम ॥ ५५॥
कुरु मे वाञ्छितं तात विवाहं मुनिना सह ।
नान्यं वरिष्ये धर्मज्ञ नारदं तु पतिं विना ॥ ५६॥
मग्नाहं नादसिन्धौ वै नक्रहीने रसात्मके ।
अक्षारे सुखसम्पूर्णे तिमिङ्गिलविवर्जिते ॥ ५७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे दमयन्तीविवाहप्रस्ताववर्णनं नाम षड्विंशोऽध्यायः ॥ ६.२६॥
६.२७ सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।
नारद उवाच ।
तत्पुत्र्या वचनं श्रुत्वा राजा धात्रीमुखात्ततः ।
भार्यां प्रोवाच कैकेयीं समीपस्थां सुलोचनाम् ॥ १॥
राजोवाच ।
यदुक्तं वचनं कान्ते धात्र्या तत्तु त्वया श्रुतम् ।
वृतोऽयं नारदः कामं मुनिर्वानरवक्त्रभाक् ॥ २॥
किमिदं चिन्तितं पुत्र्या बुद्धिहीनं विचेष्टितम् ।
कथमस्मै मया देया कन्या हरिमुखाय सा ॥ ३॥
क्वासौ भिक्षुः कुरूपः क्व दमयन्ती ममात्मजा ।
विपरीतमिदं कार्यं न विधेयं कदाचन ॥ ४॥
तामेकान्ते सुकेशान्ते निवारय हठात्सुताम् ।
युक्त्या मुनिरतां मुग्धां शास्त्रवृद्धानुसारया ॥ ५॥
इति भर्तृवचः श्रुत्वा जननी तामथाब्रवीत् ।
च ते रूपं मुनिः क्वासौ वानरास्योऽधनः पुनः ॥ ६॥
कथं मोहमवाप्तासि भिक्षुके चतुरा पुनः ।
लताकोमलदेहा त्वं भस्मरूक्षतनुस्त्वयम् ॥ ७॥
वार्ता वानरवक्त्रेण कथं युक्ता तवानघे ।
का प्रीतिः कुत्सिते पुंसि भविष्यति शुचिस्मिते ॥ ८॥
वरस्ते राजपुत्रोऽस्तु मा कुरु त्वं वृथा हठम् ।
पिता ते दुःखमाप्नोति श्रुत्वा धात्रीमुखाद्वचः ॥ ९॥
लग्नां बुबूलवृक्षेण कोमलां मालतीलताम् ।
दृष्ट्वा कस्य मनः खेदं चतुरस्य न गच्छति ॥ १०॥
दासेरकाय ताम्बूलीदलानि कोमलानि कः ।
ददाति भक्षणार्थाय मूर्खोऽपि धरणीतले ॥ ११॥
वीक्ष्य त्वां करसंलग्नां नारदस्य समीपतः ।
विवाहे वर्तमाने तु कस्य चेतो न दह्यति ॥ १२॥
कुमुखेन समं वार्ता न रुचिं जनयत्यतः ।
आमृतेस्तु कथं कालः क्षपितव्यस्त्वयामुना ॥ १३॥
नारद उवाच ।
इति मातुर्वचः श्रुत्वा दमयन्ती भृशातुरा ।
मातरं प्राह तन्वङ्गी मयि सा कृतनिश्चया ॥ १४॥
किं मुखेन च रूपेण मूर्खस्य च धनेन किम् ।
किं राज्येनाविदग्धस्य रसमार्गाविदोऽस्य च ॥ १५॥
हरिण्योऽपि वने धन्या या नादेन विमोहिताः ।
मातः प्राणान्प्रयच्छन्ति धिङ्मूर्खान्मानुषान्भुवि ॥ १६॥
नारदो वेत्ति यां विद्यां मातः सप्तस्वरात्मिकाम् ।
तृतीयः कोऽपि नो वेद शिवादन्यः पुमान्किल ॥ १७॥
मूर्खेण सह संवासो मरणं तत्क्षणे क्षणे ।
रूपवान्धनवांस्त्याज्यो गुणहीनो नरः सदा ॥ १८॥
धिङ्मैत्रीं मूर्खभूपाले वृथा गर्वसमन्विते ।
गुणज्ञे भिक्षुके श्रेष्ठा वचनात्सुखदायिनी ॥ १९॥
स्वरज्ञो ग्रामवित्कामं मूर्च्छनाज्ञानभेदभाक् ।
दुर्लभः पुरुषश्चाष्टरसज्ञो दुर्बलोऽपि वै ॥ २०॥
यथा नयति कैलासं गङ्गा चैव सरस्वती ।
तथा नयति कैलासं स्वरज्ञानविशारदः । २१॥
स्वरमानं तु यो वेद स देवो मानुषोऽपि सन् ।
सप्तभेदं न यो वेद स पशुः सुरराडपि ॥ २२॥
मूर्च्छनातानमार्गं तु श्रुत्वा मोदं न याति यः ।
स पशुः सर्वथा ज्ञेयो हरिणाः पशवो न हि ॥ २३॥
वरं विषधरः सर्पः श्रुत्वा नादं मनोहरम् ।
अश्रोत्रोऽपि मुदं याति धिक्सकर्णांश्च मानवान् ॥ २४॥
बालोऽपि सुस्वरं गेयं श्रुत्वा मुदितमानसः ।
जायते किन्तु ते वृद्धा न जानन्ति धिगस्तु तान् ॥ २५॥
पिता मे किं न जानाति नारदस्य गुणान् बत ।
द्वितीयः सामगो नास्ति त्रिषु लोकेषु तत्समः ॥ २६॥
तस्मादसौ मया नूनं वृतः पूर्वं समागमात् ।
पश्चाच्छापवशाज्जातो वानरास्यो गुणाकरः ॥ २७॥
किन्नरा न प्रियाः कस्य भवन्ति तुरगाननाः ।
गानविद्यासमायुक्ताः किं मुखेन वरेण ह ॥ २८॥
पितरं ब्रूहि मे मातर्वृतोऽयं मुनिसत्तमः ।
तस्मात्त्वमाग्रहं त्यक्त्वा देहि तस्मै च मां मुदा ॥ २९॥
नारद उवाच ।
इति पुत्र्या वचः श्रुत्वा राज्ञी राज्ञे न्यवेदयत् ।
आग्रहं सुन्दरी ज्ञात्वा सुताया नारदे मुनौ ॥ ३०॥
विवाहं कुरु राजेन्द्र दमयन्त्याः शुभे दिने ।
मुनिना स च सर्वज्ञो वृतोऽसौ मनसानया ॥ ३१॥
नारद उवाच ।
इति सञ्चोदितो राज्ञ्या सञ्जयः पृथिवीपतिः ।
चकार विथिवत्सर्वं विधिं वैवाहिकं ततः ॥ ३२॥
एवं दारग्रहं कृत्वा वानरास्यः परन्तप ।
स्थितस्तत्रैव मनसा दह्यमानेन चान्वहम् ॥ ३३॥
यदाऽऽगच्छद्राजसुता सेवार्थं मम सन्निधौ ।
