मुद्गलपुराणं खण्डः १ वक्रतुण्डचरितम्
॥ मुद्गलपुराणं खण्डः १॥
॥ अथ श्रीमुद्गलपुराणे प्रथमः खण्डः प्रारभ्यते ॥
(Page खं. १ अ. १ पान १)
॥ ॐ नमः श्रीस्वानन्देशगणेशाय पूर्णयोगात्मने ॥
१.१ शौनकसूतसंवादो नाम प्रथमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
अथ श्रीमन्मौद्गलपुराणप्रारम्भः ।
ध्याये स्थिरेण चित्तेन गणेशं सर्वसिद्धिदम् ।
बुद्धिप्रकाशकं पूर्णं योगिनां हृदि संस्थितम् ॥ १॥
जितं तेनाखिलं नानाब्रह्मवर्णनवर्णितम् ।
नानाजगत्समूहं वै गणेशेनोभयं कृतम् ॥ २॥
भक्तसंरक्षणार्थाय निर्गुणः सगुणस्तु यः ।
नानावतारवान्सोऽपि नानाभेदधरो बभौ ॥ ३॥
तस्मै नमो गणेशाय नरकुञ्जररूपिणे ।
सगुणो नररूपो यो निर्गुणो गजवक्त्रकः ॥ ४॥
नमः शिवाय शान्ताय विष्णवे प्रभविष्णवे ।
सूर्याय शक्तये चैव चतुर्धा ते विभागिने ॥ ५॥
ब्रह्माणं शेषनागं च नरं नारायणं सदा ।
नमामि भावयुक्तोऽहं पुराणपुरुषं परम् ॥ ६॥
देवानां योगिनां चैव महर्षीणां महात्मनाम् ।
व्रजामि शरणं नित्यं पुराणज्ञानसिद्धये ॥ ७॥
पुराकल्पेऽभवन्विप्राः शौनकाद्याः सुसाधनाः ।
कलिदोषभयात्सर्वे नैमिषारण्यमाश्रिताः ॥ ८॥
तस्मिन्कलियुगावासं ज्ञात्वादौ ब्रह्मणो मुखात् ।
मुनिधर्मप्रसिद्ध्यर्थं कर्मज्ञान प्रसिद्धये ॥ ९॥
अन्यच्च ब्रह्मणा प्रोक्तं पुराणश्रवणं सदा ।
कलिदोषहरं पुण्यं तदर्थमभवन्यताः ॥ १०॥
कस्मिंश्चित्समये सूतो लोमहर्षण आययौ ।
मुनीनां दर्शनार्थाय पुराणज्ञो विचक्षणः ॥ ११॥
नैमिषारण्यशोभां च पश्यंस्तत्र सुविस्मितः ।
अहो धन्यं महारण्यं कलिदोषविवर्जितम् ॥ १२॥
दृष्टा वै मुनयस्तेन सुप्रसन्नाननाम्बुजाः ।
नित्यनैमित्तिककराः स्वधर्माचरणप्रियाः ॥ १३॥
पञ्चयज्ञरतास्तत्र वेदाध्ययनकारिणः ।
ब्रह्मतेजःसमायुक्ता ज्वलन्तः पावका इव ॥ १४॥
विनाऽस्तेन यथा सूर्यो योगिनो वेदवेदिनः ।
तारकाः सर्वजन्तूनां शौनकाद्या महर्षयः ॥ १५॥
तत्रागत्य महाभागः स सूतो रोमहर्षणः ।
साष्टाङ्गं प्रणतः पूर्वं परमाह्लादसंयुतः ॥ १६॥
अभिवाद्य मुनीन्सर्वान्भक्त्या नम्रात्मकन्धरः ।
प्राञ्जलिः प्रयतो भूत्वा प्रोवाच मधुरं वचः ॥ १७॥
सूत उवाच ।
वंशो धन्यो मदीयोऽद्य पितरौ च कुलं वयः ।
विद्या व्रतं तपो ज्ञानं धन्यं सर्वं मुनीश्वराः ॥ १८॥
भवतां पादपद्मं च सर्वाशुभविनाशनम् ।
काङ्क्षितं यत्सदा देवैर्मया दृष्टं सुपुण्यतः ॥ १९॥
साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा ब्रह्मवित्तमाः ।
येषां दर्शनमात्रेण कृतकृत्याश्च जन्तवः ॥ २०॥
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं न संशयः ।
(Page खं. १ अ. १ पान २)
भवतां दर्शनेनैव मुक्तोऽहं भवसागरात् ॥ २१॥
इति ब्रुवाणं साधुं तं सूतं वै रोमहर्षणम् ।
प्रत्यूचुर्ब्राह्मणाः सर्वे भक्तियुक्तं तपोधनाः ॥ २२॥
ब्राह्मणा ऊचुः ।
सूत सूत महाभाग स्थीयतां पुण्यवर्धन ।
तव दर्शनमात्रेण सन्तुष्टाः स्मो वयं खलु ॥ २३॥
इत्युक्तस्तत्र सूतस्तु मुनिदत्ते शुभासने ।
समासीनो महाबुद्धिः साञ्जलिः सन्प्रतापवान् ॥ २४॥
सुखासीनं च सूतं तं दृष्ट्वा तत्र महामुनिः ।
भृगुप्रेष्ठश्च मुख्योऽसौ मुनीनां प्रत्युवाच ह ॥ २५॥
शौनक उवाच ।
सूत सूत महाभाग सर्वज्ञ सुखदायक ।
आराधितस्त्वया प्राज्ञः कृष्णद्वैपायनो महान् ॥ २६॥
नारायणावतारो यः साक्षान्नारायणः स्वयम् ।
वेदस्य भागकारी स पुराणानां विभागकृत् ॥ २७॥
त्वं वै तस्मात्पुराणानि सेतिहासानि वेत्सि च ।
तेन सर्वज्ञता जाता तवेयं पुण्यवर्धन ॥ २८॥
वयं भीताश्च कालेन कलिकल्मषरूपिणा ।
नैमिषारण्यमास्थाय स्थिताज्ञप्ताः स्वयम्भुवा ॥ २९॥
तत्र विश्रान्तिदाता वै त्वं प्राप्तोऽसि महाद्युतिः ।
पुराणानां प्रवक्ता च पुण्यवान्पुण्यवर्धनः ॥ ३०॥
यत्र पौराणिकी गाथा कलिस्तत्र न तिष्ठति ।
तस्मात्कारुण्यभावेन पुराणं ब्रुहि नः प्रभो ॥ ३१॥
तव यद्दर्शनं जातं महापुण्येन सत्तम ।
धन्यं धन्यं महाभाग साक्षात्संशयछित्स्वयम् ॥ ३२॥
छेदेन संशयानां वै सतां त्वं रोमहर्षणम् ।
करोषि तेन ते नाम रोमहर्षण इत्यहो ॥ ३३॥
इति पृष्टो महात्मा स शौनकेन महर्षिणा ।
संहृष्टः सन्नुवाचेदं वचनं धर्मसंस्कृतम् ॥ ३४॥
सूत उवाच ।
अद्याऽहं कृतकृत्यो वै कृतोऽनुग्रहकारिणा ।
सकलं कथयिष्यामि व्यासेन कथितं च यत् ॥ ३५॥
इत्युक्त्वा कथयामास पुराणानि स कृत्स्नशः ।
नानाख्यानविभक्तानि नानाधर्मयुतानि च ॥ ३६॥
सर्वार्थसाधनान्येव दुःखनाशकराणि च ।
ब्रह्मभूतप्रदान्येव नानामतयुतानि च ॥ ३७॥
पुराणोपपुराणानि सेतिहासानि भागशः ।
धर्मार्थकाममोक्षाणां दातृत्वात्पुण्यदानि च ॥ ३८॥
श्रुत्वा श्रुत्वा मुनीन्द्रास्ते हर्षयुक्ता बभूविरे ।
नित्यं प्रमुदितास्तेन प्रीताः सम्पूर्णभावतः ॥ ३९॥
युगस्योत्क्रमणं तस्य चक्रुस्ते मुनयोऽखिलाः ॥ ४०॥
पुराणेषु च सर्वेषु सेतिहासेषु सर्वतः ।
नानाभेदमतादीनि श्रुत्वा भ्रान्ता मुनीश्वराः ॥ ४१॥
निश्चयं नाधिगच्छन्ति परं किं सर्वसम्मतम् ।
तदर्थंं मुनिवर्यस्तं पर्यपृच्छत्स शौनकः ॥ ४२॥
शौनक उवाच ।
भो भो सूत महाभाग शृणु मे वचनं लघु ।
पुराणानि च संश्रुत्य भ्रान्ताः स्मो वै महाद्युते ॥ ४३॥
इदं परमिदं नेति त्वया सर्वत्र वर्णितम् ।
भिन्नं भिन्नं महाबुद्धे तेन नो निश्चयः कथम् ॥ ४४॥
कुत्रापि शङ्करः श्रेष्ठः कुत्र विष्णुस्तथा रविः ।
शक्तिश्चैव गणेशश्च विराजः कुत्र रूपकम् ॥ ४५॥
कुत्र ब्रह्म च योगश्च ज्ञानं कर्म च कुत्र वै ।
आत्मा प्राणोऽन्नमित्युक्तं मनो वै परतः परम् ॥ ४६॥
कुत्र बुद्धिर्महाभाग साङ्ख्यं स्वानन्द एव च ।
(Page खं. १ अ. २ पान ३)
इत्यादिमतभेदेन निश्चयो नैव जायते ॥ ४७॥
अतस्त्वं कृपया ब्रूहि वेदशास्त्रार्थ सम्मतम् ।
सर्वेषां मान्यमेकं च सर्वसंशयनाशनम् ॥ ४८॥
इति पृष्टो महातेजाः शिष्यो व्यासस्य सत्तमः ।
एकं श्रुतिस्मृतीनां यत् सारं कथितुमारभत् ॥ ४९॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे सारं मुद्गलभाषितम् ।
सर्वश्रुतिस्मृतीनां च सर्वमान्यं विशेषतः ॥ ५०॥
पुरा दक्षाध्वरे जातं यज्ञविध्वंसनं महत् ।
रुद्रेणागत्य सहसा कृतो विघ्नो महत्तरः ॥ ५१॥
देवाः पराजिताः सर्वे रुद्रैः परमदारुणैः ।
दक्षमस्तकसञ्छेदो वीरभद्रेण वै कृतः ॥ ५२॥
ब्रह्मणागत्य तत्रासौ सान्त्वितो बहुलोक्तिभिः ।
शङ्करो जीवयामास दक्षं योगेन तत्त्वतः ॥ ५३॥
यज्ञविध्वंसशोकार्तो दक्षः शापेन मोहितः ।
अज्ञानावरणेनापि न किञ्चिन्निश्चयं ययौ ॥ ५४॥
तत्राजगाम भगवान् साक्षात्सूर्य इवोदितः ।
वेदशास्त्रार्थतत्त्वज्ञो योगीन्द्रो मुद्गलो मुनिः ॥ ५५॥
गणेशभक्तप्रवरः सर्ववन्द्यो महायशाः ।
तपसां कर्मणां साक्षान्निधिरेष सनातनः ॥ ५६॥
तं दृष्ट्वोत्थाय दक्षोऽसौ प्रणनाम महामुनिम् ।
आसनाद्यैः सुसम्पूज्य वक्तुं समुपचक्रमे ॥ ५७॥
दक्ष उवाच ।
भो भो मुनीन्द्र वन्द्यस्त्वमाङ्गिरस महाद्युते ।
यज्ञविध्वंसशोकार्तं मां पालय जडीकृतम् ॥ ५८॥
मुद्गल उवाच ।
मा चिन्तां कुरु भो दक्ष प्रजापालेन्द्रसत्तम ।
विघ्नराजं स्मर त्वं वै तेन सर्वं न दुर्लभम् ॥ ५९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते शौनकसूतसंवादो नाम प्रथमोऽध्यायः ॥ १.१
१.२ दक्षनन्दिविवादो नाम द्वितीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
दक्षेण मुनिशार्दूलाः श्रुतं मुद्गलभाषितम् ।
प्रणिपत्य पुनः सोऽपि पप्रच्छ हितकारकम् ॥ १॥
शौनक उवाच ।
दक्षमुद्गलसंवादं श्रोतुमिच्छामहे वयम् ।
विस्तरेण समाचक्ष्व सूत सन्तोषकारक ॥ २॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे कथां लोकैकपावनीम् ।
यां श्रुत्वा पुरुषस्येह नान्यत्कृत्यं प्रविद्यते ॥ ३॥
दक्षमुद्गलसंवादं समासेन विवर्णये ।
सारं सर्वत्र सम्पूर्णं भवरोगविमोचनम् ॥ ४॥
मुद्गलोक्तं वचः श्रुत्वा दक्षः प्रोवाच धर्मवित् ।
प्राञ्जलिः प्रयतो भूत्वा हृष्टरोमा महायशाः ॥ ५॥
दक्ष उवाच ।
पुण्यं महन्मेऽस्ति पुरातनं यत्तेनैव जातं तव दर्शनं भोः ।
मोक्षप्रदं तत्परलोकदं च भोगप्रदं धर्म्यमनन्तपुण्यम् ॥ ६॥
शापेन नष्टो मम सर्वबोधः प्रजापतित्वं प्रगतं मदीयम् ।
यज्ञस्य भङ्गो विविधं हि कष्टं तत्रैव ते दर्शनमत्र चित्रम् ॥ ७॥
(Page खं. १ अ. २ पान ४)
तव दर्शनमात्रेण किञ्चित् स्फूर्तिः समागता ।
धन्योऽसि योगिनां मध्ये पूतत्वं त्वीदृशं त्वयि ॥ ८॥
कोऽसौ विघ्नपतिः पूर्णः कीदृशः किंस्वभाववान् ।
कति तस्यावताराश्च कस्यांशो वाऽपि किंस्तवः ॥ ९॥
पूजितो विधिवत्कैश्च किं फलं दत्तवान् परम् ।
किंविहारश्च कस्मिन्वै लोके वसति स प्रभुः ॥ १०॥
एतत्सर्वं सुविस्तार्य पृच्छते ब्रूहि सादरम् ।
ज्ञात्वा तं देवदेवेशं भविष्यामि हितावहम् ॥ ११॥
इत्येवं कथयन्तं तं मुनयो विस्मयान्विताः ।
पप्रच्छुः सकलं तद्वै दक्षचेष्टितमादरात् ॥ १२॥
शौनकाद्या ऊचुः ।
दक्षः प्रजापतिः साक्षात्कथं मूढत्वमागतः ।
प्रजापतित्वं तस्यापि कथं नष्टं महात्मनः ॥ १३॥
यज्ञध्वंसः कथं प्राप्तः शम्भुः प्रकुपितः कथम् ।
एतत्सर्वं सुविस्तार्य ब्रूहि सूत महामते ॥ १४॥
श्रुत्वा मुनिवचो रम्यं कृष्णद्वैपायनस्य च ।
शिष्यः प्रोवाच मधुरं वचनं सम्प्रहर्षयन् ॥ १५॥
सूत उवाच ।
शृणु शौनक यत्नेन कथां भुवनपावनीम् ।
कथयामि यथातथ्यं श्रुतां व्यासमुखेन याम् ॥ १६॥
ब्रह्मणो दश पुत्रा ये तत्र दक्षो महान्प्रभुः ।
अतः प्रजापतिस्त्राता कृतस्तेन स वेधसा ॥ १७॥
स राज्यं प्राप्य मत्तोऽभूद् गर्वेणैव परिप्लुतः ।
अहं प्रजापतीनां च श्रेष्ठो राजा न मत्समः ॥ १८॥
एकदा गिरिवर्ये तु कैलासे शङ्करस्य च ।
दर्शनार्थं गता देवा मुनयः सिद्धकिन्नराः ॥ १९॥
गन्धर्वा नागमुख्याश्च विद्याधर्यप्सरोगणाः ।
ब्रह्मा विष्णुर्महेन्द्रश्च सर्वे तेन सुसत्कृताः ॥ २०॥
सभामध्ये समासीनाः शङ्करेण च पूजिताः ।
वामभागे स्थितो विष्णुदक्षिणाङ्गे पितामहः ॥ २१॥
क्रमेण सर्वे देवाश्च यथायोग्यं स्थिता मुने ।
गणा नन्दिमुखास्तत्र समीपे संस्थिता बभुः ॥ २२॥
तत्र ते मुनयो हृष्टा वसिष्ठाद्याः प्रतुष्टुवुः ।
नारदप्रमुखाः सर्वे गन्धर्वा ललितं जगुः ॥ २३॥
नृत्यमप्सरसश्चक्रुरेवं सर्वे पुपूजिरे ।
शङ्करं परिवाराढ्यमानन्दन समन्वितम् ॥ २४॥
कथा नानाविधास्तत्र तेऽकुर्वन् भावपूर्वकम् ।
तत्राजगाम दक्षः स प्रजापतिपतिः स्वयम् ॥ २५॥
शिवेन मानितस्तत्र वचसा चैव सत्कृतः ।
नमनं न कृतं तस्मा ईश्वरेण प्रभावतः ॥ २६॥
तेन सङ्कुपितोऽत्यन्तमृचिवान् गर्वमोहितः ।
शृणुध्वं ये सभाश्रेष्ठा याथातथ्यानुवर्तिनः ॥ २७॥
रुद्रस्य श्वशुरोऽहं वै पुत्रतुल्यो ममाप्ययम् ।
नमनं न कृतं कस्मात् तस्मात्त्याज्यो महेश्वरः ॥ २८॥
ऐश्वर्यगर्वयुक्तोऽयं स्वधर्मन्यूनतां गतः ।
देवपङ्क्तो कथं योग्यः पिशाचानामधीश्वरः ॥ २९॥
वर्णाश्रमविहीनोऽयं नग्नो भिक्षाशने रतः ।
सर्पभूषणसक्तश्च चिताभस्माङ्गलेपनः ॥ ३०॥
व्याघ्राजिनपरीतश्च मुण्डमालाधरः सदा ।
इत्यादिदोषयुक्तत्वान्न स्पृश्योऽयं महात्मभिः ॥ ३१॥
अशिवः शिवनामा वै वृथेशित्वाभिमानवान् ।
अतो न भाषणीयोऽयं दोषकारी पिशाचराट् ॥ ३२॥
इति ब्रुवन्तमत्यन्तं स्वयम्भूस्तं निराकरोत् ।
(Page खं. १ अ. ३ पान ५)
न गृहीतं पितुर्वाक्यं क्रोधावेशेन तेन तत् ॥ ३३॥
नानानिन्दायुतं वीक्ष्य भगवान्नन्दिकेश्वरः ।
उवाच सर्वसान्निध्ये क्रोधेनारक्तलोचनः ॥ ३४॥
नन्दिकेश्वर उवाच ।
धिक्त्वां व्यर्थं प्रजापाल शिवनिन्दापरायण ।
शिवतत्त्वं न जानासि मदेनासिक्त दुर्मते ॥ ३५॥
मायाखेलनवानेष तथा तद्दोषवर्जितः ।
तेनायं शिवतां प्राप्तः कथं निन्दा करोषि रे ॥ ३६॥
शिवनिन्दाकराः शास्त्रे नारका ज्ञानवर्जिताः ।
अतस्त्वं ज्ञानहीनस्तु भवितास्यपवाक्यतः ॥ ३७॥
निन्दा येनैव वक्त्रेण कृता शम्भोर्महात्मनः ।
अजास्यो भवितासि त्वं भ्रष्टराज्यो भविष्यसि ॥ ३८॥
इति श्रुत्वा वचः सोऽपि तं पुनः प्रत्युवाच ह ।
न त्वं जानासि दुर्बुद्धे शङ्करं कर्मदूषितम् ॥ ३९॥
वर्णाश्रमविहीनश्च यस्तिष्ठेत्पुरुषः कदा ।
पदे पदे महापापो नारकी मरणे भवेत् ॥ ४०॥
तस्माद्यूयं महापापाः शैवाः स्पृश्या न कुत्रचित् ।
भुवि ये शाङ्करा नित्यं ज्ञानहीना भवन्तु ते ॥ ४१॥
कलौ प्राप्ते च पाखण्डा भविष्यन्ति जटाधराः ।
शूद्रा नेदं पठिष्यन्ति नग्ना भस्माङ्गलेपनाः ॥ ४२॥
स्त्रीमांसमदिरासक्ता नानाभोगकरास्तथा ।
नरके वै पतिष्यन्ति शम्भुमार्गपरायणाः ॥ ४३॥
प्रजापतिं प्रभुः साक्षाद् ब्रह्मा तं निरभत्सर्यत् ।
ततो जगाम स्वगृहं दक्षः क्रोधपरिप्लुतः ॥ ४४॥
सर्वे ते स्वस्थलं जग्मुदुःखितास्तेन वै कृताः ।
शिवोऽपि दुःखसंयुक्तो म्लानतां परमां गतः ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते दक्षनन्दिविवादो नाम द्वितीयोऽध्यायः ॥ १.२
१.३ पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे स्थिरीकृत्य मनश्चलम् ।
विघ्नेशभक्तिहीना ये विघ्नाक्रान्ता भवन्ति ते ॥ १॥
दक्षोऽभूत् स्वगृहं गत्वा क्रोधामर्षसमन्वितः ।
न किञ्चित् सुखवान् विप्राः शूलयुक्तो यथा नरः ॥ २॥
शिक्षां शिवस्य कर्तुं स हृदि व्यवसितोऽभवत् ।
न किञ्चित्प्राप्तवांस्तत्र विचारं भृशदुःखितः ॥ ३॥
एतस्मिन्नन्तरे तत्र नारदो दिव्यदर्शनः ।
आजगाम महातेजा दक्षेणैव सुसत्कृतः ॥ ४॥
आसनं पाद्यमर्घ्यं च दत्वा सम्यक् प्रपूजितः ।
पृष्टः स कुशलं प्रश्नैःप्रसन्नो नारदोऽब्रवीत् ॥ ५॥
नारद उवाच ।
दक्ष किं दुःखितस्त्वं ते मुखं म्लानतया युतम् ।
कथयस्व महातेजाः प्रजापतिपतिर्भवान् ॥ ६॥
दक्ष उवाच ।
शृणु नारद येनाहं दुःखितो म्लानतां गतः ।
(Page खं. १ अ. ३ पान ६)
शिवेनासत्कृतस्तत्र सभायां सर्वसन्निधौ ॥ ७॥
दर्पणैवावृतः शम्भुस्तस्य दर्पहृतिः कथम् ।
तादृशं ब्रूहि मे शीघ्रं सर्वार्थज्ञ विचक्षण ॥ ८॥
नारद उवाच ।
बृहस्पतिसवं दक्ष कुरु त्वं सर्वभावनः ।
यज्ञभागविहीनं तं तत्र शम्भुं कुरुष्व भोः ॥ ९॥
यज्ञभागेन हीनोऽयं देवपङ्क्तिबहिष्कृतः ।
पिशाचेशो भवेच्छम्भुर्देवत्वं तत्र संहृतम् ॥ १०॥
प्रजापतिपतिः साक्षाद्भवान्सर्वत्र सम्मतः ।
करिष्यसि यथा पूर्वं पश्चाद्वै तादृशं भवेत् ॥ ११॥
एवं परम्पराप्राप्तं तस्यैश्वर्य प्रकाशितम् ।
इति मे मनसि प्राप्तं यथेच्छसि तथा कुरु ॥ १२॥
इत्युक्त्वा नारदस्तस्माद् गतो ब्रह्माण्डमण्डले ।
वीणागानरतो भूत्वा योगी ब्रह्मणि तत्परः ॥ १३॥
दक्षोऽपि हर्षितो जातः सत्यं मानितवानभूत् ।
बृहस्पतिसवं कर्तुं समारेभे स तत्क्षणात् ॥ १४॥
तत्राजगाम भगवान् विष्णुर्देववरः प्रभुः ।
आजग्मुर्देवगन्धर्वा नानावाहनशोभिताः ॥ १५॥
तत्राजग्मुर्द्विजाः सर्वे नानातत्त्वार्थकोविदाः ।
जामातरः सपत्नीकाः कश्यपप्रमुखास्तथा ॥ १६॥
यथोद्दिष्टं चकारासौ दक्षः परमहर्षितः ।
गणनाथविहीनं तं यज्ञं शङ्करवर्जितम् ॥ १७॥
गणेशस्यास्मृतिर्जाता सर्वेषां भाविगौरवात् ।
दधीचिप्रमुखास्तत्र शैवाः क्रोधेन पूरिताः ॥ १८॥
दधीचिस्तत्र तूवाच क्रोधावेशसमन्वितः ।
शृणु दक्ष महाप्राज्ञ हितं वचनमुत्तमम् ॥ १९॥
शङ्करेण विहीनोऽयं यज्ञो नैव प्रशोभते ।
प्राणहीनो यथा देहस्तथैवासौ न राजते ॥ २०॥
इति श्रुत्वा वचस्तस्य दक्षो रोषसमन्वितः ।
उवाच गर्वमोहेन शापेनैव विमोहितः ॥ २१॥
शिवोऽशिवरूपश्च पिशाचानामधीश्वरः ।
वर्णाश्रमविहीनत्वान्न योग्यो यज्ञ कर्मणि ॥ २२॥
यत्र लक्ष्मीपतिः साक्षाद् भगवान्मङ्गलालयः ।
तत्र किं न्यूनतां याति मिथ्यावाचं तु मा वद ॥ २३॥
श्रुत्वा तस्य वचः क्रूरं दधीचिः पुनरब्रवीत् ।
शिवनिन्दां करोषि त्वमज्ञानेन विमोहितः ॥ २४॥
यज्ञनाशो भवेद् दक्ष शङ्करद्वेषतस्तव ।
न सिद्धिं लभसे त्वं तु नष्टभाग्यो न संशयः ॥ २५॥
अत्र ये ब्राह्मणाद्या वै वर्णा नाना समागताः ।
सर्वे कलियुगे पापाः पाखण्डाश्च भवन्तु ते ॥ २६॥
स्वधर्महीनतां प्राप्य नरकेऽन्ते पचन्तु वै ।
विष्णुः प्रमोदयुक्तोऽत्र स वै पाखण्ड कारकः ॥ २७॥
कलौ देवो भवेन्नित्यं पाखण्डानां सहायवान् ।
पाखण्डप्रियवज्जन्तुः कलौ मलकरः सदा ॥ २८॥
शिवहीने तथा यज्ञे मुख्यो जातो हि केशवः ।
वेदबाह्यं स्वयं कर्म कुरुते तेन शापितः ॥ २९॥
सर्वे देवाश्च शीघ्रं हि भवितारः पराजिताः ।
मुनयो दुःखसंयुक्ता एवं शप्त्वा गतो मुनिः ॥ ३०॥
तमनुप्रययुः सर्वे शैवाः परमधार्मिकाः ।
गौतमो गालवश्चैव वामदेवो द्वितस्त्रितः ॥ ३१॥
मार्कण्डेयो ह्यगस्त्याद्याः क्रोधयुक्ता महर्षयः ।
यज्ञोऽयं नावलोक्यो वै वेदबाह्यक्रियात्मकः ॥ ३२॥
(Page खं. १ अ. ३ पान ७)
विष्णुनान्ये ततः सर्वे सान्त्विताः संस्थिताः पदे ।
देवता मुनयो वर्णा द्रष्टुं यज्ञं प्रहर्षिताः ॥ ३३॥
भृग्वादिमुनिभिस्तत्र यज्ञारम्भः कृतोऽभवत् ।
यथाविधि यथाभागं देवास्तत्राश्रिता मखे ॥ ३४॥
दक्षो हृष्टोऽभवत् तत्र यजमानः सुमन्दधीः ।
वेदकल्पानुसारेण मुनयस्तन्विरे मखम् ॥ ३५॥
एतस्मिन्नन्तरे तत्र कैलासे नारदो गतः ।
शिवया सह शम्भुं च प्रणतोऽभूत्स भाविकः ॥ ३६॥
सतीं प्रति प्रहस्याह नारदः कलहप्रियः ।
देवि दक्षाध्वरे कस्माद् गमनं न कृतं त्वया ॥ ३७॥
हृष्टपुष्टजनाः सर्वे महोत्सवसुमोदिताः ।
भगिन्यस्तत्र ते रेजुः पतिभिः सह मोदिताः ॥ ३८॥
पितृभर्तृगृहे स्त्रीणां मानामानं न विद्यते ।
इत्युक्त्वा नारदस्तस्मात्प्रययौ कौतुकी मुनिः ॥ ३९॥
गते मुनौ सती तत्र मानसे दुःखिता भृशम् ।
शङ्करं प्रणिपत्याह हृदयेन विदूयता ॥ ४०॥
नीलकण्ठ नमस्तुभ्यं शङ्कराय शिवाय च ।
सगुणाय मृडायैव निर्गुणाय नमो नमः ॥ ४१॥
गन्तुमिच्छा त्वया सार्धमस्ति मे दक्षमन्दिरे ।
तत्र यज्ञोत्सवो नाथ प्रसीद प्रार्थये विभो ॥ ४२॥
एवं श्रुत्वा भारतीं तां सती शम्भुः सुबोधयन् ।
स्मयमानश्च तामूचे किमिदं भाषसे प्रिये ॥ ४३॥
मद्द्वेषी जनको दक्षस्तव तेन निमन्त्रितः ।
नाहं तस्मान्न गन्तव्यं विपरीतं भविष्यति ॥ ४४॥
भवती च महामाया मायिकोऽहं न संशयः ।
सृज त्वं मुनिदेवादीनत्र यज्ञं करोम्यहम् ॥ ४५॥
श्रुत्वा शम्भुवचो रम्यं हृदयेन विदूयता ।
उवाच दुःखिता देवी ममाज्ञां देहि शङ्कर ॥ ४६॥
न किञ्चिदुक्तवान् शम्भुस्तदा देवी पितुर्गृहे ।
न प्रयोजनमाज्ञाया विचार्यैवं जगाम च ॥ ४७॥
एतज्ज्ञात्वा महाऽऽश्चर्यं विस्मितेन शिवेन च ।
भावि यद्भविता तद्वै विमानं प्रेषितं वरम् ॥ ४८॥
विमानमास्थाय शक्तिराजगाम विहायसा ।
पितुर्गृहं महाभागा मानिता सर्वबन्धुभिः ॥ ४९॥
मात्रा पित्रा स्वसृभिस्तु सत्कृता हर्षितात्मभिः ।
दक्षस्तत्र प्रमोदेन जगाद तनयां प्रति ॥ ५०॥
आगता त्वं महाभागे यज्ञोऽयं शोभितस्त्वया ।
श्रुत्वा पितृवचो रम्यं तं सा प्रोवाच दुःखिता ॥ ५१॥
सत्युवाच ।
शोभयामि कथं यज्ञं नाहूता भवतात्र भोः ।
अनाहूताऽगता चाहं त्वदीये यजनालये ॥ ५२॥
ततः स कुपितो दक्ष उवाच शृणु पुत्रिके ।
मदीयो बहुलो दोषस्तेन त्वां दत्तवान्भ्रमात् ॥ ५३॥
पिशाचभूतराजाय पित्रा मे कथितं कृतम् ।
वर्णाश्रमविहीनाय वृथेश्वरपदाय च ॥ ५४॥
तस्य दोषेण देवि त्वं नाहूता यज्ञकर्मणि ।
स्वागतं ते तथाप्यद्य तिष्ठ त्वं मत्समीपगा ॥ ५५॥
सूत उवाच ।
पितुर्वचनमाकर्ण्य शिवनिन्दायुतं महत् ।
क्रोधसन्तप्तगात्रा सा पश्यन्ती यज्ञमन्दिरम् ॥ ५६॥
अरुद्रभागसंयुक्तं यज्ञं दृष्ट्वा चुकोप ह ।
उवाच किं कृतं तात वेदबाह्यक्रियात्मकः ॥ ५७॥
रुद्रभागविहीनोऽयं यज्ञो नैव फलप्रदः ।
शिवनिन्दां करोषि त्वं ह्यशिवोऽसि न संशयः ॥ ५८॥
(Page खं. १ अ. ४ पान ८)
शिवेति द्व्यक्षरं ब्रह्म निगुर्णं गुणधारणम् ।
न जानासि यतस्त्वं भोस्तेनाहं दुःखिता भृशम् ॥ ५९॥
तव देहात समुद्भूतो मम देहस्त्वयं पितः ।
न योग्यः शिवनिन्दायाः कारणात् तं त्यजाम्यहम् ॥ ६०॥
इत्युक्त्वा सा हृदि ध्याने नीत्वा तं शङ्करं प्रभुम् ।
योगाग्निना समुज्ज्वाल्य देहं धाम्नि गताऽभवत् ॥ ६१॥
पुनः स्वमायया देवी हिमाचलसुताऽभवत् ।
शिवध्यानपरा साक्षात्तं लेभे सा पुनः पतिम् ॥ ६२॥
तपस्तप्तं सुतीव्रं यत्तेन चात्मवशेन सा ।
लेभे मुदं शिवेनापि पार्वती प्रेमविह्वला ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः ॥ १.३
१.४ दक्षचरितं नाम चतुर्थोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
कैलासशिखरे रम्ये शिवश्चिन्तापरोऽभवत् ।
अनाहूता गता देवी द्विट्गृहे किं भविष्यति ॥ १॥
वटमूले समासीनो नन्दिकेशादिभिर्वृतः ।
योगिभिः सेवितस्तत्र कथा नाना प्रवर्तयन् ॥ २॥
नानाऽपशकुनं तत्र बभूवातिभयानकम् ।
स्तुतिभिस्तेन सर्वे ते उत्पाताशङ्कया भृशम् ॥ ३॥
एतस्मिन्नतरे तत्र नारदो मुनिराययौ ।
तं प्रणम्य स्थितो योगी शिवं कल्याणदं परम् ॥ ४॥
कथावसरमासाद्य प्रोवाच कठिनं वचः ।
धन्या सती त्रिभुवने न समा कामिनी तया ॥ ५॥
सतीत्येव च यन्नाम कृतं तत्सार्थकं परम् ।
शिवनिन्दां समाकर्ण्य तृणवज्ज्वलितं वपुः ॥ ६॥
नारदस्य वचः श्रुत्वा वज्रसारमयोपमम् ।
उवाच तमृषिं शम्भुः किं नु देवी मृता मुने ॥ ७॥
न किञ्चिदुक्तवांस्तत्र शम्भुक्रोधभयाकुलः ।
शोकाग्निर्मां दहेत्किं वा ततो देवोऽन्वबुध्यत ॥ ८॥
शोकसागरमग्नोऽभूत्किं मां त्यक्त्वा गता शिवा ।
शक्तिहीनः कृतोऽहं वै ह्यशक्त सर्वकर्मणि ॥ ९॥
निःश्वासपरमोप्यासीदर्धमङ्गं गतं त्विति ।
जीवितेन च किं कार्यं देहत्यागं करोम्यहम् ॥ १०॥
योगिभि सान्त्वितो देवो न किञ्चित्सुखवानभूत् ।
शिवश्चिन्तापरो भूत्वा विचारं कृतवान् हृदि ॥ ११॥
अहो विघ्नाकुलोऽहं वै कृतो विघ्नकरेण च ।
गर्वितः परमैश्वर्यात्कृतं गर्वस्य खण्डनम् ॥ १२॥
अतुला शक्तिरर्धाङ्गे जगन्माताऽस्ति मे सदा ।
अर्धनारीश्वरोऽहं च न वियोगो मम क्वचित् ॥ १३॥
शक्तियुक्ततया नित्यं शक्तोऽहं प्रभुरीश्वरः ।
अखण्डैश्वर्यमोहेन विघ्नराजं च नामस्मरम् ॥ १४॥
(Page खं. १ अ. ४ पान ९)
इति गत्वा स्वयं शम्भुर्मनसा गणपं भजन् ।
भक्त्यैकचेतसा चैव ध्यात्वा रूपमनुत्तमम् ॥ १५॥
चतुर्भुजं महाकायं गजवक्त्रं महोदरम् ।
मुकुटेन विराजन्तं कर्णकुण्डलधारिणम् ॥ १६॥
रत्नमालाधरं पूर्णं नाभिशेषविभूषितम् ।
किङ्किणीकायुक्तपादं क्वणच्चरणनूपुरम् ॥ १७॥
सिद्धिबुद्धियुतं चिन्तामणिभूषितवक्षसम् ।
एकचित्तेन च ध्यात्वाऽसाधयत्तं समाधिना ॥ १८॥
तुष्टाव विविधैर्वाक्यैर्गणेशं ब्रह्मरूपिणम् ।
निराकारं च साकारं विघ्नराजं हृदि स्थितम् ॥ १९॥
शिव उवाच ।
नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे ।
विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥ २०॥
लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे ।
त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥ २१॥
नैर्गुण्येन च वै साक्षाद् ब्रह्मरूपधराय च ।
नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥ २२॥
अभक्तेभ्यस्तमोदाय नानाभयकराय च ।
हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥ २३॥
अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते ।
अनन्तकरकर्णायानन्तोदरधराय ते ॥ २४॥
नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे ।
अखण्डलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥ २५॥
आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव ।
सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखण्डविक्रम ॥ २६॥
अन्ते तमोरूपिणमेव सृष्ट्वा शम्भु स्वशक्त्या हरसि त्वमाद्य ।
एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥ २७॥
मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ ।
स्वानन्दसंज्ञे नगरे विभासि सिद्ध्या च बुद्ध्या सहितः परेश ॥ २८॥
तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै ।
वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥ २९॥
अर्धनारीश्वरत्वं यत्तद्गतं मेऽधुना प्रभो ।
शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥ ३०॥
नानैश्वर्ययुता देवी सा गता गणप प्रभो ।
अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥ ३१॥
निर्गुणोऽहं सदा शम्भुः सगुणः सर्वभाववित् ।
शक्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥ ३२॥
शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर ।
अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥ ३३॥
ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः ।
उवाच शङ्करं तत्र हर्षयन् श्लक्ष्णया गिरा ॥ ३४॥
अहो पश्य च मां शम्भो किं शोचसि महेश्वर ।
भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥ ३५॥
अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमण्डले ।
तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥ ३६॥
अधुना ते गतो मोहो मदीया स्मृतिरागता ।
ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥ ३७॥
हिमाचलसुता देवी भविष्यति न संशयः ।
वृणोषि त्वं सतीं तां वै पार्वतीं च पुनः शिव ॥ ३८॥
(Page खं. १ अ. ४ पान १०)
रमसे च तया सार्धं मद्भक्त्या भावितो दृढम् ।
ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥ ३९॥
स्मृतमात्रस्तवाग्रेऽहं प्रत्यक्षः स्यां सदाशिव ।
इति दत्त्वा वरं देवस्तत्रैवान्तरधीयत ॥ ४०॥
ततश्च शङ्करः क्षुब्धः शक्तो जातः स्वकर्मणि ।
जटामास्फालयामास गणेशं मनसा स्मरन् ॥ ४१॥
तस्माज्जातो महाबाहुर्वीरभद्रस्त्रिमस्तकः ।
त्रिपदः शूलवान् साक्षान्मृत्युरूपो महाद्युतिः ॥ ४२॥
शङ्कर प्रणनामाथ प्राञ्जलिः सन्पुरः स्थितः ।
आज्ञां कुरु महादेव दासोऽहं ते वशे स्थितः ॥ ४३॥
वचनं तस्य संश्रुत्य प्रहृष्टः शङ्करोऽब्रवीत् ।
सयज्ञस्य च दक्षस्य हरणं कुरु साम्प्रतम् ॥ ४४॥
तदाज्ञां शिरसा धृत्वा अट्टहासमथाकरोत् ।
तेन त्रिभुवनं सर्वं कम्पितं भयविह्वलम् ॥ ४५॥
ततो निर्गम्य वेगेन शरीरान्निर्ममे महान् ।
नानारुद्रानपारांश्च तैर्वृतः स गतो मखम् ॥ ४६॥
तमन्वयुर्गणाः शम्भोर्नन्दिकेशादयोऽपरे ।
क्षुभिताः क्रोधसंयुक्ता ब्रह्माण्डाशनसन्निभाः ॥ ४७॥
दुर्निमित्तानि सर्वाणि दक्षगेहेऽभवंस्तदा ।
शङ्किता मुनयो देवाः किं भवेदिति विह्वलाः ॥ ४८॥
एतस्मिन्नन्तरे तत्र दक्षयज्ञे महाबलः ।
आजगामावृतो रुद्रैर्वीरभद्रो भयानकः ॥ ४९॥
नन्दी भृङ्गरिटिर्भृङ्गी पुष्पदन्तमुखास्तथा ।
आगताः क्रोधदीप्तास्या भक्षयन्तो यथान्तकाः ॥ ५०॥
सहसा वेगतः सर्वे मारयन्त इतस्ततः ।
पलायन्त च दिक्प्रान्ते दक्षस्यानुचरास्तदा ॥ ५१॥
यज्ञमण्डपमासाद्य बभञ्जुस्तत्क्षणेन च ।
देवान् सर्वान् मुनींश्चैव पीडयन्तः सुदारुणाः ॥ ५२॥
ऋषिपत्नीर्दधुस्तत्र देवपत्नीः सहस्रशः ।
अताडयन्महावीर्या हाहाकाराः प्रवर्तिताः ॥ ५३॥
कथं त्वसाधुपतयो भवतीभिर्वृताः खलु ।
शिवद्वेषकरा दुष्टास्तस्य प्राप्तं महत्फलम् ॥ ५४॥
एवमूचुर्हविद्रव्यं बभक्षुस्ते प्रहर्षिताः ।
वेदिकायां प्रचक्रुस्ते विट्सर्गं मूत्रणं तथा ॥ ५५॥
जगाम भगवांस्तत्र शङ्करः क्रोधसंयुतः ।
धनुर्बाणधरः साक्षात्प्रलयाग्निरिवोत्थितः ॥ ५६॥
तत्र युद्धमभूद् घोरं देवानां रुद्रचारिणाम् ।
स्वयं च युयुधे शम्भुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ ५७॥
पूष्णो दन्तांश्च नाराचैर्भेदयामास शङ्करः ।
भगस्य नेत्रमुन्मूल्य पाटयामास संयुगे ॥ ५८॥
धर्मं धृत्वा महावीरो नन्दिकेशोऽब्रवीत्तदा ।
को धर्मो वद रे दुष्ट शिवहीने मखे खल ॥ ५९॥
कश्यपं धृतवांस्तत्र भृङ्गी तेजस्विनां वरः ।
वरुणं ताडयामास पुष्पदन्तश्च वीर्यवान् ॥ ६०॥
भैरवेण धृतस्तत्र देवेन्द्रो मूर्छितः कृतः ।
वीरभद्रो बलाद्दक्षं पातयामास भूतले ॥ ६१॥
एवं प्रमथिते यज्ञे शङ्खचक्रगदाधरः ।
युयुधे विष्णुरव्यग्रो महाबलसमन्वितः ॥ ६२॥
शस्त्रास्त्रैर्बहुभिस्तेन मर्दिता बलवत्तराः ।
रुद्रा भूतपिशाचाद्या हाहाकारं प्रचक्रिरे ॥ ६३॥
तं दृष्ट्वा सहसा शम्भुर्हृदि ध्यात्वा गणाधिपम् ।
बाणैस्तं हृदि संविध्य पातयामास भूतले ॥ ६४॥
पुनः संज्ञां समासाद्य स्वास्त्रं नारायणात्मकम् ।
(Page खं. १ अ. ४ पान ११)
मोचयामास गोविन्दो जगत्संहारकारकम् ॥ ६५॥
ततः शम्भुर्मुमोचापि स्वास्त्रं पाशुपतं महत् ।
ते उभे व्योम्नि चात्यन्तं युयुधाते परस्परम् ॥ ६६॥
तस्माज्जातो महानग्निर्ददाह पृथिवीमिमाम् ।
भयक्रान्तं त्रिभुवनं जातं तत्र मृतोपमम् ॥ ६७॥
एतस्मिन्समये तत्र वीरभद्रेण कल्पितम् ।
पशुरूपं शिरश्छित्वा दक्षस्याग्नौ हुतं ततः ॥ ६८॥
रुद्रैर्नानाविधैः कोलाहलस्तत्र प्रवर्तितः ।
छिन्नभिन्नाः सुरा जातास्त्रातारं लेभिरे न ते ॥ ६९॥
मुनयोऽपिभयोद्विग्ना व्यद्रवंस्तु दिशो दश ।
पिशाचादिभिराकृष्टाश्चक्रुशुश्चातिदारुणम् ॥ ७०॥
विष्णुना तत्र चक्रं वै भ्रामितं क्रोधधारिणा ।
कृतान्तसदृशं मुक्तं शम्भोः सन्निधिमागतम् ॥ ७१॥
चक्रं तच्छङ्करं दृष्ट्वा तं नत्वा तत्र संस्थितम् ।
तेन क्रोधपरीताङ्गः शिवः शूलं समाददे ॥ ७२॥
शूलमुद्यम्य तं विष्णुं हन्तुं यावत्प्रवर्तते ।
तत्राकाशोद्भवा वाणी वारयामास शङ्करम् ॥ ७३॥
न हन्तव्यो हरिः शम्भो त्वया पाल्योऽयमप्युत ।
जहि कोपं महादेव शिवाय सततं नमः ॥ ७४॥
तत्राजगाम सहसा स्वयम्भूस्तं न्यषेधयत् ।
मा कुरुष्व वधं शम्भो विष्णोः संहारकारक ॥ ७५॥
नमः शिवाय शान्ताय शूलिने शम्भवे नमः ।
महादेवाय रुद्राय पशूनां पतये नमः ॥ ७६॥
संहाररूपी त्वं साक्षादकाले किं प्रवर्तसे ।
जहि कोपं महाबाहो नमस्ते परमेश्वर ॥ ७७॥
ब्रह्मणा संस्तुतो देवः प्रशान्तोऽभून्महामुने ।
तस्मिन्काले स्वयं विष्णुर्ब्रह्मणा ज्ञापितः प्रभुः ॥ ७८॥
शिवाय नमनं कृत्वा स्थितः संलज्जितो भृशम् ।
प्रोवाच मधुरं ब्रह्मा शङ्करं वृषभध्वजम् ॥ ७९॥
शान्त उर्वरितं यज्ञे हविर्द्रव्यं च यत्प्रभो ।
रुद्रभागः स विज्ञेयो गृहाण त्वं सदाशिव ॥ ८०॥
विघ्नेशमायया भ्रान्ता दक्षाद्याः सततं शिव ।
मोहितानां विशेषेण द्रष्टव्यं न प्रचेष्टितम् ॥ ८१॥
अतस्त्वं कृपया देव प्रसन्नो भव शङ्कर ।
सर्वेभ्यः सुखदाता वै यज्ञं तं पुनरारभ ॥ ८२॥
देवानां च मुनीनां च स्त्रीणां दासादिजीविनाम् ।
यथापूर्वं स्थितं रूपं तादृशं कुरु शङ्कर ॥ ८३॥
भगः स नेत्रसंयुक्तः पूषा वै पिष्टभुक् कृतः ।
देवाश्च मुनयः सर्वे स्त्रियो दासादयस्तथा ॥ ८४॥
यथापूर्वं कृतास्तेन युक्ता रूपेण तेजसा ।
गतदुःखाश्च सर्वे ते ववन्दुः शङ्करं पुनः ॥ ८५॥
दक्षस्य मस्तकं तत्र दग्धं वै जातवेदसि ।
तज्ज्ञात्वा शङ्करो देवो भृङ्गिणं प्रत्युवाच ह ॥ ८६॥
गच्छ चानय तं हत्वा य आदौ दृश्यते त्वया ।
तस्य मस्तकमेतत्तु भवेद् दक्षस्य मस्तकम् ॥ ८७॥
तदा तेन पुरो दृष्टो ह्यजः परमशोभितः ।
तं हत्वा तच्छिरस्तत्र समानीतं च भृङ्गिणा ॥ ८८॥
तदेव योजयित्वा तमजीवयत शङ्करः ।
स सद्य उत्थितस्तत्र दक्षोऽजमुखतां गतः ॥ ८९॥
ब्रह्मणा प्रेरितो दक्षः पुनस्तुष्टाव शङ्करम् ।
गतमानो महाबाहुः भक्त्या सर्वेश्वरं ततः ॥ ९०॥
(Page खं. १ अ. ४ पान १२)
दक्ष उवाच ।
नमामि शङ्कर साक्षाद्यदाधारमिदं जगत् ।
कालरूपं यथाकालं बोधयामास तं शिवम् ॥ ९१॥
कालेन फलमूलानि जायन्तेऽन्नादिकानि च ।
शीतोष्णसमभावश्च सदा कालेन जायते ॥ ९२॥
सूर्यस्तपति कालेन ज्योतिषां गण एव च ।
कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ ९३॥
कालेन सृज्यते सृष्टिर्ब्रह्मणा वै पुनः पुनः ।
कालेन पालनं तत्र कुरुते विष्णुरव्ययः ॥ ९४॥
कालेन स्वेच्छया शम्भुः संहारं प्रकरोति च ।
यत्किञ्चिदिह तत्सर्वं कालाधीनं न संशयः ॥ ९५॥
स एव कालो भगवानीश्वरो ब्रह्मसंज्ञितः ।
शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः ॥ ९६॥
क्षमस्व मेऽपराधं त्वं त्वन्मायागर्वितस्य च ।
यत्कृतं तद्दयासिन्धो नमस्ते परमेश्वर ॥ ९७॥
सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ।
सृष्टिकर्त्रे च संहर्त्रे पात्रे नानास्वरूपिणे ॥ ९८॥
अनन्तगुणराशिस्त्वं वर्णनीयं किमप्यहो ।
नान्तं ब्रह्मादयो जग्मुर्मादृशानां च का कथा ॥ ९९॥
नमो नमो ब्रह्ममयाय देवादये शिवायाथ च पूर्णमूर्ते ।
अनादिमध्यान्तविहीन भूम्ने नमो नमो भक्तभयापहन्त्रे ॥ १००॥
इत्येवं स्तुवतस्तत्र प्रेमगद्गदया गिरा ।
अजवत्तस्य सञ्जातं भाषणं लललल्ललम् ॥ १०१॥
तेन हृष्टो महादेवस्तं पुनर्नरमस्तकम् ।
भगवान् कारयामास यथापूर्वं मुनीश्वराः ॥ १०२॥
प्रोवाच मधुरं वाक्यं शिवस्तं सर्वसन्निधौ ।
प्रजापतिपतिर्दक्ष सर्वमान्यो भविष्यसि ॥ १०३॥
त्वया यद्रचितं स्तोत्रं मदीयं मत्प्रियं भवेत् ।
यस्तोष्यति प्रदास्यामि तस्मै काममनेन माम् ॥ १०४॥
इह भुक्त्वाऽखिलान्भोगानन्ते मल्लोकमाप्नुयात् ।
मम प्रीतिकरश्चासौ भविष्यति न संशयः ॥ १०५॥
त्वया यदजवद्वाक्यं कृतं मे खलु सन्निधौ ।
तद्वद्यो मत्समीपे वै करिष्यति नरः सकृत् ॥ १०६॥
तेन हृष्टो भविष्यामि वाञ्छितं पूरयामि च ।
एवं दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत ॥ १०७॥
सर्वे स्वस्वस्थलं जग्मुर्हर्षिता धर्षितास्तथा ।
दक्षश्च स्वगृहे विप्रा दुःखितः स्थितवान् स्वयम् ॥ १०८॥
तदादि शिवभक्ता ये ते कुर्वन्ति शिवालये ।
अजवन्निनदं तेन हृष्टो भवति शङ्करः ॥ १०९॥
इति सर्वं समाख्यातं दक्षशापादिकं च यत् ।
यज्ञभङ्गस्य हेतुं च पुनः किं श्रोतुमिच्छथ ॥ ११०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते दक्षचरितं नाम चतुर्थोऽध्यायः ॥ १.४
(Page खं. १ अ. ५ पान १३)
१.५ पार्वतीप्रश्नविचारो नाम पञ्चमोऽध्यायः
॥ श्रीगणेशाय नमः ।
शौनक उवाच ।
श्रुतं दक्षस्य चरितं यज्ञध्वंसादिकं महत् ।
मुद्गलस्य च दक्षस्य संवादं कथयस्व भोः ॥ १॥
सूत उवाच ।
शृणु शौनक संवादं दक्षमुद्गलसम्भवम् ।
ब्रह्मभूयकरं पूर्णं भावेन च श्रुतं हृदि ॥ २॥
दक्षप्रश्नं परं धृत्वा मुद्गलो गणपप्रियः ।
तं प्रत्युवाच भावेन महर्षिर्योगिनां वरः ॥ ३॥
मुद्गल उवाच ।
सर्वेषां गणपो माता पिता चैव न संशयः ।
तेन सर्वादिपूज्योऽयं सर्वपूज्यः स देवराट् ॥ ४॥
ज्येष्ठराजेति यद्वाक्यं वेदेन प्रतिपादितम् ।
ज्येष्ठं भावाच्च तस्यापि ज्ञातव्यं सर्वसम्मतम् ॥ ५॥
तस्य सर्वे कलांशा वै कलांशांशाश्च केचन ।
न कला तस्य सम्पूर्णा जगत्यां कुत्र दृश्यते ॥ ६॥
विनायको नाम तेन जातोऽसौ भगवान् खलु ।
विशेषेण च सर्वेषां नायकोऽयं गणाधिपः ॥ ७॥
विगतो नायको यस्य स्वेच्छाचारी विनायकः ।
स्वानन्दलोकवासी च स्वसुखेन प्रभावतः ॥ ८॥
ब्रह्मविष्णुशिवाद्यैश्च वेदैर्योगिभिरेव च ।
सर्वैः सम्पूजितो देवो धर्मकामार्थमुक्तये ॥ ९॥
अहं ब्रह्मेति माहात्म्याद् गर्वो भवति शाश्वतः ।
शिवादीनां यदाधारादिदं सर्वं प्रवर्तते ॥ १०॥
तदा मदहरोऽयं वै तेषां ज्ञानार्थसिद्धये ।
विघ्नकर्ता महाराजः स्वयं भवति विघ्नपः ॥ ११॥
पदभ्रष्टाः कृतास्तेन सर्वे देवादयो द्विजाः ।
किमाधारमिदं सर्वं विचिन्वन्ति समाधिना ॥ १२॥
तेन पश्यन्ति योगेन चेतसः पञ्चवृत्तिभिः ।
तासां प्रकाशकोऽयं वै चिन्तामणिरिति स्मृतः ॥ १३॥
वेदैः सम्पादितं ज्ञात्वा शरणं तं व्रजन्ति ते ।
ततो विघ्नहरो जातस्तेषां सर्वार्थदः स्मृतः ॥ १४॥
सर्वसत्तात्मकोऽयं वै विघ्नराजः प्रकीर्तितः ।
अत एव गणेशाद्धि परं किचिन्न विद्यते ॥ १५॥
सविघ्नस्त्वं प्रजातोऽसि तमेव शरणं व्रज ।
चिन्तामणिं विघ्नहरं गणेशं च विनायकम् ॥ १६॥
सूत उवाच ।
प्रजापतिरिति श्रुत्वा दक्षो हृष्टमनाः पुनः ।
पप्रच्छ विनयेनैव कथां पापप्रणाशिनीम् ॥ १७॥
दक्ष उवाच ।
कोऽयं स्वानन्दवासी वै कथं ज्ञेयो भवेन्मया ।
वद तत्र विभो मार्गं तेन तं सततं भजे ॥ १८॥
मुद्गल उवाच ।
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।
पार्वतीशिवसंवादं यथा जातं शृणुष्व भोः ॥ १९॥
कैलासे गिरिवर्ये तु सुखासीनं महेश्वरम् ।
पार्वती प्रणता भूत्वा पृच्छति स्म मुदायुता ॥ २०॥
पार्वत्युवाच ।
शिव त्वं सर्वदेवानां नागानां रक्षसां तथा ।
मानवानां च सर्वेषां पूज्यः स्वामी न संशयः ॥ २१॥
तेभ्यः पदप्रदाता त्वं सर्वाधीशः पुरातनः ।
मायाविकारहीनश्च शिवस्तेन प्रकीर्तितः ॥ २२॥
त्वं किं समाधिना देव ध्यायसे मां वद प्रभो ।
त्वत्तः परतरं किञ्चिन्न दृष्टं नैव संश्रुतम् ॥ २३॥
इति पृष्टो महादेवस्तां प्रत्यूचे च सादरम् ।
सारं वेदादिमान्यं च ब्रह्मभूयकरं परम् ॥ २४॥
श्रीमहादेव उवाच ।
शृणु प्रिये प्रवक्ष्यामि यं ध्यायामि दिवानिशम् ।
(Page खं. १ अ. ५ पान १४)
गणेशं हृदि संस्थं मे स्वानन्दावासिनं परम् ॥ २५॥
साकारं च निराकारं तस्मिन्देवि न विद्यते ।
मनोवाणीविहीनं न मनोवाणीमयं न वै ॥ २६॥
शिवस्य वचनं श्रुत्वा पार्वती प्रेमसंयुता ।
उवाच मधुरं वाक्यं वाक्यज्ञा भावपूर्वकम् ॥ २७॥
पार्वत्युवाच ।
कोऽसौ गणेशनामा वै कथं स हृदि तिष्ठति ।
स्वानन्दवसतिः का च यत्र तिष्ठति स प्रभुः ॥ २८॥
साकारो न निराकारो कथं स ज्ञायते जनैः ।
मनोवाणीमयो नैव हीनस्ताभ्यां न च क्वचित् ॥ २९॥
तस्य ध्यानं महेशापि कर्तुं नैव प्रशक्यते ।
ध्यायसे केन मार्गेण भव मे कथय प्रभो ॥ ३०॥
अहं दासी त्वदीया वै शिष्यभावेन संस्थिता ।
कथयस्व महादेव ध्यानं गाणेशकं मम ॥ ३१॥
तमहं साधयिष्यामि साक्षात्कारेण वै यथा ।
कृतकृत्या भविष्यामि प्रसादात्ते न संशयः ॥ ३२॥
मुद्गल उवाच ।
इति पृष्टो महादेवो देव्या भक्त्यादरेण च ।
पात्रं गणेशमार्गस्य दृष्ट्वा प्रेमयुतोऽब्रवीत् ॥ ३३॥
तत्तेऽहं शृणु वक्ष्यामि गुह्याद् गुह्यतमं महत् ।
रहस्यं वेदशास्त्राणां यस्मात्परतरं न च ॥ ३४॥
दक्ष उवाच ।
तव वाक्यामृतेनाऽहं प्रीतो मुद्गल साम्प्रतम् ।
उमामहेशसंवादं योगीन्द्र कथयस्व मे ॥ ३५॥
सूत उवाच ।
दक्षस्य भावयुक्तं तद्वचनं मुद्गलेन वै ।
श्रुतं तेन सुसन्तुष्टो वक्तुं समुपचक्रमे ॥ ३६॥
मुद्गल उवाच ।
शम्भुः स्मृत्वा गणेशानं हृदि ध्यात्वा महायशाः ।
प्रत्युवाच महादेवीं गाणपत्यः प्रतापवान् ॥ ३७॥
श्रीशिव उवाच ।
सर्व मायामयं विद्धि जायते यच्च चेतसा ।
चित्तप्रवेशहीनं च मायातीतं निगद्यते ॥ ३८॥
रचितं द्विविधं येन स एव गणनायकः ।
स्वसंवेदं महः प्रोक्तं वेदयेत्तद्विशेषतः ॥ ३९॥
तत्रैव दृश्यते देवो योगिभिर्यागपारगैः ।
तेन स्वानन्दवासी स कथ्यते वेदवादिभिः ॥ ४०॥
चित्तस्य पञ्चभूमीनां प्रकाशनकरः स्मृतः ।
चिन्तामणिरिति ख्यातो हृदि सन्तिष्ठति प्रभुः ॥ ४१॥
समूहे गणधातुश्च तेषां स्वामी गणेश्वरः ।
अभेदयोगमार्गेण सदा ध्यातुं स शक्यते ॥ ४२॥
मुद्गल उवाच ।
श्रुत्वा शिववचो रम्यं पार्वती विनयान्विता ।
चकिता प्रत्युवाचेदं वचनं हितकारकम् ॥ ४३॥
पार्वत्युवाच ।
भगवन्कथितं कूटवचनं योगभावितम् ।
न बुद्धं तन्मया स्वामिंस्तस्माच्च सुलभं वद ॥ ४४॥
ब्रह्म मायामयं प्रोक्तं कीदृशं कथय प्रभो ।
मायाहीनं कथं ज्ञेयं विस्तरेण वदस्व मे ॥ ४५॥
मुद्गल उवाच ।
शक्तिप्रश्नं च संश्रुत्य हृष्टः शम्भुः सुयोगवित् ।
साश्रुनेत्रः सरोमाञ्चो भक्त्या जातो महायशाः ॥ ४६॥
आदिमायां प्रशंसन् सन् वक्तुं तामुपचक्रमे ।
योगमार्गस्य सिद्धयर्थं विस्तरेण महेश्वरः ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते पार्वतीप्रश्नविचारो नाम पञ्चमोऽध्यायः ॥ १.५
(Page खं. १ अ. ६ पान १५)
१.६ प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
पार्वतीशिवसंवादं कथयस्व महामते ।
पाराशर्यस्य सर्वज्ञ शिष्य सर्वार्थतत्त्ववित् ॥ १॥
सूत उवाच ।
मुद्गलेन यथा प्रोक्तं दक्षे वै शान्तिकारकम् ।
शिवयोस्तं च सञ्जातं संवादं कथयामि भोः ॥ २॥
श्रीशिव उवाच ।
धन्या देवि महाभागे त्वत्समान्या न विद्यते ।
महापुण्येन ते बुद्धिगणेशज्ञानलालसा ॥ ३॥
कारितोऽहं त्वया शक्ते सत् स्त्रिया नात्र संशयः ।
ममैवेदं महद्भाग्यं गाणपत्यप्रिया गृहे ॥ ४॥
गणेशाय नमः कृत्वा कथयामि कथानकम् ।
आदौ मायामयं विद्धि मायातीतं ततः परम् ॥ ५॥
स्वस्वरूपमयं सर्वं ज्ञातव्यं योगिना सदा ।
द्विविधं योगमार्गेण साधनेन विशेषतः ॥ ६॥
आदौ ब्रह्म स्थितं देवि एकानेकादिवर्जितम् ।
स्वतः परत उत्थानात्तदेव द्विविधं बभौ ॥ ७॥
स्वत उत्थानके नैव विकल्पः सदृशः कृतः ।
अहमस्मीति भावेन बिम्बं भिन्नं विनिःसृतम् ॥ ८॥
सकलाभेदरूपं यन्निराकारं स्वभावतः ।
अहमस्मि सदा प्रोक्तं ब्रह्मरूपं च शाश्वतम् ॥ ९॥
तेनापि स्वस्वरूपं तद् दृष्टमात्मात्मकं परम् ।
कीदृशोऽहं विकल्पश्च कृतो मोहेन तत्क्षणात् ॥ १०॥
चतुश्चतुः पदार्था ये योगरूपेण संस्थिताः ।
तेषामभेदरूपं च दृष्टं सर्वात्मकं परम् ॥ ११॥
मायया बिम्बरूपोऽयं जातः सद्यश्च नामतः ।
माया बिम्बं द्वितीयं तत्तत्र मोहप्रधारणात् ॥ १२॥
मोहधारणमात्रेण विस्मृतं स्वस्वरूपकम् ।
मायासुखेप्सुना जाता तस्य देवस्य तत्क्षणात् ॥ १३॥
सर्वाकारा निराकारा माया जाता द्विधापरा ।
बुद्धिरूपा महाभागा तया सर्वं प्रबुध्यते ॥ १४॥
निराकारं च साकारं बुद्धया सम्बुध्यते जनैः ।
बुद्धया यद्बुध्यते क्षेत्र बुद्धिरूपं तदेव च ॥ १५॥
तत्र मोहो च साकारो निराकारः स्वयं प्रभुः ।
मोहहीन इति भ्रान्तिर्द्विधा गुणसमुत्थिता ॥ १६॥
सा सिद्धिर्मोहकर्त्री वै नानाभ्रान्तिप्रकाशिका ।
एका बुद्धिश्च सर्वत्र तथा द्वैधे प्रवर्तिता ॥ १७॥
सिध्या सम्मोहिता बुद्धिर्भ्रान्ता जाता च पार्वती ।
साकारमोहसंयुक्ता निराकारविमोहिता ॥ १८॥
मोहधारकबुद्धिश्च सिद्धिर्मोहप्रदायिनी ।
तयोः प्रकाशदाता स गणेशानोऽभवत् स्वयम् ॥ १९॥
स एव नामतस्तत्र न गतो निजरूपधृक् ।
बिम्बबिम्बिप्रभावत्वाद्भासते तादृशो वृथा ॥ २०॥
सर्वात्मकं च बिम्बं यत्परं तत्रैव बिम्बितम् ।
आत्मरूपं निराकारं तयोः संयोगितां गतः ॥ २१॥
स एव गणराजोऽयं मायाखेलकरः प्रभुः ।
तस्येच्छया तद् द्विविधं चलति प्रतिसूत्रवत् ॥ २२॥
त्रिविधं चैकभावं च जातं मोहेन पार्वती ।
विकल्पः प्रकृतस्तेन एकोऽहं स्यां बहुस्त्विति ॥ २३॥
विकल्पेन द्विधा भूतं देहदेहिस्वरूपकम् ।
सोऽहं ब्रह्मेति यत्प्रोक्तं वेद वै वेदवादिभिः ॥ २४॥
तदेव देहि रूपं च देहमोहप्रवारणात् ।
देहरूपं तथा तत्र बिन्दुमात्रं प्रकीर्तितम् ॥ २५॥
चतुर्विधानां देहानां ब्रह्मरूपं पुरातनम् ।
(Page खं. १ अ. ६ पान १६)
बहुरूपं च तद्विद्धि देहकैवल्यसंज्ञितम् ॥ २६॥
सोऽहं ब्रह्मैकरूपं यद्बहुरूपं च बिन्दुमत् ।
स्वस्वकार्येषु नो शक्तं सत्ताहीनतया शिवे ॥ २७॥
ताभ्यां तपः कृतं घोरं स्वस्वरूपस्य सुन्दरि ।
दिव्यवर्षसहस्रान्ते प्रसन्नोऽभूद् गजाननः ॥ २८॥
प्रत्यक्षतां ययौ तत्र शुण्डादण्डविराजितः ।
लम्बोदरो महाकर्णश्चतुर्बाहुस्त्रिनेत्रभृत् ॥ २९॥
तस्य दर्शनमात्रेण स्फूर्तिर्जाता तयोस्तदा ।
तया तं तौ समाबुध्य नतौ स्तोत्रं प्रचक्रतुः ॥ ३०॥
प्रकृतिपुरुषावूचतुः ।
नमस्ते गणनाथाय स्वसंवेद्यमयाय ते ।
निराकारस्वरूपा वै शुण्डा यस्य विराजते ॥ ३१॥
यस्य देहश्च साकारः कण्ठाधः परिकथ्यते ।
अभेद एतयोर्जातस्तेन त्वं वै गजानन ॥ ३२॥
चतुर्विधं निजानन्दाद्वेदेषु कथितं भवेत् ।
एकमव्यक्तरूपं च द्वितीय समरूपकम् ॥ ३३॥
तृतीयं सत्स्वरूपं च चतुर्थं यत्सदा ह्यसत् ।
चतुर्हस्तस्वरूपं ते तेन त्वं वै चतुर्भुजः ॥ ३४॥
तवोदरे स्थितं सर्वं तेन लम्बोदरः स्मृतः ।
मायामायिकरूपं च द्वौ पादौ द्विविधं च ते ॥ ३५॥
एते सर्वे गणा ढुण्ढे त्वदीया नात्र संशयः ।
गणनाथोऽसि तेन त्वं नाम्ना ख्यातश्च सर्वदा ॥ ३६॥
एतादृशो निजात्मासावावयोर्ध्यान आबभौ ।
स्वसंवेद्यतया ध्यातो भक्तानुग्रहकारकः ॥ ३७॥
भक्ताभिमानभावेन देहधारी स्वयं ह्यभूत् ।
एतैश्च लक्षणैर्युक्तो गणेशो नामधारकः ॥ ३८॥
धन्यं सर्वं कृतं स्वामिन् येन त्वं देहवानभूः ।
स्वानन्दवासभृत् साक्षाद् हृदि नित्यं स्थिरो भव ॥ ३९॥
नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे ।
भक्तानां वै ह्यभक्तानां विघ्नकर्त्रे नमोऽस्तु ते ॥ ४०॥
कर्मणां फलदात्रे च ज्ञानानां सिद्धिदायिने ।
अमेयशक्तये तुभ्यं सर्वाधाराय ते नमः ॥ ४१॥
किं कर्तव्यं दयासिन्धो तदेवाज्ञापय प्रभो ।
तव भक्तिं महातीव्रां देहि नौ गणनायक ॥ ४२॥
एवं स्तुतिं समाकर्ण्य परितुष्टो गणाधिपः ।
मेघगम्भीरया वाचा हर्षयन्नब्रवीत्तदा ॥ ४३॥
श्रीगणेश उवाच ।
साधु साधु महाभागौ यदुक्तं स्तोत्रमुत्तमम् ।
मम प्रीतिकरं सर्वकामदं प्रभविष्यति ॥ ४४॥
धमार्थकाममोक्षाणा दायकं पुष्टिवर्धनम् ।
कारागृहस्थितानां च मोचकं लक्षपाठतः ॥ ४५॥
मारणोच्चाटनादीनां नाशकं तत्तथैव च ।
एकविंशतिवारं यः एकविंशद्दिनावधि ॥ ४६॥
पठेत्तु यदि वै भत्त्या स ईप्सितफलं लभेत् ।
ब्रह्मभूयकरं चैतन्निष्कामपठनाद्भवेत् ॥ ४७॥
भवतोस्तपसा तुष्टः स्तोत्रेणानेन भावतः ।
प्रीतो दास्यामि सम्पूर्णं भवद्भ्यामीप्सितं च यत् ॥ ४८॥
बिन्दुमात्रस्वरूपेण यत्स्थितं ब्रह्म शाश्वतम् ।
तस्माच्चतुर्विधं विश्वं प्रकटं सम्भविष्यति ॥ ४९॥
प्रकर्षेण च सर्वेषां कृतिस्तस्माद्विनिःसृता ।
प्रकृतिस्तेन ते नाम भविष्यति जनेष्विदम् ॥ ५०॥
सृष्ट्वा चतुर्विधं विश्वं बन्धहीना भविष्यसि ।
मदीयां भक्तिमचलां प्रकृते प्राप्स्यसि ध्रुवम् ॥ ५१॥
जनास्त्वदीयभक्तिं ये करिष्यन्ति सकामतः ।
(Page खं. १ अ. ६ पान १७)
निष्कामतश्च तेभ्यस्त्वं सर्वं दास्यसि शोभने ॥ ५२॥
चतुर्विधेप्ययं शेते पुरे तेनैव पूरुषः ।
सोऽहम्मात्रात्मको भावी नाम्ना सर्वत्र तिष्ठतु ॥ ५३॥
सर्वाकारविहीनोऽयं तत्र भ्रान्तो भविष्यति ।
बिम्बबिम्बित भावेन प्रकृतौ मोहितः सदा ॥ ५४॥
स्वयं मोहविहीनः स सोऽहम्मात्रात्मकः सदा ।
मत्प्रसादाद्भवेन्नित्यं ब्रह्म सोऽहं सुखात्मकः ॥ ५५॥
मदीया भक्तिरचला भविष्यति तवापि च ।
तया बन्धविहीनस्त्वं तथा मान्यो भविष्यसि ॥ ५६॥
तव भक्तिं करिष्यन्ति जना भावेन संयुताः ।
तेभ्यस्तदीप्सितं सर्वं दास्यसि त्वं न संशयः ॥ ५७॥
ब्रह्मभूयपदं चैव दास्यसे योगसेवया ।
साक्षात्पुरुषरूपस्त्वं सर्वसत्तात्मको भव ॥ ५८॥
प्रकृतौ वीर्यमाधत्स्व सर्वसत्तात्मकं विभो ।
तेनेयं सर्वसूर्विश्वं सृजिष्यति न संशयः ॥ ५९॥
सृष्ट्वा चतुर्विधं सर्वं पालनं हरणं तथा ।
कर्तव्यं कालयोगेन करणीयमिदं स्मृतम् ॥ ६०॥
सर्वेषां प्रकृतिर्माता पिता पुरुष उच्यते ।
नानारूपाणि नामानि कल्पयिष्यन्ति वै जनाः ॥ ६१॥
इत्युक्त्वा गणराजस्तु तत्रैवान्तरधीयत ।
प्रकृतिः पुरुषश्चैव यथाज्ञप्तौ प्रचक्रतुः ॥ ६२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः ॥ १.६
१.७ तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
पार्वत्युवाच ।
श्रुत्वेदं त्वन्मुखाम्भोजाद्धर्षश्चेतस्यजायत ।
पुनर्वदस्व मे स्वामिन् गणराजकथामृतम् ॥ १॥
कथानां च रहस्यं यत्तदेवैतन्न संशयः ।
पुनाति प्राश्निकं श्रोतॄन् वक्तारं भक्तितः श्रुतम् ॥ २॥
प्रकृतिः पुरुषश्चोभौ कथं सृष्टिं प्रचक्रतुः ।
अन्तर्हिते निजानन्दे गणेशे स्वेच्छया विभौ ॥ ३॥
मुद्गल उवाच ।
पार्वतीवचनं श्रुत्वा प्रहृष्टः शङ्करोऽब्रवीत् ।
कथां रसयुतां रम्यां पावनानां च पावनीम् ॥ ४॥
शङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि गणनाथकथां शुभाम् ।
धन्यासि सादरा जाता सप्रेमा विघ्ननाशिनी ॥ ५॥
अन्तर्हिते गणेशे च प्रकृतिः पुरुषस्तथा ।
सामर्थ्येन युतौ जातौ परस्परमनोनुगौ ॥ ६॥
तपसा वरदानेन मोहयामास तत्क्षणात् ।
पुरुषं प्रकृतिः सा वै नानाभावार्थदर्शिनी ॥ ७॥
नानाविभवयुक्तां तां दृष्ट्वा पुरुषसत्तमः ।
(Page खं. १ अ. ७ पान १८)
मोहितः पूर्णभावेन तदधीनोऽभवत्सदा ॥ ८॥
संवीक्षिता महामाया पुरुषेण महात्मना ।
हावभावयुता तत्र संस्थिता भक्तिभावतः ॥ ९॥
तस्यां सत्तात्मकं वीर्यं पुरुषेण प्रकाशकम् ।
निक्षिप्तं सहसा देवि तेन सा गर्भवत्यभूत् ॥ १०॥
स गर्भो ववृधे तत्र तेजसा स्वेन संवृतः ।
महता कालयोगेन पूर्णो जातः प्रतापवान् ॥ ११॥
समये सुषुवे सा तं पुत्रं तेजोमयं परम् ।
तस्य नामाऽभवल्लोके महानित्यभिविश्रुतम् ॥ १२॥
अन्तस्तु यत्स्थितं देवि सर्वान्तर्यामि तत्परम् ।
लोकेषु च महत्तत्वं ज्ञातव्यं तत्समाधिना ॥ १३॥
सर्वेषामादिभूतोऽयं महानात्माऽभवत्प्रभुः ।
ज्येष्ठोऽयं तत्त्वजातीनां हृदि तेषां समास्थितः ॥ १४॥
महता च ततः सृष्टं यदहङ्काररूपकम् ।
स एव त्रिविधो जातो भिन्नमूर्तिः प्रतापवान् ॥ १५॥
अहं सर्वत्र तिष्ठामि मदाधारमिदं स्मृतम् ।
तेनाहङ्कारनामा स सदाहङ्करणात् शिवे ॥ १६॥
स एव बाह्यभावेन स्थितः सर्वत्र सर्वराट् ।
इच्छितं महता यद्वै तत् कर्तुं सुसमाहितः ॥ १७॥
त्रिविधोऽसौ गुणैस्तत्र तन्निबोध जगन्मयि ।
सात्त्विको राजसश्चैव तामसः कथ्यते बुधैः ॥ १८॥
तेनाहङ्करणस्यापि त्रिशक्तित्वं समागतम् ।
सात्त्विकी ज्ञानशक्तिश्च तया भावः प्रबुध्यते ॥ १९॥
राजसी या क्रियाशक्तिस्तया कार्यं प्रवर्तते ।
तामसी द्रव्यशक्तिर्या देहरूपा प्रकथ्यते ॥ २०॥
तत्रादौ तामसी शक्तिः प्रेरिता विश्वयोनिना ।
निर्ममे शब्दरूपं सा तेनाकाशं विनिर्मितम् ॥ २१॥
आकाशेन स्पर्श एवं निर्मितः सर्वसिद्धये ।
स्पर्शेन निर्मितो वायुर्महाबलयुतः प्रभुः ॥ २२॥
वायुना निर्मितं रूपं तेजोरूपेण निर्मितम् ।
तेजसश्च रसोत्पत्ती रसादापो विनिःसृताः ॥ २३॥
अद्भिश्च निर्मितो गन्धो गन्धाद्भूमिरजायत ।
तमोगुणमयी सृष्टिरेषा जाता महाद्भुता ॥ २४॥
तन्मात्रा भूतसर्गश्च पञ्चपञ्चात्मकः स्वराट् ।
पञ्चभूतात्मको देहः सर्वत्रैव प्रदृश्यते ॥ २५॥
ततो राजसशक्त्या च पञ्चभूतमयानि वै ।
इन्द्रियाणि प्रसृष्टानि क्रियारूपाणि तानि वै ॥ २६॥
पञ्च ज्ञानेन्द्रियाण्याहुर्ज्ञानरूपधराणि च ।
जिह्वा चक्षुस्त्वचा नासा कर्णश्चैवाऽत्र पञ्चमः ॥ २७॥
कर्मेन्द्रियाणि पञ्चैव हस्तौ पादौ गुदं च वाक् ।
लिङ्गं पञ्चममत्रैव एभिः सञ्जायते क्रिया ॥ २८॥
पञ्च प्राणास्तथा ज्ञेयाः प्राणो व्यानस्त्वपानकः ।
उदानश्च समानो वै राजसाः पञ्च वायवः ॥ २९॥
सप्तधातुविभागार्थं क्रियारूपा उदाहृताः ।
एषां क्रियात्मिका सृष्टी राजसी कथिता प्रिये ॥ ३०॥
सात्त्विक्या मायया देवा इन्द्रियाणां विनिर्मिताः ।
दिशो वायुश्च वरुणोऽश्विनौ सूर्यः प्रकीर्तितः ॥ ३१॥
एता ज्ञानेन्द्रियाणां च देवताः परिकीर्तिताः ।
अग्निर्विष्णुः प्रजापाल इन्द्रो मित्रश्च पञ्चमः ॥ ३२॥
एताः कर्मेन्द्रियाणां वै देवताः परिकीर्तिताः ।
सात्त्विकी सृष्टिरित्युक्ता दशदेवस्वरूपिणी ॥ ३३॥
(Page खं. १ अ. ७ पान १९)
एते तत्त्वस्वरूपाख्या आदिदेवाः प्रकीर्तिताः ।
यथाविधि तथा जाता ज्ञानहीना बभूविरे ॥ ३४॥
ज्ञानहीनत्वदोषेण सृष्टिं कर्तुं न च क्षमाः ।
तेभ्यो ज्ञानप्रदानार्थमुपदेशं प्रचक्रतुः ॥ ३५॥
प्रकृतिः पुरुषश्चोभौ मन्त्रमेकाक्षरं परम् ।
अनुष्ठानविधायुक्तं ददतुर्गणपस्य तौ ॥ ३६॥
ते तत्रैव स्थिताः सर्वे तपश्चक्रुर्महद् भृशम् ।
तेन सन्तुष्टतां यातो गणेशो गणवल्लभः ॥ ३७॥
प्रत्यक्षतां ययौ तेषां समीपे संस्थितो महान् ।
तं दृष्ट्वा हर्षिताः सर्वे देवाः स्तोत्रं प्रचक्रिरे ॥ ३८॥
तत्त्वान्यूचुः ।
नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च ।
सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ ३९॥
अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः ।
समाय विषमायैव विघ्नेशाय नमो नमः ॥ ४०॥
आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने ।
नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ ४१॥
अनन्तोदरसंस्थाय नानाभोगकराय च ।
भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥ ४२॥
मायाधाराय वै तुभ्यं मायाहीनाय ते नमः ।
मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥ ४३॥
सर्वसिद्धिधरायैव सिद्धीनां पतये नमः ।
सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥ ४४॥
जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः ।
कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥ ४५॥
कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः ।
ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाय ते नमः ॥ ४६॥
चतुर्विधधरायैव चतुर्विधमयाय च ।
चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥ ४७॥
पाशाङ्कुशधरायैव दन्ताभयधराय च ।
चतुर्भुजाय वै शूर्पश्रुतये तुन्दिलाय च ॥ ४८॥
महते चैकदन्ताय महतां च महीयसे ।
लघवे लघुरूपाय लघूनां लाघवे नमः ॥ ४९॥
गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे ।
ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥ ५०॥
किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये ।
नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥ ५१॥
कृताञ्जलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः ।
तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥ १.७
(Page खं. १ अ. ८ पान २०)
१.८ गुणेशवरप्रदानं नामाष्टमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
शृणु देवि गणेशस्य चरितं पापनाशनम् ।
भुक्तिमुक्तिप्रदं चैव स्मरणेन सुसिद्धिदम् ॥ १॥
गजाननः प्रसन्नात्मा परमात्मा परात्परः ।
भक्तानन्दकरः साक्षादूचिवान् भक्तिभावितः ॥ २॥
श्रीगजानन उवाच ।
भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् ।
तपसाऽहं प्रसन्तुष्टो भक्त्या स्तोत्रेण भावतः ॥ ३॥
भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम ।
सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥ ४॥
विद्याकामो लभेद्विदयां धनकामो धनं लभेत् ।
स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥ ५॥
मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् ।
अस्य स्तोत्रस्य पठनात् वाञ्छितं लभते परम् ॥ ६॥
श्रीशिव उवाच ।
गणेशवचनं श्रुत्वा भक्तिनम्रात्मकन्धराः ।
ऋषयस्तं प्रणम्यादावूचुस्ते हृष्टमानसाः ॥ ७॥
आदिऋषय ऊचुः ।
प्रसन्नो भगवन्नद्य यदि देयो वरो महान् ।
त्वदीयामचलां भक्तिं देहि नो गणनायक ॥ ८॥
सृष्टिसामर्थ्यमत्यन्तमस्माकं त्वत्प्रसादतः ।
अस्तु वै भजतां सर्वसिद्धिदाश्च वयं तथा ॥ ९॥
यद्यत् हृदीप्सितं देव तत्तत् सिध्यतु सर्वदा ।
बन्धहीनत्वमनिशं देहि त्वं विघ्ननाशन ॥ १०॥
तत्त्वानां वचनं सर्वे श्रुत्वा गणपतिः स्वयम् ।
ददौ तेषामभीष्टं स महादेवि महप्रदः ॥ ११॥
श्रीगजानन उवाच ।
दत्ता वरा मया देवा ये भवद्भिर्वृताः पराः ।
इत्युक्त्वान्तर्दधे ढुण्ढिः ऋषीणां पश्यतां खलु ॥ १२॥
स्वानन्दे च गते देवे गणेशे परमात्मनि ।
खिन्ना इवाऽभवन् देवाः परस्परमुखेक्षणाः ॥ १३॥
गणेशवरदानेन ज्ञानं प्राप्य महाद्भुतम् ।
बुद्धियुक्ता महादेवाः सृष्टिं चक्रुः प्रभावतः ॥ १४॥
परस्परप्रवेशं च चक्रुस्त ऋषयस्तदा ।
तेनैकभावतां प्राप्तास्तस्मादण्डं बभूव वै ॥ १५॥
तस्मिन्नण्डे पुमानादिरेकः सर्वात्मशक्तिमान् ।
जातो वै भगवान् साक्षाद् गुणेशो गुणवल्लभः ॥ १६॥
महता कालयोगेन देहात्तस्य विनिःसृताः ।
आपस्तत्र स्थितं ह्यण्डं तत्र वृद्धिं ययौ च सः ॥ १७॥
कालेनावयवी जातस्ततः सम्पूर्णदेहवान् ।
तस्य तेजःप्रभावेण तदण्डं स्फुटितं महत् ॥ १८॥
स एव निःसृतः साक्षादसङ्ख्यातार्कसन्निभः ।
अपारमहिमा यस्य सर्वादिः सर्वभावनः ॥ १९॥
सर्वतो हस्तपादो वै सर्वतो नासिकोदरः ।
सर्वतोऽक्षिमुखोऽनन्तः सर्वतः श्रुतिमान् बभौ ॥ २०॥
असङ्ख्यावयवो देवो ह्यसङ्ख्योदारविक्रमः ।
असङ्ख्यलीलया युक्तः परमात्मस्वभाववान् ॥ २१॥
आदिमध्यान्तहीनः स सर्वत्र व्याप्य संस्थितः ।
महतां च महीयान् यो यस्य पारो न दृश्यते ॥ २२॥
अणुभ्योऽणुतरो देवो रोमरन्ध्रेषु यस्य वै ।
ब्रह्माण्डानि भ्रमन्ति स्म परागा इव चाम्बरे ॥ २३॥
महाकारणनामा वै तुरीयो देहधारकः ।
आत्मप्रतीतिरूपं यत्कथ्यतेऽसौ महाद्युतिः ॥ २४॥
गुणानामधिपोऽयं वै गुणेशस्तेन कथ्यते ।
सर्वात्मा सर्वरूपश्च नाददेहधरः प्रभुः ॥ २५॥
(Page खं. १ अ. ८ पान २१)
गुणेशेन कृतं कर्म नानाचेष्टात्मकं ततः ।
तेन नामानि जातानि पश्चात्तस्य महात्मनः ॥ २६॥
आपः शरीरसंसृष्टास्तत्र सुप्तोऽयमीश्वरः ।
नारायण इति प्राप्तं नाम तस्य महात्मनः ॥ २७॥
आपो नरप्रसूताश्च तेन नाराः प्रकीर्तिताः ।
ता एवायतनं तस्य कर्मणा तेन स प्रभुः ॥ २८॥
भिन्नं भिन्नं सृजति च त्रिविधं त्रिविधं पृथक् ।
ब्रह्मेति तेन सम्प्राप्तं नाम तस्य प्रभावतः ॥ २९॥
वेदोपनिषदि प्रोक्तो ब्रह्मलोकः सनातनः ।
सर्वेभ्यो यः परः श्रेष्ठमेनं विद्धि सुनिश्चितम् ॥ ३०॥
सर्वेषां यत्नदाता स कालरूपेण वर्तते ।
चालकस्तेन नामाभून् महादेव इति प्रभोः ॥ ३१॥
कर्मणामयमाधारो जातः सूर्य इति स्मृतः ।
मोहको वस्तुजातानामादिशक्तिश्च तेन सः ॥ ३२॥
इत्यादिनामतां प्राप्तो नानाभावेन कर्मणा ।
गुणेशस्तु तुरीयात्मा सर्वत्राऽसौ महान् प्रभुः ॥ ३३॥
कारणानां च सर्वेषां कारणं च न संशयः ।
महाकारणमेतच्च पुराणेषु प्रपठ्यते ॥ ३४॥
कर्तुः कर्ता स्वयं साक्षाद्धर्तुर्हर्ता न संशयः ।
पातुः पाता प्रकाशस्य प्रकाशोऽयं गुणेश्वरः ॥ ३५॥
त्रिदेहो गुणतश्चायं वामे राजसतां गतः ।
सात्त्विको मध्यभागे स दक्षिणे तामसो बभौ ॥ ३६॥
एतादृशो महात्मासावादिदेवो गुणेश्वरः ।
अज्ञानेनावृतो यस्मात्तेन वै तपसि स्थितः ॥ ३७॥
सोऽतपत्तप उग्रं तु हृदि ध्यात्वा गजाननम् ।
बहुकाले व्यतिक्रान्ते प्रसन्नोभूद्गजाननः ॥ ३८॥
आगतो देवदेवेशो धेनुर्वत्समिवादरात् ।
बोधयामास तं शीघ्रं गुणेशं भक्तवत्सलः ॥ ३९॥
श्रीगणेश उवाच ।
एकाक्षरस्य मन्त्रस्य जपेन तपसाऽपि ते ।
प्रसन्नोऽहं महाबाहो गुणेश वृणु वाञ्छितम् ॥ ४०॥
इत्येवं बोधितो देवि गणेशेन कृपावता ।
गुणेश्वरःप्रतुष्टाव भक्तिभावसमन्वितः ॥ ४१॥
गुणेश उवाच ।
नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै ।
अपारयोगं दृढयोगनाथं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४२॥
अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् ।
अभेदभेदात्मकमूलहीनं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४३॥
सदा समाधिस्थमनन्तपारं प्रभुं स्वसंवेद्यमयं विभान्तम् ।
निजात्मयोगेन च लभ्यमेवं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४४॥
विदेहयोगेन च साङ्ख्यरूपं जनेन लभ्यं गणराजमीड्यम् ।
सदा ह्युपाधौ न हितं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४५॥
सुसंस्थितं सर्वविलासयुक्तं हृद्विज्ञबोधात्मकमादिदेवम् ।
अभेदमात्रं परमार्थरूपं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४६॥
अनादिमध्यान्तमनन्तपारं सुसंवृतं सन्ततमात्मरूपम् ।
गणेशमाद्यं पुरुषं पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४७॥
अनादिरूपं प्रकृतिप्रभेदं सदा सुबिन्द्वात्मकमप्रमेयम् ।
अमायिकं मोहकरं प्रसिद्धं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४८॥
गुणेषु रूपेण विराजमानमपारमव्यक्तमयं गणेशम् ।
(Page खं. १ अ. ८ पान २२)
गुणैर्विहीनं गुणचालकं च सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४९॥
समस्वरूपं जगदीशमेकं सुषुप्तिरूपं सकलावभासम् ।
अनादिमायामयमोहधारं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५०॥
जगन्मयं सूक्ष्मविभूतिधारं हिरण्मयं स्वप्नगतं गणेशम् ।
जनस्य विज्ञानकर पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५१॥
स्तुतं सदा देवमुनीन्द्रसिद्वैः स्थितं जगन्मोहमयं प्रसिद्धम् ।
सदा परं स्थूलविहारयुक्तं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५२॥
असत्स्वरूपं विविधेष्वभेदं गणेशमायामयशक्तिरूपम् ।
मनोवचोहीनमहानुभावं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५३॥
रविस्वरूपं ह्यमृतं पुराणमभेदोकात्मकमात्मरूपम् ।
अखण्डमानन्दघनं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५४॥
समं सदा विष्णुमचिन्त्यभावमभेदभेदादिविवर्जितं च ।
सदा सुखानन्दमयं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५५॥
अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् ।
अपारवेशं स्वसुखावभासं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५६॥
पदार्थरूपं विविधप्रभेदं विकारयुक्तं परमप्रमेयम् ।
बोधात्मकं त्वम्पदरूपमेव सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५७॥
अखण्डमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयम् ।
गणेशमेकं हृदि तत्पदस्थं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५८॥
गणेश चैते विविधस्वरूपाः कलावतारा भवतो हि भव्याः ।
सुशान्तमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥ ५९॥
यदा च सर्वात्ममयं वदामि तदा तु सोऽहं प्रकृतिस्वरूपम् ।
गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपदये ॥ ६०॥
मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं णकारम् ।
निवृत्तिरूपं शरणं सदा वै नमामि तं सर्ववरिष्ठमाद्यम् ॥ ६१॥
न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि ढुण्ढे ।
गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥ ६२॥
जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् ।
येन दृष्टो गणाधीशः कृतकृत्योऽस्मि साम्प्रतम् ॥ ६३॥
मह्यं यदि वरो देयस्तदा भक्तिं दृढां त्वयि ।
देहि मे परमेशान यया मोहो विनश्यति ॥ ६४॥
सृष्टिसर्जनसामर्थ्यं भजतां कामपूरणम् ।
निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥ ६५॥
गुणेशवचनं श्रुत्वा सुप्रसन्नो गजाननः ।
मेघगाम्भीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥ ६६॥
श्रीगणेश उवाच ।
भविता मे महाभक्तिः सृष्टीनां रचनास्तथा ।
नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवेत् ॥ ६७॥
भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ ।
महाकार्ये समुत्पन्ने दास्येऽहं दर्शनं च ते ॥ ६८॥
स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति ।
पठतां शृण्वतां चैव ब्रह्मभूतकरं महत् ॥ ६९॥
(Page खं. १ अ. ९ पान २३)
स्तोत्रं ब्रह्मपतेः साक्षान्नाम्ना वै स्तुतिसारकम् ।
भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥ ७०॥
सकामेभ्यो जनेभ्योऽपि कामदं चिन्तितप्रदम् ।
निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥ ७१॥
मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितम् ।
त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥ ७२॥
श्रीशिव उवाच ।
इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः ।
देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥ ७३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथम खण्डे वक्रतुण्डचरिते गुणेशवरप्रदानं नामाष्टमोऽध्यायः ॥ १.८
१.९ अष्टधा प्रकृतिवर्णनं नाम नवमोऽध्यायः
॥ श्रीगणेशाय नमः ।
श्रीशिव उवाच ।
वरदानप्रभावेण गुणेशो ज्ञानवानभूत् ।
समर्थो भगवान् साक्षात् स्रष्टुं तत्र मनो दधे ॥ १॥
तस्य निःश्वासतो वेदा निःमृता रूपधारिणः ।
सर्वज्ञानकराः साक्षाद्भास्वन्तो गुरवः सताम् ॥ २॥
पश्चात्तेन गुणेशेन समभूतात्मकं जगत् ।
सृष्टं सुषुप्तिसंज्ञं च महत्तत्त्वादिभिः समैः ॥ ३॥
आनन्दव्यवहारत्वात् प्रधानमिति कथ्यते ।
कारण द्वन्द्वभावानां तेन कारणकं स्मृतम् ॥ ४॥
माया तमःकरी यस्मात्तेन तामसतां गतम् ।
समानव्यवहारं च प्रधानं मोहदं बभौ ॥ ५॥
स्वस्यापि जडभावश्च तेन न ज्ञायते सदा ।
किं कर्तव्यमकर्तव्यमिति तेन ततो महत् ॥ ६॥
तपः कृतं महोग्रं च दिव्यं वर्षसहस्रकम् ।
तेन प्रत्यक्षतां यातो गणेशो भक्तवत्सलः ॥ ७॥
स्तुतः प्रपूजितस्तेन कारणेन महायशाः ।
सामर्थ्यं योगरूपं च ददौ परमभावितः ॥ ८॥
वेदैश्चापि कृतं घोरं तपः परमदारुणम् ।
तेषां प्रत्यक्षतां यातो विघ्नेशो विघ्नवारणः ॥ ९॥
वेदैश्च संस्तुतो देवः स्तोत्रैः स्वस्वसमुद्भवैः ।
ब्राह्मणस्पत्यसूक्तेन बह्वृचः स्तुतवान् प्रभुम् ॥ १०॥
गणेशशान्तिकेनैव यजुस्तं स्तुतवत्तथा ।
नामाष्टकार्थकृत्स्तोत्रं तेन साम्ना च संस्तुतः ॥ ११॥
अथर्वशीर्षकं नाम तेनैवाथर्वणास्तुतः ।
इत्यादि गाणपत्यश्च स्तोत्रैर्नानाविधैः स्तुतः ॥ १२॥
पूजितो मूलमन्त्रेण सन्तुष्टस्तेन विघ्नहा ।
सर्वेषां गुरुरूपा वै भविष्यथ वरं ददौ ॥ १३॥
सर्वमान्या जगत्पूज्या वेदास्तेन कृतास्तदा ।
साङ्गोपाङ्गसमाचारा गुरवस्ते मताः खलु ॥ १४॥
पार्वत्युवाच ।
तमोगुणमयं स्वामिन् प्रधानं समरूपकम् ।
(Page खं. १ अ. ९ पान २४)
वरं प्राप्य गणेशात्तु किं कृतं तेन तद्वद ॥ १५॥
मुद्गल उवाच ।
प्रियोक्तं वचनं श्रुत्वा हृष्टरोमा महेश्वरः ।
तां प्रत्युवाच भगवान् स्मयन्निव सुशान्तधीः ॥ १६॥
श्रीशिव उवाच ।
शृणु प्रिये प्रवक्ष्यामि गणेशप्रीतिवर्धने ।
विभूतिं तस्य देवस्य त्वं वै भाग्यवती शिवे ॥ १७॥
गणेशवरदानेन सृष्टं तेनापि सूक्ष्मकम् ।
हिरण्यगर्भमान्तर्यं सात्त्विकं स्वप्नरूपकम् ॥ १८॥
महदादिमहातत्त्वैः सूक्ष्मभूतैश्च संवृतम् ।
द्वन्द्वविज्ञानमूलं तदन्तरिक्षस्थितं बभौ ॥ १९॥
बोधहीनेन तेनैव तपस्तप्तं सुदुष्करम् ।
तेन तुष्टो गणेशानो वाञ्छितं प्रददौ वरम् ॥ २०॥
वरदानप्रभावेण नानासामर्थ्यवानभूत् ।
हिरण्यगर्भो भगवान् स्वप्नमायाधरः प्रभुः ॥ २१॥
तेन स्थूलस्वरूपं यत्सृष्टं राजससंज्ञकम् ।
जाग्रद्भोगकरं पूर्णं तत्त्वैश्च स्थूलरूपिभिः ॥ २२॥
ज्ञानहीनेन तेनाथ तपस्तप्तं सुदारुणम् ।
तपसा चैव सन्तुष्टो गणेशः करुणानिधिः ॥ २३॥
प्रत्यक्षतां ययौ तस्य जाग्रदन्नमयस्य च ।
तेनापि पूजितो देवः स्तुतस्तस्मै वरं ददौ ॥ २४॥
वरदानप्रभावेण नानासामर्थ्यवानभूत् ।
ईश्वरोन्नमयश्चासावेकोनेकमकल्पयत् ॥ २५॥
जाग्रत्स्वप्नसुषुप्त्याख्यत्र्यवस्थाप्रचुराणि च ।
भिन्नभिन्नानि जातानि कोटिशः कोटिशः खलु ॥ २६॥
गुणेशरोमकूपेभ्यो निःसृतानि महन्ति च ।
अण्डानि भिन्नभिन्नानि सर्वतः संस्थितानि वै ॥ २७॥
व्याप्यरूपाणि चाण्डानि व्यापकश्च गुणेश्वरः ।
तयोरभेदभावे सा प्रकृतिर्ब्रह्मबिन्दुकम् ॥ २८॥
जाग्रता सृष्टमाकाशं ब्रह्म सर्वप्रकाशम् ।
शब्दमात्रमयं भूतमादिरूपं सनातनम् ॥ २९॥
आकाशेन च संसृष्टो वायुः स्पर्शगुणात्मवान् ।
वायुना रूपतन्मात्रं तेजः सृष्टं प्रकाशवत् ॥ ३०॥
तेजसा रससंयुक्ता आपः सृष्टाः प्रसारिणा ।
अद्भिर्गन्धगुणा पृथ्वी सृष्टा धारणधर्मिका ॥ ३१॥
तत्रैकैकप्रवेशेन पञ्चीकरणभागतः ।
पृथ्वी पञ्चगुणा जाता चतुर्भूतप्रवेशनात् ॥ ३२॥
आपश्चतुर्गुणा जातास्त्रयाणां सम्प्रवेशनात् ।
तेजस्त्रिगुणतां प्राप्तं भूतयोश्च प्रवेशनात् ॥ ३३॥
वायुर्द्विगुणवान् जात आकाशस्य प्रवेशनात् ।
आकाशमेकगुणभृद्भूतानां ब्रह्मसंज्ञितम् ॥ ३४॥
पञ्च भूतानि जातानि व्यवस्थासंयुतानि च ।
अष्टधा प्रकृतिः प्रोक्ता कोशरूपा सुशोभना ॥ ३५॥
तत्र कोशीस्वरूपेण गुणेशो बिम्बितो यतः ।
तेन सामर्थ्यमाप्राप्ता प्रकृतिश्चाष्टरूपिणी ॥ ३६॥
अष्टावरणसंयुक्तमण्डं सृष्टं स्वभावतः ।
तत्रैव पुरुषो जज्ञे विराट् स भगवान् शिवे ॥ ३७॥
पञ्चाशत्कोटिविस्तारः पृथ्व्याः प्रोक्तो मया च ते ।
आपो दशाधिकास्तस्यास्तेजस्ताभ्यो दशाधिकम् ॥ ३८॥
तस्माद्दशाधिको वायुस्तस्मात्स्वं वै दशाधिकम् ।
तस्माद्दशाधिकं जाग्रदभिमानं प्रकथ्यते ॥ ३९॥
तस्माद्दशाधिकं स्वाप्नं महत्तत्वमिति स्मृतम् ।
द्वितीयं नाम तस्यापि कथ्यते मुनिभिः सदा ॥ ४०॥
(Page खं. १ अ. १० पान २५)
तस्माद्दशगुणा माया ज्ञेया सौषुप्तिकाऽधिका ।
गुणेशः पुरुषो ज्ञेयोऽनन्तोऽपारश्चतुर्थकः ॥ ४१॥
विराडावरणं कृत्वा स्थिता पृथ्वी सनातना ।
अद्भिः समावृता पृथ्वी तेजसापः समावृताः ॥ ४२॥
वायुना चावृतं तेजः खेन वायुः समावृतः ।
अहङ्कारेण संवृत्तमाकाशं देवि सर्वतः ॥ ४३॥
अहङ्कारश्च महता संवृतो राजसः स्वयम् ।
मायया च महत्तत्त्वं संवृतं स्वप्नसंज्ञितम् ॥ ४४॥
मायावरणमान्त्यं च ज्ञातव्यं विबुधैः परम् ।
अष्टावरणसंयुक्तमण्डं ते कथितं मया ॥ ४५॥
अण्डान्येतादृशान्येवासङ्ख्यातानि प्रिये बभुः ।
तिर्यगूर्ध्वमधस्तद्वद् गुणेशेन धृतानि च ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते अष्टधा प्रकृतिवर्णनं नाम नवमोऽध्यायः ॥ १.९
१.१० नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
पार्वत्युवाच ।
श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् ।
कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ १॥
शिव उवाच ।
पञ्चकोटिप्रविस्तारे योजनानां समन्ततः ।
तस्य देहे च भूतानि स्थावराणि चराणि च ॥ २॥
संस्थितानि च सर्वाणि भुवनानि चतुर्दश ।
तत्तेऽहं सम्प्रवक्ष्यामि समाहितमनाः शृणु ॥ ३॥
पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् ।
पार्ष्ण्योर्महातलं तस्य जङ्घयोश्च तलातलम् ॥ ४॥
सुतलं जानुभागेऽस्य वितलं तूरुमण्डले ।
अतलं कटिसन्धौ च कट्यां भूलोकसंस्थितिः ॥ ५॥
नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः ।
महर्लोकश्व कण्ठे वै जनो लोको मुखे स्थितः ॥ ६॥
तपो लोको ललाटे च सत्यलोकः शिरःस्थितः ।
एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥ ७॥
सहस्रशीर्षशोभाढ्यः सहस्राननपादवान् ।
सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥ ८॥
सर्वत्र व्याप्यभावेन स्थितोऽसौ परमेश्वरः ।
मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥ ९॥
तस्यान्तरे स्थितं रूपं नाम्ना हैरण्यगर्भकम् ।
एतादृशं तथा स्वप्नं विश्वरूपं विराजति ॥ १०॥
बहिर्वैश्वानरश्चायं जाग्रद्वैराटसंज्ञितः ।
हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥ ११॥
उभयोः समभावेन बाह्यान्तरसरूपतः ।
ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥ १२॥
त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति ।
(Page खं. १ अ. १० पान २६)
तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥ १३॥
अथ शृणु विभिन्नानामुत्पत्तिं त्वल्पभावनाम् ।
नानाभावधरां तां वै चराचरमयीं पराम् ॥ १४॥
विराडज्ञानभावेनावृतस्तेन तपः कृतम् ।
एकाक्षरविधानेन गणेशं सन्दधौ हृदि ॥ १५॥
सोऽतपत्तप उग्रं च दिव्यवर्षसहस्रकम् ।
तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥ १६॥
बोधयामास तं देवो वरं ब्रूहीति सोऽब्रवीत् ।
गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥ १७॥
धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् ।
धन्या मे सम्पदो देव त्वदङ्घ्रियुगदर्शनात् ॥ १८॥
इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् ।
वाचा संस्पष्टया हृष्टो भगवान् विश्वधारकः ॥ १९॥
विराडुवाच ।
नमस्ते गणनाथाय गणानां पतये नमः ।
विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥ २०॥
सिद्धिबुद्धिपते तुभ्यं नानासिद्धिप्रदायिने ।
नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥ २१॥
मनोवागतिभूताय योगिनां हृदि वासिने ।
नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥ २२॥
नमो नमो महेशाय शिवाय शिवदायिने ।
सर्वत्र समभावाय विष्णवे प्रभविष्णवे ॥ २३॥
तेजोराशिपते तुभ्यं भानवे ते नमो नमः ।
नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥ २४॥
स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च ।
सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥ २५॥
सर्वेभ्यो भिन्नरूपाय मायाहीनाय ते नमः ।
मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥ २६॥
गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः ।
अतो मयि गणेशान कृपयाऽनुग्रहं कुरु ॥ २७॥
इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् ।
वैराटः पुरुषस्तत्र कृताञ्जलिपुटः स्थितः ॥ २८॥
भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः ।
वरं वरय दास्यामि शङ्कां मा कुरु विश्वप ॥ २९॥
इदं त्वया कृतं स्तोत्रं मम प्रीतिकरं भवेत् ।
यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥ ३०॥
यं यं चिन्तयते कामं तं तं दास्यामि वाञ्छितम् ।
भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥ ३१॥
इत्युक्तवन्तं गणनाथमाद्यं वैराटदेवः प्रणनाम तं वै ।
भावेन युक्तो वचनं जगाद हृष्टः स्वयं विघ्नहरं प्रभुं च ॥ ३२॥
वैराट उवाच ।
यदि तुष्टोऽसि देवेश यदि देयो वरो महान् ।
तव भक्तिं दृढां देहि यया मोहो विनश्यति ॥ ३३॥
अतुलं सर्जनं सृष्टेः पालनं हरणं तथा ।
करोमि त्वत्प्रसादेन भक्तेभ्यो भुक्तिमुक्तिद ॥ ३४॥
ऐश्वर्यमतुलं देहि गजानन महाप्रभो ।
यं यमिच्छामि तत्सर्वं सिध्यतु त्वत्प्रसादतः ॥ ३५॥
शिव उवाच ।
तथेति वचनं चोक्त्वा गणेशोन्तरधीयत ।
विराट् हर्षेण संयुक्तो गणेशं हृद्यभावयत् ॥ ३६॥
एवं देवि च सर्वत्र नानाण्डेषु स्थितैः परैः ।
वैराटैस्तैः कृतं पूर्णं गणेशतप उत्तमम् ॥ ३७॥
तेन सर्वे महात्मानः स्वस्वकर्मणि संस्थिताः ।
निर्विघ्ना वरदानेन भगवन्तः सनातनाः ॥ ३८॥
अनन्तानि प्रजानीहि ब्रह्माण्डानि न शक्यते ।
वक्तुं केनापि हेरम्बं विना तानि यथायथम् ॥ ३९॥
सततं गणनाथोऽपि न सङ्ख्यातुं प्रवर्तते ।
गणना शब्दशास्त्रेषु यावती ह्यधिकं ततः ॥ ४०॥
अतः केनापि सङ्ख्यानं न कृतं वेदवादिना ।
अनन्तानि महाण्डानि ज्ञातव्यानि जगन्मयि ॥ ४१॥
एवं प्रभावयुक्तोऽसौ हृदये मे प्रवर्तते ।
गणेशो ध्यानलोभी च भक्तेशो भक्तवत्सलः ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः ॥ १.१०
१.११ पञ्चदेववरप्रदानं नामैकादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
पार्वत्युवाच ।
भगवन् देवदेवेश कृपां कृत्वा वदस्व मे ।
वैराटेन कथं सृष्टं जगत्स्थावरजङ्गमम् ॥ १॥
अन्यच्च ब्रुहि मे नाथ ध्यानमार्गं पुरातनम् ।
येन साक्षात्करिष्यामि गणेशं नाऽत्र संशयः ॥ २॥
मुद्गल उवाच ।
इति पृष्टो महादेव्या महादेवः प्रहृष्टवान् ।
कथां परमपुण्यां च कथयामास तां शृणु ॥ ३॥
दक्ष उवाच ।
गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते ।
कथयस्व महाभाग शिवेन कथितं तु यत् ॥ ४॥
मुद्गल उवाच ।
धन्योऽसि दक्ष लोकेषु येन सादरता च ते ।
गणेशेऽमृतधारायां कथायां नाऽत्र संशयः ॥ ५॥
प्रहृष्टां गिरिजां दृष्ट्वा शिवो वचनमब्रवीत् ।
धन्या धन्या महाभागे शृणु सादरमादितः ॥ ६॥
शिव उवाच ।
गणेशं मनसा ध्यात्वा वैराटः स्रष्टुमारभत् ।
तस्य नाभेः समुत्पन्नो ब्रह्मा लोकपितामहः ॥ ७॥
मुखाद्विष्णुर्जगत्पाता नेत्राच्चाऽहं हरोऽभवम् ।
सृष्टिस्थितिलयाधारास्त्रिरूपगुणधारकाः ॥ ८॥
वामाङ्गाच्छक्तिरुत्पन्ना त्वं वै पार्वति मोहिनी ।
दक्षिणाङ्गाद्रविः साक्षात्कर्माधारः समाभवत् ॥ ९॥
पञ्च देवाः समुत्पन्ना भिन्ना जाताः स्वभावतः ।
न विदुः किञ्चिदात्मानं वैराटं चापि शोभने ॥ १०॥
अन्धे तमसि सर्वत्र बभ्रमुर्बहुकालतः ।
न किञ्चित्प्रापुरायासात् स्थिताः परमदुःखिताः ॥ ११॥
किं कर्तव्यं क्व गन्तव्यमज्ञानेनावृता भृशम् ।
कस्माद्वयं समुत्पन्ना न जानीमो महाप्रभुम् ॥ १२॥
अथ चिन्तयतां तेषां बुद्धिर्जाता सुनिश्चिता ।
तपः कर्तुं समारब्धं यस्मै कस्मै नमोस्त्विति ॥ १३॥
सर्वेषां मूलभूतं यद्यादृशं तादृशं खलु ।
(Page खं. १ अ. ११ पान २८)
स्वधीस्थं तत्समाचिन्त्य तपस्तप्तं सुदारुणम् ॥ १४॥
तपसा गणनाथस्तु प्रसन्नोंऽतरमाश्रितः ।
तत्र दृष्टिः समुत्पन्ना तेषां वै भावितात्मनाम् ॥ १५॥
हृदये बीजरूपं यत्स्फुरत्तद् दृष्टमद्भुतम् ।
एकाक्षरं महामन्त्रं प्राप्य तं हर्षमाययुः ॥ १६॥
तं मन्त्रं जपमानैस्तैस्तदारभ्य जगन्मयि ।
तेन मन्त्रप्रभावेण ज्ञानं प्राप्तं सुनिर्मलम् ॥ १७॥
दिव्यवर्षसहस्रेण प्रत्यक्षः समजायत ।
गणेशो भक्तिभावेन पुरस्तेषां समुत्थितः ॥ १८॥
अनन्तकोटिसूर्यौजाः शुण्डादण्डविराजितः ।
चतुर्बाहुधरो लम्बोदरः साक्षात् विभूषितः ॥ १९॥
भूषणैरायुधैश्चैव सिद्धिबुद्धिसमन्वितः ।
भक्तानन्दकरः श्रीमानाखुवाहो महाद्युतिः ॥ २०॥
तं दृष्ट्वा भयभीतास्ते देवाः शम्भुपुरोगमाः ।
किमिदं तेज आयाति प्रलयाग्निसमं महत् ॥ २१॥
अस्मान् धक्ष्यति किं देवः विघ्नेश करुणानिधे ।
तव भक्ता वयं स्वामिन् कथं विघ्नेन भाविताः ॥ २२॥
इति तेषां वचः श्रुत्वा त्वभवत्सौम्यरूपवान् ।
तं दृष्ट्वा हर्षिताः सर्वे प्रणेमुर्भावपूर्वकम् ॥ २३॥
गणेशदर्शनेनैव स्फूर्तिः प्राप्ता महाद्भुता ।
तया सर्वे यथातथ्यं ज्ञातं तैः पञ्चभिः पुरः ॥ २४॥
ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ।
हृष्टरोमाण एवं ते स्रवदश्रुजलाविलाः ॥ २५॥
पञ्चदेवा ऊचुः ।
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥ २६॥
हेरम्बाय नमस्तुभ्यं दुढिराजाय ते नमः ।
विनायकाय देवाय ब्रह्मणां नायकाय च ॥ २७॥
लम्बोदराय सिद्धेश गजाननधराय च ।
शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥ २८॥
लम्बोष्ठायैकदन्ताय सर्वेशाय गणाधिप ।
अनन्तमहिमाधार धरणीधर ते नमः ॥ २९॥
नमो मायामयायैव मायाहीनाय ते नमः ।
मोहदाय नमस्तुभ्यं मोहहन्त्रे नमो नमः ॥ ३०॥
पञ्चभूतमयायैव पञ्चभूतधराय च ।
इन्द्रियाणां चाधिपायेन्द्रियज्ञानप्रकारिणे ॥ ३१॥
अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः ।
अन्नायान्नपते तुभ्यमन्नान्नाय नमो नमः ॥ ३२॥
प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे ।
चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥ ३२॥
विज्ञानाय च विज्ञानपतये द्वन्द्वधारिणे ।
विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥ ३४॥
आनन्दाय नमस्तुभ्यमानन्दपतये नमः ।
आनन्दानन्ददात्रे च कारणाय नमो नमः ॥ ३५॥
चैतन्याय च यत्नाय चेतनाधारिणे नमः ।
चैतन्येभ्यः स्वचैतन्यदायिने नादरूपिणे ॥ ३६॥
बिन्दुमात्राय बिन्दूनां पतये प्राकृताय च ।
भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥ ३७॥
सोऽहम्मात्राय शून्याय शून्याधाराय देहिने ।
शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥ ३८॥
ज्ञानाय बोधनाथाय बोधानां बोधकारिणे ।
मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥ ३९॥
विदेहाय नमस्तुभ्यं विदेहाधारकाय च ।
विदेहानां विदेहाय साङ्ख्यरूपाय ते नमः ॥ ४०॥
(Page खं. १ अ. ११ पान २९)
नानाभेदधरायैव चैकानेकादिमूर्तये ।
असत्स्वानन्दरूपाय शक्तिरूपाय ते नमः ॥ ४१॥
अमृताय सदाखण्डभेदाभेदविवर्जित ।
सदात्मरूपिणे सूर्यरूपाधाराय ते नमः ॥ ४२॥
सत्यासत्यविहीनाय समस्वानन्दमूर्तये ।
आनन्दानन्दकन्दाय विष्णवे ते नमो नमः ॥ ४३॥
अव्यक्ताय परेशाय नेतिनेतिमयाय च ।
शिवाय शाश्वतायैव मोहहीनाय ते नमः ॥ ४४॥
संयोगेन च सर्वत्र समाधौ रूपधारिणे ।
स्वानन्दाय नमस्तुभ्यं मौनभावप्रदायिने ॥ ४५॥
अयोगाय नमस्तुभ्यं निरालम्बस्वरूपिणे ।
मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥ ४६॥
शान्तिदाय नमस्तुभ्यं पूर्णशान्तिप्रदाय ते ।
योगानां पतये चैव योगरूपाय ते नमः ॥ ४७॥
गणेशाय परेशाय ह्यपारगुणकीर्तये ।
योगशान्तिप्रदात्रे च महायोगाय ते नमः ॥ ४८॥
गुणान्तं न ययुर्यस्य वेदाद्या वेदकारकाः ।
स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥ ४९॥
तेन वै भगवान् साक्षाच्चिन्तामणिगजाननः ।
प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥ ५०॥
इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे ।
गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥ ५१॥
श्रीगणेश उवाच ।
पञ्चदेवा महाभागाः प्रसन्नो भवतां स्तवैः ।
तपसा च तथा भक्त्या वाञ्छितं ब्रूत वै वरम् ॥ ५२॥
भवत्कृतमिदं स्तोत्रं परमाल्हादवर्धनम् ।
मम प्रीतिकरं भक्त्या सर्वदं प्रभविष्यति ॥ ५३॥
यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक् ।
पुत्रपौत्रयुतः श्रीमानन्ते स्वानन्दमाप्नुयात् ॥ ५४॥
सप्तवारं पठेन्नित्यमेकविंशतिवासरम् ।
कारागृहगतो वाऽपि मुच्यते बन्धनात् स्वयम् ॥ ५५॥
एककालं द्विकालं वा त्रिकालमपि यः पठेत् ।
स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥ ५६॥
मारणोच्चाटनादिभ्य एकविंशतिवारतः ।
तावद्दिनानि पाठेन तस्य नैव भयं भवेत् ॥ ५७॥
धनधान्यादिकं सर्वम्मारोग्यं पशुवर्धनम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ५८॥
शिव उवाच ।
गणेशवचनं श्रुत्वा हृष्टा विष्ण्वादयः सुराः ।
प्रणिपत्य गणाधीशं कृताञ्जलिपुटा जगुः ॥ ५९॥
पञ्चदेवा ऊचुः ।
सनाथा हि वयं जाताः सर्वे त्वय्यागते प्रभो ।
वरं देहि गणाधीश तव भक्तिं दृढां तथा ॥ ६०॥
तेन माया न बाधेत नरान् देवानपि प्रभो ।
किमस्माभिः प्रकर्तव्यं तदाज्ञापय सर्वदा ॥ ६१॥
सामर्थ्यं विविधं देहि भजतां कामपूरणम् ।
स्थानं सदानन्दनाम देहि नाथ नमोऽस्तु ते ॥ ६२॥
गणेश उवाच ।
चतुर्मुख महाबाहो रजोगुणसमुद्भव ।
सृष्टिकर्ता भव त्वं वै ब्रह्मा नाम्ना महाद्युते ॥ ६३॥
सत्यलोकनिवासी तु हंसवाहनवान् भव ।
वेदादिज्ञानयुक्तश्च सर्वेषां त्वं पितामहः ॥ ६४॥
चतुर्भुजोऽसि देवेश त्वं वै सत्त्वसमुद्भवः ।
पालकः सर्वलोकानां विष्णुनामा भविष्यसि ॥ ६५॥
वैकुण्ठे वसतिस्ते स्यात् वाहनं गरुडस्तव ।
(Page खं. १ अ. ११ पान ३०)
नानावतारवांश्चापि भविष्यसि महाबलः ॥ ६६॥
पञ्चवक्त्र महातेजस्तमोगुणसमुद्भव ।
संहारकारको नित्यं हरनामा भविष्यसि ॥ ६७॥
कैलासे वसतिस्तेऽस्तु वाहनं वृषभस्तथा ।
तृतीयेन स्वनेत्रेण सर्वं भस्मीकरिष्यसि ॥ ६८॥
सहस्रकिरण त्वं वै सूर्यनामा भविष्यसि ।
कर्मणां चालकत्वात् षडृतुधर्मप्रकाशकः ॥ ६९॥
त्रिगुणानामहम्भावात्त्वं जातोऽसि प्रकाशकः ।
रथोश्वालङ्कृतश्चापि वाहनं ते भविष्यति ॥ ७०॥
सौरलोके निवासश्च ग्रहराजो भविष्यसि ।
वृष्टिमूलं त्वमेऽवासि तेजोराशिः प्रतापवान् ॥ ७१॥
चतुर्भुजे महाशक्ते त्वं जाताऽसि त्रिदेहतः ।
नानाविषयभोगार्थं सदेहा मोहकारिणी ॥ ७२॥
शक्तिनाम्नी महामाया भविष्यसि न संशयः ।
द्विधा मोहप्रदात्री त्वं भुक्तिमुक्तिभ्रमात्मिका ॥ ७३॥
सिंहवाहनगा नित्यं शक्तिलोकनिवासिनी ।
नानाभोगविमोहेन जगत्त्वं मोहयिष्यसि ॥ ७४॥
महाकार्ये समुत्पन्ने प्रत्यक्षोऽहं भवामि वै ।
मत्तुल्याः सर्वभावेन कृता देवा न संशयः ॥ ७५॥
आयुधं भूषणं श्रेष्ठं नानासामर्थ्यमद्भुतम् ।
सङ्कल्पसिद्धतां चैव ददौ तेभ्यो गणाधिपः ॥ ७६॥
शिव उवाच ।
इति दत्त्वा वरान् देवो गणेशोंऽतर्दधे स्वयम् ।
तेऽपि हृष्टा निजात्मानं कृतकृत्यं च मेनिरे ॥ ७७॥
भजतां भक्तिभावेन कामपूराः कृता वयम् ।
परमेश्वरतां प्राप्ताः प्रसादाद्गणपस्य च ॥ ७८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते पञ्चदेववरप्रदानं नामैकादशोऽध्यायः ॥ १.११
१.१२ ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
सूत सूत महाप्राज्ञ परमानन्ददायक ।
कथाममृतरूपां च कथयस्व महाद्युते ॥ १॥
वयं प्रसन्नतां याताः कृतकृत्या यथा तथा ।
सुकथामृतपानेन स्वानन्देन परिप्लुताः ॥ २॥
कथयस्व कथां दिव्यां पञ्चदेवैश्च किं कृतम् ।
विस्तारेण यथान्यायं येन मुक्ता भवाम च ॥ ३॥
श्रुत्वा तेषां मुनीनां च वचनं भक्तिभावितम् ।
हृष्टः सूतः पुनः प्राह कथां पापप्रणाशिनीम् ॥ ४॥
सूत उवाच ।
एवमेव स दक्षेण पृष्टो योगीश्वरो महान् ।
मुद्गलस्तं यथोवाच तथा वच्मि महामुने ॥ ५॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग पार्वत्या शिवसन्निधौ ।
यत्पृष्टं यछ्रुच्तं सर्वं कथयामि सविस्तरम् ॥ ६॥
(Page खं. १ अ. १२ पान ३१)
पार्वत्युवाच ।
भगवन् देवदेवेश तारिताऽहं त्वया प्रभो ।
सुकथामृतपानेन कृतकृत्याऽस्मि साम्प्रतम् ॥ ७॥
पञ्च देवाः समर्थाश्च प्राभवन् वरदानतः ।
किं चक्रुस्ते महात्मानः कथयस्व विधानतः ॥ ८॥
गणेशभक्तियुक्तं चेच्चरितं कथयस्व मे ।
अथवा गाणपत्यानां चरितं ब्रह्मदायकम् ॥ ९॥
व्यर्थसंलपनेनायुर्नाशः कार्यो न शोभनैः ।
धन्यास्ते साधवो लोका गणराड्भक्तिभाविताः ॥ १०॥
मुद्गल उवाच ।
प्रियाया वचनं श्रुत्वाऽतिहृष्टः स महेश्वरः ।
उवाच स्मयमानश्चालिङ्ग्य देवीं महायशाः ॥ ११॥
शिव उवाच ।
धन्याऽसि पार्वति त्वं च सार्थकं जन्म ते परम् ।
भक्त्या धृतो गणेशोऽयं हृदि तेन वरानने ॥ १२॥
गणेशभक्तियुक्ता ये नरास्ते ब्रह्मरूपिणः ।
दर्शनान्मुक्तिदातारः सर्वेभ्यो नात्र संशयः ॥ १३॥
गणेशं यः परित्यज्य सिद्धिमिच्छति शाश्वतीम् ।
स मूढात्मा तु विज्ञेयो नारकी नात्र संशयः ॥ १४॥
अन्यदेवस्य ये भक्ता गणेशं नार्चयन्ति चेत् ।
तेषां न भविता सिद्धिर्नरकेषु पतन्ति ते ॥ १५॥
सुधां सन्त्यज्य रूक्षान्नं सेवते दुर्मतिर्यथा ।
गणेशानं तथा त्यक्त्वाऽन्यस्य देवस्य सेवकः ॥ १६॥
अस्माकं जनको माता सर्वेषां नात्र संशयः ।
ज्येष्ठराज इति ख्यातस्तेनादौ पूज्यकोऽभवत् ॥ १७॥
त्यक्त्वा गणेशं मूढात्मा देवादीनपि पूजयेत् ।
गणेशोल्लङ्घनात्तं वै क्षिपामो नरके वयम् ॥ १८॥
गणेशनिन्दको जन्तुरस्माकं भक्तिकारकः ।
नारकी भविता सद्योस्मद्गुरुद्वेषकारकः ॥ १९॥
अतस्त्वं धन्यरूपाऽसि सर्वेषां मूलबीजकम् ।
भजसि त्वं गणेशानं भक्तिभावसमन्विता ॥ २०॥
सत्यं देवि त्वया प्रोक्तं गाणेशानां प्रकीर्तनम् ।
गणेशस्य च वा कार्ये तेन जन्म कृतार्थकम् ॥ २१॥
गणेशं प्रार्थयामीति शृणु चिन्तामणे प्रभो ।
चित्त निवासकारिन् वै गजानन महोदर ॥ २२॥
गाणपत्या महाभागास्तेषां सङ्गः सदास्तु मे ।
तेषां मध्ये तथा वासं देहि त्वं द्विरदानन ॥ २३॥
अग्रे मे गाणपत्यास्ते पृष्ठे वामे च दक्षिणे ।
सर्वत्र सह तैर्वासो गाणपत्यैर्भवत्विति ॥ २४॥
येषां मुखारविन्देषु गणेशचरितं बभौ ।
भवबन्धहरं पूर्णमिहाऽमुत्र सुखप्रदम् ॥ २५॥
चरितं गाणपत्यानां गणराट्सेवनात्मकम् ।
अहर्निशं प्रभवति चेष्टदं ढुण्ढिभक्तिदम् ॥ २६॥
तारितोऽहं त्वया देवि कथां पृच्छसि मां पुनः ।
गणेशभक्तिपूतां वा भक्तानां तस्य भावतः ॥ २७॥
प्रष्टुः श्रोतुश्च वक्तुर्या ब्रह्मभूयपदप्रदा ।
इह तां तु वदामि त्वां गाणेशीं सुखदायिनीम् ॥ २८॥
पञ्चदेवास्तथा जाता यथा गणपतिः स्वयम् ।
वरदः कथयामास ईश्वराज्ञानभाविताः ॥ २९॥
पञ्चलोकाः समुद्भता वरदानप्रभावतः ।
निराधारा अखण्डाश्चावसंस्तेषु विभागशः ॥ ३०॥
कैलासे शङ्करश्चैव वैकुण्ठे विष्णुरेव च ।
सौरलोके रविः शक्तिलोके चैव जगन्मयि ॥ ३१॥
सत्यलोके तथा ब्रह्मा वसति स्म मुदान्वितः ।
(Page खं. १ अ. १२ पान ३२)
ऐश्वर्यभोगभोक्तारः परस्परहिते रताः ॥ ३२॥
सत्यसङ्कल्पवन्तस्त ईश्वरा ब्रह्ममानिनः ।
बहुकालेन तेषां वै मत्सरः समजायत ॥ ३३॥
अहं श्रेष्ठतमश्चैव सर्वेषां प्रभुरीश्वरः ।
हृदये मन्यमानास्ते विवादं चक्रुरञ्जसा ॥ ३४॥
आपश्च तत्र संसृष्टा विष्णुना स्वशरीरतः ।
तासु संसुप्तवान् देवो बहुकालं यथासुखम् ॥ ३५॥
जले शैवालवल्ली च समुत्पन्ना क्रमेण वै ।
बहुकालेन तन्मध्ये पृथ्वी जाता स्वभावतः ॥ ३६॥
लीलार्थे विष्णुना सृष्टं नाभ्यां कमलमुज्ज्वलम् ।
शतयोजनविस्तारं कर्णिकापत्रशोभितम् ॥ ३७॥
सुवासबहुलं वीक्ष्य तेन रेमे जनार्दनः ।
एककाले जगाम स्म तत्र ब्रह्मा पितामहः ॥ ३८॥
कमलं तेन सन्दृष्टं विस्मितो हृदये भृशम् ।
केन सृष्टमिदं दिव्यं पद्म परमशोभनम् ॥ ३९॥
तत्र नारायणं दृष्ट्वा प्रसुप्तं स महार्णव ।
प्रभुमुत्थापयामास ब्रह्मा तं स्नेहभावतः ॥ ४०॥
ब्रह्मणो वचनेनैव समुत्तस्थौ जनार्दनः ।
ब्रह्माणं मानयामास स्वागतं भो पितामह ॥ ४१॥
तत्र ब्रह्मा महाविष्णुं प्रत्युवाच समत्सरः ।
किं मोहार्थं त्वया स्मृष्टं पद्मं परमशोभनम् ॥ ४२॥
अहं ब्रह्मा जगत्स्रष्टा सर्वादिः सर्वभावनः ।
मया प्रक्रियते सृष्टिः पश्चात्त्वं पालयिष्यसि ॥ ४३॥
सृजामि यदि नो तां चेत्किं पासि त्वं जनार्दन ।
मदधीनश्च सर्वेषां भावस्तेनाहमीश्वरः ॥ ४४॥
ब्रह्मणो वचनं श्रुत्वा विस्मितः स जनार्दनः ।
उवाच मधुरं वाक्यं ब्रह्माणं सान्त्वयन्निव ॥ ४५॥
विष्णुरुवाच ।
सृष्टवान् कमलं नाहं मोहितुं त्वां पितामह ।
लीलार्थं पद्ममेवेदं पश्य त्वं नात्र संशयः ॥ ४६॥
समत्सरमिदं वाक्यं त्वयोक्तं यत् पितामह ।
अहं त्वां पालयामीदं तेन स्रष्टा भवान् किल ॥ ४७॥
नान्यो पातास्ति मत्तस्ते सर्वेषां पातृभावतः ।
अहं स्थितो महाविष्णुर्मत्समो नैव विद्यते ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः ॥ १.१२
(Page खं. १ अ. १३ पान ३३)
१.१३ पञ्चदेवविवादो नाम त्रयोदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
शृणु देवि कथां पुण्यां गणेशप्रीतिवर्धिनीम् ।
यज्जातमादिकाले वै तत्तेऽहं कथयामि च ॥ १॥
विष्णोर्वचनमाकर्ण्य गर्वयुक्तं प्रभावतः ।
भगवांस्तमुवाचेदं वेदकर्ता पितामहः ॥ २॥
ब्रह्मोवाच ।
विष्णो त्वं यदि मां पाता सर्वेशश्च महान् प्रभुः ।
पश्योदरगतो भूत्वा प्रभावं मे जगद्गुरो ॥ ३॥
ब्रह्मणो गिरमाकर्ण्य प्रविष्टोऽसौ जनार्दनः ।
योगमायाबलेनैव योगीशो जठरे विधेः ॥ ४॥
ब्रह्माण्डरचनां तत्र दृष्ट्वा नानाविधां पराम् ।
नाभिपद्मयुतं विष्णुं ददर्श पुरुषोत्तमः ॥ ५॥
विस्मितो हृदि मोहेन किमद्भुतमिदं महत् ।
पश्यन्नान्तं जगामाऽसौ निःसृतो देहमध्यतः ॥ ६॥
निःसृतः प्रणिपत्याऽऽदौ तं विधिं त्ववदत्प्रभुः ।
ब्रह्मन्नान्तं प्रजानामि त्वदीयं वै न संशयः ॥ ७॥
त्वदीयजठरेऽहं वै स्थितस्तेन भवान् गुरुः ।
सर्वेशो नात्र सन्देहः स्रष्टा त्वं स्वप्रभावतः ॥ ८॥
त्वमेव भगवन् पश्य मदीये जठरे परम् ।
प्रभावं पूर्णभावेन मदीयं कीदृशं प्रभो ॥ ९॥
नारायणवचः श्रुत्वा ब्रह्मा विस्मितमानसः ।
योगस्यैव प्रभावेण गतस्तत्र यथारुचि ॥ १०॥
विष्णोश्च जठरे ब्रह्मा ब्रह्माण्डं लोकसङ्कुलम् ।
ब्रह्माणमपरं तत्र स्थितं पश्यन् विमोहितः ॥ ११॥
ब्रह्मा नान्तं जगामाऽसौ पश्यन् पश्यन् महात्मनः ।
बहिर्गन्तुं मनश्चक्रे विष्णुना मार्ग आवृतः ॥ १२॥
द्वाराणि योगभावेन पिहितानि स्वमायया ।
भ्रमन् भ्रमन् स्वयं ब्रह्मा प्राप नो मार्गमुत्तमम् ॥ १३॥
तत्र योगबलेनाऽपि ब्रह्मा वै पद्मनालतः ।
निर्भिद्य सहसा द्वारं ययौ तेन बहिर्विधिः ॥ १४॥
बहिरागत्य विष्णु तं क्रोधेन स जगाद ह ।
वशमानीय मां किं त्वं स्वच्छन्दो भवसि प्रभो ॥ १५॥
अहं स्वेन प्रभावेण निःसृतो योगमायया ।
द्वाराणि पिहितान्येव किमर्थं वद माधव ॥ १६॥
वचनं प्राह देवस्य श्रुत्वा विष्णुमहायशाः ।
प्रहस्य तमुवाचेत्थं स्नेहयुक्तं समाहितः ॥ १७॥
विष्णुरुवाच ।
वशीकर्तुं विधे त्वाहमिच्छामि न जगद्गुरो ।
द्वाराणि पिहितान्येव मया क्रीडार्थमादरात् ॥ १८॥
परस्परं तु लीलार्थं कृतं यत्प्रपितामह ।
प्रभावं ज्ञातुकामस्य त्वपराधं क्षमस्व मे ॥ १९॥
इति प्रसादितो ब्रह्मा प्रसन्नः प्राह तं पुनः ।
क्रीडार्थं यत्त्वया विष्णो कृतं ज्ञातं न वै मया ॥ २०॥
अहं क्रोधसमायुक्तः सञ्जातोऽज्ञानतः प्रभो ।
अप्रियं भाषणं विष्णो यत् क्षमस्व कृतं मया ॥ २१॥
तवान्तं नैव जानामि जठरेऽहं समास्थितः ।
त्वं श्रेष्ठो मे गुरुः साक्षान्नात्र संशयवान् हरे ॥ २२॥
भवानहमतः प्राज्ञौ श्रेष्ठौ सर्वेश्वरौ परौ ।
शम्भुः शक्तिश्च सूर्यश्च गर्वयुक्ता बभूविरे ॥ २३॥
तेषां प्रमाणं तज् ज्ञेयमिति सस्मरतुः प्रभू ।
तयोः स्मरणमात्रेण संययुस्तत्र ते त्रयः ॥ २४॥
प्रथमं प्राप्तवांस्तत्र शङ्करः शूलधृक् प्रभुः ।
उक्तवांस्तौ किमर्थं मे स्मरणं वदतं कृतम् ॥ २५॥
(Page खं. १ अ. १३ पान ३४)
तत्रोचतुर्हरिर्ब्रह्मा शृणु शङ्कर मे वचः ।
तवैश्वर्यं कियन्मानं दर्शयस्व सदाशिव ॥ २६॥
तयोर्वचनमाकर्ण्य गर्वयुक्तः सदाशिवः ।
उवाच क्रोधसंयुक्तो वचनं विस्मयन्निव ॥ २७॥
शिव उवाच ।
अहं हर्ता च सर्वेषां युवयोर्नात्र संशयः ।
मत्तः परं न किञ्चिद्वै ज्ञातव्यं सर्वभावतः ॥ २८॥
इत्युक्त्वा स स्वयं शम्भुर्दर्शयामास तौ वपुः ।
ज्योतीरूपं महालिङ्गं परं सर्वत्र संस्थितम् ॥ २९॥
तत्तौ दृष्ट्वा महाश्चर्यं विस्मितौ विधिमाधवौ ।
अध ऊर्ध्वं पुरः पश्चाद्वामदक्षिणसन्ततम् ॥ ३०॥
तत्र ब्रह्मा स्वयं विष्णुमुवाच मधुरं वचः ।
अधस्त्वं गच्छ देवेश ऊर्ध्वं गच्छामि भावतः ॥ ३१॥
शिवस्यान्तं प्रपश्यावः कीदृशोऽयं महेश्वरः ।
अतस्त्वं त्वरितो भूत्वा कुरु शीघ्रमिदं वचः ॥ ३२॥
इत्युक्तो ब्रह्मणा विष्णुस्तं प्रत्यूचे प्रभावतः ।
ब्रह्मन्मह्यं वरं देहि पश्चाद्गन्तुं समुत्सहे ॥ ३३॥
भ्रान्तो ब्रह्माऽभवत्तत्र वरं ब्रूहीति सोऽब्रवीत् ।
दास्यामि नात्र सन्देहः प्रीतस्त्वं वरयाशु च ॥ ३४॥
विष्णुरुवाच ।
त्वं मे पुत्रो भव ब्रह्मन्नेष एव वरो मतः ।
तस्य तद्वचनं श्रुत्वा विस्मितो विधिरब्रवीत् ॥ ३५॥
वञ्चितोऽहं त्वया नूनं सम्भ्रमेऽस्मिन् समुत्थिते ।
दत्तो वरो यतस्तेन तव पुत्रो भवाम्यहम् ॥ ३६॥
सृष्टिकाले च सम्प्राप्ते त्वन्नाभिकमलात् स्वयम् ।
देहं सृजामि योगेन पद्मजोऽहं तवात्मजः ॥ ३७॥
इत्युक्तः स हरिस्तत्र तं प्रणम्य तथेति च ।
प्रविष्टोधः शिवस्यापि द्रष्टुं पारं महात्मनः ॥ ३८॥
ब्रह्माऽपि त्वरितो भूत्वोर्ध्वं ययौ पारलिप्सया ।
न तत्र पारमीशस्य प्राप्तवान् स पितामहः ॥ ३९॥
विष्णुश्च शङ्करस्याधो न पारं दृष्टवान् ततः ।
बहुकालेन तो तत्राऽऽगतौ तौ खिन्नमानसौ ॥ ४०॥
परस्परविचारेण शङ्करं स्तोतुमुद्यतौ ।
बद्धाञ्जलिपुटावेतौ स्तोत्रं चक्रतुरुत्तमम् ॥ ४१॥
ब्रह्मविष्णू ऊचतुः ।
नमस्ते शङ्करायैव नमस्ते शूलपाणये ।
रुद्राय कालरूपाय त्र्यम्बकाय नमो नमः ॥ ४२॥
उमापते नमस्तुभ्यं वृषभेश्वरवाहन ।
आदिदेवाय देवाय महादेवाय ते नमः ॥ ४३॥
प्रसीद भगवन् शम्भो नान्तं पश्यावहे विभो ।
किंरूपं किंस्वभावं त्वां न जानीवः कथञ्चन ॥ ४४॥
दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते ।
येन ते भजनं देव जनाः कुर्वन्ति निर्भयाः ॥ ४५॥
तयोर्वचनमाकर्ण्य शम्भुः प्राकट्यमास्थितः ।
ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥ ४६॥
वामभागे स्थितं विष्णुं दक्षिणाङ्गे पितामहम् ।
विश्वं चराचरं सर्वं लिङ्गे तत्रास्य संस्थितम् ॥ ४७॥
अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् ।
उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥ ४८॥
तयोर्वचनमाकर्ण्य हृष्टः सन् शङ्करः प्रभुः ।
भगवान् पूर्वरूपेण सन्तस्थौ वृषभध्वजः ॥ ४९॥
उवाच तौ महादेवो वृणुतं वरमीप्सितम् ।
दास्यामि भवतोभावात् स्तोत्रसन्तुष्टमानसः ॥ ५०॥
(Page खं. १ अ. १४ पान ३५)
य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् ।
मत्प्रियः सोऽपि भवति मल्लोकेंऽते प्रगच्छति ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते पञ्चदेवविवादो नाम त्रयोदशोऽध्यायः ॥ १.१३
१.१४ गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
शृणु देवि प्रवक्ष्यामि यज्जातं चाद्भुतं ततः ।
गणेशमायामोहेन मोहितानां चरित्रकम् ॥ १॥
शिवस्य वचनं श्रुत्वा विष्णुब्रह्माणमब्रवीत् ।
वरं वृणु विरिञ्च त्वां शिवात्पुत्रो भवेति मे ॥ २॥
तव पुत्रः शिवो जातस्तेन मे पौत्रतां गतः ।
उभयोः सफलं पूर्णं वाञ्छितं जातमद्भुतम् ॥ ३॥
विष्णोर्वचनमाकर्ण्य विधिः शङ्करमब्रवीत् ।
मम पुत्रो भव त्वं वै वर एष वृतो मया ॥ ४॥
विष्णुनाऽपि तदेवोक्तं तथा वै शङ्करोऽब्रवीत् ।
तव भालाद्भविष्यामि रुद्रोऽहं त्वंशतो विधे ॥ ५॥
शिवस्य वचनं श्रुत्वा सन्तुष्टौ विधिमाधवौ ।
ऊचतुः शङ्करं तत्र स्नेहात्तं भावपूर्वकम् ॥ ६॥
विधिवच्छिव पश्य त्वमैश्वर्यं चावयोः पृथक् ।
तेन तुष्टौ महादेव भविष्यावो न संशयः ॥ ७॥
तयोर्यदैश्वरं भावं शिवोऽपि ज्ञानचक्षुषा ।
दृष्ट्वा नान्तं जगामाऽसौ तौ पुनः प्रत्युवाच ह ॥ ८॥
भवतोर्महिमानं चापारं पश्यामि शाश्वतम् ।
वयं त्रयः समाख्याता ईश्वराः सर्वतः पराः ॥ ९॥
एतस्मिन्नन्तरे तत्राऽजगाम स दिवाकरः ।
तेजोराशिः सदात्मा च पृच्छति स्म समाहितः ॥ १०॥
किमर्थं स्मरणं देवा मदीयं कृतमादरात् ।
तन्मे कथयताद्य त्वागतोऽहं स्नेहतः परम् ॥ ११॥
भानोर्वचनमाकण्ये प्रहृष्टास्ते त्रयो भृशम् ।
ऊचुः प्रसन्नभावेनैश्वर्यं ते दर्शय प्रभो ॥ १२॥
तेषां श्रुत्वा गिरं सौम्यां दर्शयामास रूपकम् ।
तेजोमयमपारं यच्चराचरमयं महत् ॥ १३॥
सूर्यस्य तेजसा सर्वे निष्प्रभास्ते त्रयः कृताः ।
प्रणष्टदृष्टयो जाता न शेकुर्द्रष्टुमञ्जसा ॥ १४॥
ज्ञानदृष्ट्या च तं दृष्ट्वा चराचरतनुं प्रभुम् ।
अपाररूपं भास्वन्तं नतास्तं स्नेहभावतः ॥ १५॥
दर्शयित्वा तथात्मानं सौम्यरूपोर्यमाऽभवत् ।
तमूचुस्ते त्रयो देवा नान्तं ददृशिम प्रभो ॥ १६॥
अस्माकमपि पश्य त्वमैश्वर्यं स्नेहभावतः ।
तेषां तद्वचनं श्रुत्वा रविहृष्टो बभूव ह ॥ १७॥
ज्ञानदृष्ट्या रविस्तेषामैश्वर्यं दृष्टवान् परम् ।
उवाच प्रणतो भूत्वा विस्मितश्चेतसा भृशम् ॥ १८॥
भवन्तोऽपि महात्मानो नान्तं पश्यामि सर्वतः ।
युष्माकमैश्वरं भावमद्भुतं दृष्टवानहम् ॥ १९॥
(Page खं. १ अ. १४ पान ३६)
वयं सर्वेश्वराः सर्वे भगवन्तः सनातनाः ।
न्यूनाधिकं कलामात्रं विद्यते नैव निश्चितम् ॥ २०॥
तस्मिन् क्षणे स्वयं शक्तिरागता मोहिनी परा ।
उवाच तान् प्रसन्ना मे किमर्थं स्मरणं कृतम् ॥ २१॥
तामूचुस्ते च चत्वारो देवाः स्नेहेन भाविताः ।
दर्शयस्व महादेवि ऐश्वर्यं कीदृशं तव ॥ २२॥
इत्युक्ता सा स्वरूपं तद्दर्शयामास सुन्दरम् ।
चराचरमयं पूर्णं स्थूलसूक्ष्मादिभिर्युतम् ॥ २३॥
दृष्ट्वा रूपं तदीयं वै भ्रान्तास्ते शरणं ययुः ।
नान्तं ददृशिमार्ये ते रूपस्य महतः किल ॥ २४॥
सौम्यरूपा तदा जाता तामूचुः पश्य भावतः ।
अस्माकं देवि चैश्वर्यं कीदृशा वयमेव च ॥ २५॥
तेषां वचनमाकर्ण्य ज्ञानदृष्ट्या स्म पश्यति ।
नान्तं जगाम तेषां वै नता सा तान्विशेषतः ॥ २६॥
उवाच स्नेहभावेन नान्तं पश्यामि कुत्रचित् ।
भवन्तोऽपि महात्मान ईश्वराः पूर्णभावतः ॥ २७॥
वयं पञ्च समा नाथा नान्तरं दृश्यते क्वचित् ।
कः समर्थो भवेद्देवो निश्चयो नैव दृश्यते ॥ २८॥
गणेशमायया भ्रान्ता अवदंस्ते परस्परम् ।
प्रभुरेकश्च सर्वत्र वेदे वै पठ्यते बुधैः ॥ २९॥
प्रभवः पञ्च कुत्रापि नोक्ताः शास्त्रेषु सम्मताः ।
अतः कोऽपि प्रभुर्भाव्यः स च वै कुत्र वर्तते ॥ ३०॥
एवं विवादे सम्प्राप्ते विस्मृतं ज्ञानमाद्यकम् ।
गाणेशं चित्तचाञ्चल्यादूर्ध्वं जग्मुः प्रभावतः ॥ ३१॥
न किञ्चिद्ददृशुस्तत्राधो भागे प्रययुस्ततः ।
एवं दश दिशो भ्रान्ताः पश्यन्तस्ते परस्परम् ॥ ३२॥
न किञ्चिद्ददृशुस्तत्र स्थिता एकत्र ते पुनः ।
योगमार्गेण चित्ते स्वे ध्यानं चक्रुः क्रमेण च ॥ ३३॥
ब्रह्माऽभेदस्वरूपं ते रेमिरे योगभावतः ।
एकीभूता इवात्मानः शान्तिं प्राप्ताः स्वभावतः ॥ ३४॥
ततस्तान् दर्शयामास योगिध्येयमनुत्तमम् ।
स्वरूपं गणराजस्तु हृदये संस्थितं परम् ॥ ३५॥
चतुर्भुज त्रिनेत्रं तच्छुण्डादण्डविराजितम् ।
एकदन्तं शूर्पकर्णं वक्रतुण्ड महोदरम् ॥ ३६॥
रक्तवर्णं महाकायं सिन्दूरालिप्तमेव च ।
नाभिशेषं किरीटादिनानाभूषणशोभितम् ॥ ३७॥
सिद्धिबुद्धियुतं पूर्णं विभूतिभिरूपासितम् ।
चिन्तामणिं मणिं चैव दधत्तु हृदये शुभम् ॥ ३८॥
प्रसन्नवदनं भक्तानुग्रहाणां प्रकारकम् ।
हृदि दृष्टाऽभवन्नेव विस्मितास्ते सुराः प्रिये ॥ ३९॥
तमादौ शङ्करस्यैव हृदि प्रकटतां गतः ।
तं पप्रच्छ स्वयं शभुः को भवान् वद मे प्रभो ॥ ४०॥
शान्तियोगेन सम्प्राप्तः किं न ब्रह्मपतिः परः ।
कथयस्व महाभाग त्वां न जानामि तत्त्वतः ॥ ४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः ॥ १.१४
(Page खं. १ अ. १५ पान ३७)
१.१५ गणेशप्रसन्नभावो नाम पञ्चदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
शिवस्य वचनं श्रुत्वा भक्तिभावेन तोषितः ।
उवाच मधुरं वाक्यं विघ्नेशस्तं प्रहर्षयन् ॥ १॥
वक्रतुण्ड उवाच ।
शृणु शम्भो महाभाग मम मायाविमोहित ।
गणेशोऽहं पुनर्दृष्टस्तपसा भावितात्मना ॥ २॥
यः पुरा भवतो देव वरदाताऽभवं परः ।
उग्रेण तपसा तुष्टोऽकरवं ज्ञानसंयुतम् ॥ ३॥
ममैषा सततं माया प्रमोहयति मानवान् ।
तेन विस्मरणं प्राप्तं तवाऽपि न च संशयः ॥ ४॥
एवमुक्त्वा शिवं मायामोहजालं निराकरोत् ।
सर्वं च स्मरणं तेन पुनः प्राप्तं शिवस्य च ॥ ५॥
सर्वं स्मृत्वा शिवस्तत्र स्तोतुं समुपचक्रमे ।
तावदन्तर्हितं जातं रूपं गणपतेः शुभम् ॥ ६॥
पुनर्ध्यानेन शम्भुः स तमेवाचिन्तयन् स्थितः ।
नापश्यद् हृदि तद्रूपं तेनाकुल इवाऽभवत् ॥ ७॥
आययौ विष्णुरभ्याशे सर्वं त्वकथयच्छिवम् ।
अदृष्टं तादृशं रूपं कथयामास सोऽपि तम् ॥ ८॥
एवं पञ्चाप्यदृष्ट्वा तत् विस्मिता अभवन् परम् ।
एकत्र मिलिता जातास्तुष्टुवुस्तं गतस्मयाः ॥ ९॥
पञ्च देवा ऊचुः ।
नमस्ते वक्रतुण्डाय त्रिनेत्रं दधते नमः ।
चतुर्भुजाय देवाय पाशाङ्कुशधराय च ॥ १०॥
लम्बोदर नमस्तुभ्यं नाभिशेषाय ते नमः ।
महते चैकदन्ताय शूर्पकर्णाय ते नमः ॥ ११॥
सिन्दूरारुणदेहाय रक्तवर्णधराय च ।
महाकायाय सूक्ष्माय गणेशाय नमो नमः ॥ १२॥
सिद्धिबुद्धियुतायैव विभूतिसहिताय च ।
चिन्तामणिधरायैव तथा चिन्तामणे नमः ॥ १३॥
अव्यक्ताय परेशाय परेषां च पराय ते ।
मनोवाणीविहीनाय विघ्नेशाय नमो नमः ॥ १४॥
नानामायाधरायैव मायिनां मोहकारिणे ।
हेरम्बाय नमस्तुभ्यं ब्रह्मणां पतये नमः ॥ १५॥
दर्शयस्व निजं रूपं भक्तेभ्यः प्रीतिदायकम् ।
सनाथा हि वयं तेन सर्वनाथाय ते नमः ॥ १६॥
स्तुवतां तु पुरः प्रादुरासीद्देवो गजाननः ।
तं दृष्ट्वा दण्डवत् सर्वे प्रणता भक्तिभावतः ॥ १७॥
तानुत्थाप्य स्वयं ढुण्ढिर्वचनं चेदमब्रवीत् ।
स्तोत्रेण भावितो देवाः प्रीतो वो नात्र संशयः ॥ १८॥
यः पठेत् स्तोत्रमेतद्वै स मे मान्यो भवेत् सुराः ।
वाञ्छितं पूरयिष्याम्यन्ते मे सायुज्यमाप्नुयात् ॥ १९॥
शृणुध्वं मे वचो रम्यं मा गर्वं कुरुत प्रियाः ।
भवन्तो मदधीनाश्च कलांशा नात्र संशयः ॥ २०॥
क्रीडार्थं निर्मिताः सर्वे स्पर्धमानाः परस्परम् ।
किमर्थं मनसि भ्रान्ता जाताः पूर्णात्मका अपि ॥ २१॥
श्राव्यं ज्ञानं रहस्यं यन् मदीयं तेन भाविताः ।
सदा मोहविनिर्मुक्ता भवितारश्च मत्समाः ॥ २२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते गणेशप्रसन्नभावो नाम पञ्चदशोऽध्यायः ॥ १.१५
(Page खं. १ अ. १६ पान ३८)
१.१६ गणेशगीतासारकथनं नाम षोडशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः ।
पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥ १॥
गणेश उवाच ।
देहश्चतुर्विधः प्रोक्तस्त्वं पदं ब्रह्मभेदतः ।
सोऽहं देही चतुर्धा तत्पदं ब्रह्म सदैक्यतः ॥ २॥
संयोग उभयोर्यश्चाऽसि पदं ब्रह्म कथ्यते ।
स्वत उत्थानकं देवा विकल्पकरणाद् द्विधा ॥ ३॥
सदा स्वसुखनिष्ठं यद्ब्रह्म साङ्ख्यं प्रकीर्तितम् ।
परतश्चोत्थानकं तत् क्रीडाहीनतया परम् ॥ ४॥
स्वतः परत उत्थानहीनं यद्ब्रह्म कथ्यते ।
स्वानन्दः सकलाभेदरूपः संयोगकारकः ॥ ५॥
तदेव पञ्चधा जातमीश्वरास्तन्निबोधत ।
स्वतश्च परतो ब्रह्मोत्थानं यद् द्विविधं स्मृतम् ॥ ६॥
ब्रह्मणो नाम तद्वेदे कथ्यते भिन्नभावतः ।
तयोरनुभवो यश्च योगिनां हृदि जायते ॥ ७॥
रूपं तदेव ज्ञातव्यमसद्वेदेषु कथ्यते ।
सा शक्तिरियमाख्याता ब्रह्मरूपा ह्यसन्मयी ॥ ८॥
तत्रामृतमयाधारः सूर्य आत्मा प्रकथ्यते ।
शक्तिसूर्यमयो विष्णुरानन्दो नन्दनात्तयोः ॥ ९॥
त्रिविधेषु तदाकारस्तत् क्रियाहीनरूपकः ।
शिवो नेति चतुर्थोऽयं त्रिनेति करणात्परः ॥ १०॥
त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदाशिवः ।
तेषामभेदे यद्ब्रह्म स्वानन्दः सर्वयोगतः ॥ ११॥
पञ्चानां ब्रह्मणां यच्च बिम्बं मायामयं स्मृतम् ।
ब्रह्मा स एव विज्ञेयः सर्वादिः सर्वभावनः ॥ १२॥
बिम्बेन सकलं सृष्टं तेनायं प्रपितामहः ।
असत् सत् समनेति स्वानन्दरूपा वयं स्मृताः ॥ १३॥
स्वानन्दाद्यत् परं ब्रह्मायोगाख्यं ब्रह्मणां भवेत् ।
केषामपि प्रवेशो न तत्र तस्याऽपि कुत्रचित् ॥ १४॥
मदीयं दर्शनं तत्रायोगे नो योगिनां भवेत् ।
स्वानन्दे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे ॥ १५॥
स्वानन्दवासिनं तेन वेदेषु प्रवदन्ति माम् ।
चतुर्णां ब्रह्मणां भोगास्तं योगाभेदयोगतः ॥ १६॥
संयोगश्च ह्ययोगश्च तयोः परतरो मतः ।
पूर्णशान्तिप्रदो योगश्चित्तवृत्तिनिरोधतः ॥ १७॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
पञ्चभूमिमयं चित्तं तत्र चिन्तामणिः स्थितः ॥ १८॥
पञ्चभूमिनिरोधेन प्राप्यते योगिभिर्हृदि ।
शान्तिरूपात्मयोगेन ततः शान्तिर्मदात्मिका ॥ १९॥
एतद्योगात्मकं ज्ञानं गाणेशं कथितं मया ।
नित्यं युक्तं च योगेन नैव मोहं प्रगच्छथ ॥ २०॥
चित्तरूपा स्वयं बुद्धिः सिद्धिर्मोहमयी स्मृता ।
नानाब्रह्मविभेदेन ताभ्यां क्रीडति तत्पतिः ॥ २१॥
त्यक्वा चिन्ताभिमानं च गणेशोहं समाधिना ।
भविष्यन्ति भवन्तोऽपि मद्रूपा मोहवर्जिताः ॥ २२॥
शिव उवाच ।
इत्युक्त्वा विररामाऽथ गणेशो भक्तवत्सलः ।
तेऽपि भेदं परित्यज्य शान्तिं प्राप्ताश्च तत्क्षणात् ॥ २३॥
एकविंशतिसुश्लोकैर्गणेशेन प्रकीर्तितम् ।
गीतासारं सुशान्तेभ्यः शान्तिदं योगसाधनैः ॥ २४॥
गणेशगीतासारं च यः पठिष्यति भावतः ।
श्रोष्यति श्रद्धधानश्चेद्ब्रह्मभूतसमो भवेत् ॥ २५॥
इह भुक्त्वाऽखिलान् भोगानन्ते योगमयो भवेत् ।
(Page खं. १ अ. १७ पान ३९)
दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥ २६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथम खण्डे वक्रतुण्डचरिते गणेशगीतासारकथनं नाम षोडशोऽध्यायः ॥ १.१६
१.१७ शिवपार्वतीसंवादसमाप्तिर्नाम सप्तदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
गणेशगीतासारं ते श्रुत्वा पञ्च सुरेश्वराः ।
ऊचुस्तं विस्मिताः सर्वे प्रणम्य गणनायकम् ॥ १॥
पञ्च देवा ऊचुः ।
भगवन् भवता सर्वं कथितं तथ्यमेव च ।
तेन तृप्ता वयं स्वामिन् मोहशून्याः कृतास्त्वया ॥ २॥
तव दर्शनमात्रेण स्मरणं पूर्वकं कृतम् ।
गुणरूपा वयं ढुण्ढे कथं ब्रह्ममया वद ॥ ३॥
तेषां वचनमाकर्ण्य तानुवाच गजाननः ।
भक्तवत्सलभावेन तोषितोऽसौ महाप्रभुः ॥ ४॥
गणेश उवाच ।
स्वपदे जगति ब्रह्मरूपा वै जगदीश्वराः ।
भिन्नभावे गुणात्मानो भवन्तोऽपि मया कृताः ॥ ५॥
चतुर्विधेन भावेन क्रीडामि ननु तत्र च ।
क्रीडया पतितं बिम्बं तेन पञ्चविधोऽभवम् ॥ ६॥
बहलेषु विलासेषु तेषु भावेषु देवपाः ।
भवन्तो मदधीनाश्च संस्थिता नात्र संशयः ॥ ७॥
एषु भिन्नविहारेषु रजःसत्त्वतमोमयाः ।
मया ब्रह्मा हरिः शम्भुर्भिन्ना जाता हि मायया ॥ ८॥
अहङ्कारस्त्रिदेवानां सूर्यो मोहमयी तथा ।
शक्तिस्त्रिगुणसिध्यर्थमेते पञ्च मया कृताः ॥ ९॥
अहमत्र स्थितोंऽशेन वक्रतुण्ड इति स्मृतः ।
बिन्दुब्रह्ममयः साक्षाद्भिन्नभावप्रकाशकः ॥ १०॥
तुरीयं मे मया रूपं कृतं यद् गुणपं सुराः ।
ज्ञातव्यं बुद्धिरूपं तद्दक्षिणाङ्गं प्रकथ्यते ॥ ११॥
पञ्चदेवविहाराख्यं वामाङ्गं सिद्धिरूपकम् ।
सिद्धिबुद्धियुतोऽहं वै बिन्दुमात्रात्मकोऽभवम् ॥ १२॥
भक्तानां विघ्नरूपा ये वक्रास्ते कथिताः सुरैः ।
तांस्तुण्डेन हनिष्यामि वक्रतुण्डस्ततः स्मृतः ॥ १३॥
मम माया मयाज्जीवाद्वक्रं ब्रह्ममुखं यतः ।
तेनाऽहं वक्रतुण्डस्तु लभ्य उन्मनसा भवेः ॥ १४॥
भवतां कार्यसिद्धयर्थं विहारार्थं तु मायया ।
बिन्दुरूपधरो भूत्वा स्थितोऽहं भावपूर्वकम् ॥ १५॥
यदि मे स्मरणं यूयं विस्मरिष्यथ वै तदा ।
मायामोहेन सम्भ्रान्ता भविष्यथ महेश्वराः ॥ १६॥
भवद्भिः सततं तस्मात् कर्तव्यं स्मरणं हृदि ।
आदौ पूज्यो भविष्यामि दैवे पित्र्ये च कर्मणि ॥ १७॥
तेन सिद्धियुताः सर्वे भविष्यन्ति न संशयः ।
इत्युक्त्वान्तर्दधे देवो गणेशो गणपालकः ॥ १८॥
(Page खं. १ अ. १७ पान ४०)
शिव उवाच ।
इति ते कथितो देवि ध्यानमार्गः पुरातनः ।
तं ध्यायामि हृदिस्थं मे गणेशं ब्रह्मनायकम् ॥ १९॥
अखिलं ब्रह्मणा सृष्टं चराचरमयं शिवे ।
नानावतारवान् विष्णुः स पाति गणपाज्ञया ॥ २०॥
अहं संहारकारी च त्वं प्रमोदप्रदा शिवे ।
कर्मणां चालकः कालैर्भानुर्जातो न संशयः ॥ २१॥
हिमाचलसुता त्वं वै जाता तेन सुविस्मृतम् ।
त्वयाऽखिलं हृदिस्थं च ज्ञानं गणपबोधकम् ॥ २२॥
मया सुस्मारितं तुभ्यं स्मर सर्वं शुचिस्मिते ।
भवती च महामाया पश्य त्वं गणपं हृदि ॥ २३॥
अष्टौ तस्याऽवतारांश्च कथयामि समासतः ।
भजता तेन मार्गेण भवेद्योगो न दुर्लभः ॥ २४॥
प्रथमो वक्रतुण्डश्च त्वम्पदब्रह्म कथ्यते ।
द्वितीयं एकदन्तश्च तत्पदब्रह्मबोधकः ॥ २५॥
महोदरस्तृतीयस्तु ब्रह्मासि पदधारकम् ।
गजाननश्चतुर्थश्च साङ्ख्यरूपो महेश्वरि ॥ २६॥
लम्बोदर इति ख्यातो ह्येतद्ब्रह्म त्वयि स्थितम् ।
षष्ठो विकटनामा च सद्ब्रह्मात्मरविः परः ॥ २७॥
विघ्नराजः स्वयं विष्णुः सप्तमः समताङ्गतः ।
धूम्रवर्णोऽष्टमः शम्भुरव्यक्तो नेति कथ्यते ॥ २८॥
अष्टब्रह्मसु तत्पालाः कलारूपधराः स्मृताः ।
गणपा गणराजस्य ह्यवताराः प्रकीर्तिताः ॥ २९॥
स्वसंवेद्यमयं ब्रह्म तेन वै प्रधृताः प्रिये ।
सर्वेषां ब्रह्मणां देवि खेलकस्तेन स स्मृतः ॥ ३०॥
अयोगस्यावतारश्च खेलनादि न विद्यते ।
स्वानन्दवासिनं विद्धि खेलकं सततं प्रिये ॥ ३१॥
पूर्णयोगो गणाधीशः स्वानन्दायोगवर्जितः ।
योगिनां तत्र शान्तिश्च ह्यभवद्योगसेवया ॥ ३२॥
इति सर्वं समाख्यातं यत्पृष्टं देवि शोभनम् ।
अनेन विधिना नित्यं गणेशं भज सर्वदा ॥ ३३॥
अस्माकं कुलदेवश्च गणेशो नात्र संशयः ।
पूज्यते स मया नित्यं चिन्तामणिविनायकः ॥ ३४॥
पञ्चानां चित्तवृत्तीनां प्रकाशकतया स्थितः ।
तेन चिन्तामणिर्नाम कथ्यते स गजाननः ॥ ३५॥
गजवक्त्रात्मिकां मूर्तिं पश्य देवि गृहे स्थिताम् ।
मणिरत्नमयीं साक्षात् पूजयामि सुभक्तितः ॥ ३६॥
मुद्गल उवाच ।
इत्युक्त्वा दर्शयामास ध्यानस्थानं सदाशिवः ।
एकान्ते वीक्ष्य वै देवी विस्मिता साऽभवत्परम् ॥ ३७॥
इत्युक्त्वा विररामाथ शङ्करः करुणानिधिः ।
तं पुनः प्रत्युवाचेदं महादेवी जगन्मयी ॥ ३८॥
शक्तिरुवाच ।
सर्वेषां मोहसन्दात्री तामसस्य सदाशिव ।
तव पत्नी कथं जाता ह्येकभागस्थितस्य वै ॥ ३९॥
अमुं मे संशयं देव छेत्तुमर्हसि साम्प्रतम् ।
त्वदन्यः संशयच्छेत्ता सर्वज्ञो नास्ति कुत्रचित् ॥ ४०॥
पार्वतीवचनं श्रुत्वा शिवो हर्षसमन्वितः ।
उवाच मधुरं वाक्यं बोधयंस्तां सहेतुकम् ॥ ४१॥
शिव उवाच ।
शृणु देवि पुरा वृत्तं येन त्वं मत्प्रियाऽभवः ।
तत्तेऽहं कथयिष्यामि कथासारं सुखप्रदम् ॥ ४२॥
विवादः पञ्चदेवानां स्पर्धया समभूच्च यः ।
तत्रैश्वर्यं मया दृष्टं त्वदीयं महदद्भुतम् ॥ ४३॥
(Page खं. १ अ. १७-१८ पान ४१)
पञ्चानां बोधको देवो गणेशोंऽतर्दधे यदा ।
बोधयित्वा यथान्यायमस्मान् ब्रह्ममयः प्रभुः ॥ ४४॥
ततो मया तपस्तप्तं तव प्राप्तौ प्रिये महत् ।
भक्तिभावेन सन्तुष्टा त्वं जाता शतवर्षतः ॥ ४५॥
मत्समीपे समागम्य वृणुष्व वरमीप्सितम् ।
प्रसन्नाऽहं महादेव दास्येऽहमिति चाब्रवीः ॥ ४६॥
त्वां नत्वा स्तुतवान्नानाचेष्टितैस्त्वत्स्वरूपकैः ।
तेन तष्टिः परा जाता तवापि जगदीश्वरि ॥ ४७॥
मया प्रयाचितं देवि त्वं मे पत्नी भव प्रिये ।
एष एव वरो मह्यं दातव्यो जगदीश्चरि ॥ ४८॥
मदीयं वचनं श्रुत्वा सस्मिता भावपूर्वकम् ।
जाता त्वं मे वरं दत्त्वांऽतर्धानं च कृतं त्वया ॥ ४९॥
अतस्त्वं मे प्रिया जाता वरदानप्रभावतः ।
तव वामाङ्गसम्भूता लक्ष्मीनारायणप्रिया ॥ ५०॥
दक्षिणाङ्गात् समुद्धता सावित्री ब्रह्मणः प्रिया ।
हृदयात्ते च सम्भूता संज्ञा पत्नी रवेरपि ॥ ५१॥
इति सर्वं समाख्यातं स्मर सर्वं शुचिस्मिते ।
साधय त्वं पुनर्योगं गाणेशं शान्तिदं परम् ॥ ५२॥
मुद्गल उवाच ।
शिवेन कथितं सर्वं श्रुत्वा देवी नगात्मजा ।
एकान्ते साधयामास योगं गणपतेः परम् ॥ ५३॥
पूर्वसंस्कारभावेन स्वल्पकालेन सा शिवा ।
शान्तिं प्राप्ता महाभागा प्रययौ शिवसन्निधौ ॥ ५४॥
मुदल उवाच ।
इति ते कथितं दक्ष चेष्टितं गणपस्य च ।
भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ ५५॥
तेन त्वं विघ्नहीनोऽपि भवितासि न संशयः ।
सर्वमान्यो महायोगी शोकहीनो जगद्गुरुः ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते शिवपार्वतीसंवादसमाप्तिर्नाम सप्तदशोऽध्यायः ॥ १.१७
१.१८ मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
श्रुतं सूत महाभाग कथितं परमाद्भुतम् ।
चरितं गणनाथस्य तेन तृप्ता वयं प्रभो ॥ १॥
शिवशक्तिमहावादं श्रुत्वा तृष्णा विवर्धते ।
पुनश्च वद सूत त्वं गणेशस्य विचेष्टितम् ॥ २॥
सूत उवाच ।
शृणु शौनक यत्नेन दक्षेणैवं महामुनिः ।
सत्कथामृतपानं च कृत्वा पृष्टः पुनश्च यत् ॥ ३॥
शक्तिशङ्करसंवादं ब्रह्मभूयपदप्रदम् ।
श्रुत्वा दक्षो महाभागः पप्रच्छ मुनिसत्तमः ॥ ४॥
(Page खं. १ अ. १८ पान ४२)
दक्ष उवाच ।
किञ्चित्पुरातनं पुण्यं फलितं मे महाद्भुतम् ।
पीतं मुद्गल ते वक्त्रात् कथामृतमिदं मया ॥ ५॥
धन्योऽसि कृतकृत्योऽसि गणेशे भक्तिमानसि ।
गणेशाच्च परं नास्ति ज्ञातं त्वद्वाक्यतो मया ॥ ६॥
वद मुद्गल माहात्म्यं पुनर्गणपतेः शुभम् ।
न तृप्तोहं महायोगिन् पीत्वा ब्रह्मामृतं महत् ॥ ७॥
शिवशैलसुतावादो महानन्दप्रदायकः ।
तत्राष्टौ गणराजस्य ह्यवताराः श्रुता मया ॥ ८॥
तेषां तच्चरितं चाऽपि माहात्म्यं तेऽपि यन् महत् ।
श्रोतुमिच्छामि योगीश दयां कृत्वा वदस्व मे ॥ ९॥
किमर्थं गणराजोऽयमवतारं करोति वै ।
ब्रह्मभूयमयो देवस्तद्वदस्व महामुने ॥ १०॥
परोपकरणार्थाय त्वादृशा मुनिसत्तमाः ।
भ्रमन्ति धरणीं ब्रह्मन् पतितेभ्यः सुखप्रदाः ॥ ११॥
दर्शनस्पर्शनेनैव भाषणेन विशेषतः ।
पावयन्ति जनान् सर्वान् साधवः समदर्शिनः ॥ १२॥
सूत उवाच ।
श्रुत्वा दक्षवचो रम्यं प्रत्युवाच स मुद्गलः ।
प्रहृष्टो भावयुक्तस्य दक्षस्य च महात्मनः ॥ १३॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग धन्योऽसि न च संशयः ।
येन त्वं गणनाथस्य कथां पृच्छसि मां प्रभो ॥ १४॥
पापिनां नास्तिकानां वै दाम्भिकानां कदाचन ।
सत्कथाऽमृतपानस्य चेच्छा नोत्पद्यते क्वचित् ॥ १५॥
द्वन्द्वभावविचारज्ञास्तथा सहनकारकाः ।
भूतेषु समभावाश्च संसारतरणे रताः ॥ १६॥
परोपकारकार्येषु मतिस्तेषां प्रवर्तते ।
एतादृशा महाभागा गणेशे सादराः प्रभो ॥ १७॥
कथां गणपतेर्नित्यं शृण्वन्ति च पठन्ति ते ।
श्रावयन्ति जनानन्यान् भक्तिभावसमन्विताः ॥ १८॥
अतस्त्वं सादरो भूत्वा शृणुषे पापनाशिनीम् ।
कृत्वा वर्धयसि प्रश्नं कथां गणपतेः शुभाम् ॥ १९॥
शृणु यच्च पुरावृत्तं मदीयं भावपूर्वकम् ।
तवाऽग्रे कथयिष्यामि संशयो येन नश्यति ॥ २०॥
अवतारकथामग्रे ज्ञास्यसि त्वं यथार्थतः ।
गणराजपदं सर्वं प्राप्स्यसि त्वं च भक्तिमान् ॥ २१॥
अहं तपसि संविष्टः शिलोञ्छाजीवमाश्रितः ।
दश पञ्च दिनेष्वेव द्वादश्यां मम पारणम् ॥ २२॥
द्रोणमात्रं चिनोम्यन्नमुपोषणसमन्वितः ।
तेनान्नेन यथान्यायं पञ्चयागानकृष्यहम् ॥ २३॥
एवं बहुगते काले तपसे मयि संस्थिते ।
देवाः सर्वे भयोद्विग्नाः किमयं साधयिष्यति ॥ २४॥
ऐद्रं पदं विधातुर्वा वैष्णवं शैवमेव च ।
किं वाञ्छति महाभागो मुनिस्तपसि संस्थितः ॥ २५॥
इति देवैः प्रेषितस्तु मुनिः सर्वार्थकोविदः ।
ममाश्रमे परीक्षार्थं दुर्वासाः कोपवान् ययौ ॥ २६॥
नग्न उन्मत्ततुल्यः सन्नागतः पारणे मम ।
मह्यं भिक्षां मुने देहि यया तृप्तो भवाम्यहम् ॥ २७॥
इत्यूचे तु मया दत्तमन्नं तस्मै महात्मने ।
न ज्ञातो मुनिमुख्योऽयं दुर्वासा आगतो गृहम् ॥ २८॥
तदन्नं सकलं भुक्त्वा द्रोणमात्रं महामुनिः ।
(Page खं. १ अ. १८ पान ४३)
उच्छिष्टं लिप्तवान् देहे गतो विकलमानसः ॥ २९॥
मानसे मे महानन्दः प्राप्तो दक्ष प्रजापते ।
धन्यं तपो मदीयं वै तृप्तः सर्वान्नभुक् जनः ॥ ३०॥
उपोषणे समायुक्तोऽहं तत्र तपसि स्थितः ।
पुनः स द्वादशीघस्रे पारणार्थं समाययौ ॥ ३१॥
दुर्वाससं पुनर्यातं तादृशं वेषमास्थितम् ।
महता हर्षयुक्तेनाऽपूजयं च महामुनिम् ॥ ३२॥
सर्वान्नं भुक्तवान् सद्य एवं षड्वारमाययौ ।
मम भावपरीक्षार्थं तपःखण्डनकारकः ॥ ३३॥
पूर्वपुण्यप्रभावेण च्यावितो न मनागपि ।
त्रिमासोपोषितो भावयुक्तेन तपसाऽभवम् ॥ ३४॥
तपसा भावशुद्धेन परितुष्टो महामुनिः ।
स्वरूपं दर्शयामास योगरूपं महाद्भुतम् ॥ ३५॥
उवाच शुद्धिमापन्नो मुद्गल त्वं न संशयः ।
गच्छ स्वर्गं महाभाग अक्षयं भोक्तुमर्हसि ॥ ३६॥
स्वर्गलोका जिताः सर्वे त्वयाऽक्षय्यप्रकाशकाः ।
तपसा शुद्धभावेनाधुना तान् गच्छ मुद्गल ॥ ३७॥
इत्युक्त्वा मां स दुर्वासा गतः स्वाश्रममण्डले ।
तस्मिन्नेव क्षणे स्वर्गाद्विमानं तत्र चागतम् ॥ ३८॥
विमानात् पुरुषो दिव्यभूषणैर्भूषितः परः ।
उत्तीर्य मे सुसान्निध्यमागतः पूजितो मया ॥ ३९॥
उवाच मधुरं वाक्यं चलेति त्वं मयासह ।
स्वर्गादागतवन्तं वै विद्धि मुद्गल मां तथा ॥ ४०॥
बृहस्पतिपुरोगः स देव इन्द्रः प्रतापवान् ।
त्वदर्थं संस्थितः स्वामिन् तेनाहं प्रेषितो मुने ॥ ४१॥
इदं विमानमारुह्य नानाभोगसमन्वितम् ।
मया सार्धं महाभाग चल स्वर्गं सुभोगदम् ॥ ४२॥
सूत उवाच ।
देवदूतवचो रम्यं श्रुत्वैवं मुद्गलो मुनिः ।
विनयावनतो भूत्वा तं पप्रच्छ मुदान्वितः ॥ ४३॥
मुद्गल उवाच ।
स्वर्गेषु सर्वलोकेषु के गुणाः सन्ति तान् वद ।
दोषाः के तत्र तिष्ठन्ति श्रुत्वा यामि त्वरान्वितः ॥ ४४॥
सूत उवाच ।
मुद्गलस्य वचः श्रुत्वा देवदूतस्तमब्रवीत् ।
विनयेन च सन्तुष्टो यथातथ्यं विभागशः ॥ ४५॥
देवदूत उवाच ।
कर्मभूमिरियं ब्रह्मन् भोगभूमिस्तु सा मता ।
स्वर्गरूपा नरादीनां कर्मभोगप्रदायिनी ॥ ४६॥
नानासुखप्रदं तत्र गुणं वक्तुं न शक्यते ।
ईप्सितं लभते सर्वं सदा यौवनसंस्थितिः ॥ ४७॥
क्लमः स्वेदादिकं तत्र नैव शीतोष्णता तथा ।
अप्सरोभिर्विहाराश्च कामरूपा गतिर्भवेत् ॥ ४८॥
स्वकर्मतुल्यभोगाश्च भोक्तव्याः सर्वभावतः ।
ये ये भोगा देहिनां च ते ते तत्र समास्थिताः ॥ ४९॥
भोगभूमिः समाख्याता स्वर्गरूपा महामुने ।
वद तत्र च किं न्यूनं यतः पृच्छसि मां प्रभो ॥ ५०॥
त्वया नानाविधं कर्म तपसा साधितं मुने ।
स्वर्गलोकाः कृताः सर्वेऽक्षयास्तान् भोक्तुमर्हसि ॥ ५१॥
तत्र स्वर्गे त्रयो दोषास्तान् शृणुष्व महामुने ।
इह कर्म कृतं लोकैर्भोक्तव्यं शुभरूपकम् ॥ ५२॥
तत्र कर्म कृतं लोकैः तदेव फलहीनकम् ।
तेन लोको हि दुःख्यस्ति तदन्ते किं भवेदिति ॥ ५३॥
(Page खं. १ अ. १८-१९ पान ४४)
एतादृशं मया कर्म पुण्यरूपं कृतं महत् ।
एतावन्तं च कालं मे स्वर्गवासो भविष्यति ॥ ५४॥
एकं दोषं महान्तं च जानीहि मुनिसत्तम ।
द्वितीयं शृणु दोषं त्वं कथयामि सविस्तरम् ॥ ५५॥
नाना स्वर्गषु मित्राणि नाना प्रीतिविवर्धनाः ।
देवास्तत्र महाभाग सह तैर्मोदते स्वयम् ॥ ५६॥
सत्कर्म तस्य तेनैव भुक्तं स्वर्गे यथायथम् ।
पश्चात् पतनकाल तु तमधः पातयन्ति ते ॥ ५७॥
क्षणमेकं न तं कोऽपि स्नेहं पश्यति लोकपः ।
पतनस्य भयं चित्ते दोषोऽयं पातरूपकः ॥ ५८॥
तृतीयं दोषरूपं यच्छृणु त्वं भावपूर्वकम् ।
तद्वदिष्यामि ते प्रीत्या येन ज्ञानं भवेत्परम् ॥ ५९॥
सत्कर्मकारिणस्त्वन्ये महाभोगकरा मुने ।
सन्ति स्वर्गेषु चानेके तान् दृष्ट्वा तपति स्वयम् ॥ ६०॥
धिङ् मां न्यूनविहारेण तिष्ठामि स्वल्पपुण्यतः ।
महापुण्यकरा अन्ये अधिकं विहरन्त्युत ॥ ६१॥
सदा हृदि तपत्येवं स्वर्गभूमिस्वभावतः ।
हृदि तापात्मको दोषस्तृतीयः कथितो मया ॥ ६२॥
अनन्तगुणसंयुक्तं स्वर्गं जानीहि तापस ।
दोषैस्त्रिभिः समायुक्तं महापुण्यप्रभावतः ॥ ६३॥
धन्यस्त्वं मुनिशार्दूल तत् स्वर्गे विजिते त्वया ।
भुङ्क्ष्व भोगान् मनोज्ञान् वै चल शीघ्रं मया सह ॥ ६४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः ॥ १.१८
१.१९ अङ्गिरामुद्गलसंवादो नामैकोनविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
देवदूतवचः श्रुत्वा मुद्गलस्तमथाब्रवीत् ।
शृणु शौनक माहाम्यं मुनेस्तस्य सुयोगिनः ॥ १॥
मुद्गल उवाच ।
देवदूत मया सर्व त्वयोक्तं बुद्धिपूर्वकम् ।
श्रुतं पुनः प्रपृच्छामि तन् मे वद महामते ॥ २॥
दोषैस्त्रिभिविहीनं तं कं लोकं वद मे प्रभो ।
मनस्तापविहीनाश्च मोदन्ते यत्र मानवाः ॥ ३॥
सूत उवाच ।
मुद्गलस्य वचः श्रुत्वा देवदूत उवाच ह ।
लोकं च तमहं तुभ्यं कथयामि सविस्तरम् ॥ ४॥
देवदूत उवाच ।
निष्कामकर्मणा विप्र ब्रह्मलोकः प्रलभ्यते ।
वैकुण्ठः शिवलोकश्च सौरः शाक्तो जनेन च ॥ ५॥
तत्राऽपि दोषयुक्तत्वं वर्तते मुनिसत्तम ।
ब्रह्मभूयपदं यच्च दोषहीनं प्रचक्षते ॥ ६॥
देवदूतमुखादित्थं श्रुत्वा वै मुद्गलो मुनिः ।
तं पप्रच्छ पुनः साधुर्भक्तिनम्रात्मकन्धरः ॥ ७॥
(Page खं. १ अ. १९ पान ४५)
मुद्गल उवाच ।
कुत्र तल्लभ्यते स्वामिन् वद सर्वमशेषतः ।
उपकारपरोऽसि त्वं तेन पृच्छामि तत्त्वतः ॥ ८॥
देवदूत उवाच ।
कर्मभूमिरियं ब्रह्मन्नत्र वै लभ्यते जनैः ।
धर्मार्थकाममोक्षादि ब्रह्मभूयं न संशयः ॥ ९॥
श्रुत्वा तस्य वचो रम्यं मुद्गलस्तमुवाच ह ।
गच्छ दूत नमस्तुभ्यं स्वर्गं प्रति नयाम्यहम् ॥ १०॥
हृदि सन्तापसंयुक्तं पुनः पातभयात्मकम् ।
स्वर्गं नेच्छामि भो विद्वन् ब्रह्म तत्साधयाम्यहम् ॥ ११॥
देवदूत उवाचेदं मुद्गलं मुनिसत्तमम् ।
भाग्यहीनोऽसि नूनं त्वं स्वर्गं नैवाभिनन्दसि ॥ १२॥
स्वर्गेच्छा कस्य नैवास्ति नरस्य वद मां मुने ।
उग्रैस्तपोभिर्दानैश्च यज्ञैः स्वर्गश्च लभ्यते ॥ १३॥
नानापुण्यादिकं कृत्वा सत्कर्मादिसुसाधनैः ।
इच्छन्ति मनुजाः स्वर्गं महासौख्यप्रदं परम् ॥ १४॥
स स्वर्गश्च त्वया प्राप्तस्तपसोग्रैः सुसाधनैः ।
नेच्छसि त्वं महामूढ ज्ञानहीनोऽसि मे मतम् ॥ १५॥
देवदूतं वदन्तं तं तदा पुनरिदं वचः ।
मुद्गलः स्नेहसंयुक्तः प्रत्युवाच हसन्निव ॥ १६॥
मुद्गल उवाच ।
किं मां मोहयसि प्राज्ञ देहोऽयं बन्धनात्मकः ।
देहसौख्यकरः स्वर्गो मुक्तिदो न बुधैः स्मृतः ॥ १७॥
तत्रापि हृदि सन्तापो वर्तते दूतसत्तम ।
तापत्रयसमायुक्तं विद्वान्नेच्छति कर्हिचित् ॥ १८॥
गच्छ त्वं च महाभाग बृहस्पतिपुरोगमम् ।
इन्द्रं प्रणामं कथय नाऽऽगतो मुनिरित्यपि ॥ १९॥
एवमुक्त्वा नमस्कृत्य देवदूतमहं प्रभो ।
अग्नेश्च गतवान् शालां गतो दूतो यथागतम् ॥ २०॥
मयाऽपि स्वाश्रमे तत्र स्थितं मनसि धारितम् ।
विधिना ब्रह्मवेदेषु नानारूपं प्रकथ्यते ॥ २१॥
किं प्रमाणं भवेत्तेषां साधनीयं मया कथम् ।
पूर्णभावमविज्ञाय भ्रान्तोऽहं नात्र संशयः ॥ २२॥
अतः संशयनाशार्थं गमिष्यामि महामुनिम् ।
योगिश्रेष्ठैरङ्गिरसं वन्द्यं वेदज्ञमुत्तमम् ॥ २३॥
शब्दब्रह्मणि निष्णातं परे ब्रह्मणि तन्मयम् ।
अस्माकं मूलपुरुषं साक्षाद् ब्रह्मशरीरकम् ॥ २४॥
इति निश्चितवांस्तत्र गतोऽहं मुनिसन्निधौ ।
आश्रमोऽस्य मया दृष्टः सर्वभूताभयप्रदः ॥ २५॥
नातपो न च शीतत्वं न क्रोधः कामसम्भवः ।
न मात्सर्यादिकं तत्र समकालयुतो बभौ ॥ २६॥
नावृष्टिर्नातिवृष्टिश्च ह्यकाले मरणं न च ।
न ग्रहादिकृता पीडा तत्र रक्षोभयं न च ॥ २७॥
सर्वशान्तिप्रदः पूर्णस्तापसानां हितावहः ।
विस्मितेन सुपुण्येन प्रविष्टो भाग्ययोगतः ॥ २८॥
तत्र नानामुनीनां च वत्साः परमशोभनाः ।
मया दृष्टा महाभाग वेदघोषनिनादिताः ॥ २९॥
अग्निहोत्रादिभिर्युक्ता नानापक्षिनिनादिताः ।
वृक्षवल्लीसमायुक्ता नानापुष्पफलाश्रिताः ॥ ३०॥
नानासरोवराण्येव हंसकारण्डवैर्बभुः ।
नानापक्षिवृतान्येव सुधारूपजलानि वै ॥ ३१॥
सुनिर्मलपयांस्येव मकरादियुतानि च ।
कमलैः कुमुदैर्नानाशोभमानानि षट्पदैः ॥ ३२॥
सिंहव्याघ्रमृगा नागा गजा गावश्च मूषिकाः ।
(Page खं. १ अ. १९ पान ४६)
निर्वैराः प्राणिनस्तत्र निवसन्ति प्रजापते ॥ ३३॥
एवं दृष्ट्वा महाभाग आश्रमं हर्षसंयुतः ।
पश्यन् पुनश्च ह्यभवं विस्मितो निजचेतसि ॥ ३४॥
तं वै कुशासनस्थं च साक्षात् सूर्यमिवापरम् ।
तेजसा दीप्यमानं त्वपश्यमङ्गिरसं मुनिम् ॥ ३५॥
सिद्धैर्नानाविधैश्चैव योगिभिर्मुनिभिर्वृतम् ।
शिष्येभ्यो ब्रह्मविद्यां तां कथयन्तं यथार्थतः ॥ ३६॥
दण्डवत्तं प्रणम्यादौ भक्तिभावयुतोऽभवम् ।
प्राञ्जलिः प्रयतो भूत्वा संस्थितो मुनिसन्निधौ ॥ ३७॥
तव गोत्रभवं स्वामिन् मुद्गलं मुनिसत्तम ।
दर्शनार्थं समायातं विद्धि मां ब्रह्मदायक ॥ ३८॥
मदीयं वचनं श्रुत्वा प्रसन्नः प्राह मां मुनिः ।
वत्स त्वमागतस्तात तिष्ठाऽत्र मम सन्न्निधौ ॥ ३९॥
अविघ्नभावयुक्तेन तपस्तप्तं त्वया सुत ।
तेन मे दर्शनं प्राप्तं सत्पुत्रोऽसि न संशयः ॥ ४०॥
मुनेर्वचनमाकर्ण्य प्राप्तोऽहं परमां मुदम् ।
तत्र स्थितोऽभवं दक्ष सन्निधौ तस्य धीमतः ॥ ४१॥
कस्मिंश्चिद् दिवसे तत्र लब्ध्वाऽवसरमुत्तमम् ।
पृष्टो मया महायोगी शृण्वत्सु च मुनिष्वपि ॥ ४२॥
ज्ञातुमिच्छामि भो स्वामिन् वद मां करुणानिधे ।
अस्माकं त्वं गतिः साक्षात् सर्वेषां चैव भक्तितः ॥ ४३॥
सूत उवाच ।
वचनं मुद्गलस्याऽपि श्रुत्वा तं पुनरब्रवीत् ।
अङ्गिरा भगवान् योगी प्रहसंस्तं प्रहर्षयन् ॥ ४४॥
अङ्गिरा उवाच ।
मह्यं पृच्छसि किं तात तद् ब्रूहि त्वं महाद्युते ।
भावतो मन्त्रकर्ता त्वं पुराणाचार्य एव च ॥ ४५॥
मुद्गल उवाच ।
कथितं ब्रह्मवेदेषु नानाभावसमन्वितम् ।
किं प्रमाणं वेदितव्यं ब्रह्मभूयेप्सुभिः प्रभो ॥ ४६॥
अङ्गिरा उवाच ।
शृणु पुत्र प्रवक्ष्यामि वेदान्तैयन्त्प्रभाषितम् ।
क्रमेण ब्रह्मलाभार्थं नानाब्रह्मनिरूपणम् ॥ ४७॥
अन्नं ब्रह्मेति यत्प्रोक्तं तत्रोपाधिः समागतः ।
अन्नरूपो महातेजा अन्नकोशमयं ततः ॥ ४८॥
प्राणो ब्रह्मेति यत्प्रोक्तं प्राणकोशप्रकाशकम् ।
मनो ब्रह्मेति जानीहि मनःकोशमयं तथा ॥ ४९॥
विज्ञानं ब्रह्म चोक्तं विज्ञानकोशप्रधारकम् ।
आनन्दो ब्रह्म समतानन्दकोशप्रभासकम् ॥ ५०॥
चैतन्यं ब्रह्म यत्प्रोक्तं महाकारणधारकम् ।
बिन्दुब्रह्म यदुक्तं तज्ज्ञानदेहमयं मुने ॥ ५१॥
चिद्ब्रह्मेति समाख्यातं सोऽहं मात्रात्मकं मतम् ।
बोधो ब्रह्मेति वेदेषु स्वत उत्थानवेदकम् ॥ ५२॥
साङ्ख्यं ब्रह्मेति यत्प्रोक्तं विदेहाधारकं सुत ।
कर्मज्ञाने तु वेदे च कथिते ते तदात्मके ॥ ५३॥
समं ब्रह्मेति जानीहि कथितं नन्दनात्मकम् ।
अव्यक्तं सहजं ब्रह्म ज्ञातव्यं नेतिरूपकम् ॥ ५४॥
(Page खं. १ अ. २० पान ४७)
शक्तिब्रह्मेति वेदेषु ह्यसद्रूपप्रकाशकम् ।
सूर्यो ब्रह्मेति यत्प्रोक्तमात्मरूपं प्रकीर्तितम् ॥ ५५॥
विष्णुर्ब्रह्मेति यत्प्रोक्तमुभयात्मकधारकम् ।
शिवो ब्रह्मेति शास्त्रेषु निर्मोहस्य प्रकाशकम् ॥ ५६॥
स्वानन्दो ब्रह्मवेदे च संयोगमयमुत्तमम् ।
निर्वृत्तिर्ब्रह्मशास्त्रेषु ह्ययोगाधारकं परम् ॥ ५७॥
एवं नानाप्रकारैश्च वेदादौ च प्रकथ्यते ।
मुनिभिर्ब्रह्मवादज्ञैः सर्वं तथ्यं प्रमाणतः ॥ ५८॥
बृंहत्यथो बृंहयति यद्ब्रह्म श्रुतिवाक्यतः ।
तदेव ब्रह्मभूतत्वं ज्ञातव्यं मुनिभिः सदा ॥ ५९॥
अनाद्यात्मचिदाद्यैर्यद्युक्तं ब्रह्म प्रकथ्यते ।
तदेवोपाधियुक्तं वै योगिभिः सुविचारितम् ॥ ६०॥
ब्रह्मेति ब्रह्म विज्ञेयं तच्च योगेन लभ्यते ।
तदर्थं मथनं सर्वं कर्मज्ञानादिकस्य च ॥ ६१॥
तदेव ब्रह्म प्रत्यक्षं ब्रह्मणस्पतिवाचकम् ।
ब्रह्मणां ब्रह्म विख्यातं वेदस्मृतिसुभाषितम् ॥ ६२॥
बृंहत्यथो बृंहयति गणशब्दः प्रकीर्तितः ।
समूहे गणधातुश्च कविभिः कथितो भवेत् ॥ ६३॥
बाह्यान्तरादिकानां च समूहो गण उच्यते ।
तत्राऽभेदेन योगेन प्राप्यते योगिभिः परः ॥ ६४॥
अन्नानां बहवो भेदा बाह्यान्तरविभावतः ।
तदेव गणवाच्यं च ज्ञातव्यं विवुधैः सदा ॥ ६५॥
इत्यादयो गणास्तस्यानन्ता ब्रह्मप्रवाचकाः ।
तेषां स्वामी गणेशानः स एव ब्रह्मणस्पतिः ॥ ६६॥
तं भजस्व महाभाग ब्रह्मभूयं यदीच्छसि ।
तस्यावतारदेहा यं ज्ञानादिब्रह्मसंज्ञिताः ॥ ६७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुडचरिते अङ्गिरामुद्गलसंवादो नामैकोनविंशतितमोऽध्यायः ॥ १.१९
१.२० गणेशमुद्गलसमागमो नाम विंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
वचः श्रुत्वा चाङ्गिरसो हृष्टरोमा स मुद्गलः ।
विनयावनतो भूत्वोवाच तं विस्मयन्निव ॥ १॥
मुद्गल उवाच ।
तस्यावतारमाहात्म्यं कथयस्व महामुने ।
तत्क्रमेण भजिष्यामि ब्रह्मभूयस्य सिद्धये ॥ २॥
अङ्गिरा उवाच ।
अनन्ता ह्यवताराश्च गणेशस्य महात्मनः ।
न शक्यन्ते च ते वक्तुं मया वर्षशतैरपि ॥ ३॥
सङ्क्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् ।
अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ ४॥
वक्रतुण्डावतारश्च देहानां ब्रह्मधारकः ।
मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ५॥
एकदन्तावतारो वै देहिनां ब्रह्मधारकः ।
मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥ ६॥
महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः ।
मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥ ७॥
गजाननः स विज्ञेयः साङ्ख्येभ्यः सिद्धिदायकः ।
(Page खं. १ अ. २० पान ४८)
लोमासुरप्रहर्ता वै आखुगश्च प्रकीर्तितः ॥ ८॥
लम्बोदरावतारो वै क्रोधासुरनिबर्हणः ।
शक्तिब्रह्माखुगः सद्यत्तस्य धारक उच्यते ॥ ९॥
विकटो नाम विख्यातः कामासुरविदाहकः ।
मयूरवाहनश्चाऽयं सौरब्रह्मधरः स्मृतः ॥ १०॥
विघ्नराजावतारश्च शेषवाहन उच्यते ।
ममतासुरहन्ता स विष्णुब्रह्मेति वाचकः ॥ ११॥
धूम्रवर्णावतारश्चाभिमानासुरनाशकः ।
आखुवाहन एवाऽसौ शिवात्मा तु स उच्यते ॥ १२॥
एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः ।
एते भजनमात्रेण स्वस्वब्रह्मप्रदायकाः ॥ १३॥
स्वानन्दवासकारी यो गणेशानः प्रकथ्यते ।
स्वानन्दे योगिभिर्दृष्टो ब्रह्मण्येव न संशयः ॥ १४॥
तस्यावतारभूताश्चाऽष्टौ विघ्नहरणाः स्मृताः ।
स्वानन्दभजनेनैव लीनास्तत्र भवन्ति ते ॥ १५॥
माया तत्र स्वयं लीना भविष्यति सुपुत्रक ।
संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥ १६॥
अयोगिगणराजस्य भजनेन विनश्यति ।
मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥ १७॥
योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः ।
तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥ १८॥
नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते ।
शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥ १९॥
योगस्य योगता दृष्टा सर्वब्रह्मसुपुत्रक ।
न योगात् परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥ २०॥
एतदेव परं गुह्यं कथितं वत्स तेऽखिलम् ।
भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ २१॥
मया पूर्णं तपश्चीर्णं गणेशस्य महात्मनः ।
मह्यं दत्तो वरस्तेन वाञ्छितो भक्तितोषतः ॥ २२॥
तव वंशे च गाणेशा भविष्यन्ति विशेषतः ।
तत्रापि मुद्गलोऽत्यन्तं गाणपत्यो भविष्यति ॥ २३॥
न मुगलसमो भक्तो गणेशस्य प्रदृश्यते ।
न भूतो न भविष्यन् वा भक्तराजः स एकराट् ॥ २४॥
मुद्गलस्य प्रणामेन स्पर्शभाषणदर्शनैः ।
वायुस्पर्शादिभिर्भावैरुद्धरिष्यन्ति जन्तवः ॥ २५॥
मह्यमेवं वरं दत्वा गणेशोऽतर्दधे सुत ।
स त्वं मुद्गलनामासि मम वंशस्य भूषणम् ॥ २६॥
धन्यो वंशो मदीयोद्य गाणपत्यश्च यत्र वै ।
समुत्पन्ना महाभागा जन्तूनां नारकाः स्मृताः ॥ २७॥
त्वं साक्षान् मूर्तिमांस्तेषु गाणपत्यः प्रतापवान् ।
समुत्पन्नो महायोगी भविष्यसि न संशयः ॥ २८॥
मुद्गलं चैवमुक्त्वातमङ्गिरा उपदिष्टवान् ।
एकाक्षरमहामन्त्रं गणेशस्य यथाविधि ॥ २९॥
गच्छ पुत्र त्वमद्यैव तपसे वनमुत्तमम् ।
आराधय गणेशं स दर्शनं ते प्रदास्यति ॥ ३०॥
प्रणम्याऽसौ चाङ्गिरसं मुद्गलः प्रययौ वनम् ।
एकनिष्ठतया तेपे तपः पूर्ण महाद्भुतम् ॥ ३१॥
एकाक्षरविधानेन साङ्गेन परितुष्टवान् ।
गणेशोऽब्दसहस्रेण दिव्येन च समागतः ॥ ३२॥
आखुवाहश्चतुर्बाहुः सिद्धिबुद्धिसमन्वितः ।
प्रमोदामोदकाद्यैश्च संवृतो भक्तवत्सलः ॥ ३३॥
नानाभूषणशोभाढयो गजवक्त्रो महोदरः ।
(Page खं. १ अ. २१ पान ४९)
एकदन्तस्त्रिनेत्रश्च चतुरायुधभूषितः ॥ ३४॥
चिन्तामणिमणिं बिभ्रद् हृदये द्युतिजालकम् ।
महाभक्तमुवाचेत्थं हर्षयन् सर्वभावतः ॥ ३५॥
श्रीगणेश उवाच ।
वरं वृणु महाभाग मुद्गल स्वेप्सितं हृदि ।
दास्यामि परमप्रीत एकाक्षरविधानतः ॥ ३६॥
सूत उवाच ।
गणेशवचनं श्रुत्वा मुद्गलः प्रणनाम तम् ।
बद्धाञ्जलिपुटो भूत्वा पूजयामास भक्तितः ॥ ३७॥
पूजयित्वा यथान्यायं प्रहृष्टहृदयो मुनिः ।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभूव ह ॥ ३८॥
सगद्गदमुवाचाऽथ तं प्रणम्य पुनः पुनः ।
महता भक्तिभावेन तथा चाङ्गिरसो मुनिः ॥ ३९॥
मुद्गल उवाच ।
धन्यो वंशो मदीयोऽद्य धन्यं जन्म वयोऽपि च ।
विद्या ज्ञानं तपस्तीर्थ धन्यं त्वदर्शनात् प्रभो ॥ ४०॥
इयं धन्याऽद्य पृथ्वी च वृक्षाः पुष्पफलान्विताः ।
पशुपक्षिलताद्या ये आगतोऽत्र महाप्रभुः ॥ ४१॥
इत्युक्त्वा तं प्रतुष्टाव गणेशं सर्वसिद्धिदम् ।
स्तोत्रेण स्वात्मनिष्ठः सन् भक्त्या परमया युतः ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते गणेशमुद्गलसमागमो नाम विंशोऽध्यायः ॥ १.२०
१.२१ गणेशस्तोत्रोत्तमवर्णने एकविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
कथं स्तुतिः कृता तेन गणेशस्य महात्मनः ।
तां मे वद महाभाग सर्वज्ञोऽसि मतो बुधैः ॥ १॥
सूत उवाच ।
भवते कथयिष्यामि भावयुक्तेन चेतसा ।
स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने ॥ २॥
मुद्गल उवाच ।
किं स्तौमि त्वां गणाध्यक्ष वेदैः स्तोतुं न शक्यते ।
ब्रह्मादिभिश्च योगीन्द्रैर्यथामति च वच्मि भोः ॥ ३॥
त्वद्दर्शनप्रभावेण शक्तोऽस्मि न च संशयः ।
त्वदनुग्रहतः सर्वे स्तोतुं शक्ता भवन्ति वै ॥ ४॥
नमस्ते गणेशाय सर्वादिभूम्ने परेषां परेशाय वेदातिगाय ।
परं मायिने मायिनां मोहदात्रे ह्यगण्याय गण्याय ते वै नमस्ते ॥ ५॥
पुराणादिशास्त्रैः सदा संस्तुताय शिवाद्यैः सुरेन्द्रैर्नमस्ते स्तुताय ।
अनाद्यन्तमध्यादिभेदैर्विहीनाय नानामयायास्तु सर्वेश्वराय ॥ ६॥
नमो लक्षवेदाष्टयोनिप्रचारतदाकाररूपाय योगेन योगिन् ।
नमो ह्यन्नभूताय सर्वाकराय कलानन्तरूपाय पुष्टिप्रदाय ॥ ७॥
नमो भूमिरूपाय नानाप्रभेदधरायाथ धाराय नित्याय तेऽस्तु ।
जलाधिस्वरूपाय तृप्तिप्रदाय तदाकारहीनाय साराय धाम्ने ॥ ८॥
नमस्तेजसां द्योतरूपाय ढुण्ढे प्रकाशाय भोक्त्रे च सर्वस्थिताय ।
नमो वायुरूपाय ते चालकाय प्रचारस्वरूपाय भिन्नाय तस्मात् ॥ ९॥
नमः स्वस्वरूपाय दीप्ताय पूर्णप्रकाशाय भूतादिकब्रह्मदात्रे ।
(Page खं. १ अ. २१ पान ५०)
नमः स्थूलभोगस्वरूपाय जाग्रन्मयाय प्रभो राजसायाथ तेऽस्तु ॥ १०॥
नमः स्वप्नमायामयायापि सूक्ष्मस्वरूपाय सर्वान्तरे संस्थिताय ।
नमः कारणायोभयब्रह्मदाय समायापि सौषुप्तभोगिन्नमस्ते ॥ ११॥
नमश्चेतनाधाररूपाय तेऽस्तु प्रयत्नप्रदाय त्रिभोगप्रदाय ।
गुणेशाय चैतन्यधाराय तेऽस्तु नमो नादरूपाय कालाय चात्मन् ॥ १२॥
नमो बिन्दुरूपाय वक्राननाय नमो देहमायाविहाराय तुभ्यम् ।
नमश्चित्स्वरूपाय सोऽहं प्रदाय निराकारदेहिस्वरूपाय तेऽस्तु ॥ १३॥
सदा ह्येकदन्ताय जन्मातिगाय परायाथ शून्याय दैत्यान्तकाय ।
मदादेश्च शत्रो महाखुध्वजाय नमोऽनादिसिद्धाय मायाधराय ॥ १४॥
नमो ज्ञानरूपाय नानाविहारप्रदायाथ पूर्णाय सर्वत्रगाय ।
नमो मायिमायादिभेदाकराय सदा बोधरूपाय ते वै महात्मन् ॥ १५॥
नमः साङ्ख्यरूपाय वै देहिनां वै पराय स्वसम्भोगहीनाय देव ।
सदा केवलब्रह्मभूताय तेऽस्तु नमो ज्ञानहीनाय मेधामयाय ॥ १६॥
नमः स्वस्वरूपाय चानन्ददाय समाधिस्वरूपाय मौनात्मकाय ।
स्वसंवेद्ययोगेन लभ्याय तेऽस्तु विनात्मप्रबोधाय सर्वाधिपाय ॥ १७॥
नमः पञ्चपञ्चादिमायाकराय चतुर्धा चतुर्धा विभिन्नाय धर्मिन् ।
असद्रूपकायाऽथ शक्त्यात्मकाय नमोऽभेदभेदादिनानात्मकाय ॥ १८॥
नमः सत्स्वरूपाय सूर्यात्मकाय सदात्मप्रबोधाय मायाधराय ।
अखण्डामृतायाद्वितीयाय तेऽस्तु सदा कालकालाय मोक्षप्रदाय ॥ १९॥
नमो विष्णुरूपाय चानन्ददाय समाय स्वमायोभयस्रष्ट्र एव ।
अनन्ताय भेदादिहीनाय भूम्ने सदा भेदरूपाय सर्वात्मकाय ॥ २०॥
नमः शम्भुरूपाय नेतिप्रदाय सदा मोहहीनाय च त्र्यम्बकाय ।
त्रिधा मायया भासितुर्यस्वरूपपरब्रह्मरूपाय ते धूम्रवर्ण ॥ २१॥
चतुर्णामभेदाय संयोगकारिन् स्वसंवेद्यभावेन विघ्नाधिपाय ।
स्वभक्तस्य पक्षे सदा संस्थिताय गणाधीश हन्त्रे महादैत्यकानाम् ॥ २२॥
नमः कर्मरूपाय कर्मादिकर्त्रे जनानां स्वकर्मादिना भोगदात्रे ।
नमो ज्ञानरूपाय निःसङ्गदाय सदा कर्महीनाय ते केवलाय ॥ २३॥
नमस्ते समानप्रदायोभयाय समायाऽथ योगेन चानन्ददाय ।
नमः साहजब्रह्मभूयप्रदाय त्रिधाम्ने त्रिहीनाय सन्तोषदाय ॥ २४॥
चतुर्धा स्थितीनां सदा पालकाय निजात्मस्वरूपाय संयोगकारिन् ।
अपाराय नाना चतुर्णां समूहेष्वधीशाय हेरम्ब तुभ्यं नमस्ते ॥ २५॥
अयोगाय मायाविहीनाय तुभ्यं नमस्ते निरानन्दरूपाय नित्यम् ।
निवृत्तिस्वरूपाय भिन्नाय तेऽस्तु नमो योगरूपासमाधिस्थिताय ॥ २६॥
नमो योगशान्तिस्वरूपाय शान्तिप्रदात्रे गणेशाय योगाय तुभ्यम् ।
सदा ब्रह्मणां ब्रह्मदात्रेऽखिलेश गणानां पते ज्येष्ठराजाय तेऽस्तु ॥ २७॥
(Page खं. १ अ. २१ पान ५१)
नमो ब्रह्मणे सृष्टिकर्त्रे सदा वै रजोधारिणे वेदशास्त्रादिकर्त्रे ।
सदा सृष्टिहीनाय साम्याय धाम्ने नमो मायिने मध्यवृत्तिस्थिताय ॥ २८॥
नमः सत्वरूपाय विष्णुप्रभेदाज्जगत्पालकायाथ मायाधराय ।
नमः सत्त्वहीनाय सर्वातिगाय कवीनां पते विघ्नहन्त्रे नमस्ते ॥ २९॥
नमस्तामसायाऽथ संहारकर्त्रे त्रिनेत्रप्रदीपाय शक्तेर्धराय ।
सदा कालरूपाय कैलासदाय तमोहीनरूपाय लम्बोदराय ॥ ३०॥
नमः कर्मणां मूलबीजाय तेऽस्तु नमो भानुरूपाय तेजोमयाय ।
त्रिकालादिबोधाय सूर्याय भूम्ने प्रकाशैर्विहीनाय हेरम्ब तेऽस्तु ॥ ३१॥
नमः शक्तिरूपाय मोहप्रदाय क्रियाधारभूताय नानाभ्रमाय ।
अनन्तस्वरूपाधिलीलाधराय नमः शक्तिहीनाय सिद्धीश तुभ्यम् ॥ ३२॥
नमश्चन्द्ररूपाय पुष्टिप्रदाय कलाभिस्त्रिलोकस्थभूतादिकेभ्यः ।
सुधाधारकायाऽथ नक्षत्रकादिप्रकाशाय ते ह्यन्नहीनाय ढुण्ढे ॥ ३३॥
नमः कामरूपाय कामारये ते नमस्ते गजाकारतुण्डाय तुभ्यम् ।
हरीन्द्रादिदेवैः सदा संस्तुताय शुकाद्यैर्महद्भिश्च वन्द्याय तेऽस्तु ॥ ३४॥
अनित्याय नित्याय देवेश देव सकामाय निष्कामभावप्रदाय ।
सदा सर्वपूज्याय सर्वाधिपाय जलेशेन्द्रशेषादिभिः संस्तुताय ॥ ३५॥
नमः काश्यपायाऽथ वै कापिलाय वरेण्यस्य पुत्राय पाराशराय ।
नमः शम्भुपुत्राय पार्श्वात्मजाय नमो भक्तिभोक्त्रे गणाधीश तेऽस्तु ॥ ३६॥
नमो माधवस्त्रीसुतायाऽथ तुभ्यं नमः सर्वमात्रे नमः सर्वपित्रे ।
नमः सर्वपुत्राय सर्वात्मकाय नमः सर्वसर्वाय नानामयाय ॥ ३७॥
नमः पाशधारिन् नमो दन्तधारिन् सृणिं बिभृते वै सदानन्ददायिन् ।
नमः पुत्रपौत्रादि राज्यप्रदात्रे नमो भुक्तिमुक्तिप्रदायाऽथ तुभ्यम् ॥ ३८॥
नमोऽनन्तशक्ते गुणानामधीश मयूरेश योगेश मायेश तुभ्यम् ।
नमोऽव्यक्तसुव्यक्तरूपाय दन्तिन् गजाकारसाकारमोहाय तेऽस्तु ॥ ३९॥
नमो ह्येकरूपाय नानाप्रभेदादये विघ्नपालाय शुण्डाधराय ।
अनाथाय नाथाय देवादिकानां निवासाय सर्वात्मनां ते नमो वै ॥ ४०॥
नमस्त्वम्पदाकारदेहाय तुभ्यं नमस्तत्पदाकारतुण्डाय तेऽस्तु ।
तयोरेकभावाऽसिरूपप्रयुक्तशरीराय साक्षात् सुधाम्ने नमस्ते ॥ ४१॥
नमो वामभागेन सिद्धिस्वरूपाधृतामोहमायाजनानां जनित्री ।
सदा बुद्धिरूपा धृता दक्षिणाङ्गे न पुंस्त्रीस्वरूपाऽसिरूपाय तेऽस्तु ॥ ४२॥
नमो भ्रामरी त्वम्पदाधारशक्तिः सदा तत्पदा कामदात्री ह्यभेदा ।
तयोरेकभावे स्वसंवेद्यनाम्नि पुरे मस्तके वासकारिंश्च तासाम् ॥ ४३॥
अखण्डामृतं यत्र तोयं सुताम्रं समुद्रे स्थितं चेक्षुसंज्ञे नमस्ते ।
निराधाररूपे च पानेन तस्य न पुंस्त्रीप्रदायाऽत्र खेलंश्च तेऽस्तु ॥ ४४॥
जनानां सदा त्र्यक्षरं शृण्वतां च गणेशेति चानन्ददायिन्नमस्ते ।
सकृज्जल्पतां जन्ममृत्यू न तेषामपारप्रधाम्ने च ढुण्ढीश्वराय ॥ ४५॥
(Page खं. १ अ. २२ पान ५२)
तवोपासका ब्रह्मभूता न चित्रं जनेभ्यश्च संस्पर्शनैर्ब्रह्मदा वै ।
सुरेन्द्रादिपूज्या गणेशस्वरूपा भवेयुर्नमस्ते नमस्ते गणेश ॥ ४६॥
सूत उवाच ।
इति स्तुत्वा गणेशानं मुद्गलो मौनधारकः ।
पादौ धृत्वा गणेशस्य पतितो दण्डवत् क्षितौ ॥ ४७॥
समुत्थाप्य स्वभक्तं तं सस्वजे परमादरात् ।
गजाननः प्रसन्नात्मा तमुवाच महामुनिम् ॥ ४८॥
गणेश उवाच ।
त्वया स्तोत्रं कृतं यच्च मदीयं मम सन्निधौ ।
स्तोत्रोत्तमं प्रविख्यातं भविष्यति न संशयः ॥ ४९॥
स्तोत्रोत्तमेन मां स्तौति तस्मै मुक्तिं सभुक्तिकाम् ।
ददामि दृढभक्तिं च मदीयां नात्र संशयः ॥ ५०॥
न सङ्कटं न रोगं च प्राप्नोति स नरोत्तमः ।
पुत्रपौत्रादिकं सर्वं धनं धान्यं ददामि वै ॥ ५१॥
मारणोच्चाटनादीनि नश्यन्ति पठनेन च ।
एकविंशतिवारं च तथा तावद्दिनावधि ॥ ५२॥
कारागृहादिजाः पीडा नश्यन्ति पठनेन च ।
मनसेप्सितमाप्नोति नरो मे परमप्रियः ॥ ५३॥
त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं भक्तियन्त्रितः ।
त्वत्समो नास्ति भावज्ञो वशे तेऽहं सदा स्थितः ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते गणेशस्तोत्रोत्तमवर्णने एकविंशतितमोऽध्यायः ॥ १.२१
१.२२ मुद्गलवरप्रदानं नाम द्वाविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
गणेशवचनं श्रुत्वा भक्तिभावसमन्वितः ।
मुद्गलः प्रणिपत्यैनमूचिवान् हर्षपूरितः ॥ १॥
मुद्गल उवाच ।
किं मां लोभयसे ढुण्ढे वृणोमि च न किञ्चन ।
तव वाक्यानुरोधेन वृणोमि त्वं ददासि चेत् ॥ २॥
तव भक्तिं दृढां देहि सदाऽखण्डात्मिकां प्रभो ।
सम्पूर्णा भक्तिमिच्छामि गाणेशीं यत्रकुत्र च ॥ ३॥
मुद्गलस्य वचः श्रुत्वा विस्मितो गणराट् स्वयम् ।
अहो सम्पूर्णभावेन भक्तिमेकांवृणोषि यत् ॥ ४॥
गणेश उवाच ।
मदीया त्वचला भक्तिः सम्पूर्णा प्रभविष्यति ।
त्रैलोक्ये तव भाग्येन समं भाग्यं न विद्यते ॥ ५॥
भक्तिः सा नवधा विप्र चित्ते ते रसदायिका ।
दशमं नास्ति संस्थानं चित्तस्य रसधारणे ॥ ६॥
श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् ।
अर्चनं वन्दन दास्यं सख्यं देहनिवेदनम् ॥ ७॥
नवचिह्नं प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् ।
तेनैव प्राप्यते भक्तिर्जनैर्मे नाऽत्र संशयः ॥ ८॥
श्रवणं मद्गुणानां च मननं तादृशं पुनः ।
(Page खं. १ अ. २२ पान ५३)
तस्यानुकूलं कर्तव्यं जायतेऽनुभवस्ततः ॥ ९॥
रसोत्पत्तिस्त्वनुभवे तत्र सर्वा प्रजायते ।
श्रवणं मे तया कार्यं गुणानां जन्तुना सदा ॥ १०॥
प्रियं भवति नान्यच्च मदेकरसभावतः ।
तेनान्यश्रवणे प्रीतिर्यदा नोत्पद्यते क्वचित् ॥ ११॥
तदा सम्पूर्णतां प्राप्ता भक्तिर्मे श्रवणात्मिका ।
अहं वसामि तत्कर्णे सदा तद्भक्तिलालसः ॥ १२॥
मद्गुणानां सदा यस्य कीर्तनं रसदायकम् ।
नान्यकीर्तनभावेषु तस्य वै मनसो रसः ॥ १३॥
तदा भक्तिः सुसम्पूर्णा मदीया कीर्तनात्मिका ।
प्राप्ता तेन सदा तस्य जिह्वाग्रे प्रवसाम्यहम् ॥ १४॥
मदीयकार्यभावस्य विस्मृतिर्नैव जायते ।
समये सावधानो यो व्रतपूजादिमार्गतः ॥ १५॥
तेन स्मरणरूपा सा भक्तिः प्राप्ता महामुने ।
स्मृत्यां वसामि तस्याऽहं भक्तिभोगार्थमेव हि ॥ १६॥
मदीयपादपद्मं यत्सत्यमन्यदसत्यकम् ।
ज्ञात्वा देहश्रमे वै यो नालस्येन प्रवर्तते ॥ १७॥
मम पादाश्रयः पूर्णः सदा येन कृतो मुने ।
अन्यत्राऽलस्यभावेन मिथ्याभूते स्थितेन च ॥ १८॥
तस्य भक्तिः समुत्पन्ना पादसेवनरूपिका ।
तस्याऽलसविहीनेऽहं देहे स्थास्यामि निश्चलः ॥ १९॥
साङ्गोपाङ्गं प्रकर्तव्यं मदीयं कर्म भावतः ।
अन्यच्च यादृशं जातं तादृशं किल तद्भवेत् ॥ २०॥
अर्चनात्मकभक्तिः सा सदा प्राप्ता नरेण वै ।
साङ्गोपाङ्गतया तत्र वसेयं भक्तिभावितः ॥ २१॥
न मत्समं भवेज्जातु वेदादिषु विचारतः ।
मयि श्रेष्ठत्वमापन्नं श्रेष्ठं मन्नमनं भवेत् ॥ २२॥
यदा वै मत्समं नास्ति चित्ते यस्य प्रतिष्ठितम् ।
तदा वदनजा भक्तिः प्राप्ता तेन न संशयः ॥ २३॥
तस्य श्रेष्ठत्वभावेऽहं सदा तिष्ठामि सर्वतः ।
भक्तिभोक्ता स्वयं भूत्वाऽन्यत्र श्रेष्ठत्वनाशकः ॥ २४॥
गणेशोपासनामार्गो यथा शास्त्रेषु दृश्यते ।
तं दृष्ट्वा तादृशं भूत्वा गाणपत्योऽभिमानतः ॥ २५॥
मां भजेत् यः स्वभावेन गाणेशाऽहङ्कृतेर्धरः ।
तेन दास्यं समापन्नं भक्तिभावेन भावितम् ॥ २६॥
गाणपत्यस्वभावेऽहं तं स्थास्यामि स्वभावतः ।
दास्यभक्तिविभोगार्थमेकनिष्ठाप्रकाशकः ॥ २७॥
मित्रस्य सन्निधाने तु यथा गोप्यं न विद्यते ।
बाह्यान्तरं च मित्रस्य मित्रं जानाति सर्वतः ॥ २८॥
तथा बाह्यान्तरैर्हीनो दम्भहीनः स्वभावतः ।
भजते मां नरो यस्तु सख्यं प्राप्तं मदीयकम् ॥ २९॥
यत्र कुत्र स्थितेनैव यद्यन् मनमि सन्धृतम् ।
गणेश्वरण तज्ज्ञातं सर्वान्तर्यामिनाऽखिलम् ॥ ३०॥
एतादृशविचारेण भययुक्तेन चेतसा ।
सर्वभावेन मां यस्तु भजतेऽनन्यचेतसा ॥ ३१॥
तस्य सख्ये सदाऽहं वै तिष्ठेयं भक्तिलोलुपः ।
बाह्यान्तरैकभावेषु मोहितस्तस्य चेष्टया ॥ ३२॥
पञ्चधा चित्तभूमिर्या तां त्यक्त्वाऽहं तया विना ।
गणेशोऽहं न सन्देहो येनात्मेति निवेदितः ॥ ३३॥
अहम्भावविहीनेऽहं भक्तिभावेन संस्थितः ।
नैव भिन्नो भविष्यामि तस्माज्जानीहि भो मुने ॥ ३४॥
(Page खं. १ अ. २२ पान ५४)
इत्येवं नवधा भक्तिं रसयुक्तां करोति यः ।
सहते क्षणमात्रं न चित्तं मद्रसहीनकम् ॥ ३५॥
तदा सम्पूर्णभक्तो मे जातो वै नात्र संशयः ।
अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा ॥ ३६॥
न क्षणं तं परित्यक्तुं शक्तोऽहं भक्तियन्त्रितः ।
नवधा चित्तभावेन तं रक्षिष्यामि सर्वदा ॥ ३७॥
न च भक्तिसमो भावो मम प्रीतिकरः कदा ।
तेन बद्धो भविष्यामि हृदये तस्य धीमतः ॥ ३८॥
नवधा मां भजन्ते ये नरा नानाविधाः सदा ।
तेषां यत्राधिकत्वं च भक्तावेकस्वभावतः ॥ ३९॥
अधिका च रसोत्पत्तिर्यत्र भक्तौ समागता ।
तस्यां मुख्यत्वमापन्नं नवधा भवने सति ॥ ४०॥
तत्र मुख्यस्वभावेन भक्तराजाश्च ये स्थिताः ।
तान् वदामि महाभाग शृणु तत्त्वमिदं महत् ॥ ४१॥
श्रवणे मद्गुणानां यदाधिक्यं खलु विद्यते ।
तत्र वै कार्तिकेयश्च भक्तराजः प्रकीर्तितः ॥ ४२॥
कीर्तने भक्तराजस्तु सूर्य आत्मा शरीरिणाम् ।
स्मरणे रामचन्द्रो वै भक्तराजः स्मृतो बुधैः ॥ ४३॥
पार्वती पादसेवायां भक्ताधीशा च संस्मृता ।
महाविष्णुः स्वयं राजा भजतामर्चने मम ॥ ४४॥
वन्दने भक्तराजेन्द्रः शङ्करः सर्वभावतः ।
दास्यं भक्ताधिपः प्रोक्तो रामो वै जमदग्निजः ॥ ४५॥
सख्ये चतुर्मुखः साक्षाद्भक्तानामधिपः स्मृतः ।
वैयासकिः शुको भूपो मयि त्वात्मनिवेदिनाम् ॥ ४६॥
एते भक्ताधिपाः प्रोक्ता अन्तरायविहीनकाः ।
मां भजन्ते महाभागा ब्रह्मभूतास्ततोऽप्यहो ॥ ४७॥
त्वं तेषां च सदा राजा कृतो मे नात्र संशयः ।
पूर्णभक्तिस्वभावेन मां भजिष्यसि यत्नतः ॥ ४८॥
नवधा भक्तिभावेषु तवाधिक्यं भविष्यति ।
पूर्णभक्तो मदीयस्त्वं भक्तेशेशः कृतो मया ॥ ४९॥
मद्भक्तो त्वत्समो नैवाभवन्न प्रभविष्यति ।
वर्तते न कदा विप्र त्वदधीनोऽहमञ्जसा ॥ ५०॥
तवाङ्गवायुना स्पृष्टाः पूता वै दर्शनादिभिः ।
भविष्यति न सन्देहो ब्रह्मबुद्धियुतास्तथा ॥ ५१॥
सूत उवाच ।
एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
तदादि स मुनिः प्रोक्तः सर्वेषां वन्द्यतां गतः ॥ ५२॥
मुद्गलस्य चरित्रं यः शृणुयाद्वा पठेन्नरः ।
श्रावयेद्भावयुक्तेभ्यः स वै सर्वार्थसिद्धिभाक् ॥ ५३॥
इह भुक्त्वाऽखिलान् भोगानन्ते ब्रह्ममयो भवेत् ।
भक्तराजेन्द्रता तस्य विघ्नेशस्य भविष्यति ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते मुद्गलवरप्रदानं नाम द्वाविंशोऽध्यायः ॥ १.२२
(Page खं. १ अ. २३ पान ५५)
१.२३ मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
धन्योऽसि योगिराजोऽसि भक्तराजेन्द्रता च ते ।
मदीयं भाग्ययोगेन सम्प्राप्तं दर्शनं प्रभो ॥ १॥
अष्टौ ये गणराजस्य ह्यवताराः प्रकीर्तिताः ।
तान् मे कथय योगीश विस्तरेण महामुने ॥ २॥
दैत्याः सन्निहितास्तैस्तु तेषां जन्मादिकं परम् ।
सकलं युद्धभागं मां कथयस्व विशेषतः ॥ ३॥
एतादृशा महादैत्या न श्रुताः कुत्रचित्प्रभो ।
विस्मापयति चेयं मां कथा पापापनोदिनी ॥ ४॥
मुद्गल उवाच ।
प्रजापते कथां दिव्यां तव भावनियन्त्रितः ।
कथयामि समासेन गणनाथप्रमोदिनीम् ॥ ५॥
प्रथमं वक्रतुण्डस्य चरित्रं शृणु पुण्यदम् ।
मत्सरासुरयुद्धं च गणेशेन महाद्भुतम् ॥ ६॥
इन्द्रस्येन्द्रपदप्राप्तिर्जाता यस्मिन् दिने परा ।
तस्मिन् दिने महोत्साहो वार्षिकः क्रियते मुने ॥ ७॥
कदाचिदमरावत्यां महोत्सवपरायणः ।
सुभद्रासनगोतिष्ठद्देवेन्द्रः सर्वपूजितः ॥ ८॥
तावद्देवाः सगन्धर्वा अप्सराभिः समागताः ।
नागा यक्षा मुनीन्द्राश्च राक्षसा देवयोषितः ॥ ९॥
आगतो भगवांस्तत्र सर्वभूतगणैर्वृतः ।
स्कन्दनन्दीश्वराद्यैश्च पार्वत्या सह शङ्करः ॥ १०॥
लक्ष्म्या सह स्वयं विष्णुर्विष्वक्सेनादिभिर्गणैः ।
वेदादिभिर्वृतो ब्रह्मा प्रजापतिभिराययौ ॥ ११॥
सर्वग्रहैः समायुक्तो भानुस्तत्रागमत् स्वयम् ।
अग्निश्च धर्मराजश्व कुबेरो वरुणस्तथा ॥ १२॥
आदित्या मनवश्चैव वसवो रुद्रकास्तथा ।
साध्या विद्याधरा विश्वेदेवास्तत्राययुः प्रभो ॥ १३॥
अश्विनौ शेषनागश्च बहवस्तत्र चागताः ।
उपविष्टा मुदा युक्ता उत्सवे वै शतक्रतोः ॥ १४॥
तत्र नाना कथाश्चक्रुरानन्दपरिवर्धिनीः ।
मुनयो भावसंयुक्ताः पुरातनभवा मुने ॥ १५॥
नृत्यमप्सरसश्चक्रुर्गन्धर्वा ललितं जगुः ।
हाहाहूहूमुखा अन्ये तुम्बरुनारदस्तथा ॥ १६॥
वादयन्ति स्म वादित्रं तान् स्तुवन्ति स्म चारणाः ।
हृष्टा पुष्टा जनास्तत्र स्त्रियः परमहर्षिताः ॥ १७॥
तत्र रम्भा विचित्राणि नृत्यादीनि चकार ह ।
हावभावप्रयुक्तानि चेष्टितानि प्रजापते ॥ १८॥
कन्दुकक्रीडनोद्युक्ता सभायां यत्र तत्र सा ।
बभ्राम तां प्रपश्यन् सन्निन्द्रोऽभूत् कामपीडितः ॥ १९॥
मोहितो मञ्जुलरवैर्नृत्यादिकलया तथा ।
कर्तव्यं नैव सञ्जज्ञौ तन्मनाः स सुरेश्वरः ॥ २०॥
शीघ्रमेव समाप्तं तमुत्सवं कृतवान् स्वयम् ।
सर्वे स्वस्वस्थलं जग्मुर्मानिता हर्षिता विभो ॥ २१॥
रम्भां निमन्त्र्य चेन्द्रश्च जगाम वनमेकलः ।
नानापरिमलैर्युक्ता यत्र वृक्षाः सुपुष्पिताः ॥ २२॥
नानाप्रस्रवयुक्तानि निर्मलानि जलानि च ।
सुवर्णपद्मशोभानि षट्पदैः शोभितानि च ॥ २३॥
इत्यादिकामपुष्टानि नानावस्तुयुतानि च ।
वनानि तत्र रेमे साविन्द्रः कामविमोहितः ॥ २४॥
रम्भयासक्तचित्तस्य वज्रिणः क्रीडतो भृशम् ।
न तृप्तिरभवत्तत्र घृतेन दहनस्य वा ॥ २५॥
तत्राजगाम दुर्वासाः स्वेच्छया विचरन् मुनिः ।
तं दृष्ट्वा लज्जितो राजा देवानां विनयं श्रितः ॥ २६॥
(Page खं. १ अ. २३ पान ५६)
त्यक्त्वा रम्भां नमस्कृत्य तं मुनिं प्राञ्जलिः स्थितः ।
तादृशं तं परित्यज्य जगाम मुनिसत्तमः ॥ २७॥
अतिविह्वलगात्रत्वाच्चस्कन्द सुरशत्रुहा ।
रेतोऽभूत् पतितं भूमौ तस्माद्दैत्यसमुद्भवः ॥ २८॥
इन्द्रोऽपि स्वगृहं गत्वा रम्भां त्यक्त्वा चकार ह ।
सुराणामखिलं राज्यमात्मानं निन्दयन्मुहुः ॥ २९॥
अहो धिक् बत राज्यं मे सुराणां स्त्रीजितस्य च ।
असुराणामिवात्यन्तं मनो मे चञ्चलं भृशम् ॥ ३०॥
पुंश्चल्या मोहितं नित्यं धिङ् मां साध्वभिनिन्दितम् ।
कुकुर्मकृत्यदोषाच्च भयमग्रे भविष्यति ॥ ३१॥
इत्येवमात्मनात्मानं निन्दयामास देवपः ।
स्वधरर्मे संस्थितो दक्ष वृत्रहा पुनरेव च ॥ ३२॥
इन्द्रवीर्याच्च कालेन भूम्यां जातो महासुरः ।
तं पृथ्वी पालयामास स्तनपानादिना भृशम् ॥ ३३॥
स तु संववृधे तत्र हिमाचल इवापरः ।
आजानुबाहुर्दीर्घाक्षो महावक्षा महाबलः ॥ ३४॥
रक्तवर्णः क्रूरकर्मा यथाग्निर्ज्वलितो बभौ ।
नाम तस्याऽकरोद्भूमिर्मत्सरेति स्वभावतः ॥ ३५॥
पञ्चवर्षवयोगस्य चोपवीतप्रदानकम् ।
ब्राह्मणैः कारयामास धरित्री स्नेहभावतः ॥ ३६॥
स तु वेदादिकं सर्वं शिक्षितुं गुरुसन्निधौ ।
स्थित आर्जवसंयुक्तो ग्राहकः श्रवणेन वै ॥ ३७॥
महाबुद्धिः स कालेनाल्पेन वेदादिपारगः ।
दुर्बुद्धेः कन्यकां रम्यां तामुवाह विलासिनीम् ॥ ३८॥
नाम्ना मदकराख्याता सर्वावयवशोभिनी ।
चतुरा सर्वकार्येषु विषयस्य विवर्धिनी ॥ ३९॥
एकस्मिन् दिवसे तस्य मतिर्जाता दुरात्मनः ।
विपुलं सुतपस्तप्त्वा जेयं ब्रह्माण्डमोजसा ॥ ४०॥
स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् ।
तपसा च तया शम्भुं तोषयामास भक्तितः ॥ ४१॥
निर्जने वन एकान्ते पुष्पपल्लवशोभिते ।
कन्दमूलफलोपेते सुजले संस्थितोऽतपत् ॥ ४२॥
दिव्यवर्षसहस्रं स निराहारतया स्थितः ।
जपन् पञ्चाक्षरं मन्त्रं ध्यात्वा हृदि सदाशिवम् ॥ ४३॥
दीक्षां पाशुपतीं धृत्वा तोषयामास शङ्करम् ।
तस्य प्रतपसा देवाः क्षुभिताश्च समन्ततः ॥ ४४॥
न प्रकाशो रवेरासीन्नाग्निज्वाल भास्वरः ।
भूतान्याकुलतां तत्र प्राप्तानि तपसो बलात् ॥ ४५॥
देवाः सर्षिगणाः सर्वे शङ्करं शरणं ययुः ।
मत्सरस्य तपस्तप्तान् रक्ष नो जगदीश्वर ॥ ४६॥
शङ्करस्तैः समायुक्तः पार्वत्या स्वगणैः सह ।
तं देशमगमद् हृष्टो भक्तं ज्ञातुं महाद्भुतम् ॥ ४७॥
अस्थित्वचासमायुक्तं श्वासमात्रावशेषितम् ।
हीनाङ्गमावृतं तत्र वल्मीकेन समन्ततः ॥ ४८॥
महोग्रतपसा युक्तं देवाः सर्वे विसिस्मिरे ।
ऋषयोऽपि महाभागा दृष्ट्वा तं तापसं परम् ॥ ४९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः ॥ १.२३
(Page खं. १ अ. २४ पान ५७)
१.२४ मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
मत्सरासुरमुग्रं तं तापसं शाम्भवं प्रभो ।
बोधयामास तं शम्भुर्दानवेन्द्रं महाबलम् ॥ १॥
शङ्कर उवाच ।
भो भो मत्सर चोत्तिष्ठ वरान् वरय सुव्रत ।
तवोग्रतपसा भक्त्त्या सन्तुष्टोऽहं ददामि तान् ॥ २॥
अहो धैर्यमहो धैर्यं धन्यं ते तापसोत्तम ।
देहभावमतिक्रम्य स्थितोऽसि दृढभक्तितः ॥ ३॥
क्लेशं त्यज तपो जातं सिद्धिं प्राप्तां तपोभुवम् ।
पश्येच्छसि तथा यं यं तं तं दास्यामि दुर्लभम् ॥ ४॥
शिवस्य वचनं श्रुत्वा प्रबुद्धो मत्सरासुरः ।
उन्मील्य लोचनेऽपश्यच्छङ्करं पुरतः स्थितम् ॥ ५॥
शिवदर्शनमात्रेण सत्तावानभवत्किल ।
उत्थाय तं नमस्कृत्य विनम्रः प्रेमविह्वलः ॥ ६॥
उवाच तं महाबुद्धिः शिवं कल्याणकारकम् ।
भक्तानां कल्पवृक्षं च पार्वतीसहितं प्रभुम् ॥ ७॥
मत्सरासुर उवाच ।
धन्यो वंशो मदीयोऽद्य जन्म सम्पत्तिशास्त्रजम् ।
ज्ञानं मे जनको माता तपो धन्यं महत्प्रभो ॥ ८॥
मुनयो यं न जानन्ति योगिनो ध्यानशालिनः ।
वेदाः स्मृतिसमायुक्तास्तं पश्यामि सदाशिवम् ॥ ९॥
एवमुक्त्वा नमस्कृत्य पूजयामास हर्षतः ।
ऋषिदेवयुतं शम्भु भक्तिभावसमन्वितः ॥ १०॥
यथाविधि स सम्पूज्य शङ्करं दण्डवत् क्षितौ ।
प्रणिपत्य समुत्थाय प्राञ्जलिः स्तोत्रमाकरोत् ॥ ११॥
मत्सरासुर उवाच ।
नमस्ते त्रिदशेशाय शङ्कराय शिवाय च ।
निर्गुणाय गुणानां चेशाय सर्वगुणाय ते ॥ १२॥
अपाराय महादेव पिनाकधर ते नमः ।
नमो नमो महेशाय सर्वाधिपतये नमः ॥ १३॥
उमाकान्त नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तिप्रियाय देवाय सर्पहाराय ते नमः ॥ १४॥
वृषध्वजाय नन्दीशवाहनाय त्रिशूलिने ।
भस्माङ्गरागधाराय व्याघ्राम्बरधराय ते ॥ १५॥
भालचन्द्र नमस्तुभ्यं पञ्चवक्त्राय शम्भवे ।
दशबाहुधरायैव त्रिनेत्राय कपालिने ॥ १६॥
जटाजूटधरायैव नमो गङ्गाधराय ते ।
गिरिशाय नमस्तुभ्यं गजचर्मधराय ते ॥ १७॥
सदा ब्रह्ममयायैव नमो ब्रह्मप्रदायिने ।
निराधाराय नित्याय सुयोगिपतये नमः ॥ १८॥
अपारगुणधाराय रुद्राय तु नमो नमः ।
किं स्तौमि त्वां महादेव यत्र वेदा विकुण्ठिताः ॥ १९॥
इति स्तुत्वा महेशानं मत्सरः प्रणनाम तम् ।
उत्थितं तं शिवः प्राह वरं वरय सुव्रत ॥ २०॥
इदं त्वया कृतं स्तोत्रं मम प्रीतिविवर्धनम् ।
पठते शृण्वते सर्वकामदं प्रभविष्यति ॥ २१॥
विद्यामायुः सुखं राज्यं पुत्रपौत्रादिकं च यत् ।
भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेण स्तुवतेऽसुर ॥ २२॥
श्रुत्वा शिववचो रम्यं प्रहृष्टो मत्सरोऽब्रवीत् ।
विनयावनतो भूत्वा शिवं भक्तवरप्रदम् ॥ २३॥
मत्सर उवाच ।
यदि देवेश तुष्टोऽसि यदि दास्यसि मे वरान् ।
तदाऽभयं ते सर्वत्र भक्तिं देहि सदाशिव ॥ २४॥
पञ्चभूतात्मकं सर्वं त्रिगुणैः सुविराजितम् ।
तस्मान्मे मरणं शम्भो न कदाचिद्भवेदिह ॥ २५॥
(Page खं. १ अ. २४ पान ५८)
आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतम् ।
ब्रह्माण्डस्य च राज्यं मे देहि देहि सदाशिव ॥ २६॥
मुद्गल उवाच ।
तस्यैतद्वचन श्रुत्वा शिवो विस्मितमानसः ।
देवाः सर्षिगणाः सर्वे विस्मिताः प्राभवन् तदा ॥ २७॥
किमुक्तं मत्सरेणैवं का गतिर्वा भविष्यति ।
तपसोग्रेण सन्तुष्टः शिवस्तं प्रत्युवाच ह ॥ २८॥
शिव उवाच ।
यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति ।
उग्रेण तपसा तुभ्यं मया दत्तं सुदुर्लभम् ॥ २९॥
मुद्गल उवाच ।
वरान् सुदुर्लभान् प्राप्य मत्सरो गृहमागमत् ।
हर्षितो हर्षयन् सर्वान् सुहृदो मातरं स्त्रियम् ॥ ३०॥
आह्लादेन सदा तत्र स्थितो मान्यैः स मानितः ।
नानाभोगान् प्रभुञ्जानः सुहृद्भयः सुखदायकः ॥ ३१॥
पुत्रौ मदकरायां द्वौ जनयामास मत्सरः ।
अतिकान्तियुतौ तुल्यौ पित्रा वीर्येण तेजसा ॥ ३२॥
सुन्दरप्रिय इत्येवं नाम ज्येष्ठस्य सोऽकरोत् ।
विषयप्रियनामाभूत्कनिष्ठः प्रीतिदः परः ॥ ३३॥
एकस्मिन् दिवसे दैत्यः श्वशुरस्य गृहं गतः ।
तत्र नानाविधा दैत्या मिलितास्तमबोधयन् ॥ ३४॥
दैत्या ऊचुः ।
किं स्थितोऽसि महातेजस्त्वद्दास्यवशगा वयम् ।
जेष्यामः सर्वदेवादींस्त्वत्साहाय्येन मत्सर ॥ ३५॥
त्वत्समो नैव वीरोऽस्ति ब्रह्माण्डे कुत्रचित्प्रभो ।
वरदान बलाढ्यस्त्वं निर्भयोऽसि महासुर ॥ ३६॥
आज्ञां दहि गमिष्यामो जेतुं देवान्न संशयः ।
शस्त्रास्त्रैस्तान्विनिर्भिद्य भवाम स्वर्गभोगिनः ॥ ३७॥
मुद्गल उवाच ।
दैत्यानां वचनं श्रुत्वा मत्सरस्तानुवाच ह ।
भवद्भिः कथितं सर्वं हितकारकमुत्तमम् ॥ ३८॥
ममापि हृदये नित्यमेवं वसति दानवाः ।
किं करोमि च मे माता निवारयति मां सदा ॥ ३९॥
इन्द्रस्ते स पिता पुत्र देवाः पूज्याः सवासवाः ।
अतो धर्मेण वर्तस्व येनेहपरलोकभाक् ॥ ४०॥
मत्सरस्य वचः श्रुत्वा दैत्यास्ते त्वब्रुवन् वचः ।
अखिलं धर्मकरणं बाधादं भावपूर्वकम् ॥ ४१॥
दैत्या ऊचुः ।
शृणु मत्सर वृत्तान्तं पुराभूतं स्वधर्मजम् ।
अस्माकमेव मान्यं यत्तव संशयनाशकम् ॥ ४२॥
जलन्धरः समुत्पन्नः शिववीर्यान्महाबलः ।
तेन शम्भुर्जितः सङ्ख्ये देवाः सर्वे च निर्जिताः ॥ ४३॥
पार्वतीं दारभावार्थं ग्रहीतुं तूद्यतोऽभवत् ।
दैत्या एतादृशा जाता बहवो मत्सरासुर ॥ ४४॥
यत्र मान्याः सन्ति देवास्तत्र दैत्याः प्रदूषिताः ।
दैत्या मान्यास्तदा देवा दूषिताः प्रभवन्ति वै ॥ ४५॥
देवेन्द्राः शत्रवः सन्ति दैत्यानां सततं प्रभो ।
अतस्त्यक्त्वा स्वसन्देहं जय देवान् महाबल ॥ ४६॥
त्यज तां मातरं पृथ्वीं मुनिदेवसहायिनीम् ।
वसात्र त्वं महाभाग अस्माभिः सहितः सदा ॥ ४७॥
तेषां वचनमाकर्ण्य मत्सरोऽहितकारकम् ।
तथैव कृतवांस्तत्र त्यक्त्वा पृथ्वीमुवास ह ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः ॥ १.२४
(Page खं. १ अ. २५ पान ५९)
१.२५ मत्सरासुरसेनावर्णनं नाम पञ्चविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग कथां पापप्रणाशिनीम् ।
वक्रतुण्डावतारस्य प्रयोजनविकाशिनीम् ॥ १॥
दैत्याः सम्भूय सर्वे ते गताः शुक्रं महामुनिम् ।
दण्डवत्तं प्रणेमुश्च मत्सरेण समन्विताः ॥ २॥
शुक्रस्तान् मानंयामास किमर्थं यूयमागताः ।
भवता कार्यसिद्धिर्या तां करिष्यामि यत्नतः ॥ ३॥
शुक्रस्य वचनं श्रुत्वा सुधारससमं मुने ।
हर्षिताः प्रणिपत्यैनमूचुः सर्वे हितावहम् ॥ ४॥
तव स्वामिन् प्रसादेन मत्सरः कुलधारकः ।
अस्माकं सर्वभागस्य फलरूपस्तथा कृतः ॥ ५॥
वरान् प्राप्य महाबाहुरस्माकं हितमाश्रितः ।
दैत्यानां दानवादीनां राजाऽयमिति निश्चितम् ॥ ६॥
तस्य राज्याभिषेकार्थं याहि त्वं सर्वमानद ।
अस्माकं धामसर्वस्वं त्वमेव मुनिसत्तम ॥ ७॥
दैत्यानां वचनं श्रुत्वा शुक्रोऽवादीत् तथेति च ।
अगमत् राज्यलाभार्थं मत्सरस्य दुरात्मनः ॥ ८॥
मिलितास्तत्र सर्वे ते दैत्यदानवराक्षसाः ।
हर्षेण महता युक्ता महोत्सवपरायणाः ॥ ९॥
तेषां मुख्यान् महाभागांस्तान् छृणुष्व प्रजापते ।
सङ्क्षेपेण प्रवक्ष्यामि प्राधान्येन महत्तमान् ॥ १०॥
नमुचिः शम्बरः शुम्भो निशुम्भः कालभैरवः ।
विरोचनो विप्रचित्तिः प्रह्रादो महिषासुरः ॥ ११॥
अन्धकासुरनामा च रुरुदैत्यः प्रतापवान् ।
इत्याद्या बहवो दैत्या मिलितास्तस्य चोत्सवे ॥ १२॥
यथाविधि तथा तत्र ब्राह्मणैर्वेदपारगैः ।
ऋग्यजुःसाममन्त्रैश्चाभिषिक्तो मत्सरोऽभवत् ॥ १३॥
उशनाः सर्वकर्ताभूत्तेषां मध्ये प्रतापवान् ।
साक्षाद्योगी गणेशस्य महाभक्तो महामुनिः ॥ १४॥
दैत्यादीनां स राजाभून् मत्सरः परवीरहा ।
शुशुभेऽतीव तेजस्वी मध्याह्नार्क इव श्रिया ॥ १५॥
सर्वे स्वस्वगृहं जग्मुः सनाथाश्च वयं कृताः ।
शुक्रेणेति वदन्तस्ते हर्षयुक्ता प्रजापते ॥ १६॥
गते कियति काले च मत्सरः स मनो दधे ।
ब्रह्माण्डजयने दुष्टो जुहाव सकलासुरान् ॥ १७॥
आगतास्ते त्वराभाजः किं कार्यं वद मानद ।
तानुवाच जयाकाङ्क्षी त्रैलोक्यं वशमानये ॥ १८॥
तस्य तद् वचनं श्रुत्वा हृष्टाः सर्वे महाऽसुराः ।
नदन्तो मेघसन्नादैः कालानां कलनात्मकैः ॥ १९॥
शस्त्रास्त्राणि ह्यमोघानि धृत्वा वाहनगा बभुः ।
सन्नद्धाः सर्वभावेन चतुरङ्गबलान्विताः ॥ २०॥
पदातयो ह्यसङ्ख्याता नानाशस्त्रधरास्तथा ।
पर्वतद्रुमपाषाणहस्ताः सन्निःसृताः प्रभो ॥ २१॥
सिन्दूरारुणभालाश्च मुक्तकेशा महाबलाः ।
उड्डीयोड्डीय धावन्तः शिक्षायुद्धकरास्ततः ॥ २२॥
शस्त्रयुद्धे मल्लयुद्धे गदायुद्धे विशारदाः ।
अस्त्रयुद्धविचारज्ञा निःसृताः प्रासधारकाः ॥ २३॥
धूलिव्रजेन तेषां तु भास्करो निष्प्रभः कृतः ।
अग्रे दैत्यस्य सेनाया भूषणानि यथा बभुः ॥ २४॥
तथा हस्तिसहस्राणां सहस्राणि ययुः पुरः ।
धातुभी रञ्जितान्येव नानाचित्रैर्महामुने ॥ २५॥
सिन्दूरारुणभालानि लसत्कुम्भधराणि च ।
(Page खं. १ अ. २६ पान ६०)
घण्टासान्द्रनिनादैश्च नादितानि त्वितस्ततः ॥ २६॥
महावीराश्रितान्येव कुन्तलाद्यस्त्रकैस्तथा ।
पूर्णानि चञ्चलाश्चैव पर्वता इव शोभिताः ॥ २७॥
गिरीणां चैव दन्ताग्रैर्भेदकानि प्रजापते ।
शुण्डाभिर्वृक्षजालानां छेदकानि महान्ति च ॥ २८॥
मदेनासिक्तभालानि भ्रमरैर्गुञ्जितानि च ।
रणे शत्रुसहस्राणां नाशकाराणि सर्वशः ॥ २९॥
निःसृतानि पुरेभ्यश्च सेनाशोभाकराणि च ।
दैत्यैः सुदारुणैस्तानि स्वाश्रितानि समन्ततः ॥ ३०॥
ततोऽश्वानां महासेना निःसृता बलवत्तराः ।
चञ्चला वायुवेगाश्च तत्राऽश्वाः पूर्णभूषिताः ॥ ३१॥
चामरैर्वीजिताश्चैव मनोवेगा महाबलाः ।
उड्डीयोड्डीय धावन्त आकाशे वायवो यथा ॥ ३२॥
खुराघातैर्विस्फुलिङ्गान् प्रस्रंवत इतस्ततः ।
नानाशस्त्रधरास्तत्र दैत्या रेजुर्यथा घनाः ॥ ३३॥
कालस्य भयदाः सर्वे नानायुद्धविशारदाः ।
अपाराश्च समारूढा दारुणाः पापनिश्चयाः ॥ ३४॥
तत्र केचिन्महादैत्याः खरारोहा विनिःसृताः ।
अजयानाधिरूढाश्च गोवाहनविराजिताः ॥ ३५॥
महिषारूढकाश्चान्ये व्याघ्रारूढा महाबलाः ।
सिंहशार्दूलवाहाश्च खगवाहास्तथापरे ॥ ३६॥
इत्यादिचित्ररूपेषु वाहनेषु विराजिताः ।
निःसृता असुराः सर्वे यममत्तुमिवोद्यताः ॥ ३७॥
ततो रथसमारूढा रथिनो निःसृताः प्रभो ।
अपाराश्च महाक्रोधारुणनेत्रा भयङ्कराः ॥ ३८॥
रथाश्वालङ्कृतास्तत्र मणिमुक्तादिभिः परैः ।
नानाशस्त्रास्त्रभारैश्च पूरिता मेघघोषिणः ॥ ३९॥
ध्वजैरलङ्कृताः पूर्णा अश्वैर्जवनशालिभिः ।
संयुताश्चतुरैः सूतैर्महावीरैः समाश्रिताः ॥ ४०॥
रथाः खरयुताः केचिद् वृकैर्वै वाहिताः परे ।
सिंहैर्गोभिर्गजैरृक्षैर्नानापशुभिराबभुः ॥ ४१॥
तत्र वज्रसमाङ्गैश्च खरैः शतमितैर्युतम् ।
अलङ्कृतं रथं दैत्यो मत्सरः स समारुहत् ॥ ४२॥
तस्याऽग्रे तत्सुतौ शूरावश्वारूढौ प्रजग्मतुः ।
विरोचनादयो दैत्याः समन्ताज्जग्मुराजिषु ॥ ४३॥
पृथिव्यां तस्य सैन्यं तत् समुद्र इव सम्बभौ ।
महारथमहावीरयुद्धभूषणभूषितम् ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसेनावर्णनं नाम पञ्चविंशोऽध्यायः ॥ १.२५
१.२६ पातालविजयो नाम षड्विंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो दक्ष महत्सैन्यं पृथिवीजयनोद्यतम् ।
हनने क्षत्रियाणां तत्प्रवृत्तं कालचक्रवत् ॥ १॥
विरोचनादयो दैत्याः स्थिता यत्र यमोपमाः ।
युद्धं तैः सह कुर्वाणः कः स्थास्यति पुमान् भुवि ॥ २॥
दैत्याः पादप्रहारेण चूर्णयन्तोऽद्रिसञ्चयान् ।
(Page खं. १ अ. २६ पान ६१)
शेषमस्तकमानम्य भारेणैव प्रचक्रिरे ॥ ३॥
तान् मेघसदृशान् दृष्ट्वा पर्वताकारसंस्थितान् ।
अभवन् यमरूपान् ते क्षत्रिया गतजीविनः ॥ ४॥
केचित्पलायितास्तत्र केचिच्च शरणं ययुः ।
महावीरास्तु ते युद्धं कृत्वा स्वर्गं ययुर्मताः ॥ ५॥
ये मृतास्तत्सुतास्तैस्तु स्थापिताः करदायिनः ।
शरणागतराजानः स्थापिताः स्वपदे तथा ॥ ६॥
यच्च राजविहीनं तु दैत्यास्तत्राधिपाः कृताः ।
राजानः सर्वविषये बभूवुर्भागसंयुताः ॥ ७॥
देशे देशे तथा दैत्याः क्षत्रियाणां च सन्निधौ ।
स्थापिता भावबोधार्थमेवं सर्वत्र कारितम् ॥ ८॥
सद्वीपां वसुधां सर्वां जित्वा दैत्यो ननन्द ह ।
मत्सरोऽतिवशां पृथ्वीं तत्र दृष्ट्वा प्रजापते ॥ ९॥
पातालमगमद्दैत्यो दैत्यवृन्दसमन्वितः ।
मत्सरो नागसर्पाणां जयार्थं बलवांस्ततः ॥ १०॥
नागोद्यानानि गत्वा ते बभञ्जुर्दितिनन्दनाः ।
तान् दृष्ट्वा नागराजा वै युद्धार्थं समुपाययुः ॥ ११॥
वासुकिस्तक्षकश्चैव कम्बलाश्वतरौ तथा ।
इत्याद्या बहवो नागा नागराजाः समाययुः ॥ १२॥
सन्नद्धाः क्रोधयुक्तास्ते महाभोगा महाबलाः ।
रथादिषु समारूढा नानावाहनगा बभुः ॥ १३॥
शस्त्रास्त्रनिचयैर्बाणैर्दैत्यान् जघ्नुर्महाबलान् ।
दैत्यास्तान् शस्त्रसङ्घातैः पातयामासुरोजसा ॥ १४॥
नागैर्महाबैलस्तत्र निहता दैत्यसञ्चयाः ।
भग्नदर्पाः पलायन्त दशदिक्षु सुविह्वलाः ॥ १५॥
दैत्यानां कदनं दृष्ट्वा विरोचनमुखाऽऽययुः ।
असुराः क्रोधसंयुक्ता नागांश्चामर्दयंस्तु ते ॥ १६॥
शस्त्रास्त्रैर्विविधैर्दैत्या मारयामासुरोजसा ।
केषाञ्चिन् मस्तका भग्नाः पादहस्तोदरं तथा ॥ १७॥
शोणितानां महानद्यः प्रास्रवन् वै दिशो दश ।
भग्नदर्पा भयान्नागाः पलायनमकुर्वत ॥ १८॥
केचित्तान् शरणं जग्मुर्दैत्यान् परमदारुणान् ।
हाहाकाररवैर्युक्ता नागास्त्राससमन्विताः ॥ १९॥
दैत्यानां पौरुषं दृष्ट्वा वासुकिप्रमुखाऽऽययुः ।
क्रोधेन परितप्तांस्तान् वारयामासुरोजसा ॥ २०॥
तक्षकादिमहानागा विषं क्षुब्धाश्च तत्यजुः ।
विवरं तद्विषैः सर्वं व्याप्तं तत्र प्रजापते ॥ २१॥
महाविषभवा ज्वाला ददाहासुरपुङ्गवान् ।
मृता दैत्या अनेके च गरलेन प्रपीडिताः ॥ २२॥
न स्थातुं शक्यते तत्र दैत्यैः सङ्ग्राममण्डले ।
शस्त्राणि तेषां सर्वाणि दग्धानि च तदा किल ॥ २३॥
गजाश्वरथपादातं मृतं दग्धं च सर्वशः ।
मूर्छिताः पतिता भूमौ विरोचनमुखास्ततः ॥ २४॥
नागा मोदं प्रचक्रुस्ते नादयन्तो दिशो दश ।
हर्षेण महता युक्ता नृत्यन्ति स्म स्थिताः परे ॥ २५॥
एतस्मिन्नन्तरे तत्र प्रतापी च विरोचनः ।
उत्थितः समरश्लाघी गतपीडो महाबलः ॥ २६॥
शुक्रेण तत्र दैतेया विद्यया निर्विषाः कृताः ।
उत्थिताः सर्वतः सर्वे अन्धकप्रमुखा बभुः ॥ २७॥
असुराः क्रोधसंयुक्ता गरुडास्त्रं च तत्यजुः ।
तस्मात्तु गरुडा जाता नागान् सर्वानभुञ्जत ॥ २८॥
तत्र वासुकिना तेन विषज्वाला प्रवर्तिता ।
(Page खं. १ अ. २७ पान ६२)
गरुडाश्च तया दग्धा गरुडास्त्रं तथाऽभवत् ॥ २९॥
एतत् दृष्ट्वा महाश्चर्यं वासुकेः पौरुषं महत् ।
विरोचनादयः सर्वे गरुडा माययाऽभवन् ॥ ३०॥
तैः सर्वैर्भक्षितं सैन्यं नागानां तद्दिशो दश ।
पलायन्त भयोद्विग्ना महानागाश्च भीरवः ॥ ३१॥
सर्पराट् तक्षकाद्या ये गरुडैः पीडिता भृशम् ।
मूर्छिताश्च मृतप्राया जाता युद्धे च दारुणे ॥ ३२॥
शेषेण सर्ववृत्तान्तो ज्ञातो ज्ञातिभयङ्करः ।
आययौ सामभावेन शरणं दैत्यसन्निधौ ॥ ३३॥
किमर्थं क्रोधसंयुक्ता दैत्या ब्रूत महाबलाः ।
भ्रातरस्त्वसुरा यूयं मदीया नात्र संशयः ॥ ३४॥
किमर्थं युद्धमारब्धं वक्तव्यं दितिनन्दनाः ।
पातालवासिनः सर्वे भवन्तो वयमेव च ॥ ३५॥
मुद्गल उवाच ।
शेषस्य वचनं श्रुत्वा प्रतापी च विरोचनः ।
उवाच तं वचो रम्यं तेजोयुक्तं स्वभावतः ॥ ३६॥
विरोचन उवाच ।
शेष शेष महाभाग मान्योऽसि च महामते ।
स्नेहेन वदसि प्राज्ञ सत्यं शृणु च मद्वचः ॥ ३७॥
अस्माकं मत्सरो राजा ब्रह्माण्डं वशमात्मनः ।
इच्छत्याशासनं तस्य ग्राह्यं युष्माभिरादृतैः ॥ ३८॥
नोचेन्नागासुराणां च विनाशः प्रभविष्यति ।
त्वं श्रेष्ठः सर्वभावेन सर्वेषां हितमाचर ॥ ३९॥
विरोचनवचः श्रुत्वा शेषः सर्वार्थकोविदः ।
प्रहसंस्तमुवाचेदं सामयुक्तं महामतिः ॥ ४०॥
यदिच्छति महाभागो मत्सरस्तत् करोम्यहम् ।
इत्युक्त्वा दातुमुद्युक्तः करभारं च वार्षिकम् ॥ ४१॥
नानारत्नानि दत्त्वा वै साम चक्रेऽसुरैः सह ।
नागान् वासुकिमुख्यान् स गृहीत्वा स्वस्थलं ययौ ॥ ४२॥
असुरा हर्षिताः सर्वे जितनागा महाबलाः ।
पातालजयिनो भूत्वा वरुणं जेतुमाययुः ॥ ४३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते पातालविजयो नाम षड्विंशोऽध्यायः ॥ १.२६
१.२७ मत्सरासुरविजय इन्द्रपराजयो नाम सप्तविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
असुरा जयशोभाढ्या वरुणालयमागताः ।
दूतं सम्प्रेषयामासुर्वरुणस्य सभां प्रति ॥ १॥
वरुणस्य सभां गत्वा दूतो वचनमब्रवीत् ।
शृणु तोयेन्द्र वाक्यं मे प्रेषितो मत्सरेण यत् ॥ २॥
मम वै वशगो भूत्वा तिष्ठ स्थाने महाबल ।
नोचेत्सङ्ग्रामभूमौ त्वां वधिष्यामि सुरांस्तथा ॥ ३॥
दूतस्य वचनं श्रुत्वा वरुणः क्रोधमूर्छितः ।
सङ्ग्रामाय च सन्नद्धो बभूवातिभयानकः ॥ ४॥
मकरारूढ एवाऽसौ पाशाद्यस्त्रप्रधारकः ।
यादांसि देवरूपाणि गृहीत्वा बहिराययौ ॥ ५॥
दूतेन कथितः सर्वो वृत्तान्तो वरुणस्य तम् ।
श्रुत्वा मत्सरदैतेयो दैत्यैर्युद्धोद्यतोऽभवत् ॥ ६॥
देवानामसुराणां च सैन्ये परमदारुणे ।
(Page खं. १ अ. २७ पान ६३)
परस्परं सुसन्नद्धे रणभूमौ प्रजग्मतुः ॥ ७॥
देवानां सैन्यमत्युग्रं दृष्ट्वा खलु विरोचनः ।
महिषासुरनामा च शुम्भश्चैवान्धकासुरः ॥ ८॥
अन्ये ते बहवस्तत्र धावन्तो रणमूर्धनि ।
नादयन्तो दिशः सर्वे जघ्नुर्देवांश्च साहसात् ॥ ९॥
मिलिता देवदैत्यास्ते परस्परजयेप्सवः ।
शस्त्रास्त्रैर्वृक्षपाषाणैर्जघ्नुर्वीराननेकशः ॥ १०॥
अभवत्तुमुलं युद्धं दैत्यदेवविनाशनम् ।
दिनत्रयं महाघोरं दैत्या भग्नास्ततोऽभवन् ॥ ११॥
जलशायिन एवं स्म देवा गर्जन्ति भैरवम् ।
मूर्छिता दैत्यभूपाश्च विरोचनमुखास्तथा ॥ १२॥
तान् काव्यः सावधानांश्च चकार स्वेन तेजसा ।
उत्थिताः सर्ववीरास्ते युयुधुस्त्वसुराः पुनः ॥ १३॥
क्रोधेन महता युक्ता जघ्नुर्देवान् महाबलान् ।
पुनश्च तुमुलं युद्धं बभूवातिभयानकम् ॥ १४॥
युद्धं चक्रुरहोरात्रं सुराः सर्वे जलौकसः ।
यादसां च गणाः सर्वे मृता भग्नाः प्रचूर्णिताः ॥ १५॥
सर्व देवगणास्तत्र वव्रजुः सर्वतोदिशम् ।
वरुणं च दधाराऽपि बलवान् स विरोचनः ॥ १६॥
धृतं वरुणमाश्रुत्य दुद्रुवुश्च जलौकसः ।
मृताः केचित् क्षताः केचिच्छरणं के च तान् ययुः ॥ १७॥
हर्षिता नादसंयुक्ता दैतेया जग्मुरादृताः ।
उत्तरे धननाथं ते जलमार्गत एव च ॥ १८॥
कुबेरेण स वृत्तान्तः श्रुतो वरुणलोकतः ।
पलायनं समालम्ब्य कैलासे शङ्करं ययौ ॥ १९॥
तं तथागतमाश्रुत्य दैत्या परमदारुणाः ।
अलकायां प्रवेशं ते चक्रुश्च जयशालिनः ॥ २०॥
एवं जित्वा कुबेरं तं वरुणेन समन्विताः ।
धर्मराजं ययुः सर्वे दैतेया मृत्युरूपकम् ॥ २१॥
यमराजस्तु सन्नद्धः श्रुत्वा दूतमुखात् कथाम् ।
यमो रागैश्च रक्षोभिर्विविधैः परिवारितः ॥ २२॥
महिषारूढ एवाऽसौ दण्डहस्तो महाबलः ।
आययौ रणभूमिं च महामृत्युसमन्वितः ॥ २३॥
यमं समागतं दृष्ट्वा मृत्युरोगादिभिर्युतम् ।
दैतेयाः क्रोधसंयुक्ता युयुधुः सहसा बलात् ॥ २४॥
देवानां चैव दैत्यानां वीराश्च युयुधुर्भृशम् ।
परस्परं बोधयन्तो जघ्नुर्नानाप्रहारतः ॥ २५॥
महाद्भुतं पञ्चदिनं युद्धं दारुणरूपकम् ।
नाशकं देवदैत्यानां बभूवैवं प्रजापते ॥ २६॥
याम्यैश्च मर्दिता दैत्या मृताः केचित् क्षताः परे ।
वव्रजुः सर्वशस्तत्र मृत्युसन्त्रासतापिताः ॥ २७॥
एतस्मिन्नन्तरे तत्र विषयप्रिय आगतः ।
मत्सरासुरपुत्रस्तु युयुधे मृत्युना सह ॥ २८॥
मत्सरप्रेरणात् शीघ्रं नराणां हृद्यताडयत् ।
तेनास्त्रेण च शस्त्रेण रोगाः परमपीडिताः ॥ २९॥
याम्यास्ते मृत्युरूपा वै पलायनमकुर्वत ।
यमेन बहुधा शस्त्रैर्योधयामास दारुणम् ।
महिषं मूर्छितं कृत्वा पातयामास वै यमम् ॥ ३०॥
उत्थितो धर्मराजश्व कालदण्डेन वेगतः ।
अताडयद्दैत्यपुत्रं तं गर्जन्विषयप्रियम् ॥ ३१॥
कालदण्डस्तु तं दृष्ट्वा पतितो धरणीतले ।
आगत्य सहसा तेन प्रतापेन धृतो यमः ॥ ३२॥
तस्यैतच्च महत्कर्म दैत्यपुत्रस्य दैत्यपाः ।
तुष्टुवुः परमप्रीता धन्यं धन्यं तमब्रुवन् ॥ ३३॥
(Page खं. १ अ. २७ पान ६४)
यमं धृत्वा च दैतेया आययुश्चामरावतीम् ।
इन्द्रोऽपि देवसङ्घैश्च सन्नद्धो वैरभावतः ॥ ३४॥
अग्निर्वायुः प्रसन्नद्धावागतौ बलसंयुतौ ।
देवाः सर्वे महाभागाः स्वस्वलोकात् समाययुः ॥ ३५॥
विश्वेदेवाश्च साध्याश्च रुद्रा वसव एव च ।
गन्धर्वाश्चैव यक्षाश्च विद्याधरसमायुताः ॥ ३६॥
ग्रहाश्चन्द्रश्च सूर्यश्च आदित्या बलवत्तराः ।
सन्नद्धाः सर्वदेवास्ते वज्रिणं जग्मुरादृताः ॥ ३७॥
सर्वदेवगणैरिन्द्रो रणभूमिं समाययौ ।
ऐरावतसमारूढो वज्रपाणिर्महाबलः ॥ ३८॥
देवसैन्यं सुसन्नद्धमागतं स्वबलान्वितम् ।
दृष्ट्वा दैत्यगणाः सर्वे जघ्नुः शस्त्रप्रहारतः ॥ ३९॥
देवा जघ्नुश्च तान् शस्त्रैर्महाक्रोधसमन्विताः ।
एवं परस्परं तत्र तुमुलं युद्धमप्यऽभूत् ॥ ४०॥
मृता दैत्यास्तथा देवस्ताडिताः शस्त्रघाततः ।
दैत्यैर्हताश्च देवास्ते छिन्ना भिन्नाः सुमूर्छिताः ॥ ४१॥
एवं परस्परं युद्धं देवदैत्यविनाशनम् ।
सप्तरात्रमभूत्तीव्रं ततो दैत्याः पलायिताः ॥ ४२॥
विरोचनादयः सर्वे मूर्छिता धरणीतले ।
जयवन्तः सुरेन्द्रास्ते वदन्तः स्म प्रहर्षिताः ॥ ४३॥
एतद् दृष्ट्वा महाश्चर्यं सुन्दरप्रिय आगतः ।
ज्येष्ठपुत्रो मत्सरस्य युयुधे सर्वदैवतैः ॥ ४४॥
शस्त्रास्त्रैर्मल्लयुद्धैस्तन् मर्दितं तेन सर्वशः ।
देवसैन्यं दिक्षु तत्र पलायत भयातुरम् ॥ ४५॥
शोणितप्रस्रवास्तत्र नद्यो जाताः प्रजापते ।
इन्द्रोऽपि युयुधे तेन दैत्यपुत्रेण धीमता ॥ ४६॥
वज्रेण निहतस्तत्रेन्द्रेण दैत्यो महाबलः ।
न चचाल तदाश्चार्यमिन्द्रचेतसि सङ्गतम् ॥ ४७॥
दैत्यपुत्रः समागत्य स्वङ्गेनैरावतं गजम् ।
मूर्छितं कारयामास वज्रिणं च पदाग्रहीत् ॥ ४८॥
मर्दयित्वा सुरेशानं स्ववशं च चकार ह ।
धृत्वा पुरन्दरं सोऽपि स्वस्थानमगमन्मुदा ॥ ४९॥
दैत्यैः सम्पूजितस्तत्र महाबलपराक्रमः ।
सुन्दरप्रियपुत्रोऽभून् मत्सरस्य प्रहर्षितः ॥ ५०॥
देवाः केचिद् धृतास्तत्र केचिद्वै मूर्छिताः कुताः ।
केचित् पलायिता दक्ष भग्नाः केऽपि विचूर्णिताः ॥ ५१॥
एवं स सकलान् देवान् वशांश्चक्रे महाबलः ।
मत्सरासुर एवाऽयं स्वर्गाधीशो बभूव ह ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरविजय इन्द्रपराजयो नाम सप्तविंशतितमोऽध्यायः ॥ १.२७
(Page खं. १ अ. २८ पान ६५)
१.२८ मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
देवाश्च शरणं केचित् कश्यपादीन् समाययुः ।
विह्वला भयभीतास्ते शशंसुर्दैत्यचेष्टितम् ॥ १॥
देवा ऊचुः ।
मत्सरेण प्रदुष्टेन जिता देवाः सवासवाः ।
इन्द्रो धृतो महाभाग वयं शरणमागताः ॥ २॥
रक्ष त्वं मुनिशार्दूल त्वं पिता भयविह्वलान् ।
जीवनाशसमाद् दुःखादिन्द्रं मोचय मत्सरात् ॥ ३॥
देवानां वचनं श्रुत्वा वसिष्ठादिसमन्वितः ।
ब्रह्माणं प्रययौ देवैः कश्यपो वंशवृद्धये ॥ ४॥
सत्यलोके समासीनं गत्वा दृष्ट्वा ननाम च ।
स्तुत्वा तं विविधैर्वाक्यैः प्राञ्जलिः प्रत्युवाच ह ॥ ५॥
कश्यप उवाच ।
मत्सरेण धृतः स्वामिन्निन्द्रो देववरैः सह ।
देवस्थानपतिर्जातो दैत्यः परमदारुणः ॥ ६॥
देवा दैत्याः पदे स्वे स्वे यथायोग्ये वसन्ति वै ।
तथा कुरु जगन्नाथ त्वं धाता च गतिर्हि नः ॥ ७॥
कश्यपस्य वचः श्रुत्वा देवांश्चर्षीनथाऽब्रवीत् ।
पितामहः प्रजानाथ हृदयेन विदूयता ॥ ८॥
ब्रह्मोवाच ।
शृणुध्वं मुनयो देवाः शिवप्राप्तवरोऽसुरः ।
अजेयः सर्वभूतानां देवादीनां विशेषतः ॥ ९॥
न शक्तोऽहं कदा कर्तुं यथायोग्यं स्वभावतः ।
गच्छामि शरणं विष्णुं भवद्भिः सह पालकम् ॥ १०॥
वैकुण्ठमगमद् ब्रह्मा देवैश्च मुनिभिः सह ।
गत्वा विष्णुं नमस्कृत्य स्तुत्वोवाच प्रजापतिः ॥ ११॥
मत्सरेण धृतो युद्धे इन्द्रो देववरः प्रभो ।
किं स्थितोऽसि महाविष्णो त्वं पालक इति श्रुतः ॥ १२॥
ब्रह्मणो वचनं श्रुत्वा विष्णुस्तं प्रत्युवाच ह ।
न शक्यते मया धातर्वशं कर्तुं महासुरम् ॥ १३॥
शिवस्य वरदानेन मत्तोऽसौ दैत्यपुङ्गवः ।
तस्माच्च शरणं यामः शङ्करं नात्र संशयः ॥ १४॥
ब्रह्मादिभिः स्वयं विष्णुः कैलासमगमत्किल ।
शङ्करं प्रणिपत्याऽह सर्वैर्मुनिगणैः सह ॥ १५॥
विष्णुरुवाच ।
नमस्ते भगवन् शम्भो नमस्ते शूलपाणये ।
नमस्ते जगतां नाथ सर्वसाक्षिन्नमोस्तु ते ॥ १६॥
नमो नमो महादेव स्रष्ट्रे राजसरूपिणे ।
पात्रे विष्णुस्वरूपाय हन्त्रे रुद्रस्वरूपिणे ॥ १७॥
पञ्चवक्त्रधरायैव योगिने योगदायिने ।
निर्गुणाय निरूपाय ब्रह्मभूताय ते नमः ॥ १८॥
मत्सरेण महादेव पीडितास्ते सुरर्षयः ।
धृत इन्द्रः सुराधीशो मर्दयित्वा सुरान् परम् ॥ १९॥
भयभीता वयं तेन शरणं त्वामुपागताः ।
रक्ष नो देवदेवेश त्वं श्रेष्ठो देवपालक ॥ २०॥
विष्णोर्वचनमाकर्ण्य शिवश्चिन्तातुरः स्वयम् ।
उवाच तान् देवमुनीन् विष्णुमुख्यान् महेश्वरः ॥ २१॥
शिव उवाच ।
तपसोग्रेण देवेश मया दैत्यो विवर्धितः ।
वरैर्महादुर्लभैश्च किं करोमि जनार्दन ॥ २२॥
दैत्यो नाशयितुं विष्णो न शक्यः स कदाचन ।
विचारं कुरु देवेश त्वं बुद्धियुत एव हि ॥ २३॥
शिवस्य वचनं श्रुत्वा विष्णुः परमकम्पितः ।
उवाच दुःखयुक्तेन हृदयेन सुरेश्वरम् ॥ २४॥
विष्णुरुवाच ।
कर्ता त्वमन्यथा कर्ता ह्यकर्ता नात्र संशयः ।
विपरीतं त्वयोक्तं चेद्वयं किं करवामहे ॥ २५॥
तव वै सन्निधौ देव वसामश्च सदाशिव ।
(Page खं. १ अ. २९ पान ६६)
वयं दैत्यवशा नैव चराम इति मे मतिः ॥ २६॥
वैकुण्ठादिपदं त्यक्त्वा तव सन्निधिमागताः ।
अधुना मत्सरो दैत्य आगमिष्यति तत्र सः ॥ २७॥
वैकुण्ठं सत्यलोकं च गृहीत्वा सुखमेष्यति ।
तव स्थानं न कैलासं भक्तत्वाद्वै ग्रहीष्यति ॥ २८॥
विष्णोश्च वचनं श्रुत्वा शिवो निःश्वाससंयुतः ।
स्थितस्तत्रैव दक्ष त्वं शृणु मत्सरचेष्टितम् ॥ २९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः ॥ १.२८
१.२९ शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
इन्द्रं धृत्वा महादैत्यो मत्सरो हर्षसंयुतः ।
ऐरावतसमारूढो ययौ ताममरावतीम् ॥ १॥
विरोचनमुखैर्वीरैः संवृतो दैत्यपुङ्गवः ।
शुशुभे तत्र तेजस्वी प्रभावेण बलेन च ॥ २॥
इन्द्रासने समासीनं तं ययुश्चाप्सरोगणाः ।
गंर्धवाश्चारणाश्चैव भयभीताः समन्ततः ॥ ३॥
सिषेविरे महाभागं मत्सरं त्वमितौजसम् ।
सर्वभावेन तं हृष्टं चक्रुः सर्वे स्वविद्यया ॥ ४॥
देवोद्यानेषु सर्वेषु विचचार महासुरः ।
कुशलो देवभोगेषु भोगांश्च बुभुजे परान् ॥ ५॥
देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् ।
दैत्येभ्यो मुख्यमुख्येभ्यो बलेन सहितो मुने ॥ ६॥
दत्तानि यानि स्थानानि स्थितास्तेषु महासुराः ।
नानारूपान् देवभोगान् बुभुजुस्तत्र संस्थिताः ॥ ७॥
मत्सरं सेवमानास्ते ह्यतिदर्पेण संवृताः ।
एकस्मिन् दिवसे भौम इन्द्रासनसमाश्रितः ।
मत्सरो हर्षयुक्तः सन् दैत्यान् प्रोवाच गर्वितः ॥ ८॥
मत्सरासुर उवाच ।
भो भो विरोचनाद्याश्च शृणुध्वं च वचोऽसुराः ।
ब्रह्मादयो महाभागाः कथमत्रैव नागताः ॥ ९॥
नमस्यन्ति न देवेशा मां यदा मत्सरान्विताः ।
सर्वं मदं तदा तेषां हरिष्यामि न संशयः ॥ १०॥
मत्सरस्य वचः सर्वे तुष्टुवुर्दैत्यदानवाः ।
दूतं सम्प्रेषयामास मत्सरः क्रोधसंयुतः ॥ ११॥
गच्छ दूत त्रयाणां त्वं ब्रह्मादीनां पदेषु वै ।
देवेशान् वद वाक्यं मे सावधानेन चेतसा ॥ १२॥
दर्शनार्थं मत्सरस्य यान्तु देवा मया सह ।
नोचेन्मत्सरदैतेयस्ताडयिष्यति निश्चितम् ॥ १३॥
मत्सरस्य वचः श्रुत्वा गतो दूतो बलान्वितः ।
अन्धको नाम दैत्येन्द्रो महावेगसमन्वितः ॥ १४॥
सत्यलोके स धातारं न ददर्श महाबलः ।
शून्यां तां नगरीं वीक्ष्य गतो वैकुण्ठमादरात् ॥ १५॥
तत्रापि तादृशं दृष्ट्वा गतः कैलासमेव सः ।
तत्रानन्दयुतान् सर्वान् देवांश्चर्षीन् ददर्श च ॥ १६॥
सभामध्यगतो दैत्यः शिवचारैः प्रवेशितः ।
आसनस्थेन शर्वेण आसने विनिवेशितः ॥ १७॥
कैलासविभवं दृष्ट्वा विस्मितो मानसेऽभवत् ।
सदानन्दमयं धन्यं मन्यमानः स्वचेतसि ॥ १८॥
पृच्छन्तं शङ्करं दैत्य उवाच बलगर्वितः ।
(Page खं. १ अ. २९ पान ६७)
तृणीकृत्य महेशानं सर्वान् देवांस्तदान्धकः ॥ १९॥
अन्धक उवाच ।
मत्सरासुरवाक्यं च शृणुध्वं सुरसत्तमाः ।
जित्वेन्द्र देवनाथं च जातोऽहं जगदीश्वरः ॥ २०॥
अतो मद्दर्शनार्थं च भवन्तोऽपि सहानुगाः ।
ब्रह्मा विष्णुश्च रुद्रश्च आगच्छन्तु मदन्तिकम् ॥ २१॥
तस्माद्भवद्भिरद्यैव मया सह सुरेश्वराः ।
आगन्तव्यं मत्सरस्य दर्शनार्थं तु सत्वरम् ॥ २२॥
अन्धकस्य वचः श्रुत्वा शिवः क्रोधसमन्वितः ।
उवाच तं महादैत्यं मुखादग्निं समुद्गिरन् ॥ २३॥
शिव उवाच ।
किं मां वदसि पापिष्ठ तृणीकृत्य च यत् वचः ।
मद्वरस्य प्रभावेण मत्सरो विजयी ध्रुवम् ॥ २४॥
यदाऽहं क्रोधसंयुक्तस्तदा भस्ममयं खलम् ।
करिष्यामि न सन्देहः सासुरं मत्सरं खलु ॥ २५॥
मत्सराज्ञावशोऽहं रे किं प्रजातोऽसुराधम ।
मत्वा त्वां मूढ दूतेति मोचयामि न संशयः ॥ २६॥
गच्छ तं मत्सरं दैत्यं वद वाणीं मयेरिताम् ।
नोचेत्त्वां भस्मसात् कुर्यां कुपितोऽहं खलोत्तम ॥ २७॥
शिवस्य वचनं श्रुत्वा मत्सरं त्वन्धको ययौ ।
कथयामास वृत्तान्तं सर्वदैत्ययुताय च ॥ २८॥
विभवं वर्णयामास कैलासस्य यथायथम् ।
ब्रह्माण्डे न समं किञ्चित् कैलासस्य महासुराः ॥ २९॥
अन्धकस्य वचः क्रूरं श्रुत्वा दैत्याः महाबलाः ।
विरोचनमुखाः सर्वे मत्सरं क्रूरमब्रुवन् ॥ ३०॥
किं स्थितोऽसि महाबाहो जेष्यामस्त्वत्प्रसादतः ।
देवत्रयं न सन्देह आज्ञां देह्यसुरेश्वर ॥ ३१॥
दैत्यानां वचनंश्रुत्वा तेजोयुक्तं स मत्सरः ।
उवाच क्रोधसंयुक्तस्तान् दैत्यान् हर्षयन्निव ॥ ३२॥
मत्सर उवाच ।
मया तपःप्रभावेण प्राप्तं तेजो महाद्भुतम् ।
तत्र शम्भुर्वृथा मानी स्वात्मानं मन्यतेऽर्थदम् ॥ ३३॥
तपोहीनाय राज्यं वै ब्रह्माण्डस्य ददाति चेत् ।
तदायं जगदीशो वै मन्यते नान्यथा मया ॥ ३४॥
अतः शम्भुं विजेष्यामस्तपस्तेजः समन्वितः ।
दर्पं तस्य हरिष्यामि वृथा ब्रह्मेति मानिनम् ॥ ३५॥
वेदान्ते ब्रह्मवेदेषु कथितं निर्विकपल्कम् ।
तदेव सर्वमान्यं वै जगदीशतया बभौ ॥ ३६॥
सकामकर्मणा सर्वं प्राप्यते मनुजस्तथा ।
ब्रह्मार्पणतया कर्म कृतं चेन्मुक्तिराप्यते ॥ ३७॥
अखिलं कर्मणा सृष्टं पालितं च प्रहीयते ।
तत्र किं तैस्त्रिभिर्देवैः क्रियते कर्मजैः खलु ॥ ३८॥
कर्मणाऽहं सृजाम्येव पालयामि हरामि च ।
कर्माधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ३९॥
एवमुक्त्वा महादैत्यो विरोचनमुखैर्वृतः ।
आययौ शङ्करस्थानमावेशेन समन्वितः ॥ ४०॥
नानाशस्त्रास्त्रधाराभिर्हतास्तत्र बहिः स्थिताः ।
शिवचाराश्च तैः सर्वे पलायन्त च पीडिताः ॥ ४१॥
छिन्नभिन्नाङ्गदेहाश्च ययुः शङ्करसन्निधौ ।
ऊचुः समागतो दैत्यैः सर्वैः साकं स मत्सरः ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः ॥ १.२९
(Page खं. १ अ. ३० पान ६८)
१.३० शिवादिपराजयो नाम त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
गणानां च पिशाचानां वचनं दारुणं महत् ।
श्रुत्वा शिवः स्वयं तत्र युद्धार्थं दंशितोऽभवत् ॥ १॥
ब्रह्मा विष्णुश्च कामश्च वसवो धनदोऽभवत् ।
चन्द्रः सूर्यस्तथा वह्निसमीराद्याश्च दंशिताः ॥ २॥
कालाग्निरुद्रमुख्या ये भैरवो भूतनायकः ।
कृत्वा युद्धक्षमं वेषं स्थिताः शङ्करसन्निधौ ॥ ३॥
अष्टभैरवमुख्याश्च वीरभद्रादयोऽभवन् ।
नन्दी भृङ्गी पुष्पदन्तमहाकालरवाः स्थिताः ॥ ४॥
महाकालीमुखास्तत्र देव्यः शस्त्रधराऽऽययुः ।
एवं नानाविधैः सैन्यैर्वृतः शम्भुर्महेश्वरः ॥ ५॥
वृषारूढो महातेजा आययौ युद्धलालसः ।
यत्र दैत्याः स्थितास्तत्र कार्तिकेयादिभिर्युतः ॥ ६॥
शङ्करं सैन्यसंयुक्तं नानायुद्धविशारदम् ।
नानाशस्त्रधरं दृष्ट्वा दैत्येशाश्चिक्षिपुः शरान् ॥ ७॥
तद् दृष्ट्वा कुपिता देवाः शस्त्रास्त्रैस्तानताडयन् ।
एवं परस्परं युद्धमभवद्दारुणं महत् ॥ ८॥
देवानां चैव दैत्यानामन्योन्यजयकाङ्क्षिणाम् ।
शस्त्रास्त्रनिचयैर्बाणैरन्धकारः प्रवर्तितः ॥ ९॥
सैन्यानां रजसा व्याप्तमाकाशं सर्वतो बभौ ।
न प्राज्ञायत तत्रैव स्वीयो वाऽपर एव च ॥ १०॥
घण्टानां शङ्खतूर्याणां वीराणां रथिनां तथा ।
बृंहितानां हेषितानां शब्दैस्तद्वधिरीकृतम् ॥ ११॥
देवान् दृष्ट्वा सुरा जघ्नुर्दैत्यान् देवास्तथापरे ।
असम्बन्धं महायुद्धं चक्रिरे सुरदानवाः ॥ १२॥
शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयम् ।
मल्लयुद्धं महावीराश्चक्रुस्तत्र मदान्विताः ॥ १३॥
सङ्ग्रामे तुमुले तत्र प्रवृत्ते घोररूपिणि ।
मृता मुमूर्षवः केचिच्छिन्नभिन्नास्तथाऽभवन् ॥ १४॥
नानाजन्तुशरीरेभ्यः प्रवृत्ता रक्तसम्भवा ।
नदी बभौ महाघोरा मांसकर्दमशालिनी ॥ १५॥
रक्ता चास्थिबलाका च केशशैवालशोभिता ।
चापसर्पाशिरःपद्माकबन्धद्रुमवाहिनी ॥ १६॥
भल्लकाष्ठा महाघोरा चामरैस्तृणकैर्युता ।
छत्रावर्ता दुर्गमा च चर्मपट्टिशदर्दुरा ॥ १७॥
भीरुभीतिकरा चैव वीरहर्षप्रवर्धिनी ।
तां दृष्ट्वा दैत्यराजास्ते क्रोधयुक्ताः समाययुः ॥ १८॥
तैः समन्ताद्बलं भग्नं देवानां सर्वमञ्जसा ।
बाणजालैर्दिशो व्याप्ता गन्तुं मार्गो न विद्यते ॥ १९॥
पलायनपरा देवाः सर्वे दशदिशोऽगमन् ।
तद् दृष्ट्वा देवराजास्तान् वारयामासुरोजसा ॥ २०॥
द्वन्द्वयुद्धं च तत्रासीत्परस्परविनाशनम् ।
देवानां मुख्यदैत्यानां किञ्चित्तेषां वदामि ते ॥ २१॥
नमुचिः कामदेवेन युयुधे बलसंयुतः ।
शम्बरो वायुना सार्द्ध शुम्भो देव्या महाबलः ॥ २२॥
चन्द्रेणाऽपि निशुम्भश्च गुहेन च विरोचनः ।
कालभैरवदेवेन कालभैरवदानवः ॥ २३॥
महिषासुरदैतेयः कालाग्न्यारूपहरेण च ।
प्रह्लादो विष्णुना सार्धं विप्रचित्तिश्च भानुना ॥ २४॥
अन्धकासुरनामा च वीरभद्रेण संयुतः ।
अग्निना चैव दुर्बुद्धिर्युयुधे बलसंयुतः ॥ २५॥
विषयप्रिय एवाऽसौ ब्रह्मणा युयुधे भृशम् ।
शम्भुना युयुधे तत्र सुन्दरप्रिय एव सः ॥ २६॥
(Page खं. १ अ. ३० पान ६९)
मत्सरासुरदैत्येशो युद्धं द्रष्टुं स्थितोऽभवत् ।
एवं नानाद्वन्द्वयुद्धं शतशोथ सहस्रशः ॥ २७॥
सङ्ख्यातुं नैव शक्यं तदपारत्वात् प्रजापते ।
शस्त्रास्त्रैरसुरा जघ्नुः सुरांस्तानपि ते सुराः ॥ २८॥
अग्निवाय्वादिकास्त्राणि तत्यजुः क्रोधसंयुताः ।
चकम्पे च त्रिभुवनं दारुणे संयुगे तदा ॥ २९॥
देवासुरप्रणाशश्च महांस्तत्र प्रवर्तितः ।
शोणितौघैः प्रवृत्तास्तु नद्यः परमदारुणाः ॥ ३०॥
एवं सप्त दिवानक्तं गतं तेषां प्रयुध्यताम् ।
नासुरा न च देवास्ते विरामं चक्रुरञ्जसा ॥ ३१॥
ततश्च कुपिता देवा अत्यन्तं शङ्करादयः ।
दैत्यानामस्त्रसङ्घातानस्त्रैः संवार्य तान् पुनः ॥ ३२॥
ताडयामासुरव्यग्रा अस्त्रैर्नानाविधैः परम् ।
मूर्छितान् पतितांश्चक्रुर्मृतान् सञ्चूर्णितान् परान् ॥ ३३॥
ततो दश दिशो दैत्या वव्रजुर्भयसङ्कुलाः ।
त्रिशूलादि महाशस्त्रैस्तत्रापि तु सुरा बभुः ॥ ३४॥
सुन्दरप्रियकाद्याश्च मूर्च्छिता धरणीं गताः ।
मृतप्रायाः कृतास्तैस्ते विष्ण्वादिभिरथो मुने ॥ ३५॥
तद् दृष्ट्वा क्रोधसंयुक्तो मत्सरः स्वयमाययौ ।
कृत्वा नादं महाघोरं ब्रह्माण्ड कम्पयन्निव ॥ ३६॥
धनुश्चक्रे सनादं वै तेन संशयिताः सुराः ।
बाणवृष्टिं ससर्जासौ दारुणां शत्रुनाशिनीम् ॥ ३७॥
तस्य बाणैः सुराः सर्वे मर्दिता बलवत्तरम् ।
मृताः केचित् क्षताः केचिन् मूर्च्छिता पतिता मृधे ॥ ३८॥
पञ्चबाणैश्च सेनान्यं ताडयामास वक्षसि ।
पतितः स धरापृष्ठे मूर्च्छितो भृशविह्वलः ॥ ३९॥
अग्निं च सप्तभिर्बाणैर्नन्दिनं दशभिस्तथा ।
ताडयामास दैत्येन्द्रः पतितं रणमूर्धनि ॥ ४०॥
दशभिर्वीरभद्रं स सवितारं ततोष्टभिः ।
चन्द्रं च सप्तभिर्बाणैः पातयामास दैत्यपः ॥ ४१॥
अनिलं नवभिश्चैव कालाग्निं रुद्रमष्टभिः ।
दशभिश्च महाकालीं ताडयामास मत्सरः ॥ ४२॥
पञ्चभिः पञ्चभिश्चैव गणपान् भृङ्गिमुख्यकान् ।
बाणैः स पातयामास प्रलयाग्निसमद्युतिः ॥ ४३॥
कुबेरं दशभिश्चैव ताडयामास वक्षसि ।
ब्रह्माणं शतबाणैश्च पातयामास भूतले ॥ ४४॥
एवं तस्याद्भुतं कर्म दृष्ट्वा विष्णुः समाययौ ।
बाणैः सहस्रसङ्ख्याकैर्ववर्षे घनवद् भृशम् ॥ ४५॥
दैत्यो बाणान्निवार्यैव तैः शरैः क्रोधसंयुतः ।
शतेन ताडयामास पतितः स धरातले ॥ ४६॥
ततश्च शङ्करः क्रुद्धस्त्रिशूलेनाहनद् भृशम् ।
त्रिशूलं निष्फलं तत्र पतितं धरणीतले ॥ ४७॥
पाशं दैत्यपतिः क्षिप्त्वा सहसा शङ्करं ततः ।
गृहीत्वा पशुवत् कण्ठे आनयामास सन्निधौ ॥ ४८॥
धृत्वा शम्भुं महाबाहुर्वदति स्म च तं मुने ।
अतुलं किं त्वया मेऽद्य दत्तं वद सदाशिव ॥ ४९॥
कर्मणा त्वं समर्थश्च तथाहं कर्मणा किल ।
जगदीश्वरतां प्राप्तो वृथाहङ्कारवानसि ॥ ५०॥
(Page खं. १ अ. ३१ पान ७०)
क्रमेण विष्णुमुख्याश्च देवान् धृत्वा महाबलः ।
कैलासशिखरे रम्ये रेमे दैत्यसमन्वितः ॥ ५१॥
सर्वपूज्यतमो भूत्वा दैत्यः परमहर्षितः ।
नानाकौतुकयुक्तश्च भोगांश्च बुभुजे परान् ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते शिवादिपराजयो नाम त्रिंशोऽध्यायः ॥ १.३०
१.३१ दत्तात्रेयसङ्गमो नामैकत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शृणु दक्ष महाश्चर्यं दैत्यस्य च विचेष्टितम् ।
ब्रह्माण्डाधिपतिर्जातो मत्सरः कर्मणा स्वयम् ॥ १॥
सुन्दरप्रियपुत्रं च कैलासाधिपतिं ततः ।
चक्रे वैकुण्ठनाथं तं पुत्रं स्वं विजयप्रियम् ॥ २॥
प्रह्लादं सत्यलोकेशं माहेन्द्रेशं विरोचनम् ।
एवं चक्रे च राजेशः स्वर्गाधीशान् स दैत्यपान् ॥ ३॥
स्वयं भूमिं समागम्य नगरं निर्ममे ततः ।
मत्सरावासकं नाम तत्रैव न्यवसन्मुदा ॥ ४॥
त्रैलोक्यं वशगं सर्वं चकार स्वेन तेजसा ।
शिवादयश्च देवेन्द्रा गृहे तस्य समास्थिताः ॥ ५॥
तान् समानाय्य दैत्येशो हर्षयुक्तेन चेतसा ।
उवाच मधुरं वाक्यं सामयुक्तं महासुरः ॥ ६॥
शृणु शम्भो महाभाग देवेन्द्रैः सह देवप ।
यत्रेच्छा गच्छ तत्र त्वं मदाज्ञां पालयन् सदा ॥ ७॥
एवमुक्त्वा स दैत्येन्द्रो मोचयामास शङ्करम् ।
देवैः सह महाभागो मत्सरो हर्षसंयुतः ॥ ८॥
शिवोऽपि देवसङ्घातैः पर्वतद्रोणिमाश्रितः ।
चिन्ताविष्टो महादेवः कालं पश्यंश्च संस्थितः ॥ ९॥
यत्र तत्र गुहायां ते देवा विष्णुपुरोगमाः ।
संस्थिता भयभीताश्च दिवसानतिचक्रमुः ॥ १०॥
पृथिव्यां दैत्यराजेन ततो धर्मस्य खण्डनम् ।
कृतं सर्वत्र तेनैव हाहाकारोऽभवन् महान् ॥ ११॥
देवानां प्रतिमा यत्र तां भङ्क्त्वा चिक्षिपुर्जले ।
दैत्यास्तदाज्ञया दक्ष धर्मलोपं प्रचक्रिरे ॥ १२॥
मत्सरस्य च दैतेयाः प्रतिमाः सर्वभावतः ।
देशे देशे पुरे ग्रामे स्थापयामासुरञ्जसा ॥ १३॥
गृहे गृहे च देवानां प्रतिमां संस्थितां पराम् ।
तां भङ्क्त्वा जलमध्ये ते चिक्षिपुश्च प्रजापते ॥ १४॥
मत्सरप्रतिमां कृत्वा प्रतिगेहं ददुस्ततः ।
देत्याः सुदारुणा विश्वं त्रासयामासुरेव च ॥ १५॥
ब्राह्मणांश्च समानीय ताडयामास मत्सरः ।
ममैव मन्त्रसूक्तेन यज्ञादि क्रियतां द्विजाः ॥ १६॥
मम नाम्ना च गायत्रीं युक्तां जपत मा चिरम् ।
अग्निहोत्रादिकं कर्म कुरुध्वं मन्मतं तथा ॥ १७॥
अहमेवेश्वरो देवो ब्राह्मणादि जनस्य च ।
भजतां मम पादौ च दुर्लभं किं भविष्यति ॥ १८॥
धनधान्यादिकं सर्वं स्वर्गभोगादिसंयुतम् ।
दास्यामि नात्र सन्देहो मदधीनं जगत्सदा ॥ १९॥
(Page खं. १ अ. ३१ पान ७१)
मम प्रीतिकरा येन दैत्या भोज्यैः प्रपूजिताः ।
तेन सन्तर्पितो नूनं वाञ्छितं पूरयाम्यहम् ॥ २०॥
एवमादि स सर्वत्र नानाधर्मनिकृन्तनम् ।
कारयामास दुर्बुद्धिर्मत्सरो मत्सरान्वितः ॥ २१॥
केचिदृषिगणा दक्ष वनं व्याघ्रादिसंयुतम् ।
जग्मुस्तत्र क्रियाः सर्वाश्चक्रुर्धर्मपरायणाः ॥ २२॥
देहरक्षणसक्ताश्च मुनयो भ्रंशमागताः ।
सर्ववर्णपरिभ्रष्टा जना जाताः प्रजापते ॥ २३॥
यजनं याजनं तत्र स्वधर्मादिस्वभावजम् ।
कर्म सर्वं न चक्रुस्ते जनास्तद्भयभाविताः ॥ २४॥
न स्वाहा न स्वधा कुत्र न वषट्कार आभवत् ।
वर्णसङ्करकृल्लोकाः स्थिता भयसमन्विताः ॥ २५॥
एवं पापस्य वृद्धिश्च सञ्जाता भयदायिनी ।
ततो देवगणाः सर्वे उपोषणनिपीडिताः ॥ २६॥
विचारं तत्र चक्रुस्ते मत्सरस्य विनाशने ।
न च किञ्चिद्भयोद्विग्ना नाशार्थं शेकुरोजसा ॥ २७॥
एतस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ ।
साक्षाद् ब्रह्ममयो योगी न्यस्तस्वपरविभ्रमः ॥ २८॥
मलिनो जडवल्लोके भ्रमति स्म पिशाचवत् ।
चेष्टितैश्चेष्टते नग्नो बालवद् द्वन्द्वकारकः ॥ २९॥
उन्मत्तवन्महाभागो भयं नैव प्रविन्दति ।
आत्रेयो गणराजस्य भक्तः परमशोभनः ॥ ३०॥
तं दृष्ट्वा देवसङ्घास्ते समुत्तस्थुः सुसादराः ।
प्रणेमुः कार्यसिध्यर्थं पूजयामासुरञ्जसा ॥ ३१॥
पादसंवाहनं तस्य चक्रुः केचन भावतः ।
फलादिना च नैवेद्यमर्पयामासुरादरात् ॥ ३२॥
पप्रच्छुर्भुक्तवन्तं तं विनयेन समन्विताः ।
शम्भुविष्णुमुखाः सर्वे भयभीता महामुनिम् ॥ ३३॥
शिव उवाच ।
स्वामिंस्त्वं द्वन्द्वहीनश्च नित्यमानन्दभाक् परः ।
न्यस्तस्वपरभावश्च तथाऽपि जनवत्सलः ॥ ३४॥
गणेशस्य वरो भक्तः साक्षाद्गणपतिः स्वयम् ।
योगभावेन सम्पन्नो योगी योगविदां वरः ॥ ३५॥
तथापि दुःखितान् दृष्ट्वा मनस्ते कलिलं भवेत् ।
उपाधिहीनभावेन दुःखनाशं करोषि वै ॥ ३६॥
अतो वयं महाभाग पीडिता मत्सरेण वै ।
भ्रष्टस्थाना वने सर्वे चरामः श्वापदा इव ॥ ३७॥
अत्राऽपि धर्मलोपेन पीडिता वयमुत्कटम् ।
उपोषणपराः स्वामिन् मरिष्यामो महामते ॥ ३८॥
अत्र ते दर्शनं प्राप्तं पूर्वपुण्यबलेन भोः ।
तेन दुःखविहीनाश्च भविष्यामो न संशयः ॥ ३९॥
अतो मत्सरदैत्यस्य नाशोपायं वद प्रभो ।
येन सर्वं जगत्क्लिष्टं तत् सुखं कुरु मानद ॥ ४०॥
एकस्य दोषयोगेन बहवः पीडिता यदि ।
अनुपाधितया योगी तं दोषं नाशयिष्यति ॥ ४१॥
शक्तश्चेत् स्वस्वभावेन सर्वेभ्यः सुखदायकः ।
अतस्त्वं रक्ष योगीश जगत् कृत्स्नं विशेषतः ॥ ४२॥
मुद्गल उवाच ।
शिवस्य वचनं श्रुत्वा देवान् दीनतमान् परान् ।
दृष्ट्वा स करुणायुक्तः प्रत्युवाच च हर्षयन् ॥ ४३॥
दत्तात्रेय उवाच ।
(Page खं. १ अ. ३२ पान ७२)
शृणु शम्भो जगन्नाथ त्वं साक्षादीश्वरः शिवः ।
तवाधीनमिदं सर्वं त्वां ब्रुवे किं महामते ॥ ४४॥
तथापि वच्मि देवेश त्वदाज्ञासम्प्रचोदितः ।
येन त्वं देवसंयुक्तः सुखं विन्दसि शाश्वतम् ॥ ४५॥
त्वदीये हृदये शम्भो मत्सरः संस्थितोऽधुना ।
ईश्वरोऽहमिदं सर्वं मदधीनं प्रवर्तते ॥ ४६॥
न मत्समस्त्रिभुवने इति यन् मत्सरः स च ।
जहि तं योगमार्गेण हृदयस्थं महासुरम् ॥ ४७॥
श्रेष्ठं दृष्ट्वा महेर्ष्या ते जायते या महामते ।
जहि तां तपसा शम्भो गणेशस्य प्रसेवया ॥ ४८॥
एकाक्षरविधानेन मयाऽसौ सेवितः पुरा ।
तेनाऽहं च गणाधीशो न भिन्नौ मयि तिष्ठतः ॥ ४९॥
अतस्त्वं योगमार्गेण गणेशं सर्वसिद्धिदम् ।
एकाक्षरविधानेन तमाराधय यत्नतः ॥ ५०॥
हृदिस्थं मत्सरं हत्वा पश्चात्तं जहि दानवम् ।
योगेन त्वं समर्थो हि भविताऽसि न संशयः ॥ ५१॥
एवमुक्त्वा महादेवं गतोऽसौ मुनिसत्तमः ।
यदृच्छया चरन् सन् वै सेवते गणनायकम् ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते दत्तात्रेयसङ्गमो नामैकत्रिंशोऽध्यायः ॥ १.३१
१.३२ वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शृणु दक्ष महाप्राज्ञ चेष्टितं परमं महत् ।
यत्कृतं सर्वदेवैस्तत् कथयामि समासतः ॥ १॥
गते मुनौ महाभागे शिवो हर्षसमन्वितः ।
गणेशं हृदि सञ्चिन्त्य ब्रह्मादींश्च वचोऽब्रवीत् ॥ २॥
शृणु विष्णो विधे देवाः शृणुध्वं सर्वतापसाः ।
ऋषयः संस्थिता अत्र वचनं हितकारकम् ॥ ३॥
आत्रेयेण च दत्तेनं कथितं दुःखनाशनम् ।
अत एकाक्षरेणैव प्रसादयत विघ्नपम् ॥ ४॥
शम्भोर्वचनमाकये मुनयो देवनायकाः ।
साधुसाध्वब्रुवन् सर्वे प्रसन्नाश्च तथाऽभवन् ॥ ५॥
तत एकाक्षरेणैव मन्त्रेण गणपं मुने ।
देवाश्च मुनयः सर्वे सेवयामासुरादरात् ॥ ६॥
महोग्रतपसा युक्ताः स्थितास्तत्र शिवादयः ।
आराधयंस्तु देवेशं गणेशं सर्वनायकम् ॥ ७॥
पद्मासनगताः केचिद्वीरासनगताः परे ।
स्वस्तिकासन आसीना एवं नानासने स्थिताः ॥ ८॥
निराहारतया केचित् स्थितास्तत्र प्रजापते ।
पत्रवायुभुजश्चान्ये प्राणायामपरायणाः ॥ ९॥
जलभक्ष्याः स्वपादाग्रस्थिताः केचिद् दृढासनाः ।
केचिन्मानसपूजाभिः पूजयामासुरञ्जसा ॥ १०॥
(Page खं. १ अ. ३२ पान ७३)
केचित् पुष्पोपहाराद्यैर्यत्नतः समपूजयन् ।
प्रदक्षिणापराः केचिदेवं नानाविधानतः ॥ ११॥
तपन्तो गणपं चैव मन्त्रेण विधिपूर्वकम् ।
एकचित्तेन सर्वे ते तोषयामासुरञ्जसा ॥ १२॥
एवं वर्षसहस्रेण दिव्येन तपसा स्वयम् ।
प्रसन्नोऽभून् महातेजा वक्रतुण्डः प्रतापवान् ॥ १३॥
देवानां च ऋषीणां च ययौ चाग्रे गणाधिपम् ।
तेजसा पुञ्ज एवाऽसौ साक्षाद् ब्रह्ममयो बभौ ॥ १४॥
सिंहगो गजवक्त्रश्च शूर्पकर्णो महोदरः ।
चतुर्बाहुश्च पाशेनाङ्कुशेन वरदेन च ॥ १५॥
अभयेन समायुक्तो वामाङ्गे सिद्धिधारकः ।
दक्षिणाङ्गे च बुद्धिं वै दधानो भगवान् परः ॥ १६॥
नाभिशेषो मुकुटवान् कुण्डली कटकान्वितः ।
चिन्तामणिलसद्वक्षा व्यालयज्ञोपवीतवान् ॥ १७॥
नानाभूषणशोभाढ्यस्तेजसा ज्वलदद्भुतः ।
पुष्करं पुष्करे धृत्वा भ्रामयन् समुपाययौ ॥ १८॥
तं दृष्ट्वा देवविप्रास्ते भयभीताः समन्ततः ।
उदितं किमिदं तेजः प्रलयानलसन्निभम् ॥ १९॥
अथवा गणराजोऽयं किं वा स्वामी समागतः ।
अथवा प्रलयो भावी अकाले दैवनिर्मितः ॥ २०॥
इति तर्कसमायुक्तान् देवान् मुनिसमन्वितान् ।
उवाच वक्रतुण्डस्तान् मेघगम्भीरनिस्वनः ॥ २१॥
वक्रतुण्ड उवाच ।
भो भो मुनिगणा देवाः स एवाऽहं समागतः ।
यं ध्यायथ महाभागास्तं जानीत गणेश्वरम् ॥ २२॥
तपसा मन्त्रराजेन मम ध्यानेन सर्वशः ।
परितुष्टो वरं दातुमागतोऽहं न संशयः ॥ २३॥
मुद्गल उवाच ।
वक्रतुण्डवचः श्रुत्वा हर्षिता अमरर्षयः ।
प्रणेमुः प्रार्थयामासुः सौम्यभावं प्रविह्वलाः ॥ २४॥
तेषां प्रार्थितमाकर्ण्य सौम्यतेजा अभूत् प्रभुः ।
यथा तं मुनयो देवा अपश्यन् स्वेन चक्षुषा ॥ २५॥
सौम्यभावेन संयुक्तं वक्रतुण्डं सुरेश्वराः ।
मुनयस्तं प्रणम्योचुर्धन्या धन्या वयं प्रभो ॥ २६॥
अपूजयन् प्रयत्नेन भावेन स्नेहतस्तथा ।
उपचारैः षड्दशभिर्यथाविधि महेश्वराः ॥ २७॥
यथाविधि प्रणम्यैव तुष्टुवुः कृतमङ्गलाः ।
बद्धाञ्जलिपुटाः सर्वे भक्तिनम्रात्मकन्धराः ॥ २८॥
साश्रुनेत्राः सरोमाञ्चास्तद्दर्शनमहोत्सवाः ।
यथाज्ञानं यथान्यायं वक्रतुण्डं महौजसम् ॥ २९॥
देवर्षय ऊचुः ।
नमस्ते वक्रतुण्डाय गजवक्त्राय ते नमः ।
एकदन्ताय देवाय सर्वाधिपतये नमः ॥ ३०॥
निर्गुणाय निरूपाय चतुर्बाहुधराय ते ।
सिंहवाहाय नागानां पत्युर्नाभौ धराय च ॥ ३१॥
अनन्ताय ह्यपाराय दुर्लक्ष्याय नमो नमः ।
पाशाङ्कुशधरायैव नागयज्ञोपवीतिने ॥ ३२॥
वरदाभयहस्ताय सिद्धिबुद्धिवराय च ।
ब्रह्मभूताय भक्तानां ब्रह्मभूयकराय ते ॥ ३३॥
नमस्ते शम्भुरूपाय विष्णुरूपाय ते नमः ।
सूर्यरूपाय धात्रे च नमः शक्तिमयाय च ॥ ३४॥
दैत्यदानवरूपाय देवरूपधराय च ।
नमः पक्षिस्वरूपाय शुकरूपाय ते नमः ॥ ३५॥
ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे ।
(Page खं. १ अ. ३२ पान ७४)
पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥ ३६॥
जलजन्तुस्वरूपाय सर्परूपाय ते नमः ।
वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ ३७॥
चराचरमयायैव नमो नानाप्रभेदिने ।
कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ ३८॥
ज्ञानयोगाय देवाय स्वात्मरूपधराय ते ।
स्वसंवेद्यस्वरूपाय सदा योगमयाय ते ॥ ३९॥
नानाधारप्रधाराय शब्दब्रह्ममयाय ते ।
मायारूपाय मायायै मायाहीनाय ते नमः ॥ ४०॥
मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः ।
स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ ४१॥
भेदाभेदमयायैवानन्तपाराय ते नमः ।
भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ ४२॥
नमो नमः परेशायाव्ययाय च नमो नमः ।
गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ ४३॥
यं स्तोतुं न समर्थाश्च वेदाः साङ्गाश्च योगिनः ।
तं किं स्तुमो गणेशानं वक्रतुण्डस्वरूपिणम् ॥ ४४॥
मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् ।
ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ ४५॥
माया च ब्रह्मतुण्डं यद् द्वयोर्योगे भवेत्परम् ।
योगशान्तिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ ४६॥
मायादेहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम् ।
उभयोर्योगभावे त्वं वक्रतुण्डः प्रकथ्यते ॥ ४७॥
तं वक्रतुण्डं पश्यामः साक्षाद् योगमयं परम् ।
धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ ४८॥
धन्यं जन्म त्वक्षि धन्यं धन्याः सम्पद एव च ।
ज्ञानं धन्यं तपश्चैव येन दृष्टो गजाननः ॥ ४९॥
प्रसन्नो यदि देवेश यदि देयो वरः शुभः ।
तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः ॥ ५०॥
प्रार्थयामो वरं चैतं यतस्त्वं चिन्तितार्थदः ।
मत्सरासुरनाशं च वक्रतुण्ड कुरु प्रभो ॥ ५१॥
जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप ।
सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ ५२॥
स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः ।
तानुत्थाप्य स्वयं साक्षाद्वक्रतुण्ड उवाच ह ॥ ५३॥
वक्रतुण्ड उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् ।
भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ ५४॥
मत्सरासुरनाशं च करिष्यामि सुरर्षयः ।
भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ ५५॥
पञ्चभूतमयं सर्वं त्रिगुणं जगदुच्यते ।
अष्टावरणसंयुक्तं ब्रह्माण्डं हि सुरर्षयः ॥ ५६॥
अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः ।
नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ ५७॥
अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् ।
तथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥ १.३२
(Page खं. १ अ. ३३ पान ७५)
१.३३ मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एवमुक्त्वा सुरान् विप्रान् सस्मार बलमुत्कटम् ।
तस्य स्मरणमात्रेण प्रादुर्भूता गणाः प्रभोः ॥ १॥
प्रमोदामोदकाद्याश्च वक्रतुण्डा गजाननाः ।
चतुर्बाहुधराः सर्वे नानाशस्त्रास्त्रपाणयः ॥ २॥
केचित् सिंहसमारूढाः केचिन्मूषकवाहनाः ।
केचिन्मयूरमारूढाः शेषारूढास्तथापरे ॥ ३॥
अश्वारूढास्तथान्ये च मुकुटैः सुविराजिताः ।
कटकैः कुण्डलैश्चैव नानाभूषणराजिताः ॥ ४॥
भयङ्कराश्च शत्रूणां भक्तेभ्यः सुखदायकाः ।
महात्मानो महाशब्दा ब्रह्माण्डस्फोटकारकाः ॥ ५॥
नानाक्रीडासमायुक्ताः सदा स्वानन्दभाविताः ।
गणेशनाममाहात्म्यं कथयन्तः परस्परम् ॥ ६॥
वक्रतुण्डं नमस्कृत्य स्थिताः प्राञ्जलयोऽभवन् ।
आज्ञां कुरु गणाध्यक्ष करवामस्तवेप्सितम् ॥ ७॥
अस्माकं स्मरणं देव किमर्थं कृतमादरात् ।
दासान् त्वदीयपादस्य करिष्यामोऽखिलान् जनान् ॥ ८॥
तेषां वचनमाकर्ण्य वक्रतुण्डः प्रतापवान् ।
उवाच तान् महाभागान् मेघगम्भीरनिस्वनः ॥ ९॥
वक्रतुण्ड उवाच ।
शृणुध्वं मोदकाद्याश्च मत्सरासुरदैत्यपम् ।
हनिष्यामि महावीर्यं तेन युद्धं भविष्यति ॥ १०॥
अधुना दारुणं तत्र मया सह महाबलाः ।
एतदर्थं विशेषेण स्मरणं भवतां कृतम् ॥ ११॥
वक्रतुण्डवचः श्रुत्वा सर्वे हर्षसमन्विताः ।
गणा ऊचुः प्रणम्यैनं निबद्धकरसम्पुटाः ॥ १२॥
गणा ऊचुः ।
स्वामिन् वदसि यत्सर्वं तदाश्चर्यमयं बहु ।
मत्सरासुरनाशश्च एकेन क्रियतेऽधुना ॥ १३॥
त्वत्प्रसादात् सदा सर्वं सुलभं नो गणाधिप ।
आज्ञां कुरु महाभाग पश्य चैकस्य पौरुषम् ॥ १४॥
गणानां तद्वचो रम्यं श्रुत्वा प्राह गणाधिपः ।
वक्रतुण्डः प्रसन्नात्मा हर्षयन् सकलानिव ॥ १५॥
वक्रतुण्ड उवाच ।
भवद्भिः कथितं सर्वं तत्तथा न तदन्यथा ।
क्रीडार्थं निर्मितो दैत्यो मया मायाप्रभावतः ॥ १६॥
यदि क्षणेन तं दैत्यं नाशयामि प्रभावतः ।
तदा क्रीडा कथं देवा मया प्रक्रियते परा ॥ १७॥
अतस्तेन महाभागा युध्यध्वं मम सन्निधौ ।
अष्टावरणहीनेन हन्मि रूपेण तं क्षणात् ॥ १८॥
इति तस्य वचः श्रुत्वा गणा हर्षसमन्विताः ।
जगर्जुर्नादयन्तस्ते दिशो विदिश एव च ॥ १९॥
तद् दृष्ट्वा परमाश्चर्यं विस्मितास्ते सुरर्षयः ।
हर्षेण महता युक्ता मेनिरे मत्सरं हतम् ॥ २०॥
ततः सर्वान् समादाय गणान् देवान् मुनीनपि ।
वक्रतुण्डो ययौ तां च पुरीमीर्ष्याह्वयां पराम् ॥ २१॥
यत्र राज्यं च कुरुते मत्सरः स प्रतापवान् ।
ब्रह्माण्डस्य महावीरो नानाभोगसमन्वितः ॥ २२॥
देवाङ्गनापरिवृतः सदा तिष्ठति दैत्यपः ।
मद्यादिपानसंयुक्तो नानावीरपालितः ॥ २३॥
यद्यन्मनसि तेनापि चिन्तितं सफलं सदा ।
तत्तद्भवति सर्वं स्म तपसा वरदानतः ॥ २४॥
(Page खं. १ अ. ३३ पान ७६)
न बुबोध गतं कालं कालेनेव च वञ्चितः ।
धन्योऽहम्मन्यमानो न मत्समो मानसेऽपरः ॥ २५॥
एकस्मिन् दिवसे तत्र सभायां संस्थितोऽभवत् ।
वीरैः परिवृतो नाना नृत्यं पश्यन् विनोदतः ॥ २६॥
तत्राकाशात्तदा वाणी बभूव भयदायिका ।
आगतो मत्सरं हन्तुं वक्रतुण्डो महाबलः ॥ २७॥
श्रुत्वाऽऽकाशभवां वाणीं मूर्च्छितो मत्सरासुरः ।
पतितः शुष्ककण्ठश्च कम्पमानाङ्गविह्वलः ॥ २८॥
तं तथा पतितं दृष्ट्वाऽसुराः सर्वे भयातुराः ।
केनोक्तं परुषं वाक्यं हन्मस्तं त्वद्य निश्चितम् ॥ २९॥
ततः केचिन्नभोमार्गे बभ्रमुर्यत्र तत्र ते ।
ददृशुस्तं न तत्रापि सभायां पुनराययुः ॥ ३०॥
सर्वैः कृतः स दैत्येशः सावधानो यथा पुरा ।
उपविष्टः सभामध्ये हृदयेन विदूयता ॥ ३१॥
उवाच हि स्वतो वाचं मत्सरो भयविह्वलः ।
वचनं किमिदं सत्यमनृतं वा भविष्यति ॥ ३२॥
कालस्य कालरूपोऽहं मम मृत्युः कथं भवेत् ।
असत्या नभसो वाणी न ज्ञाता न श्रुताऽपि च ॥ ३३॥
अष्टावरणसंयुक्तं ब्रह्माण्डं सर्वमञ्जसा ।
अष्टावरणयुक्तेभ्यो मम मृत्युर्न जायते ॥ ३४॥
कोऽसौ वक्राननो जन्तुः कथितः कुत्र वर्तते ।
तं हनिष्यामि दृश्यश्चेत् क्षणमात्रान्न संशयः ॥ ३५॥
इति श्रुत्वा वचस्तस्य मत्सरस्य दुरात्मनः ।
ऊचुः प्रह्लादमुख्यास्तं विनयेन समन्विताः ॥ ३६॥
प्रल्हादादय ऊचुः ।
मा कुरुष्व महाभाग चिन्तां शत्रुनिषूदन ।
तव मृत्युः कथं भावी पश्चात् सूर्योदयः कथम् ॥ ३७॥
अस्माकं शत्रुभावेन स्थिता देवाः सहेश्वराः ।
जितास्तदपि सर्वे ते छिद्रदर्शिन एव च ॥ ३८॥
तैश्च माया कृता च स्यादीदृशी वाऽसुरोत्तम ।
अन्यथा ते महामृत्युः कथं भवति मानद ॥ ३९॥
नेयमाकाशवाणी भोस्तस्माद्देवान् सहेश्वरान् ।
हनिष्यामोऽद्य दैत्येश शत्रुहीनास्तदा वयम् ॥ ४०॥
तेषां वचनमाकर्ण्य मत्सरश्चैव हर्षितः ।
सत्यमुक्तं भवद्भिर्यद्गन्तव्यं विद्विषां वधे ॥ ४१॥
मत्सराज्ञां समादाय निःसृता दैत्यपुङ्गवाः ।
विचिन्वन्ति स्म सर्वत्र देवान् सर्वान् प्रयत्नतः ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः ॥ १.३३
(Page खं. १ अ. ३४ पान ७७)
१.३४ देवासुरयुद्धप्रसङ्गो नाम चतुस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
दैत्या भ्रमणयुक्तास्ते आययुर्ढुण्ढिसन्निधौ ।
यत्र देवगणैर्युक्तो वक्रतुण्डः प्रतापवान् ॥ १॥
दृष्ट्वा तं वक्रतुण्डं ते भयभीतास्तदाऽभवन् ।
महाकायं महावीर्यं नरनागस्वरूपिणम् ॥ २॥
नानावीरैः परिवृतं प्रलयाग्निसमैः परैः ।
देवैर्हर्षसमायुक्तैः संस्तुतं भक्तिभावितैः ॥ ३॥
मनसा दैत्यपाः सर्वे मेनिरे मृत्युमात्मनः ।
सत्याकाशभवा वाणी सोऽयं वक्राननो भवेत् ॥ ४॥
वक्रतुण्ड जय त्वं वै जय त्वं जय सर्वदा ।
देवैः प्रकथ्यते तस्माद्वक्रतुण्डोऽयमागतः ॥ ५॥
यदि युद्धं करिष्यामोऽनेन सार्धं महाद्भुतम् ।
युद्धे वयं मृताश्चेद्वा वृत्तान्तं को निवेदयेत् ॥ ६॥
अतो मत्सरदैत्येशं गमिष्यामो जवान्विताः ।
एवं निश्चययुक्तास्ते मत्सरं जग्मुरादरात् ॥ ७॥
स देवो वक्रतुण्डस्तु दूरतः पञ्चयोजनम् ।
ईर्ष्यापूरं परित्यज्य स्थितः कृत्वा सभां प्रभुः ॥ ८॥
दैत्यास्ते मत्सरं गत्वा वृत्तान्तं तं न्यवेदयन् ।
भोराजन् सत्यमेवेदं वचनं खसमुद्भवम् ॥ ९॥
नरकुञ्जररूपेण दृष्टो वक्राननः प्रभुः ।
देवैः समावृतो भूप विचारं कुरु सर्वथा ॥ १०॥
तेषां वचनमाकर्ण्य मत्सरश्चिन्तयान्वितः ।
बभूव म्लानतुण्डश्च ज्ञात्वा शत्रुं महाबलम् ॥ ११॥
ततः क्रोधसमाविष्टस्तं हन्तुं कृतवान् मनः ।
आज्ञापयत् स दैत्येन्द्रान् सज्जिता भो भवन्त्विति ॥ १२॥
गमिष्यामि रिपुं हन्तुं वक्रतुण्डं महाबलम् ।
सदेवं सपरीवारं ततो हृदि सुखं भवेत् ॥ १३॥
आज्ञामात्रेण दैत्येशाः सन्नद्धाः समुपाययुः ।
हर्षेण महता युक्ता देवमर्दनलालसाः ॥ १४॥
चतुरङ्गं महत्सैन्यं निःसृतं नगराद्बहिः ।
तन्मध्ये मत्सरो वीरः शुशुभे रथसङ्गतः ॥ १५॥
आगतास्ते त्वराभाजो वक्रतुण्डः स्थितो यतः ।
तान् दृष्ट्वा देवसङ्घास्तं शशंसुर्गणनायकम् ॥ १६॥
स्वामिन् समागतो दैत्यः स्वयमेव महाप्रभो ।
यत्करिष्यसि देवस्त्वं त्वरया तत् कुरु प्रभो ॥ १७॥
अस्मान्नोचेच्च दैतेया हनिष्यन्ति महाबलाः ।
मरणं प्राप्तमस्माभिः कुत्र स्थातुं न शक्यते ॥ १८॥
देवानां वक्रतुण्डश्च श्रुत्वा वचनमादरात् ।
उवाच विस्मितो भूत्वा मा भयं कुरुत प्रियाः ॥ १९॥
स दैत्यं मत्सरं देवा हनिष्यामि न संशयः ।
पश्यन्तु कौतुकं युद्धे मदीयं परमाद्भुतम् ॥ २०॥
इत्युक्त्वा वक्रतुण्डः स सिंहारूढोऽभवत्प्रभुः ।
पाशाङ्कुशकरो गर्जन्मेघनादसमस्वनः ॥ २१॥
तस्य शब्देन सन्त्रस्तं त्रैलोक्यं सचराचरम् ।
भयभीता दैत्यगणा बभूवुश्च प्रजापते ॥ २२॥
मत्सरो हृदि सन्त्रस्तो वचनं चेदमब्रवीत् ।
दृश्यते प्रबला सेना किं भविष्यति दैत्यपाः ॥ २३॥
भययुक्तं वचस्तस्य श्रुत्वा तं दैत्यपा जगुः ।
वयं योत्स्यामहे स्वामिन् पश्य त्वं युद्धजं महः ॥ २४॥
इत्युक्त्वा मत्सरं सर्वे प्रह्लादप्रमुखाः सुराः ।
वक्रतुण्डं ययुर्वीरा नादयन्तस्त्रिविष्टपम् ॥ २५॥
(Page खं. १ अ. ३४ पान ७८)
बाणवृष्टिं महोग्रां ते चक्रुः क्रोधसमन्विताः ।
ववर्षुरस्त्रशस्त्राणि वर्षाकाले घना इव ॥ २६॥
तैरस्त्रैर्दैत्यराजैश्च हता सेना दिवौकसाम् ।
देवा विष्णुमुखास्तत्र युयुधुस्तान समागतान् ॥ २७॥
घोरयुद्धं ततस्तेषां देवासुरविनाशनम् ।
अभवद्दारुणं क्रूरं द्रष्टुं नैव प्रशक्यते ॥ २८॥
देवाश्च दानवाश्चैव युयुधुः शस्त्रपाणयः ।
मरणे निश्चयं कृत्वा परस्परजयेप्सवः ॥ २९॥
केचिद्बाणमयीं वृष्टिं चक्रुः शक्तीस्तु केचन ।
चिक्षिपुर्भिन्दिपालांश्च खड्गैर्वै चिच्छिदुः परे ॥ ३०॥
बबन्धुरपरे पाशैर्भल्लैर्वा विव्यधुः परे ।
गदायुद्धं महाघोरं चक्रिरे वीरसत्तमाः ॥ ३१॥
मुद्गरैश्च महावीरा मारयामासुरोजसा ।
मल्लयुद्धं परे चक्रुर्नादयन्तो दिशो दश ॥ ३२॥
सैन्यस्य रजसा सर्वं व्याप्तमासीद् दिगन्तरम् ।
नाभूत् स्वपरबोधोऽपि पुरोगान् जघ्निरे तदा ॥ ३३॥
शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयम् ।
बाणैर्बाणान् समारुष्टाश्चिच्छिदुस्ते परस्परम् ॥ ३४॥
शस्त्रे भग्ने च ते वीरा मल्लयुद्धं सुदारुणम् ।
चक्रिरे क्रोधसंयुक्ता मण्डलानि प्रबभ्रमुः ॥ ३५॥
हस्तेन हस्तमापीड्य पादैः पादान् प्रगृह्य च ।
कूर्परं कूपरेणैव मर्दयामासुरोजसा ॥ ३६॥
मस्तकं मस्तकेनैव जानुभ्यां जानुनी तथा ।
ललाटेन ललाटं च स्फालयामासुरञ्जसा ॥ ३७॥
एवं युद्धे प्रवृत्ते वै मृताः कैचित्तु मूर्च्छिताः ।
भग्नाः केऽपि क्षता अन्ये नानाशस्त्रप्रहारतः ॥ ३८॥
शोणितौघवहा घोरा नदी जाता दुरत्यया ।
रक्तेन सर्वतस्तत्र रेणवो मज्जितास्ततः ॥ ३९॥
तेन प्रकाशितास्तत्र दिशः स्वपरबोधिकाः ।
ततोऽभूत्तुमुलं युद्धं यथायोग्यं प्रजापते ॥ ४०॥
रथिनो रथिभिः सार्धं गजिनो गजिभिस्तथा ।
अश्वारूढा हयारूद्वैः पदाताश्च पदातिभिः ॥ ४१॥
श्रेष्ठा युयुधिरे श्रेष्ठैर्महाबलसमन्वितैः ।
प्रबोध्य जघ्निरे केचिद्वीराः समरशालिनः ॥ ४२॥
परस्परमभिन्दंस्ते शस्त्रास्त्रैर्मर्मभेदिभिः ।
सर्वे शुशुभिरे चैव पुष्पिताः किंशुका इव ॥ ४३॥
कदाचिज्जयिनो देवाः कदाचिद्दानवास्तथा ।
न रात्रौ विश्रमं चक्रुः क्रोधयुक्ताः परस्परम् ॥ ४४॥
एवं पञ्चदिनं युद्धमभवत्तत्र दारुणम् ।
न जयं प्राप्नुयुर्देवा दैत्याचाऽपि प्रजापते ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते देवासुरयुद्धप्रसङ्गो नाम चतुस्त्रिंशोऽध्यायः ॥ १.३४
(Page खं. १ अ. ३५ पान ७९)
१.३५ शिवविजयो नाम पञ्चत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एवं परस्परं घोरं युद्धं कृत्वा महाबलाः ।
न जयं प्राप्नुवन्ति स्म कर्म चैव यथासुरम् ॥ १॥
तं दृष्ट्वा परमाश्चर्यं प्रह्लादः कुपितोऽभवत् ।
धनुः सज्जं महाघोरं कृत्वा बाणान् समाददे ॥ २॥
मन्त्रयन्ननलास्त्रेण चिक्षेप स शरान् बहून् ।
तेभ्यो जातो महानग्निः प्रलयानलसन्निभः ॥ ३॥
ददाह देवसेनां स प्रह्लादोऽसुरसत्तमः ।
भयभीताः सुराः सर्वे जज्वलुश्च समन्ततः ॥ ४॥
हाहाकारं प्रकुर्वन्तो दग्धास्ते जातवेदसा ।
मर्यादां रणभूमिं च तथा त्यक्त्वा पलायिताः ॥ ५॥
महाग्निः सर्वतस्तान् वै सुरान् वाहनसंयुतान् ।
प्रबलो दाहयामास प्रह्लादेन प्रचोदितः ॥ ६॥
तेन दैत्यगणाः सर्वे हर्षयुक्ता बभूविरे ।
प्रह्लादं पूजयन्तस्ते साधु साधु कृतं त्वया ॥ ७॥
सर्वान् पलायमानान् स सुरान् दृष्ट्वा पुरन्दरः ।
मेघास्त्रं योजयामास धनुषि क्रोधसंयुतः ॥ ८॥
एतस्मिन्नन्तरे तत्र प्रह्लादः समुपागतः ।
खड्गेन सहसेन्द्रस्य धनुश्चिच्छेद लाघवात् ॥ ९॥
तत इन्द्रः प्रकोपेन वज्रं तत्याज तं प्रति ।
वज्रेण निहतो भूमौ प्रह्लादः स पपात ह ॥ १०॥
पतितं तं तथा दृष्ट्वा महिषासुर आगतः ।
गदया देवराजं तं जघान खलु मस्तके ॥ ११॥
गदया निहतः सोऽपि पपात रणमूर्धनि ।
मघवा मूच्छितोऽत्यन्तं मुखाद्रक्तं समुद्वमन् ॥ १२॥
ततोऽग्निः परमक्रुद्धो जज्वाल ज्वालयासुरम् ।
महिषो जलरूपोऽभूत् प्लावयामास तं क्षणात् ॥ १३॥
निस्तेजाश्चिन्तया युक्ताः शक्तिं चिक्षेप पावकः ।
तां खड्गेन महादैत्यः पातयामास भूतले ॥ १४॥
ततो महिषरूपेण शृङ्गाभ्यां दहनं पुनः ।
चकार मूर्च्छितं क्रुद्धः पपात महसां निधिः ॥ १५॥
ततो ययौ यमस्तं वै दण्डघातेन सोऽहनत् ।
जक्रे सम्मूर्च्छितं दैत्यं महिषं भयदायकम् ॥ १६॥
एतस्मिन्नन्तरे तत्र प्रतापी च विरोचनः ।
खड्गेन तं जघानाशु यमं सर्वभयङ्करम् ॥ १७॥
पपात खड्गाघातेन यमो यमवतां प्रभुः ।
वरुणस्तं बबन्धापि पाशेन च विरोचनम् ॥ १८॥
ततस्तं मोचयामास पाशं छित्वा महाबलः ।
अन्धकः खड्गाघातेन गदया वरुणं तथा ॥ १९॥
मूर्च्छितं च चकाराऽभूदुत्थितः स विरोचनः ।
ततो वायुः कुबेरश्च तावुभौ क्रोधमूच्छितौ ॥ २०॥
वायुना खड्गघातेन मूर्च्छितस्त्वमितौजसा ।
अन्धकासुरनामाऽसौ पपात धरणीतले ॥ २१॥
शम्बरेण हतो वायुर्मुसलेन महाबलः ।
स पपात तदा भूमौ देवः सर्वधरोऽपि सन् ॥ २२॥
विरोचनेने बाणौघैस्ताडितो धनरक्षकः ।
मर्मभेदिभिरत्युग्रैः पपाताऽसौ महाबलः ॥ २३॥
एतस्मिन्नन्तरे तत्र विष्णुः स्वयमुपागतः ।
गदया तं जघानैव विरोचनमथो रिपुम् ॥ २४॥
भिन्नोरसं च दैत्येशं मृततुल्यं चकार ह ।
अन्धकं चक्रघातेन पातयामास केशवः ॥ २५॥
(Page खं. १ अ. ३५ पान ८०)
शम्बरं बाणजालैः सम्पातयामास भूतले ।
कुपितो माधवस्तत्र चक्रं तत्याज दारुणम् ॥ २६॥
चक्रेण क्षुरधारेण हता दैत्याः सहस्रशः ।
गदया मूर्च्छिताः केचिन् मुख्या ये तत्र संस्थिताः ॥ २७॥
एतस्मिन् समरे वीरः प्रह्लादः सम्बभूव ह ।
सावधानो महाभागस्तं ययौ क्रोधदीपितः ॥ २८॥
बाणवृष्टिं चकाराऽसौ महोग्रां देवनाशिनीम् ।
तया ताञ्च्छिन्नभिन्नाङ्गान् देवांश्चक्रे धरातले ॥ २९॥
गदया देवदेवेशं केशवं युयुधे भृशम् ।
खड्गेन मूर्च्छितं चक्रे गरुडं दैत्यनायकः ॥ ३०॥
ततश्च कुपितो विष्णुस्तं हन्तुं चक्रमाददे ।
बहुधा भ्रामयामास तत्त्याज ह्यस्त्रमुत्तमम् ॥ ३१॥
तन्मस्तकानि दैत्यानां चक्रं चिच्छेद सर्वतः ।
बाहूदरभुजांश्चैव चकार शकलीकृतान् ॥ ३२॥
सहसाऽसुरराजं च प्रह्लादं हन्तुमाययौ ।
चक्रं तेजोमयं दिव्यं समीपे ज्वलनप्रभम् ॥ ३३॥
प्रह्लादस्त्वरयास्त्रं च महाधनुषि सन्दधे ।
नारायणात्मकं चैव हृदि स्मृत्वा जनार्दनम् ॥ ३४॥
मुमोच तन् महास्त्रं वै तेजोरूपममोघकम् ।
अनिवार्यं जगद्भस्मकारकं कुपितः परः ॥ ३५॥
नारायणास्त्रवेगेन चक्रं प्रतिहतं ततः ।
देवान् सर्वान् ददाहापि महास्त्रं सर्वतः परम् ॥ ३६॥
हृदये सहसागत्य पतितं केशवस्य तत् ।
मूर्च्छितं मृततुल्यं तं चकार च जनार्दनम् ॥ ३७॥
ततो मदयुता दैत्या जगर्जुर्हर्षसंयुताः ।
प्रशशंसुर्महाभागं प्रह्लादं तेजसान्वितम् ॥ ३८॥
नारायणास्त्रसन्दग्धान् देवर्षीन् वीक्ष्य शङ्करः ।
क्षुभितो देवरक्षार्थं पिनाकं स्वकरे दधौ ॥ ३९॥
महास्त्रं तत् पाशुपतं सन्दधे क्रोधसंयुतः ।
बलेन मोचयामास त्वरावान् शङ्करोऽभवन् ॥ ४०॥
महास्त्रं वै पाशुपतं तथा नारायणात्मकम् ।
उभे अस्त्रे संयुगे ते युयुधाते विहायसि ॥ ४१॥
देवा मुनिगणास्तत्र हर्षयुक्ता बभूविरे ।
प्रशशंसुर्महादेवं देवदेवं च शङ्करम् ॥ ४२॥
ततः पशुपतिः क्रुद्धस्त्रिशूलं सन्दधे मुने ।
तत्याज दैत्यसेनायां कुर्वाणं प्रलयं परम् ॥ ४३॥
त्रिशूलं च करोति स्म मृतान् दैत्यान् सहस्रशः ।
प्रह्लादहृदयेकस्मात् पपात यमसन्निभम् ॥ ४४॥
तेनाऽसौ पतितो भूमौ वाताहत इव द्रुमः ।
दैत्यसैन्ये महानासीत्तदा कोलाहलः परः ॥ ४५॥
ततस्त्रिशूलवेगेन शितेन सहसाऽसुराः ।
मूर्च्छिताश्च कृताः केचित् केचिद्वै मारिता मुने ॥ ४६॥
सर्वेऽसुरगणास्तत्र पतिता रणमूर्धनि ।
ततो मत्सरपुत्रौ द्वौ शङ्करं जग्मतुः प्रभो ॥ ४७॥
सुन्दरप्रियनामा च विषयप्रिय एव यः ।
ऊचतुः शङ्करं तत्र क्रोधयुक्तौ महासुरौ ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते शिवविजयो नाम पञ्चत्रिंशोऽध्यायः ॥ १.३५
(Page खं. १ अ. ३६ पान ८१)
१.३६ सुन्दरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
वद ब्रह्मन्विशेषेण मम हर्षकरीं कथाम् ।
विस्तरेण महाभाग वक्रतुण्डप्रभावजाम् ॥ १॥
मुद्गल उवाच ।
न शक्यतेऽग्निपुत्रेण विस्तरेण पिनाकिना ।
शेषेण विधिना वक्तुं सङ्क्षपेण ब्रवीम्यतः ॥ २॥
दक्ष उवाच ।
किमुक्तं दैत्यपुत्राभ्यां शङ्करेण श्रुतं वद ।
श्रुत्वा तत् किं कृतं तेन महादेवेन मानद ॥ ३॥
दैत्याभ्यां किं कृतं तत्र तद्वद त्वं विशेषतः ।
श्रुत्वा त्वद्वदनाम्भोजात् कथां तृप्याम्यहं न च ॥ ४॥
सूत उवाच ।
एवमादरमाज्ञाय दक्षस्य प्रयतात्मनः ।
मुद्गलस्तमुवाचाथ हर्षयुक्तः स शौनक ॥ ५॥
मुद्गल उवाच ।
दैत्यपुत्रौ महावीर्यौ शङ्करं क्रोधसंयुतौ ।
यदूचतुश्च तत्सर्वं शृणु दक्ष प्रजापते ॥ ६॥
मत्सरपुत्रावूचतुः ।
तिष्ठ तिष्ठ महादेव पश्य पौरुषमावयोः ।
ज्ञातं त्वदीयं सामर्थ्यं न च गन्तुं त्वमर्हसि ॥ ७॥
अस्मदीया महासेना हता सर्वा सदाशिव ।
दैत्येन्द्राः पातिताः सर्वे त्वया शङ्कर तेजसा ॥ ८॥
पौरुषं दर्शितं पूर्णं सर्वदेवातिगं महत् ।
अधुना त्वां हनिष्यावो वक्रतुण्डस्य पश्यतः ॥ ९॥
त्वां हत्वा वक्रतुण्डं च हनिष्यावो न संशयः ।
पश्चात् सर्वान् सुरेन्द्रांश्च ततो मुनिगणान् सुरान् ॥ १०॥
एवमुक्त्वा महादेवं धनुः सज्जं प्रचक्रतुः ।
तावुवाच महादेवः स्मयमान इदं वचः ॥ ११॥
शिव उवाच ।
भवद्भ्यां गदितं क्रूरं तत्सर्वं तथ्यमेव च ।
अधुनाऽयं समुत्पन्नो वक्रतुण्डो महाबलः ॥ १२॥
भूभारहरणार्थं वै भवतां नाशनाय च ।
अधुना स गतः कालो विपरीतेन कर्मणा ॥ १३॥
वक्रतुण्डप्रसादेन हनिष्यामि समत्सरम् ।
असुरं बलमत्यर्थं पापरूपं न संशयः ॥ १४॥
इत्युक्त्वा बाणवृष्टिं स चक्रे वै शङ्करः प्रभुः ।
महोग्रां कालरूपां वै प्रलयस्य प्रकाशिनीम् ॥ १५॥
तां च चिच्छिदतुर्दैत्यो स्वशरैरतिवगितैः ।
तौ मण्डपं क्षणेनैव चक्रतुः शरसम्भवम् ॥ १६॥
तद्बाणैरपि ते देवाश्छिन्ना भिन्नाः कृता मुने ।
शङ्करो विस्मितो भूत्वा शूलमुग्रं मुमोच ह ॥ १७॥
आगतं कालरूपं च शूलं दृष्ट्वा महासुरौ ।
महास्त्रं तौ पाशुपतं मोचयामासतुस्तदा ॥ १८॥
अनिवार्यं महोग्रं वै सर्वभस्मकरं परम् ।
जज्वाल तेजसा सर्वं ब्रह्माण्डं व्याकुलं ततः ॥ १९॥
त्रिशूलं निष्फलं तेन महास्त्रेण कृतं क्षणात् ।
शिवस्य हृदये गत्वा पपात भयदायकम् ॥ २०॥
मूर्च्छितः शङ्करस्तेन पतितो धरणीतले ।
हाहाकारश्च सर्वत्र देवसैन्ये ततोऽभवत् ॥ २१॥
पतितं शङ्करं दृष्ट्वा वक्रतुण्डो महाबलः ।
स्वां सेनां प्रेरयामास दैत्यमर्दनलालसः ॥ २२॥
गणेशदूतमुख्यास्तेष्वष्टौ तत्राययुः परे ।
स्वां स्वां सेनां समादाय महाकाया महाबलाः ॥ २३॥
प्रमोदश्चैष आमोदस्तथा ब्रह्मप्रियो मुने ।
योगप्रियश्च स्वानन्दभोक्ता ज्ञानमयश्च हि ॥ २४॥
सर्वगः सर्वविच्चैव क्रोधयुक्ताः समाययुः ।
तैः प्रेक्षिताः सुराः सर्वे गतमूर्च्छास्तदाऽभवन् ॥ २५॥
(Page खं. १ अ. ३६ पान ८२)
श्रमहीनाः क्षतादिभ्यो हीना जाताः प्रभावतः ।
तेजसा द्विगुणाश्चैव हृष्टपुष्टा यथा मुने ॥ २६॥
एतस्मिन्नन्तरे तत्र कविना जीवितास्तथा ।
दैत्याः समुत्थिताः सर्वे नीरुजश्च महाबलाः ॥ २७॥
प्रह्लादप्रमुखा वीराश्चक्रुर्नादं समन्ततः ।
ब्रह्माण्डमखिलं तेन सनादमभवत् परम् ॥ २८॥
ततो देवगणाः सर्वे शङ्खनादं प्रचक्रिरे ।
तेन दैत्यगणा भीता बधिरा इव ते स्थिताः ॥ २९॥
शङ्खानां चैव भेरीणां दुन्दुभीनां स्वरैः परैः ।
वीराणां क्ष्वेडितेनैव हेषितैर्बृंहितस्वनैः ॥ ३०॥
रथनेमिस्वनैः सर्वं व्याप्तमासीन्नभो मुने ।
परस्परं सम्पदं च वीक्ष्य वीक्ष्य च विस्मिताः ॥ ३१॥
एतस्मिन्नेव काले ते प्रमोदाद्या गणा ययुः ।
कुपिताः शस्त्रसंवृष्टिं चक्रिरे दैत्यमोहिनीम् ॥ ३२॥
तेषां शस्त्राणि सर्वाणि ह्यमोघानि महामुने ।
चिच्छिदुर्दैत्यराजानां मस्तकानि भुजादिकान् ॥ ३३॥
ब्रह्मप्रियो महाबाहुः शुक्रं धृत्वा प्रपश्यताम् ।
असुराणां गतो दूरं गुहायां चाक्षिपन् मुनिम् ॥ ३४॥
गतं शुक्रं तदा दृष्ट्वा दैत्याः सर्वे भयातुराः ।
हाहाकारं प्रचक्रुस्ते किं भविष्यति विह्वलाः ॥ ३५॥
रक्षिता गुरुरत्युग्रः पश्यतां नो महासुराः ।
नीतश्च मरणं तस्माच्छ्रेष्ठं किं न मृता वयम् ॥ ३६॥
अधुना क्व गमिष्यामस्तस्माद्युद्ध्यामहे वयम् ।
मरिष्यामोऽथ वा मोचयिष्यामस्तं स्वतेजसा ॥ ३७॥
परस्परं चेति दैत्या उक्त्वा मरणनिश्चयाः ।
उदायुधाश्च सर्वे ते युयुधुर्देवसैनिकैः ॥ ३८॥
व्यङ्गा देवाः कृतास्तैस्ते पतिता रणमूर्धनि ।
हाहाकारश्च सर्वत्र देवसैन्ये प्रवर्तितः ॥ ३९॥
ततो ब्रह्मप्रियाद्या ये कुपिताः शस्त्रधारिणः ।
परशुप्रमुखैः शस्त्रैस्त्रिशूलाङ्कुशपाशकैः ॥ ४०॥
शस्त्रैर्दैत्यान्निजघ्नुस्तान् कालरुद्रा इव प्रजाः ।
तैरस्त्रैर्दैत्यसेनायाः कदनं कृतमञ्जसा ॥ ४१॥
बहवश्व मृता दैत्या मूर्च्छिताश्चापरेऽवनौ ।
पेतुस्ते सर्वशो वीरा प्रह्लादप्रमुखा मुने ॥ ४२॥
ततो दैत्यकुमारौ तावागतौ रणमूर्धनि ।
ऊचतुस्तान् गणांस्तत्र प्रमोदाद्यान् महासुरौ ॥ ४३॥
दैत्यपुत्रावूचतुः ।
प्रमोदामोदकाद्याश्च भवद्भिर्बलमञ्जसा ।
हतं सर्वं च दैत्यानां दैत्यश्रेष्ठाः प्रमूर्च्छिताः ॥ ४४॥
अधुना मरणं प्राप्तं समीपे वः प्रदृश्यताम् ।
शस्त्रैस्तीक्ष्णैर्हनिष्यावो वक्रतुण्डयुतान् खलान् ॥ ४५॥
एवमुक्त्वा स्वबाणांस्तौ ववर्षतुरथासुरौ ।
ततस्तयोर्बलं वीक्ष्य द्वौ वीरौ समुपस्थितौ ॥ ४६॥
सर्वगः सर्वविच्चैव सबलौ धृतकार्मुकौ ।
बाणवृष्टिं तु संवार्य बाणांश्चिक्षिपतुः परान् ॥ ४७॥
अमोघाः सर्वबाणास्ते जग्मुः कालयमोपमाः ।
दैत्यान् सर्वान् प्रचकुस्ते छिन्नभिन्नात्मकान् मुने ॥ ४८॥
मृता मुमूर्षवः केचित्पतिता धरणीतले ।
अकस्माद्रक्तसम्भूता नदी तत्र प्रवर्तिता ॥ ४९॥
तयोर्बलं निरीक्ष्यैव कम्पितौ दैत्युपुङ्गवौ ।
अग्न्यस्त्रं धनुषि श्रेष्ठं दधतुः क्रोधसंयुतौ ॥ ५०॥
यावन् मुमुचतुस्तावत् परशू यमसन्निभो ।
(Page खं. १ अ. ३७ पान ८३)
आगतौ च शिरश्छेदं दैत्ययोश्चक्रतुः क्षणात् ॥ ५१॥
मत्सरस्य सुतौ वीक्ष्य मृतौ सर्वे भयातुराः ।
मत्सरं शरणं जग्मुरूचुर्वृत्तान्तमञ्जसा ॥ ५२॥
दैत्या ऊचुः ।
शृणु दैत्येश वृत्तान्तं रणभूमिसमुद्भवम् ।
महाभयङ्करं घोरं कथितुं शक्यते न च ॥ ५३॥
प्रह्लादप्रमुखाः सर्वे घातिता रणमूर्धनि ।
मृततुल्या मृता वा किमस्माभिर्ज्ञायते न च ॥ ५४॥
तव पुत्रौ महावीर्यौ मृतौ सङ्ग्राममण्डले ।
कृत्वा युद्धं महाघोरं परशुभ्यां महामते ॥ ५५॥
अकस्माद्वक्रतुण्डस्य गणौ द्वौ समुपस्थितौ ।
ताभ्यां चैव हतौ वीरौ स्वल्पकालेन दैत्यप ॥ ५६॥
वक्रतुण्डसमश्चैव न भूतो न भविष्यति ।
इति स्वान्ते च संज्ञाय देवं तं शरणं व्रज ॥ ५७॥
नोचेद्दैत्यगणाः सर्वे नाशं यास्यन्ति निश्चितम् ।
मा गर्वं कुरु दैत्येश दैत्यान् रक्ष महामते ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते सुन्दरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः ॥ १.३६
१.३७ मत्सरासुरसमागमो नाम सप्तत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ।
मुद्गल उवाच ।
दैत्यानां वचनं श्रुत्वा स दैत्यो मत्सरासुरः ।
मूर्च्छितः सहसा भूमौ पपात भयविह्वलः ॥ १॥
अनिश्वसन् दैत्यपस्तु तैराशु विधृतो नृपः ।
सावधानं प्रचक्रुस्तं प्रयत्नैः परमैस्ततः ॥ २॥
द्विमुहूर्तेन सम्बुद्धो मत्सरः प्रललाप ह ।
किं जातं भावि वा किं वा दैवेन विफलं कृतम् ॥ ३॥
तपसा त्वमरत्वं च पृथिवीराज्यमञ्जसा ।
मया प्राप्तं स्वसामर्थ्यादतुलं तद् वृथा कृतम् ॥ ४॥
अहो हि बलवद् दैवं प्रयत्नो निष्फलो मतः ।
अचिन्त्या मेऽभयप्राप्तिः पश्चात् सूर्योदयो यथा ॥ ५॥
मृता दैत्या असङ्ख्याश्च मदर्थं नात्र संशयः ।
मृतौ पुत्रौ महाकालौ कालस्य कथमद्य तौ ॥ ६॥
अधुना शोकसन्तप्तो मरिष्यामि न संशयः ।
मृतौ पुत्रौ महाकालौ किं कार्यं जीवितेन मे ॥ ७॥
ब्रह्माण्डाधिपतेः पुत्रौ कथं तो निधनं गतौ ।
कथं मिथ्या हि जातं मे वरदानं महत्तरम् ॥ ८॥
अहो पुत्रौ महावीर्यौ कथं मरणमापतुः ।
याभ्यां स्वभुजवीर्येण जिता विष्णुमुखाः सुराः ॥ ९॥
अहो पुत्रौ च मां त्यक्त्वा घोरे दुःखार्णवे परे ।
क्व गतौ वदतं वाक्यमभूतं निष्ठुरौ कथम् ॥ १०॥
सखींश्च पितरं वृद्धं त्यक्त्वा मां सुन्दरप्रिय ।
विषयप्रिय मद्बलौ कथं मृत्युमुपस्थितौ ॥ ११॥
इति नानाविधं शौकं चक्रे दैत्येन्द्रपालकः ।
तं ते सभ्यवराः सर्वे सान्त्वयामासुरादरात् ॥ १२॥
वृद्धा ऊचुः ।
न रोदनं प्रकर्तव्यं त्वया दैत्येन्द्रनायक ।
रणे मृतौ महावीर्यौ कीर्तिं कृत्वा महत्तराम् ॥ १३॥
देहस्य मरणं नित्यं जन्म चैव तथा प्रभो ।
किं चित्रं तच्च सञ्जातं येन शोचसि दैत्यप ॥ १४॥
(Page खं. १ अ. ३७ पान ८४)
आत्मनो मरणं नैव जन्मशास्त्रेषु कथ्यते ।
मायामोहं परित्यज्य स्वस्थो भव महामते ॥ १५॥
जन्तोरूर्ध्वक्रिया सर्वा कर्तव्या स्वजनैरपि ।
अतस्त्वं दैत्यराजेन्द्र सार्थकं त्वेतयोः कुरु ॥ १६॥
अथवा तौ परित्यज्य वक्रतुण्डं जहि प्रभो ।
अथवा शरणं याहि येनैव कुशलं भवेत् ॥ १७॥
वीरा रुदन्ति कुत्रापि नैव जानीहि दैत्यप ।
सपत्नान् हर्षसंयुक्तान् मा कुरुष्वाधुना परान् ॥ १८॥
एवं प्रबोधितो दैत्यो मत्सरः क्रोधसंयुतः ।
आदाय सकलं सैन्यं ययौ सङ्ग्राममण्डलम् ॥ १९॥
मत्सरासुरमायान्तं दृष्ट्वा शम्भ्वादयः सुराः ।
भयभीताश्च तं प्रोचुर्वक्रतुण्डं प्रणम्य ते ॥ २०॥
स्वामिन् समागतो दैत्यो मत्सरः स प्रतापवान् ।
यस्याग्रे मशका देवास्तृणरूपा नरादयः ॥ २१॥
यस्याग्रे वशवर्तिन्यः श्रियः सर्वार्थदायिकाः ।
ब्रह्माण्डं कम्पते यस्य भयात्सोऽयं समागतः ॥ २२॥
यस्य राज्ये महाभागा जना दुःखविवर्जिताः ।
सर्वर्तुफलदा वृक्षा मेघाः कालप्रवर्षिणः ॥ २३॥
यस्याज्ञा वशगश्वासौ तपत्येव दिवाकरः ।
न शीतं प्रबलं तत्र मत्सरे राज्यभोगिनि ॥ २४॥
न रोगाः प्रचरन्तीह भयभीताः सम्मततः ।
न च चोरादिसन्त्रस्तं जगद्राज्यं प्रशासति ॥ २५॥
यस्य पूजा च सर्वत्र जगति क्रियते जनैः ।
यज्ञादि सर्वमखिलं भुक्तं येन महात्मना ॥ २६॥
कालो बिभेति यं दृष्ट्वा तदाज्ञा पालकोऽभवत् ।
कर्मखण्डनमप्यत्र कृतं येन सुरारिणा ॥ २७॥
न स्वाहा न स्वधा यत्र न वषट्कार एव च ।
न वेदाध्ययनाचारो मत्सरे राज्यकर्तरि ॥ २८॥
न स्नानादिक्रिया यत्र न स्वधर्मः स्वभावजः ।
न वर्णाश्रमयोर्धर्मो मत्सरे राज्यकर्तरि ॥ २९॥
देवाः श्वापदतुल्या वै भ्रमन्ति वनगोचराः ।
अन्नवस्त्रादिसंहीनाः कृता दैत्येन्द्रकेण भोः ॥ ३०॥
मुनयस्तपसा हीनाः शापसामर्थ्यहीनकाः ।
कृता मत्सरदैत्येन सोऽयं स्वामिन् समागतः ॥ ३१॥
देवाङ्गनाश्च तत्कन्या नागकन्या महात्मना ।
भुक्ता नानाविधा भोगाः सोऽयं मत्सर आगतः ॥ ३२॥
नरकन्याः पशोःकन्या मुनिकन्याः समाहृताः ।
बलेन न समं यस्य ब्रह्माण्डे सोऽयमागतः ॥ ३३॥
यस्याष्टावरणैर्मृत्युर्न भवेच्च कदाचन ।
सोऽयं समागतो दैत्यः पश्य पश्य गणाधिप ॥ ३४॥
इत्येवं ब्रुवतो देवान् वक्रतुण्डो महाबलः ।
मा भयं कुरुत प्राज्ञा हनिष्यामीति सोऽब्रवीत् ॥ ३५॥
सिंहारूढो महाबाहुरेकदन्तविराजितः ।
पाशाङ्कुशधरो भूत्वा ययौ सङ्ग्राममण्डलम् ॥ ३६॥
प्रमोदामोदकाद्यैश्च संवृतं युद्धलालसम् ।
तं दृष्ट्वा क्रोधसंयुक्तो मत्सरः प्राह भर्त्सयन् ॥ ३७॥
मत्सरासुर उवाच ।
किमर्थमागतस्त्वं मे वक्रतुण्ड रणेऽग्रतः ।
अद्यैव त्वां हनिष्यामि मा मुखं दर्शयस्व रे ॥ ३८॥
मूढोऽसि येन सङ्ग्रामं कर्तुमागत एव च ।
न मे मृत्युर्भवेदष्टावरणैर्देहधारिभिः ॥ ३९॥
(Page खं. १ अ. ३८ पान ८५)
शम्भुविष्णुमुखैर्देवैः प्रेरितस्त्वं न बुध्यसे ।
मोहभावेन संयातो मत्सरेण युयुत्सुना ॥ ४०॥
हन्मि त्वामेकबाणेन ससैन्यं नात्र संशयः ।
पदाघातेन मे भूमिर्विशीर्णा जायते खल ॥ ४१॥
तलप्रहारसंयुक्ताः पर्वताश्चूर्णतां गताः ।
तस्याऽग्रे कथमायातः कालेन प्रेरितोऽथवा ॥ ४२॥
शब्दगर्जनमात्रेण कम्पते सचराचरम् ।
तस्याग्रे त्वं सुसङ्ग्रामं किं करिष्यसि तद्वद ॥ ४३॥
ब्रह्माण्डं सकलं युद्धे जितं येन प्रभावतः ।
तदा त्वं कुत्र गुप्तः सन् स्थितोऽसि भयभावितः ॥ ४४॥
समीचीनमिदं मूढाऽधुना खल कृतं त्वया ।
दृष्टेः समीपगो जातो हतो मम भविष्यसि ॥ ४५॥
शरणं याहि मे दुष्ट जीवितुं यदि चेच्छसि ।
मदाज्ञावशगो भूत्वा वने तिष्ठ यथासुखम् ॥ ४६॥
मूढभावेन संयातं त्वां न हन्मि च निर्बलम् ।
प्रेरकान् मुनिदेवांस्ते तान् हनिष्यामि निश्चितम् ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम सप्तत्रिंशोऽध्यायः ॥ १.३७
१.३८ वक्रतुण्डविजयो नामाष्टत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ।
मुद्गल उवाच ।
एवं ब्रुबन्तमत्यन्तं मत्सरं क्रोधसंयुतम् ।
वक्रतुण्डः प्रसन्नात्मा स्मयन्निव जगाद तम् ॥ १॥
वक्रतुण्ड उवाच ।
मा गर्वं कुरु दैत्येश नाहं देवो न मानुषः ।
नासुरो नैव नागश्च न गन्धर्वो न पर्वतः ॥ २॥
न नानायोनिजो जन्तुर्नाष्टावरणजस्तथा ।
ब्रह्मरूपोऽहमानन्दानन्दकारक एव च ॥ ३॥
त्वां हन्तुं मुनिदेवानां स्थापनार्थमिहागतः ।
हनिष्यामि त्वसन्देहाद देत्यनायक दुर्मते ॥ ४॥
शिथिलं वरपुण्यं ते साम्प्रतं पापसञ्चयात् ।
नानापापफलार्थस्य दाता तेऽहं समागतः ॥ ५॥
अकर्तुं कर्तुमीशं मामन्यथाकर्तुमादरात् ।
जानीहि मत्सर त्वं वै किं करिष्यसि तद्वद ॥ ६॥
जीवितुं चेच्छसि प्राज्ञ तदा मां शरणं व्रज ।
स्वस्थाने धर्मविद्वेषं त्यक्त्वा त्वं तु सुखी भव ॥ ७॥
देवादीनां च विद्वेषं त्यक्त्वा तिष्ठसि दैत्य चेत् ।
तदा त्वां न हनिष्यामि जानीहि त्वं मतं मम ॥ ८॥
मुद्गल उवाच ।
वक्रतुण्डवचः श्रुत्वा मत्सरो विस्मितोऽभवत् ।
उवाच तं प्रसन्नात्मा भक्तिभावेन यन्त्रितः ॥ ९॥
मत्सर उवाच ।
वक्रतुण्ड नमस्तुभ्यं वद मे सकलं प्रभो ।
संशयं छिन्धि तं पूर्वं हृदिस्थं गणनायक ॥ १०॥
यदि त्वं सगुणो नासि निर्गुणोऽपि न वर्तसे ।
ब्रह्मरूपोऽसि सर्वेश तदाकारधरः कथम् ॥ ११॥
अन्यच्च त्वं महाभाग ब्रह्मभावेन संस्थितः ।
सुरासुरसमं ब्रह्म कथमेकं समाश्रितः ॥ १२॥
असुराणां निहन्ता त्वं सुराणां पालकोऽधुना ।
एतं मे संशयं ब्रह्मन् छेत्तुमर्हसि विघ्नप ॥ १३॥
मत्सरस्य वचः श्रुत्वा वक्रतुण्डः प्रतापवान् ।
उवाच तं महावीरं भावं दृष्ट्वा हृदि स्थितम् ॥ १४॥
(Page खं. १ अ. ३८ पान ८६)
वक्रतुण्ड उवाच ।
शृणु मत्सर यत्पृष्टं त्वया बुद्धिविशारद ।
तत्सर्वं कथयिष्यामि संशयच्छेदनाय ते ॥ १५॥
अखिलं ब्रह्मरूपेण मया सृष्टं चराचरम् ।
लीलार्थं बन्धहीनेन स्वस्वधर्मयुतं परम् ॥ १६॥
पुरुषप्रकृतिभ्यां तत् पाल्यते ह्रियते मया ।
तयोर्हृदि स्थितेनैव चिन्तामणिस्वरूपिणा ॥ १७॥
सर्वेषां चित्तवृत्तेश्च चालकोऽहं न संशयः ।
मदाज्ञावशगं सर्वं वर्तते दैत्यपुङ्गव ॥ १८॥
यदा स्वधर्ममत्यन्तं त्यक्त्वा देवगणेश्वराः ।
दैत्यानां निधनार्थं च यतन्ते मूलनाशकाः ॥ १९॥
तदा दैत्यहृदिस्थोऽहं तपसि प्रेरकोस्म्यतः ।
दैत्याः कुर्वन्ति च तपो देवानां प्रजिघांसया ॥ २०॥
तपसा वरलाभेन देवान् घ्नन्ति महाबलाः ।
ततस्ते सततं देवाः सत्ताहीना भवन्ति वै ॥ २१॥
ततोऽहं देवसङ्घानां विपरीतो न संशयः ।
भवामि चासुराणां वै सिद्धिदाता महासुर ॥ २२॥
यदि दैत्या महादुष्टास्त्यक्त्वा घ्नन्ति स्वधर्मकम् ।
देवान् मूलविहीनांश्च कर्तुमिच्छन्ति दानव ॥ २३॥
तदाऽहं देवरूपेण तेषां हृदि समास्थितः ।
छिद्रं प्रकाशयाम्यादौ हनने दैत्यरक्षसाम् ॥ २४॥
ततस्तेनैव देवेन्द्रा मार्गेण सुरविद्विषः ।
घ्नन्ति मत्सर ते सर्वं कथितं मे चरित्रकम् ॥ २५॥
यदि स्वहृदये देवा निश्चयं कुर्वते परम् ।
दैत्यानां तपसां विघ्नं कर्तव्यमिति साम्प्रतम् ॥ २६॥
तदाऽहं वरदाता च भवाम्यसुरनायक ।
दैत्येभ्यो नात्र सन्देहो देवगर्वप्रहारकः ॥ २७॥
यदि दैत्या महाभागा देवैर्जाता दुरासदाः ।
तदाऽहं दैत्यनाशाय भवामि तनुधारकः ॥ २८॥
यदा दैत्याश्च देवाश्च स्वस्वधर्मपरायणाः ।
तदाऽहं ब्रह्मभावेन स्थितस्तेषां हृदि ह्यहो ॥ २९॥
त्वया प्रपीडिता देवास्त्यक्त्वा धर्मं स्वभावजम् ।
अतस्त्वां हन्तुमायातो दैत्यराज महामते ॥ ३०॥
इत्युक्त्वा निजरूपं तद्दर्शयामास विघ्नपः ।
बिन्दुमात्रे ब्रह्मणि स्वे संस्थितं सुन्दरं मुने ॥ ३१॥
वक्रतुण्डप्रसादेन तस्य दर्शनजेन च ।
फलेन दैत्यराजोऽपि दिव्यं चक्षुरवाप्तवान् ॥ ३२॥
तेनैव चक्षुषा तेन दैत्येन परमाद्भुतम् ।
दृष्टं रूपं गणेशस्य ब्रह्माकारं प्रजापते ॥ ३३॥
न न्यूनं नाधिकं तत्र न समं चात्मना न च ।
चतुष्पादमयं ब्रह्म पादहीनं स्वभावतः ॥ ३४॥
न देहो न च देह्यत्र सगुणो निर्गुणो न च ।
न मायामायिको भाति वक्रतुण्डो गजाननः ॥ ३५॥
देहं सगुणरूपं च निर्गुणं मस्तकं मुने ।
गजवक्त्रमयं तेन दृष्टं भिन्नं प्रभावतः ॥ ३६॥
तयोर्योगकरः साक्षाद् वक्रतुण्डः प्रतापवान् ।
संयुक्तोऽवयवाद्यैश्च ज्ञातो दैत्याधिपेन सः ॥ ३७॥
ततस्तं प्रणनामाथ भक्तियुक्तेन चेतसा ।
तुष्टाव परया भक्त्या बद्धाञ्जलिपुटोऽसुरः ॥ ३८॥
मत्सरासुर उवाच ।
नमामि वक्रतुण्डं च चतुष्पादं चतुःपरम् ।
चतुर्देहविहीनं च बिन्दुमात्रे व्यवस्थितम् ॥ ३९॥
साकारं च निराकारं मायारूपधरं प्रभुम् ।
(Page खं. १ अ. ३८ पान ८७)
नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४०॥
जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् ।
ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१॥
सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च ।
सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२॥
अनन्तलीलया युक्तं लीलाहीनं नमामि तम् ।
अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदि स्थितम् ॥ ४३॥
वेदान्तवेद्यं सज्योतिर्ज्योतिषामपि भासकम् ।
नमामि सच्चिदानन्ददेहरूपं गजाननम् ॥ ४४॥
योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् ।
भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५॥
सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् ।
नमामि वक्रतुण्डाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६॥
अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः ।
सर्वाकारनिराकारहीनोऽयं वक्रतुण्डकः ॥ ४७॥
शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल ।
प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८॥
एवं स्तुत्वा वक्रतुण्डं पादयोर्निपपात ह ।
पुनः पुनः प्रणम्याऽसौ बद्धाञ्जलिपुटः स्थितः ॥ ४९॥
स दृष्ट्वा तादृशं दैत्यं भक्तियुक्तं गजाननः ।
जगाद तं महाभागं भक्तेशो भावतोषितः ॥ ५०॥
वक्रतुण्ड उवाच ।
मत्सर त्वद्विनाशाय कुपितोऽहं न संशयः ।
शरणागतनाशं च नेच्छामि वृणु वाञ्छितम् ॥ ५१॥
इदं त्वया कृतं स्तोत्रं मत्प्रीतर्वर्धनं महत् ।
महैश्वर्यायुरारोग्यदायकं धनधान्यदम् ॥ ५२॥
पुत्रपौत्रकलत्रादिनानासम्पत्करं परम् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ ५३॥
मुद्गल उवाच ।
वक्रतुण्डवचः श्रुत्वा मत्सरो भक्तिसंयुतः ।
जगाद वचनं तत्र वक्रतुण्डं कृताञ्जलिः ॥ ५४॥
मत्सर उवाच ।
प्रसन्नो यदि सर्वेश मह्यं देयो वरो यदि ।
सुदृढां च तदा भक्तिं त्वदीयां देहि विघ्नप ॥ ५५॥
अन्यं त्वं मे वरं देहि त्वद्भक्तास्ते च मे प्रियाः ।
स्थानं देहि तथा वृत्तिं योगक्षेमकरीं प्रभो ॥ ५६॥
मत्सरस्य वचः श्रुत्वा वक्रतुण्डस्तमब्रवीत् ।
अचला पदि मे भक्तिरद्य ते सम्भविष्यति ॥ ५७॥
स्वस्वधर्मरतान् जन्तूंस्तान् रक्षस्व च मत्सर ।
मदीयान् प्रवरान् भक्तांस्तान पालय च यत्नतः ॥ ५८॥
मदीयमूर्तिपूजा च यत्रादौ स्मरणं भवेत् ।
सर्वारम्भेषु तत्र त्वं मा विघ्नं कुरु दैत्यप ॥ ५९॥
अन्यत्र सर्वभावेषु कर्मज्ञानादिकर्तृषु ।
आसुरेणैव वर्तस्व फलं ग्राह्यं त्वयाऽसुर ॥ ६०॥
तेषां हृदि समाविश्य कुरु राज्यं महामते ।
मद्भक्त्यादिषु भावेषु दासवत्त्वं सदा भव ॥ ६१॥
एवमुक्तो महादैत्यस्तथेति तमुवाच ह ।
प्रणिपत्य गणेशानं हर्षयुक्तेन चेतसा ॥ ६२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डविजयो नामाष्टत्रिंशोऽध्यायः ॥ १.३८
(Page खं. १ अ. ३९ पान ८८)
१.३९ वक्रतुण्डान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
मत्सरं शान्तिमापन्नं दृष्ट्वा देवर्षयस्तदा ।
प्रहृष्टमनसो जातास्तुष्टुवुस्तं गजाननम् ॥ १॥
देवर्षय ऊचुः ।
सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् ।
अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥ २॥
अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् ।
जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ३॥
अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् ।
अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ४॥
धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् ।
अहङ्कारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुण्डं भजामः ॥ ५॥
रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेन्द्रप्रकाशम् ।
दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः ॥ ६॥
उपस्थत्वगुक्तीक्षणस्थप्रकाशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वम् ।
गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुण्डं भजामः ॥ ७॥
रजोरूपसृष्टिप्रकाशे विधिं तं सदा पालने केशवं सत्त्वसंस्थम् ।
तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः ॥ ८॥
दिशाधीशरूपं सदाशास्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् ।
अनन्तोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ९॥
महत्तत्वरूपं प्रधानस्वरूपमहङ्कारधारं त्रयीबोधकारम् ।
अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः ॥ १०॥
सदा कर्मधारं फलैः स्वर्गदं तमकर्मप्रकाशेन मुक्तिप्रदं तम् ।
विकर्मादिना यातनाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ११॥
अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् ।
नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः ॥ १२॥
लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् ।
प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १३॥
खगेशस्वरूपं वृषादिप्रसंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् ।
धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १४॥
सुवर्णादिधातुस्थसद्रङ्गसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् ।
जले जन्तुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुण्डं भजामः ॥ १५॥
सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः ।
सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः ॥ १६॥
वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् ।
चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः ॥ १७॥
गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यम् ।
महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः ॥ १८॥
अनन्तावतारैः सदा पालयन्तं स्वधर्मादिसंस्थं जनं कारयन्तम् ।
सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं भजामः ॥ १९॥
(Page खं. १ अ. ३९ पान ८९)
त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्तेन विश्वम् ।
अखण्डप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः ॥ २०॥
न विन्दन्ति यं वेदवेदज्ञमर्त्या न विन्दन्ति यं शास्त्रशास्त्रज्ञभूपाः ।
न विन्दन्ति यं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः ॥ २१॥
न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च ।
तथाऽपि स्वबुध्या स्तुतं वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः ॥ २२॥
मुद्गल उवाच ।
एवं स्तुत्वा वक्रतुण्डं स्थिता देवषर्यः प्रभो ।
बद्धाञ्जलिपुटाः सर्वे तूष्णीम्भावेन मानद ॥ २३॥
देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः ।
उवाच तान् प्रसन्नात्मा हषर्यन् वचनं महत् ॥ २४॥
वक्रतुण्ड उवाच ।
शृणुध्वं मुनयः सर्वे देवा मे वचनं महत् ।
भवत्कृतमिदं स्तोत्रं मत्प्रीतेर्वधनं भवेत् ॥ २५॥
अनन स्तौति यो नित्यं मां तस्य परिपूरये ।
भोगान्नानाविधांश्चैव पुत्रपौत्रादिसम्पदः ॥ २६॥
यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः ।
भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ २७॥
नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् ।
सुरेन्द्रैर्वन्द्यतां याति यो मां स्तौति त्वनेन सः ॥ २८॥
सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् ।
मोचयेन्नात्र सन्देहो मत्प्रियः सर्वदा भवेत् ॥ २९॥
अपराधशतैर्युक्तो यो वै भवति मानवः ।
तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ ३०॥
एकविंशतिवारं य एकविंशद्दिनानि वै ।
पठिष्यति सदा तस्मै चिन्तितं प्रददाम्यहम् ॥ ३१॥
एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः ।
कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ ३२॥
तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा ।
भविष्यथ महाभागा भुक्तिमुक्तिप्रदास्तथा ॥ ३३॥
वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् ।
तद्दास्यामि न सन्देहः स्तोत्रसन्तोषितो ह्यहम् ॥ ३४॥
मुद्गल उवाच ।
एवमुक्ताः सुराः सर्वे मुनयस्तं प्रणम्य च ।
प्रहृष्टमानसा ऊचुर्वक्रतुण्डं महाबलम् ॥ ३५॥
देवर्षय ऊचुः ।
यदि प्रसन्नतां यातो वक्रतुण्ड ददासि चेत् ।
त्वदीयामचलां भक्तिं देहि नाथ दयानिधे ॥ ३६॥
यदि प्राप्ता त्वदीया च भक्तिर्जन्तोस्तदा प्रभो ।
किं दुर्लभं भवेत्तस्य हस्तगाः सर्वसिद्धयः ॥ ३७॥
अतो भक्तिं महाभाग देहि नो विघ्ननायक ।
तया तृप्ता भविष्यामस्त्वत्पादप्रवणा वयम् ॥ ३८॥
तेषां वचनमाकर्ण्य देवदेवो गजाननः ।
जगाद भावगम्भीरं ज्ञाता विज्ञजनप्रियः ॥ ३९॥
वक्रतुण्ड उवाच ।
मदीया भक्तिरचला भविष्यति न संशयः ।
भवतां भावयुक्तानां भो भो देवर्षयः खलु ॥ ४०॥
अन्तर्दधे स उक्तैवं वक्रतुण्डो गणेश्वरः ।
पश्यतां मुनिदेवानां स्वानन्दस्थो बभूव ह ॥ ४१॥
ततो देवर्षयः सर्वे खिन्नाः स्वस्वपदं ययुः ।
(Page खं. १ अ. ४० पान ९०)
ध्यायन्तश्च तमेवैते वक्रतुण्डं सुसिद्धिदम् ॥ ४२॥
मत्सरोऽपि ततः सर्वैर्दैत्यैः परिवृतो ययौ ।
स्वं पदं पालयन् शीघ्रं सुशान्तो ह्यभवत् सदा ॥ ४३॥
तं त्यक्त्वा दैत्यसङ्घास्ते ययुः स्वं स्वं गृहं मुने ।
एवं मत्सरमाहात्म्यं वक्रतुण्डेन कारितम् ॥ ४४॥
स एव वक्रतुण्डस्तु सृजत्यवति च प्रभुः ।
हरते भावहीनः सन् नाद्यमध्यान्तगः स्वयम् ॥ ४५॥
एवं नानावतारेण स्वस्वधर्मरतान् सुरान् ।
असुरान् मानवादींश्च कुरुते वक्रतुण्डकः ॥ ४६॥
अवतारा अनन्ताश्च वक्रतुण्डस्य भो विभो ।
चरित्रमखिलं तेषां कथितुं शक्यते न वै ॥ ४७॥
ब्रह्मणा षण्मुखेनाऽपि विष्णुना शङ्करेण च ।
शेषेण मुनिभिश्चैव वेदैः काहं च तत्र वै ॥ ४८॥
दिवोदासशमार्थाय स एवं वक्रतुण्डकः ।
शिवपुत्रत्वमापन्नो ढुण्ढिराजेति नामतः ॥ ४९॥
वामनस्य वरं दातुं स एव गणनायकः ।
प्रकटोऽभून् महातेजास्तस्याग्रे भक्तपालकः ॥ ५०॥
एवं नानावतारैश्च भक्तरक्षणलालसः ।
करोति भक्तसंरक्षां जानीहि त्वं प्रजापते ॥ ५१॥
ब्रह्मणा सृष्टिकार्यार्थं व्याकुलेन स न स्मृतः ।
वक्रतुण्डस्ततो दैत्यो मत्सरः प्रविवेश तम् ॥ ५२॥
तेनासुरस्वभावेन पीडितो विधिरद्भुतम् ।
विघ्नयुक्तोऽभवत्तत्र सृष्टिं कर्तुं न स क्षमः ॥ ५३॥
पुरातनं वचः स्मृत्वा पुनस्तं शरणं ययौ ।
विधिर्विघ्नविहीनः स ससर्ज सकलं जगत् ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः ॥ १.३९
१.४० ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया श्रावितं महत् ।
चरित्रं वक्रतुण्डस्य ब्रह्मभूयकरं महत् ॥ १॥
श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृततो यथा ।
इच्छामि तत्पुनः श्रोतुं पूजितो विधिना कथम् ॥ २॥
विस्तरेण च मे ब्रूहि कथां पापापनोदिनीम् ।
श्रोतुः प्रष्टुश्च वक्तुश्च त्रयाणां सर्वसिद्धिदाम् ॥ ३॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह ।
उत्फुल्लनयनो हर्षाद्गाणेशेन्द्रः स शौनक ॥ ४॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग धन्योऽसि न च संशयः ।
येन ते गणराजस्य कथायां प्रीतिरद्भुता ॥ ५॥
अल्पपुण्यवतो ढुण्ढिकथाया अवधारणे ।
श्रवणे च तथा प्रीतिर्जायते न कदाचन ॥ ६॥
अतस्तेहं प्रवक्ष्यामि त्वदादरसुतोषितः ।
सङ्क्षेपेण कथां दिव्यां गणेशस्य महात्मनः ॥ ७॥
प्रलयादौ गणेशेन सृष्टाः पञ्च सुराधिपाः ।
तेषां तपःप्रभावेण प्रसन्नो वरदोऽभवत् ॥ ८॥
वरस्यैव प्रभावेण समर्थास्ते बभूविरे ।
(Page खं. १ अ. ४० पान ९१)
स्वस्वकार्ये प्रवृत्ताश्च सावधानेन चेतसा ॥ ९॥
सृष्टिप्रकरणे ब्रह्मा प्रवृत्तो जगतोऽभवत् ।
न सस्मार गणेशानं विस्मृत्यादौ तदर्चनम् ॥ १०॥
तेन भ्रान्तोऽभवत् सद्यो मानसे गर्वमादधे ।
त्रिलोके नैव मत्तुल्यः स्रष्टाऽहं नात्र संशयः ॥ ११॥
सृजामि सकलं विश्वं तदा विष्णुश्च पाति वै ।
रुद्रः संहरते तच्च शक्तिर्मोहं करोति च ॥ १२॥
सूर्यः कर्मप्रकाशं च करोति जगति प्रभुः ।
न सृष्टं चेन् मया विश्वं देवत्वं तु निरर्थकम् ॥ १३॥
ममाज्ञादौ गणेशेन कृता सृष्टौ विशेषतः ।
मदीयां पात्रतां दृष्ट्वा तस्मान्नान्योऽस्ति मत्समः ॥ १४॥
इति गर्वेण मनसि मोहितोऽभूत् पितामहः ।
ततो विघ्नगणास्तत्र प्रबभूवुरनेकशः ॥ १५॥
सृष्टिं विरचयन्तं तं ब्रह्माणं प्राप्य दारुणः ।
नानारूपा महावीर्यास्ताडयामासुरोजसा ॥ १६॥
त्रिनेत्राः पञ्चनेत्राश्च पृष्ठनेत्रा महाबलाः ।
दशतुण्डा सहस्रं च मुखानि दधतः परे ॥ १७॥
एवं नानास्वरूपास्ते विधिं धृत्वा प्ररेमिरे ।
बालक्रीडनकं कृत्वा दुःखयुक्तं महाबलाः ॥ १८॥
एवं स परवान् ब्रह्मा गर्वं सर्वं प्रमुच्य वै ।
जगाम शरणं देवं गणेशं विघ्ननायकम् ॥ १९॥
गतगर्वो हृदि स्मृत्वा तुष्टाव गणनायकम् ।
तेन विघ्नगणाः सर्वेंऽतर्धानं तत्र चक्रिरे ॥ २०॥
मुक्तो विघ्नैस्तदा ब्रह्मा तताप परमं तपः ।
षडक्षरेण मन्त्रेण वक्रतुण्डमतोषयत् ॥ २१॥
वायुभक्षोऽभवद्ब्रह्मा पादाङ्गुष्ठाग्रसंस्थितः ।
चकार तेजसा वृत्तिं गणेशे निश्चलां ततः ॥ २२॥
एवं दिव्यसहस्रं स तपस्तेपे सुदारुणम् ।
ततो भूतानि सर्वानि व्याकुलाणि तदाऽभवन् ॥ २३॥
ततस्तस्योग्रतपसा प्रसन्नो वक्रतुण्डकः ।
आययौ भक्तराजं तं भक्तिभावेन तोषितः ॥ २४॥
तेजोरूपी महाकायो वक्रतुण्डश्चतुर्भुजः ।
सिंहारूढस्त्रिनेत्रश्च पाशाङ्कुशधरो विभुः ॥ २५॥
वरदाभयहस्तश्च पृथुवक्षा महोदरः ।
सिद्धिबुद्धियुतश्चिन्तामणिना च विराजितः ॥ २६॥
नानालङ्कारसंयुक्तः शेषनाभिर्गजाननः ।
सिन्दूरारुणदेहश्च नानावस्त्रधरः प्रभुः ॥ २७॥
तं दृष्ट्वा भयभीतोऽसौ विधाता स्तौति तं परम् ।
गणेशं हृदि सञ्चिन्त्य नानास्तोत्रैर्विधानतः ॥ २८॥
वक्रतुण्डः स्तुवन्तं तमुवाच घननिस्वनः ।
वरं वृणु विधातस्त्वं दास्यामि तु न संशयः ॥ २९॥
इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रणनाम च ।
उवाच सौम्यरूपेण वरं देहि गजानन ॥ ३०॥
ब्रह्मणो गिरमाकर्ण्य सौम्यतेजा गजाननः ।
उवाच तं महाभागं भक्तिभावेन तोषितः ॥ ३१॥
वक्रतुण्ड उवाच ।
स्वानन्दनगरे संस्थं सदैतादृशरूपकम् ।
मृत्युलोके स्थितस्त्वं च कथं द्रक्ष्यसि मानद ॥ ३२॥
तपसा भक्तिभावेन तोषितोऽहं त्वया विधे ।
तेन सौम्यस्वरूपेण त्वदग्रे संस्थितोऽभवम् ॥ ३३॥
त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं वाञ्छितान् परान् ।
(Page खं. १ अ. ४१ पान ९२)
मयि प्रसन्नतां याते दुर्लभं न भविष्यति ॥ ३४॥
गणेशवचनं श्रुत्वा ब्रह्मा तं प्रणनाम च ।
बद्धाञ्जलिपुटो भूत्वा स्तोतुं तमुपचक्रमे ॥ ३५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः ॥ १.४०
१.४१ दम्भासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
नमस्ते वक्रतुण्डाय गणेशाय महात्मने ।
अनन्तानन्तपाराय विघ्नेशाय नमो नमः ॥ १॥
नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते ।
अभक्तकामनाशाय सर्वदात्रे नमो नमः ॥ २॥
निर्गुणाय निरूपाय निर्मलाय गुणात्मने ।
अनन्ताननधाराय सिंहवाहाय ते नमः ॥ ३॥
अनादिरूपकायैव नमः सर्वप्रियङ्कर ।
वेदान्तवेद्यदेहाय गजवक्त्राय ते नमः ॥ ४॥
अनन्तोदरसंस्थाय नानाभोगकराय ते ।
मायाधाराय मायाया मोहकाय नमो नमः ॥ ५॥
अमेयशक्तये तुभ्यमनाधाराय दंष्ट्रिणे ।
चतुर्बाहुयुतायैव स्वानन्दपतये नमः ॥ ६॥
सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च ।
ब्रह्मभूताय देवाय विघ्नहर्त्रे नमोऽस्तु ते ॥ ७॥
वक्रतुण्ड प्रसन्नस्त्वं मह्यं देहि तदानघ ।
त्वदीयामचलां भक्तिं यया बन्धो न विद्यते ॥ ८॥
त्वदाज्ञया प्रवृत्तोऽहं तत्र सामर्थ्यमद्भुतम् ।
सृष्टौ देहि गणाधीश विघ्नहीनं च मे सदा ॥ ९॥
अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानन ।
अतस्त्वं पुत्रभावेन गृहे मे तिष्ठ मायया ॥ १०॥
त्वं साक्षाद्ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि ।
तदाहं बन्धनान्मुक्तो भविष्यामि च राजसात् ॥ ११॥
तव माता पिता स्वामिन् बन्धयुक्तौ कृतौ यदि ।
तदा वेदादिकं सर्वं मिथ्याभूतं भविष्यति ॥ १२॥
नामग्रहणमात्रेण ब्रह्मभूयप्रदो भवान् ।
किं पुनः पुत्रभावेन त्वं चेत् स्थास्यसि मे गृहे ॥ १३॥
अन्यच्च लालनं कुर्यां सेवनं पूजनं तथा ।
निरन्तरं प्रपश्येयं भवेयमतुलस्ततः ॥ १४॥
ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिः स्वयम् ।
जगाद तं महाभागं हर्षयन् सर्वभाववित् ॥ १५॥
वक्रतुण्ड उवाच ।
त्वया यत् प्रार्थितं ब्रह्मन् तदस्तु सकलं किल ।
सृष्टिकतृर्त्वसामर्थ्यमद्भुतं ते भविष्यति ॥ १६॥
निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति ।
यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा ॥ १७॥
तव पुत्रो भविष्यामि तारको माययांशतः ।
वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः ॥ १८॥
त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
मम प्रीतिकरं ब्रह्मन् ब्रह्मभूयप्रदं तथा ॥ १९॥
(Page खं. १ अ. ४१ पान ९३)
इत्युक्त्वान्तर्दधे दक्ष वक्रतुण्डः प्रतापवान् ।
ब्रह्माऽपि विमना भूत्वा तत्र वै संस्थितोऽभवत् ॥ २०॥
वक्रतुण्डप्रसादेन निर्ममे सकलं जगत् ।
चराचरमयं सर्वं यथायोग्यं चकार ह ॥ २१॥
सृष्ट्वा त्रिभुवनं सर्वं कृतकृत्य इवाऽभवत् ।
स्थितः स्वसुखनिष्ठः सन् वक्रतुण्डं स संस्मरन् ॥ २२॥
एकदा वायुवेगेन कम्पितः स प्रजापतिः ।
तस्मात् पुरुषरूपेण दम्भश्च प्रकटोऽभवत् ॥ २३॥
तत्पुरः पुरुषश्रेष्ठश्चतुर्बाहुधरः खलः ।
गदाचक्रत्रिशूलास्त्रधनुर्बाणधरो बभौ ॥ २४॥
रूपेण तेजसा पूर्णो वीर्येण ह्यतुलः परः ।
महाकायो महाबाहुः स्थितः पर्वतसन्निभः ॥ २५॥
तं दृष्ट्वा विस्मितो ब्रह्मा पप्रच्छ च नरं ततः ।
कस्य त्वं कुत आयातः किं कार्यं तेऽत्र वर्तते ॥ २६॥
वद मे पृच्छते सर्वं महाबलपराक्रम ।
धन्योऽसि रूपलावण्ययुक्तः परमशोभनः ॥ २७॥
ब्रह्मणो वच आकर्ण्य मेघगम्भीरया गिरा ।
उवाच तं विधातारं स्मयमान इदं वचः ॥ २८॥
पुरुष उवाच ।
विधेऽहं त्वां प्रजानामि प्रभावान् मे च मानद ।
तवाङ्गकम्पसम्भूतं मां जानीहि प्रजापते ॥ २९॥
देहि मे नाम योग्यं त्वं पुत्रोऽहं ते च सुव्रत ।
स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ॥ ३०॥
वचस्तस्य समाकर्ण्य तमूचे पद्मसम्भवः ।
हास्यं कृत्वा महाबाहुः प्रीणयन् वाक्यमादरात् ॥ ३१॥
ब्रह्मोवाच ।
किं मां जानासि पुत्र त्वं दम्भेन प्रब्रवीषि रे ।
अतस्त्वं दम्भनामा वै भविष्यसि महाखलः ॥ ३२॥
यत्र तत्र गतिस्ते वै भविष्यति महासुर ।
भोगान्नानाविधान् भुङ्क्ष्व यथारुचि यथासुखम् ॥ ३३॥
एवमुक्तो महाबाहुस्तं जगाम प्रणम्य सः ।
प्रदक्षिणीकृत्य विधिं क्षितिमण्डलमादरात् ॥ ३४॥
तत्रागत्य विचारं स कृतवान् मानसे खलः ।
ब्रह्मणाऽसत्कृतोऽहं वै तस्य गर्वं हराम्यहम् ॥ ३५॥
विचार्य सहसा दम्भो जगाम शरणं कविम् ।
तेनोपदिष्टमन्त्रेण ब्रह्माणं समतोषयत् ॥ ३६॥
एकपादेन तिष्ठन् सन्निराहारपरायणः ।
तताप तप उग्रं वै वर्षाणामयुतं गतम् ॥ ३७॥
तस्यैव तपसा सर्वं व्याकुलं सचराचरम् ।
न स्थातुमशकत् स्थाने भयभीतं बभूव ह ॥ ३८॥
तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा देवगणैः सह ।
आययौ तं वरं दातुं तपसा तोषितः प्रभुः ॥ ३९॥
काष्ठवत्तं स्थितं वीक्ष्य विस्मितः कमलासनः ।
जगाद तं महाभागं हर्षयन्निव भाषया ॥ ४०॥
ब्रह्मोवाच ।
वरं वृणु महाभाग यं यं मनसि संस्थितम् ।
ईप्सितं पूरयिष्यामि नात्र कार्या विचारणा ॥ ४१॥
ब्रह्मणो वचनं श्रुत्वा दम्भः परमहर्षितः ।
तं प्रणम्य प्रतुष्टाव बद्धाञ्जलिपुटो बली ॥ ४२॥
दम्भ उवाच ।
नमस्ते सृष्टिकर्त्रे वै सृष्टिपात्रे प्रजापते ।
सृष्टिहर्त्रे त्रिरूपाय ब्रह्मविष्णुशिवात्मने ॥ ४३॥
त्वया ततमिदं सर्वं त्वदाधारं महाप्रभो ।
(Page खं. १ अ. ४२ पान ९४)
त्वयि सुप्ते जगन्नष्टं भविष्यति न संशयः ॥ ४४॥
चराचमयो भूत्वा क्रीडसि त्वं पितामह ।
एकानेकप्रभेदेन त्वं स्थितोऽसि जगत्प्रभो ॥ ४५॥
अणुभ्योऽणुतरस्त्वं च महद्भ्यश्च महान् किल ।
कस्त्वां स्तोतुं समर्थः स्याद् ब्रह्माकारेण संस्थितम् ॥ ४६॥
महद्भाग्यं विभो मेऽद्य येन ते दर्शनं परम् ।
प्राप्तं सकलपापघ्नमग्रे शुभकरं तथा ॥ ४७॥
यदि प्रसन्नतां यातो यदि देयो वरो महान् ।
तदा मे वाञ्छितं सर्वं पूरयस्व प्रजापते ॥ ४८॥
राज्यं त्रैलोक्यस्य तथा मह्यं देहि पितामह ।
पञ्चभूतात्मकेभ्यश्च मृत्युर्न च कदा भवेत् ॥ ४९॥
सङ्ग्रामे मत्समः कश्चिन्नान्यः स्यान् मां कुरु प्रभो ।
अखण्डैश्वर्यसंयुक्तमारोग्यादिसमन्वितम् ॥ ५०॥
इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रत्युवाच ह ।
तपसा तोषितस्तस्मै दातुमुत्सुकतां गतः ॥ ५१॥
ब्रह्मोवाच ।
त्वया यत्प्रार्थितं दम्भ तत्सर्वं प्रभविष्यति ।
अन्यद्यच्चिन्तितं तत्ते सिद्धरूपं भविष्यति ॥ ५२॥
इत्युक्त्वान्तर्दधे ब्रह्मा दम्भः संहर्षितोऽभवत् ।
स्वगृहं प्रजगामासौ महाबलपराक्रमः ॥ ५३॥
नगरं शोभनं नाम कारयामास दर्पितः ।
पृथिव्यां सर्वशोभाढ्यं वासं तत्र चकार ह ॥ ५४॥
ततो दैत्यगणाः सर्वे शुक्रेन प्रेरिता मुने ।
आययुस्तत्र दम्भस्य नगरे हर्षिता भृशम् ॥ ५५॥
शुक्रः समागतस्तत्र मुनिभिर्ब्रह्मवादिभिः ।
दैत्यराज्यं स दम्भायाऽभवद्दातुं स उद्यतः ॥ ५६॥
शुभे लग्ने मुहूर्ते च सोऽभिषेकमकारयत् ।
ब्राह्मणैर्दैत्यराजानां राजा दम्भो बभूव ह ॥ ५७॥
महोत्सवं हर्षितास्ते चक्रुः सर्वे समागताः ।
हृष्टपुष्टजनाकीर्णं नगरं शुशुभे भृशम् ॥ ५८॥
सर्वे स्वस्वगृहे जग्मुस्ततो हर्षसमन्विताः ।
मुख्याश्च संस्थितास्तत्र देत्याः परमदारुणाः ॥ ५९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः ॥ १.४१
१.४२ दम्भासुरविजयो नाम द्विचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
नगरे दम्भदैत्यस्य महोत्सवयुता बभुः ।
जनाः सर्वे महाभागाः कञ्चित्कालं प्रजापते ॥ १॥
एकदा दैत्यपाः सर्वे ययुस्तत्र महाबलम् ।
सुहुण्डश्च तथा हुण्डो रुक्मकेतुर्महाबलः ॥ २॥
मद्यपश्च सकोपश्च तथा क्रोधासुरो महान् ।
कामासुरो बलाढयश्च रासभासुर एव च ॥ ३॥
इत्याद्या बहवश्चान्ये दम्भं शोभासमन्वितम् ।
प्रणम्योचुर्महात्मान उत्सुका देवनाशने ॥ ४॥
दैत्येशा ऊचुः ।
किं स्थितोऽसि महाराज वयं दासाः समागताः ।
त्रिभुवनं प्रजेष्यामो देवमर्दनलालसाः ॥ ५॥
(Page खं. १ अ. ४२ पान ९५)
तवाज्ञावशगाः सर्वे दैत्यदानवराक्षसाः ।
ब्रह्माण्डे न भवेत्तुल्यस्तव दम्भ बलेन वा ॥ ६॥
यशसा तेजसा चैव न समस्ते सुराधिप ।
आज्ञापय महाबाहो जेष्यामः सकलं जगत् ॥ ७॥
दैत्येशानां वचः श्रुत्वा दम्भदैत्यः प्रहर्षितः ।
उवाच तान् महाभागान् भावयुक्तेन चेतसा ॥ ८॥
दम्भासुर उवाच ।
सम्यगुक्तं महाभागा ममापि हृदये स्थितम् ।
भवद्भिः सहितोऽहं वै जेष्यामि सचराचरम् ॥ ९॥
एवमुक्त्वा स दैत्येशः शुक्रं तत्रानयन्मुने ।
मतं तस्य समादाय निर्जगाम ततः पुरात् ॥ १०॥
अपारसेनया सार्धं चतुरङ्गसुयुक्तया ।
सर्वे पृथिव्यां राजानो जिता दैत्यैर्महाबलैः ॥ ११॥
पातालेषु च सर्वान् वै नागान् जित्वा दिवं ययुः ।
तत्रेन्द्रो देवदेवेन्द्रैर्युयुधे सोऽसुरैः सह ॥ १२॥
तेन दैत्यगणाः सर्वे भयभीताः समन्ततः ।
वज्रपातैर्महाघोरैश्चूर्णिता ज्वालितास्तथा ॥ १३॥
असुरा रणभूमिं च त्यक्त्वा सर्वे पलायिताः ।
ततो दम्भासुरस्तत्र युयुधे बलगर्वितः ॥ १४॥
चक्रपातेन देवेन्द्रं मूर्च्छितं च चकार ह ।
देवान् बाणार्दितान् सर्वान् कारयामास दैत्यपः ॥ १५॥
लब्ध्वा संज्ञां सुरेन्द्रो वै पलायत जिजीविषुः ।
ततो देवगणास्तं चान्वगुः सर्वे भयातुराः ॥ १६॥
दैत्य ऐरावतारूढो देवेन्द्रस्यासने स्थितः ।
अमराणां पुरीं गत्वा हर्षितो हर्षयन् स्वकान् ॥ १७॥
इन्द्रो देवगणैः सर्वैर्ब्रह्माणं शरणं ययौ ।
ब्रह्मणा सह विष्णुं च तेन सार्द्धं शिवं ययौ ॥ १८॥
शिवः क्रोधसमायुक्त आययौ रणमूर्धनि ।
जुहाव दैत्यराजं तं सङ्ग्रामाय महाबलम् ॥ १९॥
ततो दैत्येशसंयुक्तो दम्भदैत्यः समाययौ ।
क्रोधसंरक्तचक्षुस्तं सन्नद्धो बलसंयुतः ॥ २०॥
ततः समभवद्युद्धं दारुणं रोमहर्षणम् ।
दैत्यानां चैव देवानां परस्परविनाशनम् ॥ २१॥
चत्वारिंशद्दिनान्यत्र तुमुलं नीतिसंयुतम् ।
शोणितौघा महानद्यो जाताः प्रेतसमाकुलाः ॥ २२॥
ततो दम्भः स्वयं क्रुद्धो बाणैर्देवानमर्दयत् ।
चकार देवराजांस्तान् मूर्च्छितान् धरणिं गतान् ॥ २३॥
ततः शम्भुस्त्रिशूलेन तं जघान महाबलम् ।
पपात मूर्च्छया दैत्यः क्षणादुत्थितवान् पुनः ॥ २४॥
तत्याज बलवांश्चकं पातयामास शङ्करम् ।
मूर्च्छितं प्रहरार्द्धं च दम्भदैत्यः प्रतापवान् ॥ २५॥
दृष्ट्वाऽद्भुतं महावीर्यं दैत्यराजस्य शङ्करः ।
पलायत ससंज्ञः सन् वने वै देवसंयुतः ॥ २६॥
देवेन्द्रान् गच्छतो दृष्ट्वा जहसुर्दैत्यनायकाः ।
आनन्देन समायुक्ता विविशुस्त्वमरावतीम् ॥ २७॥
ततः स सत्यलोके च वैकुण्ठे दैत्यनायकान् ।
कैलासे चामरावत्यां स्थापयामास यत्नतः ॥ २८॥
नानादेवपुरे रम्ये स्थापयामास दानवान् ।
आययौ शोभनायां स स्वपुर्यां बलसंयुतः ॥ २९॥
चकार राज्यमुन्मत्तस्त्रैलोकस्य महाबलः ।
ततः कर्मविनाशार्थमाज्ञापयत दैत्यपान् ॥ ३०॥
(Page खं. १ अ. ४३ पान ९६)
तदाज्ञया ययुः सर्वे दैत्याः परमदारुणाः ।
ब्राह्मणादीन् बबन्धुस्ते ताडयामासुरोजसा ॥ ३१॥
यज्ञवाटान् बभञ्जुस्ते यज्ञवृक्षादिकान् खलाः ।
तीर्थानि लोपयामासुर्देवतायतनानि च ॥ ३२॥
एवं नानाविधैर्यत्नैः कर्मलोपं प्रचक्रिरे ।
केचिद्भ्रष्टा द्विजास्तत्र मृताः केचित्तदाऽभवन् ॥ ३३॥
केचिद्वनं ययुस्तत्र सिंहव्याघ्रादिसङ्कुलम् ।
सन्ध्यादिभिर्विहीनास्ते द्विजास्तत्राऽभवन् किल ॥ ३४॥
न स्वाहा न स्वधा तत्र न वषट्कार एव च ।
न वर्णाश्रमधर्मश्च दम्भे राज्यं प्रकुर्वति ॥ ३५॥
वर्णसङ्कररूपा वै प्रजा जाता महीतले ।
तदा देवगणाः सर्वे भयभीता बभूविरे ॥ ३६॥
कर्मभोगकरा देवा नष्टे कर्मणि शौनक ।
मृतप्राया मृताः सर्व इव ब्रह्माणमब्रुवन् ॥ ३७॥
देवा ऊचुः ।
शरणं त्वदृते देव कं याम कमलासन ।
त्वं धाता त्वं विधाता च सर्वेषां प्राणधारकः ॥ ३८॥
त्वं गतिः सर्वदेवानां त्वमेव ब्रह्मभावितः ।
अतोऽस्मान् रक्ष देवेश दम्भासुरभयात् परात् ॥ ३९॥
कर्महीनं कृतं तेन त्रैलोक्यं सचराचरम् ।
देवाः कर्मान्नभोक्तारो महाबुद्धे कृतास्त्वया ॥ ४०॥
कर्माभावेन जगति मरिष्यामो न संशयः ।
अतस्त्वं सर्वदेवांश्च रक्षस्व प्रपितामह ॥ ४१॥
त्वयैव चाभयं दत्तं पालिताश्च त्वया वयम् ।
अधुना क्षुधयाऽऽविष्टा मरिष्यामस्त्वदग्रतः ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथम खण्डे वक्रतुण्डचरिते दम्भासुरविजयो नाम द्विचत्वारिंशोऽध्यायः ॥ १.४२
१.४३ दम्भासुरदूतसंवादो नाम त्रिचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
देवेन्द्राणां वचः क्रूरं श्रुत्वा चिन्तातुरोऽभवत् ।
चर्तुमुखो विचारं स चकाराऽत्र तु शोभनम् ॥ १॥
नावाप देवरक्षार्थं बुद्धिं बुद्धिविशारदः ।
ततश्चिन्तां दुरन्तां वै जगाम कमलासनः ॥ २॥
जगाद देवमुख्यांस्तु भयेन कमलासनः ।
अहं यूयं च सर्वेऽपि प्रार्थयामो गजाननम् ॥ ३॥
स वै सर्वविचारज्ञः करिष्यति शुभं महत् ।
अतस्तत् ध्यानकौशल्यात् ध्यायेम च विनायकम् ॥ ४॥
एकाक्षरविधानेन वक्रतुण्डं यजामहे ।
शरणं सर्वदेवानां भविष्यति न संशयः ॥ ५॥
मुद्गल उवाच ।
ब्रह्मणो गिरमाकर्ण्य देवा मुनिगणैः सह ।
पूजयामासुरव्यग्रा वक्रतुण्डं विधानतः ॥ ६॥
ब्रह्माऽपि ध्यानसंयुक्तस्तोषयामास विघ्नपम् ।
पुरा दृष्टं तथा चित्ते सिद्धिबुद्धियुतं मुने ॥ ७॥
गतेषु शतवर्षेषु ब्रह्माऽपश्यच्च तं हृदि ।
साकारं गुणसंयुक्तं वदन्तं मञ्जुला गिरः ॥ ८॥
दृष्ट्वा विस्मितचित्तोऽसौ यावत्पृच्छति तं प्रभुम् ।
(Page खं. १ अ. ४३ पान ९७)
तावत् सोऽपि बहिर्यातः सिद्धिबुद्धिसमन्वितः ॥ ९॥
ब्रह्माणं बोधयामास वक्रतुण्डो महाबलः ।
सुप्रसन्नतरो जातस्तपसा ध्यानशालिना ॥ १०॥
वक्रतुण्ड उवाच ।
पश्य मां पुत्रभावेन पितामह गणाधिपम् ।
तव ध्यानात् समुत्पन्नं ध्यानजं प्रवदन्त्यतः ॥ ११॥
तपसा पूर्वकाले मां त्वया पुत्रत्वमादरात् ।
याचितं सफलं तच्च कृतं तव मयाऽधुना ॥ १२॥
वचनं वक्रतुण्डस्य श्रुत्वा ब्रह्मा मुदा युतः ।
बहिर्वीक्ष्य गणेशानं सिद्धिबुद्धिविराजितम् ॥ १३॥
प्रणनाम स साष्टाङ्ग वक्रतुण्डं गजाननम् ।
सिद्धिं बुद्धिं विधानेन पूजयामास यत्नतः ॥ १४॥
तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे समागताः ।
ऋषयस्तं महाभागाः प्रणेमुर्भक्तिभावतः ॥ १५॥
सुतं मानसिकं दृष्ट्वा सिद्धिं बुद्धिं तथात्मजे ।
ताभ्यां सह विनीतास्ते तुष्टुवुर्बद्धपाणयः ॥ १६॥
ब्रह्माऽपि पूजनं कृत्वा स्तोतुं सर्वैः समन्वितः ।
उद्यतोऽभून् महातेजा वक्रतुण्डं सभार्यकम् ॥ १७॥
सदेवर्षिब्रह्मोवाच ।
नमस्ते ब्रह्मभूताय वक्रतुण्डाय साक्षिणे ।
सिद्धिबुद्धियुतायैव गणेशाय नमो नमः ॥ १८॥
विघ्नेशाय नमस्तुभ्यं निर्गुणाय गुणात्मने ।
अनादये च सर्वज्ञ पालकाय नमोऽस्तु ते ॥ १९॥
नमस्ते सर्वरूपाय सर्वाध्यक्षाय धीमते ।
आदिमध्यान्तहीनाय साक्षाद्देवाय ते नमः ॥ २०॥
अमेयशक्तये तुभ्यं मायिभ्यो मोहदाय च ।
अमायिने च मायाया आधाराय नमो नमः ॥ २१॥
सत्याय सत्यरूपाय सत्यपालक रक्षिणे ।
ज्ञानाय ज्ञानदात्रे च ज्ञानगम्याय ते नमः ॥ २२॥
लम्बोदराय देवाय गणानां पतये नमः ।
गणेशाय गुणाधार हेरम्बाय नमो नमः ॥ २३॥
त्वां स्तोतुं न समर्थाश्च वेदाः शास्त्रसमन्विताः ।
योगीन्द्रा देवमुख्याश्च तत्र कोऽहं गजानन ॥ २४॥
यथाबुद्धि प्रमोदेन संस्तुतोऽसि गणेश्वर ।
तेन मे सफलं सर्वं जातं लम्बोदराधुना ॥ २५॥
ब्रह्माण्डानामनन्तानां कारकस्त्वं न संशयः ।
कथं मे पुत्रतां यातः सिद्धिबुद्धिसमन्वितः ॥ २६॥
सिद्धिबुद्धियुतं ब्रह्म हृदि ध्यातं विशेषतः ।
तदेव बहिरायातं तारितुं मां न संशयः ॥ २७॥
इत्युक्त्वा ब्राह्मणैः सार्धं जातकर्मादिकां क्रियाम् ।
चकार च स्वयं ब्रह्मा परमानन्दसंयुतः ॥ २८॥
एकादशदिने तस्य सिद्धिबुद्धिपतिस्त्विति ।
नाम संस्थापयामास द्विजैः सह पितामहः ॥ २९॥
बालक्रीडनभावेन क्रीडति स्म विनायकः ।
सावित्री स्तनपानं सा कारयामास भावतः ॥ ३०॥
दिने दिनेऽथ बालोऽसौ ववृधे शुक्लचन्द्रवत् ।
आनन्दं जनयन् मातुः पितुश्च चरितैः स्वकैः ॥ ३१॥
सिद्धिबुद्धियुतो दक्ष वर्षद्वयवयाः स्थितः ।
एकदा तं विधातारं पप्रच्छ विनयान्वितः ॥ ३२॥
सिद्धिबुद्धिपतिरुवाच ।
तात किं वनवासं त्वं करोषि मुनिभिः सह ।
देवैः परमदुःखार्तो मम किं भाससे प्रभो ॥ ३३॥
तस्य तद्वचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः ।
जगाद गणपं सर्वं वृत्तान्तं दैत्यसम्भवम् ॥ ३४॥
(Page खं. १ अ. ४४ पान ९८)
तच्छ्रुत्वा कोपदीप्तोऽसौ वक्रतुण्डस्तमब्रवीत् ।
हर्षयन् देवविप्रादीन् मेघगम्भीरनिस्वनः ॥ ३५॥
वक्रतुण्ड उवाच ।
दम्भासुरं महावीर्यं हनिष्यामि न संशयः ।
देवेभ्यो ब्राह्मणेभ्यश्च स्वपदानि ददाम्यहम् ॥ ३६॥
एवमुक्त्वा समारूढः सिंहं शस्त्रधरः प्रभुः ।
सिद्धिबुद्धियुतस्तत्र जगामासुरवेश्मनि ॥ ३७॥
नगरप्रान्तभागे स संस्थितो जगदीश्वरः ।
तं देवमुनयः सर्वे ययुर्हर्षसमन्विताः ॥ ३८॥
दूतमिन्द्रं गणेशश्च प्रेषयामास सत्वरः ।
स्वधर्मे तिष्ठ दैत्येन्द्र नो चेद्धन्मि न संशयः ॥ ३९॥
इन्द्रो गत्वा महादैत्यं सामपूर्वमिदं वचः ।
उवाच सर्वभावज्ञो भावपूर्वं सुरद्विषम् ॥ ४०॥
इन्द्र उवाच ।
ब्रह्मणः पुत्रतां यातं पूर्णं ब्रह्म सनातनम् ।
सिद्धिबुद्धिपतिं विद्धि मानसं ध्यानयोगतः ॥ ४१॥
स एव मुनिभिर्देवैरागतः पुरसन्निधौ ।
मां दूतं प्रेषयामास सामार्थं तव सन्निधौ ॥ ४२॥
स्वधर्मे त्वं समातिष्ठ देवाः सन्तु हविर्भुजः ।
वर्णाश्रमयुता लोकास्तिष्ठन्तु विगतज्वराः ॥ ४३॥
इन्द्रस्य वचनं श्रुत्वा कुपितोऽतितरां मुने ।
दम्भासुर उवाचाऽथ तमिद्रं प्रदहन्निव ॥ ४४॥
दम्भासुर उवाच ।
किं करोमि समायातो दूतरूपेण मे गृहे ।
नो चेत्त्वां बन्धयित्वा तु कारागारे क्षिपाम्यहम् ॥ ४५॥
इन्द्र गच्छ महाभाग वद तं गणनायकम् ।
पञ्चमे दिवसे त्वां च योधयामि न संशयः ॥ ४६॥
तत इन्द्रः समायातः सिद्धिबुद्धिपतिं प्रति ।
कथयामास वृत्तान्तं विस्तरेण यथायथम् ॥ ४७॥
श्रुत्वा गणपतिः प्रीतस्तमुवाच महामतिम् ।
समीचीनं त्वया तत्र कृतं देवपते यथा ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरदूतसंवादो नाम त्रिचत्वारिंशोऽध्यायः ॥ १.४३
१.४४ दम्भासुरविचारो नाम चतुश्चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
देवेन्द्रे प्रस्थिते तत्र गणेशस्यैव सन्निधौ ।
दम्भासुरः कविं विप्रमाह्वयामास सन्निधौ ॥ १॥
समागतं महाबुद्धिं शुक्रं मुनिवरं प्रभो ।
प्रणनाम ससाष्टाङ्गं बद्धाञ्जलिपुटः स्थितः ॥ २॥
तं काव्यः स्थापयामास काञ्चनोत्तर आसने ।
पप्रच्छ मामाह्वयसे किमर्थमिति दानवम् ॥ ३॥
शुक्रस्य वचनं श्रुत्वा भयहर्षसमन्वितः ।
उवाच तं महाभागं भक्तियुक्तेन चेतसा ॥ ४॥
दम्भासुर उवाच ।
स्वामिन् योद्धुं समायातः सिद्धिबुद्धिपतिः प्रभुः ।
ब्रह्मणो मानसः पुत्रस्तपसा तेन निर्मितः ॥ ५॥
परिपृच्छामि तत्र त्वां सर्वज्ञं मुनिसत्तमम् ।
येन तं सर्वभावेन जानामि खलु तत्त्वतः ॥ ६॥
(Page खं. १ अ. ४४ पान ९९)
का सिद्धिः का तथा बुद्धिस्तयोः कोऽसौ पतिः प्रभो ।
किं सामर्थ्यधरो भाति वद सर्वं च मेऽग्रतः ॥ ७॥
दम्भस्य वचनं श्रुत्वा शुक्रस्तं पुनरब्रवीत् ।
येन तत्त्वे प्रविज्ञाते गणेशे जायते मतिः ॥ ८॥
शुक्र उवाच ।
शृणु दैत्येन्द्र तस्यापि महिमानं महाद्भुतम् ।
येन त्वं गाणपत्ये च तत्त्वे प्रनिपुणो भवेः ॥ ९॥
सिद्धिर्मोहकरी माया सर्वत्रैव प्रदृश्यते ।
सिध्यर्थं सर्वलोकाश्च यत्नवन्तो भवन्त्यतः ॥ १०॥
इहलोके स्वभोगार्थी सिद्धिमिच्छति दानव ।
परलोकस्य सिध्यर्थं जनस्तत्प्रसमाकुलः ॥ ११॥
ब्रह्मभूयपदप्राप्तिमिच्छेद्वै सिद्धिरूपिकाम् ।
इह ब्रह्मपरप्राप्तिस्त्रिविधा मोहसंज्ञिता ॥ १२॥
माया गणपतेः प्रोक्ता भ्रान्तिरूपा महामते ।
वामभागस्थया देव्या क्रीडतेऽसौ गजाननः ॥ १३॥
भ्रामयन् ब्रह्मविष्ण्वादीन् योगिनो मानवादिकान् ।
ब्रह्मभूतस्वरूपत्वात् स्वाधीनः सततं मतः ॥ १४॥
द्वितीया बुद्धिरूपा च माया तस्य महात्मनः ।
तां शृणुष्व महादैत्य येन त्वं सर्वविद्भवेः ॥ १५॥
यत्किञ्चिद् दृश्यते सर्वं मनोवाणीमयं जगत् ।
मनोवाणीविहीनं यत् सर्वं बुद्धिमयं बभौ ॥ १६॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
चित्तं पञ्चविधं प्रोक्तं बुद्धिरूपं तदेव च ॥ १७॥
पञ्चानां बहवो भेदा वक्तुं तान् नैव शक्यते ।
एवमेकाप्यनेकाऽसौ बुद्धिः सर्वत्र दृश्यते ॥ १८॥
मोहधारकरूपां ता सुभ्रान्तां बुद्धिमादरात् ।
ज्ञानरूपां हृदिस्थां तु ब्रह्माकारां प्रविद्धि हि ॥ १९॥
बुद्धियुक्तनरेणैव परत्रेह प्रलभ्यते ।
बुध्या ब्रह्ममयो योगो युज्यते ज्ञानिभिः परः ॥ २०॥
एतादृशी महाभागा दक्षिणाङ्गधराऽसुर ।
तस्य योगेश्वरस्याऽपि गणेशस्य महात्मनः ॥ २१॥
क्रीडार्थं रचिते माये स्वस्याङ्गात्तेन दैत्यप ।
ब्रह्मरूपं च तं विद्धि योगेन लभते नरः ॥ २२॥
स्वानन्दाख्यं परं ब्रह्म तदेव नगरं मतम् ।
तत्र नित्यं वसति यः सिद्धिबुद्धिसमन्वितः ॥ २३॥
ब्रह्मणाराधितं ब्रह्म पुत्रभावार्थमादरात् ।
तदेव गणराजोऽयमागतो ब्रह्मणः सुतः ॥ २४॥
मातुः पितुश्च बन्धं च पुत्रौ हरति यत्त्विति ।
तदर्थं पुत्रभावेन ब्रह्मणा प्रार्थितो विभुः ॥ २५॥
धर्मसंरक्षणार्थाय त्वां हनिष्यति निश्चितम् ।
अतस्त्वं शरणं गच्छ प्रभुमिच्छसि जीवितुम् ॥ २६॥
मुद्गल उवाच ।
काव्यस्य मुनिमुख्यस्य वचनं ब्रह्मदायकम् ।
वेदान्तसारसम्भूतं श्रुत्वा दम्भ उवाच ह ॥ २७॥
दम्भ उवाच ।
स्वामिन् श्रुतं मया वाक्यं त्वदीयं योगसंयुतम् ।
परं तु संशयं छिन्धि हृदिस्थं कथयामि ते ॥ २८॥
एतादृशं परं ब्रह्म गाणेशं चेन् महामुने ।
धर्माधर्मावतस्तस्मात् सम्भूतौ नात्र संशयः ॥ २९॥
योगरूपेण सर्वत्र गणेशस्तिष्ठति प्रभो ।
धर्मस्य रक्षणं सोऽपि किं करोति विकारतः ॥ ३०॥
अधर्मस्य तथा नाशं किमर्थं प्रकरोति सः ।
एतं संशयजातं मे छेत्तुमर्हसि साम्प्रतम् ॥ ३१॥
(Page खं. १ अ. ४५ पान १००)
काव्य उवाच ।
शृणु दम्भ गणेशस्य चेष्टितं सर्वदं परम् ।
येन ते संशयः सर्वो नाशं यास्यति तत्क्षणात् ॥ ३२॥
इदं सृष्टं गणेशेन नानाभेदमयं जगत् ।
तत्र स्वस्वपदे चैव स्थापिता जन्तवोऽभवन् ॥ ३३॥
अधर्मस्य च धर्मस्य व्यवस्था तेन सा कृता ।
तत्र लोभन वै धर्ममधर्मो जयते यदा ॥ ३४॥
सुराणां वै तदा तेजः क्षीणं भवति सर्वतः ।
असुराणां महत्तेजो वर्धते च दिने दिने ॥ ३५॥
यदाऽयं गणराजस्तु देवानां पक्षवर्धनः ।
असुराणां विनाशाय स्वयं भवति चोद्यतः ॥ ३६॥
हत्वा देवगणैः सर्वैरसुराणां बलं महत् ।
स्वस्थाने स्थापयत्येव धर्मं सर्वप्रयत्नतः ॥ ३७॥
धर्मेण सकलं दैत्य ह्यधर्मस्य बलं हतम् ।
तदा दैत्यादिकानां तु मूलच्छेदो भविष्यति ॥ ३८॥
देवानामुदितं तेजो भवेद्यदि महाद्भुतम् ।
दैत्याय वरदस्तर्हि भवेच्चानेकरूपवान् ॥ ३९॥
असुरैर्वरसंयुक्तैर्धर्मे क्षीणे समन्ततः ।
अधर्मस्य स संस्थां वै यथापूर्वमकल्पयत् ॥ ४०॥
एवं लोभसमायुक्ताः सुरा दैत्या भवन्ति चेत् ।
तदा तेषां विनाशाय गणेशो यततेऽसुर ॥ ४१॥
नास्ति तस्य विचारेण स्वः परः क्वचिदेव च ।
क्रीडार्थं स्वात्मभावेषु स्थापयत्येव वै जनान् ॥ ४२॥
मुद्गल उवाच ।
शुक्रस्य वचनं रम्यं श्रुत्वा दम्भः प्रतापवान् ।
गणेशं मनसा ध्यायन् संस्थितो नगरे स्वके ॥ ४३॥
एकान्तेऽसौ महातेजा विचारं प्रचकार ह ।
अयं गणेशनामा वै पूर्णं ब्रह्म सनातनम् ॥ ४४॥
तमेव शरणं गच्छन् यशस्वी स भविष्यति ।
सर्वेषु समरूपेण स्थितोऽयं नात्र संशयः ॥ ४५॥
त्यक्त्वा सिद्धिपतिं सिद्धिमिच्छेद्यो दुर्मतिः परम् ।
असिद्धिर्भविता तस्य सुहृद्भिर्नात्र संशयः ॥ ४६॥
बुद्धेः पतिं गणेशं यस्त्यक्त्वा कुशलमिच्छति ।
तस्याऽकुशलमवं च भविता दुष्टभावतः ॥ ४७॥
सिद्धिबुद्धिविहीनं तु ना किञ्चिद् दृश्यते मया ।
अतस्तं शरणं यामि सुरासुरसमं विभुम् ॥ ४८॥
इति निश्चितसङ्कल्पो दम्भः सुष्वाप निर्भयः ।
गणेशं हृदि विन्यस्य भक्तिभावेन भावितम् ॥ ४९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरविचारो नाम चतुश्चत्वारिंशोऽध्यायः ॥ १.४४
१.४५ दम्भासुरशान्तिकथनं नाम पञ्चचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शृणु दक्ष महाप्राज्ञ महद् दम्भस्य कौशलम् ।
त्यक्त्वाऽऽसुरस्वभावं स संस्थितो विगतज्वरः ॥ १॥
प्रातरुत्थाय दैत्यान् स सर्वानाकारयत् स्वयम् ।
उवाच तान् महातेजा वचनं शुक्रसन्निधौ ॥ २॥
दम्भासुर उवाच ।
शृणुध्वमसुराः सर्वे गुरुणाऽहं प्रबोधितः ।
शरणं वक्रतुण्डं च यामि तत्र न संशयः ॥ ३॥
सुराणामधिपो नाऽयं नायं दैत्याधिपः कदा ।
(Page खं. १ अ. ४५ पान १०१)
ब्रह्माकारेण सर्वत्र सिद्धिबुद्धिपतिः स्थितः ॥ ४॥
तस्य तद्वचनं श्रुत्वा कुपिता दानवास्तदा ।
ययुः स्वं स्वं गृहं सर्वे त्यक्त्वा दम्भासुरं खलाः ॥ ५॥
दम्भासुरः प्रसन्नात्मा काव्येन सहितः स्वयम् ।
शरणं गणनाथं च ययौ हर्षसमन्वितः ॥ ६॥
नगराद्बहिरागत्य ययौ देवस्य सन्निधिम् ।
दण्डवत्पतितः पृथ्व्यां कृताञ्जलिरुपस्थितः ॥ ७॥
तुष्टाव तं गणाध्यक्षं तद्दर्शनमहोत्सवः ।
यथान्यायं पूजयित्वा निबद्धकरसम्पुटः ॥ ८॥
दम्भासुर उवाच ।
नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे ।
ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥ ९॥
नमस्ते त्रिदशेशाय दैत्यदानवपाय च ।
सर्वत्र योगरूपाय भावहीनाय ते नमः ॥ १०॥
सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च ।
गणानां पतये तुभ्यं हेरम्बाय नमो नमः ॥ ११॥
एकदन्ताय देवाय ह्यनन्तविभवाय ते ।
विघ्नेशाय महाविघ्ननाशनाय नमो नमः ॥ १२॥
अपारगुणधाराय दैत्यदानवमर्दिने ।
मनोवाणीमयायैव सर्वरूपाय ते नमः ॥ १३॥
मनोवाणीविहीनाय योगिभ्यो योगदायिने ।
योगाय योगनाथाय विश्वपाय नमो नमः ॥ १४॥
मायाधाराय मायायाश्चालकाय नमो नमः ।
मायाहीनाय सर्वत्र समभावधराय ते ॥ १५॥
अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च ।
निर्मोहाय समोहाय लम्बोदर नमो नमः ॥ १६॥
यं स्तोतुं न समर्थाश्च वेदाः साङ्गा महर्षयः ।
योगीन्द्रा ब्रह्मविष्ण्वाद्यास्तं किं स्तौमि परात् परम् ॥ १७॥
इत्युक्त्वा पतितः पृथ्व्यां दम्भो भक्तिसमन्वितः ।
तमुत्थाप्य गणाधीश ऊचिवान् भक्तिभावितः ॥ १८॥
गणेश उवाच ।
त्वया दम्भ कृतं स्तोत्रं मम सन्तोषवर्धनम् ।
यः पठेत् पाठयेत्तद्वा स सर्वं सुखमाप्नुयात् ॥ १९॥
पुत्रपौत्रकलत्रादि धनधान्यप्रदं भवेत् ।
आधिव्याधिहरं चैव सर्वोपद्रवनाशनम् ॥ २०॥
एककालं द्विकालं वा त्रिकालं सततं तथा ।
यः पठेत् स नरोऽत्यन्तं मम प्रीतिकरो भवेत् ॥ २१॥
त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
अधुना शरणं यातस्ततो हन्मि न निश्चितम् ॥ २२॥
वरं वरय मत्तस्त्वं यत्त्वच्चित्ते स्थितं परम् ।
स्तोत्रेण भक्तिभावेन सन्तुष्टोऽहं ददामि ते ॥ २३॥
गणेशवचनं श्रुत्वा दम्भो हर्षसमन्वितः ।
उवाच गणपं तत्र भक्तिनम्रात्मकन्धरः ॥ २४॥
दम्भासुर उवाच ।
यदि देवेश तुष्टोऽसि यदि देयो वरो हि मे ।
अचलां देहि ते भक्तिं तदा नाथ नमोऽस्तु ते ॥ २५॥
आज्ञां त्वं ज्ञापय विभो वृत्यर्थं मे च साम्प्रतम् ।
स्थानं देहि गणाध्यक्ष तत्र स्थास्यामि निश्चलः ॥ २६॥
दम्भस्य वचनं श्रुत्वा गणेशस्तमुवाच ह ।
सुप्रसन्नतया दक्ष भक्तं गम्भीरनिस्वनः ॥ २७॥
सिद्धिबुद्धिपतिरुवाच ।
भविता मयि भक्तिस्ते दृढा ह्यव्यभिचारिणी ।
तिष्ठ स्थाने स्वके त्वं वै दम्भ हर्षसमन्वितः ॥ २८॥
न त्वं न्यूनोऽसि मे क्वापि देवा नैवाधिका मताः ।
स्वस्वधर्मे स्थिताः सर्वे मम प्रीतिविवर्धनाः ॥ २९॥
स्वधर्मत्यागदोषेण क्रुद्धोऽहं नाशयामि तान् ।
अतस्त्वं निर्भयो भूत्वा चिरं तिष्ठ महासुर ॥ ३०॥
यत्र मे स्मरणं नास्ति कार्यादौ दैत्यसत्तम ।
तत्र त्वं दम्भभावेन कार्यनाशं सदा कुरु ॥ ३१॥
कर्मादौ पूजनं यत्र मम नास्ति यदासुर ।
तदा तद्भ्रंशभावेन निष्फलं कुरु सर्वदा ॥ ३२॥
मम भक्तिसमायुक्ता ये नराः सततं प्रियाः ।
तान् पालय प्रयत्नेन दम्भ हीनस्वभावतः ॥ ३३॥
यत्र मे स्मरणं नास्ति पूजनं च महामते ।
आदौ तत्र च ते भागः कर्मरूपो मया कृतः ॥ ३४॥
एवमुक्त्वा स तं दम्भं गणेशोंऽतर्दधे स्वयम् ।
देवाश्च मुनयः सर्वे जयेत्युक्त्वा ययुस्ततः ॥ ३५॥
स्वस्वस्थानेषु दीप्तास्ते स्थिता भयविवर्जिताः ।
पातालविवरे दैत्याः स्थिता निर्व्याकुलाः प्रभो ॥ ३६॥
एवं दम्भासुरं शान्तं स चकार गजाननः ।
ब्रह्मपुत्रत्वमापन्नस्तदप्युक्तं मया परम् ॥ ३७॥
य एतच्छ्रुणुयान्नित्यं श्रावयेद्वा समाहितः ।
स दम्भभयनिर्मुक्तो याति ब्रह्म सनातनम् ॥ ३८॥
यं यं चिन्तयते कामं तं तं प्राप्नोति मानवः ।
सर्वसम्पत्समायुक्तस्तिष्ठेद्वै विघ्नवर्जितः ॥ ३९॥
अधुना वामनस्थापि कथयामि समासतः ।
चरित्रं गणनाथस्य भक्त्या युक्तं महाद्भतम् ॥ ४०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरशान्तिकथनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ १.४५
१.४६ वामनवरप्रदानं नाम षट्चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
श्रुत्वा कथां गणेशस्य हर्षश्चेतसि वर्धते ।
अतः कथय सर्वज्ञ चरित्रं वामनस्य यत् ॥ १॥
मुद्गल उवाच ।
कश्यपो मुनिशार्दूलः प्रजापतिसमोऽभवत् ।
अदितिस्तस्य पत्न्यासीत् ज्येष्ठा परमधार्मिका ॥ २॥
तस्यां च कश्यपाद्देवा इन्द्राद्या जज्ञिरे प्रभो ।
तेषां विरुद्धभावेन स्थिता दैत्या मुनेः सुताः ॥ ३॥
बलेन वरगर्वेण देवान् हन्तुं समुद्यताः ।
अभवन् विष्णुना ते वै नानारूपेण नाशिताः ॥ ४॥
न प्रापुः स्वर्गराज्यं ते सर्वमान्यं यदा तदा ।
काव्यं सकलनीतिज्ञं शरणं प्रययुः पुनः ॥ ५॥
तेषां सर्वं स वृत्तान्तं विदित्वा मुनिपुङ्गवः ।
दैत्यानुवाच सर्वज्ञः काव्यो वेदविदां वरः ॥ ६॥
काव्य उवाच ।
बलिदानवमुख्या वै शृणुध्वं मे वचो हितम् ।
यज्ञे देवाः समुत्पन्ना यज्ञाधारास्ततः सुराः ॥ ७॥
अतोऽश्वमेधयज्ञैश्च यजध्वं शतसङ्ख्यकैः ।
बलिरिन्द्रो महाबाहुर्भविता नात्र संशयः ॥ ८॥
द्वेषभावं च देवानां सदा सञ्छाद्य यत्नतः ।
(Page खं. १ अ. ४६ पान १०३)
तेन स्वर्गभुजो दैत्या यूयं सर्वत्र पूजिताः ॥ ९॥
भविष्यथ महाभागास्तस्मात् कुरुत मद्वचः ।
सर्वे हृष्टाश्च तं तत्र साधु साध्वब्रुवन् स्थिताः ॥ १०॥
ततस्ते बलिराजं च मुख्यं कृत्वा महाबलाः ।
त्वरिता अश्वमेधेषु दीक्षितं चक्रुरादरात् ॥ ११॥
बलिर्विरोचनाज्जातो विष्णुभक्तिपरायणः ।
अधर्मे न रुचिस्तस्य जायते हि कदाचन ॥ १२॥
आदौ त्यक्त्वा गणेशानं विष्णुं स्मृत्वा महासुरः ।
आद्यं तं यज्ञमारेभे विष्णुभक्ततया खलः ॥ १३॥
तस्य चेष्टितमाज्ञाय विघ्नः परमहर्षितः ।
उवाच सदसि ह्यादौ पूजितो न गणाधिपः ॥ १४॥
भुक्तिमुक्तिप्रदाता यः सर्वसिद्धिकरो विभुः ।
सिद्धिमिच्छन्ति तं त्यक्त्वा तेऽसिद्धाः प्रभवन्ति हि ॥ १५॥
विष्णोर्बलेन दैत्यस्य भवेत् सिद्धिश्च कीदृशी ।
भक्षयिष्यामि तत्सर्वं कर्म तेन मखे कृतम् ॥ १६॥
इत्युक्त्वा स स्वयं विघ्न आययौ क्रोधसंयुतः ।
प्रविश्य देवराजस्य हृदये संस्थितोऽभवत् ॥ १७॥
यज्ञाः सङ्कल्पितास्तस्य विप्रैस्तु शतसङ्ख्यकाः ।
आद्ये यज्ञे समारब्धे इन्द्रश्चिन्तातुरोऽभवत् ॥ १८॥
शतयज्ञप्रभावेण बलिरिन्द्रो भविष्यति ।
ततः स शरणं विष्णुं जगाम सुरनायकः ॥ १९॥
नत्वा स्तुत्वा महातेजाः प्रार्थयामास सादरम् ।
विष्णुं देववरं तत्र बलियज्ञविनाशने ॥ २०॥
एतस्मिन्नन्तरे तत्र विघ्नः कालस्वरूपधृक् ।
बलवान् विष्णुमाविश्य संस्थितो हृदयेऽभवत् ॥ २१॥
बलेः प्रचेष्टितं पूर्णं कथितं वज्रपाणिना ।
तज्ज्ञात्वा सकलं विष्णुरिन्द्रं प्रोवाच सत्वरम् ॥ २२॥
विष्णुरुवाच ।
अदित्या कश्यपेनापि तपस्तप्तं सुदारुणम् ।
शतवर्षं मदर्थं च तस्मिन् काले सुराधिप ॥ २३॥
तयोरहं प्रसन्नात्मा वरदश्च पुराऽभवम् ।
ताभ्यां त्वं पुत्रतां याहि याचितं सर्वभावतः ॥ २४॥
ओमित्युक्तं मया तत्र तं वरं सफलं प्रभो ।
अधुनाऽहं करिष्यामि बलेर्यज्ञस्य नाशने ॥ २५॥
विस्मृता विष्णुनाऽत्यन्तं बलेर्भक्तिर्महाद्भता ।
स बलेनिग्रहार्थं च स्वयमवोद्यतोऽभवत् ॥ २६॥
स विष्णुः कश्यपाज्जातो ह्यदित्यां वामनः प्रभुः ।
बलेर्बलं निरीक्ष्यैव न शशाक प्रचालितुम् ॥ २७॥
मनसि क्षुभितो विष्णुः कश्यपं पितरं तदा ।
पप्रच्छ बलिनाशाय वदोपायं महामुने ॥ २८॥
षडक्षरं महामन्त्रं वक्रतुण्डस्य तं ददौ ।
ततोऽसौ च विदर्भेषु गत्वा तपसि संस्थितः ॥ २९॥
दशवर्षं महोग्रं स तपस्तेपे सुदारुणम् ।
निराहारतया दक्ष गणेशं हृदि चिन्तयन् ॥ ३०॥
उग्रेण तपसा तस्य प्रत्यक्षः सिंहवाहनः ।
षडक्षरप्रभावेण तं ययौ भक्तवत्सलः ॥ ३१॥
चतुर्बाहुधरः पूर्णः सिद्धिबुद्धिसमन्वितः ।
एकदन्तो गजाकारमुखः पाशाङ्कुशादिधृक् ॥ ३२॥
सिन्दूरारुणदेहश्च शूर्पकर्णो महोदरः ।
कोटिसूर्यसमानेन तेजसा सुविराजितः ॥ ३३॥
तं दृष्ट्वा सहसोत्थाय वामनः प्रणनाम सः ।
खं १ अ ४३ पान १०४
बद्धाञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ ३४॥
वामन उवाच ।
नमो विघ्नपते तुभ्यं भक्तविघ्नविनाशिने ।
अभक्तविघ्नादात्रे च गणेशाय नमो नमः ॥ ३५॥
वक्रतुण्डाय सर्वेश पालकाय नमो नमः ।
नानारूपधरायैव सर्वान्तर्यामिणे नमः ॥ ३६॥
सर्वं चराचरं स्वामिंस्त्वदाज्ञा वशवर्ति च ।
विभूतिभिर्महाराज कुरुषे सर्वमञ्जसा ॥ ३७॥
ब्रह्मा प्रजापतीनां त्वं यज्ञानां विष्णुरेव च ।
ईश्वराणां स्वयं शम्भुर्देवानां त्वं पुरन्दरः ॥ ३८॥
प्रकाशानां रविस्त्वं च चन्द्रोऽन्नेषु गणाधिप ।
यमो यमवतां त्वं वै वरुणो यादसां प्रभो ॥ ३९॥
वायुर्बलवतां त्वं च निधीनां धनपः स्वयम् ।
अग्निर्वै दाहकानां त्वं रक्षसां निरृतिः स्वयम् ॥ ४०॥
नागानां शेषरूपोऽसि योगिनां शुक्र एव च ।
कुमाराणां त्वं च सनत्कुमारोऽसि न संशयः ॥ ४१॥
गुहः सेनापतीनां त्वं मृगाणां सिंहवेषभृत् ।
एवं नानास्वरूपैस्त्वं जगद्रक्षणतत्परः ॥ ४२॥
त्वां स्तोतुं कः समर्थः स्याद्योगरूपं सनातनम् ।
वेदाः शेषश्च वेधा च शक्ता न स्तवनेऽभवन् ॥ ४३॥
तत्र मन्दमतिः क्वाहं पारं गन्तुं तव स्तुतेः ।
तथापि च यथाबुद्धि संस्तुतोऽसि च विघ्नप ॥ ४४॥
तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् ।
धन्यं जन्म मदीयं वै येन दृष्टो गजाननः ॥ ४५॥
धन्यौ माता पिता मेऽद्य स्थलं धन्यं तपोऽपि च ।
षडक्षरश्च मन्त्रोऽयं धन्यो येन त्वमागतः ॥ ४६॥
एवमुक्त्वा ननर्ताऽसौ भक्तिभावपरिप्लुतः ।
रोमाञ्चितशरीरोऽभूदानन्दाश्रु सृजन्मुहः ॥ ४७॥
देहभावं परित्यज्य वामनो हर्षसंयुतः ।
तदेकनिष्ठतां प्राप्तो महाभागः प्रजापते ॥ ४८॥
तं तादृशं गणाधीशो दृष्ट्वा प्रेमपरिप्लुतम् ।
जगाद परमात्माऽसौ वामनं भक्तवत्सलः ॥ ४९॥
गणेश उवाच ।
शृणु वामन मे वाक्यं वरं वृणु हृदीप्सितम् ।
तव भक्त्या तपोयुक्त्या स्तुत्या वै तुष्टिमागतः ॥ ५०॥
दास्यामि सकलं तुभ्यं यद्यपि स्यात् सुदुष्करम् ।
धन्योऽसि बालभावेऽपि भक्तिस्ते मे परापदि ॥ ५१॥
त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
यः पठेच्छ्रावयेद्वापि तस्य सिद्धिर्भविष्यति ॥ ५२॥
यं यं चिन्तयते कामं तं तं दास्यामि दुर्लभम् ।
अन्ते मोक्षं महाविष्णो स्वानन्दे प्रददाम्यहम् ॥ ५३॥
इति तस्य वचः श्रुत्वा वक्रतुण्डस्य शोभनम् ।
वामनः प्रणतो भूत्वा तं जगाद गजाननम् ॥ ५४॥
प्रसन्नो यदि देवेश देहि भक्तिं दृढां च ते ।
बलिं देवरिपुं ढुण्ढे मत्साध्यं कुरु दैत्यपम् ॥ ५५॥
यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय ।
यथा न मां भवेद्विघ्नो वरं देहि गजानन ॥ ५६॥
तथेति तमथोक्त्वाऽसौ गणेशोंऽतर्दधे स्वयम् ।
(Page खं. १ अ. ४७ पान १०५)
वामनस्तत्र देवेशं स्थापयामास हर्षतः ॥ ५७॥
अदोषाख्यं महाक्षेत्रं विदर्भे स्थानमुत्तमम् ।
वक्रतुण्डस्य सम्भूतं नराणां सर्वसिद्धिदम् ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते वामनवरप्रदानं नाम षट्चत्वारिंशोऽध्यायः ॥ १.४६
१.४७ वामनचरितं नाम सप्तचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
वरं लब्ध्वा स सम्पूज्य वक्रतुण्डं च वामनः ।
कश्यपं प्रणतो भूत्वा ययौ यज्ञं बलेरपि ॥ १॥
तं दृष्ट्वा सूर्यसङ्काशं वेदाध्ययनसंयुतम् ।
ह्रस्वाकृति मुनिश्रेष्ठं विस्मिता मुनयोऽभवन् ॥ २॥
बलिरुत्थाय तं नत्वा पूजयामास भक्तितः ।
पप्रच्छ किं ददे तुभ्यं मां तद् ब्रूहि महामुने ॥ ३॥
ततः शुक्रेण सर्वं तज्ज्ञातं तस्य प्रयोजनम् ।
गणेशपूजनं चादौ न कृतं दुष्टबुद्धिना ॥ ४॥
तेन विघ्नस्वरूपं च विष्णुरूपेण संस्थितम् ।
अधुना यादृशं भावि तथा भवतु तादृशम् ॥ ५॥
बलेर्वचनमाकर्ण्य वामनः प्राह तं ततः ।
देहि त्रिपदरूपां मे भूमिं दैत्यपते किल ॥ ६॥
ददौ बलिर्महाभक्त्या तां भूमिं सादरो यथा ।
तथा वामनदेवोऽपि गणेशं मनसाऽस्मरत् ॥ ७॥
विराड्रूपं ततो धृत्वा पादं चिक्षेप देवपः ।
एकेन सकलं स्वर्गं पादेनावृत्य सत्वरः ॥ ८॥
द्वितीयेन स भूमिं वै सर्वामावृत्य वामनः ।
उवाच दैत्यपं देहि तृतीयस्य स्थलं प्रभो ॥ ९॥
बलिर्विस्मयमापन्नो भ्रान्तः शोकाकुलो भवत् ।
किञ्चिन्नोवाच तं तत्र किं ददामीति विह्वलः ॥ १०॥
ततो विष्णुः प्रकोपेन तं बबन्ध महासुरम् ।
विप्रस्य त्वमृणी जातो नरकं गच्छ दैत्यप ॥ ११॥
विष्णोर्वचनमाकर्ण्य बलिर्वै दुःखितोऽभवत् ।
नरकं विष्णुभक्ताय दत्ते वै विष्णुरद्भुतम् ॥ १२॥
अहो मोहो महान्मेऽभूद्येन वेदविवर्जितम् ।
कृतं कर्म विना पूज्यं गणेशं विघ्ननायकम् ॥ १३॥
तस्येदं हि फलं प्राप्तं विष्णुभक्तस्य विष्णुतः ।
अतस्तं शरणं यामि स रक्षिष्यति मां प्रभुः ॥ १४॥
एवं विचार्य तस्यैव मनसि ध्यानमादधे ।
ढुण्ढिं तुष्टाव दैत्येशः सर्वभावसमन्वितः ॥ १५॥
बलिरुवाच ।
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १६॥
सर्वाकाराय देवाय गम्यागम्यस्वरूपिणे ।
स्वानन्दपतये तुभ्यं हेरम्बाय नमो नमः ॥ १७॥
नमो ब्रह्मपते तुभ्यं गणाध्यक्षाय ते नमः ।
सिद्धिबुद्धिपते तुभ्यं नमो विश्वम्भराय ते ॥ १८॥
अपाराय नमस्तुभ्यं नानामायाश्रयाय च ।
(Page खं. १ अ. ४७ पान १०६)
मायामोहहरायैव गणेशाय नमो नमः ॥ १९॥
सर्वान्तर्यामिणे तुभ्यं चिन्तामणिसुरूपिणे ।
सततं ब्रह्मभूताय नमस्ते जगदादये ॥ २०॥
अन्ते मध्ये च सर्वत्र संस्थिताय नमो नमः ।
आदिमध्यान्तहीनाय सिंहवाहाय ते नमः ॥ २१॥
अपराधानसङ्ख्यातान् मदीयान् जगदीश्वर ।
क्षन्त्वा पाहि गणाधीश पतन्तं नरके च माम् ॥ २२॥
त्वन्मायामोहयोगेन मोहितोऽहं न संशयः ।
तेन मत्सरभावेन त्वां त्यक्त्वा विष्णुमाश्रितः ॥ २३॥
सकलं विघ्नसंयुक्तं जगदेतच्चराचरम् ।
शिवविष्ण्वादिभिः सार्धं तव मायाविमोहितम् ॥ २४॥
यदि त्वां शरणं ढुण्ढे शिवविष्ण्वादयः प्रभो ।
गच्छन्ति मोहहीना वै निर्विघ्नास्ते भवन्ति च ॥ २५॥
अन्यथा भ्रष्टरूपास्ते पदहीना भवन्ति च ।
अतस्त्वं सर्वदेवानां धारको नात्र संशयः ॥ २६॥
सत्तारूपा महाविघ्नास्तेषां स्वामी भवान् मतः ।
सर्वेषां स्थापकाश्चैव तथोत्थापनकारकाः ॥ २७॥
अधुना त्वत्प्रसादेन मया बुद्धं गजानन ।
अतस्त्वां शरणं यातो दीनोऽनाथश्च साम्प्रतम् ॥ २८॥
रक्ष रक्ष गणाध्याक्ष नरकान्मां दयानिधे ।
त्वत्स्मृत्या चैव भवति जनः सर्वार्थसिद्धिभाक् ॥ २९॥
एवं नानाविधैः स्तोत्रैस्तुष्टाव दनुजेश्वरः ।
तदैवाकाशजां वाणीं शुश्राव परमाद्भुताम् ॥ ३०॥
मा भयं कुरु दैत्येन्द्र रक्षामि शरणागतम् ।
नरकात्ते भयं नास्ति मत्स्मृतेः करणात् कदा ॥ ३१॥
त्वया कृतमिदं स्तोत्रं नरकस्य हरं भवेत् ।
यः पठेच्छ्रावयेद्वापि नरकात्तस्य नोभयम् ॥ ३२॥
धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति ।
मद्भक्तिवर्धनं चैव बले भवति निश्चितम् ॥ ३३॥
श्रुत्वाऽऽकाशभवां वाणीं बलिर्हृष्टो बभूव ह ।
तमेव गणपं चित्ते ध्यायंस्तत्रैव संस्थितः ॥ ३४॥
एतस्मिन्नन्तरे विघ्नो विष्णुं तत्याज वै यतः ।
ततो बुद्धिप्रकाशश्च विष्णोर्जातस्तु तत्क्षणात् ॥ ३५॥
वामनो मनसा तत्र ध्यायति स्म प्रजापते ।
मम भक्तो बलिः पूर्णस्तस्य प्राप्तं महद्भयम् ॥ ३६॥
विप्रस्य ऋणमुग्रं यत्तेनायं नारकी भवेत् ।
अहो मयातिमूर्खेण मम भक्तः प्रपीडितः ॥ ३७॥
वेदबाह्य कृतं कर्म बलिना मत्सरान् मखे ।
न पूजितो गणाध्यक्षः फलहीनोऽभवत्ततः ॥ ३८॥
अधुना भक्तरक्षार्थं किं करोमि विचारतः ।
गणेशं शरणं यामि ततः सौख्यं भविष्यति ॥ ३९॥
एवं विचार्य देवेशो गणेशं हृदि सोऽस्मरत् ।
स्मृतिमात्रेण तस्याऽग्रे प्रकटोऽभूद्गजाननः ॥ ४०॥
तं दृष्ट्वा प्रणनामादौ पूजयामास भक्तितः ।
सर्वे देवगणास्तत्र मुनयस्तमपूजयन् ॥ ४१॥
एतस्मिन्नन्तरे तत्र बलिः प्रोवाच वामनम् ।
गणेशदर्शनेनैव प्राप्तबुद्धिर्महायशाः ॥ ४२॥
बलिरुवाच ।
ब्रह्मन् देहि तृतीयं ते पादं शिरसि चाशु मे ।
देहोऽयं दानरूपेण मया दत्तो न संशयः ॥ ४३॥
तच्छ्रुत्वा हर्षितो विष्णुस्तथेति स चकार ह ।
(Page खं. १ अ. ४७ पान १०७)
ब्राह्मणस्यर्णनिर्मुक्तं भक्तं कृत्वा च संस्थितः ॥ ४४॥
ततस्तं मुनिभिर्देवैः सहितोऽसौ जनार्दनः ।
तुष्टाव प्राञ्जलिं बध्वा गणेशं सर्वसिद्धिदम् ॥ ४५॥
वामन उवाच ।
नमस्ते गणनाथाय सर्वेषां पतये नमः ।
नानागणविभक्ताय जगत्कर्त्रे नमोऽस्तु ते ॥ ४६॥
विघ्नानां पतये तुभ्यं नमश्चन्द्रार्धधारिणे ।
त्रिनेत्राय नमस्तुभ्यं भक्तसंरक्षकाय च ॥ ४७॥
अमेयमायया देव तवेदं रचितं जगत् ।
तव मायाविमोहेन मोहितान् रक्ष विघ्नप ॥ ४८॥
तव मायाप्रभावं च को जानाति गजानन ।
वयं योगिगणाश्चान्ये न तं वेत्तुं क्षमाः कदा ॥ ४९॥
अतोऽपराधं जातं मे क्षन्तुमर्हसि मानद ।
तव भक्ता वयं नाथ देवदेव नमोऽस्तु ते ॥ ५०॥
बलिस्त्वयं मदीयश्च भक्तः परमभाविकः ।
मच्छ्रेष्ठत्वेन देवेश जातोऽसौ मत्सरान्वितः ॥ ५१॥
तेन वेदविरुद्धं च कृतं कर्म महाद्भुतम् ।
त्वां विना यज्ञमारेभे फलहीनोऽभवत्क्रतुः ॥ ५२॥
अधुना मुनिभिर्देवैः सहितोऽहं गजानन ।
प्रार्थयामि तदर्थं त्वां सफलं कुरु दानवम् ॥ ५३॥
त्वं विनायकनामाऽसि त्वया यत्कृतमादरात् ।
तदेव मान्यतां याति वेदादिषु न संशयः ॥ ५४॥
वयं नायकसंयुक्ता वेदबाह्यं यदा प्रभो ।
कुर्मश्चेद्वै पदभ्रष्टाः क्रियन्ते च त्वया तदा ॥ ५५॥
यज्ञस्य फलसंयुक्तमतो भक्तं कुरु प्रभो ।
इत्युक्त्वा पादयोस्तस्य पपात गणपस्य सः ॥ ५६॥
तमुत्थाप्य गणाधीशो जगाद वचनं हरिम् ।
किं करोमि पुरा चैवं वरदोऽहं बभूव ते ॥ ५७॥
त्वदीयहस्ततो दैत्यं नरके पातयाम्यहम् ।
इति क्रोधसमाविष्टोऽधुना स्मरति मां खलः ॥ ५८॥
कायेन मनसा वाचा दैत्यो मां शरणं गतः ।
त्वं च प्रार्थयसे विष्णो वाञ्छितं च करोमि ते ॥ ५९॥
अधुना मां पुरस्कृत्य एतं यज्ञं समापय ।
तेनाऽयं सकलानां च यज्ञानां फलमश्नुते ॥ ६०॥
अपराधस्य माहात्म्यं किञ्चित्पश्यतु केशव ।
इन्द्रे निवृत्तेस्मिन्नेष इन्द्रः पश्चाद् भविष्यति ॥ ६१॥
पाताले स्थापयस्वैनं नात्र कार्या विचारणा ।
अधुना फलहीनत्वं जनार्दन कृतं मया ॥ ६२॥
गणेशवचनं श्रुत्वा सर्वे हर्षसमन्विताः ।
साधु साधु महाराज गजानन कृतं त्वया ॥ ६३॥
इत्युक्तस्तं पुरस्कृत्य यज्ञं चक्रे बलिस्ततः ।
अन्तिमं भावयुक्तः सन् कृतकृत्योऽभवद्यथा ॥ ६४॥
गणेशोंऽतर्दधे तत्र देवाः स्वं स्वं पदं ययुः ।
एवं वामनमाहात्म्यं कथितं ते प्रजापते ॥ ६५॥
यःशृणोति नरो भक्त्या वाञ्छितं लभते ध्रुवम् ।
श्रावयेच्छ्रुणुयाद्वा यस्तस्य सर्वं न दुर्लभम् ॥ ६६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते वामनचरितं नाम सप्तचत्वारिंशोऽध्यायः ॥ १.४७
(Page खं. १ अ. ४८ पान १०८)
१.४८ ऋचीकगृहस्थाश्रमवर्णनं नाम अष्टचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
त्वया प्रकथितं सूत वक्रतुण्डस्य धीमता ।
मत्सरासुरनाशाख्यं चरित्रं सर्वसिद्धिदम् ॥ १॥
स स्थितः कुत्र तत् क्षेत्रस्थानं ब्रूहि महात्मनः ।
आदौ तस्यावतारस्य तिथिमुत्सववर्धिनीम् ॥ २॥
सूत उवाच ।
प्राचीदिगन्तसंस्थाने स्थापितोऽसौ महर्षिभिः ।
देवैश्च गणसंयुक्तैर्महोत्सवपरायणैः ॥ ३॥
भाद्रशुक्लचतुर्थ्यां वै प्रकटोऽभूत्स देवराट् ।
वक्रतुण्डः प्रसन्नात्मा सा तिथिः परमा मता ॥ ४॥
मध्याह्नसमये तस्य पूजनं सुखदायकम् ।
अपारसिद्धिदं प्रोक्तमाद्यन्ते स्वल्पसिद्धिदम् ॥ ५॥
द्वीपे द्वीपे च खण्डेषु स्वस्वपूर्वदिगन्तरे ।
प्रतिमा वक्रतुण्डस्य स्थापिता मुनिभिःपुरा ॥ ६॥
तत्र क्षेत्रं समाख्यातं दशयोजनमात्रकम् ।
चतुरस्रं महापुण्यं भुक्तिमुक्तिप्रदं परम् ॥ ७॥
मध्ये स संस्थितो देवो वक्रतुण्डो गणेश्वरः ।
वामाङ्गे सिद्धिराद्या सा बुद्धिर्वे दक्षिणाङ्गके ॥ ८॥
सम्मुखे सिंहरूपं च वाहनं तस्य शोभनम् ।
अष्टदिक्षु स्थितास्तस्य सिद्धयोऽष्टौ च शौनक ॥ ९॥
गणा अष्टौ तथा ज्ञेयाश्चतुर्दिक्षु क्रमेण ते ।
शिवो विष्णू रविः शक्तिर्भक्तियुक्ताः स्थिता इमे ॥ १०॥
ब्रह्माद्या देवताः सर्वास्तत्पश्चात् पूर्वतः स्थिताः ।
गङ्गाद्याः सरितः सर्वा दक्षिणे संस्थिताः प्रभो ॥ ११॥
क्षेत्राणि काशिकादीनि पश्चिमे संस्थितानि च ।
वसिष्ठाद्या मुनिश्रेष्ठाः संस्थितास्तत्र चोत्तरे ॥ १२॥
शेषाद्या नागभूपाश्च गन्धर्वाः पर्वतास्तथा ।
सिद्धा अप्सरसश्चैव विद्याध्राः किन्नरा गणाः ॥ १३॥
नानाजातिषु ये श्रेष्ठा अभवंस्तत्र संस्थिताः ।
न वक्तुं शक्यते स्वामिन् मया वर्षशतैरपि ॥ १४॥
सेवार्थं वक्रतुण्डस्य लालसाधारिणः प्रभोः ।
हृष्टाः प्रमुदितास्तत्र परस्परहिते रताः ॥ १५॥
वक्रतुण्डचरित्राणि कथयन्ति परस्परम् ।
हृष्टरोमाण एवं ते भवन्तो भावतः पुनः ॥ १६॥
समुद्रे स्नानकर्तारस्तत्र तीर्थानि चक्रिरे ।
स्वस्वनाम्नाङ्कितान्येव स्वल्पदेहधरा मुने ॥ १७॥
गणेशतीर्थं तत्रैव वक्रतुण्डस्य हर्षदम् ।
कृतकृत्या भवन्त्यत्र स्नानमात्रेण जन्तवः ॥ १८॥
यात्रामात्रेण तत्रैव जन ईप्सितमाप्नुयात् ।
क्षेत्रे मरणतो जन्तुर्ब्रह्मभूतश्च जायते ॥ १९॥
दूरे स्थित्वा नरो यस्तु स्मरणं प्रकरोति चेत् ।
तस्यापि शुक्लगत्या सा मुक्तिर्भवति शाश्वती ॥ २०॥
वक्रतुण्डस्य ये भक्ता यत्र कुत्र स्थिता मुने ।
ब्रह्मभूता न सन्देहः पावना दर्शनान्नृणाम् ॥ २१॥
सङ्क्षेपेण मया तस्य स्थानं ते कथितं मुने ।
विस्तरेण न शेषोऽपि ब्रह्मविष्णुमहेश्वराः ॥ २२॥
वेदाः सस्मृतयः सर्वे स्कन्दो योगिन एव च ।
अयुतायुतवर्षैस्ते कथितुं न क्षमाः कदा ॥ २३॥
मुद्गलेन यथा प्रोक्तं दक्षाग्रे तन्मया तथा ।
कथितं भावयुक्तेन किमन्यच्छ्रोतुमिच्छसि ॥ २४॥
शौनक उवाच ।
सूत सूत महाभाग धन्यं क्षेत्रसमुद्भवम् ।
माहात्म्यं श्रुतमस्माभिर्ब्रह्मसायुज्यदायकम् ॥ २५॥
अधुना ब्रूहि धर्मज्ञ यद्दक्षेण च संश्रुतम् ।
(Page खं. १ अ. ४८ पान १०९)
मुद्गलात्तेन कथितमग्रे यत् कीदृशं च तत् ॥ २६॥
सूत उवाच ।
क्षेत्रस्य चरितं श्रुत्वा दक्षो हर्षसमन्वितः ।
उवाच मुद्गलं विप्रं भक्तिनम्रात्मकन्धरः ॥ २७॥
दक्ष उवाच ।
ढुण्ढिराजावतारस्य चरितं वद विस्तरात् ।
वक्रतुण्डः स्वयं साक्षात् कथं शङ्करदेहजः ॥ २८॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग कथयामि पुरातनम् ।
इतिहासं गणेशस्य गुणयुक्तं महाद्भुतम् ॥ २९॥
याज्ञवल्क्यमुनीन्द्रेण कथितं कौशिकाय यत् ।
तदहं सम्प्रवक्ष्यामि ब्राह्मणत्वप्रकाशकम् ॥ ३०॥
भार्गवो मुनिमुख्यो य ऋचीकस्तपसि स्थितः ।
बहुकाले व्यतिक्रान्ते तपसा जीर्णतां ययौ ॥ ३१॥
वृद्धत्वं परिपूर्णं च प्राप्तं तस्य महात्मनः ।
वनेषु मृगयूथानि स पश्यन् विस्मितोऽभवत् ॥ ३२॥
मृगीसंसक्तचित्तश्च मृगः स्वाधीनतां गतः ।
पुत्रपौत्रादिसंयुक्तो बभ्राम वनगोचरः ॥ ३३॥
एकैकाश्रितचित्तास्ते क्रीडां चक्रुः परस्परम् ।
दृष्ट्वा भृगुवरस्तत्र सकामः सम्बभूव ह ॥ ३४॥
उवाच स्वयमेवेदं धन्यं गार्हस्थ्यमेव च ।
इत्थं विचार्य विप्रस्तु ययौ गाधिं नराधिपम् ॥ ३५॥
स दृष्ट्वा सहसोत्थाय मुनिं गाधिरपूजयत् ।
भुक्त्वाऽयाचत तत्कन्यां भार्यार्थं नृपसत्तमम् ॥ ३६॥
राजा वृद्धं समालोक्य तं जगाद महामुनिम् ।
श्यामकर्णयुताश्वानां सहस्रं देहि मे मुने ॥ ३७॥
शुल्कं ग्राह्यं मया चैवं निश्चयः प्राक्कृतो मुने ।
अतस्त्वां प्रार्थये विप्र पश्चात्कन्यां ददामि ते ॥ ३८॥
श्रुत्वा मुनिर्गतः सद्यो वरुणस्य गृहं प्रति ।
गृहीत्वाऽश्वसहस्रं च तस्मात्तं प्रययौ ददौ ॥ ३९॥
राजा कन्यां ददौ तस्मै भार्गवाय महात्मने ।
विधिवद्भयभीतः स तां प्रगृह्य ययौ वनम् ॥ ४०॥
राजपत्नी सुतां प्राह त्वदीयं भाग्यमीदृशम् ।
अस्माभिः किं प्रकर्तव्यं वनवासं सुते कुरु ॥ ४१॥
विलप्य द्रव्यवस्त्रादीन् दत्वा पुत्रीकरे तदा ।
स्वगेहं सा जगामापि वने प्रस्थाप्य तां मुने ॥ ४२॥
राजपुत्री महाभागा ऋचीकं प्राप्य संस्थिता ।
सेवामनलसत्वेन कृत्वा तद्भक्तितत्परा ॥ ४३॥
तां दृष्ट्वा शीलसंयुक्तां प्रसन्नो मुनिसत्तमः ।
तदर्थं तपसा स्वेन निर्ममे नगरं वने ॥ ४४॥
चातुर्वर्ण्यसमायुक्तं हेमरत्नविभूषितम् ।
दासीदासादिसंयुक्तं नानाविभवदं परम् ॥ ४५॥
स्वयं तपःप्रभावेण यौवनं रूपमादधे ।
रेमे तया यथान्यायं देवेन्द्रेण समः प्रभो ॥ ४६॥
निःस्पृहो भोगरागेषु दृष्ट्वा स्त्रीसुखमल्पकम् ।
मानसे धारयामास व्यर्थं पत्नीभवं सुखम् ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते ऋचीकगृहस्थाश्रमवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥ १.४८
(Page खं. १ अ. ४९ पान ११०)
१.४९ याज्ञवल्क्यविश्वामित्रसमागमोनामैकोनपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एकदा राजपत्नी सा वनं शोकसमाकुला ।
आययौ दर्शनार्थं तां पुत्रीं वस्त्रधनान्विता ॥ १॥
ऋचीकस्याश्रमं तत्र न ददर्श रथे स्थिता ।
नगरं हेमशोभाढ्यं दृष्ट्वा सा विस्मिताऽभवत् ॥ २॥
कस्येदं नगरं दिव्यं देवैर्वा निर्मितं भवेत् ।
क्व गतो मुनिशार्दूलो जामाता मे स भार्गवः ॥ ३॥
एवं शोकसमायुक्ता विचारमकरोद् हृदि ।
ददर्श पुरुषं कञ्चित्तं पप्रच्छ भयातुरा ॥ ४॥
कस्येदं नगरं ब्रूहि स जगाद च तां मुने ।
ऋचीकस्य पुरं देवि वयं तस्य प्रमार्जकाः ॥ ५॥
पुनस्तं विस्मिता राज्ञी जगाद वद साम्प्रतम् ।
ऋषिपत्नीं च मे पुत्रीमागतां जननीं पुरे ॥ ६॥
तथेति पुरुषो गत्वा कथयामास तां ततः ।
सा स्वमातरमागम्य निनाय स्वगृहं पुरे ॥ ७॥
जामातरं श्रिया युक्तं दृष्ट्वा विस्मितमानसा ।
उवाच स्वसुतां राज्ञी पुत्रार्थं भावसंयुता ॥ ८॥
मम पुत्रार्थमेवं च तव पुत्रार्थमादरात् ।
याचस्व स्वामिनं पुत्रि समर्थं मुनिपुङ्गवम् ॥ ९॥
ऋषिपत्नी पतिं तत्र याचयामास तत्तथा ।
द्वौ चरू ह्यग्निकुण्डे स चकार सुतलिप्सया ॥ १०॥
द्विविधं स पुरोडाशं ब्रह्मक्षत्रप्रकाशकम् ।
अतुलं तेज आवाह्य ददौ पत्नीकरे मुनिः ॥ ११॥
जगाद तां मुनिश्रेष्ठो भक्षितव्यस्त्वया ह्ययम् ।
तव मात्रा तथाऽन्यो वै भक्षितव्यः शुचिस्मिते ॥ १२॥
तदा पुत्रसमायुक्ते युवां किल भविष्यथः ।
एवमुक्त्वा मुनिस्तीर्थे माध्याह्वार्थं ययौ किल ॥ १३॥
पुत्र्या मात्रे स वृत्तान्तः कथितः साऽब्रवीत् सुताम् ।
त्वदीयो भक्षितव्यो मे मदीयं त्वं प्रभुङ्क्ष्व वै ॥ १४॥
तथा पुत्र्या कृतं सर्वं गता माता स्वमालयम् ।
राज्ञी गर्भवती जाता ब्राह्मणी च प्रजापते ॥ १५॥
एकदा मुनिना दृष्टा स्त्र्युग्रतेजोधरा बभौ ।
उवाच भार्गवः पत्नीं किं कृतः क्षात्र आदरः ॥ १६॥
सोवाच भयभीता तं व्यतिक्रमममुं चरोः ।
तामुवाच मुनिस्तत्र विस्मितो मानसेऽभवत् ॥ १७॥
तव भ्राता तपस्वी च भविष्यति न संशयः ।
तव पुत्रो धनुर्धारी दारुणः प्रभविष्यति ॥ १८॥
सोवाच स्वामिनं भीता द्विजं पुत्रं तु मे प्रभो ।
देहि नोचेज्जीवघातं करिष्यामि न संशयः ॥ १९॥
ततो मुनिः स्वयं प्राह पुत्रपुत्रो भवेत्तथा ।
गर्भं विज्ञाप्य विष्णुं वै तपसा स तथाऽकरोत् ॥ २०॥
ततस्तस्याऽभवत्पुत्रो जमदग्निर्महातपाः ।
तस्य पुत्रत्वमापेदे रामः शस्त्रभृतांवरः ॥ २१॥
नवमे गाधिपत्नी सा मासे पुत्रं तपोनिधिम् ।
विश्वामित्रं महाभागं सुषुवे प्रेमविह्वला ॥ २२॥
स तु यौवनमापन्नं संस्थाप्य वनमादरात् ।
गाधिर्ययौ स्वराज्ये च तपसे कृतनिश्चयः ॥ २३॥
तद्राज्यमकरोत् सर्व विश्वामित्रः प्रतापवान् ।
एकदा मृगयार्थं वै वनेषु प्रजगाम ह ॥ २४॥
मृगयित्वामृगान् राजा क्षुधितस्तृषितोऽभवत् ।
भ्रमन् समाययौ सोऽपि वसिष्ठाश्रममुत्तमम् ॥ २५॥
प्रविश्य तत्र तं राजा ननाम भक्तिसंयुतः ।
(Page खं. १ अ. ४९ पान १११)
ससैन्यो भोजितस्तेन कामधेनुबलेन सः ॥ २६॥
भुक्त्वा तं प्रार्थयामास नन्दिनीं देहि मे मुने ।
विश्वामित्रस्ततस्तस्मै न ददौ तां महामुनिः ॥ २७॥
ततो राजा बलान्नेतुं दूतानाज्ञापयत् खलः ।
धेन्वा ते नाशिताः सर्वे ततः स्वयमुपाययौ ॥ २८॥
कशाघातैश्च तां धेनुं ताडयामासुराग्रहात् ।
केचित्ततो महत्सैन्यं निर्ममे तत्र धेनुका ॥ २९॥
ततो युद्धमभूद्धोरं सैन्ययोरुभयोर्महत् ।
नष्टं सैन्यं च सम्पूर्णं विश्वामित्रस्य तत्क्षणात् ॥ ३०॥
सोऽपि भग्नो गृहं गत्वा राज्यं न्यस्य ययौ वनम् ।
प्रधानेषु तपस्तेपे शङ्करस्य महात्मनः ॥ ३१॥
शतवर्षेषु पूर्णेषु प्रसन्नश्च ददौ शिवः ।
अस्त्रविद्यां सुसम्पूर्णां तां प्राप्य स्वगृहं ययौ ॥ ३२॥
पुनर्वसिष्ठमागम्य शस्त्रास्त्रैर्बलसंयुतः ।
विश्वामित्रो ममार्दासावग्न्यस्त्रेण तदाश्रमम् ॥ ३३॥
वसिष्ठस्तं ततस्तत्र योधयामास शौनक ।
ब्रह्मदण्डधरः श्रीमान् सर्वास्त्राणि व्यमर्दयत् ॥ ३४॥
ब्रह्मदण्डेन तस्यापि कृतस्तेन पराजयः ।
विश्वामित्रः पलायिष्ट भयभीतः समन्ततः ॥ ३५॥
ततः सुसान्त्वितो विप्रो वसिष्ठो ब्राह्मणैस्तदा ।
स्वाश्रमं प्रविवेशाथ विश्वामित्रो गृहं ययौ ॥ ३६॥
अहो ब्राह्मं बलं दीप्तं क्षात्रं तुच्छं विशेषतः ।
ब्रह्मदण्डेन सर्वाणि ममास्त्राणि हतानि च ॥ ३७॥
एवं स निश्चयं कृत्वा राज्यं त्यक्त्वा ययौ वनम् ।
ब्राह्मणत्वप्रसिद्धयर्थं तताप परमं तपः ॥ ३८॥
गायत्रीमन्त्रजाप्येन पुरश्चरणमार्गतः ।
निराहारेण राजर्षिस्तापयामास विष्टपम् ॥ ३९॥
एवं दशसहस्राणि वर्षाणि जपतो ययुः ।
ततो जगाद तं ब्रह्मा वरं ब्रूहि महामते ॥ ४०॥
स वव्रे ब्राह्मणत्वं मे देहि देव नमोऽस्तु ते ।
तदा ब्रह्मा पुनः प्राह तपस्वेति च गाधिजम् ॥ ४१॥
दशवारं विधौ तत्र समागत्य च तं मुनिम् ।
अन्यं वरं ददाने स न जग्राह स बुद्धिमान् ॥ ४२॥
तपःप्रभावतस्तस्य व्याप्तमासीद्दिगन्तरम् ।
देवाद्या अभवन्सर्वे तदाज्ञावशवर्तिनः ॥ ४३॥
स्वप्रतापेन राजर्षिर्ब्राह्मणान् प्राह गाधिजः ।
अहं ब्रह्मर्षिमुख्यो वै जातस्तु तपसो बलात् ॥ ४४॥
भयभीताश्च ते सर्वे तथेत्यूचुः प्रणम्य तम् ।
वसिष्ठो मुनिवर्यः स तं राजर्षिं जगाद ह ॥ ४५॥
विश्वामित्रः सङ्क्षुभितो वसिष्ठहननाय च ।
नानायत्नांश्चकारापि न ममार महामुनिः ॥ ४६॥
ततोऽतिदुःखितो भूत्वा संस्थितः स्वाश्रमे मुनिः ।
विश्वामित्रो महाभागस्तपस्तेजोविराजितः ॥ ४७॥
तमाययौ महातेजा याज्ञवल्क्यः प्रतापवान् ।
ब्रह्मणोंऽगसमुत्पन्नः साक्षाद्योगीश्वरो महान् ॥ ४८॥
तं ननाम यथान्यायं पूजयामास भक्तितः ।
विश्वामित्रो महातेजा उवाच प्रकृताञ्जलिः ॥ ४९॥
अद्य मे सफलं जन्म तपःस्वाध्याय एव च ।
येन ते दर्शनं जातं ब्रह्मभूतस्य मानद ॥ ५०॥
(Page खं. १ अ. ५० पान ११२)
किमर्थमागतो ब्रह्मस्तद्वदस्व महामुने ।
तवाज्ञां कर्तुमिच्छामि दासोऽहं शाधि मां प्रभो ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्यविश्वामित्रसमागमोनामैकोनपञ्चाशत्तमोऽध्यायः ॥ १.४९
१.५० दिवोदासमहिमवर्णनं नाम पञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
विश्वामित्रस्य भावेन सन्तुष्टो मुनिपुङ्गवः ।
तमुवाच महायोगी याज्ञवल्क्यो महामुनिः ॥ १॥
याज्ञवल्क्य उवाच ।
दुःखितं त्वां विदित्वाहमागतो मुनिपुङ्गव ।
न कार्यमपरं किञ्चिज्जानीहि त्वं महामते ॥ २॥
वद किं कारणं ब्रह्मन् दुःखस्य तव तापस ।
पश्चात्तन्नाशयिष्यामि युक्त्या ज्ञानोपदेशतः ॥ ३॥
विश्वामित्र उवाच ।
तपस्तप्तं मया घोरं ब्रह्मा मे न ददौ वरम् ।
वसिष्ठो मां च राजर्षिं जगाद जनसन्निधौ ॥ ४॥
केनोपायेन योगीन्द्र ब्राह्मणोऽहं भवामि च ।
सर्वमान्यो महाभागस्तं करिष्यामि यत्नतः ॥ ५॥
ततस्तं मुनिशार्दूलो याज्ञवल्क्य उवाच ह ।
न चिन्तां कुरु राजर्षे ब्रह्मर्षिस्त्वं भविष्यसि ॥ ६॥
अभिमानं महाघोरं त्यज त्वं मे सुवाक्यतः ।
मत्सरं त्यज दुष्टं च ततः क्षेमं भविष्यति ॥ ७॥
कथां शृणु महारम्यां काशीविश्वेशसंश्रिताम् ।
येन त्वं निर्मलो भूत्वा ब्राह्मणोऽपि भविष्यसि ॥ ८॥
काशीविश्वेश्वरेणैव न त्यक्ता प्रलयेऽपि च ।
न वियोगः क्षणं तस्याः काश्याः शम्भोः कदाचन ॥ ९॥
तेनाहङ्कारसंयुक्तौ जातौ काशीमहेश्वरौ ।
विघ्नः समभवत्तत्र दारुणः प्रवियोगकृत् ॥ १०॥
मुद्गल उवाच ।
याज्ञवल्क्यवचः श्रुत्वा हर्षितः कौशिको मुनिः ।
उवाच तं महाभागं प्रेमयुक्तेन चेतसा ॥ ११॥
विश्वामित्र उवाच ।
कीदृशं विघ्नरूपं चाविमुक्तस्य शिवस्य यत् ।
समुत्पन्न महाभाग तद्वद त्वं विशेषतः ॥ १२॥
याज्ञवल्क्य उवाच ।
षष्टिवर्षाणि पर्जन्यो न ववर्ष महीतले ।
तेन नष्टं जगत्सर्वं भूमिस्थं सचराचरम् ॥ १३॥
प्रजाक्षयं ततो दृष्ट्वा ब्रह्मा लोकपितामहः ।
आययौ राजशार्दूलं दिवोदासं तपःस्थितम् ॥ १४॥
राज्यं त्यक्त्वा स राजर्षिस्तताप परमं तपः ।
मोक्षार्थं भक्तिभावेन सूर्यवंशसमुद्भवः ॥ १५॥
तपसा योगभावेन बभौ सूर्य इवापरः ।
तं ब्रह्मा स्वयमेवेदं वचनं प्रजगाद ह ॥ १६॥
ब्रह्मोवाच ।
दिवोदास महाभाग शृणु मे वचनं हितम् ।
काशीराज्यं गृहाण त्वं मया दत्तं महामते ॥ १७॥
ब्रह्माणं स उवाचाथ न राज्यं परिपालये ।
मोक्षार्थी वासनाहीनो मोक्षं देहि प्रजापते ॥ १८॥
तं पुनःप्रत्युवाचेदं ब्रह्मा लोकहिताय च ।
कुरु राज्यं महाभाग मया दत्तं महामते ॥ १९॥
त्वयि राज्ये स्थिते वृष्टिर्भविष्यति महाद्भुता ।
(Page खं. १ अ. ५० पान ११३)
अन्यथा लोकनाशः स्यात्तस्मात् कुरु वचो महत् ॥ २०॥
लोकसंरक्षणार्थाय दयायुक्तो महामतिः ।
राज्यं जग्राह काश्याश्च देववर्जितमुत्तमम् ॥ २१॥
देवानामखिलं राज्यं सदा स्वर्गेषु वर्तते ।
मनुष्याणां पृथिव्यां वै पाताले नागरक्षसाम् ॥ २२॥
अतो देवतया शम्भुं पूजयिष्यामि मानद ।
सर्वैः स्वधर्मे स्थातव्यं मयि राज्यं प्रशासति ॥ २३॥
तथेति तमुवाचाथ ब्रह्मा लोकपितामहः ।
काशीराज्यं ददौ तस्मै दिवोदासाय धीमते ॥ २४॥
ततो ब्रह्मा ययौ काश्यां शङ्करं प्रणिपत्य सः ।
उवाच तं विशेषज्ञो मन्दरं गच्छ शङ्कर ॥ २५॥
मरीचिना तपस्तेपे तस्मै देहि वरं शिव ।
नो चेन्मरिष्यति स वै तस्माद्गच्छ जगद्गुरो ॥ २६॥
ब्रह्मणो गिरमाकर्ण्य तेन सार्धं ययौ शिवः ।
देवर्षिगणसंयुक्तो वरार्थं ब्राह्मणस्य च ॥ २७॥
तं दृष्ट्वेति वरं ब्रूहि शिवो वचनमब्रवीत् ।
स उवाच शिवं तत्र मुक्तिं देहि सदाशिव ॥ २८॥
इत्युक्त्वा तपसो दुःखाज्जहौ प्राणान् महामुनिः ।
प्राप्तः शिवस्य सारूप्यं कैलासं स गतो मुनिः ॥ २९॥
एतस्मिन्नन्तरे शम्भुं ब्रह्मोवाच कृताञ्जलिः ।
वस त्वं मन्दरे शम्भो त्यज काशीं महापुरीम् ॥ ३०॥
अनावृष्टिभवं दुःखं तन्निवृत्यर्थमादरात् ।
राज्यं दत्तं मया देव दिवोदासाय शङ्कर ॥ ३१॥
तेनापि कथितं देवराज्यं पृथ्व्यां न चेद्भवेत् ।
तदा राज्यं करिष्यामि नान्यथाऽहं कदाचन ॥ ३२॥
मया लोकस्य रक्षार्थं दत्तं राज्यं च तस्य हि ।
क्षमस्व चापराधं मे महादेव नमोऽस्तु ते ॥ ३३॥
तथेति शिव ऊचे तं निःश्वस्य परमं प्रभुः ।
पार्वत्या गणसंयुक्त उवास स च मन्दरे ॥ ३४॥
अविमुक्तं महाक्षेत्रं दैवेन त्याजितं मम ।
अधुना मुक्तता केन कर्मणा भविता मम ॥ ३५॥
न ब्रह्मणो वचो मिथ्या भविष्यति कदाचन ।
अधुना किं करिष्यामि काशीविरहदुःखितः ॥ ३६॥
अहं विश्वेश्वरश्वाऽस्मि मदधीनं न किञ्चन ।
विश्वनाथेति नामेदं व्यर्थरूपं न संशयः ॥ ३७॥
अखिलप्राणितुल्योऽहं कृतो येन महात्मना ।
शरणं विघ्नराजं तं गच्छामि न च संशयः ॥ ३८॥
ममापि विघ्नरूपं यत् समुत्पन्नं महाद्भुतम् ।
अहङ्कारविहीनोऽहं कृतस्तेन महात्मना ॥ ३९॥
इत्येवं निश्चयं कृत्वा शिवस्तत्राचले तपः ।
तताप गणपं ध्यात्वा काशीप्राप्त्यर्थमादरात् ॥ ४०॥
काशी च दुःखसंयुक्ता श्रुत्वा शम्भोर्विनिर्गतिम् ।
तपस्तताप विघ्नेशं ध्यात्वा निश्चलचतेसा ॥ ४१॥
अहङ्कारविनिर्मुक्ता काशी दुःखितमानसा ।
शिवप्राप्त्यर्थमतुलं तताप परमं तपः ॥ ४२॥
दिवोदासस्तु तद्राज्यमकरोद्धर्मतः स्वयम् ।
ततो वृष्टिः समुत्पन्ना सर्वेषां सुखदायिका ॥ ४३॥
सकलं वृष्टियोगेन जगत्स्थावरजङ्गमम् ।
मोदयुक्तं तदा जातं तस्मिन् राज्यं प्रशासति ॥ ४४॥
स्वस्वधर्मरताः सर्वे वर्णाश्रमविभागशः ।
पापलेशो न तत्रासीत्तस्मिन् राज्यं प्रशासति ॥ ४५॥
(Page खं. १ अ. ५० पान ११४)
हृष्टपुष्टजनाः सर्वे वृक्षाः पुष्पफलान्विताः ।
घटदुग्धास्तदा गावस्तस्मिन् राज्यं प्रशासति ॥ ४६॥
स्वाहास्वधायुता देवाः पितरश्च मुदा युताः ।
यज्ञादयो बभूवुश्च तस्मिन् राज्यं प्रशासति ॥ ४७॥
एवं नानाविधैर्भोगैर्युताः सर्वे महामुने ।
दिवोदासः स्वयं राजा नित्ययात्रां चकार ह ॥ ४८॥
आदौ ढुण्ढिं पुपूजाऽसौ पश्चाद्विश्वेश्वरं मुने ।
जगदम्बां च काशीं वै मणिकार्णिं ततः परम् ॥ ४९॥
भागीरथीं माधवं च जैगीषव्यगुहां ततः ।
कालभैरवमेवं च दण्डपाणिं महाबलम् ॥ ५०॥
जनैः स मतिमान् राजा कारयामास सर्वदा ।
धर्महीनं जनं हन्तुं दण्डपाणिरिव स्थितः ॥ ५१॥
अशीतिवर्षसाहस्रं गतं तत्र महामुने ।
न किञ्चित्स्वल्पपापस्य प्रवेशोऽपि बभूव ह ॥ ५२॥
ततो देवा विचारं ते चक्रुः स्वर्गेषु विस्मिताः ।
पृथिव्यां देवराज्यं तु विनष्टं तेन कारितम् ॥ ५३॥
अतो वयं किमर्थं च स्थास्यामः पृथिवीतले ।
स्पर्धते नः स राजर्षिश्छलयामस्ततो वयम् ॥ ५४॥
तत इन्द्रोऽग्निमाहूय जगाद क्रोधसंयुतः ।
दिवोदासस्य राज्ये ते स्थानं मास्तु बहिस्त्विति ॥ ५५॥
इन्द्रस्य वचनं श्रुत्वा वह्निरन्तर्दधे तदा ।
पृथिव्यां वह्निहीनास्ते जनाः सर्वे तमन्वयुः ॥ ५६॥
तान् दृष्ट्वा स दिवोदासो वह्निरूपेण संस्थितः ।
पृथिव्यां यत्र कुत्रापि तपो बलसमन्वितः ॥ ५७॥
एवं नानाविधैर्भावैर्देवाः सर्वे क्रमेण च ।
गतास्तत्र स्वयं राजा तेषां रूपधरो बभौ ॥ ५८॥
वाय्वादिरूपमास्थाय स राजा देवकृत्यवित् ।
पृथिव्यां ये जनाः सर्वे न तं जानन्ति कौशिक ॥ ५९॥
एवं बहौ गते काले देवाः सर्वे विसिस्मिरे ।
देवकृत्यं कृतं सर्वं राज्ञाप्याश्चर्यमुत्तमम् ॥ ६०॥
ततो देवगणाः सर्वे ब्रह्माणं शरणं ययुः ।
दिवोदासस्य मोहार्थं पृथ्वी त्यक्ता च निर्जरैः ॥ ६१॥
स तपोबलयुक्तस्तु देवानां कृत्यमादरात् ।
स्वयं देवस्वरूपैस्तैश्चकार परमाद्भुतम् ॥ ६२॥
वयं विहारहीनाश्च किं कुर्मो वद भो विमो ।
तेषां वचनमाकर्ण्य ब्रह्मा प्रोवाच तांस्तदा ॥ ३३॥
भवद्भिस्तत्र गन्तव्यं प्रार्थनीयो नराधिपः ।
स दास्यति स्वकं स्थानं देवानां नात्र संशयः ॥ ६४॥
ततो देवा दिवोदासमाययुश्चेन्द्रमुख्यकाः ।
तान् दृष्ट्वा सहसोत्थाय ननाम विनयान्वितः ॥ ६५॥
तमुत्थाप्य ततो देवास्तुष्टुवुस्तं नराधिपम् ।
सोऽपि देवान् प्रतुष्टाव स्वपदानि ददौ ततः ॥ ६६॥
स्वयं नरस्वरूपेण चैकदेहेन संस्थितः ।
अग्न्यादयो निजस्थाने देवाः सर्वे सुसंस्थिताः ॥ ६७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते दिवोदासमहिमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ १.५०
(Page खं. १ अ. ५१ पान ११५)
१.५१ काशीशिववरप्रदानं नामैकपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
याज्ञवल्क्य उवाच ।
ततः शम्भुः परां चिन्तामापेदे मनसा मुने ।
देवा हतोद्यमा जातास्तपसा तस्य धीमतः ॥ १॥
स्वधर्मपर एवायं तपसा च समन्वितः ।
नोच्चालितुं भवेच्छक्यः किं भविष्यति वै ततः ॥ २॥
मया काशी कदा लभ्या दग्धोऽहं विरहाग्निना ।
मरिष्यामि न सन्देहो विललाप महेश्वरः ॥ ३॥
अस्थिचर्मावशेषोऽपि शुशोच बहुधा शिवः ।
तं देवा मुनयः सर्वे सान्त्वयामासुरादरात् ॥ ४॥
देवर्षय ऊचुः ।
मा कुरुष्व वृथा चिन्तां त्वं समर्थो महेश्वर ।
तव प्रसादयोगेन गच्छामः काशिकां वयम् ॥ ५॥
नानासिद्धिभिरालोभ्य लोकांस्तत्र समन्ततः ।
तत्पापभागिनं भूपं दिवोदासं च कुर्महे ॥ ६॥
ततस्त्वया विशेषण काशी ग्राह्या सदाशिव ।
एवमुक्त्वा ययुस्तत्र देवाः सर्वे प्रहर्षिताः ॥ ७॥
तत्राभवन् गताः काश्यां नानारूपधराः सुराः ।
जनान् सम्मोहयामासुः सिद्धिं कृत्वा विशेषतः ॥ ८॥
धमशीला जनाः सर्वे तेषां वाक्यं न चक्रिरे ।
एकवर्षं प्रयत्नं ते कृत्वा शान्तिं प्रलेभिरे ॥ ९॥
ततः सदाशिवस्तत्र प्रेरयामास भैरवान् ।
तेऽपि यत्नैश्च विविधैर्न समर्था बभूविरे ॥ १०॥
एवं क्रमेण आदित्या वसवश्चर्षयः पराः ।
योगिन्यश्च गणाः सर्वे हतोद्योगास्तथाऽभवन् ॥ ११॥
ततो ब्रह्माणमाबोध्य प्रेषयामास शङ्करः ।
दशाश्वमेधाश्च कृतास्तेन शान्तिं जगाम सः ॥ १२॥
ततस्तु शङ्करस्तत्र ध्याननिष्ठो बभूव ह ।
चरणे विघ्नराजस्य सर्वाशापूरके परे ॥ १३॥
सविघ्नं मां गणाध्यक्ष निर्विघ्नं कुरु सर्वदा ।
दासोऽहं तेऽविमुक्तस्य संरक्ष विरहात्प्रभो ॥ १४॥
एवं निश्चितचित्तस्तु वर्षमेकं गजाननम् ।
ध्यानेन तोषयामास शङ्करः कार्यसिद्धये ॥ १५॥
दृष्ट्वाऽहङ्कारनिर्मुक्तमत्यन्त शङ्करं प्रभुः ।
दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥ १६॥
सिंहारूढं चतुर्बाहुं पाशाङ्कुशधरं प्रभुम् ।
वरदाभयहस्तं च सिद्धिबुद्धिसमन्वितम् ॥ १७॥
रक्तवर्णं सुशोभाढयं गजवक्त्रं महोदरम् ।
विविधैः शेषनाभिं तं भूषणैः सुविराजितम् ॥ १८॥
चिन्तामणिधरं पूर्णं तेजोराशिं महाप्रभम् ।
दृष्ट्वा देवं मुदा युक्तः शङ्करः प्रणनाम ह ॥ १९॥
ततस्तं पूजयामास तुष्टाव स यथामति ।
देवदेवं गणाध्यक्षं वक्रतुण्डं विधानतः ॥ २०॥
शिव उवाच ।
नमस्ते वक्रतुण्डाय सर्वसिद्धिप्रदाय च ।
निराकाराय देवाय साकाराय नमो नमः ॥ २१॥
नमः सर्वप्रबोधाय नमः सर्वप्रियङ्कर ।
गणानां पतये तुभ्यं गणेशाय नमो नमः ॥ २२॥
ब्रह्मणे सृष्टिकर्त्रे ते पालकाय च विष्णवे ।
संहर्त्रे ते हरायैव गुणेशाय नमो नमः ॥ २३॥
ब्रह्माकाराय वै तुभ्यं ब्रह्मभूताय ते नमः ।
नमः प्रपञ्चरूपाय प्रपञ्चानां प्रचालक ॥ २४॥
अनन्तगुणधाराय ह्यनन्तविभवाय ते ।
अनन्तोदररूपाय हेरम्बाय नमो नमः ॥ २५॥
(Page खं. १ अ. ५१ पान ११६)
कारणानां परायैव कारणाय नमो नमः ।
अकारणाय वै तुभ्यं सिंहवाहाय ते नमः ॥ २६॥
अहं जीवसमानश्च सञ्जातो नात्र संशयः ।
अविमुक्तं विमुक्तं मे जातं देव दयानिधे ॥ २७॥
अतस्त्वां शरणं यातो निर्विघ्नं कुरु मां प्रभो ।
देहि काशीं गणाध्यक्ष अविमुक्ततया च मे ॥ २८॥
त्वया पुरा वरो दत्तः स्मरणेन त्वदग्रतः ।
स्थास्यामि पुत्रभावेन तं पालय गजानन ॥ २९॥
इत्युक्त्वा पादयोस्तस्य प्रणनाम महेश्वरः ।
तमुत्थाप्य गणाध्यक्ष उवाच प्रहसन्निव ॥ ३०॥
वक्रतुण्ड उवाच ।
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदं शिव ॥ ३१॥
अन्यद्यत्प्रार्थितं सर्वं करिष्यामि सदाशिव ।
अविमुक्तं प्रदास्यामि सार्थकं ते च साम्प्रतम् ॥ ३२॥
इत्युक्त्वा निर्ममे देहाद्ब्राह्मणं सर्वसुन्दरम् ।
सर्वज्ञं च गुणेशस्य तेजोयुक्तं प्रभाविणम् ॥ ३३॥
आज्ञापयच्च तं देवो गच्छ त्वं शिवसिद्धये ।
काश्यां तुं बुद्धिसम्मोहं जनानां कुरु सत्वरम् ॥ ३४॥
मोहयित्वा दिवोदासं काशीराज्यं शिवाय च ।
ममाज्ञया देह्यद्य त्वं सर्वपूज्यो भविष्यसि ॥ ३५॥
ढुण्ढिं ज्योतिर्विदं त्वां तु वदिष्यन्ति जना द्विजाः ।
त्वदीयवंशगाः सर्वे भविष्यन्ति न संशयः ॥ ३६॥
इति श्रुत्वा द्विजो ढुण्ढिं प्रणनाम मुदा युतः ।
ययौ प्रदक्षिणीकृत्य काशीं स गणपं स्मरन् ॥ ३७॥
ततो विष्णुं समाहूय तं जगाद गजाननः ।
बौद्धरूपेण विष्णो त्वं काशीं गच्छ मदाज्ञया ॥ ३८॥
द्विजेन ढुण्ढिना सर्वं मोहितं नगरं भवेत् ।
कुरु त्वमधुना भ्रष्टं मम वाक्याज्जनार्दन ॥ ३९॥
प्रणम्य तं तदा विष्णुर्गणेशं बौद्धरूपधृक् ।
ययौ काशीं महाभागो वक्रतुण्डं हृदि स्मरन् ॥ ४०॥
तौ यथा गणराजेन कथितं चक्रतुस्तथा ।
मोहयुक्तं पुनर्भ्रष्टं नगरं सर्वमञ्जसा ॥ ४१॥
अन्यच्छृणु चरित्रं त्वं विश्वामित्र तपोधन ।
काशीध्यानयुता तत्र संस्थिता गणपस्य तु ॥ ४२॥
सहस्रं तत्र वर्षाणां गतमेकं महामुने ।
तस्यास्तपःप्रभावेण सन्तुष्टोऽभूद्गजाननः ॥ ४३॥
वरं दातुं समायातः काश्यै मूर्तिधरः प्रभुः ।
सिंहारूढः प्रसन्नात्मा नानाभूषणभूषितः ॥ ४४॥
तं दृष्ट्वा सहसोत्थाय काशी परमपावनी ।
पादयोः प्रणनामाथ कर्षिता विह्वला भृशम् ॥ ४५॥
पुनरुत्थाय तं देवं पूजयामास भक्तितः ।
तुष्टाव सुस्थिरा भूत्वा निबद्धकरसम्पुटा ॥ ४६॥
काश्युवाच ।
नमस्ते गणनाथाय नमस्तेऽनन्तरूपिणे ।
नमस्ते सर्वदात्रै वै मायाधाराय ते नमः ॥ ४७॥
गजवक्त्रधरायैव शूर्पकर्णाय ते नमः ।
सर्वभूषाय वै तुभ्यं वक्रतुण्ड नमोऽस्तु ते ॥ ४८॥
निराकाराय नित्याय निर्गुणाय गुणात्मने ।
वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ॥ ४९॥
ब्रह्मणां ब्रह्मदात्रे च सिंहारूढाय ते नमः ।
सिद्धिबुद्धिपते तुभ्यं नमः सर्वाभयङ्कर ॥ ५०॥
अनाथाय च नाथाय सर्वेषां पालकाय च ।
भक्तेभ्यः सर्वदात्रे ते विघ्नहर्त्रे नमोऽस्तु ते ॥ ५१॥
(Page खं. १ अ. ५२ पान ११७)
विघ्नकर्त्रे ह्यभक्तानां भुक्तिमुक्तिप्रदाय च ।
योगिनां हृदि संस्थाय योगगम्याय ते नमः ॥ ५२॥
मनोवाणीविहीनाय शान्तिरूपाय ते नमः ।
शान्तेभ्यः शान्तिदात्रे च गणेशाय नमो नमः ॥ ५३॥
किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सशास्त्रकाः ।
शान्तिं प्राप्ता महाभागा अतस्त्वां प्रणमामि वै ॥ ५४॥
रक्ष रक्ष च दासीं ते विरहेण प्रपीडिताम् ।
अविमुक्ता शिवेनैवं नाम व्यर्थं बभूव मे ॥ ५५॥
शिवहीना कृता देव दैवं तु परमाद्भुतम् ।
अतस्ते शरणं प्राप्ता शङ्करं दर्शयस्व माम् ॥ ५६॥
इत्युक्त्वा पतिता तस्य पादयुग्मे महामुने ।
तामुत्थाप्य गणाधीशो जगौ मधुरया गिरा ॥ ५७॥
गणेश उवाच ।
मा शोकं कुरु कल्याणि शङ्करं दर्शयामि ते ।
अविमुक्तमिदं नाम सार्थकं प्रभविष्यति ॥ ५८॥
त्वया कृतमिदं स्तोत्रं वियोगहरणं भवेत् ।
यः पठिष्यति भक्त्या च श्रोष्यते तस्य सुन्दरि ॥ ५९॥
यं यमिच्छति भावेन तं तं दास्यामि सर्वगः ।
ब्रह्मभूयकरं स्तोत्रं भविष्यति न संशयः ॥ ६०॥
इत्युक्त्वा गणनाथश्च तत्रैवान्तरधीयत ।
तमेव सापि ध्यायन्ती स्थिता कालप्रतीक्षिका ॥ ६१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते काशीशिववरप्रदानं नामैकपञ्चाशत्तमोऽध्यायः ॥ १.५१
१.५२ नारायणसम्प्रश्नवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
याज्ञवल्क्य उवाच ।
एतस्मिन्नन्तरे तत्र ययौ ज्योतिर्विदुत्तमः ।
ढुण्ढिनामा द्विजो यस्तु पुरा प्रोक्तो मयाऽनघ ॥ १॥
सर्वं तन्नगरं तेन मोहितं तत्क्षणान् मुने ।
पश्चात्समागतो बुद्धो विष्णुर्भ्रष्टं तथाऽकरोत् ॥ २॥
ढुण्ढिना स दिवोदासो बोधितः स च त्यक्तवान् ।
राज्यं बौद्धेन सन्तस्थौ प्रतीक्षन् शिवदर्शनम् ॥ ३॥
ताभ्यामाकारितः शम्भुः प्रययौ गणपं पुरः ।
कृत्वा सम्पूज्य तं काश्यामादौ चक्रे हि वासिनम् ॥ ४॥
स्वयं देवगणैः पश्चादृषिभिश्च विवेश ह ।
ननाम चरणे काशी विघ्नपस्य शिवस्य च ॥ ५॥
यथास्थानं स्थिताः सर्वे देवा ऋषिगणाः सुखम् ।
दिवोदासाय मोक्षं स शङ्करः प्रददौ ततः ॥ ६॥
ततः कदाचिद्देवेशो जगाद गिरिशं वचः ।
तुभ्यं दत्ता मया काशी कृतं सर्वं यथायथम् ॥ ७॥
अधुनाऽहं महादेव यास्ये स्वं धाम शोभनम् ।
यदा मे स्मरणं कुर्यास्तदा द्रक्ष्यसि मां शिव ॥ ८॥
इत्युक्त्वा ढुण्ढिविप्रेण सहितोऽसौ गजाननः ।
अन्तर्धानं ययौ तत्र देवानां पश्यतां मुने ॥ ९॥
ततः स्वयं विश्वनाथस्तस्य मूर्तिं विधाय सः ।
स्थापयामास यत्नेन देवैश्व ब्राह्मणैः सह ॥ १०॥
विधिवत्पूजयामास चोपचारैर्मनोरमैः ।
सर्वैः कृत्वा नमस्कारं प्रादक्षिण्यं चकार सः ॥ ११॥
सर्वान् जगाद विश्वेशो हितं शृणुत मे वचः ।
आदौ ढुण्ढिं समभ्यर्च्य ये मां तोष्यति तत्त्वतः ॥ १२॥
तेभ्यो भुक्तिं तथा मुक्तिं दास्यामि त्वन्यथा न च ।
काशीवासफलस्याऽपि दाताऽयं वक्रतुण्डकः ॥ १३॥
वेदादीनां रहस्यं यदन्विष्टं तु मया बहु ।
तन्मूलोऽयं हृदि प्राप्तः साक्षाद्ब्रह्मपतिः प्रभुः ॥ १४॥
अतोऽयं ढुण्ढिराजेति नाम्ना ख्यातो मया कृतः ।
धर्मार्थकाममोक्षाणां दाता क्षेत्रे न संशयः ॥ १५॥
एवमुक्त्वा महादेवो नित्यं पूजापरायणः ।
ढुण्ढिराजस्य सेवायां सावधानो बभूव ह ॥ १६॥
तथा त्वमपि देवेशं विघ्नराजं भज प्रभो ।
त्यक्त्वाहङ्कारभावं तु ब्राह्मणः प्रभविष्यसि ॥ १७॥
मुद्गल उवाच ।
याज्ञवल्क्यवचः श्रुत्वा विश्वामित्रो महातपाः ।
जगाद तं महाभागं विनयेन समन्वितः ॥ १८॥
विश्वामित्र उवाच ।
याज्ञवल्क्य महाभाग त्वयाऽहं बोधितः खलु ।
अधुना वद मे ज्ञानं सर्वज्ञोऽसि महामुने ॥ १९॥
अहङ्कारो मया त्याज्यः केन मार्गेण तद्वद ।
कीदृशो मे शरीरेऽसौ वद तिष्ठति साम्प्रतम् ॥ २०॥
गणेशानमहं केन भजेयं विधिना वद ।
स्वरूपं च कथं तस्य योगीन्द्रोऽसि यतः स्वयम् ॥ २१॥
याज्ञवल्क्य उवाच ।
शृणु त्वं कौशिक ब्रह्मन्नहङ्कारं वदामि ते ।
तपसा ब्राह्मणत्वं वै प्राप्स्यामि न हि संशयः ॥ २२॥
एनमेव विजानीह्यहङ्कारं तु महामते ।
तस्य त्यागे विधिं वक्ष्ये तं शृणुष्व यथायथम् ॥ २३॥
प्राप्तये ब्राह्मणत्वस्य तपेयं तप उत्तमम् ।
यदा दास्यति देवोऽसौ तदा ब्राह्मणता भवेत् ॥ २४॥
यदा न दत्ता देवेन राजर्षित्वं तदा खलु ।
अस्तु मे सततं तच्च कोऽहं मे कीदृशं तपः ॥ २५॥
अहं सदा पराधीनो देहधारी न संशयः ।
करोमि यत्नमत्यन्तं दैवं चेत्प्रभविष्यति ॥ २६॥
अनेन विधिना विप्र तपस्व त्वं महामुने ।
तदा प्रभविता सर्वं गताहङ्कारभावतः ॥ २७॥
अन्यत्त्वं शृणु मे वाक्यं मत्सरं त्यज कौशिक ।
शरणं गणराजं तं याहि तेन सुखं भवेत् ॥ २८॥
न मत्समं तपः कस्य स्पर्धसे तेन वै द्विजान् ।
मत्सरेण समाविष्टः कुतस्त्वं ब्राह्मणो भवेः ॥ २९॥
त्वया मत्सरभावेन वसिष्ठस्य महात्मनः ।
पुत्राणां च शतं पूर्णं नाशितं रक्षसा यथा ॥ ३०॥
अपरा सृष्टिरारब्धा त्रिशङ्क्वर्थं पुरा त्वया ।
वसिष्ठहनने यत्नं नानारूपं करोषि वै ॥ ३१॥
तं मत्सरं त्यज त्वं वै विधिं च शणु तत्त्वतः ।
नीचोऽहं सर्वविप्रेभ्यस्तपस्विभ्यो न संशयः ॥ ३२॥
मया किंवा तपः कार्यमेभ्यश्चाधिकमादरात् ।
एषां तपःप्रभावोऽपि मनसा गम्यते न च ॥ ३३॥
एवं ज्ञात्वा तपस्व त्वं ब्राह्मणः प्रभविष्यसि ।
अन्यथा युगसाहस्रं तपस्तप्त्वा मरिष्यासि ॥ ३४॥
(Page खं. १ अ. ५३ पान ११९)
सर्वेभ्यो नमनं विप्र हृदि भावसमन्वितम् ।
कर्तव्यं च त्वया नित्यं राजर्षिवन्महामते ॥ ३५॥
एवमुक्त्वा महायोगी वक्रतुण्डप्रभावजाम् ।
कथां संश्रावयामास पूर्वजातां महायशाः ॥ ३६॥
कथां श्रुत्वा महाभागो विश्वामित्रः सुविस्मितः ।
उवाच तं नमस्कृत्य याज्ञवल्क्यं तपोधनम् ॥ ३७॥
विश्वामित्र उवाच ।
वक्रतुण्डस्य योगीन्द्र चरित्रं संश्रुतं मया ।
अधुना वद मे ब्रह्मन् तस्यानुभवरूपकम् ॥ ३८॥
याज्ञवल्क्य उवाच ।
शृणु यत्नेन माहात्म्यं पुरावृत्तं कथानकम् ।
कथयामि च ते प्रीत्या मदीयं ज्ञानदायकम् ॥ ३९॥
एकदाऽहं गतो ब्रह्मन् वैकुण्ठं स्वर्गमुत्तमम् ।
तत्र नारायणं नत्वाऽपृच्छं तं जगदीश्वरम् ॥ ४०॥
किं सारं सर्वभूतेषु कस्याधारेण संस्थितम् ।
मह्यं वद महाभाग साक्षात्त्वं जगदीश्वरः ॥ ४१॥
इदं सर्वं त्वदाधारं भासते हृदि सर्वदा ।
तथापि प्रष्टुमिच्छामि श्रवणार्थं यथायथम् ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्य -
नारायणसम्प्रश्नवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ १.५२
१.५३ नारायण-याज्ञवल्क्यसंवादो नाम त्रिपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नारायण उवाच ।
गणेशाधारमेतत्त्वं जानीहि ब्राह्मणोत्तम ।
हृदि बुद्धिप्रदातृत्वाद्बहिः सिद्धिप्रदानतः ॥ १॥
अतोऽस्माभिः सदा देव आदौ पूज्यो महामुने ।
आदौ स एव मध्येऽपि तिष्ठत्यन्ते न संशयः ॥ २॥
गुणरूपा वयं सर्वे ब्रह्माकारो गणेश्वरः ।
सिद्धिबुद्धिपतिः सो हि सर्वपूज्यश्च भो मुने ॥ ३॥
स्वानन्दो यस्य लोकोभूद्भावाभावविवर्जितः ।
अगम्यो मुनिदेवानां द्वन्द्वहीनः परात्परः ॥ ४॥
एवं गणपतिं ज्ञात्वा मुच्यते सर्वबन्धनात् ।
तदाधारमिदं सर्वं जगद्ब्रह्म महामते ॥ ५॥
सर्वैरप्येकदा तत्त्वैर्मत्सरेण समन्वितैः ।
वादः कृतो महाभाग अहं श्रेष्ठ इति ध्रुवम् ॥ ६॥
मदाधारमिदं सर्वं पालयामि सृजाम्यहम् ।
हरामि मायया तस्मात् स्वेच्छारूपोऽहमेव च ॥ ७॥
एवं परस्परं सर्वे तत्त्वात्मानो महाबलाः ।
विवादं चक्रिरे तत्र सामर्थ्येन विमोहिताः ॥ ८॥
ततस्तत्र गुणाधीशो ब्राह्मणस्य च वेषभृत् ।
आययौ वादशान्त्यर्थं ज्ञानदानार्थमादरात् ॥ ९॥
तं दृष्ट्वा विस्मिता देवाः कोऽयमत्र समागतः ।
आत्माकारा वयं सर्वे तत्रास्य च गतिः कथम् ॥ १०॥
ततस्तं सर्वतत्त्वानि पप्रच्छुः को भवानिति ।
कथं मार्गस्त्वया प्राप्तो ब्रह्माकारेषु वर्त्मसु ॥ ११॥
ततस्तान् स द्विजो हृष्टो जगौ वै योगमायया ।
मया मार्गः कृतो ह्यत्र ब्राह्मणेन सुयोगिना ॥ १२॥
किमर्थं वै यूयमपि विवादं कुरुथ स्वयम् ।
तन्मे वदत तत्त्वानि करिष्यामि हितं महत् ॥ १३॥
(Page खं. १ अ. ५३ पान १२०)
ततो हृष्टानि तत्त्वानि तमूचुः श्रेष्ठभावतः ।
कस्तिष्ठति वद प्राज्ञ तत्त्वेष्वस्मत्सु वै प्रभो ॥ १४॥
तेषां वचनमाकर्ण्य तानुवाच द्विजोत्तमः ।
तत्त्वाधारमिदं सर्वं विद्यते नात्र संशयः ॥ १५॥
विश्वं त्यक्त्वा यूयमपि पश्यतो मम तिष्ठत ।
विश्वं विदीर्यते सर्वं येन त्यक्तं स वै प्रभुः ॥ १६॥
इति श्रुत्वा वचः सर्वैस्तथेति प्रतिपाद्य तम् ।
क्रमेण त्यक्तुमारेभे आत्माकारा महाबलाः ॥ १७॥
ब्रह्माकारा च या पृथ्वी विश्वं त्यक्त्वा स्थिताऽभवत् ।
तथेदमखिलं विश्वं न विनष्टं तु भावतः ॥ १८॥
ततो जलेन तत्त्यक्तं तथा वै तादृशं स्थितम् ।
ततस्तु तेजसा त्यक्तं न विनष्टं तथापि च ॥ १९॥
ततो वायुश्च तत्त्यक्त्वा स्थितो दूरं महामुने ।
तथापि सकलं विश्वं पूर्ववत् संस्थितं बभौ ॥ २०॥
आकाशेन च सन्त्त्यक्तं तथा वै तादृशं बभौ ।
तन्मात्राभिस्ततस्त्यक्तं तथा वै पूर्ववद्बभौ ॥ २१॥
तन्मात्राभिः सहैतानि भूतानि च महामुने ।
पञ्चापि दूरतः स्थित्वा शुशुचुर्विप्रभाणि च ॥ २२॥
ततो ज्ञानेन्द्रियैस्त्यक्तं पञ्चभिस्तत्तथा बभौ ।
ततः कर्ममयैस्त्यक्तं तथापि तादृशं बभौ ॥ २३॥
तत इन्द्रात्मकं ब्रह्म त्यक्त्वा दूरे स्थितं मुने ।
तथापि विश्वमेवेदं पूर्ववत्संस्थितं किल ॥ २४॥
एवं देवगणाः सर्वे इन्द्रियाणां प्रकाशकाः ।
आत्माकाराः स्थिताः दूरं त्यक्त्वा विश्वं महामुने ॥ २५॥
तथापि सकलं विश्वं बभौ तेऽपि सुविह्वलाः ।
निस्तेजसोऽभवंस्तत्र स्थितास्तत्त्वसमन्विताः ॥ २६॥
ततोऽन्नब्रह्मणा त्यक्तं विश्वं तदपि सम्बभौ ।
प्राणात्मकेन सन्त्यक्तं तथा वै तादृशं बभौ ॥ २७॥
ततो मनोमयेनैव ब्रह्मणा त्यक्तमादरात् ।
तथापि सम्बभौ विश्वं पूरितं केनचिन्मुने ॥ २८॥
ततो विज्ञानरूपेण त्यक्तं तदपि तद्बभौ ।
तत आनन्दरूपेण त्यक्तं विश्वं बभौ तदा ॥ २९॥
ततो नादात्मकेनैव ब्रह्मणा त्यक्तमादरात् ।
ततो बिन्दुमयेनैव त्यक्तं विश्वं बभौ मुने ॥ ३०॥
सोऽहम्ब्रह्मात्मकेनापि त्यक्तं विश्वं बभौ मुने ।
ततो बोधात्मना त्यक्तं तथा विश्वं च सम्बभौ ॥ ३१॥
ततो विदेहरूपेण त्यक्तं तदपि सम्बभौ ।
ततोऽप्यसत्स्वरूपेण त्यक्तं तदपि सम्बभौ ॥ ३२॥
ततोऽपि सत्स्वरूपेण त्यक्तं विश्वं बभौ मुने ।
ततः समस्ववेद्येन त्यक्तं विश्वं समावभौ ॥ ३३॥
ततो नेतिस्ववेद्येन त्यक्तं वै विश्वमाबभौ ।
ततः स्वानन्दरूपेण त्यक्तं विश्वं लयं ययौ ॥ ३४॥
ततस्ते विस्मिताः सर्वे स्वानन्दं तुष्टुवुर्मुने ।
प्रहृष्टमनसो भूत्वा प्रार्थयामासुरादरात् ॥ ३५॥
सकलं यत्त्वदाधारमस्माकं त्वं विशेषतः ।
नायकः सर्वतत्त्वानामतो भव विनायकः ॥ ३६॥
विनायक नमस्तुभ्यं पुनर्विश्वं सृज प्रभो ।
यथा पूर्व स्थितं स्वामिंस्तथा कुरु जगत्पते ॥ ३७॥
एवं तैः प्रार्थितो देवो विशेषेण विनायकः ।
निर्ममे सकलं विश्वं यथापूर्व मुनीश्वर ॥ ३८॥
ततस्ते ब्रह्मरूपत्वात्तद्विश्वं विविशुः पुनः ।
यथा स्वस्थानमात्मानमाश्रित्य मुमुदुस्ततः ॥ ३९॥
(Page खं. १ अ. ५३ पान १२१)
जगदीश्वरनामानः सर्वेशास्ते प्रकीर्तिताः ।
अनेन विधिना ब्रह्मन् ज्ञातव्यं तद्विशेषतः ॥ ४०॥
स विनायक इत्युक्तो द्विविधो याज्ञवल्क्यक ।
संयोगेन निजानन्दो निरानन्दो ह्ययोगतः ॥ ४१॥
द्विविधे नाशभूते च योगरूपोऽयमुच्यते ।
विनायको महातेजा ब्रह्मणां नायकः स्मृतः ॥ ४२॥
तं विदित्वा ततः शान्तिं वयं प्राप्ता महामुने ।
अतः शान्त्यर्थमत्यन्तं तमाराधय भो द्विज ॥ ४३॥
माया भ्रान्तिकरी जन्तोर्वक्रा सङ्कथिता मुने ।
तुण्डेन हन्ति तां भक्त्या तेनाऽयं वक्रतुण्डकः ॥ ४४॥
वक्रतुण्डं च सर्वेशं शरणं याहि भो मुने ।
तदा योगीन्द्रसेव्यस्त्वं भविष्यसि न संशयः ॥ ४५॥
मनोवाणीमयं सर्वं गकाराक्षरमेव च ।
मनोवाणीविहीनं च णकारं विद्धि मानद ॥ ४६॥
तयोः स्वामी गणेशोऽयं योगरूपः प्रकीर्तितः ।
तं प्राप्य ब्रह्मभूताश्च भवन्ति खलु जन्तवः ॥ ४७॥
इदं वेदान्तसम्भूतं रहस्यं कथितं मुने ।
गोपनीयं प्रयत्नेन तेन सिद्धिमवाप्स्यसि ॥ ४८॥
इत्युक्त्वा विररामाथ तदा नारायणः स्वयम् ।
गणेशाय नमस्तुभ्यमित्युवाच पुनः पुनः ॥ ४९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते नारायण-याज्ञवल्क्यसंवादो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ १.५३
१.५४ वक्रतुण्डचरित्रसमाप्तिर्नाम चतुःपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
याज्ञवल्क्य उवाच ।
ततोऽहं परमप्रीतस्तं प्रणम्य जनार्दनम् ।
गतस्तपोवनं तात योगाभ्यासं समारभै ॥ १॥
क्रमेण पञ्चधा वृत्तिं जित्वा चित्तस्य साधनैः ।
गणपं शान्तियोगेन प्राप्तोऽहं तदनुग्रहात् ॥ २॥
अतस्त्वं शरणं याहि वक्रतुण्डं विशेषतः ।
तेन ब्राह्मणसंवन्द्यो भविष्यसि न संशयः ॥ ३॥
गायत्रीजपसम्भूतं श्रेयो देहि महामुने ।
गजाननाय तेन त्वं विघ्नहीनो भविष्यसि ॥ ४॥
विश्वस्मिन् मित्रभावं त्वं प्रकुरुष्व सदातनम् ।
विश्वामित्रश्च ते नाम तदा सार्थत्वमेष्यति ॥ ५॥
मुद्गल उवाच ।
इत्युक्त्वा याज्ञवल्क्यः स ययौ तेन प्रपूजितः ।
गणेशाय नमश्चेति नाममन्त्रं सदा जपन् ॥ ६॥
तदा प्रभृति गायत्रीं विश्वामित्रः स धर्मवित् ।
त्यक्त्वाऽहङ्कारमत्यन्त मत्सरं च तथाऽजपत् ॥ ७॥
गणेशार्पणभावेन गायत्रीं च जजाप ह ।
तपस्तताप विप्रोऽसौ ध्यात्वा हृदि गजाननम् ॥ ८॥
गायत्री वेदमातेयं पिता प्रणव उच्यते ।
स एव गणनाथोऽयमोङ्काराकृतिमस्तकः ॥ ९॥
सगुणो गणराजोऽयमोङ्कार इति कथ्यते ।
(Page खं. १ अ. ५४ पान १२२)
तस्मै समर्प्य योगी स गायत्रीं योगमाप्नुवान् ॥ १०॥
ततः स्वल्पेन कालेन ब्रह्मा लोकपितामहः ।
विश्वामित्रं ययौ दक्ष ब्राह्मणत्वं ददौ परम् ॥ ११॥
वसिष्ठमुनिना तत्र ब्राह्मणैः सह पूजितः ।
विश्वामित्रो महातेजा ब्राह्मणोऽयं प्रकीर्तितः ॥ १२॥
सप्तर्षीणां महातेजा मध्ये प्रोक्तो महर्षिभिः ।
तथा गणेशभक्तेषु मुख्योऽभूत्स प्रतापवान् ॥ १३॥
नित्यं पूजाप्रकारेण पूजयामास तं मुनिः ।
तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥ १४॥
विश्वामित्र उवाच ।
नमस्ते गणनाथाय विघ्नेशाय नमो नमः ।
निर्गुणाय गुणानां च पते वै ते नमो नमः ॥ १५॥
नमः सर्वविदां श्रेष्ठ नमः सर्वप्रियङ्कर ।
गजाकाराय देवाय गणेशाय नमो नमः ॥ १६॥
गजवक्त्र नमस्तुभ्यं ब्रह्मणां च पते नमः ।
अनादये च सततमादिपूज्याय ते नमः ॥ १७॥
सर्वसिद्धिप्रदात्रे ते नानामायाधराय च ।
मायिभ्यो मोहदात्रे वै तद्धीनाय नमो नमः ॥ १८॥
बुद्धेः पते नमस्तुभ्यं बुद्धिपञ्चकधारिणे ।
मनोवाणीमयायैव तद्धीनाय नमो नमः ॥ १९॥
सिंहारूढाय देवाय देवानां च पते नमः ।
देवदेवेशसेव्यायानादिसिद्धाय ते नमः ॥ २०॥
नमश्चतुर्भुजायैव मूषकध्वजधारिणे ।
नमो मूषकवाहाय हेरम्बाय नमो नमः ॥ २१॥
लम्बोदर नमस्तुभ्यं शूर्पकर्णाय ते नमः ।
योगिनां कुलदेवाय योगिनां च पते नमः ॥ २२॥
एवं तस्मिन् संस्तुवति प्रादुर्भूतो गजाननः ।
अनन्तादित्यसङ्काशः सिंहारूढो महोदरः ॥ २३॥
तं दृष्ट्वा निपपातोर्व्यां साश्रुनेत्रो महामुनिः ।
पुलकाङ्कितसर्वाङ्गो भक्तिभावेन सम्प्लुतः ॥ २४॥
तं दृष्ट्वा गणराजस्तु जगाद मुनिसत्तमम् ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ॥ २५॥
यः पठेच्छ्रुणुयाद्योऽपि स मे मान्यो भविष्यति ।
भुक्तिं मुक्तिं च दास्यामीप्सितं तस्मै न संशयः ॥ २६॥
त्वं तु मत्तो वरान् ब्रूहि सर्वान् दास्यामि दुर्लभान् ।
भक्तिभावेन सन्तुष्टस्तव योगीश्वराधुना ॥ २७॥
मुद्गल उवाच ।
गणेशवचनं श्रुत्वा सावधानोऽभवन्मुनिः ।
तं प्रणम्य महाभक्त्या जगौ वै हर्षसंयुतः ॥ २८॥
विश्वामित्र उवाच ।
धन्यो वंशो मदीयोऽद्य धन्यं जन्म तपो यशः ।
धन्यौ मे जनकौ देव त्वदङ्घ्रियुगदर्शनात् ॥ २९॥
किं वाञ्छामि गणाधीश सर्वं मायात्मकं प्रभो ।
अतो भक्तिं त्वदीयां मे देहि नाथ नमोऽस्तु ते ॥ ३०॥
गाणपत्येषु मे देहि संवासं च गजानन ।
अमुमेव वरं ब्रह्मन्मायामोहविनाशनम् ॥ ३१॥
एवमस्त्विति तं प्रोच्य सोऽन्तर्धानं ययौ प्रभुः ।
विश्वामित्रस्तदारभ्य गाणपत्यो बभूव ह ॥ ३२॥
एवं नानावताराश्च वक्रतुण्डस्य धीमतः ।
भक्तानां सिद्धिदातारो दानवानां विनाशकाः ॥ ३३॥
चरित्रमखिलं तेषां वक्तं नैव प्रशक्यते ।
अतः सङ्क्षेपतो विद्धि कथितं सुकथानकम् ॥ ३४॥
एतद्वै वक्रतुण्डस्य चरितं पापनाशनम् ।
भुक्तिमुक्तिप्रदं पूर्णं कथितं ते प्रजापते ॥ ३५॥
(Page खं. १ अ. ५४ पान १२३)
यः शृणोति नरो भक्त्या संश्रावयति यः पुमान् ।
पठेद्यः कृतकृत्यः स भविता नात्र संशयः ॥ ३६॥
पुत्रपौत्रप्रदं चैव धनधान्यकरं परम् ।
विद्यायुष्यप्रदं दक्ष चरितं कथितं परम् ॥ ३७॥
सहस्रमाघमासान् यः प्रयागे स्नाति मानवः ।
वक्रतुण्डचरित्रस्य श्रवणेन च तत्फलम् ॥ ३८॥
आजन्ममरणान्तं यः काशीवासं करोति च ।
यथाविधि यथाशास्त्रं श्रवणादस्य तत्फलम् ॥ ३९॥
इष्टापूर्तादिकं यस्तु लक्षवारं करोति च ।
सम्पूर्णभावयुक्ताच श्रवणादस्य तत्फलम् ॥ ४०॥
यज्ञानां चैव साङ्गानां फलं प्राप्नोति मानवः ।
अस्य श्रवणमात्रेण सम्पूर्णं तत्प्रजापते ॥ ४१॥
बहुनाऽत्र किमुक्तेन ब्रह्मभूयपदप्रदम् ।
श्रवणेन न सन्देहो जानीहि त्वं महामते ॥ ४२॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
तदेतदखिलं तेऽद्य मयाऽपि कथितं मुने ॥ ४३॥
वक्रतुण्डस्य माहात्म्यं सङ्क्षेपेण च शौनक ।
कथितं ते मया विप्र भावं ज्ञात्वा विशेषतः ॥ ४४॥
श्रोतुमिच्छा पुनः किं ते वर्तते मुनिसत्तम ।
तवाऽहं सुप्रसादेन सन्तुष्टाऽस्मि न संशयः ॥ ४५॥
वक्रतुण्डस्य माहात्म्यं गुह्यं वेदरहस्यकम् ।
गोपनीयं विशेषेण तेन सिद्धिं लभेन्नरः ॥ ४६॥
न श्रावयेत् दुर्जनेभ्यो गणेशद्विषते तथा ।
पापकर्मभ्य एवेदं विषयिभ्यः कदाचन ॥ ४७॥
यदि तेषां पुरश्चेदं श्रावितं च महामुने ।
तदा कोपः प्रभविता वक्रतुण्डस्य निश्चितम् ॥ ४८॥
स चानादरमात्रेण दशपूर्वान् दशापरान् ।
नरकं च श्रावयतः प्रापयत्येष पूरुषान् ॥ ४९॥
अतः साधुजनेभ्यश्च गाणपत्येभ्य एव च ।
प्रयत्नेन श्रावयेद्यः स्वानां कोटिं समुद्धरेत् ॥ ५०॥
अतो यः पृच्छको वक्ता स्वस्वकोटिकुलोद्भवम् ।
पुरुषाणां समूहं स उद्धरेन्नात्र संशयः ॥ ५१॥
कलिकल्मषदाहघ्नं वक्रतुण्डचरित्रकम् ।
कृतादिषु किमाश्चर्यं दहेत्पापगणानिति ॥ ५२॥
अहो कलौ विकुण्ठं च सर्वदेवचरित्रकम् ।
गाणपत्यं विशेषेण गतिदं च सदा भवेत् ॥ ५३॥
इदं मुने चरित्रं ते वक्रतुण्डस्य भावतः ।
कथितं तेन विप्रर्षे कृतकृत्योऽस्मि साम्प्रतम् ॥ ५४॥
धन्योऽहं भवतां सङ्गाद्येन संस्मरणं कृतम् ।
गणेशस्य परेशस्य सफलो मे भवोऽभवत् ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डचरित्रसमाप्तिर्नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ १.५४
॥ श्रीगजाननार्पणमस्तु ।
॥ इति श्रीमुद्गलपुराणे प्रथमः खण्डः समाप्तः ॥
Proofread by Yash Khasbage