१२ श्रीमद्देवीभागवतमहापुराणे द्वादशः स्कन्धः
१२.१ प्रथमोऽध्यायः । गायत्रीविचारः ।
नारद उवाच ।
सदाचारविधिर्देव भवता वर्णितः प्रभो ।
तस्याप्यतुलमाहात्म्यं सर्वपापविनाशनम् ॥ १॥
श्रुतं भवन्मुखाम्भोजच्युतं देवीकथामृतम् ।
व्रतानि यानि चोक्तानि चान्द्रायणमुखानि ते ॥ २॥
दुःखसाध्यानि जानीमः कर्तृसाध्यानि तानि च ।
तदस्मात्साम्प्रतं यत्तु सुखसाध्यं शरीरिणाम् ॥ ३॥
देवीप्रसादजनकं शुभानुष्ठानसिद्धिदम् ।
तत्कर्म वद मे स्वामिन् कृपापूर्वं सुरेश्वर ॥ ४॥
सदाचारविधौ यश्च गायत्रीविधिरीरितः ।
तस्मिन्मुख्यतमं किं स्यात्किं वा पुण्याधिकप्रदम् ॥ ५॥
ये गायत्रीगता वर्णास्तत्त्वसङ्ख्यास्त्वयेरिताः ।
तेषां के ऋषयः प्रोक्ताः कानि छन्दांसि वै मुने ॥ ६॥
तेषां का देवताः प्रोक्ताः सर्वं कथय मे प्रभो ।
महत्कौतूहलं मे च मानसे परिवर्तते ॥ ७॥
श्रीनारायणाय उवाच ।
कुर्यादन्यन्न वा कुर्यादनुष्ठानादिकं तथा ।
गायत्रीमात्रनिष्ठस्तु कृतकृत्यो भवेद्द्विजः ॥ ८॥
सन्ध्यासु चार्घ्यदानं च गायत्रीजपमेव च ।
सहस्रत्रितयं कुर्वन्सुरैः पूज्यो भवेन्मुने ॥ ९॥
न्यासान्करोतु वा मा वा गायत्रीमेव चाभ्यसेत् ।
ध्यात्वा निर्व्याजया वृत्त्या सच्चिदानन्दरूपिणीम् ॥ १०॥
यदक्षरैकसंसिद्धेः स्पर्धते ब्राह्मणोत्तमः ।
हरिशङ्करकञ्जोत्थसूर्यचन्द्रहुताशनैः ॥ ११॥
अथातः श्रूयतां ब्रह्मन् वर्णऋष्यादिकांस्तथा ।
छन्दांसि देवतास्तद्वत्क्रमात्तत्त्वानि चैव हि ॥ १२॥
वामदेवोऽत्रिर्वसिष्ठः शुक्रः कण्वः पराशरः ।
विश्वामित्रो महातेजाः कपिलः शौनको महान् ॥ १३॥
याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः ।
गौतमो मुद्गलश्चैव वेदव्यासश्च लोमशः ॥ १४॥
अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा ।
दुर्वासास्तपसां श्रेष्ठो नारदः कश्यपस्तथा ॥ १५॥
इत्येते ऋषयः प्रोक्ता वर्णानां क्रमशो मुने ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ १६॥
त्रिष्टुभं जगती चैव तथातिजगती मता ।
शक्वर्यतिशक्वरी च धृतिश्चातिधृतिस्तथा ॥ १७॥
विराट्प्रस्तारपङ्क्तिश्च कृतिः प्रकृतिराकृतिः ।
विकृतिः सकृतिश्चैवाक्षरपङ्क्तिस्तथैव च ॥ १८॥
भूर्भुवः स्वरितिच्छन्दस्तथा ज्योतिष्मती स्मृतम् ।
इत्येतानि च छन्दांसि कीर्तितानि महामुने ॥ १९॥
दैवतानि शृणु प्राज्ञ तेषामेवानुपूर्वशः ।
आग्नेयं प्रथमं प्रोक्तं प्राजापत्यं द्वितीयकम् ॥ २०॥
तृतीयं च तथा सौम्यमीशानं च चतुर्थकम् ।
सावित्रं पञ्चमं प्रोक्तं षष्ठमादित्यदैवतम् ॥ २१॥
बार्हस्पत्यं सप्तमं तु मैत्रावरुणमष्टमम् ।
नवमं भगदैवत्यं दशमं चार्यमेश्वरम् ॥ २२॥
गणेशमेकादशकं त्वाष्ट्रं द्वादशकं स्मृतम् ।
पौष्णं त्रयोदशं प्रोक्तमैन्द्राग्नं च चतुर्दशम् ॥ २३॥
वायव्यं पञ्चदशकं वामदैव्यं च षोडशम् ।
मैत्रावरुणिदैवत्यं प्रोक्तं सप्तदशाक्षरम् ॥ २४॥
अष्टादशं वैश्वदेवमूनविंशं तु मातृकम् ।
वैष्णवं विंशतितमं वसुदैवतमीरितम् ॥ २५॥
एकविंशतिसङ्ख्याकं द्वाविंशं रुद्रदैवतम् ।
त्रयोविंशं च कौबेरमाश्विनं तत्त्वसङ्ख्यकम् ॥ २६॥
चतुर्विंशतिवर्णानां देवतानां च सङ्ग्रहः ।
कथितः परमश्रेष्ठो महापापैकशोधनः ।
यदाकर्णनमात्रेण साङ्गं जाप्यफलं मुने ॥ २७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां द्वादशस्कन्धे गायत्रीविचारो नाम प्रथमोऽध्यायः ॥ १२.१॥
१२.२ द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।
श्रीनारायण उवाच ।
वर्णानां शक्तयः काश्च ताः शृणुष्व महामुने ।
वामदेवी प्रिया सत्या विश्वा भद्रविलासिनी ॥ १॥
प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती ।
विद्रुमा च विशालेशा व्यापिनी विमला तथा ॥ २॥
तमोऽपहारिणी सूक्ष्मा विश्वयोनिर्जया वशा ।
पद्मालया परा शोभा भद्रा च त्रिपदा स्मृता ॥ ३॥
चतुर्विंशतिवर्णानां शक्तयः समुदाहृताः ।
अतः परं वर्णवर्णान्व्याहरामि यथातथम् ॥ ४॥
चम्पका अतसीपुष्पसन्निभं विद्रुमं तथा ।
स्फटिकाकारकं चैव पद्मपुष्पसमप्रभम् ॥ ५॥
तरुणादित्यसङ्काशं शङ्खकुन्देन्दुसन्निभम् ।
प्रवालपद्यपत्राभं पद्मरागसमप्रभम् ॥ ६॥
इन्द्रनीलमणिप्रख्यं मौक्तिकं कुङ्कुमप्रभम् ।
अञ्जनाभं च रक्तं च वैदूर्यं क्षौद्रसन्निभम् ॥ ७॥
हारिद्रं कुन्ददुग्धाभं रविकान्तिसमप्रभम् ।
शुकपुच्छनिभं तद्वच्छतपत्रनिभं तथा ॥ ८॥
केतकीपुष्पसङ्काशं मल्लिकाकुसुमप्रभम् ।
करवीरश्च इत्येते क्रमेण परिकीर्तिताः ॥ ९॥
वर्णाः प्रोक्ताश्च वर्णानां महापापविशोधनाः ।
पृथिव्यापस्तथा तेजो वायुराकाश एव च ॥ १०॥
गन्धो रसश्च रूपं च शब्दः स्पर्शस्तथैव च ।
उपस्थं पायुपादं च पाणी वागपि च क्रमात् ॥ ११॥
प्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं च ततः परम् ।
प्राणोऽपानस्तथा व्यानः समानश्च ततः परम् ॥ १२॥
तत्त्वान्येतानि वर्णानां क्रमशः कीर्तितानि तु ।
अतः परं प्रवक्ष्यामि वर्णमुद्राः कमेण तु ॥ १३॥
सुमुखं सम्पुटं चैव विततं विस्मृतं तथा ।
द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा ॥ १४॥
षण्मुखाधोमुखं चैव व्यापकाज्जलिकं तथा ।
शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ १५॥
विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् ।
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥ १६॥
त्रिशूलयोनी सुरभिश्चाक्षमाला च लिङ्गकम् ।
अम्बुजं च महामुद्रास्तुर्यरूपाः प्रकीर्तिताः ॥ १७॥
इत्येताः कीर्तिता मुद्रा वर्णानां ते महामुने ।
महापापक्षयकराः कीर्तिदाः कान्तिदा मुने ॥ १८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वादस्कन्धे गायत्रिशक्त्यादिप्रतिपादनं नाम द्वितीयोऽध्यायः ॥ १२.२॥
१२.३ तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।
नारद उवाच ।
स्वामिन्सर्वजगन्नाथ संशयोऽस्ति मम प्रभो ।
चतुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर ॥ १॥
मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् ।
देहश्च देवतारूपो मन्त्ररूपो विशेषतः ॥ २॥
कर्म तच्छ्रोतुमिच्छामि न्यासं च विधिपूर्वकम् ।
ऋषिश्छन्दोऽधिदैवं च ध्यानं च विधिवद्विभो ॥ ३॥
श्रीनारायण उवाच ।
अस्त्येकं परमं गुह्यं गायत्रीकवचं तथा ।
पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते ॥ ४॥
सर्वान्कामानवाप्नोति देवीरूपश्च जायते ।
गायत्रीकवचस्यास्य ब्रह्मविष्णुमहेश्वराः ॥ ५॥
ऋषयो ऋग्यजुःसामाथर्वश्छन्दांसि नारद ।
ब्रह्मरूपा देवतोक्ता गायत्री परमा कला ॥ ६॥
तद्बीजं भर्ग इत्येषा शक्तिरुक्ता मनीषिभिः ।
कीलकं च धियः प्रोक्तं मोक्षार्थे विनियोजनम् ॥ ७॥
चतुर्भिर्हृदयं प्रोक्तं त्रिभिर्वर्णेः शिरः स्मृतम् ।
चतुर्भिः स्याच्छिखा पश्चात् त्रिभिस्तु कवचं स्मृतम् ॥ ८॥
चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् ।
अथ ध्यानं प्रवक्ष्यामि साधकाभीष्टदायकम् ॥ ९॥
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै-
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १०॥
गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।
ब्रह्मसन्ध्या तु मे पश्चादुत्तरायां सरस्वती ॥ ११॥
पार्वती मे दिशं रक्षेत्पावकीं जलशायिनी ।
यातुधानी दिशं रक्षेद्यातुधानभयङ्करी ॥ १२॥
पावमानी दिशं रक्षेत्पवमानविलासिनी ।
दिशं रौद्री च मे पातु रुद्राणी रुद्ररूपिणी ॥ १३॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेत्सर्वाङ्गं भुवनेश्वरी ॥ १४॥
तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् ।
वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च ॥ १५॥
देवस्य मे तद्धृदयं धीमहीति च गल्लयोः ।
धियः पदं च मे नेत्रे यः पदं मे ललाटकम् ॥ १६॥
नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात् ।
तत्पदं पातु मूर्धानं सकारः पातु भालकम् ॥ १७॥
चक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः ।
नासापुटं वकारार्णो रेकारस्तु मुखे तथा ॥ १८॥
णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् ।
आस्यमध्ये भकारार्णो र्गोकारश्चिबुके तथा ॥ १९॥
देकारः कण्ठदेशे तु वकारः स्कन्धदेशकम् ।
स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥ २०॥
मकारो हृदयं रक्षेद्धिकार उदरे तथा ।
धिकारो नाभिदेशे तु योकारस्तु कटिं तथा ॥ २१॥
गुह्यं रक्षतु योकार ऊरू द्वौ नः पदाक्षरम् ।
प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशकम् ॥ २२॥
दकारं गुल्फदेशे तु यकारः पदयुग्मकम् ।
तकारव्यञ्जनं चैव सर्वाङ्गं मे सदावतु ॥ २३॥
इदं तु कवचं दिव्यं बाधाशतविनाशनम् ।
चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् ॥ २४॥
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ।
पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत् ॥ २५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वादशस्कन्धे गायत्रीमन्त्रकवचवर्णनं नाम तृतीयोऽध्यायः ॥ १२.३॥
१२.४ चतुर्थोऽध्यायः । गायत्रीहृदयम् ।
नारद उवाच ।
भगवन् देवदेवेश भूतभव्यजगत्प्रभो ।
कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १॥
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।
यद्धारणाद्भवेत्युण्यं गायत्रीजपतोऽखिलम् ॥ २॥
श्रीनारायण उवाच ।
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३॥
विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।
ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४॥
पिण्डब्रह्माण्डयोरैक्याद्भावयेत्स्वतनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५॥
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६॥
अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमथो भवेत् ।
गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७॥
गायत्रीच्छन्द उद्दिष्टं देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात् ।
आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८॥
न्यासः
द्यौर्मूर्ध्नि दैवतं । दन्तपङ्क्तावश्विनौ । उभे सन्ध्ये
चोष्ठौ । मुखमग्निः । जिह्वा सरस्वती । ग्रीवायां तु
बृहस्पतिः । स्तनयोर्वसवोऽष्टौ । बाह्वोर्मरुतः । हृदये
पर्जन्यः । आकाशमुदरं । नाभावन्तरिक्षं । कट्यो-
रिन्द्राग्नी । जघने विज्ञानघनः प्रजापतिः । कैलास-
मलये ऊरू । विश्वेदेवा जान्वोः । जङ्घायां कौशिकः ।
गुह्यमयने । ऊरू पितरः । पादौ पृथिवी । वनस्पत-
योऽङ्गुलीषु । ऋषयो रोमाणि । नखानि मुहूर्तानि ।
अस्थिषु ग्रहाः । असृङ्मांसमृतवः । संवत्सरा वै निमिषम् ।
अहोरात्रावादित्यश्चन्द्रमाः । प्रवरां दिव्यां गायत्रीं
सहस्रनेत्रां शरणमहं प्रपद्ये । ॐ तत्सवितुर्वरेण्याय
नमः । ॐ तत्पूर्वाजयाय नमः । तत्प्रातरादित्याय नमः ।
तत्प्रातरादित्यप्रतिष्ठायै नमः । प्रातरधीयानो रात्रिकृतं
पापं नाशयति । सायमधीयानो दिवसकृतं पापं
नाशयति । सायम्प्रातरधीयानो अपापो भवति ।
सर्वतीर्थेषु स्नातो भवति । सर्वैर्देवैर्ज्ञातो भवति ।
अवाच्यवचनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो
भवति । अभोज्यभोजनापूतो भवति । अचोष्यचोष-
णात्पूतो भवति । असाध्यसाधनात्पूतो भवति ।
दुष्प्रतिग्रहशतसहस्रात्पूतो भवति । सर्वप्रतिग्रहात्पूतो
भवति । पङ्क्तिदूषणात्पूतो भवति । अनृतवचनात्पूतो
भवति । अथाब्रह्मचारी ब्रह्मचारी भवति । अनेन
हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति । षष्टिशत-
सहस्रगायत्र्या जप्यानि फलानि भवन्ति । अष्टौ
ब्राह्मणान्सम्यग्ग्राहयेत् । तस्य सिद्धिर्भवति । य इदं
नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः
प्रमुच्यत इति । ब्रह्मलोके महीयते । इत्याह भगवान् श्रीनारायणः ।
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वादशस्कन्धे गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥ १२.४॥
१२.५ पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।
नारद उवाव
भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् ।
गायत्र्याः कथितं तस्माद्गायत्र्याः स्तोत्रमीरय ॥ १॥
श्रीनारायण उवाच ।
आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।
सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ २॥
त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती ।
बाह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ ३॥
प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।
वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ ४॥
हंसस्था गरुडारूढा तथा वृषभवाहिनी ।
ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ ५॥
यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते ।
सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥ ६॥
रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।
त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥ ७॥
सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।
शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥ ८॥
आनन्दजननी दुर्गा दशधा परिपढ्यते ।
वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥ ९॥
गरिष्ठा च वरार्हा च वरारोहा च सप्तमी ।
नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥ १०॥
भागीरथी मर्त्यलोके पाताले भोगवत्यपि ।
त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥ ११॥
भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी ।
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥ १२॥
महर्लोके महासिद्धिर्जनलोके जनेत्यपि ।
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥ १३॥
कमला विष्णुलोके च गायत्री ब्रह्मलोकदा ।
रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी । १४॥
अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे ।
साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥ १५॥
ततः परा परा शक्तिः परमा त्वं हि गीयसे ।
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥ १६॥
गङ्गा च यमुना चैव विपाशा च सरस्वती ।
सरयूर्देविका सिन्धुर्नर्मदैरावती तथा ॥ १७॥
गोदावरी शतद्रूश्च कावेरी देवलोकगा ।
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥ १८॥
गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ॥ १९॥
गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च ।
अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥ २०॥
नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।
हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ २१॥
तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी ।
मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा ॥ २२॥
शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी ।
किमन्यद्बहुनोक्तेन यत्किञ्चिज्जगतीत्रये ॥ २३॥
तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते ।
इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥ २४॥
महापापप्रशमनं महासिद्धिविधायकम् ।
य इदं कीर्तयेत्स्तोत्रं सन्ध्याकाले समाहितः ॥ २५॥
अपुत्रः प्राप्नुयात्युत्रं धनार्थी धनमाप्नुयात् ।
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥ २६॥
भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥ २७॥
यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् ।
लभते नात्र सन्देहः सत्यं सत्यं च नारद ॥ २८॥
शृणुयाद्योऽपि तद्भक्त्या स तु पापात्प्रमुच्यते ।
पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥ २९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वादशस्कन्धे श्रीगायत्रीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ १२.५॥
१२.६ षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।
नारद उवाच ।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १॥
सर्वपापहरं देव येन विद्या प्रवर्तते ।
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २॥
ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् ।
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३॥
वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः ।
श्रीनारायण उवाच ।
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ ॥ ४॥
शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् ।
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५॥
सृष्ट्यादौ यद्भगवता पूर्वं प्रोक्तं ब्रवीमि ते ।
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६॥
छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता ।
हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७॥
अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८॥
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां
रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां
पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ ९॥
अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।
अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ १०॥
अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता ।
अजराजापराधर्मा अक्षसूत्रधराधरा ॥ ११॥
अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी ।
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२॥
अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा ।
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ १३॥
अजा चाजमुखावासाप्यरविन्दनिभानना ।
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४॥
असुरघ्नीह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता ।
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ १५॥
आदित्यपदवीचाराप्यादित्यपरिसेविता ।
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ १६॥
आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।
आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ १७॥
आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी ।
आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ १८॥
इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा ।
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ १९॥
इक्षुकोदण्डसंयुक्ता चेषुसन्धानकारिणी ।
इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी ॥ २०॥
इन्द्राक्षी चेश्वरी देवी चेहात्रयविवर्जिता ।
उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१॥
उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।
ऊर्ध्वं चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२॥
ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी ।
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ २३॥
ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी ।
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥ २४॥
ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।
लूतारिवरसम्भूता लूतादिविषहारिणी ॥ २५॥
एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।
ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ २६॥
ओङ्कारा ह्योषधी चोता चोतप्रोतनिवासिनी ।
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७॥
अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी ।
कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ २८॥
कमला कामिनी कान्ता कामदा कालकण्ठिनी ।
करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९॥
कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी ।
कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३०॥
कालजिह्वा करालास्या कालिका कालरूपिणी ।
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१॥
कौशिकी कमलाकारा कामचारप्रभञ्जिनी ।
कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया ॥ ३२॥
केसरी केशवनुता कदम्बकुसुमप्रिया ।
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ ३३॥
काममाता क्रतुमती कामरूपा कृपावती ।
कुमारी कुण्डनिलया किराती कीरवाहना । ३४॥
कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।
कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५॥
कलहंसगतिः कक्षा कृतकौतुकमङ्गला ।
कस्तूरीतिलका कम्रा करीन्द्रगमना कुहूः ॥ ३६॥
कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७॥
खड्गखेटकरा खर्वा खेचरी खगवाहना ।
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८॥
खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी ।
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ ३९॥
गायत्री गोमती गीता गान्धारी गानलोलुपा ।
गौतमी गामिनी गाथा गन्धर्वाप्सरसेविता ॥ ४०॥
गोविन्दचरणाक्रान्ता गुणत्रयविभाविता ।
गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१॥
गुहावासा गुणवती गुरुपापप्रणाशिनी ।
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ ४२॥
गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा ।
गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३॥
गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी ।
घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४॥
घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ।
घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी ॥ ४५॥
घनारिमण्डला घूर्णा घृताची घनवेगिनी ।
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६॥
चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ।
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७॥
चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला ।
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८॥
चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका ।
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९॥
चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता ।
चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ ५०॥
चारुहोमप्रिया चार्वाचरिता चक्रबाहुका ।
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१॥
चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।
चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ ५२॥
चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३॥
छायादेवीच्छिद्रनखा छन्नेन्द्रियविसर्पिणी ।
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४॥
छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।
जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५॥
जाह्नवी जटिला जेत्री जरामरणवर्जिता ।
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६॥
जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।
जातरूपमयी जिह्वा जानकी जगती जरा ॥ ५७॥
जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८॥
जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता ।
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी ॥ ५९॥
जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला ।
झिञ्झिका झणनिर्घोषा झञ्झामारुतवेगिनी ॥ ६०॥
झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।
टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ ६१॥
टङ्कीगणकृताघोषा टङ्कनीयमहोरसा ।
टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२॥
डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता ।
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३॥
डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा ।
ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ ६४॥
नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी ।
त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः ॥ ६५॥
त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी ।
तरुणादित्यसङ्काशा तामसी तुहिना तुरा ॥ ६६॥
त्रिकालज्ञानसम्पन्ना त्रिवेणी च त्रिलोचना ।
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ ६७॥
तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी ।
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८॥
त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९॥
तन्तुजालसमायुक्ता तारहारावलिप्रिया ।
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७०॥
तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता ।
तलोदरी तिलाभूषा ताटङ्कप्रियवाहिनी ॥ ७१॥
त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।
तप्तकाञ्चनसङ्काशा तप्तकाञ्चनभूषणा ॥ ७२॥
त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी ।
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३॥
तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः ।
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४॥
दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी ।
देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ ७५॥
देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा ।
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६॥
दण्डकारण्यनिलया दण्डिनी देवपूजिता ।
देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ ७७॥
दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८॥
धरन्धरा धराधारा धनदा धान्यदोहिनी ।
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९॥
धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८०॥
नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका ।
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१॥
नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।
निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२॥
नादबिन्दुकलातीता नादबिन्दुकलात्मिका ।
नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३॥
नरकक्लेशशमनी नारायणपदोद्भवा ।
निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४॥
नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका ।
नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ ८५॥
नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी ।
नवनीतप्रिया नारी नीलजीमूतनिःस्वना ॥ ८६॥
निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७॥
नवजाम्बूनदप्रख्या नागलोकाधिदेवता ।
नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ ८८॥
निमग्नारक्तनयना निर्घातसमनिःस्वना ।
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९॥
पार्वती परमोदारा परब्रह्मात्मिका परा ।
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९०॥
परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी ।
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ ९१॥
पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा ।
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२॥
पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ ९३॥
पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ।
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४॥
पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५॥
पतिव्रता पवित्राङ्गी पुष्पहासपरायणा ।
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६॥
पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी ।
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७॥
प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ ९८॥
पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी ।
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ ९९॥
प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता ॥ १००॥
परमाया परज्योतिः परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ १०१॥
पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ १०२॥
पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३॥
पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४॥
पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।
पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ १०५॥
पञ्चमात्रात्मिका पृध्वी पथिका पृथुदोहिनी ।
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६॥
पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७॥
फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८॥
बालबाला बहुमता बालातपनिभांशुका ।
बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ ११२॥
बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११०॥
बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११॥
बालाकिनी बिलाहारा बिलवासा बहूदका ।
बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२॥
बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।
बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी ॥ ११३॥
बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी ।
बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४॥
वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५॥
बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।
बाला बाणासनवती वडवानलवेगिनी ॥ ११६॥
ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी ।
भवानी भीषणवती भाविनी भयहारिणी ॥ ११७॥
भद्रकाली भुजङ्गाक्षी भारती भारताशया ।
भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ ११८॥
भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९॥
भागीरथी भोगवती भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२०॥
भर्गात्मिका भीमवती भवबन्धविमोचिनी ।
भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ १२१॥
भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी ।
माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२॥
महादेवी महाभागा मालिनी मीनलोचना ।
मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३॥
मानवी मधुसम्भूता मिथिलापुरवासिनी ।
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ १२४॥
मन्दोदरी महामाया मैथिली मसृणप्रिया ।
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ १२५॥
माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ १२६॥
मधुरद्राविणी मुद्रा मलया मलयान्विता ।
मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७॥
महामारी महावीरा महाश्यामा मनुस्तुता ।
मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८॥
मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ १२९॥
योगासना योगगम्या योगा यौवनकाश्रया ।
यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ १३०॥
यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ १३१॥
यकारादिहकारान्ता याजुषी यज्ञरूपिणी ।
यामिनी योगनिरता यातुधानभयङ्करी ॥ १३२॥
रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ १३३॥
रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता ॥ १३४॥
रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।
राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ १३५॥
रमणीययुगाधारा राजिताखिलभूतला ।
रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ १३६॥
रोगेशी रोगशमनी राविणी रोमहर्षिणी ।
रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ १३७॥
रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ १३८॥
लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९॥
वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४०॥
विनता व्योममध्यस्था वारिजासनसंस्थिता ।
वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ १४१॥
वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२॥
वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ १४३॥
वासवी वामजननी वैकुण्ठनिलया वरा ।
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४॥
शाकम्भरी शिवा शान्ता शारदा शरणागतिः ।
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५॥
शोभावती शिवाकारा शङ्करार्धशरीरिणी ।
शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ १४६॥
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७॥
श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ १४८॥
षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
षडङ्गरूपसुमतिसुरासुरनमस्कृता ॥ १४९॥
सरस्वती सदाधारा सर्वमङ्गलकारिणी ।
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५०॥
सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।
सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१॥
सप्तर्षिमण्डलगता सोममण्डलवासिनी ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२॥
सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा ।
सरघा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३॥
हिरण्यवर्णा हरिणी ह्रीङ्कारी हंसवाहिनी ।
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ १५४॥
गायत्री चैव सावित्री पार्वती च सरस्वती ।
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५॥
इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६॥
एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७॥
जपं कृत्वा होमपूजाध्यानं कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८॥
सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।
भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ १५९॥
यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ १६०॥
इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् ।
पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१॥
मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२॥
बह्महत्यासुरापानसुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ १६३॥
असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः ।
पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते ॥ १६४॥
इदं रहस्यममलं मयोक्तं पद्मजोद्भव ।
ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ १६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वादशस्कन्धे गायत्रीसहस्रनामस्तोत्रवर्णनं नाम षष्ठोऽध्यायः ॥ १२.६॥
१२.७ सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।
नारद उवाच ।
श्रुतं सहस्रनामाख्यं श्रीगायत्र्याः फलप्रदम् ।
स्तोत्रं महोन्नतिकरं महाभाग्यकरं परम् ॥ १॥
अधुना श्रोतुमिच्छामि दीक्षालक्षणमुत्तमम् ।
विना येन न सिध्येत देवीमन्त्रेऽधिकारिता ॥ २॥
ब्राह्मणानां क्षत्रियाणां विशां स्त्रीणां तथैव च ।
सामान्यविधिना सर्वं विस्तरेण वद प्रभो ॥ ३॥
श्रीनारायण उवाच ।
शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् ।
देवाग्निगुरुपूजादावधिकारो यया भवेत् ॥ ४॥
दिव्यं ज्ञानं हि या दद्यात्कुर्यात्पापक्षयं तु या ।
सैव दीक्षेति सम्प्रोक्ता वेदतन्त्रविशारदैः ॥ ५॥
अवश्यं सा तु कर्तव्या यतो बहुफला मता ।
गुरुशिष्यावुभावत्राप्यतिशुद्धावपेक्षितौ ॥ ६॥
गुरुस्तु विधिवत्प्रातः कृत्यं सर्वं विधाय च ।
स्नानसन्ध्यादिकं सर्वं यथाविधि विधाय च ॥ ७॥
कमण्डलुकरो मौनी गृहं यायात्सरित्तटात् ।
यागमण्डपमासाद्य विशेत्तत्रासने वरे ॥ ८॥
आचम्य प्राणानायम्य गन्धपुष्पविमिश्रितम् ।
सप्तवारास्त्रमन्त्रेण जप्तं वारि सुसाधयेत् ॥ ९॥
वारिणा तेन मतिमानस्त्रमन्त्रं समुच्चरन् ।
प्रोक्षयेद्द्वारमखिलं ततः पूजां समाचरेत् ॥ १०॥
ऊर्ध्वोदुम्बरके देवं गणनाथं तथा श्रियम् ।
सरस्वतीं नाममन्त्रैः पूजयेद्गन्धपुष्पकैः ॥ ११॥
द्वारदक्षिणशाखायां गङ्गां विघ्नेशमर्चयेत् ।
द्वारस्य वामशाखायां क्षेत्रपालं च सूर्यजाम् ॥ १२॥
देहल्यां पूजयेदस्त्रदेवतामस्त्रमन्त्रतः ।
सर्वं देवीमयं दृश्यमिति सञ्चिन्त्य सर्वतः ॥ १३॥
दिव्यानुत्सारयेद्विघ्नानस्त्रमन्त्रजपेन तु ।
अन्तरिक्षगतान्विघ्नान्पादघातैस्तु भूमिगान् ॥ १४
वामशाखां स्मृशन्पश्चात्प्रविशेद्दक्षिणाङ्घ्रिणा ।
प्रविश्य कुम्भं संस्थाप्य सामान्यार्घ्यं विधाय च ॥ १५॥
तेन चार्घ्यजलेनापि नैरृत्यां दिशि पूजयेत् ।
वास्तुनाथं पद्मयोनिं गन्धपुष्पाक्षतादिभिः ॥ १६॥
ततः कुर्यात्पञ्चगव्यं तेन चार्घ्योदकेन च ।
तोरणस्तम्भपर्यन्तं प्रोक्षयेन्मण्डपं गुरुः ॥ १७॥
सर्वं देवीमयं चेदं भावयेन्मनसा किल ।
मूलमन्त्रं जपन्भक्त्या प्रोक्षणं स्याच्छरणुना ॥ १८॥
शरमन्त्रं समुच्चार्य ताडयेन्मण्डपक्षमाम् ।
हुम्मन्त्रं तु समुच्चार्य कुर्यादभ्युक्षणं ततः ॥ १९॥
धूपयेदन्तरं धूपैर्विकिरान् विकिरेत्ततः ।
मार्जयेत्तांस्तु मार्जन्या कुशनिर्मितया पुनः ॥ २०॥
ईशानदिशि तत्पुञ्जं कृत्वा संस्थापयेन्मुने ।
पुण्याहवाचनं कृत्वा दीनानाथांश्च तोषयेत् ॥ २१॥
विशेन्मृद्वासने पश्चान्नमस्कृत्य गुरुं निजम् ।
प्राङ्मुखो विधिवद्ध्यात्वा देयमन्त्रस्य देवताम् ॥ २२॥
भूतशुद्ध्यादिकं कृत्वा पूर्वोक्तेनैव वर्त्मना ।
ऋष्यादिन्यासकं कुर्याद्देयमन्त्रस्य वै मुने ॥ २३॥
न्यसेन्मुनिं तु शिरसि मुखे छन्दः समीरितम् ।
देवतां हृदयाम्भोजे गुह्ये बीजं तु पादयोः ॥ २४॥
शक्तिं विन्यस्य पश्चात्तु तालत्रयरवात्ततः ।
दिग्बन्धं कारयेत्पश्चाच्छोटिकाभिस्त्रिभिर्नरः ॥ २५॥
प्राणायामं ततः कृत्वा मूलमन्त्रमनुस्मरन् ।
मातृकां विन्यसेद्देहे तत्प्रकारस्तथोच्यते ॥ २६॥
ॐ अं नम इति प्रोच्य न्यसेच्छिरसि मन्त्रवित् ।
एवमेव तु सर्वेषु न्यसेक्त्यानेषु वै मुने ॥ २७॥
मूलमन्त्रं षडङ्गं च न्यसेदङ्गेषु सत्तमः ।
अङ्गुष्ठादिष्वङ्गुलीषु हृदयादिषु च क्रमात् ॥ २८॥
नमः स्वाहावषड्युक्तैर्हुंवौषट्फट्पदान्वितैः ।
प्रणवादियुतैर्मन्त्रैः षड्भिरेव षडङ्गकम् ॥ २९॥
वर्णन्यासादिकं पश्चान्मूलमन्त्रस्य योजयेत् ।
स्थानेषु तत्तत्कल्पोक्तेष्विति न्यासविधिः स्मृतः ॥ ३०॥
ततो निजे शरीरेऽस्मिंश्चिन्तयेदासनं शुभम् ।
दक्षांसे च न्यसेद्धर्मं वामांसे ज्ञानमेव च ॥ ३१॥
वामोरौ चापि वैराग्यं दक्षोरावथ विन्यसेत् ।
ऐश्वर्यं मुखदेशे तु मुने ध्यायेदधर्मकम् ॥ ३२॥
वामपार्श्वे नाभिदेशे दक्षपार्श्वे तथा पुनः ।
नञादीश्चापि ज्ञानादीन्पूर्वोक्तानेव विन्यसेत् ॥ ३३॥
पादा धर्मादयः प्रोक्ताः पीठस्य मुनिसत्तम ।
अधर्माद्यास्तु गात्राणि स्मृतानि मुनिपुङ्गवैः ॥ ३४॥
मध्येऽनन्तं हृदि स्थाने न्यसेन्मृद्वासने स्थले ।
प्रपञ्चपद्मं विमलं तस्मिन्सूर्येन्दुपावकान् ॥ ३५॥
न्यसेत्कलायुतान्मन्त्री सङ्क्षेपात्ता वदाम्यहम् ।
सूर्यस्य द्वादश कलास्ता इन्दोः षोडश स्मृताः ॥ ३६॥
दश वह्नेः कलाः प्रोक्तास्ताभिर्युक्तांस्तु तान्स्मरेत् ।
सत्त्वं रजस्तमश्चैव न्यसेत्तेषामथोपरि ॥ ३७॥
आत्मानमन्तरात्मानं परमात्मानमेव च ।
ज्ञानात्मानं न्यसेद्विद्वानित्थं पीठस्य कल्पना ॥ ३८॥
अमुकासनाय नम इति मन्त्रेण साधकः ।
आसनं पूजयित्वा तु तस्मिन्ध्यायेत्पराम्बिकाम् ॥ ३९॥
कल्पोक्तविधिना मन्त्री देयमन्त्रस्य देवताम् ।
मानसैरुपचारैश्च पूजयेत्तां यथाविधि ॥ ४०॥
मुद्राः प्रदर्शयेद्विद्वान्कल्पोक्ता मोदकारिकाः ।
याभिर्विरचिताभिस्तु मोदो देव्यास्तु जायते ॥ ४१॥
श्रीनारायण उवाच ।
ततः स्ववामभागाग्रे षट्कोणोपरि वर्तुलम् ।
चतुरस्रयुतं सम्यङ्मध्ये मण्डलमालिखेत् ॥ ४२॥
मध्ये त्रिकोणं संलिख्य शङ्खमुद्रां प्रदर्शयेत् ।
षडङ्गानि च षट्कोणेष्वर्चयेत्कुसुमादिभिः ॥ ४३॥
अग्न्यादिषु तु कोणेषु षडङ्गार्चनमाचरेत् ।
आधारपात्रमादाय शङ्खस्य मुनिसत्तम ॥ ४४॥
अस्त्रमन्त्रेण सम्प्रोक्ष्य स्थापयेत्तत्र मण्डले ।
मं वह्निमण्डलायोक्त्वा ततो दशकलात्मने ॥ ४५॥
अमुकदेव्या अर्घ्यपात्रस्थानाय नम इत्यपि ।
मन्त्रोऽयमुक्तः शङ्खस्याप्याधारस्थापने बुधैः ॥ ४६॥
आधारे पूर्वमारभ्य प्रदक्षिणक्रमेण तु ।
दश वह्निकलाः पूज्या वह्निमण्डलसंस्थिताः ॥ ४७॥
ततो वै मूलमन्त्रेण प्रोक्षितं शङ्खमुत्तमम् ।
स्थापयेत्तत्र चाधारे मूलमन्त्रमनुस्मरन् ॥ ४८॥
अं सूर्यमण्डलायोक्त्वा द्वादशान्ते कलात्मने ।
अमुकदेव्यर्घ्यपात्राय नम इत्युच्चरेत्ततः ॥ ४९॥
शं शङ्खाय पदं प्रोच्य नम इत्येतदुच्चरेत् ।
प्रोक्षयेत्तेन तं शङ्खं तस्मिन्द्वादश पूजयेत् ॥ ५०॥
सूर्यस्य द्वादश कलास्तपन्याद्या यथाक्रमम् ।
विलोममातृकां प्रोच्य मूलमन्त्रं विलोमकम् ॥ ५१॥
जलैरापूरयेच्छङ्खं तत्र चेन्दोः कलां न्यसेत् ।
ॐ सोममण्डलायोक्त्वान्ते षोडशकलात्मने ॥ ५२॥
अमुकार्घ्यामृतायेति हृन्मन्त्रान्तो मनुः स्मृतः ।
पूजयेन्मनुना तेन जलं तु सृणिमुद्रया ॥ ५३॥
तीर्थान्यावाह्य तत्रैवाप्यष्टकृत्वो जपेन्मनुम् ।
षडङ्गानि जले न्यस्य हृदा सम्पूजयेदपः ॥ ५४॥
अष्टकृत्वो जपेन्मूलं छादयेन्मत्स्यमुद्रया ।
ततो दक्षिणदिग्भागे शङ्खस्य प्रोक्षणीं न्यसेत् ॥ ५५॥
शङ्खाम्बु किञ्चिन्निक्षिप्य प्रोक्षयेत्तेन सर्वतः ।
पूजाद्रव्यं निजात्मानं विशुद्धं भावयेत्ततः ॥ ५६॥
श्रीनारायणाय उवाच ।
ततः स्वपुरतो वेद्यां सर्वतोभद्रमण्डलम् ।
संलिख्य कर्णिकामध्यं पूरयेच्छालितण्डुलैः ॥ ५७॥
आस्तीर्य दर्भांस्तत्रैव न्यसेत्कूर्चं सलक्षणम् ।
आधारशक्तिमारभ्य पीठमन्वन्तमर्चयेत् ॥ ५८॥
निर्व्रणं कुम्भमादायाप्यस्त्राद्भिः क्षालितान्तरम् ।
तन्तुना वेष्टयेत्तं तु त्रिगुणेनारुणेन च ॥ ५९॥
नवरत्नोदरं कूर्चयुतं गन्धादिपूजितम् ।
स्थापयेत्तत्र पीठे तु तारमन्त्रेण देशिकः ॥ ६०॥
ऐक्यं कुम्भस्य पीठस्य भावयेत्पूरयेत्ततः ।
मातृकां प्रतिलोमेन जपंस्तीर्थोदकैर्मुने ॥ ६१॥
मूलमन्त्रं च सञ्जप्य पूरयेद्देवताधिया ।
अश्वत्थपनसाम्राणां कोमलैर्नवपल्लवैः ॥ ६२॥
छादयेत्कुम्भवदनं चषकं सफलाक्षतम् ।
संस्थापयेत मतिमान् वस्त्रयुग्मेन वेष्टयेत् ॥ ६३॥
प्राणस्थापनमन्त्रेण प्राणस्थापनमाचरेत् ।
आवाहनादिमुद्राभिर्मोदयेद्देवतां पराम् ॥ ६४॥
ध्यायेत्तां परमेशानीं कल्पोक्तेन प्रकारतः ।
स्वागतं कुशलप्रश्नं देव्या अग्रे समुच्चरेत् ॥ ६५॥
पाद्यं दद्यात्ततोऽप्यर्घ्यं ततश्चाचमनीयकम् ।
मधुपर्कं च साभ्यङ्गं देव्यै स्नानं निवेदयेत् ॥ ६६॥
वाससी च ततो दद्याद्रक्ते क्षौमे सुनिर्मले ।
नानामणिगणाकीर्णानाकल्पान्कल्पयेत्ततः ॥ ६७॥
मनुना पुटितैर्वर्णैर्मातृकाया विधानतः ।
देव्या अङ्गेषु विन्यस्य चन्दनाद्यैः समर्चयेत् ॥ ६८॥
गन्धः कालागुरुभवः कर्पूरेण समन्वितः ।
काश्मीरं चन्दनं चापि कस्तूरीसहितं मुने ॥ ६९॥
कुन्दपुष्पादिपुष्पाणि परदेव्यै समर्पयेत् ।
धूपोऽगुरुपुरुव्रातोशीरचन्दनशर्कराः ॥ ७०॥
मधुमिश्राः स्मृता देव्याः प्रिया धूपात्मना सदा ।
दीपाननेकान्दत्त्वाथ नैवेद्यं दर्शयेत्सुधीः ॥ ७१॥
प्रतिद्रव्यं जलं दद्यात्प्रोक्षणीस्थं न चान्यथा ।
ततः कुर्यादङ्गपूजां कल्पोक्तावरणानि च ॥ ७२॥
साङ्गां देवीमथाभ्यर्च्य वैश्वदेवं ततश्चरेत् ।
दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम् ॥ ७३॥
मूर्तिस्थां देवतां तत्रावाह्य सम्पूज्य च क्रमात् ।
तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण वै ततः ॥ ७४॥
पञ्चविंशतिवारं तु पायसेन ससर्पिषा ।
हुनेत्पश्चाद्व्याहृतिभिः पुनश्च जुहुयान्मुने ॥ ७५॥
गन्धाद्यैरर्चयित्वा च देवीं पीठे तु योजयेत् ।
वह्निं विसृज्य हविषा परितो विकिरेद्बलिम् ॥ ७६॥
देवतायाः पार्षदेभ्यो गन्धपुष्पादिसंयुतान् ।
पञ्चोपचारान्दत्त्वाथ ताम्बूलं छत्रचामरे ॥ ७७॥
दद्याद्देव्यै ततो मन्त्रं सहस्रावृत्तितो जपेत् ।
जपं समर्प्य चैशान्यां विकिरे दिशि संस्थिते ॥ ७८॥
कर्करीं स्थापयेत्तस्यां दुर्गामावाह्य पूजयेत् ।
रक्ष रक्षेति चोच्चार्य नालमुक्तेन वारिणा ॥ ७९॥
अस्त्रमन्त्रं जपन्देशं सेचयेत्तु प्रदक्षिणम् ।
कर्करीं स्थापयेत्स्थाने पूजयेच्चास्त्रदेवताम् ॥ ८०॥
पश्चाद्गुरुस्तु शिष्येण सह भुञ्जीत वाग्यतः ।
तस्यां रात्रौ तु तद्वेद्यां निद्रां कुर्यात्प्रयत्नतः ॥ ८१॥
श्रीनारायण उवाच ।
ततः कुण्डस्य संस्कारं स्थण्डिलस्य च वा मुने ।
प्रवक्ष्यामि समासेन यथाविधि विधानतः ॥ ८२॥
मूलमन्त्रं समुच्चार्य वीक्षयेदस्त्रमन्त्रतः ।
प्रोक्षयेत्ताडनं कुर्यात्तेनैव कवचेन तु ॥ ८३॥
अभ्युक्षणं समुद्दिष्टं तिस्रस्तिस्रस्ततः परम् ।
प्रागग्रा उदगग्राश्च लिखेल्लेखाः समन्ततः ॥ ८४॥
प्रणवेन समभ्युक्ष्य पीठं देव्याः समर्चयेत् ।
आधारशक्तिमारभ्य पीठमन्त्रावसानकम् ॥ ८५॥
तस्मिन्पीठे समावाह्य शिवौ परमकारणौ ।
गन्धाद्यैरुपचारैश्च पूजयेत्तौ समाहितः ॥ ८६॥
देवीं ध्यायेदृतुस्नातां संसक्तां शङ्करेण तु ।
कामातुरां तयोः क्रीडां किञ्चित्कालं विभावयेत् ॥ ८७॥
अथ वह्निं समादाय पात्रेण पुरतो न्यसेत् ।
क्रव्यादांशं परित्यज्य पूर्वोक्तैर्वीक्षणादिभिः ॥ ८८॥
संस्कृत्य वह्निं रं बीजमुच्चार्य तदनन्तरम् ।
चैतन्यं योजयेत्तस्मिन्प्रणवेनाभिमन्त्रयेत् ॥ ८९॥
सप्तवारं ततो धेनुमुद्रां सन्दर्शयेद्गुरुः ।
शरेण रक्षितं कृत्वा तनुत्रेणावगुण्ठयेत् ॥ ९०॥
अर्चितं त्रिः परिभ्राम्य प्रादक्षिण्येन सत्तमः ।
कुण्डोपरि जपंस्तारं जानुस्पृष्टमहीतलः ॥ ९१॥
शिवबीजधिया देव्या योनौ वह्निं विनिक्षिपेत् ।
आचामयेत्ततो देवं देवीं च जगदम्बिकाम् ॥ ९२॥
चित्पिङ्गल हनदहपचयुग्मं ततः परम् ।
सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं वह्निदीपने ॥ ९३॥
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ ९४॥
मन्त्रेणानेन तं वह्निं स्तुवीत परमादरात् ।
ततो न्यसेद्वह्निमन्त्रं षडङ्गं देशिकोत्तमः ॥ ९५॥
सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः स्मृतः ।
धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात् ॥ ९६॥
जातियुक्ताः षडङ्गाः स्युः पूर्वस्थानेषु विन्यसेत् ।
ध्यायेद्वह्निं हेमवर्णं त्रिनेत्रं पद्मसंस्थितम् ॥ ९७॥
इष्टशक्तिस्वस्तिकाभीर्धारकं मङ्गलं परम् ।
परिषिञ्चेत्ततः कुण्डं मेखलोपरि मन्त्रवित् ॥ ९८॥
दर्भैः परिस्तरेत्पश्चात्परिधीन्विन्यसेदथ ।
त्रिकोणवृत्तषट्कोणं साष्टपत्रं सभूपुरम् ॥ ९९॥
यन्त्रं विभावयेद्वह्नेः पूर्वं वा संलिखेदथ ।
तन्मध्ये पूजयेद्वह्निं मन्त्रेणानेन वै मुने ॥ १००॥
वैश्वानर ततो जातवेदः पश्चादिहावह ।
लोहिताक्षपदं प्रोक्त्वा सर्वकर्माणि साधय ॥ १०१॥
वह्निजायान्तको मन्त्रस्तेन वह्निं तु पूजयेत् ।
मध्ये षट्स्वपि कोणेषु हिरण्या गगना तथा ॥ १०२॥
रक्ता कृष्णा सुप्रभा च बहुरूपातिरक्तिका ।
पूजयेत्सप्तजिह्वास्ताः केसरेष्वङ्गपूजनम् ॥ १०३॥
दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणी ।
जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥ १०४॥
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः ।
कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः ॥ १०५॥
ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः ।
लोकपालांश्चतुर्दिक्षु वज्राद्यायुधसंयुतान् ॥ १०६॥
श्रीनारायण उवाच ।
ततः स्रुक्स्रुवसंस्कारावाज्यसंस्कार एव च ।
कृत्वा होमं ततः कुर्यात्स्रुवेणादाय वै घृतम् ॥ १०७॥
दक्षिणाद्घृतभागात्तु वह्नेर्दक्षिणलोचने ।
जुहुयादग्नये स्वाहेत्येवं वै वामतोऽन्यतः ॥ १०८॥
सोमाय स्वाहेति मध्याद्घृतमादाय सत्तम ।
अग्नीषोमाभ्यां स्वाहेति मध्यनेत्रे हुनेत्ततः ॥ ११२॥
पुनर्दक्षिणभागात्तु घृतमादाय वै मुखे ।
अग्नये स्विष्टकृत्स्वाहेत्यनेनैव हुनेत्ततः ॥ ११०॥
सताराभिर्व्याहृतिभिर्जुहुयादथ साधकः ।
जुहुयादग्निमन्त्रेण त्रिवारं तु ततः परम् ॥ १११॥
ततस्तु प्रणवेनैवाप्यष्टावष्टौ घृताहुतीः ।
गर्भाधानादिसंस्कारकृते तु जुहुयान्मुने ॥ ११२॥
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ।
जातकर्म नामकर्माप्युपनिष्क्रमणं तथा ॥ ११३॥
अन्नाशनं तथा चूडा व्रतबन्धस्तथैव च ।
महानाम्न्यं व्रतं पश्चात्तथौपनिषदं व्रतम् ॥ ११४॥
गोदानोद्वाहकौ प्रोक्ताः संस्काराः श्रुतिचोदिताः ।
ततः शिवं पार्वतीं च पूजयित्वा विसर्जयेत् ॥ ११५॥
जुहुयात्पञ्च समिधो वह्निमुद्दिश्य साधकः ।
पश्चादावरणानां चाप्येकैकामाहुतिं हुनेत् ॥ ११६॥
घृतं स्रुचि समादाय चतुर्वारं स्रुवेण च ।
पिधाय तां तु तेनैव मुने तिष्ठन्निजासने ॥ ११७॥
वौषडन्तेन मनुना वह्नेस्तु जुहुयात्ततः ।
महागणेशमन्त्रेण जुहुयादाहुतीर्दश ॥ ११८॥
वह्नौ पीठं समभ्यर्च्य देयमन्त्रस्य देवताम् ।
वह्नौ ध्यात्वा तु तद्वक्त्रे पञ्चविंशतिसङ्ख्यया ॥ ११९॥
मूलमन्त्रेण जुहुयाद्वक्त्रैकीकरणाय च ।
वह्निदेवतयोरैक्यं भावयन्नात्मना सह ॥ १२०॥
एकीभूतं भावयेत्तु ततस्तु साधकोत्तमः ।
षडङ्गं देवतानां च जुहुयादाहुतीः पृथक् ॥ १२१॥
एकादशैव जुहुयादाहुतीर्मुनिसत्तम ।
एतेन नाडीसन्धानं वह्निदेवतयोर्मुने ॥ १२२॥
एकैकक्रमयोगेनाप्यावृत्तीनां तथैव च ।
एकैकक्रमयोगेन घृतेन जुहुयान्मुने ॥ १२३॥
ततः कल्पोक्तद्रव्यैस्तु जुहुयादथवा तिलैः ।
देवतामूलमन्त्रेण गजान्तकसहस्रकम् ॥ १२४॥
एवं हुत्वा ततो देवीं सन्तुष्टां भावयेन्मुने ।
तथैवावृतिदेवीश्च वह्न्याद्या देवता अपि ॥ १२५॥
ततः शिष्यं च सुस्नातं कृतसम्यादिकक्रियम् ।
वस्त्रद्वययुतं स्वर्णाभरणेन समन्वितम् ॥ १२६॥
कमण्डलुकरं शुद्धं कुण्डस्यान्तिकमानयेत् ।
नमस्कृत्य ततः शिष्यो गुरूनथ सभासदः ॥ १२७॥
कुलदेवं नमस्कृत्य विशेत्तत्राथ विष्टरे ।
गुरुस्ततस्तु तं शिष्यं कृपादृष्ट्या विलोकयेत् ॥ १२८॥
तच्चैतन्यं निजे देहे भावयेत्सङ्गतं त्विति ।
ततः शिष्यतनुस्थानामध्वनां परिशोधनम् ॥ १२९॥
कुर्यात्तु होमतो विद्वान्दिव्यदृष्ट्यवलोकनात् ।
येन जायेत शुद्धात्मा योग्यो देवाद्यनुग्रहे ॥ १३०॥
श्रीनारायण उवाच ।
तनौ ध्यायेत्तु शिष्यस्य षडध्वनः कमेण तु ।
पादयोस्तु कलाध्वानमन्धौ तत्त्वाध्वकं पुनः ॥ १३१॥
नाभौ तु भुवनाध्वानं वर्णाध्वानं तथा हृदि ।
पदाध्वानं तथा भाले मन्त्राध्वानं तु मूर्धनि ॥ १३२॥
शिष्यं स्पृशंस्तु कूर्चेन तिलैराज्यपरिप्लुतैः ।
शोधयाम्यमुमध्वानं स्वाहेति मनुमुच्चरन् ॥ १३३॥
ताराढ्यं जुहुयादष्टवारं प्रत्यध्वमेव हि ।
षडध्वनस्ततस्तांस्तु लीनान् ब्रह्मणि भावयेत् ॥ १३४॥
पुनरुत्पादयेत्तस्मात्सृष्टिमार्गेण वै गुरुः ।
आत्मस्थितं तच्चैतन्यं पुनः शिष्ये तु योजयेत् ॥ १३५॥
पूर्णाहुतिं ततो हुत्वा देवतां कलशे नयेत् ।
पुनर्व्याहृतिभिर्हुत्वा वह्नेरङ्गाहुतीस्तथा ॥ १३६॥
एकैकशो गुरुर्दत्त्वा विसृजेद्वह्निमात्मनि ।
ततः शिष्यस्य नेत्रे तु बध्नीयाद्वाससा गुरुः ॥ १३७॥
नेत्रमन्त्रेण तं शिष्यं कुण्डतो मण्डलं नयेत् ।
पुष्पाञ्जलिं मुख्यदेव्यां कारयेच्छिष्यहस्ततः ॥ १३८॥
नेत्रबन्धं निराकृत्य वेशयेत्कुशविष्टरे ।
भूतशुद्धिं शिष्यदेहे कुर्यात्प्रोक्तेन वर्त्मना ॥ १३९॥
मन्त्रोदितांस्तथा न्यासान्कृत्वा शिष्यतनौ ततः ।
मण्डले वेशयेच्छिष्यमन्यस्मिन्कुम्भसंस्थितान् ॥ १४०॥
पल्लवाञ्छिष्यशिरसि विन्यसेन्मातृकां जपेत् ।
कलशस्थजलैः शिष्यं स्नापयेद्देवतात्मकैः ॥ १४१॥
वर्धनीजलसेकं च कुर्याद्रक्षार्थमञ्जसा ।
ततः शिष्यः समुत्थाय वाससी परिधाय च ॥ १४२॥
कृतभस्मावलेपश्च संविशेद्गुरुसन्निधौ ।
ततो गुरुः स्वकीयात्तु हृदयान्निर्गतां शिवाम् ॥ १४३॥
प्रविष्टां शिष्यहृदये भावयेत्करुणानिधिः ।
पूजयेद्गन्धपुष्पाद्यैरैक्यं वै भावयंस्तयोः ॥ १४४॥
ततस्त्रिंशो दक्षकर्णे शिष्यस्योपदिशेद्गुरुः ।
महामन्त्रं महादेव्याः स्वहस्तं शिरसि न्यसन् ॥ १४५॥
अष्टोत्तरशतं मन्त्रं शिष्योऽपि प्रजपेन्मुने ।
दण्डवत्प्रणमेद्भूमौ तं गुरुं देवतात्मकम् ॥ १४६॥
सर्वस्वमर्पयेत्तस्मै यावज्जीवमनन्यधीः ।
ऋत्विग्भ्यो दक्षिणां दत्त्वा ब्राह्मणांश्चापि भोजयेत् ॥ १४७॥
सुवासिनीः कुमारीश्च बटुकांश्चैव सर्वशः ।
दीनानाथान्दरिद्रांश्च वित्तशाठ्यविवर्जितः ॥ १४८॥
कृतार्थतां स्वस्य बुद्ध्वा नित्यमाराधयेन्मनुम् ।
इति ते कथितः सम्यग्दीक्षाविधिरनुत्तमः ॥ १४९॥
विमृश्यैतदशेषेण भज देवीपदाम्बुजम् ।
नान्यस्तु परमो धर्मो ब्राह्मणस्यात्र विद्यते ॥ १५०॥
वैदिकः स्वस्वगृह्योक्तक्रमेणोपदिशेन्मनुम् ।
तान्त्रिकस्तन्त्ररीत्या तु स्थितिरेषा सनातनी ॥ १५१॥
तत्तदुक्तप्रयोगांस्ते ते ते कुर्युर्न चान्यथा ।
श्रीनारायण उवाच ।
इति सर्वं मयाख्यातं यत्पृष्टं नारद त्वया ॥ १५२॥
अतः परं पराम्बाया भज नित्यं पदाम्बुजम् ।
नित्यमाराध्य तच्चाहं निर्वृतिं परमां गतः ॥ १५३॥
व्यास उवाच ।
इति राजन्नारदाय प्रोक्त्वा सर्वमनुत्तमम् ।
समाधिमीलिताक्षस्तु दध्यौ देवीपदाम्बुजम् ॥ १५४॥
नारायणस्तु भगवान् मुनिवर्यशिखामणिः ।
नारदोऽपि ततो नत्वा गुरुं नारायणं परम् ।
जगाम सद्यस्तपसे देवीदर्शनलालसः ॥ १५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वादशस्कन्धे मन्त्रदीक्षाविधिवर्णनं नाम सप्तमोऽध्यायः ॥ १२.७॥
१२.८ अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।
जनमेजय उवाच ।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रवतांवर ।
द्विजातीनां तु सर्वेषां शक्त्युपास्तिः श्रुतीरिता ॥ १॥
सन्ध्याकालत्रयेऽन्यस्मिन् काले नित्यतया विभो ।
तां विहाय द्विजाः कस्माद्गृह्णीयुश्चान्यदेवताः ॥ २॥
दृश्यन्ते वैष्णवाः केचिद्गाणपत्यास्तथापरे ।
कापालिकाश्चीनमार्गरता वल्कलधारिणः ॥ ३॥
दिगम्बरास्तथा बौद्धाश्चार्वार्का एवमादयः ।
दृश्यन्ते बहवो लोके वेदश्रद्धाविवर्जिताः ॥ ४॥
किमत्र कारणं ब्रह्मंस्तद्भवान् वक्तुमर्हति ।
बुद्धिमन्तः पण्डिताश्च नानातर्कविचक्षणाः ॥ ५॥
अपि सन्त्येव वेदेषु श्रद्धया तु विवर्जिताः ।
न हि कश्चित्स्वकल्याणं बुद्ध्या हातुमिहेच्छति ॥ ६॥
किमत्र कारणं तस्माद्वद वेदविदांवर ।
मणिद्वीपस्य महिमा वर्णितो भवता पुरा ॥ ७॥
कीदृक् तदस्ति यद्देव्याः परं स्थानं महत्तरम् ।
तच्चापि वद भक्ताय श्रद्दधानाय मेऽनघ ॥ ८॥
प्रसन्नास्तु वदन्त्येव गुरवो गुह्यमप्युत ।
सूत उवाच ।
इति राज्ञो वचः श्रुत्वा भगवान् बादरायणः ॥ ९॥
निजगाद ततः सर्वं क्रमेणैव मुनीश्वराः ।
यच्छ्रुत्वा तु द्विजातीनां वेदश्रद्धा विवर्धते ॥ १०॥
व्यास उवाच ।
सम्यक्पृष्टं त्वया राजन् समये समयोचितम् ।
वुद्धिमानसि वेदेषु श्रद्धावांश्चैव लक्ष्यसे ॥ ११॥
पूर्वं मदोद्धता दैत्या देवैर्युद्धं तु चक्रिरे ।
शतवर्षं महाराज महाविस्मयकारकम् ॥ १२॥
नानाशस्त्रप्रहरणं नानामायाविचित्रितम् ।
जगत्क्षयकरं नूनं तेषां युद्धमभून्नृप ॥ १३॥
पराशक्तिकृपावेशाद्देवैर्दैत्या जिता युधि ।
भुवं स्वर्गं परित्यज्य गताः पातालवेश्मनि ॥ १४॥
ततः प्रहर्षिता देवाः स्वपराक्रमवर्णनम् ।
चक्रुः परस्परं मोहात्साभिमानाः समन्ततः ॥ १५॥
जयोऽस्माकं कुतो न स्यादस्माकं महिमा यतः ।
सर्वोत्तरः कुत्र दैत्याः पामरा निष्पराक्रमाः ॥ १६॥
सृष्टिस्थितिक्षयकरा वयं सर्वे यशस्विनः ।
अस्मदग्रे पामराणां दैत्यानां चैव का कथा ॥ १७॥
पराशक्तिप्रभावं ते न ज्ञात्वा मोहमागताः ।
तेषामनुग्रहं कर्तुं तदैव जगदम्बिका ॥ १८॥
प्रादुरासीत्कृपापूर्णा यक्षरूपेण भूमिप ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ १९॥
विद्युत्कोटिसमानाभं हस्तपादादिवर्जितम् ।
अदृष्टपूर्वं तद्दृष्ट्वा तेजः परमसुन्दरम् ॥ २०॥
सविस्मयास्तदा प्रोचुः किमिदं किमिदं त्विति ।
दैत्यानां चेष्टितं किं वा माया कापि महीयसी ॥ २१॥
केनचिन्निर्मिता वाथ देवानां स्मयकारिणी ।
सम्भूय ते तदा सर्वे विचारं चक्रुरुत्तमम् ॥ २२॥
यक्षस्य निकटे गत्वा प्रष्टव्यं कस्त्वमित्यपि ।
बलाबलं ततो ज्ञात्वा कर्तव्या तु प्रतिक्रिया ॥ २३॥
ततो वह्निं समाहूय प्रोवाचेन्द्रः सुराधिपः ।
गच्छ वह्ने त्वमस्माकं यतोऽसि मुखमुत्तमम् ॥ २४॥
ततो गत्वा तु जानीहि किमिदं यक्षमित्यपि ।
सहस्राक्षवचः श्रुत्वा स्वपराक्रमगर्भितम् ॥ २५॥
वेगात्स निर्गतो वह्निर्ययौ यक्षस्य सन्निधौ ।
तदा प्रोवाच यक्षस्तं त्वं कोऽसीति हुताशनम् ॥ २६॥
वीर्यं च त्वयि किं यत्तद्वद सर्वं ममाग्रतः ।
अग्निरस्मि तथा जातवेदा अस्मीति सोऽब्रवीत् ॥ २७॥
सर्वस्य दहने शक्तिर्मयि विश्वस्य तिष्ठति ।
तदा यक्षं परं तेजस्तदग्रे निदधौ तृणम् ॥ २८॥
दहैनं यदि ते शक्तिर्विश्वस्य दहनेऽस्ति हि ।
तदा सर्वबलेनैवाकरोद्यत्नं हुताशनः ॥ २९॥
न शशाक तृणं दग्धुं लज्जितोऽगात्सुरान्प्रति ।
पृष्टे देवैस्तु वृत्तान्ते सर्वं प्रोवाच हव्यभुक् ॥ ३०॥
वृथाभिमानो ह्यस्माकं सर्वेशत्वादिके सुराः ।
ततस्तु वृत्रहा वायुं समाहूयेदमब्रवीत् ॥ ३१॥
त्वयि प्रोतं जगत्सर्वं त्वच्चेष्टाभिस्तु चेष्टितम् ।
त्वं प्राणरूपः सर्वेषां सर्वशक्तिविधारकः ॥ ३२॥
त्वमेव गत्वा जानीहि किमिदं यक्षमित्यपि ।
नान्यः कोऽपि समर्थोऽस्ति ज्ञातुं यक्षं परं महः ॥ ३३॥
सहस्राक्षवचः श्रुत्वा गुणगौरवगुम्फितम् ।
साभिमानो जगामाशु यत्र यक्षं विराजते ॥ ३४॥
यक्षं दृष्ट्वा ततो वायुं प्रोवाच मृदुभाषया ।
कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः ॥ ३५॥
ततो यक्षवचः श्रुत्वा गर्वेण मरुदब्रवीत् ।
मातरिश्वाहमस्मीति वायुरस्मीति चाब्रवीत् ॥ ३६॥
वीर्यं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि ।
मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्भवेत् ॥ ३७॥
इति श्रुत्वा वायुवाणीं निजगाद परं महः ।
तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम् ॥ ३८॥
नोचेद्गर्वं विहायैनं लज्जितो गच्छ वासवम् ।
श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः ॥ ३९॥
उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह ।
लज्जितोऽगाद्देवपार्श्वे हित्वा गर्वं स चानिलः ॥ ४०॥
वृत्तान्तमवदत्सर्वं गर्वनिर्वापकारणम् ।
नैतंज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः ॥ ४१॥
अलौकिकं भाति यक्षं तेजः परमदारुणम् ।
ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे ॥ ४२॥
देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः ।
तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत् ॥ ४३॥
प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् ।
अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः ॥ ४४॥
अतीव लज्जितो जातो वासवो देवराडपि ।
यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि ॥ ४५॥
अतः परं न गन्तव्यं मया तु सुरसंसदि ।
किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति ॥ ४६॥
देहत्यागो वरस्तस्मान्मानो हि महतां धनम् ।
माने नष्टे जीवितं तु मृतितुल्यं न संशयः ॥ ४७॥
इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः ।
चरित्रमीदृशं यस्य तमेव शरणं गतः ॥ ४८॥
तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले ।
मायाबीजं सहस्राक्ष जप तेन सुखी भव ॥ ४९॥
ततो जजाप परमं मायाबीजं परात्परम् ।
लक्षवर्षं निराहारो ध्यानमीलितलोचनः ॥ ५०॥
अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ ।
तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः ॥ ५१॥
तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् ।
भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम् ॥ ५२॥
बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् ।
चतुर्भिर्वरहस्तैस्तु वरपाशाङ्कुशाभयान् ॥ ५३॥
दधानां रमणीयाङ्गीं कोमलाङ्गलतां शिवाम् ।
भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम् ॥ ५४॥
त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् ।
चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुताम् ॥ ५५॥
दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् ।
प्रसन्तस्मेरवदनां कोटिकन्दर्पसुन्दराम् ॥ ५६॥
रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् ।
उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥ ५७॥
निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् ।
ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः ॥ ५८॥
प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः ।
दण्डवत्प्रणनामाथ पादयोर्जगदीशितुः ॥ ५९॥
तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः ।
उवाच परमप्रीतः किमिदं यक्षमित्यपि ॥ ६०॥
प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने ।
इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा ॥ ६१॥
रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् ।
मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम् ॥ ६२॥
सर्वे वेदा यत्पदमामनन्ति
तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण ब्रवीमि ॥ ६३॥
ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च ह्रींमयम् ।
द्वे बीजे मम मन्त्रौ स्तो मुख्यत्वेन सुरोत्तम ॥ ६४॥
भागद्वयवती यस्मात्सृजामि सकलं जगत् ।
तत्रैकभागः सम्प्रोक्तः सच्चिदानन्दनामकः ॥ ६५॥
मायाप्रकृतिसंज्ञस्तु द्वितीयो भाग ईरितः ।
सा च माया परा शक्तिः शक्तिमत्यहमीश्वरी ॥ ६६॥
चन्द्रस्य चन्द्रिकेवेयं ममाभिन्नत्वमागता ।
साम्यावस्थात्मिका चैषा माया मम सुरोत्तम ॥ ६७॥
प्रलये सर्वजगतो मदभिन्नैव तिष्ठति ।
प्राणिकर्मपरीपाकवशतः पुनरेव हि ॥ ६८॥
रूपं तदेवमव्यक्तं व्यक्तीभावमुपैति च ।
अन्तर्मुखा तु यावस्था सा मायेत्यभिधीयते ॥ ६९॥
बहिर्मुखा तु या माया तमःशब्देन सोच्यते ।
बहिर्मुखात्तमोरूपाज्जायते सत्त्वसम्भवः ॥ ७०॥
रजोगुणस्तदैव स्यात्सर्गादौ सुरसत्तम ।
गुणत्रयात्मकाः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ॥ ७१॥
रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् ।
तमोगुणाधिको रुद्रः सर्वकारणरूपधृक् ॥ ७२॥
स्थूलदेहो भवेद्ब्रह्मा लिङ्गदेहो हरिः स्मृतः ।
रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि ॥ ७३॥
साम्यावस्था तु या प्रोक्ता सर्वान्तर्यामिरूपिणी ।
अत ऊर्ध्वं परं ब्रह्म मद्रूपं रूपवर्जितम् ॥ ७४॥
निर्गुणं सगुणं चेति द्विधा मद्रूपमुच्यते ।
निर्गुणं मायया हीनं सगुणं मायया युतम् ॥ ७५॥
साहं सर्वं जगत्सृष्ट्वा तदन्तः सम्प्रविश्य च ।
प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम् ॥ ७६॥
सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि ।
ब्रह्माणं च तथा विष्णुं रुद्रं वै कारणात्मकम् ॥ ७७॥
मद्भयाद्वाति पवनो भीत्या सूर्यश्च गच्छति ।
इन्द्राग्निमृत्यवस्तद्वत्साहं सर्वोत्तमा स्मृता ॥ ७८॥
मत्प्रसादाद्भवद्भिस्तु जयो लब्धोऽस्ति सर्वथा ।
युष्मानहं नर्तयामि काष्ठपुत्तलिकोपमान् ॥ ७९॥
कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् ।
स्वतन्त्रा स्वेच्छया सर्वं कुर्वे कर्मानुरोधतः ॥ ८०॥
तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः ।
अहङ्कारावृतात्मानो मोहमाप्ता दुरन्तकम् ॥ ८१॥
अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम् ।
निःसृतं सहसा तेजो मदीयं यक्षमित्यपि ॥ ८२॥
अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् ।
मामेव शरणं यात सच्चिदानन्दरूपिणीम् ॥ ८३॥
व्यास उवाच ।
इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी ।
अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता ॥ ८४॥
ततः सर्वे स्वगर्वं तु विहाय पदपङ्कजम् ।
सम्यगाराधयामासुर्भगवत्याः परात्परम् ॥ ८५॥
त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः ।
यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे ॥ ८६॥
एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः ।
तारहृल्लेखयोश्चापि जपे निष्णातमानसाः ॥ ८७॥
न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् ।
न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥ ८८॥
गायत्र्युपासना नित्या सर्ववेदैः समीरिता ।
यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा ॥ ८९॥
तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि ।
गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥ ९०॥
कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् ।
विहाय तां तु गायत्रीं विष्णूपास्तिपरायणः ॥ ९१॥
शिवोपास्तिरतो विप्रो नरकं याति सर्वथा ।
तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः ।
देवीपदाम्बुजरता आसन्सर्वे द्विजोत्तमाः ॥ ९२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वादशस्कन्धे पराशक्तेराविर्भाववर्णनं नामाष्टमोऽध्यायः ॥ १२.८॥
१२.९ नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।
व्यास उवाच ।
कदाचिदथ काले तु दशपञ्चसमा विभो ।
प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः ॥ १॥
अनावृष्ट्यातिदुर्भिक्षमभवत्क्षयकारकम् ।
गहे गृहे शवानां तु सङ्ख्या कर्तुं न शक्यते ॥ २॥
केचिदश्वान्वराहान्वा भक्षयन्ति क्षुधार्दिताः ।
शवानि च मनुष्याणां भक्षयन्त्यपरे जनाः ॥ ३॥
बालकं बालजननी स्त्रियं पुरुष एव च ।
भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः ॥ ४॥
ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम् ।
तपोधनो गौतमोऽस्ति स नः खेदं हरिष्यति ॥ ५॥
सर्वैर्मिलित्वा गन्तव्यं गौतमस्याश्रमेऽधुना ।
गायत्रीजपसंसक्तगौतमस्याश्रमेऽधुना ॥ ६॥
सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः ।
एवं विमृश्य भूदेवाः साग्निहोत्राः कुटुम्बिनः ॥ ७॥
सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः ।
पूर्वदेशाद्ययुः केचित्केचिद्दक्षिणदेशतः ॥ ८॥
पाश्चात्या औत्तराहाश्च नानादिग्भ्यः समाययुः ।
दृष्ट्वा समाजं विप्राणां प्रणनाम स गौतमः ॥ ९॥
आसनाद्युपचारैश्च पूजयामास वाडवान् ।
चकार कुशलप्रश्नं ततश्चागमकारणम् ॥ १०॥
ते सर्वे स्वस्ववृत्तान्तं कथयामासुरुत्स्मयाः ।
दृष्ट्वा तान्दुःखितान्विप्रानभयं दत्तवान्मुनिः ॥ ११॥
युष्माकमेतत्सदनं भवद्दासोऽस्मि सर्वथा ।
का चिन्ता भवतां विप्रा मयि दासे विराजति ॥ १२॥
धन्योऽहमस्मिन्समये यूयं सर्वे तपोधनाः ।
येषां दर्शनमात्रेण दुष्कृतं सुकृतायते ॥ १३॥
ते सर्वे पादरजसा पावयन्ति गृहं मम ।
को मदन्यो भवेद्धन्यो भवतां समनुग्रहात् ॥ १४॥
स्थेयं सर्वैः सुखेनैव सन्ध्याजपपरायणैः ।
व्यास उवाच ।
इति सर्वान्ममाश्वास्य गौतमो मुनिराट् ततः ॥ १५॥
गायत्रीं प्रार्थयामास भक्तिसन्नतकन्धरः ।
नमो देवि महाविद्ये वेदमातः परात्परे ॥ १६॥
व्याहृत्यादिमहामन्त्ररूपे प्रणवरूपिणि ।
साम्यावस्थात्मिके मातर्नमो ह्रीङ्काररूपिणि ॥ १७॥
स्वाहास्वधास्वरूपे त्वां नमामि सकलार्थदाम् ।
भक्तकल्पलतां देवीमवस्थात्रयसाक्षिणीम् ॥ १८॥
तुर्यातीतस्वरूपां च सच्चिदानन्दरूपिणीम् ।
सर्ववेदान्तसंवेद्यां सूर्यमण्डलवासिनीम् ॥ १९॥
प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम् ।
सायाह्ने कृष्णवर्णां तां वृद्धां नित्यं नमाम्यहम् ॥ २०॥
सर्वभूतारणे देवि क्षमस्व परमेश्वरि ।
इति स्तुता जगन्माता प्रत्यक्षं दर्शनं ददौ ॥ २१॥
पूर्णपात्रं ददौ तस्मै येन स्यात्सर्वपोषणम् ।
उवाच मुनिमम्बा सा यं यं कामं त्वमिच्छसि ॥ २२॥
तस्य पूर्तिकरं पात्रं मया दत्तं भविष्यति ।
इत्युक्त्वान्तर्दधे देवी गायत्री परमा कला ॥ २३॥
अन्नानां राशयस्तस्मानिर्गताः पर्वतोपमाः ।
षड्रसा विविधा राजंस्तृणानि विविधानि च ॥ २४॥
भूषणानि च दिव्यानि क्षौमानि वसनानि च ।
यज्ञानां च समारम्भाः पात्राणि विविधानि च ॥ २५॥
यद्यदिष्टमभूद्राजन् मुनेस्तस्य महात्मनः ।
तत्सर्वं निर्गतं तस्माद्गायत्रीपूर्णपात्रतः ॥ २६॥
अथाहूय मुनीन्सर्वान्मुनिराड् गौतमस्तदा ।
धनं धान्यं भूषणानि वसनानि ददौ मुदा ॥ २७॥
गोमहिष्यादिपशवो निर्गताः पूर्णपात्रतः ।
निर्गतान्यज्ञसम्भारान्स्रुक्स्रुवप्रभृतीन्ददौ ॥ २८॥
ते सर्वे मिलिता यज्ञांश्चक्रिरे मुनिवाक्यतः ।
स्थानं तदेव भूयिष्ठमभवत्स्वर्गसन्निभम् ॥ २९॥
यत्किञ्चित् त्रिषु लोकेषु सुन्दरं वस्तु दृश्यते ।
तत्सर्वं तत्र निष्पन्नं गायत्रीदत्तपात्रतः ॥ ३०॥
देवाङ्गनासमा दाराः शोभन्ते भूषणादिभिः ।
मुनयो देवसदृशा वस्त्रचन्दनभूषणैः ॥ ३१॥
नित्योत्सवः प्रववृते मुनेराश्रममण्डले ।
न रोगादिभयं किञ्चिन्न च दैत्यभयं क्वचित् ॥ ३२॥
स मुनेराश्रमो जातः समन्ताच्छतयोजनः ।
अन्ये च प्राणिनो येऽपि तेऽपि तत्र समागताः ॥ ३३॥
तांश्च सर्वान्पुपोषायं दत्त्वाभयमथात्मवान् ।
नानाविधैर्महायज्ञैर्विधिवत्कल्पितैः सुराः ॥ ३४॥
सन्तोषं परमं प्रापुर्मुनेश्चैव जगुर्यशः ।
सभायां वृत्रहा भूयो जगौ श्लोकं महायशाः ॥ ३५॥
अहो अयं नः किल कल्पपादपो
मनोरथान्पूरयति प्रतिष्ठितः ।
नोचेदकाण्डे क्व हविर्वपा वा
सुदुर्लभा यत्र तु जीवनाशा ॥ ३६॥
इत्थं द्वादशवर्षाणि पुपोष मुनिपुङ्गवान् ।
पुत्रवन्मुनिराड् गर्वगन्धेन परिवर्जितः ॥ ३७॥
गायत्र्याः परमं स्थानं चकार मुनिसत्तमः ।
यत्र सर्वैर्मुनिवरैः पूज्यते जगदम्बिका ॥ ३८॥
त्रिकालं परया भक्त्या पुरश्चरणकर्मभिः ।
अद्यापि यत्र देवी सा प्रातर्बाला तु दृश्यते ॥ ३९॥
मध्याह्ने युवती वृद्धा सायङ्काले तु दृश्यते ।
तत्रैकदा समायातो नारदो मुनिसत्तमः ॥ ४०॥
रणयन्महतीं गायन्गायत्र्याः परमान्गुणान् ।
निषसाद सभामध्ये मुनीनां भावितात्मनाम् ॥ ४१॥
गौतमादिभिरत्युच्चैः पूजितः शान्तमानसः ।
कथाश्चकार विविधा यशसो गौतमस्य च ॥ ४२॥
ब्रह्मर्षे देवसदसि देवराट् तव यद्यशः ।
जगौ बहुविधं स्वच्छं मुनिपोषणजं परम् ॥ ४३॥
श्रुत्वा शचीपतेर्वाणीं त्वां द्रष्टुमहमागतः ।
धन्योऽसि त्वं मुनिश्रेष्ठ जगदम्बाप्रसादतः ॥ ४४॥
इत्युक्त्वा मुनिवर्यं तं गायत्रीसदनं ययौ ।
ददर्श जगदम्बां तां प्रेमोत्फुल्लविलोचनः ॥ ४५॥
तुष्टाव विधिवद्देवीं जगाम त्रिदिवं पुनः ।
अथ तत्र स्थिता ये ते ब्राह्मणा मुनिपोषिताः ॥ ४६॥
उत्कर्षं तु मुनेः श्रुत्वासूयया खेदमागताः ।
यथास्य न यशो भूयात्कर्तव्यं सर्वथैव हि ॥ ४७॥
काले समागते पश्चादिति सर्वैस्तु निश्चितम् ।
ततः कालेन कियताप्यभूद्वृष्टिर्धरातले ॥ ४८॥
सुभिक्षमभवत्सर्वदेशेषु नृपसत्तम ।
श्रुत्वा वार्तां सुभिक्षस्य मिलिताः सर्ववाडवाः ॥ ४९॥
गौतमं शप्तुमुद्योगं हा हा राजन् प्रचक्रिरे ।
धन्यौ तेषां च पितरौ ययोरुत्पत्तिरीदृशी ॥ ५०॥
कालस्य महिमा राजन् वक्तुं केन हि शक्यते ।
गौर्निर्मिता माययैका मुमूर्षुर्जरती नृप ॥ ५१॥
जगाम सा च शालायां होमकाले मुनेस्तदा ।
हुंहुंशब्दैर्वारिता सा प्राणांस्तत्याज तत्क्षणे ॥ ५२॥
गौर्हतानेन दुष्टेनेत्येवं ते चुक्रुशुर्द्विजाः ।
होमं समाप्य मुनिराङ् विस्मयं परमं गतः ॥ ५३॥
समाधिमीलिताक्षः संश्चिन्तयामास कारणम् ।
कृतं सर्वं द्विजैरेतदिति ज्ञात्वा तदैव सः ॥ ५४॥
दधार कोपं परमं प्रलये रुद्रकोपवत् ।
शशाप च ऋषीन्सर्वान्कोपसंरक्तलोचनः ॥ ५५॥
वेदमातरि गायत्र्यां तद्ध्याने तन्मनोर्जपे ।
भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः ॥ ५६॥
वेदे वेदोक्तयज्ञेषु तद्वार्तासु तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५७॥
शिवे शिवस्य मन्त्रे च शिवशास्त्रे तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५८॥
मूलप्रकृत्याः श्रीदेव्यास्तद्ध्याने तत्कथासु च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५९॥
देवीमन्त्रे तथा देव्याः स्थानेऽनुष्ठानकर्मणि ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६०॥
देव्युत्सवदिदृक्षायां देवीनामानुकीर्तने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६१॥
देवीभक्तस्य सान्निध्ये देवीभक्तार्चने तथा ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६२॥
शिवोत्सवदिदृक्षायां शिवभक्तस्य पूजने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६३॥
रुद्राक्षं बिल्वपत्रे च तथा शुद्धे च भस्मनि ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६४॥
श्रौतस्मार्तसदाचारे ज्ञानमार्गे तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६५॥
अद्वैतज्ञाननिष्ठायां शान्तिदान्त्यादिसाधने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६६॥
नित्यकर्माद्यनुष्ठानेऽप्यग्निहोत्रादिसाधने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६७॥
स्वाध्यायाध्ययने चैव तथा प्रवचनेऽपि च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६८॥
गोदानादिषु दानेषु पितृश्राद्धेषु चैव हि ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६९॥
कृच्छ्रचान्द्रायणे चैव प्रायश्चित्ते तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ७०॥
श्रीदेवीभिन्नदेवेषु श्रद्धाभक्तिसमन्विताः ।
शङ्खचक्राद्यङ्किताश्च भवत ब्राह्मणाधमाः ॥ ७१॥
कापालिकमतासक्ता बौद्धशास्त्ररताः सदा ।
पाखण्डाचारनिरता भवत ब्राह्मणाधमाः ॥ ७२॥
पितृमातृसुताभ्रातृकन्याविक्रयिणस्तथा ।
भार्याविकयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७३॥
वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा ।
धर्मविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७४॥
पाञ्चरात्रे कामशास्त्रे तथा कापालिके मते ।
बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः ॥ ७५॥
मातृकन्यागामिनश्च भगिनीगामिनस्तथा ।
परस्त्रीलम्पटाः सर्वे भवत ब्राह्मणाधमाः ॥ ७६॥
युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा ।
मद्दत्तशापदग्धास्ते भविष्यन्ति भवत्समाः ॥ ७७॥
किं मया बहुनोक्तेन मूलप्रकृतिरीश्वरी ।
गायत्री परमा भूयाद्युष्मासु खलु कोपिता ॥ ७८॥
अन्धकूपादिकुण्डेषु युष्माकं स्यात्सदा स्थितिः ।
व्यास उवाच ।
वाग्दण्डमीदृशं कृत्वाप्युपस्पृश्य जलं ततः ॥ ७९॥
जगाम दर्शनार्थं च गायत्र्याः परमोस्तुकः ।
प्रणनाम महादेवीं सापि देवी परात्परा ॥ ८०॥
ब्राह्मणानां कृतिं दृष्ट्वा स्मयं चित्ते चकार ह ।
अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते ॥ ८१॥
उवाच मुनिवर्यं तं स्मयमानमुखाम्बुजा ।
भुजङ्गायार्पितं दुग्धं विषायैवोपजायते ॥ ८२॥
शान्तिं कुरु महाभाग कर्मणो गतिरीदृशी ।
इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति ॥ ८३॥
ततो विप्रैः शापदग्धैर्विस्मृता वेदराशयः ।
गायत्री विस्मृता सर्वैस्तदद्भुतमिवाभवत् ॥ ८४॥
ते सर्वेऽथ मिलित्वा तु पश्चात्तापयुतास्तथा ।
प्रणेमुर्मुनिवर्यं तं दण्डवत्पतिता भुवि ॥ ८५॥
नोचुः किञ्चन वाक्यं तु लज्जयाधोमुखाः स्थिताः ।
प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः ॥ ८६॥
प्रार्थयामासुरभितः परिवार्य मुनीश्वरम् ।
करुणापूर्णहृदयो मुनिस्तान्समुवाच ह ॥ ८७॥
कृष्णावतारपर्यन्तं कुम्भीपाके भवेत्स्थितिः ।
न मे वाक्यं मृषा भूयादिति जानीथ सर्वथा ॥ ८८॥
ततः परं कलियुगे भुवि जन्म भवेद्धि वाम् ।
मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा ॥ ८९॥
मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदीषणा ।
तर्हि सेव्यं सदा सर्वैर्गायत्रीपदपङ्कजम् ॥ ९०॥
व्यास उवाच ।
इति सर्वान्विसृज्याथ गौतमो मुनिसत्तमः ।
प्रारब्धामिति मत्वा तु चित्ते शान्तिं जगाम ह ॥ ९१॥
एतस्मात्कारणाद्राजन् गते कृष्णे तु धीमति ।
कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः ॥ ९२॥
भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये ।
सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः ॥ ९३॥
वेदभक्तिविहीनाश्च पाखण्डमतगामिनः ।
अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः ॥ ९४॥
मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् ।
तप्तमुद्राङ्किताः केचित्कामाचाररताः परे ॥ ९५॥
कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे ।
पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः ॥ ९६॥
लम्पटाः परदारेषु दुराचारपरायणाः ।
कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः ॥ ९७॥
तस्मात्सर्वात्मना राजन् संसेव्या परमेश्वरी ।
न विष्णूपासना नित्या न शिवोपासना तथा ॥ ९८॥
नित्या चोपासना शक्तेर्यां विना तु पतत्यधः ।
सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयानघ ॥ ९९॥
अतः परं मणिद्वीपवर्णनं शृणु सुन्दरम् ।
यत्परं स्थानमाद्याया भुवनेश्या भवारणेः ॥ १००॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां द्वादशस्कन्धे ब्राह्मणादीनां
गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणं नाम नवमोऽध्यायः ॥ १२.९॥
१२.१० दशमोऽध्यायः । मणिद्वीपवर्णनम् ।
व्यास उवाच ।
ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः ।
मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ १॥
सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः ।
पुरा पराम्बयैवायं कल्पितो मनसेच्छया ॥ २॥
सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया ।
कैलासादधिको लोको वैकुण्ठादपि चोत्तमः ॥ ३॥
गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः ।
न तत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित् ॥ ४॥
छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् ।
छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम ॥ ५॥
बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि ।
मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ ६॥
मरुत्सङ्घट्टनोत्कीर्णतरङ्ग शतसङ्कुलः ।
रत्नाच्छवालुकायुक्तो झषशङ्खसमाकुलः ॥ ७॥
वीचिसङ्घर्षसञ्जातलहरीकणशीतलः ।
नानाध्वजसमायुक्तनानापोतगतागतैः ॥ ८॥
विराजमानः परितस्तीररत्नद्रुमो महान् ।
तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ ९॥
सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् ।
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ १०॥
रक्षका निवसन्त्यत्र मोदमानाः समन्ततः ।
चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ ११॥
नानागणैः परिवृतो देवीभक्तियुतैर्नृप ।
दर्शनार्थं समायान्ति ये देवा जगदीशितुः ॥ १२॥
तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि ।
विमानशतसङ्घर्षघण्टास्वनसमाकुलः ॥ १३॥
हयहेषाखराघातबधिरीकृतदिङ्मुखः ।
गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ १४॥
सेवका देवसङ्घानां भ्राजन्ते तत्र भूमिप ।
तस्मिन्कोलाहले राजन्न शब्दः केनचित्क्वचित् ॥ १५॥
कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले ।
पदे पदे मिष्टवारिपरिपूर्णसरांसि च ॥ १६॥
वाटिका विविधा राजन् रत्नद्रुमविराजिताः ।
तदुत्तरं महासारधातुनिर्मितमण्डलः ॥ १७॥
सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः ।
तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ १८॥
गोपुरद्वारसहितो बहुवृक्षसमन्वितः ।
या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च ॥ १९॥
निरन्तरं पुष्पयुताः सदा फलसमन्विताः ।
नवपल्लवसंयुक्ताः परसौरभसङ्कुलाः ॥ २०॥
पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः ।
देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः ॥ २१॥
लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा ।
पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः ॥ २२॥
तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः ।
पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ २३॥
अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः ।
गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः ॥ २४॥
चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः ।
कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः ॥ २५॥
खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः ।
क्षीरवृक्षाश्च खदिराश्चिञ्जाभल्लातकास्तथा ॥ २६॥
रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च ।
तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ २७॥
इत्यादितरुजातीनां वनान्युपवनानि च ।
नानावापीशतैर्युक्तान्येवं सन्ति धराधिप ॥ २८॥
कोकिलारावसंयुक्ता गुञ्जद्भ्रमरभूषिताः ।
निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ २९॥
नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः ।
नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ ३०॥
पारावतशुकव्रातसारिकापक्षमारुतैः ।
हंसपक्षसमुद्भूतावातव्रातैश्चलद्द्रुमम् ॥ ३१॥
सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् ।
सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ ३२॥
नृत्यद्बर्हिकदम्बस्य केकारावैः सुखप्रदैः ।
नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः ॥ ३३॥
कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः ।
चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ ३४॥
द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका ।
येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप ॥ ३५॥
पत्राणि काञ्चनाभानि रत्नबीजफलानि च ।
दशयोजनगन्धो हि प्रसर्पति समन्ततः ॥ ३६॥
तद्वनं रक्षितं राजन् वसन्तेनर्तुनानिशम् ।
पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ ३७॥
पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः ।
मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ ३८॥
क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः ।
अतीव रम्यं विपिनं मधुस्रावि समन्ततः ॥ ३९॥
दशयोजनपर्यन्तं कुसुमामोदवायुना ।
पूरितं दिव्यगन्धर्वैः साङ्गनैर्गानलोलुपैः ॥ ४०॥
शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् ।
वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ ४१॥
ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः ।
समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसङ्ख्यया ॥ ४२॥
सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप ।
दशयोजनगन्धस्तु प्रसूनानां समन्ततः ॥ ४३॥
हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् ।
अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ ४४॥
ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम ।
शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ ४५॥
सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः ।
नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ ४६॥
विलासिनीनां वृन्दैस्तु चन्दनद्रवपङ्किलैः ।
पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः ॥ ४७॥
प्राकारः शोभितो राजञ्छीतलाम्बुनिषेविभिः ।
सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ ४८॥
प्राकारो वर्तते राजन् मुनियोजनदैर्घ्यवान् ।
हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ ४९॥
सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः ।
विद्युत्पिङ्गलनेत्रश्च जीमूतकवचः स्मृतः ॥ ५०॥
वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः ।
सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः ॥ ५१॥
नभःश्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी ।
अम्बा दुला निरत्निश्चाभ्रमन्ती मेघयन्तिका ॥ ५२॥
वर्षयन्ती चिपुणिका वारिधारा च सम्मताः ।
वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ ५३॥
नवपल्लववृक्षाश्च नवीनलतिकान्विताः ।
हरितानि तृणान्येव वेष्टिता यैर्धराखिला ॥ ५४॥
नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः ।
सरांसि कलुषाम्बूनि रागिचित्तसमानि च ॥ ५५॥
वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः ।
वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ ५६॥
ते गणा निवसन्त्यत्र सविलासाश्च साङ्गनाः ।
आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ ५७॥
पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका ।
नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ ५८॥
अधिष्ठातात्र सम्प्रोक्तः शरदृतुरनामयः ।
इषुलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ ५९॥
नानासिद्धा वसन्त्यत्र साङ्गनाः सपरिच्छदाः ।
पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ ६०॥
दीप्यमानो महाशृङ्गैर्वर्तते रौप्यसालकः ।
पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ ६१॥
दशयोजनगन्धीनि कुसुमानि समन्ततः ।
मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः ॥ ६२॥
तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः ।
सगणः सायुधः सर्वान् रागिणो रञ्जयन्नृप ॥ ६३॥
सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ ६४॥
रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् ।
सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः ॥ ६५॥
मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता ।
कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः ॥ ६६॥
याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते ।
तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः ॥ ६७॥
तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ ६८॥
नानाविलाससंयुक्तो नानागणसमावृतः ।
निवसन्ति महासिद्धा ये देवीदानकारिणः ॥ ६९॥
नानाभोगसमुत्पन्नमहानन्दसमन्विताः ।
साङ्गनाः परिवारैस्तु सङ्घशः परिवारिताः ॥ ७०॥
स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् ।
पुष्परागमयः सालः कुङ्कुमारुणविग्रहः ॥ ७१॥
पुष्परागमयी भूमिर्वनान्युपवनानि च ।
रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ ७२॥
प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः ।
वनभूः पक्षिणश्चैव रत्नवर्णजलानि च ॥ ७३॥
मण्डपा मण्डपस्तम्भाः सरांसि कमलानि च ।
प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ ७४॥
परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो ।
तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ ७५॥
दिक्पाला निवसन्त्यत्र प्रतिब्रह्माण्डवर्तिनाम् ।
दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ ७६॥
पूर्वाशायां समुत्तुङ्गशृङ्गा पूरमरावती ।
नानोपवनसंयुक्तो महेन्द्रस्तत्र राजते ॥ ७७॥
स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका ।
समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ ७८॥
ऐरावतसमारूढो वज्रहस्तः प्रतापवान् ।
देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ ७९॥
देवाङ्गनागणयुता शची तत्र विराजते ।
वह्निकोणे वह्निपुरी वह्निपूःसदृशी नृप ॥ ८०॥
स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते ।
निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ ८१॥
याम्याशायां यमपुरी तत्र दण्डधरो महान् ।
स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ ८२॥
निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् ।
नैरृत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ ८३॥
खड्गधारी स्फुरन्नास्ते निरृतिर्निजशक्तियुक् ।
वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ ८४॥
महाझषसमारूढो वारुणीमधुविह्वलः ।
निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ ८५॥
समास्ते वारुणे लोके वरुणानीरताकुलः ।
वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ ८६॥
वायुसाधनसंसिद्धयोगिभिः परिवारितः ।
ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ ८७॥
मरुद्गणैः परिवृतो निजशक्तिसमन्वितः ।
उत्तरस्यां दिशि महान् यक्षलोकोऽस्ति भूमिप ॥ ८८॥
यक्षाधिराजस्तत्रास्ते वृद्धिऋद्ध्यादिशक्तिभिः ।
नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः ॥ ८९॥
मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः ।
मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ ९०॥
इत्यादियक्षसेनानीसहितो निजशक्तियुक् ।
ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः ॥ ९१॥
अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् ।
मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ ९२॥
स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिराधृतः ।
स्वसमानैरसङ्ख्यातरुद्रैः शूलवरायुधैः ॥ ९३॥
विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः ।
दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ ९४॥
दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः ।
अन्तरिक्षचरा ये च ये च भूमिचरा स्मृताः ॥ ९५॥
रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः ।
रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ ९६॥
नानाशक्तिसमाविष्टडामर्यादिगणावृतः ।
वीरभद्रादिसहितो रुद्रो राजन् विराजते ॥ ९७॥
मुण्डमालाधरो नागवलयो नागकन्धरः ।
व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ ९८॥
चिताभस्माङ्ग लिप्ताङ्गः प्रमथादिगणावृतः ।
निनदड्डमरुध्वानैर्बधिरीकृतदिङ्मुखः ॥ ९९॥
अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः ।
भूतसङ्घसमाविष्टो भूतावासो महेश्वरः ।
ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ १००॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वादशस्कन्धे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥ १२.१०॥
१२.११ एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।
व्यास उवाच ।
पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः ।
पद्मरागमयः सालो मध्ये भूश्चैव तादृशी ॥ १॥
दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः ।
तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप ॥ २॥
मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः ।
नानायुधधरा वीरा रत्नभूषणभूषिताः ॥ ३॥
प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः ।
समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा ॥ ४॥
स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः ।
तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ ५॥
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ।
श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुन्धरा ॥ ६॥
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया ॥ ७॥
विमला चामला तद्वदरुणी पुनरारुणी ।
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ ८॥
सन्ध्या माता सती हंसी मर्दिका वज्रिका परा ।
देवमाता भगवती देवकी कमलासना ॥ ९॥
त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ।
लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ १०॥
रथरेखाह्वया पश्चाच्छशिरेखा तथापरा ।
गगनवेगा पवनवेगा वेगा चैव ततः परम् ॥ ११॥
अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा ।
अनङ्गानङ्गमथना तथैवानङ्गमेखला ॥ १२॥
अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका ।
क्षयङ्करी भवेच्छक्तिरक्षोभ्या च ततः परम् ॥ १३॥
सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचितव्रता ।
उदाराख्या च वागीशी चतुःषष्टिमिताः स्मृताः ॥ १४॥
ज्वलज्जिह्नाननाः सर्वा वमन्त्यो वह्निमुल्बणम् ।
जलं पिबामः सकलं संहरामो विभावसुम् ॥ १५॥
पवनं स्तम्भयामोऽद्य भक्षयामोऽखिलं जगत् ।
इति वाचं सङ्गिरन्ते क्रोधसंरक्तलोचनाः ॥ १६॥
चापबाणधराः सर्वा युद्धायैवोत्सुकाः सदा ।
दंष्ट्राकटकटारावैर्बधिरीकृतदिङ्मुखाः ॥ १७॥
पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा ।
शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ १८॥
एकैकशक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने ।
शताक्षौहिणिका सेना तादृशी नृपसत्तम ॥ १९॥
किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् ।
सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ २०॥
रथानां गणना नास्ति हयानां करिणां तथा ।
शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ २१॥
पद्मरागमयादग्रे गोमेदमणिनिर्मितः ।
दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ २२॥
भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी ।
गोमेदकल्पितान्येव तद्वासिसदनानि च ॥ २३॥
पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च ।
गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः ॥ २४॥
तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः ।
नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ २५॥
प्रत्येकलोकवासिन्यः परिवार्य समन्ततः ।
गोमेदसाले सन्नद्धाः पिशाचवदना नृप ॥ २६॥
स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः ।
क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च ॥ २७॥
वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः ।
एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ २८॥
सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी ।
तादृशीनां महासेना वर्णनीया कथं नृप ॥ २९॥
रथानां नैव गणना वाहनानां तथैव च ।
सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ ३०॥
तासां नामानि वक्ष्यामि पापनाशकराणि च ।
विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ ३१॥
रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा शुभा ।
कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ ३२॥
विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।
निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ ३३॥
इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ ३४॥
अम्बिका ह्लादिनी पश्चादित्येवं शक्तयः स्मृताः ।
यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ ३५॥
पराजयो न चैतासां कदाचित्क्वचिदस्ति हि ।
गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ ३६॥
दशयोजनतुङ्गोऽसौ गोपुरद्वारसंयुतः ।
कपाटशृङ्खलाबद्धो नववृक्षसमुज्ज्वलः ॥ ३७॥
सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् ।
गृहाणि वीथयो रथ्या महामार्गाङ्गणानि च ॥ ३८॥
वृक्षालवालतरवः सारङ्गा अपि तादृशाः ।
दीर्घिकाश्रेणयो वाप्यस्तडागाः कूपसंयुताः ॥ ३९॥
तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः ।
एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ ४०॥
तालवृन्तधराः काश्चिच्चषकाढ्यकराम्बुजाः ।
काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ ४१॥
काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः ।
नानावस्त्रधराः काश्चित्काश्चित्पुष्पकराम्बुजाः ॥ ४२॥
नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् ।
धारयन्त्यः कज्जलं च सिन्दूरचषकं पराः ॥ ४३॥
काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः ।
काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः ॥ ४४॥
पुष्पभूषणनिर्मात्र्यः पुष्पशृङ्गारकारिकाः ।
नानाविलासचतुरा बह्व्य एवंविधाः पराः ॥ ४५॥
निबद्धपरिधानीया युवत्यः सकला अपि ।
देवीकृपालेशवशात्तुच्छीकृतजगत्त्रयाः ॥ ४६॥
एता दूत्यः स्मृता देव्यः शृङ्गारमदगर्विताः ।
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ ४७॥
अनङ्गरूपा प्रथमाप्यनङ्गमदना परा ।
तृतीया तु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ ४८॥
ततो भुवनवेगा स्यात्तथा भुवनपालिका ।
स्यात्सर्वशिशिरानङ्गवदनानङ्गमेखला ॥ ४९॥
विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः ।
रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ ५०॥
धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः ।
कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ ५१॥
अष्टदिक्षु तथैतासां प्राकाराद्बहिरेव च ।
सदनानि विराजन्ते नानावाहनहेतिभिः ॥ ५२॥
वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः ।
दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः ॥ ५३॥
वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च ।
वीथ्यो रथ्या महामार्गाः सर्वे वैदूर्यनिर्मिताः ॥ ५४॥
वापीकूपतडागाश्च स्रवन्तीनां तटानि च ।
बालुका चैव सर्वापि वैदूर्यमणिनिर्मिता ॥ ५५॥
तत्राष्टदिक्षु परितो ब्राह्म्यादीनां च मण्डलम् ।
निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ ५६॥
प्रतिब्रह्माण्डमातॄणां ताः समष्टय ईरिताः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ ५७॥
वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ।
अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ ५८॥
ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः ।
जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ ५९॥
तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः ।
सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः ॥ ६०॥
दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा ।
हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ ६१॥
तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन ।
पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ ६२॥
कोटिशस्तु विमानानि नानाचिह्नान्वितानि च ।
नानावादित्रयुक्तानि महाध्वजयुतानि च ॥ ६३॥
वैदूर्यमणिसालस्याप्यग्रे सालः परः स्मृतः ।
दशयोजनतुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ ६४॥
तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च ।
वापीकूपतडागाश्च सर्वे तन्मणिनिर्मिताः ॥ ६५॥
तत्र पद्मं तु सम्प्रोक्तं बहुयोजनविस्तृतम् ।
षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ ६६॥
तत्र षोडशशक्तीनां स्थानानि विविधानि च ।
सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ ६७॥
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ।
कराली विकराली च तथोमा च सरस्वती ॥ ६८॥
श्रीदुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः ।
श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ॥ ६९॥
नीलजीमूतसङ्काशाः करवालकराम्बुजाः ।
समाः खेटकधारिण्यो युद्धोपक्रान्तमानसाः ॥ ७०॥
सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः ।
प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ ७१॥
ब्रह्माण्डक्षोभकारिण्यो देवीशक्त्युपबृंहिताः ।
नानारथसमारूढा नानाशक्तिभिरन्विताः ॥ ७२॥
एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः ।
इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ ७३॥
मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् ।
मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ ७४॥
मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् ।
तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ ७५॥
सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः ।
देवीसमानभोगास्ता इङ्गितज्ञास्तु पण्डिताः ॥ ७६॥
कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः ।
देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः ॥ ७७॥
नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् ।
प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च ॥ ७८॥
तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम ।
अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा ॥ ७९॥
अनङ्गमदना तद्वदनङ्गमदनातुरा ।
भुवनपाला गगनवेगा चैव ततः परम् ॥ ८०॥
शशिरेखा च गगनरेखा चैव ततः परम् ।
पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः ॥ ८१॥
विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् ।
मुक्तासालादग्रभागे महामारकतोऽपरः ॥ ८२॥
सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् ।
नानासौभाग्यसंयुक्तो नानाभोगसमन्वितः ॥ ८३॥
मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च ।
षट्कोणमत्र विस्तीर्णं कोणस्था देवताः शृणु ॥ ८४॥
पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः ।
कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः ॥ ८५॥
तदायुधधरा देवी गायत्री परदेवता ।
वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ ८६॥
स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि ।
ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ ८७॥
व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि ।
रक्षःकोणे शङ्खचक्रगदाम्बुजकराम्बुजा ॥ ८८॥
सावित्री वर्तते तत्र महाविष्णुश्च तादृशः ।
ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः ॥ ८९॥
सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि ।
वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ ९०॥
महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी ।
ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ ९१॥
गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि ।
चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः ॥ ९२॥
ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि ।
अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम् ॥ ९३॥
दधानो निजहस्ताभ्यां कुबेरो धनदायकः ।
नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः ॥ ९४॥
देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः ।
वारुणे तु महाकोणे मदनो रतिसंयुतः ॥ ९५॥
पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते ।
शृङ्गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ ९६॥
ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः ।
पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते ॥ ९७॥
विभूतयो गणेशस्य या याः सन्ति नृपोत्तम ।
ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ ९८॥
प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः ।
एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ ९९॥
महामारकतस्याग्रे शतयोजनदैर्घ्यवान् ।
प्रवालसालोऽस्त्यपरः कुङ्कुमारुणविग्रहः ॥ १००॥
मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् ।
तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ १०१॥
हृल्लेखा गगना रक्ता चतुर्थी तु करालिका ।
महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ १०२॥
पाशाङ्कुशवराभीतिधारिण्योऽमितभूषणाः ।
देवीसमानवेषाढ्या नवयौवनगर्विताः ॥ १०३॥
प्रवालसालादग्रे तु नवरत्नविनिर्मितः ।
बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप ॥ १०४॥
तत्र चाम्नायदेवीनां सदनानि बहून्यपि ।
नवरत्नमयान्येव तडागाश्च सरांसि च ॥ १०५॥
श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि ।
महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ १०६॥
निजावरणदेवीभिर्निजभूषणवाहनैः ।
सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ १०७॥
सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि ।
नवरत्नमयादग्रे चिन्तामणिगृहं महत् ॥ १०८॥
तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् ।
सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा ॥ ११२॥
विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः ।
येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते ॥ ११०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां द्वादशस्कन्धे पद्मरागादि-
मणिविनिर्मितप्राकारवर्णनं नामैकादशोऽध्यायः ॥ १२.११॥
१२.१२ द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।
व्यास उवाच ।
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ १॥
शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च ।
ज्ञानमण्डपसंज्ञस्तु तृतीयः परिकीर्तितः ॥ २॥
एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः ।
नानावितानसंयुक्ता नानाधूपैस्तु धूपिताः ॥ ३॥
कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः ।
तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ ४॥
मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः ।
असङ्ख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ ५॥
महापद्माटवी तद्वद्रत्नसोपाननिर्मिता ।
सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ ६॥
हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा ।
वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ ७॥
शृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः ।
सभासदो देववरा मध्ये श्रीजगदम्बिका ॥ ८॥
मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा ।
ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ ९॥
चतुर्थमण्डपे चैव जगद्रक्षाविचिन्तनम् ।
मन्त्रिणीसहिता नित्यं करोति जगदम्बिका ॥ १०॥
चिन्तामणिगृहे राजञ्छक्तितत्त्वात्मकैः परैः ।
सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते ॥ ११॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ १२॥
तस्योपरि महादेवो भुवनेशो विराजते ।
या देवी निजलीलार्थं द्विधाभूता बभूव ह ॥ १३॥
सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः ।
कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः ॥ १४॥
पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः ।
हरिणाभीतिपरशून् वरं च निजबाहुभिः ॥ १५॥
दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः ॥ १६॥
शुद्धस्फटिकसङ्काशस्त्रिनेत्रः शीतलद्युतिः ।
वामाङ्गे सन्निषण्णास्य देवी श्रीभुवनेश्वरी ॥ १७॥
नवरत्नगणाकीर्णकाञ्चीदामविराजिता ।
तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणा ॥ १८॥
कनच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा ।
ललाटकान्तिविभवविजितार्थसुधाकरा ॥ १९॥
बिम्बकान्तितिरस्कारिरदच्छदविराजिता ।
लसत्कुङ्कुमकस्तुरीतिलकोद्भासितानना ॥ २०॥
दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका ।
उद्यत्कविसमस्वच्छनासाभरणभासुरा ॥ २१॥
चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता ।
पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनी ॥ २२॥
विचित्रविविधाकल्पा कम्बुसङ्काशकन्धरा ।
दाडिमीफलबीजाभदन्तपङ्क्तिविराजिता ॥ २३॥
अनर्घ्यरत्नघटितमुकुटाञ्चितमस्तका ।
मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा ॥ २४॥
कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना ।
जाह्नवीसलिलावर्तशोभिनाभिविभूषिता ॥ २५॥
माणिक्यशकलाबद्धमुद्रिकाङ्गुलिभूषिता ।
पुण्डरीकदलाकारनयनत्रयसुन्दरी ॥ २६॥
कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा ।
रत्नकिङ्किणिकायुक्तरत्नकङ्कणशोभिता ॥ २७॥
मणिमुक्तासरापारलसत्पदकसन्ततिः ।
रत्नाङ्गुलिप्रविततप्रभाजाललसत्करा ॥ २८॥
कञ्चुकीगुम्फितापारनानारत्नततिद्युतिः ।
मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता ॥ २९॥
सुवृत्तनिबिडोत्तुङ्गकुचभारालसा शिवा ।
वरपाशाङ्कुशाभीतिलसद्बाहुचतुष्टया ॥ ३०॥
सर्वशृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी ।
सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ ३१॥
निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी ।
कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ ३२॥
नानासखीभिर्दासीभिस्तथा देवाङ्गनादिभिः ।
सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ ३३॥
इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता ।
लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ ३४॥
बुद्धिर्मेधा स्मृतिर्लक्ष्मीर्मूर्तिमत्योऽङ्गनाः स्मृताः ।
जया च विजया चैवाप्यजिता चापराजिता ॥ ३५॥
नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नव ।
पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ ३६॥
यस्यास्तु पार्श्वभागे स्तो निधी तौ शङ्खपद्मकौ ।
नवरत्नवहा नद्यस्तथा वै काञ्चनस्रवाः ॥ ३७॥
सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः ।
सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ ३८॥
सा देवी भुवनेशानी तद्वामाङ्के विराजते ।
सर्वेशत्वं महेशस्य यत्सङ्गादेव नान्यथा ॥ ३९॥
चिन्तामणिगृहस्यास्य प्रमाणं शृणु भूमिप ।
सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ ४०॥
तदुत्तरे महाशालाः पूर्वस्माद्द्विगुणाः स्मृताः ।
अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ ४१॥
सङ्कोचश्च विकासश्च जायतेऽस्य निरन्तरम् ।
पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ ४२॥
शालानां चैव सर्वेषां सर्वकान्तिपरावधि ।
चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ ४३॥
ये ये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः ।
देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ ४४॥
श्रीदेव्यास्ते च सर्वेऽपि व्रजन्त्यत्रैव भूमिप ।
देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ ४५॥
ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा ।
घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ ४६॥
स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः ।
द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ ४७॥
आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः ।
मनोरथफला वृक्षा वाप्यः कूपास्तथैव च ॥ ४८॥
यथेष्टपानफलदा न न्यूनं किञ्चिदस्ति हि ।
न रोगपलितं वापि जरा वापि कदाचन ॥ ४९॥
न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा ।
सर्वे युवानः सस्त्रीका सहस्रादित्यवर्चसः ॥ ५०॥
भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् ।
केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ ५१॥
सरूपतां गताः केचित्सार्ष्टितां च परे गताः ।
या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ ५२॥
समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् ।
सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ ५३॥
महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् ।
कारणब्रह्मरूपां तां मायाशबलविग्रहाम् ॥ ५४॥
इत्थं राजन् मया प्रोक्तं मणिद्वीपं महत्तरम् ।
न सूर्यचन्द्रौ नो विद्युत्कोटयोऽग्निस्तथैव च ॥ ५५॥
एतस्य भासा कोट्यंशकोट्यंशेनापि ते समाः ।
क्यचिद्विद्रुमसकाशं क्वचिन्मरकतच्छवि ॥ ५६॥
विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् ।
विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ ५७॥
क्वचित्सिन्दूरनीलेन्द्रमाणिक्यसदृशच्छवि ।
हीरसारमहागर्भधगद्धगितदिक्तटम् ॥ ५८॥
कान्त्या दावानलसमं तप्तकाञ्चनसन्निभम् ।
क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्रचित् ॥ ५९॥
रत्नशृङ्गिसमायुक्तं रत्नप्राकारगोपुरम् ।
रत्नपत्रै रत्नफलैर्वक्षैश्च परिमण्डितम् ॥ ६०॥
नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् ।
कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ ६१॥
सुरम्यरमणीयाम्बुलक्षावधिसरोवृतम् ।
तन्मध्यभागविलसद्विकचद्रत्नपङ्कजैः ॥ ६२॥
सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् ।
मन्दमारुतसम्भिन्नचलद्द्रुमसमाकुलम् ॥ ६३॥
चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम् ।
रत्नप्रभाभिरभितो धगद्धगितदिक्तटम् ॥ ६४॥
वृक्षवातमहागन्धवातवातसुपूरितम् ।
धूपधूपायितं राजन् मणिदीपायुतोज्ज्वलम् ॥ ६५॥
मणिजालकसच्छिद्रतरलोदरकान्तिभिः ।
दिङ्मोहजनकं चैतद्दर्पणोदरसंयुतम् ॥ ६६॥
ऐश्वर्यस्य समग्रस्य शृङ्गारस्याखिलस्य च ।
सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य वै ॥ ६७॥
पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च ।
सकलाया दयायाश्च समाप्तिरिह भूपते ॥ ६८॥
राज्ञ आनन्दमारभ्य ब्रह्मलोकान्तभूमिषु ।
आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ ६९॥
इति ते वर्णितं राजन् मणिद्वीपं महत्तरम् ।
महादेव्याः परं स्थानं सर्वलोकोत्तमोत्तमम् ॥ ७०॥
एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति ।
प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ ७१॥
अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः ।
भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि ॥ ७२॥
नवीनगृहनिर्माणे वास्तुयागे तथैव च ।
पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ ७३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां द्वादशस्कन्धे
मणिद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ १२.१२॥
१२.१३ त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।
व्यास उवाच ।
इति ते कथितं भूप यद्यत्पृष्टं त्वयानघ ।
नारायणेन यत्प्रोक्तं नारदाय महात्मने ॥ १॥
श्रुत्वैतत्तु महादेव्याः पुराणं परमाद्भुतम् ।
कृतकृत्यो भवेन्मर्त्यो देव्याः प्रियतमो हि सः ॥ २॥
कुरु चाम्बामखं राजन् स्वपित्रुद्धरणाय वै ।
खिन्नोऽसि येन राजेन्द्र पितुर्ज्ञात्वा तु दुर्गतिम् ॥ ३॥
गृहाण त्वं महादेव्या मन्त्रं सर्वोत्तमोत्तमम् ।
यथाविधिविधानेन जन्मसाफल्यदायकम् ॥ ४॥
सूत उवाच ।
तच्छ्रुत्वा नृपशार्दूलः प्रार्थयित्वा मुनीश्वरम् ।
तस्मादेव महामन्त्रं देवीप्रणवसंज्ञकम् ॥ ५॥
दीक्षाविधिं विधानेन जग्राह नृपसत्तमः ।
तत आहूय धौम्यादीन्नवरात्रसमागमे ॥ ६॥
अम्बायज्ञं चकाराशु वित्तशाढ्यविवर्जितः ।
ब्राह्मणैः पाठयामास पुराणं त्वेतदुत्तमम् ॥ ७॥
श्रीदेव्यग्रेऽम्बिकाप्रीत्यै देवीभागवतं परम् ।
ब्राह्मणान्भोजयामासाप्यसङ्ख्यातान्सुवासिनीः ॥ ८॥
कुमारीर्वटुकादींश्च दीनानाथांस्तथैव च ।
द्रव्यप्रदानैस्तान्सर्वान् सन्तोष्य वसुधाधिपः ॥ ९॥
समाप्य यज्ञं संस्थाने संस्थितो यावदेव हि ।
तावदेव हि चाकाशान्नारदः समवातरत् ॥ १०॥
रणयन्महतीं वीणां ज्वलदग्निशिखोपमः ।
ससम्भमः समुत्थाय दृष्ट्वा तं नारदं मुनिम् ॥ ११॥
आसनाद्युपचारैश्च पूजयामास भूमिपः ।
कृत्वा तु कुशलप्रश्नं पप्रच्छागमकारणम् ॥ १२॥
राजोवाच ।
कुत आगमनं साधो ब्रूहि किं करवाणि ते ।
सनाथोऽहं कृतार्थोऽहं त्वदागमनकारणात् ॥ १३॥
इति राज्ञो वचः श्रुत्वा प्रोवाच मुनिसत्तमः ।
अद्याश्चर्यं मया दृष्टं देवलोके नृपोत्तम ॥ १४॥
तन्निवेदयितुं प्राप्तस्त्वत्सकाशे सुविस्मितः ।
पिता ते दुर्गतिं प्राप्तो निजकर्मविपर्ययात् ॥ १५॥
स एवायं दिव्यरूपवपुर्भूत्वाधुनैव हि ।
देवदेवैः स्तुतः सम्यगप्सरोभिः समन्ततः ॥ १६॥
विमानवरमारुह्य मणिद्वीपं गतोऽभवत् ।
देवीभागवतस्यास्य श्रवणोत्थफलेन च ॥ १७॥
अम्बामखफलेनापि पिता ते सुगतिं गतः ।
धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ॥ १८॥
नरकादुद्धृतस्तातस्त्वया तु कुलभूषण ।
देवलोके स्फीतकीर्तिस्तवाद्य विपुलाभवत् ॥ १९॥
सूत उवाच ।
नारदोक्तं समाकर्ण्य प्रेमगद्गदितान्तरः ।
पपात पादाम्बुजयोर्व्यासस्याद्भुतकर्मणः ॥ २०॥
तवानुग्रहतो देव कृतार्थोऽहं महामुने ।
किं मया प्रतिकर्तव्यं नमस्कारादृते तव ॥ २१॥
अनुग्राह्यः सदैवाहमेवमेव त्वया मुने ।
इति राज्ञो वचः श्रुत्वाप्याशीर्भिरभिनन्द्य च ॥ २२॥
उवाच वचनं श्लक्ष्णं भगवान् बादरायणः ।
राजन्सर्वं परित्यज्य भज देवीपदाम्बुजम् ॥ २३॥
देवीभागवतं चैव पठ नित्यं समाहितः ।
अम्बामखं सदा भक्त्या कुरु नित्यमतन्द्रितः ॥ २४॥
अनायासेन तेन त्वं मोक्ष्यसे भवबन्धनात् ।
सन्त्यन्यानि पुराणानि हरिरुद्रमुखानि च ॥ २५॥
देवीभागवतस्यास्य कलां नार्हन्ति षोडशीम् ।
सारमेतत्पुराणानां वेदानां चैव सर्वशः ॥ २६॥
मूलप्रकृतिरेवैषा यत्र तु प्रतिपाद्यते ।
समं तेन पुराणं स्यात्कथमन्यन्नृपोत्तम ॥ २७॥
पाठे वेदसमं पुण्यं यस्य स्याज्जनमेजय ।
पठितव्यं प्रयत्नेन तदेव विबुधोत्तमैः ॥ २८॥
इत्युक्त्वा नृपवर्यं तं जगाम मुनिराट् ततः ।
जग्मुश्चैव यथास्थानं धौम्यादिमुनयोऽमलाः ॥ २९॥
देवीभागवतस्यैव प्रशंसां चक्रुरुत्तमाम् ।
राजा शशास धरणीं ततः सन्तुष्टमानसः ।
देवीभागवतं चैव पठच्छृण्वन्तिरन्तरम् ॥ ३०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां द्वादशस्कन्धे
जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं
स्वपित्रुद्धारवर्णनं नाम त्रयोदशोऽध्यायः ॥ १२.१३॥
१२.१४ चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।
सूत उवाच ।
अर्धश्लोकात्मकं यत्तु देवीवक्त्राब्जनिर्गतम् ।
श्रीमद्भागवतं नाम वेदसिद्धान्तबोधकम् ॥ १॥
उपदिष्टं विष्णुवे यद्वटपत्रनिवासिने ।
शतकोटिप्रविस्तीर्णं तत्कृतं ब्रह्मणा पुरा ॥ २॥
तत्सारमेकतः कृत्वा व्यासेन शुकहेतवे ।
अष्टादशसहस्रं तु द्वादशस्कन्धसंयुतम् ॥ ३॥
देवीभागवतं नाम पुराणं ग्रथितं पुरा ।
अद्यापि देवलोके तद्बहुविस्तीर्णमस्ति हि ॥ ४॥
नानेन सदृशं पुण्यं पवित्रं पापनाशनम् ।
पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ॥ ५॥
पौराणिकं पूजयित्वा वस्त्राद्याभरणादिभिः ।
व्यासबुद्ध्या तन्मुखात्तु श्रुत्वैतत्समुपोषितः ॥ ६॥
लिखित्वा निजहस्तेन लेखकेनाथवा मुने ।
प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ॥ ७॥
दद्यात्पौराणिकायाथ दक्षिणां च पयस्विनीम् ।
सालङ्कृतां सवत्सां च कपिलां हेममालिनीम् ॥ ८॥
भोजयेद्ब्राह्मणानन्तेऽप्यध्यायपरिसम्मितान् ।
सुवासिनीस्तावतीश्च कुमारीर्बटुकैः सह ॥ ९॥
देवीबुद्ध्या पूजयेत्तान्वसनाभरणादिभिः ।
पायसान्नवरेणापि गन्धस्रक्कुसुमादिभिः ॥ १०॥
पुराणदानेनैतेन भूदानस्य फलं लभेत् ।
इहलोके सुखी भूत्वाप्यन्ते देवीपुरं व्रजेत् ॥ ११॥
नित्यं यः शृणुयाद्भक्त्या देवीभागवतं परम् ।
न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि ॥ १२॥
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ।
विद्यार्थी प्राप्नुयाद्विद्यां कीर्तिमण्डितभूतलः ॥ १३॥
वन्ध्या वा काकवन्ध्या वा मृतवन्ध्या च याङ्गना ।
श्रवणादस्य तद्दोषान्निवर्तेत न संशयः ॥ १४॥
यद्गेहे पुस्तकं चैतत्पूजितं यदि तिष्ठति ।
तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती ॥ १५॥
नेक्षन्ते तत्र वेतालडाकिनीराक्षसादयः ।
ज्वरितं तु नरं स्पृष्ट्वा पठेदेतत्समाहितः ॥ १६॥
मण्डलान्नाशमाप्नोति ज्वरो दाहसमन्वितः ।
शतावृत्त्यास्य पठनात्क्षयरोगो विनश्यति ॥ १७॥
प्रतिसन्ध्यं पठेद्यस्तु सन्ध्यां कृत्वा समाहितः ।
एकैकमस्य चाध्यायं स नरो ज्ञानवान्भवेत् ॥ १८॥
शकुनांश्चैव वीक्षेत कार्याकार्येषु चैव हि ।
तत्प्रकारः पुरस्तात्तु कथितोऽस्ति मया मुने ॥ १९॥
नवरात्रे पठेन्नित्यं शारदीयेऽतिभक्तितः ।
तस्याम्बिका तु सन्तुष्टा ददातीच्छाधिकं फलम् ॥ २०॥
वैष्णवैश्चैव शैवैश्च रमोमा प्रीयते सदा ।
सौरैश्च गाणपत्यैश्च स्वेष्टशक्तेश्च तुष्टये ॥ २१॥
पठितव्यं प्रयत्नेन नवरात्रचतुष्टये ।
वैदिकैर्निजगायत्रीप्रीतये नित्यशो मुने ॥ २२॥
पठितव्यं प्रयत्नेन विरोधो नात्र कस्यचित् ।
उपासना तु सर्वेषां शक्तियुक्तास्ति सर्वदा ॥ २३॥
तच्छक्तेरेव तोषार्थं पठितव्यं सदा द्विजैः ।
स्त्रीशूद्रो न पठेदेतत्कदापि च विमोहितः ॥ २४॥
शृणुयाद्द्विजवक्त्रात्तु नित्यमेवेति च स्थितिः ।
किं पुनर्बहुनोक्तेन सारं वक्ष्यामि तत्त्वतः ॥ २५॥
वेदसारमिदं पुण्यं पुराणं द्विजसत्तमाः ।
वेदपाठसमं पाठे श्रवणे च तथैव हि ॥ २६॥
सच्चिदानन्दरूपां तां गायत्रीप्रतिपादिताम् ।
नमामि ह्रींमयीं देवीं धियो यो नः प्रचोदयात् ॥ २७॥
इति सूतवचः श्रुत्वा नैमिषीयास्तपोधनाः ।
पूजयामासुरत्युच्चैः सूतं पौराणिकोत्तमम् ॥ २८॥
प्रसन्नहृदयाः सर्वे देवीपादाम्बुजार्चकाः ।
निर्वृतिं परमां प्राप्ताः पुराणस्य प्रभावतः ॥ २९॥
नमश्चक्रुः पुनः सूतं क्षमाप्य च मुहुर्मुहुः ।
संसारवारिधेस्तात प्लवोऽस्माकं त्वमेव हि ॥ ३०॥
इति स मुनिवराणामग्रतः श्रावयित्वा
सकलनिगमगुह्यं दौर्गमेतत्पुराणम् ।
नतमथ मुनिसङ्घं वर्धयित्वाऽऽशिषाम्बा-
चरणकमलभृङ्गो निर्जगामाथ सूतः ॥ ३१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां द्वादशस्कन्धे श्रीमद्देवीभागवतमहापुराण-
श्रवणफलवर्णनं नाम चतुर्दशोऽध्यायः ॥ १२.१४॥
॥ इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धः समाप्तः ॥
॥ इति श्रीमद्देवीभागवतमहापुराणे उत्तरार्धः सम्पूर्णः ॥
॥ इति श्रीमद्देवीभागवतमहापुराणं समाप्तम् ॥
Encoded and proofread by Vishwas Bhide