मुद्गलपुराणं खण्डः २ एकदन्तचरितम्
॥ मुद्गलपुराणं खण्डः २॥
॥ अथ श्रीमुद्गलपुराणे द्वितीयः खण्डः प्रारभ्यते ॥
(Page खं. २ अ. १ पान १)
२.१ ब्रह्मसृष्टिप्रारम्भो नाम प्रथमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनकाद्या ऊचुः ।
सूत त्वया महाभाग कृतकृत्या वयं कृताः ।
अतुलं वक्रतुण्डस्य चरित्रं श्रावितं महत् ॥ १॥
धन्योऽसि त्वं महाबुद्धे सर्वज्ञोऽसि विशेषतः ।
परिपृच्छामहेऽतस्त्वां तद्वदस्व यथार्थतः ॥ २॥
श्रुत्वा श्रुत्वा न नस्तृप्तिर्जायतेऽमृतपानवत् ।
अतस्त्वमेकदन्तस्य चरित्रं वद साम्प्रतम् ॥ ३॥
कस्मिन् ब्रह्मणि संस्थोऽयमेकदन्तो गजाननः ।
कति तस्यावताराश्च किं कर्म वद निश्चितम् ॥ ४॥
इति सम्प्रार्थितः सूतस्तानुवाच महामुनीन् ।
प्रश्रयावनतो भूत्वा भक्त्या तेषां प्रणोदितः ॥ ५॥
सूत उवाच ।
एवमेव च दक्षेण परिपृष्टो महामुनिः ।
मुद्गलस्तमथोवाच तच्छृणुध्वं मुनीश्वराः ॥ ६॥
दक्ष उवाच ।
पुरातनं महत्पुण्यमस्ति मे मुनिसत्तम ।
तेन ते दर्शनं जातं सर्वज्ञस्य न संशयः ॥ ७॥
वक्रतुण्डचरित्रं च श्रुतं तव मुखाम्बुजात् ।
तेन विश्रान्तता प्राप्ता हृदये मे विशेषतः ॥ ८॥
यज्ञविध्वंसशोकोऽपि गतो मत्तोऽधुना प्रभो ।
हर्षयुक्तः कृतो भक्त्या ढुण्ढेस्तु मुनिसत्तम ॥ ९॥
एकदन्तचरित्रं मे कथयस्व विशेषतः ।
किङ्कर्मा कथमुत्पन्न एकदन्तो गजाननः ॥ १०॥
किं वाहनसमायुक्तः कीदृशं ब्रह्म तस्य वै ।
इत्यादि सर्वमाख्यानं वद मां करुणानिधे ॥ ११॥
सूत उवाच ।
एवं पृष्टो महातेजास्तमुवाच प्रजापतिम् ।
भक्तिं ज्ञात्वा विशेषेण गणेशे सर्वसिद्धिदे ॥ १२॥
मुद्गल उवाच ।
शृणु दक्ष त्वया पृष्टं सर्वपापप्रणाशनम् ।
एकदन्तस्य माहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ १३॥
धन्योऽसि त्वं महाभाग येन ते श्रवणे रतिः ।
गजाननस्य देवस्य चरित्रे सर्वभावतः ॥ १४॥
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
गृत्समदस्य संवादं प्रह्लादस्य महात्मनः ॥ १५॥
श्रुत्वा मुद्गलवाक्यं तद् दक्षो हृष्टमना मुने ।
उवाच तं महर्षिं स प्रश्रयावनतः स्वयम् ॥ १६॥
दक्ष उवाच ।
ब्रह्मणः सृष्टिमारभ्य सृष्टिमार्गं वद प्रभो ।
यथा त्रिभुवनं सृष्टं ब्रह्मणा विश्वयोनिना ॥ १७॥
तत्र प्रह्लादमाहात्म्यं स्वयमेवागमिष्यति ।
गृत्समदस्य संवादं यथावद्वर्णय प्रभो ॥ १८॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह ।
सृष्टिमार्गं पुरावृत्तं शापमोहितमादरात् ॥ १९॥
मुद्गल उवाच ।
शृणु दक्ष महाबुद्धे ब्रह्मा लोकपितामहः ।
ससर्ज विविधं विश्वं तथा ते कथयाम्यहम् ॥ २०॥
गणेशवरदानेन ब्रह्मा स्रष्टुं मनो दधे ।
योगमायां समास्थाय विवेशाऽसौ जनार्दनम् ॥ २१॥
निलीय तस्मिन्नब्दान्ते नाभिपद्माद्विनिःसृतः ।
वरदानेन विष्णोश्च पुत्रत्वमगमद्विधिः ॥ २२॥
तत्र पद्मे समासीनो ध्यायन् हेरम्बमन्तरे ।
ततस्तस्य विधेर्देहाज्जलं वै निःसृतं बहु ॥ २३॥
पश्यतस्तस्य सर्वत्र जलं व्याप्तं दिशो दश ।
तस्मिन् जले निमग्नोऽभूद् बभ्राम भ्रान्तमानसः ॥ २४॥
सस्मार गणनाथं तं विभो पाहि भयानकात् ।
(Page खं. २ अ. १ पान २)
मज्जन्तं मां जलात् ढुण्ढे वक्रतुण्ड नमोऽस्तु ते ॥ २५॥
स्मृतिमात्रेण तत्रासौ ददर्श वटमुत्तमम् ।
तत्र पत्रे गणेशानं सुप्तं दृष्ट्वा प्रहर्षितः ॥ २६॥
त्रिनेत्रं च चतुर्बाहुं शुण्डादण्डविराजितम् ।
महोदरं शेषनाभिं भालचन्द्रं किरीटिनम् ॥ २७॥
सर्वावयवसम्पूर्णं नानाभूषणभूषितम् ।
वस्त्रैः सञ्छादितं बालमङ्गुष्ठपरिमाणकम् ॥ २८॥
एतादृशं गणेशानं दृष्ट्वा विस्मितमानसः ।
महाजले वटो योऽयमवशिष्टः कथं जले ॥ २९॥
वटस्य सन्निधाने स ययौ ब्रह्मा प्रजापते ।
सिषेच गणनाथश्च जलं ब्रह्मणि शुण्डया ॥ ३०॥
तेन हृष्टः स्वयं ब्रह्मा तुष्टाव स गजाननम् ।
बद्धाञ्जलिपुटो भूत्वा भक्तिनम्रात्मकन्धरः ॥ ३१॥
ब्रह्मोवाच ।
नमस्ते गणनाथाय प्रलयाम्बुविहारिणे ।
वटपत्रशयायैव हेरम्बाय नमो नमः ॥ ३२॥
चतुर्भुजधरायैव नाभिशेषाय ते नमः ।
गजवक्त्राय सर्वेश लम्बोदर नमोस्तु ते ॥ ३३॥
एकदन्ताय वै तुभ्यं नानाशोभासमन्वित ।
अङ्गुष्ठपर्वमात्रं च स्वरूपं दधते नमः ॥ ३४॥
सिद्धिबुद्धियुतायैव भक्तसंरक्षकाय च ।
अनन्तविभवायैव गणेशाय नमो नमः ॥ ३५॥
निर्गुणाय गुणाधार सगुणाय नमो नमः ।
एकानेकादिभेदैश्च लीलाकार नमोऽस्तु ते ॥ ३६॥
अनादिबालरूपाय सृष्टिस्थित्यन्तकारिणे ।
मायाविने महामोहदात्रे तुभ्यं नमो नमः ॥ ३७॥
निवारय महाविघ्नं सृष्टिकर्तुर्गजानन ।
जलं प्राप्तं महाघोरं तत्राऽहं मज्जितो बलात् ॥ ३८॥
शरणं त्वां प्रपन्नोऽस्मि रक्ष मां भक्तवत्सल ।
तव देवेश दासोऽहं कृपां कुरु दयानिधे ॥ ३९॥
ब्रह्मा स्तुत्वा पुनश्चित्रं तस्य तुण्डे ददर्श ह ।
विश्वं चराचरं पूर्णं संस्थितं सेश्वरं किल ॥ ४०॥
ततो नानासमीरेण नीतो ब्रह्मा महोदरे ।
तत्र विश्वं ददर्शाऽसौ नानाश्चर्यमयं पुनः ॥ ४१॥
एवं नानाण्डसंयुक्तमुदरं वीक्ष्य च प्रभोः ।
रोमद्वारेण ब्रह्माऽसौ बहिर्यातो यथा पुरा ॥ ४२॥
ददर्श तं गणेशानं बालरूपं सुविस्मितः ।
तमुवाच ततो देवो ब्रह्माणं भक्तमुत्तमम् ॥ ४३॥
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
सर्वार्थसाधकं चैव भुक्तिमुक्तिफलप्रदम् ॥ ४४॥
यः पठेच्छृणुयाद्वाऽपि स मे मान्यो भविष्यति ।
यं यं चिन्तयते भावं तं तं दास्यामि निश्चितम् ॥ ४५॥
नाभेः कलमतो विष्णोनिःसृतो वरदानतः ।
तत्राऽऽदौ मे स्मृतिं पूजां विस्मृतस्त्वं पितामह ॥ ४६॥
तेन त्वं विघ्नसंयुक्तः पुनर्जातो न संशयः ।
अधुना मे स्मृतिं कृत्वा दृष्ट्वा मां विघ्नवर्जितः ॥ ४७॥
अतः परं विधे किञ्चित्त्वया कार्यं महामते ।
मत्स्मृतिं नमनं कृत्वा कुरु त्वं सिद्धिमेष्यसि ॥ ४८॥
यथा दृष्टं मदीयेऽद्य जगत्स्थावरजङ्गमम् ।
उदरे तादृशं विश्वं सृज त्वं मेऽधुनाज्ञया ॥ ४९॥
इत्युक्त्वान्तर्दधे सद्यो गणेशो बालरूपधृक् ।
(Page खं. २ अ. २ पान ३)
ब्रह्मा पद्मे समासीनो यथापूर्वं बभूव ह ॥ ५०॥
ततो गणेशमन्त्रं च जजाप कमलासनः ।
पूजयित्वा यथान्यायं ध्यानसंस्थो बभूव ह ॥ ५१॥
तस्य हृद्देशमध्येऽसौ प्रकटोऽभूद्गजाननः ।
तं ननाम स्वयं ब्रह्मा पूजां चक्रे स मानसीम् ॥ ५२॥
दक्षिणावसरे तत्र सिद्धिर्बुद्धिरुभे परे ।
आगते हृदि मध्ये च ते ददौ विघ्नहारिणे ॥ ५३॥
यथाशास्त्रविधानेन तस्य पूजां प्रगृह्य सः ।
अन्तर्धानं ययौ सद्यो गणेशः सर्वनायकः ॥ ५४॥
अन्तर्हिते गणेशाने हृदिस्थे ब्रह्मरूपिणि ।
तं प्रणम्य स्वयं ब्रह्मा सृष्टिं कर्तुं मनो दधे ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते ब्रह्मसृष्टिप्रारम्भो नाम प्रथमोऽध्यायः ॥ २.१
२.२ नारदशापनिवर्तनं नाम द्वितीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
गणेशं मनसा ध्यात्वा सृष्टिं कर्तुं मनो दधे ।
आदौ तस्य विधेर्देहादविद्या सा विनिःमृता ॥ १॥
सा पञ्चधा ततो भिन्ना स्वयं जाता प्रजापते ।
तां दृष्ट्वा विस्मितो ब्रह्मा मनसा दुःखितोऽभवत् ॥ २॥
अविद्याभ्रान्तिरूपाऽत्र ह्यनन्तविभवात्मिका ।
रक्ता कृष्णा तथा श्वेता नानाश्चर्यमयी बभौ ॥ ३॥
त्रिविधानां प्रसूतिश्च जगत्त्रयविमोहिनी ।
तया विमोहितं विश्वं भ्रान्तियुक्तं बभूव ह ॥ ४॥
तमो मोहो महामोहः शृणु दक्ष महाद्भुतम् ।
तामिस्रश्चान्धतामिस्रः पञ्चधा जगति स्थिता ॥ ५॥
तमोऽज्ञानस्वरूपं यत्तेन सञ्छादितं जगत् ।
देहस्वार्थसमायुक्तं बभूव भ्रान्तमानसम् ॥ ६॥
मोहः स कामनायुक्तं कर्म नाना विनिर्ममे ।
तेन विश्वं शरीरस्य कुरुते कर्मभोगदम् ॥ ७॥
महामोहेन संसृष्टं विकर्म विविधं प्रभो ।
तेन देहस्य भोगार्थं पापानि कुरुते नरः ॥ ८॥
तामिस्रेण फलं सृष्टं रोगदारिद्र्यकादिकम् ।
तेनाऽऽधिव्याधिसंयुक्तमभूद्विश्वं प्रपीडितम् ॥ ९॥
अन्धतामिस्रतो दक्ष नरको यातनात्मकः ।
तेन स्वकर्मदोषेण यातनां बुभुजे जगत् ॥ १०॥
एषाऽविद्यागणेशानं स्मृत्वा स्वार्थपराऽभवत् ।
ततो ब्रह्मा विनिन्द्यैनां पुनः स्रष्टुं मनो दधे ॥ ११॥
ततस्तस्य शरीरात्तु चतुःपुत्राः प्रजज्ञिरे ।
सनकश्च महायोगी तथान्यश्च सनन्दनः ॥ १२॥
सनातनोऽपि च सनत्कुमारश्च चतुर्थकः ।
तेषां मातृस्वरूपेण विद्या ज्ञानात्मिका बभौ ॥ १३॥
बोधरूपां निराकारां साक्षादात्ममयीं पराम् ।
तां दृष्ट्वा हर्षयुक्तोऽभूद्ब्रह्मा सर्वपितामहः ॥ १४॥
सहजस्य धरस्तत्र सनकः सम्बभौ सुतः ।
समयोगधरो दक्ष प्रतापी च स नन्दनः ॥ १५॥
ज्ञानयोगमयो योगी सनातन इति स्मृतः ।
कर्मयोगस्वरूपः सनत्कुमारः स आबभौ ॥ १६॥
तान् दृष्ट्वा हर्षसंयुक्त उवाच जगदीश्वरः ।
(Page खं. २ अ. ३ पान ४)
स्मृत्वाऽसृजत संसृष्टिं गणेशं तैः कृतं तथा ॥ १७॥
नानाविधं योगमार्गं ससृजुस्ते महौजसः ।
तं दृष्ट्वा नाभ्यनन्दत्स ब्रह्मा प्रोवाच तान् पुनः ॥ १८॥
अलं योगमयीं सृष्टिं मा कुरुध्वं महौजसः ।
तथेति ते महाभागा ऊचुस्तं संस्थिता बभुः ॥ १९॥
ब्रह्मा ज्ञानमयीं सृष्टिं ततो दृष्ट्वा चुकोप ह ।
कोषात्तस्य ललाटाद्वै शम्भुः पुत्रो बभूव ह ॥ २०॥
तुष्टाव तेजसा दीप्तं पञ्चवक्त्रधरं प्रभुम् ।
त्रिनेत्रं दशबाहुं तं चन्द्ररेखाविभूषितम् ॥ २१॥
अर्धनारीनरं प्राज्ञं त्रिशूलादिसुचिह्नितम् ।
जटाधरं महाकायं व्याघ्रेभाजिनधारकम् ॥ २२॥
सहसा जातमात्रेण रुदितं शङ्करेण च ।
तं ब्रह्मा सान्त्वयामास किं रोदिषि वृषध्वज ॥ २३॥
ब्रह्माणमवदद्बालः स्थानं देहि पितः प्रभो ।
मह्यं नामानि सर्वेश कार्यं कथय विस्तरात् ॥ २४॥
तं प्रत्युवाच धाता स रोदनाद्रुद्रसंज्ञितः ।
शिवः सर्वसुखाधारस्त्वं जातोऽसि महेश्वर ॥ २५॥
वरदानप्रभावेणाधुना सर्वेश्वरः प्रभो ।
साक्षाच्छङ्करवेषेण पुत्रतां मे समागतः ॥ २६॥
पृथ्वी जलं तथा तेजो वायुराकाशमेव च ।
चन्द्राः सूर्यो दीक्षितोऽष्टौ तव स्थानानि शङ्कर ॥ २७॥
अष्टमूर्तिधरः शर्वः सर्वेभ्यः फलदायकः ।
तव नामानि देवेश एकादश भवन्तु वै ॥ २८॥
कुरु सृष्टिं महादेव ध्यात्वा देवं गजाननम् ।
तथेति सृष्टिमारेभे ध्यात्वा गणपतिं शिवः ॥ २९॥
रुद्रान्नानाविधान् शम्भुः ससर्ज बहुतेजसः ।
अनन्तान्विविधाकारानमृतात्मप्रधारकान् ॥ ३०॥
तान् दृष्ट्वा ब्रह्मदेवोऽपि मा कुरुष्व जगत्पते ।
जन्ममृत्युयुतान् शम्भो सृजस्व विविधांस्तथा ॥ ३१॥
ततः शिवो विधातारमुवाच न सृजाम्यहम् ।
जन्ममृत्युयुतान् देवेत्युक्त्वा तूष्णीं बभूव ह ॥ ३२॥
तेन स्थाणुरिति प्रोक्तं नाम तस्य महात्मनः ।
ऊर्ध्वरेताः स्वयं शम्भुः स्थितो गणपतिं भजन् ॥ ३३॥
ततो ब्रह्मा मुखेभ्यो वै वेदान् शास्त्रसमन्वितान् ।
पुराणानि ससर्जाऽसौ तानुवाच कृताञ्जलीन् ॥ ३४॥
सृजध्वं विविधां सृष्टिं तथेति गणपं तदा ।
तपसा तोषयामासुः ससृजुस्तद्वरैः प्रजाः ॥ ३५॥
कर्माणि विविधानीह ससृजुः परमादरात् ।
तानि दृष्ट्वा विधाताऽसौ हर्षयुक्तो बभूव ह ॥ ३६॥
ततो यज्ञं समारेभे ब्रह्मा विष्णुमचिन्तयत् ।
पुत्रार्थं तं महाभागं सोऽपि तत्पुत्रतां गतः ॥ ३७॥
यज्ञाच्चतुर्भुजो देवो यज्ञरूपो जनार्दनः ।
समुद्भूतः स्वयं विष्णुस्तमुवाच कृताञ्जलिः ॥ ३८॥
आज्ञां देहि पितर्मां त्वं ततस्तं विधिरब्रवीत् ।
सृष्टिं कुरु गणेश त्वं तथा स्मृत्वा चकार सः ॥ ३९॥
यज्ञान् कर्मसमुद्भूतान ससर्ज विविधान् हरिः ।
नानाफलप्रदान पूर्णान् कल्पवृक्षानिव प्रभुः ॥ ४०॥
तान् दृष्ट्वा हर्षितो ब्रह्मा ततः स ससृजे पुनः ।
(Page खं. २ अ. २ पान ५)
तस्य देहात्समुत्पन्नाः पुत्रा दश महौजसः ॥ ४१॥
मरीचिर्भृगुरत्रिश्च पुलस्त्यः पुलहः क्रतुः ।
दक्ष त्वमङ्गिराश्चैव वसिष्ठो नारदः प्रभो ॥ ४२॥
तानुवाच स्वयं ब्रह्मा सृजध्वं विविधाः प्रजाः ।
ओमित्युक्त्वा ययुः सर्वे तपसे वनमुत्तमम् ॥ ४३॥
ततो नारद आद्यन्तमुवाच पितरं मुनिः ।
नाहं सृजामि देवेश भजामि गणनायकम् ॥ ४४॥
मायामयं सर्वमिदं मिथ्याभूतं भ्रमात्मकम् ।
श्राम्येज्ज्ञाता तदर्थं यो मूर्खवन्नात्र संशयः ॥ ४५॥
ततस्तं पुनरप्याह सृज त्वं विविधाः प्रजाः ।
अन्त्ये वयसि देवेशं गणेशं भज पुत्रक ॥ ४६॥
स ऊचे त्वं बोधयसि किमर्थं मां प्रजापते ।
मिथ्याभूतार्थमादौ कः सृजति भ्रान्तिसंयुतः ॥ ४७॥
ततस्तं शप्तवान् ब्रह्मा पत त्वं शूद्रयोनितः ।
गन्धर्वश्च तथा भावी नानास्त्रीभोगकारकः ॥ ४८॥
ततस्तं नारदस्तातं शशाप क्रोधसंयुतः ।
अपूज्यो भविताऽसि त्वं वृथा शपसि मां यतः ॥ ४९॥
ततो नारद एवाऽसौ गत्वा तपसि संस्थितः ।
गणेशं तोषयामास मन्त्रेणैकाक्षरेण च ॥ ५०॥
दिव्यवर्षशते पूर्णे तं ययौ गणपः स्वयम् ।
वरं वृणु महाभाग दास्यामि मनसीप्सितम् ॥ ५१॥
ततस्तं स्तुतवान् देवं गणेशं सर्वसिद्धिदम् ।
अवृणोच्च वरं चेति शापं मे विनिवर्तय ॥ ५२॥
ततस्तं गणराजः स ऊचिवान् भक्तवत्सलः ।
पितृशापं कथं मिथ्या करोमि वद साम्प्रतम् ॥ ५३॥
मया वरस्तथा दत्तो ब्रह्मणे तेन सत्यवाक् ।
अतः शृणु महाभाग वचनं मे सदा हितम् ॥ ५४॥
गन्धर्वो भवितासि त्वं तत्र ज्ञानं वदामि ते ।
सदा स्त्रीभिः समायुक्तं त्वां माया न प्रबाधते ॥ ५५॥
पुनस्त्वं शूद्रयोनौ च भविष्यसि न संशयः ।
तत्र संन्यासिभिः सङ्गो भविष्यति यदाऽनघ ॥ ५६॥
तेभ्यो ज्ञानं समासाद्य गमिष्यसि वनेषु च ।
तत्र वैष्णवमार्गेषु त्वं संसक्तो भविष्यसि ॥ ५७॥
तद्देहपतनात् भावी पुनस्त्वं ब्रह्मणः सुतः ।
नारदो नाऽत्र सन्देहस्तत्र शम्भुं भजिष्यसि ॥ ५८॥
नारायणमुखात्तत्र मां ज्ञात्वा मत्प्रियो मुने ।
भविष्यसि च योगेन्द्रो गाणपत्यो न संशयः ॥ ५९॥
इत्युक्त्वा गणनाथस्तं तत्रैवान्तरधीयत ।
नारदस्तं नमस्कृत्य शापं भुक्त्वा दिवं गतः ॥ ६०॥
पुनः स नारदो जातः शिवभक्तिपरायणः ।
नारायणेन संज्ञप्तो गाणपत्यो बभूव ह ॥ ६१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते नारदशापनिवर्तनं नाम द्वितीयोऽध्यायः ॥ २.२
२.३ नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
कथं नारायणेनाऽसौ बोधितो मुनिसत्तमः ।
तन्मे कथय योगीन्द्र न तृप्यामि कथामृतात् ॥ १॥
मुद्गल उवाच ।
(Page खं. २ अ. ३ पान ६)
एकदा नारदो दक्ष पर्यटञ्छङ्करं गतः ।
तत्र सम्पूजयन्तं तं गणेशं स ददर्श ह ॥ २॥
मूर्तिं चिन्तामणेः साक्षात् स्थापितां रत्ननिर्मिताम् ।
शुण्डादण्डमुखीं चैव शङ्करस्तामपूजयत् ॥ ३॥
तं दृष्ट्वा नियमे संस्थं विस्मितो नारदो मुनिः ।
प्रययौ तं नमस्कृत्य विकुण्ठे विष्णुमादरात् ॥ ४॥
तं प्रणम्य महातेजा नारदो विनयान्वितः ।
उवाच भक्तिसंयुक्तो नारायण नमोऽस्तु ते ॥ ५॥
त्वं साक्षाज्जगतामीशो नुद मे संशयं प्रभो ।
कैलासमगमं द्रष्टुमहं शङ्करमुत्सुकः ॥ ६॥
तत्र सोऽपि गणेशस्य मूर्तिं कृत्वा जनार्दन ।
अपूजयन्महाभक्त्या रोमाञ्चितशरीरवान् ॥ ७॥
अश्रुप्रवाहसंयुक्तं प्रेम्णा चैव परिप्लुतम् ।
ध्यानस्थं शङ्करं दृष्ट्वा मौनवानभवं प्रभो ॥ ८॥
तं प्रणम्य महाविष्णो त्वदन्तिकमुपागतः ।
त्वं चापि गणराजस्य वदसे नाममन्त्रकम् ॥ ९॥
शङ्करान्न परं किञ्चिदव्यक्तं ब्रह्म कथ्यते ।
शिवो विकारहीनश्च सर्वसिद्धिप्रदो मतः ॥ १०॥
त्वं तदीया महाशक्तिः प्रभो नारायणाह्वया ।
सदानन्दस्वरूपश्च सर्वात्मा चैव कथ्यते ॥ ११॥
कोऽसौ गणेश्वरो नाम त्वं कथं स्मरसि प्रभो ।
विश्वनाथः कथं शम्भुस्तं पूजयति नित्यशः ॥ १२॥
एनं मे संशयं देव च्छेत्तुमर्हसि केशव ।
सर्वज्ञस्त्वं रमानाथ शाधि मां शिष्यमागतम् ॥ १३॥
मुद्गल उवाच ।
नारदस्य वचः श्रुत्वा प्रहृष्टः केशवोऽब्रवीत् ।
तं गणेशस्य सम्भक्तेः पात्रं दृष्ट्वा यथार्थतः ॥ १४॥
नारायण उवाच ।
शृणु नारद मे वाक्यं संशयं कुरु मा मुने ।
योगशान्तिस्वरूपोऽयं गणेशो नात्र संशयः ॥ १५॥
सिद्धिबुद्धिपतिः साक्षात् स्वानन्दाख्ये पुरे स्थितः ।
तस्य भक्तिप्रभावेण वयं वै सर्वसिद्धिदाः ॥ १६॥
विनायकः स एको वै वयं नायकसंयुताः ।
भजामो भक्तियुक्तास्तं योगशान्त्यर्थमादरात् ॥ १७॥
एकदाऽहं गतस्तत्र कैलासे शङ्करालये ।
गणेशं पूजयन्तं तं शिवं दृष्ट्वा सुविस्मितः ॥ १८॥
तस्य नित्यविधिं पूर्णं जातं दृष्ट्वा तमब्रवम् ।
त्वं साक्षान्निर्विकारश्च मोहहीनः सदाशिव ॥ १९॥
अव्यक्तं ब्रह्म यत्प्रोक्तं ब्रह्माधिपतिसंज्ञितम् ।
त्वमेव वेदवादेषु कथं वदसि विघ्नपम् ॥ २०॥
कोऽसौ गणेश्वरो नाम तद्वदस्व मम प्रभो ।
सर्वज्ञस्त्वं सदा शम्भुः शिष्यं ते तारयस्व माम् ॥ २१॥
शिव उवाच ।
शृणु विष्णो रहस्यं मे शान्तिदं योगसेवया ।
योगपूर्णं गणेशाख्यं ब्रह्मभूयपदप्रदम् ॥ २२॥
पञ्चधा चित्तवृत्तिर्या सा बुद्धिः कथ्यते बुधैः ।
पञ्चभेदतया सर्वं भुनक्ति प्रकृतिः परा ॥ २३॥
तत्र मोहप्रदा सिद्धिर्नानाभ्रान्तिप्रकाशिका ।
सिध्यर्थं पञ्चधा चित्तं यत्नयुक्तं बभूव ह ॥ २४॥
धर्मार्थकाममोक्षाणां सिद्धिः सर्वत्र कथ्यते ।
(Page खं. २ अ. ३ पान ७)
ब्रह्मभूयकरी साक्षाज्जानीहि पुरुषोत्तम ॥ २५॥
ब्रह्मणि ब्रह्मभूतो यस्तस्य किं भ्रान्तिरुच्यते ।
धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य वा विभो ॥ २६॥
तस्य पञ्चविधं चित्तं नास्ति जानीहि निश्चितम् ।
तदा योगी समाख्यातो गणेशाभेदतां गतः ॥ २७॥
सम्प्रज्ञातसमाधिस्थो गकारः कथ्यते बुधैः ।
असम्प्रज्ञातरूपो वै णकारो वेदवादिभिः ॥ २८॥
तयोः स्वामी गणेशोऽयं शान्तियोगमयः सदा ।
नेतिरूपोऽहमव्यक्तस्त्वं समात्मक उच्यसे ॥ २९॥
यत्र कुत्र प्रदृष्टा वै वयं सर्वे भवात्मकाः ।
भवप्रत्यययोगस्थो गणेशः पञ्चधाऽभवत् ॥ ३०॥
स तु मायामयः प्रोक्तो वेदेषु खलु केशव ।
मायाहीनो गणेशान उपायप्रत्ययात्मकः ॥ ३१॥
साक्षाद्गणेशरूपे च मायायुक्तवियुक्तता ।
नास्ति तस्मात्स वै शान्त्या लभ्यते नान्यथा क्वचित् ॥ ३२॥
गणेशोऽहं सदा ब्रह्म ब्रह्मणां पतिरञ्जसा ।
योगोऽयं गाणपत्याख्यः कथितस्ते मया प्रभो ॥ ३३॥
अनेन विधिना ज्ञानं गाणेशाख्यं भविष्यति ।
त्यक्त्वा पञ्चविधं चित्तं भव चिन्तामणिः प्रभो ॥ ३४॥
एवमुक्त्वा महादेवो विरराम च नारद ।
मया ते कथितं ज्ञानं गाणेशाख्यं महामुने ॥ ३५॥
अस्माकं पददाता स ब्रह्मभूयप्रदस्तथा ।
गणेशः कुलदेवश्च तस्मात्तं प्रभजामहे ॥ ३६॥
मुद्गल उवाच ।
तं विष्णुं प्रणिपत्याऽथ नारदः प्रययौ मुनिः ।
तपोवनं समासाद्य योगाभ्यासरतोऽभवत् ॥ ३७॥
गणेशं मनसा ध्यायन्नजपन् मन्त्रमुत्तमम् ।
दशवर्षेः प्रसन्नोऽभूद्गणेशस्तं ययौ मुनिम् ॥ ३८॥
तं दृष्ट्वा विस्मितोऽत्यन्तं नारदः प्रणनाम च ।
कृताञ्जलिपुटो भूत्वा तुष्टाव गणपं मुनिः ॥ ३९॥
नारद उवाच ।
नमामि गणनाथं तं सर्वविघ्नविनाशिनम् ।
वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४०॥
मनोवाणीविहीनं नो मनोवाणीमयं न च ।
ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१॥
त्वद्दर्शनेन हेरम्ब कृतकृत्योऽहमञ्जसा ।
इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२॥
पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः ।
रोमाञ्चितशरीरोऽसौ भावयुक्तो महामुनिः ॥ ४३॥
नमो नमो गणेशाय विघ्नराजाय ते नमः ।
भक्तानां विघ्नहन्त्रे चाभक्तानां विघ्नकारिणे ॥ ४४॥
अमेयमायया चैव संयुक्ताय नमो नमः ।
योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥ ४५॥
विनायकाय सर्वेश नमश्चिन्तामणे नमः ।
अनन्तमहिमाधार नमस्ते चन्द्रमौलये ॥ ४६॥
एकदन्ताय देवाय मायिभ्यो मोहदाय ते ।
नमो नमः परेशाय परात्परतमाय ते ॥ ४७॥
निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे ।
महाखुवाहनायैव मूषकध्वजधारिणे ॥ ४८॥
अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुण्ढये ।
हर्त्रे कर्त्रे सदा पात्रे नानाभेदमयाय च ॥ ४९॥
त्वद्दर्शनसुधापानाद्धतं मे भ्रान्तिजं महत् ।
(Page खं. २ अ. ४ पान ८)
मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥ ५०॥
न भिन्नं परिपश्यामि त्वदृते गणनायक ।
शान्तिदं योगमासाद्य प्रसादात्ते न संशयः ॥ ५१॥
भक्तिं देहि गणाधीश परां त्वत्पादपद्मयोः ।
कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥ ५२॥
इत्युक्त्वा विररामाथ तं पुनर्गणपोऽवदत् ।
मदीया भक्तिरत्यन्तं भविष्यति सदाऽचला ॥ ५३॥
न योगाच्चलनं क्वापि भविष्यति महामुने ।
सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥ ५४॥
त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥ ५५॥
इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः ।
सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥ ५६॥
इत्याख्यानं नारदीयं कथितं ते प्रजापते ।
शृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥ ५७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीय खण्डे एकदन्तचरिते नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः ॥ २.३
२.४ मधुकैटभवधो नाम चतुर्थोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो ब्रह्मा ससर्जाऽसौ मुखतो ब्राह्मणान् स्वयम् ।
बाहुभ्यः क्षत्रियान् सर्वानूरुभ्यो वैश्यकांस्तथा ॥ १॥
पद्भ्यः शूद्रान् महादेवः ससर्ज गुणप्रेरितः ।
संन्यासं शिरसस्तद्वद्वानप्रस्थाश्रमं हृदः ॥ २॥
नाभ्याश्च ब्रह्मचर्यं स जङ्घाभ्यां गृहितां तथा ।
वर्णाश्रमान् स वै दृष्ट्वा हर्षितोऽभूत् पितामहः ॥ ३॥
ततो धर्मं स्वयं ब्रह्मा ससर्जोरःप्रदेशतः ।
पृष्ठतोऽधर्मरूपं च सुरदैत्यप्रवर्तकौ ॥ ४॥
ततो देवांश्च गन्धर्वानप्सरोयक्षकादिकान् ।
असुरान् यातुधानांश्च ससर्ज निजदेहतः ॥ ५॥
सर्पान् पक्षिगणांश्चैव पशुमानवकादिकान् ।
क्रियायुक्तान् ससार्जाऽसौ स्वदेहं प्रददौ ततः ॥ ६॥
ते सर्वे ब्रह्मणो देहात्समुत्पन्ना महौजसः ।
व्यवहारयुता दक्ष ववृधुर्न तथापि ते ॥ ७॥
तेषां स्वर्गप्रमाणं च शृणु मुख्यं प्रजापते ।
सङ्क्षेपेण प्रवक्ष्यामि प्राकृतं वै कृतं परम् ॥ ८॥
प्रथमो महतः सर्गो ब्रह्मणः स तु कथ्यते ।
तन्मात्राणां द्वितीयस्तु भूतसर्गः प्रकीर्तितः ॥ ९॥
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।
इत्येते प्राकृताः सर्गाः सम्भूता बुद्धिपूर्वकाः ॥ १०॥
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यक्योनिः स पञ्चमः ॥ ११॥
तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानवः ॥ १२॥
अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः ।
नवमश्चैव कौमारो ज्ञातव्यो विबुधैस्तथा ॥ १३॥
विकृताः षट् समाख्याता प्राकृताश्च त्रयो मताः ।
(Page खं. २ अ. ४ पान ९)
नवसर्गाः प्रविज्ञेयाः प्राकृता वैकृता इमे ॥ १४॥
प्राकृता ये त्रयः सर्गा बुद्धिपूर्वाः प्रकीर्तिताः ।
बुद्धिपूर्वं प्रवर्तन्ते तत्त्वाद्यैः सर्वजन्तवः ॥ १५॥
एवं सृष्ट्वा स्वयं ब्रह्मा प्रजा नानाविधाः प्रभो ।
ववृधुर्न प्रजास्तस्य तेन सन्दुःखितोऽभवत् ॥ १६॥
ततस्तस्य शरीराद्वै दाम्पत्यं निःसृतं परम् ।
वामाङ्गात्मकृती रम्या शतरूपा च सा स्मृता ॥ १७॥
दक्षिणाङ्गात्तु सम्भूतः पुरुषः स मनुः स्मृतः ।
स्वायम्भुवो महाभाग आद्यः क्षत्रियधर्मवित् ॥ १८॥
बद्धाञ्जलिपुटौ चोभौ वचो बह्माणमूचतुः ।
आज्ञां कुरु महाभाग किं कुर्याव प्रजापते ॥ १९॥
ततो ब्रह्मा स्वयं जातौ तौ जगाद प्रहर्षितः ।
अतुलां सृजतं सृष्टिं मैथुनीं तपसो बलात् ॥ २०॥
ततस्तौ तं प्रणम्यादौ जग्मतुर्वनमुत्तमम् ।
प्रतेपाते तपो घोरं विचिन्त्य गणपं हृदि ॥ २१॥
ततो विधातृच्छायायाः कर्दमो मुनिसत्तमः ।
सनुत्पन्नश्च तं दृष्ट्वा ब्रह्मोवाच सृज प्रजाः ॥ २२॥
स मुनिर्वनमागत्य तताप परमं तपः ।
विष्णुं ध्यात्वा प्रजाकामः शुक्लरूपं यथाविधि ॥ २३॥
एतस्मिन्नन्तरे जातौ विष्णुकर्णमलोद्भवौ ।
मधुकैटभनामानौ दैत्यौ परमदारुणौ ॥ २४॥
ताभ्यां स्वभुजवीर्येण जितं त्रिभुवनं तदा ।
देवाः सर्वे भयोद्विग्नाः पलायन्त दिशासु च ॥ २५॥
ब्रह्माणं भक्षितुं यातौ तेन निद्रा स्तुता तदा ।
निद्रया विष्णुरव्यक्तो मुक्तः सन्नुत्थितो बभौ ॥ २६॥
तेन युद्धं महाघोरं कृतं ताभ्यां भयानकम् ।
मल्लयुद्धेन तौ जेतुं न शशाक जनार्दनः ॥ २७॥
पञ्चवर्षसहस्राणि युयुधे हरिरव्ययः ।
ततो हरिं ममृदतुर्महादैत्यौ बलान्वितौ ॥ २८॥
ततो विष्णुः स्वमात्मानमतंर्धाय पलायत ।
शरणं शङ्करं चैव ययौ भावसमन्वितः ॥ २९॥
प्रणिपत्य महेशानं जगाद भयसङ्कुलः ।
वृत्तान्तं युद्धसम्भूतं जयोपायं वदस्व मे ॥ ३०॥
तेन सङ्कथितं तस्मै गणेशो विस्मृतस्त्वया ।
तमाराधय यत्नेन ततः सिद्धिमवाप्स्यसि ॥ ३१॥
षडक्षरं महामन्त्रं गणेशाय ददौ शिवः ।
स ययौ तपसे देशे दण्डकारण्यसंज्ञके ॥ ३२॥
तत्र पद्मासनं कृत्वा ध्यात्वा देवं गजाननम् ।
षडक्षरविधानेन तताप परमं तपः ॥ ३३॥
सहस्रवर्षपर्यन्तं तपस्तप्तं सुदारुणम् ।
तदा तं वरदानाय विष्णुं गणपतिर्ययौ ॥ ३४॥
तं दृष्ट्वा प्रणनामाथ पूजयामास भक्तितः ।
महाविष्णुः प्रसन्नात्मा प्रणनाम गजाननम् ॥ ३५॥
बद्धाञ्जलिपुटो भूत्वा तं तुष्टाव गणेश्वरम् ।
नानाभावसमायुक्तं वरदं भक्तवत्सलम् ॥ ३६॥
श्रीमहाविष्णुरुवाच ।
नमो गणपते तुभ्यं विघ्नराजाय ते नमः ।
नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ ३७॥
सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे ।
अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ ३८॥
(Page खं. २ अ. ५ पान १०)
निर्गुणाय गुणानां वै चालकाय नमो नमः ।
नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते ॥ ३९॥
ब्रह्मभ्यो ब्रह्मदात्रे च ब्रह्मणे ब्रह्मरूपिणे ।
नरकुञ्जररूपाय नानामायामयाय ते ॥ ४०॥
कारणानां च देवेश कारणाय नमो नमः ।
ज्येष्ठराजाय वै तुभ्यं कारणै रहिताय च ॥ ४१॥
योगिनां हृदि संस्थाय योगिभ्यो योगदायिने ।
योगरूपधरायैव गणेशाय नमो नमः ॥ ४२॥
मायाश्रयाय मायाया आधाराय नमो नमः ।
मायिभ्यो मायया त्वं वै मोहदाता नमो नमः ॥ ४३॥
त्वां स्तोतुं कः समर्थः स्याद्योगाकारेण वर्तसे ।
यत्र वेदा विकुण्ठाश्च शास्त्रैः सर्वैः सहाङ्गकैः ॥ ४४॥
मनोवाणीविहीनस्त्वं न हि देव कृपाकर ।
मनोवाणीमयो नैव कथं त्वां स्तौमि विघ्नपम् ॥ ४५॥
तथापि बुद्धिदाता त्वं त्वत्प्रसादेन संस्तुतः ।
धन्योऽहं देवदेवेश तव दर्शनतोऽधुना ॥ ४६॥
साक्षाद् दृष्ट्वा गणेशं त्वां तेनाहं ब्रह्मरूपकः ।
जातो नास्त्यत्र सन्देहो योगीन्द्रो योगदायकः ॥ ४७॥
इत्युक्त्वा तं प्रणम्याऽसौ त्वनृत्यद् भक्तिभावितः ।
रोमाञ्चितशरीरश्च हर्षाश्रुभिरपिप्लुतः ॥ ४८॥
तमुवाच गणाधीशो वरं वृणु जनार्दन ।
तपसा भक्तिभावेन तुष्टो दास्यामि वाञ्छितम् ॥ ४९॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति नृणां विष्णो पठतां शृण्वतां सदा ॥ ५०॥
धर्मार्थकाममोक्षाणां साधकं प्रभविष्यति ।
ईप्सितार्थप्रदं सद्यः प्रसादान्मे च केशव ॥ ५१॥
मुद्गल उवाच ।
गणेशवचनं श्रुत्वा विष्णुर्हर्षसमन्वितः ।
जगाद तं प्रणम्यादौ वाञ्छितं संवृणे त्विति ॥ ५२॥
विष्णुरुवाच ।
यदि प्रसन्नतां यातस्तदा भक्तिं सुदुर्लभाम् ।
तव पादयुगे देहि दृढामव्यभिचारिणीम् ॥ ५३॥
अन्यद्देहि गणाधीश ज्ञानं मे ह्यतुलं तथा ।
कीर्तिं सर्वत्र मे देहि सामर्थ्यं विविधं तथा ॥ ५४॥
मधुकैटभनाशार्थमुपायं वद साम्प्रतम् ।
अन्यदैत्याभिहनने सामर्थ्यं देहि विघ्नप ॥ ५५॥
तस्य तद्वचनं श्रुत्वा तथेति गणपोऽब्रवीत् ।
युद्धाय गच्छ देवेश दैत्यौ जेष्यसि तौ बलात् ॥ ५६॥
तयोर्मरणमत्यन्त सुगुप्तं ब्रह्मणा कृतम् ।
समये वरदानस्य तपसा तोषितेन च ॥ ५७॥
स्वमुखेन यदा मृत्युं दैत्यौ तौ कथयिष्यतः ।
तदा तेन प्रकारेण जहि दैत्यौ महाबलौ ॥ ५८॥
अहं मायां समाश्रित्य तयोस्तव हृदि प्रभुः ।
वासं कृत्वा तवाधीनौ करिष्यामि न संशयः ॥ ५९॥
मदीयस्मरणं चित्ते करिष्यति यदा भवान् ।
जयोपायं तदा विष्णो ज्ञास्यसे दैत्यनाशकम् ॥ ६०॥
एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
विष्णुस्तत्र महामूर्तिं स्थापयामास सुद्विजैः ॥ ६१॥
पूजयामास तां मूर्तिमुपचारैः सुपुष्कलैः ।
सिद्धिक्षेत्रं सुविख्यातं तदादेः प्रबभूव ह ॥ ६२॥
अनुष्ठाने कृते तत्र नानामिद्धिकरं परम् ।
क्षेत्रं बभूव विख्यातं गाणेशं सिद्धसेवितम् ॥ ६३॥
(Page खं. २ अ. ५ पान ११)
तत्र विष्णुः सदा वासं चक्रे वै भक्तिसंयुतः ।
सदारः परिवारेणापूजयन्नित्यमादरात् ॥ ६४॥
तं प्रणम्य गणाधीशं ययौ युद्धाय सत्वरः ।
गणेशं मनसा ध्यात्वा तौ चिच्छेद महाबलौ ॥ ६५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते मधुकैटभवधो नाम चतुर्थोऽध्यायः ॥ २.४
२.५ स्वायम्भुववरप्रदानं नाम पञ्चमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
नवब्रह्मसुताः प्रोक्तास्तेपुस्ते परमं तपः ।
दिव्यवर्षसहस्रं च गणेशं हृद्यचिन्तयन् ॥ १॥
एकाक्षरविधानेन पूजयन्तश्च नित्यशः ।
वायुमात्राशिनः सर्वे तोषयामासुरादरात् ॥ २॥
ततस्तेषां प्रसन्नोऽभूद्गणेशो भक्तवत्सलः ।
आययौ तान् वरं दातुं मूषकोपरि संस्थितः ॥ ३॥
अनन्तसूर्यसङ्काशं दृष्ट्वा तं हर्षसंयुताः ।
सौम्यरूपं प्रणेमुस्ते निबद्धकरसम्पुटाः ॥ ४॥
तुष्टुवुः परमात्मानं गणेशं दक्षमुख्यकाः ।
तद्दर्शनजबोधेन भक्तिनम्रात्मकन्धराः ॥ ५॥
प्रजापतय ऊचुः ।
नमस्ते विघ्ननाथाय नमस्ते सर्वसाक्षिणे ।
सर्वात्मने स्वसंवेद्यरूपिणे ते नमो नमः ॥ ६॥
योगाय जगतां पात्रे ब्रह्मदात्रे नमो नमः ।
योगिनां गम्यरूपाय शान्तियोगप्रदाय ते ॥ ७॥
स्रष्ट्रे पात्रे च संहर्त्रे नानारूपधराय ते ।
अव्यक्ताय व्यक्तकाय व्यक्ताव्यक्ताय ते नमः ॥ ८॥
ब्रह्मणे विष्णवे चैव शङ्कराय च भानवे ।
शक्तये चन्द्ररूपाय यमाय च नमो नमः ॥ ९॥
अग्नये नैरृतायैव वारुणाय च वायवे ।
कुबेराय च रुद्राय शेषाय च नमो नमः ॥ १०॥
ग्रहनक्षत्ररूपाय सिद्धसाध्यमयाय च ।
पशवे नररूपाय वृक्षाकाराय ते नमः ॥ ११॥
पर्वताय समुद्राय नदीनदसुरूपिणे ।
दैत्याय दैत्यनाथाय राक्षसाय नमो नमः ॥ १२॥
अन्नाय फलरूपाय रसरूपाय ते नमः ।
पञ्चभूतमयायैव सर्वाकाराय ते नमः ॥ १३॥
चिद्रूपाय च बोधाय विदेहाय नमो नमः ।
असत्याय च सत्याय समरूपाय साधये ॥ १४॥
स्वानन्दाय ह्ययोगाय योगाय गणधारिणे ।
गणेशाय नमस्तुभ्यं सर्वशान्तिप्रदाय च ॥ १५॥
चिन्तामणिं त्वां कः स्तोतुं समर्थः स्यात्प्रकाशकम् ।
चित्तस्य चित्तवृत्तीनामतस्त्वां प्रणमामहे ॥ १६॥
मुद्गल उवाच ।
एवं स्तुत्वा गणेशं तं प्रणतास्ते प्रजापते ।
तानुवाच गणाधीशो वृणुध्वं विविधान् वरान् ॥ १७॥
भवद्भिर्यत् कृतं स्तोत्रं मम मान्यं भविष्यति ।
यः पठिष्यति भावेन श्रोष्यते सर्वसिद्धिदम् ॥ १८॥
पुत्रपौत्रकलत्रादिप्रदं तेभ्यो भविष्यति ।
वन्ध्यदोषहरं धान्यधनदं पशुदं परम् ॥ १९॥
भुक्तिमुक्तिप्रदं स्तोत्रं ब्रह्मभूयकरम्भवेत् ।
(Page खं. २ अ. ५ पान १२)
मनईप्सितदं पुण्यं नराणां नात्र संशयः ॥ २०॥
गणेशवचनं श्रुत्वा त एवं हर्षसंयुताः ।
तं प्रणम्य महाभक्त्या ऊचुः प्राञ्जलयोऽभवन् ॥ २१॥
त ऊचुः ।
यदि प्रसन्नतां यातस्तदा देहि गजानन ।
त्वदीयामचलां भक्तिं यया मोहो विनश्यति ॥ २२॥
सामर्थ्यमतुलं सृष्टेर्देहि नो विघ्ननायक ।
यद्यदिच्छामहे ढुण्ढे तत्तत् सिध्यतु सर्वदा ॥ २३॥
ओमित्युक्त्वा गणाधीशोन्तर्धानं प्रचकार वै ।
तेऽपि तं मनसा ध्यात्वा ययुः स्वस्वपदं ततः ॥ २४॥
ततो ब्रह्मा पुनर्दक्षमगादीत् पुत्रमुत्तमम् ।
शक्तेस्तपस्त्वया कार्यं सा ते पुत्री भविष्यति ॥ २५॥
ततो दक्षेण तपसाराधिता शक्तिरादरात् ।
शतवर्षे प्रसन्ना सा ययौ तस्यान्तिकं स्वयम् ॥ २६॥
ततस्तां प्रणनामाथ तुष्टाव प्रकृताञ्जलिः ।
दक्ष उवाच ।
नमस्ते शक्तिरूपायै मायामोहस्वरूपिणि ॥ २७॥
जगद्धात्र्यै नमस्तुभ्यं जगन्मातर्नमो नमः ।
सर्वेषां प्राणदात्र्यै ते सर्वरूपिणि ते नमः ॥ २८॥
अनाद्यै चादिभूतायै पार्वत्यै ते नमो नमः ।
गायत्रिका श्रीसावित्रीरूपायै ते नमो नमः ॥ २९॥
प्रकृत्यै पुरुषाख्यायै नामरूपप्रकाशिनि ।
निर्गुणायै गुणानां वै धारिकायै नमो नमः ॥ ३०॥
प्रसीद भव मे पुत्री दाक्षायणि नमो नमः ।
ततस्तं पार्वती प्राह भक्तं दक्षप्रजापतिम् ॥ ३१॥
शक्तिरुवाच ।
भविष्यामि सुता तेऽहं नानारूपधरा सुत ।
जगच्च पूरयिष्यामि जनयित्वा सुताः सुतान् ॥ ३२॥
त्वया कृतं मदीयं यत्स्तोत्रं ख्यातिं गमिष्यति ।
सर्वकामप्रदं पूर्णं पठते शृण्वते भवेत् ॥ ३३॥
अन्तर्धानं ययौ देवी पश्यतस्ते प्रजापते ।
त्वया गणेशनाम्नश्च स्मरणं त्यक्तमद्य वै ॥ ३४॥
मन्त्रस्तस्य परित्यक्तः स्वेन दुर्बुद्धिधारिणा ।
त्वया तिरस्कृता पुत्री सती भस्मत्वमागता ॥ ३५॥
त्वमपि शोकसंयुक्तः कृतो विघ्नेश्वरेण वै ।
पूर्वसंस्कारयोगेन स्मृतिस्तव समागता ॥ ३६॥
अधुना भावयुक्तस्तं शृणु मे तत्कथामृतम् ।
राज्यलक्ष्मीश्च सम्प्राप्ता यं च तस्य प्रमाददा ॥ ३७॥
तया युक्तः पुमान् सद्यो मदान्धो जायते किल ।
अतः सन्तश्च नेच्छन्ति लक्ष्मीं ज्ञानविनाशिनीम् ॥ ३८॥
मनुः स्वायम्भुवः ख्यातः सपत्नीको ययौ वनम् ।
अष्टाक्षरविधानेन तोषयामास विघ्नपम् ॥ ३९॥
तताप स तपो घोरं दिव्यवर्षसहस्रकम् ।
प्रसन्नोऽभूत्तदा तस्मै वरं दातुं समाययौ ॥ ४०॥
तं दृष्ट्वा प्रणनामादौ मनुः स्वायम्भुवः प्रभो ।
पूजयन् परया भक्या ततस्तुष्टाव विघ्नपम् ॥ ४१॥
स्वायम्भुव उवाच ।
नमस्ते गजवक्त्राय हेरम्बाय नमो नमः ।
ओङ्काराकृतिरूपाय सगुणाय नमो नमः ॥ ४२॥
नैर्गुण्ये गजरूपाय सदा ब्रह्मसुखात्मने ।
गणेशाय सदा भक्तपोषकाय नमो नमः ॥ ४३॥
नरकुञ्जररूपाय योगाभेदाय ते नमः ।
चतुर्बाहुधरायैव पुरुषार्थप्रसिद्धये ॥ ४४॥
(Page खं. २ अ. ५ पान १३)
नानाभोगधरायैवानन्तलीलास्वरूपिणे ।
विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ ४५॥
सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः ।
स्वानन्दपतये तुभ्यं सदा स्वानन्ददायिने ॥ ४६॥
नमस्ते मूषकारूढसर्वान्तरसुभोगिने ।
नानामृतसमुद्रे च क्रीडाकर नमोऽस्तु ते ॥ ४७॥
सिद्धिबुद्धिपते तुभ्यं द्वेधामायाप्रसारिणे ।
भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः ॥ ४८॥
वेदोपनिषदां लभ्यमहावाक्यमयाय ते ।
ब्रह्मभूताय वै तुभ्यं नमस्ते ब्रह्मराशये ॥ ४९॥
किं स्तौमि त्वां गणाधीश यत्र वेदाश्च विस्मिताः ।
योगिनः शेषमुख्या वै शङ्कराद्या महेश्वराः ॥ ५०॥
तथापि तव जातेन दर्शनेन गजानन ।
स्फूर्तिः प्राप्ता तया नाथ संस्तुतोऽसि मया प्रभो ॥ ५१॥
अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः ।
वेदान्तागोचरो गम्यो धन्योऽहं जगतीतले ॥ ५२॥
धन्यो मे जनको देव तपो ज्ञानं कुलं प्रभो ।
विद्या व्रतादिकं सर्वं धन्यं ते पाददर्शनात् ॥ ५३॥
इति स्तुत्वा गणाधीशं भक्त्या परमया युतः ।
सरोमाञ्चोऽभवत्तत्र प्रणनाम पुनः पुनः ॥ ५४॥
तमुत्थाप्य गणाधीशोऽगादीत्तं भक्तमुत्तमम् ।
वरं वृणु महाभाग यस्ते मनसि वर्तते ॥ ५५॥
कृतं त्वया मदीयं यत् स्तवनं तोषकारकम् ।
पठते शृण्वते चापि सर्वदं प्रभविष्यति ॥ ५६॥
पुत्रपौत्रादिविभवप्रदं शोकविनाशनम् ।
धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ ५७॥
धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।
दृढभक्तिकरं मे च भविष्यति न संशयः ॥ ५८॥
इति ब्रुवन्तं विघ्नेशमुवाच मनुसत्तमः ।
स्वायम्भुवः प्रसन्नात्मा कृताञ्जलिरुदारधीः ॥ ५९॥
मनुरुवाच ।
यदि प्रसन्नतां यातस्तदा देहि गजानन ।
भक्ति दृढां त्वदीयां मे यया मोहो न विद्यते ॥ ६०॥
सृष्टेः करणसामर्थ्यं धर्मपालनमुत्तमम् ।
प्रजारक्षकतां देहि देव देवेश मे चिरम् ॥ ६१॥
यद्यदिच्छामि विघ्नेश तत्तत् सिध्यतु सर्वदा ।
तव भक्तेषु वासो मे सदा भवतु मानद ॥ ६२॥
तथेति तमुवाचादावन्तर्धानं चकार ह ।
गणेशानो निजे लोकेऽगमद्वै भक्तवत्सलः ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते स्वायम्भुववरप्रदानं नाम पञ्चमोऽध्यायः ॥ २.५
२.६ दक्षकन्यावंशवर्णनं नाम षष्ठोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततः स्वायम्भुवो यातो ब्रह्माणं प्रणनाम सः ।
शतरूपा तथा तं वै जग्मतुस्तौ तदाज्ञया ॥ १॥
(Page खं. २ अ. ७ पान १४)
राज्यं चकार धर्मेण मनुः शस्त्रधरः प्रभुः ।
धर्मयुक्तो महातेजा गाणपत्यप्रियोऽभवत् ॥ २॥
द्वौ पुत्रौ शतरूपायाः कन्यास्तिस्रः प्रजापते ।
मैथुनेनैव मार्गेण समुत्पाद्य बभौ मनुः ॥ ३॥
प्रियव्रतोत्तानपादौ पुत्रौ तस्य च धीमतः ।
आकूतिर्देवहूतिश्च प्रसूतिश्च सुलोचनाः ॥ ४॥
कन्यास्तिस्रः समाख्याता मनोस्तस्य महात्मनः ।
प्रसूतिं स ददौ तुभ्यमाकूतिं रुचये तथा ॥ ५॥
देवहूतिं मनुस्तत्र कर्दमाय ददौ स्वयम् ।
एवमादि महाराजश्चकार विधिनोदितः ॥ ६॥
कर्दमस्तपसा विष्णुं तोषयामास यत्नतः ।
शतवर्षैः प्रसन्नोऽभूद्ययौ दातुं वरं द्विजम् ॥ ७॥
तं ययाचे स पुत्रस्त्वं भव मे जगदीश्वर ।
वरं दत्त्वा स्वयं विष्णुर्ययौ वैकुण्ठमञ्जसा ॥ ८॥
ततः स देवहूत्यां वै विष्णुः कपिलरूपधृक् ।
तस्य पुत्रत्वमापन्नो वरदानप्रभावतः ॥ ९॥
आकूत्यां मिथुनं जज्ञे रुचेर्वै मानसं परम् ।
यज्ञश्च दक्षिणा देवी याभ्यां संवर्धितं जगत् ॥ १०॥
यज्ञो विष्णुर्महाभागो दक्षिणायां सुतान् शुभान् ।
द्वादशाजनयच्चैव यामा देवाश्च ते स्मृताः ॥ ११॥
ततो यज्ञस्तपोयुक्तः सस्त्रीकश्चाभवत् प्रभुः ।
गणपं योगमार्गेण तोषयामास सर्वदा ॥ १२॥
कृत्वा मणिमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ।
नित्यं मुनिगणैर्युक्तोऽपूजयत् भक्तिभावितः ॥ १३॥
ततो गणपतिः प्रीतो ददौ योगं महाद्भुतम् ।
तेन योगीन्द्रमुख्योऽसौ गाणपत्यो बभूव ह ॥ १४॥
हेरम्बेति सदा मन्त्रं यज्ञो हर्षाज्जजाप ह ।
शिष्येभ्यः प्रददौ योगं गाणपत्यं मुदान्वितः ॥ १५॥
प्रसूत्यां जनयामास कन्या दक्षः प्रजापतिः ।
चतुर्विंशति सङ्ख्याता शक्त्यंशाः सर्वमातरः ॥ १६॥
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥ १७॥
ददौ धर्माय पत्न्यर्थं दक्षो हृष्टमना मुने ।
ब्रह्मणा नोदितश्चैव तासां सूतिं वदामि ते ॥ १८॥
श्रद्धापुत्रः स्मृतः कामोऽर्थश्च लक्ष्मीसुतोऽभवत् ।
धृत्यास्तु नियमः पुत्रस्तुष्ट्याः सन्तोषसंज्ञितः ॥ १९॥
पुष्ट्यां लाभः सुतो जज्ञे मेधापुत्रः शमः स्मृतः ।
क्रियायाश्च स्मृतौ पुत्रौ दण्डः समय एव च ॥ २०॥
बुद्धया बोधोऽभवत्पुत्रश्चाप्रमादः प्रकीर्तितः ।
लज्जाया विनयश्चैव वपुषो व्यवसायकः ॥ २१॥
शान्तिपुत्रस्तथा क्षेमः सिद्धेः सिद्धः सुतोऽभवत् ।
यशःकीर्तिसुतः प्रोक्त इत्येते धर्मसूनवः ॥ २२॥
कामस्याऽभूत् सुतो हर्ष आनन्दश्चापरः स्मृतः ।
इत्येष सुखरूपस्तु सर्गो धर्मस्य कीर्तितः ॥ २३॥
प्रसङ्गात्तं वदिष्यामि सर्गोऽधर्मस्य दुःखदः ।
ब्रह्मणः पृष्ठतस्तद्वन्मिथुनं सम्बभूव ह ॥ २४॥
अधर्मश्च तथा हिंसा तयोः पुत्रोऽनृतः स्मृतः ।
निकृतिश्च सुता प्रोक्ता तयोर्जज्ञे भयं तथा ॥ २५॥
नरकश्च तथा माया वेदना च सुते स्मृते ।
(Page खं. २ अ. ६ पान १५)
भयाज्जज्ञे च मायायां मृत्युः सर्वापहारकः ॥ २६॥
नरकाद्वेनायां च दुःखं संसारकारकम् ।
मृत्योर्व्याधिर्जरा शोकस्तृष्णा क्रोधश्च जज्ञिरे ॥ २७॥
दुःखोदर्काः स्मृताः सर्वे ह्यधर्मप्रभवा मुने ।
नैतेषां प्रसवश्चास्ति सर्वे ते तूर्ध्वरतेसः ॥ २८॥
एकादश सुताः शिष्टास्तासां वंशं निबोधय ।
सतीं ददौ स रुद्राय ख्यातिं च भृगवे तथा ॥ २९॥
मरीचये च सम्भूतिं स्मृतिमङ्गिरसे ददौ ।
पुलस्त्याय तथा प्रीतिं क्षमां च पुलहाय वै ॥ ३०॥
सन्ततिं क्रतवे चासावनसूयां तथाऽत्रये ।
ददावूर्जां वसिष्ठाय मुने स्वाहां च वह्नये ॥ ३१॥
पितृभ्यश्च स्वधां देवीं ददौ दक्षः प्रहर्षितः ।
नियोगाद्ब्रह्मणः साक्षात्तासां वंशं वदामि ते ॥ ३२॥
सत्यां च शङ्कराज्जज्ञे कार्तिकेयो महाबलः ।
देवसेनापतित्वेऽसावभिषिक्तश्च वेधसा ॥ ३३॥
ख्यात्यां भृगोः समुत्पन्ना लक्ष्मीनारायणप्रिया ।
देवौ धातृविधातारौ मेरोर्जामातरौ स्मृतौ ॥ ३४॥
अयतिर्नियतिश्चैव कन्ये मेरोश्च ते मुने ।
तयोर्धातृविधातृभ्यां जातौ श्रेष्ठौ सुताबुभौ ॥ ३५॥
मृकण्डोऽन्यस्तथा प्राणो मार्कण्डेयो मृकण्डजः ।
तथा वेदशिराः प्रोक्तः प्राणस्य द्युतिमान् सुतः ॥ ३६॥
मरीचिरपि सम्भूत्यां पूर्णमासमसूयत ।
कन्याचतुष्टयं चैव सर्वलक्षणमण्डितम् ॥ ३७॥
कृषिर्वृष्टिस्तथा कृष्टिश्चतुर्थ्यपचितिर्मुने ।
विरजाः पर्वतश्चैव पूर्णमासस्य तौ सुतौ ॥ ३८॥
क्षमा च सुषुवे पुत्रान् पुलहाच्च प्रजापतेः ।
कर्मश्रेष्ठं वरीयांसं सहिष्णुं मुनिपुङ्गवम् ॥ ३९॥
तथा वनकवीनासं तपस्तेजस्विनं सुतम् ।
अत्रेर्वंशं प्रवक्ष्यामि शृणु शौनक चादरात् ॥ ४०॥
अत्रिः सञ्जनयामासानसूयायां सुताञ्छुभान् ।
सोमं दुर्वाससं चैव दत्तं योगधरं तथा ॥ ४१॥
त्रयो देवा इमे प्रोक्ता अत्रेः पुत्रा महात्मनः ।
ब्रह्मा भवश्च विष्णुश्च कलांशेन प्रजाधराः ॥ ४२॥
स्मृत्यामङ्गिरसो जज्ञे सिनीवाली सुलोचना ।
कुहूराका तथा पुत्र्यनुमतिश्च पतिव्रता ॥ ४३॥
प्रीत्यां पुलस्त्ययोगीशादयोनिरभवत्सुतः ।
पूर्वजन्मनि विप्रेशोऽगस्त्योऽयं परिकीर्तितः ॥ ४४॥
देवबाहुस्तथा कन्या सर्वाङ्गैः शोभिनी स्मृता ।
सन्तत्यां षष्टिसाहस्रीं पुत्राणामसृजत् क्रतुः ॥ ४५॥
त ऊर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः ।
सप्त पुत्रान् स ऊर्जायां वसिष्ठोऽजनयत्प्रभुः ॥ ४६॥
कन्यां कमलपत्राक्षीं चित्रकेतुः सुरोचकः ।
विरजा मित्रसंज्ञश्च उल्बणो वसुभृत्परः ॥ ४७॥
घुमान् शक्त्यादयश्चान्ये सप्तपुत्रा महौजसः ।
योऽसौ रुद्रात्मको वह्निः स्वाहायां त्रीन् सुतांस्तथा ॥ ४८॥
जनयामास तेजस्वी तेऽग्नयः परिकीर्तिताः ।
पावकः पवमानश्च शुचिस्तेऽजनयन् सुतान् ॥ ४९॥
प्रत्येकं वै पञ्चदशैकोनपञ्चाशदग्नयः ।
सर्वे तेजस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः ॥ ५०॥
निर्मथ्यः पवमानस्तु ससुतः परिकीर्तितः ।
वैद्युतः पावकः प्रोक्तः ससुतः शास्त्रसम्मतः ॥ ५१॥
सूर्ये तपति योऽग्निश्च स पुत्रस्तु शुचिः स्मृतः ।
(Page खं. २ अ. ७ पान १६)
सर्वत्रगः स रुद्रात्मा ब्रह्मपुत्रोऽग्निरुच्यते ॥ ५२॥
अमूर्तयोऽग्निष्वात्ता हि साङ्गा बर्हिषदः स्मृताः ।
पितरश्च स्वधा तेभ्योऽसूत द्वे तनये तथा ॥ ५३॥
मेना च धरणी नाम्नी ते उभे ब्रह्मवित्तमे ।
असूत मेना मैनाकं क्रौञ्चं हिमवतो मुने ॥ ५४॥
गङ्गां लोकपवित्रां च पार्वतीं परमेश्वरीम् ।
ते उभे शङ्करं देवं लेभाते पतिमुत्तमम् ॥ ५५॥
तपसा गिरिराजेन मेनयाराधिता सती ।
वरदानप्रभावेण पार्वती तनयाऽभवत् ॥ ५६॥
धरणी मेरुशैलस्य पत्नी कन्ये प्रजापते ।
सुषुवे चायतिं चैव नियतिं कथिते पुरा ॥ ५७॥
एषा दक्षस्य कन्यासु सन्ततिः कथिता मया ।
पठते शृण्वत चैव सर्वकामफलप्रदा ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते दक्षकन्यावंशवर्णनं नाम षष्ठोऽध्यायः ॥ २.६
२.७ भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
दक्षकन्याप्रसूतेभ्यः पितरः परमादृताः ।
गणेशाराधनं तेभ्यो ददुः प्रत्येकमादरात् ॥ १॥
नानामन्त्रान्यथान्यायं साधयित्वा च ते वने ।
गत्वाऽजपंश्च हेरम्बं ध्यात्वा तपसि संस्थितः ॥ २॥
ततो वर्षसहस्रेण परितुष्टा गजाननः ।
वरं दातुं ययौ तत्र भक्तिभावेन तोषितः ॥ ३॥
तं दृष्ट्वा तुष्टुवुः सर्वे बद्धाञ्जलिपुटाः प्रभुम् ।
भक्तिभावसमायुक्ता गणेशं सर्वसिद्धिदम् ॥ ४॥
ऋषिपुत्रा ऊचुः ।
नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे ।
ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ ५॥
मनोवागतिरूपाय मनोवारगम्यमूर्तये ।
योगाकाराय योगाय योगिने ते नमो नमः ॥ ६॥
निराकाराय विघ्नेश भक्तविघ्ननिवारक ।
शान्तिरूपाय सर्वत्र शान्तिदाय नमो नमः ॥ ७॥
सृष्टिरक्षणसंहारकारिणे ते नमो नमः ।
सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ ८॥
मायाविकारहीनाय मायिने मोहदायिने ।
मायाधाराय मायायाश्चालकाय नमो नमः ॥ ९॥
अनन्तविभयायैवानन्तोदारपराक्रम ।
अनन्ताननहस्ताय सर्वसाक्षिन्नमोऽस्तु ते ॥ १०॥
वेदान्तागम्यरूपस्त्वं दृष्टो वै भाग्यगौरवात् ।
स्तुतिं कर्तुं समर्था न वयं तव गजानन ॥ ११॥
धन्यो नो जनको देव वयं धन्यतमा विभो ।
विद्या व्रतं तपो मन्त्रोऽस्माकं गणपदर्शनात् ॥ १२॥
वरदश्चेदेकदन्त भक्तिं देहि दृढां त्वयि ।
यया मायामयो मोहो नश्येद्वै वरद प्रभो ॥ १३॥
स्वस्वकार्येषु सामर्थ्यं देहि देव गजानन ।
यद्यदिच्छामहे तत्तत् सफलं भवतु प्रभो ॥ १४॥
एवमुक्त्वा पूजयन्त उपचारैरनेकशः ।
(Page खं. २ अ. ७ पान १७)
प्रणेमुर्भक्तियुक्तास्तं सरोमाञ्चा बभूविरे ॥ १५॥
ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् ।
तदेव सफलं सर्वं भविष्यति न संशयः ॥ १६॥
भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा ।
सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति ॥ १७॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
यः शृणोति नरो भक्त्या पठेद्वै तस्य सिद्धिदम् ॥ १८॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
स सद्यः फलमाप्नोति चित्तेप्सितमसंशयम् ॥ १९॥
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ।
ते च स्वस्वगृहे सर्वे ययुर्हर्षसमन्विताः ॥ २०॥
स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः ।
सुखिनः स्वस्वकार्येषु बभूवुर्ज्ञानसंयुताः ॥ २१॥
शौनक उवाच ।
अत्रिपुत्रा महाभागा ब्रह्मविष्णुशिवात्मकाः ।
तच्चरित्रं विस्तरतः श्रोतुमिच्छामि तद्वद ॥ २२॥
सूत उवाच ।
ब्रह्मणोंऽशसमुद्भूतश्चन्द्रस्तपसि संस्थितः ।
गणेशात्स वरं लब्ध्वाऽमृतरूपो बभूव ह ॥ २३॥
कलाभिः सर्वदेवानां पोषकः स तथा नृणाम् ।
किरणैरन्नभावस्य वृद्धिकृत् सर्वदाऽभवत् ॥ २४॥
दत्तो विष्णुकलांशेन सम्भूतो योगधारकः ।
क्रमेण योगमार्गेण नानाब्रह्मसु संस्थितः ॥ २५॥
जडोन्मत्तपिशाचादिबालानन्दादिका मुने ।
अवस्थाः साधयामास नानाभूमिप्रकाशिकाः ॥ २६॥
तं दृष्ट्वा योगिनं सर्वे सेवायामभवन् पराः ।
द्विजाद्याः सर्ववर्णाश्चाश्रमस्था भक्तिभावतः ॥ २७॥
क्षणं विश्राममत्यन्तं न लेभे मुनिसत्तमः ।
दत्तो विह्वलतां यातः किङ्करोमीत्यचिन्तयत् ॥ २८॥
ततस्तेन जले विप्र ममज्जे योगधारणात् ।
प्रतीक्षयन्तस्तत्तीरे स्थिताः सर्वेऽभवन् जनाः ॥ २९॥
ततो दत्तेन सिध्या च मोक्षलक्ष्मीः प्रकाशिता ।
गृहीत्वा वामभागे तां निःसृतो जलामध्यतः ॥ ३०॥
दक्षिणे मद्यकुम्भं स हस्ते धृत्वा पपौ स्वयम् ।
स्त्रिया सह विलासेन भोगयुक्तो बभूव ह ॥ ३१॥
त्यक्तस्तैरत्रिजो योगी भ्रष्टोऽयमिति भावतः ।
सुखेन योगमास्थाय संस्थितोऽत्रिसमुद्भवः ॥ ३२॥
गते कियति काले च देवासुरसमुद्भवम् ।
युद्धं दारुणरूपं वै जातं तत्र समीपतः ॥ ३३॥
दैत्यैर्देवास्ततो भग्नाः पलायन्त दिशो दश ।
तत्राऽऽययुः सुसम्भीता रक्ष रक्षेति चाब्रुवन् ॥ ३४॥
ततो सुरा ययुः सर्वे नग्नशस्त्रधरा बलात् ।
तान् दृष्ट्वाऽमरसङ्घास्ते पलायनपरा बत ॥ ३५॥
दैत्या दृष्ट्वा महालक्ष्मीं मोक्षरूपां सुरूपिणीम् ।
तां गृहीत्वा ययुः सर्वे धृत्वा मोहेन मस्तके ॥ ३६॥
मोक्षलक्ष्मीश्च तैस्तत्र यदि पादेषु सन्धृता ।
तदा तेषां जयप्राप्तिर्जातासीन्नात्र संशयः ॥ ३७॥
अतो निस्तेजसा स्पृष्टा दैत्या देवैः प्रपीडिताः ।
पलायन्त भयात् सर्वे पातालं विविशुः पुनः ॥ ३८॥
मोक्षलक्ष्मीस्ततस्तेषां पश्यतां मुनिसत्तम ।
अन्तर्धानं ययौ देवी ब्रह्मणि ब्रह्मभाविता ॥ ३९॥
शौनक उवाच ।
सूत कूटं त्वया प्रोक्तं न बुद्धं तन्मयाधुना ।
(Page खं. २ अ. ७ पान १८)
मोक्षलक्ष्मीः शिरः स्पृष्टा दैत्यानां दुःखदा कथम् ॥ ४०॥
सूत उवाच ।
सम्यक्पृष्टं त्वया ब्रह्मन् कथयामि यथा श्रुतम् ।
व्यासात् सर्वज्ञमुख्याच्च शृणु शौनक यत्नतः ॥ ४१॥
रजस्तमोयुता दैत्या भोगलक्ष्मीपरायणाः ।
परद्रव्यहराः सर्वे परस्त्रीगामिनस्तथा ॥ ४२॥
परापकारकर्तारो जन्तुभ्यो दुःखदाः स्मृताः ।
सदा मद्यादिभिर्युक्ताः पापाचारा विशेषतः ॥ ४३॥
साधूनां मुनिमुख्यानां देवानां योगिनां तथा ।
वेदशास्त्रपुराणानां निन्दका भयदायकाः ॥ ४४॥
इत्यादिबहुभिर्दोषैः संयुक्तास्ते महासुराः ।
सदा भोगप्रिया ज्ञेया मुक्तौ नार्हा अतः कदा ॥ ४५॥
देहं सर्वक्रियाणां ते कर्तारं प्राप्य दैत्यपाः ।
सर्वथा मुक्तिमुत्सृज्य भोगेच्छायां मनो दधुः ॥ ४६॥
अतस्तैश्चरणाघातैर्हता मुक्तिर्विशेषतः ।
भोगलक्ष्मीः शिरोभिस्तैर्वन्दिता तत्र यत्नतः ॥ ४७॥
देवर्षयः सदा यत्नैर्मुक्तिमिच्छन्ति सर्वदा ।
अतस्ते मस्तके देवीं धारयामासुरञ्जसा ॥ ४८॥
असुरैर्योगिसङ्गेन धृता मुक्तिर्यदा मुने ।
शिरस्यपि शुभा सा न कारणं कथयामि ते ॥ ४९॥
दुराचारादिसंयुक्ता भोगबुद्धिपरायणाः ।
तेभ्यः कुतः सा शुभदा कुपिता तान्निहन्ति वै ॥ ५०॥
गृहीता विषयासक्तैर्नेच्छिता पश्य शौनक ।
चरणाघातकैर्देवी ताडिता च तदा भवेत् ॥ ५१॥
अतो भोगेप्सुभिर्विप्र वन्द्या भोगप्रदायिनी ।
यदि मुक्तिर्दुराचारैर्धृता तान्नाशयिष्यति ॥ ५२॥
इति ते कथितं सर्वं कारणं मुनिसत्तम ।
तथा मोक्षेप्सुभिर्भोगलक्ष्मीश्चरणताडिता ॥ ५३॥
यत्र भोगः प्रियो नित्यं तत्र मुक्तिर्न विद्यते ।
यत्र मुक्तिः प्रिया नित्यं तत्र भोगः कुतो भवेत् ॥ ५४॥
वासानायुक्तरूपा च भोगलक्ष्मीर्न संशयः ।
निर्वासनमयी मोक्षलक्ष्मीर्जानीहि शौनक ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः ॥ २.७
२.८ दत्तचरितं नामाऽष्टमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एवं दत्तसयोगेन योगभूमिं समाचरन् ।
नानाचेष्टायुतो दक्ष अवधूतः प्रकाशते ॥ १॥
गोवद्भक्षणसंयुक्तः पशुवत्पक्षिवत्कदा ।
मूत्रादिदेहचेष्टां स चकार मुनिसत्तमः ॥ २॥
सहजावस्थया युक्तो बभूवान्तेऽत्रिसम्भवः ।
तत्रान्तर्यामितां ज्ञात्वा खेदयुक्तो बभूव ह ॥ ३॥
व्यक्ताव्यक्तसमेत्यादिनानाब्रह्मसुसंस्थितः ।
योगेन न स शान्तोऽभूद्ययौ स्वपितरं ततः ॥ ४॥
प्रणम्य भगवानत्रिं दत्तो योगिसमावृतम् ।
साक्षाद्ब्रह्ममयं पूर्णं प्राञ्जलिः पुरतोऽभवत् ॥ ५॥
(Page खं. २ अ. ८ पान १९)
अत्रिणा मानितः सोऽपि निषसादासने स्वयम् ।
उवाच ब्रह्मपुत्रं तमत्रिं विनयसंयुतः ॥ ६॥
दत्त उवाच ।
स्वामिन्नानाविधं ब्रह्म मया योगेन साधितम् ।
तत्रोपाधिः समादृष्ट उपाधिरहितोऽभवम् ॥ ७॥
उपाधिं निरुपाधिं च त्यक्त्वा साम्येऽहमास्थितः ।
तत्त्यक्त्वा तूर्यभूतोऽहं सहजे संस्थितोऽभवम् ॥ ८॥
तत्र दृष्ट्वा महायोगिन् स्वाधीनत्वं सदा प्रभो ।
तेन शान्तिविहीनोऽहं किं करोमि वदस्व भोः ॥ ९॥
सहजान्न परं ब्रह्म लभ्यते योगसेवया ।
अतो मां शान्तियोगं त्वं कथयस्व महामुने ॥ १०॥
दत्तस्य वचनं श्रुत्वा ब्रह्मपुत्रो महातपाः ।
अत्रिस्तूवाच तं पुत्रं शान्तिमिच्छन्तमादरात् ॥ ११॥
शृणु पुत्र प्रवक्ष्यामि शान्तियोगं सनातनम् ।
ब्रह्मणा कथितं मे तं येन शान्तोऽहमञ्जसा ॥ १२॥
अस्माकं कुलदेव त्वं प्राप्तो गणपतिः प्रभुः ।
स वै शिवादिदेवानां कुलदेवः प्रकीर्तितः ॥ १३॥
शान्तियोगस्वरूपं त्वं तं जानीहि महामते ।
भजस्व सुप्रयत्नेन तदा शान्तिमवाप्स्यसि ॥ १४॥
गणेशात्सर्वमुत्पन्नं तेन संस्थापितं सुत ।
तस्याराधनमात्रेण कृतकृत्याः शिवादयः ॥ १५॥
नामरूपात्मकं सर्वं जगद्ब्रह्म प्रकथ्यते ।
तदेव शक्तिरूपाख्यं ब्रह्मासद्रूपकं परम् ॥ १६॥
तत्रामृतमयं सौरमात्माकारेण संस्थितम् ।
सद्रूपं तद्विजानीहि ब्रह्म वेदे प्रकीर्तितम् ॥ १७॥
तयोरभेदतो ब्रह्म समं सर्वत्र संस्थितम् ।
सदसन्मयमेवं च विष्णुं जानीहि वेदतः ॥ १८॥
तेभ्यो विलक्षणं तुर्यं नेति रूपं प्रकीर्तितम् ।
निर्मोहशिवसंज्ञं च स्वाधीनं ब्रह्म तद् बुधैः ॥ १९॥
चतुर्णां ब्रह्मणां योगे स्वानन्दः कथ्यते बुधैः ।
स तु मायामयः साक्षाद्गणेशो वेदवादिभिः ॥ २०॥
अन्तर्बाह्या क्रिया सर्वा ब्रह्माकारा प्रदृश्यते ।
कर्मयोगः स विज्ञेयः संयोगः कर्मणां सुत ॥ २१॥
ज्ञानात्मचक्षुषा ज्ञानं यद्यद्भवति योगिनाम् ।
तेषामभेदको योगो ज्ञानयोगः प्रकीर्तितः ॥ २२॥
ज्ञानानां कर्मणां चैवाभेदयोगः समात्मकः ।
आनन्दात्मकरूपो यं द्वैधनाशे स आप्यते ॥ २३॥
स्वेच्छया कर्मयोगश्च धृतो येन महात्मना ।
स्वेच्छया ज्ञानयोगश्च स्वेच्छयानन्दयोगकः ॥ २४॥
स्वेच्छया स त्रिभिर्हीनः सहजाख्यः प्रकथ्यते ।
सदा स्वाधीनरूपश्च स्वेच्छया क्रीडति स्वयम् ॥ २५॥
ब्रह्मभूतात्मको योगः स्वानन्दाख्यः प्रकीर्तितः ।
तत्र स्वाधीनता त्रेधा पराधीनकता कुतः ॥ २६॥
ब्रह्मणि ब्रह्मभूतस्य स्वतः परत एव च ।
उत्थानं नास्ति संयोगात् स्वस्वरूपिणि योगतः ॥ २७॥
स्वानन्दे सुतसंयोगो जगतां ब्रह्मणां भवेत् ।
सर्वाभेदेन योगोऽयं तस्मान्मायासमन्वितः ॥ २८॥
अयोगात्मकयोगश्च सदा संयोगवर्जितः ।
जगतां ब्रह्मणां तत्र प्रवेशोऽतो न विद्यते ॥ २९॥
सदा निर्मायिको योगः स्वसंवेद्यविवर्जितः ।
स्वकीया भेदहीनत्वान्निर्वृत्तिर्योगिभिर्धृता ॥ ३०॥
ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं पुनः ।
(Page खं. २ अ. ८ पान २०)
स्वानन्दनाशतो लभ्यं ब्रह्मभूयमयोगकम् ॥ ३१॥
ब्रह्मस्वानन्दवासी स गणेशः कथ्यते बुधैः ।
न स्वानन्दात्मकः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३२॥
क्रीडात्मकगणेशानः स्वानन्दः परिकीर्तितः ।
संयोगात्मकरूपेण स्वस्वरूपिणि तिष्ठति ॥ ३३॥
क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः ।
निरानन्दात्मकत्वेन सदा ब्रह्मणि संस्थितः ॥ ३४॥
संयोगायोगयोश्चैव तयोर्नाशे गणेश्वरः ।
शान्तियोगात्मकः प्रोक्तो योगिभिर्योगसेवया ॥ ३५॥
पूर्णयोगात्मकस्तत्र गणेशः परिकीर्तितः ।
मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् ॥ ३६॥
पञ्चचित्तस्वरूपां त्वं बुद्धिं जानीहि पुत्रक ।
तत्र मोहकरी सिद्धिर्भ्रान्तिदा मोहरूपिणी ॥ ३७॥
धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रदृश्यते ।
ब्रह्मभूतमयी सिद्धिः कथिता योगिभिस्तथा ॥ ३८॥
पञ्चधा चित्तवृत्तिर्या तत्र यद्बिम्बितं सुत ।
तदेव गणराजस्य रूपं बिम्बात्मकं परम् ॥ ३९॥
धर्मार्थकाममोक्षेषु ब्रह्मभूतेषु यत्स्मृतम् ।
ऐश्वर्यं मोहदं जन्तुर्यत्र भ्रमति लालसी ॥ ४०॥
पञ्चैश्वर्येषु यद्बिम्बं तदेव गणपस्य च ।
जीवं जानीहि पुत्र त्वं शान्तियोगस्य सेवया ॥ ४१॥
पञ्चचित्तप्रणाशे व पञ्चैश्वर्ये लयं गते ।
अधुना गणराजस्त्वं भविताऽसि न संशयः ॥ ४२॥
त्यजावधूतमार्गं त्वं भव मुख्योऽवधूतकः ।
अवधूय महच्चित्तं महदैश्वर्यमादरात् ॥ ४३॥
अतः शान्तिं भजस्व त्वं दत्तयोगेन सत्वरम् ।
ददामि ते महामन्त्रं गणेशस्य विधानतः ॥ ४४॥
तत एकाक्षरं मन्त्रं ददौ पुत्राय भावतः ।
अत्रिर्योगविदां श्रेष्ठस्तं प्रणम्य ययावजः ॥ ४५॥
साक्षाद्विष्णुस्वरूपश्च दत्तो योगविदां वरः ।
गङ्गाया दक्षिणे तीरे पूजयामास विघ्नपम् ॥ ४६॥
त्यक्त्वा भूमिस्वरूपं स शान्तिमास्थाय योगवित् ।
अभजत्तं सुभावेन गणपं हृदि चिन्तयन् ॥ ४७॥
महायोगी स्वयं दत्तो वर्षेणैकेन शौनक ।
शान्तिं प्राप्तो विशेषेण गाणपत्यो बभूव ह ॥ ४८॥
तं द्रष्टुं गणपस्तत्र ययौ भक्तं निजेच्छया ।
भक्तवात्सल्यतो देव आश्रमे सुखशान्तिदे ॥ ४९॥
तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः ।
तुष्टाव सुस्थिरो भूत्वा विघ्नेशं कुलदैवतम् ॥ ५०॥
श्रीदत्त उवाच ।
नमो गणपते तुभ्यं नमो योगस्वरूपिणे ।
योगिभ्यो योगदात्रे च शान्तियोगात्मने नमः ॥ ५१॥
सिद्धिबुद्धिपते तुभ्यं पञ्चचित्तप्रधारक ।
नानाविहारशीलाय गणेशाय नमो नमः ॥ ५२॥
सिद्धिदात्रे नमस्तुभ्यं नानैश्वर्यप्रदायिने ।
मोहहन्त्रे मोहकर्त्रे हेरम्बाय नमो नमः ॥ ५३॥
स्वानन्दवासिने तुभ्यं संयोगाभेदधारिणे ।
नानामायाविहाराय विघ्नेशाय नमो नमः ॥ ५४॥
साङ्ख्याय ब्रह्मनिष्ठाय बोधहीनाय धीमते ।
परादुत्थानरूपाय विदेहाय नमो नमः ॥ ५५॥
बोधाय सर्वरूपाय देहदेहिमयाय च ।
स्वत उत्थानरूपाय प्रकृतिप्रलयाय ते ॥ ५६॥
साहङ्काराय देवाय जगदीशाय ते नमः ।
(Page खं. २ अ. ८ पान २१)
महते बिन्दुरूपाय जगद्रूपाय ते नमः ॥ ५७॥
नादात्मकगुणेशाय नानावेषप्रधारिणे ।
ब्रह्मणे सृष्टिकर्त्रे ते पितामह नमोऽस्तु ते ॥ ५८॥
हरये पालकायैव नानादेहधराय ते ।
संहर्त्रे शङ्करायैव कर्माकाराय भानवे ॥ ५९॥
शक्तये च क्रियामूर्ते देवमानवरूपिणे ।
नागासुरमयायैव ढुण्ढिराजाय ते नमः ॥ ६०॥
स्थावराय नमस्तुभ्यं जङ्गमाय नमो नमः ।
जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः ॥ ६१॥
किं स्तौमि त्वां गणाधीश योगाकारेण संस्थितम् ।
वेदादयः समर्था न त्वामतः प्रणमाम्यहम् ॥ ६२॥
धन्यो देहो मदीयोद्य पितरौ कुलमेव च ।
विद्यायोगस्तपश्चैव त्वदङ्घ्रियुगदर्शनात् ॥ ६३॥
इत्युक्त्वा भक्तिभावेन सम्प्लुतोऽसौ महामुनिः ।
ननर्त हृष्टरोमासावानन्दाश्रु सृजन्मुहुः ॥ ६४॥
ततस्तं स्वकरे धृत्वा गणनाथः स सस्वजे ।
उवाच योगिनं पूर्णं वचनं परमाद्भुतम् ॥ ६५॥
श्रीगणेश उवाच ।
धन्योऽसि दत्त योगीन्द्रो जातोऽसि मदनुग्रहात् ।
त्वं पूर्णां लभसे शान्तिमचलां मयि सर्वदा ॥ ६६॥
न भेदस्ते कदाचित्ते भविष्यति महामुने ।
त्वत्प्रीतिसम्प्रवृद्ध्यर्थमत्र स्थास्यामि निश्चलः ॥ ६७॥
गाणेशज्ञानमाहात्म्यं त्वयात्रेश्च मुखाच्छ्रुतम् ।
साक्षात्कारकरं तस्माद् विज्ञानक्षेत्रकं त्विदम् ॥ ६८॥
विज्ञानगणपो दत्तनाम्नाख्यातो भवाम्यहम् ।
दर्शनाच्छान्तिसन्दाता भविष्याम्यत्र मानद ॥ ६९॥
अत्र वासं प्रकुर्वन्ति मदर्थं भक्तिसंयुताः ।
शान्तियोगं सदा तेभ्यो दास्यामि तव सन्निधौ ॥ ७०॥
पुराऽत्र तु शिवेनैव ज्ञानं साक्षात्कृतं परम् ।
विज्ञानेश्वरनामेति स मया शङ्करः कृतः ॥ ७१॥
तस्यात्र सन्निधौ स्थित्वा त्वया ज्ञानं प्रसाधितम् ।
अतः शङ्करमित्रत्वं प्राप्तोऽसि मदनुग्रहात् ॥ ७२॥
त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
पठतां शृण्वतां नॄणां ब्रह्मभूयकरं तथा ॥ ७३॥
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ।
सर्वसिद्धिप्रदं चैव सर्वेभ्यो ज्ञानदायकम् ॥ ७४॥
इत्युक्त्वान्तर्दधे तत्र गणेशो भक्तवत्सलः ।
दत्तः खिन्नश्च तं ध्यात्वा तस्थौ तत्र प्रजापते ॥ ७५॥
ततस्तत्कृपया तेन स्वात्मा तत्र समर्पितः ।
योगाभेदमयत्वेन जात आत्मनिवेदकः ॥ ७६॥
दत्तो भक्तो गणेशश्च स्वामी तस्येति नाशितम् ।
स्वामिन्यसौ सेवकोऽपि तदाकारेण संस्थितः ॥ ७७॥
इयं भक्तिर्गणेशस्यात्मनिवेदनरूपिणी ।
दत्तेन साधिता मुख्या शान्तियोगप्रयत्नतः ॥ ७८॥
एतस्मिन्नन्तरे तत्र प्रकटोऽभूत् स्वयं शिवः ।
विज्ञानेश्वरनामाऽसौ दत्तं तं परिषस्वजे ॥ ७९॥
अहो दत्त महाभाग मम मित्रत्वमागतः ।
अत्रैवैनं गणेशानमध्यायं योगसेवया ॥ ८०॥
ततो दत्तं पुरस्कृत्य शङ्करो ब्राह्मणैः सह ।
गणेशं स्थापयामास गङ्गाया दक्षिणे तटे ॥ ८१॥
विज्ञानगणराजेति नाम चक्रे महर्षिभिः ।
(Page खं. २ अ. ८ पान २२)
क्षेत्रं तदादेर्विख्यातं बभूव गणपस्य तत् ॥ ८२॥
विज्ञाननामकं पुण्यं शान्तियोगफलप्रदम् ।
सर्वसिद्धिकरं क्षेत्रं यात्राकारि जनस्य च ॥ ८३॥
ज्येष्ठशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः ।
अतस्तत्र महोत्साहस्तद्दिने कुर्वते नराः ॥ ८४॥
योगिभिर्देवगन्धर्वैः सिद्धैर्नागैश्च मानुषैः ।
नानाजनैस्तथा दक्षसेवितं क्षेत्रमुत्तमम् ॥ ८५॥
एतद्दत्तस्य माहात्म्यं यः शृणोति नरोत्तमः ।
पठेद्वा भविता तस्य सर्वसिद्धिर्न संशयः ॥ ८६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते दत्तचरितं नामाऽष्टमोऽध्यायः ॥ २.८
२.९ प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
दुर्वासाः शङ्करस्यांशस्तताप परमं तपः ।
नेति ब्रह्मणि सञ्जातो ब्रह्मभूतो महामुनिः ॥ १॥
तमतिक्रोधसंयुक्तमशान्तं शान्तिलालसम् ।
संवीक्ष्य दत्तवज्ज्ञानं ददावत्रिर्महामुनिः ॥ २॥
मयूरेशक्षेत्रके स गणेशध्यानमास्थितः ।
स्वभक्त्या गणराजेन शान्तियोगयुतः कृतः ॥ ३॥
तदारभ्य महायोगी दुर्वासाः शान्तिधारकः ।
क्रोधहीनस्वभावः स सञ्जातो ब्रह्मवित्तमः ॥ ४॥
एतदत्रिसुतानां ते चरितं कथितं मया ।
यथा दक्षाय भो विप्र मुद्गलेन प्रकाशितम् ॥ ५॥
अधुना कथयिष्यामि स्वायम्भुवजसन्ततेः ।
चरितं सर्वपापघ्नं कथितं मुद्गलेन यत् ॥ ६॥
शौनक उवाच ।
कथं मुद्गलविप्रेण कथितं तस्य धीमतः ।
चरित्रं वद सर्वं मे यथा दक्षेण संश्रुतम् ॥ ७॥
सूत उवाच ।
शापमोहितदक्षस्तु श्रुत्वात्रेयसमुद्भवम् ।
चरितं योगरूपं स मुद्गलं पुनरब्रवीत् ॥ ८॥
दक्ष उवाच ।
धन्योऽत्रिर्यस्य पुत्रा वै गाणपत्या महौजसः ।
योगिनो योगदातारः श्रुतं तेषां चरित्रकम् ॥ ९॥
अधुना वद मे ब्रह्मन् सृष्टिमार्गं पुरातनम् ।
स्वायम्भुवमनोः पुत्रौ चक्रतुः किं महौजसौ ॥ १०॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा हर्षयुक्तेन चेतसा ।
जगाद तं महायोगी मुद्गलः परमार्थवित् ॥ ११॥
मुद्गल उवाच ।
स्वायम्भुवमनोः पुत्रौ सञ्जातो पूर्णधार्मिको ।
प्रियव्रतोत्तानपादौ नाम्ना ख्यातौ प्रजापती ॥ १२॥
जगाम साधनरतो वनं ज्येष्ठः प्रियव्रतः ।
देहादि नश्वरं मत्वाऽभूत्स खिन्नो मनुस्ततः ॥ १३॥
जगाम नारदस्तत्र सहसा तं मनुर्जगौ ।
पुत्रं प्रियव्रतं विप्र बोधयस्व विधानतः ॥ १४॥
तथेति नारदस्तत्र ययौ तस्य महाश्रमम् ।
तं दृष्ट्वोत्थाय राजर्षिः प्रणनाम कृताञ्जलिः ॥ १५॥
स्वकीयाज्ञावशं पुत्रं मानसे वीक्ष्य संस्थितम् ।
तं जगाद महातेजा नारदो राजसत्तमम् ॥ १६॥
(Page खं. २ अ. ९ पान २३)
नारद उवाच ।
शृणु पुत्र महाभाग प्रियव्रत महामते ।
देहादि नश्वरं सर्वं त्वया ज्ञातं महाद्भुतम् ॥ १७॥
तथापि नरदेहोऽयमृणत्रयसमन्वितः ।
नरदेहकृतं कर्म तन्मूलं सकलं जगत् ॥ १८॥
सर्वेषामन्नरूपोऽयं नरदेहो न संशयः ।
तस्य पोषणमत्यन्तं कर्तव्यं देहधारिणा ॥ १९॥
स्वधर्मपालनेनैव वर्णाश्रमविधानतः ।
देहिना कृतपुण्येनान्नेन विश्वं प्रपोषितम् ॥ २०॥
यज्ञादिभिरृणं दैवं श्राद्धाद्यैश्चैव पैतृकम् ।
पुत्रोत्पादनमार्गेण मानुष्यं नाशमेष्यति ॥ २१॥
अधुना ऋणयुक्तस्त्वं वनं कस्मात्समागतः ।
कुरु राज्यं महाभाग स्वधर्मनिरतो मुदा ॥ २२॥
पुत्रेषु राज्यमात्मीयं स्थापयित्वा च शाश्वतम् ।
पश्चात्त्वं वनमाविश्य योगाभ्यासरतो भव ॥ २३॥
मुद्गल उवाच ।
नारदस्य वचः श्रुत्वा हर्षितो राजसत्तमः ।
उवाच तं मनोः पुत्रः प्राञ्जलिः श्रद्धयान्वितः ॥ २४॥
प्रियव्रत उवाच ।
स्वामिन्विज्ञप्तुमिच्छामि वद मे त्वं महामते ।
केनोपायेन योगीन्द्र ब्रह्मभूतो भवेन्नरः ॥ २५॥
नारद उवाच ।
शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूयपदप्रदम् ।
मार्गं संसाध्य शान्तिं च लभते मानवः स्वयम् ॥ २६॥
गणेशं योगरूपं तं ज्ञात्वैव ब्रह्मनायकम् ।
ब्रह्मभूतो भवेज्जन्तुः साधनेन महामते ॥ २७॥
गणशब्दः समूहस्य वाचकः परिकीर्तितः ।
समूहा योगरूपाश्च बाह्यान्तरविभेदतः ॥ २८॥
अन्नानां सकलानां च समूहेन्नमयं सुत ।
कथितं ब्रह्म वेदेषु एवं नानागणाः स्मृताः ॥ २९॥
तेषां पतिं गणेशानं तं ज्ञात्वा योगिनः पुरा ।
शान्तिं प्राप्ता विशेषेण शान्तियोगमयं परम् ॥ ३०॥
अस्माकं कुलदेवत्वं सम्प्राप्तोऽसौ गजाननः ।
तमाराधय यत्नेन ततः क्षेमं भविष्यति ॥ ३१॥
गुणेशो गणराज सम्पूज्य वै भक्तिभावतः ।
बभूव ब्रह्मभूतश्च भक्त्यास्माकं पितामहः ॥ ३२॥
तस्य पुत्राः समाख्याता ब्रह्मविष्णुमहेश्वराः ।
सूर्यः शक्तिश्च पञ्चैते तं समाराध्य भोगिनः ॥ ३३॥
ततस्ते शान्तिमत्यन्तं प्राप्ता विश्वेश्वराः सुत ।
ब्रह्मणश्च वयं पुत्रा भजामस्तं गणाधिपम् ॥ ३४॥
ततो योगीन्द्रमुख्याश्च वयं जाताः प्रियव्रत ।
सर्वज्ञानसमायुक्ता बन्धहीना विशेषतः ॥ ३५॥
तथा त्वमपि राजेन्द्र गणेशं भज भावतः ।
तवातः सुलभं सर्वं भविष्यति सदानघ ॥ ३६॥
तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः ।
गणेशाराधनं सर्वं बोधयामास यत्नतः ॥ ३७॥
एतस्मिन्नन्तरे तत्र ब्रह्मणा सह सङ्गतः ।
स्वायम्भुवो मनुः सुज्ञस्तौ दृष्ट्वा प्रणतौ सुतौ ॥ ३८॥
ब्रह्मणा बोधितोऽत्यन्तं पुनः पौत्रः प्रियव्रतः ।
मनुना सहराजर्षिर्ययौ स्वनगरे तदा ॥ ३९॥
पुत्रौ स्वायम्भुवो राज्ये समास्थाप्य वनं ययौ ।
योगेनाराधयामास गणेशं भक्तिसंयुतः ॥ ४०॥
क्रमेण पञ्चभूमीनां चित्तस्य परतो गतः ।
त्यक्त्वा चित्तं महायोगी ब्रह्मभूतो बभूव ह ॥ ४१॥
शान्तियोगं समाश्रित्य ब्रह्मलोकं जगाम ह ।
तत्रैव संस्थितोऽभूत्स गणेशभजने रतः ॥ ४२॥
(Page खं. २ अ. १० पान २४)
प्रियव्रतः स्वयं राजा पालयामास मेदिनीम् ।
धर्मेण नीतिदानेन त्यागेन यश आर्जयत् ॥ ४३॥
स्वस्वधर्मरताः सर्वे जना वर्णाश्रमान्विताः ।
मुदिताः सत्यशीलाच स्थिते राज्ये प्रिय व्रते ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः ॥ २.९
२.१० द्वीपवर्णनं नाम दशमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
प्रियव्रतस्य पुत्राश्च दशोत्पन्ना महौजसः ।
तेजस्विनो धर्मशीला विख्याता बलवत्तराः ॥ १॥
आग्नीध्र इध्मजिह्वश्च यज्ञबाहुस्तथा महान् ।
वीरो हिरण्यरेताश्च सवनो घृतपृष्ठकः ॥ २॥
मेधातिथिर्वीतिहोत्रः कविः पितृसमा बभुः ।
कविः सवनवीरौ च न राज्ये दधिरे मतिम् ॥ ३॥
सप्तद्वीपेश्वरास्तेन सप्त पुत्राः कृताः परे ।
जम्बुद्वीपेश्वरं पुत्रं आग्नीध्रमकरोन्नृपः ॥ ४॥
प्लक्षद्वीपेश्वरस्तेनेध्मजिह्वश्च कृतः सुतः ।
शाल्मले वै यज्ञबाहुं राजा तमभिषिक्तवान् ॥ ५॥
हिरण्यरेतसं चक्रे कुशद्वीपेश्वरं सुतम् ।
क्रौञ्चद्वीपेश्वरं चैव घृतपृष्ठं चकार ह ॥ ६॥
मेधातिथिं पतिं चक्रे शाकद्वीपस्य शाश्वतम् ।
पुष्करेशं स राजा तु वीतिहोत्रं चकार ह ॥ ७॥
ततः प्रियव्रतो राजा वनं प्राप्तः प्रतापवान् ।
नारदाद्योगमास्थाय गाणपत्यो बभूव ह ॥ ८॥
अन्ते गणेशरूपश्च सञ्जातो योगसेवया ।
प्रियव्रतसमो राजा न भूतो न भविष्यति ॥ ९॥
पुष्करे वीतिहोत्रस्य द्वौ पुत्रौ सम्बभूवतुः ।
रमणो धातकिर्नाम महावीर्यौ सुधर्मिणौ ॥ १०॥
रमणस्य स्मृतं वर्षं तन्नाम्ना च महात्मनः ।
धातकेश्चापि खण्डोऽयं बुधैर्धातकिरुच्यते ॥ ११॥
एकोद्रिर्मानसाख्यश्च तन्मध्ये वलयाकृतिः ।
योजनानां सहस्त्राणि दशोत्सेधः सन्नान्ततः ॥ १२॥
दशसाहस्रवर्षाणि जीवनं तत्र विद्यते ।
तत्र ब्रह्मा स्वयं साक्षाद् द्वीपे तिष्ठति पुष्करे ॥ १३॥
तं सुरा मानवाद्याश्च पूजयन्ति निरन्तरम् ।
स्वादूदकेन वै दक्ष वृतो द्वीपः समन्ततः ॥ १४॥
योजनानां चतुःषष्टिलक्षं सिन्धुश्व सोऽद्भुतः ।
तत्रान्ते पर्वतो रम्यो लोकालोकाह्वयः स्मृतः ॥ १५॥
एकत्र लोकसंवास एकतो लोकवर्जितः ।
लोकालोकाचलादत्र प्रकाशश्चन्द्रसूर्ययोः ॥ १६॥
तस्मात्परत्र भो दक्ष अन्धकारः समन्ततः ।
लोकालोकाचलस्तेन कथितो मुनिभिः पुरा ॥ १७॥
पुष्करे बहवो नद्यो मानसाचलसम्भवाः ।
स्वादूदकाः पुण्यरूपा निर्मलाः सर्वभावतः ॥ १८॥
तासां जलस्य पानेन रोगा नश्यन्ति दुःखदाः ।
(Page खं. २ अ. १० पान २५)
क्लमस्वेदादिकं सर्वं विद्यते न कदाचन ॥ १९॥
शाकद्वीपेश्वरस्याथ सप्तपुत्रास्तथाऽभवन् ।
पवमानस्ततः पूर्वौ पुरोजवमनोजवौ ॥ २०॥
धूम्रानीकश्चित्ररेफो बहुरूपो जगद्धरः ।
सप्तखण्डाश्च तद्द्वीपे पर्वताः सप्त मुख्यकाः ॥ २१॥
पुरोजवस्य तन्नाम्ना वर्षं प्रथममुच्यते ।
मनोजवस्य तन्नाम्ना खण्डमन्यत्प्रकथ्यते ॥ २२॥
पवमानस्य खण्डं वै पावमानात्मकं तथा ।
धौम्रानीकं चतुर्थं वै पञ्चमं चैत्ररेफकम् ॥ २३॥
बहुरूपस्य तन्नाम्ना वैश्वधारं च सप्तमम् ।
पालयामासुरव्यग्राः स्वं स्वं खण्डं प्रजापते ॥ २४॥
दशसाहस्रवर्षाणि तत्र वै जीवनं स्मृतम् ।
नराणां दोषहीनानां सदा यौवनशालिनाम् ॥ २५॥
दधिमण्डोदकाख्येन संवृतो द्वीप उत्तमः ।
तावन्मानेन युक्तेन योजनानां प्रजापते ॥ २६॥
विस्तारो योजनानां च द्वात्रिंशल्लक्षसम्मितः ।
द्वीपस्य च नरास्तत्र यजन्ते वायुमीश्वरम् ॥ २७॥
क्रौञ्चद्वीपस्य विस्तारो लक्षषोडशकं मुने ।
योजनानां समाख्यातः खण्डास्तत्र च सप्त वै ॥ २८॥
पर्वताः सप्त तत्रैव नद्यः सप्त प्रकीर्तिताः ।
अन्याः क्षुद्रस्वरूपाश्च नद्यः सर्वत्र संस्थिताः ॥ २९॥
घृतपृष्ठसुतास्तत्र सप्त खण्डेश्वराः स्मृताः ।
स्वस्वनाम्ना समाख्याताः खण्डास्तेषां प्रजापते ॥ ३०॥
आमोमधुरुहः सप्त घृतपृष्ठः सुधात्मकः ।
भ्राजिष्ठो लोहितो वर्णवनस्पतिरिति स्मृताः ॥ ३१॥
एकादशसहस्रं तु वर्षाणां जीवनं नृणाम् ।
यजन्त्यापोमयं तत्र सदा नारायणं जनाः ॥ ३२॥
क्षीरोदेन समन्ताच्च संवृतो द्वीप आदरात् ।
तावद्विस्तारभूतश्च श्वेतद्वीपोऽपि स स्मृतः ॥ ३३॥
हिरण्यरेतसः सप्त कुशद्वीपपतेः सुताः ।
वसुश्च वसुदानश्च दृढरुचिस्तृतीयकः ॥ ३४॥
सत्यव्रतो नाभिगुप्तो विविक्तो नाम देवकः ।
स्वस्वनाम्ना च तेषां वै खण्डाः सप्त प्रजापते ॥ ३५॥
तत्रैव पर्वताः सप्त मर्यादागिरयः स्मृताः ।
नद्यः सप्त महावेगाः सुजला दुःखहारकाः ॥ ३६॥
दशसाहस्रवर्षाणि जीवनं तत्र विद्यते ।
योजनानां कुशद्वीपश्चाष्टलक्षप्रमाणकः ॥ ३७॥
घृतोदेनावृतः सम्यक् तावदायामरूपिणा ।
सर्वतस्तत्र देवेशं हव्यवाहं यजन्ति ते ॥ ३८॥
शाल्मलद्वीपनाथस्य यज्ञबाहोः सुताः स्मृताः ।
सुरोचनः सौमनस्यो रमणो देववर्षकः ॥ ३९॥
आप्यायनः पारिभद्रो विज्ञातः सप्तमः स्मृतः ।
तत्तन्नाम्ना च विख्याताः खण्डास्तेषां प्रजापते ॥ ४०॥
नद्यः सप्त महावेगाः पर्वताः सप्त तत्र वै ।
योजनानां चतुर्लक्षं विस्तारस्तस्य सर्वतः ॥ ४१॥
सुरोदेनावृतः सोऽपि तावदायामरूपिणा ।
नराणां जीवनं तत्राष्टसहस्रसमाः किल ॥ ४२॥
प्लक्षद्वीपेश्वरस्याथेध्मजिह्वस्य सुतास्तथा ।
शिवो यवयसश्चैव क्षान्तक्षेमसुभद्रकाः ॥ ४३॥
अमृतोऽभयसंज्ञश्च सप्तैते परिकीर्तिताः ।
स्वस्वनामाङ्किताः खण्डास्तेषां तत्र प्रकीर्तिताः ॥ ४४॥
(Page खं. २ अ. ११ पान २६)
गिरयः सप्त तत्रैव नद्यः सप्त महाजलाः ।
नराणां जीवनं तत्र पञ्चवर्षसहस्रकम् ॥ ४५॥
द्विलक्षयोजनान्येव विस्तारस्तस्य सर्वतः ।
इक्षूणां च रसोदेन तावता परिसंवृतः ॥ ४६॥
लक्षद्वीपे यजन्ते वै सूर्यं धर्मपरायणाः ।
वृष्टिसंस्राविणं देवं तेजोरूपेण संस्थितम् ॥ ४७॥
प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तिमेषु वै ।
वर्णाश्रमविभागेन स्वधर्मे संस्थिता जनाः ॥ ४८॥
पुष्करे सर्वधर्मज्ञा एकमार्गं समाश्रिताः ।
एकवर्णाश्रमास्तत्र समशीलाः प्रजापते ॥ ४९॥
न तेषु युगमानं च युगधर्मः स्वभावतः ।
सदा समानः कालश्च स्वर्धमस्तादृशः स्मृतः ॥ ५०॥
न लोभो न च मात्सर्यं परस्परहिते रताः ।
नरास्ते पुण्यशीला वै स्वदाररततोषिणः ॥ ५१॥
कर्मणां फलभोक्तारो तेषु द्वीपेषु शौनक ।
बभूवुर्भाविकाः सर्वे देववत् क्रीडने रताः ॥ ५२॥
स्वस्वद्वीपस्थितं देवमभजंस्ते ततः सुखम् ।
सम्प्रापुस्ते जनाः सर्वे सालोक्यादिचतुष्टयम् ॥ ५३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरित्रे द्वीपवर्णनं नाम दशमोऽध्यायः ॥ २.१०
२.११ भूगोलवर्णनं नामैकादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
जम्बुद्वीपेऽश्वरस्याथ नवपुत्रा बभूविरे ।
नाभिः किम्पुरुषश्चैव तथा हरिरिलावृतः ॥ १॥
हिरण्मयः कुरू रम्यो भद्राश्वः केतुमालकः ।
स्वस्वनामाङ्कितान् खण्डान् पिता तेभ्यो ददौ स्वयम् ॥ २॥
एवं दत्त्वा च सप्तैते प्रियव्रतसुतास्ततः ।
ययुर्वनं तपस्तप्त्वा गाणपत्या बभूविरे ॥ ३॥
ययुर्गाणेश्वरं धाम ते त्वन्ते ब्रह्मवादिनः ।
पुनरावृत्तिशून्यं यद्योगाभेदं प्रभावतः ॥ ४॥
जम्बुद्वीपस्य विस्तार एकलक्षं समन्ततः ।
योजनानां तथा दक्ष लवणोदेन संवृतः ॥ ५॥
तत्र मध्ये महाशैलो मेरुर्हेममयः शुभः ।
नानाधातुविचित्राङ्गो नानौषधिसमन्वितः ॥ ६॥
नदीभिः सुजलाभिश्च युतोऽसौ कनकाचलः ।
गुहाभिश्च तथा दक्ष नानाजन्तुसमन्वितः ॥ ७॥
लक्षयोजन उत्सेधस्तस्य प्रोक्तो महात्मनः ।
षष्टिसाहस्रमेतस्य योजनानां प्रमाणकम् ॥ ८॥
बहिस्थितेस्तथा द्वात्रिंशत्सहस्रमधःस्थितेः ।
अष्टसाहस्रकं चैव योजनानां समन्ततः ॥ ९॥
अध ऊर्ध्वविभेदेन स्थितोऽसौ कनकाचलः ।
पद्माकारस्वरूपेण भूमिमध्ये स्थितो बभौ ॥ १०॥
पद्मपत्रसमानेन ह्याकारेण व्यवस्थिताः ।
पर्वताः परितस्तस्य नानाधातुमया बभुः ॥ ११॥
तेषु सर्वत्र देवानां गुह्यकानां च पक्षिणाम् ।
योगिनां रक्षसां चैव सिद्धानां च महात्मनाम् ॥ १२॥
नागेन्द्राणां मुनीन्द्राणां गन्धर्वाणां प्रजापते ।
पिशाचानां च भूतानां निवासा अद्भुता बभुः ॥ १३॥
(Page खं. २ अ. ११ पान २७)
उद्यानानि विचित्राणि देवक्रीडनकानि च ।
जराशोकहराण्येव जलानि खलु सर्वतः ॥ १४॥
कैलासाद्यष्ट शैलेन्द्रा दिक्षु तस्य व्यवस्थिताः ।
तेषु रुद्रादिदेवेन्द्रा वसन्ति दिगधीश्वराः ॥ १५॥
मध्ये स्थानं महारण्यं ब्रह्मणः परमेष्ठिनः ।
इत्येवं सर्वदेवानां सुखदः स गिरिर्बभौ ॥ १६॥
तस्य दक्षिणभागे च द्वीपखण्डास्त्रयोऽभवन् ।
उत्तरे च तथा खण्डास्त्रयस्तस्य प्रकीर्तिताः ॥ १७॥
पूर्वपश्चिमभागे द्वौ वर्षौ तस्य हि सम्मतौ ।
मध्ये समन्ततो वर्ष एकस्तस्य प्रजापते ॥ १८॥
एवं खण्डाः समाख्याता नव द्वीपे च मध्यमे ।
हिमाचलादयस्तेषु मर्यादागिरयः स्मृताः ॥ १९॥
द्विसहस्रं समुत्सेधो योजनानां प्रजापते ।
अष्टौ चैव प्रविस्तारा महाशैला समन्ततः ॥ २०॥
सहस्रं योजनानां च खण्डे खण्डे च विस्तरः ।
प्रत्येकं भिन्नभावेन तेषु लोका वसन्ति च ॥ २१॥
वर्षेषु पर्वताश्चैव नद्यो नानाविधाः स्मृताः ।
तत्र सर्वे जना दक्ष वसन्ति सुखभोगिनः ॥ २२॥
अजनाभविहीनाश्च खण्डा अष्टौ प्रकीर्तिताः ।
तेषु स्वाभाविकी सिद्धिः स्थिरभावेन संस्थिता ॥ २३॥
सदा यौवनयुक्ताश्च नरा नार्यः सुरूपिणः ।
देववत्सुखभोक्तारो बभुः साधुगुणान्विताः ॥ २४॥
परस्परेषु संसक्ताः समकालप्रभोगिनः ।
वर्णाश्रमरताः सर्वे धर्मयुक्ता दयान्विताः ॥ २५॥
न तत्र युगधर्मश्च सदा सामान्यधर्मिणाम् ।
शीतोष्णादिभवं दुःखं नास्ति खण्डेषु मानद ॥ २६॥
एकादशशतान्येव सहस्रं तेषु कुत्रचित् ।
शतानि द्वादशाप्येव त्रयोदशशतानि च ॥ २७॥
शतानि कुत्रचित्पञ्च दशाप्येव प्रजापते ।
शतानि पञ्चवर्षाणि जीवन्ति किल मानवाः ॥ २८॥
नाभेः खण्डोऽजनाभश्च हिमाचलसमीपगः ।
कर्मात्मकः समाख्यातः सर्वमान्यो बभूव ह ॥ २९॥
तत्र कर्माणि कृत्वा तु नरा यान्ति समन्ततः ।
द्वीपेषु खण्डेषु तथा तथा पातालभूमिषु ॥ ३०॥
स्वर्गेषु भोगप्राप्त्यर्थं कर्मणां फलमेव च ।
तेषु भुक्त्वा पुनर्ह्यत्र यान्ति कर्मार्थमञ्जसा ॥ ३१॥
अथवा पापकर्माणि कृत्वात्रैव व्रजन्ति ते ।
नरकेषु नरा नार्यः पुनरत्र प्रयान्ति च ॥ ३२॥
अत्र योगेन योगीन्द्रो भवेद्वै नात्र संशयः ।
गाणपत्यस्वरूपं च तद्भक्त्या लभते नरः ॥ ३३॥
अतः श्रेष्ठतमः प्रोक्तो वर्षोऽयं च हिमालयः ।
सर्वदातृत्वमापन्नो मान्यस्तेषां प्रजापते ॥ ३४॥
भोगेषु स्वल्परूपोऽयं सर्वेभ्यः कथितो बुधैः ।
शीतोष्णादिसमायुक्तो नानारोगसमन्वितः ॥ ३५॥
तत्र वर्णाश्च चत्वारस्तेषां वै व्यभिचारतः ।
वर्णा नानाविधाः प्रोक्ता भिन्नधर्मात्मकाः प्रभो ॥ ३६॥
अस्मिन् युगभवं मानं युगधर्माः समन्ततः ।
नराः प्रकृतिभिन्नाश्च स्वार्थादिकसमन्विताः ॥ ३७॥
बहवोऽग्रे बभुः शैला विन्ध्यसह्याद्रिकादयः ।
तेभ्यः प्रसूता नद्यश्च बह्व्यः सर्वत्र संस्थिताः ॥ ३८॥
पुण्यदाः स्नानमात्रेण मिष्टतोया महामते ।
नराः कर्मकरास्तत्र त्रिविधाचारसंयुताः ॥ ३९॥
तीर्थानि सर्वदेवानां स्थानानि त्वग्रजन्मनाम् ।
तत्सेवकानामधिककर्मोत्थफलदानि वै ॥ ४०॥
एवमाद्यगुणैर्युक्तो जना भो वर्ष एव च ।
कर्मणां भरणात्सुज्ञैर्भारतोऽयं प्रकीर्तितः ॥ ४१॥
एतद्भूमण्डलं कृत्स्नं कथितं ते समासतः ।
श्रवणात्पठनाच्चापि पापापहरणं भवेत् ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरित्रे भूगोलवर्णनं नामैकादशोऽध्यायः ॥ २.११
२.१२ सूर्यमण्डलवर्णनं नाम द्वादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
प्रसङ्गात्सर्वलोकानां वच्मि वै संस्थितिं पराम् ।
स्वर्गाणामपि सङ्क्षेपान्मुख्यानां कथयामि ते ॥ १॥
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च महो जनः ।
तपोलोकस्तथासत्यो लोकास्त्वण्डोद्भवाः स्मृताः ॥ २॥
अर्यमा चन्द्रमा यावत्किरणैरवभासते ।
तावान् भूर्लोक आख्यातः पुराणेषु प्रजापते ॥ ३॥
पद्भयां नरैर्भवेद्गम्यः स एवं शास्त्रसम्मतः ।
भूर्लोकः कथितो दक्ष सप्तद्वीपात्मकः खलु ॥ ४॥
प्रमाणमखिलं यावद्भूर्लोकस्य समन्ततः ।
तावच्चैव भुवर्लोके परिमाणं च कथ्यते ॥ ५॥
भूर्लोकात्सूर्यपर्यन्तं भुवर्लोकः प्रकीर्तितः ।
तस्माच्च ध्रुवपर्यन्तं स्वर्लोकः कथितो बुधैः ॥ ६॥
तत्र वायोः समाख्याता नेमयोऽष्टविधाः प्रभो ।
आवहः प्रवहश्चैव तथैवान्नवहः परः ॥ ७॥
संवहो विवहश्वाथ तदूर्ध्वं च परावहः ।
तथा परिवहश्चोर्ध्वं वहस्तस्मात्परः स्मृतः ॥ ८॥
भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ।
लक्षे दिवाकरात्प्रोक्तं चन्द्रमण्डलमास्थितम् ॥ ९॥
नक्षत्रमण्डलं कृत्स्नं तस्माल्लक्षे प्रकाशते ।
द्वे लक्षयोजने तस्मात् ग्रहाणां मण्डलं स्मृतम् ॥ १०॥
तस्माल्लक्षे ऋषीणां यन्मण्डलं च प्रकाशते ।
ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रुवः ॥ ११॥
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ।
वायुरश्मिधरः सोऽपि चालयन् ज्योतिषां गणम् ॥ १२॥
दशयोजनसाहस्रं मण्डलं भास्करस्य च ।
तथा द्वादशसाहस्रं मण्डलं शशिनः स्मृतम् ॥ १३॥
सूर्याधस्तात् स्थितो राहुर्दशसाहस्रयोजनः ।
त्रयोदशसहस्रं च मण्डलं तस्य कथ्यते ॥ १४॥
तमोमयं तमःस्थानं गत्या पर्वणि धावति ।
छायया सूर्यचन्द्रौ वा आच्छादयति सत्वरम् ॥ १५॥
तदेव ग्रहणं दक्ष कथ्यते शास्त्रवादिभिः ।
अखिलं तमसा व्याप्तं मण्डलं रविसोमयोः ॥ १६॥
(Page खं. २ अ. १२ पान २९)
चन्द्रस्य षोडशो भागो मण्डलं भार्गवस्य च ।
भार्गवात्पादहीनं यत् द्विज तच्च बृहस्पतेः ॥ १७॥
बृहस्पतेः पादहीनं मण्डलं भौमसौरयोः ।
विस्ताराच्च तयोः पादहीनं सौम्यस्य मण्डलम् ॥ १८॥
तारानक्षत्ररूपाणि हीनानि तु परस्परात् ।
शतानि पञ्चचत्वारि त्रीणि द्वे योजनानि वै ॥ १९॥
सर्वेभ्योऽपि निकृष्टानि ताराणां मण्डलानि तु ।
योजनाध्यर्धमात्राणि तेभ्यो न्यूनं न विद्यते ॥ २०॥
उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः ।
सौरोङ्गिराश्च भौमश्च विज्ञेया मन्दगामिनः ॥ २१॥
तेभ्योधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः ।
सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ २२॥
अयने द्वे समास्थाय भानुश्चरति सर्वदा ।
प्रभुः सर्वग्रहाणां स सर्वाधस्तात्प्रसर्पति ॥ २३॥
विस्तीर्णं मण्डलं कृत्वा चरत्यूर्ध्वं ततः शशी ।
नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ २४॥
नक्षत्रेभ्यः कविश्चोर्ध्वं तस्मादूर्ध्वं बुधः स्मृतः ।
भौमः सोमसुतादूर्ध्वं तस्मादूर्ध्वं बृहस्पतिः ॥ २५॥
शनैश्चरस्ततो ह्यूर्ध्वं तस्मात् सप्तर्षिमण्डलम् ।
ऋषीणां चैव सप्तानां ध्रुवश्चोर्ध्वं व्यवस्थितः ॥ २६॥
नवयोजनसाहस्रो भास्करस्य रथः स्मृतः ।
ईषादण्डस्तथैवास्य द्विगुणो वै प्रजापते ॥ २७॥
लक्षप्रमाणमक्षश्च ध्रुवाधारेण संस्थितः ।
द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥ २८॥
चक्रं राशिमयं तस्य द्वादशारं प्रकीर्तितम् ।
गायत्रीमुख्यकास्तस्य सप्त छन्दोमया हयाः ॥ २९॥
दक्षिणायनमासाद्य क्षिप्रं क्षिप्रं प्रसर्पति ।
यदोत्तरगतो भानुरक्षिप्रं चैव सर्पति ॥ ३०॥
मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी ।
दक्षिणे धर्मराजस्य वरुणस्य च पश्चिमे ॥ ३१॥
उत्तरे तु कुबेरस्य तन्नामानि निबोध मे ।
अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ ३२॥
ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ।
उदये च महेन्द्रस्य नगर्यां स प्रकाशते ॥ ३३॥
यमपुर्यां च मध्याह्ने सायाह्ने वरुणस्य तु ।
निशामध्ये च कौबेर्यामेवं चरति भास्करः ॥ ३४॥
उदयास्तमयेनायं सर्वकालसमानगः ।
अशेषासु दिशास्वेष सर्वासु विदिशासु च ॥ ३५॥
कुलालचक्रवल्लोके भ्रमत्येवं दिनेश्वरः ।
स्वस्वबोधसमानं च भिन्नं कालं प्रकाशयन् ॥ ३६॥
करोत्यहस्तथा रात्रिं किरणैः स्थापयन् प्रजाः ।
दिवाकरकरैरेतत् पूरितं भुवनत्रयम् ॥ ३७॥
जलं स्थलं नभः प्रोक्तं लोकानां स्थानमुत्तमम् ।
आदित्यमूलमेतच्च त्रिविधं नात्र संशयः ॥ ३८॥
भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् ।
मध्यभागे तदाधारमन्ते तत्र प्रतिष्ठितम् ॥ ३९॥
ब्रह्मविष्णुमहेशेन्द्रचन्द्रताराग्निनागजम् ।
वीरुद्विप्रोदकानां यत्तेजस्तद्रविसम्भवम् ॥ ४०॥
द्युतिर्द्युतिमतां कृत्स्ना यत्तेजः सार्वलौकिकम् ।
विभज्य स्वयमेवेशः क्रीडति स्म दिवाकरः ॥ ४१॥
सर्वात्मा सर्वलोकेशो गणेशांशः प्रभाकरः ।
मूलं त्रिभुवनस्यापि कर्मरूपी च दैवतम् ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते सूर्यमण्डलवर्णनं नाम द्वादशोऽध्यायः ॥ २.१२
२.१३ नवग्रहरथादिवर्णनं नाम त्रयोदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
रवेः कलांशसम्भूता द्वादशान्ये च भानवः ।
द्वादशस्वेव मासेषु ते तपन्ति रथस्थिताः ॥ १॥
सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिः तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ २॥
धातार्यमाऽथ मित्रश्च वरुणः शक्रसंज्ञितः ।
विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ ३॥
भगस्त्वष्टाऽथ विष्णुश्च द्वादशैते च भानवः ।
तपन्ति रथसंस्था वै वसन्तादिक्रमेण च ॥ ४॥
पुलस्त्यः पुलहोऽथात्रिर्वसिष्ठश्चाङ्गिरा भृगुः ।
भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ ५॥
जमदग्निः कौशिकोऽथ मुनयो ब्रह्मवादिनः ।
स्तुवन्ति पुरतो देवं छन्दोभिर्विविधैस्तस्था ॥ ६॥
रथकृच्च रथौजा वै रथचित्रः स्वबाहुकः ।
रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥ ७॥
तार्क्ष्यश्चारिष्टनेमिर्वै रथजित्सत्यजित्तथा ।
ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसङ्ग्रहम् ॥ ८॥
अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा ।
सर्पो व्याघ्रस्तथा व्याधो वातो विद्युद्दिवाकरः ॥ ९॥
ब्रह्मोपेतश्च भो दक्ष यज्ञोपेतस्तथापरः ।
राक्षसप्रवरा एते प्रयान्ति पुरतः क्रमात् ॥ १०॥
वासुकिः कङ्कनीरश्च तक्षको नागमुख्यकः ।
एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ॥ ११॥
धनञ्जयो महापद्मस्तथा कर्कोटकोऽपरः ।
कम्बलाश्वतरौ चैव वहन्त्येते प्रभाकरम् ॥ १२॥
नागा द्वादशमासेषु प्रजाधीश यथाक्रमम् ।
तुम्बरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा ॥ १३॥
उग्रसेनो वसुरुचिरवीवसुरथापरः ।
चित्रसेनस्तथोर्णायुर्धृतराष्ट्रः प्रजापते ॥ १४॥
सूर्यवर्चा द्वादशैते गन्धर्वा गायनाः पुरः ।
घनस्तनी च रम्भा वै तथान्या पुञ्जिकस्थली ॥ १५॥
मेनका सहजन्या च प्रम्लोचाऽथ प्रजापते ।
अनुम्लोचा घृताची च विश्वाची चोर्वशी परा ॥ १६॥
अन्या च पूर्वचित्तिर्या भास्करं च तिलोत्तमा ।
ताण्डवैस्तोषयन्त्येनं वसन्तादिषु वै क्रमात् ॥ १७॥
एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ।
सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ॥ १८॥
ग्रथितैः स्ववचोभिस्तं स्तुवन्ति मुनयो रविम् ।
(Page खं. २ अ. १३ पान ३१)
गन्धर्वाप्सरसश्चैनं गेयैर्नृत्यैरुपासते ॥ १९॥
ग्रामणीर्ह्यक्षभूतानि कुर्वतेऽभीषुसङ्ग्रहम् ।
सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति तम् ॥ २०॥
वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् ।
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ॥ २१॥
भूतानामशुभं कर्म व्यपोहन्त्यनुकीर्तिताः ।
एते सहैव सूर्येण भ्रमन्ति दिवि सर्वदा ॥ २२॥
विमानेऽधिष्ठिता नित्यं कामगे वातरंहसि ।
वर्षन्तश्च तपन्तश्च ह्लादयन्तः सदा प्रजाः ॥ २३॥
गोपायन्तीह भूतानि सर्वाण्येते युगक्षये ।
एतेषां रूपमास्थाय सूर्यस्तपति नित्यशः ॥ २४॥
अहोरात्रव्यवस्थानां कारणं स प्रजापतिः ।
पितृदेवमनुष्यादिनित्यमाप्याययेद्रविः ॥ २५॥
एवमेष गणेशांशो देवदेवो दिवाकरः ।
करोति नियतं कालं कालात्मा भगवान् स्वयम् ॥ २६॥
अन्ये चाष्टग्रहाः प्रोक्ता ध्रुवे बद्धा भ्रमन्ति ते ।
दिवाकरकरैः पुष्टा तं रविं वातरश्मिभिः ॥ २७॥
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दश ते वै क्षपाकराः ॥ २८॥
वीथ्याश्रयेण नक्षत्रं चरत्येव रविर्यथा ।
ह्रासवृद्धिसमायुक्तो ध्रुवाधारेण सर्वदा ॥ २९॥
स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते ।
आपूर्यते कलामात्रः सततं वर्धते ततः ॥ ३०॥
कृष्णे पीतं सुरैः सोममाप्याययति नित्यदा ।
एकेन रश्मिना दक्ष सुषुम्नाख्येन भास्करः ॥ ३१॥
एवं सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः ।
दृश्यते पौर्णमासीस्था सम्पूर्णा दिवसैः क्रमात् ॥ ३२॥
सम्पूर्णमर्धमासेन तं सोमममृतात्मकम् ।
पिबन्ति देवताः सर्वाः क्रमेणामृतभोजिनः ॥ ३३॥
ततः पञ्चदशे भागे किञ्चिच्छेषे कलात्मके ।
पितरश्चापराह्णे तं जघन्यं पर्युपासते ॥ ३४॥
पिबन्ति द्विलवं कालं शिष्टा तस्य कला तु या ।
स्वधामृतमयी पुण्या सा चन्द्रस्यामृतात्मिका ॥ ३५॥
निःसृतं तदमायां तु गभस्तिभ्यः स्वधामृतम् ।
मासतृप्तिकरं तेषां पितरः सन्ति निर्वृताः ॥ ३६॥
न सोमस्य विनाशः स्यात्सुधादेवस्य पानतः ।
एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सर्वदा ॥ ३७॥
सोमपुत्रस्य सिंहैश्च चतुर्भिर्वायुवेगिभिः ।
स्यन्दनस्तैः समायुक्तस्तेनासौ याति सर्वतः ॥ ३८॥
भार्गवस्य तथाष्टाश्वः स्यन्दनो हेमनिर्मितः ।
अष्टाभिरपि मेषैश्च रथो भौमस्य शोभनः ॥ ३९॥
बृहस्पतेश्च रक्ताश्वैरष्टभिर्हेमनिर्मितः ।
रथोऽष्टनीलगृध्रैश्च मन्दस्यायसनिर्मितः ॥ ४०॥
स्वर्भानोः कृष्णसिंहैश्च युक्तः केतोः कपोतकैः ।
एते नवग्रहाणां वै समाख्याता महारथाः ॥ ४१॥
सर्वे ध्रुवे समाबद्धा वातरश्मिभिरादरात् ।
ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धानि सर्वदा ॥ ४२॥
भ्रमति भ्रामयत्येतान् सर्वाशानिलरश्मिभिः ।
अतो ध्रुवाधारमिदं ज्योतिश्चक्रं प्रजापते ॥ ४३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते नवग्रहरथादिवर्णनं नाम त्रयोदशोऽध्यायः ॥ २.१३
(Page खं. २ अ. १४ पान ३२)
२.१४ ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ध्रुवादूर्ध्वं महर्लोकः कोटियोजनदूरगः ।
कल्पाधिकारिणस्तत्र वसन्ति सुखभोगिनः ॥ १॥
जनलोको महर्लोकात् कोटियोजनदूरगः ।
सनकाद्याः स्थितास्तत्र त्रसरेणुविमानगाः ॥ २॥
जनलोकात्तपोलोकः कोटियोजनदूरगः ।
वैराजास्तत्र वै देवाः स्थिता भयविवर्जिताः ॥ ३॥
सत्यलोकस्तपोलोकात्कोटियोजनदूरगः ।
अपुनर्भवरूपा च ब्रह्मणो वसतिः परा ॥ ४॥
तत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वभावनः ।
आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥ ५॥
वसन्ति यतयस्तत्र नैष्ठिका ब्रह्मचारिणः ।
व्रतिनस्तापसाः सिद्धा याजकाः परमेष्ठिनः ॥ ६॥
द्वारं तद्योगिनामेकं गच्छतां गणपं परम् ।
न तद्वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥ ७॥
तस्मादूर्ध्वं निरालम्बं विश्वरूपविवर्जितम् ।
सत्यलोकान्तमेतद्वै वैराटं रूपमुत्तमम् ॥ ८॥
पञ्चकोटियुतं पूर्णं तस्माद्दशगुणा मही ।
ब्रह्माकारा च विज्ञेया पञ्चाशत्कोटिविस्तरा ॥ ९॥
विधेर्लोकात्कोटियुग्मे योजनानां प्रजापते ।
शक्तिलोको निराधारो ज्योतिर्मयविराजितः ॥ १०॥
तेजः पुञ्जमये दक्ष महामायासमाश्रिते ।
निष्कामाः शक्तिभक्ता ये तत्र गच्छन्ति योगिनः ॥ ११॥
दशसाहस्रविस्तारे समन्ताज्जनसङ्कुले ।
योजनानां महाभाग शक्तयस्तत्र संस्थिताः ॥ १२॥
स्वतेजसा विनिर्माय पुरुषान् समरूपिणः ।
तैः समं क्रीडने सक्ताः स्त्रीभावेन जगन्मया ॥ १३॥
तस्मात्कोटिचतुष्के च सूर्यलोकः पुरातनः ।
योजनानां महातेजः पुञ्जरूपो विराजते ॥ १४॥
निराधारे सदा नित्ये निष्कामास्तत्र यान्ति वै ।
शुक्लगत्या महाभागाः साक्षाद्भानुनिवासिनः ॥ १५॥
अन्ये सूर्यस्य ये भक्ता निष्कामभजने रताः ।
तत्र गच्छन्ति ते दक्ष भानुतेजःसमप्रभाः ॥ १६॥
तस्यापि विस्तरस्तावान् शक्तिलोकसमेन वै ।
तत्र क्रीडति यो भानुः पुरुषाकारसंस्थितः ॥ १७॥
स्ववामाङ्गाच्च निर्माय मायां कर्ममयीं प्रभुः ।
संज्ञां तया सदा रेमे पुरुषो ब्रह्मसंज्ञितः ॥ १८॥
तस्माद्योजनकोटिष्वष्टासु विष्णुः समास्थितः ।
सदाविकुण्ठवासीय आनन्दमयमूर्तिमान् ॥ १९॥
विस्तारस्तस्य लोकस्य विकुण्ठस्य प्रमाणतः ।
अयुतं योजनानां च समन्ताच्च विराजते ॥ २०॥
निराधारे सदा नित्ये ज्योतीरूपमये परे ।
तत्र गच्छन्ति निष्कामा वैष्णवा भक्तितत्पराः ॥ २१॥
सदानन्दसमायुक्तास्तत्र नित्यसुखे रताः ।
जनास्तिष्ठन्ति नार्यश्च स्वेच्छागतिविहारिणः ॥ २२॥
वामभागात्स निर्माय भोगलक्ष्मीं प्रजापते ।
दक्षिणाङ्गान् मुक्तिलक्ष्मीं ताभ्यां क्रीडति सर्वदा ॥ २३॥
सदानन्दमयः साक्षात् विष्णुः परमधर्मवित् ।
द्विविधं मायया कृत्वा खेलति स्वेच्छया प्रभुः ॥ २४॥
तस्मात्षोडशसङ्ख्यासु योजनानां च कोटिषु ।
दूरे शङ्करलोकश्च कैलासः परमाद्भुतः ॥ २५॥
(Page खं. २ अ. १५ पान ३३)
निराधारे सदा लोके मोहहीने सुखप्रदे ।
निष्कामाः शिवभक्ताश्च तत्र गच्छन्ति मानवाः ॥ २६॥
ज्योतिर्मयस्वरूपे च सदा कल्याणदायके ।
लोके तत्र स्वयं शम्भुर्वसति स्वेच्छया मुने ॥ २७॥
अयुतं योजनानां च तस्य विस्तार एव च ।
तत्र योगेन योगज्ञः शङ्करः क्रीडति प्रभुः ॥ २८॥
वामाङ्गं प्रकृत्याकारं दक्षिणाङ्गं प्रजापते ।
पुरुषाकारमेतस्य शङ्करस्य महात्मनः ॥ २९॥
संयोगे च तयोर्दक्ष आनन्दः परिकीर्तितः ।
नारायणमयी शक्तिरर्धनारीनरः शिवः ॥ ३०॥
सा शक्तिस्तस्य देवस्य त्रिधा रूपधरा बभौ ।
कृता भिन्ना शिवेनापि जगदानन्ददायिनी ॥ ३१॥
तया व्यक्तो महादेवो मोहहीनः स्वभावतः ।
क्रीडत्यनारतं दक्ष मायाधारः स्वलोकगः ॥ ३२॥
तस्याः परं पृथिव्यास्तु ब्रह्म स्वानन्दसंज्ञितम् ।
तत्पदान्न परं किञ्चिद्वेदादौ सुप्रतिष्ठितम् ॥ ३३॥
स्वसंवेद्यं हि यद्ब्रह्म चतुर्धा तद्बभौ स्वयम् ।
चतुर्णां तत्र संयोगस्तन्मयः कथितो बुधैः ॥ ३४॥
अव्यक्तं शिवसंज्ञं च ब्रह्म निर्मोहरूपकम् ।
तस्मात् समं तथा ब्रह्म वैष्णवं परिकीर्तितम् ॥ ३५॥
तस्मादात्मस्वरूपं यत् सूर्याकारं च तत्स्मृतम् ।
तस्मादसन्मयं ब्रह्म शक्तिरूपेण संस्थितम् ॥ ३६॥
तेषामभेदसम्प्राप्तिः स्वानन्दः परिकीर्तितः ।
एवं तत्त्वेषु सर्वेषु स्वस्वस्वानन्द उच्यते ॥ ३७॥
ब्रह्म नानाविधं प्रोक्तमाकाशादिविभेदतः ।
तत्र क्रमार्थंं स्वानन्दः स्वमहिन्नि स्थितोऽभवत् ॥ ३८॥
अन्ते पूर्णत्वमापन्नः साक्षाद्गणपतेः स्मृतः ।
स्वानन्दः सर्वसंयोगे समाधिः पूर्व उच्यते ॥ ३९॥
स्थाने स्थाने निजानन्दे गणेशः संस्थितः स्वयम् ।
कलांशेन विहारार्थं सर्वेषां सर्वसिद्धये ॥ ४०॥
एवमूर्ध्वस्थलोका ये कथितास्ते प्रजापते ।
अतिसङ्क्षेपभावेन श्रवणात् सर्वकामदाः ॥ ४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः ॥ २.१४
२.१५ सप्तपातालवर्णनं नाम पञ्चदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अतलं वितलं चैव सुतलं च तलातलम् ।
महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ १॥
अतलं श्यामवर्णं तदधोभूमेः सुसंस्थितम् ।
अयुते योजनानां वै विस्तारो लक्षयोजनः ॥ २॥
मयपुत्रेण संयुक्तं तथा नमुचिपूर्वकैः ।
तथान्यैर्विविधैर्नागैरतलं शोभितं प्रभो ॥ ३॥
वितलं श्वेतवर्णं तदधस्तस्मात्तथा स्मृतम् ।
अयुते योजनानां तद्विवरं चैव संस्थितम् ॥ ४॥
तत्र नागासुराश्चैव वसन्ति सुखभोगिनः ।
कम्बलः शङ्कुकर्णश्च हयग्रीवश्च जुम्भकः ॥ ५॥
(Page खं. २ अ. १५ पान ३४)
सुतलं पीतवर्णं तदधस्तद्वत्प्रतिष्ठितम् ।
तत्रैव वैनतेयादिपक्षिणो दैत्यपो बलिः ॥ ६॥
कालनेम्यादयश्चान्ये नानादैत्याः स्थिताः सुखम् ।
नागाश्च भयहीनास्ते संवसन्ति विहारिणः ॥ ७॥
तलातलं तथा ज्ञेयं शार्करं तत्र वासिनः ।
मयासुरादयश्चैव बाणान्धकमुखाः परे ॥ ८॥
वसन्ति सुखभावेनान्ये नागा विगतज्वराः ।
कालकेया महादेहा निवातकवचास्तथा ॥ ९॥
महातलं कृष्णवर्णं तत्र तक्षकपन्नगः ।
अन्ये च बहवो नागा वसन्ति सुखभोगिनः ॥ १०॥
हिरण्यपुरधिष्ण्याश्च दैत्या अन्ये सहस्रशः ।
देवानां भयमुत्सृज्य निवसन्ति प्रजापते ॥ ११॥
रसातलं शैलमयमधस्तद्वत् स्थितं महत् ।
वासुकिप्रमुखैर्नागैर्दैत्यैर्नानाविधैस्तथा ॥ १२॥
विवरे सर्वशोभाढये नानासौख्यप्रदे परे ।
तत्र तेजस्विनस्तीक्ष्णविषोग्राः प्रवसन्ति वै ॥ १३॥
पातालं नीलवर्णं तदधस्तस्मात्प्रतिष्ठितम् ।
तत्र स्थानं च शेषेण कार्यार्थे च कृतं किल ॥ १४॥
तत्र दैत्याः सुरा नागास्तं सदा पर्युपासते ।
भक्तियुक्ता विवेकेन नागराजं महौकसम् ॥ १५॥
पातालविवरेष्वत्र गृहा नानाविधाः कृताः ।
वनानि च तथा ग्रामा नगराणि प्रजापते ॥ १६॥
विचित्रभोगयुक्ताश्च वृक्षा नानाविधाः खगाः ।
मन्दिराणि प्रभावन्ति सोत्पलानि सरांसि च ॥ १७॥
तत्र स्वर्गसमं दक्ष भोगं कुर्वन्ति जन्तवः ।
हृष्टपुष्टजनाः सर्वे नियुताब्दोपजीविनः ॥ १८॥
अपारायुः समायुक्ता महातेजस एव ते ।
देवादीनां सुदुर्धर्षा वसन्ति च्छन्दचारिणः ॥ १९॥
तस्मादधः सहस्राणि योजनानि प्रजापते ।
त्रिंशत्तत्र स्वयं शेषः सदा तिष्ठति नागपः ॥ २०॥
गणेशभक्तिसंयुक्तो गणेशांशसमुद्भवः ।
विष्णोः कलावतारश्च कालरुद्रस्तथा स्मृतः ॥ २१॥
सहस्रानन एकोऽसौ महाभागो महाबलः ।
यस्य विषभवा ज्वाला दहेत्तु सकलं जगत् ॥ २२॥
मृत्युवर्जित एकोऽसौ तेनानन्तः प्रकीर्तितः ।
ब्रह्मणो दिवसान्ते वै लयं कृत्वा स्वयं स्थितः ॥ २३॥
अभजन्नागराजास्तं वासुकिप्रमुखाः सदा ।
असुराश्चैव प्रह्लादमुख्याः सेवापरायणाः ॥ २४॥
उपासते विलीनास्तं तथान्या नागयोषितः ।
नानाकामप्रसिद्धयर्थमनन्तं भक्तितत्पराः ॥ २५॥
तस्मादधः कच्छपस्य विष्णोश्चैवावतारिणः ।
स्थानं सहस्र एकस्मिन् योजनानां स्थितं प्रभो ॥ २६॥
तत्र तं वरुणाद्याश्च सेवन्ते भावतत्पराः ।
साक्षात् कूर्मस्वरूपस्थं नारायणमनामयम् ॥ २७॥
योजनानां ततोऽधस्तात् सहस्रे संस्थितः स्वयम् ।
वराहरूपधारी च विष्णुः परपुरञ्जयः ॥ २८॥
तं धरित्रीमुखाः सर्वे सेवन्ते भक्तितत्पराः ।
महादेवं करालास्यं स्वभक्तेभ्योऽभयप्रदम् ॥ २९॥
शेषाधारमिदं सर्वं कूर्माधारः स वै स्मृतः ।
कूर्मो वराहरूपस्याधारेण समवस्थितः ॥ ३०॥
(Page खं. २ अ. १६ पान ३५)
वराहश्च निराधारो गणेशं हृदि संस्मरन् ।
स्थितस्तेन प्रभावेण सर्वाधारः स वै स्मृतः ॥ ३१॥
तस्मादधो रौरवाद्या नरकाश्च समाश्रिताः ।
यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः ॥ ३२॥
रौरवैश्चैव तामिस्रो महारौरवसंज्ञितः ।
अन्धतामिस्रसंज्ञश्च तथा सूचीमुखोऽपरः ॥ ३३॥
लोहदण्डस्तप्तवालुकस्तथा खड्गपत्रकः ।
लालास्यः कृमिभक्ष्यश्च इत्याद्या बहवः स्मृताः ॥ ३४॥
नरकेषु प्रपच्यन्ते पापकारिण एव ये ।
एतावान् ब्रह्मगोलस्ते सङ्क्षेपेण निरूपितः ॥ ३५॥
विस्तरान्नैव शक्यश्च गदितुं वै प्रजापते ।
शापमोहस्य वेगेन तव भ्रान्तिः समागता ॥ ३६॥
गणेशाराधनेनाद्य भ्रान्तिनाशो भविष्यति ।
तदा त्वं तत्त्वतः सर्वं ज्ञास्यस्यत्र न संशयः ॥ ३७॥
एवं सर्वेषु सामान्यं ब्रह्माण्डेषु बभौ जगत् ।
अष्टावरणयुक्तेषु गुणेशाधारकेषु वै ॥ ३८॥
इदं गणपते रूपं ब्रह्माण्डात्मकमास्थितम् ।
कथितं ते समासेन सर्वसिद्धिप्रदं मया ॥ ३९॥
यः शृणोति नरो भक्त्या पठेद्वै तस्य सर्वदम् ।
भुक्तिमुक्तिकरं भावि पापकञ्चुकनाशनम् ॥ ४०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते सप्तपातालवर्णनं नाम पञ्चदशोऽध्यायः ॥ २.१५
२.१६ ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
प्रियव्रतात्मजश्चैवाग्नीध्रस्तस्याभवत्सुतः ।
नाभिस्तस्य च यज्ञाद्वै समुत्पन्नः सुतः परः ॥ १॥
यज्ञरूपः स्वयं विष्णुः कलारूपेण देहभृत् ।
पुत्रभावसमायुक्तः स्थितस्तस्य च सद्मनि ॥ २॥
तस्य पुत्रशतं जज्ञे भरताग्रं प्रजापते ।
एकाशीतिश्च पुत्रा वै ब्राह्मणास्तपसाऽभवन् ॥ ३॥
नवयोगिन एवान्येऽभवन् सर्वत्र सम्मताः ।
गाणपत्या महाभागाः सर्वदेहविवर्जिताः ॥ ४॥
कविर्हरिश्चान्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ५॥
सदा योगधरा मुख्या ऊर्ध्वरेतस एव च ।
सर्वगाः सर्वसम्मान्या भ्रमन्ति भुवनेषु च ॥ ६॥
नव तत्र च राजानो जम्बुद्वीपे प्रजापते ।
खण्डेषु तेषु मुख्यो वै भरतो ज्येष्ठपुत्रकः ॥ ७॥
सभ्रातॄणां नवानां वै संराट् भावेन संस्थितः ।
एवं विभज्य राज्यं स्वमृषभश्च वनं ययौ ॥ ८॥
तत्र नाना तपः कृत्वा क्रमेण स बभूव च ।
अवधूतो महाभागो योगमभ्यस्य योगवित् ॥ ९॥
नानायोगविभेदेन नानाभूमिं विशोधयन् ।
जडोन्मत्तपिशाचादिं ततः सहजसंस्थितः ॥ १०॥
सहजं शाङ्करं ब्रह्म मोहहीनं चतुर्थकम् ।
स्वाधीनं नेति रूपं यदव्यक्तं तेन संश्रितम् ॥ ११॥
तेनासौ शाम्भवो जातः शिवमार्गप्रकाशकः ।
(Page खं. २ अ. १६ पान ३६)
यत्रतत्राचरद्योगी जनानां बोधयन् शिवम् ॥ १२॥
ततो योगेन तत्रैव स्वाधीनब्रह्मदूषणम् ।
दृष्ट्वा शान्तिं परित्यज्य विस्मितः प्रबभूव सः ॥ १३॥
न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन ।
शिवः स्वाधीनरूपोऽयं न योगीन्द्रस्ततो भवेत् ॥ १४॥
एवं विचार्य विक्षेपाच्छङ्करालयमाययौ ।
तं प्रणम्य स्थितो योगी शिवसम्मानितो भृशम् ॥ १५॥
तत्र स्थिता महाभागा योगिनः शिवशिष्यकाः ।
गाणपत्याः स तान् दृष्ट्वा विस्मितो मानसेऽभवत् ॥ १६॥
ततोऽवसरमासाद्य शिवं नत्वा कृताञ्जलिः ।
जगाद तं स योगीन्द्रो भक्तियुक्तेन चेतसा ॥ १७॥
ऋषभ उवाच ।
नमस्ते शङ्करायैव नमस्ते योगरूपिणे ।
नमस्ते जगदाधार ब्रह्माधिपतये नमः ॥ १८॥
शान्तियोगं वद स्वामिन् पूर्णशान्तिप्रदायकम् ।
दासोऽहं तेऽधुना शिष्यो मह्यं देव दयानिधे ॥ १९॥
सहजान्न परं ब्रह्म मया ज्ञातं विवेकतः ।
तत्र स्वाधीनता दृष्टा तया शान्तिर्गता च मे ॥ २०॥
मुद्गल उवाच ।
ऋषभस्य वचः श्रुत्वा शङ्करो हर्षनिर्भरः ।
जगाद तं महाभक्तं पूर्णपाशुपतं वचः ॥ २१॥
शिव उवाच ।
त्वया पृष्टं महायोगिंस्तारकं योगिनां मतम् ।
कथयामि महाप्रीत्या शृणुष्वैकाग्रमानसः ॥ २२॥
शान्तियोगात्मकः साक्षाद्वेदेषु कथितः पुरा ।
गणेशो योगरूपाख्यो योगिभिः सेवितः सदा ॥ २३॥
तस्मात् सर्वं समुद्भूतं तदाधारेण संस्थितम् ।
अन्ते चेदं तदाकारं योगेन भवति प्रभो ॥ २४॥
सामवेदे प्रकथितं शृणु वेदरहस्यकम् ।
येन त्वं शान्तिसंयुक्तो भविष्यसि न संशयः ॥ २५॥
मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् ।
गकारात्मकमेतत्तु तत्र ब्रह्म गकारकः ॥ २६॥
मनोवाणीविहीनं च सयोगायोगसंस्थितम् ।
णकारात्मकमेतत्तु णकारस्तत्र संस्थितः ॥ २७॥
विविधानि गकाराच्च प्रसूतानि महामते ।
ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः ॥ २८॥
ब्रह्माणि तु णकाराच्च सम्प्रसूतानि योगिभिः ।
निरोधात्मकरूपाणि कथितानि समन्ततः ॥ २९॥
गकारश्च णकारश्चाह्वये गणपतेः स्थितौ ।
ततो जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥ ३०॥
तयोः स्वामी गणेशानो योगरूपेण संस्थितः ।
तं भजस्व विधानेन शान्तिमार्गेण पुत्रक ॥ ३१॥
मनोवाणीमयं सर्वं गणेशाकारभावितम् ।
मनोवाणीविहीनं च तदाकारं प्रभावय ॥ ३२॥
मनोवाणीमयं सर्वं मायारूपं प्रकथ्यते ।
मनोवाणीविहीनं यत्तदेव तादृशं मतम् ॥ ३३॥
चित्तस्य पञ्च भूमीनां प्रकाशकृदयं स्मृतः ।
तेन चिन्तामणिर्नाम जातोऽसौ गणनायकः ॥ ३४॥
तं भजस्व महायोगिन् योगाकारेण संस्थितः ।
भूमीनां त्यागमार्गेण शान्तिं चित्तस्य चाप्स्यसि ॥ ३५॥
गणेशस्तु गणेशोऽयं संयोगायोगवर्जितः ।
मायया भ्रान्तिरुत्पन्ना तां त्यक्वा सुखमाप्स्यसि ॥ ३६॥
इत्युक्त्वा विररामाथ शिवः शिवकरः सताम् ।
(Page खं. २ अ. १६ पान ३७)
ऋषभोऽपि प्रसन्नात्मा तं प्रणम्य ययौ वनम् ॥ ३७॥
कथितं शङ्करेणैवमभ्यस्यन् योगमुत्तमम् ।
क्रमेण पूर्वयोगी स जातो शान्तिस्वरूपधृक् ॥ ३८॥
तथापि गणपं दक्ष न मुमोच क्षणं मुनिः ।
तेन तस्य समीपेऽसौ गणेशानः समाययौ ॥ ३९॥
आगतं गणपं दृष्ट्वा भक्तिभावेन यन्त्रितम् ।
प्रणनाम स साष्टाङ्गं हर्षगद्गदभाषणः ॥ ४०॥
सरोमाञ्चशरीरश्च साश्रुनेत्रो महायशाः ।
तुष्ट्वाव तं गणाधीशं प्राञ्जलिर्हृष्टमानसः ॥ ४१॥
ऋषभ उवाच ।
नमस्ते ब्रह्मरूपाय गणेश करुणानिधे ।
भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२॥
निराकाराय नित्याय जगदाकारमूर्तये ।
अनन्ताय परेशाय परात्परतराय ते ॥ ४३॥
आदिमध्यान्तहीनाय गुणाकाराय ते नमः ।
गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४॥
नमो नानावताराय भक्तपालनहेतवे ।
सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५॥
योगाय योगदात्रे च योगाकाराय ते नमः ।
योगानां पतये तुभ्यं ब्रह्मणां पतये नमः ॥ ४६॥
सर्वादये गणाध्यक्ष सर्वपूज्याय ढुण्ढये ।
सर्वान्ते ह्यवशिष्टाय विघ्नेशाय नमो नमः ॥ ४७॥
हेरम्बाय निजानन्दवासिने सिद्धसेवित ।
सिद्धिबुद्धिपते तुभ्यं नाना खेलकराय ते ॥ ४८॥
धर्मार्थकाममोक्षाणां दायकाय नमो नमः ।
ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च ॥ ४९॥
किं स्तौमि त्वां गणाधीश योगशान्तिमयं प्रभो ।
यं स्तोतुं न समर्थाश्च वेदाद्याः शिवमुख्यकाः ॥ ५०॥
तथापि च यथाबुद्धिज्ञानं त्वं संस्तुतो मया ।
भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ॥ ५१॥
मुद्गल उवाच ।
इत्युक्त्वा निपपातोर्व्यां पदं धृत्वा महायशाः ।
गणेशस्य च तेनापि समुत्थापित आदरात् ॥ ५२॥
जगाद गणनाथः स ऋषभं भक्तमुत्तमम् ।
शिवशिष्यं शिवप्रज्ञं साक्षाद्विष्णुं सनातनम् ॥ ५३॥
गणेश उवाच ।
मदीया भक्तिरत्यन्तं भविष्यत्यचलानघ ।
स्तोत्रं त्वया कृतं मे तु शान्तिदं प्रभविष्यति ॥ ५४॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।
श्रवणान्नात्र सन्देहो भावपूर्णं मतं मम ॥ ५५॥
इत्युक्त्वान्तर्दधे देवो गणेशो गणवल्लभः ।
ऋषभश्च सदा शान्तो योगी गाणेशतां गतः ॥ ५६॥
इदं चरित्रं मुख्यं वै यः शृणोति नरोत्तमः ।
ऋषभस्य महापुण्यं पठेद्वा तस्य सर्वदम् ॥ ५७॥
भविष्यति न सन्देहो ब्रह्मभूयप्रदायकम् ।
शान्तिदं शान्तचित्तेभ्यः कथितं भक्तिसंयुतम् ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः ॥ २.१६
(Page खं. २ अ. १७ पान ३८)
२.१७ पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ऋषभेण कृता चर्या नानायोगप्रकाशिनी ।
आदौ तां भूमिपो दृष्ट्वा जगृहेऽर्हद्गृहे स्थितः ॥ १॥
दुर्बुद्धिः स तु तं भ्रष्टः कर्ममार्गं विमुच्य वै ।
पशुवद्धर्महीनांश्च कारयामास मानवान् ॥ २॥
जैनमागः समुत्पन्नस्तदादिश्च प्रजापते ।
भरतेन स सञ्च्छन्नो कर्ममार्गानुसारिणा ॥ ३॥
स एव कलिकाले वै भविष्यति गृहे गृहे ।
नरास्तं सङ्ग्रहीष्यन्ति कलिदोषेण संयुताः ॥ ४॥
ऋषभेण गृहं त्यक्त्वा धृतः संन्यासिना महान् ।
गृहस्थैः सन्धृतो मार्गो नरकप्रद उच्यते ॥ ५॥
ऋषभस्याग्रजः पुत्रो भरतो धर्मतत्परः ।
राज्यं चकार धर्मेण रञ्जयन् सकलाः प्रजाः ॥ ६॥
पुत्रे राज्यं समर्प्याऽसौ वनं यातो महायशाः ।
तत्र देहं क्रमेणैव तपसा शोषयन् स्थितः ॥ ७॥
शालिग्रामाश्रमे तिष्ठन्विष्णुध्यानपरायणः ।
तताप तप उग्रं स राजा परमधर्मवित् ॥ ८॥
एकदा स नदीतीरे संस्थितस्तर्पयन् पितॄन् ।
अकस्मात्सिंहसन्नादो बभूव भयदायकः ॥ ९॥
तं श्रुत्वा हरिणी तत्रान्तर्वत्नी सहसा स्वनम् ।
उत्पपात नदीं तां वै भयेन च पलायत ॥ १०॥
उत्पतन्त्या नदीतोये गर्भस्तस्याः पपात ह ।
साऽपि दूरे ययौ दक्ष मृता दुःखेन तत्क्षणात् ॥ ११॥
भरतेन मृगो बालो जलस्थः सन्धृतोऽभवत् ।
करुणायुतचित्तेन पालितश्च स यत्नतः ॥ १२॥
ततो मृगशिशौ तस्य प्रीतिर्जाता महात्मनः ।
लालयामास भावेन खेलयामास भूमिपः ॥ १३॥
क्रमेण प्रगतं सर्वं कर्म तस्य तपोमयम् ।
मृगे चासक्तचित्तस्य सङ्गदोषमपश्यतः ॥ १४॥
एकस्मिन् दिवसे सोऽपि मृगो मृगसमन्वितः ।
ययौ वनान्तरे कुत्र न ज्ञातः साधुनाऽमुना ॥ १५॥
भरतस्तं मृगं तत्र न ददर्श यदा प्रभो ।
तदा दुःखसमायुक्तो बभ्राम स वने वने ॥ १६॥
न ददर्श मृगं कुत्र विललाप महीपतिः ।
नित्यं शोकसमायुक्तः कालेन स ममार च ॥ १७॥
मरणे स मृगस्तेन सन्दृष्टः स्वसमीपगः ।
बभूव मृगयोनौ स सङ्गदोषप्रभावतः ॥ १८॥
तत्र पूर्वतपोभिश्च पूर्वजातिस्मरोऽभवत् ।
ज्ञानयुक्तः स्वयं सङ्गात्स भीतो विचचार ह ॥ १९॥
मृगसङ्गं परित्यज्य ययौ पूर्वाश्रमे ततः ।
तत्राहिंसासमायुक्तो द्वन्द्वभावपराङ्मुखः ॥ २०॥
शुष्कं तृणादिकं भक्षन् सोऽस्मरद्विष्णुमव्ययम् ।
तीर्थस्नानं तदा कुर्वन् साधुदर्शनलालसः ॥ २१॥
एकदा वनमध्ये स मृगो बभ्राम लीलया ।
अपश्यत्पूर्वपुण्येन पुलहाश्रममुत्तमम् ॥ २२॥
मुनीश्वरास्तत्र केचिदवसंस्तत्परायणाः ।
महाभागास्तपोयुक्ता गणेशभजने रताः ॥ २३॥
तत्राऽसौ मृगजातिस्थो भरतो मुनिसन्न्निधौ ।
वासं चकार संहृष्टः साधुसङ्गपरायणः ॥ २४॥
एकदा ब्रह्मदेवोऽथ जगाम पुलहाश्रमम् ।
तं दृष्ट्वा पुलहाद्यास्ते प्रणेमुस्तं पितामहम् ॥ २५॥
(Page खं. २ अ. १७ पान ३९)
तं सम्पूज्य महाभक्त्या पुलहः सर्वसंयुतः ।
तोषयित्वा स्वयं देवं पादसंवाहने स्थितः ॥ २६॥
परिपप्रच्छ तं स्तुत्वा पुलहो भावसंयुतः ।
आदिदेवं महाभागं गाणपत्यं स्वभावतः ॥ २७॥
पुलह उवाच ।
तात दुःखयुताः सर्वे जन्तवः केन भोगिनः ।
मोक्षिणो ब्रह्मभूताश्च जायन्ते तद्वदस्व मे ॥ २८॥
मुद्गल उवाच ।
पुलहस्य वचः श्रुत्वा प्रभुर्धाता तमब्रवीत् ।
पुत्रं विनयसंयुक्तं कृतप्राञ्जलिमास्थितम् ॥ २९॥
ब्रह्मोवाच ।
शृणु पुत्र प्रवक्ष्यामि यत्पृष्टं मे त्वया परम् ।
तत्सर्वं सर्वपापघ्नं शान्तिमार्गप्रकाशकम् ॥ ३०॥
विघ्नराजमनादृत्य नरा दुःखसमन्विताः ।
जायन्ते सर्वलोकेषु विघ्नयुक्ता भयातुराः ॥ ३१॥
यद् यद् दुःखकरं तत्तद्विघ्नरूपं न संशयः ।
नरकादि महाघोरं विकर्मफलदं मतम् ॥ ३२॥
कर्मयुक्तं च सर्वं तत्स्वर्गभोगप्रदं मतम् ।
तदेव दुःखरूपं त्वं पुत्र जानीहि निश्चितम् ॥ ३३॥
स्वर्गेषु द्वन्द्वभावश्च विद्यते नात्र संशयः ।
स्त्रीपुंयुक्तं तथा विघ्नं मोहदं पश्य तत् स्थितम् ॥ ३४॥
दैत्यादिभ्यो भयैर्युक्ता देवास्तत्र वसन्ति ते ।
भयहीनाश्च तान् हत्वा लये मृत्युभयप्रदम् ॥ ३५॥
उत्पत्तिनाशसंयुक्तं ब्रह्माण्डं सकलं मतम् ।
त्रिगुणादि व्यथायुक्तं विघ्नेन ग्रसितं स्मृतम् ॥ ३६॥
अकर्मणा नरो मोक्षं लभते नात्र संशयः ।
स एव विघ्नसंयुक्तो मोक्षश्च शृणु तं सुत ॥ ३७॥
देही देहैश्चतुर्भिश्च मोहितो बन्धनं गतः ।
स एव साधनं कृत्वा बन्धहीनः प्रजायते ॥ ३८॥
मोहेन युक्तो हीनोऽयं देही सर्वत्र सम्मतः ।
तदेव विघ्नरूपं च तत्र प्राप्तं महामते ॥ ३९॥
देहदेहिमये योगे ब्रह्म तत्कल्पनात्मकम् ।
विकल्पेन द्विधाभूतं स्वत उत्थानसंज्ञकम् ॥ ४०॥
निर्विकल्पेन योगेन स्वमहिम्नि स्थितं भवेत् ।
तदेव विघ्नसंयुक्तं विकल्पयुतहीनतः ॥ ४१॥
साङ्ख्यं ब्रह्मात्मनिष्ठं यत्तत्र बाधो न विद्यते ।
अस्वात्मनिष्ठमन्यच्चेत्तदा स्वात्ममयं भवेत् ॥ ४२॥
स्वात्मनिष्ठं धृतं येन तस्मादस्वात्मनिष्ठकम् ।
समुत्पन्नं महाभाग न कृतं त्वपि पुत्रक ॥ ४३॥
तदेव विघ्नरूपं चाप्यपरोत्थानभावतः ।
साङ्ख्यं ब्रह्म न सन्देहो बीजमुत्थानधारकम् ॥ ४४॥
सबीजं तद्विनिर्बीजं तदेव भवति स्वयम् ।
अतो योगिभिरत्यन्तं मानितं न कदाचन ॥ ४५॥
स्वानन्दं ब्रह्म यत्प्रोक्तं समाधे रूपधारकम् ।
तत्र स्वकीयसंयोगस्तदाकारेण जायते ॥ ४६॥
सर्वाभेदस्वरूपेण संयोगात्मक उच्यते ।
स्वसंवेद्यात्परं नास्ति संयोगाभेददायकम् ॥ ४७॥
तदेव योगिभिस्तस्मात्कथितं विघ्नसंयुतम् ।
तस्माज्जातमिदं तत्र योगेनाभेदतां गतम् ॥ ४८॥
अन्वयात्मकदोषेण विघ्नरूपं प्रकाशितम् ।
अतो न मान्यतां प्राप्तं शान्तिमार्गेषु सर्वदा ॥ ४९॥
ततो योगस्वरूपं यत्सदा भिन्नं प्रकीर्तितम् ।
न तस्य कस्यचिद्योगस्तत्र कुत्रापि नो भवेत् ॥ ५०॥
ब्रह्मभिन्नमयोगाख्यमतो विघ्नसमाकुलम् ।
व्यतिरेकात्मको दोषो ह्यशान्तिकर उच्यते ॥ ५१॥
(Page खं. २ अ. १८ पान ४०)
संयोगित्वमयोगत्वं त्यक्त्वा शान्तिमवाप्स्यसि ।
तत्र विघ्नविहीनत्वं प्राप्तं पुत्र न संशयः ॥ ५२॥
चित्तभूमिस्वरूपं यत् पञ्चधा त्यज विप्रप ।
योगाभेदस्वरूपस्त्वं भविष्यसि न संशयः ॥ ५३॥
पञ्चधा चित्तरूपा वै बुद्धिर्माया प्रकीर्तिता ।
पञ्चधैश्वर्यमोहेषु मोहदा सिद्धिरुच्यते ॥ ५४॥
तत्र बिम्बं गणेशस्य पतितं योगरूपतः ।
द्वैधं मायायुतं प्रोक्तं बिम्बभावं त्यज प्रभो ॥ ५५॥
आदौ पुरा मया पुत्र कथितं कुलदैवतम् ।
गणेशरूपमस्माकं त्वयाराधितमादरात् ॥ ५६॥
तेन त्वं पात्रभूतश्च योगशान्तेर्महामुने ।
अधुना कथितं पुत्र पूर्णशान्तिस्वरूपकम् ॥ ५७॥
शान्तियोगेन नित्यं त्वं तं भजस्व विधानतः ।
भविताऽसि गणेशानस्तदा वै नात्र संशयः ॥ ५८॥
एवमुक्त्वा स्वयं ब्रह्मांऽतर्दधे स प्रजापते ।
पुलहस्तत्र योगं त्वसाधयत्तपसि स्थितः ॥ ५९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥ २.१७
२.१८ भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
क्रमेण योगशान्तिं च प्राप्तोऽसौ पुलहः स्वयम् ।
नित्यं गणेशमूर्तिं प्रापूजयत् भक्तिसंयुतः ॥ १॥
ध्याननिष्ठः सदा योगी तमेवाचिन्तयत् प्रभुम् ।
ततः कियति काले तं गणेशानो ययौ मुनिम् ॥ २॥
न बुबोध स तं विप्रो ध्याननिष्ठतया यदा ।
तदा हृदि स्थितो ढुण्ढिर्गणेशेन प्रलोपितः ॥ ३॥
अन्तर्हितं हृदिस्थं तं गणेशं न ददशे ह ।
तदा भ्रान्त इवापश्यद्ददर्श गणपं बहिः ॥ ४॥
उत्थाय सहसा विप्रस्तं ननाम कृताञ्जलिः ।
विधिवत् पूजयामास विनायकमनामयम् ॥ ५॥
पूजयित्वा नमस्कृत्य तं तुष्टाव कृताञ्जलिः ।
सरोमाञ्चशरीरः सन् हर्षगद्गदया गिरा ॥ ६॥
पुलह उवाच ।
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
विघ्नदात्रे ह्यभक्तानां गणेशाय नमो नमः ॥ ७॥
ब्रह्मणे ब्रह्मरूपाय निराकाराय ते नमः ।
साक्षिणे सर्वसंस्थायानादिसिद्धाय ते नमः ॥ ८॥
अनामयाय देवायाऽप्रतर्क्याय महौजसे ।
वक्रतुण्डाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ९॥
स्वानन्दवासिने तुभ्यं भक्तसंरक्षकाय च ।
योगानां पतये चैव योगदायिन्नमो नमः ॥ १०॥
शान्ताय शान्तरूपाय शान्तीनां पतये नमः ।
भक्तेभ्यः शान्तिदात्रे च योगशान्ताय ते नमः ॥ ११॥
नानावताररूपाय जगदाधारमूर्तये ।
सुरासुराणामीशाय सर्वगाय नमो नमः ॥ १२॥
सर्ववन्द्याय वै तुभ्यं सर्वादौ संस्थिताय च ।
(Page खं. २ अ. १८ पान ४१)
सर्वान्त एकरूपाय मध्ये नानास्वरूपिणे ॥ १३॥
आदिमध्यान्तहीनाय सृष्टिस्थित्यन्तकारिणे ।
अनन्तोदरसंस्थाय लम्बोदर नमोऽस्तु ते ॥ १४॥
गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः ।
गजकर्णाय पूर्णाय गजानन नमोऽस्तु ते ॥ १५॥
मूषकध्वजरूपाय मूषकारूढरूपिणे ।
पाशाङ्कुशधरायैव स्तुताय च विभूतिभिः ॥ १६॥
चतुर्भुजधरायैव चतुर्वर्गमयाय च ।
ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥ १७॥
यं वेदवादिनः स्तोतुं वेदाः साङ्गाश्च योगिनः ।
शिवविष्णुमुखा देवा न समर्था भवन्ति वै ॥ १८॥
तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् ।
अतो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा ॥ १९॥
वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् ।
तव भक्तिं दृढां ढुण्ढे व्यभिचारविवर्जिताम् ॥ २०॥
एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः ।
तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ २१॥
गणेश उवाच ।
मदीया सुदृढा भक्तिर्व्यभिचारविवर्जिता ।
भविष्यति महायोगिन् तव चानन्ददायिका ॥ २२॥
यदा मे स्मरणं त्वं वै करिष्यसि महामते ।
तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ २३॥
भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् ।
भुक्तिमुक्तिप्रदं प्रोक्तं शान्तियोगप्रदायकम् ॥ २४॥
यः पठिष्यति वै मर्त्यः शृणुयात्सर्वसौख्यभाक् ।
भविष्यति न सन्देहो यथा त्वं स तथा भवेत ॥ २५॥
मुद्गल उवाच ।
एवमुक्त्वा गणाधीशस्तत्रैवान्तर्दधे प्रभुः ।
पुलहस्तत्र सन्तस्थावभजत्तं गणाधिपम् ॥ २६॥
मृगरूपधरस्तत्र भरतः पृथिवीपतिः ।
संस्थितस्तत्र शुश्राव पूर्णं ज्ञानं विधानतः ॥ २७॥
ब्रह्मणा कथितं यच्च पुलहाय सुधीमते ।
तदेव तेन भूपेन धृतं स्वहृदि सर्वदा ॥ २८॥
मनसि ध्यानसंयुक्तो बभूव मृगदेहजः ।
गणेशस्य सदा हृष्टस्तत्र वासं चकार सः ॥ २९॥
ततस्तेन च सङ्गीतं तच्छृणुष्व प्रजापते ।
अहो विघ्नो महाघोरो मया प्राप्तः सुदुर्जयः ॥ ३०॥
राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं हरिं स्मरन् ।
तत्रापि मृगसङ्गेन सञ्जातो मृगरूपधृक् ॥ ३१॥
विष्णुमुख्यामरेशाना विघ्नयुक्ता न संशयः ।
तत्र कोऽहं मनुष्यो वै जयन् वै विनमुल्बणम् ॥ ३२॥
विघ्नराजप्रसादेन विघ्नं निघ्नन्ति दुर्जयम् ।
शिवविष्ण्वादयः सर्वे जन्तवश्च तथा परे ॥ ३३॥
धन्या भक्तिर्मत्कृता या वैष्णवी परमाद्भुता ।
यया संस्कारसंयुक्तं सम्प्राप्तं ज्ञानमुत्तमम् ॥ ३४॥
गाणपत्यो महायोगी दृष्टो वै पुलहो मया ।
अहो भाग्यमहो भाग्यं मदीयं परमं मतम् ॥ ३५॥
येनाहं गाणपत्यानां सङ्गे तिष्ठामि नित्यशः ।
विघ्नहीनः स्वभावेन भजामि गणनायकम् ॥ ३६॥
एवं गणेशभक्त्या वै संयुतो मृगसत्तमः ।
कालेन गणपं ध्यात्वा देहत्यागं चकार ह ॥ ३७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः ॥ २.१८
२.१९ चौरवधो नामैकोनविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
आङ्गिरसकुले विप्रो बभूव मुनिसत्तमः ।
ततः पुत्रोऽभवत्तस्य भरतो नृपसत्तमः ॥ १॥
तत्रापि सङ्गभीतोऽसौ ज्ञानयुक्तो महामुनिः ।
गणेशं मनसा ध्यायन् संस्थितो मुनिसन्निधौ ॥ २॥
तत्र वेदादिषु प्रोक्तं गणेशस्य महात्मनः ।
स्तवनं संश्रुतं ज्ञानं तेन पूर्वं दृढं कृतम् ॥ ३॥
जडवत्सङ्गसम्भीतो बभूव ब्राह्मणोत्तमः ।
चातुर्यं सकलं तेन गोपितं सर्वसन्निधौ ॥ ४॥
विवाहादिभयात् सर्वं जडत्वं सम्प्रकाशितम् ।
मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता ॥ ५॥
तस्योपवीतदानं स चकाराङ्गिरसो मुनिः ।
पश्चात् सन्ध्यादिकं कर्म शौचाचारमशिक्षयत् ॥ ६॥
पित्रा कथितमत्यन्तं न जग्राह महामतिः ।
अन्यथा स चकारापि ताडितो यदि योगिपः ॥ ७॥
हस्तं धृत्वा पिता तस्य कारयामास वैदिकम् ।
सर्वमाचमनाद्यं च तथा तेन कृतं किल ॥ ८॥
पुनः पित्रा च सम्पृष्टं न सस्मार तदा स्वयम् ।
जडवत्सर्व आचारस्त्यक्तस्तेन महात्मना ॥ ९॥
ततस्तस्य कृतं नाम सर्वैर्लोकैः प्रजापते ।
जड इत्येव सततं कथ्यते यत्र तत्र तैः ॥ १०॥
तत्रादरापमानादि तिरस्कारादिकं महत् ।
सम्बभूव च तेनापि जडवत्त्यक्तमेव च ॥ ११॥
लोकाः सर्वेऽवदंस्तत्र ज्ञानमस्य न निश्चितम् ।
निन्दास्तुत्यादिकं सर्वं महामूर्खेण सह्यते ॥ १२॥
जडत्वादिकदोषेण विवाहादिकमस्य च ।
न कृतं जनकेनैव तेनानन्दमवाप सः ॥ १३॥
ततः कालेन निधनं गतस्तस्य पिता मुनिः ।
माता सती गुणयुता सहगा सम्बभूव ह ॥ १४॥
मातुः सपत्नीजाताश्च भ्रातरो नव चाऽभवन् ।
तेषामधीनतां यातो द्विजोऽसौ शान्तियोगधृक् ॥ १५॥
भ्रातृपत्न्यो मदोत्सिक्ताश्चक्रुः स्नेहं न चाल्पकम् ।
उच्छिष्टं कुत्सितं चान्नं ज्वलितं तद्ददुस्तुषम् ॥ १६॥
वस्त्राद्यैर्भ्रातरः सर्वे भाषणैः सत्कृतं न तम् ।
चक्रुः स्नेहं परित्यज्य कुलपांसुं वदन्ति ते ॥ १७॥
तथाप्यमृतवत्सर्वं कुत्सितं क्लिन्नदग्धकम् ।
अन्नं बभक्ष योगीशश्चीरवस्त्रैः समावृतः ॥ १८॥
तदपि भातृजायास्ता अन्नं तस्मै च नो ददुः ।
द्वित्रिवासरमध्ये स एकभुक् चाऽभवन्मुनिः ॥ १९॥
क्षुधया पीडितो योगी गाणपत्यः प्रजापते ।
भ्रमन्नन्नार्थमत्यन्तं गेहे गेहे विचक्षणः ॥ २०॥
तत्र लोकैः स्वकार्यार्थे गृहीतो यत्र तत्र सः ।
चकार सकलं कार्यं तेषामन्नार्थमादरात् ॥ २१॥
ततस्ते हर्षिताः सर्वे वस्त्रान्नादिकमादरात् ।
ददुः सोऽपि प्रसन्नात्मा कर्मकारोऽभवत् स्वयम् ॥ २२॥
ततस्तैर्भ्रातृभिर्दृष्टं तमानीय स्वके गृहे ।
स्वकर्मकारिणं चक्रुर्भ्रातरो हर्षसंयुताः ॥ २३॥
तदपि भ्रातृजायास्ता कुत्सितान्नं ददुस्तुषम् ।
सुधासमं बभक्षान्नं सोऽपि भावं प्रदर्शयन् ॥ २४॥
कदाचित्पक्वशालीनं क्षेत्रेषु स्थापितो मुनिः ।
भ्रातृभी रक्षणार्थं स रात्रौ वै दिवसे प्रभो ॥ २५॥
तत्राऽयं संस्थितो विद्वांस्तत्तथैव चकार च ।
(Page खं. २ अ. २० पान ४३)
अन्नार्थं देहभावज्ञः सुखदुःखादिके समः ॥ २६॥
तत्र चित्रमभूद्यत्तु तत् शृणुष्व प्रजापते ।
चौराणां स्वामिना देवी भद्रकालीति संस्तुता ॥ २७॥
लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि ।
तदा पुरुषरूपं ते दास्यामि पशुमुत्तमम् ॥ २८॥
द्रव्यं तस्य तथा प्राप्तं तेन सम्प्रेषिताः स्वकाः ।
चौरा रात्रौ श्रमैर्युक्तास्तत्राजग्मुर्यदृच्छया ॥ २९॥
तं गृहीत्वा बलात्सर्वे जग्मुः स्थानं स्वकं खलाः ।
योगिना देहप्रारब्धं तदा ज्ञातं च तादृशम् ॥ ३०॥
तत्र चौराधिपेनैव सत्कृतः पूजनादिभिः ।
भोजनं स चकारापि स्वादु विपेन्द्रसत्तमः ॥ ३१॥
तं पुरस्कृत्य वादित्रैर्निनदद्भिर्ययौ खलः ।
देवीसन्निधिमानन्दात् पूजितं परमादरात् ॥ ३२॥
पूजयित्वा महाकाली ततस्तं मुनिपुङ्गवम् ।
पुरस्कृत्यासिना हन्तुं नग्नं खड्गं चकार सः ॥ ३३॥
मरणं देहभावस्य दृष्ट्वाऽसौ योगिसत्तमः ।
न किञ्चित् क्षुब्धवांस्तत्र सस्मार गणपं हृदि ॥ ३४॥
अद्यैव पतितो देहोऽथवाऽस्तु चिरजीविकः ।
तत्र किं कारणं मे वै गजानन नमोऽस्तु ते ॥ ३५॥
एतस्मिन्नन्तरे तत्र देवी कोपसमन्विता ।
गाणपत्या महाकाली निःसृता मूर्तिमध्यतः ॥ ३६॥
खड्गं चौराधिपस्याऽपि हस्ताज्जग्राह लीलया ।
तेन तस्य शिरश्छित्वा पपौ रुधिरमुत्तमम् ॥ ३७॥
अन्ये समागताश्चौरास्तेऽपि खड्गेन नाशिताः ।
चिक्रीड स्वगणैर्देवी गणेशस्तवतत्परा ॥ ३८॥
तां प्रणम्य ययौ दक्ष बभ्राम परितस्तु सः ।
स्वेच्छाचारी महायोगी भिक्षाशी गणपं स्मरन् ॥ ३९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते चौरवधो नामैकोनविंशोऽध्यायः ॥ २.१९
२.२० जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
सिन्धुदेशाधिपो राजा रहूगण इति स्मृतः ।
पूर्वसंस्कारयोगेन ह्यन्तर्निष्ठो बभूव ह ॥ १॥
राजा शान्त्यर्थमत्यन्तं यत्नवान प्राप तां न सः ।
ययौ गङ्गासमीपस्थं कपिलाश्रममादरात् ॥ २॥
गौतम्या दक्षिणे कूले श्रुतवान् द्विजपुङ्गवात् ।
निर्जगाम पुराद्राजा शिबिकायां समास्थितः ॥ ३॥
गच्छन्मार्गे त्वरायुक्तः श्रान्तवाहो महीपतिः ।
धृत्वाऽन्यान्योजयामासुर्वाहार्थं स्वजनास्तदा ॥ ४॥
तत्र दैवप्रसङ्गेन समालब्धं महामुनिम् ।
आङ्गिरसवरं तं ते चक्रुवार्हकमञ्जसा ॥ ५॥
ज्ञात्वा देहं महायोगी प्रारब्धाधीनमादरात् ।
वाहको नृपतेर्दक्ष बभूव विगतज्वरः ॥ ६॥
अहिंसापरमो योगी मार्गे जन्तुमवेक्ष्य सः ।
स्वपादक्षेपणं तत्र चकार प्राणिवर्जिते ॥ ७॥
तेन सर्वे बभूवुश्च वाहका मन्दगामिनः ।
दोलायिता च शिबिस्का तया राजा सुदुःखितः ॥ ८॥
(Page खं. २ अ. २० पान ४४)
ततः क्रोधसमाविष्टो रहूगण उवाच तान् ।
सम्यक् च शिबिकां वाहा वहध्वं सुप्रयत्नतः ॥ ९॥
ततो भीताश्च ते सर्व तमूचुरधुना नृप ।
आनीतः सुदुरात्मायं यथा चलति मद्यपः ॥ १०॥
ततो राजा महात्मानमुवाच शठ किं त्वया ।
उन्मत्तवद्गतिर्दुष्टा क्रियते मम सन्निधौ ॥ ११॥
ततो भाविबलेनासावाङ्गिरस उवाच ह ।
ज्ञात्वा तं योगमिच्छन्तं पात्रभूतमनादरात् ॥ १२॥
जडभरत उवाच ।
मायामयमिदं सर्वं भ्रान्तिरूपमसत्यकम् ।
तत्र राजजनानां वै जनः कुत्र प्रदृश्यते ॥ १३॥
वयं द्वन्द्वं प्रेषयित्वा समभावेन संस्थिताः ।
शिक्षाकर्ता न भविताऽस्माकं राजा महाबलः ॥ १४॥
तेन किं योगमार्गं वै त्यक्त्वा तिष्ठेम साम्प्रतम् ।
तदधीना भवामः किमज्ञानेन वदत्ययम् ॥ १५॥
इत्युक्त्वा मौनमास्थाय शिबिकां पूर्ववद्वहन् ।
आङ्गिरसो महायोगी चचाल गणपं भजन् ॥ १६॥
राजा श्रुतं महावाक्यं योगग्रन्थितमुत्तमम् ।
भयभीतश्च तेनासावुत्पपात महीतले ॥ १७॥
दृष्ट्वा तं मलिनं विप्रं यज्ञोपवीतसंयुतम् ।
बिभ्राणं चीरवसनं ब्रह्मतेजः सनातनम् ॥ १८॥
प्रणनाम स साष्टाङ्गं कृताञ्जलिपुरः स्थितः ।
जगाद भयभीतो वै रहूगणः स धर्मवित् ॥ १९॥
रहूगण उवाच ।
क्षमापराधमतुलं मम ब्रह्मन् दयानिधे ।
अज्ञानेन कृतं कर्म किं विप्रोऽसि वदस्व माम् ॥ २०॥
अवधूता महात्मानश्चरन्ति यत्र कुत्र वै ।
तथा त्वमपि मे भासि यज्ञोपवीतधारक ॥ २१॥
कपिलः किं नारदश्चाङ्गिरा पुलहकः क्रतुः ।
दत्तो वा याज्ञवल्क्यश्च वद मां करुणानिधे ॥ २२॥
अहं बिभेमि विपेन्द्र ब्राह्मणानामधर्षणात् ।
न ब्राह्मणसमं किञ्चिद्दैवतं सचराचरे ॥ २३॥
साक्षात् परमेश्वरस्याऽपि तनवो ब्राह्मणा मताः ।
कर्माधाराश्च ज्ञानानामाधारा ब्रह्मधारकाः ॥ २४॥
ब्राह्मणस्य मुखेनैव यच्छ्रुतं तत्समागतम् ।
देवस्थानेषु देवानामुदरे नात्र संशयः ॥ २५॥
ब्राह्मणेभ्यश्च यद्दत्तं तदक्षयपदप्रदम् ।
उद्धाराय जनानां वै ब्राह्मणाः सम्मताः किल ॥ २६॥
मन्त्राधीना देवगणा मन्त्रा विप्राधीना मताः ।
देवानां जीवनं सर्वं द्विजाधीनं च तेन वै ॥ २७॥
मन्त्रहीनं च यत्कर्म निष्फलं जायते किल ।
कर्माधीनं जगत् सर्वमतो ब्राह्मणमूलकम् ॥ २८॥
कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठा द्विजोत्तमाः ।
योगिनश्च भवन्तीह तारका जगति स्थिताः ॥ २९॥
सर्वेषां गुरवो विप्रा ज्ञानदास्तेन सम्मताः ।
साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा नात्र संशयः ॥ ३०॥
तेषां हेलनमात्रेण पतन्ति शिवमुख्यकाः ।
सेवनेन च तेषां वै सर्वं स लभते जनः ॥ ३१॥
ब्राह्मणानां च शापेन विष्णुमुख्या सुरेश्वराः ।
पतिता ह्यवतारेषु पुनः संस्थापिता द्विजैः ॥ ३२॥
अतो बिभेमि विप्रेश वद कस्त्वं महामते ।
विष्णुशिवादिदेवेभ्यस्तथाऽहं न बिभेमि वै ॥ ३३॥
एवमुक्त्वा पुनः पादौ गृह्य तं प्रणनाम सः ।
(Page खं. २ अ. २१ पान ४५)
पादपद्मे शिरः स्थाप्य रुरोद भयविह्वलः ॥ ३४॥
ततोऽसौ करुणाविष्टो जडभरतस्तमब्रवीत् ।
उत्थाप्य नृपशार्दूलं प्रश्रयाऽवनतं वचः ॥ ३५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः ॥ २.२०
२.२१ रहूगणसिद्धिप्राप्तिवर्णनं नामैकविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
जडभरत उवाच ।
आह माङ्गिरसो नाम जडभरतः प्रकथ्यते ।
स्वायम्भुवश्च भरतोऽधुना जडश्च तेन वै ॥ १॥
मा चिन्तां कुरु राजर्षे ह्यज्ञानेन त्वया कृतम् ।
हेलनं मम देहस्य पापदं न भविष्यति ॥ २॥
गच्छ राजन्यथेच्छ त्वं मत्तो वै न भयं तव ।
गमिष्यामि स्वतन्त्रोऽहं प्रारब्धेन नियन्त्रितः ॥ ३॥
मुद्गल उवाच ।
तस्य योगीन्द्रमुख्यस्य श्रुत्वा वचनमुत्तमम् ।
रहूगण उवाचाथ तं प्रणम्य महायशाः ॥ ४॥
रहूगण उवाच ।
धन्यं कुलं मदीयं वै पितरौ ज्ञानमाश्रमः ।
तपो विद्या यशो दानं तवाङ्घ्रियुगदर्शनात् ॥ ५॥
अहं सिन्धुमहीपालो रहूगण इति स्मृतः ।
राज्यादिविषयं त्यक्त्वा निःसृतो मुनिसत्तम ॥ ६॥
शान्त्यर्थं कपिलं यामि गौतमीतीरवासिनम् ।
त्वं साक्षाद् ब्रह्मरूपश्च दैवेन दर्शनं गतः ॥ ७॥
मां शिष्यं तारय मुने योगबोधेन सत्तम ।
साक्षात् शान्तिं वद विभो यया शान्तो भवाम्यहम् ॥ ८॥
तस्य तद्वचनं श्रुत्वा कृपया परया युतः ।
जगाद तं नृपेन्द्रं स आङ्गिरसो महाद्युतिः ॥ ९॥
शृणु राजन् त्वया पृष्टं वेदगुह्यं च दुर्गमम् ।
कथयामि तथापि त्वां योगशान्तिकरं परम् ॥ १०॥
देहश्चतुर्विधः प्रोक्तस्तत्र देही चतुर्विधः ।
भ्रान्त्या भिन्नत्वमाश्रित्यैकोऽपि भाति तदात्मकः ॥ ११॥
देहानां ब्रह्म यत्प्रोक्तं बिन्दुमात्रं च दृश्यते ।
देहीनां ब्रह्मरूपं वै सोऽहं मात्रात्मकं किल ॥ १२॥
तयोः संयोग एवाऽसौ बोधात्मक उदाहृतः ।
स्वतोत्थानमिदं ब्रह्म विकल्पाद्विविधं मतम् ॥ १३॥
बोधनाशे महीपाल उत्थानं जायते न च ।
साङ्ख्यरूपं हि तद्ब्रह्म केवलं स्वसुखे रतम् ॥ १४॥
यत्र परसुखं नास्ति तत्र वै स्वसुखं कथम् ।
ततः परत उत्थानयुक्तं ब्रह्म प्रकीर्तितम् ॥ १५॥
तत्रोत्थानस्य बीजं यत्स्थितं भिन्नात्मकं परम् ।
स्वसौख्यनिष्ठरूपं हि बोधहीनप्रभावतः ॥ १६॥
स्वतः परत उत्थानहीनं स्वानन्दवाचकम् ।
संयोगाभेदरूपं वै जानीहि नृपसत्तम ॥ १७॥
स्वानन्द पञ्चभेदं च स्वयं सर्वत्र संस्थितम् ।
सत्यासत्यसमं चेति नेतिरूपं चतुर्थकम् ॥ १८॥
स्वतः परत उत्थानमेतन्नाम प्रकीर्तितम् ।
तयोरनुभवो यः स्यात्तस्य रूपं तदेव च ॥ १९॥
(Page खं. २ अ. २२ पान ४६)
ताभ्यां नानाविधं ब्रह्मान्नादि वेदे प्रकीर्तितम् ।
जगन्नानाविधं तद्वज्जानीहि नृपसत्तम ॥ २०॥
नामरूपमयं सर्वमसत्यं परिकीर्तितम् ।
शाक्तं ब्रह्म समाख्यातं वेदे वै वेदवादिभिः ॥ २१॥
नामरूपात्मकं यत्तत्सदा खण्डमयं स्मृतम् ।
अमृतं सौरमात्मा तद्ब्रह्म सर्वप्रकाशकम् ॥ २२॥
तयोरभेदकर्ताऽसौ विष्णुरानन्दसंज्ञितः ।
द्वयोः समं च तद्ब्रह्म भावाभावमयं परम् ॥ २३॥
त्रिभिर्हीनं तुरीयं यन्नेति कर्ता शिवः स्मृतः ।
अव्यक्तं मोहहीनं यत् स्वाधीनं ब्रह्म तन्मतम् ॥ २४॥
चतुर्णां चैव संयोगो यत्राभेदमयः स्मृतः ।
स एव स्वस्वरूपाख्यो मायायुक्तो विनायकः ॥ २५॥
संयोगनाशकारी चायोगः सर्वत्र समन्तः ।
निर्मायिको गणेशः स कथितो योगिभिर्नृप ॥ २६॥
अयोगे योगिनां राजन्निवृत्तिरुपजायते ।
स्वकीयभेदहीनत्वात्तद्ब्रह्मायोगसंज्ञकम् ॥ २७॥
अत एव स्वनाशाख्यनिवृत्या तच्च लभ्यते ।
मायया सर्वसंयोगे तद्धीनं ब्रह्म तत् स्मृतम् ॥ २८॥
अयोगश्चैव संयोगो योगे तौ न प्रपश्यति ।
तदेव गणनाथो हि योगशान्तिमयः स्मृतः ॥ २९॥
मायायुक्तश्च मायावी मायाहीनश्च केवलः ।
तदेव भ्रान्तिमात्रं यत्त्यक्तव्यं योगिभिः सदा ॥ ३०॥
चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं महामते ।
मोहदं द्विविधं त्यक्त्वा शान्तिरूपो भविष्यसि ॥ ३१॥
एवमुक्त्वा महायोगी विरराम प्रजापते ।
सोऽपि तं प्रणनामाथ राज्यं त्यक्त्वा वनं ययौ ॥ ३२॥
एवं रहूगणो राजा साधयित्वा विधानतः ।
शान्तिं प्राप्तो महातेजा गाणपत्यो बभूव ह ॥ ३३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते रहूगणसिद्धिप्राप्तिवर्णनं नामैकविंशोऽध्यायः ॥ २.२१
२.२२ जडभरतचरितं नाम द्वाविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
तत आङ्गिरसो योगी विचचार महीतले ।
मयूरेशस्य स क्षेत्रं आययौ दैवयोगतः ॥ १॥
तत्र पूर्वावतारं च गणेशस्य महात्मनः ।
दृष्ट्वा ज्ञात्वा स्थितस्तं स ध्यायन्नेकत्र मूढवत् ॥ २॥
वर्षमात्रे गते तस्य दर्शनार्थं ययौ स्वयम् ।
गणेशो मूषकारूढः सिद्धिबुद्धिसमन्वितः ॥ ३॥
तं दृष्ट्वा प्रणनामादौ तुष्टाव प्राञ्जलिः प्रभुम् ।
रोमाञ्ची साश्रुनेत्रः स भक्तिभावनिमज्जितः ॥ ४॥
जडभरत उवाच ।
नमः शान्तिस्वरूपाय शान्तिदाय कृपालवे ।
विघ्नेशाय नमस्तुभ्यं हेरम्बाय नमो नमः ॥ ५॥
सिद्धेः पते च तद्दात्रे भक्तानां भयभञ्जन ।
भक्तिप्रियाय वै तुभ्यं भक्तभक्ताय ते नमः ॥ ६॥
(Page खं. २ अ. २२ पान ४७)
बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने ।
ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥ ७॥
मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च ।
स्वानन्दवासिने देव वक्रतुण्डाय ते नमः ॥ ८॥
नानाविहारयुक्तायानन्तरूपाय ते नमः ।
अमेयाय सदायोगशान्तिस्थाय नमो नमः ॥ ९॥
धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः ।
वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥ १०॥
मया किं ते कृतं देव दर्शनार्थं किमागतः ।
भक्त्या समं न किञ्चित्ते प्रियं ज्ञातं मयाधुना ॥ ११॥
भक्त्या त्वां हृदि सन्ध्यायन् संस्थितो जडवत्प्रभो ।
त्वमेव मोहितो भक्त्या मम सन्न्निधिगः कृतः ॥ १२॥
अहो भक्तिसमं किञ्चिन्नैव दृष्टं न च श्रुतम् ।
यया त्वं शान्तियोगस्थो मोहितः सहसाऽऽगतः ॥ १३॥
त्वदीयांशसमुत्पन्नं सकलं ब्रह्मनायक ।
किं ददामि गणेशान येन तुष्टो भविष्यसि ॥ १४॥
अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः ।
वरं देहि महाबाहो येन तृप्तो भवाम्यहम् ॥ १५॥
भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जिताम् ।
देहि नाथ दयासिन्धो नान्यद् याचे कदाचन ॥ १६॥
एवमुक्त्वा गणाध्यक्षं ननाम स पुनः पुनः ।
प्रेम्णा ननर्त योगीन्द्रस्तमुवाच गणाधिपः ॥ १७॥
गणेश उवाच ।
भविता सुदृढा भक्तिर्मम ते मुनिसत्तम ।
व्यभिचारविहीना ते न चाङ्गिरस संशयः ॥ १८॥
त्वया कृतमिदं स्तोत्रं मदीयं योगशान्तिदम् ।
भविष्यति महाभाग मम प्रीतिकरं परम् ॥ १९॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः ।
शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ॥ २०॥
एवमुक्वान्तर्दधेऽसौ गणनाथः प्रजापते ।
स मुनिर्भक्तिसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ २१॥
अन्ते गणेशरूपोऽसौ जातो योगीन्द्रसत्तमः ।
गुहा तत्र प्रसिद्धा वै वर्ततेऽद्य महामुनेः ॥ २२॥
गणेशोत्तरभागे च सम्मुखे क्रोशदूरकम् ।
स्थानमाङ्गिरसस्याऽपि भरतस्य जडात्मनः ॥ २३॥
कुर्वन्ति दर्शनं तस्य तत्र ये मानवादयः ।
तेषां मुक्तिर्भवेद्दक्ष शाश्वती नात्र संशयः ॥ २४॥
चरितं भरतस्येदं कथितं परमाद्भुतम् ।
शृणुयाद्यो नरो भक्त्या पठेद्वा भुक्तिमुक्तिदम् ॥ २५॥
एवमाद्याश्च राजानः प्रियव्रतकुलेऽभवन् ।
उत्पन्नाः सर्वधर्मज्ञा नानादेवपरायणाः ॥ २६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते जडभरतचरितं नाम द्वाविंशोऽध्यायः ॥ २.२२
(Page खं. २ अ. २३ पान ४८)
२.२३ ध्रुवचरित्रं नाम त्रयोविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
स्वायम्भुवमनोः पुत्र उत्तानपादसंज्ञितः ।
स राज्यं मध्यदेशस्य चक्रे वै धर्मसंयुतः ॥ १॥
तस्य भार्ये प्रविख्याते सुनीतिः सुरुचिस्तथा ।
सुनीत्यां च ध्रुवो जज्ञे सुरुच्यामुत्तमस्ततः ॥ २॥
सुरुच्या स्ववशं नीतो तया राजा विमोहितः ।
सुनीतिं मन्यते न स्म मनसाऽपि प्रजापते ॥ ३॥
एकदा ध्रुवपुत्रश्चाययौ राज्ञः समीपकम् ।
आरोढुमिच्छन्नुत्सङ्गे संस्थितस्तस्य सन्निधौ ॥ ४॥
तत्रावमानितस्तेन सुरुच्या दुष्टभावतः ।
ततो ध्रुवो वनं दक्ष जगाम क्रोधसंयुतः ॥ ५॥
मार्गे वै गच्छतस्तस्य नारदो दृष्टिमागतः ।
तं ननाम महाबुद्धिर्बालोऽयं धर्मधारकः ॥ ६॥
वृत्तान्तमखिलं ज्ञात्वा नारदेन महात्मना ।
उपदिष्टो महामन्त्रो विष्णोश्च द्वादशाक्षरः ॥ ७॥
नारदं स प्रणम्याऽऽदौ मथुरायां ययौ ततः ।
तपश्चकार तत्राऽसौ ध्यायन्विष्णुं सनातनम् ॥ ८॥
सहस्रवर्षमत्यन्तं तताप परमं तपः ।
प्रसन्नो भगवांस्तत्र तं ययौ भक्तिभावतः ॥ ९॥
ददौ राज्यमखण्डं वै पृथिव्याः परमाद्भुतम् ।
अन्ते स्वर्गस्य राज्यं च पदं विष्णोर्ध्रुवात्मकम् ॥ १०॥
ततः स्वगृहमागत्य ननाम पितरौ ध्रुवः ।
तं राजा मानयामास बहुलं तेजसा युतम् ॥ ११॥
कालेन तं ध्रुवं राजा चकार स नराधिपः ।
वनं ययौ महातेजास्तताप परमं तपः ॥ १२॥
तत्रागत्य च गाणेशो नारदस्तमुवाच सः ।
भेदाभेदादिहीनं त्वं गणेशं भज पार्थिव ॥ १३॥
शिवविष्ण्वादयो देवा योगिनः सनकादयः ।
वसिष्ठाद्या ऋषिगणा भजन्ते तं न संशयः ॥ १४॥
न गणेशं विना शान्तिर्लभ्यते नात्र संशयः ।
स्वायम्भुवादिभूपालैः सेवितो गणनायकः ॥ १५॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् ।
राजा मन्त्रप्रभावेण गाणपत्यो बभूव ह ॥ १६॥
मरणे गणनाथं वै सस्मार स नृपोत्तमः ।
सायुज्यं गणनाथस्य प्राप्तं तस्य महात्मनः ॥ १७॥
ध्रुवो राज्यं चकाराथ धर्मयुक्तो महीपतिः ।
जगाम सहसा तत्र नारदः करुणानिधिः ॥ १८॥
तं दृष्ट्वा प्रणनामाऽसौ पूजयामास भक्तितः ।
स्वगुरुं पूर्णभावेन कृताञ्जलिपुटः स्थितः ॥ १९॥
तमुवाच महायोगी नारदो दिव्यदर्शनः ।
स्वशिष्यं भक्तिसंयुक्तं दयया च दयानिधिः ॥ २०॥
नारद उवाच ।
शृणु ध्रुव वचो रम्यं विकुण्ठादागतोऽधुना ।
विष्णुना प्रेषितोऽहं वै तव हेतोर्महामते ॥ २१॥
मयूरेशस्य यत्क्षेत्रं भुवि ब्रह्ममयं परम् ।
तत्र गत्वा महायात्रां कुरु त्वं विधिवत्सुत ॥ २२॥
तेनाक्षयपदं ते वै भविष्यति मदीयकम् ।
अन्यथा विघ्नसंयुक्तः पतिष्यसि न संशयः ॥ २३॥
अन्यच्च कथितं तेन विष्णुना करुणावता ।
एकाक्षरं गणेशस्य महामन्त्रं जपेति वै ॥ २४॥
तेन मन्त्रप्रभावेण लये ब्रह्मदिनात्यये ।
लयं ध्रुवपदं गच्छेत्तदा त्वं शान्तिमेष्यसि ॥ २५॥
ब्रह्मणि ब्रह्मभूतश्च भविष्यसि न संशयः ।
अन्यथा योगशान्तिं त्वं न प्राप्स्यसि कदाचन ॥ २६॥
(Page खं. २ अ. २४ पान ४९)
ततस्तं नारदो योगी ददौ मन्त्रं विधानतः ।
एकाक्षरं गणेशस्य राजा सिद्धो बभूव सः ॥ २७॥
मयूरेशस्य वै क्षेत्रे ध्रुवः सद्यः समागतः ।
चकार विधिवद्यात्रां द्वाराणां चिह्नसंयुताम् ॥ २८॥
गणेशं स्थापयामास ब्राह्मणैर्मन्त्रकोविदैः ।
अर्धक्रोशे गणेशात् नापूर्वद्वारसमीपगम् ॥ २९॥
देवालयं चकाराऽसौ महामौल्यं सुविस्तृतम् ।
सुवर्णशिखरं रम्यं पूजितं वै सुभक्तितः ॥ ३०॥
नाम तस्याऽकरोद्राजा तदा ध्रुवविनायकः ।
वर्षमासं निवासं च ध्रुवस्तत्र चकार ह ॥ ३१॥
पश्चात् स्वनगरे गत्वा राज्यं चक्रे महाबलः ।
जगाम स्वर्गमन्ते स ध्रुवाख्यं ज्योतिषां धरम् ॥ ३२॥
तस्मिन् गणपतिं ध्यायन् संस्थितोऽसौ महायशाः ।
ध्रुवस्थानस्य नाशेंऽते गतः स्वानन्दमञ्जसा ॥ ३३॥
ध्रुवं विनायकं दृष्ट्वा भुक्तिं मुक्तिं सुनिश्चलाम् ।
लभते मानवस्तत्र श्रुत्वा ध्रौव्यमिदं तथा ॥ ३४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते ध्रुवचरित्रं नाम त्रयोविंशोऽध्यायः ॥ २.२३
२.२४ पृथुयशोवर्णनं नाम चतुर्विंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ध्रुवस्यान्वयसम्भूतोंऽगस्तेजस्वी महीपतिः ।
धर्मात्मा सर्वमान्यश्च पितृवत् पालकोऽभवत् ॥ १॥
मृत्युकन्याऽभवद्भार्या राज्ञस्तस्य महात्मनः ।
तस्यां तस्मात् समुत्पन्नः पुत्रो वेनःसुदारुणः ॥ २॥
तं पिता शिक्षयन् श्रान्तो न साधुरभवत् सुतः ।
राज्यं त्यक्त्वा वनं राजा दुःखयुक्तो जगाम ह ॥ ३॥
ततो राजविहीने च देशे चोराः प्रबभ्रमुः ।
तैर्लुण्ठितं जनानां स्म सर्वस्वं यत्र तत्र हि ॥ ४॥
प्रजाः सर्वा भयोद्विग्ना ब्राह्मणान् शरणं ययुः ।
ब्राह्मणै राज्य आसिक्तः स वेनः पैतृके ततः ॥ ५॥
स राज्यं प्राप्य दुर्धर्षश्चोरान् हत्वा समन्ततः ।
राज्यं चकार देशेषु कम्पयन् वसुधातलम् ॥ ६॥
नयमार्गं परित्यज्य यथेच्छाचारकोऽभवत् ।
तेन वर्णाश्रमाचारसंयुता दुःखिताः कृताः ॥ ७॥
पुनस्ते तापसांस्तान्वै शरणं जग्मुरादरात् ।
तापसैर्वारितो वेनस्तानुवाच द्विजोत्तमान् ॥ ८॥
वेन उवाच ।
अहं पूज्यश्च सर्वेषां पालको नात्र संशयः ।
मां भजध्वं मुनीन्द्रा वै योगक्षेमकरं सदा ॥ ९॥
तस्य तद्वचनं श्रुत्वा कुपिता ब्राह्मणास्ततः ।
शापेन मारयामासुस्तं नृपं नयवर्जितम् ॥ १०॥
तस्याङ्गं वाममेवादौ ममन्थुर्नृपहेतवे ।
तस्मात् क्रूरः समुत्पन्नस्यस्य पापमयो नरः ॥ ११॥
ह्रस्वकायः श्यामवर्णः श्मश्रुलः पिङ्गलोचनः ।
तं दृष्ट्वा ब्राह्मणाः प्रोचुर्निषीदेति प्रजापते ॥ १२॥
ततो निषादनामाऽसौ जातस्तस्मै वनान्तरे ।
(Page खं. २ अ. २४ पान ५०)
स्थानं ददुर्द्विजश्रेष्ठा निषादास्तत् समुद्भवाः ॥ १३॥
पुनश्च दक्षिणाङ्गं ते ममन्थुर्द्विजसत्तमाः ।
वेनस्य दम्पती तस्मात् समुद्भूतौ महौजसौ ॥ १४॥
विष्णोः कलायुतौ साक्षाद्ब्राह्मणान्नेमतुः पुरा ।
ब्राह्मणैर्नृपवर्यः स संसिक्तो राज्यकर्मणि ॥ १५॥
पृथुनामा महीपालो विख्यातोऽभूच्च मण्डले ।
स्वधर्मनिरतः साक्षात् क्षात्रधर्मप्रवर्तकः ॥ १६॥
तेन संवर्धिता लोका वर्णाश्रमयुता विधे ।
पुरे मुमुदिरे देशे यत्र तत्र सुसत्कृताः ॥ १७॥
गते कियति काले वै लोका अन्नविवर्जिताः ।
क्षुधया पीडिताः सर्वे तं नृपं शरणं ययुः ॥ १८॥
वेनस्याधर्मभावेन भूम्या सर्वं समाहृतम् ।
पुनर्दातुमशक्ता वै धर्मरूपे नराधिपे ॥ १९॥
लोकानां दुःखमाकर्ण्य कुपितोऽसौ नराधिपः ।
विचार्य धनुरादाय शरं श्रेष्ठं युयोज च ॥ २०॥
भूमिं हन्तुं मनश्चक्रे ह्याकर्णाकर्षितं धनुः ।
यावद्बाणं स चिक्षेप तावद्भीता वसुन्धरा ॥ २१॥
गोरूपेण भयोद्विग्ना यत्र तत्र पलायत ।
आत्तबाणो नृपः पश्चाद्ययौ यम इवापरः ॥ २२॥
शरणं नाऽपतद्भूमिस्तमेव शरणं ययौ ।
उवाच प्राञ्जलिर्भूत्वा नृपं कम्पसमन्विता ॥ २३॥
स्त्रियं मां गां कथं हंसि भूमिपाल वसुन्धराम् ।
शरणागतरूपां ते रक्ष क्षत्रकुलोद्भव ॥ २४॥
भूमेर्वचनमाकर्ण्य तां जगाद नृपोत्तमः ।
शृणु त्वां मारयिष्यामि मच्छासनपराङ्मुखीम् ॥ २५॥
जीवितुं चेच्छसि प्राज्ञे तदान्नं विविधं धरे ।
कुरु प्रकटरूपं त्वं सर्वकालं न संशयः ॥ २६॥
ततस्तं विनयं कृत्वा सा जगाद वसुन्धरा ।
मया ग्रस्ता समग्रा या ओषध्यश्च नृपात्मज ॥ २७॥
भक्षितास्ताः पुनर्दातुं कथं शक्ता भवामि भोः ।
अतस्त्वं मां समामादौ कुरु पार्थिवसत्तम ॥ २८॥
गोरूपाहं स्थिता भूप वत्सं कृत्वा स्वभावजम् ।
सकला दुग्धरूपेणौषधीस्ते प्रददाम्यहम् ॥ २९॥
दोहकः कल्प्यतां शीघ्रं तदा सर्वं शुभं भवेत् ।
अन्यथा मां महीपाल हनिष्यसि वृथा कथम् ॥ ३०॥
तस्या वचनमाकर्ण्य धनुष्कोट्या नृपोत्तमः ।
पर्वतांश्चूर्णयामास समां भूमिं चकार ह ॥ ३१॥
पुरग्रामादिकानां तु रचना रचिता ततः ।
तेनैव पृथुना दक्ष यथायोग्यं धरातले ॥ ३२॥
तदादिर्नगराद्यानां रचना सम्प्रवर्तिता ।
पुत्रीत्वे स धरां चक्रे पृथ्वी नाम्नी ततोऽभवत् ॥ ३३॥
मनुं वत्सं ततः कृत्वा दोहकश्चाऽभवत्स्वयम् ।
षड्रसान्नमयं दुग्धं दुदोह नृपसत्तमः ॥ ३४॥
ततः सर्वे त्रिलोकस्था दुदुहुस्तां वसुन्धराम् ।
स्वस्वान्नमयदुग्धं ते जगृहुः परमादृताः ॥ ३५॥
ब्रह्माणं वेदरूपं सुवत्सं कृत्वा बृहस्पतिः ।
दोहको दुग्धमादाय संस्थितो विगतज्वरः ॥ ३६॥
रुद्रं वत्सं ततः कृत्वा दोहकः पिशितात्मकम् ।
कालाग्निरुद्रसंज्ञश्च दुदोह हरजीवनम् ॥ ३७॥
विष्णुं वत्सं समादाय यजमानश्च दोहकः ।
यज्ञाधारमयं दुग्धं दुदोह खलु कर्मजम् ॥ ३८॥
(Page खं. २ अ. २५ पान ५१)
सूर्यं वत्सं चकारापि दोहको ध्रुव आदरात् ।
ज्योतिषां जीवनं दुग्धं दुदोह सकलं ततः ॥ ३९॥
शेषं वत्सं च सङ्गृह्य दुदोहाऽपि च वासुकिः ।
सर्पाणामन्नरूपं वै दुग्धं दुग्धप्रियस्ततः ॥ ४०॥
शिवं वत्सं प्रकल्प्यैव दोहको नन्दिकेश्वरः ।
विद्यात्मकं महद् दुग्धं दुदोह गतमत्सरः ॥ ४१॥
एवं सर्वे च दुदुहुर्भूमिं गां पृथुभाविताम् ।
चराचरमया जीवा ईश्वराश्च प्रजापते ॥ ४२॥
पृथुस्तां पूजयामास धरणीं धरणीप्रियः ।
पुत्रीत्वे पालिता हर्षात्सा स्थिता मुदिता तथा ॥ ४३॥
एवं दुग्ध्वा धरित्रीं स पृथुः पृथुपराक्रमः ।
राज्यं चकार नीतिज्ञः पृथिव्यामेकराट् स्वयम् ॥ ४४॥
ततो यज्ञांश्चकाराऽसौ शतसङ्ख्यान् महाबलः ।
अश्वमेधाभिधान् राजा भूरिदक्षिणसंयुतान् ॥ ४५॥
तस्य यज्ञे स्वयं ब्रह्मा विष्णुः शङ्कर एव च ।
इन्द्राद्या आययुः सर्वे गन्धर्वाद्या महामते ॥ ४६॥
ऋषयः कश्यपाद्याश्च शेषाद्या नागमुख्यकाः ।
जना नानाविधा जग्मुः सस्त्रीकाश्च विशेषतः ॥ ४७॥
अन्त्ये यज्ञे समारब्धे शक्रश्चिन्तातुरो भृशम् ।
जटाचीरधरो भूत्वा तस्याश्चं सहसाऽऽहरत् ॥ ४८॥
तस्य पुत्रेण सन्दृष्टस्तपस्वीति च मोचितः ।
हयं त्यक्त्वा भयोद्विग्नोन्तर्धानं तु चकार सः ॥ ४९॥
पुनरस्थिधरो भूत्वा भस्मना लेपकारकः ।
जहाराश्वं तथा राजपुत्रेण न स ताडितः ॥ ५०॥
एवं षड्वारमश्वं स सञ्जहार पुरन्दरः ।
ततस्तं हन्तुमुद्युक्तः पृथुः पृथुपराक्रमः ॥ ५१॥
तं ब्रह्मा सान्त्वयामास महेन्द्रं न जघान ह ।
एकोनशतयज्ञान् स चक्रे वै तेजसा युतः ॥ ५२॥
ब्रह्मणा नोदितः साक्षादिन्द्रस्तं प्रणनाम ह ।
पृथुर्वैरं समुत्सृज्य देवेन्द्रं तं प्रसस्वजे ॥ ५३॥
सकलाः पूजितास्तेन देवाद्याः स्वस्थलं ययुः ।
सोऽपि राज्यं स्वधर्मस्थश्चक्रे वै पालयन् प्रजाः ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते पृथुयशोवर्णनं नाम चतुर्विंशोऽध्यायः ॥ २.२४
२.२५ पृथुचरित्रं नाम पञ्चविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
जनानां धर्ममार्गं सो शिक्षयन्नृपसत्तमः ।
विष्णुरूपः स्वयं साक्षाद्विष्णुतुल्यपराक्रमः ॥ १॥
संस्थितः स्वपुरे राजा लोकान् संरञ्जयन् प्रभो ।
तत्राऽऽजग्मुश्च योगीन्द्राः सनकाद्या विधेः सुताः ॥ २॥
चत्वारः सूर्यसङ्काशाः सदा बालवयोन्विताः ।
पूर्वेषां पूर्वजा मान्या गतभ्रान्तय एव ते ॥ ३॥
तान् दृष्ट्वा सहसोत्थाय सम्भ्रमेण नरोत्तमः ।
ननाम दण्डवद्भूमौ शिरः संस्थाप्य पादयोः ॥ ४॥
उत्थाय तान् महाभक्त्या पाद्यार्घ्यैर्विष्टरादिभिः ।
अपूजयत्स विधिवत् हर्षितोऽत्यन्तभावतः ॥ ५॥
(Page खं. २ अ. २५ पान ५२)
पादसंवाहनं तेषां चकार स्वयमादरात् ।
उवाच मधुरं वाक्यं पृथुर्वाक्यविशारदः ॥ ६॥
पृथुरुवाच ।
धन्येयं धरणी त्वद्य धन्यं नगरमुत्तमम् ।
मन्दिरं सत्कृतं सर्वं भवतामागमेन मे ॥ ७॥
धन्यो वंशो कुलं धन्यं पितरौ ज्ञानमाश्रमः ।
तपो विद्यादिकं मे च भवतां पाददर्शनात् ॥ ८॥
सनाथोऽहं कृतोऽनाथो भवद्भिर्नात्र संशयः ।
अनुग्रहः कृतोऽत्यन्तं विशेषेण दयालुभिः ॥ ९॥
पूर्वजन्मार्जितं मे किं फलितं पुण्यमुत्तमम् ।
अन्यथा दर्शनं न स्याद्भवतां ब्रह्मरूपिणाम् ॥ १०॥
निःस्पृहा योगनिष्ठा ये सर्वज्ञाः स्वपरायणम् ।
दृष्ट्वा कुर्वन्ति कार्यार्थमाज्ञां तस्य हिताय च ॥ ११॥
अत आज्ञां महाभागा मम कुर्वन्तु साम्प्रतम् ।
तयाऽहं कृतकृत्यश्च भवामि न च संशयः ॥ १२॥
मुद्गल उवाच ।
पृथोर्वचनमाकर्ण्य सनकाद्यास्तमब्रुवन् ।
तृप्ता भावेन तस्याथ योगीन्द्रा योगभाविताः ॥ १३॥
सनकाद्या ऊचुः ।
धन्योऽसि नृपवर्य त्वं पृथो पृथुपराक्रम ।
विनयं तेऽद्य दृष्ट्वा वै सन्तुष्टा वयमादरात् ॥ १४॥
न कार्यलिप्सया युक्ता वयं नग्ना महामते ।
दर्शनार्थं च ते याताः साधो स्वर्गे श्रुतं यशः ॥ १५॥
आज्ञां देहि गमिष्यामि ब्रह्मलोकं सनातनम् ।
कीर्तिः श्रुता तथा दृष्ट्वा तृप्ता हर्षसमन्विताः ॥ १६॥
तेषां तद्वचनं श्रुत्वा पृथुस्तान् विनयान्वितः ।
जगाद भक्तिसंयुक्तो योगीन्द्रान्नृपसत्तमः ॥ १७॥
पृथुरुवाच ।
भुक्तं राज्यं महाभागा नानाभोगसमन्वितम् ।
अधुना शान्तिसिध्यर्थं योगं ब्रूत तपोधनाः ॥ १८॥
पृथोर्वचनमत्यन्तं श्रुतं योगिभिरादरात् ।
पात्रं दृष्ट्वा महाभागा ऊचुस्तं ब्रह्म शाश्वतम् ॥ १९॥
सनकाद्या ऊचुः ।
धन्योऽसि नृपशार्दूल बुद्धिस्ते परमाद्भुता ।
निर्वेदं राज्यभोगेभ्यः सम्प्राप्ता पृथुलश्रवः ॥ २०॥
योगशान्तिमयं पूर्णं गाणेशं विद्धि भूमिप ।
तं भजस्व महाभक्त्या तया शान्तिं गमिष्यसि ॥ २१॥
एकदा स्म वयं सर्वे सङ्गताः शङ्करालयम् ।
वटमूले समासीनमद्राक्ष्म ध्यानसंस्थितम् ॥ २२॥
तं प्रणम्य स्थिताः सर्वे वयं विनयसंयुताः ।
स्तोत्रैस्तं बोधयन्तश्च ततः शर्वो बुबोध वै ॥ २३॥
त्यक्त्वा ध्यानं गणेशाय नम इत्यवदत्ततः ।
श्रुत्वा भ्रान्ता वयं तं स्म पृच्छामः संशयान्विताः ॥ २४॥
कोऽसौ गणाधिपः स्वामिन् कथं नमसि तं प्रभो ।
शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः ॥ २५॥
अस्माकं वचनं श्रुत्वा शिवो हर्षसमन्वितः ।
जगाद ज्ञानमाद्यं यद्गाणपत्यं सुशान्तिदम् ॥ २६॥
शिव उवाच ।
ब्रह्म यत्कथ्यते वेदैः कथं तत्र प्रवर्तते ।
स्वाधीनं सहजं विप्राः पराधीनं त्रिधा भवेत् ॥ २७॥
कर्मयोगादिभेदेन वेदे वै वेदवादिभिः ।
नानाविधं वर्णितं यद्ब्रह्म तन्माययान्वितम् ॥ २८॥
कर्मणां सकलानां संयोगो ब्रह्मणि जायते ।
तेन कर्मात्मकं ब्रह्म तद्वद् ज्ञानात्मकं मतम् ॥ २९॥
समूहवाची शब्दश्च गण इत्यभिधीयते ।
बाह्यान्तरादिभेदानां संयोगे तु समूहकः ॥ ३०॥
(Page खं. २ अ. २५ पान ५३)
अन्नप्राणादिका शब्दा ब्रह्मणो वाचका मताः ।
ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वरः ॥ ३१॥
संयोगायोगकाद्या ये नाना योगा मता बुधैः ।
योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ ३२॥
गणो योगात्मकः प्रोक्तस्तस्मात्तस्य गणा वयम् ।
योगरूपा विशेषेण नमामो भक्तिसंयुताः ॥ ३३॥
माया विघ्नात्मिका प्रोक्ता भ्रान्तिदा बिम्बभावतः ।
तां जयन्ति जना ईशा विघ्नराजस्य सेवया ॥ ३४॥
ब्रह्मभूतास्ते भवन्ति योगीन्द्रा गाणपाः स्मृताः ।
अहं गणेशरूपो वै भिन्नं मायामयं मतम् ॥ ३५॥
चित्तं पञ्चविधं प्रोक्तं सा बुद्धिर्विविधात्मिका ।
तत्रैश्वर्यं च यत्प्रोक्तं सिद्धिः सा परमाद्भुता ॥ ३६॥
तत्र यद्बिम्बभावेन गणेशः प्रतितिष्ठति ।
मायाभ्यां मोहितोऽत्यन्तं सर्वत्राऽसौ विराजते ॥ ३७॥
बिम्बिभावं परित्यज्य गणेशस्यैव सेवया ।
पञ्चधा चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् ॥ ३८॥
गणेशोऽहं यदा विप्रास्तदा कुत्र प्रवर्तते ।
संयोगश्च तथा योगः शान्तियोगं लभे ततः ॥ ३९॥
न भिन्नोऽहं कदा तस्माद्गणेशान्नात्र संशयः ।
योगीन्द्रः शान्तियोगेन ब्रह्मभूतो भविष्यति ॥ ४०॥
एतदेव मदीयं यत् गुह्यं ध्यानं प्रकीर्तितम् ।
अतो गणेशदासोऽहं तं नमामि सदा द्विजाः ॥ ४१॥
एवमुक्त्वा महायोगी विरराम स शङ्करः ।
उच्छिन्नसंशया जाताः सनकाद्या वयं नृप ॥ ४२॥
विचरामो महीमेतां स्वर्गेषु विवरेषु च ।
योगमार्गेण योगीशा गाणपत्याः स्वभावतः ॥ ४३॥
गणेशदर्शने जातलालसा वयमादरात् ।
तस्मिन् काले गणाधीशः कश्यपस्यात्मजोऽभवत् ॥ ४४॥
काशीराजो महाभक्तो गाणपत्यपरायणः ।
तस्य गेहे गतो देवः स्वस्य वै कार्यसाधनात् ॥ ४५॥
दर्शनार्थं वयं तत्र गताः काश्यां महामते ।
प्रपश्यामो गणेशं स्म ब्रह्मचारिस्वरूपिणम् ॥ ४६॥
तं प्रणम्य वयं राजन् स्थिता भक्त्या समन्विताः ।
बालरूपधरं देवं स्म स्तुमो बालयूथगम् ॥ ४७॥
सनकादय ऊचुः ।
नमो विनायकायैव कश्यपप्रियसूनवे ।
अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥ ४८॥
गणेशाय सदा मायाधार चैतद्विवर्जित ।
भक्त्यधीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ४९॥
त्वं ब्रह्म शाश्वतं देव ब्रह्मणां पतिरोजसा ।
योगायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ५०॥
आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा ।
नादानादौ च सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो ॥ ५१॥
सुरासुरमयः साक्षान्नरनागस्वरूपधृक् ।
जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ५२॥
सर्वेभ्यो वर्जितस्त्वं वै मायाहीनस्वरूपधृक् ।
मायामायिकरूपं त्वां को जानाति गतिं पराम् ॥ ५३॥
कथं स्तुमो गणाधीशं योगाकारमयं सदा ।
वेदा न शम्भुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ५४॥
वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः ।
अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ५५॥
(Page खं. २ अ. २६ पान ५४)
इत्युक्त्वा मौनमास्थाय नमामो दण्डवत् स्म तम् ।
उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ ५६॥
विनायक उवाच ।
भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् ।
भविष्यति महाभागाः पठते शृण्वते सदा ॥ ५७॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावितः ।
भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ५८॥
एवमुक्त्वा स्वयं बालश्चिक्रीड प्राकृतो यथा ।
बालकैः सह योगात्मा काश्यपः पूर्ववन्नृप ॥ ५९॥
वयं काशीपते राजन् दर्शनार्थं गतास्ततः ।
तेनाऽपि मानिताः सम्यक् भुक्त्वा याताः पदे पुनः ॥ ६०॥
एतत्ते कथितं सर्वं योगशान्तिमयं महत् ।
ज्ञानपूर्णं गणेशाख्यं तं भजस्व नराधिप ॥ ६१॥
मुद्गल उवाच ।
एवमुक्त्वा विधेर्लोके ययुस्ते सनकादयः ।
पृथुः पुत्रेषु राज्यं स्वं विभज्य च वनं ययौ ॥ ६२॥
तत्र योगक्रमणैव गाणपत्यो बभूव ह ।
पत्न्या सह विनीतात्मा गणेशेंऽते लयं ययौ ॥ ६३॥
एतत् पृथुलकीर्तेश्च चरितं कथितं पृथोः ।
शृणुयाद्यः पठेद्वापि सर्वदं तस्य तद् भवेत् ॥ ६४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते पृथुचरित्रं नाम पञ्चविंशतितमोऽध्यायः ॥ २.२५
२.२६ प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
तदन्वये च सम्भूतो बर्हिषो नाम पार्थिवः ।
धर्मात्मा शस्त्रधारी स प्रजानां पालने रतः ॥ १॥
स यज्ञान्विविधान् चक्रे कर्ममार्गपरायणः ।
प्राचीनाग्रकुशैः सर्वान् छादयामास मेदिनीम् ॥ २॥
मृगयार्थं वनं यातः समुद्रतनयां तदा ।
उपयेमे स भूपालस्तस्यां पुत्रा दशाऽभवन् ॥ ३॥
सर्वे समानवर्णास्ते समाचाराः प्रजापते ।
समानमानसास्तेन नाम्नाऽऽख्याताः प्रचेतसः ॥ ४॥
प्रजार्थं ते समुद्रस्य समीपे तपसि स्थिताः ।
सरो नारायणाख्यं च तत्र विष्णुमपूजयन् ॥ ५॥
प्राचीनबर्हिराजर्षिं स्वगृहे कर्मकारकम् ।
स्थितं ज्ञात्वा समायातो नारदः करुणानिधिः ॥ ६॥
तं राजाऽपूजयत् भक्त्या कृताञ्जलिपुटः स्थितः ।
तमुवाच मुनिश्रेष्ठो राजानं ज्ञानदायकः ॥ ७॥
नारद उवाच ।
किं राजन् कर्मणा ते वै भविष्यति वद प्रभो ।
बन्धदं कर्म वेदेषु प्रोक्तं तन्नात्र संशयः ॥ ८॥
यज्ञैर्नानाविधैः सर्वं कृतं कर्म त्वया महत् ।
घोरं हिंसात्मकं नित्यं नानापशुवधाश्रयम् ॥ ९॥
प्रहताः पशवः सर्वे त्वां प्रतीक्षन्त ओजसा ।
वधार्थं तव चात्यन्तं क्रोधयुक्ता न संशयः ॥ १०॥
अधुना वृद्धरूपस्त्वं त्यक्त्वा कर्म महीपते ।
कर्माङ्कुराग्निरूपं वै ज्ञानमार्गं समाश्रय ॥ ११॥
(Page खं. २ अ. २६ पान ५५)
मुद्गल उवाच ।
नारदस्य वचः श्रुत्वा विस्मितः स नृपोऽब्रवीत् ।
तं पुनस्तस्य भावज्ञो विनयेन समन्वितः ॥ १२॥
प्राचीनबर्हिरुवाच ।
अहं कर्मपरं भावं जानामि मुनिसत्तम ।
कर्मणा लभते जन्तुर्जानामि न च संशयः ॥ १३॥
वद ज्ञानं विभो किं तत् कर्म मूलनिकृन्तनम् ।
दयया च दयासिन्धो मां तारय भवार्णवात् ॥ १४॥
तस्य तद्वचनं श्रुत्वा ज्ञात्वा कर्मपरायणम् ।
कर्मणा शुद्धरूपं तमुवाच मुनिसत्तमः ॥ १५॥
नारद उवाच ।
ज्ञानं योगमयं विद्धि योगोऽभेदात्मकः स्मृतः ।
ब्रह्मणि ब्रह्मभूतश्च योगी योगेन जायते ॥ १६॥
देहेऽस्मिन् पश्य राजेन्द्र बिम्बं गणपतेः स्मृतम् ।
मोहयुक्तं तदाकारं जीवरूपं हृदि स्थितम् ॥ १७॥
पञ्चधा चित्तवृत्तिश्च वर्तते नृपसत्तम ।
क्षिप्ता मूढा च विक्षिप्तैकाग्राऽपि च निरोधिका ॥ १८॥
यत्र क्षिप्तं नरेणैव चित्तं तज्ज्ञायते हृदा ।
तदेव क्षिप्तरूपं त्वं चित्तं जानीहि पार्थिव ॥ १९॥
क्षिप्तं चित्तं नरेणैतन् मूढवत्तन्न बुध्यति ।
अन्यथा च भवेज्ज्ञानं मूढरूपं च तत्स्मृतम् ॥ २०॥
मुमुक्षूणां भवेच्चित्तं विक्षिप्तं ब्रह्मलालसम् ।
न संसारसुखे मग्नं तन्न ब्रह्मणि सङ्गतम् ॥ २१॥
एकाग्रं सर्वभावेषु ह्यात्माकारेण संस्थितम् ।
अन्तर्ज्ञानेन तद्रूपं पश्येद्वै योगसेवया ॥ २२॥
निरोधं देहदेहिभ्यो हीनं निर्वृतिदायकम् ।
संयोगायोगरूपान्तं लभते योगसेवया ॥ २३॥
पञ्चधा कथितं भूप चित्तं सा बुद्धिरुत्तमा ।
जानीहि हृदये स्थित्वा गणपेन च खेलति ॥ २४॥
पञ्चधा चित्तवृत्तिर्या तत्र मोहः प्रकीर्तितः ।
स्वस्वस्थानकरूपस्थैश्चर्यरूपो महीपते ॥ २५॥
ऐश्वर्यभ्रान्तिरूपा सा सिद्धिः सर्वत्र वर्तते ।
धर्मार्थकाममोक्षाणां ब्रह्मणः पञ्चधा स्मृता ॥ २६॥
भ्रामयन्तीह भूतानि गणपेन च खेलति ।
मया सा कथिता माया नृप नास्त्यत्र संशयः ॥ २७॥
ज्ञानरूपा स्वयं बुद्धिरैश्वर्यात् सिद्धिरुच्यते ।
तयोर्बिबं गणेशस्य भ्रमाढ्यं जीवसंज्ञितम् ॥ २८॥
मायामयं सदा जातं माया सौख्ये प्रलालसम् ।
बन्धयुक्तं महीपाल हृदि पश्य प्रकाशकम् ॥ २९॥
पञ्चधा चित्तवृत्तिश्च तेन सर्वा प्रकाशिता ।
चिन्तामणिरिति ख्यातिं गणेशस्य वदन्त्यतः ॥ ३०॥
देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः ।
नादरूपश्चतुर्थो वै बिन्दुस्तेषां परा गतिः ॥ ३१॥
देहेषु देहभोगस्थो देही भ्रान्त्या चतुर्विधः ।
एकोऽपि ब्रह्म तेषां वै सोऽहं विद्धि नराधिप ॥ ३२॥
तद्योगे स्वत उत्थानं ब्रह्म वेदे प्रतिष्ठितम् ।
सत्यं परत उत्थानरूपं सौख्यमयं परम् ॥ ३३॥
तयोर्योगे स्वसंवेद्यं ब्रह्म पञ्चविधं स्मृतम् ।
सत्यासत्यसमाकारनेतिभेदात्मकं परम् ॥ ३४॥
संयोगो ब्रह्मणां यत्र योगाभेदेन शाश्वतः ।
समाधिसुखदः प्रोक्तः स्वानन्द इति कथ्यते ॥ ३५॥
अयोगमेतद्रहितं ब्रह्मनिर्वृतिदायकम् ।
संयोगायोगयोर्नाशे योगः शान्तिप्रदायकः ॥ ३६॥
(Page खं. २ अ. २६ पान ५६)
गणेशोऽयं महाराज समूहानां पतिः स्मृतः ।
समूहा ब्रह्मरूपाश्च ज्ञातव्या ज्ञानचक्षुषा ॥ ३७॥
तं भजस्व महीपाल हृदिस्थं गणनायकम् ।
बुद्धिप्रकाशकं पूर्णं बुद्धीशं शान्तिदायकम् ॥ ३८॥
एवमुक्त्वा महायोगी नारदो विरराम ह ।
सोऽपि श्रुत्वा प्रणम्यादावुवाच मुनिपुङ्गवम् ॥ ३९॥
प्राचीनबर्हिरुवाच ।
भो भो योगिन् दयासिन्धो तारितोऽहं त्वयाधुना ।
मत्समीपस्थिता विप्रा न जानन्ति त्विदं परम् ॥ ४०॥
नारदोंऽतर्दधे सद्यः प्रययौ गणपं स्मरन् ।
वीणागानरतो योगी स्वेच्छाचारी सदासुखी ॥ ४१॥
प्राचीनबर्हिराजर्षिस्त्यक्त्वाऽमात्येषु सत्वरम् ।
राज्यं वनं ययौ सोऽपि गणेशध्यानतत्परः ॥ ४२॥
नारदेन यथा तस्य कथितं ज्ञानमुत्तमम् ।
यथायोगं क्रमेणापि योगी गाणेशकोऽभवत् ॥ ४३॥
अन्ते लयं ययौ राजा गणेशे ब्रह्मरूपिणि ।
ब्रह्मभूतो नृपश्रेष्ठः कथितोऽसौ प्रजापते ॥ ४४॥
प्राचीनबर्हिराजर्षेश्चरितं यः शृणोति च ।
पठेद्वा तस्य पापं हि नाशयेत् सर्वदं भवेत् ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः ॥ २.२६
२.२७ प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
प्राचीनबर्हिषः पुत्रास्तेपुस्ते तप उत्तमम् ।
सहस्रवर्षपर्यन्तं ततस्तुष्टो जनार्दनः ॥ १॥
आययौ तान् वरं दातुं गरुडस्थश्चतुर्भुजः ।
तं दृष्ट्वा ते प्रणेमुश्चापूजयंस्तुष्टुवुर्मुदा ॥ २॥
प्रचेतस ऊचुः ।
नमस्ते केशवायैव नमस्ते भूतभावन ।
निराकाराय कृष्णाय विष्णवे प्रभविष्णवे ॥ ३॥
आदिमध्यान्तहीनाय वासुदेवाय ते नमः ।
सर्वाज्ञानविनाशाय ज्ञानदात्रे कृपालवे ॥ ४॥
लक्ष्मीपते नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु ते ॥ ५॥
भुक्तिमुक्तिप्रदायैव विकुण्ठपतये नमः ।
नारायणाय शान्ताय सत्त्वयुक्ताय ते नमः ॥ ६॥
वयं सपितरो धन्या यैः प्रदृष्टो जनार्दनः ।
वरं देहि विशेषेण सृष्टिसामर्थ्यदायकम् ॥ ७॥
एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः ।
सामर्थ्यमतुलं सृष्टौ भविष्यति च वः सुखम् ॥ ८॥
तपसा सिद्धरूपाश्च भवन्तो नात्र संशयः ।
यद्यदिच्छथ तत्तद्वः सफलं प्रभविष्यति ॥ ९॥
भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठतां शृण्वतां चैव मत्प्रसादकरं परम् ॥ १०॥
एवमुक्वान्तर्दधेऽसौ विष्णुः परपुरञ्जयः ।
तेऽपि त्यक्त्वाऽऽश्रमं सद्यो जग्मुः स्वगृहमुत्तमम् ॥ ११॥
गच्छतां पथि तेषां वै मार्गे वृक्षा अनेकशः ।
अराजके समुत्पन्ना मार्गरोधनकारकाः ॥ १२॥
(Page खं. २ अ. २७ पान ५७)
तान् दृष्ट्वा क्रोधयुक्तास्ते ससृजुर्वह्निमुल्बणम् ।
तेन दग्धा वने वृक्षाः सकला यत्र तत्र च ॥ १३॥
तेषु स्वल्पस्थितेष्वेव चन्द्रस्तत्र समागतः ।
प्रगृह्य वृक्षजां कन्यां ददौ तेभ्यो यथाविधि ॥ १४॥
ऋषिवीर्यात्समुत्पन्नाऽप्सरः सुद्रुमपालिता ।
प्रगृह्य तां शान्तिमाप्ता अग्निं चक्रुः सुशान्तिदम् ॥ १५॥
स्वराज्यं प्राप्य ते सर्वे पालयामासुरादरात् ।
प्रजाः पुत्रानिवाध्यक्षा यन्त्रितास्ते प्रचेतसः ॥ १६॥
मारिषायां प्रचेतोभ्यो दक्ष त्वं त्वभवस्तदा ।
रुद्रशापेन सर्वज्ञस्तथा वै तेजसा युतः ॥ १७॥
गणेशवरदानेन ब्रह्मपुत्र त्वमञ्जसा ।
न गमिष्यति ते दक्ष प्रजापालो भविष्यसि ॥ १८॥
त्वां च राज्ये समास्थाप्य वनं चायुः प्रचेतसः ।
तेपुस्तत्र तपो घोरं योगशान्त्यर्थमादरात् ॥ १९॥
तत्राऽपि नारदो योगी गणेशे गानतत्परः ।
आययौ परमप्रीतः प्रचेतसां हितं चरन् ॥ २०॥
तं दृष्ट्वा हर्षिताः सर्वे महौजस्काः प्रचेतसः ।
नेमुः सम्पूज्य तं भक्त्या स्थिताःप्राञ्जलयोऽभवन् ॥ २१॥
तानुवाच मुनिश्रेष्ठः किमिच्छावः प्रचेतसः ।
ब्रूत तां पूरयिष्यामि भवतां भावतोषितः ॥ २२॥
नारदस्य वचः श्रुत्वा प्रोचुस्तं ते प्रचेतसः ।
वद त्वं शान्तिदं योगं कृपया करुणानिधे ॥ २३॥
श्रुत्वा स वचनं तेषां हर्षेण महताऽऽवृतः ।
उवाच सकलं योगं योगशान्तिपदप्रदम् ॥ २४॥
नारद उवाच ।
शान्तियोगात्मकं भूपा गणेशं कथयन्ति वै ।
योगज्ञा ब्रह्मभूताश्च तं भजध्वं प्रचेतसः ॥ २५॥
अहं गणेशाभिन्नश्च योगोऽयं शान्तिदायकः ।
कथितो विष्णुना पूर्वं मह्यं शान्तिप्रदः परः ॥ २६॥
तेन शान्तिं समास्थाय चरामि गणपं स्मरन् ।
गतभ्रान्तिश्च सर्वत्र हर्षयुक्तेन चेतसा ॥ २७॥
चित्तस्य पञ्चभूमीनां भ्रान्तिं त्यक्त्वा नरः सदा ।
योगरूपो न सन्देहो भवेद्वै शान्तिरूपगः ॥ २८॥
सर्वं मायामयं प्रोक्तं भ्रान्तिदं बुद्धिलालितम् ।
त्यक्त्वा तद् योगिनः शान्ता भवेतैव प्रचेतसः ॥ २९॥
एवमुक्त्वा महायोगी नारदः स्वेच्छया ययौ ।
हेरम्बेति स्मरन् स्वर्गे कैलासे हर्षसंयुतः ॥ ३०॥
तेऽपि प्रचेतसः सर्वे कथितं योगमादरात् ।
क्रमेण साधयित्वा तं गाणपा अभवन् पराः ॥ ३१॥
अन्ते गणेशदेहे ते तदाकाराः प्रजापते ।
जाता ब्रह्ममयाः शान्ता महौजस्काः प्रचेतसः ॥ ३२॥
प्रचेतसां चरित्रं यः पठेद्वै यः शृणोति वा ।
तस्य भुक्तिश्च मुक्तिर्वै भविष्यति सुखप्रदा ॥ ३३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः ॥ २.२७
(Page खं. २ अ. २८ पान ५८)
२.२८ कश्यपसृष्टिवर्णनं नाम अष्टाविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
दक्षः प्राचेतसो राजा तताप तप उत्तमम् ।
शतवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् ॥ १॥
गणेशवरदानेन स सिद्धः ससृजे प्रजाः ।
देवा यक्षा मनुष्याश्च पिशाचाद्याः सहस्रशः ॥ २॥
नानाविधाः प्रजाः सृष्ट्वाऽवर्धन्त नयदा तदा ।
धरण्यां मैथुनीं सृष्टिं ससृजे स प्रजापतिः ॥ ३॥
दशाभवन् सहस्राणां पुत्रास्तस्मान् महौजसः ।
तानुवाच स्वयं दक्षः सृजध्वं तपसा युताः ॥ ४॥
तथेति तं प्रणम्यादौ गतास्तपस आदरात् ।
तेषां मार्गे ब्रह्मपुत्रो नारदः सहसाऽऽगतः ॥ ५॥
उवाच विधिवत्तान् स योगमार्गं सनातनम् ।
तेन युक्ताश्च ते सर्वे न चक्रुः सृष्टिमुत्तमाम् ॥ ६॥
कर्ममार्गं परित्यज्य गाणपत्याश्च तेऽभवन् ।
गताः स्वेच्छाचराः सर्वे भ्रमहीना जितेन्द्रियाः ॥ ७॥
ज्ञात्वा नष्टान् स्वपुत्रान् स पुनर्दक्षः ससर्ज ह ।
असिक्न्यां चैव पुत्राणां सहस्रं तेजसा युतम् ॥ ८॥
स तानुवाच प्रीतात्मा तपसा स्मृष्टिमुत्तमाम् ।
कुरुध्वं ते प्रणम्याऽऽदौ तं वनं ययुरादरात् ॥ ९॥
पुनस्तान्नारदस्तद्वद्ददौ ज्ञानं सुनिर्मलम् ।
तेऽपि योगयुताः सर्वे ययुः स्वेच्छाविहारिणः ॥ १०॥
ज्ञात्वा वृत्तान्तमुग्रं वै दक्षः क्रोधसमन्वितः ।
शशाप नारदं ब्रह्मपुत्रं परमभाविकम् ॥ ११॥
त्वया पुत्रा मदीयाश्च नाशिताः कर्ममार्गतः ।
वर्णाश्रमक्रमेणैव युक्ता भ्रष्टाः कृताः खलु ॥ १२॥
नारद त्वमतो दुष्ट प्रजाहीनो भविष्यसि ।
द्विमुहूर्तात् परं कालं न स्थातुं शक्यते त्वया ॥ १३॥
यत्र कुत्र महीदेशे स्वर्गे पातालके पदे ।
भ्रमिष्यसि महादुष्ट मच्छापान्नात्र संशयः ॥ १४॥
एवं शप्त्वा स्वयं दक्षो ययौ ब्रह्माणमादरात् ।
तं प्रणम्य जगन्नाथमुवाच विनयान्वितः ॥ १५॥
सृष्टिं करोमि देवेश केन मार्गेण तद्वद ।
नारदो दुष्टभावेन मोघां सृष्टिं स मेऽकरोत् ॥ १६॥
तमुवाच ततो ब्रह्मा सृज कन्याः सुलोचनाः ।
तथेति स ययौ स्थानं स्वकीयं स्रष्टुमारभत् ॥ १७॥
षष्टिं दक्षोऽसृजत्कन्या वीरिण्यां तेजसान्वितः ।
चारुरूपा महाभागा मातरः सर्वदेहिनाम् ॥ १८॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशतिमब्जाय चतस्रोऽरिष्टनेमये ॥ १९॥
द्वे ददौ बहुपुत्राय द्वे कृशाश्वाय भावतः ।
द्वे चाप्यङ्गिरसे तद्वद्वक्ष्ये तासां च विस्तरम् ॥ २०॥
मरुत्वती वसुर्यामी लम्बा भानुररुन्धती ।
सङ्कल्पा च मुहूर्ता वै साध्या विश्वा च भामिनी ॥ २१॥
धर्मपत्न्यो दशैताश्च तासां पुत्रान्निबोध च ।
विश्वेदेवाश्च विश्वायाः साध्यासाध्यानजीजनत् ॥ २२॥
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः ।
भानोश्च भानवः सर्वे मुहूर्ताया मुहूर्तकाः ॥ २३॥
लम्बाया नादघोषौ च यामीजो नागवीथिकः ।
पृथिव्यां विषमं सर्वमरुन्धत्यामजायत ॥ २४॥
सङ्कल्पायास्तु सङ्कल्पा धर्मपुत्रा इमे स्मृताः ।
(Page खं. २ अ. २८ पान ५९)
तेषां पुत्रैश्च पुत्रीभिरखिलं वर्धितं जगत् ॥ २५॥
आपो ध्रुवोऽथ सोमश्च धन्यश्चैवानलोऽनिलः ।
प्रत्यूषोऽथ प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ २६॥
अदितिश्च दितिः कद्रुररिष्टा सुरसा दनुः ।
सुरभिर्विनता चैव ताम्रा क्रोधवशा त्विरा ॥ २७॥
मुनिः खशा च धर्मज्ञा तासां पुत्रान्निबोध वै ।
विवस्वानथ धाता च भगस्त्वष्टा तथांशकः ॥ २८॥
वरुणाद्याश्च ये देवा ते सर्वे चादितेः सुताः ।
दितेश्च सकला दैत्याः पुत्राः शास्त्रेषु सम्मताः ॥ २९॥
तथैव च दनोः पुत्रास्ताराद्या दानवाः स्मृताः ।
तारोऽथ विप्रचित्तिश्च शम्बरः कपिलस्तथा ॥ ३०॥
स्वर्भानुः सङ्करश्चैव वृषपर्वा च वीर्यवान् ।
प्राधान्येनासुराः श्रेष्ठा दानवाः कथिता मया ॥ ३१॥
सुरसायाः सहस्रं च सर्पाणामभवत्तथा ।
अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् ॥ ३२॥
शेषाद्याश्च महानागाः कद्रोः पुत्राः प्रजापते ।
ताम्रा च जनयामास कन्याषट्कं सुलोचनम् ॥ ३३॥
शुकी श्येनी च भासी च सुग्रीवा ग्रन्थिका शुचिः ।
तासां पुत्रादिभिः सर्वं पक्षिवृन्दं बभूव ह ॥ ३४॥
सुरभिर्जनयामास महिषीर्गाः प्रजापते ।
इरा वृक्षलता वल्ली तृणजातीश्च सर्वशः ॥ ३५॥
मुनेः पुत्रास्तथा प्रोक्ता यक्षाः पुण्यजनास्तथा ।
रक्षोगणं क्रोधवशा जनयामास दारुणम् ॥ ३६॥
विनतायाश्च पुत्रौ द्वावरुणो गरुडोऽपरः ।
खशायाः खेचराः पुत्राः प्रेताद्याश्च प्रजापते ॥ ३७॥
एते कश्यपदायादा जङ्गमस्थावरात्मकाः ।
वैवस्वतेन्तरे ह्यस्मिन् प्रख्याताः कथिता मया ॥ ३८॥
अरिष्टनेमिपुत्राश्च वेधसो रूपधारकाः ।
बहुपुत्रस्य पत्न्योस्तु चतस्रो विद्युतः स्मृताः ॥ ३९॥
तथा चाङ्गिरसः पत्न्योरृषयो वृषसत्कृताः ।
कृशाश्वस्य च देवर्षिदेवः प्रहरणः सुतः ॥ ४०॥
एते युगसहस्रान्ते जायन्ते पुनरेव च ।
मन्वन्तरेषु सर्वेषु तुल्यकार्यैः स्वनामभिः ॥ ४१॥
पुत्रान् ब्रह्मर्षिरुत्पाद्य कश्यपस्तोषवर्जितः ।
तताप तप उग्रं वै पुत्रार्थे परमार्थवित् ॥ ४२॥
तस्यैवं तपतः पुत्रौ प्रादुर्भूतौ महौजसौ ।
वत्सरश्चासितो नाम्ना तावुभौ ब्रह्मवादिनौ ॥ ४३॥
वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः ।
रैभ्याच्च जज्ञिरे रुद्राः पुत्रा द्युतिमतां वराः ॥ ४४॥
च्यवनस्य सुता भार्या नैध्रुवस्य महात्मनः ।
सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ ४५॥
असिताच्चैकपर्णायां ब्रह्मिष्ठः समपद्यत ।
नाम्ना वै देवलः पुत्रो योगाचार्यश्च स स्मृतः ॥ ४६॥
शाण्डिल्यः परमो योगी सर्वतत्त्वार्थविच्छुचिः ।
इत्याद्या बहवः पुत्राः कश्यपस्य मयोदिताः ॥ ४७॥
एते च स्मरणाज्जन्तोः कामपूरा भवन्ति च ।
पठनान्नात्र सन्देहो मूलरूपाः प्रकीर्तिताः ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते कश्यपसृष्टिवर्णनं नाम अष्टाविंशतितमोऽध्यायः ॥ २.२८
(Page खं. २ अ. २१ पान ६०)
२.२९ वसिष्ठतपोवर्णनं नाम एकोनत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
तृणबिन्दोः सुता श्रेष्ठा नाम्नेलविलका स्मृता ।
पुलस्त्याय स राजर्षिर्ददौ विनयसंयुतः ॥ १॥
तस्यां जज्ञे पुलस्त्याद्वै विश्रवा मुनिसत्तमः ।
तस्य पत्न्यश्चतस्रस्तु सुरूपा वामलोचनाः ॥ २॥
पुष्पोत्कटा तथा राका कैकसी देववर्णिनी ।
ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी ॥ ३॥
कैकस्यजनयत्पुत्रं रावणं लोकरावणम् ।
कुम्भकर्णं शूर्पणखां पुत्रीं तं च बिभीषणम् ॥ ४॥
रावणः कुम्भकर्णश्च प्रतापी च बिभीषणः ।
तपस्तेपुः सुविपुलं सहस्त्रदशकाब्दकम् ॥ ५॥
प्रसन्नश्च ततो ब्रह्मा वरदस्तान् समाययौ ।
रावणो वरयामास राज्यं निहतकण्टकम् ॥ ६॥
भूर्भुवःस्वस्त्रयाणां स लोकानां बलगर्वितः ।
सर्वेभ्यश्चामृतिं तद्वद्विस्मृतौ कपिमानुषौ ॥ ७॥
कुम्भकर्णोऽभवद्वाण्या मोहितो वरमुत्तमम् ।
षण्मासनिद्रया युक्तं वव्रे तं वरदं प्रभुम् ॥ ८॥
बिभीषणस्तु धर्मात्मा स्वधर्मरुचिदं वरम् ।
वरयामास धातारं विष्णुभक्तिं सुभावतः ॥ ९॥
ब्रह्मा दत्वा वरांस्तेभ्यो ययौ स्थानं निजं ततः ।
ते रक्षःप्रवरा जातास्त्रिषु लोकेषु विश्रुताः ॥ १०॥
जित्वा त्रिभुवनं दक्ष रावणः षष्टिलक्षकम् ।
वर्षाणां मानुषाणां स राज्यं चक्रे सहानुजः ॥ ११॥
रामेण स हतो दुष्टः कुम्भकर्णश्च रावणः ।
बिभीषणं ततो राज्ये स्थापयामास राघवः ॥ १२॥
तपस्तप्त्वा वैश्रवणो गणेशस्य महात्मनः ।
एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ १३॥
दशवर्षसहस्रैस्तु प्रसन्नोऽभूद्गजाननः ।
भक्तिं स्वचरणे तस्मै ददौ शङ्करमित्रताम् ॥ १४॥
उत्तराशापतिं चक्रे धनपालाभिधं तथा ।
ततो देवेषु विख्यातः कुबेरः प्रबभूव ह ॥ १५॥
पुष्पोत्कटा विश्रवसोऽजनयच्च महोदरम् ।
महापार्श्वं प्रहस्तं च खरं कुम्भीनसीं सुताम् ॥ १६॥
राका सञ्जनयामास त्रिशिरस्कं च दूषणम् ।
विद्युज्जिह्वं महाकालं विश्रवस्तः प्रजापते ॥ १७॥
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश ।
विख्याताः पुरुषश्रेष्ठा राक्षसानां महाबलाः ॥ १८॥
पुलहस्य मृगाः सर्वे पुत्रा व्यालाश्च दंष्ट्रिणः ।
पिशाचा बहवो भूताः शूकरा हस्तिनस्तथा ॥ १९॥
अनपत्यः क्रतुश्चात्र स्मृतो वैवस्वतान्तरे ।
मरीचेः कश्यपः पुत्रः स जातो वै प्रजापतिः ॥ २०॥
भृगोः पुत्रस्तु मेधावी दैत्याचार्यो महायशाः ।
स्वाध्यायनिरतः काव्यो बभूवे च प्रजापते ॥ २१॥
शैवमार्गरतो भूत्वा सदा शङ्करपूजकः ।
कैलासं प्राप शान्त्यर्थं बोधितोऽभूत् हरेण च ॥ २२॥
शान्तियोगस्य सिद्ध्यर्थं गणेशमभजत् कविः ।
क्रमेण शान्तिमापन्नो गाणपत्यो बभूव सः ॥ २३॥
अत्रेः पुत्रोऽभवत् सोमोऽमृतरूपमयो महान् ।
अरुन्धत्यां वसिष्ठाद्वै शक्तिः पुत्रो बभूव ह ॥ २४॥
तस्मात् पराशरः साक्षात्तपोनिधिरजायत ।
शङ्करस्य सदा भक्तिं चकार परमादरात् ॥ २५॥
(Page खं. २ अ. २९ पान ६१)
वसिष्ठं योगशास्त्रज्ञं पितामहमनिन्दितम् ।
स्वकर्मकुशलं शान्तमपृच्छच्छान्तिहेतवे ॥ २६॥
पराशर उवाच ।
शिवोऽयं मोहहीनश्च नेति कर्ताव्ययः स्मृतः ।
कथं ब्रह्मणि निर्मोहे भवेन् मोहो भ्रमपदः ॥ २७॥
मुद्गल उवाच ।
पराशरवचः श्रुत्वा वसिष्ठस्तमुवाच ह ।
हर्षयुक्तः स्वपौत्राय शान्तियोगं सनातनम् ॥ २८॥
वसिष्ठ उवाच ।
शृणु पुत्र प्रवक्ष्यामि ब्रह्मणा कथितं च मे ।
योगं शान्तिकरं तुभ्यं कथयामि विशेषतः ॥ २९॥
अहं शान्त्यर्थमत्यन्तं भ्रमितो ना लभे च ताम् ।
गतो लोके प्रविख्याते ब्रह्मणः परमेष्ठिनः ॥ ३०॥
तत्र सम्पूजयन्तं वै ब्रह्माणं दृष्टवानहम् ।
गणेशमूर्तिं वै पुत्र संस्थितोऽहं प्रणम्य ताम् ॥ ३१॥
पूजाविधिं समाप्याऽसौ सभायां समुपागतः ।
तत्राऽहं विनतो भूत्वा ह्यवदं तं महाद्युतिम् ॥ ३२॥
त्वत्तः सर्वाणि भूतानि जायन्ते नात्र संशयः ।
त्वयि नाथ प्रलीयन्ते परं त्वत्तो न विद्यते ॥ ३३॥
त्वयाऽसौ पूजितः कस्मात् कः श्रेष्ठो वद साम्प्रतम् ।
बहुवर्षमहं भ्रान्तो नाऽलभे शान्तिमुत्तमाम् ॥ ३४॥
मदीयवचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः ।
जगाद मां यथायोग्यं पात्रं दृष्ट्वा पितामहः ॥ ३५॥
ब्रह्मोवाच ।
शृणु पुत्र महाभाग गणेशो योगशान्तिदः ।
अस्माकं कुलदेवश्च सर्वेषां सोऽपि निश्चितम् ॥ ३६॥
तस्माद्वयं समुत्पन्नास्तेन संस्थापिताः पदे ।
सर्वसिद्धिप्रदातारं तं भजामि निरन्तरम् ॥ ३७॥
अन्ते तत्रैव लीनाश्च वयं पुत्र न संशयः ।
तस्मादादौ गणेशानः पूज्यो माता पिता स्मृतः ॥ ३८॥
ज्येष्ठराजपदं पश्य वेदेषु कथितं सुत ।
तस्माज्ज्येष्ठो न वेदेष्वादिः सर्वेभ्यो गणेश्वरः ॥ ३९॥
य आदिः स भवेदन्ते कथितं शास्त्रसम्मतम् ।
अतस्तत्र वयं लीना भविष्यामो न संशयः ॥ ४०॥
मध्ये नानाविधः सोऽपि कलांशेन गजाननः ।
प्रक्रीडति कलांशाश्च वयं तस्य स्मृताः सुत ॥ ४१॥
शान्तिमिच्छसि चेत्पुत्र तां वदामि समासतः ।
पञ्चधा चित्तवृत्तिं त्वं त्यक्त्वा शान्तो भविष्यसि ॥ ४२॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
चिन्तामणिः समाख्यातस्तेन चित्तं प्रकाशितम् ॥ ४३॥
अहं गणेशरूपश्चेत् संयोगायोगता च मे ।
नास्ति ह्यतो भिन्नभावस्तेन भ्रान्तिर्गता भवेत् ॥ ४४॥
जगत् सुब्रह्म सुप्रोक्तमैश्वर्यमतुलं बुधैः ।
जानीहि सिद्धिरूपं त्वं भ्रान्तिदायकमञ्जसा ॥ ४५॥
जगद्ब्रह्ममयाकारा बुद्धिः शास्त्रेषु कथ्यते ।
पञ्चधा सा समाख्याता चित्तरूपा न संशयः ॥ ४६॥
तयोः प्रकाशकं बिम्बं गणेशस्य महात्मनः ।
मोहितं पश्य मायाभ्यां तदाकारं हृदि स्थितम् ॥ ४७॥
बिम्बभावं त्यज त्वं वै तदा शान्तिं गमिष्यसि ।
चित्तमैश्वर्यमोहश्च बिम्बं नैव प्रदृश्यते ॥ ४८॥
एवमुक्त्वा स्वयं मां स विरराम पितामहः ।
अहं प्रणम्य तं देवं प्रादक्षिण्येन निर्गतः ॥ ४९॥
(Page खं. २ अ. ३० पान ६२)
गत्वा वनान्तरं पुत्र अतपं तप उत्तमम् ।
एकाक्षरेण मन्त्रेण ध्यात्वा जपपरायणः ॥ ५०॥
क्रमेण योगभूमीनां भ्रान्तिं त्यक्त्वा महामुने ।
चिन्तामणिः स्वयं साक्षादभवं शान्तियोगधृक् ॥ ५१॥
तथाऽपि गणराजस्य मन्त्रध्यानं महात्मनः ।
दर्शनार्थं तपश्चोग्रमकार्षं च हितावहम् ॥ ५२॥
पूर्णे वर्षशते वै मां ययौ देवो गजाननः ।
प्रत्यक्षं मूषकारूढो योगशान्तिस्वरूपधृक् ॥ ५३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते वसिष्ठतपोवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ २.२९
२.३० पराशरवरप्रदानं नाम त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः ।
ननाम दण्डवद्भूमौ तं तुष्टाव यथामति ॥ १॥
वसिष्ठ उवाच ।
अद्येयं धरणी धन्या पितरौ तप आश्रमः ।
विद्याव्रतादि मे धन्यं दर्शनात्ते पदस्य च ॥ २॥
त्वं कर्ता कारणं चैव कारणानां न संशयः ।
गम्यागम्यमयः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३॥
सर्वरूपश्च सर्वैस्त्वं हीनः सर्वप्रकाशकः ।
योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप ॥ ४॥
तथाऽपि भक्तिपाशेन यन्त्रितस्त्वं गजानन ।
अनुग्रहार्थमायातो नामरूपधरः प्रभो ॥ ५॥
त्वद्दर्शनजबोधेन स्तौमि त्वां ब्रह्मनायकम् ।
वेदादिभिः सहाद्यैश्च संस्तुतं योगिभिः परम् ॥ ६॥
नमस्ते गणनाथाय नमस्ते सर्वसाक्षिणे ।
सर्वाकाराय वै तुभ्यं स्वसंवेद्याय ते नमः ॥ ७॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।
अमेयशक्तये देव देव तुभ्यं नमो नमः ॥ ८॥
असम्प्रज्ञाततुण्डाय सम्प्रज्ञातशरीरिणे ।
तयोर्योगे च योगात्मदेहाय तु नमो नमः ॥ ९॥
शान्तियोगप्रकाशाय शान्तियोगमयाय ते ।
योगिभ्यो योगदात्रे च योगेशाय नमो नमः ॥ १०॥
वक्रतुण्डाय वै तुभ्यमेकदन्तधराय च ।
ब्रह्माकारात्मकानां ते चिह्नानां धारिणे नमः ॥ ११॥
स्तुवतस्तस्य हर्षेण कण्ठरोधः समाभवत् ।
ननर्त हृष्टरोमा वै देहभानविवर्जितः ॥ १२॥
निमग्नं तं भक्तिरसे वीक्ष्य देवो गजाननः ।
तमुवाच महाभक्तं भावज्ञो भावपूरकः ॥ १३॥
गणेश उवाच ।
त्वया कृतमिदं वै यत् स्तोत्रं भक्तिरसप्रदम् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १४॥
मदीया भक्तिरचला तवानघ भविष्यति ।
स्मृतमात्रश्च ते गेहं यास्यामि मुनिसत्तम ॥ १५॥
एवमुक्त्वा गणाधीशोंऽतर्दधे मम पश्यतः ।
सोहं तं हृदये पश्यन् स्थितः शान्तिसमन्वितः ॥ १६॥
गाणपत्यस्वभावेन मूर्तिपूजापरायणः ।
वसिष्ठोऽहं महाभागो योगिवन्द्यो बभूव ह ॥ १७॥
(Page खं. २ अ. ३० पान ६३)
वसिष्ठ उवाच ।
एतत्ते कथितं वत्स शान्तियोगप्रदं शुभम् ।
ज्ञानं तेनैव मार्गेण गणेशं भज भक्तितः ॥ १८॥
एवमुक्तः प्रणम्यादौ मुनिं पौत्रः पराशरः ।
वने गत्वा चकाराऽसौ तपः परमदारुणम् ॥ १९॥
पितामहेन यज्ज्ञानं कथितं योगदं महत् ।
तादृशं साधितं तेन योगभूमिक्रमेण च ॥ २०॥
त्यक्त्वा भूमिं स्वयं योगी गाणपत्यो बभूव ह ।
तस्य पुत्रत्वमापन्नो व्यासो विष्णुः स्वयं प्रभुः ॥ २१॥
तथापि मुनिना तेन पत्न्या वत्सलया सह ।
तपस्तप्तं महाघोरं गणेशस्य महात्मनः ॥ २२॥
सङ्कल्पं पुत्रकामार्थं चकार स महामुनिः ।
गणराजः स्वयं मे वै भविता पुत्र उत्तमः ॥ २३॥
दशवर्षसहस्रैस्तं प्रसन्नो गणनायकः ।
वरं दातुं समायातो भक्तिभावेन तोषितः ॥ २४॥
तं दृष्ट्वा सहसोत्थाय प्रणम्य प्रकृताञ्जलिः ।
तुष्टाव सुस्थिरो भूत्वा पत्न्या साकमुदारधीः ॥ २५॥
पराशर उवाच ।
नमस्ते गजवक्त्राय नराकाराय ते नमः ।
नरकुञ्जररूपाय गणेशाय नमो नमः ॥ २६॥
निर्गुणाय गुणाधाररूपिणे परमात्मने ।
परात्पराय देवायानादिसिद्धाय ते नमः ॥ २७॥
अनन्ताननधारायानन्तपाण्यङ्घ्रिरूपिणे ।
अनन्तविभवायैव गकाराय च ते नमः ॥ २८॥
सर्वहीनाय देवाय मायाभ्यां वर्जिताय ते ।
सदा ब्रह्ममयायैव णकाराय नमो नमः ॥ २९॥
तयोश्च स्वामिने तुभ्यं गणेशाय नमो नमः ।
स्वानन्दवासिने पूर्णभुक्तिमुक्तिप्रदाय ते ॥ ३०॥
किं स्तौमि देवदेवेश वेदवेदान्तकादिभिः ।
सम्पादितं परं ब्रह्म त्वामतः प्रणमाम्यहम् ॥ ३१॥
यदि तुष्टोऽसि देवेश तदा पुत्रो भव प्रभो ।
आवयोर्गणनाथ त्वं तदा मे स्यात् स्थिरं मनः ॥ ३२॥
अस्माकं कुलदेवश्च त्वमेव गणनायक ।
ब्रह्मभावेन नित्यं त्वां भजामस्तत्र विघ्नप ॥ ३३॥
पुत्रभावेन देवेश भजेयं संसृतौ गतः ।
संसारः सफलस्तेन ब्रह्मरूपो भवेच्च मे ॥ ३४॥
श्रुत्वैवं वचनं तस्य पराशरमुनेरिदम् ।
तमुवाच गणाधीशो भक्तं योगधरं परम् ॥ ३५॥
गणेश उवाच ।
त्वया यत्प्रार्थितं विप्र तत्सर्वं सफलं भवेत् ।
तव पुत्रो भविष्यामि गजासुरवधाय च ॥ ३६॥
त्वया स्तोत्रं कृतं यच्च तत्सर्वेच्छितदं भवेत् ।
भुक्तिमुक्तिकरं तेषां पठतां शृण्वतां नृणाम् ॥ ३७॥
एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
पराशरः प्रसन्नात्मा सपत्नीको बभूव ह ॥ ३८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते पराशरवरप्रदानं नाम त्रिंशोऽध्यायः ॥ २.३०
(Page खं. २ अ. ३१ पान ६४)
२.३१ पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
कोऽसौ गजासुरो नाम्ना दैत्यः परमदारुणः ।
वद तस्य चरित्रं मे वधपर्यन्तमुत्तमम् ॥ १॥
यदर्थे गणराजोऽयं मुनिपुत्रोऽभवत्प्रभो ।
तन्न मुद्गल सामान्यं धन्यं जन्मासुरस्य च ॥ २॥
सूत उवाच ।
दक्षस्य वचनं रम्यं श्रुत्वा योगीन्द्रसत्तमः ।
जगाद सकलं तस्य चेष्टितं दैत्यपस्य वै ॥ ३॥
मुद्गल उवाच ।
शृणु दक्ष पुरावृत्तमितिहासं वदामि तम् ।
पापप्रशमनं पूर्णं भुक्तिमुक्तिफलप्रदम् ॥ ४॥
महिषासुरनाशं च चकार जगदम्बिका ।
तस्य पुत्रो महातेजा गजासुर इति स्मृतः ॥ ५॥
पितुर्वधेन सन्तप्तो देवानां वधकाङ्क्षया ।
शुक्रोपदिष्टमन्त्रेण शङ्कराराधने रतः ॥ ६॥
तताप स तपो घोरं निराहारसमन्वितः ।
पञ्चाक्षरविधानेन तोषयामास शङ्करम् ॥ ७॥
दशवर्षसहस्रैस्तु प्रसन्नोऽभूच्छिवः स्वयम् ।
आययौ तं वरं दातुं गजासुरतपोवने ॥ ८॥
काष्ठवत्संस्थितं दैत्यं दृष्ट्वा विस्मयमागतः ।
जगाद तं स्वभक्तं वै शङ्करः करुणानिधिः ॥ ९॥
शिव उवाच ।
वरं वरय मत्तस्त्वं गजासुर महामते ।
तपसा परितुष्टोऽहं तव दास्यामि दुर्लभम् ॥ १०॥
शङ्करस्य वचः श्रुत्वा हर्षयुक्तो महासुरः ।
उपचारैः षोडशभिः प्रणम्यापूजयच्छिवम् ॥ ११॥
अथर्वशिरसा शम्भुं तुष्टावासुरनायकः ।
वरं वव्रे महाक्रूरं तच्छ्रुणुष्व प्रजापते ॥ १२॥
गजासुर उवाच ।
यदि तुष्टोऽसि देवेश वरं देहि महेश्वर ।
ब्रह्माण्डवासिनः सर्वे तेभ्यो मृत्युर्न मे भवेत् ॥ १३॥
राज्यं ब्रह्माण्डगोलस्य देहि सामर्थ्यमुत्तम् ।
सर्वातिगं महेशान नान्यं याचे परं वरम् ॥ १४॥
तथेति तमुवाचाथ शिवोंऽतर्धानगोऽभवत् ।
हर्षयुक्तो महादैत्यस्ततो गेहं समाययौ ॥ १५॥
मात्रा सम्मानितः सोऽपि सुहृद्भिश्च गजासुरः ।
दैत्याः समाययुः सर्वे गृहे तस्य महात्मनः ॥ १६॥
स्वयं गत्वा गुरुं शुक्रमानयामास दैत्यपः ।
ततो मुनिगणैः सार्धमभिषेकं चकार सः ॥ १७॥
दैत्यानां दानवां च राजाभूत् स गजासुरः ।
तैर्युक्तः पृथिवीं जित्वा ययौ स्वर्गं महाबलः ॥ १८॥
देवाः पलायिताः सर्वे ज्ञात्वा क्रूरं गजासुरम् ।
शङ्करं ते समाश्रित्य स्थिताः सर्वे भयातुराः ॥ १९॥
दैत्यैः समावृतः सोऽपि कैलासमगमत्ततः ।
शङ्करः क्रोधसंयुक्तस्तं ययौ देवसंवृतः ॥ २०॥
युद्धाय शङ्करं तेनागतं ज्ञात्वा महासुरः ।
स्वयं सैन्यं पुरस्कृत्याययौ रणविधित्सया ॥ २१॥
देवानां दानवानां च युद्धं परमदारुणम् ।
सञ्जातं च ततो दैत्याः पलायनपरा ययुः ॥ २२॥
तं दृष्ट्वा क्रोधसंयुक्तो गजदैत्यः प्रतापवान् ।
बाणवृष्टिं महोग्रां स ससर्ज सुरनाशिनीम् ॥ २३॥
बाणैर्निपतितास्तस्य देवाः सर्वे धरातले ।
छिन्नाङ्गा मरणप्रायाः प्रलयं मेनिरे तदा ॥ २४॥
इन्द्रादयश्च दिक्पालाः पतिता बाणपीडिताः ।
गदया विष्णुमहनत् सोऽपि भूतलमाश्रितः ॥ २५॥
ततः क्रोधसमायुक्तः शङ्करः शूलमाददे ।
तेनाहनन् महादैत्यं प्रलयाग्निसमेन सः ॥ २६॥
(Page खं. २ अ. ३१ पान ६५)
त्रिशूलेन हतः सोऽपि न चचाल सुराधिपः ।
वरदानप्रभावेण शस्त्राणि व्यर्थतां ययुः ॥ २७॥
सहसागत्य दैत्येशो धृत्वा पादं प्रहस्य वै ।
भ्रामयित्वा महेशानं चिक्षेप रणमूर्धनि ॥ २८॥
ततो देवगणाः सर्वे पलायनपरायणाः ।
ययुर्दश दिशो रक्षो दैत्यसन्त्रासतापिताः ॥ २९॥
दैत्योऽपि शिवलोकं तं दैत्यैः सह समाययौ ।
स्थापयामास देवानां पदेषु श्रेष्ठदानवान् ॥ ३०॥
विकुण्ठादिपदेष्वेते स्थितास्तेन सुमानिताः ।
स्वर्गभोगकराः सर्वे कृता दैत्याः सुरारिणा ॥ ३१॥
कैलासे संहरं दैत्यं स्थापयामास वीर्यवान् ।
स्वयं समागतो दक्ष पृथिव्यां दैत्यपैर्वृतः ॥ ३२॥
महिषाख्यपुरे दुष्टः संस्थितो दैत्यपैः सह ।
चकार सोऽतुलं राज्यं त्रैलोक्यस्य महाबलः ॥ ३३॥
गते बहुतरे काले देवाः सर्वे भयातुराः ।
पर्वतान्तरसङ्गुप्ताः संस्थिता अभवन् द्विजैः ॥ ३४॥
विचारमखिलाश्चक्रुर्गजासुरवधाय ते ।
तत्र विष्णुर्जगादेदं वचनं सर्वतोषदम् ॥ ३५॥
विष्णुरुवाच ।
ब्रह्माण्डवासिनो ये वै तेभ्यो मृत्युर्न विद्यते ।
दैत्यस्य वरदानेन तेन सर्वे पराजिताः ॥ ३६॥
स्वानन्दलोकगः साक्षाद्गणेशो देवनायकः ।
ब्रह्माण्डवर्जितो ब्रह्म तस्मात्तस्य मृतिर्भवेत् ॥ ३७॥
अतस्तं देवदेवेशं तपसा पुष्कलेन वै ।
सर्व आराधयामैव देवाः सर्षिगणाः परम् ॥ ३८॥
स हत्वा तं महादैत्यं प्रदास्यति पदानि वः ।
हितं यदि सुराः कार्यं वचनं मे सुखप्रदम् ॥ ३९॥
विष्णोर्वचनमाकर्ण्य देवा मुनिगणास्तथा ।
साधुसाध्विति तत्रोचुर्बभुस्तपसि संस्थिताः ॥ ४०॥
केचिन् मन्त्रजपं चक्रुः केचिन्नामजपं तथा ।
केचिन् मानसपूजायां निरताश्च बभूविरे ॥ ४१॥
केचिद् ध्यानं गणेशस्य चक्रुः केचित् स्तुतिं विभोः ।
निराहारं तथा केचिद्वायुपत्रादिभक्षकाः ॥ ४२॥
केचिद्धोमं च पञ्चाग्निं धूम्रपानं तथाऽपरे ।
इत्यादि तपसा देवं तोषयामासुरादरात् ॥ ४३॥
शतवर्षे तु तेषां वै प्रादुर्भूतो गजाननः ।
पुरतस्तानुवाचेदं वचनं भक्तवत्सलः ॥ ४४॥
गणेश उवाच ।
देवाश्च मुनयः सर्वे वरं ब्रूत हृदीप्सितम् ।
दुर्लभं त्वपि तद्दास्ये तपसा तोषितो भृशम् ॥ ४५॥
गणेशवचनं श्रुत्वा दृष्ट्वा देवं पुरःस्थितम् ।
प्रणेमुर्मुनयो देवा दण्डवत् पृथिवीतले ॥ ४६॥
परयाऽपूजयन् भक्त्या ब्रह्मेशं ब्रह्मभाविताः ।
तुष्टुवुः सम्प्रहृष्टाश्च सरोमाञ्चाः प्रजापते ॥ ४७॥
देवर्षय ऊचुः ।
नमो नमो गणेशाय गणपालकमूर्तये ।
गणरूपेण सर्वत्र संस्थिताय नमो नमः ॥ ४८॥
मूषकारूढकायैवानादिरूपाय ते नमः ।
आकारादिविहीनायाकारिरूपाय ते नमः ॥ ४९॥
हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तवत्सलभावाय विघ्नेशाय नमो नमः ॥ ५०॥
नमस्तुभ्यं सिद्धिपते सिद्धिदात्रे च ढुण्ढये ।
बुद्धिदात्रे धियः पात्रे सर्वान्तश्चारिणे नमः ॥ ५१॥
स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः ।
योगरूपाय शान्ताय योगानां पतये नमः ॥ ५२॥
आदिमध्यान्तहीनाय कर्त्रे हर्त्रे नमो नमः ।
(Page खं. २ अ. ३२ पान ६६)
पालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥ ५३॥
वक्रतुण्डाय देवाय लम्बोदरधराय च ।
सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥ ५४॥
यं स्तोतुं न समर्थाश्च वेदाः साङ्गाः कदाचन ।
वयं तत्र च के देव वेदैर्ज्ञानधरा यतः ॥ ५५॥
एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः ।
धृत्वा मनसि तद्रूपं भक्तिभावेन यन्त्रिताः ॥ ५६॥
पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः ।
कृतांऽजलिपुटा देवं गणेशं सर्वनायकम् ॥ ५७॥
यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् ।
पदभ्रष्टा वयं तेन कृताः कर्मविवर्जिताः ॥ ५८॥
भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् ।
एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥ ५९॥
देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः ।
उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥ ६०॥
गजासुरवधं देवा मुनयश्च सुदुष्करम् ।
तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥ ६१॥
मदीया भक्तिरचला भविष्यति सुदुर्लभा ।
पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥ ६२॥
भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ ६३॥
पठतां शृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् ।
दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥ ६४॥
इत्युक्त्वान्तर्दधे देवो गणेशः सर्वसिद्धिदः ।
वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥ ६५॥
जातकर्मादिकं सर्वं चकार मुनिसत्तमः ।
ब्राह्मणैर्हर्षितो भूत्वा पत्न्या स्वयमुदारधीः ॥ ६६॥
स बालो ववृधे तत्र हर्षयन् मातरं निजाम् ।
पितरं चेष्टितैः स्वीयैर्बालक्रीडनकैस्तथा ॥ ६७॥
पञ्चमे व्रतबन्धं च चकार मुनिसत्तमः ।
वेदानध्यापयामास साङ्गांस्तान् गणपाय च ॥ ६८॥
विवाहमकरोत्तस्य सिद्धिर्बुद्धिश्च शाश्वते ।
मरीचेश्च सुते जाते दत्ते तेन विधानतः ॥ ६९॥
इति ते कथितं सर्वं पराशरसुतस्य च ।
चरितं गणनाथस्य दैत्यस्य शृणु चेष्टितम् ॥ ७०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः ॥ २.३१
२.३२ गजासुरसैन्यवधो नाम द्वात्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एकदा तं सभायां वै संस्थितं दैत्यनायकम् ।
आययौ सहसा तत्र नारदो कौतुकी मुनिः ॥ १॥
दैत्येन मानितो दक्ष तमुवाच महामुनिः ।
शृणु दैत्याधिप प्राज्ञ हितं ते वचनं महत् ॥ २॥
अरण्ये मुनिभिर्देवैर्गणेशो भक्तिभावितः ।
आराधितो वधार्थं ते पराशरसुतोऽभवत् ॥ ३॥
इत्युक्त्वा प्रययौ तस्मान्नारदो दिव्यदर्शनः ।
दैत्यो रोषसमाविष्टो देवर्षीणां वधे रतः ॥ ४॥
आययौ यत्र देवाश्च मुनयः संस्थिताः खलः ।
दैत्यैः समावृतः सर्वैर्महाबलपराक्रमैः ॥ ५॥
(Page खं. २ अ. ३२ पान ६७)
धृत्वा स सकलान् देवान् खलः सर्षिगणांस्तदा ।
तान् हन्तुं शस्त्रमादत्ते तावत्तैर्विघ्नपः स्मृतः ॥ ६॥
स्मृतमात्रो गणाध्यक्षो बुद्धिभेदं चकार ह ।
दैत्यस्य तेन दैत्येन मानसे धारितं महत् ॥ ७॥
ममाधीना इमे विप्रा देवाश्चैव न संशयः ।
एषां दण्डः प्रकर्तव्यो येन सत्वं गमिष्यति ॥ ८॥
पश्चात्कियति कालेऽहं हनिष्यामि बलात्किल ।
एवं निश्चितसङ्कल्पस्तानुवाच गजासुरः ॥ ९॥
गजासुर उवाच ।
देवा मुनिगणाः सर्वे वचः शृण्वन्तु मे हितम् ।
कर्तव्यं जीवितुं तच्च यदीच्छथ च सत्वरैः ॥ १०॥
कर्णौ सम्पीड्य पाणिभ्यामुत्तमाङ्गं धरातले ।
नित्यमास्फालयध्वं वै मम पादस्य सन्निधौ ॥ ११॥
तदा मुञ्चामि देवेशान्नान्यथा मुनिसत्तमान् ।
शिरच्छेदं च सर्वेषां करिष्यामि न संशयः ॥ १२॥
भवद्भिः प्रार्थितो देवो गणेशो देववल्लभः ।
पराशरसुतो जातः कुरुध्वं तेन संयुताः ॥ १३॥
एवं तस्य वचः श्रुत्वोवाच तं विष्णुरादरात् ।
गणेशं मनसा स्मृत्वा सामयुक्तं वचः शुभम् ॥ १४॥
त्वया यः कथितो दण्डो वयं तं करवामहै ।
सर्वान् देवमुनीन् मुञ्च गमिष्यामो गजाननम् ॥ १५॥
आनयित्वा च देवेशं तेन सार्धं प्रयत्नतः ।
त्वत्पादकमले नित्यं करिष्यामो यथातथम् ॥ १६॥
गणेशमायया भ्रान्तो दैत्यराजः प्रतापवान् ।
सकलान् मोचयामास देवानृषिसमन्वितान् ॥ १७॥
दिवसे पञ्चमे प्राप्ते नागता मे प्रसन्निधौ ।
तदा सर्वान् हनिष्यामि गणेशेन समन्वितान् ॥ १८॥
तथेत्युक्त्वा गताः सर्वे पराशरगृहं प्रति ।
गजाननं तत्र दृष्ट्वा प्रणेमुर्दण्डवत् क्षितौ ॥ १९॥
पराशरो विस्मितोऽसौ पूजयामास तान् स्वयम् ।
सहसा सकलान् प्राप्तान मुनीन् देवान् विशेषतः ॥ २०॥
पराशरेण संयुक्ताः सर्वे तेऽकथयंस्तदा ।
स्तुत्वा च विविधैः स्तोत्रैर्गजासुरविचेष्टितम् ॥ २१॥
कर्णौ सम्पीड्य देवेश शिरःस्फालनमञ्जसा ।
कथं कुर्मोऽसुरस्याग्रे चरणावनताः प्रभो ॥ २२॥
नीचस्य नमनाद्देव मरणं हि वरं स्मृतम् ।
तस्मात्त्वं जहि देवान् वा मुनीन् दैत्यान् गजानन ॥ २३॥
मुद्गल उवाच ।
देवादीनां वचः श्रुत्वा स्मित्वा तानब्रवीत् प्रभुः ।
भक्तवत्सलभावेन यन्त्रितः स प्रजापते ॥ २४॥
गणेश उवाच ।
चिन्ता नैव प्रकर्तव्या हनिष्याम्यसुरं क्षणात् ।
कुरुध्वं मे वचो रम्यं सर्वेषां सुखदं भवेत् ॥ २५॥
दैत्येन्द्रेण प्रकथितो दण्ड एव स मे प्रियः ।
मम पादस्य सामीप्ये कुरुध्वं सर्वभावतः ॥ २६॥
तदा दैत्यं महाघोरं हनिष्यामि प्रपश्यताम् ।
भवतां नात्र सन्देहः क्षणार्धेन च सत्तमाः ॥ २७॥
गणेशस्य वचो रम्यं श्रुत्वा देवर्षिसत्तमाः ।
परस्परं मुखालोकमकुर्वन् स्मितपूर्वकम् ॥ २८॥
तत्र शम्भुरुवाचेदं वचनं हितकारकम् ।
अस्माकं कुलदेवोऽयं तस्मात् कुर्वन्तु सत्तमाः ॥ २९॥
इत्युक्त्वा शङ्करस्तत्र पाणिभिः श्रवसि स्वयम् ।
(Page खं. २ अ. ३२ पान ६८)
पीडयित्वा शिरोभिस्तच्चरणे ध्वनिमाचरत् ॥ ३०॥
मृदुर्मधुररूपः स शब्दश्च शिरसाऽभवत् ।
श्रुत्वा गजाननो हृष्टो बभूव परमं तदा ॥ ३१॥
ततो विष्ण्वादिभिर्देवैर्भृग्वादिप्रमुखैस्तथा ।
मुनिभिश्च कृतं दक्ष ततोऽत्यन्तं मुमोद सः ॥ ३२॥
भूत्वा तु मूषकारूढो चतुरायुधभूषितः ।
गजासुरवधार्थाय ययौ गणपतिः स्वयम् ॥ ३३॥
महिषाख्ये पुरे गत्वा सिंहनादं चकार सः ।
तेन भ्रान्ताश्चासुरास्ते गजदैत्यस्तथा स्वयम् ॥ ३४॥
एतस्मिन्नन्तरे तत्र गुल्मस्था असुरा ययुः ।
छिन्नभिन्नीकृताङ्गा वै शसंसुर्देवचेष्टितम् ॥ ३५॥
असुरा ऊचुः ।
गणेशेन समायुक्ता देवा मुनिगणाः प्रभो ।
आययुर्योद्धुमत्यन्तं मदयुक्ता गजासुर ॥ ३६॥
तेषां वचनमाकर्ण्य गजदैत्यः प्रतापवान् ।
सर्वानाज्ञापयामास दैत्यान् सज्जीभवन्त्विति ॥ ३७॥
स्वयं सुसज्जितो भूत्वा रथारूढश्च निर्ययौ ।
अनु तं दैत्यसैन्येशा दैत्यास्ते निर्ययुः पुरात् ॥ ३८॥
अपारसेनया युक्तं तं ददर्श गजासुरम् ।
गजाननः प्रसन्नात्मा कालस्य भयदायकः ॥ ३९॥
ततो गजासुरः कोपाद्दैत्यानाज्ञापयत्तदा ।
संहरध्वं सुरान् सर्वान् मुनीन् यक्षादिसंयुतान् ॥ ४०॥
दैत्येन्द्रेण समाज्ञप्ता असुरा जयशालिनः ।
अस्त्रैः शस्त्रैश्च ते देवान् पीडयामासुरोजसा ॥ ४१॥
देवाः क्रोधसमाविष्टा मरणे कृतनिश्चयाः ।
दैत्यान् प्रहरणैर्जघ्नुः शस्त्रैर्नानाविधैस्तदा ॥ ४२॥
दैत्यानां चैव देवानां युद्धं परमदारुणम् ।
बभूव तुमुलं तत्र परस्परविनाशनम् ॥ ४३॥
असृङ्नदी प्रवृत्ता च महौघा वीरमोहिनी ।
भग्ना दैत्यगणास्तत्र प्रहारपरिपीडिताः ॥ ४४॥
त्यक्त्वा दैत्यगणा लज्जां पलायन्त दिशो दश ।
तत् दृष्ट्वा दैत्यराजस्तु विस्मितोऽभूत् प्रजापते ॥ ४५॥
ततो दैत्याधिपाः क्रूराः प्रधानप्रमुखा रणम् ।
आययुर्देवसेनां ते निर्जघ्नुश्च महाबलाः ॥ ४६॥
तत इन्द्रादिभिस्ते वै रणं कृत्वा सुदारुणम् ।
निहता मूर्च्छिताः केचिद्रणे भूमौ निपातिताः ॥ ४७॥
हा हा दैत्यगणाः कृत्वा पलायन्त दिशो दश ।
तत् दृष्ट्वा दैत्यराजः स विस्मयं परमं ययौ ॥ ४८॥
विपरीतं मया दृष्टं वह्निः शीतो यथाऽभवत् ।
तथा देवैर्मदीयेयं सेना सर्वा पराजिता ॥ ४९॥
एवं मनसि सन्तप्तः क्रोधारुणविलोचनः ।
रथारूढः स्वयं योद्धुमाययौ स गजासुरः ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते गजासुरसैन्यवधो नाम द्वात्रिंशोऽध्यायः ॥ २.३२
(Page खं. २ अ. ३३ पान ६९)
२.३३ गजासुरवधाख्यानं नाम त्रयस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
समागतं महादैत्यं दृष्ट्वा देवा भयातुराः ।
गजाननं निजं नाथं ययुर्वृत्तान्तमीरितुम् ॥ १॥
स वृत्तान्तं देवमुखात् श्रुत्वा क्रोधसमन्वितः ।
परशुं पाशमुग्रं च गदां धृत्वा ययौ तदा ॥ २॥
मूषकारूढमाद्यं तं पुरुषं दैत्यनायकः ।
दृष्ट्वा गजाननं दीप्तमुवाच बलगर्वितः ॥ ३॥
गजासुर उवाच ।
किमर्थं रणभूमौ त्वमागतो ब्राह्मणाधम ।
तपः कार्यं त्वया नित्यं कथं क्षात्रं समाश्रितः ॥ ४॥
ब्रह्मादयो जिता येन तेन सार्धं त्वया द्विज ।
युद्धं कर्तव्यमत्यन्तं वृथा मरणमाप्स्यसि ॥ ५॥
गच्छ स्वमाश्रमं विप्र न हन्मि त्वां समागतम् ।
बालभावात् कृतं कर्म सहेहं नात्र संशयः ॥ ६॥
इत्युक्तवन्तमालोक्य शम्भुः क्रोधसमन्वितः ।
उवाच तं महादैत्यं वचस्तद्धितकाम्यया ॥ ७॥
शिव उवाच ।
मूर्खोऽसि दैत्यराज त्वं नायं ब्राह्मणसत्तमः ।
गणेशोऽयं सदा सेव्यो योगिभिः परमादृतैः ॥ ८॥
पराशरस्य पुत्रोऽभूत्तपसाराधितः स्वयम् ।
वरदानप्रभावेण त्वां हनिष्यति निश्चितम् ॥ ९॥
त्यक्त्वा वैरं गणेशं च शरणं दैत्यनायक ।
एहि नोचेच्च सर्वस्वं हित्वा मृत्युमवाप्स्यसि ॥ १०॥
वस पातालभूमौ त्वं न गणेशो हनिष्यति ।
एवं श्रुत्वा वचः शम्भुं जघान गदयाऽसुरः ॥ ११॥
मूर्च्छया पतितो भूमौ शङ्करस्तत्र सङ्गरे ।
शस्त्रास्त्रैस्तेन दैत्येन मूर्च्छिताश्च कृताः सुराः ॥ १२॥
विष्ण्वाद्याश्च रणे तत्र पतिताः पीडिता भृशम् ।
दैत्याधिपं ततो दृष्ट्वा गणेशोऽस्त्रमुपाददे ॥ १३॥
परशुं मन्त्रयामास संहारास्त्रविधानतः ।
तत्याज दैत्यसेनायां महास्त्रं यमसन्निभम् ॥ १४॥
हताः परशुना दैत्या यत्र तत्र स्थिता मृधे ।
पश्यतो दैत्यराजस्य प्रधानाश्च मृताः सुताः ॥ १५॥
संहारास्त्रनिवृत्त्यर्थं नानायत्नमथाकरोत् ।
सर्वं तन्निष्फलं जातं गजदैत्यस्य संयुगे ॥ १६॥
एक एव महादैत्यो वरदानप्रभावतः ।
स संहारादुर्वरितो हतः परशुना न च ॥ १७॥
ततो दैत्यो ययौ क्रोधात्समीपे विघ्नपस्य च ।
शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धोद्यतोऽभवत् ॥ १८॥
तादृशं तं गणेशानो दृष्ट्वा क्रोधसमन्वितः ।
दर्शयामास दैत्याय रूपं स्वानन्दगं परम् ॥ १९॥
अनन्तादित्यसङ्काशं गजवक्त्रविराजितम् ।
ज्योतिषां ज्योतिरापूर्णं योगरूपं सुशान्तिदम् ॥ २०॥
तं धर्तुं दैत्यराजः स्म यतते निकटस्थितम् ।
आकाशवन्न तद्रूपं हस्तगं चाऽभवत् प्रभोः ॥ २१॥
आश्चर्यं हृदये मत्वा दैत्येशो विह्वलो भृशम् ।
अहो मया धृतो ढुण्ढिर्हस्तगो मे न हस्तगः ॥ २२॥
किमिदं कौतुकं पूर्णं गणेशोऽयं सनातनः ।
ब्रह्माकारो न सन्देहो हनिष्यति स मां ध्रुवम् ॥ २३॥
धन्यं जन्म मदीयं वै पितरावाश्रमादिकम् ।
गणेशहस्तशस्त्रेण मरिष्यामि न संशयः ॥ २४॥
शुकाद्या योगिनो यं वै प्राप्ता योगैः सुदुश्चरैः ।
आयासेन विना सोऽयं मया प्राप्तो गजाननः ॥ २५॥
(Page खं. २ अ. ३४ पान ७०)
तं प्रणम्य महाभक्त्या दैत्येशो वरकाङ्क्षया ।
जगाद गणनाथं वै भावभावितमादरात् ॥ २६॥
ब्रह्म ब्रह्मेश जहि मां दासं ते गणनायक ।
वरं प्रयच्छ मे त्वेनं नमामि त्वां पुनः पुनः ॥ २७॥
न संसारसुखे चित्तं मदीयं ते प्रदर्शनात् ।
त्वया हतो भविष्यामि ब्रह्मभूतो न संशयः ॥ २८॥
प्रार्थयन्तं महादैत्यमङ्कुशेन जघान तम् ।
गणेशः सोऽपि सायुज्यं तस्य प्राप्तः प्रजापते ॥ २९॥
शङ्कराद्याः सुरास्तत्र मुनयो मोहसंयुताः ।
न विदुश्चेष्टितं तस्य बभुर्भ्रान्ता इव स्थिताः ॥ ३०॥
हतं दैत्यं समालोक्य हर्षितास्ते तदाऽभवन् ।
गणेशोऽपि स्वकं रूपं लीनं कृत्वा स्थितः पुरः ॥ ३१॥
पूर्वाकारं च तं दृष्ट्वा तुष्टुवुस्ते सुरर्षयः ।
सम्पूज्य भक्तिभावेन नेमुश्च ननृतुः पुरः ॥ ३२॥
देवर्षय ऊचुः ।
नमस्ते गजवक्त्राय गजाननसुरूपिणे ।
पराशरसुतायैव वत्सलासूनवे नमः ॥ ३३॥
व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः ।
अनादिगणनाथाय स्वानन्दावासिने नमः ॥ ३४॥
रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय वै ।
तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३५॥
प्रकृतेः पुरुषस्यापि रूपिणे परमात्मने ।
बोधाकाराय वै तुभ्यं केवलाय नमो नमः ॥ ३६॥
स्वसंवेद्याय देवाय योगाय गणपाय च ।
शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ३७॥
विनायकाय वीराय गजदैत्यस्य शत्रवे ।
मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ३८॥
देवरक्षाकरायैव विघ्नेशाय नमो नमः ।
वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ३९॥
त्वयाऽयं निहतो दैत्यो गजनामा महाबलः ।
ब्रह्माण्डे मृत्युसंहीनो महाश्चर्यं कृतं विभो ॥ ४०॥
हते दैत्येऽधुना कृत्स्नं जगत् सन्तोषमेष्यति ।
स्वाहास्वधायुतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ४१॥
एवमुक्त्वा गणाधीशं सर्वे देवर्षयस्ततः ।
प्रणम्य तूष्णीम्भावं ते सम्प्राप्ता विगतज्वराः ॥ ४२॥
कर्णौ सम्पीड्य गणपचरणे शिरसो ध्वनिः ।
मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ४३॥
तानुवाच मदीया ये भक्ताः परमभाविताः ।
तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ ४४॥
तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सितम् ।
एतादृशं प्रियं मे च नमनं नात्र संशयः ॥ ४५॥
एवमुक्त्वा स तान् सर्वान् सिद्धिबुद्ध्यादिसंयुतः ।
अन्तर्दधे ततो देवा मुनयः स्वस्थलं ययुः ॥ ४६॥
पिता पराशरस्तस्य माता वै वत्सला प्रभोः ।
शोकसागरमग्नौ तौ श्रुत्वा वार्तां निपेततुः ॥ ४७॥
ततः कारुणिको देवस्तयोश्चित्तप्रकाशकः ।
योगशान्तिमयं ज्ञानं बोधयामास शाश्वतम् ॥ ४८॥
मूर्तिं मदीयां वै कृत्वा संस्थाप्य ब्राह्मणैः सह ।
तस्याः पूजा प्रकर्तव्या भवद्भ्यां नित्यमादरात् ॥ ४९॥
देहव्यापारिता तत्र कर्तव्या हृदि शान्तिदम् ।
(Page खं. २ अ. ३४ पान ७१)
योगरूपधरं दृष्ट्वा कालमाक्रमतं सदा ॥ ५०॥
एवमुक्त्वा हृदिस्थोऽसौ गणेशोंऽतर्दधे ततः ।
कृतवन्तौ महाभागौ तथा दक्षसुयोगिनौ ॥ ५१॥
अचला स्थापिता मूर्तिः सिद्धिदा साऽभवत्परा ।
दर्शनान् मोक्षदा दक्ष सकामानां प्रकामदा ॥ ५२॥
एतत्ते कथितं सर्वं गजासुरवधाश्रितम् ।
चरितं गणनाथस्य सर्वपापहरं शुभम् ॥ ५३॥
यः शृणोति नरो भक्त्या पठेद्वा तु प्रजापते ।
तस्मै भुक्तिप्रदं पूर्णं मुक्तिदं प्रभविष्यति ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते गजासुरवधाख्यानं नाम त्रयस्त्रिंशोऽध्यायः ॥ २.३३
२.३४ व्यासमाहात्म्यं नाम चतुस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
पराशरस्य पुत्रोऽभूत् व्यासः साक्षाज्जनार्दनः ।
वेदादिभागसिद्ध्यर्थं देवैः सम्प्रार्थितः पुरा ॥ १॥
स एव ज्ञानगर्वेण न सस्मार गजाननम् ।
नमनं न प्रकर्तव्यं मया विष्णुस्वरूपिणा ॥ २॥
ततस्तस्य गतं ज्ञानं सकलं वेदशास्त्रजम् ।
प्रययौ दुःखितस्तेन ब्रह्माणं शरणं पुरा ॥ ३॥
ब्रह्मणा बोधितो व्यासः पुराणं श्रुतवान् प्रभोः ।
गाणेशमादिभूतं तत्तेन स ज्ञानवानऽभूत् ॥ ४॥
तपस्तप्त्वा सुविपुलं गाणपत्यो बभूव ह ।
शान्तियोगधरः साक्षाद्व्यासो नारायणः स्वयम् ॥ ५॥
ततो व्यासेन वेदानां शाखा भिन्नाः कृताः पराः ।
सौलभ्यार्थं नराणां वै कर्मादिज्ञानसिद्धये ॥ ६॥
आदौ वेदं यजुःसंज्ञं तं चतुर्धा विभज्य सः ।
चातुर्होत्रं चकारैव कर्म सर्वं प्रजापते ॥ ७॥
यजुषाध्वर्यवं चक्रे ऋग्भिर्होतृत्वमञ्जसा ।
उद्गातृत्वं चकाराऽसौ सामभिः सर्वसम्मतः ॥ ८॥
ब्राह्ममेवाकरोद्विप्रोऽथर्वभिः सुसमाहितः ।
एवं चतुर्विधं कर्म कृत्वा मान्यो बभूव ह ॥ ९॥
मन्त्रैर्युक्ता पुरा तेन संहिता विविधा कृता ।
यज्ञार्थं ब्राह्मणं प्रोक्तं योगार्थं यदरण्यकम् ॥ १०॥
पैलं शिष्यं महाबुद्धिमृग्वेदे भेदधारकम् ।
वैशम्पायनमेवं स यजुषां भेदधारकम् ॥ ११॥
जैमिनिं सामवेदस्य पारगं प्रचकार ह ।
अथर्वधारकं विप्रं सुमन्तुं मुनिसत्तमः ॥ १२॥
तेन चाष्टौ कृता भेदा ऋग्वेदस्य महात्मना ।
षडशीतिः कृता भेदा यजुर्वेदस्य वै तथा ॥ १३॥
एकं सहस्रं शाखानां सामवेदस्य वै कृतम् ।
अथर्वणस्तथा भेदा कृता नव विवेकिना ॥ १४॥
पुराणमेकरूपं वै शिष्याय प्रददौ मुनिः ।
रोमहर्षणसंज्ञाय सूताय नतरूपिणे ॥ १५॥
पुराणस्य कृता भेदा अष्टादश महात्मना ।
पुराणोपपुराणाख्या द्विविधा संहिता स्मृता ॥ १६॥
ब्राह्मं च वैष्णवं पाद्मं शैवं भागवतं तथा ।
(Page खं. २ अ. ३४ पान ७२)
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ॥ १७॥
आग्नेयं वायवं मात्स्यं वाराहं कौर्ममेव च ।
लैङ्गं गारुडकं स्कान्दं ब्रह्माण्डं च प्रजापते ॥ १८॥
अष्टादश पुराणानि कथितानि विशेषतः ।
तथैवोपपुराणानि कथयामि प्रजापते ॥ १९॥
गाणेशं नारदीयं च नारसिंहं च कापिलम् ।
नान्दिकेयं च वारुण्यं दौर्वाससमथाम्बिकम् ॥ २०॥
कालिकेयं च मारीचमौशनसं च भार्गवम् ।
सानत्कुमारकं चैव कौमारं च प्रजापते ॥ २१॥
माहेश्वरं च सौरं वै पाराशर्यं च मौद्गलम् ।
अष्टादश पुराणानि कथितानि समासतः ॥ २२॥
धर्माधर्मव्यवस्थार्थं चक्रे भारतमुत्तमम् ।
एतत्सर्वं स जग्राह व्यासात् सूतो महामतिः ॥ २३॥
एतानि गाणपत्यानि ज्ञातव्यानि विचक्षणैः ।
अन्यानि सेतिहासानि गणेशस्तुतिमन्ति वै ॥ २४॥
श्रुत्वा सुवचनं तस्य मोहिता मुनयः पुनः ।
ऊचुः सूतं महाप्रज्ञं संशयच्छेदनाय ते ॥ २५॥
शौनकाद्या ऊचुः ।
कथं सूत शिवादीनां पुराणानि महामते ।
प्रोक्तानि गाणपत्यानि वद संशयमुक्तये ॥ २६॥
तेषां वचनमाकर्ण्य सूतः सर्वार्थकोविदः ।
जगाद तान् महाबुद्धिः संशयच्छेदनं वचः ॥ २७॥
सूत उवाच ।
गणेशस्य स्वरूपं यत् पञ्चधा व्यासभाषितम् ।
ज्ञातव्यं मुनिशार्दूलास्तेषां भेदं वदाम्यहम् ॥ २८॥
आद्यं ब्राह्मं पुराणं यद्गाणपत्यं प्रकीर्तितम् ।
निर्गुणो गणपस्तत्र वर्णितो ब्रह्मवाचकः ॥ २९॥
हृदयेषु जनानां वै बुद्धीनां यत् प्रकाशकृत् ।
तदेव तस्य रूपं तद्ध्यायन्ति त्यागिनः प्रभोः ॥ ३०॥
आकारादि विहीनं तत् साक्षिभूतं सदा परम् ।
मनोवाणीविहीनं च ज्ञातव्यं न्यासिभिर्मुने ॥ ३१॥
तं ध्यायन्ति महाभागा योगिनश्च चतुर्विधाः ।
संन्यासिनो हृदिस्थं ते गणेशं बुद्धिचालकम् ॥ ३२॥
अन्यदन्त्यं पुराणं यद्ब्रह्माण्डं गणपस्य तत् ।
तत्रोङ्कारमयाकारः सगुणो वर्णितः प्रभुः ॥ ३३॥
जगद्विहारकारी स पञ्चधा प्रबभूव ह ।
प्रणवः प्रणवाकारो गजानन उदाहृतः ॥ ३४॥
अकारोकारको चैव मकारो नाद आबभौ ।
बिन्दुः पञ्च विभज्यात्मा नानाखेलं करोति सः ॥ ३५॥
जगदाकाररूपेण स्थितं विघ्नेशमादरात् ।
ध्यायन्ति जगदात्मानं प्रणवाकृतिलक्षणम् ॥ ३६॥
स्मरन्ति तं द्विजा नित्यं वेदादौ कर्मसिद्धये ।
ब्रह्माण्डाकारविघ्नेशः सगुणः परिकीर्तितः ॥ ३७॥
तथैवोपपुराणेषु गाणेशं चाद्यमञ्जसा ।
पुराणं तद्गणेशस्य भिन्नमूर्तिधरस्य च ॥ ३८॥
सगुणं जगदाकारं निर्गुणं बुद्धिचालकम् ।
तयोर्ज्ञानप्रसिद्ध्यर्थं मूर्तिमन्तं स्तुवन्ति ते ॥ ३९॥
गजवक्त्रादिचिह्नैश्च चिह्नितं गणनायकम् ।
मन्त्रादिना भजन्ते तं भावयुक्ता महर्षयः ॥ ४०॥
तस्योपासनमात्रेण सगुणं निर्गुणं तथा ।
सुलभं प्राप्यते ब्रह्म योगिभिस्तापसोत्तमैः ॥ ४१॥
अन्त्यं मौद्गलमेतच्च पुराणोपनिषत्परम् ।
तत्र विघ्नेशमाहात्म्यं योगाकारं प्रकीर्तितम् ॥ ४२॥
(Page खं. २ अ. ३५ पान ७३)
सगुणं निर्गुणं ब्रह्म मूर्तिरूपधरं मुने ।
त्रयाणां योगरूपं वै मुद्गलेन प्रकाशितम् ॥ ४३॥
योगिनः शुकमुख्यास्तं प्रभजन्ति यथातथम् ।
योगेनाभेदसंज्ञेन वर्णाश्रमविवर्जिताः ॥ ४४॥
तस्मादादौ गणेशस्य पूजनं सर्वसम्मतम् ।
अन्ते सोऽपि न सन्देहो वेदान्तेषु विशेषतः ॥ ४५॥
य आदिः प्रलयान्ते स तिष्ठेद्वै सर्वसम्मतम् ।
तस्मादाद्यन्तभागेषु पुराणेषु गणेश्वरः ॥ ४६॥
पञ्चमं मध्यरूपं च गणेशस्य महात्मनः ।
कलांशेन प्रसङ्ख्यातं नामरूपधरं मुने ॥ ४७॥
शिवविष्ण्वादिभेदैश्च स खेलति गजाननः ।
तेषां मध्ये पुराणानि व्यासेन कथितानि वै ॥ ४८॥
तस्मात् सर्वपुराणेषु गणेशस्यैव वर्णनम् ।
कथितं नात्र सन्देहो व्यासेनामितबुद्धिना ॥ ४९॥
इदं पञ्चविधं रूपं गणेशस्य महात्मनः ।
यो जानाति नरः सोऽपि मोहहीनो भविष्यति ॥ ५०॥
चतुर्विधं गणेशस्य पूजनं कथितं सदा ।
सर्वारम्भेषु सिद्धीनां दायकं भक्तिकारिणे ॥ ५१॥
मूर्तिपूजनमेकं च द्वितीयं प्रणवात्मकम् ।
तृतीयं बुद्धिदं चैव शान्तिरूपं चतुर्थकम् ॥ ५२॥
अत आदौ जनाः केचिद् ग्रन्थेषु ब्रह्मरूपकम् ।
स्मरन्ति वा पूजयन्ति सर्वसिद्धिप्रदायकम् ॥ ५३॥
केचिद् बुद्धिप्रदं देवं हृदिस्थं संस्मरन्ति वा ।
पूजयन्ति द्विजेन्द्राद्याः सर्वदा गणनायकम् ॥ ५४॥
केचिदोङ्काररूपं तं पूजयन्ति स्मरन्ति वा ।
सर्वादौ सर्वसिद्धीनां दायकं विघ्ननायकम् ॥ ५५॥
केचिन् मूर्तिधरं देवं पूजयन्ति स्मरन्ति वा ।
सर्वादौ गणनाथं च ज्ञातव्यं शास्त्रसम्मतम् ॥ ५६॥
अत आदौ तथा मध्ये सर्वांऽते स गजाननः ।
शोभते योगरूपेण शान्तिदो भक्तवत्सलः ॥ ५७॥
ब्रह्मणा बोधितो व्यासो गाणपत्यः प्रतापवान् ।
गणेशप्राप्तिकामार्थं नानाभेदं चकार सः ॥ ५८॥
वासनाच्छेदनार्थं च जनानां योगसिद्धये ।
शिवादीनां पुराणानि क्रमार्थ वर्णितानि वै ॥ ५९॥
एतद्व्यासस्य माहात्म्यं कथितं सकलं तव ।
यः शृणोति नरो भक्त्या पठेद्वै तस्य सर्वदम् ॥ ६०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते व्यासमाहात्म्यं नाम चतुस्त्रिंशोऽध्यायः ॥ २.३४
२.३५ शुकोपाख्यानं नाम पञ्चत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
व्यासस्याऽपि सुतो जज्ञे शुकः साक्षाच्छिवः स्वयम् ।
तपसाराधितस्तेन योगिनां स शिरोमणिः ॥ १॥
शुको गर्भाद्विनिःसृत्य सङ्गभीत्याऽपलायत ।
सङ्गेन ज्ञानभङ्गो वै जायते विषयात्मनाम् ॥ २॥
तं गच्छन्तं समालोक्य व्यासो वै धावितोऽभवत् ।
बोधयन् हेतुभिर्वाक्यैर्नानाक्रममयैः सुतम् ॥ ३॥
तिष्ठ तिष्ठ महायोगिन् शृणु मे परमं वचः ।
प्रथमं ब्रह्मचर्यं च ततो गार्हस्थ्यमञ्जसा ॥ ४॥
ततो वनाश्रमः प्रोक्तस्ततः सन्यास आदरात् ।
क्रमेण सेविता एते तदा योगः सुसिध्यति ॥ ५॥
अन्यथा सहसा कृत्वा योगभ्रष्टो नरो भवेत् ।
अथवा भ्रष्टभावेन नारकी धर्मनाशतः ॥ ६॥
अतो मनोजयार्थं त्वं क्रममार्गं समाचर ।
अन्ते योगीन्द्रसंसेव्यो भविष्यसि न संशयः ॥ ७॥
सहसा मा चर त्वं वै त्यागं परमदुस्तरम् ।
मनश्चञ्चलभावेन पतिष्यसि न संशयः ॥ ८॥
इत्याद्यैर्विविधैर्वाक्यैः सुतो व्यासेन बोधितः ।
सङ्गस्यैव भयाद्योगी न बुबोध शुको मुने ॥ ९॥
व्यासोऽपि भावि च ज्ञात्वा ययौ स्वस्याश्रमं स्वयम् ।
गणेशं मनसा ध्यात्वा संस्थितश्चिन्तयान्वितः ॥ १०॥
एतस्मिन्नन्तरे तत्र ब्रह्मा स्वयमुपागतः ।
तं प्रणम्य शुकस्याऽपि वृत्तान्तमवदन्मुनिः ॥ ११॥
ततस्तं प्रत्युवाचाथ ब्रह्मा चिन्तां तु मा कुरु ।
शुको न भविता शम्भुर्भ्रष्टो वै नात्र संशयः ॥ १२॥
एवमाश्वास्य तं व्यासं तस्य पूजां प्रगृह्य सः ।
ययौ स्वभवनं ब्रह्मा व्यासो वै हर्षितोऽभवत् ॥ १३॥
शुकः स नर्मदातीरे संस्थितो योगसेवया ।
सर्वत्र ब्रह्मभावेनाचिन्तयद्ब्रह्म शाश्वतम् ॥ १४॥
सम्प्रज्ञातोऽष्टधा तेन साधितो वेदमार्गतः ।
असम्प्रज्ञातयोगेषु संस्थितो योगिसत्तमः ॥ १५॥
शुकेश्वरस्तत्र साक्षाच्छङ्करस्तिष्ठति प्रभुः ।
शिवेन हृदि संस्थेन बोधितो बादरायणिः ॥ १६॥
गुरुणा तेन हीनोऽयं शुको योगं समभ्यसत् ।
योगभूमिक्रमेणैवासाधयद्योगमुत्तमम् ॥ १७॥
स्वत उत्थानकं ब्रह्म साधयित्वा विधानतः ।
प्राप्तं परत उत्थानं तेन साङ्ख्यं महात्मना ॥ १८॥
तत्र ब्रह्मणि संसक्तो योगाभेदेन केवले ।
बभ्राम पृथिवीं सर्वां विदेहोऽसौ महामुनिः ॥ १९॥
ब्रह्म साङ्ख्यं निराधारं दृष्ट्वा संशयवानभूत् ।
तदर्थं जनकं सोऽपि ययौ हर्षसमन्वितम् ॥ २०॥
जनकेन तथा साङ्ख्यं विदेहं कथितं परम् ।
ततः संशयहीनश्च जातो वैयासकिः प्रभुः ॥ २१॥
साङ्ख्ये बोधस्य नाशः स्यात्तत् दृष्ट्वा विस्मितो मुनिः ।
विचारमकरोच्चित्ते योगभावेन भावितः ॥ २२॥
बोधेनोत्थानकं जन्तोर्जायते नात्र संशयः ।
बोधहीनेन योगेनोत्थानं नास्य भवेत् कदा ॥ २३॥
ब्रह्म योगमयं प्रोक्तं तत्रोत्थानविहीनता ।
उत्थानं विद्यते नैव ब्रह्माकारं प्रवर्तते ॥ २४॥
साङ्ख्यं ब्रह्म विदेहत्वान्मतं चोपाधिवर्जितम् ।
न मुख्यं शान्तिदं प्रोक्तं योगीन्द्रैर्योगचिन्तकैः ॥ २५॥
व्यासेन वेदशाखाश्च कृता भिन्ना महात्मना ।
पुराणानि विभिन्नानि कृतानि समवेदिना ॥ २६॥
अहं तं शरणं यामि तातं शान्त्यर्थमादरात् ।
स एव सर्ववित् साक्षाच्छान्तिदाता भविष्यति ॥ २७॥
विचार्य मतिमानेवं शुको हर्षसमन्वितः ।
आगत्य निकटे तस्य तं ननाम कृताञ्जलिः ॥ २८॥
तत्र व्यासोऽपि योगिभ्यः प्रावदद्योगमुत्तमम् ।
तं श्रुत्वा हर्षितो भूत्वा शुको वच उवाच तम् ॥ २९॥
स्वामिञ्छृणु मदीयं वै प्रश्नं योगप्रसिद्धये ।
शान्तियोगस्य दाता कः कीदृशो योग उत्तमः ॥ ३०॥
(Page खं. २ अ. ३६ पान ७५)
वद मां करुणासिन्धो योगिभ्यो योगदायक ।
योगीन्द्रस्त्वं न सन्देहो भ्रान्त्याऽहं भ्रमितोऽभवम् ॥ ३१॥
शुकस्य वचनं श्रुत्वा तं व्यासः प्रत्युवाच ह ।
शृणुष्व त्वं महाभाग योगं शान्तिप्रदायकम् ॥ ३२॥
गणेशः शान्तिरूपश्च योगशान्तिप्रदायकः ।
तं भजस्व महायोगिन् तेन शान्तो भविष्यसि ॥ ३३॥
ब्रह्मणा बोधितोऽहं तं भजामि गणनायकम् ।
तेन सर्वज्ञतां यातो योगीन्द्रैः सेवितोऽभवम् ॥ ३४॥
गणो धातुः समूहे च कथितो नात्र संशयः ।
बाह्यान्तरादिसंयोगे समूहो भवति प्रभो ॥ ३५॥
ब्रह्मरूपाः समूहाश्च तेषां स्वामी गणेश्वरः ।
संयोगायोगयोगेन प्राप्यते योगिभिः परः ॥ ३६॥
एवमुक्त्वा गणेशस्य वेदपादस्तवं ददौ ।
रचितं विष्णुना पूर्वं शान्तियोगप्रदायकम् ॥ ३७॥
येन विष्णुः सुशान्तोऽभूदिहलोके सुखात्मकः ।
जातः पालकभावेन भगवन्नामधारकः ॥ ३८॥
प्रगृह्य साधयामास शुकस्तं परमाद्भुतम् ।
गाणपत्यो बभूवाथ योगिवन्द्यो महाद्युतिः ॥ ३९॥
नित्यं गणेशमाहात्म्यं वेदपादस्तवं शुकः ।
जपति स्नेहभावेन दिवानक्तमखण्डितम् ॥ ४०॥
एतच्छुकस्य माहात्म्यं कथितं ते प्रजापते ।
पठते शृण्वते सर्वसुखदं प्रभवेत् परम् ॥ ४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते शुकोपाख्यानं नाम पञ्चत्रिंशोऽध्यायः ॥ २.३५
२.३६ गौतमचरितं नाम षट्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
त्रयः पुत्रा अङ्गिरसो बभूवुर्ब्रह्मवादिनः ।
गाणपत्या महाभागाः सर्वज्ञाः सुखदायिनः ॥ १॥
उतथ्यः प्रथमः प्रोक्तो द्वितीयस्तु बृहस्पतिः ।
संवर्तश्च तृतीयोऽभूद्योगशास्त्रपरायणः ॥ २॥
शिक्षितोङ्गिरसा पुत्र उतथ्यः स्वल्पकालतः ।
ब्रह्मभूतोऽभवत्सद्यो गाणपत्यो विशेषवित् ॥ ३॥
बृहस्पतिः क्रमेणैव योगभूमिविशारदः ।
भूमीनां साधने सक्तोऽभवच्छैवः स्वभावतः ॥ ४॥
तत्र स्वाधीनतां दृष्ट्वा शान्त्यर्थं शङ्करं ययौ ।
शिवेन गणराजस्य मन्त्रो दत्तः षडक्षरः ॥ ५॥
शान्तियोगस्य रूपं यत् कथितं तत् प्रविस्तरात् ।
शिवं नत्वा वनं सोऽपि ययौ दक्षबृहस्पतिः ॥ ६॥
स नित्यं गणपं ध्यात्वाऽपूजयत्तं विधानतः ।
दर्शनार्थं गणेशस्य लालसाभून्महामतेः ॥ ७॥
योगमार्गेण योगी स जातः शान्तिधरः स्वयम् ।
गाणपत्यत्वमापन्नः शिवतुल्यो बृहस्पतिः ॥ ८॥
तुष्टस्तदा गणेशानो ययौ तस्याश्रमं प्रभुः ।
स्तुतः सम्पूजितस्तेन तुतोष गणनायकः ॥ ९॥
अखण्डभक्तिभावं स ददौ तस्मै महात्मने ।
अन्तर्धाय स्वमात्मानं गणेशः स्वालयं ययौ ॥ १०॥
प्रकथ्यते महायोगी तदारभ्य बृहस्पतिः ।
(Page खं. २ अ. ३६ पान ७६)
ब्रह्मिष्ठानामयं श्रेष्ठो विभूतिपदमागतः ॥ ११॥
संवर्तः प्रथमं योगी द्वेषितो वै विशेषतः ।
यत्र तत्र विभागार्थं गुरुणा भ्रातृभावतः ॥ १२॥
स संसारं परित्यज्य नग्न उन्मत्तवत् स्वयम् ।
सहजं ब्रह्म काशीस्थो ध्यायद्वै शाङ्करं सदा ॥ १३॥
ततः कदाचिद्राजेन्द्रो मरुत्तो यज्ञकाम्यया ।
उपाध्यायं ययौ राजा स्वर्गस्थं तं बृहस्पतिः ॥ १४॥
तद्वृत्तान्तं समादाय देवेन्द्रः प्राब्रवीद् गुरुम् ।
मत्स्पर्धिनं मरुत्तं मा यजस्व त्वं बृहस्पते ॥ १५॥
देवानां वा मनुष्याणामेकपक्षधरो भव ।
तस्यैव वचसा राजा त्यक्तः स गुरुणा महान् ॥ १६॥
मरुत्तं क्षुभितं ज्ञात्वा तं ययौ नारदो मुनिः ।
काश्यां संवर्तकं राजन्नानीय कुरु सद्गुरुम् ॥ १७॥
जडोन्मत्तस्वभावेन स तिष्ठति मुनीश्वरः ।
प्रातःकाले प्रणामार्थं शङ्करस्य च गच्छति ॥ १८॥
शवं तत्र समागृह्य तिष्ठ त्वं द्वारि भूमिपम् ।
विमुखश्चात्महीनं तं दृष्ट्वा गच्छति विप्रपः ॥ १९॥
एवमुक्त्वा गतो योगी नारदः सोऽपि हर्षितः ।
तथा चकार धर्मज्ञः काश्यां गत्वा नराधिपः ॥ २०॥
दृष्ट्वा नग्नं ननामाऽसौ स्वगुरुं तत्र भूमिपः ।
छलितश्चेष्टया दक्ष न मुमोच तथाऽपि तम् ॥ २१॥
संवर्तस्तस्य वृत्तान्तं श्रुत्वा स्वयमुपागतः ।
यज्ञार्थं तस्य राजर्षेरुपाध्यायो बभूव ह ।
जीवेन तस्य वृत्तान्तो ज्ञातस्तेनापि भूमिपः ॥ २२॥
छलितोऽहं भविष्यामि गुरुस्ते त्यज मेऽनुजम् ॥ २३॥
मरुत्तेन त्वदीयं वै न गृहीतं वचस्तदा ।
गुरुणा प्रेरितो देव इन्द्रो वज्रं समाक्षिपत् ॥ २४॥
संवर्तेन च तद्वज्रं कृतं मोघं समाधिना ।
शरणं तद्भयादिन्द्रो ययौ देवगणैः स तम् ॥ २५॥
ततो देवगणैस्तेन मुनिभिः संस्कृतो मखः ।
समाप्य यज्ञमेतस्य संवर्तः स्वस्थलं ययौ ॥ २६॥
समाधितत्परत्वेन ज्ञातं तेनापि शाम्भवम् ।
स्वाधीनं तद्भवेन्मुख्यं ब्रह्मशान्तिप्रदं कदा ॥ २७॥
ययावङ्गिरसं प्रष्टुं तेन योगः प्रकाशितः ।
शान्तियोगमयः साक्षाद्गणेशः परमाद्भुतः ॥ २८॥
संवर्तेन तथा दक्ष साधितो योग उत्तमः ।
शान्तिरूपधरो योगी संवर्तः प्रबभूव ह ॥ २९॥
आगत्य संस्थितः सोऽपि क्षेत्रे स्वानन्दरूपिणि ।
मयूरेशं सदा तत्र सिषेवे भक्तितत्परः ॥ ३०॥
तेषां पुत्रा महाभागा जाताः सर्वज्ञसम्मताः ।
क्रमेणान्ते च ते सर्वे गाणपत्या बभूविरे ॥ ३१॥
प्रोक्ता दीर्घतमस्काद्यास्तेषां पुत्रादिभिस्तथा ।
गणेशो मनसा भक्त्याऽखण्डभावेन सन्धृतः ॥ ३२॥
गौतमस्तत्र मुख्यश्च शान्तिमार्गपरायणः ।
विख्यातो मुनिवर्गेषु स बभूव प्रजापते ॥ ३३॥
कदाचित् पृथिवीमध्ये ह्यनावृष्टिः सुदारुणा ।
बभूव द्वादशाब्दान् या तया सम्पीडितं जगत् ॥ ३४॥
पीडां दृष्ट्वा जनानां स दयायुक्तो बभूव ह ।
गौतमं शङ्करं देवं वृष्टिहेतोर्नुनोद सः ॥ ३५॥
ततस्तं शङ्करः साक्षादवोचद् भक्तमुत्तमम् ।
(Page खं. २ अ. ३६ पान ७७)
अनावृष्टिः कृता मुख्या कालेन ब्रह्मरूपिणा ॥ ३६॥
चालितुं न समर्थस्तं कोऽपि ब्रह्माण्डमण्डले ।
अतोभिमानमुत्सृज्य तिष्ठ त्वं मुनिसत्तम ॥ ३७॥
शिवस्य वचनं श्रुत्वा दुःखितस्तमुवाच ह ।
गौतमो मुनिवर्यश्च विस्मितोऽभूत् स मानसे ॥ ३८॥
गौतम उवाच ।
किमिदं नाथ वदसि त्वमीशः सर्वसम्मतः ।
कुरु मे वाञ्छितं नोचेद्देहत्यागं करोम्यहम् ॥ ३९॥
गौतमस्याभिमानं तं दृष्ट्वा शम्भुः सुविस्मितः ।
भावं ज्ञात्वा स्वयं प्राह गौतमं मुनिसत्तमम् ॥ ४०॥
शृणु गौतम माहात्म्यं देहं त्यजसि वै वृथा ।
विनायकं भजस्व त्वं तेन सर्वं भविष्यति ॥ ४१॥
नायकेन विहीनोऽयं सर्वेषां स विशेषतः ।
नायकस्तेन नामाऽभूद्विनायक इति स्फुटम् ॥ ४२॥
वयं तदाज्ञया सर्वे वर्तेमहि न संशयः ।
गमनं वेदमार्गेणास्माकं सर्वत्र सम्मतम् ॥ ४३॥
उत्पथे गमनं नश्चेत्तदा विघ्नं करोति सः ।
अतस्त्वं विघ्नराजं च शरणं गच्छ गौतम ॥ ४४॥
एवमुक्त्वा महादेवो ददौ तस्मै षडक्षरम् ।
मन्त्रराजं गणेशस्य विधानं तस्य चोत्तमम् ॥ ४५॥
गौतमस्तं प्रणम्यादौ तपसे वनमाययौ ।
समाधिना महोग्रेण तोषयामास विघ्नपम् ॥ ४६॥
एवं वर्षेण तं ढुण्ढिर्ययौ दातुं वरं प्रभुः ।
तं दृष्ट्वा हर्षितोऽत्यन्तं ननाम मुनिसत्तमः ॥ ४७॥
अथर्वशिरसा तेन संस्तुतो गणनायकः ।
प्रसन्नस्तमुवाचैवं वचनं ब्रूहि वाञ्छितम् ॥ ४८॥
स वव्रे यदि तुष्टोऽसि भक्तिं देहि दृढां त्वयि ।
गाणपत्यं च सम्पूर्णं मां कुरुष्व गजानन ॥ ४९॥
अनावृष्टिभवं दुःखं जहि देव विनायक ।
एतमेव वरं याचे वाञ्छितं नात्र संशयः ॥ ५०॥
तमुवाच गणाध्यक्षस्त्वयोक्तं मुनिसत्तम ।
तवाश्रमेऽधुना सर्वं भविष्यति न संशयः ॥ ५१॥
सायङ्काले च बीजेभ्यः क्षिप्तेभ्यो भूमिमण्डले ।
सस्यानां वै समुत्पत्तिः प्रातःकाले भविष्यति ॥ ५२॥
तैर्धान्यैर्नित्यमेव त्वं पोषयस्व महामुनीन् ।
समागतान् तथाभूतान् समये मुनिसत्तम ॥ ५३॥
नित्यं प्रमुदिताः सर्वे भविष्यन्ति तवाश्रमे ।
समागता नराः सर्वेऽनावृष्टेर्दुःखवर्जिताः ॥ ५४॥
मदीया भक्तिरचला भविष्यति तथा परा ।
योगशान्तिधरः पूर्णो भावी त्वं मत्प्रसादतः ॥ ५५॥
एवमुक्त्वा गणेशानो गतः स्वानन्दके पुरे ।
गौतमो गाणपत्यश्च तद्दिनात् सम्बभूव ह ॥ ५६॥
स मुनिः स्वाश्रमे गत्वा चकार गणपोदितम् ।
अनावृष्टिभवं दुःखं जनानां स निराकरोत् ॥ ५७॥
तत्रागतान् स्वयं विप्रान्नानादिग्भ्यः प्रजापते ।
तान् सर्वान् पोषयामास धान्यैर्नित्यसमुद्भवैः ॥ ५८॥
क्रमेण द्वादशाब्दास्ते गता वै दुस्तरा मुने ।
तत्र सर्वत्र सञ्जाता वृष्टिर्वै दुःखहारिणी ॥ ५९॥
ततो मुनिगणैः सर्वैर्विपरीतं विचारितम् ।
गौतमेन वयं सर्वे पोषिता नात्र संशयः ॥ ६०॥
सर्वेषु गौतमो धन्यस्तदुत्कर्षो भविष्यति ।
(Page खं. २ अ. ३६ पान ७८)
अत उत्कर्षनाशार्थं कर्तव्यं किं द्विजोत्तमाः ॥ ६१॥
ततस्तैर्मायया गौश्च कृत्वा गौतमसन्निधौ ।
प्रेषिता सा हुतद्रव्यं भक्षयामास वै मुनेः ॥ ६२॥
गौतमेन स्वहस्तेन ताडिता मृदुभावतः ।
स्पृष्टमात्रा ममाराऽसौ पतिता गौर्धरातले ॥ ६३॥
ततो हा हा कृतं सर्वैर्ब्राह्मणैश्छद्मदर्शिभिः ।
गौतमस्याश्रमे सर्वैरापृच्छ्य गमनं कृतम् ॥ ६४॥
गौतमेन तपः कृत्वा प्रार्थिता स्वर्गवाहिनी ।
त्र्यम्बकस्य शिरःसंस्था प्रादुर्भूता च तत्क्षणात् ॥ ६५॥
तत्र स्नानेन सद्यो वै पवित्रो गौतमोऽभवत् ।
गोवधादिमहापापं गच्छति स्नानमात्रतः ॥ ६६॥
ततः कदाचिद्विप्रेशो गौतमो ध्यानमाश्रितः ।
विचारमकरोच्चित्ते ज्ञात्वा तेषां विचेष्टितम् ॥ ६७॥
छलनार्थं द्विजैः सर्वैर्निर्मिता गौश्च मायया ।
ततः कोपपरीताङ्गः शशाप ब्राह्मणान् मुनिः ॥ ६८॥
वेदबाह्या भविष्यन्ति कृतघ्ना ये मर्हषयः ।
मदीयच्छलनेनैव पातकेन न संशयः ॥ ६९॥
ततस्ते शापयोगेन भ्रान्ता जाता महर्षयः ।
ज्ञात्वाऽकस्माद् द्विजाः शापं सम्भीता अभवंस्ततः ॥ ७०॥
शङ्करं शरणं सर्वे ययुर्देवं महर्षयः ।
शङ्करः स्मरणं चक्रे विष्णोश्चैव सुविस्मितः ॥ ७१॥
समागतं महाविष्णुं पप्रच्छ द्विजसौख्यदम् ।
मार्गं ततो हरिः शम्भुमुवाच वचनं हितम् ॥ ७२॥
विष्णुरुवाच ।
वेदबाह्यद्विजानां यत्कर्म सर्वं निरर्थकम् ।
न गतिः कुत्र देहान्ते तेषां शम्भो न संशयः ॥ ७३॥
अतस्तेषां हितार्थाय ग्रन्थाः कार्याः सदाशिव ।
मोहदाश्च जनानां ते भजतां नरकप्रदाः ॥ ७४॥
ततः शिवेन वामं च तन्त्रं तत्र प्रकाशितम् ।
विष्णुना बौद्धशास्त्रं वै रचितं मोहदायकम् ॥ ७५॥
ऋषिभिश्च तथान्यानि शास्त्राणि रचितानि वै ।
कापालादीनि भो दक्ष मोहदानि विशेषतः ॥ ७६॥
फलानि तत्र दत्तानि भजतां शम्भुनामुना ।
विष्णुना ब्राह्मणानां च कृतघ्नानां हिताय वै ॥ ७७॥
नरा ये तानि सेवन्ते नारकाः सम्भवन्ति ते ।
इहामुत्र विहीनाश्च शास्त्राधारप्रवर्तिनः ॥ ७८॥
जनानां भजतां सर्वे पापांशास्ते महर्षयः ।
स्वल्पकालेन नष्टाः स्युः कलौ जन्मधरास्ततः ॥ ७९॥
तत्र ते पापकर्माणो भविष्यन्ति विशेषतः ।
तेषु मार्गेषु संसक्ताः प्रपतिष्यन्ति रौरवे ॥ ८०॥
पुनः शुद्धा भविष्यन्ति नराः कृतयुगे प्रभो ।
तत्रैव योगमार्गेण गमिष्यन्त्यपुनर्भवम् ॥ ८१॥
एवं तेषां हितार्थाय शिवाद्यै रचितानि वै ।
शास्त्राणि चतुरैस्तानि न सेव्यानि कदाचन ॥ ८२॥
वेदाधारयुतं शास्त्रं तदेव सुखदं परम् ।
तेन हीनं च यच्छास्त्रं मोहकं नरकप्रदम् ॥ ८३॥
न सेव्यं मानवैः सर्वैः कलिदोषविवर्जितैः ।
युक्तं गौतमशापेन महाभयकरं मतम् ॥ ८४॥
कलौ पापा विभूमानो भविष्यन्ति महर्षयः ।
(Page खं. २ अ. ३७ पान ७९)
नरस्तैः कथितं शास्त्रं नवामादिकमाचरेत् ॥ ८५॥
इदं गौतममाहात्म्यं यः शृणोति नरो भवेत् ।
पठेद्वा मलहीनः सन्निहामुत्र सुखी परम् ॥ ८६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते गौतमचरितं नाम षट्त्रिंशोऽध्यायः ॥ २.३६
२.३७ नृसिंहमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
दितेः पुत्रौ महावीर्यो कश्यपात् सम्बभूवतुः ।
सन्ध्यायामृतुदानेन दैत्यौ परमदारुणौ ॥ १॥
ताभ्यां तप्तं तपो घोरं दिव्यवर्षसहस्रकम् ।
तयोस्तपःप्रभावेण ब्रह्मा तु वरदोऽभवत् ॥ २॥
मरणं सर्वभूतेभ्यो न भवेदीप्सितं वरम् ।
ताभ्यां दत्त्वा स्वयं ब्रह्मा स्वस्थानमगमत् पुनः ॥ ३॥
सायङ्कालं च शुष्कार्द्रं विस्मरन्तौ महासुरौ ।
तदेव मरणस्थानं तयोर्जातं प्रजापते ॥ ४॥
वरप्रभावतस्ताभ्यां सर्वं त्रिभुवनं जितम् ।
हिरण्यकशिपुर्ज्येष्ठश्चक्रे वै राज्यमुत्तमम् ॥ ५॥
कर्ममार्गं द्विषन् सर्वं देवब्राह्मणदुःखदः ।
राज्यं चक्रे सुदुष्टात्मा परस्त्रीमद्यलालसः ॥ ६॥
उपोषणेन संयुक्ता देवा इन्द्रपुरोगमाः ।
ब्रह्माणं ते पुरस्कृत्य शरण्यं विष्णुमाययुः ॥ ७॥
ततश्च विष्णुना तत्र धृतं रूपं भयप्रदम् ।
नारसिंहं महोग्रं वै सर्वेभ्यो भयदायकम् ॥ ८॥
आययौ दैत्यराजस्य नगरे क्रोधसंयुतः ।
शब्दैः सभुवनं घोरैर्नादयामास तत्क्षणात् ॥ ९॥
भीता दैत्यगणाः सर्वे शशंसुस्तस्य चेष्टितम् ।
राज्ञे श्रुत्वा वचस्तेषां हिरण्यकशिपुः स्वयम् ॥ १०॥
दैत्यैः समावृतो योद्धुं ययौ तेन महाबलः ।
क्रूरः समागतः सोऽपि नृसिंहाकृतिधारकः ॥ ११॥
मेरुमन्दरसङ्काशं वपुर्यस्य विराजितम् ।
तेजसा वह्निसङ्काशो योद्धुकामो सुरैः प्रभो ॥ १२॥
प्रह्लादप्रमुखैः पुत्रैः संवृतो दैत्यसत्तमः ।
नृसिंहं योधयामास शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १३॥
नृसिंहेन हता दैत्या बहवो रणमण्डले ।
शोणितौघवहा नद्यः सम्प्रवृत्ता दिशो दश ॥ १४॥
खड्गादिभिर्महास्त्रैश्च नखैर्युक्तः स देवराट् ।
नृसिंहो युयुधे तत्र प्रलयाग्निसमो बभौ ॥ १५॥
तं दृष्ट्वा पूर्वसंस्कारात् प्रह्लादस्य महात्मनः ।
वैष्णवं ज्ञानमत्यन्तं प्रादुर्भूतं विशेषतः ॥ १६॥
एतस्मिन्नन्तरे तत्र गदया ताडितः प्रभुः ।
नृसिंहो दैत्यराजेन पतितो मूर्च्छया भृशम् ॥ १७॥
द्विमुहूर्तात् सुसम्भूतः स्वस्थदेहो महाबलः ।
अशक्तं मानयामासात्मानं तेन पलायत ॥ १८॥
हिरण्यकशिपुः सर्वैर्विजयी स्वगृहं ययौ ।
चकार विष्णुभक्तिं वै प्रह्लादो भावसंयुतः ॥ १९॥
पितरं बोधयामास विष्णुमानन्दरूपिणम् ।
शरणं याहि सर्वत्र समं दैत्यपतेऽधुना ॥ २०॥
पुत्रस्य वचनं श्रुत्वा क्रोधाविष्टो महासुरः ।
मुष्टिना ताडयामासं शत्रु मे किं समाश्रितः ॥ २१॥
तदाऽपि दृढभावेन न चचाल स वैष्णवः ।
प्रह्लादश्चाधिकां भक्तिं चकार प्रेमसंयुतः ॥ २२॥
ततो जले स्थले ह्यग्नौ हिरण्यकशिपुः स्वयम् ।
विषैः सोऽपीडयत्पुत्रं निष्फलो विष्णुना कृतः ॥ २३॥
शस्त्रैरस्त्रादिभिः पुत्रमारणाय समुद्यतः ।
प्रह्लादो न ममाराऽसौ रक्षितो विष्णुना सदा ॥ २४॥
एवं पितुः सुतस्याऽपि द्वन्द्वे प्राप्त प्रजापते ।
काले क्रान्ते तु किञ्चिद्वै नृसिंहचरितं शृणु ॥ २५॥
वैकुण्ठे सुखमासीनं नारायणमनामयम् ।
ययौ तत्र नृसिंहस्तं प्रणनाम भयातुरः ॥ २६॥
वृत्तान्तं नृहरेस्तस्य श्रुत्वा सोऽपि सुविस्मितः ।
कारणं चिन्तयामास विचारेण जनार्दनः ॥ २७॥
गणेशं वै विस्मृतवान् ततो दैत्यो न निर्जितः ।
अष्टाक्षरं गणेशस्य मन्त्रं तस्मै ददौ स्वयम् ॥ २८॥
वने सोऽपि समासीनस्तताप परमं तपः ।
निराहारेण संयुक्तोऽध्यायत्तं गणपं हृदि ॥ २९॥
एकवर्षे गते तत्र ययौ विघ्नपतिः स्वयम् ।
वरेण च्छन्दयामास नृसिंहं भक्तमुत्तमम् ॥ ३०॥
प्रणम्यापूज्य विघ्नेशं परमेशं कृताञ्जलिः ।
सूक्तैर्गाणेशसंज्ञैस्तं तुष्टाव नृहरिः स्वयम् ॥ ३१॥
ययाचे देवदेवेशं भक्तिं ते देहि विघ्नप ।
जयं दैत्यरणे स्वामिंस्तथेति गणपोऽब्रवीत् ॥ ३२॥
अन्तर्धानं गतः सद्यो गणेशो भक्तपालकः ।
नृसिंहो हर्षसंयुक्तो दैत्यं हन्तुं ययौ ततः ॥ ३३॥
एतस्मिन्नन्तरे दक्ष हिरण्यकशिपुः स्वयम् ।
प्रह्लादं हन्तुमारेभे स्वयं खड्गधरोऽभवत् ॥ ३४॥
प्रह्लादेन स्मृतो विष्णुः प्रकटोऽभूत्तदन्तरे ।
नृसिंहः कालरूपश्च तलेनाऽताडयत् खलम् ॥ ३५॥
मूर्च्छितो दैत्यराजस्तु लेभे संज्ञां महाबलः ।
गदां धृत्वा नृसिंहं तं युयुधे सैनिकैः सह ॥ ३६॥
नृसिंहाङ्गात् समुद्भूता नृसिंहा बहवस्ततः ।
सैन्यं तन्नाशयामासुर्हिरण्यकशिपोः परम् ॥ ३७॥
ततः क्रोधपरीताङ्गः सायङ्काले दितेः सुतम् ।
धृत्वा नखैर्महादैत्यं दारयामास केशवः ॥ ३८॥
न शुष्कार्द्रमयैः स्वस्य नखैस्तेन विदारितः ।
ममार दैत्यराजोऽपि देवास्तं तुष्टुवुर्हरिम् ॥ ३९॥
स्तुतः सम्पूजितो विष्णुर्नृसिंहो गणपं स्मरन् ।
अन्तर्धानं ययौ सद्यो देवास्ते स्वपदं ययुः ॥ ४०॥
इदं नरहरेः प्रोक्तं माहात्म्यं यः शृणोति वा ।
पठति प्रभवेत्तस्य सर्वदं नात्र संशयः ॥ ४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते नृसिंहमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥ २.३७
(Page खं. २ अ. ३८ पान ८१)
२.३८ वाराहमाहात्म्यं नामाष्टत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
हिरण्यकशिपौ नष्टे हिरण्याक्षं च दैत्यपाः ।
राजानं कारयामासुः सोऽपि चक्रे तथाऽखिलम् ॥ १॥
भ्रातुर्वधेन सन्तप्तो देवान् जित्वा महाबलः ।
तेषां मूलविनाशार्थं मतिं चक्रे च दैत्यपः ॥ २॥
तत्र तेन विचारेण सम्प्राप्तं ज्ञानमुत्तमम् ।
कर्मनाशे च देवानां मरणं प्रभविष्यति ॥ ३॥
कर्मरूपमयं तेषाममृतं नात्र संशयः ।
अन्ने नष्टे कथं देवाः स्थास्यन्ति तनुधारकाः ॥ ४॥
कर्ममूलमयीं भूमिं प्रगृह्य प्रययौ खलः ।
पातालं दैत्यराजस्तु खेलयन् स्वेच्छया स्वयम् ॥ ५॥
देवाश्च मुनयो जग्मुस्ततः सर्वे प्रजापतिम् ।
नष्टे चराचरे भूम्यां शशंसुर्दैत्यचेष्टितम् ॥ ६॥
ब्रह्मणा नोदिताः सर्वे वैकुण्ठं जग्मुरादरात् ।
तुष्टुवुस्तं रमानाथं शशंसुश्चेष्टितं महत् ॥ ७॥
ततः सोऽपि दयायुक्तः सौकरं रूपमास्थितः ।
कैलासे गणपं चेष्ट्वा ययौ पातालमोजसा ॥ ८॥
तत्र दंष्ट्राग्रसंयुक्तां पृथ्वीं कृत्वा बहिः प्रभुः ।
निर्ययौ तं हिरण्याक्षो योद्धुकामः समाययौ ॥ ९॥
ततो युद्धं महाघोरं तयोर्जातं प्रजापते ।
शुष्कार्द्रदंष्ट्रया दुष्टं सन्ध्याकाले जघान सः ॥ १०॥
ममार सहसा दैत्यो वराहो धरणीसुतः ।
निर्गत्य स्थापयामास पृथ्वीं पूर्ववदच्युतः ॥ ११॥
संस्थाप्य पृथ्वीं वाराहो मयूरेशं समाययौ ।
अक्षरब्रह्मरूपश्च सर्वेभ्यो ज्ञानदायकः ॥ १२॥
स्त्रीस्वरूपेण पृथिवी पत्नीभावेन तं ययौ ।
कर्ममूलमयी प्रोक्ताऽक्षराधारा सुखप्रदा ॥ १३॥
तत्रानुष्ठानमत्यन्तं चक्रतुर्भक्तितत्परौ ।
दृढवाससुसिद्ध्यर्थं क्षेत्रे स्वानन्दरूपिणि ॥ १४॥
प्रसन्नो भगवांस्तत्र गणेशो देवनायकः ।
वरदस्तौ ययौ प्रीत्योवाच संवृणुतं वरम् ॥ १५॥
ततस्ताभ्यां प्रणम्यादौ पूजितो गणनायकः ।
नामाष्टकेन साम्ना वै संस्तुतो भक्तिभावितः ॥ १६॥
वरं तौ वृणुतां क्षेत्रे स्वानन्दे देहि विघ्नप ।
वासं भक्तिसुसिद्ध्यर्थं ब्रह्मभूतसुखप्रदे ॥ १७॥
तयोर्वचनमाकर्ण्य गणेशः कृपया युतः ।
भक्तिं ज्ञात्वा महोग्रां वै सूर्यं प्रोवाच हर्षितः ॥ १८॥
गणेश उवाच ।
शुक्लगत्यात्मकं द्वारं त्वदीयं मुक्तिदं परम् ।
तत्र पृथ्वी वराहौ च तवाङ्गे कुरु मानद ॥ १९॥
तथेति कृतवान् सूर्यः संस्थितौ द्वारि तावुभौ ।
उत्तराङ्गं गणेशस्याश्रित्य पूजां प्रचक्रतुः ॥ २०॥
इदं वराहरूपस्य माहात्म्यं कथितं मया ।
श्रवणात् पठनात् सर्वमुक्तिदं प्रभवेन्नृणाम् ॥ २१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते वाराहमाहात्म्यं नामाष्टत्रिंशोऽध्यायः ॥ २.३८
(Page खं. २ अ. ३९ पान ८२)
२.३९ च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो दैत्यपदे राजा प्रह्लादो वैष्णवोऽभवत् ।
स तु वैरं समुत्सृज्य देवैः सम्मानितो बभौ ॥ १॥
गते कियति काले च गृहे तस्य महात्मनः ।
विधाता दैत्यराजस्याययौ प्रीत्या प्रजापते ॥ २॥
स तु दुष्टैर्महादैत्यैः क्रमेण भ्रंशितोऽसुरः ।
संसर्गदोषयुक्तोभून्न तं मेने पितामहम् ॥ ३॥
क्रोधेन विधिना तत्र शप्तोऽसौ वैष्णवाधमः ।
ज्ञानं प्रह्लाद नष्टं च त्वदीयं प्रभविष्यति ॥ ४॥
प्रह्लादमेवं शप्त्वा स ययौ स्थानं निजं विधिः ।
प्रह्लादश्च तथा दैत्यैर्देवानां हनने रतः ॥ ५॥
न मेने मनसा विष्णुं शम्भुं वामरनायकम् ।
जित्वा देवान् समस्तान् स राज्यं चक्रेऽसुराधिपः ॥ ६॥
प्रह्लादः स ततो देवैर्मित्रभावेन धारितः ।
सहनं कृतमत्यन्तं तद्दौरात्म्यस्य चादरात् ॥ ७॥
देवैर्विष्णुसहायैश्च कालेन विजिता बलात् ।
दैत्याः प्रह्लादमत्यन्तं संरक्ष्य सुरनायकैः ॥ ८॥
स्वराज्ये संस्थितं दैत्यं प्रह्लादं च महामुनिः ।
भ्रमन् समाययौ द्रष्टुं शक्तो गृत्समदो महान् ॥ ९॥
तं दृष्ट्वा दैत्यराजः स प्रणनाम महायशाः ।
स्वासने तं समावेश्य पूजयामास भक्तितः ॥ १०॥
भक्तो मुनिवरं दैत्यः पादसंवाहने स्थितः ।
उवाच मधुरं वाक्यं प्रह्लादो हर्षसंयुतः ॥ ११॥
प्रल्हाद उवाच ।
धन्यं मेऽद्य कुलं ज्ञानं विद्या दानादिकं च यत् ।
तवाङ्घ्रियुगुलं दृष्ट्वा पवित्रो नात्र संशयः ॥ १२॥
मुने योगीन्द्रमुख्यस्त्वं तव दर्शनमुत्तमम् ।
न भवेत् पापकाराणां भुक्तिमुक्तिक्रमप्रदम् ॥ १३॥
अहं शप्तश्च योगीन्द्र विधिना तेन मोहितः ।
असुरैः संवृतोऽत्यन्तं दुष्टकर्मरतोऽभवम् ॥ १४॥
स्त्रीमद्यादिरतो नित्यं ज्ञानहीनो निरन्तरम् ।
देवानां द्वेषबुद्ध्या वै छेदने प्रयतोऽभवम् ॥ १५॥
अधुना पादपद्मस्य दर्शनेन महामुने ।
ज्ञानस्य स्फूर्तिरल्पा मे सञ्जाता नात्र संशयः ॥ १६॥
पूर्वपुण्यबलेनैव जातं ते दर्शनं महत् ।
आसुरी प्रकृतिर्मेऽद्य गता तेन महामुने ॥ १७॥
वद ज्ञानं महायोगिंस्तारयस्व भवार्णवात् ।
मां वै शरणार्थिनं विप्र शिष्यं ते च जगद्गुरो ॥ १८॥
मुद्गल उवाच ।
एवं सम्प्रार्थितो दक्ष मुनिर्गृत्समदो महान् ।
कृपया परयाऽऽविष्टस्तमुवाच विशेषतः ॥ १९॥
गृत्समद उवाच ।
शृणु प्रह्लाद वक्ष्यामि ज्ञानं शान्तिसुखप्रदम् ।
गणनाथं भजस्व त्वं विघ्नहीनो भविष्यसि ॥ २०॥
मदासुरश्च दैत्येशो हृदये ते प्रतापवान् ।
आसुरेण स्वभावेन संस्थितो ज्ञानखण्डकः ॥ २१॥
अतस्तमेकदन्तस्य भजनेन जहि प्रभो ।
तदा ज्ञानं दृढं ते वै हृदये संस्थितं भवेत् ॥ २२॥
इति तस्य वचः श्रुत्वा प्रह्लादस्तं पुनर्जगौ ।
कोऽसौ मदासुरः पापी हृदये तिष्ठति प्रभो ॥ २३॥
एकदन्तस्य भजनं कीदृशं वद साम्प्रतम् ।
मदासुरस्य हन्ताऽसौ कथं जातो गजाननः ॥ २४॥
एतत्सर्वं सुविस्तार्य वद मह्यं प्रयाचते ।
शिष्याय सकलं विप्र येन ज्ञानं दृढं भवेत् ॥ २५॥
(Page खं. २ अ. ३९ पान ८३)
मुद्गल उवाच ।
प्रह्लादस्य वचः श्रुत्वा मुनिर्गृत्समदोऽब्रवीत् ।
मदासुरस्य माहात्म्यमेकदन्ताश्रितं प्रभो ॥ २६॥
गृत्समद उवाच ।
शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते ।
चरित्रमेकदन्तस्य सर्वसिद्धिप्रदायकम् ॥ २७॥
एकदा राक्षसः कश्चिद्ययौ भृग्वाश्रमं महान् ।
महाखलश्छिद्रदर्शी समिदर्थं गते मुनौ ॥ २८॥
स तत्रैकाकिनीं वीक्ष्य भृगुपत्नीं वचोऽब्रवीत् ।
सुलोमा किं भृगोः पत्नी त्वं हि मां वद साम्प्रतम् ॥ २९॥
मह्यं कन्यां महीपालो दातुं स ह्युद्यतोऽभवत् ।
एतस्मिन्नन्तरे कन्या याचिता भृगुणाऽभवत् ॥ ३०॥
मां त्यक्त्वा भृगवे कन्या दत्ता तेन महीभृता ।
तस्माद्भृगोर्हरिष्यामि भार्यां चाऽहं न संशयः ॥ ३१॥
तस्य तद्वचनं क्रूरं श्रुत्वा तूष्णीं बभूव ह ।
सुलोमा सा भृगोः पत्नी ततः सोऽप्यग्निमब्रवीत् ॥ ३२॥
राक्षस उवाच ।
अग्ने वद महाभाग त्वं साक्षी सर्वसम्मतः ।
इयं पत्नी भृगोः किं वान्यस्य सत्यं महाद्युते ॥ ३३॥
राक्षसस्य वचः श्रुत्वा न किञ्चित्तं वचोऽब्रवीत् ।
उत्तरं शापभीतोऽसौ हव्यवाहः प्रतापवान् ॥ ३४॥
पुनस्तेन च सम्पृष्टोऽग्निर्नोवाच सुदुर्मतिम् ।
पुनः पृष्टस्तथाग्निस्तमुवाच भयसङ्कुलः ॥ ३५॥
अजानता नरः पृष्टः संशये प्रसमुद्यते ।
कथयेत्तं न पापीयान् भवेद्वै सोऽपि निश्चितम् ॥ ३६॥
अतोऽहं कथयिष्यामि सत्यं तुभ्यं न संशयः ।
आदौ राज्ञा च सन्दातुं कथिता राक्षसाय सा ॥ ३७॥
अतस्त्वं राक्षसो भागी मतः शास्त्रे न संशयः ।
तवाग्रे कथितं चेन्मे पापं न स्यात् कदाचन ॥ ३८॥
अतः कन्यां प्रदातुं वै नराय दृढनिश्चयः ।
न कर्तव्योऽसुरेश त्वं विचारय महामते ॥ ३९॥
यदि दातुं कृता कन्या कस्मैचिन्निश्चिता भवेत् ।
तस्मै सा वै प्रदातव्याऽन्यथा दोषी भवेन्नरः ॥ ४०॥
आशाभङ्गमयं पापं सम्प्राप्तं तस्य दैत्यप ।
न कन्या दृष्यते तत्रान्यस्मै दत्ता नराय चेत् ॥ ४१॥
ततस्तं राक्षसं क्रूरमूचे वै हव्यवाहनः ।
पत्नी भृगोरियं साधो मा गृह्णीष्व परस्त्रियम् ॥ ४२॥
अग्नेर्वचनमाकर्ण्य गृहीत्वा राक्षसो ययौ ।
अन्तर्वत्नीं रुदन्तीं च मूर्च्छितां स विहायसा ॥ ४३॥
तस्यामुदरवासी च भृगोस्तेजोधरो मुनिः ।
कुपितो राक्षसं हन्तुं च्युतो वै जठरात् स्वयम् ॥ ४४॥
तस्य क्रोधानलेनैव भस्मसादभवत्क्षणात् ।
राक्षसः सोऽपि सङ्गृह्य पुत्रं स्वगृहमाययौ ॥ ४५॥
दुःखिता रुदती देवी सुलोमा भयविह्वला ।
वनाद् भृगुः समायातस्तस्मिन् काले प्रतापवान् ॥ ४६॥
रुदन्त्या कथितस्तस्मै वृत्तान्तो मुनिभायर्या ।
तं श्रुत्वा कुपितो योगी साक्षाद्रुद्रैवाऽपरः ॥ ४७॥
उवाच कोपरक्ताक्षोऽग्ने त्वं शप्तो मयाऽधुना ।
सर्वभक्षो भवाऽज्ञानी दुष्टकर्मपरायण ॥ ४८॥
एवं शप्त्वा महादेवं भृगुरग्निं स्वयं मुनिः ।
सुलोमां सान्त्वयामास पुत्रं स्वं प्रशशंस ह ॥ ४९॥
उदरात्तु च्युतः क्रोधाच्च्यवनो नाम सत्तमः ।
तेनाऽयं भविता पुत्रो मदीयो मातृपालकः ॥ ५०॥
सुखेन स्वाश्रमे योगी भृगुः परमतत्त्ववित् ।
पत्न्या पुत्रेण संयुक्तः स्थितो गणपतिं स्मरन् ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः ॥ २.३९
२.४० अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शापितो भृगुणाग्निश्च ययौ स्थानं निजं ततः ।
अंर्तधाय स्वमात्मानं स्थितः परमदुःखितः ॥ १॥
अग्निं विना च सर्वत्र हाहाकारो महानभूत् ।
मुनयः सहिता देवैर्ब्रह्माणं शरणं ययुः ॥ २॥
मुनय ऊचुः ।
शप्तोऽग्निर्भृगुणा स्वामिन्नन्तर्धाय ययौ स्वयम् ।
कर्महीना वयं नाथ वह्निहीना भवामहे ॥ ३॥
शरणं त्वां प्रपन्नाः स्मो रक्ष रक्ष पितामह ।
नोचेच्चराचरं सर्वं नश्यत्यत्र न संशयः ॥ ४॥
श्रुत्वा स वचनं तेषां तैः सहाऽग्निं ययौ विधिः ।
सान्त्वयामास तं वाक्यैर्वेदानां परमाद्भुतैः ॥ ५॥
ब्रह्मोवाच ।
अग्ने शृणु महाभाग वेदेषु कथितं महत् ।
सर्वभक्षः शुचिष्मान् वै तव नाम विनिश्चितम् ॥ ६॥
भृगोर्नैवापराधोऽस्ति भावि जातं न संशयः ।
मा कुरुष्व वृथा चिन्तां भव सौम्यो महामते ॥ ७॥
अतस्त्वं सर्वभक्षोऽपि पवित्रः परमो मतः ।
भक्षदोषविहीनस्त्वं भविताऽसि न संशयः ॥ ८॥
वचः श्रुत्वा चुकोपाऽग्निः प्रलयं कर्तुमुद्यतः ।
ज्वालाः सांवर्तिकाः क्रोधाच्चिक्षेप स चराचरे ॥ ९॥
ज्वालाभिर्दह्यमानास्ते ब्रह्माद्याः प्रययुस्ततः ।
गणेशं मनसा ध्यात्वा स्थिताऽभयसमन्विताः ॥ १०॥
एतस्मिन्नन्तरे तत्रैकदन्तो ब्राह्मणोऽभवत् ।
आययावग्निसान्निध्ये तमुवाच हितं वचः ॥ ११॥
ब्राह्मण उवाच ।
अग्ने किं क्षुभितोऽत्यन्तं हरसि त्वं कथं जगत् ।
अकाले क्रोधसंयुक्तो न स्मृतस्ते विनायकः ॥ १२॥
स्वातन्त्र्यं पश्य यत्रास्ति मा गर्वं कुरु देवप ।
विनायकं परित्यज्य स्वातन्त्र्यं न भवेद्यतः ॥ १३॥
एवमुक्तोऽपि तं विप्रं ददाह स्वीयतेजसा ।
प्रहस्य स मुनीन्द्रोऽसावुवाच गणनायकः ॥ १४॥
शलाकां चन् महावह्ने दहसि त्वं स्वसत्तया ।
मया दत्तां स्वसामर्थ्यात्तदैवं सचराचरम् ॥ १५॥
एवमुक्त्वा शलाकां स तत्र चिक्षेप भूसुरः ।
न तां शक्तो दाहयितुं जातो वह्निः स्वसत्तया ॥ १६॥
ततस्तं प्रणनामाथ गतगर्वो हुताशनः ।
को विनायकनामा वै सर्वेषां नायकः स्मृतः ॥ १७॥
वद मे करुणासिन्धो तं भजामि विशेषतः ।
त्वं कोऽसि विप्ररूपेण प्रमोहयसि मां प्रभो ॥ १८॥
शान्तमग्निमुवाचाऽथ विप्ररूपी गजाननः ।
(Page खं. २ अ. ४० पान ८५)
बोधयन् हेतुगर्भाभिर्वाग्भिः सर्वार्थकोविदः ॥ १९॥
विप्र उवाच ।
स्वानन्दवासिनं विद्धि विनायकमनामयम् ।
सर्वेषां नायकं पूर्णं नायकैर्वर्जितं परम् ॥ २०॥
शान्तियोगेन शान्तिज्ञास्तं भजन्ते द्विजोत्तमाः ।
तं योगं तेऽभिधास्यामि शृणुष्वैकमनाः प्रभो ॥ २१॥
एकानेकादिभेदैश्च संयुक्तः प्रणवः स्मृतः ।
सम्प्रज्ञातसमाधिं तं विद्धि वह्ने महाद्युते ॥ २२॥
संयोगायोगभेदैश्च संयुक्तं ब्रह्म यत् स्मृतम् ।
असम्प्रज्ञातरूपस्थं विद्धि तद्योगसेवया ॥ २३॥
सम्प्रज्ञातासम्प्रज्ञातयोगे वै शान्तिदायकः ।
शान्तियोगः समाख्यातो गाणेशो हव्यवाहन ॥ २४॥
गणाः समूहरूपाश्च तेषां स्वामी गजाननः ।
तं भजस्व महातेजो वह्ने भक्तिसमन्वितः ॥ २५॥
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् ।
विधियुक्तं स दैत्येन्द्र गाणेशं सर्वसिद्धिदम् ॥ २६॥
दर्शयामास रूपं स्वं त्यक्त्वा ब्राह्मणरूपकम् ।
गजाननादि चिह्नैश्च चिह्नितं भक्तपालकम् ॥ २७॥
तं दृष्ट्वा निपपातोर्व्यां वह्निर्हर्षसमन्वितः ।
तावदन्तर्हितं रूपं ततः खिन्नोऽभवच्छुचिः ॥ २८॥
स्वर्गं त्यक्त्वा वनं वह्निर्ययौ योगविधित्सया ।
समाधिना तपस्तेपे गणेशप्राप्तिहेतवे ॥ २९॥
दिव्यवर्षशतेनैव तं ययौ भक्तवत्सलः ।
गजाननः प्रसन्नात्मा परमात्मा परात्परः ॥ ३०॥
दृष्ट्वाग्निं तपसा युक्तं स्वभक्तं प्रत्युवाच ह ।
वरं वृणु महाभाग तुष्टोऽहं तपसा च ते ॥ ३१॥
गृत्समद उवाच ।
गणेशवचनं रम्यं श्रुत्वा हर्षसमन्वितः ।
ननाम दण्डवद्भूमौ भावयुक्तेन चेतसा ॥ ३२॥
पूजयित्वा यथान्यायं तुष्टाव स कृताञ्जलिः ।
हव्यवाहः प्रसन्नात्मा गणेशं योगशान्तिदम् ॥ ३३॥
अग्निरुवाच ।
नमस्ते विघ्ननाशाय भक्तानां हितकारक ।
नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ ३४॥
नमो मूषकवाहाय गजवक्त्राय धीमते ।
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ ३५॥
चतुर्भुजधरायैव चतुर्वर्गप्रदायिने ।
एकदन्ताय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३६॥
लम्बोदराय देवाय गजकर्णाय ढुण्ढये ।
योगशान्तिस्वरूपाय योगशान्तिप्रदायिने ॥ ३७॥
योगिभ्यो योगदात्रे च योगिनां पतये नमः ।
चराचरमयायैव प्रणवाकृतिधारिणे ॥ ३८॥
सिद्धिबुद्धिमयायैव सिद्धिबुद्धिप्रदायक ।
सिद्धिबुद्धिपते तुभ्यं नमो भक्तप्रियाय च ॥ ३९॥
अनन्तानन देवेश प्रसीद करुणानिधे ।
दासोऽहं ते गणाध्यक्ष मां पालय विशेषतः ॥ ४०॥
धन्योऽहं सर्वदेवेषु दृष्ट्वा पादं विनायक ।
कृतकृत्यो महायोगी ब्रह्मभूतो न संशयः ॥ ४१॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा मां शापहीनं त्वं कुरु देवेन्द्रसत्तम ॥ ४२॥
तव भक्तिं दृढां देहि यया मोहो विनश्यति ।
तव भक्तैः सहावासो ममास्तु गणनायक ॥ ४३॥
यदा सङ्कटसंयुक्तस्तदा स्मरणतस्तव ।
निःसङ्कटोऽहमत्यन्तं भवामि त्वत्प्रसादतः ॥ ४४॥
एवमुक्त्वा गणाधीशं प्रणतो भक्तिसंयुतः ।
तमुवाच गणाध्यक्षो भक्तवत्सलभावतः ॥ ४५॥
गणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति नृणां चैव शृण्वतां पठतां सदा ॥ ४६॥
यं यं चिन्तयसे कामं तं तं दास्यामि शाश्वतम् ।
भक्तिभावेन सन्तुष्टो भृशं स्तोत्रेण संस्थितः ॥ ४७॥
मदीया भक्तिरचला भविष्यति सदाऽनघ ।
सङ्कटं स्मरणेनैव मदीयेन विनश्यति ॥ ४८॥
भृगुर्मम विशेषेण भक्तोऽसौ शान्तियोगधृक् ।
तस्यापि वचनं मिथ्या न करोमि कदाचन ॥ ४९॥
यद्यपि त्वं सर्वभक्षः पवित्रो भविता सदा ।
पूर्ववत् सर्वमान्यं त्वां करिष्यन्ति द्विजादयः ॥ ५०॥
सर्वभक्षे च ते दुःखं हरामि शृणु मे वचः ।
प्राप्तं शुभाशुभं तत्रामृतभुक्त्वं भविष्यसि ॥ ५१॥
सर्वभक्षणरूपा ये विकारा न भवन्ति ते ।
अमृताशी मया तत्र त्वं कृतोऽसि न संशयः ॥ ५२॥
एवमुक्त्वा गणाधीशोंऽतर्धानमगमत् स्वयम् ।
वह्निहर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥ ५३॥
तदहाद्दहनो दैत्य सर्वभक्षो बभूव ह ।
शुचिश्चामृतभुग् देवो योगशान्तिधरः स्वयम् ॥ ५४॥
गाणपत्यस्वभावेनाभजत्तं गणनायकम् ।
गणेशभक्तसङ्गेषु निरतः सोऽसुरेश्वर ॥ ५५॥
एतदग्नेश्च माहात्म्यं यः शृणोति नरोत्तमः ।
पठेद्वा भविता तस्य कामोप्यत्यन्तदुर्लभः ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः ॥ २.४०
२.४१ च्यवनतपोवर्णनं नामैकचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
भृगोः पुत्रश्च योगीशं भृगुं नत्वा ययौ वनम् ।
तताप तप उग्रं वै प्रयागे स जले स्थितः ॥ १॥
दशवर्षसहस्राणि गतानि तपतो मुनेः ।
तस्यैव तेजसा सर्वं व्याप्तं ब्रह्माण्डमण्डलम् ॥ २॥
एकदा धीवरैस्तत्र जले जालैर्महामते ।
गृहीता मत्स्यकाद्याश्च दैवात् सोऽपि समागतः ॥ ३॥
दृष्ट्वा मुनिवरं सर्वे भयभीता ययुर्नृपम् ।
धीवरा नहुषं सर्वमूचुर्वृत्तान्तमादरात् ॥ ४॥
भयभीतो नृपस्तत्र प्रधानैर्ब्राह्मणैर्वृतः ।
मुनिं ययौ महाभागं प्रणम्य स पुरःस्थितः ॥ ५॥
मत्स्या जलवियोगेन व्याकुला मरणोन्मुखाः ।
तान् स्वर्गे स्थापयामास सांसर्गिकसुभावतः ॥ ६॥
कृताञ्जलिपुटं दृष्ट्वा नहुषं मुनिसत्तमः ।
उवाच मोचय प्राज्ञ धृतं धीवरतोऽधुना ॥ ७॥
मदीयदेहमौल्येन धीवरांस्त्वं प्रसादय ।
श्रुत्वा तस्य वचः सर्वमूचे वै धीवरान्नृपः ॥ ८॥
शतं सौवर्णमुद्राणां गृहीत्वा मुच्यतां मुनिः ।
भवद्भिश्च महाभागैस्ततस्तं मुनिरब्रवीत् ॥ ९॥
(Page खं. २ अ. ४१ पान ८७)
शतं सौवर्णमुद्राणां मौल्यं किं मे त्वया कृतम् ।
ततो राजा धनं लक्षं मौल्यं च कृतवान् मुनेः ॥ १०॥
न योग्यं मुनिना तत्र कथितं स ततो नृपः ।
ग्राममेकं मुनेर्मौल्यं चकार भयसंयुतः ॥ ११॥
मुनिना तन्न योग्यं वै कृतं तत्र नृपः पुनः ।
नगरं देशसंयुक्तं मौल्यं स कृतवान् मुनेः ॥ १२॥
तथाऽपि मुनिना मान्यं न कृतं तत्ततो नृपः ।
राज्यमर्धं ततो मौल्यं धीवरान् दातुमुद्यतः ॥ १३॥
मुनिना कथितं तत्र मम योग्यं न मूल्यकम् ।
ततो राज्यं स सम्पूर्णं मौल्यं तस्य चकार ह ॥ १४॥
ततोऽपि मुनिना दैत्य न मान्यं तत्कृतं ततः ।
भयभीतो नृपोऽमात्यैः कर्तव्यं नाभ्यपद्यत ॥ १५॥
अधुना कोपसंयुक्तश्च्यवनः शापयिष्यति ।
मां तत्र नैव सन्देहो मद्दैवेन प्रचोदितः ॥ १६॥
ततस्तं व्याकुलं दृष्ट्वा च्यवनो मुनिरब्रवीत् ।
ब्राह्मणैः सह राजेन्द्र देहि मौल्यं विचार्य च ॥ १७॥
ततस्तत्राययौ योगी गाणपत्यो महायशाः ।
भरद्वाजः स तं दृष्ट्वा नहुषः प्रणनाम ह ॥ १८॥
भरद्वाजेन वृत्तान्तो ज्ञातः सर्वो ह्यशेषतः ।
उवाच नृपशार्दूलं चिन्तां मा कुरु भूमिप ॥ १९॥
ब्राह्मणानां गवां राजन् कुलमेकं द्विधा कृतम् ।
कर्मसंसिद्धये धात्रा पूज्यं च द्विविधं समम् ॥ २०॥
हविष्यं गोभिरत्यन्तं धृतं वै यज्ञसिद्धये ।
मन्त्राश्च ब्राह्मणैस्तत्र धृतास्तद्वन्न संशयः ॥ २१॥
गां दत्वा धीवरेभ्यस्त्वं बन्धहीनं मुनिं कुरु ।
एवमुक्त्वा भरद्वाजो ययौ स्वेच्छाचरो मुनिः ॥ २२॥
तथा नहुषभूपेन कृतं दृष्ट्वा प्रहर्षितः ।
च्यवनो मुनिशार्दूल आशिषं विविधां ददौ ॥ २३॥
तं नृपं मानयित्वा स ययौ वनमनुत्तमम् ।
सुच्छायं सुफलं रम्यं सुजलं मुनिसत्तमः ॥ २४॥
तत्र स्थित्वा तपस्तेपे महोग्रं तेजसा युतः ।
निराहारेण संयुक्तो वर्षाणां च सहस्रकम् ॥ २५॥
एतस्मिन्नन्तरे तत्र शर्यातिश्च नृपो ययौ ।
मृगयाभिरतो दैवात् मुदा युक्तस्तदाऽऽश्रमे ॥ २६॥
तत्र तस्य शरीरे च वल्मीकस्तृणसंयुतः ।
जातस्तदपि घोरं वै तताप स तपो महत् ॥ २७॥
नरान् सर्वान्निवार्यैव संस्थितस्तत्र भूमिपः ।
मा कुरुध्वं प्रवेशं सच्च्यवनाश्रममण्डले ॥ २८॥
एतस्मिन्नन्तरे तत्र सुकन्या ससखी ययौ ।
वनं क्रीडार्थमुग्रेण तपसा संयुतं मुनेः ॥ २९॥
भ्रमन्त्या चालिभिस्तत्र दृष्टो वल्मीक उत्तमः ।
तत्र ज्योतिर्मये नेत्रे दृष्ट्वा सा विस्मिताऽभवत् ॥ ३०॥
अज्ञानेन तथा मुग्धभावाद्वै कण्टकेन च ।
कन्यया चक्षुषी भिन्ने ज्योतीरूपे महामुनेः ॥ ३१॥
ताभ्यां रक्तं प्रसुस्राव दृष्ट्वा सा भयसङ्कुला ।
स्वनिवासं ययौ शीघ्रं सखीभिरसुरेश्वर ॥ ३२॥
ततः पुरीषमूत्रे वै सैन्यानां बन्धमागते ।
भूपस्य तेन शर्यातिर्भयभीतो बभूव ह ॥ ३३॥
पप्रच्छ सर्वलोकान् स मुनेराश्रममण्डले ।
छिद्रं केन कृतं घोरं येन सङ्कुपितो मुनिः ॥ ३४॥
ततः सा राजकन्या तं पितरं प्राह लज्जिता ।
क्षुभिता भयभीता वै सुकन्या रचिताञ्जलिः ॥ ३५॥
वने क्रीडनभावेन वल्मीके कण्टकेन च ।
विद्धे मया महाराज ज्योतिषी नात्र संशयः ॥ ३६॥
ततो राजा वनं गत्वा वल्मीके संस्थितं मुनिम् ।
स्तुत्वा प्रसादयामास विनयेन समन्वितः ॥ ३७॥
ततस्तं राजशार्दूलमुवाच भृगुनन्दनः ।
अज्ञानेन कृतं कर्म तव पुत्र्या नृपालक ॥ ३८॥
अतो मदीयसेवार्थं कन्यां देहि महामते ।
तदा सुखयुतं सर्वं भविष्यति न संशयः ॥ ३९॥
ततो राजा स्वयं भीतो ददौ कन्यां सुलोचनम् ।
तस्मै ससैन्यमादाय स्वपुरं प्रययौ मुदा ॥ ४०॥
सुकन्या राजपुत्री सा पतिं प्राप्य महामुनिम् ।
च्यवनं सेवने सक्ता त्यक्त्वा देहभ्रमं बभौ ॥ ४१॥
ततः कदाचित्तत्रैवाऽश्विनौ तौ भिषजां वरौ ।
आगतौ मुनिशार्दूलं प्रणम्य च पुरः स्थितौ ॥ ४२॥
मुनिः प्रोवाच तौ तत्र मां च यौवनशालिनम् ।
कुरुतं भिषजां श्रेष्ठौ सनेत्रं परमाद्भुतम् ॥ ४३॥
ततस्तं मुनिशार्दूलमूचतुश्चाश्विनौ वचः ।
देवैः साकं यज्ञभुजौ कुर्वावां तपसो बलात् ॥ ४४॥
तथेति मुनिना प्रोक्तं सभार्यं मुनिसत्तमम् ।
गृहीत्वा चाश्विनौ कुण्डं ययतू रूपदं परम् ॥ ४५॥
तत्र स्नानं त्रयः कृत्वा पुनस्ते निःसृता बहिः ।
रूपलावण्यसंयुक्ताः कामदेवोपमा बभुः ॥ ४६॥
एकरूपधरान् दृष्ट्वा सुकन्या विस्मिताऽभवत् ।
नमोश्विभ्यां च मे भर्ता दातव्यो देवसत्तमौ ॥ ४७॥
तस्याः सतीस्वभावेन सन्तुष्टौ ददतुर्मुनिम् ।
च्यवनं तौ गतौ स्थानं मुनिश्च स्वस्थलं ययौ ॥ ४८॥
कदाचिन्नृपवर्यं तं शर्यातिं स्वाश्रमागतम् ।
सुकन्या तं पुरो दृष्ट्वा पितरं सस्वजे सती ॥ ४९॥
दृष्ट्वा मुनिवरं राजा यौवनस्थं महाद्युतिम् ।
पप्रच्छ तनयां वृत्तं तया सर्वं प्रकाशितम् ॥ ५०॥
ततस्तं प्रणनामाथ नृपस्तेनाऽपि मानितः ।
यज्ञार्थं सहितं पुत्र्या गृहीत्वा च्यवनं ययौ ॥ ५१॥
शर्यातिर्यज्ञसम्भारांश्चक्रे वै हर्षितो भृशम् ।
आरेभे मुनिभिर्यज्ञं सर्वसम्पद्विराजितः ॥ ५२॥
तत्र देवा मुदा सर्वे ययुरप्सरसां गणाः ।
मुनयश्च महाभागा नानादिग्भ्यः समाययुः ॥ ५३॥
वर्णाः सर्वे तथा तत्र मानवानां समाययुः ।
द्रष्टुं प्रह्लादयज्ञं तमानन्देन समन्विताः ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते च्यवनतपोवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ २.४१
(Page खं. २ अ. ४२ पान ८९)
२.४२ भृगुचरितं नाम द्विचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
च्यवनेन तथा यज्ञेऽश्विनौ तौ भागसंयुतौ ।
कृत्वा चावहितौ तत्र तत इन्द्रोऽब्रवीद्वचः ॥ १॥
इन्द्र उवाच ।
अश्विनौ भिषजौ प्रोक्तौ मुने तस्मान्न योग्यता ।
यज्ञभागे तयोः स्वामिन् माह्वेयति वदाम्यहम् ॥ २॥
अभवन् मुनिमुख्यो सौ त्यक्त्वेन्द्रवचनं ततः ।
समुद्युक्तश्च तौ तत्राह्वयितुं त्वसुरेश्वर ॥ ३॥
तत इन्द्रोऽब्रवीद्विप्रं च्यवनं क्रोधसंयुतः ।
वज्रेणैव हनिष्यामि यद्यायातौ मुनेऽश्विनौ ॥ ४॥
च्यवनेन सहायेनाश्विनौ तत्रागतौ मखे ।
अश्विनौ तौ तदा दृष्ट्वा वज्रं दध्रे पुरन्दरः ॥ ५॥
च्यवनेन सवज्रस्तु तस्य प्रस्तम्भितो भुजः ।
तपसा स्वप्रभावेण मदं संससृजे मुनिः ॥ ६॥
ग्रसितुं स ययाविन्द्रं च्यवनेन प्रचोदितः ।
विस्मिता मुनयो देवा दृष्ट्वा वीर्यं महामुनेः ॥ ७॥
विकरालमुखं वीरं लेलिहान नभस्तलम् ।
अञ्जनाद्रिसमं श्यामं ददृशुस्तं मदं मखे ॥ ८॥
भयभीतास्ततो देवसेना मुनिगणा जनाः ।
अन्ये प्रदुद्रुवुस्तत्र त्यक्त्वा यज्ञं दिशो दश ॥ ९॥
मदस्तु ग्रसितुं तत्रेन्द्रसान्निध्यं समाययौ ।
तं दृष्ट्वा भयभीतः स च्यवनं शरणं ययौ ॥ १०॥
इन्द्र उवाच ।
अश्विनौ भागसंयुक्तौ मया मान्यौ कृतौ मुने ।
मदान् मां रक्ष विप्रेश ग्रसिष्यति न संशयः ॥ ११॥
ततस्तेनाभयं दत्तमिन्द्राय शरणार्थिने ।
मदं च तपसा स्वेन वारयामास भार्गवः ॥ १२॥
समाप्य च्यवनो यज्ञं ययौ पितृगृहे मुनिः ।
प्रणनाम सभार्यस्तं भृगुं योगविदांवरम् ॥ १३॥
तेन सम्मानितः पुत्रस्तपःसिद्धश्च सन्निधौ ।
च्यवनश्च कियत्कालमवसत् सेवनोत्सुकः ॥ १४॥
कदाचिच्च्यवनं विप्रं भृगुः परमतत्त्ववित् ।
उवाच ज्ञानसिद्ध्यर्थं स्वसुतं कृपया युतः ॥ १५॥
भृगुरुवाच ।
शृणु पुत्र प्रवक्ष्यामि किं कृतं दुःखदं त्वया ।
मदः स्वतपसा सृष्टो देवेन्द्रस्य भयावहः ॥ १६॥
तपोबलमदेनैवं कुरुषे कर्म तापस ।
मदयुक्तोऽसि पुत्र त्वं त्यज तं योगसेवया ॥ १७॥
शृणु वृत्तान्तमादौ त्वं मदीयं कथयामि ते ।
मया तन्मदयुक्तेन तपोवीर्येण यत्कृतम् ॥ १८॥
सततं तपसा युक्तो प्रतपामि तपो महत् ।
मध्ये मुनीनां सर्वेषां श्रेष्ठोऽहं तपसाऽभवम् ॥ १९॥
एकदा मुनयः सर्वे मिलिता गौतमीतटे ।
सिंहस्थे च गुरौ पुत्र तत्र वादो भवन्महान् ॥ २०॥
पितामहं परं श्रेष्ठं जानामि सगुणं सुत ।
ब्रह्मरूपं महात्मानं सर्वस्रष्टारमञ्जसा ॥ २१॥
सगुणं केचिदूचुश्च भिन्नदेहधरं शिवम् ।
केचिद्विष्णुं तथा ब्रह्मन् केचिद्ब्रह्माणमञ्जसा ॥ २२॥
तत्र सर्वैरहं पुत्र प्रेषितः कार्यसिद्धये ।
परीक्षार्थं तपःसिद्धस्त्रिष्वेवं निश्चयार्थिभिः ॥ २३॥
अहं पितामहं श्रेष्ठं जानाम्यत्र न संशयः ।
तं ययौ पितरं सिद्धं परीक्षार्थं महामुने ॥ २४॥
तमप्रणम्य विश्वेशं समासीनो महासने ।
मां दृष्ट्वा दुर्विनीतं स कुपितश्च पितामहः ॥ २५॥
उवाच मां सुरश्रेष्ठः किं मदेन समन्वितः ।
(Page खं. २ अ. ४२ पान ९०)
समागतोऽसि दुर्बुद्धे गच्छ त्वं स्वगृहेऽधुना ॥ २६॥
ततोऽवदं सुता चाऽऽदौ पत्नीभावेन सन्धृता ।
त्वया तत् किं मया तात दुर्बुद्धित्वं कृतं वद ॥ २७॥
तातस्तु क्षुभितोऽत्यन्तं स च मां शप्तुमुद्यतः ।
तातं तं दण्डवद्भूमौ नतोऽहं भक्तिसंयुतः ॥ २८॥
अवदं तं महाभागं मां क्षमस्व महागसम् ।
परीक्षार्थं महाविप्रैः प्रेषितोऽहं पितामह ॥ २९॥
क्षमस्वेदं कृतं कर्म त्वं श्रेष्ठः सर्वभावतः ।
स्तुत्वा तं विविधैर्वाक्यैस्ततः कैलासमागमम् ॥ ३०॥
दृष्ट्वा मां तापसं पुत्र भ्रातरं सहसा शिवः ।
आलिङ्गितुं समायातो निजभक्तसुखप्रदः ॥ ३१॥
अवदन् महदत्यन्तं दुर्वचस्तं परीक्षितुम् ।
मा मां स्पृश पिशाचेश वर्णाश्रमविवर्जित ॥ ३२॥
नरमस्तकमात्रादिचिह्नयुक्तोऽशुचिः सदा ।
नाम्ना शिवोऽशिवस्त्वं वै ज्ञातं ते चेष्टितं मया ॥ ३३॥
इति मद्गिरमाकर्ण्य क्रोधयुक्तः सदाशिवः ।
तृतीयं नेत्रमुद्धाट्य ज्वालितुं चोद्यतोऽभवत् ॥ ३४॥
ततस्तं स्तुतवान् पुत्र प्रणतो दण्डवत् क्षितौ ।
परीक्षार्थमिदं कर्म कृतं त्वं क्षन्तुमर्हसि ॥ ३५॥
ब्राह्मणं मां विदित्वा स क्रोधं संहृत्य शङ्करः ।
संस्थितस्तत्र कैलासे वैकुण्ठे गतवानहम् ॥ ३६॥
लक्षम्या सह समासीनं विष्णुं दृष्ट्वा प्रहर्षितः ।
सोऽपि लक्ष्म्या नतः सद्यः पादयोर्मम पुत्रक ॥ ३७॥
मया निर्भर्त्सितोऽत्यन्तं पादं मा स्पृश दुर्मते ।
स्त्रीवेषधारी जातोऽसि त्वं तेन मलिनो मतः ॥ ३८॥
मदीया स्त्री त्वया दुष्ट वर्धिता गर्हितं कृतम् ।
इत्याद्यैर्विविधैर्वाक्यर्मयाऽसौ निन्दितो भृशम् ॥ ३९॥
ततो विष्णुः स्वयं पुत्र कृताञ्जलिपुटः स्थितः ।
मया क्रोधेन पादेन हृदि सन्ताडितस्तदा ॥ ४०॥
तथाऽपि न चुकोपाऽसौ पादं धृत्वा मदीयकम् ।
ताडनश्रमयुक्तं संवाहितं तं चकार ह ॥ ४१॥
तदैव हृदये तेन ब्राह्मणप्रियकाम्यया ।
पुत्र लाञ्छनमेवेदं भृगुपादाङ्कितं धृतम् ॥ ४२॥
अहं च निश्चयं कृत्वा गतो ब्राह्मणसंसदि ।
कथितः सर्ववृत्तान्तः श्रेष्ठो नारायणः स्मृतः ॥ ४३॥
क्षमा यत्र भवेद्विप्रास्तत्र सर्वं प्रतिष्ठितम् ।
क्रमेण प्राप्यते ब्रह्म क्षमायुक्तेन चेतसा ॥ ४४॥
ततोऽहं वैष्णवो जातो यदा विष्णुपरायणः ।
कदाचिद्दक्षयज्ञे वै विष्णुर्मुख्यो बभूव ह ॥ ४५॥
शम्भुं त्यक्त्वा हरिं मुख्यं दृष्ट्वाऽहं यज्ञकर्मणि ।
मुख्यत्वमास्थितः पुत्र यज्ञकर्मप्रवर्तकः ॥ ४६॥
पार्वती तत्र दग्धातः शम्भुः कोपसमन्वितः ।
मृतां सतीं स विज्ञायाययौ गणसमावृतः ॥ ४७॥
विष्णुं निर्जित्य दक्षं तं हत्वा यज्ञः प्रणाशितः ।
मदीयं चिबुकं तत्र वीरभद्रेण पातितम् ॥ ४८॥
ब्रह्मणा सान्त्वितः शम्भुर्दक्षं सञ्जीव्य तं मखम् ।
चकार स्वयमेवेशः सम्पूर्णं भागसंयुतः ॥ ४९॥
आजं च चिबुकं मे च कृतं तेन महात्मना ।
नन्दिना शापितस्तत्र वारुणिर्ह्यभवं किल ॥ ५०॥
ततोऽहं मानसे पुत्र विस्मितः शङ्करं स्मरन् ।
कालरूपी स्वयं शम्भुः कालाधीनमिदं जगत् ॥ ५१॥
ईश्वरोऽयं शिवः प्रोक्तः परं तस्मान्न विद्यते ।
(Page खं. २ अ. ४२ पान ९१)
विचार्य शङ्करं चित्ते धृत्वाऽहं भजने रतः ॥ ५२॥
शैवो जातोऽहमत्यन्तं भस्माङ्गालेपने रतः ।
नानापाशुपतैर्मार्गैरभजं शङ्करं सदा ॥ ५३॥
एकदा यज्ञमारेभे क्षेत्रे नाम्ना महाबले ।
शैवे देवगणैर्ब्रह्मा मुनिभिश्च समन्वितः ॥ ५४॥
तत्रास्मृतिर्गणेशस्य जाता तेषां महामखे ।
उषःकाले ततो ज्येष्ठां त्यक्त्वा यज्ञं वितेनिरे ॥ ५५॥
गायत्रीं मुख्यभावां वै प्राप्तां वीक्ष्य महासती ।
सावित्री कोपसंयुक्ता शशाप सकलामरान् ॥ ५६॥
जलरूपा भवन्तो वै भविष्यन्ति न संशयः ।
ज्येष्ठां सन्त्यज्य यज्ञोऽयमारब्धस्तेन भोः सुराः ॥ ५७॥
जलरूपास्ततो देवाः शम्भुमुख्या बभूविरे ।
देवस्त्रीभिर्गणेशस्य तपः कृत्वा विमोचिताः ॥ ५८॥
पुनश्च देवरूपास्ते जातास्तस्य प्रसादतः ।
गणेशस्य न सन्देहोंशरूपेण जले स्थितः ॥ ५९॥
तदा मया च विज्ञातो गणेशो विघ्ननायकः ।
सर्वसत्ताधरः पुत्र स्वभावाच्च निरङ्कुशः ॥ ६०॥
नामतो गणपस्तत्र स्वयमेव मखो महान् ।
ध्वंसितोऽनेन देवाश्च जलरूपाः कृताः सुत ॥ ६१॥
पुनश्च भक्तिभावेन सन्तुष्टो यज्ञमाययौ ।
देवरूपांश्चकाराऽसौ देवानेवाऽकरोन् मखम् ॥ ६२॥
सर्वत्र संस्थितोऽयं वै तेनेदृक् च चकार ह ।
इति मत्वा गणेशस्य भजने तत्परोऽभवम् ