१० श्रीमद्देवीभागवतमहापुराणे दशमः स्कन्धः

१० श्रीमद्देवीभागवतमहापुराणे दशमः स्कन्धः

१०.१ प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।

नारद उवाच । नारायण धराधार सर्वपालनकारण । भवतोदीरितं देवीचरितं पापनाशनम् ॥ १॥ मन्वन्तरेषु सर्वेषु सा देवी यत्स्वरूपिणी । यदाकारेण कुरुते प्रादुर्भावं महेश्वरी ॥ २॥ तान्नः सर्वान्समाख्याहि देवीमाहात्म्यमिश्रितान् । यथा च येन येनेह पूजिता संस्तुतापि हि ॥ ३॥ मनोरथान्पूरयति भक्तानां भक्तवत्सला । तन्नः शुभूषमाणानां देवीचरितमुत्तमम् ॥ ४॥ वर्णयस्व कृपासिन्धो येनाप्नोति सुखं महत् । श्रीनारायण उवाच । आकर्णय महर्षे त्वं चरितं पापनाशनम् ॥ ५॥ भक्तानां भक्तिजननं महासम्पत्तिकारकम् । जगद्योनिर्महातेजा ब्रह्मा लोकपितामहः ॥ ६॥ आविरासीन्नाभिपद्माद्देवदेवस्य चक्रिणः । स चतुर्मुख आसाद्य प्रादुर्भावं महामते ॥ ७॥ मनुं स्वायम्भुवं नाम जनयामास मानसात् । स मानसो मनुः पुत्रो ब्रह्मणः परमेष्ठिनः ॥ ८॥ शतरूपां च तत्पत्नीं जज्ञे धर्मस्वरूपिणीम् । स मनुः क्षीरसिन्धोश्च तीरे परमपावने ॥ ९॥ देवीमाराधयामास महाभाग्यफलप्रदाम् । मूर्तिं च मृण्मयीं तस्या विधाय पृथिवीपतिः ॥ १०॥ उपासते स्म तां देवीं वाग्भवं स जपन् रहः । निराहारो जितश्वासो नियमव्रतकर्शितः ॥ ११॥ एकपादेन सन्तिष्ठन् धरायामनिशं स्थिरः । शतवर्षं जितः कामः क्रोधस्तेन महात्मना ॥ १२॥ भेजे स्थावरतां देव्याश्चरणौ चिन्तयन् हृदि । तस्य तत्तपसा देवी प्रादुर्भूता जगन्मयी ॥ १३॥ उवाच वचनं दिव्यं वरं वरय भूमिप । तत आनन्दजनकं श्रुत्वा वाक्यं महीपतिः ॥ १४॥ वरयामास तान् हृत्स्थान् वरानमरदुर्लभान् । मनुरुवाच । जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥ १५॥ मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले । त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत् ॥ १६॥ वैकुण्ठः पालयत्येव हरः संहरते क्षणात् । शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया ॥ १७॥ प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् । यादसामधिपः पाशी पालनं मादृशामपि ॥ १८॥ कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः । हुतभुङ्नैरृतो वायुरीशानः शेष एव च ॥ १९॥ त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः । अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम् ॥ २०॥ तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे । वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः ॥ २१॥ तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि । ये संवादमिमं देवि पठन्ति श्रावयन्ति च ॥ २२॥ तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे । जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा ॥ २३॥ ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि । पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः ॥ २४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे मनुकृतं देवीस्तवनं नाम प्रथमोऽध्यायः ॥ १०.१॥

१०.२ द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।

श्रीदेव्युवाच । भूमिपाल महाबाहो सर्वमेतद्भविष्यति । यत्त्वया प्रार्थितं तत्ते ददामि मनुजाधिप ॥ १॥ अहं प्रसन्ना दैत्येन्द्रनाशनामोघविक्रमा । वाग्भवस्य जपेनैव तपसा ते सुनिश्चितम् ॥ २॥ राज्यं निष्कण्टकं तेऽस्तु पुत्रा वंशकरा अपि । मयि भक्तिर्दृढा वत्स मोक्षान्ते सत्पदे भवेत् ॥ ३॥ एवं वरान्महादेवी तस्मै दत्त्वा महात्मने । पश्यतस्तु मनोरेव जगाम विन्ध्यपर्वतम् ॥ ४॥ योऽसौ विन्ध्याचलो रुद्धः कुम्भोद्भवमहर्षिणा । भानुमार्गावरोधार्थं प्रवृत्तो गगनं स्पृशन् ॥ ५॥ सा विन्ध्यवासिनी विष्णोरनुजा वरदेश्वरी । बभूव पूज्या लोकानां सर्वेषां मुनिसत्तम ॥ ६॥ ऋषय ऊचुः । कोऽसौ विन्ध्याचलः सूत किमर्थं गगनं स्पृशन् । भानुमार्गावरोधं च किमर्थं कृतवानसौ ॥ ७॥ कथं च मैत्रावरुणिः पर्वतं तं महोन्नतम् । प्रकृतिस्थं चकारेति सर्वं विस्तरतो वद ॥ ८॥ न हि तृप्यामहे साधो त्वदास्यगलितामृतम् । देव्याश्चरित्ररूपाख्यं पीत्वा तृष्णा प्रवर्धते ॥ ९॥ सूत उवाच । आसीद्विन्ध्याचलो नाम मान्यः सर्वधराभृताम् । महावनसमूहाढ्यो महापादपसंवृतः ॥ १०॥ सुपुष्पितैरनेकैश्च लतागुल्मैस्तु संवृतः । मृगा वराहा महिषा व्याघ्राः शार्दूलका अपि ॥ ११॥ वानराः शशका ऋक्षाः श‍ृगालाश्च समन्ततः । विचरन्ति सदा हृष्टा पुष्टा एव महोद्यमाः ॥ १२॥ नदीनदजलाक्रान्तो देवगन्धर्वकिन्नरैः । अप्सरोभिः किम्पुरुषैः सर्वकामफलद्रुमैः ॥ १३॥ एतादृशे विन्ध्यनगे कदाचित्पर्यटन् महीम् । देवर्षिः परमप्रीतो जगाम स्वेच्छया मुनिः ॥ १४॥ तं दृष्ट्वा स नगो मङ्क्षु तूर्णमुत्थाय सम्भ्रमात् । पाद्यमर्घ्यं तथा दत्त्वा वरासनमथार्पयत् ॥ १५॥ सुखोपविष्टं देवर्षिं प्रसन्नं नग ऊचिवान् । विन्ध्य उवाच । देवर्षे कथ्यतां जात आगमः कुत उत्तमः ॥ १६॥ तवागमनतो जातमनर्घ्यं मम मन्दिरम् । तव चङ्क्रमणं देवाभयार्थं हि यथा रवेः ॥ १७॥ अपूर्वं यन्मनोवृत्तं तद् ब्रूहि मम नारद । नारद उवाच । ममागमनमिन्द्रारे जातं स्वर्णगिरेरथ ॥ १८॥ तत्र दृष्टा मया लोकाः शक्राग्नियमपाशिनाम् । सर्वेषां लोकपालानां भवनानि समन्ततः ॥ १९॥ मया दृष्टानि विन्ध्याग नानाभोगप्रदानि च । इति चोक्त्वा ब्रह्मयोनिः पुनरुच्छ्वासमाविशत् ॥ २०॥ उच्छ्वसन्तं मुनिं दृष्ट्वा पुनः पप्रच्छ शैलराट् । उच्छ्वासकारणं किं तद् ब्रूहि देवऋषे मम ॥ २१॥ इत्याकर्ण्य नगस्योक्तं देवर्षिरमितद्युतिः । अब्रवीच्छ्रूयतां वत्स ममोच्छ्वासस्य कारणम् ॥ २२॥ गौरीगुरुस्तु हिमवाञ्छिवस्य श्वशुरः किल । सम्बन्धित्वात्पशुपतेः पूज्य आसीत्क्षमाभृताम् ॥ २३॥ एवमेव च कैलासः शिवस्यावसथः प्रभुः । पूज्यः पृथ्वीभृतां जातो लोके पापौघदारणः ॥ २४॥ निषधः पर्वतो नीलो गन्धमादन एव च । पूज्याः स्वस्थानमासाद्य सर्व एव क्षमाभृतः ॥ २५॥ यं पर्येति च विश्वात्मा सहस्रकिरणः स्वराट् । सग्रहर्क्षगणोपेतः सोऽयं कनकपर्वतः ॥ २६॥ आत्मानं मनुते श्रेष्ठं वरिष्ठं च धराभृताम् । सर्वेषामहमेवाग्र्यो नास्ति लोकेषु मत्समः ॥ २७॥ एवम्मानाभिमानं तं स्मृत्वोच्छ्वासो मयोज्झितः । अस्तु नैतावता कृत्यं तपोबलवतां नग । प्रसङ्गतो मयोक्तं ते गमिष्यामि निजं गृहम् ॥ २८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे विन्ध्योपाख्यानवर्णनं नाम द्वितीयोऽध्यायः ॥ १०.२॥

१०.३ तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।

सूत उवाच । एवं समुपदिश्यायं देवर्षिः परमः स्वराट् । जगाम ब्रह्मणो लोकं स्वैरचारी महामुनिः ॥ १॥ गते मुनिवरे विन्ध्यश्चिन्तां लेभेऽनपायिनीम् । नैव शान्तिं स लेभे च सदान्तःकृतशोचनः ॥ २॥ कथं किं त्वत्र मे कार्यं कथं मेरुं जयाम्यहम् । नैव शान्तिं लभे नापि स्वास्थ्यं मे मानसे भवेत् ॥ ३॥ (धिगुत्साहं च मानं च धिङ्मे कीर्तिं च धिक्कुलम्) धिग्बलं मे पौरुषं धिक् स्मृतं पूर्वैर्महात्मभिः । एवं चिन्तयमानस्य विन्ध्यस्य मनसि स्फुटम् ॥ ४॥ प्रादुर्भूता मतिः कार्ये कर्तव्ये दोषकारिणी । मेरुप्रदक्षिणां कुर्वन्नित्यमेव दिवाकरः ॥ ५॥ सग्रहर्क्षगणोपेतः सदा दृप्यत्ययं नगः । तस्य मार्गस्य संरोधं करिष्यामि निजैः करैः ॥ ६॥ तदा निरुद्धो द्युमणिः परिक्रामेत्कथं नगम् । एवं मार्गे निरुद्धे तु मया दिनकरस्य च ॥ ७॥ भग्नदर्पो दिव्यनगो भविष्यति विनिश्चयम् । एवं निश्चित्य विन्ध्याद्रिः खं स्पृशन् ववृधे भुजैः ॥ ८॥ महोन्नतैः श‍ृङ्गवरैः सर्वं व्याप्य व्यवस्थितः । कदोदेष्यति भास्वांस्तं रोधयिष्याम्यहं कदा ॥ ९॥ एवं सञ्चिन्तयानस्य सा व्यतीयाय शर्वरी । प्रभातं विमलं जज्ञे दिशो वितिमिराः करैः ॥ १०॥ कुर्वन्स निर्गतो भानुरुदयायोदये गिरौ । प्रकाशते स्म विमलं नभो भानुकरैः शुभैः ॥ ११॥ विकासं नलिनी भेजे मीलनं च कुमुद्वती । स्वानि कार्याणि सर्वे च लोकाः समुपतस्थिरे ॥ १२॥ हव्यं कव्यं भूतबलिं देवानां च प्रवर्धयन् । प्राह्णापराह्णमध्याह्नविभागेन त्विषां पतिः ॥ १३॥ एवं प्राचीं तथाग्नेयीं समाश्वास्य वियोगिनीम् । ज्वलन्तीं चिरकालीनविरहादिव कामिनीम् ॥ १४॥ भास्करोऽथ कृशानोश्च दिशं नूनं विहाय च । याम्यां गन्तुं ततस्तूर्णं प्रतस्थे कमलाकरः ॥ १५॥ न शशाकाग्रतो गन्तुं ततोऽनूरुर्व्यजिज्ञपत् । अनूरुरुवाच । भानो मानोन्नतो विन्ध्यो निरुध्य गगनं स्थितः ॥ १६॥ स्पर्धते मेरुणा प्रेप्सुस्त्वद्दत्तां च प्रदक्षिणाम् । सूत उवाच । अनूरुवाक्यमाकर्ण्य सविता ह्यास चिन्तयन् ॥ १७॥ अहो गगनमार्गोऽपि रुध्यते चातिविस्मयः । प्रायः शूरो न किं कुर्यादुत्पथे वर्त्मनि स्थितः ॥ १८॥ निरुद्धो नो वाजिमार्गो दैवं हि बलवत्तरम् । राहुबाहुग्रहव्यग्रो यः क्षणं नावतिष्ठते ॥ १९॥ स चिरं रुद्धमार्गोऽपि किं करोति विधिर्बली । एवं च मार्गे संरुद्धे लोकाः सर्वे च सेश्वराः ॥ २०॥ नान्वविन्दन्त शरणं कर्तव्यं नान्वपद्यत । चित्रगुप्तादयः सर्वे कालं जानन्ति सूर्यतः ॥ २१॥ संरुद्धो विन्ध्यगिरिणा अहो दैवविपर्ययः । यदा निरुद्धः सविता गिरिणा स्पर्धया तदा ॥ २२॥ नष्टः स्वाहास्वधाकारो नष्टप्रायमभूज्जगत् । एवं च पाश्चिमा लोका दाक्षिणात्यास्तथैव च ॥ २३॥ निद्रामीलितचक्षुष्का निशामेव प्रपेदिरे । प्राञ्चस्तथोत्तराहाश्च तीक्ष्णतापप्रतापिताः ॥ २४॥ मृता नष्टाश्च भग्नाश्च विनाशमभजन् प्रजाः । हाहाभूतं जगत्सर्वं स्वधाकव्यविवर्जितम् । देवाः सेन्द्राः समुद्विग्नाः किं कुर्म इतिवादिनः ॥ २५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनं नाम तृतीयोऽध्यायः ॥ १०.३॥

१०.४ चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।

सूत उवाच । ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा । पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः ॥ १॥ उपतस्थुः प्रणतिभिः स्तोत्रैश्चारुविभूतिभिः । देवदेवं गिरिशयं शशिलोलितशेखरम् ॥ २॥ देववा ऊचुः । जय देव गणाध्यक्ष उमालालितपङ्कज । अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते ॥ ३॥ महामायाविलसितस्थानाय परमात्मने । वृषाङ्कायामरेशाय कैलासस्थितिशालिने ॥ ४॥ अहिर्बुध्न्याय मान्याय मनवे मानदायिने । अजाय बहुरूपाय स्वात्मारामाय शम्भवे ॥ ५॥ गणनाथाय देवाय गिरिशाय नमोऽस्तु ते । महाविभूतिदात्रे ते महाविष्णुस्तुताय च ॥ ६॥ विष्णुहृत्कञ्जवासाय महायोगरताय च । योगगम्याय योगाय योगिनां पतये नमः ॥ ७॥ योगीशाय नमस्तुभ्यं योगानां फलदायिने । दीनदानपरायापि दयासागरमूर्तये ॥ ८॥ आर्तिप्रशमनायोग्रवीर्याय गुणमूर्तये । वृषध्वजाय कालाय कालकालाय ते नमः ॥ ९॥ सूत उवाच । एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः । प्राह गम्भीरया वाचा प्रहसन्विबुधर्षभान् ॥ १०॥ श्रीभगवानुवाच । प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः । मनोरथं पूरयामि सर्वेषां देवतर्षभाः ॥ ११॥ देवा ऊचुः । सर्वदेवेश गिरिश शशिमौलिविराजित । आर्तानां शङ्करस्त्वं च शं विधेहि महाबल ॥ १२॥ पर्वतो विन्ध्यनामास्ति मेरुद्वेष्टा महोन्नतः । भानुमार्गनिरोद्धा हि सर्वेषां दुःखदोऽनघ ॥ १३॥ तदवृद्धिं स्तम्भयेशान सर्वकल्याणकृद्भव । भानुसञ्चाररोधेन कालज्ञानं कथं भवेत् ॥ १४॥ नष्टे स्वाहास्वधाकारे लोके कः शरणं भवेत् । अस्माकं च भयार्तानां भवानेव हि दृश्यते ॥ १५॥ दुःखनाशकरो देव प्रसीद गिरिजापते । श्रीशिव उवाच । नास्माकं शक्तिरस्तीह तद्वृद्धिस्तम्भने सुराः ॥ १६॥ इममेवं वदिष्यामो भगवन्तं रमाधवम् । सोऽस्माकं प्रभुरात्मा च पूज्यः कारणरूपधृक् ॥ १७॥ गोविन्दो भगवान्विष्णुः सर्वकारणकारणः । तं गत्वा कथयिष्यामः स दुःखान्तो भविष्यति ॥ १८॥ इत्येवमाकर्ण्य गिरीशभाषितं देवाश्च सेन्द्राः सपयोजसम्भवाः । रुद्रं पुरस्कृत्य च वेपमाना वैकुण्ठलोकं प्रतिजग्मुरञ्जसा ॥ १९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे रुद्रप्रार्थनं नाम चतुर्थोऽध्यायः ॥ १०.४॥

१०.५ पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।

सूत उवाच । ते गत्वा देवदेवेशं रमानाथं जगद्गुरुम् । विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम् ॥ १॥ स्तोत्रेण तुष्टुवुर्भक्त्या गद्गदस्वरसत्कृताः । देवा ऊचुः । जय विष्णो रमेशाद्य महापुरुष पूर्वज ॥ २॥ दैत्यारे कामजनक सर्वकामफलप्रद । महावराह गोविन्द महायज्ञस्वरूपक ॥ ३॥ महाविष्णो ध्रुवेशाद्य जगदुत्पत्तिकारण । मत्स्यावतारे वेदानामुद्धाराधाररूपक ॥ ४॥ सत्यव्रत धराधीश मत्स्यरूपाय ते नमः । जयाकूपार दैत्यारे सुरकार्यसमर्पक ॥ ५॥ अमृताप्तिकरेशान कूर्मरूपाय ते नमः । जयादिदैत्यनाशार्थमादिसूकररूपधृक् ॥ ६॥ मह्युद्धारकृतोद्योगकोलरूपाय ते नमः । नारसिंहं वपुः कृत्वा महादैत्यं ददार यः ॥ ७॥ करजैर्वरदृप्ताङ्गं तस्मै नृहरये नमः । वामनं रूपमास्थाय त्रैलोक्यैश्वर्यमोहितम् ॥ ८॥ बलिं सञ्छलयामास तस्मै वामनरूपिणे । दुष्टक्षत्रविनाशाय सहस्रकरशत्रवे ॥ ९॥ रेणुकागर्भजाताय जामदग्न्याय ते नमः । दुष्टराक्षसपौलस्त्यशिरश्छेदपटीयसे ॥ १०॥ श्रीमद्दाशरथे तुभ्यं नमोऽनन्तक्रमाय च । कंसदुर्योधनाद्यैश्च दैत्यैः पृथ्वीशलाञ्छनैः ॥ ११॥ भाराक्रान्तां महीं योऽसावुज्जहार महाविभुः । धर्मं संस्थापयामास पापं कृत्वा सुदूरतः ॥ १२॥ तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो । दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये ॥ १३॥ बौद्धरूपं दधौ योऽसौ तस्मै देवाय ते नमः । म्लेच्छप्रायेऽखिले लोके दुष्टराजन्यपीडिते ॥ १४॥ कल्किरूपं समादध्यौ देवदेवाय ते नमः । दशावतारास्ते देव भक्तानां रक्षणाय वै ॥ १५॥ दुष्टदैत्यविघाताय तस्मात्त्वं सर्वदुःखहृत् । जय भक्तार्तिनाशाय धृतं नारीजलात्मसु ॥ १६॥ रूपं येन त्वया देव कोऽन्यस्त्वत्तो दयानिधिः । इत्येवं देवदेवेशं स्तुत्वा श्रीपीतवाससम् ॥ १७॥ प्रणेमुर्भक्तिसहिताः साष्टाङ्गं विबुधर्षभाः । तेषां स्तवं समाकर्ण्य देवः श्रीपुरुषोत्तमः ॥ १८॥ उवाच विबुधान्सर्वान् हर्षयच्छ्रीगदाधरः । श्रीभगवानुवाच - प्रसन्नोऽस्मि स्तवेनाहं देवास्तापं विमुञ्चथ ॥ १९॥ भवतां नाशयिष्यामि दुःखं परमदुःसहम् । वृणुध्वं च वरं मत्तो देवाः परमदुर्लभम् ॥ २०॥ ददामि परमप्रीतः स्तवस्यास्य प्रसादतः । य एतत्पठते स्तोत्रं कल्य उत्थाय मानवः ॥ २१॥ मयि भक्तिं परां कृत्वा न तं शोकः स्पृशेत्कदा । अलक्ष्मीः कालकर्णी च नाक्रामेत्तद्गृहं सुराः ॥ २२॥ नोपसर्गा न वेताला न ग्रहा ब्रह्मराक्षसाः । न रोगा वातिकाः पैत्ताः श्लेष्मसम्भविनस्तथा ॥ २३॥ नाकालमरणं तस्य कदापि च भविष्यति । सन्ततिश्चिरकालस्था भोगाः सर्वे सुखादयः ॥ २४॥ सम्भविष्यन्ति तन्मर्त्यगृहे यः स्तोत्रपाठकः । किं पुनर्बहुनोक्तेन स्तोत्रं सर्वार्थसाधकम् ॥ २५॥ एतस्य पठनानॄणां भुक्तिमुक्ती न दूरतः । देवा भवत्सु यद्दुःखं कथ्यतां तदसंशयम् ॥ २६॥ नाशयामि न सन्देहश्चात्र कार्योऽणुरेव च । एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिवौकसः । प्रसन्नमनसः सर्वे पुनरूचुर्वृषाकपिम् ॥ २७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे श्रीविष्णुना देवेभ्यो वरप्रदानं नाम पञ्चमोऽध्यायः ॥ १०.५॥

१०.६ षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।

सूत उवाच । श्रीशस्य वचनाद्देवाः सन्तुष्टाः सर्व एव हि । प्रसन्नमनसो भूत्वा पुनरेनं समूचिरे ॥ १॥ देवा ऊचुः । देवदेव महाविष्णो सृष्टिस्थित्यन्तकारण । विष्णो विन्ध्यनगोऽर्कस्य मार्गरोधं करोति हि ॥ २॥ तेन भानुविरोधेन सर्व एव महाविभो । अलब्धभोगभागा हि किं कुर्मः कुत्र याम हि ॥ ३॥ श्रीभगवानुवाच । या कर्त्री सर्वजगतामाद्या च कुलवर्धनी । देवी भगवती तस्याः पूजकः परमद्युतिः ॥ ४॥ अगस्त्यो मुनिवर्योऽसौ वाराणस्यां समासते । तत्तेजोवञ्चकोऽगस्त्यो भविष्यति सुरोत्तमाः ॥ ५॥ तं प्रसाद्य द्विजवरमगस्त्यं परमौजसम् । याचध्वं विबुधाः काशीं गत्वा निःश्रेयसः पदीम् ॥ ६॥ सूत उवाच । एवं समुपदिष्टास्ते विष्णुना विबुधोत्तमाः । प्रतीताः प्रणताः सर्वे जग्मुर्वाराणसीं पुरीम् ॥ ७॥ क्षणेन विबुधश्रेष्ठा गत्वा काशीपुरीं शुभाम् । मणिकर्णीं समाप्लुत्य सचैलं भक्तिसंयुताः ॥ ८॥ सन्तर्प्य देवांश्च पितॄन्दत्त्वा दानं विधानतः । आगत्य मुनिवर्यस्य चाश्रमं परमं महत् ॥ ९॥ प्रशान्तश्वापदाकीर्णं नानापादपसङ्कुलम् । मयूरैः सारसैर्हंसैश्चक्रवाकैरुपाश्रितम् ॥ १०॥ महावराहैः कोलैश्च व्याघ्रैः शार्दूलकैरपि । मृगै रुरुभिरत्यर्थं खड्गैः शरभकैरपि ॥ ११॥ समाश्रितं परमया लक्ष्म्या मुनिवरं तदा । दण्डवत्पतिताः सर्वे प्रणेमुश्च पुनः पुनः ॥ १२॥ देवा ऊचुः । जय द्विजगणाधीश मान्य पूज्य धरासुर । वातापीबलनाशाय नमस्ते कुम्भयोनये ॥ १३॥ लोपामुद्रापते श्रीमन्मित्रावरुणसम्भव । सर्वविद्यानिधेऽगस्त्य शास्त्रयोने नमोऽस्तु ते ॥ १४॥ यस्योदये प्रसन्नानि भवन्त्युज्ज्वलभाञ्ज्यपि । तोयानि तोयराशीनां तस्मै तुभ्यं नमोऽस्तु ते ॥ १५॥ काशपुष्पविकासाय लङ्कावासप्रियाय च । जटामण्डलयुक्ताय सशिष्याय नमोऽस्तु ते ॥ १६॥ जय सर्वामरस्तव्य गुणराशे महामुने । वरिष्ठाय च पूज्याय सस्त्रीकाय नमोऽस्तु ते ॥ १७॥ प्रसादः क्रियतां स्वामिन् वयं त्वां शरणं गताः । दुस्तराच्छैलजाद्दुःखात्पीडिताः परमद्युते ॥ १८॥ इत्येवं संस्तुतोऽगस्त्यो मुनिः परमधार्मिकः । प्राह प्रसन्नया वाचा विहसन् द्विजसत्तमः ॥ १९॥ मुनिरुवाच । भवन्तः परमश्रेष्ठा देवास्त्रिभुवनेश्वराः । लोकपाला महात्मानो निग्रहानुग्रहक्षमाः ॥ २०॥ योऽमरावत्यधीशानः कुलिशं यस्य चायुधम् । सिद्ध्यष्टकं च यद्द्वारि स शक्रो मरुतां पतिः ॥ २१॥ वैश्वानरः कृशानुर्हि हव्यकव्यवहोऽनिशम् । मुखं सर्वामराणां हि सोऽग्निः किं तस्य दुष्करम् ॥ २२॥ रक्षोगणाधिपो भीमः सर्वेषां कर्मसाक्षिकः । दण्डव्यग्रकरो देवः किं तस्यासुकरं सुराः ॥ २३॥ तथापि यदि देवेशाः कार्यं मच्छक्तिसिद्धिभृत् । अस्ति चेदुच्यतां देवाः करिष्यामि न संशयः ॥ २४॥ एवं मुनिवरेणोक्तं निशम्य विबुधर्षभाः । प्रतीताः प्रणयोद्विग्नाः कार्यं निजगदुर्निजम् ॥ २५॥ महर्षे विन्ध्यगिरिणा निरुद्धोऽर्कविनिर्गमः । त्रैलोक्यं तेन संविष्टं हाहाभूतमचेतनम् ॥ २६॥ तद्वृद्धिं स्तम्भय मुने निजया तपसः श्रिया । भवतस्तेजसागस्त्य नूनं नम्रो भविष्यति । एतदेवास्मदीयं च कार्यं कर्तव्यमस्ति हि ॥ २७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे अगस्त्याश्वासनवर्णनं नाम षष्ठोऽध्यायः ॥ १०.६॥

१०.७ सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।

सूत उवाच । इति वाक्यं समाकर्ण्य विबुधानां द्विजोत्तमः । करिष्ये कार्यमेतद्वः प्रत्युवाच ततो मुनिः ॥ १॥ अङ्गीकृते तदा कार्ये मुनिना कुम्भजन्मना । देवाः प्रमुदिताः सर्वे बभूबुर्द्विजसत्तमाः ॥ २॥ ते देवाः स्वानि धिष्ण्यानि भेजिरे मुनिवाक्यतः । पत्नीं मुनिवरः श्रीमानुवाच नृपकन्यकाम् ॥ ३॥ अये नृपसुते प्राप्तो विघ्नोऽनर्थस्य कारकः । भानुमार्गनिरोधेन कृतो विन्ध्यमहीभृता ॥ ४॥ आज्ञातं कारणं तच्च स्मृतं वाक्यं पुरातनम् । काशीमुद्दिश्य यद्गीतं मुनिभिस्तत्त्वदर्शिभिः ॥ ५॥ अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः । किन्तु विघ्ना भविष्यन्ति काश्यां निवसतां सताम् ॥ ६॥ सोऽन्तरायो मया प्राप्तः काश्यां निवसता प्रिये । इत्येवमुक्त्वा भार्यां तां मुनिः परमतापनः ॥ ७॥ मणिकर्ण्यां समाप्लुत्य दृष्ट्वा विश्वेश्वरं विभुम् । दण्डपाणिं समभ्यर्च्य कालराजं समागतः ॥ ८॥ कालराज महाबाहो भक्तानां भयहारक । कथं दूरयसे पुर्याः काशीपुर्यास्त्वमीश्वरः ॥ ९॥ त्वं काशीवासविघ्नानां नाशको भक्तरक्षकः । मां किं दूरयसे स्वामिन् भक्तार्तिविनिवारक ॥ १०॥ परापवादो नोक्तो मे न पैशुन्यं न चानृतम् । केन कर्मविपाकेन काश्या दूरं करोषि माम् ॥ ११॥ एवं प्रार्थ्य च तं कालनाथं कुम्भोद्भवो मुनिः । जगाम साक्षिविघ्नेशं सर्वविघ्ननिवारणम् ॥ १२॥ तं दृष्ट्वाभ्यर्च्य सम्प्रार्थ्य ततः पुर्या विनिर्गतः । लोपामुद्रापतिः श्रीमानगस्त्यो दक्षिणां दिशम् ॥ १३॥ काशीविरहसन्तप्तो महाभाग्यनिधिर्मुनिः । संस्मृत्यानुक्षणं काशीं जगाम सह भार्यया ॥ १४॥ तपोयानमिवारुह्य निमिषार्धेन वै मुनिः । अग्रे ददर्श तं विन्ध्यं रुद्धाम्बरमथोन्नतम् ॥ १५॥ चकम्पे चाचलस्तूर्णं दृष्ट्वैवाग्रे स्थितं मुनिम् । गिरिः खर्वतरो भूत्वा विवक्षुरवनीमिव ॥ १६॥ दण्डवत्पतितो भूमौ साष्टाङ्गं भक्तिभावितः । तं दृष्ट्वा नम्रशिखरं विन्ध्यं नाम महागिरिम् ॥ १७॥ प्रसन्नवदनोऽगस्त्यो मुनिर्विन्ध्यमथाब्रवीत् । वत्सैवं तिष्ठ तावत्त्वं यावदागम्यते मया ॥ १८॥ अशक्तोऽहं गण्डशैलारोहणे तव पुत्रक । एवमुक्त्वा मुनिर्याम्यदिशं प्रति गमोत्सुकः ॥ १९॥ आरुह्य तस्य शिखराण्यवारुहदनुक्रमात् । गतो याम्यदिशं चापि श्रीशैलं प्रेक्ष्य वर्त्मनि ॥ २०॥ मलयाचलमासाद्य तत्राश्रमपरोऽभवत् । सापि देवी तत्र विन्ध्यमागता मनुपूजिता ॥ २१॥ लोकेषु प्रथिता विन्ध्यवासिनीति च शौनक । सूत उवाच । एतच्चरित्रं परमं शत्रुनाशनमुत्तमम् ॥ २२॥ अगस्त्यविन्ध्यनगयोराख्यानं पापनाशनम् । राज्ञां विजयदं तच्च द्विजानां ज्ञानवर्धनम् ॥ २३॥ वैश्यानां धान्यधनदं शूद्राणां सुखदं तथा । धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात् ॥ २४॥ कामानवाप्नुयात्कामी भक्त्या चास्य सकृच्छ्रवात् । एवं स्वायम्भुवमनुर्देवीमाराध्य भक्तितः ॥ २५॥ लेभे राज्यं धरायाश्च निजमन्वन्तराश्रयम् । इत्येतद्वर्णितं सौम्य मया मन्वन्तराश्रितम् । आद्यं चरित्रं श्रीदेव्याः किं पुनः कथयामि ते ॥ २६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे विन्ध्यवृद्ध्यवरोधवर्णनं नाम सप्तमोऽध्यायः ॥ १०.७॥

१०.८ अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।

शौनक उवाच । आद्यो मन्वन्तरः प्रोक्तो भवता चायमुत्तमः । अन्येषामुद्भवं ब्रूहि मनूनां दिव्यतेजसाम् ॥ १॥ सूत उवाच । एवमाद्यस्य चोत्पत्तिं श्रुत्वा स्वायम्भुवस्य हि । अन्येषां क्रमशस्तेषां सम्भूतिं परिपृच्छति ॥ २॥ नारदः परमो ज्ञानी देवीतत्त्वार्थकोविदः । नारद उवाच । मनूनां मे समाख्याहि सूत्पत्तिं च सनातन ॥ ३॥ श्रीनारायण उवाच । प्रथमोऽयं मनुः स्वायम्भुव उक्तो महामुने । देव्याराधनतो येन प्राप्तं राज्यमकण्टकम् ॥ ४॥ प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । राज्यपालनकर्तारौ विख्यातौ वसुधातले ॥ ५॥ द्वितीयश्च मनुः स्वारोचिष उक्तो मनीषिभिः । प्रियव्रतसुतः श्रीमानप्रमेयपराक्रमः ॥ ६॥ स स्वारोचिषनामापि कालिन्दीकूलतो मनुः । निवासं कल्पयामास सर्वसत्त्वप्रियङ्करः ॥ ७॥ जीर्णपत्राशनो भूत्वा तपः कर्तुमनुव्रतः । देव्या मूर्तिं मृण्मयीं च पूजयामास भक्तितः ॥ ८॥ एवं द्वादश वर्षाणि वनस्थस्य तपस्यतः । देवी प्रादुरभूत्तात सहस्रार्कसमद्युतिः ॥ ९॥ ततः प्रसन्ना देवेशी स्तवराजेन सुव्रता । ददौ स्वारोचिषायैव सर्वमन्वन्तराश्रयम् ॥ १०॥ आधिपत्यं जगद्धात्री तारिणीति प्रथामगात् । एवं स्वारोचिषमनुस्तारिण्याराधनात्ततः ॥ ११॥ आधिपत्यं च लेभे स सर्वारातिविवर्जितम् । धर्मं संस्थाप्य विधिवद्राज्यं पुत्रैः समं विभुः ॥ १२॥ भुक्त्वा जगाम स्वर्लोकं निजमन्वन्तराश्रयात् । तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ॥ १३॥ गङ्गाकूले तपस्तप्त्वा वाग्भवं सञ्जपन् रहः । वर्षाणि त्रीण्युपवसन् देव्यनुग्रहमाविशत् ॥ १४॥ स्तुत्वा देवीं स्तोत्रवरैर्भक्तिभावितमानसः । राज्यं निष्कण्टकं लेभे सन्ततिं चिरकालिकीम् ॥ १५॥ राज्योत्थान्यानि सौख्यानि भुक्त्वा धर्मान्युगस्य च । सोऽप्याजगाम पदवीं राजर्षिवरभाविताम् ॥ १६॥ चतुर्थस्तामसो नाम प्रियव्रतसुतो मनुः । नर्मदादक्षिणे कूले समाराध्य जगन्मयीम् ॥ १७॥ महेश्वरीं कामराजकूटजापपरायणः । वासन्ते शारदे काले नवरात्रसपर्यया ॥ १८॥ तोषयामास देवेशीं जलजाक्षीमनूपमाम् । तस्याः प्रसादमासाद्य नत्वा स्तोत्रैरनुत्तमैः ॥ १९॥ अकण्टकं महद्राज्यं बुभुजे गतसाध्वसः । पुत्रान्वलोद्धताञ्छूरान्दश वीर्यनिकेतनान् ॥ २०॥ उत्पाद्य निजभार्यायां जगामाम्बरमुत्तमम् । पञ्चमो मनुराख्यातो रैवतस्तामसानुजः ॥ २१॥ कालिन्दीकूलमाश्रित्य जजाप कामसंज्ञकम् । बीजं परमवाग्दर्पदायकं साधकाश्रयम् ॥ २२॥ एतदाराधनादाप स्वाराज्यर्द्धिमनुत्तमाम् । बलमप्रहतं लोके सर्वसिद्धिविधायकम् ॥ २३॥ सन्ततिं चिरकालीनां पुत्रपौत्रमयीं शुभाम् । धर्मान्व्यस्य व्यवस्थाप्य विषयानुपभुज्य च । जगामाप्रतिमः शूरो महेन्द्रालयमुत्तमम् ॥ २४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे मनूत्पत्तिवर्णनं नाम अष्टमोऽध्यायः ॥ १०.८॥

१०.९ नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।

श्रीनारायण उवाच । अथातः श्रूयतां चित्रं देवीमाहाक्त्यमुत्तमम् । अङ्गपुत्रेण मनुना यथाऽऽप्तं राज्यमुत्तमम् ॥ १॥ अङ्गस्य राज्ञः पुत्रोऽभूच्चाक्षुषो मनुरुत्तमः । षष्ठः सुपुलहं नाम ब्रह्मर्षिं शरणं गतः ॥ २॥ ब्रह्मर्षे त्वामहं प्राप्तः शरणं प्रणतार्तिहन् । शाधि मां किङ्करंस्वामिन् येनाहं प्राप्नुयां श्रियम् ॥ ३॥ मेदिन्याश्चाधिपत्यं मे स्याद्यथावदखण्डितम् । अव्याहतं भुजबलं शस्त्रास्त्रनिपुणं क्षमम् ॥ ४॥ सन्ततिश्चिरकालीनाप्यखण्डं वय उत्तमम् । अन्तेऽपवर्गलाभश्च स्यात्तथोपदिशाद्य मे ॥ ५॥ इत्येवं वचनं तस्य मनोः कर्णपथेऽभवत् । प्रत्युवाच मुनिः श्रीमान् देव्याः संराधनं परम् ॥ ६॥ राजन्नाकर्णय वचो मम श्रोत्रसुखं महत् । शिवामाराधयाद्य त्वं तत्प्रसादादिदं भवेत् ॥ ७॥ चाक्षुष उवाच । कीदृगाराधनं देव्यास्तस्याः परमपावनम् । केनाकारेण कर्तव्यं कारुण्याद्वक्तुमर्हसि ॥ ८॥ मुनिरुवाच । राजन्नाकर्ण्यतां देव्याः पूजनं परमव्ययम् । वाग्भवं बीजमव्यक्तं सञ्जप्यमनिशं तथा ॥ ९॥ त्रिकालं सञ्जपन्मर्त्यो भुक्तिमुक्ती लभेत्तु हि । न बीजं वाग्भवादन्यदस्ति राजन्यनन्दन ॥ १०॥ जपात्सिद्धिकरं वीर्यबलवृद्धिकरं परम् । एतस्य जापात्पाद्मोऽपि सृष्टिकर्ता महाबलः ॥ ११॥ विष्णुर्यज्जपतः सृष्टिपालकः परिकीर्तितः । महेश्वरोऽपि संहर्ता यज्जपादभवन्नृप ॥ १२॥ लोकपालास्तथान्येऽपि निग्रहानुग्रहक्षमाः । यदाश्रयादभूवंस्ते बलवीर्यमदोद्धताः ॥ १३॥ एवं त्वमपि राजन्य महेशीं जगदम्बिकाम् । समाराध्य महर्द्धिं च लप्स्यसेऽचिरकालतः ॥ १४॥ एवं स मुनिवर्येण पुलहेन प्रबोधितः । अङ्गपुत्रस्तपस्तप्तुं जगाम विरजां नदीम् ॥ १५॥ स च तेपे तपस्तीव्रं वाग्भवस्य जपे रतः । बीजस्य पृथिवीपालः शीर्णपर्णाशनो विभुः ॥ १६॥ प्रथमेऽब्दे पल्लवाशो द्वितीये तोयभक्षणः । तृतीयेऽब्दे पवनभुक् तस्थौ स्थाणुरिवाचलः ॥ १७॥ एवं द्वादश वर्षाणि त्यक्ताहारस्य भूभुजः । वाग्भवं जपतो नित्यं मतिरासीच्छुभान्विता ॥ १८॥ तथा च देव्याः परमं मन्त्रं सज्जपतो रहः । प्रादुरासीज्जगन्माता साक्षाच्छ्रीपरमेश्वरी ॥ १९॥ तेजोमयी दुराधर्षा सर्वदेवमयीश्वरी । उवाचाङ्गतनूजं तं प्रसन्ना ललिताक्षरम् ॥ २०॥ देव्युवाच । पृथिवीपाल ते यत्स्याच्चिन्तितं परमं वरम् । तद् ब्रूहि सम्प्रदास्यामि तपसा ते सुतोषिता ॥ २१॥ चाक्षुष उवाच । जानासि देवदेवेशि यत्प्रार्थ्यं मनसेप्सितम् । अन्तर्यामिस्वरूपेण तत्सर्वं देवपूजिते ॥ २२॥ तथापि मम भाग्येन जातं यत्तव दर्शनम् । ब्रवीमि देवि मे देहि राज्यं मन्वन्तराश्रितम् ॥ २३॥ देव्युवाच । दत्तं मन्वन्तरस्यास्य राज्यं राजन्यसत्तम । पुत्रा महाबलास्ते च भविष्यन्ति गुणाधिकाः ॥ २४॥ राज्यं निष्कण्टकं भावि मोक्षोऽन्ते चापि निश्चितः । एवं दत्त्वा परं देवी मनवे वरमुत्तमम् ॥ २५॥ जगामादर्शनं सद्यस्तेन भक्त्या च संस्तुता । सोऽपि राजा मनुः षष्ठः प्रसादात्तु तदाश्रयात् ॥ २६॥ बभूव मनुमान्योऽसौ सार्वभौमसुखैर्वृतः । पुत्रास्तस्य बलोद्युक्ताः कार्यभारसहादृताः ॥ २७॥ देवीभक्ताश्च शूराश्च महाबलपराक्रमाः । अन्यत्र माननीयाश्च महाराज्यसुखास्पदाः ॥ २८॥ एवं च चाक्षुषमनुर्देव्याराधनतः प्रभुः । बभूव मनुवर्योऽसौ जगामान्ते शिवापदम् ॥ २९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे चाक्षुषमनुवृत्तवर्णनं नाम नवमोऽध्यायः ॥ १०.९॥

१०.१० दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।

श्रीनारायण उवाच । सप्तमो मनुराख्यातो मनुर्वैवस्वतः प्रभुः । श्राद्धदेवः परानन्दभोक्ता मान्यस्तु भूभुजाम् ॥ १॥ स च वैवस्वतमनुः परदेव्याः प्रसादतः । तथा तत्तपसा चैव जातो मन्वन्तराधिपः ॥ २॥ अष्टमो मनुराख्यातः सावर्णिः प्रथितः क्षितौ । स जन्मान्तर आराध्य देवीं तद्वरलाभतः ॥ ३॥ जातो मन्वन्तरपतिः सर्वराजन्यपूजितः । महापराक्रमी धीरो देवीभक्तिपरायणः ॥ ४॥ नारद उवाव कथं जन्मान्तरे तेन मनुनाराधनं कृतम् । देव्याः पृथिव्युद्भवायास्तन्ममाख्यातुमर्हसि ॥ ५॥ श्रीनारायण उवाच । चैत्रवंशसमुद्भूतो राजा स्वारोचिषेऽन्तरे । सुरथो नाम विख्यातो महाबलपराक्रमः ॥ ६॥ गुणग्राही धनुर्धारी मान्यः श्रेष्ठः कविः कृती । धनसङ्ग्रहकर्ता च दाता याचकमण्डले ॥ ७॥ अरीणां मर्दनो मानी सर्वास्त्रकुशलो बली । तस्यैकदा बभूवुस्ते कोलाविध्वंसिनो नृपाः ॥ ८॥ शत्रवः सैन्यसहिताः परिवार्येनमूर्जिताः । रुरुधुर्नगरीं तस्य राज्ञो मानधनस्य हि ॥ ९॥ तदा स सुरथो नाम राजा सैन्यसमावृतः । निर्ययौ नगरात्स्वीयात्सर्वशत्रुनिबर्हणः ॥ १०॥ तदा स समरे राजा सुरथः शत्रुभिर्जितः । अमात्यैर्मन्त्रिभिश्चैव तस्य कोशगतं धनम् ॥ ११॥ हृतं सर्वमशेषेण तदातप्यत भूमिपः । निष्कासितश्च नगरात्स राजा परमद्युतिः ॥ १२॥ जगामाश्वमथारुह्य मृगयामिषतो वनम् । एकाकी विजनेऽरण्ये बभ्रामोद्भ्रान्तमानसः ॥ १३॥ मुनेः कस्यचिदागत्य स्वाश्रमं शान्तमानसः । प्रशान्तजन्तुसंयुक्तं मुनिशिष्यगणैर्युतम् ॥ १४॥ उवास कञ्चित्कालं स राजा परमशोभने । आश्रमे मुनिवर्यस्य दीर्घदृष्टेः सुमेधसः ॥ १५॥ एकदा स महीपालो मुनिं पूजावसानके । काले गत्वा प्रणम्याशु पप्रच्छ विनयान्वितः ॥ १६॥ मुने मम मनोदुःखं बाधते चाधिसम्भवम् । ज्ञाततत्त्वस्य भूदेव निष्प्रज्ञस्य च सन्ततम् ॥ १७॥ शत्रुभिर्निर्जितस्यापि हृतराज्यस्य सर्वशः । तथापि तेषु मनसि ममत्वं जायते स्फुटम् ॥ १८॥ किं करोमि क्व गच्छामि कथं शर्म लभे मुने । त्वदनुग्रहमाशासे वद वेदविदां वर ॥ १९॥ मुनिरुवाच । आकर्णय महीपाल महाश्चर्यकरं परम् । देवीमाहात्म्यमतुलं सर्वकामप्रदं परम् ॥ २०॥ जगन्मयी महामाया विष्णुब्रह्महरोद्भवा । सा बलादपहृत्यैव जन्तूनां मानसानि हि ॥ २१॥ मोहाय प्रतिसंयच्छेदिति जानीहि भूमिप । सा सृजत्यखिलं विश्वं सा पालयति सर्वदा ॥ २२॥ संहारे हररूपेण संहरत्येव भूमिप । कामदात्री महामाया कालरात्रिर्दुरत्यया ॥ २३॥ विश्वसंहारिणी काली कमला कमलालया । तस्यां सर्वं जगज्जातं तस्यां विश्वं प्रतिष्ठितम् ॥ २४॥ लयमेष्यति तस्यां च तस्मात्सैव परात्परा । तस्या देव्याः प्रसादश्च यस्योपरि भवेन्नृप । स एव मोहमत्येति नान्यथा धरणीपते ॥ २५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे सुरथनृपतिवृमत्तवर्णनं नाम दशमोऽध्यायः ॥ १०.१०॥

१०.११ एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।

राजोवाच । का सा देवी त्वया प्रोक्ता ब्रूहि कालविदां वर । का मोहयति सत्त्वानि कारणं किं भवेद् द्विज ॥ १॥ कस्मादुत्पद्यते देवी किंरूपा सा किमात्मिका । सर्वमाख्याहि भूदेव कृपया मम सर्वतः ॥ २॥ मुनिरुवाच । राजन् देव्याः स्वरूपं ते वर्णयामि निशामय । यथा चोत्पतिता देवी येन वा सा जगन्मयी ॥ ३॥ यदा नारायणो देवो विश्वं संहृत्य योगराट् । आस्तीर्य शेषं भगवान् समुद्रे निद्रितोऽभवत् ॥ ४॥ तदा प्रस्वापवशगो देवदेवो जनार्दनः । तत्कर्णमलसञ्जातौ दानवौ मधुकैटभौ ॥ ५॥ ब्रह्माणं हन्तुमुद्युक्तौ दानवौ घोररूपिणौ । तदा कमलजो देवो दृष्ट्वा तौ मधुकैटभौ ॥ ६॥ निद्रितं देवदेवेशं चिन्तामाप दुरत्ययाम् । निद्रितो भगवानीशो दानवौ च दुरासदौ ॥ ७॥ किं करोमि क्व गच्छामि कथं शर्म लभे ह्यहम् । एवं चिन्तयतस्तस्य पद्ययोनेर्महात्मनः ॥ ८॥ बुद्धिः प्रादूरभूत्तात तदा कार्यप्रसाधिनी । यस्या वशं गतो देवो निद्रितो भगवान् हरिः ॥ ९॥ तां देवीं शरणं यामि निद्रां सर्वप्रसूतिकाम् । ब्रह्मोवाच । देवि देवि जगद्धात्रि भक्ताभीष्टफलप्रदे ॥ १०॥ जगन्माये महामाये समुद्रशयने शिवे । त्वदाज्ञावशगाः सर्वे स्वस्वकार्यविधायिनः ॥ ११॥ कालरात्रिर्महारात्रिर्मोहरात्रिर्मदोत्कटा । व्यापिनी वशगा मान्या महानन्दैकशेवधिः ॥ १२॥ महनीया महाराध्या माया मधुमती मही । परापराणां सर्वेषां परमा त्वं प्रकीर्तिता ॥ १३॥ लज्जा पुष्टिः क्षमा कीर्तिः कान्तिः कारुण्यविग्रहा । कमनीया जगद्वन्द्या जाग्रदादिस्वरूपिणी ॥ १४॥ परमा परमेशानी परानन्दपरायणा । एकाप्येकस्वरूपा च सद्वितीया द्वयात्मिका ॥ १५॥ त्रयी त्रिवर्गनिलया तुर्या तुर्यपदात्मिका । पञ्चमी पञ्चभूतेशी षष्ठी षष्ठेश्वरीति च ॥ १६॥ सप्तमी सप्तवारेशी सप्तसप्तवरप्रदा । अष्टमी वसुनाथा च नवग्रहमयीश्वरी ॥ १७॥ नवरागकला रम्या नवसङ्ख्या नवेश्वरी । दशमी दशदिक्पूज्या दशाशाव्यापिनी रमा ॥ १८॥ एकादशात्मिका चैकादशरुद्रनिषेविता । एकादशीतिथिप्रीता एकादशगणाधिपा ॥ १९॥ द्वादशी द्वादशभुजा द्वादशादित्यजन्मभूः । त्रयोदशात्मिका देवी त्रयोदशगणप्रिया ॥ २०॥ त्रयोदशाभिधा भिन्ना विश्वेदेवाधिदेवता । चतुर्दशेन्द्रवरदा चतुर्दशमनुप्रसूः ॥ २१॥ पञ्चाधिकदशी वेद्या पञ्चाधिकदशी तिथिः । षोडशी षोडशभुजा षोडशेन्दुकलामयी ॥ २२॥ षोडशात्मकचन्द्रांशुव्याप्तदिव्यकलेवरा । एवंरूपासि देवेशि निर्गुणे तामसोदये ॥ २३॥ त्वया गृहीतो भगवान्देवदेवो रमापतिः । एतौ दुरासदौ दैत्यौ विक्रान्तौ मधुकैटभौ ॥ २४॥ एतयोश्च वधार्थाय देवेशं प्रतिबोधय । मुनिरुवाच । एवं स्तुता भगवती तामसी भगवत्प्रिया ॥ २५॥ देवदेवं तदा त्यक्त्वा मोहयामास दानवौ । तदैव भगवान्विष्णुः परमात्मा जगत्पतिः ॥ २६॥ प्रबोधमाप देवेशो ददृशे दानवोत्तमौ । तदा तौ दानवौ घोरौ दृष्ट्वा तं मधुसूदनम् ॥ २७॥ युद्धाय कृतसङ्कल्पौ जग्मतुः सन्निधिं हरेः । युयुधे च ततस्ताभ्यां भगवान्मधुसूदनः ॥ २८॥ पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः । तौ तदातिबलोन्मत्तौ जगन्मायाविमोहितौ ॥ २९॥ व्रियतां वर इत्येवमूचतुः परमेश्वरम् । एवं तयोर्वचः श्रुत्वा भगवानादिपूरुषः ॥ ३०॥ वव्रे वध्याबुभौ मेऽद्य भवेतामिति निश्चितम् । तौ तदातिबलौ देवं पुनरेवोचतुर्हरिम् ॥ ३१॥ आवां जहि न यत्रोर्वी पयसा च परिप्लुता । तथेत्युक्त्वा भगवता गदाशङ्खभृता नृप ॥ ३२॥ कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः । एवं देवी समुत्पन्ना ब्रह्मणा संस्तुता नृप ॥ ३३॥ महाकाली महाराज सर्वयोगेश्वरेश्वरी । महालक्ष्म्यास्तथोत्पत्तिं निशामय महीपते ॥ ३४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीमाहात्म्ये मधुकैटभवधवर्णनं नाम एकादशोऽध्यायः ॥ १०.११॥

१०.१२ द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।

मुनिरुवाच । महिषीगर्भसम्भूतो महाबलपराक्रमः । देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥ १ सर्वेषां लोकपालानामधिकारान्महासुरः । बलानिर्जित्य बुभुजे त्रैलोक्यैश्वर्यमद्भुतम् ॥ २॥ ततः पराजिताः सर्वे देवाः स्वर्गपरिच्युताः । ब्रह्माणं च पुरस्कृत्य ते जग्मुर्लोकमुत्तमम् ॥ ३॥ यत्रोत्तमौ देवदेवौ संस्थितौ शङ्कराच्युतौ । वृत्तान्तं कथयामासुर्महिषस्य दुरात्मनः ॥ ४॥ देवानां चैव सर्वेषां स्थानानि तरसासुरः । विनिर्जित्य स्वयं भुङ्क्ते बलवीर्यमदोद्धतः ॥ ५॥ महिषासुरनामासौ दुष्टदैत्योऽमरेश्वरौ । वधोपायश्च तस्याशु चिन्त्यतामसुरार्दनौ ॥ ६॥ एवं श्रुत्वा स भगवान्देवानामार्तियुग्वचः । चकार कोपं सुबहुं तथा शङ्करपद्मजौ ॥ ७॥ एवं कोपयुतस्यास्य हरेरास्यान्महीपते । तेजः प्रादुरभूद्दिव्यं सहस्रार्कसमद्युति ॥ ८॥ अथानुक्रमतस्तेजः सर्वेषां त्रिदिवौकसाम् । शरीरादुद्भवं प्राप हर्षयद्विबुधाधिपान् ॥ ९॥ यदभूच्छम्भुजं तेजो मुखमस्योदपद्यत । केशा बभूवुर्याम्येन वैष्णवेन च बाहवः ॥ १०॥ सौम्येन च स्तनौ जातौ माहेन्द्रेण च मध्यमः । वारुणेन ततो भूप जङ्घोरू सम्बभूवतुः ॥ ११॥ नितम्बौ तेजसा भूमेः पादौ ब्राह्मेण तेजसा । पादाङ्गुल्यो भानवेन वासवेन कराङ्गुली ॥ १२॥ कौबेरेण तथा नासा दन्ताः सञ्जज्ञिरे तदा । प्राजापत्येनोत्तमेन तेजसा वसुधाधिप ॥ १३॥ पावकेन च सञ्जातं लोचनत्रितयं शुभम् । सान्ध्येन तेजसा जाते भृकुट्यौ तेजसां निधी ॥ १४॥ कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप । सर्वेषां तेजसा देवी जाता महिषमर्दिनी ॥ १५॥ शूलं ददौ शिवो विष्णुश्चक्रं शङ्खं च पाशभृत् । हुताशनो ददौ शक्तिं मारुतश्चापसायकौ ॥ १६॥ वज्रं महेन्द्रः प्रददौ घण्टां चैरावताद् गजात् । कालदण्डं यमो ब्रह्मा चाक्षमालाकमण्डलू ॥ १७॥ दिवाकरो रश्मिमालां रोमकूपेषु सन्ददौ । कालः खड्गं तथा चर्म निर्मलं वसुधाधिप ॥ १८॥ समुद्रो निर्मलं हारमजरे चाम्बरे नृप । चूडामणिं कुण्डले च कटकानि तथाङ्गदे ॥ १९॥ अर्धचन्द्रं निर्मलं च नूपुराणि तथा ददौ । ग्रैवेयकं भूषणं च तस्यै देव्यै मुदान्वितः ॥ २०॥ विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते । हिमवान्वाहनं सिंहं रत्नानि विविधानि च ॥ २१॥ पानपात्रं सुरापूर्णं ददौ तस्यै धनाधिपः । शेषश्च भगवान्देवो नागहारं ददौ विभुः ॥ २२॥ अन्यैरशेषविबुधैर्मानिता सा जगन्मयी । तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः ॥ २३॥ नानास्तोत्रैर्महेशानीं जगदुद्भवकारिणीम् । तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता ॥ २४॥ महिषस्य वधार्थाय महानादं चकार ह । तेन नादेन महिषश्चकितोऽभूद्धरापते ॥ २५॥ आससाद जगद्धात्रीं सर्वसैन्यसमावृतः । ततः स युयुधे देव्या महिषाख्यो महासुरः ॥ २६॥ शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् । चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ ॥ २७॥ बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः । एतैश्चान्यैरसङ्ख्यातैः सङ्ग्रामान्तकसन्निभैः ॥ २८॥ योधैः परिवृतो वीरो महिषो दानवोत्तमः । ततः सा कोपताम्राक्षी देवी लोकविमोहिनी ॥ २९॥ जघान योधान्समरे देवी महिषमाश्रितान् । ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः ॥ ३०॥ आससाद तदा देवीं तूर्णं मायाविशारदः । रूपान्तराणि सम्भेजे मायया दानवेश्वरः ॥ ३१॥ तानि तान्यस्य रूपाणि नाशयामास सा तदा । ततोऽन्ते माहिषं रूपं बिभ्राणममरार्दनम् ॥ ३२॥ पाशेन बद्ध्वा सुदृढं छित्त्वा खड्गेन तच्छिरः । पातयामास महिषं देवी देवगणान्तकम् ॥ ३३॥ हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश । तुष्टुवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः ॥ ३४॥ एवं लक्ष्मीः समुत्पन्ना महिषासुरमर्दिनी । राजञ्छृणु सरस्वत्याः प्रादुर्भावो यथाभवत् ॥ ३५॥ एकदा शुम्भनामासीद्दैत्यो मदबलोत्कटः । निशुम्भश्चापि तद्भ्राता महाबलपराक्रमः ॥ ३६॥ तेन सम्पीडिता देवाः सर्वे भ्रष्टश्रियो नृप । हिमवन्तमथासाद्य देवीं तुष्टुवुरादरात् ॥ ३७॥ देवा ऊचुः । जय देवेशि भक्तानामार्तिनाशनकोविदे । दानवान्तकरूपे त्वमजरामरणेऽनघे ॥ ३८॥ देवेशि भक्तिसुलभे महाबलपराक्रमे । विष्णुशङ्करब्रह्मादिस्वरूपेऽनन्तविक्रमे ॥ ३९॥ सृष्टिस्थितिकरे नाशकारिके कान्तिदायिनि । महाताण्डवसुप्रीते मोददायिनि माधवि ॥ ४०॥ प्रसीद देवदेवेशि प्रसीद करुणानिधे । निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधे ॥ ४१॥ उद्धरास्मान् प्रपन्नार्तिनाशिके शरणागतान् । एवं संस्तुवतां तेषां त्रिदशानां धरापते ॥ ४२॥ प्रसन्ना गिरिजा प्राह ब्रूत स्तवनकारणम् । एतस्मिन्नन्तरे यस्याः कोशरूपात्समुत्थिता ॥ ४३॥ कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत् । प्रसन्नाहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी ॥ ४४॥ व्रियतां वर इत्युक्ते देवाः संवव्रिरे वरम् । शुम्भनामावरो भ्राता निशुम्भस्तस्य विश्रुतः ॥ ४५॥ त्रैलोक्यमोजसाक्रान्तं दैत्येन बलशालिना । तद्वधश्चिन्त्यतां देवि दुरात्मा दानवेश्वरः ॥ ४६॥ बाधते सततं देवि तिरस्कृत्य निजौजसा । देव्युवाच । देवशत्रुं पातयिष्ये निशुम्भं शुम्भमेव च ॥ ४७॥ स्वस्थास्तिष्ठत भद्रं वः कण्टकं नाशयामि वः । इत्युक्त्वा देवदेवेशी देवान्सेन्द्रान्दयामयी ॥ ४८॥ जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम् । देवाः समागता हृष्टाः सुवर्णाद्रिगुहां शुभाम् ॥ ४९॥ चण्डमुण्डौ पश्यतःस्म भृत्यौ शुम्भनिशुम्भयोः । दृष्ट्वा तां चारुसर्वाङ्गीं देवीं लोकविमोहिनीम् ॥ ५०॥ कथयामासतू राज्ञे भृत्यौ तौ चण्डमुण्डकौ । देव सर्वासुरश्रेष्ठ रत्नभोगार्ह मानद ॥ ५१॥ अपूर्वा कामिनी दृष्टा चावाभ्यां रिपुमर्दन । तस्याः सम्भोगयोग्यत्वमस्त्येव तव साम्प्रतम् ॥ ५२॥ तां समानय चार्वङ्गीं भुङ्क्ष्व सौख्यसमन्वितः । तादृशी नासुरी नारी न गन्धर्वी न दानवी ॥ ५३॥ न मानवी नापि देवी यादृशी सा मनोहरा । एवं भृत्यवचः श्रुत्वा शुम्भः परबलार्दनः ॥ ५४॥ दूतं सम्मेषयामास सुग्रीवं नाम दानवम् । स दूतस्त्वरितं गत्वा देव्याः सविधमादरात् ॥ ५५॥ वृत्तान्तं कथयामास देव्यै शुम्भस्य यद्वचः । देवि शुम्भासुरो नाम त्रैलोक्यविजयी प्रभुः ॥ ५६॥ सर्वेषां रत्नवस्तूनां भोक्ता मान्यो दिवौकसाम् । तदुक्तं श‍ृणु मे देवि रत्नभोक्ताहमव्ययः ॥ ५७॥ त्वं चापि रत्नभूतासि भज मां चारुलोचने । सर्वेषु यानि रत्नानि देवासुरनरेषु च ॥ ५८॥ तानि मय्येव सुभगे भज मां कामजै रसैः । देव्युवाच । सत्यं वदसि हे दूत दैत्यराजप्रियङ्करम् ॥ ५९॥ प्रतिज्ञा या मया पूर्वं कृता साप्यनृता कथम् । भवेत्तां श‍ृणु मे दूत या प्रतिज्ञा मया कृता ॥ ६०॥ यो मे दर्पं विधुनुते यो मे बलमपोहति । यो मे प्रतिबलो भूयात्स एव मम भोगभाक् ॥ ६१॥ तत एनां प्रतिज्ञां मे सत्यां कृत्वासुरेश्वरः । गृह्णातु पाणिं तरसा तस्याशक्यं किमत्र हि ॥ ६२॥ तस्माद् गच्छ महादूत स्वामिनं ब्रूहि चादृतः । प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः ॥ ६३॥ एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः । कथयामास शुम्भाय देव्या वृत्तान्तमादितः ॥ ६४॥ तदाप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः । कोपमाहारयामास महान्तं दनुजाधिपः ॥ ६५॥ ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः । आदिदेश श‍ृणु वचो धूम्राक्ष मम चादृतः ॥ ६६॥ तां दुष्टां केशपाशेषु हत्वाप्यानीयतां मम । समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः ॥ ६७॥ इत्यादेशं समासाद्य दैत्येशो धूम्रलोचनः । षष्ट्यासुराणां सहितः सहस्राणां महाबलः ॥ ६८॥ तुहिनाचलमासाद्य देव्याः सविधमेव सः । उच्चैर्देवीं जगादाशु भज दैत्यपतिं शुभे ॥ ६९॥ शुम्भं नाम महावीर्यं सर्वभोगानवाप्नुहि । नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपतिं प्रति ॥ ७०॥ इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा । उवाच दैत्य यद् ब्रूषे तत्सत्यं ते महाबल ॥ ७१॥ राजा शुम्भासुरस्त्वं च किं करिष्यसि तद्वद । इत्युक्तो दैत्यपोऽधावत्तूर्णं शस्त्रसमन्वितः ॥ ७२॥ भस्मसात्तं चकाराशु हुङ्कारेण महेश्वरी । ततः सैन्यं वाहनेन देव्या भग्नं महीपते ॥ ७३॥ दिशो दशाभजच्छीघ्रं हाहाभूतमचेतनम् । तद्वृत्तान्तं समाश्रुत्य स शुम्भो दैत्यराड् विभुः ॥ ७४॥ चुकोप च महाकोपाद् भ्रुकुटीकुटिलाननः । ततः कोपपरीतात्मा दैत्यराजः प्रतापवान् ॥ ७५॥ चण्डं मुण्डं रक्तबीजं क्रमतः प्रैषयद्विभुः । ते च गत्वा त्रयो दैत्या विक्रान्ता बहुविक्रमाः ॥ ७६॥ देवीं ग्रहीतुमारब्धयत्नास्ते ह्यभवन्बलात् । तानापतत एवासौ जगद्धात्री मदोत्कटा ॥ ७७॥ शूलं गहीत्वा वेगेन पातयामास भूतले । ससैन्यान्निहताञ्छ्रुत्वा दैत्यांस्त्रीन्दानवेश्वरौ ॥ ७८॥ शुम्भश्चैव निशुम्भश्च समाजग्मतुरोजसा । निशुम्भश्चैव शुम्भश्च कृत्वा युद्धं महोत्कटम् ॥ ७९॥ देव्याश्च वशगौ जातौ निहतौ च तयासुरौ । इति दैत्यवरं शुम्भं घातयित्वा जगन्मयी ॥ ८०॥ विबुधैः संस्तुता तद्वत्साक्षाद्वागीश्वरी परा । एवं ते वर्णितो राजन् प्रादुर्भावोऽतिरम्यकः ॥ ८१॥ काल्याश्चैव महालक्ष्याः सरस्वत्याः क्रमेण च । परा परेश्वरी देवी जगत्सर्गं करोति च ॥ ८२॥ पालनं चैव संहारं सैव देवी दधाति हि । तां समाश्रय देवेशीं जगन्मोहनिवारिणीम् ॥ ८३॥ महामायां पूज्यतमां सा कार्यं ते विधास्यति । श्रीनारायण उवाच । इति राजा वचः श्रुत्वा मुनेः परमशोभनम् ॥ ८४॥ देवीं जगाम शरणं सर्वकामफलप्रदाम् । निराहारो यतात्मा च तन्मनाश्च समाहितः ॥ ८५॥ देवीमूर्तिं मृण्मयीं च पूजयामास भक्तितः । पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत् ॥ ८६॥ तदा प्रसन्ना देवेशी जगद्योनिः कृपावती । प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी ॥ ८७॥ स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् । राज्यं निष्कण्टकं चैव याचति स्म महेश्वरीम् ॥ ८८॥ देव्युवाच । राजन्निष्कण्टकं राज्यं ज्ञानं वै मोहनाशनम् । भविष्यति मया दत्तमस्मिन्नेव भवे तव ॥ ८९॥ अन्यच्च श‍ृणु भूपाल जन्मान्तरविचेष्टितम् । भानोर्जन्म समासाद्य सावर्णिर्भविता भवान् ॥ ९०॥ तत्र मन्वन्तरस्यापि पतित्वं बहुविक्रमम् । सन्ततिं बहुलां चापि प्राप्स्यते मद्वराद्भवान् ॥ ९१॥ एवं दत्त्वा वरं देवी जगामादर्शनं तदा । सोऽपि देव्याः प्रसादेन जातो मन्वन्तराधिपः ॥ ९२॥ एवं ते वर्णितं साधो सावर्णेर्जन्म कर्म च । एतत्पठंस्तथा श‍ृण्वन्देव्यनुग्रहमाप्नुयात् ॥ ९३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १०.१२॥

१०.१३ त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।

श्रीनारायण उवाच । अथातः श्रूयतां शेषमनूनां चित्रमुद्भवम् । यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते ॥ १॥ आसन्वैवस्वतमनोः पुत्राः षड् विमलोदयाः । करूषश्च पृषध्रश्च नाभागो दिष्ट एव च ॥ २॥ शर्यातिश्च त्रिशङ्कुश्च सर्व एव महाबलाः । ततः षडेव ते गत्वा कालिन्द्यास्तीरमुत्तमम् ॥ ३॥ निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः । देव्या महीमयीं मूर्तिं विनिर्माय पृथक्पृथक् ॥ ४॥ विविधैरुपचारैस्तां पूजयामासुरादृताः । ततश्च सर्व एवैते तपःसारा महाबलाः ॥ ५॥ जीर्णपर्णाशना वायुभक्षणास्तोयजीवनाः । धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः ॥ ६॥ ततस्तेषामादरेणाराधनं कुर्वतां सदा । विमला मतिरुत्पन्ना सर्वमोहविनाशिनी ॥ ७॥ बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः । मत्या विमलया तेषामात्मन्येवाखिलं जगत् ॥ ८॥ दर्शनं सञ्जगामाशु तदद्भुतमिवाभवत् । एवं द्वादशवर्षान्ते तपसा जगदीश्वरी ॥ ९॥ प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः । तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते ॥ १०॥ तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः । राजपुत्रा ऊचुः । महेश्वरि जयेशानि परमे करुणालये ॥ ११॥ वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते । क्लीङ्कारविग्रहे देवि क्लीङ्कारप्रीतिदायिनि ॥ १२॥ कामराजमनोमोददायिनीश्वरतोषिणि । महामाये मोदपरे महासाम्राज्यदायिनि ॥ १३॥ विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि । एवं स्तुता भगवती राजपुत्रैर्महात्मभिः ॥ १४॥ प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् । देव्युवाच । राजपुत्रा महात्मानो भवन्तस्तपसा युताः ॥ १५॥ निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् । वरं मनोगतं सर्वं याचध्वमविलम्बितम् ॥ १६॥ प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् । राजपुत्रा ऊचुः । देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी ॥ १७॥ भोगा अव्याहता कामं यशस्तेजो मतिश्च ह । अकुण्ठितत्वं सर्वेषामेष एव वरो हितः ॥ १८॥ देव्युवाच । एवमस्तु च सर्वेषां भवतां यन्मनोगतम् । अथान्यदपि मे वाक्यं भूयतामादरादिदम् ॥ १९॥ भवन्तः सर्व एवैते मन्वन्तरपतीश्वराः । सन्तत्या दीर्घया भोगैरनेकैरपि सङ्गमः ॥ २०॥ अखण्डितबलैश्वर्यं यशस्तेजोविभूतयः । भवितारो मत्प्रसादाद्राजपुत्राः क्रमेण तु ॥ २१॥ श्रीनारायण उवाच । एवं तेभ्यो वरान्दत्त्वा भ्रामरी जगदम्बिका । अन्तर्धानं जगामाशु भक्त्या तैः संस्तुता सती ॥ २२॥ ते राजपुत्राः सर्वेऽपि तस्मिञ्जन्मन्यनुत्तमम् । राज्यं महीगतान्भोगान्बुभुजुश्च महौजसः ॥ २३॥ सन्ततिं चाखण्डितां ते समुत्पाद्य महीतले । वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन् ॥ २४॥ भवान्तरे क्रमेणैव सावर्णिपदभागिनः । प्रथमो दक्षसावर्णिर्नवमो मनुरीरितः ॥ २५॥ अव्याहतबलो देव्याः प्रसादादभवद्विभुः । द्वितीयो मेरुसावर्णिर्दशमो मनुरेव च ॥ २६॥ बभूव मन्वन्तरपो महादेवीप्रसादतः । तृतीयो मनुराख्यातः सूर्यसावर्णिनामकः ॥ २७॥ एकादशो महोत्साहस्तपसा स्वेन भावितः । चतुर्थश्चन्द्रसावर्णिर्द्वादशो मनुराड् विभुः ॥ २८॥ देवीसमाराधनेन जातो मन्वन्तरेश्वरः । पञ्चमो रुद्रसावर्णिस्त्रयोदशमनुः स्मृतः ॥ २९॥ महाबलो महासत्त्वो बभूव जगदीश्वरः । षष्ठश्च विष्णुसावर्णिश्चतुर्दशमनुः कृती ॥ ३०॥ बभूव देवीवरतो जगतां प्रथितः प्रभुः । चतुर्दशैते मनवो महातेजोबलैर्युताः ॥ ३१॥ देव्याराधनतः पूज्या वन्द्या लोकेषु नित्यशः । महाप्रतापिनः सर्वे भ्रामर्यास्तु प्रसादतः ॥ ३२॥ नारद उवाच । केयं सा भ्रामरी देवी कथं जाता किमात्मिका । तदाख्यानं वद प्राज्ञ विचित्रं शोकनाशकम् ॥ ३३॥ न तृप्तिमधिगच्छामि पिबन्देवीकथामृतम् । अमृतं पिबतां मृत्युर्नास्य श्रवणतो यतः ॥ ३४॥ श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि जगन्मातुर्विचेष्टितम् । अचिन्त्याव्यक्तरूपाया विचित्रं मोक्षदायकम् ॥ ३५॥ यद्यच्चरित्रं श्रीदेव्यास्तत्सर्वं लोकहेतवे । निर्व्याजया करुणया पुत्रे मातुर्यथा तथा ॥ ३६॥ पूर्वं दैत्यो महानासीदरुणाख्यो महाबलः । पाताले दैत्यसंस्थाने देवद्वेषी महाखलः ॥ ३७॥ स देवाञ्जेतुकामश्च चकार परमं तपः । पद्मसम्भवमुद्दिश्य स नस्त्राता भविष्यति ॥ ३८॥ गत्वा हिमवतः पार्श्वे गङ्गाजलसुशीतले । पक्वपर्णाशनो योगी सन्निरुध्य मरुद्गणम् ॥ ३९॥ गायत्रीजपसंसक्तः सकामस्तमसा युतः । दशवर्षसहस्राणि ततो वारिकणाशनः ॥ ४०॥ दशवर्षसहस्राणि ततः पवनभोजनः । दशवर्षसहस्राणि निराहारोऽभवत्ततः ॥ ४१॥ एवं तपस्यतस्तस्य शरीरादुत्थितोऽनलः । ददाह जगतीं सर्वां तदद्भुतमिवाभवत् ॥ ४२॥ किमिदं किमिदं चेति देवाः सर्वे चकम्पिरे । सन्त्रस्ताः सकला लोका ब्रह्माणं शरणं ययुः ॥ ४३॥ विज्ञापितं देववरैः श्रुत्वा तत्र चतुर्मुखः । गायत्रीसहितो हंससमारूढो ययौ मुदा ॥ ४४॥ प्राणमात्रावशिष्टं तं धमनीशतसङ्कुलम् । शुष्कोदरं क्षामगात्रं ध्यानमीलितलोचनम् ॥ ४५॥ ददर्श तेजसा दीप्तं द्वितीयमिव पावकम् । वरं वरय भद्रं ते वत्स यन्मनसि स्थितम् ॥ ४६॥ श्रुतिमात्रेण सन्तोषकारकं वाक्यमूचिवान् । श्रुत्वा ब्रह्ममुखाद्वाणीं सुधाधारामिवारुणः ॥ ४७॥ उन्मीलिताक्षः पुरतो ददर्श जलजोद्भवम् । गायत्रीसहितं देवं चतुर्वेदसमन्वितम् ॥ ४८॥ अक्षस्रक्कुण्डिकाहस्तं जपन्तं ब्रह्म शाश्वतम् । दृष्ट्वोत्थाय ननामाथ स्तुत्वा च विविधैः स्तवैः ॥ ४९॥ वरं वव्रे स्वबुद्धिस्थं मा भवेन्मृत्युरित्यपि । श्रुत्वारुणवचो ब्रह्मा बोधयामास सादरम् ॥ ५०॥ ब्रह्मविष्णुमहेशाद्या मृत्युना कवलीकृताः । तदान्येषां तु का वार्ता मरणे दानवोत्तम ॥ ५१॥ वरं योग्यं ततो ब्रूहि दातुं यः शक्यते मया । नात्राग्रहं प्रकुर्वन्ति बुद्धिमन्तो जनाः क्वचित् ॥ ५२॥ इति ब्रह्मवचः श्रुत्वा पुनः प्रोवाच सादरम् । न युद्धे न च शस्त्रास्त्रान्न पुम्भ्यो नापि योषितः ॥ ५३॥ द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतस्तथा । भवेन्मे मृत्युरित्येवं देव देहि वरं प्रभो ॥ ५४॥ बलं च विपुलं देहि येन देवजयो भवेत् । इति तस्य वचः श्रुत्वा तथास्त्विति वचोऽब्रवीत् ॥ ५५॥ दत्त्वा वरं जगामाशु पद्मजः स्वं निकेतनम् । ततोऽरुणाख्यो दैत्यस्तु पातालात्स्वाश्रयस्थितान् ॥ ५६॥ दैत्यानाकारयामास ब्रह्मणो वरदर्पितः । आगत्य तेऽसुराः सर्वे दैत्येशं तं प्रचक्रिरे ॥ ५७॥ दूतं च प्रेषयामासुर्युद्धार्थममरावतीम् । दूतवाक्यं तदा श्रुत्वा देवराड् भयकम्पितः ॥ ५८॥ देवैः सार्धं जगामाशु ब्रह्मणः सदनं प्रति । ब्रह्मविष्णू पुरस्कृत्य जग्मुस्ते शङ्करालयम् ॥ ५९॥ विचारं चक्रिरे तत्र वधार्थं ते सुरद्रुहाम् । एतस्मिन्समये तत्र दैत्यसेनासमावृतः ॥ ६०॥ अरुणाख्यो दैत्यराजो जगामाशु त्रिविष्टपम् । सूर्येन्दुयमवह्नीनामधिकारान्पृथक्पृथक् ॥ ६१॥ स्वयं चकार तपसा नानारूपधरो मुने । स्वस्वस्थानच्युताः सर्वे जग्मुः कैलासमण्डलम् ॥ ६२॥ शशंसुः शङ्करं देवाः स्वस्वदुःखं पृथक्पृथक् । महान् विचारस्तत्रासीत्किं कर्तव्यमतः परम् ॥ ६३॥ न युद्धेन च शस्त्रास्त्रैर्न पुम्भ्यो नापि योषितः । द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतोऽपि वा ॥ ६४॥ मृत्युर्भवेदिति ब्रह्मा प्रोवाच वचनं यतः । इति चिन्तातुराः सर्वे कर्तुं किञ्चिन्न च क्षमाः ॥ ६५॥ एतस्मिन्समये तत्र वागभूदशरीरिणी । भजध्वं भुवनेशानीं सा वः कार्यं विधास्यति ॥ ६६॥ गायत्रीजपसंसक्तो दैत्यराड् यदि तां त्यजेत् । मृत्युयोग्यस्तदा भूयादित्युच्चैस्तोषकारिणी ॥ ६७॥ श्रुत्वा दैवीं तथा वाणीं मन्त्रयामासुरादृताः । बृहस्पतिं समाहूय वचनं प्राह देवराट् ॥ ६८॥ गुरो गच्छ सुराणां तु कार्यार्थमसुरं प्रति । यथा भवेच्च गायत्रीत्यागस्तस्य तथा कुरु ॥ ६९॥ अस्माभिः परमेशानी सेव्यते ध्यानयोगतः । प्रसन्ना सा भगवती साहाय्यं ते करिष्यति ॥ ७०॥ इत्यादिश्य गुरुं सर्वे जग्मुर्जाम्बूनदेश्वरीम् । सास्मान्दैत्यभयत्रस्तान् पालयिष्यति शोभना ॥ ७१॥ तत्र गत्वा तपश्चर्यां चक्रुः सर्वे सुनिष्ठिताः । मायाबीजजपासक्ता देवीमखपरायणाः ॥ ७२॥ बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ । आगतं मुनिवर्यं तं पप्रच्छाथ स दैत्यराट् ॥ ७३॥ मुने कुत्रागमः कस्मात्किमर्थमिति मे वद । नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च ॥ ७४॥ इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः । अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम् ॥ ७५॥ तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद । इति तस्य वचः श्रुत्वा मोहितो देवमायया ॥ ७६॥ तत्याज परमं मन्त्रमभिमानेन सत्तम । गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह ॥ ७७॥ कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः । ततो वृत्तान्तमखिलं कथयामास वज्रिणे ॥ ७८॥ सन्तुष्टास्ते सुराः सर्वे भेजिरे परमेश्वरीम् । एवं बहुगते काले कस्मिंश्चित्समये मुने ॥ ७९॥ प्रादुरासीज्जगन्माता जगन्मङ्गलकारिणी । कोटिसूर्यप्रतीकाशा कोटिकन्दर्पसुन्दरी ॥ ८०॥ चित्रानुलेपना देवी चित्रवासोयुगान्विता । विचित्रमाल्याभरणा चित्रभ्रमरमुष्टिका ॥ ८१॥ वराभयकरा शान्ता करुणामृतसागरा । नानाभ्रमरसंयुक्तपुष्पमालाविराजिता ॥ ८२॥ भ्रामरीभिर्विचित्राभिरसङ्ख्याभिः समावृता । भ्रमरैर्गायमानैश्च ह्रीङ्कारमनुमन्वहम् ॥ ८३॥ समन्ततः परिवृता कोटिकोटिभिरम्बिका । सर्वश‍ृङ्गारवेषाढ्या सर्ववेदप्रशंसिता ॥ ८४॥ सर्वात्मिका सर्वमयी सर्वमङ्गलरूपिणी । सर्वज्ञा सर्वजननी सर्वा सर्वेश्वरी शिवा ॥ ८५॥ दृष्ट्वा तां तरलात्मानो देवा ब्रह्मपुरोगमाः । तुष्टुवुर्हृष्टमनसो विष्टरश्रवसां शिवाम् ॥ ८६॥ देवा ऊचुः । नमो देवि महाविद्ये सृष्टिस्थित्यन्तकारिणि । नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते ॥ ८७॥ सविश्वतैजसप्राज्ञविराट्सूत्रात्मिके नमः । नमो व्याकृतरूपायै कूटस्थायै नमो नमः ॥ ८८॥ दुर्गे सर्गादिरहिते दुष्टसंरोधनार्गले । निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते ॥ ८९॥ नमः श्रीकालिके मातर्नमो नीलसरस्वति । उग्रतारे महोग्रे ते नित्यमेव नमो नमः ॥ ९०॥ नमः पीताम्बरे देवि नमस्त्रिपुरसुन्दरि । नमो भैरवि मातङ्गि धूमावति नमो नमः ॥ ९१॥ छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके । नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके ॥ ९२॥ निशुम्भशुम्भदलनि रक्तबीजविनाशिनि । धूम्रलोचननिर्णाशे वृत्रासुरनिबर्हिणि ॥ ९३॥ चण्डमुण्डप्रमथिनि दानवान्तकरे शिवे । नमस्ते विजये गङ्गे शारदे विकचानने ॥ ९४॥ पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः । प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते ॥ ९५॥ विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः । देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते ॥ ९६॥ गायत्रि वरदे देवि सावित्रि च सरस्वति । नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः ॥ ९७॥ नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः । सर्वप्रत्यक्स्वरूपां तां भजामः परदेवताम् ॥ ९८॥ भ्रमरैर्वेष्टिता यस्माद् भ्रामरी या ततः स्मृता । तस्यै देव्यै नमो नित्यं नित्यमेव नमो नमः ॥ ९९॥ नमस्ते पार्श्वयोः पृष्ठे नमस्ते पुरतोऽम्बिके । नम ऊर्ध्वं नमश्चाधः सर्वत्रैव नमो नमः ॥ १००॥ कृपां कुरु महादेवि मणिद्वीपाधिवासिनि । अनन्तकोटिब्रह्माण्डनायिके जगदम्बिके ॥ १०१॥ जय देवि जगन्मातर्जय देवि परात्परे । जय श्रीभुवनेशानि जय सर्वोत्तमोत्तमे ॥ १०२॥ कल्याणगुणरत्नानामाकरे भुवनेश्वरि । प्रसीद परमेशानि प्रसीद जगतोरणे ॥ १०३॥ श्रीनारायण उवाच । इति देववचः श्रुत्वा प्रगल्भं मधुरं वचः । उवाच जगदम्बा सा मत्तकोकिलभाषिणी ॥ १०४॥ देव्युवाच । प्रसन्नाहं सदा देवा वरदेशशिखामणिः । ब्रुवन्तु विबुधाः सर्वे यदेव स्याच्चिकीर्षितम् ॥ १०५॥ देवीवाक्यं सुराः श्रुत्वा प्रोचुर्दुःखस्य कारणम् । दुष्टदैत्यस्य चरितं जगद्बाधाकरं परम् ॥ १०६॥ देवब्राह्मणवेदानां हेलनं नाशनं तथा । स्थानभ्रंशं सुराणां च कथयामासुरादृताः ॥ १०७॥ ब्रह्मणो वरदानं च यथावत्ते समूचिरे । श्रुत्वा देवमुखाद्वाणीं महाभगवती तदा ॥ १०८॥ प्रेरयामास हस्तस्थान्भ्रमरान्भ्रामरी तदा । पार्श्वस्थानग्नभागस्थान्नानारूपधरांस्तथा ॥ ११०॥ जनयामास बहुशो यैर्व्याप्तं भुवनत्रयम् । मटचीयूथवत्तेषां समुदायस्तु निर्गतः ॥ ११०॥ तदान्तरिक्षं तैर्व्याप्तमन्धकारः क्षितावभूत् । दिवि पर्वतश‍ृङ्गेषु द्रुमेषु विपिनेष्वपि ॥ १११॥ भ्रमरा एव सञ्जातास्तदद्भुतमिवाभवत् । ते सर्वे दैत्यवक्षांसि दारयामासुरुद्गताः ॥ ११२॥ नरं मधुहरं यद्वन्मक्षिकाः कोपसंयुताः । उपायो न च शस्त्राणां तथास्त्राणां तदाभवत् ॥ ११३॥ न युद्धं न च सम्भाषा केवलं मरणं खलु । यस्मिन्यस्मिन्स्थले ये ये स्थिता दैत्या यथा यथा ॥ ११४॥ तत्रैव च तथा सर्वे मरणं प्रापुरुत्स्मयाः । परस्परं समाचारो न कस्याप्यभवत्तदा ॥ ११५॥ क्षणमात्रेण ते सर्वे विनष्टा दैत्यपुङ्गवाः । कृत्वेत्थं भ्रमराः कार्यं देवीनिकटमाययुः ॥ ११६॥ आश्चर्यमेतदाश्चर्यमिति लोकाः समूचिरे । किं चित्रं जगदम्बाया यस्या मायेयमीदृशी ॥ ११७॥ ततो देवगणाः सर्वे ब्रह्मविष्णुपुरोगमाः । निमग्ना हर्षजलधौ पूजयामासुरम्बिकाम् ॥ ११८॥ नानोपचारैर्विविधैर्नानोपायनपाणयः । जयशब्दं प्रकुर्वाणा मुमुचुः सुमनांसि च ॥ ११९॥ दिवि दुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः । पेठुर्वेदान्मुनिश्रेष्ठा गन्धर्वाद्या जगुस्तथा ॥ १२०॥ मृदङ्गमुरजावीणाढक्काडमरुनिःस्वनैः । घण्टाशङ्खनिनादैश्च व्याप्तमासीज्जगत्त्रयम् ॥ १२१॥ नानास्तोत्रैस्तदा स्तुत्वा मूर्ध्न्याधायाज्जलींस्तथा । जय मातर्जयेशानीत्येवं सर्वे समूचिरे ॥ १२२॥ ततस्तुष्टा महादेवी वरान्दत्त्वा पृथक्पृथक् । स्वस्मिंश्च विपुलां भक्तिं प्रार्थिता तैर्ददौ च ताम् ॥ १२३॥ पश्यतामेव देवानामन्तर्धानं गता ततः । इति ते सर्वमाख्यातं भ्रामर्याश्चरितं महत् ॥ १२४॥ पठतां श‍ृण्वतां चैव सर्वपापप्रणाशनम् । श्रुतमाश्चर्यजनकं संसारार्णवतारकम् ॥ १२५॥ एवं मनूनां सर्वेषां चरितं पापनाशनम् । देवीमाहात्म्यसंयुक्तं पठञ्श‍ृण्वञ्शुभप्रदम् ॥ १२६॥ यश्चैतत्पठते नित्यं श‍ृणुयाद्योऽनिशं नरः । सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात् ॥ १२७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे भ्रामरीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १०.१३॥ ॥ इति श्रीमद्देवीभागवते महापुराणे दशमस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 10
% File name             : devIbhAgavatam10.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 10
% engtitle              : devIbhAgavatamahApurANam skandhaH 10
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org