मुद्गलपुराणं खण्डः १ वक्रतुण्डचरितम्

मुद्गलपुराणं खण्डः १ वक्रतुण्डचरितम्

॥ मुद्गलपुराणं खण्डः १॥ ॥ अथ श्रीमुद्गलपुराणे प्रथमः खण्डः प्रारभ्यते ॥ (Page खं. १ अ. १ पान १) ॥ ॐ नमः श्रीस्वानन्देशगणेशाय पूर्णयोगात्मने ॥

१.१ शौनकसूतसंवादो नाम प्रथमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ अथ श्रीमन्मौद्गलपुराणप्रारम्भः । ध्याये स्थिरेण चित्तेन गणेशं सर्वसिद्धिदम् । बुद्धिप्रकाशकं पूर्णं योगिनां हृदि संस्थितम् ॥ १॥ जितं तेनाखिलं नानाब्रह्मवर्णनवर्णितम् । नानाजगत्समूहं वै गणेशेनोभयं कृतम् ॥ २॥ भक्तसंरक्षणार्थाय निर्गुणः सगुणस्तु यः । नानावतारवान्सोऽपि नानाभेदधरो बभौ ॥ ३॥ तस्मै नमो गणेशाय नरकुञ्जररूपिणे । सगुणो नररूपो यो निर्गुणो गजवक्त्रकः ॥ ४॥ नमः शिवाय शान्ताय विष्णवे प्रभविष्णवे । सूर्याय शक्तये चैव चतुर्धा ते विभागिने ॥ ५॥ ब्रह्माणं शेषनागं च नरं नारायणं सदा । नमामि भावयुक्तोऽहं पुराणपुरुषं परम् ॥ ६॥ देवानां योगिनां चैव महर्षीणां महात्मनाम् । व्रजामि शरणं नित्यं पुराणज्ञानसिद्धये ॥ ७॥ पुराकल्पेऽभवन्विप्राः शौनकाद्याः सुसाधनाः । कलिदोषभयात्सर्वे नैमिषारण्यमाश्रिताः ॥ ८॥ तस्मिन्कलियुगावासं ज्ञात्वादौ ब्रह्मणो मुखात् । मुनिधर्मप्रसिद्ध्यर्थं कर्मज्ञान प्रसिद्धये ॥ ९॥ अन्यच्च ब्रह्मणा प्रोक्तं पुराणश्रवणं सदा । कलिदोषहरं पुण्यं तदर्थमभवन्यताः ॥ १०॥ कस्मिंश्चित्समये सूतो लोमहर्षण आययौ । मुनीनां दर्शनार्थाय पुराणज्ञो विचक्षणः ॥ ११॥ नैमिषारण्यशोभां च पश्यंस्तत्र सुविस्मितः । अहो धन्यं महारण्यं कलिदोषविवर्जितम् ॥ १२॥ दृष्टा वै मुनयस्तेन सुप्रसन्नाननाम्बुजाः । नित्यनैमित्तिककराः स्वधर्माचरणप्रियाः ॥ १३॥ पञ्चयज्ञरतास्तत्र वेदाध्ययनकारिणः । ब्रह्मतेजःसमायुक्ता ज्वलन्तः पावका इव ॥ १४॥ विनाऽस्तेन यथा सूर्यो योगिनो वेदवेदिनः । तारकाः सर्वजन्तूनां शौनकाद्या महर्षयः ॥ १५॥ तत्रागत्य महाभागः स सूतो रोमहर्षणः । साष्टाङ्गं प्रणतः पूर्वं परमाह्लादसंयुतः ॥ १६॥ अभिवाद्य मुनीन्सर्वान्भक्त्या नम्रात्मकन्धरः । प्राञ्जलिः प्रयतो भूत्वा प्रोवाच मधुरं वचः ॥ १७॥ सूत उवाच । वंशो धन्यो मदीयोऽद्य पितरौ च कुलं वयः । विद्या व्रतं तपो ज्ञानं धन्यं सर्वं मुनीश्वराः ॥ १८॥ भवतां पादपद्मं च सर्वाशुभविनाशनम् । काङ्क्षितं यत्सदा देवैर्मया दृष्टं सुपुण्यतः ॥ १९॥ साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा ब्रह्मवित्तमाः । येषां दर्शनमात्रेण कृतकृत्याश्च जन्तवः ॥ २०॥ कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं न संशयः । (Page खं. १ अ. १ पान २) भवतां दर्शनेनैव मुक्तोऽहं भवसागरात् ॥ २१॥ इति ब्रुवाणं साधुं तं सूतं वै रोमहर्षणम् । प्रत्यूचुर्ब्राह्मणाः सर्वे भक्तियुक्तं तपोधनाः ॥ २२॥ ब्राह्मणा ऊचुः । सूत सूत महाभाग स्थीयतां पुण्यवर्धन । तव दर्शनमात्रेण सन्तुष्टाः स्मो वयं खलु ॥ २३॥ इत्युक्तस्तत्र सूतस्तु मुनिदत्ते शुभासने । समासीनो महाबुद्धिः साञ्जलिः सन्प्रतापवान् ॥ २४॥ सुखासीनं च सूतं तं दृष्ट्वा तत्र महामुनिः । भृगुप्रेष्ठश्च मुख्योऽसौ मुनीनां प्रत्युवाच ह ॥ २५॥ शौनक उवाच । सूत सूत महाभाग सर्वज्ञ सुखदायक । आराधितस्त्वया प्राज्ञः कृष्णद्वैपायनो महान् ॥ २६॥ नारायणावतारो यः साक्षान्नारायणः स्वयम् । वेदस्य भागकारी स पुराणानां विभागकृत् ॥ २७॥ त्वं वै तस्मात्पुराणानि सेतिहासानि वेत्सि च । तेन सर्वज्ञता जाता तवेयं पुण्यवर्धन ॥ २८॥ वयं भीताश्च कालेन कलिकल्मषरूपिणा । नैमिषारण्यमास्थाय स्थिताज्ञप्ताः स्वयम्भुवा ॥ २९॥ तत्र विश्रान्तिदाता वै त्वं प्राप्तोऽसि महाद्युतिः । पुराणानां प्रवक्ता च पुण्यवान्पुण्यवर्धनः ॥ ३०॥ यत्र पौराणिकी गाथा कलिस्तत्र न तिष्ठति । तस्मात्कारुण्यभावेन पुराणं ब्रुहि नः प्रभो ॥ ३१॥ तव यद्दर्शनं जातं महापुण्येन सत्तम । धन्यं धन्यं महाभाग साक्षात्संशयछित्स्वयम् ॥ ३२॥ छेदेन संशयानां वै सतां त्वं रोमहर्षणम् । करोषि तेन ते नाम रोमहर्षण इत्यहो ॥ ३३॥ इति पृष्टो महात्मा स शौनकेन महर्षिणा । संहृष्टः सन्नुवाचेदं वचनं धर्मसंस्कृतम् ॥ ३४॥ सूत उवाच । अद्याऽहं कृतकृत्यो वै कृतोऽनुग्रहकारिणा । सकलं कथयिष्यामि व्यासेन कथितं च यत् ॥ ३५॥ इत्युक्त्वा कथयामास पुराणानि स कृत्स्नशः । नानाख्यानविभक्तानि नानाधर्मयुतानि च ॥ ३६॥ सर्वार्थसाधनान्येव दुःखनाशकराणि च । ब्रह्मभूतप्रदान्येव नानामतयुतानि च ॥ ३७॥ पुराणोपपुराणानि सेतिहासानि भागशः । धर्मार्थकाममोक्षाणां दातृत्वात्पुण्यदानि च ॥ ३८॥ श्रुत्वा श्रुत्वा मुनीन्द्रास्ते हर्षयुक्ता बभूविरे । नित्यं प्रमुदितास्तेन प्रीताः सम्पूर्णभावतः ॥ ३९॥ युगस्योत्क्रमणं तस्य चक्रुस्ते मुनयोऽखिलाः ॥ ४०॥ पुराणेषु च सर्वेषु सेतिहासेषु सर्वतः । नानाभेदमतादीनि श्रुत्वा भ्रान्ता मुनीश्वराः ॥ ४१॥ निश्चयं नाधिगच्छन्ति परं किं सर्वसम्मतम् । तदर्थंं मुनिवर्यस्तं पर्यपृच्छत्स शौनकः ॥ ४२॥ शौनक उवाच । भो भो सूत महाभाग श‍ृणु मे वचनं लघु । पुराणानि च संश्रुत्य भ्रान्ताः स्मो वै महाद्युते ॥ ४३॥ इदं परमिदं नेति त्वया सर्वत्र वर्णितम् । भिन्नं भिन्नं महाबुद्धे तेन नो निश्चयः कथम् ॥ ४४॥ कुत्रापि शङ्करः श्रेष्ठः कुत्र विष्णुस्तथा रविः । शक्तिश्चैव गणेशश्च विराजः कुत्र रूपकम् ॥ ४५॥ कुत्र ब्रह्म च योगश्च ज्ञानं कर्म च कुत्र वै । आत्मा प्राणोऽन्नमित्युक्तं मनो वै परतः परम् ॥ ४६॥ कुत्र बुद्धिर्महाभाग साङ्ख्यं स्वानन्द एव च । (Page खं. १ अ. २ पान ३) इत्यादिमतभेदेन निश्चयो नैव जायते ॥ ४७॥ अतस्त्वं कृपया ब्रूहि वेदशास्त्रार्थ सम्मतम् । सर्वेषां मान्यमेकं च सर्वसंशयनाशनम् ॥ ४८॥ इति पृष्टो महातेजाः शिष्यो व्यासस्य सत्तमः । एकं श्रुतिस्मृतीनां यत् सारं कथितुमारभत् ॥ ४९॥ सूत उवाच । श‍ृणुध्वं मुनयः सर्वे सारं मुद्गलभाषितम् । सर्वश्रुतिस्मृतीनां च सर्वमान्यं विशेषतः ॥ ५०॥ पुरा दक्षाध्वरे जातं यज्ञविध्वंसनं महत् । रुद्रेणागत्य सहसा कृतो विघ्नो महत्तरः ॥ ५१॥ देवाः पराजिताः सर्वे रुद्रैः परमदारुणैः । दक्षमस्तकसञ्छेदो वीरभद्रेण वै कृतः ॥ ५२॥ ब्रह्मणागत्य तत्रासौ सान्त्वितो बहुलोक्तिभिः । शङ्करो जीवयामास दक्षं योगेन तत्त्वतः ॥ ५३॥ यज्ञविध्वंसशोकार्तो दक्षः शापेन मोहितः । अज्ञानावरणेनापि न किञ्चिन्निश्चयं ययौ ॥ ५४॥ तत्राजगाम भगवान् साक्षात्सूर्य इवोदितः । वेदशास्त्रार्थतत्त्वज्ञो योगीन्द्रो मुद्गलो मुनिः ॥ ५५॥ गणेशभक्तप्रवरः सर्ववन्द्यो महायशाः । तपसां कर्मणां साक्षान्निधिरेष सनातनः ॥ ५६॥ तं दृष्ट्वोत्थाय दक्षोऽसौ प्रणनाम महामुनिम् । आसनाद्यैः सुसम्पूज्य वक्तुं समुपचक्रमे ॥ ५७॥ दक्ष उवाच । भो भो मुनीन्द्र वन्द्यस्त्वमाङ्गिरस महाद्युते । यज्ञविध्वंसशोकार्तं मां पालय जडीकृतम् ॥ ५८॥ मुद्गल उवाच । मा चिन्तां कुरु भो दक्ष प्रजापालेन्द्रसत्तम । विघ्नराजं स्मर त्वं वै तेन सर्वं न दुर्लभम् ॥ ५९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शौनकसूतसंवादो नाम प्रथमोऽध्यायः ॥ १.१

१.२ दक्षनन्दिविवादो नाम द्वितीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । दक्षेण मुनिशार्दूलाः श्रुतं मुद्गलभाषितम् । प्रणिपत्य पुनः सोऽपि पप्रच्छ हितकारकम् ॥ १॥ शौनक उवाच । दक्षमुद्गलसंवादं श्रोतुमिच्छामहे वयम् । विस्तरेण समाचक्ष्व सूत सन्तोषकारक ॥ २॥ सूत उवाच । श‍ृणुध्वं मुनयः सर्वे कथां लोकैकपावनीम् । यां श्रुत्वा पुरुषस्येह नान्यत्कृत्यं प्रविद्यते ॥ ३॥ दक्षमुद्गलसंवादं समासेन विवर्णये । सारं सर्वत्र सम्पूर्णं भवरोगविमोचनम् ॥ ४॥ मुद्गलोक्तं वचः श्रुत्वा दक्षः प्रोवाच धर्मवित् । प्राञ्जलिः प्रयतो भूत्वा हृष्टरोमा महायशाः ॥ ५॥ दक्ष उवाच । पुण्यं महन्मेऽस्ति पुरातनं यत्तेनैव जातं तव दर्शनं भोः । मोक्षप्रदं तत्परलोकदं च भोगप्रदं धर्म्यमनन्तपुण्यम् ॥ ६॥ शापेन नष्टो मम सर्वबोधः प्रजापतित्वं प्रगतं मदीयम् । यज्ञस्य भङ्गो विविधं हि कष्टं तत्रैव ते दर्शनमत्र चित्रम् ॥ ७॥ (Page खं. १ अ. २ पान ४) तव दर्शनमात्रेण किञ्चित् स्फूर्तिः समागता । धन्योऽसि योगिनां मध्ये पूतत्वं त्वीदृशं त्वयि ॥ ८॥ कोऽसौ विघ्नपतिः पूर्णः कीदृशः किंस्वभाववान् । कति तस्यावताराश्च कस्यांशो वाऽपि किंस्तवः ॥ ९॥ पूजितो विधिवत्कैश्च किं फलं दत्तवान् परम् । किंविहारश्च कस्मिन्वै लोके वसति स प्रभुः ॥ १०॥ एतत्सर्वं सुविस्तार्य पृच्छते ब्रूहि सादरम् । ज्ञात्वा तं देवदेवेशं भविष्यामि हितावहम् ॥ ११॥ इत्येवं कथयन्तं तं मुनयो विस्मयान्विताः । पप्रच्छुः सकलं तद्वै दक्षचेष्टितमादरात् ॥ १२॥ शौनकाद्या ऊचुः । दक्षः प्रजापतिः साक्षात्कथं मूढत्वमागतः । प्रजापतित्वं तस्यापि कथं नष्टं महात्मनः ॥ १३॥ यज्ञध्वंसः कथं प्राप्तः शम्भुः प्रकुपितः कथम् । एतत्सर्वं सुविस्तार्य ब्रूहि सूत महामते ॥ १४॥ श्रुत्वा मुनिवचो रम्यं कृष्णद्वैपायनस्य च । शिष्यः प्रोवाच मधुरं वचनं सम्प्रहर्षयन् ॥ १५॥ सूत उवाच । श‍ृणु शौनक यत्नेन कथां भुवनपावनीम् । कथयामि यथातथ्यं श्रुतां व्यासमुखेन याम् ॥ १६॥ ब्रह्मणो दश पुत्रा ये तत्र दक्षो महान्प्रभुः । अतः प्रजापतिस्त्राता कृतस्तेन स वेधसा ॥ १७॥ स राज्यं प्राप्य मत्तोऽभूद् गर्वेणैव परिप्लुतः । अहं प्रजापतीनां च श्रेष्ठो राजा न मत्समः ॥ १८॥ एकदा गिरिवर्ये तु कैलासे शङ्करस्य च । दर्शनार्थं गता देवा मुनयः सिद्धकिन्नराः ॥ १९॥ गन्धर्वा नागमुख्याश्च विद्याधर्यप्सरोगणाः । ब्रह्मा विष्णुर्महेन्द्रश्च सर्वे तेन सुसत्कृताः ॥ २०॥ सभामध्ये समासीनाः शङ्करेण च पूजिताः । वामभागे स्थितो विष्णुदक्षिणाङ्गे पितामहः ॥ २१॥ क्रमेण सर्वे देवाश्च यथायोग्यं स्थिता मुने । गणा नन्दिमुखास्तत्र समीपे संस्थिता बभुः ॥ २२॥ तत्र ते मुनयो हृष्टा वसिष्ठाद्याः प्रतुष्टुवुः । नारदप्रमुखाः सर्वे गन्धर्वा ललितं जगुः ॥ २३॥ नृत्यमप्सरसश्चक्रुरेवं सर्वे पुपूजिरे । शङ्करं परिवाराढ्यमानन्दन समन्वितम् ॥ २४॥ कथा नानाविधास्तत्र तेऽकुर्वन् भावपूर्वकम् । तत्राजगाम दक्षः स प्रजापतिपतिः स्वयम् ॥ २५॥ शिवेन मानितस्तत्र वचसा चैव सत्कृतः । नमनं न कृतं तस्मा ईश्वरेण प्रभावतः ॥ २६॥ तेन सङ्कुपितोऽत्यन्तमृचिवान् गर्वमोहितः । श‍ृणुध्वं ये सभाश्रेष्ठा याथातथ्यानुवर्तिनः ॥ २७॥ रुद्रस्य श्वशुरोऽहं वै पुत्रतुल्यो ममाप्ययम् । नमनं न कृतं कस्मात् तस्मात्त्याज्यो महेश्वरः ॥ २८॥ ऐश्वर्यगर्वयुक्तोऽयं स्वधर्मन्यूनतां गतः । देवपङ्क्तो कथं योग्यः पिशाचानामधीश्वरः ॥ २९॥ वर्णाश्रमविहीनोऽयं नग्नो भिक्षाशने रतः । सर्पभूषणसक्तश्च चिताभस्माङ्गलेपनः ॥ ३०॥ व्याघ्राजिनपरीतश्च मुण्डमालाधरः सदा । इत्यादिदोषयुक्तत्वान्न स्पृश्योऽयं महात्मभिः ॥ ३१॥ अशिवः शिवनामा वै वृथेशित्वाभिमानवान् । अतो न भाषणीयोऽयं दोषकारी पिशाचराट् ॥ ३२॥ इति ब्रुवन्तमत्यन्तं स्वयम्भूस्तं निराकरोत् । (Page खं. १ अ. ३ पान ५) न गृहीतं पितुर्वाक्यं क्रोधावेशेन तेन तत् ॥ ३३॥ नानानिन्दायुतं वीक्ष्य भगवान्नन्दिकेश्वरः । उवाच सर्वसान्निध्ये क्रोधेनारक्तलोचनः ॥ ३४॥ नन्दिकेश्वर उवाच । धिक्त्वां व्यर्थं प्रजापाल शिवनिन्दापरायण । शिवतत्त्वं न जानासि मदेनासिक्त दुर्मते ॥ ३५॥ मायाखेलनवानेष तथा तद्दोषवर्जितः । तेनायं शिवतां प्राप्तः कथं निन्दा करोषि रे ॥ ३६॥ शिवनिन्दाकराः शास्त्रे नारका ज्ञानवर्जिताः । अतस्त्वं ज्ञानहीनस्तु भवितास्यपवाक्यतः ॥ ३७॥ निन्दा येनैव वक्त्रेण कृता शम्भोर्महात्मनः । अजास्यो भवितासि त्वं भ्रष्टराज्यो भविष्यसि ॥ ३८॥ इति श्रुत्वा वचः सोऽपि तं पुनः प्रत्युवाच ह । न त्वं जानासि दुर्बुद्धे शङ्करं कर्मदूषितम् ॥ ३९॥ वर्णाश्रमविहीनश्च यस्तिष्ठेत्पुरुषः कदा । पदे पदे महापापो नारकी मरणे भवेत् ॥ ४०॥ तस्माद्यूयं महापापाः शैवाः स्पृश्या न कुत्रचित् । भुवि ये शाङ्करा नित्यं ज्ञानहीना भवन्तु ते ॥ ४१॥ कलौ प्राप्ते च पाखण्डा भविष्यन्ति जटाधराः । शूद्रा नेदं पठिष्यन्ति नग्ना भस्माङ्गलेपनाः ॥ ४२॥ स्त्रीमांसमदिरासक्ता नानाभोगकरास्तथा । नरके वै पतिष्यन्ति शम्भुमार्गपरायणाः ॥ ४३॥ प्रजापतिं प्रभुः साक्षाद् ब्रह्मा तं निरभत्सर्यत् । ततो जगाम स्वगृहं दक्षः क्रोधपरिप्लुतः ॥ ४४॥ सर्वे ते स्वस्थलं जग्मुदुःखितास्तेन वै कृताः । शिवोऽपि दुःखसंयुक्तो म्लानतां परमां गतः ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दक्षनन्दिविवादो नाम द्वितीयोऽध्यायः ॥ १.२

१.३ पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । श‍ृणुध्वं मुनयः सर्वे स्थिरीकृत्य मनश्चलम् । विघ्नेशभक्तिहीना ये विघ्नाक्रान्ता भवन्ति ते ॥ १॥ दक्षोऽभूत् स्वगृहं गत्वा क्रोधामर्षसमन्वितः । न किञ्चित् सुखवान् विप्राः शूलयुक्तो यथा नरः ॥ २॥ शिक्षां शिवस्य कर्तुं स हृदि व्यवसितोऽभवत् । न किञ्चित्प्राप्तवांस्तत्र विचारं भृशदुःखितः ॥ ३॥ एतस्मिन्नन्तरे तत्र नारदो दिव्यदर्शनः । आजगाम महातेजा दक्षेणैव सुसत्कृतः ॥ ४॥ आसनं पाद्यमर्घ्यं च दत्वा सम्यक् प्रपूजितः । पृष्टः स कुशलं प्रश्नैःप्रसन्नो नारदोऽब्रवीत् ॥ ५॥ नारद उवाच । दक्ष किं दुःखितस्त्वं ते मुखं म्लानतया युतम् । कथयस्व महातेजाः प्रजापतिपतिर्भवान् ॥ ६॥ दक्ष उवाच । श‍ृणु नारद येनाहं दुःखितो म्लानतां गतः । (Page खं. १ अ. ३ पान ६) शिवेनासत्कृतस्तत्र सभायां सर्वसन्निधौ ॥ ७॥ दर्पणैवावृतः शम्भुस्तस्य दर्पहृतिः कथम् । तादृशं ब्रूहि मे शीघ्रं सर्वार्थज्ञ विचक्षण ॥ ८॥ नारद उवाच । बृहस्पतिसवं दक्ष कुरु त्वं सर्वभावनः । यज्ञभागविहीनं तं तत्र शम्भुं कुरुष्व भोः ॥ ९॥ यज्ञभागेन हीनोऽयं देवपङ्क्तिबहिष्कृतः । पिशाचेशो भवेच्छम्भुर्देवत्वं तत्र संहृतम् ॥ १०॥ प्रजापतिपतिः साक्षाद्भवान्सर्वत्र सम्मतः । करिष्यसि यथा पूर्वं पश्चाद्वै तादृशं भवेत् ॥ ११॥ एवं परम्पराप्राप्तं तस्यैश्वर्य प्रकाशितम् । इति मे मनसि प्राप्तं यथेच्छसि तथा कुरु ॥ १२॥ इत्युक्त्वा नारदस्तस्माद् गतो ब्रह्माण्डमण्डले । वीणागानरतो भूत्वा योगी ब्रह्मणि तत्परः ॥ १३॥ दक्षोऽपि हर्षितो जातः सत्यं मानितवानभूत् । बृहस्पतिसवं कर्तुं समारेभे स तत्क्षणात् ॥ १४॥ तत्राजगाम भगवान् विष्णुर्देववरः प्रभुः । आजग्मुर्देवगन्धर्वा नानावाहनशोभिताः ॥ १५॥ तत्राजग्मुर्द्विजाः सर्वे नानातत्त्वार्थकोविदाः । जामातरः सपत्नीकाः कश्यपप्रमुखास्तथा ॥ १६॥ यथोद्दिष्टं चकारासौ दक्षः परमहर्षितः । गणनाथविहीनं तं यज्ञं शङ्करवर्जितम् ॥ १७॥ गणेशस्यास्मृतिर्जाता सर्वेषां भाविगौरवात् । दधीचिप्रमुखास्तत्र शैवाः क्रोधेन पूरिताः ॥ १८॥ दधीचिस्तत्र तूवाच क्रोधावेशसमन्वितः । श‍ृणु दक्ष महाप्राज्ञ हितं वचनमुत्तमम् ॥ १९॥ शङ्करेण विहीनोऽयं यज्ञो नैव प्रशोभते । प्राणहीनो यथा देहस्तथैवासौ न राजते ॥ २०॥ इति श्रुत्वा वचस्तस्य दक्षो रोषसमन्वितः । उवाच गर्वमोहेन शापेनैव विमोहितः ॥ २१॥ शिवोऽशिवरूपश्च पिशाचानामधीश्वरः । वर्णाश्रमविहीनत्वान्न योग्यो यज्ञ कर्मणि ॥ २२॥ यत्र लक्ष्मीपतिः साक्षाद् भगवान्मङ्गलालयः । तत्र किं न्यूनतां याति मिथ्यावाचं तु मा वद ॥ २३॥ श्रुत्वा तस्य वचः क्रूरं दधीचिः पुनरब्रवीत् । शिवनिन्दां करोषि त्वमज्ञानेन विमोहितः ॥ २४॥ यज्ञनाशो भवेद् दक्ष शङ्करद्वेषतस्तव । न सिद्धिं लभसे त्वं तु नष्टभाग्यो न संशयः ॥ २५॥ अत्र ये ब्राह्मणाद्या वै वर्णा नाना समागताः । सर्वे कलियुगे पापाः पाखण्डाश्च भवन्तु ते ॥ २६॥ स्वधर्महीनतां प्राप्य नरकेऽन्ते पचन्तु वै । विष्णुः प्रमोदयुक्तोऽत्र स वै पाखण्ड कारकः ॥ २७॥ कलौ देवो भवेन्नित्यं पाखण्डानां सहायवान् । पाखण्डप्रियवज्जन्तुः कलौ मलकरः सदा ॥ २८॥ शिवहीने तथा यज्ञे मुख्यो जातो हि केशवः । वेदबाह्यं स्वयं कर्म कुरुते तेन शापितः ॥ २९॥ सर्वे देवाश्च शीघ्रं हि भवितारः पराजिताः । मुनयो दुःखसंयुक्ता एवं शप्त्वा गतो मुनिः ॥ ३०॥ तमनुप्रययुः सर्वे शैवाः परमधार्मिकाः । गौतमो गालवश्चैव वामदेवो द्वितस्त्रितः ॥ ३१॥ मार्कण्डेयो ह्यगस्त्याद्याः क्रोधयुक्ता महर्षयः । यज्ञोऽयं नावलोक्यो वै वेदबाह्यक्रियात्मकः ॥ ३२॥ (Page खं. १ अ. ३ पान ७) विष्णुनान्ये ततः सर्वे सान्त्विताः संस्थिताः पदे । देवता मुनयो वर्णा द्रष्टुं यज्ञं प्रहर्षिताः ॥ ३३॥ भृग्वादिमुनिभिस्तत्र यज्ञारम्भः कृतोऽभवत् । यथाविधि यथाभागं देवास्तत्राश्रिता मखे ॥ ३४॥ दक्षो हृष्टोऽभवत् तत्र यजमानः सुमन्दधीः । वेदकल्पानुसारेण मुनयस्तन्विरे मखम् ॥ ३५॥ एतस्मिन्नन्तरे तत्र कैलासे नारदो गतः । शिवया सह शम्भुं च प्रणतोऽभूत्स भाविकः ॥ ३६॥ सतीं प्रति प्रहस्याह नारदः कलहप्रियः । देवि दक्षाध्वरे कस्माद् गमनं न कृतं त्वया ॥ ३७॥ हृष्टपुष्टजनाः सर्वे महोत्सवसुमोदिताः । भगिन्यस्तत्र ते रेजुः पतिभिः सह मोदिताः ॥ ३८॥ पितृभर्तृगृहे स्त्रीणां मानामानं न विद्यते । इत्युक्त्वा नारदस्तस्मात्प्रययौ कौतुकी मुनिः ॥ ३९॥ गते मुनौ सती तत्र मानसे दुःखिता भृशम् । शङ्करं प्रणिपत्याह हृदयेन विदूयता ॥ ४०॥ नीलकण्ठ नमस्तुभ्यं शङ्कराय शिवाय च । सगुणाय मृडायैव निर्गुणाय नमो नमः ॥ ४१॥ गन्तुमिच्छा त्वया सार्धमस्ति मे दक्षमन्दिरे । तत्र यज्ञोत्सवो नाथ प्रसीद प्रार्थये विभो ॥ ४२॥ एवं श्रुत्वा भारतीं तां सती शम्भुः सुबोधयन् । स्मयमानश्च तामूचे किमिदं भाषसे प्रिये ॥ ४३॥ मद्द्वेषी जनको दक्षस्तव तेन निमन्त्रितः । नाहं तस्मान्न गन्तव्यं विपरीतं भविष्यति ॥ ४४॥ भवती च महामाया मायिकोऽहं न संशयः । सृज त्वं मुनिदेवादीनत्र यज्ञं करोम्यहम् ॥ ४५॥ श्रुत्वा शम्भुवचो रम्यं हृदयेन विदूयता । उवाच दुःखिता देवी ममाज्ञां देहि शङ्कर ॥ ४६॥ न किञ्चिदुक्तवान् शम्भुस्तदा देवी पितुर्गृहे । न प्रयोजनमाज्ञाया विचार्यैवं जगाम च ॥ ४७॥ एतज्ज्ञात्वा महाऽऽश्चर्यं विस्मितेन शिवेन च । भावि यद्भविता तद्वै विमानं प्रेषितं वरम् ॥ ४८॥ विमानमास्थाय शक्तिराजगाम विहायसा । पितुर्गृहं महाभागा मानिता सर्वबन्धुभिः ॥ ४९॥ मात्रा पित्रा स्वसृभिस्तु सत्कृता हर्षितात्मभिः । दक्षस्तत्र प्रमोदेन जगाद तनयां प्रति ॥ ५०॥ आगता त्वं महाभागे यज्ञोऽयं शोभितस्त्वया । श्रुत्वा पितृवचो रम्यं तं सा प्रोवाच दुःखिता ॥ ५१॥ सत्युवाच । शोभयामि कथं यज्ञं नाहूता भवतात्र भोः । अनाहूताऽगता चाहं त्वदीये यजनालये ॥ ५२॥ ततः स कुपितो दक्ष उवाच श‍ृणु पुत्रिके । मदीयो बहुलो दोषस्तेन त्वां दत्तवान्भ्रमात् ॥ ५३॥ पिशाचभूतराजाय पित्रा मे कथितं कृतम् । वर्णाश्रमविहीनाय वृथेश्वरपदाय च ॥ ५४॥ तस्य दोषेण देवि त्वं नाहूता यज्ञकर्मणि । स्वागतं ते तथाप्यद्य तिष्ठ त्वं मत्समीपगा ॥ ५५॥ सूत उवाच । पितुर्वचनमाकर्ण्य शिवनिन्दायुतं महत् । क्रोधसन्तप्तगात्रा सा पश्यन्ती यज्ञमन्दिरम् ॥ ५६॥ अरुद्रभागसंयुक्तं यज्ञं दृष्ट्वा चुकोप ह । उवाच किं कृतं तात वेदबाह्यक्रियात्मकः ॥ ५७॥ रुद्रभागविहीनोऽयं यज्ञो नैव फलप्रदः । शिवनिन्दां करोषि त्वं ह्यशिवोऽसि न संशयः ॥ ५८॥ (Page खं. १ अ. ४ पान ८) शिवेति द्व्यक्षरं ब्रह्म निगुर्णं गुणधारणम् । न जानासि यतस्त्वं भोस्तेनाहं दुःखिता भृशम् ॥ ५९॥ तव देहात समुद्भूतो मम देहस्त्वयं पितः । न योग्यः शिवनिन्दायाः कारणात् तं त्यजाम्यहम् ॥ ६०॥ इत्युक्त्वा सा हृदि ध्याने नीत्वा तं शङ्करं प्रभुम् । योगाग्निना समुज्ज्वाल्य देहं धाम्नि गताऽभवत् ॥ ६१॥ पुनः स्वमायया देवी हिमाचलसुताऽभवत् । शिवध्यानपरा साक्षात्तं लेभे सा पुनः पतिम् ॥ ६२॥ तपस्तप्तं सुतीव्रं यत्तेन चात्मवशेन सा । लेभे मुदं शिवेनापि पार्वती प्रेमविह्वला ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः ॥ १.३

१.४ दक्षचरितं नाम चतुर्थोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । कैलासशिखरे रम्ये शिवश्चिन्तापरोऽभवत् । अनाहूता गता देवी द्विट्गृहे किं भविष्यति ॥ १॥ वटमूले समासीनो नन्दिकेशादिभिर्वृतः । योगिभिः सेवितस्तत्र कथा नाना प्रवर्तयन् ॥ २॥ नानाऽपशकुनं तत्र बभूवातिभयानकम् । स्तुतिभिस्तेन सर्वे ते उत्पाताशङ्कया भृशम् ॥ ३॥ एतस्मिन्नतरे तत्र नारदो मुनिराययौ । तं प्रणम्य स्थितो योगी शिवं कल्याणदं परम् ॥ ४॥ कथावसरमासाद्य प्रोवाच कठिनं वचः । धन्या सती त्रिभुवने न समा कामिनी तया ॥ ५॥ सतीत्येव च यन्नाम कृतं तत्सार्थकं परम् । शिवनिन्दां समाकर्ण्य तृणवज्ज्वलितं वपुः ॥ ६॥ नारदस्य वचः श्रुत्वा वज्रसारमयोपमम् । उवाच तमृषिं शम्भुः किं नु देवी मृता मुने ॥ ७॥ न किञ्चिदुक्तवांस्तत्र शम्भुक्रोधभयाकुलः । शोकाग्निर्मां दहेत्किं वा ततो देवोऽन्वबुध्यत ॥ ८॥ शोकसागरमग्नोऽभूत्किं मां त्यक्त्वा गता शिवा । शक्तिहीनः कृतोऽहं वै ह्यशक्त सर्वकर्मणि ॥ ९॥ निःश्वासपरमोप्यासीदर्धमङ्गं गतं त्विति । जीवितेन च किं कार्यं देहत्यागं करोम्यहम् ॥ १०॥ योगिभि सान्त्वितो देवो न किञ्चित्सुखवानभूत् । शिवश्चिन्तापरो भूत्वा विचारं कृतवान् हृदि ॥ ११॥ अहो विघ्नाकुलोऽहं वै कृतो विघ्नकरेण च । गर्वितः परमैश्वर्यात्कृतं गर्वस्य खण्डनम् ॥ १२॥ अतुला शक्तिरर्धाङ्गे जगन्माताऽस्ति मे सदा । अर्धनारीश्वरोऽहं च न वियोगो मम क्वचित् ॥ १३॥ शक्तियुक्ततया नित्यं शक्तोऽहं प्रभुरीश्वरः । अखण्डैश्वर्यमोहेन विघ्नराजं च नामस्मरम् ॥ १४॥ (Page खं. १ अ. ४ पान ९) इति गत्वा स्वयं शम्भुर्मनसा गणपं भजन् । भक्त्यैकचेतसा चैव ध्यात्वा रूपमनुत्तमम् ॥ १५॥ चतुर्भुजं महाकायं गजवक्त्रं महोदरम् । मुकुटेन विराजन्तं कर्णकुण्डलधारिणम् ॥ १६॥ रत्नमालाधरं पूर्णं नाभिशेषविभूषितम् । किङ्किणीकायुक्तपादं क्वणच्चरणनूपुरम् ॥ १७॥ सिद्धिबुद्धियुतं चिन्तामणिभूषितवक्षसम् । एकचित्तेन च ध्यात्वाऽसाधयत्तं समाधिना ॥ १८॥ तुष्टाव विविधैर्वाक्यैर्गणेशं ब्रह्मरूपिणम् । निराकारं च साकारं विघ्नराजं हृदि स्थितम् ॥ १९॥ शिव उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥ २०॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे । त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥ २१॥ नैर्गुण्येन च वै साक्षाद् ब्रह्मरूपधराय च । नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥ २२॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च । हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥ २३॥ अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते । अनन्तकरकर्णायानन्तोदरधराय ते ॥ २४॥ नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे । अखण्डलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥ २५॥ आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव । सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखण्डविक्रम ॥ २६॥ अन्ते तमोरूपिणमेव सृष्ट्वा शम्भु स्वशक्त्या हरसि त्वमाद्य । एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥ २७॥ मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ । स्वानन्दसंज्ञे नगरे विभासि सिद्ध्या च बुद्ध्या सहितः परेश ॥ २८॥ तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै । वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥ २९॥ अर्धनारीश्वरत्वं यत्तद्गतं मेऽधुना प्रभो । शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥ ३०॥ नानैश्वर्ययुता देवी सा गता गणप प्रभो । अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥ ३१॥ निर्गुणोऽहं सदा शम्भुः सगुणः सर्वभाववित् । शक्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥ ३२॥ शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर । अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥ ३३॥ ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः । उवाच शङ्करं तत्र हर्षयन् श्लक्ष्णया गिरा ॥ ३४॥ अहो पश्य च मां शम्भो किं शोचसि महेश्वर । भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥ ३५॥ अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमण्डले । तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥ ३६॥ अधुना ते गतो मोहो मदीया स्मृतिरागता । ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥ ३७॥ हिमाचलसुता देवी भविष्यति न संशयः । वृणोषि त्वं सतीं तां वै पार्वतीं च पुनः शिव ॥ ३८॥ (Page खं. १ अ. ४ पान १०) रमसे च तया सार्धं मद्भक्त्या भावितो दृढम् । ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥ ३९॥ स्मृतमात्रस्तवाग्रेऽहं प्रत्यक्षः स्यां सदाशिव । इति दत्त्वा वरं देवस्तत्रैवान्तरधीयत ॥ ४०॥ ततश्च शङ्करः क्षुब्धः शक्तो जातः स्वकर्मणि । जटामास्फालयामास गणेशं मनसा स्मरन् ॥ ४१॥ तस्माज्जातो महाबाहुर्वीरभद्रस्त्रिमस्तकः । त्रिपदः शूलवान् साक्षान्मृत्युरूपो महाद्युतिः ॥ ४२॥ शङ्कर प्रणनामाथ प्राञ्जलिः सन्पुरः स्थितः । आज्ञां कुरु महादेव दासोऽहं ते वशे स्थितः ॥ ४३॥ वचनं तस्य संश्रुत्य प्रहृष्टः शङ्करोऽब्रवीत् । सयज्ञस्य च दक्षस्य हरणं कुरु साम्प्रतम् ॥ ४४॥ तदाज्ञां शिरसा धृत्वा अट्टहासमथाकरोत् । तेन त्रिभुवनं सर्वं कम्पितं भयविह्वलम् ॥ ४५॥ ततो निर्गम्य वेगेन शरीरान्निर्ममे महान् । नानारुद्रानपारांश्च तैर्वृतः स गतो मखम् ॥ ४६॥ तमन्वयुर्गणाः शम्भोर्नन्दिकेशादयोऽपरे । क्षुभिताः क्रोधसंयुक्ता ब्रह्माण्डाशनसन्निभाः ॥ ४७॥ दुर्निमित्तानि सर्वाणि दक्षगेहेऽभवंस्तदा । शङ्किता मुनयो देवाः किं भवेदिति विह्वलाः ॥ ४८॥ एतस्मिन्नन्तरे तत्र दक्षयज्ञे महाबलः । आजगामावृतो रुद्रैर्वीरभद्रो भयानकः ॥ ४९॥ नन्दी भृङ्गरिटिर्भृङ्गी पुष्पदन्तमुखास्तथा । आगताः क्रोधदीप्तास्या भक्षयन्तो यथान्तकाः ॥ ५०॥ सहसा वेगतः सर्वे मारयन्त इतस्ततः । पलायन्त च दिक्प्रान्ते दक्षस्यानुचरास्तदा ॥ ५१॥ यज्ञमण्डपमासाद्य बभञ्जुस्तत्क्षणेन च । देवान् सर्वान् मुनींश्चैव पीडयन्तः सुदारुणाः ॥ ५२॥ ऋषिपत्नीर्दधुस्तत्र देवपत्नीः सहस्रशः । अताडयन्महावीर्या हाहाकाराः प्रवर्तिताः ॥ ५३॥ कथं त्वसाधुपतयो भवतीभिर्वृताः खलु । शिवद्वेषकरा दुष्टास्तस्य प्राप्तं महत्फलम् ॥ ५४॥ एवमूचुर्हविद्रव्यं बभक्षुस्ते प्रहर्षिताः । वेदिकायां प्रचक्रुस्ते विट्सर्गं मूत्रणं तथा ॥ ५५॥ जगाम भगवांस्तत्र शङ्करः क्रोधसंयुतः । धनुर्बाणधरः साक्षात्प्रलयाग्निरिवोत्थितः ॥ ५६॥ तत्र युद्धमभूद् घोरं देवानां रुद्रचारिणाम् । स्वयं च युयुधे शम्भुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ ५७॥ पूष्णो दन्तांश्च नाराचैर्भेदयामास शङ्करः । भगस्य नेत्रमुन्मूल्य पाटयामास संयुगे ॥ ५८॥ धर्मं धृत्वा महावीरो नन्दिकेशोऽब्रवीत्तदा । को धर्मो वद रे दुष्ट शिवहीने मखे खल ॥ ५९॥ कश्यपं धृतवांस्तत्र भृङ्गी तेजस्विनां वरः । वरुणं ताडयामास पुष्पदन्तश्च वीर्यवान् ॥ ६०॥ भैरवेण धृतस्तत्र देवेन्द्रो मूर्छितः कृतः । वीरभद्रो बलाद्दक्षं पातयामास भूतले ॥ ६१॥ एवं प्रमथिते यज्ञे शङ्खचक्रगदाधरः । युयुधे विष्णुरव्यग्रो महाबलसमन्वितः ॥ ६२॥ शस्त्रास्त्रैर्बहुभिस्तेन मर्दिता बलवत्तराः । रुद्रा भूतपिशाचाद्या हाहाकारं प्रचक्रिरे ॥ ६३॥ तं दृष्ट्वा सहसा शम्भुर्हृदि ध्यात्वा गणाधिपम् । बाणैस्तं हृदि संविध्य पातयामास भूतले ॥ ६४॥ पुनः संज्ञां समासाद्य स्वास्त्रं नारायणात्मकम् । (Page खं. १ अ. ४ पान ११) मोचयामास गोविन्दो जगत्संहारकारकम् ॥ ६५॥ ततः शम्भुर्मुमोचापि स्वास्त्रं पाशुपतं महत् । ते उभे व्योम्नि चात्यन्तं युयुधाते परस्परम् ॥ ६६॥ तस्माज्जातो महानग्निर्ददाह पृथिवीमिमाम् । भयक्रान्तं त्रिभुवनं जातं तत्र मृतोपमम् ॥ ६७॥ एतस्मिन्समये तत्र वीरभद्रेण कल्पितम् । पशुरूपं शिरश्छित्वा दक्षस्याग्नौ हुतं ततः ॥ ६८॥ रुद्रैर्नानाविधैः कोलाहलस्तत्र प्रवर्तितः । छिन्नभिन्नाः सुरा जातास्त्रातारं लेभिरे न ते ॥ ६९॥ मुनयोऽपिभयोद्विग्ना व्यद्रवंस्तु दिशो दश । पिशाचादिभिराकृष्टाश्चक्रुशुश्चातिदारुणम् ॥ ७०॥ विष्णुना तत्र चक्रं वै भ्रामितं क्रोधधारिणा । कृतान्तसदृशं मुक्तं शम्भोः सन्निधिमागतम् ॥ ७१॥ चक्रं तच्छङ्करं दृष्ट्वा तं नत्वा तत्र संस्थितम् । तेन क्रोधपरीताङ्गः शिवः शूलं समाददे ॥ ७२॥ शूलमुद्यम्य तं विष्णुं हन्तुं यावत्प्रवर्तते । तत्राकाशोद्भवा वाणी वारयामास शङ्करम् ॥ ७३॥ न हन्तव्यो हरिः शम्भो त्वया पाल्योऽयमप्युत । जहि कोपं महादेव शिवाय सततं नमः ॥ ७४॥ तत्राजगाम सहसा स्वयम्भूस्तं न्यषेधयत् । मा कुरुष्व वधं शम्भो विष्णोः संहारकारक ॥ ७५॥ नमः शिवाय शान्ताय शूलिने शम्भवे नमः । महादेवाय रुद्राय पशूनां पतये नमः ॥ ७६॥ संहाररूपी त्वं साक्षादकाले किं प्रवर्तसे । जहि कोपं महाबाहो नमस्ते परमेश्वर ॥ ७७॥ ब्रह्मणा संस्तुतो देवः प्रशान्तोऽभून्महामुने । तस्मिन्काले स्वयं विष्णुर्ब्रह्मणा ज्ञापितः प्रभुः ॥ ७८॥ शिवाय नमनं कृत्वा स्थितः संलज्जितो भृशम् । प्रोवाच मधुरं ब्रह्मा शङ्करं वृषभध्वजम् ॥ ७९॥ शान्त उर्वरितं यज्ञे हविर्द्रव्यं च यत्प्रभो । रुद्रभागः स विज्ञेयो गृहाण त्वं सदाशिव ॥ ८०॥ विघ्नेशमायया भ्रान्ता दक्षाद्याः सततं शिव । मोहितानां विशेषेण द्रष्टव्यं न प्रचेष्टितम् ॥ ८१॥ अतस्त्वं कृपया देव प्रसन्नो भव शङ्कर । सर्वेभ्यः सुखदाता वै यज्ञं तं पुनरारभ ॥ ८२॥ देवानां च मुनीनां च स्त्रीणां दासादिजीविनाम् । यथापूर्वं स्थितं रूपं तादृशं कुरु शङ्कर ॥ ८३॥ भगः स नेत्रसंयुक्तः पूषा वै पिष्टभुक् कृतः । देवाश्च मुनयः सर्वे स्त्रियो दासादयस्तथा ॥ ८४॥ यथापूर्वं कृतास्तेन युक्ता रूपेण तेजसा । गतदुःखाश्च सर्वे ते ववन्दुः शङ्करं पुनः ॥ ८५॥ दक्षस्य मस्तकं तत्र दग्धं वै जातवेदसि । तज्ज्ञात्वा शङ्करो देवो भृङ्गिणं प्रत्युवाच ह ॥ ८६॥ गच्छ चानय तं हत्वा य आदौ दृश्यते त्वया । तस्य मस्तकमेतत्तु भवेद् दक्षस्य मस्तकम् ॥ ८७॥ तदा तेन पुरो दृष्टो ह्यजः परमशोभितः । तं हत्वा तच्छिरस्तत्र समानीतं च भृङ्गिणा ॥ ८८॥ तदेव योजयित्वा तमजीवयत शङ्करः । स सद्य उत्थितस्तत्र दक्षोऽजमुखतां गतः ॥ ८९॥ ब्रह्मणा प्रेरितो दक्षः पुनस्तुष्टाव शङ्करम् । गतमानो महाबाहुः भक्त्या सर्वेश्वरं ततः ॥ ९०॥ (Page खं. १ अ. ४ पान १२) दक्ष उवाच । नमामि शङ्कर साक्षाद्यदाधारमिदं जगत् । कालरूपं यथाकालं बोधयामास तं शिवम् ॥ ९१॥ कालेन फलमूलानि जायन्तेऽन्नादिकानि च । शीतोष्णसमभावश्च सदा कालेन जायते ॥ ९२॥ सूर्यस्तपति कालेन ज्योतिषां गण एव च । कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ ९३॥ कालेन सृज्यते सृष्टिर्ब्रह्मणा वै पुनः पुनः । कालेन पालनं तत्र कुरुते विष्णुरव्ययः ॥ ९४॥ कालेन स्वेच्छया शम्भुः संहारं प्रकरोति च । यत्किञ्चिदिह तत्सर्वं कालाधीनं न संशयः ॥ ९५॥ स एव कालो भगवानीश्वरो ब्रह्मसंज्ञितः । शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः ॥ ९६॥ क्षमस्व मेऽपराधं त्वं त्वन्मायागर्वितस्य च । यत्कृतं तद्दयासिन्धो नमस्ते परमेश्वर ॥ ९७॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः । सृष्टिकर्त्रे च संहर्त्रे पात्रे नानास्वरूपिणे ॥ ९८॥ अनन्तगुणराशिस्त्वं वर्णनीयं किमप्यहो । नान्तं ब्रह्मादयो जग्मुर्मादृशानां च का कथा ॥ ९९॥ नमो नमो ब्रह्ममयाय देवादये शिवायाथ च पूर्णमूर्ते । अनादिमध्यान्तविहीन भूम्ने नमो नमो भक्तभयापहन्त्रे ॥ १००॥ इत्येवं स्तुवतस्तत्र प्रेमगद्गदया गिरा । अजवत्तस्य सञ्जातं भाषणं लललल्ललम् ॥ १०१॥ तेन हृष्टो महादेवस्तं पुनर्नरमस्तकम् । भगवान् कारयामास यथापूर्वं मुनीश्वराः ॥ १०२॥ प्रोवाच मधुरं वाक्यं शिवस्तं सर्वसन्निधौ । प्रजापतिपतिर्दक्ष सर्वमान्यो भविष्यसि ॥ १०३॥ त्वया यद्रचितं स्तोत्रं मदीयं मत्प्रियं भवेत् । यस्तोष्यति प्रदास्यामि तस्मै काममनेन माम् ॥ १०४॥ इह भुक्त्वाऽखिलान्भोगानन्ते मल्लोकमाप्नुयात् । मम प्रीतिकरश्चासौ भविष्यति न संशयः ॥ १०५॥ त्वया यदजवद्वाक्यं कृतं मे खलु सन्निधौ । तद्वद्यो मत्समीपे वै करिष्यति नरः सकृत् ॥ १०६॥ तेन हृष्टो भविष्यामि वाञ्छितं पूरयामि च । एवं दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत ॥ १०७॥ सर्वे स्वस्वस्थलं जग्मुर्हर्षिता धर्षितास्तथा । दक्षश्च स्वगृहे विप्रा दुःखितः स्थितवान् स्वयम् ॥ १०८॥ तदादि शिवभक्ता ये ते कुर्वन्ति शिवालये । अजवन्निनदं तेन हृष्टो भवति शङ्करः ॥ १०९॥ इति सर्वं समाख्यातं दक्षशापादिकं च यत् । यज्ञभङ्गस्य हेतुं च पुनः किं श्रोतुमिच्छथ ॥ ११०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दक्षचरितं नाम चतुर्थोऽध्यायः ॥ १.४ (Page खं. १ अ. ५ पान १३)

१.५ पार्वतीप्रश्नविचारो नाम पञ्चमोऽध्यायः

॥ श्रीगणेशाय नमः । शौनक उवाच । श्रुतं दक्षस्य चरितं यज्ञध्वंसादिकं महत् । मुद्गलस्य च दक्षस्य संवादं कथयस्व भोः ॥ १॥ सूत उवाच । श‍ृणु शौनक संवादं दक्षमुद्गलसम्भवम् । ब्रह्मभूयकरं पूर्णं भावेन च श्रुतं हृदि ॥ २॥ दक्षप्रश्नं परं धृत्वा मुद्गलो गणपप्रियः । तं प्रत्युवाच भावेन महर्षिर्योगिनां वरः ॥ ३॥ मुद्गल उवाच । सर्वेषां गणपो माता पिता चैव न संशयः । तेन सर्वादिपूज्योऽयं सर्वपूज्यः स देवराट् ॥ ४॥ ज्येष्ठराजेति यद्वाक्यं वेदेन प्रतिपादितम् । ज्येष्ठं भावाच्च तस्यापि ज्ञातव्यं सर्वसम्मतम् ॥ ५॥ तस्य सर्वे कलांशा वै कलांशांशाश्च केचन । न कला तस्य सम्पूर्णा जगत्यां कुत्र दृश्यते ॥ ६॥ विनायको नाम तेन जातोऽसौ भगवान् खलु । विशेषेण च सर्वेषां नायकोऽयं गणाधिपः ॥ ७॥ विगतो नायको यस्य स्वेच्छाचारी विनायकः । स्वानन्दलोकवासी च स्वसुखेन प्रभावतः ॥ ८॥ ब्रह्मविष्णुशिवाद्यैश्च वेदैर्योगिभिरेव च । सर्वैः सम्पूजितो देवो धर्मकामार्थमुक्तये ॥ ९॥ अहं ब्रह्मेति माहात्म्याद् गर्वो भवति शाश्वतः । शिवादीनां यदाधारादिदं सर्वं प्रवर्तते ॥ १०॥ तदा मदहरोऽयं वै तेषां ज्ञानार्थसिद्धये । विघ्नकर्ता महाराजः स्वयं भवति विघ्नपः ॥ ११॥ पदभ्रष्टाः कृतास्तेन सर्वे देवादयो द्विजाः । किमाधारमिदं सर्वं विचिन्वन्ति समाधिना ॥ १२॥ तेन पश्यन्ति योगेन चेतसः पञ्चवृत्तिभिः । तासां प्रकाशकोऽयं वै चिन्तामणिरिति स्मृतः ॥ १३॥ वेदैः सम्पादितं ज्ञात्वा शरणं तं व्रजन्ति ते । ततो विघ्नहरो जातस्तेषां सर्वार्थदः स्मृतः ॥ १४॥ सर्वसत्तात्मकोऽयं वै विघ्नराजः प्रकीर्तितः । अत एव गणेशाद्धि परं किचिन्न विद्यते ॥ १५॥ सविघ्नस्त्वं प्रजातोऽसि तमेव शरणं व्रज । चिन्तामणिं विघ्नहरं गणेशं च विनायकम् ॥ १६॥ सूत उवाच । प्रजापतिरिति श्रुत्वा दक्षो हृष्टमनाः पुनः । पप्रच्छ विनयेनैव कथां पापप्रणाशिनीम् ॥ १७॥ दक्ष उवाच । कोऽयं स्वानन्दवासी वै कथं ज्ञेयो भवेन्मया । वद तत्र विभो मार्गं तेन तं सततं भजे ॥ १८॥ मुद्गल उवाच । अत्र ते कथयिष्यामि इतिहासं पुरातनम् । पार्वतीशिवसंवादं यथा जातं श‍ृणुष्व भोः ॥ १९॥ कैलासे गिरिवर्ये तु सुखासीनं महेश्वरम् । पार्वती प्रणता भूत्वा पृच्छति स्म मुदायुता ॥ २०॥ पार्वत्युवाच । शिव त्वं सर्वदेवानां नागानां रक्षसां तथा । मानवानां च सर्वेषां पूज्यः स्वामी न संशयः ॥ २१॥ तेभ्यः पदप्रदाता त्वं सर्वाधीशः पुरातनः । मायाविकारहीनश्च शिवस्तेन प्रकीर्तितः ॥ २२॥ त्वं किं समाधिना देव ध्यायसे मां वद प्रभो । त्वत्तः परतरं किञ्चिन्न दृष्टं नैव संश्रुतम् ॥ २३॥ इति पृष्टो महादेवस्तां प्रत्यूचे च सादरम् । सारं वेदादिमान्यं च ब्रह्मभूयकरं परम् ॥ २४॥ श्रीमहादेव उवाच । श‍ृणु प्रिये प्रवक्ष्यामि यं ध्यायामि दिवानिशम् । (Page खं. १ अ. ५ पान १४) गणेशं हृदि संस्थं मे स्वानन्दावासिनं परम् ॥ २५॥ साकारं च निराकारं तस्मिन्देवि न विद्यते । मनोवाणीविहीनं न मनोवाणीमयं न वै ॥ २६॥ शिवस्य वचनं श्रुत्वा पार्वती प्रेमसंयुता । उवाच मधुरं वाक्यं वाक्यज्ञा भावपूर्वकम् ॥ २७॥ पार्वत्युवाच । कोऽसौ गणेशनामा वै कथं स हृदि तिष्ठति । स्वानन्दवसतिः का च यत्र तिष्ठति स प्रभुः ॥ २८॥ साकारो न निराकारो कथं स ज्ञायते जनैः । मनोवाणीमयो नैव हीनस्ताभ्यां न च क्वचित् ॥ २९॥ तस्य ध्यानं महेशापि कर्तुं नैव प्रशक्यते । ध्यायसे केन मार्गेण भव मे कथय प्रभो ॥ ३०॥ अहं दासी त्वदीया वै शिष्यभावेन संस्थिता । कथयस्व महादेव ध्यानं गाणेशकं मम ॥ ३१॥ तमहं साधयिष्यामि साक्षात्कारेण वै यथा । कृतकृत्या भविष्यामि प्रसादात्ते न संशयः ॥ ३२॥ मुद्गल उवाच । इति पृष्टो महादेवो देव्या भक्त्यादरेण च । पात्रं गणेशमार्गस्य दृष्ट्वा प्रेमयुतोऽब्रवीत् ॥ ३३॥ तत्तेऽहं श‍ृणु वक्ष्यामि गुह्याद् गुह्यतमं महत् । रहस्यं वेदशास्त्राणां यस्मात्परतरं न च ॥ ३४॥ दक्ष उवाच । तव वाक्यामृतेनाऽहं प्रीतो मुद्गल साम्प्रतम् । उमामहेशसंवादं योगीन्द्र कथयस्व मे ॥ ३५॥ सूत उवाच । दक्षस्य भावयुक्तं तद्वचनं मुद्गलेन वै । श्रुतं तेन सुसन्तुष्टो वक्तुं समुपचक्रमे ॥ ३६॥ मुद्गल उवाच । शम्भुः स्मृत्वा गणेशानं हृदि ध्यात्वा महायशाः । प्रत्युवाच महादेवीं गाणपत्यः प्रतापवान् ॥ ३७॥ श्रीशिव उवाच । सर्व मायामयं विद्धि जायते यच्च चेतसा । चित्तप्रवेशहीनं च मायातीतं निगद्यते ॥ ३८॥ रचितं द्विविधं येन स एव गणनायकः । स्वसंवेदं महः प्रोक्तं वेदयेत्तद्विशेषतः ॥ ३९॥ तत्रैव दृश्यते देवो योगिभिर्यागपारगैः । तेन स्वानन्दवासी स कथ्यते वेदवादिभिः ॥ ४०॥ चित्तस्य पञ्चभूमीनां प्रकाशनकरः स्मृतः । चिन्तामणिरिति ख्यातो हृदि सन्तिष्ठति प्रभुः ॥ ४१॥ समूहे गणधातुश्च तेषां स्वामी गणेश्वरः । अभेदयोगमार्गेण सदा ध्यातुं स शक्यते ॥ ४२॥ मुद्गल उवाच । श्रुत्वा शिववचो रम्यं पार्वती विनयान्विता । चकिता प्रत्युवाचेदं वचनं हितकारकम् ॥ ४३॥ पार्वत्युवाच । भगवन्कथितं कूटवचनं योगभावितम् । न बुद्धं तन्मया स्वामिंस्तस्माच्च सुलभं वद ॥ ४४॥ ब्रह्म मायामयं प्रोक्तं कीदृशं कथय प्रभो । मायाहीनं कथं ज्ञेयं विस्तरेण वदस्व मे ॥ ४५॥ मुद्गल उवाच । शक्तिप्रश्नं च संश्रुत्य हृष्टः शम्भुः सुयोगवित् । साश्रुनेत्रः सरोमाञ्चो भक्त्या जातो महायशाः ॥ ४६॥ आदिमायां प्रशंसन् सन् वक्तुं तामुपचक्रमे । योगमार्गस्य सिद्धयर्थं विस्तरेण महेश्वरः ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पार्वतीप्रश्नविचारो नाम पञ्चमोऽध्यायः ॥ १.५ (Page खं. १ अ. ६ पान १५)