अभवं दुःखसन्तप्तस्तदाहं वानराननः ॥ ३४॥
दमयन्ती तु मां वीक्ष्य प्रफुल्लवदनाम्बुजा ।
शोकं वानरवक्त्रत्वान्न चकार कदाचन ॥ ३५॥
एवं गच्छति काले तु सहसा पर्वतो मुनिः ।
कुर्वंस्तीर्थान्यनेकानि द्रष्टुं मां समुपागतः ॥ ३६॥
मयातिमानितः प्रेम्णा पूजितश्च यथाविधि ।
आसीन आसने दिव्ये वीक्ष्य मां दुःखितो ह्यभूत् ॥ ३७॥
कृतदारं वानरास्यं दीनं चिन्तातुरं भृशम् ।
दयावान्मामुवाचेदं पर्वतो मातुलं कृशम् ॥ ३८॥
मया नारद कोपात्त्वं शप्तोऽसि मुनिसत्तम ।
निष्कृतिं तस्य शापस्य करोम्यद्य निशामय ॥ ३९॥
भव त्वं चारुवदनो मम पुण्येन नारद ।
दृष्ट्वा राजसुतां चित्ते कृपा जाता ममाधुना ॥ ४०॥
नारद उवाच ।
मयापि प्रवणं चित्तं कृत्वा श्रुत्वास्य भाषितम् ।
अनुग्रहः कृतः सद्यस्तस्य शापस्य तत्क्षणात् ॥ ४१॥
भागिनेय तवाप्यस्तु गमनं सुरसद्मनि ।
शापस्यानुग्रहः कामं कृतोऽयं पर्वताधुना ॥ ४२॥
नारद उवाच ।
जातोऽहं चारुवदनो वचनात्तस्य पश्यतः ।
राजपुत्री तु सन्तुष्टा मातरं प्राह सत्वरम् ॥ ४३॥
मातस्ते सुमुखो जातो जामाता च महाद्युतिः ।
वचनात्पर्वतस्याद्य मुक्तशापो मुनेरभूत् ॥ ४४॥
तच्छ्रुत्वा वचनं राज्ञ्या कथितं तत्तु राजनि ।
ययौ द्रष्टुं मुनिं तत्र सञ्जयः प्रीतिमांस्तदा ॥ ४५॥
धनं समर्पितं राज्ञा सन्तुष्टेन तदा महत् ।
मह्यं च भागिनेयाय पारिबर्हं महात्मना ॥ ४६॥
एतत्ते सर्वमाख्यातं वर्तनं यत्पुरातनम् ।
मायाया बलमाहात्म्यं ह्यनुभूतं यथा मया ॥ ४७॥
संसारेऽस्मिन्महाभाग मायागुणकृतेऽनृते ।
तनुभृत्तु सुखी नास्ति न भूतो न भविष्यति ॥ ४८॥
कामक्रोधौ तथा लोभो मत्सरो ममता तथा ।
अहङ्कारो मदः केन जिताः सर्वे महाबलाः ॥ ४९॥
सत्त्वं रजस्तमश्चैव गुणास्त्रय इमे किल ।
कारणं प्राणिनां देहसम्भवे सर्वथा मुने ॥ ५०॥
कस्मिंश्चित्समये व्यास वनेऽहं विष्णुना सह ।
गच्छन्हास्यविनोदेन स्त्रीभावं गमितः क्षणात् ॥ ५१॥
राजपत्नीत्वमापन्नो मायाबलविमोहितः ।
पुत्राः प्रसूता बहवो गेहे तस्य नृपस्य ह ॥ ५२॥
व्यास उवाच ।
संशयोऽयं महान्साधो श्रुत्वा ते वचनं किल ।
कथं नारीत्वमापन्नस्त्वं मुने ज्ञानवान्भृशम् ॥ ५३॥
कथं च पुरुषो जातो ब्रूहि सर्वमशेषतः ।
कथं पुत्रास्त्वया जाताः कस्य राज्ञो गृहेऽञ्जसा ॥ ५४॥
एतदाख्याहि चरितं मायाया महदद्भुतम् ।
मोहितं च यया सर्वमिदं स्थावरजङ्गमम् ॥ ५५॥
न तृप्तिमधिगच्छामि शृण्वंस्तव कथामृतम् ।
सर्वग्रन्थार्थतत्त्वं च सर्वसंशयनाशनम् ॥ ५६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
नारदस्य मायादमयन्त्या सह विवाहवर्णनं नाम सप्तविंशोऽध्यायः ॥ ६.२७॥
६.२८ अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।
नारद उवाच ।
निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम् ।
मायाबलं सुदुर्ज्ञेयं मुनिभिर्योगवित्तमैः ॥ १॥
मायया मोहितं सर्वं जगत्स्थावरजङ्गमम् ।
ब्रह्मादिस्तम्बपर्यन्तमजया दुर्विभाव्यया ॥ २॥
कदाचित्सत्यलोकाद्वै श्वेतद्वीपे मनोहरे ।
गतोऽहं दर्शनाकाङ्क्षी हरेरद्भुतकर्मणः ॥ ३॥
वादयन्महतीं वीणां स्वरतानविभूषिताम् ।
गायत्रं गायमानस्तु साम सप्तस्वरान्वितम् ॥ ४॥
दृष्टो मया देवदेवश्चक्रपाणिर्गदाधरः ।
कौस्तुभोद्भासितोरस्को मेघश्यामश्चतुर्भुजः ॥ ५॥
पीताम्बरपरीधानो मुकुटाङ्गदराजितः ।
लक्ष्म्या सह विलासिन्या क्रीडमानो मुदा युतः ॥ ६॥
वीक्ष्य मां कमला देवी गतान्तर्धानमन्तिकात् ।
सर्वलक्षणसम्पन्ना सर्वभूषणभूषिता ॥ ७॥
नारीणां प्रवरा कान्ता रूपयौवनगर्विता ।
सुप्रिया वासुदेवस्य वरचामीकरप्रभा ॥ ८॥
अन्तर्गृहं गता दृष्ट्वा सिन्धुजां व्यञ्जनान्विताम् ।
मया पृष्टो देवदेवो वनमाली जगत्प्रभुः ॥ ९॥
भगवन्देवदेवेश पद्मनाभ सुरारिहन् ।
कथं च मा गता दृष्ट्वा मामागच्छन्तमन्तिकात् ॥ १०॥
नाहं विटो न वा धूर्तः तापसोऽहं जगद्गुरो ।
जितेन्द्रियो जितक्रोधो जितमायो जनार्दन ॥ ११॥
नारद उवाच ।
निशम्य वचनं किञ्चिद्गर्वयुक्तं जनार्दनः ।
उवाच मां स्मितं कृत्वा वीणावन्मधुरां गिरम् ॥ १२॥
विष्णुरुवाच ।
नारदैवंविधा नीतिर्न स्थातव्यं कदाचन ।
पतिं विनान्यसानिध्ये कस्यचिद्योषया क्वचित् ॥ १३॥
माया सुदुर्जया विद्वन् योगिभिर्जितमारुतैः ।
साङ्ख्यविद्भिर्निराहारैस्तापसैश्च जितेन्द्रियैः ॥ १४॥
देवैश्च मुनिशार्दूल यत्त्वयोक्तं वचोऽधुना ।
जितमायोऽस्मि गीतज्ञ नैवं वाच्यं कदाचन ॥ १५॥
नाहं शिवो न वा ब्रह्मा जेतुं तां प्रभवोऽप्यजाम् ।
मुनयः सनकाद्याश्च कस्त्वं केऽन्ये क्षमा जये ॥ १६॥
देवदेहं नृदेहं वा तिर्यग्देहमथापि वा ।
बिभृयाद्यः शरीरं च स कथं तां जयेदजाम् ॥ १७॥
त्रियुतस्तां कथं मायां जेतुं शक्तः पुमाम्भवेत् ।
वेदविद्योगविद्वापि सर्वज्ञो विजितेन्द्रियः ॥ १८॥
कालोऽपि तस्या रूपं हि रूपहीनः स्वरूपकृत् ।
तद्वशे वर्तते देही विद्वान्मूर्खोऽथ मध्यमः ॥ १९॥
कालः करोति धर्मज्ञं कदाचिद्विकलं पुनः ।
स्वभावात्कर्मतो वापि दुर्ज्ञेयं तस्य चेष्टितम् ॥ २०॥
नारद उवाच ।
इत्युक्त्वा विरतो विष्णुरहं विस्मयमानसः ।
तमब्रवं जगन्नाथं वासुदेवं सनातनम् ॥ २१॥
रमापते कथंरूपा माया सा कीदृशी पुनः ।
कियद्बला क्व संस्थाना कस्याधारा वदस्व मे ॥ २२॥
द्रष्टुकामोऽस्मि तां मायां दर्शयाशु महीधर ।
ज्ञातुमिच्छामि तां सम्यक्प्रसादं कुरु मापते ॥ २३॥
विष्णुरुवाच ।
त्रिगुणा साखिलाधारा सर्वज्ञा सर्वसम्मता ।
अजेयानेकरूपा च सर्वं व्याप्य स्थिता जगत् ॥ २४॥
दिदृक्षा यदि ते चित्ते नारदारोहणं कुरु ।
गरुडे मत्समेतोऽद्य गच्छावोऽन्यत्र साम्प्रतम् ॥ २५॥
दर्शयिष्यामि ते मायां दुर्जयामजितात्मभिः ।
दृष्ट्वा तां ब्रह्मपुत्र त्वं विषादे मा मनः कृथाः ॥ २६॥
इत्युक्त्वा देवदेवो मां सस्मार विनतासुतम् ।
स्मृतमात्रस्तु गरुडस्तदागाद्धरिसन्निधौ ॥ २७॥
आगतं गरुडं वीक्ष्य आरुरोह जनार्दनः ।
समारोप्य च मां पृष्ठे गमनाय कृतादरः ॥ २८॥
चलितो विनतापुत्रो वैकुण्ठाद्वायुवेगवान् ।
प्रेरितो यत्र कृष्णेन गन्तुकामेन काननम् ॥ २९॥
महावनानि दिव्यानि सरांसि सरितस्तथा ।
पुरग्रामाकरादींश्च खेटखर्वटगोव्रजान् ॥ ३०॥
मुनीनामाश्रमान् रम्यान् वापीश्च सुमनोहराः ।
पल्वलानि विशालानि ह्रदान् पङ्कजभूषितान् ॥ ३१॥
मृगाणां च वराहाणां वृन्दान्यप्यवलोक्य च ।
गतावावां कान्यकुब्जसमीपं गरुडासनौ ॥ ३२॥
तत्र रम्यं सरो दिव्यं दृष्टं पङ्कजमण्डितम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ३३॥
नानावर्णैः प्रफुल्लैश्च पङ्कजैरुपरञ्जितम् ।
शुचि मिष्टजलं भृङ्गयूथनादविराजितम् ॥ ३४॥
मामाह भगवान् वीक्ष्य तडागं परमाद्भुतम् ।
स्पर्धकं चोदधेः क्षीरं मिष्टं वारि विशेषतः ॥ ३५॥
श्रीभगवानुवाच ।
पश्य नारद गम्भीरं सरः सारसनादितम् ।
सर्वत्र पङ्कजैश्छन्नं स्वच्छनीरप्रपूरितम् ॥ ३६॥
अत्र स्नात्वा गमिष्यावः कान्यकुब्जं पुरोत्तमम् ।
इत्युक्त्वा गरुडादाशु मामुत्तार्य व्यतारयत् ॥ ३७॥
विहस्य भगवांस्तत्र जग्राह मम तर्जनीम् ।
स्तुवन्सरोवरं भूयस्तीरे मामनयत्प्रभुः ॥ ३८॥
विश्रम्य तटभागे तु स्निग्धच्छाये मनोहरे ।
मामुवाच मुने स्नानं कुरु त्वं विमले जले ॥ ३९॥
पश्चादहं करिष्यामि तडागेऽस्मिन्सुपावने ।
साधूनामिव चेतांसि जलानि निर्मलानि च ॥ ४०॥
सुरभीणि परागैस्तु पङ्कजानां विशेषतः ।
इत्युक्तोऽहं भगवता मुक्त्वा वीणां मृगाजिनम् ॥ ४१॥
स्नानाय कृतधीस्तीरे गतः प्रेमसमन्वितः ।
पादौप्रक्षाल्य हस्तौच शिखां बद्ध्वा कुशग्रहम् ॥ ४२॥
कृत्वाऽऽचम्य शुचिस्तोये स्नातवानस्मि तज्जले ।
यदा तस्मिज्जले रम्ये स्नातोऽहं पश्यतो हरेः ॥ ४३॥
विहाय पौरुषं रूपं प्राप्तः स्त्रीत्वमनुत्तमम् ।
हरिर्गृहीत्वा वीणां मे तथा कृष्णाजिनं शुभम् ॥ ४४॥
आरुह्य गरुडं तूर्णं जगाम स्वगृहं क्षणात् ।
ततोऽहं स्त्रीत्वमापन्नश्चारुभूषणभूषितः ॥ ४५॥
तत्क्षणान्मनसो जाता पूर्वदेहस्य विस्मृतिः ।
विस्मृतोऽसौ जगन्नाथो महती विस्मृता पुनः ॥ ४६॥
सम्प्राप्य मोहिनीरूपं तडागान्निर्गतो बहिः ।
अपश्यं नलिनीजुष्टं सरस्तद्विमलोदकम् ॥ ४७॥
किमेतदिति मनसाकरवं विस्मयं मुहुः ।
एवं चिन्तयमानस्य नारीरूपधरस्य मे ॥ ४८॥
सहसा दृक्पथं प्राप्तस्तत्र तालध्वजो नृपः ।
गजाश्वरथवृन्दैश्च संवृतो रथसंस्थितः ॥ ४९॥
युवा भूषणसंवीतो देहवानिव मन्मथः ।
वीक्ष्य मां भूपतिस्तत्र दिव्यभूषणभूषिताम् ॥ ५०॥
राकाचन्द्रमुखीं योषां विस्मयं परमं गतः ।
पप्रच्छ कासि कल्याणि कस्य पुत्री सुरस्य वा ॥ ५१॥
मानुषस्य च वा कान्ते गन्धर्वस्योरगस्य च ।
एकाकिनी कथं बाला रूपयौवनभूषिता ॥ ५२॥
विवाहिताथ कन्या वा सत्यं वद सुलोचने ।
किं पश्यसि सुकेशान्ते तडागेऽस्मिन्सुमध्यमे ॥ ५३॥
चिकीर्षितं पिकालापे ब्रूहि मन्मथमोहिनि ।
भुङ्क्षव भोगान्मरालाक्षि मया सह कृशोदरि ।
वाञ्छितान्मनसा नूनं कृत्वा मां पतिमुत्तमम् ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे नारदेन स्वस्त्रीत्वप्राप्तिवर्णनं नामाष्टाविंशोऽध्यायः ॥ ६.२८॥
६.२९ एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।
नारद उवाच ।
इत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च ।
विमृश्य मनसात्यर्थं तमुवाच विशाम्पते ॥ १॥
राजन्नाहं विजानामि पुत्री कस्येति निश्चयम् ।
पितरौ क्व च मे केन स्थापिता च सरोवरे ॥ २॥
किं करोमि क्व गच्छामि कथं मे सुकृतं भवेत् ।
निराधारास्मि राजेन्द्र चिन्तयामि चिकीर्षितम् ॥ ३॥
दैवमेव परं राजन्नास्त्यत्र पौरुषं मम ।
धर्मज्ञोऽसि महीपाल यथेच्छसि तथा कुरु ॥ ४॥
तवाधीनास्म्यहं भूप न मे कोऽप्यस्ति पालकः ।
न पिता न च माता च न स्थानं न च बान्धवाः ॥ ५॥
इत्युक्तोऽसौ मया राजा बभूव मदनातुरः ।
मां निरीक्ष्य विशालाक्षीं सेवकानित्युवाच ह ॥ ६॥
नरयानमानयध्वं चतुर्वाह्यं मनोहरम् ।
आरोहणार्थमस्यास्तु कौशेयाम्बरवेष्टितम् ॥ ७॥
मृद्वास्तरणसंयुक्तं मुक्ताजालविभूषितम् ।
चतुरस्रं विशालं च सुवर्णरचितं शुभम् ॥ ८॥
तस्य तद्वचनं श्रुत्वा भृत्याः सत्वरगामिनः ।
आनिन्युः शिबिकां दिव्यां मदर्थे वस्त्रवेष्टिताम् ॥ ९॥
आरूढाऽहं तदा तस्यां तस्य प्रियचिकीर्षया ।
मुदितोऽसौ गृहे नीत्वा मां तदा पृथिवीपतिः ॥ १०॥
विवाहविधिना राजा शुभे लग्ने शुभे दिने ।
उपयेमे च मां तत्र हुतभुक्सन्निधौ ततः ॥ ११॥
तस्याहं वल्लभा जाता प्राणेभ्योऽपि गरीयसी ।
सौभाग्यसुन्दरीत्येवं नाम तत्र कृतं मम ॥ १२॥
रममाणो मया सार्धं सुखमाप महीपतिः ।
नानाभोगविलासैश्च कामशास्त्रोदितैस्तथा ॥ १३॥
राजकार्याणि सन्त्यज्य क्रीडासक्तो दिवानिशम् ।
नासौ विवेद गच्छन्तं कालं कामकलारतः ॥ १४॥
उद्यानेषु च रम्येषु वापीषु च गृहेषु च ।
हर्म्येषु वरशैलेषु दीर्घिकासु वरासु च ॥ १५॥
वारुणीमदमत्तोऽसौ विहरन्कानने शुभे ।
विसृज्य सर्वकार्याणि मदधीनो बभूव ह ॥ १६॥
व्यासाहं तेन संसक्ता क्रीडारसवशीकृता ।
स्मृतवान्पूर्वदेहं न पुम्भावं मुनिजन्म च ॥ १७॥
ममैवायं पतिर्योषाहं पत्नीषु प्रिया सती ।
पट्टराज्ञी विलासज्ञा सफलं जीवितं मम ॥ १८॥
इति चिन्तयती तस्मिन्प्रेमबद्धा दिवानिशम् ।
क्रीडासक्ता सुखे लुब्धा तं स्थिता वशवर्तिनी ॥ १९॥
विस्मृतं ब्रह्मविज्ञानं ब्रह्मज्ञानं च शाश्वतम् ।
धर्मशास्त्रपरिज्ञानं तदासक्तमना स्थिता ॥ २०॥
एवं विहरतस्तत्र वर्षाणि द्वादशैव तु ।
गतानि क्षणवत्कामक्रीडासक्तस्य मे मुने ॥ २१॥
जाता गर्भवती चाहं मुदं प्राप नृपस्तदा ।
कारयामास विधिवद्गर्भसंस्कारकर्म च ॥ २२॥
अपृच्छद्दोहदं राजा प्रीणयन्मां पुनः पुनः ।
नाब्रवं लज्जमानाहं नृपं प्रीतमना भृशम् ॥ २३॥
सम्पूर्णे दशमे मासि पुत्रो जातस्ततो मम ।
शुभेऽह्नि ग्रहनक्षत्रलग्नताराबलान्विते ॥ २४॥
बभूव नृपतेर्गेहे पुत्रजन्ममहोत्सवः ।
राजा परमसन्तुष्टो बभूव सुतजन्मतः ॥ २५॥
सूतकान्ते सुतं वीक्ष्य राजा मुदमवाप ह ।
अहं भूमिपतेश्चासं प्रिया भार्या परन्तप ॥ २६॥
ततो वर्षद्वयान्ते वै पुनर्गर्भो मया धृतः ।
द्वितीयस्तु सुतो जातः सर्वलक्षणसंयुतः ॥ २७॥
सुधन्वेति सुतस्याथ नाम चक्रे नृपस्तदा ।
वीरवर्मेति ज्येष्ठस्य ब्राह्मणैः प्रेरितस्त्वयम् ॥ २८॥
एवं द्वादश पुत्राश्च प्रसूता भूपसम्मताः ।
मोहितोऽहं तदा तेषां प्रीत्या पालनलालने ॥ २९॥
पुनरष्ट सुताः काले काले जाताः स्वरूपिणः ।
गार्हस्थ्यं मे ततः पूर्णं सम्पन्नं सुखसाधनम् ॥ ३०॥
तेषां दारक्रियाः काले कृता राज्ञा यथोचिताः ।
स्नुषाभिश्च तथा पुत्रैः परिवारो महानभूत् ॥ ३१॥
ततः पौत्रादिसम्भूतास्तेऽपि क्रीडारसान्विताः ।
आसन्नानारसोपेता मोहवृद्धिकरा भृशम् ॥ ३२॥
कदाचित्सुखमैश्वर्यं कदाचिद्दुःखमद्भुतम् ।
पुत्रेषु रोगजनितं देहसन्तापकारकम् ॥ ३३॥
परस्परं कदाचित्तु विरोधोऽभूत्सुदारुणः ।
पुत्राणां वा वधूनां च तेन सन्तापसम्भवः ॥ ३४॥
सुखदुःखात्मके घोरे मिथ्याचारकरे भृशम् ।
सङ्कल्पजनिते क्षुद्रे मग्नोऽहं मुनिसत्तम ॥ ३५॥
विस्मृतं पूर्वविज्ञानं शास्त्रज्ञानं तथा गतम् ।
योषाभावे विलीनोऽहं गृहकार्येषु सर्वथा ॥ ३६॥
अहङ्कारस्तु सञ्जातो भृशं मोहविवर्धकः ।
एते मे बलिनः पुत्राः स्नुषाः सुकुलसम्भवाः ॥ ३७॥
एते पुत्राः सुसन्नद्धाः क्रीडन्ति मम वेश्मसु ।
धन्याहं खलु नारीणां संसारेऽस्मिन्नहो भृशम् ॥ ३८॥
नारदोऽहं भगवता वञ्चितो मायया किल ।
न कदाचिन्मयाप्येवं चिन्तितं मनसा किल ॥ ३९॥
राजपत्नी शुभाचारा बहुपुत्रा पतिव्रता ।
धन्याहं किल संसारे कृष्णैवं मोहितस्त्वहम् ॥ ४०॥
अथ कश्चिन्नृपः कामं दूरदेशाधिपो महान् ।
अरातिभावमापन्नः पतिना सह मानद ॥ ४१॥
कृत्वा सैन्यसमायोगं रथैश्च वारणैर्युतम् ।
आजगाम कान्यकुब्जे पुरे युद्धमचिन्तयत् ॥ ४२॥
वेष्टितं नगरं तेन राज्ञा सैन्ययुतेन च ।
मम पुत्राश्च पौत्राश्च निर्गता नगरात्तदा ॥ ४३॥
सङ्ग्रामस्तुमुलस्तत्र कृतस्तैस्तेन पुत्रकैः ।
हता रणे सुताः सर्वे वैरिणा कालयोगतः ॥ ४४॥
राजा भग्नस्तु सङ्ग्रामादागतः स्वगृहं पुनः ।
श्रुतं मया मृताः पुत्राः सङ्ग्रामे भृशदारुणे ॥ ४५॥
स हत्वा मे सुतान्पौत्रान्गतो राजा बलान्वितः ।
क्रन्दमाना ह्यहं तत्र गता समरमण्डले ॥ ४६॥
दृष्ट्वा तान्पतितान्पुत्रान्पौत्रांश्चदुःखपीडिता ।
विललापाहमायुष्मञ्छोकसागरसम्प्लवे ॥ ४७॥
हा पुत्राः क्व गता मेऽद्य हा हतास्मि दुरात्मना ।
दैवेनातिबलिष्ठेन दुर्वारेणातिपापिना ॥ ४८॥
एतस्मिन्नन्तरे तत्र भगवान्मधुसूदनः ।
कृत्वा रूपं द्विजस्यागाद्वृद्धः परमशोभनः ॥ ४९॥
सुवासा वेदवित्कामं मत्समीपं समागतः ।
मामुवाचातिदीनां स क्रन्दमानां रणाजिरे ॥ ५०॥
ब्राह्मण उवाच ।
किं विषीदसि तन्वङ्गि भ्रमोऽयं प्रकटीकृतः ।
मोहेन कोकिलालापे पतिपुत्रगृहात्मके ॥ ५१॥
का त्वं कस्याः सुताः केऽमी चिन्तयात्मगतिं पराम् ।
उत्तिष्ठ रोदनं त्यक्त्वा स्वस्था भव सुलोचने ॥ ५२॥
स्नानं च तिलदानं च पुत्राणां कुरु कामिनि ।
परलोकगतानां च मर्यादारक्षणाय वै ॥ ५३॥
कर्तव्यं सर्वथा तीर्थे स्नानं तु न गृहे क्वचित् ।
मृतानां किल बन्धूनां धर्मशास्त्रविनिर्णयः ॥ ५४॥
नारद उवाच ।
इत्युक्त्वा तेन विप्रेण वृद्धेन प्रतिबोधिता ।
उत्थिताहं नृपेणाथ युक्ता बन्धुभिरावृता ॥ ५५॥
अग्रतो द्विजरूपेण भगवान्भूतभावनः ।
चलिताहं ततस्तूर्णं तीर्थं परमपावनम् ॥ ५६॥
हरिर्मां कृपया तत्र पुन्तीर्थे सरसि प्रभुः ।
नीत्वाह भगवान्विष्णुर्द्विजरूपी जनार्दनः ॥ ५७॥
स्नानं कुरु तडागेऽस्मिन्पावने गजगामिनि ।
त्यज शोकं क्रियाकालः पुत्राणां च निरर्थकम् ॥ ५८॥
कोटिशस्ते मृताः पुत्रा जन्मजन्मसमुद्भवाः ।
पितरः पतयश्चैव भ्रातरो जामयस्तथा ॥ ५९॥
केषां दुःखं त्वया कार्यं भ्रमेऽस्मिन्मानसोद्भवे ।
वितथे स्वप्नसदृशे तापदे देहिनामिह ॥ ६०॥
नारद उवाच ।
इति तस्य वचः श्रुत्वा तीर्थे पुरुषसंज्ञके ।
प्रविष्टा स्नातुकामाहं प्रेरिता तत्र विष्णुना ॥ ६१॥
मज्जनादेव तीर्थेषु पुमाञ्जातः क्षणादपि ।
हरिर्वीणां करे कृत्वा स्थितस्तीरे स्वदेहवान् ॥ ६२॥
उन्मज्ज्य च मया तीरे दृष्टः कमललोचनः ।
प्रत्यभिज्ञा तदा जाता मम चित्ते द्विजोत्तम ॥ ६३॥
सञ्चिन्तितं मया तत्र नारदोऽहमिहागतः ।
हरिणा सह स्त्रीभावं प्राप्तो मायाविमोहितः ॥ ६४॥
इति चिन्तापरश्चाहं यदा जातस्तदा हरिः ।
मामाह नारदागच्छ किं करोषि जले स्थितः ॥ ६५॥
विस्मितोऽहं तदा स्मृत्वा स्त्रीभावं दारुणं भृशम् ।
पुनः पुरुषभावश्च सम्पन्नः केन हेतुना ॥ ६६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
नारदस्य पुनः स्वरूपप्राप्तिवर्णनं नामेकोनत्रिंशोऽध्यायः ॥ ६.२९॥
६.३० त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।
नारद उवाच ।
मां दृष्ट्वा नारदं विप्रं विस्मितोऽसौ महीपतिः ।
क्व गता मम भार्या सा कुतोऽयं मुनिसत्तमः ॥ १॥
विललाप नृपस्तत्र हा प्रियेति मुहुर्मुहुः ।
क्व गता मां परित्यज्य विलपन्तं वियोगिनम् ॥ २॥
विना त्वां विपुलश्रोणि वृथा मे जीवितं गृहम् ।
राज्यं कमलपत्राक्षि किं करोमि शुचिस्मिते ॥ ३॥
न प्राणा मे बहिर्यान्ति विरहेण तवाधुना ।
गतो वै प्रीतिधर्मस्तु त्वामृते प्राणधारणात् ॥ ४॥
विलपामि विशालाक्षि देहि प्रत्युत्तरं प्रियम् ।
क्व गता सा मयि प्रीतिर्याभूत्प्रथमसङ्गमे ॥ ५॥
निमग्ना किं जले सुभ्रूर्भक्षिता मत्स्यकच्छपैः ।
गृहीता वरुणेनाशु मम दौर्भाग्ययोगतः ॥ ६॥
धन्या सुचारुसर्वाङ्गि या त्वं पुत्रैः समागता ।
अकृत्रिमस्तु पुत्रेषु स्नेहस्तेऽमृतभाषिणि ॥ ७॥
न युक्तमधुना यन्मां विहाय त्रिदिवं गता ।
विलपन्तं पतिं दीनं पुत्रस्नेहेन यन्त्रिता ॥ ८॥
उभयं मे गतं कान्ते पुत्रास्त्वं प्राणवल्लभा ।
तथापि मरणं नास्ति दुःखितस्य भृशं प्रिये ॥ ९॥
किं करोमि क्व गच्छामि रामो नास्ति महीतले ।
रामाविरहजं दुःखं जानाति रघुनन्दनः ॥ १०॥
विधिना निष्ठुरेणात्र विपरीतं कृतं भुवि ।
दम्पत्योर्मरणं भिन्नं सर्वथा समचित्तयोः ॥ ११॥
उपकारस्तु नारीणां मुनिभिर्विहितः किल ।
यदुक्तं धर्मशास्त्रेषु ज्वलनं पतिना सह ॥ १२॥
एवं विलपमानं तं राजानं भगवान्हरिः ।
निवारयामास तदा वचनैर्युक्तियोजितैः ॥ १३॥
श्रीभगवानुवाच ।
किं विषीदसि राजेन्द्र क्व गता ते प्रियाङ्गना ।
न श्रुतं किं त्वया शास्त्रं न कृतोऽसौ बुधाश्रयः ॥ १४॥
का सा कस्त्वं क्व संयोगो वियोगः कीदृशस्तव ।
प्रवाहरूपे संसारे नृणां नौतरतामिव ॥ १५॥
गृहे गच्छ नृपश्रेष्ठ वृथा ते रुदितेन किम् ।
संयोगश्च वियोगश्च दैवाधीनः सदा नृणाम् ॥ १६॥
अनया सह ते राजन् संयोगस्त्विह संवृतः ।
भुक्ता त्वया विशालाक्षी सुन्दरी तनुमध्यमा ॥ १७॥
न दृष्टौ पितरावस्यास्त्वया प्राप्ता सरोवरे ।
काकतालीप्रसङ्गेन यद्भूतं तत्तथा गतम् ॥ १८॥
मा शोकं कुरु राजेन्द्र कालो हि दुरतिक्रमः ।
कालयोगं समासाद्य भुङ्क्ष्व भोगान् गृहे यथा ॥ १९॥
यथागता गता सा तु तथैव वरवर्णिनी ।
यथा पूर्वं तथा तत्र गच्छ कार्यं कुरु प्रभो ॥ २०॥
रुदितेन तवाद्यैव नागमिष्यति कामिनी ।
वृथा शोचसि पृध्वीश योगयुक्तो भवाधुना ॥ २१॥
भोगः कालवशादेति तथैव प्रतियाति च ।
नात्र शोकस्तु कर्तव्यो निष्फले भववर्त्मनि ॥ २२॥
नैकत्र सुखसंयोगो दुःखयोगस्तु नैकतः ।
घटिकायन्त्रवत्कामं भ्रमणं सुखदुःखयोः ॥ २३॥
मनः कृत्वा स्थिरं भूप कुरु राज्यं यथासुखम् ।
अथवा न्यस्य दायादे वनं सेवय साम्प्रतम् ॥ २४॥
दुर्लभो मानुषो देहः प्राणिनां क्षणभङ्गुरः ।
तस्मिन्प्राप्ते तु कर्तव्यं सर्वथैवात्मसाधनम् ॥ २५॥
जिह्वोपस्थरसो राजन् पशुयोनिषु वर्तते ।
ज्ञानं मानुषदेहे वै नान्यासु च कुयोनिषु ॥ २६॥
तस्माद्गच्छ गृहं त्यक्त्वा शोकं कान्तासमुद्भवम् ।
मायेयं भगवत्यास्तु यया सम्मोहितं जगत् ॥ २७॥
नारद उवाच ।
इत्युक्तो हरिणा राजा प्रणम्य कमलापतिम् ।
कृत्वा स्नानविधिं सम्यग्जगाम निजमन्दिरम् ॥ २८॥
दत्त्वा राज्यं स्वपौत्राय प्राप्य निर्वेदमद्भुतम् ।
वनं जगाम भूपालस्तत्त्वज्ञानमवाप च ॥ २९॥
गते राजन्यहं वीक्ष्य भगवन्तमधोक्षजम् ।
तमब्रवं जगन्नाथं हसन्तं मां पुनः पुनः ॥ ३०॥
वञ्चितोऽहं त्वया देव ज्ञातं मायाबलं महत् ।
स्मरामि चरितं सर्वं स्त्रीदेहे यत्कृतं मया ॥ ३१॥
ब्रूहि मे देवदेवेश प्रविष्टोऽहं सरोवरे ।
विगतं पूर्वविज्ञानं स्नानादेव कथं हरे ॥ ३२॥
योषिद्देहं समासाद्य मोहितोऽहं जगद्गुरो ।
पतिं प्राप्य नृपश्रेष्ठं पुलोमी वासवं यथा ॥ ३३॥
मनस्तदेव तच्चित्तं देहः स च पुरातनः ।
लिङ्गं तदेव देवेश स्मृतेर्नाशः कथं हरे ॥ ३४॥
विस्मयोऽयं महान्मेऽत्र ज्ञाननाशं प्रति प्रभो ।
कथयाद्य रमाकान्त कारणं परमं च यत् ॥ ३५॥
नारीदेहं मया प्राप्य भुक्ता भोगा ह्यनेकशः ।
सुरापानं कृतं नित्यं विधिहीनं च भोजनम् ॥ ३६॥
मया तदेव न ज्ञातं नारदोऽहमिति स्फुटम् ।
जानाम्यद्य यथा सर्वं विविक्तं न तथा तदा ॥ ३७॥
विष्णुरुवाच ।
पश्य नारद मायावी विलासोऽयं महामते ।
देहेषु सर्वजन्तूनां दशाभेदा ह्यनेकशः ॥ ३८॥
जाग्रत्स्वप्नसुषुप्तिश्च तुरीया देहिनां दशा ।
तथा देहान्तरे प्राप्ते सन्देहः कीदृशः पुनः ॥ ३९॥
सुप्तो नरो न जानाति न शृणोति वदत्यपि ।
पुनः प्रबुद्धो जानाति सर्वं ज्ञातमशेषतः ॥ ४०॥
निद्रया चाल्यते चित्तं भवन्ति स्वप्नसम्भवाः ।
नानाविधा मनोभेदा मनोभावा ह्यनेकशः ॥ ४१॥
गजो मां हन्तुमायाति न शक्तोऽस्मि पलायने ।
किं करोमि न मे स्थानं यत्र गच्छामि सत्वरः ॥ ४२॥
मृतं पितामहं स्वप्ने पश्यति स्वगृहागतम् ।
संयोगस्तेन वार्ता च भोजनं सह मन्यते ॥ ४३॥
प्रबुद्धः खलु जानाति स्वप्ने दृष्टं सुखासुखम् ।
स्मृत्वा सर्वं जनेभ्यस्तु विस्तरात्प्रवदत्यपि ॥ ४४॥
स्वप्नेकोऽपि न जानाति भ्रमोऽयमिति निश्चयः ।
तथा तथैव विभवो मायाया दुर्गमः किल ॥ ४५॥
नाहं नारद जानामि पारं परमदुर्घटम् ।
गुणानां किल मायाया नैव शम्भुर्न पद्मजः ॥ ४६॥
कोऽन्यो ज्ञातुं समर्थोऽभून्मानतो मन्दधीः पुनः ।
मायागुणपरिज्ञानं न कस्यापि भवेदिह ॥ ४७॥
गुणत्रयकृतं सर्वं जगत्स्थावरजङ्गमम् ।
विना गुणैर्न संसारो वर्तते किञ्चिदप्यदः ॥ ४८॥
अहं सत्त्वप्रधानोऽस्मि रजस्तमसमन्वितः ।
न कदाचित्त्रिभिर्हीनो भवामि भुवनेश्वरः ॥ ४९॥
तथा ब्रह्मा पिता तेऽत्र रजोमुख्यः प्रकीर्तितः ।
तमःसत्त्वसमायुक्तो न ताभ्यामुज्झितः किल ॥ ५०॥
शिवस्तथा तमोमुख्यो रजःसत्त्वसमावृतः ।
गुणत्रयविहीनस्तु नैव कोऽपि मया श्रुतः ॥ ५१॥
तस्मान्मोहो न कर्तव्यः संसारेऽस्मिन्मुनीश्वर ।
मायाविनिर्मितेऽसारेऽपारे परमदुर्घटे ॥ ५२॥
दृष्टा माया त्वयाद्यैव भुक्ता भोगा ह्यनेकशः ।
किं पृच्छसि महाभाग तस्याश्चरितमद्भुतम् ॥ ५३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे मायाप्राबल्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ६.३०॥
६.३१ एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।
व्यास उवाच ।
निशामय महाराज ब्रवीमि विशदाक्षरम् ।
माहात्म्यं खलु मायाया नारदात्तु मया श्रुतम् ॥ १॥
मया पुनर्मुनिः पृष्टो नारदः सर्ववित्तमः ।
श्रुत्वा कथां मुनेस्तस्य नारीदेहसमुद्भवाम् ॥ २॥
ब्रूहि नारद पश्चात्किं कथितं हरिणा तदा ।
क्व गतश्च जगन्नाथो भवता सह माधवः ॥ ३॥
नारद उवाच ।
इत्युक्त्वा भगवांस्तस्मिंस्तडागेऽतिमनोहरे ।
आरुह्य गरुडं गन्तुं वैकुण्ठे च मनो दधे ॥ ४॥
मामुवाच रमाकान्तो यथेष्टं गच्छ नारद ।
एहि वा मम लोकं त्वं यथारुचि तथा कुरु ॥ ५॥
ब्रह्मलोकं गतश्चाहमापृच्छ्य मधुसूदनम् ।
भगवानपि देवेशस्तत्क्षणाद्गरुडासनः ॥ ६॥
वैकुण्ठमगमत्तूर्णं मामादिश्य यथासुखम् ।
ततोऽहं पितृसदनं गतो याते जनार्दने ॥ ७॥
चिन्तयन्सकलं दुःखं सुखं च परमाद्भुतम् ।
गत्वा प्रणम्य पितरं स्थितो यावत्पुरः पितुः ॥ ८॥
तावत्पृष्टो मुने पित्रा वीक्ष्य चिन्तातुरं तु माम् ।
ब्रह्योवाच ।
क्व गतोऽसि महाभाग कस्माच्चिन्तातुरः सुत ॥ ९॥
स्वस्थं नैवाद्य पश्यामि मनस्ते मुनिसत्तम ।
केनापि वञ्चितोऽसि त्वं दृष्टं वा किञ्चिदद्भुतम् ॥ १०॥
विषण्णं गतविज्ञानं पश्यामि त्वां कथं सुत ।
नारद उवाच ।
इति पृष्टस्तदा पित्रा बृस्यां समुपवेश्य च ॥ ११॥
तमब्रवं स्ववृत्तान्तं मायाबलसमुद्भवम् ।
वञ्चितोऽहं पितः कामं विष्णुना प्रभविष्णुना ॥ १२॥
स्त्रीभावं गमितः कामं वर्षाणि सुबहून्यपि ।
अनुभूतं महद्दुःखं पुत्रशोकसमुद्भवम् ॥ १३॥
प्रबोधितोऽहं तेनैव मृदुवाक्यामृतेन च ।
पुनः सरोवरे स्नात्वा जातोऽहं नारदः पुमान् ॥ १४॥
किमेतत्कारणं ब्रह्मन् यन्मोहमगमं तदा ।
विस्मृतं पूर्वविज्ञानं तन्मयस्तरसा कृतः ॥ १५॥
एतन्मायाबलं ब्रह्मन्न जानेऽहं दुरत्ययम् ।
ज्ञानहानिकरं जातं मूलं मोहस्य विस्फुटम् ॥ १६॥
अनुभूतं मया सम्यग्ज्ञातं सर्वं शुभाशुभम् ।
कथं त्वं जितवांस्तात तमुपायं वदस्व मे ॥ १७॥
नारद उवाच ।
विज्ञप्तोऽसौ मया धाता प्रीतिपूर्वमतः परम् ।
मामुवाच स्मितं कृत्वा पिता मे वासवीसुत ॥ १८॥
ब्रह्मोवाच ।
दुर्जयैषा सुरैः सर्वैर्मुनिभिश्च महात्मभिः ।
तापसैर्ज्ञानयुक्तैश्च योगिभिः पवनाशनैः ॥ १९॥
नाहं तां सर्वथा ज्ञातुं शक्तो मायां महाबलाम् ।
विष्णुर्ज्ञातुं न शक्तश्च तथा शम्भुरुमापतिः ॥ २०॥
दुर्ज्ञेया सा महामाया सृष्टिस्थित्यन्तकारिणी ।
कालकर्मस्वभावाद्यैर्निमित्तकारणैर्वृता ॥ २१॥
शोकं मा कुरु मेधाविंस्तत्र मायामहाबले ।
न चैव विस्मयः कार्यो वयं सर्वे विमोहिताः ॥ २२॥
नारद उवाच ।
पित्रेत्युक्तस्तदा व्यास तमापृच्छ्य गतस्मयः ।
आगतोऽस्म्यत्र पश्यन्वै तीर्थानि च वराणि च ॥ २३॥
तस्मात्त्वमपि सन्त्यज्य मोहं कौरवनाशजम् ।
कालक्षयं सुखासीनः स्थानेऽस्मिन् कुरु सत्तम ॥ २४॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
निश्चयं हृदये कृत्वा विचरस्व यथासुखम् ॥ २५॥
व्यास उवाच ।
इत्युक्त्वा नारदो राजन् गतो मां प्रतिबोध्य च ।
अहं तच्चिन्तयन्वाक्यं यदुक्तं मुनिना तदा ॥ २६॥
स्थितः सरस्वतीतीरे कल्पे सारस्वते वरे ।
कालातिवाहनायैतत्कृतं भागवतं मया ॥ २७॥
पुराणमुत्तमं भूप सर्वसंशयनाशनम् ।
नानाख्यानसमायुक्तं वेदप्रामाण्यसंश्रितम् ॥ २८॥
सन्देहोऽत्र न कर्तव्यः सर्वथा नृपसत्तम ।
यथेन्द्रजालिकः कश्चित्पाञ्चालीं दारवीं करे ॥ २९॥
कृत्वा नर्तयते कामं स्वेच्छया वशवर्तिनीम् ।
तथा नर्तयते माया जगत्स्थावरजङ्गमम् ॥ ३०॥
ब्रह्मादिस्तम्बपर्यन्तं सदेवासुरमानुषम् ।
पञ्चेन्द्रियसमायुक्तं मनश्चित्तानुवर्तनम् ॥ ३१॥
गुणास्तु कारणं राजन् सर्वेषां सर्वथा त्रयः ।
कार्यं कारणसंयुक्तं भवतीति विनिश्चयः ॥ ३२॥
भिन्नभिन्नस्वभावास्ते गुणा मायासमुद्भवाः ।
शान्तो घोरस्तथा मूढस्त्रयस्तु विविधा यतः ॥ ३३॥
तत्समेतः पुमान्नित्यं तद्विहीनः कथं भवेत् ।
न भवत्येव संसारे रहितस्तन्तुभिः पटः ॥ ३४॥
तथा गुणैस्त्रिभिर्हीनो न देहीति विनिश्चयः ।
देवदेहो मनुष्यो वा तिरश्चो वा नराधिप ॥ ३५॥
गुणैर्विरहितो न स्यान्मृद्विहीनो घटो यथा ।
ब्रह्मा विष्णुस्तथा रुद्रस्त्रयश्चामी गुणाश्रयाः ॥ ३६॥
कदाचित्प्रीतियुक्तास्ते तथाप्रीतियुताः पुनः ।
तथा विषादयुक्तास्ते भवन्ति गुणयोगतः ॥ ३७॥
ब्रह्मा कदाचित्सत्त्वस्थस्तदा शान्तः समाधिमान् ।
प्रीतियुक्तो भवेत्सर्वभूतेषु ज्ञानसंयुतः ॥ ३८॥
पुनः सत्त्वविहीनस्तु रजोगुणसमावृतः ।
तदा भवेद् घोररूपः सर्वत्राप्रीतिसंयुतः ॥ ३९॥
यदा तमोगुणाविष्टो बाहुल्येन भवेद्विधिः ।
तदा विषादसम्पन्नो मूढो भवति नान्यथा ॥ ४०॥
माधवोऽपि सदा सत्त्वसंश्रितः सर्वथा भवेत् ।
यदा शान्तः प्रीतियुक्तो भवेज्ज्ञानसमन्वितः ॥ ४१॥
स एव रजाधिक्यादप्रीतिसंयुतो भवेत् ।
घोरश्च सर्वभूतेषु गुणाधीनो रमापतिः ॥ ४२॥
रुद्रोऽपि सत्त्वसंयुक्तः प्रीतिमाञ्छान्तिमान्भवेत् ।
रजोनिमीलितः सोऽपि घोरः प्रीतिविवर्जितः ॥ ४३॥
तमोगुणयुतः सोऽपि मूढो विषादयुग्भवेत् ।
एते यदि गुणाधीना ब्रह्मविष्णुहरादयः ॥ ४४॥
सूर्यवंशोद्भवास्तद्वत्सोमवंशभवा अपि ।
मन्वादयश्च ये प्रोक्ताश्चतुर्दश युगे युगे ॥ ४५॥
अन्येषां चैव का वार्ता संसारेऽस्मिन्नृपोत्तम ।
मायाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ४६॥
तस्माद्राजन्न कर्तव्यः सन्देहोऽत्र कदाचन ।
देही मायापराधीनश्चेष्टते तद्वशानुगः ॥ ४७॥
सा च माया परे तत्त्वे संविद्रूपेऽपि सर्वदा ।
तदधीना प्रेरिता च तेन जीवेषु सर्वदा ॥ ४८॥
ततो मायाविशिष्टां तां संविदं परमेश्वरीम् ।
मायेश्वरीं भगवतीं सच्चिदानन्दरूपिणीम् ॥ ४९॥
ध्यायेत्तथाराधयेच्च प्रणमेच्च जपेदपि ।
तेन सा सदया भूत्वा मोचयत्येव देहिनम् ॥ ५०॥
स्वमायां संहरत्येव स्वानुभूतिप्रदानतः ।
भुवनं खलु माया स्यादीश्वरी तस्य नायिका ॥ ५१॥
भुवनेशी ततः प्रोक्ता देवी त्रैलोक्यसुन्दरी ।
तद्रूपे यदि सक्तं स्याच्चित्तं भूमिपते सदा ॥ ५२॥
मायया किं भवेत्तत्र सदसद्भूतया नृप ।
तस्मान्मायानिरासार्थं नान्यद्वै देवतान्तरम् ॥ ५३॥
समर्थं तु विना देवीं सच्चिदानन्दरूपिणीम् ।
तमोराशिं नाशयितुं शक्तं नैव तमो भवेत् ॥ ५४॥
किन्तु भानुप्रभाचन्द्रविद्युद्वह्निप्रभादयः ।
तस्मान्मायेश्वरीमम्बां स्वप्रकाशां तु संविदम् ॥ ५५॥
आराधयेदतिप्रीत्या मायागुणनिवृत्तये ।
इति सम्यङ्मयाख्यातं वृत्रासुरवधादिकम् ॥ ५६॥
यत्पृष्टं राजशार्दूल किमन्यच्छ्रोतुमिच्छसि ।
पूर्वार्धोऽयं पुराणस्य कथितस्तव सुव्रत ॥ ५७॥
यत्र देव्यास्तु महिमा विस्तरेणोपपादितः ।
एतद्रहस्यं श्रीमातुर्न देयं यस्य कस्यचित् ॥ ५८॥
देयं भक्ताय शान्ताय देवीभक्तिरताय च ।
शिष्याय ज्येष्ठपुत्राय गुरुभक्तियुताय च ॥ ५९॥
इदमखिलकथानां सारभूतं पुराणं
निखिलनिगमतुल्यं सप्रमाणानुविद्धम् ।
पठति परमभावाद्यः शृणोतीह भक्त्या
स भवति धनवान्वै ज्ञानवान्मानवोऽत्र ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे भगवतीमाहात्म्यवर्णनं नामकत्रिंशोऽध्यायः ॥ ६.३१॥
॥ इति श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धः समाप्तः ॥
॥ इति श्रीमद्देवीभागवतमहापुराणे पूर्वार्धः सम्पूर्णः ॥
Encoded and proofread by Vishwas Bhide