१.६ प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । पार्वतीशिवसंवादं कथयस्व महामते । पाराशर्यस्य सर्वज्ञ शिष्य सर्वार्थतत्त्ववित् ॥ १॥ सूत उवाच । मुद्गलेन यथा प्रोक्तं दक्षे वै शान्तिकारकम् । शिवयोस्तं च सञ्जातं संवादं कथयामि भोः ॥ २॥ श्रीशिव उवाच । धन्या देवि महाभागे त्वत्समान्या न विद्यते । महापुण्येन ते बुद्धिगणेशज्ञानलालसा ॥ ३॥ कारितोऽहं त्वया शक्ते सत् स्त्रिया नात्र संशयः । ममैवेदं महद्भाग्यं गाणपत्यप्रिया गृहे ॥ ४॥ गणेशाय नमः कृत्वा कथयामि कथानकम् । आदौ मायामयं विद्धि मायातीतं ततः परम् ॥ ५॥ स्वस्वरूपमयं सर्वं ज्ञातव्यं योगिना सदा । द्विविधं योगमार्गेण साधनेन विशेषतः ॥ ६॥ आदौ ब्रह्म स्थितं देवि एकानेकादिवर्जितम् । स्वतः परत उत्थानात्तदेव द्विविधं बभौ ॥ ७॥ स्वत उत्थानके नैव विकल्पः सदृशः कृतः । अहमस्मीति भावेन बिम्बं भिन्नं विनिःसृतम् ॥ ८॥ सकलाभेदरूपं यन्निराकारं स्वभावतः । अहमस्मि सदा प्रोक्तं ब्रह्मरूपं च शाश्वतम् ॥ ९॥ तेनापि स्वस्वरूपं तद् दृष्टमात्मात्मकं परम् । कीदृशोऽहं विकल्पश्च कृतो मोहेन तत्क्षणात् ॥ १०॥ चतुश्चतुः पदार्था ये योगरूपेण संस्थिताः । तेषामभेदरूपं च दृष्टं सर्वात्मकं परम् ॥ ११॥ मायया बिम्बरूपोऽयं जातः सद्यश्च नामतः । माया बिम्बं द्वितीयं तत्तत्र मोहप्रधारणात् ॥ १२॥ मोहधारणमात्रेण विस्मृतं स्वस्वरूपकम् । मायासुखेप्सुना जाता तस्य देवस्य तत्क्षणात् ॥ १३॥ सर्वाकारा निराकारा माया जाता द्विधापरा । बुद्धिरूपा महाभागा तया सर्वं प्रबुध्यते ॥ १४॥ निराकारं च साकारं बुद्धया सम्बुध्यते जनैः । बुद्धया यद्बुध्यते क्षेत्र बुद्धिरूपं तदेव च ॥ १५॥ तत्र मोहो च साकारो निराकारः स्वयं प्रभुः । मोहहीन इति भ्रान्तिर्द्विधा गुणसमुत्थिता ॥ १६॥ सा सिद्धिर्मोहकर्त्री वै नानाभ्रान्तिप्रकाशिका । एका बुद्धिश्च सर्वत्र तथा द्वैधे प्रवर्तिता ॥ १७॥ सिध्या सम्मोहिता बुद्धिर्भ्रान्ता जाता च पार्वती । साकारमोहसंयुक्ता निराकारविमोहिता ॥ १८॥ मोहधारकबुद्धिश्च सिद्धिर्मोहप्रदायिनी । तयोः प्रकाशदाता स गणेशानोऽभवत् स्वयम् ॥ १९॥ स एव नामतस्तत्र न गतो निजरूपधृक् । बिम्बबिम्बिप्रभावत्वाद्भासते तादृशो वृथा ॥ २०॥ सर्वात्मकं च बिम्बं यत्परं तत्रैव बिम्बितम् । आत्मरूपं निराकारं तयोः संयोगितां गतः ॥ २१॥ स एव गणराजोऽयं मायाखेलकरः प्रभुः । तस्येच्छया तद् द्विविधं चलति प्रतिसूत्रवत् ॥ २२॥ त्रिविधं चैकभावं च जातं मोहेन पार्वती । विकल्पः प्रकृतस्तेन एकोऽहं स्यां बहुस्त्विति ॥ २३॥ विकल्पेन द्विधा भूतं देहदेहिस्वरूपकम् । सोऽहं ब्रह्मेति यत्प्रोक्तं वेद वै वेदवादिभिः ॥ २४॥ तदेव देहि रूपं च देहमोहप्रवारणात् । देहरूपं तथा तत्र बिन्दुमात्रं प्रकीर्तितम् ॥ २५॥ चतुर्विधानां देहानां ब्रह्मरूपं पुरातनम् । (Page खं. १ अ. ६ पान १६) बहुरूपं च तद्विद्धि देहकैवल्यसंज्ञितम् ॥ २६॥ सोऽहं ब्रह्मैकरूपं यद्बहुरूपं च बिन्दुमत् । स्वस्वकार्येषु नो शक्तं सत्ताहीनतया शिवे ॥ २७॥ ताभ्यां तपः कृतं घोरं स्वस्वरूपस्य सुन्दरि । दिव्यवर्षसहस्रान्ते प्रसन्नोऽभूद् गजाननः ॥ २८॥ प्रत्यक्षतां ययौ तत्र शुण्डादण्डविराजितः । लम्बोदरो महाकर्णश्चतुर्बाहुस्त्रिनेत्रभृत् ॥ २९॥ तस्य दर्शनमात्रेण स्फूर्तिर्जाता तयोस्तदा । तया तं तौ समाबुध्य नतौ स्तोत्रं प्रचक्रतुः ॥ ३०॥ प्रकृतिपुरुषावूचतुः । नमस्ते गणनाथाय स्वसंवेद्यमयाय ते । निराकारस्वरूपा वै शुण्डा यस्य विराजते ॥ ३१॥ यस्य देहश्च साकारः कण्ठाधः परिकथ्यते । अभेद एतयोर्जातस्तेन त्वं वै गजानन ॥ ३२॥ चतुर्विधं निजानन्दाद्वेदेषु कथितं भवेत् । एकमव्यक्तरूपं च द्वितीय समरूपकम् ॥ ३३॥ तृतीयं सत्स्वरूपं च चतुर्थं यत्सदा ह्यसत् । चतुर्हस्तस्वरूपं ते तेन त्वं वै चतुर्भुजः ॥ ३४॥ तवोदरे स्थितं सर्वं तेन लम्बोदरः स्मृतः । मायामायिकरूपं च द्वौ पादौ द्विविधं च ते ॥ ३५॥ एते सर्वे गणा ढुण्ढे त्वदीया नात्र संशयः । गणनाथोऽसि तेन त्वं नाम्ना ख्यातश्च सर्वदा ॥ ३६॥ एतादृशो निजात्मासावावयोर्ध्यान आबभौ । स्वसंवेद्यतया ध्यातो भक्तानुग्रहकारकः ॥ ३७॥ भक्ताभिमानभावेन देहधारी स्वयं ह्यभूत् । एतैश्च लक्षणैर्युक्तो गणेशो नामधारकः ॥ ३८॥ धन्यं सर्वं कृतं स्वामिन् येन त्वं देहवानभूः । स्वानन्दवासभृत् साक्षाद् हृदि नित्यं स्थिरो भव ॥ ३९॥ नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । भक्तानां वै ह्यभक्तानां विघ्नकर्त्रे नमोऽस्तु ते ॥ ४०॥ कर्मणां फलदात्रे च ज्ञानानां सिद्धिदायिने । अमेयशक्तये तुभ्यं सर्वाधाराय ते नमः ॥ ४१॥ किं कर्तव्यं दयासिन्धो तदेवाज्ञापय प्रभो । तव भक्तिं महातीव्रां देहि नौ गणनायक ॥ ४२॥ एवं स्तुतिं समाकर्ण्य परितुष्टो गणाधिपः । मेघगम्भीरया वाचा हर्षयन्नब्रवीत्तदा ॥ ४३॥ श्रीगणेश उवाच । साधु साधु महाभागौ यदुक्तं स्तोत्रमुत्तमम् । मम प्रीतिकरं सर्वकामदं प्रभविष्यति ॥ ४४॥ धमार्थकाममोक्षाणा दायकं पुष्टिवर्धनम् । कारागृहस्थितानां च मोचकं लक्षपाठतः ॥ ४५॥ मारणोच्चाटनादीनां नाशकं तत्तथैव च । एकविंशतिवारं यः एकविंशद्दिनावधि ॥ ४६॥ पठेत्तु यदि वै भत्त्या स ईप्सितफलं लभेत् । ब्रह्मभूयकरं चैतन्निष्कामपठनाद्भवेत् ॥ ४७॥ भवतोस्तपसा तुष्टः स्तोत्रेणानेन भावतः । प्रीतो दास्यामि सम्पूर्णं भवद्भ्यामीप्सितं च यत् ॥ ४८॥ बिन्दुमात्रस्वरूपेण यत्स्थितं ब्रह्म शाश्वतम् । तस्माच्चतुर्विधं विश्वं प्रकटं सम्भविष्यति ॥ ४९॥ प्रकर्षेण च सर्वेषां कृतिस्तस्माद्विनिःसृता । प्रकृतिस्तेन ते नाम भविष्यति जनेष्विदम् ॥ ५०॥ सृष्ट्वा चतुर्विधं विश्वं बन्धहीना भविष्यसि । मदीयां भक्तिमचलां प्रकृते प्राप्स्यसि ध्रुवम् ॥ ५१॥ जनास्त्वदीयभक्तिं ये करिष्यन्ति सकामतः । (Page खं. १ अ. ६ पान १७) निष्कामतश्च तेभ्यस्त्वं सर्वं दास्यसि शोभने ॥ ५२॥ चतुर्विधेप्ययं शेते पुरे तेनैव पूरुषः । सोऽहम्मात्रात्मको भावी नाम्ना सर्वत्र तिष्ठतु ॥ ५३॥ सर्वाकारविहीनोऽयं तत्र भ्रान्तो भविष्यति । बिम्बबिम्बित भावेन प्रकृतौ मोहितः सदा ॥ ५४॥ स्वयं मोहविहीनः स सोऽहम्मात्रात्मकः सदा । मत्प्रसादाद्भवेन्नित्यं ब्रह्म सोऽहं सुखात्मकः ॥ ५५॥ मदीया भक्तिरचला भविष्यति तवापि च । तया बन्धविहीनस्त्वं तथा मान्यो भविष्यसि ॥ ५६॥ तव भक्तिं करिष्यन्ति जना भावेन संयुताः । तेभ्यस्तदीप्सितं सर्वं दास्यसि त्वं न संशयः ॥ ५७॥ ब्रह्मभूयपदं चैव दास्यसे योगसेवया । साक्षात्पुरुषरूपस्त्वं सर्वसत्तात्मको भव ॥ ५८॥ प्रकृतौ वीर्यमाधत्स्व सर्वसत्तात्मकं विभो । तेनेयं सर्वसूर्विश्वं सृजिष्यति न संशयः ॥ ५९॥ सृष्ट्वा चतुर्विधं सर्वं पालनं हरणं तथा । कर्तव्यं कालयोगेन करणीयमिदं स्मृतम् ॥ ६०॥ सर्वेषां प्रकृतिर्माता पिता पुरुष उच्यते । नानारूपाणि नामानि कल्पयिष्यन्ति वै जनाः ॥ ६१॥ इत्युक्त्वा गणराजस्तु तत्रैवान्तरधीयत । प्रकृतिः पुरुषश्चैव यथाज्ञप्तौ प्रचक्रतुः ॥ ६२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः ॥ १.६

१.७ तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच । श्रुत्वेदं त्वन्मुखाम्भोजाद्धर्षश्चेतस्यजायत । पुनर्वदस्व मे स्वामिन् गणराजकथामृतम् ॥ १॥ कथानां च रहस्यं यत्तदेवैतन्न संशयः । पुनाति प्राश्निकं श्रोतॄन् वक्तारं भक्तितः श्रुतम् ॥ २॥ प्रकृतिः पुरुषश्चोभौ कथं सृष्टिं प्रचक्रतुः । अन्तर्हिते निजानन्दे गणेशे स्वेच्छया विभौ ॥ ३॥ मुद्गल उवाच । पार्वतीवचनं श्रुत्वा प्रहृष्टः शङ्करोऽब्रवीत् । कथां रसयुतां रम्यां पावनानां च पावनीम् ॥ ४॥ शङ्कर उवाच । श‍ृणु देवि प्रवक्ष्यामि गणनाथकथां शुभाम् । धन्यासि सादरा जाता सप्रेमा विघ्ननाशिनी ॥ ५॥ अन्तर्हिते गणेशे च प्रकृतिः पुरुषस्तथा । सामर्थ्येन युतौ जातौ परस्परमनोनुगौ ॥ ६॥ तपसा वरदानेन मोहयामास तत्क्षणात् । पुरुषं प्रकृतिः सा वै नानाभावार्थदर्शिनी ॥ ७॥ नानाविभवयुक्तां तां दृष्ट्वा पुरुषसत्तमः । (Page खं. १ अ. ७ पान १८) मोहितः पूर्णभावेन तदधीनोऽभवत्सदा ॥ ८॥ संवीक्षिता महामाया पुरुषेण महात्मना । हावभावयुता तत्र संस्थिता भक्तिभावतः ॥ ९॥ तस्यां सत्तात्मकं वीर्यं पुरुषेण प्रकाशकम् । निक्षिप्तं सहसा देवि तेन सा गर्भवत्यभूत् ॥ १०॥ स गर्भो ववृधे तत्र तेजसा स्वेन संवृतः । महता कालयोगेन पूर्णो जातः प्रतापवान् ॥ ११॥ समये सुषुवे सा तं पुत्रं तेजोमयं परम् । तस्य नामाऽभवल्लोके महानित्यभिविश्रुतम् ॥ १२॥ अन्तस्तु यत्स्थितं देवि सर्वान्तर्यामि तत्परम् । लोकेषु च महत्तत्वं ज्ञातव्यं तत्समाधिना ॥ १३॥ सर्वेषामादिभूतोऽयं महानात्माऽभवत्प्रभुः । ज्येष्ठोऽयं तत्त्वजातीनां हृदि तेषां समास्थितः ॥ १४॥ महता च ततः सृष्टं यदहङ्काररूपकम् । स एव त्रिविधो जातो भिन्नमूर्तिः प्रतापवान् ॥ १५॥ अहं सर्वत्र तिष्ठामि मदाधारमिदं स्मृतम् । तेनाहङ्कारनामा स सदाहङ्करणात् शिवे ॥ १६॥ स एव बाह्यभावेन स्थितः सर्वत्र सर्वराट् । इच्छितं महता यद्वै तत् कर्तुं सुसमाहितः ॥ १७॥ त्रिविधोऽसौ गुणैस्तत्र तन्निबोध जगन्मयि । सात्त्विको राजसश्चैव तामसः कथ्यते बुधैः ॥ १८॥ तेनाहङ्करणस्यापि त्रिशक्तित्वं समागतम् । सात्त्विकी ज्ञानशक्तिश्च तया भावः प्रबुध्यते ॥ १९॥ राजसी या क्रियाशक्तिस्तया कार्यं प्रवर्तते । तामसी द्रव्यशक्तिर्या देहरूपा प्रकथ्यते ॥ २०॥ तत्रादौ तामसी शक्तिः प्रेरिता विश्वयोनिना । निर्ममे शब्दरूपं सा तेनाकाशं विनिर्मितम् ॥ २१॥ आकाशेन स्पर्श एवं निर्मितः सर्वसिद्धये । स्पर्शेन निर्मितो वायुर्महाबलयुतः प्रभुः ॥ २२॥ वायुना निर्मितं रूपं तेजोरूपेण निर्मितम् । तेजसश्च रसोत्पत्ती रसादापो विनिःसृताः ॥ २३॥ अद्भिश्च निर्मितो गन्धो गन्धाद्भूमिरजायत । तमोगुणमयी सृष्टिरेषा जाता महाद्भुता ॥ २४॥ तन्मात्रा भूतसर्गश्च पञ्चपञ्चात्मकः स्वराट् । पञ्चभूतात्मको देहः सर्वत्रैव प्रदृश्यते ॥ २५॥ ततो राजसशक्त्या च पञ्चभूतमयानि वै । इन्द्रियाणि प्रसृष्टानि क्रियारूपाणि तानि वै ॥ २६॥ पञ्च ज्ञानेन्द्रियाण्याहुर्ज्ञानरूपधराणि च । जिह्वा चक्षुस्त्वचा नासा कर्णश्चैवाऽत्र पञ्चमः ॥ २७॥ कर्मेन्द्रियाणि पञ्चैव हस्तौ पादौ गुदं च वाक् । लिङ्गं पञ्चममत्रैव एभिः सञ्जायते क्रिया ॥ २८॥ पञ्च प्राणास्तथा ज्ञेयाः प्राणो व्यानस्त्वपानकः । उदानश्च समानो वै राजसाः पञ्च वायवः ॥ २९॥ सप्तधातुविभागार्थं क्रियारूपा उदाहृताः । एषां क्रियात्मिका सृष्टी राजसी कथिता प्रिये ॥ ३०॥ सात्त्विक्या मायया देवा इन्द्रियाणां विनिर्मिताः । दिशो वायुश्च वरुणोऽश्विनौ सूर्यः प्रकीर्तितः ॥ ३१॥ एता ज्ञानेन्द्रियाणां च देवताः परिकीर्तिताः । अग्निर्विष्णुः प्रजापाल इन्द्रो मित्रश्च पञ्चमः ॥ ३२॥ एताः कर्मेन्द्रियाणां वै देवताः परिकीर्तिताः । सात्त्विकी सृष्टिरित्युक्ता दशदेवस्वरूपिणी ॥ ३३॥ (Page खं. १ अ. ७ पान १९) एते तत्त्वस्वरूपाख्या आदिदेवाः प्रकीर्तिताः । यथाविधि तथा जाता ज्ञानहीना बभूविरे ॥ ३४॥ ज्ञानहीनत्वदोषेण सृष्टिं कर्तुं न च क्षमाः । तेभ्यो ज्ञानप्रदानार्थमुपदेशं प्रचक्रतुः ॥ ३५॥ प्रकृतिः पुरुषश्चोभौ मन्त्रमेकाक्षरं परम् । अनुष्ठानविधायुक्तं ददतुर्गणपस्य तौ ॥ ३६॥ ते तत्रैव स्थिताः सर्वे तपश्चक्रुर्महद् भृशम् । तेन सन्तुष्टतां यातो गणेशो गणवल्लभः ॥ ३७॥ प्रत्यक्षतां ययौ तेषां समीपे संस्थितो महान् । तं दृष्ट्वा हर्षिताः सर्वे देवाः स्तोत्रं प्रचक्रिरे ॥ ३८॥ तत्त्वान्यूचुः । नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च । सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ ३९॥ अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः । समाय विषमायैव विघ्नेशाय नमो नमः ॥ ४०॥ आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने । नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ ४१॥ अनन्तोदरसंस्थाय नानाभोगकराय च । भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥ ४२॥ मायाधाराय वै तुभ्यं मायाहीनाय ते नमः । मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥ ४३॥ सर्वसिद्धिधरायैव सिद्धीनां पतये नमः । सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥ ४४॥ जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः । कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥ ४५॥ कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः । ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाय ते नमः ॥ ४६॥ चतुर्विधधरायैव चतुर्विधमयाय च । चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥ ४७॥ पाशाङ्कुशधरायैव दन्ताभयधराय च । चतुर्भुजाय वै शूर्पश्रुतये तुन्दिलाय च ॥ ४८॥ महते चैकदन्ताय महतां च महीयसे । लघवे लघुरूपाय लघूनां लाघवे नमः ॥ ४९॥ गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे । ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥ ५०॥ किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये । नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥ ५१॥ कृताञ्जलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः । तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥ १.७ (Page खं. १ अ. ८ पान २०)

१.८ गुणेशवरप्रदानं नामाष्टमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । श‍ृणु देवि गणेशस्य चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं चैव स्मरणेन सुसिद्धिदम् ॥ १॥ गजाननः प्रसन्नात्मा परमात्मा परात्परः । भक्तानन्दकरः साक्षादूचिवान् भक्तिभावितः ॥ २॥ श्रीगजानन उवाच । भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् । तपसाऽहं प्रसन्तुष्टो भक्त्या स्तोत्रेण भावतः ॥ ३॥ भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम । सर्वसिद्धिप्रदं चैव पठते श‍ृण्वते भवेत् ॥ ४॥ विद्याकामो लभेद्विदयां धनकामो धनं लभेत् । स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥ ५॥ मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् । अस्य स्तोत्रस्य पठनात् वाञ्छितं लभते परम् ॥ ६॥ श्रीशिव उवाच । गणेशवचनं श्रुत्वा भक्तिनम्रात्मकन्धराः । ऋषयस्तं प्रणम्यादावूचुस्ते हृष्टमानसाः ॥ ७॥ आदिऋषय ऊचुः । प्रसन्नो भगवन्नद्य यदि देयो वरो महान् । त्वदीयामचलां भक्तिं देहि नो गणनायक ॥ ८॥ सृष्टिसामर्थ्यमत्यन्तमस्माकं त्वत्प्रसादतः । अस्तु वै भजतां सर्वसिद्धिदाश्च वयं तथा ॥ ९॥ यद्यत् हृदीप्सितं देव तत्तत् सिध्यतु सर्वदा । बन्धहीनत्वमनिशं देहि त्वं विघ्ननाशन ॥ १०॥ तत्त्वानां वचनं सर्वे श्रुत्वा गणपतिः स्वयम् । ददौ तेषामभीष्टं स महादेवि महप्रदः ॥ ११॥ श्रीगजानन उवाच । दत्ता वरा मया देवा ये भवद्भिर्वृताः पराः । इत्युक्त्वान्तर्दधे ढुण्ढिः ऋषीणां पश्यतां खलु ॥ १२॥ स्वानन्दे च गते देवे गणेशे परमात्मनि । खिन्ना इवाऽभवन् देवाः परस्परमुखेक्षणाः ॥ १३॥ गणेशवरदानेन ज्ञानं प्राप्य महाद्भुतम् । बुद्धियुक्ता महादेवाः सृष्टिं चक्रुः प्रभावतः ॥ १४॥ परस्परप्रवेशं च चक्रुस्त ऋषयस्तदा । तेनैकभावतां प्राप्तास्तस्मादण्डं बभूव वै ॥ १५॥ तस्मिन्नण्डे पुमानादिरेकः सर्वात्मशक्तिमान् । जातो वै भगवान् साक्षाद् गुणेशो गुणवल्लभः ॥ १६॥ महता कालयोगेन देहात्तस्य विनिःसृताः । आपस्तत्र स्थितं ह्यण्डं तत्र वृद्धिं ययौ च सः ॥ १७॥ कालेनावयवी जातस्ततः सम्पूर्णदेहवान् । तस्य तेजःप्रभावेण तदण्डं स्फुटितं महत् ॥ १८॥ स एव निःसृतः साक्षादसङ्ख्यातार्कसन्निभः । अपारमहिमा यस्य सर्वादिः सर्वभावनः ॥ १९॥ सर्वतो हस्तपादो वै सर्वतो नासिकोदरः । सर्वतोऽक्षिमुखोऽनन्तः सर्वतः श्रुतिमान् बभौ ॥ २०॥ असङ्ख्यावयवो देवो ह्यसङ्ख्योदारविक्रमः । असङ्ख्यलीलया युक्तः परमात्मस्वभाववान् ॥ २१॥ आदिमध्यान्तहीनः स सर्वत्र व्याप्य संस्थितः । महतां च महीयान् यो यस्य पारो न दृश्यते ॥ २२॥ अणुभ्योऽणुतरो देवो रोमरन्ध्रेषु यस्य वै । ब्रह्माण्डानि भ्रमन्ति स्म परागा इव चाम्बरे ॥ २३॥ महाकारणनामा वै तुरीयो देहधारकः । आत्मप्रतीतिरूपं यत्कथ्यतेऽसौ महाद्युतिः ॥ २४॥ गुणानामधिपोऽयं वै गुणेशस्तेन कथ्यते । सर्वात्मा सर्वरूपश्च नाददेहधरः प्रभुः ॥ २५॥ (Page खं. १ अ. ८ पान २१) गुणेशेन कृतं कर्म नानाचेष्टात्मकं ततः । तेन नामानि जातानि पश्चात्तस्य महात्मनः ॥ २६॥ आपः शरीरसंसृष्टास्तत्र सुप्तोऽयमीश्वरः । नारायण इति प्राप्तं नाम तस्य महात्मनः ॥ २७॥ आपो नरप्रसूताश्च तेन नाराः प्रकीर्तिताः । ता एवायतनं तस्य कर्मणा तेन स प्रभुः ॥ २८॥ भिन्नं भिन्नं सृजति च त्रिविधं त्रिविधं पृथक् । ब्रह्मेति तेन सम्प्राप्तं नाम तस्य प्रभावतः ॥ २९॥ वेदोपनिषदि प्रोक्तो ब्रह्मलोकः सनातनः । सर्वेभ्यो यः परः श्रेष्ठमेनं विद्धि सुनिश्चितम् ॥ ३०॥ सर्वेषां यत्नदाता स कालरूपेण वर्तते । चालकस्तेन नामाभून् महादेव इति प्रभोः ॥ ३१॥ कर्मणामयमाधारो जातः सूर्य इति स्मृतः । मोहको वस्तुजातानामादिशक्तिश्च तेन सः ॥ ३२॥ इत्यादिनामतां प्राप्तो नानाभावेन कर्मणा । गुणेशस्तु तुरीयात्मा सर्वत्राऽसौ महान् प्रभुः ॥ ३३॥ कारणानां च सर्वेषां कारणं च न संशयः । महाकारणमेतच्च पुराणेषु प्रपठ्यते ॥ ३४॥ कर्तुः कर्ता स्वयं साक्षाद्धर्तुर्हर्ता न संशयः । पातुः पाता प्रकाशस्य प्रकाशोऽयं गुणेश्वरः ॥ ३५॥ त्रिदेहो गुणतश्चायं वामे राजसतां गतः । सात्त्विको मध्यभागे स दक्षिणे तामसो बभौ ॥ ३६॥ एतादृशो महात्मासावादिदेवो गुणेश्वरः । अज्ञानेनावृतो यस्मात्तेन वै तपसि स्थितः ॥ ३७॥ सोऽतपत्तप उग्रं तु हृदि ध्यात्वा गजाननम् । बहुकाले व्यतिक्रान्ते प्रसन्नोभूद्गजाननः ॥ ३८॥ आगतो देवदेवेशो धेनुर्वत्समिवादरात् । बोधयामास तं शीघ्रं गुणेशं भक्तवत्सलः ॥ ३९॥ श्रीगणेश उवाच । एकाक्षरस्य मन्त्रस्य जपेन तपसाऽपि ते । प्रसन्नोऽहं महाबाहो गुणेश वृणु वाञ्छितम् ॥ ४०॥ इत्येवं बोधितो देवि गणेशेन कृपावता । गुणेश्वरःप्रतुष्टाव भक्तिभावसमन्वितः ॥ ४१॥ गुणेश उवाच । नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै । अपारयोगं दृढयोगनाथं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४२॥ अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अभेदभेदात्मकमूलहीनं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४३॥ सदा समाधिस्थमनन्तपारं प्रभुं स्वसंवेद्यमयं विभान्तम् । निजात्मयोगेन च लभ्यमेवं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४४॥ विदेहयोगेन च साङ्ख्यरूपं जनेन लभ्यं गणराजमीड्यम् । सदा ह्युपाधौ न हितं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४५॥ सुसंस्थितं सर्वविलासयुक्तं हृद्विज्ञबोधात्मकमादिदेवम् । अभेदमात्रं परमार्थरूपं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४६॥ अनादिमध्यान्तमनन्तपारं सुसंवृतं सन्ततमात्मरूपम् । गणेशमाद्यं पुरुषं पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४७॥ अनादिरूपं प्रकृतिप्रभेदं सदा सुबिन्द्वात्मकमप्रमेयम् । अमायिकं मोहकरं प्रसिद्धं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४८॥ गुणेषु रूपेण विराजमानमपारमव्यक्तमयं गणेशम् । (Page खं. १ अ. ८ पान २२) गुणैर्विहीनं गुणचालकं च सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४९॥ समस्वरूपं जगदीशमेकं सुषुप्तिरूपं सकलावभासम् । अनादिमायामयमोहधारं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५०॥ जगन्मयं सूक्ष्मविभूतिधारं हिरण्मयं स्वप्नगतं गणेशम् । जनस्य विज्ञानकर पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५१॥ स्तुतं सदा देवमुनीन्द्रसिद्वैः स्थितं जगन्मोहमयं प्रसिद्धम् । सदा परं स्थूलविहारयुक्तं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५२॥ असत्स्वरूपं विविधेष्वभेदं गणेशमायामयशक्तिरूपम् । मनोवचोहीनमहानुभावं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५३॥ रविस्वरूपं ह्यमृतं पुराणमभेदोकात्मकमात्मरूपम् । अखण्डमानन्दघनं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५४॥ समं सदा विष्णुमचिन्त्यभावमभेदभेदादिविवर्जितं च । सदा सुखानन्दमयं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५५॥ अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् । अपारवेशं स्वसुखावभासं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५६॥ पदार्थरूपं विविधप्रभेदं विकारयुक्तं परमप्रमेयम् । बोधात्मकं त्वम्पदरूपमेव सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५७॥ अखण्डमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयम् । गणेशमेकं हृदि तत्पदस्थं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५८॥ गणेश चैते विविधस्वरूपाः कलावतारा भवतो हि भव्याः । सुशान्तमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥ ५९॥ यदा च सर्वात्ममयं वदामि तदा तु सोऽहं प्रकृतिस्वरूपम् । गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपदये ॥ ६०॥ मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं णकारम् । निवृत्तिरूपं शरणं सदा वै नमामि तं सर्ववरिष्ठमाद्यम् ॥ ६१॥ न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि ढुण्ढे । गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥ ६२॥ जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् । येन दृष्टो गणाधीशः कृतकृत्योऽस्मि साम्प्रतम् ॥ ६३॥ मह्यं यदि वरो देयस्तदा भक्तिं दृढां त्वयि । देहि मे परमेशान यया मोहो विनश्यति ॥ ६४॥ सृष्टिसर्जनसामर्थ्यं भजतां कामपूरणम् । निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥ ६५॥ गुणेशवचनं श्रुत्वा सुप्रसन्नो गजाननः । मेघगाम्भीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥ ६६॥ श्रीगणेश उवाच । भविता मे महाभक्तिः सृष्टीनां रचनास्तथा । नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवेत् ॥ ६७॥ भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ । महाकार्ये समुत्पन्ने दास्येऽहं दर्शनं च ते ॥ ६८॥ स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति । पठतां श‍ृण्वतां चैव ब्रह्मभूतकरं महत् ॥ ६९॥ (Page खं. १ अ. ९ पान २३) स्तोत्रं ब्रह्मपतेः साक्षान्नाम्ना वै स्तुतिसारकम् । भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥ ७०॥ सकामेभ्यो जनेभ्योऽपि कामदं चिन्तितप्रदम् । निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥ ७१॥ मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितम् । त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥ ७२॥ श्रीशिव उवाच । इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः । देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥ ७३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथम खण्डे वक्रतुण्डचरिते गुणेशवरप्रदानं नामाष्टमोऽध्यायः ॥ १.८

१.९ अष्टधा प्रकृतिवर्णनं नाम नवमोऽध्यायः

॥ श्रीगणेशाय नमः । श्रीशिव उवाच । वरदानप्रभावेण गुणेशो ज्ञानवानभूत् । समर्थो भगवान् साक्षात् स्रष्टुं तत्र मनो दधे ॥ १॥ तस्य निःश्वासतो वेदा निःमृता रूपधारिणः । सर्वज्ञानकराः साक्षाद्भास्वन्तो गुरवः सताम् ॥ २॥ पश्चात्तेन गुणेशेन समभूतात्मकं जगत् । सृष्टं सुषुप्तिसंज्ञं च महत्तत्त्वादिभिः समैः ॥ ३॥ आनन्दव्यवहारत्वात् प्रधानमिति कथ्यते । कारण द्वन्द्वभावानां तेन कारणकं स्मृतम् ॥ ४॥ माया तमःकरी यस्मात्तेन तामसतां गतम् । समानव्यवहारं च प्रधानं मोहदं बभौ ॥ ५॥ स्वस्यापि जडभावश्च तेन न ज्ञायते सदा । किं कर्तव्यमकर्तव्यमिति तेन ततो महत् ॥ ६॥ तपः कृतं महोग्रं च दिव्यं वर्षसहस्रकम् । तेन प्रत्यक्षतां यातो गणेशो भक्तवत्सलः ॥ ७॥ स्तुतः प्रपूजितस्तेन कारणेन महायशाः । सामर्थ्यं योगरूपं च ददौ परमभावितः ॥ ८॥ वेदैश्चापि कृतं घोरं तपः परमदारुणम् । तेषां प्रत्यक्षतां यातो विघ्नेशो विघ्नवारणः ॥ ९॥ वेदैश्च संस्तुतो देवः स्तोत्रैः स्वस्वसमुद्भवैः । ब्राह्मणस्पत्यसूक्तेन बह्वृचः स्तुतवान् प्रभुम् ॥ १०॥ गणेशशान्तिकेनैव यजुस्तं स्तुतवत्तथा । नामाष्टकार्थकृत्स्तोत्रं तेन साम्ना च संस्तुतः ॥ ११॥ अथर्वशीर्षकं नाम तेनैवाथर्वणास्तुतः । इत्यादि गाणपत्यश्च स्तोत्रैर्नानाविधैः स्तुतः ॥ १२॥ पूजितो मूलमन्त्रेण सन्तुष्टस्तेन विघ्नहा । सर्वेषां गुरुरूपा वै भविष्यथ वरं ददौ ॥ १३॥ सर्वमान्या जगत्पूज्या वेदास्तेन कृतास्तदा । साङ्गोपाङ्गसमाचारा गुरवस्ते मताः खलु ॥ १४॥ पार्वत्युवाच । तमोगुणमयं स्वामिन् प्रधानं समरूपकम् । (Page खं. १ अ. ९ पान २४) वरं प्राप्य गणेशात्तु किं कृतं तेन तद्वद ॥ १५॥ मुद्गल उवाच । प्रियोक्तं वचनं श्रुत्वा हृष्टरोमा महेश्वरः । तां प्रत्युवाच भगवान् स्मयन्निव सुशान्तधीः ॥ १६॥ श्रीशिव उवाच । श‍ृणु प्रिये प्रवक्ष्यामि गणेशप्रीतिवर्धने । विभूतिं तस्य देवस्य त्वं वै भाग्यवती शिवे ॥ १७॥ गणेशवरदानेन सृष्टं तेनापि सूक्ष्मकम् । हिरण्यगर्भमान्तर्यं सात्त्विकं स्वप्नरूपकम् ॥ १८॥ महदादिमहातत्त्वैः सूक्ष्मभूतैश्च संवृतम् । द्वन्द्वविज्ञानमूलं तदन्तरिक्षस्थितं बभौ ॥ १९॥ बोधहीनेन तेनैव तपस्तप्तं सुदुष्करम् । तेन तुष्टो गणेशानो वाञ्छितं प्रददौ वरम् ॥ २०॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् । हिरण्यगर्भो भगवान् स्वप्नमायाधरः प्रभुः ॥ २१॥ तेन स्थूलस्वरूपं यत्सृष्टं राजससंज्ञकम् । जाग्रद्भोगकरं पूर्णं तत्त्वैश्च स्थूलरूपिभिः ॥ २२॥ ज्ञानहीनेन तेनाथ तपस्तप्तं सुदारुणम् । तपसा चैव सन्तुष्टो गणेशः करुणानिधिः ॥ २३॥ प्रत्यक्षतां ययौ तस्य जाग्रदन्नमयस्य च । तेनापि पूजितो देवः स्तुतस्तस्मै वरं ददौ ॥ २४॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् । ईश्वरोन्नमयश्चासावेकोनेकमकल्पयत् ॥ २५॥ जाग्रत्स्वप्नसुषुप्त्याख्यत्र्यवस्थाप्रचुराणि च । भिन्नभिन्नानि जातानि कोटिशः कोटिशः खलु ॥ २६॥ गुणेशरोमकूपेभ्यो निःसृतानि महन्ति च । अण्डानि भिन्नभिन्नानि सर्वतः संस्थितानि वै ॥ २७॥ व्याप्यरूपाणि चाण्डानि व्यापकश्च गुणेश्वरः । तयोरभेदभावे सा प्रकृतिर्ब्रह्मबिन्दुकम् ॥ २८॥ जाग्रता सृष्टमाकाशं ब्रह्म सर्वप्रकाशम् । शब्दमात्रमयं भूतमादिरूपं सनातनम् ॥ २९॥ आकाशेन च संसृष्टो वायुः स्पर्शगुणात्मवान् । वायुना रूपतन्मात्रं तेजः सृष्टं प्रकाशवत् ॥ ३०॥ तेजसा रससंयुक्ता आपः सृष्टाः प्रसारिणा । अद्भिर्गन्धगुणा पृथ्वी सृष्टा धारणधर्मिका ॥ ३१॥ तत्रैकैकप्रवेशेन पञ्चीकरणभागतः । पृथ्वी पञ्चगुणा जाता चतुर्भूतप्रवेशनात् ॥ ३२॥ आपश्चतुर्गुणा जातास्त्रयाणां सम्प्रवेशनात् । तेजस्त्रिगुणतां प्राप्तं भूतयोश्च प्रवेशनात् ॥ ३३॥ वायुर्द्विगुणवान् जात आकाशस्य प्रवेशनात् । आकाशमेकगुणभृद्भूतानां ब्रह्मसंज्ञितम् ॥ ३४॥ पञ्च भूतानि जातानि व्यवस्थासंयुतानि च । अष्टधा प्रकृतिः प्रोक्ता कोशरूपा सुशोभना ॥ ३५॥ तत्र कोशीस्वरूपेण गुणेशो बिम्बितो यतः । तेन सामर्थ्यमाप्राप्ता प्रकृतिश्चाष्टरूपिणी ॥ ३६॥ अष्टावरणसंयुक्तमण्डं सृष्टं स्वभावतः । तत्रैव पुरुषो जज्ञे विराट् स भगवान् शिवे ॥ ३७॥ पञ्चाशत्कोटिविस्तारः पृथ्व्याः प्रोक्तो मया च ते । आपो दशाधिकास्तस्यास्तेजस्ताभ्यो दशाधिकम् ॥ ३८॥ तस्माद्दशाधिको वायुस्तस्मात्स्वं वै दशाधिकम् । तस्माद्दशाधिकं जाग्रदभिमानं प्रकथ्यते ॥ ३९॥ तस्माद्दशाधिकं स्वाप्नं महत्तत्वमिति स्मृतम् । द्वितीयं नाम तस्यापि कथ्यते मुनिभिः सदा ॥ ४०॥ (Page खं. १ अ. १० पान २५) तस्माद्दशगुणा माया ज्ञेया सौषुप्तिकाऽधिका । गुणेशः पुरुषो ज्ञेयोऽनन्तोऽपारश्चतुर्थकः ॥ ४१॥ विराडावरणं कृत्वा स्थिता पृथ्वी सनातना । अद्भिः समावृता पृथ्वी तेजसापः समावृताः ॥ ४२॥ वायुना चावृतं तेजः खेन वायुः समावृतः । अहङ्कारेण संवृत्तमाकाशं देवि सर्वतः ॥ ४३॥ अहङ्कारश्च महता संवृतो राजसः स्वयम् । मायया च महत्तत्त्वं संवृतं स्वप्नसंज्ञितम् ॥ ४४॥ मायावरणमान्त्यं च ज्ञातव्यं विबुधैः परम् । अष्टावरणसंयुक्तमण्डं ते कथितं मया ॥ ४५॥ अण्डान्येतादृशान्येवासङ्ख्यातानि प्रिये बभुः । तिर्यगूर्ध्वमधस्तद्वद् गुणेशेन धृतानि च ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते अष्टधा प्रकृतिवर्णनं नाम नवमोऽध्यायः ॥ १.९

१.१० नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच । श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् । कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ १॥ शिव उवाच । पञ्चकोटिप्रविस्तारे योजनानां समन्ततः । तस्य देहे च भूतानि स्थावराणि चराणि च ॥ २॥ संस्थितानि च सर्वाणि भुवनानि चतुर्दश । तत्तेऽहं सम्प्रवक्ष्यामि समाहितमनाः श‍ृणु ॥ ३॥ पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् । पार्ष्ण्योर्महातलं तस्य जङ्घयोश्च तलातलम् ॥ ४॥ सुतलं जानुभागेऽस्य वितलं तूरुमण्डले । अतलं कटिसन्धौ च कट्यां भूलोकसंस्थितिः ॥ ५॥ नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः । महर्लोकश्व कण्ठे वै जनो लोको मुखे स्थितः ॥ ६॥ तपो लोको ललाटे च सत्यलोकः शिरःस्थितः । एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥ ७॥ सहस्रशीर्षशोभाढ्यः सहस्राननपादवान् । सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥ ८॥ सर्वत्र व्याप्यभावेन स्थितोऽसौ परमेश्वरः । मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥ ९॥ तस्यान्तरे स्थितं रूपं नाम्ना हैरण्यगर्भकम् । एतादृशं तथा स्वप्नं विश्वरूपं विराजति ॥ १०॥ बहिर्वैश्वानरश्चायं जाग्रद्वैराटसंज्ञितः । हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥ ११॥ उभयोः समभावेन बाह्यान्तरसरूपतः । ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥ १२॥ त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति । (Page खं. १ अ. १० पान २६) तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥ १३॥ अथ श‍ृणु विभिन्नानामुत्पत्तिं त्वल्पभावनाम् । नानाभावधरां तां वै चराचरमयीं पराम् ॥ १४॥ विराडज्ञानभावेनावृतस्तेन तपः कृतम् । एकाक्षरविधानेन गणेशं सन्दधौ हृदि ॥ १५॥ सोऽतपत्तप उग्रं च दिव्यवर्षसहस्रकम् । तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥ १६॥ बोधयामास तं देवो वरं ब्रूहीति सोऽब्रवीत् । गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥ १७॥ धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् । धन्या मे सम्पदो देव त्वदङ्घ्रियुगदर्शनात् ॥ १८॥ इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् । वाचा संस्पष्टया हृष्टो भगवान् विश्वधारकः ॥ १९॥ विराडुवाच । नमस्ते गणनाथाय गणानां पतये नमः । विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥ २०॥ सिद्धिबुद्धिपते तुभ्यं नानासिद्धिप्रदायिने । नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥ २१॥ मनोवागतिभूताय योगिनां हृदि वासिने । नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥ २२॥ नमो नमो महेशाय शिवाय शिवदायिने । सर्वत्र समभावाय विष्णवे प्रभविष्णवे ॥ २३॥ तेजोराशिपते तुभ्यं भानवे ते नमो नमः । नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥ २४॥ स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च । सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥ २५॥ सर्वेभ्यो भिन्नरूपाय मायाहीनाय ते नमः । मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥ २६॥ गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः । अतो मयि गणेशान कृपयाऽनुग्रहं कुरु ॥ २७॥ इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् । वैराटः पुरुषस्तत्र कृताञ्जलिपुटः स्थितः ॥ २८॥ भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः । वरं वरय दास्यामि शङ्कां मा कुरु विश्वप ॥ २९॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिकरं भवेत् । यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥ ३०॥ यं यं चिन्तयते कामं तं तं दास्यामि वाञ्छितम् । भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥ ३१॥ इत्युक्तवन्तं गणनाथमाद्यं वैराटदेवः प्रणनाम तं वै । भावेन युक्तो वचनं जगाद हृष्टः स्वयं विघ्नहरं प्रभुं च ॥ ३२॥ वैराट उवाच । यदि तुष्टोऽसि देवेश यदि देयो वरो महान् । तव भक्तिं दृढां देहि यया मोहो विनश्यति ॥ ३३॥ अतुलं सर्जनं सृष्टेः पालनं हरणं तथा । करोमि त्वत्प्रसादेन भक्तेभ्यो भुक्तिमुक्तिद ॥ ३४॥ ऐश्वर्यमतुलं देहि गजानन महाप्रभो । यं यमिच्छामि तत्सर्वं सिध्यतु त्वत्प्रसादतः ॥ ३५॥ शिव उवाच । तथेति वचनं चोक्त्वा गणेशोन्तरधीयत । विराट् हर्षेण संयुक्तो गणेशं हृद्यभावयत् ॥ ३६॥ एवं देवि च सर्वत्र नानाण्डेषु स्थितैः परैः । वैराटैस्तैः कृतं पूर्णं गणेशतप उत्तमम् ॥ ३७॥ तेन सर्वे महात्मानः स्वस्वकर्मणि संस्थिताः । निर्विघ्ना वरदानेन भगवन्तः सनातनाः ॥ ३८॥ अनन्तानि प्रजानीहि ब्रह्माण्डानि न शक्यते । वक्तुं केनापि हेरम्बं विना तानि यथायथम् ॥ ३९॥ सततं गणनाथोऽपि न सङ्ख्यातुं प्रवर्तते । गणना शब्दशास्त्रेषु यावती ह्यधिकं ततः ॥ ४०॥ अतः केनापि सङ्ख्यानं न कृतं वेदवादिना । अनन्तानि महाण्डानि ज्ञातव्यानि जगन्मयि ॥ ४१॥ एवं प्रभावयुक्तोऽसौ हृदये मे प्रवर्तते । गणेशो ध्यानलोभी च भक्तेशो भक्तवत्सलः ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः ॥ १.१०

१.११ पञ्चदेववरप्रदानं नामैकादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच । भगवन् देवदेवेश कृपां कृत्वा वदस्व मे । वैराटेन कथं सृष्टं जगत्स्थावरजङ्गमम् ॥ १॥ अन्यच्च ब्रुहि मे नाथ ध्यानमार्गं पुरातनम् । येन साक्षात्करिष्यामि गणेशं नाऽत्र संशयः ॥ २॥ मुद्गल उवाच । इति पृष्टो महादेव्या महादेवः प्रहृष्टवान् । कथां परमपुण्यां च कथयामास तां श‍ृणु ॥ ३॥ दक्ष उवाच । गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते । कथयस्व महाभाग शिवेन कथितं तु यत् ॥ ४॥ मुद्गल उवाच । धन्योऽसि दक्ष लोकेषु येन सादरता च ते । गणेशेऽमृतधारायां कथायां नाऽत्र संशयः ॥ ५॥ प्रहृष्टां गिरिजां दृष्ट्वा शिवो वचनमब्रवीत् । धन्या धन्या महाभागे श‍ृणु सादरमादितः ॥ ६॥ शिव उवाच । गणेशं मनसा ध्यात्वा वैराटः स्रष्टुमारभत् । तस्य नाभेः समुत्पन्नो ब्रह्मा लोकपितामहः ॥ ७॥ मुखाद्विष्णुर्जगत्पाता नेत्राच्चाऽहं हरोऽभवम् । सृष्टिस्थितिलयाधारास्त्रिरूपगुणधारकाः ॥ ८॥ वामाङ्गाच्छक्तिरुत्पन्ना त्वं वै पार्वति मोहिनी । दक्षिणाङ्गाद्रविः साक्षात्कर्माधारः समाभवत् ॥ ९॥ पञ्च देवाः समुत्पन्ना भिन्ना जाताः स्वभावतः । न विदुः किञ्चिदात्मानं वैराटं चापि शोभने ॥ १०॥ अन्धे तमसि सर्वत्र बभ्रमुर्बहुकालतः । न किञ्चित्प्रापुरायासात् स्थिताः परमदुःखिताः ॥ ११॥ किं कर्तव्यं क्व गन्तव्यमज्ञानेनावृता भृशम् । कस्माद्वयं समुत्पन्ना न जानीमो महाप्रभुम् ॥ १२॥ अथ चिन्तयतां तेषां बुद्धिर्जाता सुनिश्चिता । तपः कर्तुं समारब्धं यस्मै कस्मै नमोस्त्विति ॥ १३॥ सर्वेषां मूलभूतं यद्यादृशं तादृशं खलु । (Page खं. १ अ. ११ पान २८) स्वधीस्थं तत्समाचिन्त्य तपस्तप्तं सुदारुणम् ॥ १४॥ तपसा गणनाथस्तु प्रसन्नोंऽतरमाश्रितः । तत्र दृष्टिः समुत्पन्ना तेषां वै भावितात्मनाम् ॥ १५॥ हृदये बीजरूपं यत्स्फुरत्तद् दृष्टमद्भुतम् । एकाक्षरं महामन्त्रं प्राप्य तं हर्षमाययुः ॥ १६॥ तं मन्त्रं जपमानैस्तैस्तदारभ्य जगन्मयि । तेन मन्त्रप्रभावेण ज्ञानं प्राप्तं सुनिर्मलम् ॥ १७॥ दिव्यवर्षसहस्रेण प्रत्यक्षः समजायत । गणेशो भक्तिभावेन पुरस्तेषां समुत्थितः ॥ १८॥ अनन्तकोटिसूर्यौजाः शुण्डादण्डविराजितः । चतुर्बाहुधरो लम्बोदरः साक्षात् विभूषितः ॥ १९॥ भूषणैरायुधैश्चैव सिद्धिबुद्धिसमन्वितः । भक्तानन्दकरः श्रीमानाखुवाहो महाद्युतिः ॥ २०॥ तं दृष्ट्वा भयभीतास्ते देवाः शम्भुपुरोगमाः । किमिदं तेज आयाति प्रलयाग्निसमं महत् ॥ २१॥ अस्मान् धक्ष्यति किं देवः विघ्नेश करुणानिधे । तव भक्ता वयं स्वामिन् कथं विघ्नेन भाविताः ॥ २२॥ इति तेषां वचः श्रुत्वा त्वभवत्सौम्यरूपवान् । तं दृष्ट्वा हर्षिताः सर्वे प्रणेमुर्भावपूर्वकम् ॥ २३॥ गणेशदर्शनेनैव स्फूर्तिः प्राप्ता महाद्भुता । तया सर्वे यथातथ्यं ज्ञातं तैः पञ्चभिः पुरः ॥ २४॥ ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः । हृष्टरोमाण एवं ते स्रवदश्रुजलाविलाः ॥ २५॥ पञ्चदेवा ऊचुः । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥ २६॥ हेरम्बाय नमस्तुभ्यं दुढिराजाय ते नमः । विनायकाय देवाय ब्रह्मणां नायकाय च ॥ २७॥ लम्बोदराय सिद्धेश गजाननधराय च । शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥ २८॥ लम्बोष्ठायैकदन्ताय सर्वेशाय गणाधिप । अनन्तमहिमाधार धरणीधर ते नमः ॥ २९॥ नमो मायामयायैव मायाहीनाय ते नमः । मोहदाय नमस्तुभ्यं मोहहन्त्रे नमो नमः ॥ ३०॥ पञ्चभूतमयायैव पञ्चभूतधराय च । इन्द्रियाणां चाधिपायेन्द्रियज्ञानप्रकारिणे ॥ ३१॥ अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः । अन्नायान्नपते तुभ्यमन्नान्नाय नमो नमः ॥ ३२॥ प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे । चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥ ३२॥ विज्ञानाय च विज्ञानपतये द्वन्द्वधारिणे । विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥ ३४॥ आनन्दाय नमस्तुभ्यमानन्दपतये नमः । आनन्दानन्ददात्रे च कारणाय नमो नमः ॥ ३५॥ चैतन्याय च यत्नाय चेतनाधारिणे नमः । चैतन्येभ्यः स्वचैतन्यदायिने नादरूपिणे ॥ ३६॥ बिन्दुमात्राय बिन्दूनां पतये प्राकृताय च । भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥ ३७॥ सोऽहम्मात्राय शून्याय शून्याधाराय देहिने । शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥ ३८॥ ज्ञानाय बोधनाथाय बोधानां बोधकारिणे । मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥ ३९॥ विदेहाय नमस्तुभ्यं विदेहाधारकाय च । विदेहानां विदेहाय साङ्ख्यरूपाय ते नमः ॥ ४०॥ (Page खं. १ अ. ११ पान २९) नानाभेदधरायैव चैकानेकादिमूर्तये । असत्स्वानन्दरूपाय शक्तिरूपाय ते नमः ॥ ४१॥ अमृताय सदाखण्डभेदाभेदविवर्जित । सदात्मरूपिणे सूर्यरूपाधाराय ते नमः ॥ ४२॥ सत्यासत्यविहीनाय समस्वानन्दमूर्तये । आनन्दानन्दकन्दाय विष्णवे ते नमो नमः ॥ ४३॥ अव्यक्ताय परेशाय नेतिनेतिमयाय च । शिवाय शाश्वतायैव मोहहीनाय ते नमः ॥ ४४॥ संयोगेन च सर्वत्र समाधौ रूपधारिणे । स्वानन्दाय नमस्तुभ्यं मौनभावप्रदायिने ॥ ४५॥ अयोगाय नमस्तुभ्यं निरालम्बस्वरूपिणे । मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥ ४६॥ शान्तिदाय नमस्तुभ्यं पूर्णशान्तिप्रदाय ते । योगानां पतये चैव योगरूपाय ते नमः ॥ ४७॥ गणेशाय परेशाय ह्यपारगुणकीर्तये । योगशान्तिप्रदात्रे च महायोगाय ते नमः ॥ ४८॥ गुणान्तं न ययुर्यस्य वेदाद्या वेदकारकाः । स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥ ४९॥ तेन वै भगवान् साक्षाच्चिन्तामणिगजाननः । प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥ ५०॥ इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे । गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥ ५१॥ श्रीगणेश उवाच । पञ्चदेवा महाभागाः प्रसन्नो भवतां स्तवैः । तपसा च तथा भक्त्या वाञ्छितं ब्रूत वै वरम् ॥ ५२॥ भवत्कृतमिदं स्तोत्रं परमाल्हादवर्धनम् । मम प्रीतिकरं भक्त्या सर्वदं प्रभविष्यति ॥ ५३॥ यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक् । पुत्रपौत्रयुतः श्रीमानन्ते स्वानन्दमाप्नुयात् ॥ ५४॥ सप्तवारं पठेन्नित्यमेकविंशतिवासरम् । कारागृहगतो वाऽपि मुच्यते बन्धनात् स्वयम् ॥ ५५॥ एककालं द्विकालं वा त्रिकालमपि यः पठेत् । स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥ ५६॥ मारणोच्चाटनादिभ्य एकविंशतिवारतः । तावद्दिनानि पाठेन तस्य नैव भयं भवेत् ॥ ५७॥ धनधान्यादिकं सर्वम्मारोग्यं पशुवर्धनम् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ५८॥ शिव उवाच । गणेशवचनं श्रुत्वा हृष्टा विष्ण्वादयः सुराः । प्रणिपत्य गणाधीशं कृताञ्जलिपुटा जगुः ॥ ५९॥ पञ्चदेवा ऊचुः । सनाथा हि वयं जाताः सर्वे त्वय्यागते प्रभो । वरं देहि गणाधीश तव भक्तिं दृढां तथा ॥ ६०॥ तेन माया न बाधेत नरान् देवानपि प्रभो । किमस्माभिः प्रकर्तव्यं तदाज्ञापय सर्वदा ॥ ६१॥ सामर्थ्यं विविधं देहि भजतां कामपूरणम् । स्थानं सदानन्दनाम देहि नाथ नमोऽस्तु ते ॥ ६२॥ गणेश उवाच । चतुर्मुख महाबाहो रजोगुणसमुद्भव । सृष्टिकर्ता भव त्वं वै ब्रह्मा नाम्ना महाद्युते ॥ ६३॥ सत्यलोकनिवासी तु हंसवाहनवान् भव । वेदादिज्ञानयुक्तश्च सर्वेषां त्वं पितामहः ॥ ६४॥ चतुर्भुजोऽसि देवेश त्वं वै सत्त्वसमुद्भवः । पालकः सर्वलोकानां विष्णुनामा भविष्यसि ॥ ६५॥ वैकुण्ठे वसतिस्ते स्यात् वाहनं गरुडस्तव । (Page खं. १ अ. ११ पान ३०) नानावतारवांश्चापि भविष्यसि महाबलः ॥ ६६॥ पञ्चवक्त्र महातेजस्तमोगुणसमुद्भव । संहारकारको नित्यं हरनामा भविष्यसि ॥ ६७॥ कैलासे वसतिस्तेऽस्तु वाहनं वृषभस्तथा । तृतीयेन स्वनेत्रेण सर्वं भस्मीकरिष्यसि ॥ ६८॥ सहस्रकिरण त्वं वै सूर्यनामा भविष्यसि । कर्मणां चालकत्वात् षडृतुधर्मप्रकाशकः ॥ ६९॥ त्रिगुणानामहम्भावात्त्वं जातोऽसि प्रकाशकः । रथोश्वालङ्कृतश्चापि वाहनं ते भविष्यति ॥ ७०॥ सौरलोके निवासश्च ग्रहराजो भविष्यसि । वृष्टिमूलं त्वमेऽवासि तेजोराशिः प्रतापवान् ॥ ७१॥ चतुर्भुजे महाशक्ते त्वं जाताऽसि त्रिदेहतः । नानाविषयभोगार्थं सदेहा मोहकारिणी ॥ ७२॥ शक्तिनाम्नी महामाया भविष्यसि न संशयः । द्विधा मोहप्रदात्री त्वं भुक्तिमुक्तिभ्रमात्मिका ॥ ७३॥ सिंहवाहनगा नित्यं शक्तिलोकनिवासिनी । नानाभोगविमोहेन जगत्त्वं मोहयिष्यसि ॥ ७४॥ महाकार्ये समुत्पन्ने प्रत्यक्षोऽहं भवामि वै । मत्तुल्याः सर्वभावेन कृता देवा न संशयः ॥ ७५॥ आयुधं भूषणं श्रेष्ठं नानासामर्थ्यमद्भुतम् । सङ्कल्पसिद्धतां चैव ददौ तेभ्यो गणाधिपः ॥ ७६॥ शिव उवाच । इति दत्त्वा वरान् देवो गणेशोंऽतर्दधे स्वयम् । तेऽपि हृष्टा निजात्मानं कृतकृत्यं च मेनिरे ॥ ७७॥ भजतां भक्तिभावेन कामपूराः कृता वयम् । परमेश्वरतां प्राप्ताः प्रसादाद्गणपस्य च ॥ ७८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पञ्चदेववरप्रदानं नामैकादशोऽध्यायः ॥ १.११

१.१२ ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सूत महाप्राज्ञ परमानन्ददायक । कथाममृतरूपां च कथयस्व महाद्युते ॥ १॥ वयं प्रसन्नतां याताः कृतकृत्या यथा तथा । सुकथामृतपानेन स्वानन्देन परिप्लुताः ॥ २॥ कथयस्व कथां दिव्यां पञ्चदेवैश्च किं कृतम् । विस्तारेण यथान्यायं येन मुक्ता भवाम च ॥ ३॥ श्रुत्वा तेषां मुनीनां च वचनं भक्तिभावितम् । हृष्टः सूतः पुनः प्राह कथां पापप्रणाशिनीम् ॥ ४॥ सूत उवाच । एवमेव स दक्षेण पृष्टो योगीश्वरो महान् । मुद्गलस्तं यथोवाच तथा वच्मि महामुने ॥ ५॥ मुद्गल उवाच । श‍ृणु दक्ष महाभाग पार्वत्या शिवसन्निधौ । यत्पृष्टं यछ्रुच्तं सर्वं कथयामि सविस्तरम् ॥ ६॥ (Page खं. १ अ. १२ पान ३१) पार्वत्युवाच । भगवन् देवदेवेश तारिताऽहं त्वया प्रभो । सुकथामृतपानेन कृतकृत्याऽस्मि साम्प्रतम् ॥ ७॥ पञ्च देवाः समर्थाश्च प्राभवन् वरदानतः । किं चक्रुस्ते महात्मानः कथयस्व विधानतः ॥ ८॥ गणेशभक्तियुक्तं चेच्चरितं कथयस्व मे । अथवा गाणपत्यानां चरितं ब्रह्मदायकम् ॥ ९॥ व्यर्थसंलपनेनायुर्नाशः कार्यो न शोभनैः । धन्यास्ते साधवो लोका गणराड्भक्तिभाविताः ॥ १०॥ मुद्गल उवाच । प्रियाया वचनं श्रुत्वाऽतिहृष्टः स महेश्वरः । उवाच स्मयमानश्चालिङ्ग्य देवीं महायशाः ॥ ११॥ शिव उवाच । धन्याऽसि पार्वति त्वं च सार्थकं जन्म ते परम् । भक्त्या धृतो गणेशोऽयं हृदि तेन वरानने ॥ १२॥ गणेशभक्तियुक्ता ये नरास्ते ब्रह्मरूपिणः । दर्शनान्मुक्तिदातारः सर्वेभ्यो नात्र संशयः ॥ १३॥ गणेशं यः परित्यज्य सिद्धिमिच्छति शाश्वतीम् । स मूढात्मा तु विज्ञेयो नारकी नात्र संशयः ॥ १४॥ अन्यदेवस्य ये भक्ता गणेशं नार्चयन्ति चेत् । तेषां न भविता सिद्धिर्नरकेषु पतन्ति ते ॥ १५॥ सुधां सन्त्यज्य रूक्षान्नं सेवते दुर्मतिर्यथा । गणेशानं तथा त्यक्त्वाऽन्यस्य देवस्य सेवकः ॥ १६॥ अस्माकं जनको माता सर्वेषां नात्र संशयः । ज्येष्ठराज इति ख्यातस्तेनादौ पूज्यकोऽभवत् ॥ १७॥ त्यक्त्वा गणेशं मूढात्मा देवादीनपि पूजयेत् । गणेशोल्लङ्घनात्तं वै क्षिपामो नरके वयम् ॥ १८॥ गणेशनिन्दको जन्तुरस्माकं भक्तिकारकः । नारकी भविता सद्योस्मद्गुरुद्वेषकारकः ॥ १९॥ अतस्त्वं धन्यरूपाऽसि सर्वेषां मूलबीजकम् । भजसि त्वं गणेशानं भक्तिभावसमन्विता ॥ २०॥ सत्यं देवि त्वया प्रोक्तं गाणेशानां प्रकीर्तनम् । गणेशस्य च वा कार्ये तेन जन्म कृतार्थकम् ॥ २१॥ गणेशं प्रार्थयामीति श‍ृणु चिन्तामणे प्रभो । चित्त निवासकारिन् वै गजानन महोदर ॥ २२॥ गाणपत्या महाभागास्तेषां सङ्गः सदास्तु मे । तेषां मध्ये तथा वासं देहि त्वं द्विरदानन ॥ २३॥ अग्रे मे गाणपत्यास्ते पृष्ठे वामे च दक्षिणे । सर्वत्र सह तैर्वासो गाणपत्यैर्भवत्विति ॥ २४॥ येषां मुखारविन्देषु गणेशचरितं बभौ । भवबन्धहरं पूर्णमिहाऽमुत्र सुखप्रदम् ॥ २५॥ चरितं गाणपत्यानां गणराट्सेवनात्मकम् । अहर्निशं प्रभवति चेष्टदं ढुण्ढिभक्तिदम् ॥ २६॥ तारितोऽहं त्वया देवि कथां पृच्छसि मां पुनः । गणेशभक्तिपूतां वा भक्तानां तस्य भावतः ॥ २७॥ प्रष्टुः श्रोतुश्च वक्तुर्या ब्रह्मभूयपदप्रदा । इह तां तु वदामि त्वां गाणेशीं सुखदायिनीम् ॥ २८॥ पञ्चदेवास्तथा जाता यथा गणपतिः स्वयम् । वरदः कथयामास ईश्वराज्ञानभाविताः ॥ २९॥ पञ्चलोकाः समुद्भता वरदानप्रभावतः । निराधारा अखण्डाश्चावसंस्तेषु विभागशः ॥ ३०॥ कैलासे शङ्करश्चैव वैकुण्ठे विष्णुरेव च । सौरलोके रविः शक्तिलोके चैव जगन्मयि ॥ ३१॥ सत्यलोके तथा ब्रह्मा वसति स्म मुदान्वितः । (Page खं. १ अ. १२ पान ३२) ऐश्वर्यभोगभोक्तारः परस्परहिते रताः ॥ ३२॥ सत्यसङ्कल्पवन्तस्त ईश्वरा ब्रह्ममानिनः । बहुकालेन तेषां वै मत्सरः समजायत ॥ ३३॥ अहं श्रेष्ठतमश्चैव सर्वेषां प्रभुरीश्वरः । हृदये मन्यमानास्ते विवादं चक्रुरञ्जसा ॥ ३४॥ आपश्च तत्र संसृष्टा विष्णुना स्वशरीरतः । तासु संसुप्तवान् देवो बहुकालं यथासुखम् ॥ ३५॥ जले शैवालवल्ली च समुत्पन्ना क्रमेण वै । बहुकालेन तन्मध्ये पृथ्वी जाता स्वभावतः ॥ ३६॥ लीलार्थे विष्णुना सृष्टं नाभ्यां कमलमुज्ज्वलम् । शतयोजनविस्तारं कर्णिकापत्रशोभितम् ॥ ३७॥ सुवासबहुलं वीक्ष्य तेन रेमे जनार्दनः । एककाले जगाम स्म तत्र ब्रह्मा पितामहः ॥ ३८॥ कमलं तेन सन्दृष्टं विस्मितो हृदये भृशम् । केन सृष्टमिदं दिव्यं पद्म परमशोभनम् ॥ ३९॥ तत्र नारायणं दृष्ट्वा प्रसुप्तं स महार्णव । प्रभुमुत्थापयामास ब्रह्मा तं स्नेहभावतः ॥ ४०॥ ब्रह्मणो वचनेनैव समुत्तस्थौ जनार्दनः । ब्रह्माणं मानयामास स्वागतं भो पितामह ॥ ४१॥ तत्र ब्रह्मा महाविष्णुं प्रत्युवाच समत्सरः । किं मोहार्थं त्वया स्मृष्टं पद्मं परमशोभनम् ॥ ४२॥ अहं ब्रह्मा जगत्स्रष्टा सर्वादिः सर्वभावनः । मया प्रक्रियते सृष्टिः पश्चात्त्वं पालयिष्यसि ॥ ४३॥ सृजामि यदि नो तां चेत्किं पासि त्वं जनार्दन । मदधीनश्च सर्वेषां भावस्तेनाहमीश्वरः ॥ ४४॥ ब्रह्मणो वचनं श्रुत्वा विस्मितः स जनार्दनः । उवाच मधुरं वाक्यं ब्रह्माणं सान्त्वयन्निव ॥ ४५॥ विष्णुरुवाच । सृष्टवान् कमलं नाहं मोहितुं त्वां पितामह । लीलार्थं पद्ममेवेदं पश्य त्वं नात्र संशयः ॥ ४६॥ समत्सरमिदं वाक्यं त्वयोक्तं यत् पितामह । अहं त्वां पालयामीदं तेन स्रष्टा भवान् किल ॥ ४७॥ नान्यो पातास्ति मत्तस्ते सर्वेषां पातृभावतः । अहं स्थितो महाविष्णुर्मत्समो नैव विद्यते ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः ॥ १.१२ (Page खं. १ अ. १३ पान ३३)

१.१३ पञ्चदेवविवादो नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । श‍ृणु देवि कथां पुण्यां गणेशप्रीतिवर्धिनीम् । यज्जातमादिकाले वै तत्तेऽहं कथयामि च ॥ १॥ विष्णोर्वचनमाकर्ण्य गर्वयुक्तं प्रभावतः । भगवांस्तमुवाचेदं वेदकर्ता पितामहः ॥ २॥ ब्रह्मोवाच । विष्णो त्वं यदि मां पाता सर्वेशश्च महान् प्रभुः । पश्योदरगतो भूत्वा प्रभावं मे जगद्गुरो ॥ ३॥ ब्रह्मणो गिरमाकर्ण्य प्रविष्टोऽसौ जनार्दनः । योगमायाबलेनैव योगीशो जठरे विधेः ॥ ४॥ ब्रह्माण्डरचनां तत्र दृष्ट्वा नानाविधां पराम् । नाभिपद्मयुतं विष्णुं ददर्श पुरुषोत्तमः ॥ ५॥ विस्मितो हृदि मोहेन किमद्भुतमिदं महत् । पश्यन्नान्तं जगामाऽसौ निःसृतो देहमध्यतः ॥ ६॥ निःसृतः प्रणिपत्याऽऽदौ तं विधिं त्ववदत्प्रभुः । ब्रह्मन्नान्तं प्रजानामि त्वदीयं वै न संशयः ॥ ७॥ त्वदीयजठरेऽहं वै स्थितस्तेन भवान् गुरुः । सर्वेशो नात्र सन्देहः स्रष्टा त्वं स्वप्रभावतः ॥ ८॥ त्वमेव भगवन् पश्य मदीये जठरे परम् । प्रभावं पूर्णभावेन मदीयं कीदृशं प्रभो ॥ ९॥ नारायणवचः श्रुत्वा ब्रह्मा विस्मितमानसः । योगस्यैव प्रभावेण गतस्तत्र यथारुचि ॥ १०॥ विष्णोश्च जठरे ब्रह्मा ब्रह्माण्डं लोकसङ्कुलम् । ब्रह्माणमपरं तत्र स्थितं पश्यन् विमोहितः ॥ ११॥ ब्रह्मा नान्तं जगामाऽसौ पश्यन् पश्यन् महात्मनः । बहिर्गन्तुं मनश्चक्रे विष्णुना मार्ग आवृतः ॥ १२॥ द्वाराणि योगभावेन पिहितानि स्वमायया । भ्रमन् भ्रमन् स्वयं ब्रह्मा प्राप नो मार्गमुत्तमम् ॥ १३॥ तत्र योगबलेनाऽपि ब्रह्मा वै पद्मनालतः । निर्भिद्य सहसा द्वारं ययौ तेन बहिर्विधिः ॥ १४॥ बहिरागत्य विष्णु तं क्रोधेन स जगाद ह । वशमानीय मां किं त्वं स्वच्छन्दो भवसि प्रभो ॥ १५॥ अहं स्वेन प्रभावेण निःसृतो योगमायया । द्वाराणि पिहितान्येव किमर्थं वद माधव ॥ १६॥ वचनं प्राह देवस्य श्रुत्वा विष्णुमहायशाः । प्रहस्य तमुवाचेत्थं स्नेहयुक्तं समाहितः ॥ १७॥ विष्णुरुवाच । वशीकर्तुं विधे त्वाहमिच्छामि न जगद्गुरो । द्वाराणि पिहितान्येव मया क्रीडार्थमादरात् ॥ १८॥ परस्परं तु लीलार्थं कृतं यत्प्रपितामह । प्रभावं ज्ञातुकामस्य त्वपराधं क्षमस्व मे ॥ १९॥ इति प्रसादितो ब्रह्मा प्रसन्नः प्राह तं पुनः । क्रीडार्थं यत्त्वया विष्णो कृतं ज्ञातं न वै मया ॥ २०॥ अहं क्रोधसमायुक्तः सञ्जातोऽज्ञानतः प्रभो । अप्रियं भाषणं विष्णो यत् क्षमस्व कृतं मया ॥ २१॥ तवान्तं नैव जानामि जठरेऽहं समास्थितः । त्वं श्रेष्ठो मे गुरुः साक्षान्नात्र संशयवान् हरे ॥ २२॥ भवानहमतः प्राज्ञौ श्रेष्ठौ सर्वेश्वरौ परौ । शम्भुः शक्तिश्च सूर्यश्च गर्वयुक्ता बभूविरे ॥ २३॥ तेषां प्रमाणं तज् ज्ञेयमिति सस्मरतुः प्रभू । तयोः स्मरणमात्रेण संययुस्तत्र ते त्रयः ॥ २४॥ प्रथमं प्राप्तवांस्तत्र शङ्करः शूलधृक् प्रभुः । उक्तवांस्तौ किमर्थं मे स्मरणं वदतं कृतम् ॥ २५॥ (Page खं. १ अ. १३ पान ३४) तत्रोचतुर्हरिर्ब्रह्मा श‍ृणु शङ्कर मे वचः । तवैश्वर्यं कियन्मानं दर्शयस्व सदाशिव ॥ २६॥ तयोर्वचनमाकर्ण्य गर्वयुक्तः सदाशिवः । उवाच क्रोधसंयुक्तो वचनं विस्मयन्निव ॥ २७॥ शिव उवाच । अहं हर्ता च सर्वेषां युवयोर्नात्र संशयः । मत्तः परं न किञ्चिद्वै ज्ञातव्यं सर्वभावतः ॥ २८॥ इत्युक्त्वा स स्वयं शम्भुर्दर्शयामास तौ वपुः । ज्योतीरूपं महालिङ्गं परं सर्वत्र संस्थितम् ॥ २९॥ तत्तौ दृष्ट्वा महाश्चर्यं विस्मितौ विधिमाधवौ । अध ऊर्ध्वं पुरः पश्चाद्वामदक्षिणसन्ततम् ॥ ३०॥ तत्र ब्रह्मा स्वयं विष्णुमुवाच मधुरं वचः । अधस्त्वं गच्छ देवेश ऊर्ध्वं गच्छामि भावतः ॥ ३१॥ शिवस्यान्तं प्रपश्यावः कीदृशोऽयं महेश्वरः । अतस्त्वं त्वरितो भूत्वा कुरु शीघ्रमिदं वचः ॥ ३२॥ इत्युक्तो ब्रह्मणा विष्णुस्तं प्रत्यूचे प्रभावतः । ब्रह्मन्मह्यं वरं देहि पश्चाद्गन्तुं समुत्सहे ॥ ३३॥ भ्रान्तो ब्रह्माऽभवत्तत्र वरं ब्रूहीति सोऽब्रवीत् । दास्यामि नात्र सन्देहः प्रीतस्त्वं वरयाशु च ॥ ३४॥ विष्णुरुवाच । त्वं मे पुत्रो भव ब्रह्मन्नेष एव वरो मतः । तस्य तद्वचनं श्रुत्वा विस्मितो विधिरब्रवीत् ॥ ३५॥ वञ्चितोऽहं त्वया नूनं सम्भ्रमेऽस्मिन् समुत्थिते । दत्तो वरो यतस्तेन तव पुत्रो भवाम्यहम् ॥ ३६॥ सृष्टिकाले च सम्प्राप्ते त्वन्नाभिकमलात् स्वयम् । देहं सृजामि योगेन पद्मजोऽहं तवात्मजः ॥ ३७॥ इत्युक्तः स हरिस्तत्र तं प्रणम्य तथेति च । प्रविष्टोधः शिवस्यापि द्रष्टुं पारं महात्मनः ॥ ३८॥ ब्रह्माऽपि त्वरितो भूत्वोर्ध्वं ययौ पारलिप्सया । न तत्र पारमीशस्य प्राप्तवान् स पितामहः ॥ ३९॥ विष्णुश्च शङ्करस्याधो न पारं दृष्टवान् ततः । बहुकालेन तो तत्राऽऽगतौ तौ खिन्नमानसौ ॥ ४०॥ परस्परविचारेण शङ्करं स्तोतुमुद्यतौ । बद्धाञ्जलिपुटावेतौ स्तोत्रं चक्रतुरुत्तमम् ॥ ४१॥ ब्रह्मविष्णू ऊचतुः । नमस्ते शङ्करायैव नमस्ते शूलपाणये । रुद्राय कालरूपाय त्र्यम्बकाय नमो नमः ॥ ४२॥ उमापते नमस्तुभ्यं वृषभेश्वरवाहन । आदिदेवाय देवाय महादेवाय ते नमः ॥ ४३॥ प्रसीद भगवन् शम्भो नान्तं पश्यावहे विभो । किंरूपं किंस्वभावं त्वां न जानीवः कथञ्चन ॥ ४४॥ दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते । येन ते भजनं देव जनाः कुर्वन्ति निर्भयाः ॥ ४५॥ तयोर्वचनमाकर्ण्य शम्भुः प्राकट्यमास्थितः । ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥ ४६॥ वामभागे स्थितं विष्णुं दक्षिणाङ्गे पितामहम् । विश्वं चराचरं सर्वं लिङ्गे तत्रास्य संस्थितम् ॥ ४७॥ अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् । उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥ ४८॥ तयोर्वचनमाकर्ण्य हृष्टः सन् शङ्करः प्रभुः । भगवान् पूर्वरूपेण सन्तस्थौ वृषभध्वजः ॥ ४९॥ उवाच तौ महादेवो वृणुतं वरमीप्सितम् । दास्यामि भवतोभावात् स्तोत्रसन्तुष्टमानसः ॥ ५०॥ (Page खं. १ अ. १४ पान ३५) य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् । मत्प्रियः सोऽपि भवति मल्लोकेंऽते प्रगच्छति ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पञ्चदेवविवादो नाम त्रयोदशोऽध्यायः ॥ १.१३

१.१४ गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । श‍ृणु देवि प्रवक्ष्यामि यज्जातं चाद्भुतं ततः । गणेशमायामोहेन मोहितानां चरित्रकम् ॥ १॥ शिवस्य वचनं श्रुत्वा विष्णुब्रह्माणमब्रवीत् । वरं वृणु विरिञ्च त्वां शिवात्पुत्रो भवेति मे ॥ २॥ तव पुत्रः शिवो जातस्तेन मे पौत्रतां गतः । उभयोः सफलं पूर्णं वाञ्छितं जातमद्भुतम् ॥ ३॥ विष्णोर्वचनमाकर्ण्य विधिः शङ्करमब्रवीत् । मम पुत्रो भव त्वं वै वर एष वृतो मया ॥ ४॥ विष्णुनाऽपि तदेवोक्तं तथा वै शङ्करोऽब्रवीत् । तव भालाद्भविष्यामि रुद्रोऽहं त्वंशतो विधे ॥ ५॥ शिवस्य वचनं श्रुत्वा सन्तुष्टौ विधिमाधवौ । ऊचतुः शङ्करं तत्र स्नेहात्तं भावपूर्वकम् ॥ ६॥ विधिवच्छिव पश्य त्वमैश्वर्यं चावयोः पृथक् । तेन तुष्टौ महादेव भविष्यावो न संशयः ॥ ७॥ तयोर्यदैश्वरं भावं शिवोऽपि ज्ञानचक्षुषा । दृष्ट्वा नान्तं जगामाऽसौ तौ पुनः प्रत्युवाच ह ॥ ८॥ भवतोर्महिमानं चापारं पश्यामि शाश्वतम् । वयं त्रयः समाख्याता ईश्वराः सर्वतः पराः ॥ ९॥ एतस्मिन्नन्तरे तत्राऽजगाम स दिवाकरः । तेजोराशिः सदात्मा च पृच्छति स्म समाहितः ॥ १०॥ किमर्थं स्मरणं देवा मदीयं कृतमादरात् । तन्मे कथयताद्य त्वागतोऽहं स्नेहतः परम् ॥ ११॥ भानोर्वचनमाकण्ये प्रहृष्टास्ते त्रयो भृशम् । ऊचुः प्रसन्नभावेनैश्वर्यं ते दर्शय प्रभो ॥ १२॥ तेषां श्रुत्वा गिरं सौम्यां दर्शयामास रूपकम् । तेजोमयमपारं यच्चराचरमयं महत् ॥ १३॥ सूर्यस्य तेजसा सर्वे निष्प्रभास्ते त्रयः कृताः । प्रणष्टदृष्टयो जाता न शेकुर्द्रष्टुमञ्जसा ॥ १४॥ ज्ञानदृष्ट्या च तं दृष्ट्वा चराचरतनुं प्रभुम् । अपाररूपं भास्वन्तं नतास्तं स्नेहभावतः ॥ १५॥ दर्शयित्वा तथात्मानं सौम्यरूपोर्यमाऽभवत् । तमूचुस्ते त्रयो देवा नान्तं ददृशिम प्रभो ॥ १६॥ अस्माकमपि पश्य त्वमैश्वर्यं स्नेहभावतः । तेषां तद्वचनं श्रुत्वा रविहृष्टो बभूव ह ॥ १७॥ ज्ञानदृष्ट्या रविस्तेषामैश्वर्यं दृष्टवान् परम् । उवाच प्रणतो भूत्वा विस्मितश्चेतसा भृशम् ॥ १८॥ भवन्तोऽपि महात्मानो नान्तं पश्यामि सर्वतः । युष्माकमैश्वरं भावमद्भुतं दृष्टवानहम् ॥ १९॥ (Page खं. १ अ. १४ पान ३६) वयं सर्वेश्वराः सर्वे भगवन्तः सनातनाः । न्यूनाधिकं कलामात्रं विद्यते नैव निश्चितम् ॥ २०॥ तस्मिन् क्षणे स्वयं शक्तिरागता मोहिनी परा । उवाच तान् प्रसन्ना मे किमर्थं स्मरणं कृतम् ॥ २१॥ तामूचुस्ते च चत्वारो देवाः स्नेहेन भाविताः । दर्शयस्व महादेवि ऐश्वर्यं कीदृशं तव ॥ २२॥ इत्युक्ता सा स्वरूपं तद्दर्शयामास सुन्दरम् । चराचरमयं पूर्णं स्थूलसूक्ष्मादिभिर्युतम् ॥ २३॥ दृष्ट्वा रूपं तदीयं वै भ्रान्तास्ते शरणं ययुः । नान्तं ददृशिमार्ये ते रूपस्य महतः किल ॥ २४॥ सौम्यरूपा तदा जाता तामूचुः पश्य भावतः । अस्माकं देवि चैश्वर्यं कीदृशा वयमेव च ॥ २५॥ तेषां वचनमाकर्ण्य ज्ञानदृष्ट्या स्म पश्यति । नान्तं जगाम तेषां वै नता सा तान्विशेषतः ॥ २६॥ उवाच स्नेहभावेन नान्तं पश्यामि कुत्रचित् । भवन्तोऽपि महात्मान ईश्वराः पूर्णभावतः ॥ २७॥ वयं पञ्च समा नाथा नान्तरं दृश्यते क्वचित् । कः समर्थो भवेद्देवो निश्चयो नैव दृश्यते ॥ २८॥ गणेशमायया भ्रान्ता अवदंस्ते परस्परम् । प्रभुरेकश्च सर्वत्र वेदे वै पठ्यते बुधैः ॥ २९॥ प्रभवः पञ्च कुत्रापि नोक्ताः शास्त्रेषु सम्मताः । अतः कोऽपि प्रभुर्भाव्यः स च वै कुत्र वर्तते ॥ ३०॥ एवं विवादे सम्प्राप्ते विस्मृतं ज्ञानमाद्यकम् । गाणेशं चित्तचाञ्चल्यादूर्ध्वं जग्मुः प्रभावतः ॥ ३१॥ न किञ्चिद्ददृशुस्तत्राधो भागे प्रययुस्ततः । एवं दश दिशो भ्रान्ताः पश्यन्तस्ते परस्परम् ॥ ३२॥ न किञ्चिद्ददृशुस्तत्र स्थिता एकत्र ते पुनः । योगमार्गेण चित्ते स्वे ध्यानं चक्रुः क्रमेण च ॥ ३३॥ ब्रह्माऽभेदस्वरूपं ते रेमिरे योगभावतः । एकीभूता इवात्मानः शान्तिं प्राप्ताः स्वभावतः ॥ ३४॥ ततस्तान् दर्शयामास योगिध्येयमनुत्तमम् । स्वरूपं गणराजस्तु हृदये संस्थितं परम् ॥ ३५॥ चतुर्भुज त्रिनेत्रं तच्छुण्डादण्डविराजितम् । एकदन्तं शूर्पकर्णं वक्रतुण्ड महोदरम् ॥ ३६॥ रक्तवर्णं महाकायं सिन्दूरालिप्तमेव च । नाभिशेषं किरीटादिनानाभूषणशोभितम् ॥ ३७॥ सिद्धिबुद्धियुतं पूर्णं विभूतिभिरूपासितम् । चिन्तामणिं मणिं चैव दधत्तु हृदये शुभम् ॥ ३८॥ प्रसन्नवदनं भक्तानुग्रहाणां प्रकारकम् । हृदि दृष्टाऽभवन्नेव विस्मितास्ते सुराः प्रिये ॥ ३९॥ तमादौ शङ्करस्यैव हृदि प्रकटतां गतः । तं पप्रच्छ स्वयं शभुः को भवान् वद मे प्रभो ॥ ४०॥ शान्तियोगेन सम्प्राप्तः किं न ब्रह्मपतिः परः । कथयस्व महाभाग त्वां न जानामि तत्त्वतः ॥ ४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः ॥ १.१४ (Page खं. १ अ. १५ पान ३७)

१.१५ गणेशप्रसन्नभावो नाम पञ्चदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । शिवस्य वचनं श्रुत्वा भक्तिभावेन तोषितः । उवाच मधुरं वाक्यं विघ्नेशस्तं प्रहर्षयन् ॥ १॥ वक्रतुण्ड उवाच । श‍ृणु शम्भो महाभाग मम मायाविमोहित । गणेशोऽहं पुनर्दृष्टस्तपसा भावितात्मना ॥ २॥ यः पुरा भवतो देव वरदाताऽभवं परः । उग्रेण तपसा तुष्टोऽकरवं ज्ञानसंयुतम् ॥ ३॥ ममैषा सततं माया प्रमोहयति मानवान् । तेन विस्मरणं प्राप्तं तवाऽपि न च संशयः ॥ ४॥ एवमुक्त्वा शिवं मायामोहजालं निराकरोत् । सर्वं च स्मरणं तेन पुनः प्राप्तं शिवस्य च ॥ ५॥ सर्वं स्मृत्वा शिवस्तत्र स्तोतुं समुपचक्रमे । तावदन्तर्हितं जातं रूपं गणपतेः शुभम् ॥ ६॥ पुनर्ध्यानेन शम्भुः स तमेवाचिन्तयन् स्थितः । नापश्यद् हृदि तद्रूपं तेनाकुल इवाऽभवत् ॥ ७॥ आययौ विष्णुरभ्याशे सर्वं त्वकथयच्छिवम् । अदृष्टं तादृशं रूपं कथयामास सोऽपि तम् ॥ ८॥ एवं पञ्चाप्यदृष्ट्वा तत् विस्मिता अभवन् परम् । एकत्र मिलिता जातास्तुष्टुवुस्तं गतस्मयाः ॥ ९॥ पञ्च देवा ऊचुः । नमस्ते वक्रतुण्डाय त्रिनेत्रं दधते नमः । चतुर्भुजाय देवाय पाशाङ्कुशधराय च ॥ १०॥ लम्बोदर नमस्तुभ्यं नाभिशेषाय ते नमः । महते चैकदन्ताय शूर्पकर्णाय ते नमः ॥ ११॥ सिन्दूरारुणदेहाय रक्तवर्णधराय च । महाकायाय सूक्ष्माय गणेशाय नमो नमः ॥ १२॥ सिद्धिबुद्धियुतायैव विभूतिसहिताय च । चिन्तामणिधरायैव तथा चिन्तामणे नमः ॥ १३॥ अव्यक्ताय परेशाय परेषां च पराय ते । मनोवाणीविहीनाय विघ्नेशाय नमो नमः ॥ १४॥ नानामायाधरायैव मायिनां मोहकारिणे । हेरम्बाय नमस्तुभ्यं ब्रह्मणां पतये नमः ॥ १५॥ दर्शयस्व निजं रूपं भक्तेभ्यः प्रीतिदायकम् । सनाथा हि वयं तेन सर्वनाथाय ते नमः ॥ १६॥ स्तुवतां तु पुरः प्रादुरासीद्देवो गजाननः । तं दृष्ट्वा दण्डवत् सर्वे प्रणता भक्तिभावतः ॥ १७॥ तानुत्थाप्य स्वयं ढुण्ढिर्वचनं चेदमब्रवीत् । स्तोत्रेण भावितो देवाः प्रीतो वो नात्र संशयः ॥ १८॥ यः पठेत् स्तोत्रमेतद्वै स मे मान्यो भवेत् सुराः । वाञ्छितं पूरयिष्याम्यन्ते मे सायुज्यमाप्नुयात् ॥ १९॥ श‍ृणुध्वं मे वचो रम्यं मा गर्वं कुरुत प्रियाः । भवन्तो मदधीनाश्च कलांशा नात्र संशयः ॥ २०॥ क्रीडार्थं निर्मिताः सर्वे स्पर्धमानाः परस्परम् । किमर्थं मनसि भ्रान्ता जाताः पूर्णात्मका अपि ॥ २१॥ श्राव्यं ज्ञानं रहस्यं यन् मदीयं तेन भाविताः । सदा मोहविनिर्मुक्ता भवितारश्च मत्समाः ॥ २२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशप्रसन्नभावो नाम पञ्चदशोऽध्यायः ॥ १.१५ (Page खं. १ अ. १६ पान ३८)

१.१६ गणेशगीतासारकथनं नाम षोडशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः । पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥ १॥ गणेश उवाच । देहश्चतुर्विधः प्रोक्तस्त्वं पदं ब्रह्मभेदतः । सोऽहं देही चतुर्धा तत्पदं ब्रह्म सदैक्यतः ॥ २॥ संयोग उभयोर्यश्चाऽसि पदं ब्रह्म कथ्यते । स्वत उत्थानकं देवा विकल्पकरणाद् द्विधा ॥ ३॥ सदा स्वसुखनिष्ठं यद्ब्रह्म साङ्ख्यं प्रकीर्तितम् । परतश्चोत्थानकं तत् क्रीडाहीनतया परम् ॥ ४॥ स्वतः परत उत्थानहीनं यद्ब्रह्म कथ्यते । स्वानन्दः सकलाभेदरूपः संयोगकारकः ॥ ५॥ तदेव पञ्चधा जातमीश्वरास्तन्निबोधत । स्वतश्च परतो ब्रह्मोत्थानं यद् द्विविधं स्मृतम् ॥ ६॥ ब्रह्मणो नाम तद्वेदे कथ्यते भिन्नभावतः । तयोरनुभवो यश्च योगिनां हृदि जायते ॥ ७॥ रूपं तदेव ज्ञातव्यमसद्वेदेषु कथ्यते । सा शक्तिरियमाख्याता ब्रह्मरूपा ह्यसन्मयी ॥ ८॥ तत्रामृतमयाधारः सूर्य आत्मा प्रकथ्यते । शक्तिसूर्यमयो विष्णुरानन्दो नन्दनात्तयोः ॥ ९॥ त्रिविधेषु तदाकारस्तत् क्रियाहीनरूपकः । शिवो नेति चतुर्थोऽयं त्रिनेति करणात्परः ॥ १०॥ त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदाशिवः । तेषामभेदे यद्ब्रह्म स्वानन्दः सर्वयोगतः ॥ ११॥ पञ्चानां ब्रह्मणां यच्च बिम्बं मायामयं स्मृतम् । ब्रह्मा स एव विज्ञेयः सर्वादिः सर्वभावनः ॥ १२॥ बिम्बेन सकलं सृष्टं तेनायं प्रपितामहः । असत् सत् समनेति स्वानन्दरूपा वयं स्मृताः ॥ १३॥ स्वानन्दाद्यत् परं ब्रह्मायोगाख्यं ब्रह्मणां भवेत् । केषामपि प्रवेशो न तत्र तस्याऽपि कुत्रचित् ॥ १४॥ मदीयं दर्शनं तत्रायोगे नो योगिनां भवेत् । स्वानन्दे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे ॥ १५॥ स्वानन्दवासिनं तेन वेदेषु प्रवदन्ति माम् । चतुर्णां ब्रह्मणां भोगास्तं योगाभेदयोगतः ॥ १६॥ संयोगश्च ह्ययोगश्च तयोः परतरो मतः । पूर्णशान्तिप्रदो योगश्चित्तवृत्तिनिरोधतः ॥ १७॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चभूमिमयं चित्तं तत्र चिन्तामणिः स्थितः ॥ १८॥ पञ्चभूमिनिरोधेन प्राप्यते योगिभिर्हृदि । शान्तिरूपात्मयोगेन ततः शान्तिर्मदात्मिका ॥ १९॥ एतद्योगात्मकं ज्ञानं गाणेशं कथितं मया । नित्यं युक्तं च योगेन नैव मोहं प्रगच्छथ ॥ २०॥ चित्तरूपा स्वयं बुद्धिः सिद्धिर्मोहमयी स्मृता । नानाब्रह्मविभेदेन ताभ्यां क्रीडति तत्पतिः ॥ २१॥ त्यक्वा चिन्ताभिमानं च गणेशोहं समाधिना । भविष्यन्ति भवन्तोऽपि मद्रूपा मोहवर्जिताः ॥ २२॥ शिव उवाच । इत्युक्त्वा विररामाऽथ गणेशो भक्तवत्सलः । तेऽपि भेदं परित्यज्य शान्तिं प्राप्ताश्च तत्क्षणात् ॥ २३॥ एकविंशतिसुश्लोकैर्गणेशेन प्रकीर्तितम् । गीतासारं सुशान्तेभ्यः शान्तिदं योगसाधनैः ॥ २४॥ गणेशगीतासारं च यः पठिष्यति भावतः । श्रोष्यति श्रद्धधानश्चेद्ब्रह्मभूतसमो भवेत् ॥ २५॥ इह भुक्त्वाऽखिलान् भोगानन्ते योगमयो भवेत् । (Page खं. १ अ. १७ पान ३९) दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥ २६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथम खण्डे वक्रतुण्डचरिते गणेशगीतासारकथनं नाम षोडशोऽध्यायः ॥ १.१६

१.१७ शिवपार्वतीसंवादसमाप्तिर्नाम सप्तदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । गणेशगीतासारं ते श्रुत्वा पञ्च सुरेश्वराः । ऊचुस्तं विस्मिताः सर्वे प्रणम्य गणनायकम् ॥ १॥ पञ्च देवा ऊचुः । भगवन् भवता सर्वं कथितं तथ्यमेव च । तेन तृप्ता वयं स्वामिन् मोहशून्याः कृतास्त्वया ॥ २॥ तव दर्शनमात्रेण स्मरणं पूर्वकं कृतम् । गुणरूपा वयं ढुण्ढे कथं ब्रह्ममया वद ॥ ३॥ तेषां वचनमाकर्ण्य तानुवाच गजाननः । भक्तवत्सलभावेन तोषितोऽसौ महाप्रभुः ॥ ४॥ गणेश उवाच । स्वपदे जगति ब्रह्मरूपा वै जगदीश्वराः । भिन्नभावे गुणात्मानो भवन्तोऽपि मया कृताः ॥ ५॥ चतुर्विधेन भावेन क्रीडामि ननु तत्र च । क्रीडया पतितं बिम्बं तेन पञ्चविधोऽभवम् ॥ ६॥ बहलेषु विलासेषु तेषु भावेषु देवपाः । भवन्तो मदधीनाश्च संस्थिता नात्र संशयः ॥ ७॥ एषु भिन्नविहारेषु रजःसत्त्वतमोमयाः । मया ब्रह्मा हरिः शम्भुर्भिन्ना जाता हि मायया ॥ ८॥ अहङ्कारस्त्रिदेवानां सूर्यो मोहमयी तथा । शक्तिस्त्रिगुणसिध्यर्थमेते पञ्च मया कृताः ॥ ९॥ अहमत्र स्थितोंऽशेन वक्रतुण्ड इति स्मृतः । बिन्दुब्रह्ममयः साक्षाद्भिन्नभावप्रकाशकः ॥ १०॥ तुरीयं मे मया रूपं कृतं यद् गुणपं सुराः । ज्ञातव्यं बुद्धिरूपं तद्दक्षिणाङ्गं प्रकथ्यते ॥ ११॥ पञ्चदेवविहाराख्यं वामाङ्गं सिद्धिरूपकम् । सिद्धिबुद्धियुतोऽहं वै बिन्दुमात्रात्मकोऽभवम् ॥ १२॥ भक्तानां विघ्नरूपा ये वक्रास्ते कथिताः सुरैः । तांस्तुण्डेन हनिष्यामि वक्रतुण्डस्ततः स्मृतः ॥ १३॥ मम माया मयाज्जीवाद्वक्रं ब्रह्ममुखं यतः । तेनाऽहं वक्रतुण्डस्तु लभ्य उन्मनसा भवेः ॥ १४॥ भवतां कार्यसिद्धयर्थं विहारार्थं तु मायया । बिन्दुरूपधरो भूत्वा स्थितोऽहं भावपूर्वकम् ॥ १५॥ यदि मे स्मरणं यूयं विस्मरिष्यथ वै तदा । मायामोहेन सम्भ्रान्ता भविष्यथ महेश्वराः ॥ १६॥ भवद्भिः सततं तस्मात् कर्तव्यं स्मरणं हृदि । आदौ पूज्यो भविष्यामि दैवे पित्र्ये च कर्मणि ॥ १७॥ तेन सिद्धियुताः सर्वे भविष्यन्ति न संशयः । इत्युक्त्वान्तर्दधे देवो गणेशो गणपालकः ॥ १८॥ (Page खं. १ अ. १७ पान ४०) शिव उवाच । इति ते कथितो देवि ध्यानमार्गः पुरातनः । तं ध्यायामि हृदिस्थं मे गणेशं ब्रह्मनायकम् ॥ १९॥ अखिलं ब्रह्मणा सृष्टं चराचरमयं शिवे । नानावतारवान् विष्णुः स पाति गणपाज्ञया ॥ २०॥ अहं संहारकारी च त्वं प्रमोदप्रदा शिवे । कर्मणां चालकः कालैर्भानुर्जातो न संशयः ॥ २१॥ हिमाचलसुता त्वं वै जाता तेन सुविस्मृतम् । त्वयाऽखिलं हृदिस्थं च ज्ञानं गणपबोधकम् ॥ २२॥ मया सुस्मारितं तुभ्यं स्मर सर्वं शुचिस्मिते । भवती च महामाया पश्य त्वं गणपं हृदि ॥ २३॥ अष्टौ तस्याऽवतारांश्च कथयामि समासतः । भजता तेन मार्गेण भवेद्योगो न दुर्लभः ॥ २४॥ प्रथमो वक्रतुण्डश्च त्वम्पदब्रह्म कथ्यते । द्वितीयं एकदन्तश्च तत्पदब्रह्मबोधकः ॥ २५॥ महोदरस्तृतीयस्तु ब्रह्मासि पदधारकम् । गजाननश्चतुर्थश्च साङ्ख्यरूपो महेश्वरि ॥ २६॥ लम्बोदर इति ख्यातो ह्येतद्ब्रह्म त्वयि स्थितम् । षष्ठो विकटनामा च सद्ब्रह्मात्मरविः परः ॥ २७॥ विघ्नराजः स्वयं विष्णुः सप्तमः समताङ्गतः । धूम्रवर्णोऽष्टमः शम्भुरव्यक्तो नेति कथ्यते ॥ २८॥ अष्टब्रह्मसु तत्पालाः कलारूपधराः स्मृताः । गणपा गणराजस्य ह्यवताराः प्रकीर्तिताः ॥ २९॥ स्वसंवेद्यमयं ब्रह्म तेन वै प्रधृताः प्रिये । सर्वेषां ब्रह्मणां देवि खेलकस्तेन स स्मृतः ॥ ३०॥ अयोगस्यावतारश्च खेलनादि न विद्यते । स्वानन्दवासिनं विद्धि खेलकं सततं प्रिये ॥ ३१॥ पूर्णयोगो गणाधीशः स्वानन्दायोगवर्जितः । योगिनां तत्र शान्तिश्च ह्यभवद्योगसेवया ॥ ३२॥ इति सर्वं समाख्यातं यत्पृष्टं देवि शोभनम् । अनेन विधिना नित्यं गणेशं भज सर्वदा ॥ ३३॥ अस्माकं कुलदेवश्च गणेशो नात्र संशयः । पूज्यते स मया नित्यं चिन्तामणिविनायकः ॥ ३४॥ पञ्चानां चित्तवृत्तीनां प्रकाशकतया स्थितः । तेन चिन्तामणिर्नाम कथ्यते स गजाननः ॥ ३५॥ गजवक्त्रात्मिकां मूर्तिं पश्य देवि गृहे स्थिताम् । मणिरत्नमयीं साक्षात् पूजयामि सुभक्तितः ॥ ३६॥ मुद्गल उवाच । इत्युक्त्वा दर्शयामास ध्यानस्थानं सदाशिवः । एकान्ते वीक्ष्य वै देवी विस्मिता साऽभवत्परम् ॥ ३७॥ इत्युक्त्वा विररामाथ शङ्करः करुणानिधिः । तं पुनः प्रत्युवाचेदं महादेवी जगन्मयी ॥ ३८॥ शक्तिरुवाच । सर्वेषां मोहसन्दात्री तामसस्य सदाशिव । तव पत्नी कथं जाता ह्येकभागस्थितस्य वै ॥ ३९॥ अमुं मे संशयं देव छेत्तुमर्हसि साम्प्रतम् । त्वदन्यः संशयच्छेत्ता सर्वज्ञो नास्ति कुत्रचित् ॥ ४०॥ पार्वतीवचनं श्रुत्वा शिवो हर्षसमन्वितः । उवाच मधुरं वाक्यं बोधयंस्तां सहेतुकम् ॥ ४१॥ शिव उवाच । श‍ृणु देवि पुरा वृत्तं येन त्वं मत्प्रियाऽभवः । तत्तेऽहं कथयिष्यामि कथासारं सुखप्रदम् ॥ ४२॥ विवादः पञ्चदेवानां स्पर्धया समभूच्च यः । तत्रैश्वर्यं मया दृष्टं त्वदीयं महदद्भुतम् ॥ ४३॥ (Page खं. १ अ. १७-१८ पान ४१) पञ्चानां बोधको देवो गणेशोंऽतर्दधे यदा । बोधयित्वा यथान्यायमस्मान् ब्रह्ममयः प्रभुः ॥ ४४॥ ततो मया तपस्तप्तं तव प्राप्तौ प्रिये महत् । भक्तिभावेन सन्तुष्टा त्वं जाता शतवर्षतः ॥ ४५॥ मत्समीपे समागम्य वृणुष्व वरमीप्सितम् । प्रसन्नाऽहं महादेव दास्येऽहमिति चाब्रवीः ॥ ४६॥ त्वां नत्वा स्तुतवान्नानाचेष्टितैस्त्वत्स्वरूपकैः । तेन तष्टिः परा जाता तवापि जगदीश्वरि ॥ ४७॥ मया प्रयाचितं देवि त्वं मे पत्नी भव प्रिये । एष एव वरो मह्यं दातव्यो जगदीश्चरि ॥ ४८॥ मदीयं वचनं श्रुत्वा सस्मिता भावपूर्वकम् । जाता त्वं मे वरं दत्त्वांऽतर्धानं च कृतं त्वया ॥ ४९॥ अतस्त्वं मे प्रिया जाता वरदानप्रभावतः । तव वामाङ्गसम्भूता लक्ष्मीनारायणप्रिया ॥ ५०॥ दक्षिणाङ्गात् समुद्धता सावित्री ब्रह्मणः प्रिया । हृदयात्ते च सम्भूता संज्ञा पत्नी रवेरपि ॥ ५१॥ इति सर्वं समाख्यातं स्मर सर्वं शुचिस्मिते । साधय त्वं पुनर्योगं गाणेशं शान्तिदं परम् ॥ ५२॥ मुद्गल उवाच । शिवेन कथितं सर्वं श्रुत्वा देवी नगात्मजा । एकान्ते साधयामास योगं गणपतेः परम् ॥ ५३॥ पूर्वसंस्कारभावेन स्वल्पकालेन सा शिवा । शान्तिं प्राप्ता महाभागा प्रययौ शिवसन्निधौ ॥ ५४॥ मुदल उवाच । इति ते कथितं दक्ष चेष्टितं गणपस्य च । भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ ५५॥ तेन त्वं विघ्नहीनोऽपि भवितासि न संशयः । सर्वमान्यो महायोगी शोकहीनो जगद्गुरुः ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवपार्वतीसंवादसमाप्तिर्नाम सप्तदशोऽध्यायः ॥ १.१७

१.१८ मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुतं सूत महाभाग कथितं परमाद्भुतम् । चरितं गणनाथस्य तेन तृप्ता वयं प्रभो ॥ १॥ शिवशक्तिमहावादं श्रुत्वा तृष्णा विवर्धते । पुनश्च वद सूत त्वं गणेशस्य विचेष्टितम् ॥ २॥ सूत उवाच । श‍ृणु शौनक यत्नेन दक्षेणैवं महामुनिः । सत्कथामृतपानं च कृत्वा पृष्टः पुनश्च यत् ॥ ३॥ शक्तिशङ्करसंवादं ब्रह्मभूयपदप्रदम् । श्रुत्वा दक्षो महाभागः पप्रच्छ मुनिसत्तमः ॥ ४॥ (Page खं. १ अ. १८ पान ४२) दक्ष उवाच । किञ्चित्पुरातनं पुण्यं फलितं मे महाद्भुतम् । पीतं मुद्गल ते वक्त्रात् कथामृतमिदं मया ॥ ५॥ धन्योऽसि कृतकृत्योऽसि गणेशे भक्तिमानसि । गणेशाच्च परं नास्ति ज्ञातं त्वद्वाक्यतो मया ॥ ६॥ वद मुद्गल माहात्म्यं पुनर्गणपतेः शुभम् । न तृप्तोहं महायोगिन् पीत्वा ब्रह्मामृतं महत् ॥ ७॥ शिवशैलसुतावादो महानन्दप्रदायकः । तत्राष्टौ गणराजस्य ह्यवताराः श्रुता मया ॥ ८॥ तेषां तच्चरितं चाऽपि माहात्म्यं तेऽपि यन् महत् । श्रोतुमिच्छामि योगीश दयां कृत्वा वदस्व मे ॥ ९॥ किमर्थं गणराजोऽयमवतारं करोति वै । ब्रह्मभूयमयो देवस्तद्वदस्व महामुने ॥ १०॥ परोपकरणार्थाय त्वादृशा मुनिसत्तमाः । भ्रमन्ति धरणीं ब्रह्मन् पतितेभ्यः सुखप्रदाः ॥ ११॥ दर्शनस्पर्शनेनैव भाषणेन विशेषतः । पावयन्ति जनान् सर्वान् साधवः समदर्शिनः ॥ १२॥ सूत उवाच । श्रुत्वा दक्षवचो रम्यं प्रत्युवाच स मुद्गलः । प्रहृष्टो भावयुक्तस्य दक्षस्य च महात्मनः ॥ १३॥ मुद्गल उवाच । श‍ृणु दक्ष महाभाग धन्योऽसि न च संशयः । येन त्वं गणनाथस्य कथां पृच्छसि मां प्रभो ॥ १४॥ पापिनां नास्तिकानां वै दाम्भिकानां कदाचन । सत्कथाऽमृतपानस्य चेच्छा नोत्पद्यते क्वचित् ॥ १५॥ द्वन्द्वभावविचारज्ञास्तथा सहनकारकाः । भूतेषु समभावाश्च संसारतरणे रताः ॥ १६॥ परोपकारकार्येषु मतिस्तेषां प्रवर्तते । एतादृशा महाभागा गणेशे सादराः प्रभो ॥ १७॥ कथां गणपतेर्नित्यं श‍ृण्वन्ति च पठन्ति ते । श्रावयन्ति जनानन्यान् भक्तिभावसमन्विताः ॥ १८॥ अतस्त्वं सादरो भूत्वा श‍ृणुषे पापनाशिनीम् । कृत्वा वर्धयसि प्रश्नं कथां गणपतेः शुभाम् ॥ १९॥ श‍ृणु यच्च पुरावृत्तं मदीयं भावपूर्वकम् । तवाऽग्रे कथयिष्यामि संशयो येन नश्यति ॥ २०॥ अवतारकथामग्रे ज्ञास्यसि त्वं यथार्थतः । गणराजपदं सर्वं प्राप्स्यसि त्वं च भक्तिमान् ॥ २१॥ अहं तपसि संविष्टः शिलोञ्छाजीवमाश्रितः । दश पञ्च दिनेष्वेव द्वादश्यां मम पारणम् ॥ २२॥ द्रोणमात्रं चिनोम्यन्नमुपोषणसमन्वितः । तेनान्नेन यथान्यायं पञ्चयागानकृष्यहम् ॥ २३॥ एवं बहुगते काले तपसे मयि संस्थिते । देवाः सर्वे भयोद्विग्नाः किमयं साधयिष्यति ॥ २४॥ ऐद्रं पदं विधातुर्वा वैष्णवं शैवमेव च । किं वाञ्छति महाभागो मुनिस्तपसि संस्थितः ॥ २५॥ इति देवैः प्रेषितस्तु मुनिः सर्वार्थकोविदः । ममाश्रमे परीक्षार्थं दुर्वासाः कोपवान् ययौ ॥ २६॥ नग्न उन्मत्ततुल्यः सन्नागतः पारणे मम । मह्यं भिक्षां मुने देहि यया तृप्तो भवाम्यहम् ॥ २७॥ इत्यूचे तु मया दत्तमन्नं तस्मै महात्मने । न ज्ञातो मुनिमुख्योऽयं दुर्वासा आगतो गृहम् ॥ २८॥ तदन्नं सकलं भुक्त्वा द्रोणमात्रं महामुनिः । (Page खं. १ अ. १८ पान ४३) उच्छिष्टं लिप्तवान् देहे गतो विकलमानसः ॥ २९॥ मानसे मे महानन्दः प्राप्तो दक्ष प्रजापते । धन्यं तपो मदीयं वै तृप्तः सर्वान्नभुक् जनः ॥ ३०॥ उपोषणे समायुक्तोऽहं तत्र तपसि स्थितः । पुनः स द्वादशीघस्रे पारणार्थं समाययौ ॥ ३१॥ दुर्वाससं पुनर्यातं तादृशं वेषमास्थितम् । महता हर्षयुक्तेनाऽपूजयं च महामुनिम् ॥ ३२॥ सर्वान्नं भुक्तवान् सद्य एवं षड्वारमाययौ । मम भावपरीक्षार्थं तपःखण्डनकारकः ॥ ३३॥ पूर्वपुण्यप्रभावेण च्यावितो न मनागपि । त्रिमासोपोषितो भावयुक्तेन तपसाऽभवम् ॥ ३४॥ तपसा भावशुद्धेन परितुष्टो महामुनिः । स्वरूपं दर्शयामास योगरूपं महाद्भुतम् ॥ ३५॥ उवाच शुद्धिमापन्नो मुद्गल त्वं न संशयः । गच्छ स्वर्गं महाभाग अक्षयं भोक्तुमर्हसि ॥ ३६॥ स्वर्गलोका जिताः सर्वे त्वयाऽक्षय्यप्रकाशकाः । तपसा शुद्धभावेनाधुना तान् गच्छ मुद्गल ॥ ३७॥ इत्युक्त्वा मां स दुर्वासा गतः स्वाश्रममण्डले । तस्मिन्नेव क्षणे स्वर्गाद्विमानं तत्र चागतम् ॥ ३८॥ विमानात् पुरुषो दिव्यभूषणैर्भूषितः परः । उत्तीर्य मे सुसान्निध्यमागतः पूजितो मया ॥ ३९॥ उवाच मधुरं वाक्यं चलेति त्वं मयासह । स्वर्गादागतवन्तं वै विद्धि मुद्गल मां तथा ॥ ४०॥ बृहस्पतिपुरोगः स देव इन्द्रः प्रतापवान् । त्वदर्थं संस्थितः स्वामिन् तेनाहं प्रेषितो मुने ॥ ४१॥ इदं विमानमारुह्य नानाभोगसमन्वितम् । मया सार्धं महाभाग चल स्वर्गं सुभोगदम् ॥ ४२॥ सूत उवाच । देवदूतवचो रम्यं श्रुत्वैवं मुद्गलो मुनिः । विनयावनतो भूत्वा तं पप्रच्छ मुदान्वितः ॥ ४३॥ मुद्गल उवाच । स्वर्गेषु सर्वलोकेषु के गुणाः सन्ति तान् वद । दोषाः के तत्र तिष्ठन्ति श्रुत्वा यामि त्वरान्वितः ॥ ४४॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा देवदूतस्तमब्रवीत् । विनयेन च सन्तुष्टो यथातथ्यं विभागशः ॥ ४५॥ देवदूत उवाच । कर्मभूमिरियं ब्रह्मन् भोगभूमिस्तु सा मता । स्वर्गरूपा नरादीनां कर्मभोगप्रदायिनी ॥ ४६॥ नानासुखप्रदं तत्र गुणं वक्तुं न शक्यते । ईप्सितं लभते सर्वं सदा यौवनसंस्थितिः ॥ ४७॥ क्लमः स्वेदादिकं तत्र नैव शीतोष्णता तथा । अप्सरोभिर्विहाराश्च कामरूपा गतिर्भवेत् ॥ ४८॥ स्वकर्मतुल्यभोगाश्च भोक्तव्याः सर्वभावतः । ये ये भोगा देहिनां च ते ते तत्र समास्थिताः ॥ ४९॥ भोगभूमिः समाख्याता स्वर्गरूपा महामुने । वद तत्र च किं न्यूनं यतः पृच्छसि मां प्रभो ॥ ५०॥ त्वया नानाविधं कर्म तपसा साधितं मुने । स्वर्गलोकाः कृताः सर्वेऽक्षयास्तान् भोक्तुमर्हसि ॥ ५१॥ तत्र स्वर्गे त्रयो दोषास्तान् श‍ृणुष्व महामुने । इह कर्म कृतं लोकैर्भोक्तव्यं शुभरूपकम् ॥ ५२॥ तत्र कर्म कृतं लोकैः तदेव फलहीनकम् । तेन लोको हि दुःख्यस्ति तदन्ते किं भवेदिति ॥ ५३॥ (Page खं. १ अ. १८-१९ पान ४४) एतादृशं मया कर्म पुण्यरूपं कृतं महत् । एतावन्तं च कालं मे स्वर्गवासो भविष्यति ॥ ५४॥ एकं दोषं महान्तं च जानीहि मुनिसत्तम । द्वितीयं श‍ृणु दोषं त्वं कथयामि सविस्तरम् ॥ ५५॥ नाना स्वर्गषु मित्राणि नाना प्रीतिविवर्धनाः । देवास्तत्र महाभाग सह तैर्मोदते स्वयम् ॥ ५६॥ सत्कर्म तस्य तेनैव भुक्तं स्वर्गे यथायथम् । पश्चात् पतनकाल तु तमधः पातयन्ति ते ॥ ५७॥ क्षणमेकं न तं कोऽपि स्नेहं पश्यति लोकपः । पतनस्य भयं चित्ते दोषोऽयं पातरूपकः ॥ ५८॥ तृतीयं दोषरूपं यच्छृणु त्वं भावपूर्वकम् । तद्वदिष्यामि ते प्रीत्या येन ज्ञानं भवेत्परम् ॥ ५९॥ सत्कर्मकारिणस्त्वन्ये महाभोगकरा मुने । सन्ति स्वर्गेषु चानेके तान् दृष्ट्वा तपति स्वयम् ॥ ६०॥ धिङ् मां न्यूनविहारेण तिष्ठामि स्वल्पपुण्यतः । महापुण्यकरा अन्ये अधिकं विहरन्त्युत ॥ ६१॥ सदा हृदि तपत्येवं स्वर्गभूमिस्वभावतः । हृदि तापात्मको दोषस्तृतीयः कथितो मया ॥ ६२॥ अनन्तगुणसंयुक्तं स्वर्गं जानीहि तापस । दोषैस्त्रिभिः समायुक्तं महापुण्यप्रभावतः ॥ ६३॥ धन्यस्त्वं मुनिशार्दूल तत् स्वर्गे विजिते त्वया । भुङ्क्ष्व भोगान् मनोज्ञान् वै चल शीघ्रं मया सह ॥ ६४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः ॥ १.१८

१.१९ अङ्गिरामुद्गलसंवादो नामैकोनविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । देवदूतवचः श्रुत्वा मुद्गलस्तमथाब्रवीत् । श‍ृणु शौनक माहाम्यं मुनेस्तस्य सुयोगिनः ॥ १॥ मुद्गल उवाच । देवदूत मया सर्व त्वयोक्तं बुद्धिपूर्वकम् । श्रुतं पुनः प्रपृच्छामि तन् मे वद महामते ॥ २॥ दोषैस्त्रिभिविहीनं तं कं लोकं वद मे प्रभो । मनस्तापविहीनाश्च मोदन्ते यत्र मानवाः ॥ ३॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा देवदूत उवाच ह । लोकं च तमहं तुभ्यं कथयामि सविस्तरम् ॥ ४॥ देवदूत उवाच । निष्कामकर्मणा विप्र ब्रह्मलोकः प्रलभ्यते । वैकुण्ठः शिवलोकश्च सौरः शाक्तो जनेन च ॥ ५॥ तत्राऽपि दोषयुक्तत्वं वर्तते मुनिसत्तम । ब्रह्मभूयपदं यच्च दोषहीनं प्रचक्षते ॥ ६॥ देवदूतमुखादित्थं श्रुत्वा वै मुद्गलो मुनिः । तं पप्रच्छ पुनः साधुर्भक्तिनम्रात्मकन्धरः ॥ ७॥ (Page खं. १ अ. १९ पान ४५) मुद्गल उवाच । कुत्र तल्लभ्यते स्वामिन् वद सर्वमशेषतः । उपकारपरोऽसि त्वं तेन पृच्छामि तत्त्वतः ॥ ८॥ देवदूत उवाच । कर्मभूमिरियं ब्रह्मन्नत्र वै लभ्यते जनैः । धर्मार्थकाममोक्षादि ब्रह्मभूयं न संशयः ॥ ९॥ श्रुत्वा तस्य वचो रम्यं मुद्गलस्तमुवाच ह । गच्छ दूत नमस्तुभ्यं स्वर्गं प्रति नयाम्यहम् ॥ १०॥ हृदि सन्तापसंयुक्तं पुनः पातभयात्मकम् । स्वर्गं नेच्छामि भो विद्वन् ब्रह्म तत्साधयाम्यहम् ॥ ११॥ देवदूत उवाचेदं मुद्गलं मुनिसत्तमम् । भाग्यहीनोऽसि नूनं त्वं स्वर्गं नैवाभिनन्दसि ॥ १२॥ स्वर्गेच्छा कस्य नैवास्ति नरस्य वद मां मुने । उग्रैस्तपोभिर्दानैश्च यज्ञैः स्वर्गश्च लभ्यते ॥ १३॥ नानापुण्यादिकं कृत्वा सत्कर्मादिसुसाधनैः । इच्छन्ति मनुजाः स्वर्गं महासौख्यप्रदं परम् ॥ १४॥ स स्वर्गश्च त्वया प्राप्तस्तपसोग्रैः सुसाधनैः । नेच्छसि त्वं महामूढ ज्ञानहीनोऽसि मे मतम् ॥ १५॥ देवदूतं वदन्तं तं तदा पुनरिदं वचः । मुद्गलः स्नेहसंयुक्तः प्रत्युवाच हसन्निव ॥ १६॥ मुद्गल उवाच । किं मां मोहयसि प्राज्ञ देहोऽयं बन्धनात्मकः । देहसौख्यकरः स्वर्गो मुक्तिदो न बुधैः स्मृतः ॥ १७॥ तत्रापि हृदि सन्तापो वर्तते दूतसत्तम । तापत्रयसमायुक्तं विद्वान्नेच्छति कर्हिचित् ॥ १८॥ गच्छ त्वं च महाभाग बृहस्पतिपुरोगमम् । इन्द्रं प्रणामं कथय नाऽऽगतो मुनिरित्यपि ॥ १९॥ एवमुक्त्वा नमस्कृत्य देवदूतमहं प्रभो । अग्नेश्च गतवान् शालां गतो दूतो यथागतम् ॥ २०॥ मयाऽपि स्वाश्रमे तत्र स्थितं मनसि धारितम् । विधिना ब्रह्मवेदेषु नानारूपं प्रकथ्यते ॥ २१॥ किं प्रमाणं भवेत्तेषां साधनीयं मया कथम् । पूर्णभावमविज्ञाय भ्रान्तोऽहं नात्र संशयः ॥ २२॥ अतः संशयनाशार्थं गमिष्यामि महामुनिम् । योगिश्रेष्ठैरङ्गिरसं वन्द्यं वेदज्ञमुत्तमम् ॥ २३॥ शब्दब्रह्मणि निष्णातं परे ब्रह्मणि तन्मयम् । अस्माकं मूलपुरुषं साक्षाद् ब्रह्मशरीरकम् ॥ २४॥ इति निश्चितवांस्तत्र गतोऽहं मुनिसन्निधौ । आश्रमोऽस्य मया दृष्टः सर्वभूताभयप्रदः ॥ २५॥ नातपो न च शीतत्वं न क्रोधः कामसम्भवः । न मात्सर्यादिकं तत्र समकालयुतो बभौ ॥ २६॥ नावृष्टिर्नातिवृष्टिश्च ह्यकाले मरणं न च । न ग्रहादिकृता पीडा तत्र रक्षोभयं न च ॥ २७॥ सर्वशान्तिप्रदः पूर्णस्तापसानां हितावहः । विस्मितेन सुपुण्येन प्रविष्टो भाग्ययोगतः ॥ २८॥ तत्र नानामुनीनां च वत्साः परमशोभनाः । मया दृष्टा महाभाग वेदघोषनिनादिताः ॥ २९॥ अग्निहोत्रादिभिर्युक्ता नानापक्षिनिनादिताः । वृक्षवल्लीसमायुक्ता नानापुष्पफलाश्रिताः ॥ ३०॥ नानासरोवराण्येव हंसकारण्डवैर्बभुः । नानापक्षिवृतान्येव सुधारूपजलानि वै ॥ ३१॥ सुनिर्मलपयांस्येव मकरादियुतानि च । कमलैः कुमुदैर्नानाशोभमानानि षट्पदैः ॥ ३२॥ सिंहव्याघ्रमृगा नागा गजा गावश्च मूषिकाः । (Page खं. १ अ. १९ पान ४६) निर्वैराः प्राणिनस्तत्र निवसन्ति प्रजापते ॥ ३३॥ एवं दृष्ट्वा महाभाग आश्रमं हर्षसंयुतः । पश्यन् पुनश्च ह्यभवं विस्मितो निजचेतसि ॥ ३४॥ तं वै कुशासनस्थं च साक्षात् सूर्यमिवापरम् । तेजसा दीप्यमानं त्वपश्यमङ्गिरसं मुनिम् ॥ ३५॥ सिद्धैर्नानाविधैश्चैव योगिभिर्मुनिभिर्वृतम् । शिष्येभ्यो ब्रह्मविद्यां तां कथयन्तं यथार्थतः ॥ ३६॥ दण्डवत्तं प्रणम्यादौ भक्तिभावयुतोऽभवम् । प्राञ्जलिः प्रयतो भूत्वा संस्थितो मुनिसन्निधौ ॥ ३७॥ तव गोत्रभवं स्वामिन् मुद्गलं मुनिसत्तम । दर्शनार्थं समायातं विद्धि मां ब्रह्मदायक ॥ ३८॥ मदीयं वचनं श्रुत्वा प्रसन्नः प्राह मां मुनिः । वत्स त्वमागतस्तात तिष्ठाऽत्र मम सन्न्निधौ ॥ ३९॥ अविघ्नभावयुक्तेन तपस्तप्तं त्वया सुत । तेन मे दर्शनं प्राप्तं सत्पुत्रोऽसि न संशयः ॥ ४०॥ मुनेर्वचनमाकर्ण्य प्राप्तोऽहं परमां मुदम् । तत्र स्थितोऽभवं दक्ष सन्निधौ तस्य धीमतः ॥ ४१॥ कस्मिंश्चिद् दिवसे तत्र लब्ध्वाऽवसरमुत्तमम् । पृष्टो मया महायोगी श‍ृण्वत्सु च मुनिष्वपि ॥ ४२॥ ज्ञातुमिच्छामि भो स्वामिन् वद मां करुणानिधे । अस्माकं त्वं गतिः साक्षात् सर्वेषां चैव भक्तितः ॥ ४३॥ सूत उवाच । वचनं मुद्गलस्याऽपि श्रुत्वा तं पुनरब्रवीत् । अङ्गिरा भगवान् योगी प्रहसंस्तं प्रहर्षयन् ॥ ४४॥ अङ्गिरा उवाच । मह्यं पृच्छसि किं तात तद् ब्रूहि त्वं महाद्युते । भावतो मन्त्रकर्ता त्वं पुराणाचार्य एव च ॥ ४५॥ मुद्गल उवाच । कथितं ब्रह्मवेदेषु नानाभावसमन्वितम् । किं प्रमाणं वेदितव्यं ब्रह्मभूयेप्सुभिः प्रभो ॥ ४६॥ अङ्गिरा उवाच । श‍ृणु पुत्र प्रवक्ष्यामि वेदान्तैयन्त्प्रभाषितम् । क्रमेण ब्रह्मलाभार्थं नानाब्रह्मनिरूपणम् ॥ ४७॥ अन्नं ब्रह्मेति यत्प्रोक्तं तत्रोपाधिः समागतः । अन्नरूपो महातेजा अन्नकोशमयं ततः ॥ ४८॥ प्राणो ब्रह्मेति यत्प्रोक्तं प्राणकोशप्रकाशकम् । मनो ब्रह्मेति जानीहि मनःकोशमयं तथा ॥ ४९॥ विज्ञानं ब्रह्म चोक्तं विज्ञानकोशप्रधारकम् । आनन्दो ब्रह्म समतानन्दकोशप्रभासकम् ॥ ५०॥ चैतन्यं ब्रह्म यत्प्रोक्तं महाकारणधारकम् । बिन्दुब्रह्म यदुक्तं तज्ज्ञानदेहमयं मुने ॥ ५१॥ चिद्ब्रह्मेति समाख्यातं सोऽहं मात्रात्मकं मतम् । बोधो ब्रह्मेति वेदेषु स्वत उत्थानवेदकम् ॥ ५२॥ साङ्ख्यं ब्रह्मेति यत्प्रोक्तं विदेहाधारकं सुत । कर्मज्ञाने तु वेदे च कथिते ते तदात्मके ॥ ५३॥ समं ब्रह्मेति जानीहि कथितं नन्दनात्मकम् । अव्यक्तं सहजं ब्रह्म ज्ञातव्यं नेतिरूपकम् ॥ ५४॥ (Page खं. १ अ. २० पान ४७) शक्तिब्रह्मेति वेदेषु ह्यसद्रूपप्रकाशकम् । सूर्यो ब्रह्मेति यत्प्रोक्तमात्मरूपं प्रकीर्तितम् ॥ ५५॥ विष्णुर्ब्रह्मेति यत्प्रोक्तमुभयात्मकधारकम् । शिवो ब्रह्मेति शास्त्रेषु निर्मोहस्य प्रकाशकम् ॥ ५६॥ स्वानन्दो ब्रह्मवेदे च संयोगमयमुत्तमम् । निर्वृत्तिर्ब्रह्मशास्त्रेषु ह्ययोगाधारकं परम् ॥ ५७॥ एवं नानाप्रकारैश्च वेदादौ च प्रकथ्यते । मुनिभिर्ब्रह्मवादज्ञैः सर्वं तथ्यं प्रमाणतः ॥ ५८॥ बृंहत्यथो बृंहयति यद्ब्रह्म श्रुतिवाक्यतः । तदेव ब्रह्मभूतत्वं ज्ञातव्यं मुनिभिः सदा ॥ ५९॥ अनाद्यात्मचिदाद्यैर्यद्युक्तं ब्रह्म प्रकथ्यते । तदेवोपाधियुक्तं वै योगिभिः सुविचारितम् ॥ ६०॥ ब्रह्मेति ब्रह्म विज्ञेयं तच्च योगेन लभ्यते । तदर्थं मथनं सर्वं कर्मज्ञानादिकस्य च ॥ ६१॥ तदेव ब्रह्म प्रत्यक्षं ब्रह्मणस्पतिवाचकम् । ब्रह्मणां ब्रह्म विख्यातं वेदस्मृतिसुभाषितम् ॥ ६२॥ बृंहत्यथो बृंहयति गणशब्दः प्रकीर्तितः । समूहे गणधातुश्च कविभिः कथितो भवेत् ॥ ६३॥ बाह्यान्तरादिकानां च समूहो गण उच्यते । तत्राऽभेदेन योगेन प्राप्यते योगिभिः परः ॥ ६४॥ अन्नानां बहवो भेदा बाह्यान्तरविभावतः । तदेव गणवाच्यं च ज्ञातव्यं विवुधैः सदा ॥ ६५॥ इत्यादयो गणास्तस्यानन्ता ब्रह्मप्रवाचकाः । तेषां स्वामी गणेशानः स एव ब्रह्मणस्पतिः ॥ ६६॥ तं भजस्व महाभाग ब्रह्मभूयं यदीच्छसि । तस्यावतारदेहा यं ज्ञानादिब्रह्मसंज्ञिताः ॥ ६७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुडचरिते अङ्गिरामुद्गलसंवादो नामैकोनविंशतितमोऽध्यायः ॥ १.१९

१.२० गणेशमुद्गलसमागमो नाम विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । वचः श्रुत्वा चाङ्गिरसो हृष्टरोमा स मुद्गलः । विनयावनतो भूत्वोवाच तं विस्मयन्निव ॥ १॥ मुद्गल उवाच । तस्यावतारमाहात्म्यं कथयस्व महामुने । तत्क्रमेण भजिष्यामि ब्रह्मभूयस्य सिद्धये ॥ २॥ अङ्गिरा उवाच । अनन्ता ह्यवताराश्च गणेशस्य महात्मनः । न शक्यन्ते च ते वक्तुं मया वर्षशतैरपि ॥ ३॥ सङ्क्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् । अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ ४॥ वक्रतुण्डावतारश्च देहानां ब्रह्मधारकः । मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ५॥ एकदन्तावतारो वै देहिनां ब्रह्मधारकः । मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥ ६॥ महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः । मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥ ७॥ गजाननः स विज्ञेयः साङ्ख्येभ्यः सिद्धिदायकः । (Page खं. १ अ. २० पान ४८) लोमासुरप्रहर्ता वै आखुगश्च प्रकीर्तितः ॥ ८॥ लम्बोदरावतारो वै क्रोधासुरनिबर्हणः । शक्तिब्रह्माखुगः सद्यत्तस्य धारक उच्यते ॥ ९॥ विकटो नाम विख्यातः कामासुरविदाहकः । मयूरवाहनश्चाऽयं सौरब्रह्मधरः स्मृतः ॥ १०॥ विघ्नराजावतारश्च शेषवाहन उच्यते । ममतासुरहन्ता स विष्णुब्रह्मेति वाचकः ॥ ११॥ धूम्रवर्णावतारश्चाभिमानासुरनाशकः । आखुवाहन एवाऽसौ शिवात्मा तु स उच्यते ॥ १२॥ एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः । एते भजनमात्रेण स्वस्वब्रह्मप्रदायकाः ॥ १३॥ स्वानन्दवासकारी यो गणेशानः प्रकथ्यते । स्वानन्दे योगिभिर्दृष्टो ब्रह्मण्येव न संशयः ॥ १४॥ तस्यावतारभूताश्चाऽष्टौ विघ्नहरणाः स्मृताः । स्वानन्दभजनेनैव लीनास्तत्र भवन्ति ते ॥ १५॥ माया तत्र स्वयं लीना भविष्यति सुपुत्रक । संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥ १६॥ अयोगिगणराजस्य भजनेन विनश्यति । मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥ १७॥ योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः । तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥ १८॥ नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते । शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥ १९॥ योगस्य योगता दृष्टा सर्वब्रह्मसुपुत्रक । न योगात् परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥ २०॥ एतदेव परं गुह्यं कथितं वत्स तेऽखिलम् । भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ २१॥ मया पूर्णं तपश्चीर्णं गणेशस्य महात्मनः । मह्यं दत्तो वरस्तेन वाञ्छितो भक्तितोषतः ॥ २२॥ तव वंशे च गाणेशा भविष्यन्ति विशेषतः । तत्रापि मुद्गलोऽत्यन्तं गाणपत्यो भविष्यति ॥ २३॥ न मुगलसमो भक्तो गणेशस्य प्रदृश्यते । न भूतो न भविष्यन् वा भक्तराजः स एकराट् ॥ २४॥ मुद्गलस्य प्रणामेन स्पर्शभाषणदर्शनैः । वायुस्पर्शादिभिर्भावैरुद्धरिष्यन्ति जन्तवः ॥ २५॥ मह्यमेवं वरं दत्वा गणेशोऽतर्दधे सुत । स त्वं मुद्गलनामासि मम वंशस्य भूषणम् ॥ २६॥ धन्यो वंशो मदीयोद्य गाणपत्यश्च यत्र वै । समुत्पन्ना महाभागा जन्तूनां नारकाः स्मृताः ॥ २७॥ त्वं साक्षान् मूर्तिमांस्तेषु गाणपत्यः प्रतापवान् । समुत्पन्नो महायोगी भविष्यसि न संशयः ॥ २८॥ मुद्गलं चैवमुक्त्वातमङ्गिरा उपदिष्टवान् । एकाक्षरमहामन्त्रं गणेशस्य यथाविधि ॥ २९॥ गच्छ पुत्र त्वमद्यैव तपसे वनमुत्तमम् । आराधय गणेशं स दर्शनं ते प्रदास्यति ॥ ३०॥ प्रणम्याऽसौ चाङ्गिरसं मुद्गलः प्रययौ वनम् । एकनिष्ठतया तेपे तपः पूर्ण महाद्भुतम् ॥ ३१॥ एकाक्षरविधानेन साङ्गेन परितुष्टवान् । गणेशोऽब्दसहस्रेण दिव्येन च समागतः ॥ ३२॥ आखुवाहश्चतुर्बाहुः सिद्धिबुद्धिसमन्वितः । प्रमोदामोदकाद्यैश्च संवृतो भक्तवत्सलः ॥ ३३॥ नानाभूषणशोभाढयो गजवक्त्रो महोदरः । (Page खं. १ अ. २१ पान ४९) एकदन्तस्त्रिनेत्रश्च चतुरायुधभूषितः ॥ ३४॥ चिन्तामणिमणिं बिभ्रद् हृदये द्युतिजालकम् । महाभक्तमुवाचेत्थं हर्षयन् सर्वभावतः ॥ ३५॥ श्रीगणेश उवाच । वरं वृणु महाभाग मुद्गल स्वेप्सितं हृदि । दास्यामि परमप्रीत एकाक्षरविधानतः ॥ ३६॥ सूत उवाच । गणेशवचनं श्रुत्वा मुद्गलः प्रणनाम तम् । बद्धाञ्जलिपुटो भूत्वा पूजयामास भक्तितः ॥ ३७॥ पूजयित्वा यथान्यायं प्रहृष्टहृदयो मुनिः । पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभूव ह ॥ ३८॥ सगद्गदमुवाचाऽथ तं प्रणम्य पुनः पुनः । महता भक्तिभावेन तथा चाङ्गिरसो मुनिः ॥ ३९॥ मुद्गल उवाच । धन्यो वंशो मदीयोऽद्य धन्यं जन्म वयोऽपि च । विद्या ज्ञानं तपस्तीर्थ धन्यं त्वदर्शनात् प्रभो ॥ ४०॥ इयं धन्याऽद्य पृथ्वी च वृक्षाः पुष्पफलान्विताः । पशुपक्षिलताद्या ये आगतोऽत्र महाप्रभुः ॥ ४१॥ इत्युक्त्वा तं प्रतुष्टाव गणेशं सर्वसिद्धिदम् । स्तोत्रेण स्वात्मनिष्ठः सन् भक्त्या परमया युतः ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशमुद्गलसमागमो नाम विंशोऽध्यायः ॥ १.२०

१.२१ गणेशस्तोत्रोत्तमवर्णने एकविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । कथं स्तुतिः कृता तेन गणेशस्य महात्मनः । तां मे वद महाभाग सर्वज्ञोऽसि मतो बुधैः ॥ १॥ सूत उवाच । भवते कथयिष्यामि भावयुक्तेन चेतसा । स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने ॥ २॥ मुद्गल उवाच । किं स्तौमि त्वां गणाध्यक्ष वेदैः स्तोतुं न शक्यते । ब्रह्मादिभिश्च योगीन्द्रैर्यथामति च वच्मि भोः ॥ ३॥ त्वद्दर्शनप्रभावेण शक्तोऽस्मि न च संशयः । त्वदनुग्रहतः सर्वे स्तोतुं शक्ता भवन्ति वै ॥ ४॥ नमस्ते गणेशाय सर्वादिभूम्ने परेषां परेशाय वेदातिगाय । परं मायिने मायिनां मोहदात्रे ह्यगण्याय गण्याय ते वै नमस्ते ॥ ५॥ पुराणादिशास्त्रैः सदा संस्तुताय शिवाद्यैः सुरेन्द्रैर्नमस्ते स्तुताय । अनाद्यन्तमध्यादिभेदैर्विहीनाय नानामयायास्तु सर्वेश्वराय ॥ ६॥ नमो लक्षवेदाष्टयोनिप्रचारतदाकाररूपाय योगेन योगिन् । नमो ह्यन्नभूताय सर्वाकराय कलानन्तरूपाय पुष्टिप्रदाय ॥ ७॥ नमो भूमिरूपाय नानाप्रभेदधरायाथ धाराय नित्याय तेऽस्तु । जलाधिस्वरूपाय तृप्तिप्रदाय तदाकारहीनाय साराय धाम्ने ॥ ८॥ नमस्तेजसां द्योतरूपाय ढुण्ढे प्रकाशाय भोक्त्रे च सर्वस्थिताय । नमो वायुरूपाय ते चालकाय प्रचारस्वरूपाय भिन्नाय तस्मात् ॥ ९॥ नमः स्वस्वरूपाय दीप्ताय पूर्णप्रकाशाय भूतादिकब्रह्मदात्रे । (Page खं. १ अ. २१ पान ५०) नमः स्थूलभोगस्वरूपाय जाग्रन्मयाय प्रभो राजसायाथ तेऽस्तु ॥ १०॥ नमः स्वप्नमायामयायापि सूक्ष्मस्वरूपाय सर्वान्तरे संस्थिताय । नमः कारणायोभयब्रह्मदाय समायापि सौषुप्तभोगिन्नमस्ते ॥ ११॥ नमश्चेतनाधाररूपाय तेऽस्तु प्रयत्नप्रदाय त्रिभोगप्रदाय । गुणेशाय चैतन्यधाराय तेऽस्तु नमो नादरूपाय कालाय चात्मन् ॥ १२॥ नमो बिन्दुरूपाय वक्राननाय नमो देहमायाविहाराय तुभ्यम् । नमश्चित्स्वरूपाय सोऽहं प्रदाय निराकारदेहिस्वरूपाय तेऽस्तु ॥ १३॥ सदा ह्येकदन्ताय जन्मातिगाय परायाथ शून्याय दैत्यान्तकाय । मदादेश्च शत्रो महाखुध्वजाय नमोऽनादिसिद्धाय मायाधराय ॥ १४॥ नमो ज्ञानरूपाय नानाविहारप्रदायाथ पूर्णाय सर्वत्रगाय । नमो मायिमायादिभेदाकराय सदा बोधरूपाय ते वै महात्मन् ॥ १५॥ नमः साङ्ख्यरूपाय वै देहिनां वै पराय स्वसम्भोगहीनाय देव । सदा केवलब्रह्मभूताय तेऽस्तु नमो ज्ञानहीनाय मेधामयाय ॥ १६॥ नमः स्वस्वरूपाय चानन्ददाय समाधिस्वरूपाय मौनात्मकाय । स्वसंवेद्ययोगेन लभ्याय तेऽस्तु विनात्मप्रबोधाय सर्वाधिपाय ॥ १७॥ नमः पञ्चपञ्चादिमायाकराय चतुर्धा चतुर्धा विभिन्नाय धर्मिन् । असद्रूपकायाऽथ शक्त्यात्मकाय नमोऽभेदभेदादिनानात्मकाय ॥ १८॥ नमः सत्स्वरूपाय सूर्यात्मकाय सदात्मप्रबोधाय मायाधराय । अखण्डामृतायाद्वितीयाय तेऽस्तु सदा कालकालाय मोक्षप्रदाय ॥ १९॥ नमो विष्णुरूपाय चानन्ददाय समाय स्वमायोभयस्रष्ट्र एव । अनन्ताय भेदादिहीनाय भूम्ने सदा भेदरूपाय सर्वात्मकाय ॥ २०॥ नमः शम्भुरूपाय नेतिप्रदाय सदा मोहहीनाय च त्र्यम्बकाय । त्रिधा मायया भासितुर्यस्वरूपपरब्रह्मरूपाय ते धूम्रवर्ण ॥ २१॥ चतुर्णामभेदाय संयोगकारिन् स्वसंवेद्यभावेन विघ्नाधिपाय । स्वभक्तस्य पक्षे सदा संस्थिताय गणाधीश हन्त्रे महादैत्यकानाम् ॥ २२॥ नमः कर्मरूपाय कर्मादिकर्त्रे जनानां स्वकर्मादिना भोगदात्रे । नमो ज्ञानरूपाय निःसङ्गदाय सदा कर्महीनाय ते केवलाय ॥ २३॥ नमस्ते समानप्रदायोभयाय समायाऽथ योगेन चानन्ददाय । नमः साहजब्रह्मभूयप्रदाय त्रिधाम्ने त्रिहीनाय सन्तोषदाय ॥ २४॥ चतुर्धा स्थितीनां सदा पालकाय निजात्मस्वरूपाय संयोगकारिन् । अपाराय नाना चतुर्णां समूहेष्वधीशाय हेरम्ब तुभ्यं नमस्ते ॥ २५॥ अयोगाय मायाविहीनाय तुभ्यं नमस्ते निरानन्दरूपाय नित्यम् । निवृत्तिस्वरूपाय भिन्नाय तेऽस्तु नमो योगरूपासमाधिस्थिताय ॥ २६॥ नमो योगशान्तिस्वरूपाय शान्तिप्रदात्रे गणेशाय योगाय तुभ्यम् । सदा ब्रह्मणां ब्रह्मदात्रेऽखिलेश गणानां पते ज्येष्ठराजाय तेऽस्तु ॥ २७॥ (Page खं. १ अ. २१ पान ५१) नमो ब्रह्मणे सृष्टिकर्त्रे सदा वै रजोधारिणे वेदशास्त्रादिकर्त्रे । सदा सृष्टिहीनाय साम्याय धाम्ने नमो मायिने मध्यवृत्तिस्थिताय ॥ २८॥ नमः सत्वरूपाय विष्णुप्रभेदाज्जगत्पालकायाथ मायाधराय । नमः सत्त्वहीनाय सर्वातिगाय कवीनां पते विघ्नहन्त्रे नमस्ते ॥ २९॥ नमस्तामसायाऽथ संहारकर्त्रे त्रिनेत्रप्रदीपाय शक्तेर्धराय । सदा कालरूपाय कैलासदाय तमोहीनरूपाय लम्बोदराय ॥ ३०॥ नमः कर्मणां मूलबीजाय तेऽस्तु नमो भानुरूपाय तेजोमयाय । त्रिकालादिबोधाय सूर्याय भूम्ने प्रकाशैर्विहीनाय हेरम्ब तेऽस्तु ॥ ३१॥ नमः शक्तिरूपाय मोहप्रदाय क्रियाधारभूताय नानाभ्रमाय । अनन्तस्वरूपाधिलीलाधराय नमः शक्तिहीनाय सिद्धीश तुभ्यम् ॥ ३२॥ नमश्चन्द्ररूपाय पुष्टिप्रदाय कलाभिस्त्रिलोकस्थभूतादिकेभ्यः । सुधाधारकायाऽथ नक्षत्रकादिप्रकाशाय ते ह्यन्नहीनाय ढुण्ढे ॥ ३३॥ नमः कामरूपाय कामारये ते नमस्ते गजाकारतुण्डाय तुभ्यम् । हरीन्द्रादिदेवैः सदा संस्तुताय शुकाद्यैर्महद्भिश्च वन्द्याय तेऽस्तु ॥ ३४॥ अनित्याय नित्याय देवेश देव सकामाय निष्कामभावप्रदाय । सदा सर्वपूज्याय सर्वाधिपाय जलेशेन्द्रशेषादिभिः संस्तुताय ॥ ३५॥ नमः काश्यपायाऽथ वै कापिलाय वरेण्यस्य पुत्राय पाराशराय । नमः शम्भुपुत्राय पार्श्वात्मजाय नमो भक्तिभोक्त्रे गणाधीश तेऽस्तु ॥ ३६॥ नमो माधवस्त्रीसुतायाऽथ तुभ्यं नमः सर्वमात्रे नमः सर्वपित्रे । नमः सर्वपुत्राय सर्वात्मकाय नमः सर्वसर्वाय नानामयाय ॥ ३७॥ नमः पाशधारिन् नमो दन्तधारिन् सृणिं बिभृते वै सदानन्ददायिन् । नमः पुत्रपौत्रादि राज्यप्रदात्रे नमो भुक्तिमुक्तिप्रदायाऽथ तुभ्यम् ॥ ३८॥ नमोऽनन्तशक्ते गुणानामधीश मयूरेश योगेश मायेश तुभ्यम् । नमोऽव्यक्तसुव्यक्तरूपाय दन्तिन् गजाकारसाकारमोहाय तेऽस्तु ॥ ३९॥ नमो ह्येकरूपाय नानाप्रभेदादये विघ्नपालाय शुण्डाधराय । अनाथाय नाथाय देवादिकानां निवासाय सर्वात्मनां ते नमो वै ॥ ४०॥ नमस्त्वम्पदाकारदेहाय तुभ्यं नमस्तत्पदाकारतुण्डाय तेऽस्तु । तयोरेकभावाऽसिरूपप्रयुक्तशरीराय साक्षात् सुधाम्ने नमस्ते ॥ ४१॥ नमो वामभागेन सिद्धिस्वरूपाधृतामोहमायाजनानां जनित्री । सदा बुद्धिरूपा धृता दक्षिणाङ्गे न पुंस्त्रीस्वरूपाऽसिरूपाय तेऽस्तु ॥ ४२॥ नमो भ्रामरी त्वम्पदाधारशक्तिः सदा तत्पदा कामदात्री ह्यभेदा । तयोरेकभावे स्वसंवेद्यनाम्नि पुरे मस्तके वासकारिंश्च तासाम् ॥ ४३॥ अखण्डामृतं यत्र तोयं सुताम्रं समुद्रे स्थितं चेक्षुसंज्ञे नमस्ते । निराधाररूपे च पानेन तस्य न पुंस्त्रीप्रदायाऽत्र खेलंश्च तेऽस्तु ॥ ४४॥ जनानां सदा त्र्यक्षरं श‍ृण्वतां च गणेशेति चानन्ददायिन्नमस्ते । सकृज्जल्पतां जन्ममृत्यू न तेषामपारप्रधाम्ने च ढुण्ढीश्वराय ॥ ४५॥ (Page खं. १ अ. २२ पान ५२) तवोपासका ब्रह्मभूता न चित्रं जनेभ्यश्च संस्पर्शनैर्ब्रह्मदा वै । सुरेन्द्रादिपूज्या गणेशस्वरूपा भवेयुर्नमस्ते नमस्ते गणेश ॥ ४६॥ सूत उवाच । इति स्तुत्वा गणेशानं मुद्गलो मौनधारकः । पादौ धृत्वा गणेशस्य पतितो दण्डवत् क्षितौ ॥ ४७॥ समुत्थाप्य स्वभक्तं तं सस्वजे परमादरात् । गजाननः प्रसन्नात्मा तमुवाच महामुनिम् ॥ ४८॥ गणेश उवाच । त्वया स्तोत्रं कृतं यच्च मदीयं मम सन्निधौ । स्तोत्रोत्तमं प्रविख्यातं भविष्यति न संशयः ॥ ४९॥ स्तोत्रोत्तमेन मां स्तौति तस्मै मुक्तिं सभुक्तिकाम् । ददामि दृढभक्तिं च मदीयां नात्र संशयः ॥ ५०॥ न सङ्कटं न रोगं च प्राप्नोति स नरोत्तमः । पुत्रपौत्रादिकं सर्वं धनं धान्यं ददामि वै ॥ ५१॥ मारणोच्चाटनादीनि नश्यन्ति पठनेन च । एकविंशतिवारं च तथा तावद्दिनावधि ॥ ५२॥ कारागृहादिजाः पीडा नश्यन्ति पठनेन च । मनसेप्सितमाप्नोति नरो मे परमप्रियः ॥ ५३॥ त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं भक्तियन्त्रितः । त्वत्समो नास्ति भावज्ञो वशे तेऽहं सदा स्थितः ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशस्तोत्रोत्तमवर्णने एकविंशतितमोऽध्यायः ॥ १.२१

१.२२ मुद्गलवरप्रदानं नाम द्वाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । गणेशवचनं श्रुत्वा भक्तिभावसमन्वितः । मुद्गलः प्रणिपत्यैनमूचिवान् हर्षपूरितः ॥ १॥ मुद्गल उवाच । किं मां लोभयसे ढुण्ढे वृणोमि च न किञ्चन । तव वाक्यानुरोधेन वृणोमि त्वं ददासि चेत् ॥ २॥ तव भक्तिं दृढां देहि सदाऽखण्डात्मिकां प्रभो । सम्पूर्णा भक्तिमिच्छामि गाणेशीं यत्रकुत्र च ॥ ३॥ मुद्गलस्य वचः श्रुत्वा विस्मितो गणराट् स्वयम् । अहो सम्पूर्णभावेन भक्तिमेकांवृणोषि यत् ॥ ४॥ गणेश उवाच । मदीया त्वचला भक्तिः सम्पूर्णा प्रभविष्यति । त्रैलोक्ये तव भाग्येन समं भाग्यं न विद्यते ॥ ५॥ भक्तिः सा नवधा विप्र चित्ते ते रसदायिका । दशमं नास्ति संस्थानं चित्तस्य रसधारणे ॥ ६॥ श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् । अर्चनं वन्दन दास्यं सख्यं देहनिवेदनम् ॥ ७॥ नवचिह्नं प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् । तेनैव प्राप्यते भक्तिर्जनैर्मे नाऽत्र संशयः ॥ ८॥ श्रवणं मद्गुणानां च मननं तादृशं पुनः । (Page खं. १ अ. २२ पान ५३) तस्यानुकूलं कर्तव्यं जायतेऽनुभवस्ततः ॥ ९॥ रसोत्पत्तिस्त्वनुभवे तत्र सर्वा प्रजायते । श्रवणं मे तया कार्यं गुणानां जन्तुना सदा ॥ १०॥ प्रियं भवति नान्यच्च मदेकरसभावतः । तेनान्यश्रवणे प्रीतिर्यदा नोत्पद्यते क्वचित् ॥ ११॥ तदा सम्पूर्णतां प्राप्ता भक्तिर्मे श्रवणात्मिका । अहं वसामि तत्कर्णे सदा तद्भक्तिलालसः ॥ १२॥ मद्गुणानां सदा यस्य कीर्तनं रसदायकम् । नान्यकीर्तनभावेषु तस्य वै मनसो रसः ॥ १३॥ तदा भक्तिः सुसम्पूर्णा मदीया कीर्तनात्मिका । प्राप्ता तेन सदा तस्य जिह्वाग्रे प्रवसाम्यहम् ॥ १४॥ मदीयकार्यभावस्य विस्मृतिर्नैव जायते । समये सावधानो यो व्रतपूजादिमार्गतः ॥ १५॥ तेन स्मरणरूपा सा भक्तिः प्राप्ता महामुने । स्मृत्यां वसामि तस्याऽहं भक्तिभोगार्थमेव हि ॥ १६॥ मदीयपादपद्मं यत्सत्यमन्यदसत्यकम् । ज्ञात्वा देहश्रमे वै यो नालस्येन प्रवर्तते ॥ १७॥ मम पादाश्रयः पूर्णः सदा येन कृतो मुने । अन्यत्राऽलस्यभावेन मिथ्याभूते स्थितेन च ॥ १८॥ तस्य भक्तिः समुत्पन्ना पादसेवनरूपिका । तस्याऽलसविहीनेऽहं देहे स्थास्यामि निश्चलः ॥ १९॥ साङ्गोपाङ्गं प्रकर्तव्यं मदीयं कर्म भावतः । अन्यच्च यादृशं जातं तादृशं किल तद्भवेत् ॥ २०॥ अर्चनात्मकभक्तिः सा सदा प्राप्ता नरेण वै । साङ्गोपाङ्गतया तत्र वसेयं भक्तिभावितः ॥ २१॥ न मत्समं भवेज्जातु वेदादिषु विचारतः । मयि श्रेष्ठत्वमापन्नं श्रेष्ठं मन्नमनं भवेत् ॥ २२॥ यदा वै मत्समं नास्ति चित्ते यस्य प्रतिष्ठितम् । तदा वदनजा भक्तिः प्राप्ता तेन न संशयः ॥ २३॥ तस्य श्रेष्ठत्वभावेऽहं सदा तिष्ठामि सर्वतः । भक्तिभोक्ता स्वयं भूत्वाऽन्यत्र श्रेष्ठत्वनाशकः ॥ २४॥ गणेशोपासनामार्गो यथा शास्त्रेषु दृश्यते । तं दृष्ट्वा तादृशं भूत्वा गाणपत्योऽभिमानतः ॥ २५॥ मां भजेत् यः स्वभावेन गाणेशाऽहङ्कृतेर्धरः । तेन दास्यं समापन्नं भक्तिभावेन भावितम् ॥ २६॥ गाणपत्यस्वभावेऽहं तं स्थास्यामि स्वभावतः । दास्यभक्तिविभोगार्थमेकनिष्ठाप्रकाशकः ॥ २७॥ मित्रस्य सन्निधाने तु यथा गोप्यं न विद्यते । बाह्यान्तरं च मित्रस्य मित्रं जानाति सर्वतः ॥ २८॥ तथा बाह्यान्तरैर्हीनो दम्भहीनः स्वभावतः । भजते मां नरो यस्तु सख्यं प्राप्तं मदीयकम् ॥ २९॥ यत्र कुत्र स्थितेनैव यद्यन् मनमि सन्धृतम् । गणेश्वरण तज्ज्ञातं सर्वान्तर्यामिनाऽखिलम् ॥ ३०॥ एतादृशविचारेण भययुक्तेन चेतसा । सर्वभावेन मां यस्तु भजतेऽनन्यचेतसा ॥ ३१॥ तस्य सख्ये सदाऽहं वै तिष्ठेयं भक्तिलोलुपः । बाह्यान्तरैकभावेषु मोहितस्तस्य चेष्टया ॥ ३२॥ पञ्चधा चित्तभूमिर्या तां त्यक्त्वाऽहं तया विना । गणेशोऽहं न सन्देहो येनात्मेति निवेदितः ॥ ३३॥ अहम्भावविहीनेऽहं भक्तिभावेन संस्थितः । नैव भिन्नो भविष्यामि तस्माज्जानीहि भो मुने ॥ ३४॥ (Page खं. १ अ. २२ पान ५४) इत्येवं नवधा भक्तिं रसयुक्तां करोति यः । सहते क्षणमात्रं न चित्तं मद्रसहीनकम् ॥ ३५॥ तदा सम्पूर्णभक्तो मे जातो वै नात्र संशयः । अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा ॥ ३६॥ न क्षणं तं परित्यक्तुं शक्तोऽहं भक्तियन्त्रितः । नवधा चित्तभावेन तं रक्षिष्यामि सर्वदा ॥ ३७॥ न च भक्तिसमो भावो मम प्रीतिकरः कदा । तेन बद्धो भविष्यामि हृदये तस्य धीमतः ॥ ३८॥ नवधा मां भजन्ते ये नरा नानाविधाः सदा । तेषां यत्राधिकत्वं च भक्तावेकस्वभावतः ॥ ३९॥ अधिका च रसोत्पत्तिर्यत्र भक्तौ समागता । तस्यां मुख्यत्वमापन्नं नवधा भवने सति ॥ ४०॥ तत्र मुख्यस्वभावेन भक्तराजाश्च ये स्थिताः । तान् वदामि महाभाग श‍ृणु तत्त्वमिदं महत् ॥ ४१॥ श्रवणे मद्गुणानां यदाधिक्यं खलु विद्यते । तत्र वै कार्तिकेयश्च भक्तराजः प्रकीर्तितः ॥ ४२॥ कीर्तने भक्तराजस्तु सूर्य आत्मा शरीरिणाम् । स्मरणे रामचन्द्रो वै भक्तराजः स्मृतो बुधैः ॥ ४३॥ पार्वती पादसेवायां भक्ताधीशा च संस्मृता । महाविष्णुः स्वयं राजा भजतामर्चने मम ॥ ४४॥ वन्दने भक्तराजेन्द्रः शङ्करः सर्वभावतः । दास्यं भक्ताधिपः प्रोक्तो रामो वै जमदग्निजः ॥ ४५॥ सख्ये चतुर्मुखः साक्षाद्भक्तानामधिपः स्मृतः । वैयासकिः शुको भूपो मयि त्वात्मनिवेदिनाम् ॥ ४६॥ एते भक्ताधिपाः प्रोक्ता अन्तरायविहीनकाः । मां भजन्ते महाभागा ब्रह्मभूतास्ततोऽप्यहो ॥ ४७॥ त्वं तेषां च सदा राजा कृतो मे नात्र संशयः । पूर्णभक्तिस्वभावेन मां भजिष्यसि यत्नतः ॥ ४८॥ नवधा भक्तिभावेषु तवाधिक्यं भविष्यति । पूर्णभक्तो मदीयस्त्वं भक्तेशेशः कृतो मया ॥ ४९॥ मद्भक्तो त्वत्समो नैवाभवन्न प्रभविष्यति । वर्तते न कदा विप्र त्वदधीनोऽहमञ्जसा ॥ ५०॥ तवाङ्गवायुना स्पृष्टाः पूता वै दर्शनादिभिः । भविष्यति न सन्देहो ब्रह्मबुद्धियुतास्तथा ॥ ५१॥ सूत उवाच । एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । तदादि स मुनिः प्रोक्तः सर्वेषां वन्द्यतां गतः ॥ ५२॥ मुद्गलस्य चरित्रं यः श‍ृणुयाद्वा पठेन्नरः । श्रावयेद्भावयुक्तेभ्यः स वै सर्वार्थसिद्धिभाक् ॥ ५३॥ इह भुक्त्वाऽखिलान् भोगानन्ते ब्रह्ममयो भवेत् । भक्तराजेन्द्रता तस्य विघ्नेशस्य भविष्यति ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मुद्गलवरप्रदानं नाम द्वाविंशोऽध्यायः ॥ १.२२ (Page खं. १ अ. २३ पान ५५)

१.२३ मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽसि योगिराजोऽसि भक्तराजेन्द्रता च ते । मदीयं भाग्ययोगेन सम्प्राप्तं दर्शनं प्रभो ॥ १॥ अष्टौ ये गणराजस्य ह्यवताराः प्रकीर्तिताः । तान् मे कथय योगीश विस्तरेण महामुने ॥ २॥ दैत्याः सन्निहितास्तैस्तु तेषां जन्मादिकं परम् । सकलं युद्धभागं मां कथयस्व विशेषतः ॥ ३॥ एतादृशा महादैत्या न श्रुताः कुत्रचित्प्रभो । विस्मापयति चेयं मां कथा पापापनोदिनी ॥ ४॥ मुद्गल उवाच । प्रजापते कथां दिव्यां तव भावनियन्त्रितः । कथयामि समासेन गणनाथप्रमोदिनीम् ॥ ५॥ प्रथमं वक्रतुण्डस्य चरित्रं श‍ृणु पुण्यदम् । मत्सरासुरयुद्धं च गणेशेन महाद्भुतम् ॥ ६॥ इन्द्रस्येन्द्रपदप्राप्तिर्जाता यस्मिन् दिने परा । तस्मिन् दिने महोत्साहो वार्षिकः क्रियते मुने ॥ ७॥ कदाचिदमरावत्यां महोत्सवपरायणः । सुभद्रासनगोतिष्ठद्देवेन्द्रः सर्वपूजितः ॥ ८॥ तावद्देवाः सगन्धर्वा अप्सराभिः समागताः । नागा यक्षा मुनीन्द्राश्च राक्षसा देवयोषितः ॥ ९॥ आगतो भगवांस्तत्र सर्वभूतगणैर्वृतः । स्कन्दनन्दीश्वराद्यैश्च पार्वत्या सह शङ्करः ॥ १०॥ लक्ष्म्या सह स्वयं विष्णुर्विष्वक्सेनादिभिर्गणैः । वेदादिभिर्वृतो ब्रह्मा प्रजापतिभिराययौ ॥ ११॥ सर्वग्रहैः समायुक्तो भानुस्तत्रागमत् स्वयम् । अग्निश्च धर्मराजश्व कुबेरो वरुणस्तथा ॥ १२॥ आदित्या मनवश्चैव वसवो रुद्रकास्तथा । साध्या विद्याधरा विश्वेदेवास्तत्राययुः प्रभो ॥ १३॥ अश्विनौ शेषनागश्च बहवस्तत्र चागताः । उपविष्टा मुदा युक्ता उत्सवे वै शतक्रतोः ॥ १४॥ तत्र नाना कथाश्चक्रुरानन्दपरिवर्धिनीः । मुनयो भावसंयुक्ताः पुरातनभवा मुने ॥ १५॥ नृत्यमप्सरसश्चक्रुर्गन्धर्वा ललितं जगुः । हाहाहूहूमुखा अन्ये तुम्बरुनारदस्तथा ॥ १६॥ वादयन्ति स्म वादित्रं तान् स्तुवन्ति स्म चारणाः । हृष्टा पुष्टा जनास्तत्र स्त्रियः परमहर्षिताः ॥ १७॥ तत्र रम्भा विचित्राणि नृत्यादीनि चकार ह । हावभावप्रयुक्तानि चेष्टितानि प्रजापते ॥ १८॥ कन्दुकक्रीडनोद्युक्ता सभायां यत्र तत्र सा । बभ्राम तां प्रपश्यन् सन्निन्द्रोऽभूत् कामपीडितः ॥ १९॥ मोहितो मञ्जुलरवैर्नृत्यादिकलया तथा । कर्तव्यं नैव सञ्जज्ञौ तन्मनाः स सुरेश्वरः ॥ २०॥ शीघ्रमेव समाप्तं तमुत्सवं कृतवान् स्वयम् । सर्वे स्वस्वस्थलं जग्मुर्मानिता हर्षिता विभो ॥ २१॥ रम्भां निमन्त्र्य चेन्द्रश्च जगाम वनमेकलः । नानापरिमलैर्युक्ता यत्र वृक्षाः सुपुष्पिताः ॥ २२॥ नानाप्रस्रवयुक्तानि निर्मलानि जलानि च । सुवर्णपद्मशोभानि षट्पदैः शोभितानि च ॥ २३॥ इत्यादिकामपुष्टानि नानावस्तुयुतानि च । वनानि तत्र रेमे साविन्द्रः कामविमोहितः ॥ २४॥ रम्भयासक्तचित्तस्य वज्रिणः क्रीडतो भृशम् । न तृप्तिरभवत्तत्र घृतेन दहनस्य वा ॥ २५॥ तत्राजगाम दुर्वासाः स्वेच्छया विचरन् मुनिः । तं दृष्ट्वा लज्जितो राजा देवानां विनयं श्रितः ॥ २६॥ (Page खं. १ अ. २३ पान ५६) त्यक्त्वा रम्भां नमस्कृत्य तं मुनिं प्राञ्जलिः स्थितः । तादृशं तं परित्यज्य जगाम मुनिसत्तमः ॥ २७॥ अतिविह्वलगात्रत्वाच्चस्कन्द सुरशत्रुहा । रेतोऽभूत् पतितं भूमौ तस्माद्दैत्यसमुद्भवः ॥ २८॥ इन्द्रोऽपि स्वगृहं गत्वा रम्भां त्यक्त्वा चकार ह । सुराणामखिलं राज्यमात्मानं निन्दयन्मुहुः ॥ २९॥ अहो धिक् बत राज्यं मे सुराणां स्त्रीजितस्य च । असुराणामिवात्यन्तं मनो मे चञ्चलं भृशम् ॥ ३०॥ पुंश्चल्या मोहितं नित्यं धिङ् मां साध्वभिनिन्दितम् । कुकुर्मकृत्यदोषाच्च भयमग्रे भविष्यति ॥ ३१॥ इत्येवमात्मनात्मानं निन्दयामास देवपः । स्वधरर्मे संस्थितो दक्ष वृत्रहा पुनरेव च ॥ ३२॥ इन्द्रवीर्याच्च कालेन भूम्यां जातो महासुरः । तं पृथ्वी पालयामास स्तनपानादिना भृशम् ॥ ३३॥ स तु संववृधे तत्र हिमाचल इवापरः । आजानुबाहुर्दीर्घाक्षो महावक्षा महाबलः ॥ ३४॥ रक्तवर्णः क्रूरकर्मा यथाग्निर्ज्वलितो बभौ । नाम तस्याऽकरोद्भूमिर्मत्सरेति स्वभावतः ॥ ३५॥ पञ्चवर्षवयोगस्य चोपवीतप्रदानकम् । ब्राह्मणैः कारयामास धरित्री स्नेहभावतः ॥ ३६॥ स तु वेदादिकं सर्वं शिक्षितुं गुरुसन्निधौ । स्थित आर्जवसंयुक्तो ग्राहकः श्रवणेन वै ॥ ३७॥ महाबुद्धिः स कालेनाल्पेन वेदादिपारगः । दुर्बुद्धेः कन्यकां रम्यां तामुवाह विलासिनीम् ॥ ३८॥ नाम्ना मदकराख्याता सर्वावयवशोभिनी । चतुरा सर्वकार्येषु विषयस्य विवर्धिनी ॥ ३९॥ एकस्मिन् दिवसे तस्य मतिर्जाता दुरात्मनः । विपुलं सुतपस्तप्त्वा जेयं ब्रह्माण्डमोजसा ॥ ४०॥ स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् । तपसा च तया शम्भुं तोषयामास भक्तितः ॥ ४१॥ निर्जने वन एकान्ते पुष्पपल्लवशोभिते । कन्दमूलफलोपेते सुजले संस्थितोऽतपत् ॥ ४२॥ दिव्यवर्षसहस्रं स निराहारतया स्थितः । जपन् पञ्चाक्षरं मन्त्रं ध्यात्वा हृदि सदाशिवम् ॥ ४३॥ दीक्षां पाशुपतीं धृत्वा तोषयामास शङ्करम् । तस्य प्रतपसा देवाः क्षुभिताश्च समन्ततः ॥ ४४॥ न प्रकाशो रवेरासीन्नाग्निज्वाल भास्वरः । भूतान्याकुलतां तत्र प्राप्तानि तपसो बलात् ॥ ४५॥ देवाः सर्षिगणाः सर्वे शङ्करं शरणं ययुः । मत्सरस्य तपस्तप्तान् रक्ष नो जगदीश्वर ॥ ४६॥ शङ्करस्तैः समायुक्तः पार्वत्या स्वगणैः सह । तं देशमगमद् हृष्टो भक्तं ज्ञातुं महाद्भुतम् ॥ ४७॥ अस्थित्वचासमायुक्तं श्वासमात्रावशेषितम् । हीनाङ्गमावृतं तत्र वल्मीकेन समन्ततः ॥ ४८॥ महोग्रतपसा युक्तं देवाः सर्वे विसिस्मिरे । ऋषयोऽपि महाभागा दृष्ट्वा तं तापसं परम् ॥ ४९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः ॥ १.२३ (Page खं. १ अ. २४ पान ५७)

१.२४ मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मत्सरासुरमुग्रं तं तापसं शाम्भवं प्रभो । बोधयामास तं शम्भुर्दानवेन्द्रं महाबलम् ॥ १॥ शङ्कर उवाच । भो भो मत्सर चोत्तिष्ठ वरान् वरय सुव्रत । तवोग्रतपसा भक्त्त्या सन्तुष्टोऽहं ददामि तान् ॥ २॥ अहो धैर्यमहो धैर्यं धन्यं ते तापसोत्तम । देहभावमतिक्रम्य स्थितोऽसि दृढभक्तितः ॥ ३॥ क्लेशं त्यज तपो जातं सिद्धिं प्राप्तां तपोभुवम् । पश्येच्छसि तथा यं यं तं तं दास्यामि दुर्लभम् ॥ ४॥ शिवस्य वचनं श्रुत्वा प्रबुद्धो मत्सरासुरः । उन्मील्य लोचनेऽपश्यच्छङ्करं पुरतः स्थितम् ॥ ५॥ शिवदर्शनमात्रेण सत्तावानभवत्किल । उत्थाय तं नमस्कृत्य विनम्रः प्रेमविह्वलः ॥ ६॥ उवाच तं महाबुद्धिः शिवं कल्याणकारकम् । भक्तानां कल्पवृक्षं च पार्वतीसहितं प्रभुम् ॥ ७॥ मत्सरासुर उवाच । धन्यो वंशो मदीयोऽद्य जन्म सम्पत्तिशास्त्रजम् । ज्ञानं मे जनको माता तपो धन्यं महत्प्रभो ॥ ८॥ मुनयो यं न जानन्ति योगिनो ध्यानशालिनः । वेदाः स्मृतिसमायुक्तास्तं पश्यामि सदाशिवम् ॥ ९॥ एवमुक्त्वा नमस्कृत्य पूजयामास हर्षतः । ऋषिदेवयुतं शम्भु भक्तिभावसमन्वितः ॥ १०॥ यथाविधि स सम्पूज्य शङ्करं दण्डवत् क्षितौ । प्रणिपत्य समुत्थाय प्राञ्जलिः स्तोत्रमाकरोत् ॥ ११॥ मत्सरासुर उवाच । नमस्ते त्रिदशेशाय शङ्कराय शिवाय च । निर्गुणाय गुणानां चेशाय सर्वगुणाय ते ॥ १२॥ अपाराय महादेव पिनाकधर ते नमः । नमो नमो महेशाय सर्वाधिपतये नमः ॥ १३॥ उमाकान्त नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय सर्पहाराय ते नमः ॥ १४॥ वृषध्वजाय नन्दीशवाहनाय त्रिशूलिने । भस्माङ्गरागधाराय व्याघ्राम्बरधराय ते ॥ १५॥ भालचन्द्र नमस्तुभ्यं पञ्चवक्त्राय शम्भवे । दशबाहुधरायैव त्रिनेत्राय कपालिने ॥ १६॥ जटाजूटधरायैव नमो गङ्गाधराय ते । गिरिशाय नमस्तुभ्यं गजचर्मधराय ते ॥ १७॥ सदा ब्रह्ममयायैव नमो ब्रह्मप्रदायिने । निराधाराय नित्याय सुयोगिपतये नमः ॥ १८॥ अपारगुणधाराय रुद्राय तु नमो नमः । किं स्तौमि त्वां महादेव यत्र वेदा विकुण्ठिताः ॥ १९॥ इति स्तुत्वा महेशानं मत्सरः प्रणनाम तम् । उत्थितं तं शिवः प्राह वरं वरय सुव्रत ॥ २०॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिविवर्धनम् । पठते श‍ृण्वते सर्वकामदं प्रभविष्यति ॥ २१॥ विद्यामायुः सुखं राज्यं पुत्रपौत्रादिकं च यत् । भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेण स्तुवतेऽसुर ॥ २२॥ श्रुत्वा शिववचो रम्यं प्रहृष्टो मत्सरोऽब्रवीत् । विनयावनतो भूत्वा शिवं भक्तवरप्रदम् ॥ २३॥ मत्सर उवाच । यदि देवेश तुष्टोऽसि यदि दास्यसि मे वरान् । तदाऽभयं ते सर्वत्र भक्तिं देहि सदाशिव ॥ २४॥ पञ्चभूतात्मकं सर्वं त्रिगुणैः सुविराजितम् । तस्मान्मे मरणं शम्भो न कदाचिद्भवेदिह ॥ २५॥ (Page खं. १ अ. २४ पान ५८) आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतम् । ब्रह्माण्डस्य च राज्यं मे देहि देहि सदाशिव ॥ २६॥ मुद्गल उवाच । तस्यैतद्वचन श्रुत्वा शिवो विस्मितमानसः । देवाः सर्षिगणाः सर्वे विस्मिताः प्राभवन् तदा ॥ २७॥ किमुक्तं मत्सरेणैवं का गतिर्वा भविष्यति । तपसोग्रेण सन्तुष्टः शिवस्तं प्रत्युवाच ह ॥ २८॥ शिव उवाच । यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति । उग्रेण तपसा तुभ्यं मया दत्तं सुदुर्लभम् ॥ २९॥ मुद्गल उवाच । वरान् सुदुर्लभान् प्राप्य मत्सरो गृहमागमत् । हर्षितो हर्षयन् सर्वान् सुहृदो मातरं स्त्रियम् ॥ ३०॥ आह्लादेन सदा तत्र स्थितो मान्यैः स मानितः । नानाभोगान् प्रभुञ्जानः सुहृद्भयः सुखदायकः ॥ ३१॥ पुत्रौ मदकरायां द्वौ जनयामास मत्सरः । अतिकान्तियुतौ तुल्यौ पित्रा वीर्येण तेजसा ॥ ३२॥ सुन्दरप्रिय इत्येवं नाम ज्येष्ठस्य सोऽकरोत् । विषयप्रियनामाभूत्कनिष्ठः प्रीतिदः परः ॥ ३३॥ एकस्मिन् दिवसे दैत्यः श्वशुरस्य गृहं गतः । तत्र नानाविधा दैत्या मिलितास्तमबोधयन् ॥ ३४॥ दैत्या ऊचुः । किं स्थितोऽसि महातेजस्त्वद्दास्यवशगा वयम् । जेष्यामः सर्वदेवादींस्त्वत्साहाय्येन मत्सर ॥ ३५॥ त्वत्समो नैव वीरोऽस्ति ब्रह्माण्डे कुत्रचित्प्रभो । वरदान बलाढ्यस्त्वं निर्भयोऽसि महासुर ॥ ३६॥ आज्ञां दहि गमिष्यामो जेतुं देवान्न संशयः । शस्त्रास्त्रैस्तान्विनिर्भिद्य भवाम स्वर्गभोगिनः ॥ ३७॥ मुद्गल उवाच । दैत्यानां वचनं श्रुत्वा मत्सरस्तानुवाच ह । भवद्भिः कथितं सर्वं हितकारकमुत्तमम् ॥ ३८॥ ममापि हृदये नित्यमेवं वसति दानवाः । किं करोमि च मे माता निवारयति मां सदा ॥ ३९॥ इन्द्रस्ते स पिता पुत्र देवाः पूज्याः सवासवाः । अतो धर्मेण वर्तस्व येनेहपरलोकभाक् ॥ ४०॥ मत्सरस्य वचः श्रुत्वा दैत्यास्ते त्वब्रुवन् वचः । अखिलं धर्मकरणं बाधादं भावपूर्वकम् ॥ ४१॥ दैत्या ऊचुः । श‍ृणु मत्सर वृत्तान्तं पुराभूतं स्वधर्मजम् । अस्माकमेव मान्यं यत्तव संशयनाशकम् ॥ ४२॥ जलन्धरः समुत्पन्नः शिववीर्यान्महाबलः । तेन शम्भुर्जितः सङ्ख्ये देवाः सर्वे च निर्जिताः ॥ ४३॥ पार्वतीं दारभावार्थं ग्रहीतुं तूद्यतोऽभवत् । दैत्या एतादृशा जाता बहवो मत्सरासुर ॥ ४४॥ यत्र मान्याः सन्ति देवास्तत्र दैत्याः प्रदूषिताः । दैत्या मान्यास्तदा देवा दूषिताः प्रभवन्ति वै ॥ ४५॥ देवेन्द्राः शत्रवः सन्ति दैत्यानां सततं प्रभो । अतस्त्यक्त्वा स्वसन्देहं जय देवान् महाबल ॥ ४६॥ त्यज तां मातरं पृथ्वीं मुनिदेवसहायिनीम् । वसात्र त्वं महाभाग अस्माभिः सहितः सदा ॥ ४७॥ तेषां वचनमाकर्ण्य मत्सरोऽहितकारकम् । तथैव कृतवांस्तत्र त्यक्त्वा पृथ्वीमुवास ह ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः ॥ १.२४ (Page खं. १ अ. २५ पान ५९)

१.२५ मत्सरासुरसेनावर्णनं नाम पञ्चविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । श‍ृणु दक्ष महाभाग कथां पापप्रणाशिनीम् । वक्रतुण्डावतारस्य प्रयोजनविकाशिनीम् ॥ १॥ दैत्याः सम्भूय सर्वे ते गताः शुक्रं महामुनिम् । दण्डवत्तं प्रणेमुश्च मत्सरेण समन्विताः ॥ २॥ शुक्रस्तान् मानंयामास किमर्थं यूयमागताः । भवता कार्यसिद्धिर्या तां करिष्यामि यत्नतः ॥ ३॥ शुक्रस्य वचनं श्रुत्वा सुधारससमं मुने । हर्षिताः प्रणिपत्यैनमूचुः सर्वे हितावहम् ॥ ४॥ तव स्वामिन् प्रसादेन मत्सरः कुलधारकः । अस्माकं सर्वभागस्य फलरूपस्तथा कृतः ॥ ५॥ वरान् प्राप्य महाबाहुरस्माकं हितमाश्रितः । दैत्यानां दानवादीनां राजाऽयमिति निश्चितम् ॥ ६॥ तस्य राज्याभिषेकार्थं याहि त्वं सर्वमानद । अस्माकं धामसर्वस्वं त्वमेव मुनिसत्तम ॥ ७॥ दैत्यानां वचनं श्रुत्वा शुक्रोऽवादीत् तथेति च । अगमत् राज्यलाभार्थं मत्सरस्य दुरात्मनः ॥ ८॥ मिलितास्तत्र सर्वे ते दैत्यदानवराक्षसाः । हर्षेण महता युक्ता महोत्सवपरायणाः ॥ ९॥ तेषां मुख्यान् महाभागांस्तान् छृणुष्व प्रजापते । सङ्क्षेपेण प्रवक्ष्यामि प्राधान्येन महत्तमान् ॥ १०॥ नमुचिः शम्बरः शुम्भो निशुम्भः कालभैरवः । विरोचनो विप्रचित्तिः प्रह्रादो महिषासुरः ॥ ११॥ अन्धकासुरनामा च रुरुदैत्यः प्रतापवान् । इत्याद्या बहवो दैत्या मिलितास्तस्य चोत्सवे ॥ १२॥ यथाविधि तथा तत्र ब्राह्मणैर्वेदपारगैः । ऋग्यजुःसाममन्त्रैश्चाभिषिक्तो मत्सरोऽभवत् ॥ १३॥ उशनाः सर्वकर्ताभूत्तेषां मध्ये प्रतापवान् । साक्षाद्योगी गणेशस्य महाभक्तो महामुनिः ॥ १४॥ दैत्यादीनां स राजाभून् मत्सरः परवीरहा । शुशुभेऽतीव तेजस्वी मध्याह्नार्क इव श्रिया ॥ १५॥ सर्वे स्वस्वगृहं जग्मुः सनाथाश्च वयं कृताः । शुक्रेणेति वदन्तस्ते हर्षयुक्ता प्रजापते ॥ १६॥ गते कियति काले च मत्सरः स मनो दधे । ब्रह्माण्डजयने दुष्टो जुहाव सकलासुरान् ॥ १७॥ आगतास्ते त्वराभाजः किं कार्यं वद मानद । तानुवाच जयाकाङ्क्षी त्रैलोक्यं वशमानये ॥ १८॥ तस्य तद् वचनं श्रुत्वा हृष्टाः सर्वे महाऽसुराः । नदन्तो मेघसन्नादैः कालानां कलनात्मकैः ॥ १९॥ शस्त्रास्त्राणि ह्यमोघानि धृत्वा वाहनगा बभुः । सन्नद्धाः सर्वभावेन चतुरङ्गबलान्विताः ॥ २०॥ पदातयो ह्यसङ्ख्याता नानाशस्त्रधरास्तथा । पर्वतद्रुमपाषाणहस्ताः सन्निःसृताः प्रभो ॥ २१॥ सिन्दूरारुणभालाश्च मुक्तकेशा महाबलाः । उड्डीयोड्डीय धावन्तः शिक्षायुद्धकरास्ततः ॥ २२॥ शस्त्रयुद्धे मल्लयुद्धे गदायुद्धे विशारदाः । अस्त्रयुद्धविचारज्ञा निःसृताः प्रासधारकाः ॥ २३॥ धूलिव्रजेन तेषां तु भास्करो निष्प्रभः कृतः । अग्रे दैत्यस्य सेनाया भूषणानि यथा बभुः ॥ २४॥ तथा हस्तिसहस्राणां सहस्राणि ययुः पुरः । धातुभी रञ्जितान्येव नानाचित्रैर्महामुने ॥ २५॥ सिन्दूरारुणभालानि लसत्कुम्भधराणि च । (Page खं. १ अ. २६ पान ६०) घण्टासान्द्रनिनादैश्च नादितानि त्वितस्ततः ॥ २६॥ महावीराश्रितान्येव कुन्तलाद्यस्त्रकैस्तथा । पूर्णानि चञ्चलाश्चैव पर्वता इव शोभिताः ॥ २७॥ गिरीणां चैव दन्ताग्रैर्भेदकानि प्रजापते । शुण्डाभिर्वृक्षजालानां छेदकानि महान्ति च ॥ २८॥ मदेनासिक्तभालानि भ्रमरैर्गुञ्जितानि च । रणे शत्रुसहस्राणां नाशकाराणि सर्वशः ॥ २९॥ निःसृतानि पुरेभ्यश्च सेनाशोभाकराणि च । दैत्यैः सुदारुणैस्तानि स्वाश्रितानि समन्ततः ॥ ३०॥ ततोऽश्वानां महासेना निःसृता बलवत्तराः । चञ्चला वायुवेगाश्च तत्राऽश्वाः पूर्णभूषिताः ॥ ३१॥ चामरैर्वीजिताश्चैव मनोवेगा महाबलाः । उड्डीयोड्डीय धावन्त आकाशे वायवो यथा ॥ ३२॥ खुराघातैर्विस्फुलिङ्गान् प्रस्रंवत इतस्ततः । नानाशस्त्रधरास्तत्र दैत्या रेजुर्यथा घनाः ॥ ३३॥ कालस्य भयदाः सर्वे नानायुद्धविशारदाः । अपाराश्च समारूढा दारुणाः पापनिश्चयाः ॥ ३४॥ तत्र केचिन्महादैत्याः खरारोहा विनिःसृताः । अजयानाधिरूढाश्च गोवाहनविराजिताः ॥ ३५॥ महिषारूढकाश्चान्ये व्याघ्रारूढा महाबलाः । सिंहशार्दूलवाहाश्च खगवाहास्तथापरे ॥ ३६॥ इत्यादिचित्ररूपेषु वाहनेषु विराजिताः । निःसृता असुराः सर्वे यममत्तुमिवोद्यताः ॥ ३७॥ ततो रथसमारूढा रथिनो निःसृताः प्रभो । अपाराश्च महाक्रोधारुणनेत्रा भयङ्कराः ॥ ३८॥ रथाश्वालङ्कृतास्तत्र मणिमुक्तादिभिः परैः । नानाशस्त्रास्त्रभारैश्च पूरिता मेघघोषिणः ॥ ३९॥ ध्वजैरलङ्कृताः पूर्णा अश्वैर्जवनशालिभिः । संयुताश्चतुरैः सूतैर्महावीरैः समाश्रिताः ॥ ४०॥ रथाः खरयुताः केचिद् वृकैर्वै वाहिताः परे । सिंहैर्गोभिर्गजैरृक्षैर्नानापशुभिराबभुः ॥ ४१॥ तत्र वज्रसमाङ्गैश्च खरैः शतमितैर्युतम् । अलङ्कृतं रथं दैत्यो मत्सरः स समारुहत् ॥ ४२॥ तस्याऽग्रे तत्सुतौ शूरावश्वारूढौ प्रजग्मतुः । विरोचनादयो दैत्याः समन्ताज्जग्मुराजिषु ॥ ४३॥ पृथिव्यां तस्य सैन्यं तत् समुद्र इव सम्बभौ । महारथमहावीरयुद्धभूषणभूषितम् ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसेनावर्णनं नाम पञ्चविंशोऽध्यायः ॥ १.२५

१.२६ पातालविजयो नाम षड्विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो दक्ष महत्सैन्यं पृथिवीजयनोद्यतम् । हनने क्षत्रियाणां तत्प्रवृत्तं कालचक्रवत् ॥ १॥ विरोचनादयो दैत्याः स्थिता यत्र यमोपमाः । युद्धं तैः सह कुर्वाणः कः स्थास्यति पुमान् भुवि ॥ २॥ दैत्याः पादप्रहारेण चूर्णयन्तोऽद्रिसञ्चयान् । (Page खं. १ अ. २६ पान ६१) शेषमस्तकमानम्य भारेणैव प्रचक्रिरे ॥ ३॥ तान् मेघसदृशान् दृष्ट्वा पर्वताकारसंस्थितान् । अभवन् यमरूपान् ते क्षत्रिया गतजीविनः ॥ ४॥ केचित्पलायितास्तत्र केचिच्च शरणं ययुः । महावीरास्तु ते युद्धं कृत्वा स्वर्गं ययुर्मताः ॥ ५॥ ये मृतास्तत्सुतास्तैस्तु स्थापिताः करदायिनः । शरणागतराजानः स्थापिताः स्वपदे तथा ॥ ६॥ यच्च राजविहीनं तु दैत्यास्तत्राधिपाः कृताः । राजानः सर्वविषये बभूवुर्भागसंयुताः ॥ ७॥ देशे देशे तथा दैत्याः क्षत्रियाणां च सन्निधौ । स्थापिता भावबोधार्थमेवं सर्वत्र कारितम् ॥ ८॥ सद्वीपां वसुधां सर्वां जित्वा दैत्यो ननन्द ह । मत्सरोऽतिवशां पृथ्वीं तत्र दृष्ट्वा प्रजापते ॥ ९॥ पातालमगमद्दैत्यो दैत्यवृन्दसमन्वितः । मत्सरो नागसर्पाणां जयार्थं बलवांस्ततः ॥ १०॥ नागोद्यानानि गत्वा ते बभञ्जुर्दितिनन्दनाः । तान् दृष्ट्वा नागराजा वै युद्धार्थं समुपाययुः ॥ ११॥ वासुकिस्तक्षकश्चैव कम्बलाश्वतरौ तथा । इत्याद्या बहवो नागा नागराजाः समाययुः ॥ १२॥ सन्नद्धाः क्रोधयुक्तास्ते महाभोगा महाबलाः । रथादिषु समारूढा नानावाहनगा बभुः ॥ १३॥ शस्त्रास्त्रनिचयैर्बाणैर्दैत्यान् जघ्नुर्महाबलान् । दैत्यास्तान् शस्त्रसङ्घातैः पातयामासुरोजसा ॥ १४॥ नागैर्महाबैलस्तत्र निहता दैत्यसञ्चयाः । भग्नदर्पाः पलायन्त दशदिक्षु सुविह्वलाः ॥ १५॥ दैत्यानां कदनं दृष्ट्वा विरोचनमुखाऽऽययुः । असुराः क्रोधसंयुक्ता नागांश्चामर्दयंस्तु ते ॥ १६॥ शस्त्रास्त्रैर्विविधैर्दैत्या मारयामासुरोजसा । केषाञ्चिन् मस्तका भग्नाः पादहस्तोदरं तथा ॥ १७॥ शोणितानां महानद्यः प्रास्रवन् वै दिशो दश । भग्नदर्पा भयान्नागाः पलायनमकुर्वत ॥ १८॥ केचित्तान् शरणं जग्मुर्दैत्यान् परमदारुणान् । हाहाकाररवैर्युक्ता नागास्त्राससमन्विताः ॥ १९॥ दैत्यानां पौरुषं दृष्ट्वा वासुकिप्रमुखाऽऽययुः । क्रोधेन परितप्तांस्तान् वारयामासुरोजसा ॥ २०॥ तक्षकादिमहानागा विषं क्षुब्धाश्च तत्यजुः । विवरं तद्विषैः सर्वं व्याप्तं तत्र प्रजापते ॥ २१॥ महाविषभवा ज्वाला ददाहासुरपुङ्गवान् । मृता दैत्या अनेके च गरलेन प्रपीडिताः ॥ २२॥ न स्थातुं शक्यते तत्र दैत्यैः सङ्ग्राममण्डले । शस्त्राणि तेषां सर्वाणि दग्धानि च तदा किल ॥ २३॥ गजाश्वरथपादातं मृतं दग्धं च सर्वशः । मूर्छिताः पतिता भूमौ विरोचनमुखास्ततः ॥ २४॥ नागा मोदं प्रचक्रुस्ते नादयन्तो दिशो दश । हर्षेण महता युक्ता नृत्यन्ति स्म स्थिताः परे ॥ २५॥ एतस्मिन्नन्तरे तत्र प्रतापी च विरोचनः । उत्थितः समरश्लाघी गतपीडो महाबलः ॥ २६॥ शुक्रेण तत्र दैतेया विद्यया निर्विषाः कृताः । उत्थिताः सर्वतः सर्वे अन्धकप्रमुखा बभुः ॥ २७॥ असुराः क्रोधसंयुक्ता गरुडास्त्रं च तत्यजुः । तस्मात्तु गरुडा जाता नागान् सर्वानभुञ्जत ॥ २८॥ तत्र वासुकिना तेन विषज्वाला प्रवर्तिता । (Page खं. १ अ. २७ पान ६२) गरुडाश्च तया दग्धा गरुडास्त्रं तथाऽभवत् ॥ २९॥ एतत् दृष्ट्वा महाश्चर्यं वासुकेः पौरुषं महत् । विरोचनादयः सर्वे गरुडा माययाऽभवन् ॥ ३०॥ तैः सर्वैर्भक्षितं सैन्यं नागानां तद्दिशो दश । पलायन्त भयोद्विग्ना महानागाश्च भीरवः ॥ ३१॥ सर्पराट् तक्षकाद्या ये गरुडैः पीडिता भृशम् । मूर्छिताश्च मृतप्राया जाता युद्धे च दारुणे ॥ ३२॥ शेषेण सर्ववृत्तान्तो ज्ञातो ज्ञातिभयङ्करः । आययौ सामभावेन शरणं दैत्यसन्निधौ ॥ ३३॥ किमर्थं क्रोधसंयुक्ता दैत्या ब्रूत महाबलाः । भ्रातरस्त्वसुरा यूयं मदीया नात्र संशयः ॥ ३४॥ किमर्थं युद्धमारब्धं वक्तव्यं दितिनन्दनाः । पातालवासिनः सर्वे भवन्तो वयमेव च ॥ ३५॥ मुद्गल उवाच । शेषस्य वचनं श्रुत्वा प्रतापी च विरोचनः । उवाच तं वचो रम्यं तेजोयुक्तं स्वभावतः ॥ ३६॥ विरोचन उवाच । शेष शेष महाभाग मान्योऽसि च महामते । स्नेहेन वदसि प्राज्ञ सत्यं श‍ृणु च मद्वचः ॥ ३७॥ अस्माकं मत्सरो राजा ब्रह्माण्डं वशमात्मनः । इच्छत्याशासनं तस्य ग्राह्यं युष्माभिरादृतैः ॥ ३८॥ नोचेन्नागासुराणां च विनाशः प्रभविष्यति । त्वं श्रेष्ठः सर्वभावेन सर्वेषां हितमाचर ॥ ३९॥ विरोचनवचः श्रुत्वा शेषः सर्वार्थकोविदः । प्रहसंस्तमुवाचेदं सामयुक्तं महामतिः ॥ ४०॥ यदिच्छति महाभागो मत्सरस्तत् करोम्यहम् । इत्युक्त्वा दातुमुद्युक्तः करभारं च वार्षिकम् ॥ ४१॥ नानारत्नानि दत्त्वा वै साम चक्रेऽसुरैः सह । नागान् वासुकिमुख्यान् स गृहीत्वा स्वस्थलं ययौ ॥ ४२॥ असुरा हर्षिताः सर्वे जितनागा महाबलाः । पातालजयिनो भूत्वा वरुणं जेतुमाययुः ॥ ४३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पातालविजयो नाम षड्विंशोऽध्यायः ॥ १.२६

१.२७ मत्सरासुरविजय इन्द्रपराजयो नाम सप्तविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । असुरा जयशोभाढ्या वरुणालयमागताः । दूतं सम्प्रेषयामासुर्वरुणस्य सभां प्रति ॥ १॥ वरुणस्य सभां गत्वा दूतो वचनमब्रवीत् । श‍ृणु तोयेन्द्र वाक्यं मे प्रेषितो मत्सरेण यत् ॥ २॥ मम वै वशगो भूत्वा तिष्ठ स्थाने महाबल । नोचेत्सङ्ग्रामभूमौ त्वां वधिष्यामि सुरांस्तथा ॥ ३॥ दूतस्य वचनं श्रुत्वा वरुणः क्रोधमूर्छितः । सङ्ग्रामाय च सन्नद्धो बभूवातिभयानकः ॥ ४॥ मकरारूढ एवाऽसौ पाशाद्यस्त्रप्रधारकः । यादांसि देवरूपाणि गृहीत्वा बहिराययौ ॥ ५॥ दूतेन कथितः सर्वो वृत्तान्तो वरुणस्य तम् । श्रुत्वा मत्सरदैतेयो दैत्यैर्युद्धोद्यतोऽभवत् ॥ ६॥ देवानामसुराणां च सैन्ये परमदारुणे । (Page खं. १ अ. २७ पान ६३) परस्परं सुसन्नद्धे रणभूमौ प्रजग्मतुः ॥ ७॥ देवानां सैन्यमत्युग्रं दृष्ट्वा खलु विरोचनः । महिषासुरनामा च शुम्भश्चैवान्धकासुरः ॥ ८॥ अन्ये ते बहवस्तत्र धावन्तो रणमूर्धनि । नादयन्तो दिशः सर्वे जघ्नुर्देवांश्च साहसात् ॥ ९॥ मिलिता देवदैत्यास्ते परस्परजयेप्सवः । शस्त्रास्त्रैर्वृक्षपाषाणैर्जघ्नुर्वीराननेकशः ॥ १०॥ अभवत्तुमुलं युद्धं दैत्यदेवविनाशनम् । दिनत्रयं महाघोरं दैत्या भग्नास्ततोऽभवन् ॥ ११॥ जलशायिन एवं स्म देवा गर्जन्ति भैरवम् । मूर्छिता दैत्यभूपाश्च विरोचनमुखास्तथा ॥ १२॥ तान् काव्यः सावधानांश्च चकार स्वेन तेजसा । उत्थिताः सर्ववीरास्ते युयुधुस्त्वसुराः पुनः ॥ १३॥ क्रोधेन महता युक्ता जघ्नुर्देवान् महाबलान् । पुनश्च तुमुलं युद्धं बभूवातिभयानकम् ॥ १४॥ युद्धं चक्रुरहोरात्रं सुराः सर्वे जलौकसः । यादसां च गणाः सर्वे मृता भग्नाः प्रचूर्णिताः ॥ १५॥ सर्व देवगणास्तत्र वव्रजुः सर्वतोदिशम् । वरुणं च दधाराऽपि बलवान् स विरोचनः ॥ १६॥ धृतं वरुणमाश्रुत्य दुद्रुवुश्च जलौकसः । मृताः केचित् क्षताः केचिच्छरणं के च तान् ययुः ॥ १७॥ हर्षिता नादसंयुक्ता दैतेया जग्मुरादृताः । उत्तरे धननाथं ते जलमार्गत एव च ॥ १८॥ कुबेरेण स वृत्तान्तः श्रुतो वरुणलोकतः । पलायनं समालम्ब्य कैलासे शङ्करं ययौ ॥ १९॥ तं तथागतमाश्रुत्य दैत्या परमदारुणाः । अलकायां प्रवेशं ते चक्रुश्च जयशालिनः ॥ २०॥ एवं जित्वा कुबेरं तं वरुणेन समन्विताः । धर्मराजं ययुः सर्वे दैतेया मृत्युरूपकम् ॥ २१॥ यमराजस्तु सन्नद्धः श्रुत्वा दूतमुखात् कथाम् । यमो रागैश्च रक्षोभिर्विविधैः परिवारितः ॥ २२॥ महिषारूढ एवाऽसौ दण्डहस्तो महाबलः । आययौ रणभूमिं च महामृत्युसमन्वितः ॥ २३॥ यमं समागतं दृष्ट्वा मृत्युरोगादिभिर्युतम् । दैतेयाः क्रोधसंयुक्ता युयुधुः सहसा बलात् ॥ २४॥ देवानां चैव दैत्यानां वीराश्च युयुधुर्भृशम् । परस्परं बोधयन्तो जघ्नुर्नानाप्रहारतः ॥ २५॥ महाद्भुतं पञ्चदिनं युद्धं दारुणरूपकम् । नाशकं देवदैत्यानां बभूवैवं प्रजापते ॥ २६॥ याम्यैश्च मर्दिता दैत्या मृताः केचित् क्षताः परे । वव्रजुः सर्वशस्तत्र मृत्युसन्त्रासतापिताः ॥ २७॥ एतस्मिन्नन्तरे तत्र विषयप्रिय आगतः । मत्सरासुरपुत्रस्तु युयुधे मृत्युना सह ॥ २८॥ मत्सरप्रेरणात् शीघ्रं नराणां हृद्यताडयत् । तेनास्त्रेण च शस्त्रेण रोगाः परमपीडिताः ॥ २९॥ याम्यास्ते मृत्युरूपा वै पलायनमकुर्वत । यमेन बहुधा शस्त्रैर्योधयामास दारुणम् । महिषं मूर्छितं कृत्वा पातयामास वै यमम् ॥ ३०॥ उत्थितो धर्मराजश्व कालदण्डेन वेगतः । अताडयद्दैत्यपुत्रं तं गर्जन्विषयप्रियम् ॥ ३१॥ कालदण्डस्तु तं दृष्ट्वा पतितो धरणीतले । आगत्य सहसा तेन प्रतापेन धृतो यमः ॥ ३२॥ तस्यैतच्च महत्कर्म दैत्यपुत्रस्य दैत्यपाः । तुष्टुवुः परमप्रीता धन्यं धन्यं तमब्रुवन् ॥ ३३॥ (Page खं. १ अ. २७ पान ६४) यमं धृत्वा च दैतेया आययुश्चामरावतीम् । इन्द्रोऽपि देवसङ्घैश्च सन्नद्धो वैरभावतः ॥ ३४॥ अग्निर्वायुः प्रसन्नद्धावागतौ बलसंयुतौ । देवाः सर्वे महाभागाः स्वस्वलोकात् समाययुः ॥ ३५॥ विश्वेदेवाश्च साध्याश्च रुद्रा वसव एव च । गन्धर्वाश्चैव यक्षाश्च विद्याधरसमायुताः ॥ ३६॥ ग्रहाश्चन्द्रश्च सूर्यश्च आदित्या बलवत्तराः । सन्नद्धाः सर्वदेवास्ते वज्रिणं जग्मुरादृताः ॥ ३७॥ सर्वदेवगणैरिन्द्रो रणभूमिं समाययौ । ऐरावतसमारूढो वज्रपाणिर्महाबलः ॥ ३८॥ देवसैन्यं सुसन्नद्धमागतं स्वबलान्वितम् । दृष्ट्वा दैत्यगणाः सर्वे जघ्नुः शस्त्रप्रहारतः ॥ ३९॥ देवा जघ्नुश्च तान् शस्त्रैर्महाक्रोधसमन्विताः । एवं परस्परं तत्र तुमुलं युद्धमप्यऽभूत् ॥ ४०॥ मृता दैत्यास्तथा देवस्ताडिताः शस्त्रघाततः । दैत्यैर्हताश्च देवास्ते छिन्ना भिन्नाः सुमूर्छिताः ॥ ४१॥ एवं परस्परं युद्धं देवदैत्यविनाशनम् । सप्तरात्रमभूत्तीव्रं ततो दैत्याः पलायिताः ॥ ४२॥ विरोचनादयः सर्वे मूर्छिता धरणीतले । जयवन्तः सुरेन्द्रास्ते वदन्तः स्म प्रहर्षिताः ॥ ४३॥ एतद् दृष्ट्वा महाश्चर्यं सुन्दरप्रिय आगतः । ज्येष्ठपुत्रो मत्सरस्य युयुधे सर्वदैवतैः ॥ ४४॥ शस्त्रास्त्रैर्मल्लयुद्धैस्तन् मर्दितं तेन सर्वशः । देवसैन्यं दिक्षु तत्र पलायत भयातुरम् ॥ ४५॥ शोणितप्रस्रवास्तत्र नद्यो जाताः प्रजापते । इन्द्रोऽपि युयुधे तेन दैत्यपुत्रेण धीमता ॥ ४६॥ वज्रेण निहतस्तत्रेन्द्रेण दैत्यो महाबलः । न चचाल तदाश्चार्यमिन्द्रचेतसि सङ्गतम् ॥ ४७॥ दैत्यपुत्रः समागत्य स्वङ्गेनैरावतं गजम् । मूर्छितं कारयामास वज्रिणं च पदाग्रहीत् ॥ ४८॥ मर्दयित्वा सुरेशानं स्ववशं च चकार ह । धृत्वा पुरन्दरं सोऽपि स्वस्थानमगमन्मुदा ॥ ४९॥ दैत्यैः सम्पूजितस्तत्र महाबलपराक्रमः । सुन्दरप्रियपुत्रोऽभून् मत्सरस्य प्रहर्षितः ॥ ५०॥ देवाः केचिद् धृतास्तत्र केचिद्वै मूर्छिताः कुताः । केचित् पलायिता दक्ष भग्नाः केऽपि विचूर्णिताः ॥ ५१॥ एवं स सकलान् देवान् वशांश्चक्रे महाबलः । मत्सरासुर एवाऽयं स्वर्गाधीशो बभूव ह ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरविजय इन्द्रपराजयो नाम सप्तविंशतितमोऽध्यायः ॥ १.२७ (Page खं. १ अ. २८ पान ६५)

१.२८ मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवाश्च शरणं केचित् कश्यपादीन् समाययुः । विह्वला भयभीतास्ते शशंसुर्दैत्यचेष्टितम् ॥ १॥ देवा ऊचुः । मत्सरेण प्रदुष्टेन जिता देवाः सवासवाः । इन्द्रो धृतो महाभाग वयं शरणमागताः ॥ २॥ रक्ष त्वं मुनिशार्दूल त्वं पिता भयविह्वलान् । जीवनाशसमाद् दुःखादिन्द्रं मोचय मत्सरात् ॥ ३॥ देवानां वचनं श्रुत्वा वसिष्ठादिसमन्वितः । ब्रह्माणं प्रययौ देवैः कश्यपो वंशवृद्धये ॥ ४॥ सत्यलोके समासीनं गत्वा दृष्ट्वा ननाम च । स्तुत्वा तं विविधैर्वाक्यैः प्राञ्जलिः प्रत्युवाच ह ॥ ५॥ कश्यप उवाच । मत्सरेण धृतः स्वामिन्निन्द्रो देववरैः सह । देवस्थानपतिर्जातो दैत्यः परमदारुणः ॥ ६॥ देवा दैत्याः पदे स्वे स्वे यथायोग्ये वसन्ति वै । तथा कुरु जगन्नाथ त्वं धाता च गतिर्हि नः ॥ ७॥ कश्यपस्य वचः श्रुत्वा देवांश्चर्षीनथाऽब्रवीत् । पितामहः प्रजानाथ हृदयेन विदूयता ॥ ८॥ ब्रह्मोवाच । श‍ृणुध्वं मुनयो देवाः शिवप्राप्तवरोऽसुरः । अजेयः सर्वभूतानां देवादीनां विशेषतः ॥ ९॥ न शक्तोऽहं कदा कर्तुं यथायोग्यं स्वभावतः । गच्छामि शरणं विष्णुं भवद्भिः सह पालकम् ॥ १०॥ वैकुण्ठमगमद् ब्रह्मा देवैश्च मुनिभिः सह । गत्वा विष्णुं नमस्कृत्य स्तुत्वोवाच प्रजापतिः ॥ ११॥ मत्सरेण धृतो युद्धे इन्द्रो देववरः प्रभो । किं स्थितोऽसि महाविष्णो त्वं पालक इति श्रुतः ॥ १२॥ ब्रह्मणो वचनं श्रुत्वा विष्णुस्तं प्रत्युवाच ह । न शक्यते मया धातर्वशं कर्तुं महासुरम् ॥ १३॥ शिवस्य वरदानेन मत्तोऽसौ दैत्यपुङ्गवः । तस्माच्च शरणं यामः शङ्करं नात्र संशयः ॥ १४॥ ब्रह्मादिभिः स्वयं विष्णुः कैलासमगमत्किल । शङ्करं प्रणिपत्याऽह सर्वैर्मुनिगणैः सह ॥ १५॥ विष्णुरुवाच । नमस्ते भगवन् शम्भो नमस्ते शूलपाणये । नमस्ते जगतां नाथ सर्वसाक्षिन्नमोस्तु ते ॥ १६॥ नमो नमो महादेव स्रष्ट्रे राजसरूपिणे । पात्रे विष्णुस्वरूपाय हन्त्रे रुद्रस्वरूपिणे ॥ १७॥ पञ्चवक्त्रधरायैव योगिने योगदायिने । निर्गुणाय निरूपाय ब्रह्मभूताय ते नमः ॥ १८॥ मत्सरेण महादेव पीडितास्ते सुरर्षयः । धृत इन्द्रः सुराधीशो मर्दयित्वा सुरान् परम् ॥ १९॥ भयभीता वयं तेन शरणं त्वामुपागताः । रक्ष नो देवदेवेश त्वं श्रेष्ठो देवपालक ॥ २०॥ विष्णोर्वचनमाकर्ण्य शिवश्चिन्तातुरः स्वयम् । उवाच तान् देवमुनीन् विष्णुमुख्यान् महेश्वरः ॥ २१॥ शिव उवाच । तपसोग्रेण देवेश मया दैत्यो विवर्धितः । वरैर्महादुर्लभैश्च किं करोमि जनार्दन ॥ २२॥ दैत्यो नाशयितुं विष्णो न शक्यः स कदाचन । विचारं कुरु देवेश त्वं बुद्धियुत एव हि ॥ २३॥ शिवस्य वचनं श्रुत्वा विष्णुः परमकम्पितः । उवाच दुःखयुक्तेन हृदयेन सुरेश्वरम् ॥ २४॥ विष्णुरुवाच । कर्ता त्वमन्यथा कर्ता ह्यकर्ता नात्र संशयः । विपरीतं त्वयोक्तं चेद्वयं किं करवामहे ॥ २५॥ तव वै सन्निधौ देव वसामश्च सदाशिव । (Page खं. १ अ. २९ पान ६६) वयं दैत्यवशा नैव चराम इति मे मतिः ॥ २६॥ वैकुण्ठादिपदं त्यक्त्वा तव सन्निधिमागताः । अधुना मत्सरो दैत्य आगमिष्यति तत्र सः ॥ २७॥ वैकुण्ठं सत्यलोकं च गृहीत्वा सुखमेष्यति । तव स्थानं न कैलासं भक्तत्वाद्वै ग्रहीष्यति ॥ २८॥ विष्णोश्च वचनं श्रुत्वा शिवो निःश्वाससंयुतः । स्थितस्तत्रैव दक्ष त्वं श‍ृणु मत्सरचेष्टितम् ॥ २९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः ॥ १.२८

१.२९ शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । इन्द्रं धृत्वा महादैत्यो मत्सरो हर्षसंयुतः । ऐरावतसमारूढो ययौ ताममरावतीम् ॥ १॥ विरोचनमुखैर्वीरैः संवृतो दैत्यपुङ्गवः । शुशुभे तत्र तेजस्वी प्रभावेण बलेन च ॥ २॥ इन्द्रासने समासीनं तं ययुश्चाप्सरोगणाः । गंर्धवाश्चारणाश्चैव भयभीताः समन्ततः ॥ ३॥ सिषेविरे महाभागं मत्सरं त्वमितौजसम् । सर्वभावेन तं हृष्टं चक्रुः सर्वे स्वविद्यया ॥ ४॥ देवोद्यानेषु सर्वेषु विचचार महासुरः । कुशलो देवभोगेषु भोगांश्च बुभुजे परान् ॥ ५॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । दैत्येभ्यो मुख्यमुख्येभ्यो बलेन सहितो मुने ॥ ६॥ दत्तानि यानि स्थानानि स्थितास्तेषु महासुराः । नानारूपान् देवभोगान् बुभुजुस्तत्र संस्थिताः ॥ ७॥ मत्सरं सेवमानास्ते ह्यतिदर्पेण संवृताः । एकस्मिन् दिवसे भौम इन्द्रासनसमाश्रितः । मत्सरो हर्षयुक्तः सन् दैत्यान् प्रोवाच गर्वितः ॥ ८॥ मत्सरासुर उवाच । भो भो विरोचनाद्याश्च श‍ृणुध्वं च वचोऽसुराः । ब्रह्मादयो महाभागाः कथमत्रैव नागताः ॥ ९॥ नमस्यन्ति न देवेशा मां यदा मत्सरान्विताः । सर्वं मदं तदा तेषां हरिष्यामि न संशयः ॥ १०॥ मत्सरस्य वचः सर्वे तुष्टुवुर्दैत्यदानवाः । दूतं सम्प्रेषयामास मत्सरः क्रोधसंयुतः ॥ ११॥ गच्छ दूत त्रयाणां त्वं ब्रह्मादीनां पदेषु वै । देवेशान् वद वाक्यं मे सावधानेन चेतसा ॥ १२॥ दर्शनार्थं मत्सरस्य यान्तु देवा मया सह । नोचेन्मत्सरदैतेयस्ताडयिष्यति निश्चितम् ॥ १३॥ मत्सरस्य वचः श्रुत्वा गतो दूतो बलान्वितः । अन्धको नाम दैत्येन्द्रो महावेगसमन्वितः ॥ १४॥ सत्यलोके स धातारं न ददर्श महाबलः । शून्यां तां नगरीं वीक्ष्य गतो वैकुण्ठमादरात् ॥ १५॥ तत्रापि तादृशं दृष्ट्वा गतः कैलासमेव सः । तत्रानन्दयुतान् सर्वान् देवांश्चर्षीन् ददर्श च ॥ १६॥ सभामध्यगतो दैत्यः शिवचारैः प्रवेशितः । आसनस्थेन शर्वेण आसने विनिवेशितः ॥ १७॥ कैलासविभवं दृष्ट्वा विस्मितो मानसेऽभवत् । सदानन्दमयं धन्यं मन्यमानः स्वचेतसि ॥ १८॥ पृच्छन्तं शङ्करं दैत्य उवाच बलगर्वितः । (Page खं. १ अ. २९ पान ६७) तृणीकृत्य महेशानं सर्वान् देवांस्तदान्धकः ॥ १९॥ अन्धक उवाच । मत्सरासुरवाक्यं च श‍ृणुध्वं सुरसत्तमाः । जित्वेन्द्र देवनाथं च जातोऽहं जगदीश्वरः ॥ २०॥ अतो मद्दर्शनार्थं च भवन्तोऽपि सहानुगाः । ब्रह्मा विष्णुश्च रुद्रश्च आगच्छन्तु मदन्तिकम् ॥ २१॥ तस्माद्भवद्भिरद्यैव मया सह सुरेश्वराः । आगन्तव्यं मत्सरस्य दर्शनार्थं तु सत्वरम् ॥ २२॥ अन्धकस्य वचः श्रुत्वा शिवः क्रोधसमन्वितः । उवाच तं महादैत्यं मुखादग्निं समुद्गिरन् ॥ २३॥ शिव उवाच । किं मां वदसि पापिष्ठ तृणीकृत्य च यत् वचः । मद्वरस्य प्रभावेण मत्सरो विजयी ध्रुवम् ॥ २४॥ यदाऽहं क्रोधसंयुक्तस्तदा भस्ममयं खलम् । करिष्यामि न सन्देहः सासुरं मत्सरं खलु ॥ २५॥ मत्सराज्ञावशोऽहं रे किं प्रजातोऽसुराधम । मत्वा त्वां मूढ दूतेति मोचयामि न संशयः ॥ २६॥ गच्छ तं मत्सरं दैत्यं वद वाणीं मयेरिताम् । नोचेत्त्वां भस्मसात् कुर्यां कुपितोऽहं खलोत्तम ॥ २७॥ शिवस्य वचनं श्रुत्वा मत्सरं त्वन्धको ययौ । कथयामास वृत्तान्तं सर्वदैत्ययुताय च ॥ २८॥ विभवं वर्णयामास कैलासस्य यथायथम् । ब्रह्माण्डे न समं किञ्चित् कैलासस्य महासुराः ॥ २९॥ अन्धकस्य वचः क्रूरं श्रुत्वा दैत्याः महाबलाः । विरोचनमुखाः सर्वे मत्सरं क्रूरमब्रुवन् ॥ ३०॥ किं स्थितोऽसि महाबाहो जेष्यामस्त्वत्प्रसादतः । देवत्रयं न सन्देह आज्ञां देह्यसुरेश्वर ॥ ३१॥ दैत्यानां वचनंश्रुत्वा तेजोयुक्तं स मत्सरः । उवाच क्रोधसंयुक्तस्तान् दैत्यान् हर्षयन्निव ॥ ३२॥ मत्सर उवाच । मया तपःप्रभावेण प्राप्तं तेजो महाद्भुतम् । तत्र शम्भुर्वृथा मानी स्वात्मानं मन्यतेऽर्थदम् ॥ ३३॥ तपोहीनाय राज्यं वै ब्रह्माण्डस्य ददाति चेत् । तदायं जगदीशो वै मन्यते नान्यथा मया ॥ ३४॥ अतः शम्भुं विजेष्यामस्तपस्तेजः समन्वितः । दर्पं तस्य हरिष्यामि वृथा ब्रह्मेति मानिनम् ॥ ३५॥ वेदान्ते ब्रह्मवेदेषु कथितं निर्विकपल्कम् । तदेव सर्वमान्यं वै जगदीशतया बभौ ॥ ३६॥ सकामकर्मणा सर्वं प्राप्यते मनुजस्तथा । ब्रह्मार्पणतया कर्म कृतं चेन्मुक्तिराप्यते ॥ ३७॥ अखिलं कर्मणा सृष्टं पालितं च प्रहीयते । तत्र किं तैस्त्रिभिर्देवैः क्रियते कर्मजैः खलु ॥ ३८॥ कर्मणाऽहं सृजाम्येव पालयामि हरामि च । कर्माधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ३९॥ एवमुक्त्वा महादैत्यो विरोचनमुखैर्वृतः । आययौ शङ्करस्थानमावेशेन समन्वितः ॥ ४०॥ नानाशस्त्रास्त्रधाराभिर्हतास्तत्र बहिः स्थिताः । शिवचाराश्च तैः सर्वे पलायन्त च पीडिताः ॥ ४१॥ छिन्नभिन्नाङ्गदेहाश्च ययुः शङ्करसन्निधौ । ऊचुः समागतो दैत्यैः सर्वैः साकं स मत्सरः ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः ॥ १.२९ (Page खं. १ अ. ३० पान ६८)

१.३० शिवादिपराजयो नाम त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गणानां च पिशाचानां वचनं दारुणं महत् । श्रुत्वा शिवः स्वयं तत्र युद्धार्थं दंशितोऽभवत् ॥ १॥ ब्रह्मा विष्णुश्च कामश्च वसवो धनदोऽभवत् । चन्द्रः सूर्यस्तथा वह्निसमीराद्याश्च दंशिताः ॥ २॥ कालाग्निरुद्रमुख्या ये भैरवो भूतनायकः । कृत्वा युद्धक्षमं वेषं स्थिताः शङ्करसन्निधौ ॥ ३॥ अष्टभैरवमुख्याश्च वीरभद्रादयोऽभवन् । नन्दी भृङ्गी पुष्पदन्तमहाकालरवाः स्थिताः ॥ ४॥ महाकालीमुखास्तत्र देव्यः शस्त्रधराऽऽययुः । एवं नानाविधैः सैन्यैर्वृतः शम्भुर्महेश्वरः ॥ ५॥ वृषारूढो महातेजा आययौ युद्धलालसः । यत्र दैत्याः स्थितास्तत्र कार्तिकेयादिभिर्युतः ॥ ६॥ शङ्करं सैन्यसंयुक्तं नानायुद्धविशारदम् । नानाशस्त्रधरं दृष्ट्वा दैत्येशाश्चिक्षिपुः शरान् ॥ ७॥ तद् दृष्ट्वा कुपिता देवाः शस्त्रास्त्रैस्तानताडयन् । एवं परस्परं युद्धमभवद्दारुणं महत् ॥ ८॥ देवानां चैव दैत्यानामन्योन्यजयकाङ्क्षिणाम् । शस्त्रास्त्रनिचयैर्बाणैरन्धकारः प्रवर्तितः ॥ ९॥ सैन्यानां रजसा व्याप्तमाकाशं सर्वतो बभौ । न प्राज्ञायत तत्रैव स्वीयो वाऽपर एव च ॥ १०॥ घण्टानां शङ्खतूर्याणां वीराणां रथिनां तथा । बृंहितानां हेषितानां शब्दैस्तद्वधिरीकृतम् ॥ ११॥ देवान् दृष्ट्वा सुरा जघ्नुर्दैत्यान् देवास्तथापरे । असम्बन्धं महायुद्धं चक्रिरे सुरदानवाः ॥ १२॥ शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयम् । मल्लयुद्धं महावीराश्चक्रुस्तत्र मदान्विताः ॥ १३॥ सङ्ग्रामे तुमुले तत्र प्रवृत्ते घोररूपिणि । मृता मुमूर्षवः केचिच्छिन्नभिन्नास्तथाऽभवन् ॥ १४॥ नानाजन्तुशरीरेभ्यः प्रवृत्ता रक्तसम्भवा । नदी बभौ महाघोरा मांसकर्दमशालिनी ॥ १५॥ रक्ता चास्थिबलाका च केशशैवालशोभिता । चापसर्पाशिरःपद्माकबन्धद्रुमवाहिनी ॥ १६॥ भल्लकाष्ठा महाघोरा चामरैस्तृणकैर्युता । छत्रावर्ता दुर्गमा च चर्मपट्टिशदर्दुरा ॥ १७॥ भीरुभीतिकरा चैव वीरहर्षप्रवर्धिनी । तां दृष्ट्वा दैत्यराजास्ते क्रोधयुक्ताः समाययुः ॥ १८॥ तैः समन्ताद्बलं भग्नं देवानां सर्वमञ्जसा । बाणजालैर्दिशो व्याप्ता गन्तुं मार्गो न विद्यते ॥ १९॥ पलायनपरा देवाः सर्वे दशदिशोऽगमन् । तद् दृष्ट्वा देवराजास्तान् वारयामासुरोजसा ॥ २०॥ द्वन्द्वयुद्धं च तत्रासीत्परस्परविनाशनम् । देवानां मुख्यदैत्यानां किञ्चित्तेषां वदामि ते ॥ २१॥ नमुचिः कामदेवेन युयुधे बलसंयुतः । शम्बरो वायुना सार्द्ध शुम्भो देव्या महाबलः ॥ २२॥ चन्द्रेणाऽपि निशुम्भश्च गुहेन च विरोचनः । कालभैरवदेवेन कालभैरवदानवः ॥ २३॥ महिषासुरदैतेयः कालाग्न्यारूपहरेण च । प्रह्लादो विष्णुना सार्धं विप्रचित्तिश्च भानुना ॥ २४॥ अन्धकासुरनामा च वीरभद्रेण संयुतः । अग्निना चैव दुर्बुद्धिर्युयुधे बलसंयुतः ॥ २५॥ विषयप्रिय एवाऽसौ ब्रह्मणा युयुधे भृशम् । शम्भुना युयुधे तत्र सुन्दरप्रिय एव सः ॥ २६॥ (Page खं. १ अ. ३० पान ६९) मत्सरासुरदैत्येशो युद्धं द्रष्टुं स्थितोऽभवत् । एवं नानाद्वन्द्वयुद्धं शतशोथ सहस्रशः ॥ २७॥ सङ्ख्यातुं नैव शक्यं तदपारत्वात् प्रजापते । शस्त्रास्त्रैरसुरा जघ्नुः सुरांस्तानपि ते सुराः ॥ २८॥ अग्निवाय्वादिकास्त्राणि तत्यजुः क्रोधसंयुताः । चकम्पे च त्रिभुवनं दारुणे संयुगे तदा ॥ २९॥ देवासुरप्रणाशश्च महांस्तत्र प्रवर्तितः । शोणितौघैः प्रवृत्तास्तु नद्यः परमदारुणाः ॥ ३०॥ एवं सप्त दिवानक्तं गतं तेषां प्रयुध्यताम् । नासुरा न च देवास्ते विरामं चक्रुरञ्जसा ॥ ३१॥ ततश्च कुपिता देवा अत्यन्तं शङ्करादयः । दैत्यानामस्त्रसङ्घातानस्त्रैः संवार्य तान् पुनः ॥ ३२॥ ताडयामासुरव्यग्रा अस्त्रैर्नानाविधैः परम् । मूर्छितान् पतितांश्चक्रुर्मृतान् सञ्चूर्णितान् परान् ॥ ३३॥ ततो दश दिशो दैत्या वव्रजुर्भयसङ्कुलाः । त्रिशूलादि महाशस्त्रैस्तत्रापि तु सुरा बभुः ॥ ३४॥ सुन्दरप्रियकाद्याश्च मूर्च्छिता धरणीं गताः । मृतप्रायाः कृतास्तैस्ते विष्ण्वादिभिरथो मुने ॥ ३५॥ तद् दृष्ट्वा क्रोधसंयुक्तो मत्सरः स्वयमाययौ । कृत्वा नादं महाघोरं ब्रह्माण्ड कम्पयन्निव ॥ ३६॥ धनुश्चक्रे सनादं वै तेन संशयिताः सुराः । बाणवृष्टिं ससर्जासौ दारुणां शत्रुनाशिनीम् ॥ ३७॥ तस्य बाणैः सुराः सर्वे मर्दिता बलवत्तरम् । मृताः केचित् क्षताः केचिन् मूर्च्छिता पतिता मृधे ॥ ३८॥ पञ्चबाणैश्च सेनान्यं ताडयामास वक्षसि । पतितः स धरापृष्ठे मूर्च्छितो भृशविह्वलः ॥ ३९॥ अग्निं च सप्तभिर्बाणैर्नन्दिनं दशभिस्तथा । ताडयामास दैत्येन्द्रः पतितं रणमूर्धनि ॥ ४०॥ दशभिर्वीरभद्रं स सवितारं ततोष्टभिः । चन्द्रं च सप्तभिर्बाणैः पातयामास दैत्यपः ॥ ४१॥ अनिलं नवभिश्चैव कालाग्निं रुद्रमष्टभिः । दशभिश्च महाकालीं ताडयामास मत्सरः ॥ ४२॥ पञ्चभिः पञ्चभिश्चैव गणपान् भृङ्गिमुख्यकान् । बाणैः स पातयामास प्रलयाग्निसमद्युतिः ॥ ४३॥ कुबेरं दशभिश्चैव ताडयामास वक्षसि । ब्रह्माणं शतबाणैश्च पातयामास भूतले ॥ ४४॥ एवं तस्याद्भुतं कर्म दृष्ट्वा विष्णुः समाययौ । बाणैः सहस्रसङ्ख्याकैर्ववर्षे घनवद् भृशम् ॥ ४५॥ दैत्यो बाणान्निवार्यैव तैः शरैः क्रोधसंयुतः । शतेन ताडयामास पतितः स धरातले ॥ ४६॥ ततश्च शङ्करः क्रुद्धस्त्रिशूलेनाहनद् भृशम् । त्रिशूलं निष्फलं तत्र पतितं धरणीतले ॥ ४७॥ पाशं दैत्यपतिः क्षिप्त्वा सहसा शङ्करं ततः । गृहीत्वा पशुवत् कण्ठे आनयामास सन्निधौ ॥ ४८॥ धृत्वा शम्भुं महाबाहुर्वदति स्म च तं मुने । अतुलं किं त्वया मेऽद्य दत्तं वद सदाशिव ॥ ४९॥ कर्मणा त्वं समर्थश्च तथाहं कर्मणा किल । जगदीश्वरतां प्राप्तो वृथाहङ्कारवानसि ॥ ५०॥ (Page खं. १ अ. ३१ पान ७०) क्रमेण विष्णुमुख्याश्च देवान् धृत्वा महाबलः । कैलासशिखरे रम्ये रेमे दैत्यसमन्वितः ॥ ५१॥ सर्वपूज्यतमो भूत्वा दैत्यः परमहर्षितः । नानाकौतुकयुक्तश्च भोगांश्च बुभुजे परान् ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवादिपराजयो नाम त्रिंशोऽध्यायः ॥ १.३०

१.३१ दत्तात्रेयसङ्गमो नामैकत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । श‍ृणु दक्ष महाश्चर्यं दैत्यस्य च विचेष्टितम् । ब्रह्माण्डाधिपतिर्जातो मत्सरः कर्मणा स्वयम् ॥ १॥ सुन्दरप्रियपुत्रं च कैलासाधिपतिं ततः । चक्रे वैकुण्ठनाथं तं पुत्रं स्वं विजयप्रियम् ॥ २॥ प्रह्लादं सत्यलोकेशं माहेन्द्रेशं विरोचनम् । एवं चक्रे च राजेशः स्वर्गाधीशान् स दैत्यपान् ॥ ३॥ स्वयं भूमिं समागम्य नगरं निर्ममे ततः । मत्सरावासकं नाम तत्रैव न्यवसन्मुदा ॥ ४॥ त्रैलोक्यं वशगं सर्वं चकार स्वेन तेजसा । शिवादयश्च देवेन्द्रा गृहे तस्य समास्थिताः ॥ ५॥ तान् समानाय्य दैत्येशो हर्षयुक्तेन चेतसा । उवाच मधुरं वाक्यं सामयुक्तं महासुरः ॥ ६॥ श‍ृणु शम्भो महाभाग देवेन्द्रैः सह देवप । यत्रेच्छा गच्छ तत्र त्वं मदाज्ञां पालयन् सदा ॥ ७॥ एवमुक्त्वा स दैत्येन्द्रो मोचयामास शङ्करम् । देवैः सह महाभागो मत्सरो हर्षसंयुतः ॥ ८॥ शिवोऽपि देवसङ्घातैः पर्वतद्रोणिमाश्रितः । चिन्ताविष्टो महादेवः कालं पश्यंश्च संस्थितः ॥ ९॥ यत्र तत्र गुहायां ते देवा विष्णुपुरोगमाः । संस्थिता भयभीताश्च दिवसानतिचक्रमुः ॥ १०॥ पृथिव्यां दैत्यराजेन ततो धर्मस्य खण्डनम् । कृतं सर्वत्र तेनैव हाहाकारोऽभवन् महान् ॥ ११॥ देवानां प्रतिमा यत्र तां भङ्क्त्वा चिक्षिपुर्जले । दैत्यास्तदाज्ञया दक्ष धर्मलोपं प्रचक्रिरे ॥ १२॥ मत्सरस्य च दैतेयाः प्रतिमाः सर्वभावतः । देशे देशे पुरे ग्रामे स्थापयामासुरञ्जसा ॥ १३॥ गृहे गृहे च देवानां प्रतिमां संस्थितां पराम् । तां भङ्क्त्वा जलमध्ये ते चिक्षिपुश्च प्रजापते ॥ १४॥ मत्सरप्रतिमां कृत्वा प्रतिगेहं ददुस्ततः । देत्याः सुदारुणा विश्वं त्रासयामासुरेव च ॥ १५॥ ब्राह्मणांश्च समानीय ताडयामास मत्सरः । ममैव मन्त्रसूक्तेन यज्ञादि क्रियतां द्विजाः ॥ १६॥ मम नाम्ना च गायत्रीं युक्तां जपत मा चिरम् । अग्निहोत्रादिकं कर्म कुरुध्वं मन्मतं तथा ॥ १७॥ अहमेवेश्वरो देवो ब्राह्मणादि जनस्य च । भजतां मम पादौ च दुर्लभं किं भविष्यति ॥ १८॥ धनधान्यादिकं सर्वं स्वर्गभोगादिसंयुतम् । दास्यामि नात्र सन्देहो मदधीनं जगत्सदा ॥ १९॥ (Page खं. १ अ. ३१ पान ७१) मम प्रीतिकरा येन दैत्या भोज्यैः प्रपूजिताः । तेन सन्तर्पितो नूनं वाञ्छितं पूरयाम्यहम् ॥ २०॥ एवमादि स सर्वत्र नानाधर्मनिकृन्तनम् । कारयामास दुर्बुद्धिर्मत्सरो मत्सरान्वितः ॥ २१॥ केचिदृषिगणा दक्ष वनं व्याघ्रादिसंयुतम् । जग्मुस्तत्र क्रियाः सर्वाश्चक्रुर्धर्मपरायणाः ॥ २२॥ देहरक्षणसक्ताश्च मुनयो भ्रंशमागताः । सर्ववर्णपरिभ्रष्टा जना जाताः प्रजापते ॥ २३॥ यजनं याजनं तत्र स्वधर्मादिस्वभावजम् । कर्म सर्वं न चक्रुस्ते जनास्तद्भयभाविताः ॥ २४॥ न स्वाहा न स्वधा कुत्र न वषट्कार आभवत् । वर्णसङ्करकृल्लोकाः स्थिता भयसमन्विताः ॥ २५॥ एवं पापस्य वृद्धिश्च सञ्जाता भयदायिनी । ततो देवगणाः सर्वे उपोषणनिपीडिताः ॥ २६॥ विचारं तत्र चक्रुस्ते मत्सरस्य विनाशने । न च किञ्चिद्भयोद्विग्ना नाशार्थं शेकुरोजसा ॥ २७॥ एतस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ । साक्षाद् ब्रह्ममयो योगी न्यस्तस्वपरविभ्रमः ॥ २८॥ मलिनो जडवल्लोके भ्रमति स्म पिशाचवत् । चेष्टितैश्चेष्टते नग्नो बालवद् द्वन्द्वकारकः ॥ २९॥ उन्मत्तवन्महाभागो भयं नैव प्रविन्दति । आत्रेयो गणराजस्य भक्तः परमशोभनः ॥ ३०॥ तं दृष्ट्वा देवसङ्घास्ते समुत्तस्थुः सुसादराः । प्रणेमुः कार्यसिध्यर्थं पूजयामासुरञ्जसा ॥ ३१॥ पादसंवाहनं तस्य चक्रुः केचन भावतः । फलादिना च नैवेद्यमर्पयामासुरादरात् ॥ ३२॥ पप्रच्छुर्भुक्तवन्तं तं विनयेन समन्विताः । शम्भुविष्णुमुखाः सर्वे भयभीता महामुनिम् ॥ ३३॥ शिव उवाच । स्वामिंस्त्वं द्वन्द्वहीनश्च नित्यमानन्दभाक् परः । न्यस्तस्वपरभावश्च तथाऽपि जनवत्सलः ॥ ३४॥ गणेशस्य वरो भक्तः साक्षाद्गणपतिः स्वयम् । योगभावेन सम्पन्नो योगी योगविदां वरः ॥ ३५॥ तथापि दुःखितान् दृष्ट्वा मनस्ते कलिलं भवेत् । उपाधिहीनभावेन दुःखनाशं करोषि वै ॥ ३६॥ अतो वयं महाभाग पीडिता मत्सरेण वै । भ्रष्टस्थाना वने सर्वे चरामः श्वापदा इव ॥ ३७॥ अत्राऽपि धर्मलोपेन पीडिता वयमुत्कटम् । उपोषणपराः स्वामिन् मरिष्यामो महामते ॥ ३८॥ अत्र ते दर्शनं प्राप्तं पूर्वपुण्यबलेन भोः । तेन दुःखविहीनाश्च भविष्यामो न संशयः ॥ ३९॥ अतो मत्सरदैत्यस्य नाशोपायं वद प्रभो । येन सर्वं जगत्क्लिष्टं तत् सुखं कुरु मानद ॥ ४०॥ एकस्य दोषयोगेन बहवः पीडिता यदि । अनुपाधितया योगी तं दोषं नाशयिष्यति ॥ ४१॥ शक्तश्चेत् स्वस्वभावेन सर्वेभ्यः सुखदायकः । अतस्त्वं रक्ष योगीश जगत् कृत्स्नं विशेषतः ॥ ४२॥ मुद्गल उवाच । शिवस्य वचनं श्रुत्वा देवान् दीनतमान् परान् । दृष्ट्वा स करुणायुक्तः प्रत्युवाच च हर्षयन् ॥ ४३॥ दत्तात्रेय उवाच । (Page खं. १ अ. ३२ पान ७२) श‍ृणु शम्भो जगन्नाथ त्वं साक्षादीश्वरः शिवः । तवाधीनमिदं सर्वं त्वां ब्रुवे किं महामते ॥ ४४॥ तथापि वच्मि देवेश त्वदाज्ञासम्प्रचोदितः । येन त्वं देवसंयुक्तः सुखं विन्दसि शाश्वतम् ॥ ४५॥ त्वदीये हृदये शम्भो मत्सरः संस्थितोऽधुना । ईश्वरोऽहमिदं सर्वं मदधीनं प्रवर्तते ॥ ४६॥ न मत्समस्त्रिभुवने इति यन् मत्सरः स च । जहि तं योगमार्गेण हृदयस्थं महासुरम् ॥ ४७॥ श्रेष्ठं दृष्ट्वा महेर्ष्या ते जायते या महामते । जहि तां तपसा शम्भो गणेशस्य प्रसेवया ॥ ४८॥ एकाक्षरविधानेन मयाऽसौ सेवितः पुरा । तेनाऽहं च गणाधीशो न भिन्नौ मयि तिष्ठतः ॥ ४९॥ अतस्त्वं योगमार्गेण गणेशं सर्वसिद्धिदम् । एकाक्षरविधानेन तमाराधय यत्नतः ॥ ५०॥ हृदिस्थं मत्सरं हत्वा पश्चात्तं जहि दानवम् । योगेन त्वं समर्थो हि भविताऽसि न संशयः ॥ ५१॥ एवमुक्त्वा महादेवं गतोऽसौ मुनिसत्तमः । यदृच्छया चरन् सन् वै सेवते गणनायकम् ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दत्तात्रेयसङ्गमो नामैकत्रिंशोऽध्यायः ॥ १.३१

१.३२ वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । श‍ृणु दक्ष महाप्राज्ञ चेष्टितं परमं महत् । यत्कृतं सर्वदेवैस्तत् कथयामि समासतः ॥ १॥ गते मुनौ महाभागे शिवो हर्षसमन्वितः । गणेशं हृदि सञ्चिन्त्य ब्रह्मादींश्च वचोऽब्रवीत् ॥ २॥ श‍ृणु विष्णो विधे देवाः श‍ृणुध्वं सर्वतापसाः । ऋषयः संस्थिता अत्र वचनं हितकारकम् ॥ ३॥ आत्रेयेण च दत्तेनं कथितं दुःखनाशनम् । अत एकाक्षरेणैव प्रसादयत विघ्नपम् ॥ ४॥ शम्भोर्वचनमाकये मुनयो देवनायकाः । साधुसाध्वब्रुवन् सर्वे प्रसन्नाश्च तथाऽभवन् ॥ ५॥ तत एकाक्षरेणैव मन्त्रेण गणपं मुने । देवाश्च मुनयः सर्वे सेवयामासुरादरात् ॥ ६॥ महोग्रतपसा युक्ताः स्थितास्तत्र शिवादयः । आराधयंस्तु देवेशं गणेशं सर्वनायकम् ॥ ७॥ पद्मासनगताः केचिद्वीरासनगताः परे । स्वस्तिकासन आसीना एवं नानासने स्थिताः ॥ ८॥ निराहारतया केचित् स्थितास्तत्र प्रजापते । पत्रवायुभुजश्चान्ये प्राणायामपरायणाः ॥ ९॥ जलभक्ष्याः स्वपादाग्रस्थिताः केचिद् दृढासनाः । केचिन्मानसपूजाभिः पूजयामासुरञ्जसा ॥ १०॥ (Page खं. १ अ. ३२ पान ७३) केचित् पुष्पोपहाराद्यैर्यत्नतः समपूजयन् । प्रदक्षिणापराः केचिदेवं नानाविधानतः ॥ ११॥ तपन्तो गणपं चैव मन्त्रेण विधिपूर्वकम् । एकचित्तेन सर्वे ते तोषयामासुरञ्जसा ॥ १२॥ एवं वर्षसहस्रेण दिव्येन तपसा स्वयम् । प्रसन्नोऽभून् महातेजा वक्रतुण्डः प्रतापवान् ॥ १३॥ देवानां च ऋषीणां च ययौ चाग्रे गणाधिपम् । तेजसा पुञ्ज एवाऽसौ साक्षाद् ब्रह्ममयो बभौ ॥ १४॥ सिंहगो गजवक्त्रश्च शूर्पकर्णो महोदरः । चतुर्बाहुश्च पाशेनाङ्कुशेन वरदेन च ॥ १५॥ अभयेन समायुक्तो वामाङ्गे सिद्धिधारकः । दक्षिणाङ्गे च बुद्धिं वै दधानो भगवान् परः ॥ १६॥ नाभिशेषो मुकुटवान् कुण्डली कटकान्वितः । चिन्तामणिलसद्वक्षा व्यालयज्ञोपवीतवान् ॥ १७॥ नानाभूषणशोभाढ्यस्तेजसा ज्वलदद्भुतः । पुष्करं पुष्करे धृत्वा भ्रामयन् समुपाययौ ॥ १८॥ तं दृष्ट्वा देवविप्रास्ते भयभीताः समन्ततः । उदितं किमिदं तेजः प्रलयानलसन्निभम् ॥ १९॥ अथवा गणराजोऽयं किं वा स्वामी समागतः । अथवा प्रलयो भावी अकाले दैवनिर्मितः ॥ २०॥ इति तर्कसमायुक्तान् देवान् मुनिसमन्वितान् । उवाच वक्रतुण्डस्तान् मेघगम्भीरनिस्वनः ॥ २१॥ वक्रतुण्ड उवाच । भो भो मुनिगणा देवाः स एवाऽहं समागतः । यं ध्यायथ महाभागास्तं जानीत गणेश्वरम् ॥ २२॥ तपसा मन्त्रराजेन मम ध्यानेन सर्वशः । परितुष्टो वरं दातुमागतोऽहं न संशयः ॥ २३॥ मुद्गल उवाच । वक्रतुण्डवचः श्रुत्वा हर्षिता अमरर्षयः । प्रणेमुः प्रार्थयामासुः सौम्यभावं प्रविह्वलाः ॥ २४॥ तेषां प्रार्थितमाकर्ण्य सौम्यतेजा अभूत् प्रभुः । यथा तं मुनयो देवा अपश्यन् स्वेन चक्षुषा ॥ २५॥ सौम्यभावेन संयुक्तं वक्रतुण्डं सुरेश्वराः । मुनयस्तं प्रणम्योचुर्धन्या धन्या वयं प्रभो ॥ २६॥ अपूजयन् प्रयत्नेन भावेन स्नेहतस्तथा । उपचारैः षड्दशभिर्यथाविधि महेश्वराः ॥ २७॥ यथाविधि प्रणम्यैव तुष्टुवुः कृतमङ्गलाः । बद्धाञ्जलिपुटाः सर्वे भक्तिनम्रात्मकन्धराः ॥ २८॥ साश्रुनेत्राः सरोमाञ्चास्तद्दर्शनमहोत्सवाः । यथाज्ञानं यथान्यायं वक्रतुण्डं महौजसम् ॥ २९॥ देवर्षय ऊचुः । नमस्ते वक्रतुण्डाय गजवक्त्राय ते नमः । एकदन्ताय देवाय सर्वाधिपतये नमः ॥ ३०॥ निर्गुणाय निरूपाय चतुर्बाहुधराय ते । सिंहवाहाय नागानां पत्युर्नाभौ धराय च ॥ ३१॥ अनन्ताय ह्यपाराय दुर्लक्ष्याय नमो नमः । पाशाङ्कुशधरायैव नागयज्ञोपवीतिने ॥ ३२॥ वरदाभयहस्ताय सिद्धिबुद्धिवराय च । ब्रह्मभूताय भक्तानां ब्रह्मभूयकराय ते ॥ ३३॥ नमस्ते शम्भुरूपाय विष्णुरूपाय ते नमः । सूर्यरूपाय धात्रे च नमः शक्तिमयाय च ॥ ३४॥ दैत्यदानवरूपाय देवरूपधराय च । नमः पक्षिस्वरूपाय शुकरूपाय ते नमः ॥ ३५॥ ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे । (Page खं. १ अ. ३२ पान ७४) पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥ ३६॥ जलजन्तुस्वरूपाय सर्परूपाय ते नमः । वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ ३७॥ चराचरमयायैव नमो नानाप्रभेदिने । कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ ३८॥ ज्ञानयोगाय देवाय स्वात्मरूपधराय ते । स्वसंवेद्यस्वरूपाय सदा योगमयाय ते ॥ ३९॥ नानाधारप्रधाराय शब्दब्रह्ममयाय ते । मायारूपाय मायायै मायाहीनाय ते नमः ॥ ४०॥ मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः । स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ ४१॥ भेदाभेदमयायैवानन्तपाराय ते नमः । भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ ४२॥ नमो नमः परेशायाव्ययाय च नमो नमः । गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ ४३॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गाश्च योगिनः । तं किं स्तुमो गणेशानं वक्रतुण्डस्वरूपिणम् ॥ ४४॥ मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् । ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ ४५॥ माया च ब्रह्मतुण्डं यद् द्वयोर्योगे भवेत्परम् । योगशान्तिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ ४६॥ मायादेहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम् । उभयोर्योगभावे त्वं वक्रतुण्डः प्रकथ्यते ॥ ४७॥ तं वक्रतुण्डं पश्यामः साक्षाद् योगमयं परम् । धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ ४८॥ धन्यं जन्म त्वक्षि धन्यं धन्याः सम्पद एव च । ज्ञानं धन्यं तपश्चैव येन दृष्टो गजाननः ॥ ४९॥ प्रसन्नो यदि देवेश यदि देयो वरः शुभः । तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः ॥ ५०॥ प्रार्थयामो वरं चैतं यतस्त्वं चिन्तितार्थदः । मत्सरासुरनाशं च वक्रतुण्ड कुरु प्रभो ॥ ५१॥ जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप । सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ ५२॥ स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः । तानुत्थाप्य स्वयं साक्षाद्वक्रतुण्ड उवाच ह ॥ ५३॥ वक्रतुण्ड उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् । भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ ५४॥ मत्सरासुरनाशं च करिष्यामि सुरर्षयः । भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ ५५॥ पञ्चभूतमयं सर्वं त्रिगुणं जगदुच्यते । अष्टावरणसंयुक्तं ब्रह्माण्डं हि सुरर्षयः ॥ ५६॥ अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः । नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ ५७॥ अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् । तथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥ १.३२ (Page खं. १ अ. ३३ पान ७५)

१.३३ मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवमुक्त्वा सुरान् विप्रान् सस्मार बलमुत्कटम् । तस्य स्मरणमात्रेण प्रादुर्भूता गणाः प्रभोः ॥ १॥ प्रमोदामोदकाद्याश्च वक्रतुण्डा गजाननाः । चतुर्बाहुधराः सर्वे नानाशस्त्रास्त्रपाणयः ॥ २॥ केचित् सिंहसमारूढाः केचिन्मूषकवाहनाः । केचिन्मयूरमारूढाः शेषारूढास्तथापरे ॥ ३॥ अश्वारूढास्तथान्ये च मुकुटैः सुविराजिताः । कटकैः कुण्डलैश्चैव नानाभूषणराजिताः ॥ ४॥ भयङ्कराश्च शत्रूणां भक्तेभ्यः सुखदायकाः । महात्मानो महाशब्दा ब्रह्माण्डस्फोटकारकाः ॥ ५॥ नानाक्रीडासमायुक्ताः सदा स्वानन्दभाविताः । गणेशनाममाहात्म्यं कथयन्तः परस्परम् ॥ ६॥ वक्रतुण्डं नमस्कृत्य स्थिताः प्राञ्जलयोऽभवन् । आज्ञां कुरु गणाध्यक्ष करवामस्तवेप्सितम् ॥ ७॥ अस्माकं स्मरणं देव किमर्थं कृतमादरात् । दासान् त्वदीयपादस्य करिष्यामोऽखिलान् जनान् ॥ ८॥ तेषां वचनमाकर्ण्य वक्रतुण्डः प्रतापवान् । उवाच तान् महाभागान् मेघगम्भीरनिस्वनः ॥ ९॥ वक्रतुण्ड उवाच । श‍ृणुध्वं मोदकाद्याश्च मत्सरासुरदैत्यपम् । हनिष्यामि महावीर्यं तेन युद्धं भविष्यति ॥ १०॥ अधुना दारुणं तत्र मया सह महाबलाः । एतदर्थं विशेषेण स्मरणं भवतां कृतम् ॥ ११॥ वक्रतुण्डवचः श्रुत्वा सर्वे हर्षसमन्विताः । गणा ऊचुः प्रणम्यैनं निबद्धकरसम्पुटाः ॥ १२॥ गणा ऊचुः । स्वामिन् वदसि यत्सर्वं तदाश्चर्यमयं बहु । मत्सरासुरनाशश्च एकेन क्रियतेऽधुना ॥ १३॥ त्वत्प्रसादात् सदा सर्वं सुलभं नो गणाधिप । आज्ञां कुरु महाभाग पश्य चैकस्य पौरुषम् ॥ १४॥ गणानां तद्वचो रम्यं श्रुत्वा प्राह गणाधिपः । वक्रतुण्डः प्रसन्नात्मा हर्षयन् सकलानिव ॥ १५॥ वक्रतुण्ड उवाच । भवद्भिः कथितं सर्वं तत्तथा न तदन्यथा । क्रीडार्थं निर्मितो दैत्यो मया मायाप्रभावतः ॥ १६॥ यदि क्षणेन तं दैत्यं नाशयामि प्रभावतः । तदा क्रीडा कथं देवा मया प्रक्रियते परा ॥ १७॥ अतस्तेन महाभागा युध्यध्वं मम सन्निधौ । अष्टावरणहीनेन हन्मि रूपेण तं क्षणात् ॥ १८॥ इति तस्य वचः श्रुत्वा गणा हर्षसमन्विताः । जगर्जुर्नादयन्तस्ते दिशो विदिश एव च ॥ १९॥ तद् दृष्ट्वा परमाश्चर्यं विस्मितास्ते सुरर्षयः । हर्षेण महता युक्ता मेनिरे मत्सरं हतम् ॥ २०॥ ततः सर्वान् समादाय गणान् देवान् मुनीनपि । वक्रतुण्डो ययौ तां च पुरीमीर्ष्याह्वयां पराम् ॥ २१॥ यत्र राज्यं च कुरुते मत्सरः स प्रतापवान् । ब्रह्माण्डस्य महावीरो नानाभोगसमन्वितः ॥ २२॥ देवाङ्गनापरिवृतः सदा तिष्ठति दैत्यपः । मद्यादिपानसंयुक्तो नानावीरपालितः ॥ २३॥ यद्यन्मनसि तेनापि चिन्तितं सफलं सदा । तत्तद्भवति सर्वं स्म तपसा वरदानतः ॥ २४॥ (Page खं. १ अ. ३३ पान ७६) न बुबोध गतं कालं कालेनेव च वञ्चितः । धन्योऽहम्मन्यमानो न मत्समो मानसेऽपरः ॥ २५॥ एकस्मिन् दिवसे तत्र सभायां संस्थितोऽभवत् । वीरैः परिवृतो नाना नृत्यं पश्यन् विनोदतः ॥ २६॥ तत्राकाशात्तदा वाणी बभूव भयदायिका । आगतो मत्सरं हन्तुं वक्रतुण्डो महाबलः ॥ २७॥ श्रुत्वाऽऽकाशभवां वाणीं मूर्च्छितो मत्सरासुरः । पतितः शुष्ककण्ठश्च कम्पमानाङ्गविह्वलः ॥ २८॥ तं तथा पतितं दृष्ट्वाऽसुराः सर्वे भयातुराः । केनोक्तं परुषं वाक्यं हन्मस्तं त्वद्य निश्चितम् ॥ २९॥ ततः केचिन्नभोमार्गे बभ्रमुर्यत्र तत्र ते । ददृशुस्तं न तत्रापि सभायां पुनराययुः ॥ ३०॥ सर्वैः कृतः स दैत्येशः सावधानो यथा पुरा । उपविष्टः सभामध्ये हृदयेन विदूयता ॥ ३१॥ उवाच हि स्वतो वाचं मत्सरो भयविह्वलः । वचनं किमिदं सत्यमनृतं वा भविष्यति ॥ ३२॥ कालस्य कालरूपोऽहं मम मृत्युः कथं भवेत् । असत्या नभसो वाणी न ज्ञाता न श्रुताऽपि च ॥ ३३॥ अष्टावरणसंयुक्तं ब्रह्माण्डं सर्वमञ्जसा । अष्टावरणयुक्तेभ्यो मम मृत्युर्न जायते ॥ ३४॥ कोऽसौ वक्राननो जन्तुः कथितः कुत्र वर्तते । तं हनिष्यामि दृश्यश्चेत् क्षणमात्रान्न संशयः ॥ ३५॥ इति श्रुत्वा वचस्तस्य मत्सरस्य दुरात्मनः । ऊचुः प्रह्लादमुख्यास्तं विनयेन समन्विताः ॥ ३६॥ प्रल्हादादय ऊचुः । मा कुरुष्व महाभाग चिन्तां शत्रुनिषूदन । तव मृत्युः कथं भावी पश्चात् सूर्योदयः कथम् ॥ ३७॥ अस्माकं शत्रुभावेन स्थिता देवाः सहेश्वराः । जितास्तदपि सर्वे ते छिद्रदर्शिन एव च ॥ ३८॥ तैश्च माया कृता च स्यादीदृशी वाऽसुरोत्तम । अन्यथा ते महामृत्युः कथं भवति मानद ॥ ३९॥ नेयमाकाशवाणी भोस्तस्माद्देवान् सहेश्वरान् । हनिष्यामोऽद्य दैत्येश शत्रुहीनास्तदा वयम् ॥ ४०॥ तेषां वचनमाकर्ण्य मत्सरश्चैव हर्षितः । सत्यमुक्तं भवद्भिर्यद्गन्तव्यं विद्विषां वधे ॥ ४१॥ मत्सराज्ञां समादाय निःसृता दैत्यपुङ्गवाः । विचिन्वन्ति स्म सर्वत्र देवान् सर्वान् प्रयत्नतः ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः ॥ १.३३ (Page खं. १ अ. ३४ पान ७७)

१.३४ देवासुरयुद्धप्रसङ्गो नाम चतुस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दैत्या भ्रमणयुक्तास्ते आययुर्ढुण्ढिसन्निधौ । यत्र देवगणैर्युक्तो वक्रतुण्डः प्रतापवान् ॥ १॥ दृष्ट्वा तं वक्रतुण्डं ते भयभीतास्तदाऽभवन् । महाकायं महावीर्यं नरनागस्वरूपिणम् ॥ २॥ नानावीरैः परिवृतं प्रलयाग्निसमैः परैः । देवैर्हर्षसमायुक्तैः संस्तुतं भक्तिभावितैः ॥ ३॥ मनसा दैत्यपाः सर्वे मेनिरे मृत्युमात्मनः । सत्याकाशभवा वाणी सोऽयं वक्राननो भवेत् ॥ ४॥ वक्रतुण्ड जय त्वं वै जय त्वं जय सर्वदा । देवैः प्रकथ्यते तस्माद्वक्रतुण्डोऽयमागतः ॥ ५॥ यदि युद्धं करिष्यामोऽनेन सार्धं महाद्भुतम् । युद्धे वयं मृताश्चेद्वा वृत्तान्तं को निवेदयेत् ॥ ६॥ अतो मत्सरदैत्येशं गमिष्यामो जवान्विताः । एवं निश्चययुक्तास्ते मत्सरं जग्मुरादरात् ॥ ७॥ स देवो वक्रतुण्डस्तु दूरतः पञ्चयोजनम् । ईर्ष्यापूरं परित्यज्य स्थितः कृत्वा सभां प्रभुः ॥ ८॥ दैत्यास्ते मत्सरं गत्वा वृत्तान्तं तं न्यवेदयन् । भोराजन् सत्यमेवेदं वचनं खसमुद्भवम् ॥ ९॥ नरकुञ्जररूपेण दृष्टो वक्राननः प्रभुः । देवैः समावृतो भूप विचारं कुरु सर्वथा ॥ १०॥ तेषां वचनमाकर्ण्य मत्सरश्चिन्तयान्वितः । बभूव म्लानतुण्डश्च ज्ञात्वा शत्रुं महाबलम् ॥ ११॥ ततः क्रोधसमाविष्टस्तं हन्तुं कृतवान् मनः । आज्ञापयत् स दैत्येन्द्रान् सज्जिता भो भवन्त्विति ॥ १२॥ गमिष्यामि रिपुं हन्तुं वक्रतुण्डं महाबलम् । सदेवं सपरीवारं ततो हृदि सुखं भवेत् ॥ १३॥ आज्ञामात्रेण दैत्येशाः सन्नद्धाः समुपाययुः । हर्षेण महता युक्ता देवमर्दनलालसाः ॥ १४॥ चतुरङ्गं महत्सैन्यं निःसृतं नगराद्बहिः । तन्मध्ये मत्सरो वीरः शुशुभे रथसङ्गतः ॥ १५॥ आगतास्ते त्वराभाजो वक्रतुण्डः स्थितो यतः । तान् दृष्ट्वा देवसङ्घास्तं शशंसुर्गणनायकम् ॥ १६॥ स्वामिन् समागतो दैत्यः स्वयमेव महाप्रभो । यत्करिष्यसि देवस्त्वं त्वरया तत् कुरु प्रभो ॥ १७॥ अस्मान्नोचेच्च दैतेया हनिष्यन्ति महाबलाः । मरणं प्राप्तमस्माभिः कुत्र स्थातुं न शक्यते ॥ १८॥ देवानां वक्रतुण्डश्च श्रुत्वा वचनमादरात् । उवाच विस्मितो भूत्वा मा भयं कुरुत प्रियाः ॥ १९॥ स दैत्यं मत्सरं देवा हनिष्यामि न संशयः । पश्यन्तु कौतुकं युद्धे मदीयं परमाद्भुतम् ॥ २०॥ इत्युक्त्वा वक्रतुण्डः स सिंहारूढोऽभवत्प्रभुः । पाशाङ्कुशकरो गर्जन्मेघनादसमस्वनः ॥ २१॥ तस्य शब्देन सन्त्रस्तं त्रैलोक्यं सचराचरम् । भयभीता दैत्यगणा बभूवुश्च प्रजापते ॥ २२॥ मत्सरो हृदि सन्त्रस्तो वचनं चेदमब्रवीत् । दृश्यते प्रबला सेना किं भविष्यति दैत्यपाः ॥ २३॥ भययुक्तं वचस्तस्य श्रुत्वा तं दैत्यपा जगुः । वयं योत्स्यामहे स्वामिन् पश्य त्वं युद्धजं महः ॥ २४॥ इत्युक्त्वा मत्सरं सर्वे प्रह्लादप्रमुखाः सुराः । वक्रतुण्डं ययुर्वीरा नादयन्तस्त्रिविष्टपम् ॥ २५॥ (Page खं. १ अ. ३४ पान ७८) बाणवृष्टिं महोग्रां ते चक्रुः क्रोधसमन्विताः । ववर्षुरस्त्रशस्त्राणि वर्षाकाले घना इव ॥ २६॥ तैरस्त्रैर्दैत्यराजैश्च हता सेना दिवौकसाम् । देवा विष्णुमुखास्तत्र युयुधुस्तान समागतान् ॥ २७॥ घोरयुद्धं ततस्तेषां देवासुरविनाशनम् । अभवद्दारुणं क्रूरं द्रष्टुं नैव प्रशक्यते ॥ २८॥ देवाश्च दानवाश्चैव युयुधुः शस्त्रपाणयः । मरणे निश्चयं कृत्वा परस्परजयेप्सवः ॥ २९॥ केचिद्बाणमयीं वृष्टिं चक्रुः शक्तीस्तु केचन । चिक्षिपुर्भिन्दिपालांश्च खड्गैर्वै चिच्छिदुः परे ॥ ३०॥ बबन्धुरपरे पाशैर्भल्लैर्वा विव्यधुः परे । गदायुद्धं महाघोरं चक्रिरे वीरसत्तमाः ॥ ३१॥ मुद्गरैश्च महावीरा मारयामासुरोजसा । मल्लयुद्धं परे चक्रुर्नादयन्तो दिशो दश ॥ ३२॥ सैन्यस्य रजसा सर्वं व्याप्तमासीद् दिगन्तरम् । नाभूत् स्वपरबोधोऽपि पुरोगान् जघ्निरे तदा ॥ ३३॥ शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयम् । बाणैर्बाणान् समारुष्टाश्चिच्छिदुस्ते परस्परम् ॥ ३४॥ शस्त्रे भग्ने च ते वीरा मल्लयुद्धं सुदारुणम् । चक्रिरे क्रोधसंयुक्ता मण्डलानि प्रबभ्रमुः ॥ ३५॥ हस्तेन हस्तमापीड्य पादैः पादान् प्रगृह्य च । कूर्परं कूपरेणैव मर्दयामासुरोजसा ॥ ३६॥ मस्तकं मस्तकेनैव जानुभ्यां जानुनी तथा । ललाटेन ललाटं च स्फालयामासुरञ्जसा ॥ ३७॥ एवं युद्धे प्रवृत्ते वै मृताः कैचित्तु मूर्च्छिताः । भग्नाः केऽपि क्षता अन्ये नानाशस्त्रप्रहारतः ॥ ३८॥ शोणितौघवहा घोरा नदी जाता दुरत्यया । रक्तेन सर्वतस्तत्र रेणवो मज्जितास्ततः ॥ ३९॥ तेन प्रकाशितास्तत्र दिशः स्वपरबोधिकाः । ततोऽभूत्तुमुलं युद्धं यथायोग्यं प्रजापते ॥ ४०॥ रथिनो रथिभिः सार्धं गजिनो गजिभिस्तथा । अश्वारूढा हयारूद्वैः पदाताश्च पदातिभिः ॥ ४१॥ श्रेष्ठा युयुधिरे श्रेष्ठैर्महाबलसमन्वितैः । प्रबोध्य जघ्निरे केचिद्वीराः समरशालिनः ॥ ४२॥ परस्परमभिन्दंस्ते शस्त्रास्त्रैर्मर्मभेदिभिः । सर्वे शुशुभिरे चैव पुष्पिताः किंशुका इव ॥ ४३॥ कदाचिज्जयिनो देवाः कदाचिद्दानवास्तथा । न रात्रौ विश्रमं चक्रुः क्रोधयुक्ताः परस्परम् ॥ ४४॥ एवं पञ्चदिनं युद्धमभवत्तत्र दारुणम् । न जयं प्राप्नुयुर्देवा दैत्याचाऽपि प्रजापते ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते देवासुरयुद्धप्रसङ्गो नाम चतुस्त्रिंशोऽध्यायः ॥ १.३४ (Page खं. १ अ. ३५ पान ७९)

१.३५ शिवविजयो नाम पञ्चत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं परस्परं घोरं युद्धं कृत्वा महाबलाः । न जयं प्राप्नुवन्ति स्म कर्म चैव यथासुरम् ॥ १॥ तं दृष्ट्वा परमाश्चर्यं प्रह्लादः कुपितोऽभवत् । धनुः सज्जं महाघोरं कृत्वा बाणान् समाददे ॥ २॥ मन्त्रयन्ननलास्त्रेण चिक्षेप स शरान् बहून् । तेभ्यो जातो महानग्निः प्रलयानलसन्निभः ॥ ३॥ ददाह देवसेनां स प्रह्लादोऽसुरसत्तमः । भयभीताः सुराः सर्वे जज्वलुश्च समन्ततः ॥ ४॥ हाहाकारं प्रकुर्वन्तो दग्धास्ते जातवेदसा । मर्यादां रणभूमिं च तथा त्यक्त्वा पलायिताः ॥ ५॥ महाग्निः सर्वतस्तान् वै सुरान् वाहनसंयुतान् । प्रबलो दाहयामास प्रह्लादेन प्रचोदितः ॥ ६॥ तेन दैत्यगणाः सर्वे हर्षयुक्ता बभूविरे । प्रह्लादं पूजयन्तस्ते साधु साधु कृतं त्वया ॥ ७॥ सर्वान् पलायमानान् स सुरान् दृष्ट्वा पुरन्दरः । मेघास्त्रं योजयामास धनुषि क्रोधसंयुतः ॥ ८॥ एतस्मिन्नन्तरे तत्र प्रह्लादः समुपागतः । खड्गेन सहसेन्द्रस्य धनुश्चिच्छेद लाघवात् ॥ ९॥ तत इन्द्रः प्रकोपेन वज्रं तत्याज तं प्रति । वज्रेण निहतो भूमौ प्रह्लादः स पपात ह ॥ १०॥ पतितं तं तथा दृष्ट्वा महिषासुर आगतः । गदया देवराजं तं जघान खलु मस्तके ॥ ११॥ गदया निहतः सोऽपि पपात रणमूर्धनि । मघवा मूच्छितोऽत्यन्तं मुखाद्रक्तं समुद्वमन् ॥ १२॥ ततोऽग्निः परमक्रुद्धो जज्वाल ज्वालयासुरम् । महिषो जलरूपोऽभूत् प्लावयामास तं क्षणात् ॥ १३॥ निस्तेजाश्चिन्तया युक्ताः शक्तिं चिक्षेप पावकः । तां खड्गेन महादैत्यः पातयामास भूतले ॥ १४॥ ततो महिषरूपेण श‍ृङ्गाभ्यां दहनं पुनः । चकार मूर्च्छितं क्रुद्धः पपात महसां निधिः ॥ १५॥ ततो ययौ यमस्तं वै दण्डघातेन सोऽहनत् । जक्रे सम्मूर्च्छितं दैत्यं महिषं भयदायकम् ॥ १६॥ एतस्मिन्नन्तरे तत्र प्रतापी च विरोचनः । खड्गेन तं जघानाशु यमं सर्वभयङ्करम् ॥ १७॥ पपात खड्गाघातेन यमो यमवतां प्रभुः । वरुणस्तं बबन्धापि पाशेन च विरोचनम् ॥ १८॥ ततस्तं मोचयामास पाशं छित्वा महाबलः । अन्धकः खड्गाघातेन गदया वरुणं तथा ॥ १९॥ मूर्च्छितं च चकाराऽभूदुत्थितः स विरोचनः । ततो वायुः कुबेरश्च तावुभौ क्रोधमूच्छितौ ॥ २०॥ वायुना खड्गघातेन मूर्च्छितस्त्वमितौजसा । अन्धकासुरनामाऽसौ पपात धरणीतले ॥ २१॥ शम्बरेण हतो वायुर्मुसलेन महाबलः । स पपात तदा भूमौ देवः सर्वधरोऽपि सन् ॥ २२॥ विरोचनेने बाणौघैस्ताडितो धनरक्षकः । मर्मभेदिभिरत्युग्रैः पपाताऽसौ महाबलः ॥ २३॥ एतस्मिन्नन्तरे तत्र विष्णुः स्वयमुपागतः । गदया तं जघानैव विरोचनमथो रिपुम् ॥ २४॥ भिन्नोरसं च दैत्येशं मृततुल्यं चकार ह । अन्धकं चक्रघातेन पातयामास केशवः ॥ २५॥ (Page खं. १ अ. ३५ पान ८०) शम्बरं बाणजालैः सम्पातयामास भूतले । कुपितो माधवस्तत्र चक्रं तत्याज दारुणम् ॥ २६॥ चक्रेण क्षुरधारेण हता दैत्याः सहस्रशः । गदया मूर्च्छिताः केचिन् मुख्या ये तत्र संस्थिताः ॥ २७॥ एतस्मिन् समरे वीरः प्रह्लादः सम्बभूव ह । सावधानो महाभागस्तं ययौ क्रोधदीपितः ॥ २८॥ बाणवृष्टिं चकाराऽसौ महोग्रां देवनाशिनीम् । तया ताञ्च्छिन्नभिन्नाङ्गान् देवांश्चक्रे धरातले ॥ २९॥ गदया देवदेवेशं केशवं युयुधे भृशम् । खड्गेन मूर्च्छितं चक्रे गरुडं दैत्यनायकः ॥ ३०॥ ततश्च कुपितो विष्णुस्तं हन्तुं चक्रमाददे । बहुधा भ्रामयामास तत्त्याज ह्यस्त्रमुत्तमम् ॥ ३१॥ तन्मस्तकानि दैत्यानां चक्रं चिच्छेद सर्वतः । बाहूदरभुजांश्चैव चकार शकलीकृतान् ॥ ३२॥ सहसाऽसुरराजं च प्रह्लादं हन्तुमाययौ । चक्रं तेजोमयं दिव्यं समीपे ज्वलनप्रभम् ॥ ३३॥ प्रह्लादस्त्वरयास्त्रं च महाधनुषि सन्दधे । नारायणात्मकं चैव हृदि स्मृत्वा जनार्दनम् ॥ ३४॥ मुमोच तन् महास्त्रं वै तेजोरूपममोघकम् । अनिवार्यं जगद्भस्मकारकं कुपितः परः ॥ ३५॥ नारायणास्त्रवेगेन चक्रं प्रतिहतं ततः । देवान् सर्वान् ददाहापि महास्त्रं सर्वतः परम् ॥ ३६॥ हृदये सहसागत्य पतितं केशवस्य तत् । मूर्च्छितं मृततुल्यं तं चकार च जनार्दनम् ॥ ३७॥ ततो मदयुता दैत्या जगर्जुर्हर्षसंयुताः । प्रशशंसुर्महाभागं प्रह्लादं तेजसान्वितम् ॥ ३८॥ नारायणास्त्रसन्दग्धान् देवर्षीन् वीक्ष्य शङ्करः । क्षुभितो देवरक्षार्थं पिनाकं स्वकरे दधौ ॥ ३९॥ महास्त्रं तत् पाशुपतं सन्दधे क्रोधसंयुतः । बलेन मोचयामास त्वरावान् शङ्करोऽभवन् ॥ ४०॥ महास्त्रं वै पाशुपतं तथा नारायणात्मकम् । उभे अस्त्रे संयुगे ते युयुधाते विहायसि ॥ ४१॥ देवा मुनिगणास्तत्र हर्षयुक्ता बभूविरे । प्रशशंसुर्महादेवं देवदेवं च शङ्करम् ॥ ४२॥ ततः पशुपतिः क्रुद्धस्त्रिशूलं सन्दधे मुने । तत्याज दैत्यसेनायां कुर्वाणं प्रलयं परम् ॥ ४३॥ त्रिशूलं च करोति स्म मृतान् दैत्यान् सहस्रशः । प्रह्लादहृदयेकस्मात् पपात यमसन्निभम् ॥ ४४॥ तेनाऽसौ पतितो भूमौ वाताहत इव द्रुमः । दैत्यसैन्ये महानासीत्तदा कोलाहलः परः ॥ ४५॥ ततस्त्रिशूलवेगेन शितेन सहसाऽसुराः । मूर्च्छिताश्च कृताः केचित् केचिद्वै मारिता मुने ॥ ४६॥ सर्वेऽसुरगणास्तत्र पतिता रणमूर्धनि । ततो मत्सरपुत्रौ द्वौ शङ्करं जग्मतुः प्रभो ॥ ४७॥ सुन्दरप्रियनामा च विषयप्रिय एव यः । ऊचतुः शङ्करं तत्र क्रोधयुक्तौ महासुरौ ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवविजयो नाम पञ्चत्रिंशोऽध्यायः ॥ १.३५ (Page खं. १ अ. ३६ पान ८१)

१.३६ सुन्दरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । वद ब्रह्मन्विशेषेण मम हर्षकरीं कथाम् । विस्तरेण महाभाग वक्रतुण्डप्रभावजाम् ॥ १॥ मुद्गल उवाच । न शक्यतेऽग्निपुत्रेण विस्तरेण पिनाकिना । शेषेण विधिना वक्तुं सङ्क्षपेण ब्रवीम्यतः ॥ २॥ दक्ष उवाच । किमुक्तं दैत्यपुत्राभ्यां शङ्करेण श्रुतं वद । श्रुत्वा तत् किं कृतं तेन महादेवेन मानद ॥ ३॥ दैत्याभ्यां किं कृतं तत्र तद्वद त्वं विशेषतः । श्रुत्वा त्वद्वदनाम्भोजात् कथां तृप्याम्यहं न च ॥ ४॥ सूत उवाच । एवमादरमाज्ञाय दक्षस्य प्रयतात्मनः । मुद्गलस्तमुवाचाथ हर्षयुक्तः स शौनक ॥ ५॥ मुद्गल उवाच । दैत्यपुत्रौ महावीर्यौ शङ्करं क्रोधसंयुतौ । यदूचतुश्च तत्सर्वं श‍ृणु दक्ष प्रजापते ॥ ६॥ मत्सरपुत्रावूचतुः । तिष्ठ तिष्ठ महादेव पश्य पौरुषमावयोः । ज्ञातं त्वदीयं सामर्थ्यं न च गन्तुं त्वमर्हसि ॥ ७॥ अस्मदीया महासेना हता सर्वा सदाशिव । दैत्येन्द्राः पातिताः सर्वे त्वया शङ्कर तेजसा ॥ ८॥ पौरुषं दर्शितं पूर्णं सर्वदेवातिगं महत् । अधुना त्वां हनिष्यावो वक्रतुण्डस्य पश्यतः ॥ ९॥ त्वां हत्वा वक्रतुण्डं च हनिष्यावो न संशयः । पश्चात् सर्वान् सुरेन्द्रांश्च ततो मुनिगणान् सुरान् ॥ १०॥ एवमुक्त्वा महादेवं धनुः सज्जं प्रचक्रतुः । तावुवाच महादेवः स्मयमान इदं वचः ॥ ११॥ शिव उवाच । भवद्भ्यां गदितं क्रूरं तत्सर्वं तथ्यमेव च । अधुनाऽयं समुत्पन्नो वक्रतुण्डो महाबलः ॥ १२॥ भूभारहरणार्थं वै भवतां नाशनाय च । अधुना स गतः कालो विपरीतेन कर्मणा ॥ १३॥ वक्रतुण्डप्रसादेन हनिष्यामि समत्सरम् । असुरं बलमत्यर्थं पापरूपं न संशयः ॥ १४॥ इत्युक्त्वा बाणवृष्टिं स चक्रे वै शङ्करः प्रभुः । महोग्रां कालरूपां वै प्रलयस्य प्रकाशिनीम् ॥ १५॥ तां च चिच्छिदतुर्दैत्यो स्वशरैरतिवगितैः । तौ मण्डपं क्षणेनैव चक्रतुः शरसम्भवम् ॥ १६॥ तद्बाणैरपि ते देवाश्छिन्ना भिन्नाः कृता मुने । शङ्करो विस्मितो भूत्वा शूलमुग्रं मुमोच ह ॥ १७॥ आगतं कालरूपं च शूलं दृष्ट्वा महासुरौ । महास्त्रं तौ पाशुपतं मोचयामासतुस्तदा ॥ १८॥ अनिवार्यं महोग्रं वै सर्वभस्मकरं परम् । जज्वाल तेजसा सर्वं ब्रह्माण्डं व्याकुलं ततः ॥ १९॥ त्रिशूलं निष्फलं तेन महास्त्रेण कृतं क्षणात् । शिवस्य हृदये गत्वा पपात भयदायकम् ॥ २०॥ मूर्च्छितः शङ्करस्तेन पतितो धरणीतले । हाहाकारश्च सर्वत्र देवसैन्ये ततोऽभवत् ॥ २१॥ पतितं शङ्करं दृष्ट्वा वक्रतुण्डो महाबलः । स्वां सेनां प्रेरयामास दैत्यमर्दनलालसः ॥ २२॥ गणेशदूतमुख्यास्तेष्वष्टौ तत्राययुः परे । स्वां स्वां सेनां समादाय महाकाया महाबलाः ॥ २३॥ प्रमोदश्चैष आमोदस्तथा ब्रह्मप्रियो मुने । योगप्रियश्च स्वानन्दभोक्ता ज्ञानमयश्च हि ॥ २४॥ सर्वगः सर्वविच्चैव क्रोधयुक्ताः समाययुः । तैः प्रेक्षिताः सुराः सर्वे गतमूर्च्छास्तदाऽभवन् ॥ २५॥ (Page खं. १ अ. ३६ पान ८२) श्रमहीनाः क्षतादिभ्यो हीना जाताः प्रभावतः । तेजसा द्विगुणाश्चैव हृष्टपुष्टा यथा मुने ॥ २६॥ एतस्मिन्नन्तरे तत्र कविना जीवितास्तथा । दैत्याः समुत्थिताः सर्वे नीरुजश्च महाबलाः ॥ २७॥ प्रह्लादप्रमुखा वीराश्चक्रुर्नादं समन्ततः । ब्रह्माण्डमखिलं तेन सनादमभवत् परम् ॥ २८॥ ततो देवगणाः सर्वे शङ्खनादं प्रचक्रिरे । तेन दैत्यगणा भीता बधिरा इव ते स्थिताः ॥ २९॥ शङ्खानां चैव भेरीणां दुन्दुभीनां स्वरैः परैः । वीराणां क्ष्वेडितेनैव हेषितैर्बृंहितस्वनैः ॥ ३०॥ रथनेमिस्वनैः सर्वं व्याप्तमासीन्नभो मुने । परस्परं सम्पदं च वीक्ष्य वीक्ष्य च विस्मिताः ॥ ३१॥ एतस्मिन्नेव काले ते प्रमोदाद्या गणा ययुः । कुपिताः शस्त्रसंवृष्टिं चक्रिरे दैत्यमोहिनीम् ॥ ३२॥ तेषां शस्त्राणि सर्वाणि ह्यमोघानि महामुने । चिच्छिदुर्दैत्यराजानां मस्तकानि भुजादिकान् ॥ ३३॥ ब्रह्मप्रियो महाबाहुः शुक्रं धृत्वा प्रपश्यताम् । असुराणां गतो दूरं गुहायां चाक्षिपन् मुनिम् ॥ ३४॥ गतं शुक्रं तदा दृष्ट्वा दैत्याः सर्वे भयातुराः । हाहाकारं प्रचक्रुस्ते किं भविष्यति विह्वलाः ॥ ३५॥ रक्षिता गुरुरत्युग्रः पश्यतां नो महासुराः । नीतश्च मरणं तस्माच्छ्रेष्ठं किं न मृता वयम् ॥ ३६॥ अधुना क्व गमिष्यामस्तस्माद्युद्ध्यामहे वयम् । मरिष्यामोऽथ वा मोचयिष्यामस्तं स्वतेजसा ॥ ३७॥ परस्परं चेति दैत्या उक्त्वा मरणनिश्चयाः । उदायुधाश्च सर्वे ते युयुधुर्देवसैनिकैः ॥ ३८॥ व्यङ्गा देवाः कृतास्तैस्ते पतिता रणमूर्धनि । हाहाकारश्च सर्वत्र देवसैन्ये प्रवर्तितः ॥ ३९॥ ततो ब्रह्मप्रियाद्या ये कुपिताः शस्त्रधारिणः । परशुप्रमुखैः शस्त्रैस्त्रिशूलाङ्कुशपाशकैः ॥ ४०॥ शस्त्रैर्दैत्यान्निजघ्नुस्तान् कालरुद्रा इव प्रजाः । तैरस्त्रैर्दैत्यसेनायाः कदनं कृतमञ्जसा ॥ ४१॥ बहवश्व मृता दैत्या मूर्च्छिताश्चापरेऽवनौ । पेतुस्ते सर्वशो वीरा प्रह्लादप्रमुखा मुने ॥ ४२॥ ततो दैत्यकुमारौ तावागतौ रणमूर्धनि । ऊचतुस्तान् गणांस्तत्र प्रमोदाद्यान् महासुरौ ॥ ४३॥ दैत्यपुत्रावूचतुः । प्रमोदामोदकाद्याश्च भवद्भिर्बलमञ्जसा । हतं सर्वं च दैत्यानां दैत्यश्रेष्ठाः प्रमूर्च्छिताः ॥ ४४॥ अधुना मरणं प्राप्तं समीपे वः प्रदृश्यताम् । शस्त्रैस्तीक्ष्णैर्हनिष्यावो वक्रतुण्डयुतान् खलान् ॥ ४५॥ एवमुक्त्वा स्वबाणांस्तौ ववर्षतुरथासुरौ । ततस्तयोर्बलं वीक्ष्य द्वौ वीरौ समुपस्थितौ ॥ ४६॥ सर्वगः सर्वविच्चैव सबलौ धृतकार्मुकौ । बाणवृष्टिं तु संवार्य बाणांश्चिक्षिपतुः परान् ॥ ४७॥ अमोघाः सर्वबाणास्ते जग्मुः कालयमोपमाः । दैत्यान् सर्वान् प्रचकुस्ते छिन्नभिन्नात्मकान् मुने ॥ ४८॥ मृता मुमूर्षवः केचित्पतिता धरणीतले । अकस्माद्रक्तसम्भूता नदी तत्र प्रवर्तिता ॥ ४९॥ तयोर्बलं निरीक्ष्यैव कम्पितौ दैत्युपुङ्गवौ । अग्न्यस्त्रं धनुषि श्रेष्ठं दधतुः क्रोधसंयुतौ ॥ ५०॥ यावन् मुमुचतुस्तावत् परशू यमसन्निभो । (Page खं. १ अ. ३७ पान ८३) आगतौ च शिरश्छेदं दैत्ययोश्चक्रतुः क्षणात् ॥ ५१॥ मत्सरस्य सुतौ वीक्ष्य मृतौ सर्वे भयातुराः । मत्सरं शरणं जग्मुरूचुर्वृत्तान्तमञ्जसा ॥ ५२॥ दैत्या ऊचुः । श‍ृणु दैत्येश वृत्तान्तं रणभूमिसमुद्भवम् । महाभयङ्करं घोरं कथितुं शक्यते न च ॥ ५३॥ प्रह्लादप्रमुखाः सर्वे घातिता रणमूर्धनि । मृततुल्या मृता वा किमस्माभिर्ज्ञायते न च ॥ ५४॥ तव पुत्रौ महावीर्यौ मृतौ सङ्ग्राममण्डले । कृत्वा युद्धं महाघोरं परशुभ्यां महामते ॥ ५५॥ अकस्माद्वक्रतुण्डस्य गणौ द्वौ समुपस्थितौ । ताभ्यां चैव हतौ वीरौ स्वल्पकालेन दैत्यप ॥ ५६॥ वक्रतुण्डसमश्चैव न भूतो न भविष्यति । इति स्वान्ते च संज्ञाय देवं तं शरणं व्रज ॥ ५७॥ नोचेद्दैत्यगणाः सर्वे नाशं यास्यन्ति निश्चितम् । मा गर्वं कुरु दैत्येश दैत्यान् रक्ष महामते ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते सुन्दरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः ॥ १.३६

१.३७ मत्सरासुरसमागमो नाम सप्तत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः । मुद्गल उवाच । दैत्यानां वचनं श्रुत्वा स दैत्यो मत्सरासुरः । मूर्च्छितः सहसा भूमौ पपात भयविह्वलः ॥ १॥ अनिश्वसन् दैत्यपस्तु तैराशु विधृतो नृपः । सावधानं प्रचक्रुस्तं प्रयत्नैः परमैस्ततः ॥ २॥ द्विमुहूर्तेन सम्बुद्धो मत्सरः प्रललाप ह । किं जातं भावि वा किं वा दैवेन विफलं कृतम् ॥ ३॥ तपसा त्वमरत्वं च पृथिवीराज्यमञ्जसा । मया प्राप्तं स्वसामर्थ्यादतुलं तद् वृथा कृतम् ॥ ४॥ अहो हि बलवद् दैवं प्रयत्नो निष्फलो मतः । अचिन्त्या मेऽभयप्राप्तिः पश्चात् सूर्योदयो यथा ॥ ५॥ मृता दैत्या असङ्ख्याश्च मदर्थं नात्र संशयः । मृतौ पुत्रौ महाकालौ कालस्य कथमद्य तौ ॥ ६॥ अधुना शोकसन्तप्तो मरिष्यामि न संशयः । मृतौ पुत्रौ महाकालौ किं कार्यं जीवितेन मे ॥ ७॥ ब्रह्माण्डाधिपतेः पुत्रौ कथं तो निधनं गतौ । कथं मिथ्या हि जातं मे वरदानं महत्तरम् ॥ ८॥ अहो पुत्रौ महावीर्यौ कथं मरणमापतुः । याभ्यां स्वभुजवीर्येण जिता विष्णुमुखाः सुराः ॥ ९॥ अहो पुत्रौ च मां त्यक्त्वा घोरे दुःखार्णवे परे । क्व गतौ वदतं वाक्यमभूतं निष्ठुरौ कथम् ॥ १०॥ सखींश्च पितरं वृद्धं त्यक्त्वा मां सुन्दरप्रिय । विषयप्रिय मद्बलौ कथं मृत्युमुपस्थितौ ॥ ११॥ इति नानाविधं शौकं चक्रे दैत्येन्द्रपालकः । तं ते सभ्यवराः सर्वे सान्त्वयामासुरादरात् ॥ १२॥ वृद्धा ऊचुः । न रोदनं प्रकर्तव्यं त्वया दैत्येन्द्रनायक । रणे मृतौ महावीर्यौ कीर्तिं कृत्वा महत्तराम् ॥ १३॥ देहस्य मरणं नित्यं जन्म चैव तथा प्रभो । किं चित्रं तच्च सञ्जातं येन शोचसि दैत्यप ॥ १४॥ (Page खं. १ अ. ३७ पान ८४) आत्मनो मरणं नैव जन्मशास्त्रेषु कथ्यते । मायामोहं परित्यज्य स्वस्थो भव महामते ॥ १५॥ जन्तोरूर्ध्वक्रिया सर्वा कर्तव्या स्वजनैरपि । अतस्त्वं दैत्यराजेन्द्र सार्थकं त्वेतयोः कुरु ॥ १६॥ अथवा तौ परित्यज्य वक्रतुण्डं जहि प्रभो । अथवा शरणं याहि येनैव कुशलं भवेत् ॥ १७॥ वीरा रुदन्ति कुत्रापि नैव जानीहि दैत्यप । सपत्नान् हर्षसंयुक्तान् मा कुरुष्वाधुना परान् ॥ १८॥ एवं प्रबोधितो दैत्यो मत्सरः क्रोधसंयुतः । आदाय सकलं सैन्यं ययौ सङ्ग्राममण्डलम् ॥ १९॥ मत्सरासुरमायान्तं दृष्ट्वा शम्भ्वादयः सुराः । भयभीताश्च तं प्रोचुर्वक्रतुण्डं प्रणम्य ते ॥ २०॥ स्वामिन् समागतो दैत्यो मत्सरः स प्रतापवान् । यस्याग्रे मशका देवास्तृणरूपा नरादयः ॥ २१॥ यस्याग्रे वशवर्तिन्यः श्रियः सर्वार्थदायिकाः । ब्रह्माण्डं कम्पते यस्य भयात्सोऽयं समागतः ॥ २२॥ यस्य राज्ये महाभागा जना दुःखविवर्जिताः । सर्वर्तुफलदा वृक्षा मेघाः कालप्रवर्षिणः ॥ २३॥ यस्याज्ञा वशगश्वासौ तपत्येव दिवाकरः । न शीतं प्रबलं तत्र मत्सरे राज्यभोगिनि ॥ २४॥ न रोगाः प्रचरन्तीह भयभीताः सम्मततः । न च चोरादिसन्त्रस्तं जगद्राज्यं प्रशासति ॥ २५॥ यस्य पूजा च सर्वत्र जगति क्रियते जनैः । यज्ञादि सर्वमखिलं भुक्तं येन महात्मना ॥ २६॥ कालो बिभेति यं दृष्ट्वा तदाज्ञा पालकोऽभवत् । कर्मखण्डनमप्यत्र कृतं येन सुरारिणा ॥ २७॥ न स्वाहा न स्वधा यत्र न वषट्कार एव च । न वेदाध्ययनाचारो मत्सरे राज्यकर्तरि ॥ २८॥ न स्नानादिक्रिया यत्र न स्वधर्मः स्वभावजः । न वर्णाश्रमयोर्धर्मो मत्सरे राज्यकर्तरि ॥ २९॥ देवाः श्वापदतुल्या वै भ्रमन्ति वनगोचराः । अन्नवस्त्रादिसंहीनाः कृता दैत्येन्द्रकेण भोः ॥ ३०॥ मुनयस्तपसा हीनाः शापसामर्थ्यहीनकाः । कृता मत्सरदैत्येन सोऽयं स्वामिन् समागतः ॥ ३१॥ देवाङ्गनाश्च तत्कन्या नागकन्या महात्मना । भुक्ता नानाविधा भोगाः सोऽयं मत्सर आगतः ॥ ३२॥ नरकन्याः पशोःकन्या मुनिकन्याः समाहृताः । बलेन न समं यस्य ब्रह्माण्डे सोऽयमागतः ॥ ३३॥ यस्याष्टावरणैर्मृत्युर्न भवेच्च कदाचन । सोऽयं समागतो दैत्यः पश्य पश्य गणाधिप ॥ ३४॥ इत्येवं ब्रुवतो देवान् वक्रतुण्डो महाबलः । मा भयं कुरुत प्राज्ञा हनिष्यामीति सोऽब्रवीत् ॥ ३५॥ सिंहारूढो महाबाहुरेकदन्तविराजितः । पाशाङ्कुशधरो भूत्वा ययौ सङ्ग्राममण्डलम् ॥ ३६॥ प्रमोदामोदकाद्यैश्च संवृतं युद्धलालसम् । तं दृष्ट्वा क्रोधसंयुक्तो मत्सरः प्राह भर्त्सयन् ॥ ३७॥ मत्सरासुर उवाच । किमर्थमागतस्त्वं मे वक्रतुण्ड रणेऽग्रतः । अद्यैव त्वां हनिष्यामि मा मुखं दर्शयस्व रे ॥ ३८॥ मूढोऽसि येन सङ्ग्रामं कर्तुमागत एव च । न मे मृत्युर्भवेदष्टावरणैर्देहधारिभिः ॥ ३९॥ (Page खं. १ अ. ३८ पान ८५) शम्भुविष्णुमुखैर्देवैः प्रेरितस्त्वं न बुध्यसे । मोहभावेन संयातो मत्सरेण युयुत्सुना ॥ ४०॥ हन्मि त्वामेकबाणेन ससैन्यं नात्र संशयः । पदाघातेन मे भूमिर्विशीर्णा जायते खल ॥ ४१॥ तलप्रहारसंयुक्ताः पर्वताश्चूर्णतां गताः । तस्याऽग्रे कथमायातः कालेन प्रेरितोऽथवा ॥ ४२॥ शब्दगर्जनमात्रेण कम्पते सचराचरम् । तस्याग्रे त्वं सुसङ्ग्रामं किं करिष्यसि तद्वद ॥ ४३॥ ब्रह्माण्डं सकलं युद्धे जितं येन प्रभावतः । तदा त्वं कुत्र गुप्तः सन् स्थितोऽसि भयभावितः ॥ ४४॥ समीचीनमिदं मूढाऽधुना खल कृतं त्वया । दृष्टेः समीपगो जातो हतो मम भविष्यसि ॥ ४५॥ शरणं याहि मे दुष्ट जीवितुं यदि चेच्छसि । मदाज्ञावशगो भूत्वा वने तिष्ठ यथासुखम् ॥ ४६॥ मूढभावेन संयातं त्वां न हन्मि च निर्बलम् । प्रेरकान् मुनिदेवांस्ते तान् हनिष्यामि निश्चितम् ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम सप्तत्रिंशोऽध्यायः ॥ १.३७

१.३८ वक्रतुण्डविजयो नामाष्टत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः । मुद्गल उवाच । एवं ब्रुबन्तमत्यन्तं मत्सरं क्रोधसंयुतम् । वक्रतुण्डः प्रसन्नात्मा स्मयन्निव जगाद तम् ॥ १॥ वक्रतुण्ड उवाच । मा गर्वं कुरु दैत्येश नाहं देवो न मानुषः । नासुरो नैव नागश्च न गन्धर्वो न पर्वतः ॥ २॥ न नानायोनिजो जन्तुर्नाष्टावरणजस्तथा । ब्रह्मरूपोऽहमानन्दानन्दकारक एव च ॥ ३॥ त्वां हन्तुं मुनिदेवानां स्थापनार्थमिहागतः । हनिष्यामि त्वसन्देहाद देत्यनायक दुर्मते ॥ ४॥ शिथिलं वरपुण्यं ते साम्प्रतं पापसञ्चयात् । नानापापफलार्थस्य दाता तेऽहं समागतः ॥ ५॥ अकर्तुं कर्तुमीशं मामन्यथाकर्तुमादरात् । जानीहि मत्सर त्वं वै किं करिष्यसि तद्वद ॥ ६॥ जीवितुं चेच्छसि प्राज्ञ तदा मां शरणं व्रज । स्वस्थाने धर्मविद्वेषं त्यक्त्वा त्वं तु सुखी भव ॥ ७॥ देवादीनां च विद्वेषं त्यक्त्वा तिष्ठसि दैत्य चेत् । तदा त्वां न हनिष्यामि जानीहि त्वं मतं मम ॥ ८॥ मुद्गल उवाच । वक्रतुण्डवचः श्रुत्वा मत्सरो विस्मितोऽभवत् । उवाच तं प्रसन्नात्मा भक्तिभावेन यन्त्रितः ॥ ९॥ मत्सर उवाच । वक्रतुण्ड नमस्तुभ्यं वद मे सकलं प्रभो । संशयं छिन्धि तं पूर्वं हृदिस्थं गणनायक ॥ १०॥ यदि त्वं सगुणो नासि निर्गुणोऽपि न वर्तसे । ब्रह्मरूपोऽसि सर्वेश तदाकारधरः कथम् ॥ ११॥ अन्यच्च त्वं महाभाग ब्रह्मभावेन संस्थितः । सुरासुरसमं ब्रह्म कथमेकं समाश्रितः ॥ १२॥ असुराणां निहन्ता त्वं सुराणां पालकोऽधुना । एतं मे संशयं ब्रह्मन् छेत्तुमर्हसि विघ्नप ॥ १३॥ मत्सरस्य वचः श्रुत्वा वक्रतुण्डः प्रतापवान् । उवाच तं महावीरं भावं दृष्ट्वा हृदि स्थितम् ॥ १४॥ (Page खं. १ अ. ३८ पान ८६) वक्रतुण्ड उवाच । श‍ृणु मत्सर यत्पृष्टं त्वया बुद्धिविशारद । तत्सर्वं कथयिष्यामि संशयच्छेदनाय ते ॥ १५॥ अखिलं ब्रह्मरूपेण मया सृष्टं चराचरम् । लीलार्थं बन्धहीनेन स्वस्वधर्मयुतं परम् ॥ १६॥ पुरुषप्रकृतिभ्यां तत् पाल्यते ह्रियते मया । तयोर्हृदि स्थितेनैव चिन्तामणिस्वरूपिणा ॥ १७॥ सर्वेषां चित्तवृत्तेश्च चालकोऽहं न संशयः । मदाज्ञावशगं सर्वं वर्तते दैत्यपुङ्गव ॥ १८॥ यदा स्वधर्ममत्यन्तं त्यक्त्वा देवगणेश्वराः । दैत्यानां निधनार्थं च यतन्ते मूलनाशकाः ॥ १९॥ तदा दैत्यहृदिस्थोऽहं तपसि प्रेरकोस्म्यतः । दैत्याः कुर्वन्ति च तपो देवानां प्रजिघांसया ॥ २०॥ तपसा वरलाभेन देवान् घ्नन्ति महाबलाः । ततस्ते सततं देवाः सत्ताहीना भवन्ति वै ॥ २१॥ ततोऽहं देवसङ्घानां विपरीतो न संशयः । भवामि चासुराणां वै सिद्धिदाता महासुर ॥ २२॥ यदि दैत्या महादुष्टास्त्यक्त्वा घ्नन्ति स्वधर्मकम् । देवान् मूलविहीनांश्च कर्तुमिच्छन्ति दानव ॥ २३॥ तदाऽहं देवरूपेण तेषां हृदि समास्थितः । छिद्रं प्रकाशयाम्यादौ हनने दैत्यरक्षसाम् ॥ २४॥ ततस्तेनैव देवेन्द्रा मार्गेण सुरविद्विषः । घ्नन्ति मत्सर ते सर्वं कथितं मे चरित्रकम् ॥ २५॥ यदि स्वहृदये देवा निश्चयं कुर्वते परम् । दैत्यानां तपसां विघ्नं कर्तव्यमिति साम्प्रतम् ॥ २६॥ तदाऽहं वरदाता च भवाम्यसुरनायक । दैत्येभ्यो नात्र सन्देहो देवगर्वप्रहारकः ॥ २७॥ यदि दैत्या महाभागा देवैर्जाता दुरासदाः । तदाऽहं दैत्यनाशाय भवामि तनुधारकः ॥ २८॥ यदा दैत्याश्च देवाश्च स्वस्वधर्मपरायणाः । तदाऽहं ब्रह्मभावेन स्थितस्तेषां हृदि ह्यहो ॥ २९॥ त्वया प्रपीडिता देवास्त्यक्त्वा धर्मं स्वभावजम् । अतस्त्वां हन्तुमायातो दैत्यराज महामते ॥ ३०॥ इत्युक्त्वा निजरूपं तद्दर्शयामास विघ्नपः । बिन्दुमात्रे ब्रह्मणि स्वे संस्थितं सुन्दरं मुने ॥ ३१॥ वक्रतुण्डप्रसादेन तस्य दर्शनजेन च । फलेन दैत्यराजोऽपि दिव्यं चक्षुरवाप्तवान् ॥ ३२॥ तेनैव चक्षुषा तेन दैत्येन परमाद्भुतम् । दृष्टं रूपं गणेशस्य ब्रह्माकारं प्रजापते ॥ ३३॥ न न्यूनं नाधिकं तत्र न समं चात्मना न च । चतुष्पादमयं ब्रह्म पादहीनं स्वभावतः ॥ ३४॥ न देहो न च देह्यत्र सगुणो निर्गुणो न च । न मायामायिको भाति वक्रतुण्डो गजाननः ॥ ३५॥ देहं सगुणरूपं च निर्गुणं मस्तकं मुने । गजवक्त्रमयं तेन दृष्टं भिन्नं प्रभावतः ॥ ३६॥ तयोर्योगकरः साक्षाद् वक्रतुण्डः प्रतापवान् । संयुक्तोऽवयवाद्यैश्च ज्ञातो दैत्याधिपेन सः ॥ ३७॥ ततस्तं प्रणनामाथ भक्तियुक्तेन चेतसा । तुष्टाव परया भक्त्या बद्धाञ्जलिपुटोऽसुरः ॥ ३८॥ मत्सरासुर उवाच । नमामि वक्रतुण्डं च चतुष्पादं चतुःपरम् । चतुर्देहविहीनं च बिन्दुमात्रे व्यवस्थितम् ॥ ३९॥ साकारं च निराकारं मायारूपधरं प्रभुम् । (Page खं. १ अ. ३८ पान ८७) नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४०॥ जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् । ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१॥ सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च । सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२॥ अनन्तलीलया युक्तं लीलाहीनं नमामि तम् । अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदि स्थितम् ॥ ४३॥ वेदान्तवेद्यं सज्योतिर्ज्योतिषामपि भासकम् । नमामि सच्चिदानन्ददेहरूपं गजाननम् ॥ ४४॥ योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् । भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५॥ सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् । नमामि वक्रतुण्डाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । सर्वाकारनिराकारहीनोऽयं वक्रतुण्डकः ॥ ४७॥ शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल । प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८॥ एवं स्तुत्वा वक्रतुण्डं पादयोर्निपपात ह । पुनः पुनः प्रणम्याऽसौ बद्धाञ्जलिपुटः स्थितः ॥ ४९॥ स दृष्ट्वा तादृशं दैत्यं भक्तियुक्तं गजाननः । जगाद तं महाभागं भक्तेशो भावतोषितः ॥ ५०॥ वक्रतुण्ड उवाच । मत्सर त्वद्विनाशाय कुपितोऽहं न संशयः । शरणागतनाशं च नेच्छामि वृणु वाञ्छितम् ॥ ५१॥ इदं त्वया कृतं स्तोत्रं मत्प्रीतर्वर्धनं महत् । महैश्वर्यायुरारोग्यदायकं धनधान्यदम् ॥ ५२॥ पुत्रपौत्रकलत्रादिनानासम्पत्करं परम् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ ५३॥ मुद्गल उवाच । वक्रतुण्डवचः श्रुत्वा मत्सरो भक्तिसंयुतः । जगाद वचनं तत्र वक्रतुण्डं कृताञ्जलिः ॥ ५४॥ मत्सर उवाच । प्रसन्नो यदि सर्वेश मह्यं देयो वरो यदि । सुदृढां च तदा भक्तिं त्वदीयां देहि विघ्नप ॥ ५५॥ अन्यं त्वं मे वरं देहि त्वद्भक्तास्ते च मे प्रियाः । स्थानं देहि तथा वृत्तिं योगक्षेमकरीं प्रभो ॥ ५६॥ मत्सरस्य वचः श्रुत्वा वक्रतुण्डस्तमब्रवीत् । अचला पदि मे भक्तिरद्य ते सम्भविष्यति ॥ ५७॥ स्वस्वधर्मरतान् जन्तूंस्तान् रक्षस्व च मत्सर । मदीयान् प्रवरान् भक्तांस्तान पालय च यत्नतः ॥ ५८॥ मदीयमूर्तिपूजा च यत्रादौ स्मरणं भवेत् । सर्वारम्भेषु तत्र त्वं मा विघ्नं कुरु दैत्यप ॥ ५९॥ अन्यत्र सर्वभावेषु कर्मज्ञानादिकर्तृषु । आसुरेणैव वर्तस्व फलं ग्राह्यं त्वयाऽसुर ॥ ६०॥ तेषां हृदि समाविश्य कुरु राज्यं महामते । मद्भक्त्यादिषु भावेषु दासवत्त्वं सदा भव ॥ ६१॥ एवमुक्तो महादैत्यस्तथेति तमुवाच ह । प्रणिपत्य गणेशानं हर्षयुक्तेन चेतसा ॥ ६२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डविजयो नामाष्टत्रिंशोऽध्यायः ॥ १.३८ (Page खं. १ अ. ३९ पान ८८)

१.३९ वक्रतुण्डान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मत्सरं शान्तिमापन्नं दृष्ट्वा देवर्षयस्तदा । प्रहृष्टमनसो जातास्तुष्टुवुस्तं गजाननम् ॥ १॥ देवर्षय ऊचुः । सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् । अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥ २॥ अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् । जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ३॥ अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् । अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ४॥ धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् । अहङ्कारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुण्डं भजामः ॥ ५॥ रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेन्द्रप्रकाशम् । दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः ॥ ६॥ उपस्थत्वगुक्तीक्षणस्थप्रकाशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वम् । गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुण्डं भजामः ॥ ७॥ रजोरूपसृष्टिप्रकाशे विधिं तं सदा पालने केशवं सत्त्वसंस्थम् । तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः ॥ ८॥ दिशाधीशरूपं सदाशास्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् । अनन्तोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ९॥ महत्तत्वरूपं प्रधानस्वरूपमहङ्कारधारं त्रयीबोधकारम् । अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः ॥ १०॥ सदा कर्मधारं फलैः स्वर्गदं तमकर्मप्रकाशेन मुक्तिप्रदं तम् । विकर्मादिना यातनाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ११॥ अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् । नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः ॥ १२॥ लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् । प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १३॥ खगेशस्वरूपं वृषादिप्रसंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् । धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १४॥ सुवर्णादिधातुस्थसद्रङ्गसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् । जले जन्तुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुण्डं भजामः ॥ १५॥ सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः । सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः ॥ १६॥ वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् । चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः ॥ १७॥ गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यम् । महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः ॥ १८॥ अनन्तावतारैः सदा पालयन्तं स्वधर्मादिसंस्थं जनं कारयन्तम् । सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं भजामः ॥ १९॥ (Page खं. १ अ. ३९ पान ८९) त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्तेन विश्वम् । अखण्डप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः ॥ २०॥ न विन्दन्ति यं वेदवेदज्ञमर्त्या न विन्दन्ति यं शास्त्रशास्त्रज्ञभूपाः । न विन्दन्ति यं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः ॥ २१॥ न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च । तथाऽपि स्वबुध्या स्तुतं वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः ॥ २२॥ मुद्गल उवाच । एवं स्तुत्वा वक्रतुण्डं स्थिता देवषर्यः प्रभो । बद्धाञ्जलिपुटाः सर्वे तूष्णीम्भावेन मानद ॥ २३॥ देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः । उवाच तान् प्रसन्नात्मा हषर्यन् वचनं महत् ॥ २४॥ वक्रतुण्ड उवाच । श‍ृणुध्वं मुनयः सर्वे देवा मे वचनं महत् । भवत्कृतमिदं स्तोत्रं मत्प्रीतेर्वधनं भवेत् ॥ २५॥ अनन स्तौति यो नित्यं मां तस्य परिपूरये । भोगान्नानाविधांश्चैव पुत्रपौत्रादिसम्पदः ॥ २६॥ यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः । भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ २७॥ नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् । सुरेन्द्रैर्वन्द्यतां याति यो मां स्तौति त्वनेन सः ॥ २८॥ सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् । मोचयेन्नात्र सन्देहो मत्प्रियः सर्वदा भवेत् ॥ २९॥ अपराधशतैर्युक्तो यो वै भवति मानवः । तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ ३०॥ एकविंशतिवारं य एकविंशद्दिनानि वै । पठिष्यति सदा तस्मै चिन्तितं प्रददाम्यहम् ॥ ३१॥ एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः । कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ ३२॥ तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा । भविष्यथ महाभागा भुक्तिमुक्तिप्रदास्तथा ॥ ३३॥ वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् । तद्दास्यामि न सन्देहः स्तोत्रसन्तोषितो ह्यहम् ॥ ३४॥ मुद्गल उवाच । एवमुक्ताः सुराः सर्वे मुनयस्तं प्रणम्य च । प्रहृष्टमानसा ऊचुर्वक्रतुण्डं महाबलम् ॥ ३५॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो वक्रतुण्ड ददासि चेत् । त्वदीयामचलां भक्तिं देहि नाथ दयानिधे ॥ ३६॥ यदि प्राप्ता त्वदीया च भक्तिर्जन्तोस्तदा प्रभो । किं दुर्लभं भवेत्तस्य हस्तगाः सर्वसिद्धयः ॥ ३७॥ अतो भक्तिं महाभाग देहि नो विघ्ननायक । तया तृप्ता भविष्यामस्त्वत्पादप्रवणा वयम् ॥ ३८॥ तेषां वचनमाकर्ण्य देवदेवो गजाननः । जगाद भावगम्भीरं ज्ञाता विज्ञजनप्रियः ॥ ३९॥ वक्रतुण्ड उवाच । मदीया भक्तिरचला भविष्यति न संशयः । भवतां भावयुक्तानां भो भो देवर्षयः खलु ॥ ४०॥ अन्तर्दधे स उक्तैवं वक्रतुण्डो गणेश्वरः । पश्यतां मुनिदेवानां स्वानन्दस्थो बभूव ह ॥ ४१॥ ततो देवर्षयः सर्वे खिन्नाः स्वस्वपदं ययुः । (Page खं. १ अ. ४० पान ९०) ध्यायन्तश्च तमेवैते वक्रतुण्डं सुसिद्धिदम् ॥ ४२॥ मत्सरोऽपि ततः सर्वैर्दैत्यैः परिवृतो ययौ । स्वं पदं पालयन् शीघ्रं सुशान्तो ह्यभवत् सदा ॥ ४३॥ तं त्यक्त्वा दैत्यसङ्घास्ते ययुः स्वं स्वं गृहं मुने । एवं मत्सरमाहात्म्यं वक्रतुण्डेन कारितम् ॥ ४४॥ स एव वक्रतुण्डस्तु सृजत्यवति च प्रभुः । हरते भावहीनः सन् नाद्यमध्यान्तगः स्वयम् ॥ ४५॥ एवं नानावतारेण स्वस्वधर्मरतान् सुरान् । असुरान् मानवादींश्च कुरुते वक्रतुण्डकः ॥ ४६॥ अवतारा अनन्ताश्च वक्रतुण्डस्य भो विभो । चरित्रमखिलं तेषां कथितुं शक्यते न वै ॥ ४७॥ ब्रह्मणा षण्मुखेनाऽपि विष्णुना शङ्करेण च । शेषेण मुनिभिश्चैव वेदैः काहं च तत्र वै ॥ ४८॥ दिवोदासशमार्थाय स एवं वक्रतुण्डकः । शिवपुत्रत्वमापन्नो ढुण्ढिराजेति नामतः ॥ ४९॥ वामनस्य वरं दातुं स एव गणनायकः । प्रकटोऽभून् महातेजास्तस्याग्रे भक्तपालकः ॥ ५०॥ एवं नानावतारैश्च भक्तरक्षणलालसः । करोति भक्तसंरक्षां जानीहि त्वं प्रजापते ॥ ५१॥ ब्रह्मणा सृष्टिकार्यार्थं व्याकुलेन स न स्मृतः । वक्रतुण्डस्ततो दैत्यो मत्सरः प्रविवेश तम् ॥ ५२॥ तेनासुरस्वभावेन पीडितो विधिरद्भुतम् । विघ्नयुक्तोऽभवत्तत्र सृष्टिं कर्तुं न स क्षमः ॥ ५३॥ पुरातनं वचः स्मृत्वा पुनस्तं शरणं ययौ । विधिर्विघ्नविहीनः स ससर्ज सकलं जगत् ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः ॥ १.३९

१.४० ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया श्रावितं महत् । चरित्रं वक्रतुण्डस्य ब्रह्मभूयकरं महत् ॥ १॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृततो यथा । इच्छामि तत्पुनः श्रोतुं पूजितो विधिना कथम् ॥ २॥ विस्तरेण च मे ब्रूहि कथां पापापनोदिनीम् । श्रोतुः प्रष्टुश्च वक्तुश्च त्रयाणां सर्वसिद्धिदाम् ॥ ३॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह । उत्फुल्लनयनो हर्षाद्गाणेशेन्द्रः स शौनक ॥ ४॥ मुद्गल उवाच । श‍ृणु दक्ष महाभाग धन्योऽसि न च संशयः । येन ते गणराजस्य कथायां प्रीतिरद्भुता ॥ ५॥ अल्पपुण्यवतो ढुण्ढिकथाया अवधारणे । श्रवणे च तथा प्रीतिर्जायते न कदाचन ॥ ६॥ अतस्तेहं प्रवक्ष्यामि त्वदादरसुतोषितः । सङ्क्षेपेण कथां दिव्यां गणेशस्य महात्मनः ॥ ७॥ प्रलयादौ गणेशेन सृष्टाः पञ्च सुराधिपाः । तेषां तपःप्रभावेण प्रसन्नो वरदोऽभवत् ॥ ८॥ वरस्यैव प्रभावेण समर्थास्ते बभूविरे । (Page खं. १ अ. ४० पान ९१) स्वस्वकार्ये प्रवृत्ताश्च सावधानेन चेतसा ॥ ९॥ सृष्टिप्रकरणे ब्रह्मा प्रवृत्तो जगतोऽभवत् । न सस्मार गणेशानं विस्मृत्यादौ तदर्चनम् ॥ १०॥ तेन भ्रान्तोऽभवत् सद्यो मानसे गर्वमादधे । त्रिलोके नैव मत्तुल्यः स्रष्टाऽहं नात्र संशयः ॥ ११॥ सृजामि सकलं विश्वं तदा विष्णुश्च पाति वै । रुद्रः संहरते तच्च शक्तिर्मोहं करोति च ॥ १२॥ सूर्यः कर्मप्रकाशं च करोति जगति प्रभुः । न सृष्टं चेन् मया विश्वं देवत्वं तु निरर्थकम् ॥ १३॥ ममाज्ञादौ गणेशेन कृता सृष्टौ विशेषतः । मदीयां पात्रतां दृष्ट्वा तस्मान्नान्योऽस्ति मत्समः ॥ १४॥ इति गर्वेण मनसि मोहितोऽभूत् पितामहः । ततो विघ्नगणास्तत्र प्रबभूवुरनेकशः ॥ १५॥ सृष्टिं विरचयन्तं तं ब्रह्माणं प्राप्य दारुणः । नानारूपा महावीर्यास्ताडयामासुरोजसा ॥ १६॥ त्रिनेत्राः पञ्चनेत्राश्च पृष्ठनेत्रा महाबलाः । दशतुण्डा सहस्रं च मुखानि दधतः परे ॥ १७॥ एवं नानास्वरूपास्ते विधिं धृत्वा प्ररेमिरे । बालक्रीडनकं कृत्वा दुःखयुक्तं महाबलाः ॥ १८॥ एवं स परवान् ब्रह्मा गर्वं सर्वं प्रमुच्य वै । जगाम शरणं देवं गणेशं विघ्ननायकम् ॥ १९॥ गतगर्वो हृदि स्मृत्वा तुष्टाव गणनायकम् । तेन विघ्नगणाः सर्वेंऽतर्धानं तत्र चक्रिरे ॥ २०॥ मुक्तो विघ्नैस्तदा ब्रह्मा तताप परमं तपः । षडक्षरेण मन्त्रेण वक्रतुण्डमतोषयत् ॥ २१॥ वायुभक्षोऽभवद्ब्रह्मा पादाङ्गुष्ठाग्रसंस्थितः । चकार तेजसा वृत्तिं गणेशे निश्चलां ततः ॥ २२॥ एवं दिव्यसहस्रं स तपस्तेपे सुदारुणम् । ततो भूतानि सर्वानि व्याकुलाणि तदाऽभवन् ॥ २३॥ ततस्तस्योग्रतपसा प्रसन्नो वक्रतुण्डकः । आययौ भक्तराजं तं भक्तिभावेन तोषितः ॥ २४॥ तेजोरूपी महाकायो वक्रतुण्डश्चतुर्भुजः । सिंहारूढस्त्रिनेत्रश्च पाशाङ्कुशधरो विभुः ॥ २५॥ वरदाभयहस्तश्च पृथुवक्षा महोदरः । सिद्धिबुद्धियुतश्चिन्तामणिना च विराजितः ॥ २६॥ नानालङ्कारसंयुक्तः शेषनाभिर्गजाननः । सिन्दूरारुणदेहश्च नानावस्त्रधरः प्रभुः ॥ २७॥ तं दृष्ट्वा भयभीतोऽसौ विधाता स्तौति तं परम् । गणेशं हृदि सञ्चिन्त्य नानास्तोत्रैर्विधानतः ॥ २८॥ वक्रतुण्डः स्तुवन्तं तमुवाच घननिस्वनः । वरं वृणु विधातस्त्वं दास्यामि तु न संशयः ॥ २९॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रणनाम च । उवाच सौम्यरूपेण वरं देहि गजानन ॥ ३०॥ ब्रह्मणो गिरमाकर्ण्य सौम्यतेजा गजाननः । उवाच तं महाभागं भक्तिभावेन तोषितः ॥ ३१॥ वक्रतुण्ड उवाच । स्वानन्दनगरे संस्थं सदैतादृशरूपकम् । मृत्युलोके स्थितस्त्वं च कथं द्रक्ष्यसि मानद ॥ ३२॥ तपसा भक्तिभावेन तोषितोऽहं त्वया विधे । तेन सौम्यस्वरूपेण त्वदग्रे संस्थितोऽभवम् ॥ ३३॥ त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं वाञ्छितान् परान् । (Page खं. १ अ. ४१ पान ९२) मयि प्रसन्नतां याते दुर्लभं न भविष्यति ॥ ३४॥ गणेशवचनं श्रुत्वा ब्रह्मा तं प्रणनाम च । बद्धाञ्जलिपुटो भूत्वा स्तोतुं तमुपचक्रमे ॥ ३५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः ॥ १.४०

१.४१ दम्भासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमस्ते वक्रतुण्डाय गणेशाय महात्मने । अनन्तानन्तपाराय विघ्नेशाय नमो नमः ॥ १॥ नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते । अभक्तकामनाशाय सर्वदात्रे नमो नमः ॥ २॥ निर्गुणाय निरूपाय निर्मलाय गुणात्मने । अनन्ताननधाराय सिंहवाहाय ते नमः ॥ ३॥ अनादिरूपकायैव नमः सर्वप्रियङ्कर । वेदान्तवेद्यदेहाय गजवक्त्राय ते नमः ॥ ४॥ अनन्तोदरसंस्थाय नानाभोगकराय ते । मायाधाराय मायाया मोहकाय नमो नमः ॥ ५॥ अमेयशक्तये तुभ्यमनाधाराय दंष्ट्रिणे । चतुर्बाहुयुतायैव स्वानन्दपतये नमः ॥ ६॥ सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च । ब्रह्मभूताय देवाय विघ्नहर्त्रे नमोऽस्तु ते ॥ ७॥ वक्रतुण्ड प्रसन्नस्त्वं मह्यं देहि तदानघ । त्वदीयामचलां भक्तिं यया बन्धो न विद्यते ॥ ८॥ त्वदाज्ञया प्रवृत्तोऽहं तत्र सामर्थ्यमद्भुतम् । सृष्टौ देहि गणाधीश विघ्नहीनं च मे सदा ॥ ९॥ अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानन । अतस्त्वं पुत्रभावेन गृहे मे तिष्ठ मायया ॥ १०॥ त्वं साक्षाद्ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि । तदाहं बन्धनान्मुक्तो भविष्यामि च राजसात् ॥ ११॥ तव माता पिता स्वामिन् बन्धयुक्तौ कृतौ यदि । तदा वेदादिकं सर्वं मिथ्याभूतं भविष्यति ॥ १२॥ नामग्रहणमात्रेण ब्रह्मभूयप्रदो भवान् । किं पुनः पुत्रभावेन त्वं चेत् स्थास्यसि मे गृहे ॥ १३॥ अन्यच्च लालनं कुर्यां सेवनं पूजनं तथा । निरन्तरं प्रपश्येयं भवेयमतुलस्ततः ॥ १४॥ ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिः स्वयम् । जगाद तं महाभागं हर्षयन् सर्वभाववित् ॥ १५॥ वक्रतुण्ड उवाच । त्वया यत् प्रार्थितं ब्रह्मन् तदस्तु सकलं किल । सृष्टिकतृर्त्वसामर्थ्यमद्भुतं ते भविष्यति ॥ १६॥ निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति । यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा ॥ १७॥ तव पुत्रो भविष्यामि तारको माययांशतः । वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः ॥ १८॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । मम प्रीतिकरं ब्रह्मन् ब्रह्मभूयप्रदं तथा ॥ १९॥ (Page खं. १ अ. ४१ पान ९३) इत्युक्त्वान्तर्दधे दक्ष वक्रतुण्डः प्रतापवान् । ब्रह्माऽपि विमना भूत्वा तत्र वै संस्थितोऽभवत् ॥ २०॥ वक्रतुण्डप्रसादेन निर्ममे सकलं जगत् । चराचरमयं सर्वं यथायोग्यं चकार ह ॥ २१॥ सृष्ट्वा त्रिभुवनं सर्वं कृतकृत्य इवाऽभवत् । स्थितः स्वसुखनिष्ठः सन् वक्रतुण्डं स संस्मरन् ॥ २२॥ एकदा वायुवेगेन कम्पितः स प्रजापतिः । तस्मात् पुरुषरूपेण दम्भश्च प्रकटोऽभवत् ॥ २३॥ तत्पुरः पुरुषश्रेष्ठश्चतुर्बाहुधरः खलः । गदाचक्रत्रिशूलास्त्रधनुर्बाणधरो बभौ ॥ २४॥ रूपेण तेजसा पूर्णो वीर्येण ह्यतुलः परः । महाकायो महाबाहुः स्थितः पर्वतसन्निभः ॥ २५॥ तं दृष्ट्वा विस्मितो ब्रह्मा पप्रच्छ च नरं ततः । कस्य त्वं कुत आयातः किं कार्यं तेऽत्र वर्तते ॥ २६॥ वद मे पृच्छते सर्वं महाबलपराक्रम । धन्योऽसि रूपलावण्ययुक्तः परमशोभनः ॥ २७॥ ब्रह्मणो वच आकर्ण्य मेघगम्भीरया गिरा । उवाच तं विधातारं स्मयमान इदं वचः ॥ २८॥ पुरुष उवाच । विधेऽहं त्वां प्रजानामि प्रभावान् मे च मानद । तवाङ्गकम्पसम्भूतं मां जानीहि प्रजापते ॥ २९॥ देहि मे नाम योग्यं त्वं पुत्रोऽहं ते च सुव्रत । स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ॥ ३०॥ वचस्तस्य समाकर्ण्य तमूचे पद्मसम्भवः । हास्यं कृत्वा महाबाहुः प्रीणयन् वाक्यमादरात् ॥ ३१॥ ब्रह्मोवाच । किं मां जानासि पुत्र त्वं दम्भेन प्रब्रवीषि रे । अतस्त्वं दम्भनामा वै भविष्यसि महाखलः ॥ ३२॥ यत्र तत्र गतिस्ते वै भविष्यति महासुर । भोगान्नानाविधान् भुङ्क्ष्व यथारुचि यथासुखम् ॥ ३३॥ एवमुक्तो महाबाहुस्तं जगाम प्रणम्य सः । प्रदक्षिणीकृत्य विधिं क्षितिमण्डलमादरात् ॥ ३४॥ तत्रागत्य विचारं स कृतवान् मानसे खलः । ब्रह्मणाऽसत्कृतोऽहं वै तस्य गर्वं हराम्यहम् ॥ ३५॥ विचार्य सहसा दम्भो जगाम शरणं कविम् । तेनोपदिष्टमन्त्रेण ब्रह्माणं समतोषयत् ॥ ३६॥ एकपादेन तिष्ठन् सन्निराहारपरायणः । तताप तप उग्रं वै वर्षाणामयुतं गतम् ॥ ३७॥ तस्यैव तपसा सर्वं व्याकुलं सचराचरम् । न स्थातुमशकत् स्थाने भयभीतं बभूव ह ॥ ३८॥ तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा देवगणैः सह । आययौ तं वरं दातुं तपसा तोषितः प्रभुः ॥ ३९॥ काष्ठवत्तं स्थितं वीक्ष्य विस्मितः कमलासनः । जगाद तं महाभागं हर्षयन्निव भाषया ॥ ४०॥ ब्रह्मोवाच । वरं वृणु महाभाग यं यं मनसि संस्थितम् । ईप्सितं पूरयिष्यामि नात्र कार्या विचारणा ॥ ४१॥ ब्रह्मणो वचनं श्रुत्वा दम्भः परमहर्षितः । तं प्रणम्य प्रतुष्टाव बद्धाञ्जलिपुटो बली ॥ ४२॥ दम्भ उवाच । नमस्ते सृष्टिकर्त्रे वै सृष्टिपात्रे प्रजापते । सृष्टिहर्त्रे त्रिरूपाय ब्रह्मविष्णुशिवात्मने ॥ ४३॥ त्वया ततमिदं सर्वं त्वदाधारं महाप्रभो । (Page खं. १ अ. ४२ पान ९४) त्वयि सुप्ते जगन्नष्टं भविष्यति न संशयः ॥ ४४॥ चराचमयो भूत्वा क्रीडसि त्वं पितामह । एकानेकप्रभेदेन त्वं स्थितोऽसि जगत्प्रभो ॥ ४५॥ अणुभ्योऽणुतरस्त्वं च महद्भ्यश्च महान् किल । कस्त्वां स्तोतुं समर्थः स्याद् ब्रह्माकारेण संस्थितम् ॥ ४६॥ महद्भाग्यं विभो मेऽद्य येन ते दर्शनं परम् । प्राप्तं सकलपापघ्नमग्रे शुभकरं तथा ॥ ४७॥ यदि प्रसन्नतां यातो यदि देयो वरो महान् । तदा मे वाञ्छितं सर्वं पूरयस्व प्रजापते ॥ ४८॥ राज्यं त्रैलोक्यस्य तथा मह्यं देहि पितामह । पञ्चभूतात्मकेभ्यश्च मृत्युर्न च कदा भवेत् ॥ ४९॥ सङ्ग्रामे मत्समः कश्चिन्नान्यः स्यान् मां कुरु प्रभो । अखण्डैश्वर्यसंयुक्तमारोग्यादिसमन्वितम् ॥ ५०॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रत्युवाच ह । तपसा तोषितस्तस्मै दातुमुत्सुकतां गतः ॥ ५१॥ ब्रह्मोवाच । त्वया यत्प्रार्थितं दम्भ तत्सर्वं प्रभविष्यति । अन्यद्यच्चिन्तितं तत्ते सिद्धरूपं भविष्यति ॥ ५२॥ इत्युक्त्वान्तर्दधे ब्रह्मा दम्भः संहर्षितोऽभवत् । स्वगृहं प्रजगामासौ महाबलपराक्रमः ॥ ५३॥ नगरं शोभनं नाम कारयामास दर्पितः । पृथिव्यां सर्वशोभाढ्यं वासं तत्र चकार ह ॥ ५४॥ ततो दैत्यगणाः सर्वे शुक्रेन प्रेरिता मुने । आययुस्तत्र दम्भस्य नगरे हर्षिता भृशम् ॥ ५५॥ शुक्रः समागतस्तत्र मुनिभिर्ब्रह्मवादिभिः । दैत्यराज्यं स दम्भायाऽभवद्दातुं स उद्यतः ॥ ५६॥ शुभे लग्ने मुहूर्ते च सोऽभिषेकमकारयत् । ब्राह्मणैर्दैत्यराजानां राजा दम्भो बभूव ह ॥ ५७॥ महोत्सवं हर्षितास्ते चक्रुः सर्वे समागताः । हृष्टपुष्टजनाकीर्णं नगरं शुशुभे भृशम् ॥ ५८॥ सर्वे स्वस्वगृहे जग्मुस्ततो हर्षसमन्विताः । मुख्याश्च संस्थितास्तत्र देत्याः परमदारुणाः ॥ ५९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः ॥ १.४१

१.४२ दम्भासुरविजयो नाम द्विचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नगरे दम्भदैत्यस्य महोत्सवयुता बभुः । जनाः सर्वे महाभागाः कञ्चित्कालं प्रजापते ॥ १॥ एकदा दैत्यपाः सर्वे ययुस्तत्र महाबलम् । सुहुण्डश्च तथा हुण्डो रुक्मकेतुर्महाबलः ॥ २॥ मद्यपश्च सकोपश्च तथा क्रोधासुरो महान् । कामासुरो बलाढयश्च रासभासुर एव च ॥ ३॥ इत्याद्या बहवश्चान्ये दम्भं शोभासमन्वितम् । प्रणम्योचुर्महात्मान उत्सुका देवनाशने ॥ ४॥ दैत्येशा ऊचुः । किं स्थितोऽसि महाराज वयं दासाः समागताः । त्रिभुवनं प्रजेष्यामो देवमर्दनलालसाः ॥ ५॥ (Page खं. १ अ. ४२ पान ९५) तवाज्ञावशगाः सर्वे दैत्यदानवराक्षसाः । ब्रह्माण्डे न भवेत्तुल्यस्तव दम्भ बलेन वा ॥ ६॥ यशसा तेजसा चैव न समस्ते सुराधिप । आज्ञापय महाबाहो जेष्यामः सकलं जगत् ॥ ७॥ दैत्येशानां वचः श्रुत्वा दम्भदैत्यः प्रहर्षितः । उवाच तान् महाभागान् भावयुक्तेन चेतसा ॥ ८॥ दम्भासुर उवाच । सम्यगुक्तं महाभागा ममापि हृदये स्थितम् । भवद्भिः सहितोऽहं वै जेष्यामि सचराचरम् ॥ ९॥ एवमुक्त्वा स दैत्येशः शुक्रं तत्रानयन्मुने । मतं तस्य समादाय निर्जगाम ततः पुरात् ॥ १०॥ अपारसेनया सार्धं चतुरङ्गसुयुक्तया । सर्वे पृथिव्यां राजानो जिता दैत्यैर्महाबलैः ॥ ११॥ पातालेषु च सर्वान् वै नागान् जित्वा दिवं ययुः । तत्रेन्द्रो देवदेवेन्द्रैर्युयुधे सोऽसुरैः सह ॥ १२॥ तेन दैत्यगणाः सर्वे भयभीताः समन्ततः । वज्रपातैर्महाघोरैश्चूर्णिता ज्वालितास्तथा ॥ १३॥ असुरा रणभूमिं च त्यक्त्वा सर्वे पलायिताः । ततो दम्भासुरस्तत्र युयुधे बलगर्वितः ॥ १४॥ चक्रपातेन देवेन्द्रं मूर्च्छितं च चकार ह । देवान् बाणार्दितान् सर्वान् कारयामास दैत्यपः ॥ १५॥ लब्ध्वा संज्ञां सुरेन्द्रो वै पलायत जिजीविषुः । ततो देवगणास्तं चान्वगुः सर्वे भयातुराः ॥ १६॥ दैत्य ऐरावतारूढो देवेन्द्रस्यासने स्थितः । अमराणां पुरीं गत्वा हर्षितो हर्षयन् स्वकान् ॥ १७॥ इन्द्रो देवगणैः सर्वैर्ब्रह्माणं शरणं ययौ । ब्रह्मणा सह विष्णुं च तेन सार्द्धं शिवं ययौ ॥ १८॥ शिवः क्रोधसमायुक्त आययौ रणमूर्धनि । जुहाव दैत्यराजं तं सङ्ग्रामाय महाबलम् ॥ १९॥ ततो दैत्येशसंयुक्तो दम्भदैत्यः समाययौ । क्रोधसंरक्तचक्षुस्तं सन्नद्धो बलसंयुतः ॥ २०॥ ततः समभवद्युद्धं दारुणं रोमहर्षणम् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥ २१॥ चत्वारिंशद्दिनान्यत्र तुमुलं नीतिसंयुतम् । शोणितौघा महानद्यो जाताः प्रेतसमाकुलाः ॥ २२॥ ततो दम्भः स्वयं क्रुद्धो बाणैर्देवानमर्दयत् । चकार देवराजांस्तान् मूर्च्छितान् धरणिं गतान् ॥ २३॥ ततः शम्भुस्त्रिशूलेन तं जघान महाबलम् । पपात मूर्च्छया दैत्यः क्षणादुत्थितवान् पुनः ॥ २४॥ तत्याज बलवांश्चकं पातयामास शङ्करम् । मूर्च्छितं प्रहरार्द्धं च दम्भदैत्यः प्रतापवान् ॥ २५॥ दृष्ट्वाऽद्भुतं महावीर्यं दैत्यराजस्य शङ्करः । पलायत ससंज्ञः सन् वने वै देवसंयुतः ॥ २६॥ देवेन्द्रान् गच्छतो दृष्ट्वा जहसुर्दैत्यनायकाः । आनन्देन समायुक्ता विविशुस्त्वमरावतीम् ॥ २७॥ ततः स सत्यलोके च वैकुण्ठे दैत्यनायकान् । कैलासे चामरावत्यां स्थापयामास यत्नतः ॥ २८॥ नानादेवपुरे रम्ये स्थापयामास दानवान् । आययौ शोभनायां स स्वपुर्यां बलसंयुतः ॥ २९॥ चकार राज्यमुन्मत्तस्त्रैलोकस्य महाबलः । ततः कर्मविनाशार्थमाज्ञापयत दैत्यपान् ॥ ३०॥ (Page खं. १ अ. ४३ पान ९६) तदाज्ञया ययुः सर्वे दैत्याः परमदारुणाः । ब्राह्मणादीन् बबन्धुस्ते ताडयामासुरोजसा ॥ ३१॥ यज्ञवाटान् बभञ्जुस्ते यज्ञवृक्षादिकान् खलाः । तीर्थानि लोपयामासुर्देवतायतनानि च ॥ ३२॥ एवं नानाविधैर्यत्नैः कर्मलोपं प्रचक्रिरे । केचिद्भ्रष्टा द्विजास्तत्र मृताः केचित्तदाऽभवन् ॥ ३३॥ केचिद्वनं ययुस्तत्र सिंहव्याघ्रादिसङ्कुलम् । सन्ध्यादिभिर्विहीनास्ते द्विजास्तत्राऽभवन् किल ॥ ३४॥ न स्वाहा न स्वधा तत्र न वषट्कार एव च । न वर्णाश्रमधर्मश्च दम्भे राज्यं प्रकुर्वति ॥ ३५॥ वर्णसङ्कररूपा वै प्रजा जाता महीतले । तदा देवगणाः सर्वे भयभीता बभूविरे ॥ ३६॥ कर्मभोगकरा देवा नष्टे कर्मणि शौनक । मृतप्राया मृताः सर्व इव ब्रह्माणमब्रुवन् ॥ ३७॥ देवा ऊचुः । शरणं त्वदृते देव कं याम कमलासन । त्वं धाता त्वं विधाता च सर्वेषां प्राणधारकः ॥ ३८॥ त्वं गतिः सर्वदेवानां त्वमेव ब्रह्मभावितः । अतोऽस्मान् रक्ष देवेश दम्भासुरभयात् परात् ॥ ३९॥ कर्महीनं कृतं तेन त्रैलोक्यं सचराचरम् । देवाः कर्मान्नभोक्तारो महाबुद्धे कृतास्त्वया ॥ ४०॥ कर्माभावेन जगति मरिष्यामो न संशयः । अतस्त्वं सर्वदेवांश्च रक्षस्व प्रपितामह ॥ ४१॥ त्वयैव चाभयं दत्तं पालिताश्च त्वया वयम् । अधुना क्षुधयाऽऽविष्टा मरिष्यामस्त्वदग्रतः ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथम खण्डे वक्रतुण्डचरिते दम्भासुरविजयो नाम द्विचत्वारिंशोऽध्यायः ॥ १.४२

१.४३ दम्भासुरदूतसंवादो नाम त्रिचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवेन्द्राणां वचः क्रूरं श्रुत्वा चिन्तातुरोऽभवत् । चर्तुमुखो विचारं स चकाराऽत्र तु शोभनम् ॥ १॥ नावाप देवरक्षार्थं बुद्धिं बुद्धिविशारदः । ततश्चिन्तां दुरन्तां वै जगाम कमलासनः ॥ २॥ जगाद देवमुख्यांस्तु भयेन कमलासनः । अहं यूयं च सर्वेऽपि प्रार्थयामो गजाननम् ॥ ३॥ स वै सर्वविचारज्ञः करिष्यति शुभं महत् । अतस्तत् ध्यानकौशल्यात् ध्यायेम च विनायकम् ॥ ४॥ एकाक्षरविधानेन वक्रतुण्डं यजामहे । शरणं सर्वदेवानां भविष्यति न संशयः ॥ ५॥ मुद्गल उवाच । ब्रह्मणो गिरमाकर्ण्य देवा मुनिगणैः सह । पूजयामासुरव्यग्रा वक्रतुण्डं विधानतः ॥ ६॥ ब्रह्माऽपि ध्यानसंयुक्तस्तोषयामास विघ्नपम् । पुरा दृष्टं तथा चित्ते सिद्धिबुद्धियुतं मुने ॥ ७॥ गतेषु शतवर्षेषु ब्रह्माऽपश्यच्च तं हृदि । साकारं गुणसंयुक्तं वदन्तं मञ्जुला गिरः ॥ ८॥ दृष्ट्वा विस्मितचित्तोऽसौ यावत्पृच्छति तं प्रभुम् । (Page खं. १ अ. ४३ पान ९७) तावत् सोऽपि बहिर्यातः सिद्धिबुद्धिसमन्वितः ॥ ९॥ ब्रह्माणं बोधयामास वक्रतुण्डो महाबलः । सुप्रसन्नतरो जातस्तपसा ध्यानशालिना ॥ १०॥ वक्रतुण्ड उवाच । पश्य मां पुत्रभावेन पितामह गणाधिपम् । तव ध्यानात् समुत्पन्नं ध्यानजं प्रवदन्त्यतः ॥ ११॥ तपसा पूर्वकाले मां त्वया पुत्रत्वमादरात् । याचितं सफलं तच्च कृतं तव मयाऽधुना ॥ १२॥ वचनं वक्रतुण्डस्य श्रुत्वा ब्रह्मा मुदा युतः । बहिर्वीक्ष्य गणेशानं सिद्धिबुद्धिविराजितम् ॥ १३॥ प्रणनाम स साष्टाङ्ग वक्रतुण्डं गजाननम् । सिद्धिं बुद्धिं विधानेन पूजयामास यत्नतः ॥ १४॥ तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे समागताः । ऋषयस्तं महाभागाः प्रणेमुर्भक्तिभावतः ॥ १५॥ सुतं मानसिकं दृष्ट्वा सिद्धिं बुद्धिं तथात्मजे । ताभ्यां सह विनीतास्ते तुष्टुवुर्बद्धपाणयः ॥ १६॥ ब्रह्माऽपि पूजनं कृत्वा स्तोतुं सर्वैः समन्वितः । उद्यतोऽभून् महातेजा वक्रतुण्डं सभार्यकम् ॥ १७॥ सदेवर्षिब्रह्मोवाच । नमस्ते ब्रह्मभूताय वक्रतुण्डाय साक्षिणे । सिद्धिबुद्धियुतायैव गणेशाय नमो नमः ॥ १८॥ विघ्नेशाय नमस्तुभ्यं निर्गुणाय गुणात्मने । अनादये च सर्वज्ञ पालकाय नमोऽस्तु ते ॥ १९॥ नमस्ते सर्वरूपाय सर्वाध्यक्षाय धीमते । आदिमध्यान्तहीनाय साक्षाद्देवाय ते नमः ॥ २०॥ अमेयशक्तये तुभ्यं मायिभ्यो मोहदाय च । अमायिने च मायाया आधाराय नमो नमः ॥ २१॥ सत्याय सत्यरूपाय सत्यपालक रक्षिणे । ज्ञानाय ज्ञानदात्रे च ज्ञानगम्याय ते नमः ॥ २२॥ लम्बोदराय देवाय गणानां पतये नमः । गणेशाय गुणाधार हेरम्बाय नमो नमः ॥ २३॥ त्वां स्तोतुं न समर्थाश्च वेदाः शास्त्रसमन्विताः । योगीन्द्रा देवमुख्याश्च तत्र कोऽहं गजानन ॥ २४॥ यथाबुद्धि प्रमोदेन संस्तुतोऽसि गणेश्वर । तेन मे सफलं सर्वं जातं लम्बोदराधुना ॥ २५॥ ब्रह्माण्डानामनन्तानां कारकस्त्वं न संशयः । कथं मे पुत्रतां यातः सिद्धिबुद्धिसमन्वितः ॥ २६॥ सिद्धिबुद्धियुतं ब्रह्म हृदि ध्यातं विशेषतः । तदेव बहिरायातं तारितुं मां न संशयः ॥ २७॥ इत्युक्त्वा ब्राह्मणैः सार्धं जातकर्मादिकां क्रियाम् । चकार च स्वयं ब्रह्मा परमानन्दसंयुतः ॥ २८॥ एकादशदिने तस्य सिद्धिबुद्धिपतिस्त्विति । नाम संस्थापयामास द्विजैः सह पितामहः ॥ २९॥ बालक्रीडनभावेन क्रीडति स्म विनायकः । सावित्री स्तनपानं सा कारयामास भावतः ॥ ३०॥ दिने दिनेऽथ बालोऽसौ ववृधे शुक्लचन्द्रवत् । आनन्दं जनयन् मातुः पितुश्च चरितैः स्वकैः ॥ ३१॥ सिद्धिबुद्धियुतो दक्ष वर्षद्वयवयाः स्थितः । एकदा तं विधातारं पप्रच्छ विनयान्वितः ॥ ३२॥ सिद्धिबुद्धिपतिरुवाच । तात किं वनवासं त्वं करोषि मुनिभिः सह । देवैः परमदुःखार्तो मम किं भाससे प्रभो ॥ ३३॥ तस्य तद्वचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः । जगाद गणपं सर्वं वृत्तान्तं दैत्यसम्भवम् ॥ ३४॥ (Page खं. १ अ. ४४ पान ९८) तच्छ्रुत्वा कोपदीप्तोऽसौ वक्रतुण्डस्तमब्रवीत् । हर्षयन् देवविप्रादीन् मेघगम्भीरनिस्वनः ॥ ३५॥ वक्रतुण्ड उवाच । दम्भासुरं महावीर्यं हनिष्यामि न संशयः । देवेभ्यो ब्राह्मणेभ्यश्च स्वपदानि ददाम्यहम् ॥ ३६॥ एवमुक्त्वा समारूढः सिंहं शस्त्रधरः प्रभुः । सिद्धिबुद्धियुतस्तत्र जगामासुरवेश्मनि ॥ ३७॥ नगरप्रान्तभागे स संस्थितो जगदीश्वरः । तं देवमुनयः सर्वे ययुर्हर्षसमन्विताः ॥ ३८॥ दूतमिन्द्रं गणेशश्च प्रेषयामास सत्वरः । स्वधर्मे तिष्ठ दैत्येन्द्र नो चेद्धन्मि न संशयः ॥ ३९॥ इन्द्रो गत्वा महादैत्यं सामपूर्वमिदं वचः । उवाच सर्वभावज्ञो भावपूर्वं सुरद्विषम् ॥ ४०॥ इन्द्र उवाच । ब्रह्मणः पुत्रतां यातं पूर्णं ब्रह्म सनातनम् । सिद्धिबुद्धिपतिं विद्धि मानसं ध्यानयोगतः ॥ ४१॥ स एव मुनिभिर्देवैरागतः पुरसन्निधौ । मां दूतं प्रेषयामास सामार्थं तव सन्निधौ ॥ ४२॥ स्वधर्मे त्वं समातिष्ठ देवाः सन्तु हविर्भुजः । वर्णाश्रमयुता लोकास्तिष्ठन्तु विगतज्वराः ॥ ४३॥ इन्द्रस्य वचनं श्रुत्वा कुपितोऽतितरां मुने । दम्भासुर उवाचाऽथ तमिद्रं प्रदहन्निव ॥ ४४॥ दम्भासुर उवाच । किं करोमि समायातो दूतरूपेण मे गृहे । नो चेत्त्वां बन्धयित्वा तु कारागारे क्षिपाम्यहम् ॥ ४५॥ इन्द्र गच्छ महाभाग वद तं गणनायकम् । पञ्चमे दिवसे त्वां च योधयामि न संशयः ॥ ४६॥ तत इन्द्रः समायातः सिद्धिबुद्धिपतिं प्रति । कथयामास वृत्तान्तं विस्तरेण यथायथम् ॥ ४७॥ श्रुत्वा गणपतिः प्रीतस्तमुवाच महामतिम् । समीचीनं त्वया तत्र कृतं देवपते यथा ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरदूतसंवादो नाम त्रिचत्वारिंशोऽध्यायः ॥ १.४३

१.४४ दम्भासुरविचारो नाम चतुश्चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवेन्द्रे प्रस्थिते तत्र गणेशस्यैव सन्निधौ । दम्भासुरः कविं विप्रमाह्वयामास सन्निधौ ॥ १॥ समागतं महाबुद्धिं शुक्रं मुनिवरं प्रभो । प्रणनाम ससाष्टाङ्गं बद्धाञ्जलिपुटः स्थितः ॥ २॥ तं काव्यः स्थापयामास काञ्चनोत्तर आसने । पप्रच्छ मामाह्वयसे किमर्थमिति दानवम् ॥ ३॥ शुक्रस्य वचनं श्रुत्वा भयहर्षसमन्वितः । उवाच तं महाभागं भक्तियुक्तेन चेतसा ॥ ४॥ दम्भासुर उवाच । स्वामिन् योद्धुं समायातः सिद्धिबुद्धिपतिः प्रभुः । ब्रह्मणो मानसः पुत्रस्तपसा तेन निर्मितः ॥ ५॥ परिपृच्छामि तत्र त्वां सर्वज्ञं मुनिसत्तमम् । येन तं सर्वभावेन जानामि खलु तत्त्वतः ॥ ६॥ (Page खं. १ अ. ४४ पान ९९) का सिद्धिः का तथा बुद्धिस्तयोः कोऽसौ पतिः प्रभो । किं सामर्थ्यधरो भाति वद सर्वं च मेऽग्रतः ॥ ७॥ दम्भस्य वचनं श्रुत्वा शुक्रस्तं पुनरब्रवीत् । येन तत्त्वे प्रविज्ञाते गणेशे जायते मतिः ॥ ८॥ शुक्र उवाच । श‍ृणु दैत्येन्द्र तस्यापि महिमानं महाद्भुतम् । येन त्वं गाणपत्ये च तत्त्वे प्रनिपुणो भवेः ॥ ९॥ सिद्धिर्मोहकरी माया सर्वत्रैव प्रदृश्यते । सिध्यर्थं सर्वलोकाश्च यत्नवन्तो भवन्त्यतः ॥ १०॥ इहलोके स्वभोगार्थी सिद्धिमिच्छति दानव । परलोकस्य सिध्यर्थं जनस्तत्प्रसमाकुलः ॥ ११॥ ब्रह्मभूयपदप्राप्तिमिच्छेद्वै सिद्धिरूपिकाम् । इह ब्रह्मपरप्राप्तिस्त्रिविधा मोहसंज्ञिता ॥ १२॥ माया गणपतेः प्रोक्ता भ्रान्तिरूपा महामते । वामभागस्थया देव्या क्रीडतेऽसौ गजाननः ॥ १३॥ भ्रामयन् ब्रह्मविष्ण्वादीन् योगिनो मानवादिकान् । ब्रह्मभूतस्वरूपत्वात् स्वाधीनः सततं मतः ॥ १४॥ द्वितीया बुद्धिरूपा च माया तस्य महात्मनः । तां श‍ृणुष्व महादैत्य येन त्वं सर्वविद्भवेः ॥ १५॥ यत्किञ्चिद् दृश्यते सर्वं मनोवाणीमयं जगत् । मनोवाणीविहीनं यत् सर्वं बुद्धिमयं बभौ ॥ १६॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चित्तं पञ्चविधं प्रोक्तं बुद्धिरूपं तदेव च ॥ १७॥ पञ्चानां बहवो भेदा वक्तुं तान् नैव शक्यते । एवमेकाप्यनेकाऽसौ बुद्धिः सर्वत्र दृश्यते ॥ १८॥ मोहधारकरूपां ता सुभ्रान्तां बुद्धिमादरात् । ज्ञानरूपां हृदिस्थां तु ब्रह्माकारां प्रविद्धि हि ॥ १९॥ बुद्धियुक्तनरेणैव परत्रेह प्रलभ्यते । बुध्या ब्रह्ममयो योगो युज्यते ज्ञानिभिः परः ॥ २०॥ एतादृशी महाभागा दक्षिणाङ्गधराऽसुर । तस्य योगेश्वरस्याऽपि गणेशस्य महात्मनः ॥ २१॥ क्रीडार्थं रचिते माये स्वस्याङ्गात्तेन दैत्यप । ब्रह्मरूपं च तं विद्धि योगेन लभते नरः ॥ २२॥ स्वानन्दाख्यं परं ब्रह्म तदेव नगरं मतम् । तत्र नित्यं वसति यः सिद्धिबुद्धिसमन्वितः ॥ २३॥ ब्रह्मणाराधितं ब्रह्म पुत्रभावार्थमादरात् । तदेव गणराजोऽयमागतो ब्रह्मणः सुतः ॥ २४॥ मातुः पितुश्च बन्धं च पुत्रौ हरति यत्त्विति । तदर्थं पुत्रभावेन ब्रह्मणा प्रार्थितो विभुः ॥ २५॥ धर्मसंरक्षणार्थाय त्वां हनिष्यति निश्चितम् । अतस्त्वं शरणं गच्छ प्रभुमिच्छसि जीवितुम् ॥ २६॥ मुद्गल उवाच । काव्यस्य मुनिमुख्यस्य वचनं ब्रह्मदायकम् । वेदान्तसारसम्भूतं श्रुत्वा दम्भ उवाच ह ॥ २७॥ दम्भ उवाच । स्वामिन् श्रुतं मया वाक्यं त्वदीयं योगसंयुतम् । परं तु संशयं छिन्धि हृदिस्थं कथयामि ते ॥ २८॥ एतादृशं परं ब्रह्म गाणेशं चेन् महामुने । धर्माधर्मावतस्तस्मात् सम्भूतौ नात्र संशयः ॥ २९॥ योगरूपेण सर्वत्र गणेशस्तिष्ठति प्रभो । धर्मस्य रक्षणं सोऽपि किं करोति विकारतः ॥ ३०॥ अधर्मस्य तथा नाशं किमर्थं प्रकरोति सः । एतं संशयजातं मे छेत्तुमर्हसि साम्प्रतम् ॥ ३१॥ (Page खं. १ अ. ४५ पान १००) काव्य उवाच । श‍ृणु दम्भ गणेशस्य चेष्टितं सर्वदं परम् । येन ते संशयः सर्वो नाशं यास्यति तत्क्षणात् ॥ ३२॥ इदं सृष्टं गणेशेन नानाभेदमयं जगत् । तत्र स्वस्वपदे चैव स्थापिता जन्तवोऽभवन् ॥ ३३॥ अधर्मस्य च धर्मस्य व्यवस्था तेन सा कृता । तत्र लोभन वै धर्ममधर्मो जयते यदा ॥ ३४॥ सुराणां वै तदा तेजः क्षीणं भवति सर्वतः । असुराणां महत्तेजो वर्धते च दिने दिने ॥ ३५॥ यदाऽयं गणराजस्तु देवानां पक्षवर्धनः । असुराणां विनाशाय स्वयं भवति चोद्यतः ॥ ३६॥ हत्वा देवगणैः सर्वैरसुराणां बलं महत् । स्वस्थाने स्थापयत्येव धर्मं सर्वप्रयत्नतः ॥ ३७॥ धर्मेण सकलं दैत्य ह्यधर्मस्य बलं हतम् । तदा दैत्यादिकानां तु मूलच्छेदो भविष्यति ॥ ३८॥ देवानामुदितं तेजो भवेद्यदि महाद्भुतम् । दैत्याय वरदस्तर्हि भवेच्चानेकरूपवान् ॥ ३९॥ असुरैर्वरसंयुक्तैर्धर्मे क्षीणे समन्ततः । अधर्मस्य स संस्थां वै यथापूर्वमकल्पयत् ॥ ४०॥ एवं लोभसमायुक्ताः सुरा दैत्या भवन्ति चेत् । तदा तेषां विनाशाय गणेशो यततेऽसुर ॥ ४१॥ नास्ति तस्य विचारेण स्वः परः क्वचिदेव च । क्रीडार्थं स्वात्मभावेषु स्थापयत्येव वै जनान् ॥ ४२॥ मुद्गल उवाच । शुक्रस्य वचनं रम्यं श्रुत्वा दम्भः प्रतापवान् । गणेशं मनसा ध्यायन् संस्थितो नगरे स्वके ॥ ४३॥ एकान्तेऽसौ महातेजा विचारं प्रचकार ह । अयं गणेशनामा वै पूर्णं ब्रह्म सनातनम् ॥ ४४॥ तमेव शरणं गच्छन् यशस्वी स भविष्यति । सर्वेषु समरूपेण स्थितोऽयं नात्र संशयः ॥ ४५॥ त्यक्त्वा सिद्धिपतिं सिद्धिमिच्छेद्यो दुर्मतिः परम् । असिद्धिर्भविता तस्य सुहृद्भिर्नात्र संशयः ॥ ४६॥ बुद्धेः पतिं गणेशं यस्त्यक्त्वा कुशलमिच्छति । तस्याऽकुशलमवं च भविता दुष्टभावतः ॥ ४७॥ सिद्धिबुद्धिविहीनं तु ना किञ्चिद् दृश्यते मया । अतस्तं शरणं यामि सुरासुरसमं विभुम् ॥ ४८॥ इति निश्चितसङ्कल्पो दम्भः सुष्वाप निर्भयः । गणेशं हृदि विन्यस्य भक्तिभावेन भावितम् ॥ ४९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरविचारो नाम चतुश्चत्वारिंशोऽध्यायः ॥ १.४४

१.४५ दम्भासुरशान्तिकथनं नाम पञ्चचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । श‍ृणु दक्ष महाप्राज्ञ महद् दम्भस्य कौशलम् । त्यक्त्वाऽऽसुरस्वभावं स संस्थितो विगतज्वरः ॥ १॥ प्रातरुत्थाय दैत्यान् स सर्वानाकारयत् स्वयम् । उवाच तान् महातेजा वचनं शुक्रसन्निधौ ॥ २॥ दम्भासुर उवाच । श‍ृणुध्वमसुराः सर्वे गुरुणाऽहं प्रबोधितः । शरणं वक्रतुण्डं च यामि तत्र न संशयः ॥ ३॥ सुराणामधिपो नाऽयं नायं दैत्याधिपः कदा । (Page खं. १ अ. ४५ पान १०१) ब्रह्माकारेण सर्वत्र सिद्धिबुद्धिपतिः स्थितः ॥ ४॥ तस्य तद्वचनं श्रुत्वा कुपिता दानवास्तदा । ययुः स्वं स्वं गृहं सर्वे त्यक्त्वा दम्भासुरं खलाः ॥ ५॥ दम्भासुरः प्रसन्नात्मा काव्येन सहितः स्वयम् । शरणं गणनाथं च ययौ हर्षसमन्वितः ॥ ६॥ नगराद्बहिरागत्य ययौ देवस्य सन्निधिम् । दण्डवत्पतितः पृथ्व्यां कृताञ्जलिरुपस्थितः ॥ ७॥ तुष्टाव तं गणाध्यक्षं तद्दर्शनमहोत्सवः । यथान्यायं पूजयित्वा निबद्धकरसम्पुटः ॥ ८॥ दम्भासुर उवाच । नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे । ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥ ९॥ नमस्ते त्रिदशेशाय दैत्यदानवपाय च । सर्वत्र योगरूपाय भावहीनाय ते नमः ॥ १०॥ सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च । गणानां पतये तुभ्यं हेरम्बाय नमो नमः ॥ ११॥ एकदन्ताय देवाय ह्यनन्तविभवाय ते । विघ्नेशाय महाविघ्ननाशनाय नमो नमः ॥ १२॥ अपारगुणधाराय दैत्यदानवमर्दिने । मनोवाणीमयायैव सर्वरूपाय ते नमः ॥ १३॥ मनोवाणीविहीनाय योगिभ्यो योगदायिने । योगाय योगनाथाय विश्वपाय नमो नमः ॥ १४॥ मायाधाराय मायायाश्चालकाय नमो नमः । मायाहीनाय सर्वत्र समभावधराय ते ॥ १५॥ अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च । निर्मोहाय समोहाय लम्बोदर नमो नमः ॥ १६॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गा महर्षयः । योगीन्द्रा ब्रह्मविष्ण्वाद्यास्तं किं स्तौमि परात् परम् ॥ १७॥ इत्युक्त्वा पतितः पृथ्व्यां दम्भो भक्तिसमन्वितः । तमुत्थाप्य गणाधीश ऊचिवान् भक्तिभावितः ॥ १८॥ गणेश उवाच । त्वया दम्भ कृतं स्तोत्रं मम सन्तोषवर्धनम् । यः पठेत् पाठयेत्तद्वा स सर्वं सुखमाप्नुयात् ॥ १९॥ पुत्रपौत्रकलत्रादि धनधान्यप्रदं भवेत् । आधिव्याधिहरं चैव सर्वोपद्रवनाशनम् ॥ २०॥ एककालं द्विकालं वा त्रिकालं सततं तथा । यः पठेत् स नरोऽत्यन्तं मम प्रीतिकरो भवेत् ॥ २१॥ त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः । अधुना शरणं यातस्ततो हन्मि न निश्चितम् ॥ २२॥ वरं वरय मत्तस्त्वं यत्त्वच्चित्ते स्थितं परम् । स्तोत्रेण भक्तिभावेन सन्तुष्टोऽहं ददामि ते ॥ २३॥ गणेशवचनं श्रुत्वा दम्भो हर्षसमन्वितः । उवाच गणपं तत्र भक्तिनम्रात्मकन्धरः ॥ २४॥ दम्भासुर उवाच । यदि देवेश तुष्टोऽसि यदि देयो वरो हि मे । अचलां देहि ते भक्तिं तदा नाथ नमोऽस्तु ते ॥ २५॥ आज्ञां त्वं ज्ञापय विभो वृत्यर्थं मे च साम्प्रतम् । स्थानं देहि गणाध्यक्ष तत्र स्थास्यामि निश्चलः ॥ २६॥ दम्भस्य वचनं श्रुत्वा गणेशस्तमुवाच ह । सुप्रसन्नतया दक्ष भक्तं गम्भीरनिस्वनः ॥ २७॥ सिद्धिबुद्धिपतिरुवाच । भविता मयि भक्तिस्ते दृढा ह्यव्यभिचारिणी । तिष्ठ स्थाने स्वके त्वं वै दम्भ हर्षसमन्वितः ॥ २८॥ न त्वं न्यूनोऽसि मे क्वापि देवा नैवाधिका मताः । स्वस्वधर्मे स्थिताः सर्वे मम प्रीतिविवर्धनाः ॥ २९॥ स्वधर्मत्यागदोषेण क्रुद्धोऽहं नाशयामि तान् । अतस्त्वं निर्भयो भूत्वा चिरं तिष्ठ महासुर ॥ ३०॥ यत्र मे स्मरणं नास्ति कार्यादौ दैत्यसत्तम । तत्र त्वं दम्भभावेन कार्यनाशं सदा कुरु ॥ ३१॥ कर्मादौ पूजनं यत्र मम नास्ति यदासुर । तदा तद्भ्रंशभावेन निष्फलं कुरु सर्वदा ॥ ३२॥ मम भक्तिसमायुक्ता ये नराः सततं प्रियाः । तान् पालय प्रयत्नेन दम्भ हीनस्वभावतः ॥ ३३॥ यत्र मे स्मरणं नास्ति पूजनं च महामते । आदौ तत्र च ते भागः कर्मरूपो मया कृतः ॥ ३४॥ एवमुक्त्वा स तं दम्भं गणेशोंऽतर्दधे स्वयम् । देवाश्च मुनयः सर्वे जयेत्युक्त्वा ययुस्ततः ॥ ३५॥ स्वस्वस्थानेषु दीप्तास्ते स्थिता भयविवर्जिताः । पातालविवरे दैत्याः स्थिता निर्व्याकुलाः प्रभो ॥ ३६॥ एवं दम्भासुरं शान्तं स चकार गजाननः । ब्रह्मपुत्रत्वमापन्नस्तदप्युक्तं मया परम् ॥ ३७॥ य एतच्छ्रुणुयान्नित्यं श्रावयेद्वा समाहितः । स दम्भभयनिर्मुक्तो याति ब्रह्म सनातनम् ॥ ३८॥ यं यं चिन्तयते कामं तं तं प्राप्नोति मानवः । सर्वसम्पत्समायुक्तस्तिष्ठेद्वै विघ्नवर्जितः ॥ ३९॥ अधुना वामनस्थापि कथयामि समासतः । चरित्रं गणनाथस्य भक्त्या युक्तं महाद्भतम् ॥ ४०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरशान्तिकथनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ १.४५

१.४६ वामनवरप्रदानं नाम षट्चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । श्रुत्वा कथां गणेशस्य हर्षश्चेतसि वर्धते । अतः कथय सर्वज्ञ चरित्रं वामनस्य यत् ॥ १॥ मुद्गल उवाच । कश्यपो मुनिशार्दूलः प्रजापतिसमोऽभवत् । अदितिस्तस्य पत्न्यासीत् ज्येष्ठा परमधार्मिका ॥ २॥ तस्यां च कश्यपाद्देवा इन्द्राद्या जज्ञिरे प्रभो । तेषां विरुद्धभावेन स्थिता दैत्या मुनेः सुताः ॥ ३॥ बलेन वरगर्वेण देवान् हन्तुं समुद्यताः । अभवन् विष्णुना ते वै नानारूपेण नाशिताः ॥ ४॥ न प्रापुः स्वर्गराज्यं ते सर्वमान्यं यदा तदा । काव्यं सकलनीतिज्ञं शरणं प्रययुः पुनः ॥ ५॥ तेषां सर्वं स वृत्तान्तं विदित्वा मुनिपुङ्गवः । दैत्यानुवाच सर्वज्ञः काव्यो वेदविदां वरः ॥ ६॥ काव्य उवाच । बलिदानवमुख्या वै श‍ृणुध्वं मे वचो हितम् । यज्ञे देवाः समुत्पन्ना यज्ञाधारास्ततः सुराः ॥ ७॥ अतोऽश्वमेधयज्ञैश्च यजध्वं शतसङ्ख्यकैः । बलिरिन्द्रो महाबाहुर्भविता नात्र संशयः ॥ ८॥ द्वेषभावं च देवानां सदा सञ्छाद्य यत्नतः । (Page खं. १ अ. ४६ पान १०३) तेन स्वर्गभुजो दैत्या यूयं सर्वत्र पूजिताः ॥ ९॥ भविष्यथ महाभागास्तस्मात् कुरुत मद्वचः । सर्वे हृष्टाश्च तं तत्र साधु साध्वब्रुवन् स्थिताः ॥ १०॥ ततस्ते बलिराजं च मुख्यं कृत्वा महाबलाः । त्वरिता अश्वमेधेषु दीक्षितं चक्रुरादरात् ॥ ११॥ बलिर्विरोचनाज्जातो विष्णुभक्तिपरायणः । अधर्मे न रुचिस्तस्य जायते हि कदाचन ॥ १२॥ आदौ त्यक्त्वा गणेशानं विष्णुं स्मृत्वा महासुरः । आद्यं तं यज्ञमारेभे विष्णुभक्ततया खलः ॥ १३॥ तस्य चेष्टितमाज्ञाय विघ्नः परमहर्षितः । उवाच सदसि ह्यादौ पूजितो न गणाधिपः ॥ १४॥ भुक्तिमुक्तिप्रदाता यः सर्वसिद्धिकरो विभुः । सिद्धिमिच्छन्ति तं त्यक्त्वा तेऽसिद्धाः प्रभवन्ति हि ॥ १५॥ विष्णोर्बलेन दैत्यस्य भवेत् सिद्धिश्च कीदृशी । भक्षयिष्यामि तत्सर्वं कर्म तेन मखे कृतम् ॥ १६॥ इत्युक्त्वा स स्वयं विघ्न आययौ क्रोधसंयुतः । प्रविश्य देवराजस्य हृदये संस्थितोऽभवत् ॥ १७॥ यज्ञाः सङ्कल्पितास्तस्य विप्रैस्तु शतसङ्ख्यकाः । आद्ये यज्ञे समारब्धे इन्द्रश्चिन्तातुरोऽभवत् ॥ १८॥ शतयज्ञप्रभावेण बलिरिन्द्रो भविष्यति । ततः स शरणं विष्णुं जगाम सुरनायकः ॥ १९॥ नत्वा स्तुत्वा महातेजाः प्रार्थयामास सादरम् । विष्णुं देववरं तत्र बलियज्ञविनाशने ॥ २०॥ एतस्मिन्नन्तरे तत्र विघ्नः कालस्वरूपधृक् । बलवान् विष्णुमाविश्य संस्थितो हृदयेऽभवत् ॥ २१॥ बलेः प्रचेष्टितं पूर्णं कथितं वज्रपाणिना । तज्ज्ञात्वा सकलं विष्णुरिन्द्रं प्रोवाच सत्वरम् ॥ २२॥ विष्णुरुवाच । अदित्या कश्यपेनापि तपस्तप्तं सुदारुणम् । शतवर्षं मदर्थं च तस्मिन् काले सुराधिप ॥ २३॥ तयोरहं प्रसन्नात्मा वरदश्च पुराऽभवम् । ताभ्यां त्वं पुत्रतां याहि याचितं सर्वभावतः ॥ २४॥ ओमित्युक्तं मया तत्र तं वरं सफलं प्रभो । अधुनाऽहं करिष्यामि बलेर्यज्ञस्य नाशने ॥ २५॥ विस्मृता विष्णुनाऽत्यन्तं बलेर्भक्तिर्महाद्भता । स बलेनिग्रहार्थं च स्वयमवोद्यतोऽभवत् ॥ २६॥ स विष्णुः कश्यपाज्जातो ह्यदित्यां वामनः प्रभुः । बलेर्बलं निरीक्ष्यैव न शशाक प्रचालितुम् ॥ २७॥ मनसि क्षुभितो विष्णुः कश्यपं पितरं तदा । पप्रच्छ बलिनाशाय वदोपायं महामुने ॥ २८॥ षडक्षरं महामन्त्रं वक्रतुण्डस्य तं ददौ । ततोऽसौ च विदर्भेषु गत्वा तपसि संस्थितः ॥ २९॥ दशवर्षं महोग्रं स तपस्तेपे सुदारुणम् । निराहारतया दक्ष गणेशं हृदि चिन्तयन् ॥ ३०॥ उग्रेण तपसा तस्य प्रत्यक्षः सिंहवाहनः । षडक्षरप्रभावेण तं ययौ भक्तवत्सलः ॥ ३१॥ चतुर्बाहुधरः पूर्णः सिद्धिबुद्धिसमन्वितः । एकदन्तो गजाकारमुखः पाशाङ्कुशादिधृक् ॥ ३२॥ सिन्दूरारुणदेहश्च शूर्पकर्णो महोदरः । कोटिसूर्यसमानेन तेजसा सुविराजितः ॥ ३३॥ तं दृष्ट्वा सहसोत्थाय वामनः प्रणनाम सः । खं १ अ ४३ पान १०४ बद्धाञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ ३४॥ वामन उवाच । नमो विघ्नपते तुभ्यं भक्तविघ्नविनाशिने । अभक्तविघ्नादात्रे च गणेशाय नमो नमः ॥ ३५॥ वक्रतुण्डाय सर्वेश पालकाय नमो नमः । नानारूपधरायैव सर्वान्तर्यामिणे नमः ॥ ३६॥ सर्वं चराचरं स्वामिंस्त्वदाज्ञा वशवर्ति च । विभूतिभिर्महाराज कुरुषे सर्वमञ्जसा ॥ ३७॥ ब्रह्मा प्रजापतीनां त्वं यज्ञानां विष्णुरेव च । ईश्वराणां स्वयं शम्भुर्देवानां त्वं पुरन्दरः ॥ ३८॥ प्रकाशानां रविस्त्वं च चन्द्रोऽन्नेषु गणाधिप । यमो यमवतां त्वं वै वरुणो यादसां प्रभो ॥ ३९॥ वायुर्बलवतां त्वं च निधीनां धनपः स्वयम् । अग्निर्वै दाहकानां त्वं रक्षसां निरृतिः स्वयम् ॥ ४०॥ नागानां शेषरूपोऽसि योगिनां शुक्र एव च । कुमाराणां त्वं च सनत्कुमारोऽसि न संशयः ॥ ४१॥ गुहः सेनापतीनां त्वं मृगाणां सिंहवेषभृत् । एवं नानास्वरूपैस्त्वं जगद्रक्षणतत्परः ॥ ४२॥ त्वां स्तोतुं कः समर्थः स्याद्योगरूपं सनातनम् । वेदाः शेषश्च वेधा च शक्ता न स्तवनेऽभवन् ॥ ४३॥ तत्र मन्दमतिः क्वाहं पारं गन्तुं तव स्तुतेः । तथापि च यथाबुद्धि संस्तुतोऽसि च विघ्नप ॥ ४४॥ तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् । धन्यं जन्म मदीयं वै येन दृष्टो गजाननः ॥ ४५॥ धन्यौ माता पिता मेऽद्य स्थलं धन्यं तपोऽपि च । षडक्षरश्च मन्त्रोऽयं धन्यो येन त्वमागतः ॥ ४६॥ एवमुक्त्वा ननर्ताऽसौ भक्तिभावपरिप्लुतः । रोमाञ्चितशरीरोऽभूदानन्दाश्रु सृजन्मुहः ॥ ४७॥ देहभावं परित्यज्य वामनो हर्षसंयुतः । तदेकनिष्ठतां प्राप्तो महाभागः प्रजापते ॥ ४८॥ तं तादृशं गणाधीशो दृष्ट्वा प्रेमपरिप्लुतम् । जगाद परमात्माऽसौ वामनं भक्तवत्सलः ॥ ४९॥ गणेश उवाच । श‍ृणु वामन मे वाक्यं वरं वृणु हृदीप्सितम् । तव भक्त्या तपोयुक्त्या स्तुत्या वै तुष्टिमागतः ॥ ५०॥ दास्यामि सकलं तुभ्यं यद्यपि स्यात् सुदुष्करम् । धन्योऽसि बालभावेऽपि भक्तिस्ते मे परापदि ॥ ५१॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । यः पठेच्छ्रावयेद्वापि तस्य सिद्धिर्भविष्यति ॥ ५२॥ यं यं चिन्तयते कामं तं तं दास्यामि दुर्लभम् । अन्ते मोक्षं महाविष्णो स्वानन्दे प्रददाम्यहम् ॥ ५३॥ इति तस्य वचः श्रुत्वा वक्रतुण्डस्य शोभनम् । वामनः प्रणतो भूत्वा तं जगाद गजाननम् ॥ ५४॥ प्रसन्नो यदि देवेश देहि भक्तिं दृढां च ते । बलिं देवरिपुं ढुण्ढे मत्साध्यं कुरु दैत्यपम् ॥ ५५॥ यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय । यथा न मां भवेद्विघ्नो वरं देहि गजानन ॥ ५६॥ तथेति तमथोक्त्वाऽसौ गणेशोंऽतर्दधे स्वयम् । (Page खं. १ अ. ४७ पान १०५) वामनस्तत्र देवेशं स्थापयामास हर्षतः ॥ ५७॥ अदोषाख्यं महाक्षेत्रं विदर्भे स्थानमुत्तमम् । वक्रतुण्डस्य सम्भूतं नराणां सर्वसिद्धिदम् ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वामनवरप्रदानं नाम षट्चत्वारिंशोऽध्यायः ॥ १.४६

१.४७ वामनचरितं नाम सप्तचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । वरं लब्ध्वा स सम्पूज्य वक्रतुण्डं च वामनः । कश्यपं प्रणतो भूत्वा ययौ यज्ञं बलेरपि ॥ १॥ तं दृष्ट्वा सूर्यसङ्काशं वेदाध्ययनसंयुतम् । ह्रस्वाकृति मुनिश्रेष्ठं विस्मिता मुनयोऽभवन् ॥ २॥ बलिरुत्थाय तं नत्वा पूजयामास भक्तितः । पप्रच्छ किं ददे तुभ्यं मां तद् ब्रूहि महामुने ॥ ३॥ ततः शुक्रेण सर्वं तज्ज्ञातं तस्य प्रयोजनम् । गणेशपूजनं चादौ न कृतं दुष्टबुद्धिना ॥ ४॥ तेन विघ्नस्वरूपं च विष्णुरूपेण संस्थितम् । अधुना यादृशं भावि तथा भवतु तादृशम् ॥ ५॥ बलेर्वचनमाकर्ण्य वामनः प्राह तं ततः । देहि त्रिपदरूपां मे भूमिं दैत्यपते किल ॥ ६॥ ददौ बलिर्महाभक्त्या तां भूमिं सादरो यथा । तथा वामनदेवोऽपि गणेशं मनसाऽस्मरत् ॥ ७॥ विराड्रूपं ततो धृत्वा पादं चिक्षेप देवपः । एकेन सकलं स्वर्गं पादेनावृत्य सत्वरः ॥ ८॥ द्वितीयेन स भूमिं वै सर्वामावृत्य वामनः । उवाच दैत्यपं देहि तृतीयस्य स्थलं प्रभो ॥ ९॥ बलिर्विस्मयमापन्नो भ्रान्तः शोकाकुलो भवत् । किञ्चिन्नोवाच तं तत्र किं ददामीति विह्वलः ॥ १०॥ ततो विष्णुः प्रकोपेन तं बबन्ध महासुरम् । विप्रस्य त्वमृणी जातो नरकं गच्छ दैत्यप ॥ ११॥ विष्णोर्वचनमाकर्ण्य बलिर्वै दुःखितोऽभवत् । नरकं विष्णुभक्ताय दत्ते वै विष्णुरद्भुतम् ॥ १२॥ अहो मोहो महान्मेऽभूद्येन वेदविवर्जितम् । कृतं कर्म विना पूज्यं गणेशं विघ्ननायकम् ॥ १३॥ तस्येदं हि फलं प्राप्तं विष्णुभक्तस्य विष्णुतः । अतस्तं शरणं यामि स रक्षिष्यति मां प्रभुः ॥ १४॥ एवं विचार्य तस्यैव मनसि ध्यानमादधे । ढुण्ढिं तुष्टाव दैत्येशः सर्वभावसमन्वितः ॥ १५॥ बलिरुवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १६॥ सर्वाकाराय देवाय गम्यागम्यस्वरूपिणे । स्वानन्दपतये तुभ्यं हेरम्बाय नमो नमः ॥ १७॥ नमो ब्रह्मपते तुभ्यं गणाध्यक्षाय ते नमः । सिद्धिबुद्धिपते तुभ्यं नमो विश्वम्भराय ते ॥ १८॥ अपाराय नमस्तुभ्यं नानामायाश्रयाय च । (Page खं. १ अ. ४७ पान १०६) मायामोहहरायैव गणेशाय नमो नमः ॥ १९॥ सर्वान्तर्यामिणे तुभ्यं चिन्तामणिसुरूपिणे । सततं ब्रह्मभूताय नमस्ते जगदादये ॥ २०॥ अन्ते मध्ये च सर्वत्र संस्थिताय नमो नमः । आदिमध्यान्तहीनाय सिंहवाहाय ते नमः ॥ २१॥ अपराधानसङ्ख्यातान् मदीयान् जगदीश्वर । क्षन्त्वा पाहि गणाधीश पतन्तं नरके च माम् ॥ २२॥ त्वन्मायामोहयोगेन मोहितोऽहं न संशयः । तेन मत्सरभावेन त्वां त्यक्त्वा विष्णुमाश्रितः ॥ २३॥ सकलं विघ्नसंयुक्तं जगदेतच्चराचरम् । शिवविष्ण्वादिभिः सार्धं तव मायाविमोहितम् ॥ २४॥ यदि त्वां शरणं ढुण्ढे शिवविष्ण्वादयः प्रभो । गच्छन्ति मोहहीना वै निर्विघ्नास्ते भवन्ति च ॥ २५॥ अन्यथा भ्रष्टरूपास्ते पदहीना भवन्ति च । अतस्त्वं सर्वदेवानां धारको नात्र संशयः ॥ २६॥ सत्तारूपा महाविघ्नास्तेषां स्वामी भवान् मतः । सर्वेषां स्थापकाश्चैव तथोत्थापनकारकाः ॥ २७॥ अधुना त्वत्प्रसादेन मया बुद्धं गजानन । अतस्त्वां शरणं यातो दीनोऽनाथश्च साम्प्रतम् ॥ २८॥ रक्ष रक्ष गणाध्याक्ष नरकान्मां दयानिधे । त्वत्स्मृत्या चैव भवति जनः सर्वार्थसिद्धिभाक् ॥ २९॥ एवं नानाविधैः स्तोत्रैस्तुष्टाव दनुजेश्वरः । तदैवाकाशजां वाणीं शुश्राव परमाद्भुताम् ॥ ३०॥ मा भयं कुरु दैत्येन्द्र रक्षामि शरणागतम् । नरकात्ते भयं नास्ति मत्स्मृतेः करणात् कदा ॥ ३१॥ त्वया कृतमिदं स्तोत्रं नरकस्य हरं भवेत् । यः पठेच्छ्रावयेद्वापि नरकात्तस्य नोभयम् ॥ ३२॥ धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति । मद्भक्तिवर्धनं चैव बले भवति निश्चितम् ॥ ३३॥ श्रुत्वाऽऽकाशभवां वाणीं बलिर्हृष्टो बभूव ह । तमेव गणपं चित्ते ध्यायंस्तत्रैव संस्थितः ॥ ३४॥ एतस्मिन्नन्तरे विघ्नो विष्णुं तत्याज वै यतः । ततो बुद्धिप्रकाशश्च विष्णोर्जातस्तु तत्क्षणात् ॥ ३५॥ वामनो मनसा तत्र ध्यायति स्म प्रजापते । मम भक्तो बलिः पूर्णस्तस्य प्राप्तं महद्भयम् ॥ ३६॥ विप्रस्य ऋणमुग्रं यत्तेनायं नारकी भवेत् । अहो मयातिमूर्खेण मम भक्तः प्रपीडितः ॥ ३७॥ वेदबाह्य कृतं कर्म बलिना मत्सरान् मखे । न पूजितो गणाध्यक्षः फलहीनोऽभवत्ततः ॥ ३८॥ अधुना भक्तरक्षार्थं किं करोमि विचारतः । गणेशं शरणं यामि ततः सौख्यं भविष्यति ॥ ३९॥ एवं विचार्य देवेशो गणेशं हृदि सोऽस्मरत् । स्मृतिमात्रेण तस्याऽग्रे प्रकटोऽभूद्गजाननः ॥ ४०॥ तं दृष्ट्वा प्रणनामादौ पूजयामास भक्तितः । सर्वे देवगणास्तत्र मुनयस्तमपूजयन् ॥ ४१॥ एतस्मिन्नन्तरे तत्र बलिः प्रोवाच वामनम् । गणेशदर्शनेनैव प्राप्तबुद्धिर्महायशाः ॥ ४२॥ बलिरुवाच । ब्रह्मन् देहि तृतीयं ते पादं शिरसि चाशु मे । देहोऽयं दानरूपेण मया दत्तो न संशयः ॥ ४३॥ तच्छ्रुत्वा हर्षितो विष्णुस्तथेति स चकार ह । (Page खं. १ अ. ४७ पान १०७) ब्राह्मणस्यर्णनिर्मुक्तं भक्तं कृत्वा च संस्थितः ॥ ४४॥ ततस्तं मुनिभिर्देवैः सहितोऽसौ जनार्दनः । तुष्टाव प्राञ्जलिं बध्वा गणेशं सर्वसिद्धिदम् ॥ ४५॥ वामन उवाच । नमस्ते गणनाथाय सर्वेषां पतये नमः । नानागणविभक्ताय जगत्कर्त्रे नमोऽस्तु ते ॥ ४६॥ विघ्नानां पतये तुभ्यं नमश्चन्द्रार्धधारिणे । त्रिनेत्राय नमस्तुभ्यं भक्तसंरक्षकाय च ॥ ४७॥ अमेयमायया देव तवेदं रचितं जगत् । तव मायाविमोहेन मोहितान् रक्ष विघ्नप ॥ ४८॥ तव मायाप्रभावं च को जानाति गजानन । वयं योगिगणाश्चान्ये न तं वेत्तुं क्षमाः कदा ॥ ४९॥ अतोऽपराधं जातं मे क्षन्तुमर्हसि मानद । तव भक्ता वयं नाथ देवदेव नमोऽस्तु ते ॥ ५०॥ बलिस्त्वयं मदीयश्च भक्तः परमभाविकः । मच्छ्रेष्ठत्वेन देवेश जातोऽसौ मत्सरान्वितः ॥ ५१॥ तेन वेदविरुद्धं च कृतं कर्म महाद्भुतम् । त्वां विना यज्ञमारेभे फलहीनोऽभवत्क्रतुः ॥ ५२॥ अधुना मुनिभिर्देवैः सहितोऽहं गजानन । प्रार्थयामि तदर्थं त्वां सफलं कुरु दानवम् ॥ ५३॥ त्वं विनायकनामाऽसि त्वया यत्कृतमादरात् । तदेव मान्यतां याति वेदादिषु न संशयः ॥ ५४॥ वयं नायकसंयुक्ता वेदबाह्यं यदा प्रभो । कुर्मश्चेद्वै पदभ्रष्टाः क्रियन्ते च त्वया तदा ॥ ५५॥ यज्ञस्य फलसंयुक्तमतो भक्तं कुरु प्रभो । इत्युक्त्वा पादयोस्तस्य पपात गणपस्य सः ॥ ५६॥ तमुत्थाप्य गणाधीशो जगाद वचनं हरिम् । किं करोमि पुरा चैवं वरदोऽहं बभूव ते ॥ ५७॥ त्वदीयहस्ततो दैत्यं नरके पातयाम्यहम् । इति क्रोधसमाविष्टोऽधुना स्मरति मां खलः ॥ ५८॥ कायेन मनसा वाचा दैत्यो मां शरणं गतः । त्वं च प्रार्थयसे विष्णो वाञ्छितं च करोमि ते ॥ ५९॥ अधुना मां पुरस्कृत्य एतं यज्ञं समापय । तेनाऽयं सकलानां च यज्ञानां फलमश्नुते ॥ ६०॥ अपराधस्य माहात्म्यं किञ्चित्पश्यतु केशव । इन्द्रे निवृत्तेस्मिन्नेष इन्द्रः पश्चाद् भविष्यति ॥ ६१॥ पाताले स्थापयस्वैनं नात्र कार्या विचारणा । अधुना फलहीनत्वं जनार्दन कृतं मया ॥ ६२॥ गणेशवचनं श्रुत्वा सर्वे हर्षसमन्विताः । साधु साधु महाराज गजानन कृतं त्वया ॥ ६३॥ इत्युक्तस्तं पुरस्कृत्य यज्ञं चक्रे बलिस्ततः । अन्तिमं भावयुक्तः सन् कृतकृत्योऽभवद्यथा ॥ ६४॥ गणेशोंऽतर्दधे तत्र देवाः स्वं स्वं पदं ययुः । एवं वामनमाहात्म्यं कथितं ते प्रजापते ॥ ६५॥ यःश‍ृणोति नरो भक्त्या वाञ्छितं लभते ध्रुवम् । श्रावयेच्छ्रुणुयाद्वा यस्तस्य सर्वं न दुर्लभम् ॥ ६६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वामनचरितं नाम सप्तचत्वारिंशोऽध्यायः ॥ १.४७ (Page खं. १ अ. ४८ पान १०८)

१.४८ ऋचीकगृहस्थाश्रमवर्णनं नाम अष्टचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । त्वया प्रकथितं सूत वक्रतुण्डस्य धीमता । मत्सरासुरनाशाख्यं चरित्रं सर्वसिद्धिदम् ॥ १॥ स स्थितः कुत्र तत् क्षेत्रस्थानं ब्रूहि महात्मनः । आदौ तस्यावतारस्य तिथिमुत्सववर्धिनीम् ॥ २॥ सूत उवाच । प्राचीदिगन्तसंस्थाने स्थापितोऽसौ महर्षिभिः । देवैश्च गणसंयुक्तैर्महोत्सवपरायणैः ॥ ३॥ भाद्रशुक्लचतुर्थ्यां वै प्रकटोऽभूत्स देवराट् । वक्रतुण्डः प्रसन्नात्मा सा तिथिः परमा मता ॥ ४॥ मध्याह्नसमये तस्य पूजनं सुखदायकम् । अपारसिद्धिदं प्रोक्तमाद्यन्ते स्वल्पसिद्धिदम् ॥ ५॥ द्वीपे द्वीपे च खण्डेषु स्वस्वपूर्वदिगन्तरे । प्रतिमा वक्रतुण्डस्य स्थापिता मुनिभिःपुरा ॥ ६॥ तत्र क्षेत्रं समाख्यातं दशयोजनमात्रकम् । चतुरस्रं महापुण्यं भुक्तिमुक्तिप्रदं परम् ॥ ७॥ मध्ये स संस्थितो देवो वक्रतुण्डो गणेश्वरः । वामाङ्गे सिद्धिराद्या सा बुद्धिर्वे दक्षिणाङ्गके ॥ ८॥ सम्मुखे सिंहरूपं च वाहनं तस्य शोभनम् । अष्टदिक्षु स्थितास्तस्य सिद्धयोऽष्टौ च शौनक ॥ ९॥ गणा अष्टौ तथा ज्ञेयाश्चतुर्दिक्षु क्रमेण ते । शिवो विष्णू रविः शक्तिर्भक्तियुक्ताः स्थिता इमे ॥ १०॥ ब्रह्माद्या देवताः सर्वास्तत्पश्चात् पूर्वतः स्थिताः । गङ्गाद्याः सरितः सर्वा दक्षिणे संस्थिताः प्रभो ॥ ११॥ क्षेत्राणि काशिकादीनि पश्चिमे संस्थितानि च । वसिष्ठाद्या मुनिश्रेष्ठाः संस्थितास्तत्र चोत्तरे ॥ १२॥ शेषाद्या नागभूपाश्च गन्धर्वाः पर्वतास्तथा । सिद्धा अप्सरसश्चैव विद्याध्राः किन्नरा गणाः ॥ १३॥ नानाजातिषु ये श्रेष्ठा अभवंस्तत्र संस्थिताः । न वक्तुं शक्यते स्वामिन् मया वर्षशतैरपि ॥ १४॥ सेवार्थं वक्रतुण्डस्य लालसाधारिणः प्रभोः । हृष्टाः प्रमुदितास्तत्र परस्परहिते रताः ॥ १५॥ वक्रतुण्डचरित्राणि कथयन्ति परस्परम् । हृष्टरोमाण एवं ते भवन्तो भावतः पुनः ॥ १६॥ समुद्रे स्नानकर्तारस्तत्र तीर्थानि चक्रिरे । स्वस्वनाम्नाङ्कितान्येव स्वल्पदेहधरा मुने ॥ १७॥ गणेशतीर्थं तत्रैव वक्रतुण्डस्य हर्षदम् । कृतकृत्या भवन्त्यत्र स्नानमात्रेण जन्तवः ॥ १८॥ यात्रामात्रेण तत्रैव जन ईप्सितमाप्नुयात् । क्षेत्रे मरणतो जन्तुर्ब्रह्मभूतश्च जायते ॥ १९॥ दूरे स्थित्वा नरो यस्तु स्मरणं प्रकरोति चेत् । तस्यापि शुक्लगत्या सा मुक्तिर्भवति शाश्वती ॥ २०॥ वक्रतुण्डस्य ये भक्ता यत्र कुत्र स्थिता मुने । ब्रह्मभूता न सन्देहः पावना दर्शनान्नृणाम् ॥ २१॥ सङ्क्षेपेण मया तस्य स्थानं ते कथितं मुने । विस्तरेण न शेषोऽपि ब्रह्मविष्णुमहेश्वराः ॥ २२॥ वेदाः सस्मृतयः सर्वे स्कन्दो योगिन एव च । अयुतायुतवर्षैस्ते कथितुं न क्षमाः कदा ॥ २३॥ मुद्गलेन यथा प्रोक्तं दक्षाग्रे तन्मया तथा । कथितं भावयुक्तेन किमन्यच्छ्रोतुमिच्छसि ॥ २४॥ शौनक उवाच । सूत सूत महाभाग धन्यं क्षेत्रसमुद्भवम् । माहात्म्यं श्रुतमस्माभिर्ब्रह्मसायुज्यदायकम् ॥ २५॥ अधुना ब्रूहि धर्मज्ञ यद्दक्षेण च संश्रुतम् । (Page खं. १ अ. ४८ पान १०९) मुद्गलात्तेन कथितमग्रे यत् कीदृशं च तत् ॥ २६॥ सूत उवाच । क्षेत्रस्य चरितं श्रुत्वा दक्षो हर्षसमन्वितः । उवाच मुद्गलं विप्रं भक्तिनम्रात्मकन्धरः ॥ २७॥ दक्ष उवाच । ढुण्ढिराजावतारस्य चरितं वद विस्तरात् । वक्रतुण्डः स्वयं साक्षात् कथं शङ्करदेहजः ॥ २८॥ मुद्गल उवाच । श‍ृणु दक्ष महाभाग कथयामि पुरातनम् । इतिहासं गणेशस्य गुणयुक्तं महाद्भुतम् ॥ २९॥ याज्ञवल्क्यमुनीन्द्रेण कथितं कौशिकाय यत् । तदहं सम्प्रवक्ष्यामि ब्राह्मणत्वप्रकाशकम् ॥ ३०॥ भार्गवो मुनिमुख्यो य ऋचीकस्तपसि स्थितः । बहुकाले व्यतिक्रान्ते तपसा जीर्णतां ययौ ॥ ३१॥ वृद्धत्वं परिपूर्णं च प्राप्तं तस्य महात्मनः । वनेषु मृगयूथानि स पश्यन् विस्मितोऽभवत् ॥ ३२॥ मृगीसंसक्तचित्तश्च मृगः स्वाधीनतां गतः । पुत्रपौत्रादिसंयुक्तो बभ्राम वनगोचरः ॥ ३३॥ एकैकाश्रितचित्तास्ते क्रीडां चक्रुः परस्परम् । दृष्ट्वा भृगुवरस्तत्र सकामः सम्बभूव ह ॥ ३४॥ उवाच स्वयमेवेदं धन्यं गार्हस्थ्यमेव च । इत्थं विचार्य विप्रस्तु ययौ गाधिं नराधिपम् ॥ ३५॥ स दृष्ट्वा सहसोत्थाय मुनिं गाधिरपूजयत् । भुक्त्वाऽयाचत तत्कन्यां भार्यार्थं नृपसत्तमम् ॥ ३६॥ राजा वृद्धं समालोक्य तं जगाद महामुनिम् । श्यामकर्णयुताश्वानां सहस्रं देहि मे मुने ॥ ३७॥ शुल्कं ग्राह्यं मया चैवं निश्चयः प्राक्कृतो मुने । अतस्त्वां प्रार्थये विप्र पश्चात्कन्यां ददामि ते ॥ ३८॥ श्रुत्वा मुनिर्गतः सद्यो वरुणस्य गृहं प्रति । गृहीत्वाऽश्वसहस्रं च तस्मात्तं प्रययौ ददौ ॥ ३९॥ राजा कन्यां ददौ तस्मै भार्गवाय महात्मने । विधिवद्भयभीतः स तां प्रगृह्य ययौ वनम् ॥ ४०॥ राजपत्नी सुतां प्राह त्वदीयं भाग्यमीदृशम् । अस्माभिः किं प्रकर्तव्यं वनवासं सुते कुरु ॥ ४१॥ विलप्य द्रव्यवस्त्रादीन् दत्वा पुत्रीकरे तदा । स्वगेहं सा जगामापि वने प्रस्थाप्य तां मुने ॥ ४२॥ राजपुत्री महाभागा ऋचीकं प्राप्य संस्थिता । सेवामनलसत्वेन कृत्वा तद्भक्तितत्परा ॥ ४३॥ तां दृष्ट्वा शीलसंयुक्तां प्रसन्नो मुनिसत्तमः । तदर्थं तपसा स्वेन निर्ममे नगरं वने ॥ ४४॥ चातुर्वर्ण्यसमायुक्तं हेमरत्नविभूषितम् । दासीदासादिसंयुक्तं नानाविभवदं परम् ॥ ४५॥ स्वयं तपःप्रभावेण यौवनं रूपमादधे । रेमे तया यथान्यायं देवेन्द्रेण समः प्रभो ॥ ४६॥ निःस्पृहो भोगरागेषु दृष्ट्वा स्त्रीसुखमल्पकम् । मानसे धारयामास व्यर्थं पत्नीभवं सुखम् ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते ऋचीकगृहस्थाश्रमवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥ १.४८ (Page खं. १ अ. ४९ पान ११०)

१.४९ याज्ञवल्क्यविश्वामित्रसमागमोनामैकोनपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा राजपत्नी सा वनं शोकसमाकुला । आययौ दर्शनार्थं तां पुत्रीं वस्त्रधनान्विता ॥ १॥ ऋचीकस्याश्रमं तत्र न ददर्श रथे स्थिता । नगरं हेमशोभाढ्यं दृष्ट्वा सा विस्मिताऽभवत् ॥ २॥ कस्येदं नगरं दिव्यं देवैर्वा निर्मितं भवेत् । क्व गतो मुनिशार्दूलो जामाता मे स भार्गवः ॥ ३॥ एवं शोकसमायुक्ता विचारमकरोद् हृदि । ददर्श पुरुषं कञ्चित्तं पप्रच्छ भयातुरा ॥ ४॥ कस्येदं नगरं ब्रूहि स जगाद च तां मुने । ऋचीकस्य पुरं देवि वयं तस्य प्रमार्जकाः ॥ ५॥ पुनस्तं विस्मिता राज्ञी जगाद वद साम्प्रतम् । ऋषिपत्नीं च मे पुत्रीमागतां जननीं पुरे ॥ ६॥ तथेति पुरुषो गत्वा कथयामास तां ततः । सा स्वमातरमागम्य निनाय स्वगृहं पुरे ॥ ७॥ जामातरं श्रिया युक्तं दृष्ट्वा विस्मितमानसा । उवाच स्वसुतां राज्ञी पुत्रार्थं भावसंयुता ॥ ८॥ मम पुत्रार्थमेवं च तव पुत्रार्थमादरात् । याचस्व स्वामिनं पुत्रि समर्थं मुनिपुङ्गवम् ॥ ९॥ ऋषिपत्नी पतिं तत्र याचयामास तत्तथा । द्वौ चरू ह्यग्निकुण्डे स चकार सुतलिप्सया ॥ १०॥ द्विविधं स पुरोडाशं ब्रह्मक्षत्रप्रकाशकम् । अतुलं तेज आवाह्य ददौ पत्नीकरे मुनिः ॥ ११॥ जगाद तां मुनिश्रेष्ठो भक्षितव्यस्त्वया ह्ययम् । तव मात्रा तथाऽन्यो वै भक्षितव्यः शुचिस्मिते ॥ १२॥ तदा पुत्रसमायुक्ते युवां किल भविष्यथः । एवमुक्त्वा मुनिस्तीर्थे माध्याह्वार्थं ययौ किल ॥ १३॥ पुत्र्या मात्रे स वृत्तान्तः कथितः साऽब्रवीत् सुताम् । त्वदीयो भक्षितव्यो मे मदीयं त्वं प्रभुङ्क्ष्व वै ॥ १४॥ तथा पुत्र्या कृतं सर्वं गता माता स्वमालयम् । राज्ञी गर्भवती जाता ब्राह्मणी च प्रजापते ॥ १५॥ एकदा मुनिना दृष्टा स्त्र्युग्रतेजोधरा बभौ । उवाच भार्गवः पत्नीं किं कृतः क्षात्र आदरः ॥ १६॥ सोवाच भयभीता तं व्यतिक्रमममुं चरोः । तामुवाच मुनिस्तत्र विस्मितो मानसेऽभवत् ॥ १७॥ तव भ्राता तपस्वी च भविष्यति न संशयः । तव पुत्रो धनुर्धारी दारुणः प्रभविष्यति ॥ १८॥ सोवाच स्वामिनं भीता द्विजं पुत्रं तु मे प्रभो । देहि नोचेज्जीवघातं करिष्यामि न संशयः ॥ १९॥ ततो मुनिः स्वयं प्राह पुत्रपुत्रो भवेत्तथा । गर्भं विज्ञाप्य विष्णुं वै तपसा स तथाऽकरोत् ॥ २०॥ ततस्तस्याऽभवत्पुत्रो जमदग्निर्महातपाः । तस्य पुत्रत्वमापेदे रामः शस्त्रभृतांवरः ॥ २१॥ नवमे गाधिपत्नी सा मासे पुत्रं तपोनिधिम् । विश्वामित्रं महाभागं सुषुवे प्रेमविह्वला ॥ २२॥ स तु यौवनमापन्नं संस्थाप्य वनमादरात् । गाधिर्ययौ स्वराज्ये च तपसे कृतनिश्चयः ॥ २३॥ तद्राज्यमकरोत् सर्व विश्वामित्रः प्रतापवान् । एकदा मृगयार्थं वै वनेषु प्रजगाम ह ॥ २४॥ मृगयित्वामृगान् राजा क्षुधितस्तृषितोऽभवत् । भ्रमन् समाययौ सोऽपि वसिष्ठाश्रममुत्तमम् ॥ २५॥ प्रविश्य तत्र तं राजा ननाम भक्तिसंयुतः । (Page खं. १ अ. ४९ पान १११) ससैन्यो भोजितस्तेन कामधेनुबलेन सः ॥ २६॥ भुक्त्वा तं प्रार्थयामास नन्दिनीं देहि मे मुने । विश्वामित्रस्ततस्तस्मै न ददौ तां महामुनिः ॥ २७॥ ततो राजा बलान्नेतुं दूतानाज्ञापयत् खलः । धेन्वा ते नाशिताः सर्वे ततः स्वयमुपाययौ ॥ २८॥ कशाघातैश्च तां धेनुं ताडयामासुराग्रहात् । केचित्ततो महत्सैन्यं निर्ममे तत्र धेनुका ॥ २९॥ ततो युद्धमभूद्धोरं सैन्ययोरुभयोर्महत् । नष्टं सैन्यं च सम्पूर्णं विश्वामित्रस्य तत्क्षणात् ॥ ३०॥ सोऽपि भग्नो गृहं गत्वा राज्यं न्यस्य ययौ वनम् । प्रधानेषु तपस्तेपे शङ्करस्य महात्मनः ॥ ३१॥ शतवर्षेषु पूर्णेषु प्रसन्नश्च ददौ शिवः । अस्त्रविद्यां सुसम्पूर्णां तां प्राप्य स्वगृहं ययौ ॥ ३२॥ पुनर्वसिष्ठमागम्य शस्त्रास्त्रैर्बलसंयुतः । विश्वामित्रो ममार्दासावग्न्यस्त्रेण तदाश्रमम् ॥ ३३॥ वसिष्ठस्तं ततस्तत्र योधयामास शौनक । ब्रह्मदण्डधरः श्रीमान् सर्वास्त्राणि व्यमर्दयत् ॥ ३४॥ ब्रह्मदण्डेन तस्यापि कृतस्तेन पराजयः । विश्वामित्रः पलायिष्ट भयभीतः समन्ततः ॥ ३५॥ ततः सुसान्त्वितो विप्रो वसिष्ठो ब्राह्मणैस्तदा । स्वाश्रमं प्रविवेशाथ विश्वामित्रो गृहं ययौ ॥ ३६॥ अहो ब्राह्मं बलं दीप्तं क्षात्रं तुच्छं विशेषतः । ब्रह्मदण्डेन सर्वाणि ममास्त्राणि हतानि च ॥ ३७॥ एवं स निश्चयं कृत्वा राज्यं त्यक्त्वा ययौ वनम् । ब्राह्मणत्वप्रसिद्धयर्थं तताप परमं तपः ॥ ३८॥ गायत्रीमन्त्रजाप्येन पुरश्चरणमार्गतः । निराहारेण राजर्षिस्तापयामास विष्टपम् ॥ ३९॥ एवं दशसहस्राणि वर्षाणि जपतो ययुः । ततो जगाद तं ब्रह्मा वरं ब्रूहि महामते ॥ ४०॥ स वव्रे ब्राह्मणत्वं मे देहि देव नमोऽस्तु ते । तदा ब्रह्मा पुनः प्राह तपस्वेति च गाधिजम् ॥ ४१॥ दशवारं विधौ तत्र समागत्य च तं मुनिम् । अन्यं वरं ददाने स न जग्राह स बुद्धिमान् ॥ ४२॥ तपःप्रभावतस्तस्य व्याप्तमासीद्दिगन्तरम् । देवाद्या अभवन्सर्वे तदाज्ञावशवर्तिनः ॥ ४३॥ स्वप्रतापेन राजर्षिर्ब्राह्मणान् प्राह गाधिजः । अहं ब्रह्मर्षिमुख्यो वै जातस्तु तपसो बलात् ॥ ४४॥ भयभीताश्च ते सर्वे तथेत्यूचुः प्रणम्य तम् । वसिष्ठो मुनिवर्यः स तं राजर्षिं जगाद ह ॥ ४५॥ विश्वामित्रः सङ्क्षुभितो वसिष्ठहननाय च । नानायत्नांश्चकारापि न ममार महामुनिः ॥ ४६॥ ततोऽतिदुःखितो भूत्वा संस्थितः स्वाश्रमे मुनिः । विश्वामित्रो महाभागस्तपस्तेजोविराजितः ॥ ४७॥ तमाययौ महातेजा याज्ञवल्क्यः प्रतापवान् । ब्रह्मणोंऽगसमुत्पन्नः साक्षाद्योगीश्वरो महान् ॥ ४८॥ तं ननाम यथान्यायं पूजयामास भक्तितः । विश्वामित्रो महातेजा उवाच प्रकृताञ्जलिः ॥ ४९॥ अद्य मे सफलं जन्म तपःस्वाध्याय एव च । येन ते दर्शनं जातं ब्रह्मभूतस्य मानद ॥ ५०॥ (Page खं. १ अ. ५० पान ११२) किमर्थमागतो ब्रह्मस्तद्वदस्व महामुने । तवाज्ञां कर्तुमिच्छामि दासोऽहं शाधि मां प्रभो ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्यविश्वामित्रसमागमोनामैकोनपञ्चाशत्तमोऽध्यायः ॥ १.४९

१.५० दिवोदासमहिमवर्णनं नाम पञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । विश्वामित्रस्य भावेन सन्तुष्टो मुनिपुङ्गवः । तमुवाच महायोगी याज्ञवल्क्यो महामुनिः ॥ १॥ याज्ञवल्क्य उवाच । दुःखितं त्वां विदित्वाहमागतो मुनिपुङ्गव । न कार्यमपरं किञ्चिज्जानीहि त्वं महामते ॥ २॥ वद किं कारणं ब्रह्मन् दुःखस्य तव तापस । पश्चात्तन्नाशयिष्यामि युक्त्या ज्ञानोपदेशतः ॥ ३॥ विश्वामित्र उवाच । तपस्तप्तं मया घोरं ब्रह्मा मे न ददौ वरम् । वसिष्ठो मां च राजर्षिं जगाद जनसन्निधौ ॥ ४॥ केनोपायेन योगीन्द्र ब्राह्मणोऽहं भवामि च । सर्वमान्यो महाभागस्तं करिष्यामि यत्नतः ॥ ५॥ ततस्तं मुनिशार्दूलो याज्ञवल्क्य उवाच ह । न चिन्तां कुरु राजर्षे ब्रह्मर्षिस्त्वं भविष्यसि ॥ ६॥ अभिमानं महाघोरं त्यज त्वं मे सुवाक्यतः । मत्सरं त्यज दुष्टं च ततः क्षेमं भविष्यति ॥ ७॥ कथां श‍ृणु महारम्यां काशीविश्वेशसंश्रिताम् । येन त्वं निर्मलो भूत्वा ब्राह्मणोऽपि भविष्यसि ॥ ८॥ काशीविश्वेश्वरेणैव न त्यक्ता प्रलयेऽपि च । न वियोगः क्षणं तस्याः काश्याः शम्भोः कदाचन ॥ ९॥ तेनाहङ्कारसंयुक्तौ जातौ काशीमहेश्वरौ । विघ्नः समभवत्तत्र दारुणः प्रवियोगकृत् ॥ १०॥ मुद्गल उवाच । याज्ञवल्क्यवचः श्रुत्वा हर्षितः कौशिको मुनिः । उवाच तं महाभागं प्रेमयुक्तेन चेतसा ॥ ११॥ विश्वामित्र उवाच । कीदृशं विघ्नरूपं चाविमुक्तस्य शिवस्य यत् । समुत्पन्न महाभाग तद्वद त्वं विशेषतः ॥ १२॥ याज्ञवल्क्य उवाच । षष्टिवर्षाणि पर्जन्यो न ववर्ष महीतले । तेन नष्टं जगत्सर्वं भूमिस्थं सचराचरम् ॥ १३॥ प्रजाक्षयं ततो दृष्ट्वा ब्रह्मा लोकपितामहः । आययौ राजशार्दूलं दिवोदासं तपःस्थितम् ॥ १४॥ राज्यं त्यक्त्वा स राजर्षिस्तताप परमं तपः । मोक्षार्थं भक्तिभावेन सूर्यवंशसमुद्भवः ॥ १५॥ तपसा योगभावेन बभौ सूर्य इवापरः । तं ब्रह्मा स्वयमेवेदं वचनं प्रजगाद ह ॥ १६॥ ब्रह्मोवाच । दिवोदास महाभाग श‍ृणु मे वचनं हितम् । काशीराज्यं गृहाण त्वं मया दत्तं महामते ॥ १७॥ ब्रह्माणं स उवाचाथ न राज्यं परिपालये । मोक्षार्थी वासनाहीनो मोक्षं देहि प्रजापते ॥ १८॥ तं पुनःप्रत्युवाचेदं ब्रह्मा लोकहिताय च । कुरु राज्यं महाभाग मया दत्तं महामते ॥ १९॥ त्वयि राज्ये स्थिते वृष्टिर्भविष्यति महाद्भुता । (Page खं. १ अ. ५० पान ११३) अन्यथा लोकनाशः स्यात्तस्मात् कुरु वचो महत् ॥ २०॥ लोकसंरक्षणार्थाय दयायुक्तो महामतिः । राज्यं जग्राह काश्याश्च देववर्जितमुत्तमम् ॥ २१॥ देवानामखिलं राज्यं सदा स्वर्गेषु वर्तते । मनुष्याणां पृथिव्यां वै पाताले नागरक्षसाम् ॥ २२॥ अतो देवतया शम्भुं पूजयिष्यामि मानद । सर्वैः स्वधर्मे स्थातव्यं मयि राज्यं प्रशासति ॥ २३॥ तथेति तमुवाचाथ ब्रह्मा लोकपितामहः । काशीराज्यं ददौ तस्मै दिवोदासाय धीमते ॥ २४॥ ततो ब्रह्मा ययौ काश्यां शङ्करं प्रणिपत्य सः । उवाच तं विशेषज्ञो मन्दरं गच्छ शङ्कर ॥ २५॥ मरीचिना तपस्तेपे तस्मै देहि वरं शिव । नो चेन्मरिष्यति स वै तस्माद्गच्छ जगद्गुरो ॥ २६॥ ब्रह्मणो गिरमाकर्ण्य तेन सार्धं ययौ शिवः । देवर्षिगणसंयुक्तो वरार्थं ब्राह्मणस्य च ॥ २७॥ तं दृष्ट्वेति वरं ब्रूहि शिवो वचनमब्रवीत् । स उवाच शिवं तत्र मुक्तिं देहि सदाशिव ॥ २८॥ इत्युक्त्वा तपसो दुःखाज्जहौ प्राणान् महामुनिः । प्राप्तः शिवस्य सारूप्यं कैलासं स गतो मुनिः ॥ २९॥ एतस्मिन्नन्तरे शम्भुं ब्रह्मोवाच कृताञ्जलिः । वस त्वं मन्दरे शम्भो त्यज काशीं महापुरीम् ॥ ३०॥ अनावृष्टिभवं दुःखं तन्निवृत्यर्थमादरात् । राज्यं दत्तं मया देव दिवोदासाय शङ्कर ॥ ३१॥ तेनापि कथितं देवराज्यं पृथ्व्यां न चेद्भवेत् । तदा राज्यं करिष्यामि नान्यथाऽहं कदाचन ॥ ३२॥ मया लोकस्य रक्षार्थं दत्तं राज्यं च तस्य हि । क्षमस्व चापराधं मे महादेव नमोऽस्तु ते ॥ ३३॥ तथेति शिव ऊचे तं निःश्वस्य परमं प्रभुः । पार्वत्या गणसंयुक्त उवास स च मन्दरे ॥ ३४॥ अविमुक्तं महाक्षेत्रं दैवेन त्याजितं मम । अधुना मुक्तता केन कर्मणा भविता मम ॥ ३५॥ न ब्रह्मणो वचो मिथ्या भविष्यति कदाचन । अधुना किं करिष्यामि काशीविरहदुःखितः ॥ ३६॥ अहं विश्वेश्वरश्वाऽस्मि मदधीनं न किञ्चन । विश्वनाथेति नामेदं व्यर्थरूपं न संशयः ॥ ३७॥ अखिलप्राणितुल्योऽहं कृतो येन महात्मना । शरणं विघ्नराजं तं गच्छामि न च संशयः ॥ ३८॥ ममापि विघ्नरूपं यत् समुत्पन्नं महाद्भुतम् । अहङ्कारविहीनोऽहं कृतस्तेन महात्मना ॥ ३९॥ इत्येवं निश्चयं कृत्वा शिवस्तत्राचले तपः । तताप गणपं ध्यात्वा काशीप्राप्त्यर्थमादरात् ॥ ४०॥ काशी च दुःखसंयुक्ता श्रुत्वा शम्भोर्विनिर्गतिम् । तपस्तताप विघ्नेशं ध्यात्वा निश्चलचतेसा ॥ ४१॥ अहङ्कारविनिर्मुक्ता काशी दुःखितमानसा । शिवप्राप्त्यर्थमतुलं तताप परमं तपः ॥ ४२॥ दिवोदासस्तु तद्राज्यमकरोद्धर्मतः स्वयम् । ततो वृष्टिः समुत्पन्ना सर्वेषां सुखदायिका ॥ ४३॥ सकलं वृष्टियोगेन जगत्स्थावरजङ्गमम् । मोदयुक्तं तदा जातं तस्मिन् राज्यं प्रशासति ॥ ४४॥ स्वस्वधर्मरताः सर्वे वर्णाश्रमविभागशः । पापलेशो न तत्रासीत्तस्मिन् राज्यं प्रशासति ॥ ४५॥ (Page खं. १ अ. ५० पान ११४) हृष्टपुष्टजनाः सर्वे वृक्षाः पुष्पफलान्विताः । घटदुग्धास्तदा गावस्तस्मिन् राज्यं प्रशासति ॥ ४६॥ स्वाहास्वधायुता देवाः पितरश्च मुदा युताः । यज्ञादयो बभूवुश्च तस्मिन् राज्यं प्रशासति ॥ ४७॥ एवं नानाविधैर्भोगैर्युताः सर्वे महामुने । दिवोदासः स्वयं राजा नित्ययात्रां चकार ह ॥ ४८॥ आदौ ढुण्ढिं पुपूजाऽसौ पश्चाद्विश्वेश्वरं मुने । जगदम्बां च काशीं वै मणिकार्णिं ततः परम् ॥ ४९॥ भागीरथीं माधवं च जैगीषव्यगुहां ततः । कालभैरवमेवं च दण्डपाणिं महाबलम् ॥ ५०॥ जनैः स मतिमान् राजा कारयामास सर्वदा । धर्महीनं जनं हन्तुं दण्डपाणिरिव स्थितः ॥ ५१॥ अशीतिवर्षसाहस्रं गतं तत्र महामुने । न किञ्चित्स्वल्पपापस्य प्रवेशोऽपि बभूव ह ॥ ५२॥ ततो देवा विचारं ते चक्रुः स्वर्गेषु विस्मिताः । पृथिव्यां देवराज्यं तु विनष्टं तेन कारितम् ॥ ५३॥ अतो वयं किमर्थं च स्थास्यामः पृथिवीतले । स्पर्धते नः स राजर्षिश्छलयामस्ततो वयम् ॥ ५४॥ तत इन्द्रोऽग्निमाहूय जगाद क्रोधसंयुतः । दिवोदासस्य राज्ये ते स्थानं मास्तु बहिस्त्विति ॥ ५५॥ इन्द्रस्य वचनं श्रुत्वा वह्निरन्तर्दधे तदा । पृथिव्यां वह्निहीनास्ते जनाः सर्वे तमन्वयुः ॥ ५६॥ तान् दृष्ट्वा स दिवोदासो वह्निरूपेण संस्थितः । पृथिव्यां यत्र कुत्रापि तपो बलसमन्वितः ॥ ५७॥ एवं नानाविधैर्भावैर्देवाः सर्वे क्रमेण च । गतास्तत्र स्वयं राजा तेषां रूपधरो बभौ ॥ ५८॥ वाय्वादिरूपमास्थाय स राजा देवकृत्यवित् । पृथिव्यां ये जनाः सर्वे न तं जानन्ति कौशिक ॥ ५९॥ एवं बहौ गते काले देवाः सर्वे विसिस्मिरे । देवकृत्यं कृतं सर्वं राज्ञाप्याश्चर्यमुत्तमम् ॥ ६०॥ ततो देवगणाः सर्वे ब्रह्माणं शरणं ययुः । दिवोदासस्य मोहार्थं पृथ्वी त्यक्ता च निर्जरैः ॥ ६१॥ स तपोबलयुक्तस्तु देवानां कृत्यमादरात् । स्वयं देवस्वरूपैस्तैश्चकार परमाद्भुतम् ॥ ६२॥ वयं विहारहीनाश्च किं कुर्मो वद भो विमो । तेषां वचनमाकर्ण्य ब्रह्मा प्रोवाच तांस्तदा ॥ ३३॥ भवद्भिस्तत्र गन्तव्यं प्रार्थनीयो नराधिपः । स दास्यति स्वकं स्थानं देवानां नात्र संशयः ॥ ६४॥ ततो देवा दिवोदासमाययुश्चेन्द्रमुख्यकाः । तान् दृष्ट्वा सहसोत्थाय ननाम विनयान्वितः ॥ ६५॥ तमुत्थाप्य ततो देवास्तुष्टुवुस्तं नराधिपम् । सोऽपि देवान् प्रतुष्टाव स्वपदानि ददौ ततः ॥ ६६॥ स्वयं नरस्वरूपेण चैकदेहेन संस्थितः । अग्न्यादयो निजस्थाने देवाः सर्वे सुसंस्थिताः ॥ ६७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दिवोदासमहिमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ १.५० (Page खं. १ अ. ५१ पान ११५)

१.५१ काशीशिववरप्रदानं नामैकपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । ततः शम्भुः परां चिन्तामापेदे मनसा मुने । देवा हतोद्यमा जातास्तपसा तस्य धीमतः ॥ १॥ स्वधर्मपर एवायं तपसा च समन्वितः । नोच्चालितुं भवेच्छक्यः किं भविष्यति वै ततः ॥ २॥ मया काशी कदा लभ्या दग्धोऽहं विरहाग्निना । मरिष्यामि न सन्देहो विललाप महेश्वरः ॥ ३॥ अस्थिचर्मावशेषोऽपि शुशोच बहुधा शिवः । तं देवा मुनयः सर्वे सान्त्वयामासुरादरात् ॥ ४॥ देवर्षय ऊचुः । मा कुरुष्व वृथा चिन्तां त्वं समर्थो महेश्वर । तव प्रसादयोगेन गच्छामः काशिकां वयम् ॥ ५॥ नानासिद्धिभिरालोभ्य लोकांस्तत्र समन्ततः । तत्पापभागिनं भूपं दिवोदासं च कुर्महे ॥ ६॥ ततस्त्वया विशेषण काशी ग्राह्या सदाशिव । एवमुक्त्वा ययुस्तत्र देवाः सर्वे प्रहर्षिताः ॥ ७॥ तत्राभवन् गताः काश्यां नानारूपधराः सुराः । जनान् सम्मोहयामासुः सिद्धिं कृत्वा विशेषतः ॥ ८॥ धमशीला जनाः सर्वे तेषां वाक्यं न चक्रिरे । एकवर्षं प्रयत्नं ते कृत्वा शान्तिं प्रलेभिरे ॥ ९॥ ततः सदाशिवस्तत्र प्रेरयामास भैरवान् । तेऽपि यत्नैश्च विविधैर्न समर्था बभूविरे ॥ १०॥ एवं क्रमेण आदित्या वसवश्चर्षयः पराः । योगिन्यश्च गणाः सर्वे हतोद्योगास्तथाऽभवन् ॥ ११॥ ततो ब्रह्माणमाबोध्य प्रेषयामास शङ्करः । दशाश्वमेधाश्च कृतास्तेन शान्तिं जगाम सः ॥ १२॥ ततस्तु शङ्करस्तत्र ध्याननिष्ठो बभूव ह । चरणे विघ्नराजस्य सर्वाशापूरके परे ॥ १३॥ सविघ्नं मां गणाध्यक्ष निर्विघ्नं कुरु सर्वदा । दासोऽहं तेऽविमुक्तस्य संरक्ष विरहात्प्रभो ॥ १४॥ एवं निश्चितचित्तस्तु वर्षमेकं गजाननम् । ध्यानेन तोषयामास शङ्करः कार्यसिद्धये ॥ १५॥ दृष्ट्वाऽहङ्कारनिर्मुक्तमत्यन्त शङ्करं प्रभुः । दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥ १६॥ सिंहारूढं चतुर्बाहुं पाशाङ्कुशधरं प्रभुम् । वरदाभयहस्तं च सिद्धिबुद्धिसमन्वितम् ॥ १७॥ रक्तवर्णं सुशोभाढयं गजवक्त्रं महोदरम् । विविधैः शेषनाभिं तं भूषणैः सुविराजितम् ॥ १८॥ चिन्तामणिधरं पूर्णं तेजोराशिं महाप्रभम् । दृष्ट्वा देवं मुदा युक्तः शङ्करः प्रणनाम ह ॥ १९॥ ततस्तं पूजयामास तुष्टाव स यथामति । देवदेवं गणाध्यक्षं वक्रतुण्डं विधानतः ॥ २०॥ शिव उवाच । नमस्ते वक्रतुण्डाय सर्वसिद्धिप्रदाय च । निराकाराय देवाय साकाराय नमो नमः ॥ २१॥ नमः सर्वप्रबोधाय नमः सर्वप्रियङ्कर । गणानां पतये तुभ्यं गणेशाय नमो नमः ॥ २२॥ ब्रह्मणे सृष्टिकर्त्रे ते पालकाय च विष्णवे । संहर्त्रे ते हरायैव गुणेशाय नमो नमः ॥ २३॥ ब्रह्माकाराय वै तुभ्यं ब्रह्मभूताय ते नमः । नमः प्रपञ्चरूपाय प्रपञ्चानां प्रचालक ॥ २४॥ अनन्तगुणधाराय ह्यनन्तविभवाय ते । अनन्तोदररूपाय हेरम्बाय नमो नमः ॥ २५॥ (Page खं. १ अ. ५१ पान ११६) कारणानां परायैव कारणाय नमो नमः । अकारणाय वै तुभ्यं सिंहवाहाय ते नमः ॥ २६॥ अहं जीवसमानश्च सञ्जातो नात्र संशयः । अविमुक्तं विमुक्तं मे जातं देव दयानिधे ॥ २७॥ अतस्त्वां शरणं यातो निर्विघ्नं कुरु मां प्रभो । देहि काशीं गणाध्यक्ष अविमुक्ततया च मे ॥ २८॥ त्वया पुरा वरो दत्तः स्मरणेन त्वदग्रतः । स्थास्यामि पुत्रभावेन तं पालय गजानन ॥ २९॥ इत्युक्त्वा पादयोस्तस्य प्रणनाम महेश्वरः । तमुत्थाप्य गणाध्यक्ष उवाच प्रहसन्निव ॥ ३०॥ वक्रतुण्ड उवाच । त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठते श‍ृण्वते चैव भुक्तिमुक्तिप्रदं शिव ॥ ३१॥ अन्यद्यत्प्रार्थितं सर्वं करिष्यामि सदाशिव । अविमुक्तं प्रदास्यामि सार्थकं ते च साम्प्रतम् ॥ ३२॥ इत्युक्त्वा निर्ममे देहाद्ब्राह्मणं सर्वसुन्दरम् । सर्वज्ञं च गुणेशस्य तेजोयुक्तं प्रभाविणम् ॥ ३३॥ आज्ञापयच्च तं देवो गच्छ त्वं शिवसिद्धये । काश्यां तुं बुद्धिसम्मोहं जनानां कुरु सत्वरम् ॥ ३४॥ मोहयित्वा दिवोदासं काशीराज्यं शिवाय च । ममाज्ञया देह्यद्य त्वं सर्वपूज्यो भविष्यसि ॥ ३५॥ ढुण्ढिं ज्योतिर्विदं त्वां तु वदिष्यन्ति जना द्विजाः । त्वदीयवंशगाः सर्वे भविष्यन्ति न संशयः ॥ ३६॥ इति श्रुत्वा द्विजो ढुण्ढिं प्रणनाम मुदा युतः । ययौ प्रदक्षिणीकृत्य काशीं स गणपं स्मरन् ॥ ३७॥ ततो विष्णुं समाहूय तं जगाद गजाननः । बौद्धरूपेण विष्णो त्वं काशीं गच्छ मदाज्ञया ॥ ३८॥ द्विजेन ढुण्ढिना सर्वं मोहितं नगरं भवेत् । कुरु त्वमधुना भ्रष्टं मम वाक्याज्जनार्दन ॥ ३९॥ प्रणम्य तं तदा विष्णुर्गणेशं बौद्धरूपधृक् । ययौ काशीं महाभागो वक्रतुण्डं हृदि स्मरन् ॥ ४०॥ तौ यथा गणराजेन कथितं चक्रतुस्तथा । मोहयुक्तं पुनर्भ्रष्टं नगरं सर्वमञ्जसा ॥ ४१॥ अन्यच्छृणु चरित्रं त्वं विश्वामित्र तपोधन । काशीध्यानयुता तत्र संस्थिता गणपस्य तु ॥ ४२॥ सहस्रं तत्र वर्षाणां गतमेकं महामुने । तस्यास्तपःप्रभावेण सन्तुष्टोऽभूद्गजाननः ॥ ४३॥ वरं दातुं समायातः काश्यै मूर्तिधरः प्रभुः । सिंहारूढः प्रसन्नात्मा नानाभूषणभूषितः ॥ ४४॥ तं दृष्ट्वा सहसोत्थाय काशी परमपावनी । पादयोः प्रणनामाथ कर्षिता विह्वला भृशम् ॥ ४५॥ पुनरुत्थाय तं देवं पूजयामास भक्तितः । तुष्टाव सुस्थिरा भूत्वा निबद्धकरसम्पुटा ॥ ४६॥ काश्युवाच । नमस्ते गणनाथाय नमस्तेऽनन्तरूपिणे । नमस्ते सर्वदात्रै वै मायाधाराय ते नमः ॥ ४७॥ गजवक्त्रधरायैव शूर्पकर्णाय ते नमः । सर्वभूषाय वै तुभ्यं वक्रतुण्ड नमोऽस्तु ते ॥ ४८॥ निराकाराय नित्याय निर्गुणाय गुणात्मने । वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ॥ ४९॥ ब्रह्मणां ब्रह्मदात्रे च सिंहारूढाय ते नमः । सिद्धिबुद्धिपते तुभ्यं नमः सर्वाभयङ्कर ॥ ५०॥ अनाथाय च नाथाय सर्वेषां पालकाय च । भक्तेभ्यः सर्वदात्रे ते विघ्नहर्त्रे नमोऽस्तु ते ॥ ५१॥ (Page खं. १ अ. ५२ पान ११७) विघ्नकर्त्रे ह्यभक्तानां भुक्तिमुक्तिप्रदाय च । योगिनां हृदि संस्थाय योगगम्याय ते नमः ॥ ५२॥ मनोवाणीविहीनाय शान्तिरूपाय ते नमः । शान्तेभ्यः शान्तिदात्रे च गणेशाय नमो नमः ॥ ५३॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सशास्त्रकाः । शान्तिं प्राप्ता महाभागा अतस्त्वां प्रणमामि वै ॥ ५४॥ रक्ष रक्ष च दासीं ते विरहेण प्रपीडिताम् । अविमुक्ता शिवेनैवं नाम व्यर्थं बभूव मे ॥ ५५॥ शिवहीना कृता देव दैवं तु परमाद्भुतम् । अतस्ते शरणं प्राप्ता शङ्करं दर्शयस्व माम् ॥ ५६॥ इत्युक्त्वा पतिता तस्य पादयुग्मे महामुने । तामुत्थाप्य गणाधीशो जगौ मधुरया गिरा ॥ ५७॥ गणेश उवाच । मा शोकं कुरु कल्याणि शङ्करं दर्शयामि ते । अविमुक्तमिदं नाम सार्थकं प्रभविष्यति ॥ ५८॥ त्वया कृतमिदं स्तोत्रं वियोगहरणं भवेत् । यः पठिष्यति भक्त्या च श्रोष्यते तस्य सुन्दरि ॥ ५९॥ यं यमिच्छति भावेन तं तं दास्यामि सर्वगः । ब्रह्मभूयकरं स्तोत्रं भविष्यति न संशयः ॥ ६०॥ इत्युक्त्वा गणनाथश्च तत्रैवान्तरधीयत । तमेव सापि ध्यायन्ती स्थिता कालप्रतीक्षिका ॥ ६१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते काशीशिववरप्रदानं नामैकपञ्चाशत्तमोऽध्यायः ॥ १.५१

१.५२ नारायणसम्प्रश्नवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । एतस्मिन्नन्तरे तत्र ययौ ज्योतिर्विदुत्तमः । ढुण्ढिनामा द्विजो यस्तु पुरा प्रोक्तो मयाऽनघ ॥ १॥ सर्वं तन्नगरं तेन मोहितं तत्क्षणान् मुने । पश्चात्समागतो बुद्धो विष्णुर्भ्रष्टं तथाऽकरोत् ॥ २॥ ढुण्ढिना स दिवोदासो बोधितः स च त्यक्तवान् । राज्यं बौद्धेन सन्तस्थौ प्रतीक्षन् शिवदर्शनम् ॥ ३॥ ताभ्यामाकारितः शम्भुः प्रययौ गणपं पुरः । कृत्वा सम्पूज्य तं काश्यामादौ चक्रे हि वासिनम् ॥ ४॥ स्वयं देवगणैः पश्चादृषिभिश्च विवेश ह । ननाम चरणे काशी विघ्नपस्य शिवस्य च ॥ ५॥ यथास्थानं स्थिताः सर्वे देवा ऋषिगणाः सुखम् । दिवोदासाय मोक्षं स शङ्करः प्रददौ ततः ॥ ६॥ ततः कदाचिद्देवेशो जगाद गिरिशं वचः । तुभ्यं दत्ता मया काशी कृतं सर्वं यथायथम् ॥ ७॥ अधुनाऽहं महादेव यास्ये स्वं धाम शोभनम् । यदा मे स्मरणं कुर्यास्तदा द्रक्ष्यसि मां शिव ॥ ८॥ इत्युक्त्वा ढुण्ढिविप्रेण सहितोऽसौ गजाननः । अन्तर्धानं ययौ तत्र देवानां पश्यतां मुने ॥ ९॥ ततः स्वयं विश्वनाथस्तस्य मूर्तिं विधाय सः । स्थापयामास यत्नेन देवैश्व ब्राह्मणैः सह ॥ १०॥ विधिवत्पूजयामास चोपचारैर्मनोरमैः । सर्वैः कृत्वा नमस्कारं प्रादक्षिण्यं चकार सः ॥ ११॥ सर्वान् जगाद विश्वेशो हितं श‍ृणुत मे वचः । आदौ ढुण्ढिं समभ्यर्च्य ये मां तोष्यति तत्त्वतः ॥ १२॥ तेभ्यो भुक्तिं तथा मुक्तिं दास्यामि त्वन्यथा न च । काशीवासफलस्याऽपि दाताऽयं वक्रतुण्डकः ॥ १३॥ वेदादीनां रहस्यं यदन्विष्टं तु मया बहु । तन्मूलोऽयं हृदि प्राप्तः साक्षाद्ब्रह्मपतिः प्रभुः ॥ १४॥ अतोऽयं ढुण्ढिराजेति नाम्ना ख्यातो मया कृतः । धर्मार्थकाममोक्षाणां दाता क्षेत्रे न संशयः ॥ १५॥ एवमुक्त्वा महादेवो नित्यं पूजापरायणः । ढुण्ढिराजस्य सेवायां सावधानो बभूव ह ॥ १६॥ तथा त्वमपि देवेशं विघ्नराजं भज प्रभो । त्यक्त्वाहङ्कारभावं तु ब्राह्मणः प्रभविष्यसि ॥ १७॥ मुद्गल उवाच । याज्ञवल्क्यवचः श्रुत्वा विश्वामित्रो महातपाः । जगाद तं महाभागं विनयेन समन्वितः ॥ १८॥ विश्वामित्र उवाच । याज्ञवल्क्य महाभाग त्वयाऽहं बोधितः खलु । अधुना वद मे ज्ञानं सर्वज्ञोऽसि महामुने ॥ १९॥ अहङ्कारो मया त्याज्यः केन मार्गेण तद्वद । कीदृशो मे शरीरेऽसौ वद तिष्ठति साम्प्रतम् ॥ २०॥ गणेशानमहं केन भजेयं विधिना वद । स्वरूपं च कथं तस्य योगीन्द्रोऽसि यतः स्वयम् ॥ २१॥ याज्ञवल्क्य उवाच । श‍ृणु त्वं कौशिक ब्रह्मन्नहङ्कारं वदामि ते । तपसा ब्राह्मणत्वं वै प्राप्स्यामि न हि संशयः ॥ २२॥ एनमेव विजानीह्यहङ्कारं तु महामते । तस्य त्यागे विधिं वक्ष्ये तं श‍ृणुष्व यथायथम् ॥ २३॥ प्राप्तये ब्राह्मणत्वस्य तपेयं तप उत्तमम् । यदा दास्यति देवोऽसौ तदा ब्राह्मणता भवेत् ॥ २४॥ यदा न दत्ता देवेन राजर्षित्वं तदा खलु । अस्तु मे सततं तच्च कोऽहं मे कीदृशं तपः ॥ २५॥ अहं सदा पराधीनो देहधारी न संशयः । करोमि यत्नमत्यन्तं दैवं चेत्प्रभविष्यति ॥ २६॥ अनेन विधिना विप्र तपस्व त्वं महामुने । तदा प्रभविता सर्वं गताहङ्कारभावतः ॥ २७॥ अन्यत्त्वं श‍ृणु मे वाक्यं मत्सरं त्यज कौशिक । शरणं गणराजं तं याहि तेन सुखं भवेत् ॥ २८॥ न मत्समं तपः कस्य स्पर्धसे तेन वै द्विजान् । मत्सरेण समाविष्टः कुतस्त्वं ब्राह्मणो भवेः ॥ २९॥ त्वया मत्सरभावेन वसिष्ठस्य महात्मनः । पुत्राणां च शतं पूर्णं नाशितं रक्षसा यथा ॥ ३०॥ अपरा सृष्टिरारब्धा त्रिशङ्क्वर्थं पुरा त्वया । वसिष्ठहनने यत्नं नानारूपं करोषि वै ॥ ३१॥ तं मत्सरं त्यज त्वं वै विधिं च शणु तत्त्वतः । नीचोऽहं सर्वविप्रेभ्यस्तपस्विभ्यो न संशयः ॥ ३२॥ मया किंवा तपः कार्यमेभ्यश्चाधिकमादरात् । एषां तपःप्रभावोऽपि मनसा गम्यते न च ॥ ३३॥ एवं ज्ञात्वा तपस्व त्वं ब्राह्मणः प्रभविष्यसि । अन्यथा युगसाहस्रं तपस्तप्त्वा मरिष्यासि ॥ ३४॥ (Page खं. १ अ. ५३ पान ११९) सर्वेभ्यो नमनं विप्र हृदि भावसमन्वितम् । कर्तव्यं च त्वया नित्यं राजर्षिवन्महामते ॥ ३५॥ एवमुक्त्वा महायोगी वक्रतुण्डप्रभावजाम् । कथां संश्रावयामास पूर्वजातां महायशाः ॥ ३६॥ कथां श्रुत्वा महाभागो विश्वामित्रः सुविस्मितः । उवाच तं नमस्कृत्य याज्ञवल्क्यं तपोधनम् ॥ ३७॥ विश्वामित्र उवाच । वक्रतुण्डस्य योगीन्द्र चरित्रं संश्रुतं मया । अधुना वद मे ब्रह्मन् तस्यानुभवरूपकम् ॥ ३८॥ याज्ञवल्क्य उवाच । श‍ृणु यत्नेन माहात्म्यं पुरावृत्तं कथानकम् । कथयामि च ते प्रीत्या मदीयं ज्ञानदायकम् ॥ ३९॥ एकदाऽहं गतो ब्रह्मन् वैकुण्ठं स्वर्गमुत्तमम् । तत्र नारायणं नत्वाऽपृच्छं तं जगदीश्वरम् ॥ ४०॥ किं सारं सर्वभूतेषु कस्याधारेण संस्थितम् । मह्यं वद महाभाग साक्षात्त्वं जगदीश्वरः ॥ ४१॥ इदं सर्वं त्वदाधारं भासते हृदि सर्वदा । तथापि प्रष्टुमिच्छामि श्रवणार्थं यथायथम् ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्य - नारायणसम्प्रश्नवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ १.५२

१.५३ नारायण-याज्ञवल्क्यसंवादो नाम त्रिपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नारायण उवाच । गणेशाधारमेतत्त्वं जानीहि ब्राह्मणोत्तम । हृदि बुद्धिप्रदातृत्वाद्बहिः सिद्धिप्रदानतः ॥ १॥ अतोऽस्माभिः सदा देव आदौ पूज्यो महामुने । आदौ स एव मध्येऽपि तिष्ठत्यन्ते न संशयः ॥ २॥ गुणरूपा वयं सर्वे ब्रह्माकारो गणेश्वरः । सिद्धिबुद्धिपतिः सो हि सर्वपूज्यश्च भो मुने ॥ ३॥ स्वानन्दो यस्य लोकोभूद्भावाभावविवर्जितः । अगम्यो मुनिदेवानां द्वन्द्वहीनः परात्परः ॥ ४॥ एवं गणपतिं ज्ञात्वा मुच्यते सर्वबन्धनात् । तदाधारमिदं सर्वं जगद्ब्रह्म महामते ॥ ५॥ सर्वैरप्येकदा तत्त्वैर्मत्सरेण समन्वितैः । वादः कृतो महाभाग अहं श्रेष्ठ इति ध्रुवम् ॥ ६॥ मदाधारमिदं सर्वं पालयामि सृजाम्यहम् । हरामि मायया तस्मात् स्वेच्छारूपोऽहमेव च ॥ ७॥ एवं परस्परं सर्वे तत्त्वात्मानो महाबलाः । विवादं चक्रिरे तत्र सामर्थ्येन विमोहिताः ॥ ८॥ ततस्तत्र गुणाधीशो ब्राह्मणस्य च वेषभृत् । आययौ वादशान्त्यर्थं ज्ञानदानार्थमादरात् ॥ ९॥ तं दृष्ट्वा विस्मिता देवाः कोऽयमत्र समागतः । आत्माकारा वयं सर्वे तत्रास्य च गतिः कथम् ॥ १०॥ ततस्तं सर्वतत्त्वानि पप्रच्छुः को भवानिति । कथं मार्गस्त्वया प्राप्तो ब्रह्माकारेषु वर्त्मसु ॥ ११॥ ततस्तान् स द्विजो हृष्टो जगौ वै योगमायया । मया मार्गः कृतो ह्यत्र ब्राह्मणेन सुयोगिना ॥ १२॥ किमर्थं वै यूयमपि विवादं कुरुथ स्वयम् । तन्मे वदत तत्त्वानि करिष्यामि हितं महत् ॥ १३॥ (Page खं. १ अ. ५३ पान १२०) ततो हृष्टानि तत्त्वानि तमूचुः श्रेष्ठभावतः । कस्तिष्ठति वद प्राज्ञ तत्त्वेष्वस्मत्सु वै प्रभो ॥ १४॥ तेषां वचनमाकर्ण्य तानुवाच द्विजोत्तमः । तत्त्वाधारमिदं सर्वं विद्यते नात्र संशयः ॥ १५॥ विश्वं त्यक्त्वा यूयमपि पश्यतो मम तिष्ठत । विश्वं विदीर्यते सर्वं येन त्यक्तं स वै प्रभुः ॥ १६॥ इति श्रुत्वा वचः सर्वैस्तथेति प्रतिपाद्य तम् । क्रमेण त्यक्तुमारेभे आत्माकारा महाबलाः ॥ १७॥ ब्रह्माकारा च या पृथ्वी विश्वं त्यक्त्वा स्थिताऽभवत् । तथेदमखिलं विश्वं न विनष्टं तु भावतः ॥ १८॥ ततो जलेन तत्त्यक्तं तथा वै तादृशं स्थितम् । ततस्तु तेजसा त्यक्तं न विनष्टं तथापि च ॥ १९॥ ततो वायुश्च तत्त्यक्त्वा स्थितो दूरं महामुने । तथापि सकलं विश्वं पूर्ववत् संस्थितं बभौ ॥ २०॥ आकाशेन च सन्त्त्यक्तं तथा वै तादृशं बभौ । तन्मात्राभिस्ततस्त्यक्तं तथा वै पूर्ववद्बभौ ॥ २१॥ तन्मात्राभिः सहैतानि भूतानि च महामुने । पञ्चापि दूरतः स्थित्वा शुशुचुर्विप्रभाणि च ॥ २२॥ ततो ज्ञानेन्द्रियैस्त्यक्तं पञ्चभिस्तत्तथा बभौ । ततः कर्ममयैस्त्यक्तं तथापि तादृशं बभौ ॥ २३॥ तत इन्द्रात्मकं ब्रह्म त्यक्त्वा दूरे स्थितं मुने । तथापि विश्वमेवेदं पूर्ववत्संस्थितं किल ॥ २४॥ एवं देवगणाः सर्वे इन्द्रियाणां प्रकाशकाः । आत्माकाराः स्थिताः दूरं त्यक्त्वा विश्वं महामुने ॥ २५॥ तथापि सकलं विश्वं बभौ तेऽपि सुविह्वलाः । निस्तेजसोऽभवंस्तत्र स्थितास्तत्त्वसमन्विताः ॥ २६॥ ततोऽन्नब्रह्मणा त्यक्तं विश्वं तदपि सम्बभौ । प्राणात्मकेन सन्त्यक्तं तथा वै तादृशं बभौ ॥ २७॥ ततो मनोमयेनैव ब्रह्मणा त्यक्तमादरात् । तथापि सम्बभौ विश्वं पूरितं केनचिन्मुने ॥ २८॥ ततो विज्ञानरूपेण त्यक्तं तदपि तद्बभौ । तत आनन्दरूपेण त्यक्तं विश्वं बभौ तदा ॥ २९॥ ततो नादात्मकेनैव ब्रह्मणा त्यक्तमादरात् । ततो बिन्दुमयेनैव त्यक्तं विश्वं बभौ मुने ॥ ३०॥ सोऽहम्ब्रह्मात्मकेनापि त्यक्तं विश्वं बभौ मुने । ततो बोधात्मना त्यक्तं तथा विश्वं च सम्बभौ ॥ ३१॥ ततो विदेहरूपेण त्यक्तं तदपि सम्बभौ । ततोऽप्यसत्स्वरूपेण त्यक्तं तदपि सम्बभौ ॥ ३२॥ ततोऽपि सत्स्वरूपेण त्यक्तं विश्वं बभौ मुने । ततः समस्ववेद्येन त्यक्तं विश्वं समावभौ ॥ ३३॥ ततो नेतिस्ववेद्येन त्यक्तं वै विश्वमाबभौ । ततः स्वानन्दरूपेण त्यक्तं विश्वं लयं ययौ ॥ ३४॥ ततस्ते विस्मिताः सर्वे स्वानन्दं तुष्टुवुर्मुने । प्रहृष्टमनसो भूत्वा प्रार्थयामासुरादरात् ॥ ३५॥ सकलं यत्त्वदाधारमस्माकं त्वं विशेषतः । नायकः सर्वतत्त्वानामतो भव विनायकः ॥ ३६॥ विनायक नमस्तुभ्यं पुनर्विश्वं सृज प्रभो । यथा पूर्व स्थितं स्वामिंस्तथा कुरु जगत्पते ॥ ३७॥ एवं तैः प्रार्थितो देवो विशेषेण विनायकः । निर्ममे सकलं विश्वं यथापूर्व मुनीश्वर ॥ ३८॥ ततस्ते ब्रह्मरूपत्वात्तद्विश्वं विविशुः पुनः । यथा स्वस्थानमात्मानमाश्रित्य मुमुदुस्ततः ॥ ३९॥ (Page खं. १ अ. ५३ पान १२१) जगदीश्वरनामानः सर्वेशास्ते प्रकीर्तिताः । अनेन विधिना ब्रह्मन् ज्ञातव्यं तद्विशेषतः ॥ ४०॥ स विनायक इत्युक्तो द्विविधो याज्ञवल्क्यक । संयोगेन निजानन्दो निरानन्दो ह्ययोगतः ॥ ४१॥ द्विविधे नाशभूते च योगरूपोऽयमुच्यते । विनायको महातेजा ब्रह्मणां नायकः स्मृतः ॥ ४२॥ तं विदित्वा ततः शान्तिं वयं प्राप्ता महामुने । अतः शान्त्यर्थमत्यन्तं तमाराधय भो द्विज ॥ ४३॥ माया भ्रान्तिकरी जन्तोर्वक्रा सङ्कथिता मुने । तुण्डेन हन्ति तां भक्त्या तेनाऽयं वक्रतुण्डकः ॥ ४४॥ वक्रतुण्डं च सर्वेशं शरणं याहि भो मुने । तदा योगीन्द्रसेव्यस्त्वं भविष्यसि न संशयः ॥ ४५॥ मनोवाणीमयं सर्वं गकाराक्षरमेव च । मनोवाणीविहीनं च णकारं विद्धि मानद ॥ ४६॥ तयोः स्वामी गणेशोऽयं योगरूपः प्रकीर्तितः । तं प्राप्य ब्रह्मभूताश्च भवन्ति खलु जन्तवः ॥ ४७॥ इदं वेदान्तसम्भूतं रहस्यं कथितं मुने । गोपनीयं प्रयत्नेन तेन सिद्धिमवाप्स्यसि ॥ ४८॥ इत्युक्त्वा विररामाथ तदा नारायणः स्वयम् । गणेशाय नमस्तुभ्यमित्युवाच पुनः पुनः ॥ ४९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते नारायण-याज्ञवल्क्यसंवादो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ १.५३

१.५४ वक्रतुण्डचरित्रसमाप्तिर्नाम चतुःपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । ततोऽहं परमप्रीतस्तं प्रणम्य जनार्दनम् । गतस्तपोवनं तात योगाभ्यासं समारभै ॥ १॥ क्रमेण पञ्चधा वृत्तिं जित्वा चित्तस्य साधनैः । गणपं शान्तियोगेन प्राप्तोऽहं तदनुग्रहात् ॥ २॥ अतस्त्वं शरणं याहि वक्रतुण्डं विशेषतः । तेन ब्राह्मणसंवन्द्यो भविष्यसि न संशयः ॥ ३॥ गायत्रीजपसम्भूतं श्रेयो देहि महामुने । गजाननाय तेन त्वं विघ्नहीनो भविष्यसि ॥ ४॥ विश्वस्मिन् मित्रभावं त्वं प्रकुरुष्व सदातनम् । विश्वामित्रश्च ते नाम तदा सार्थत्वमेष्यति ॥ ५॥ मुद्गल उवाच । इत्युक्त्वा याज्ञवल्क्यः स ययौ तेन प्रपूजितः । गणेशाय नमश्चेति नाममन्त्रं सदा जपन् ॥ ६॥ तदा प्रभृति गायत्रीं विश्वामित्रः स धर्मवित् । त्यक्त्वाऽहङ्कारमत्यन्त मत्सरं च तथाऽजपत् ॥ ७॥ गणेशार्पणभावेन गायत्रीं च जजाप ह । तपस्तताप विप्रोऽसौ ध्यात्वा हृदि गजाननम् ॥ ८॥ गायत्री वेदमातेयं पिता प्रणव उच्यते । स एव गणनाथोऽयमोङ्काराकृतिमस्तकः ॥ ९॥ सगुणो गणराजोऽयमोङ्कार इति कथ्यते । (Page खं. १ अ. ५४ पान १२२) तस्मै समर्प्य योगी स गायत्रीं योगमाप्नुवान् ॥ १०॥ ततः स्वल्पेन कालेन ब्रह्मा लोकपितामहः । विश्वामित्रं ययौ दक्ष ब्राह्मणत्वं ददौ परम् ॥ ११॥ वसिष्ठमुनिना तत्र ब्राह्मणैः सह पूजितः । विश्वामित्रो महातेजा ब्राह्मणोऽयं प्रकीर्तितः ॥ १२॥ सप्तर्षीणां महातेजा मध्ये प्रोक्तो महर्षिभिः । तथा गणेशभक्तेषु मुख्योऽभूत्स प्रतापवान् ॥ १३॥ नित्यं पूजाप्रकारेण पूजयामास तं मुनिः । तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥ १४॥ विश्वामित्र उवाच । नमस्ते गणनाथाय विघ्नेशाय नमो नमः । निर्गुणाय गुणानां च पते वै ते नमो नमः ॥ १५॥ नमः सर्वविदां श्रेष्ठ नमः सर्वप्रियङ्कर । गजाकाराय देवाय गणेशाय नमो नमः ॥ १६॥ गजवक्त्र नमस्तुभ्यं ब्रह्मणां च पते नमः । अनादये च सततमादिपूज्याय ते नमः ॥ १७॥ सर्वसिद्धिप्रदात्रे ते नानामायाधराय च । मायिभ्यो मोहदात्रे वै तद्धीनाय नमो नमः ॥ १८॥ बुद्धेः पते नमस्तुभ्यं बुद्धिपञ्चकधारिणे । मनोवाणीमयायैव तद्धीनाय नमो नमः ॥ १९॥ सिंहारूढाय देवाय देवानां च पते नमः । देवदेवेशसेव्यायानादिसिद्धाय ते नमः ॥ २०॥ नमश्चतुर्भुजायैव मूषकध्वजधारिणे । नमो मूषकवाहाय हेरम्बाय नमो नमः ॥ २१॥ लम्बोदर नमस्तुभ्यं शूर्पकर्णाय ते नमः । योगिनां कुलदेवाय योगिनां च पते नमः ॥ २२॥ एवं तस्मिन् संस्तुवति प्रादुर्भूतो गजाननः । अनन्तादित्यसङ्काशः सिंहारूढो महोदरः ॥ २३॥ तं दृष्ट्वा निपपातोर्व्यां साश्रुनेत्रो महामुनिः । पुलकाङ्कितसर्वाङ्गो भक्तिभावेन सम्प्लुतः ॥ २४॥ तं दृष्ट्वा गणराजस्तु जगाद मुनिसत्तमम् । त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ॥ २५॥ यः पठेच्छ्रुणुयाद्योऽपि स मे मान्यो भविष्यति । भुक्तिं मुक्तिं च दास्यामीप्सितं तस्मै न संशयः ॥ २६॥ त्वं तु मत्तो वरान् ब्रूहि सर्वान् दास्यामि दुर्लभान् । भक्तिभावेन सन्तुष्टस्तव योगीश्वराधुना ॥ २७॥ मुद्गल उवाच । गणेशवचनं श्रुत्वा सावधानोऽभवन्मुनिः । तं प्रणम्य महाभक्त्या जगौ वै हर्षसंयुतः ॥ २८॥ विश्वामित्र उवाच । धन्यो वंशो मदीयोऽद्य धन्यं जन्म तपो यशः । धन्यौ मे जनकौ देव त्वदङ्घ्रियुगदर्शनात् ॥ २९॥ किं वाञ्छामि गणाधीश सर्वं मायात्मकं प्रभो । अतो भक्तिं त्वदीयां मे देहि नाथ नमोऽस्तु ते ॥ ३०॥ गाणपत्येषु मे देहि संवासं च गजानन । अमुमेव वरं ब्रह्मन्मायामोहविनाशनम् ॥ ३१॥ एवमस्त्विति तं प्रोच्य सोऽन्तर्धानं ययौ प्रभुः । विश्वामित्रस्तदारभ्य गाणपत्यो बभूव ह ॥ ३२॥ एवं नानावताराश्च वक्रतुण्डस्य धीमतः । भक्तानां सिद्धिदातारो दानवानां विनाशकाः ॥ ३३॥ चरित्रमखिलं तेषां वक्तं नैव प्रशक्यते । अतः सङ्क्षेपतो विद्धि कथितं सुकथानकम् ॥ ३४॥ एतद्वै वक्रतुण्डस्य चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं पूर्णं कथितं ते प्रजापते ॥ ३५॥ (Page खं. १ अ. ५४ पान १२३) यः श‍ृणोति नरो भक्त्या संश्रावयति यः पुमान् । पठेद्यः कृतकृत्यः स भविता नात्र संशयः ॥ ३६॥ पुत्रपौत्रप्रदं चैव धनधान्यकरं परम् । विद्यायुष्यप्रदं दक्ष चरितं कथितं परम् ॥ ३७॥ सहस्रमाघमासान् यः प्रयागे स्नाति मानवः । वक्रतुण्डचरित्रस्य श्रवणेन च तत्फलम् ॥ ३८॥ आजन्ममरणान्तं यः काशीवासं करोति च । यथाविधि यथाशास्त्रं श्रवणादस्य तत्फलम् ॥ ३९॥ इष्टापूर्तादिकं यस्तु लक्षवारं करोति च । सम्पूर्णभावयुक्ताच श्रवणादस्य तत्फलम् ॥ ४०॥ यज्ञानां चैव साङ्गानां फलं प्राप्नोति मानवः । अस्य श्रवणमात्रेण सम्पूर्णं तत्प्रजापते ॥ ४१॥ बहुनाऽत्र किमुक्तेन ब्रह्मभूयपदप्रदम् । श्रवणेन न सन्देहो जानीहि त्वं महामते ॥ ४२॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । तदेतदखिलं तेऽद्य मयाऽपि कथितं मुने ॥ ४३॥ वक्रतुण्डस्य माहात्म्यं सङ्क्षेपेण च शौनक । कथितं ते मया विप्र भावं ज्ञात्वा विशेषतः ॥ ४४॥ श्रोतुमिच्छा पुनः किं ते वर्तते मुनिसत्तम । तवाऽहं सुप्रसादेन सन्तुष्टाऽस्मि न संशयः ॥ ४५॥ वक्रतुण्डस्य माहात्म्यं गुह्यं वेदरहस्यकम् । गोपनीयं विशेषेण तेन सिद्धिं लभेन्नरः ॥ ४६॥ न श्रावयेत् दुर्जनेभ्यो गणेशद्विषते तथा । पापकर्मभ्य एवेदं विषयिभ्यः कदाचन ॥ ४७॥ यदि तेषां पुरश्चेदं श्रावितं च महामुने । तदा कोपः प्रभविता वक्रतुण्डस्य निश्चितम् ॥ ४८॥ स चानादरमात्रेण दशपूर्वान् दशापरान् । नरकं च श्रावयतः प्रापयत्येष पूरुषान् ॥ ४९॥ अतः साधुजनेभ्यश्च गाणपत्येभ्य एव च । प्रयत्नेन श्रावयेद्यः स्वानां कोटिं समुद्धरेत् ॥ ५०॥ अतो यः पृच्छको वक्ता स्वस्वकोटिकुलोद्भवम् । पुरुषाणां समूहं स उद्धरेन्नात्र संशयः ॥ ५१॥ कलिकल्मषदाहघ्नं वक्रतुण्डचरित्रकम् । कृतादिषु किमाश्चर्यं दहेत्पापगणानिति ॥ ५२॥ अहो कलौ विकुण्ठं च सर्वदेवचरित्रकम् । गाणपत्यं विशेषेण गतिदं च सदा भवेत् ॥ ५३॥ इदं मुने चरित्रं ते वक्रतुण्डस्य भावतः । कथितं तेन विप्रर्षे कृतकृत्योऽस्मि साम्प्रतम् ॥ ५४॥ धन्योऽहं भवतां सङ्गाद्येन संस्मरणं कृतम् । गणेशस्य परेशस्य सफलो मे भवोऽभवत् ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डचरित्रसमाप्तिर्नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ १.५४ ॥ श्रीगजाननार्पणमस्तु । ॥ इति श्रीमुद्गलपुराणे प्रथमः खण्डः समाप्तः ॥ Proofread by Yash Khasbage
% Text title            : Mudgala Purana Khanda 1 Vakratundacharitam
% File name             : mudgalapurANam1.itx
% itxtitle              : mudgalapurANaM khaNDaH 1 vakratuNDacharitam
% engtitle              : Mudgala Purana Khanda 1 Vakratundacharitam
% Category              : purana, ganesha
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org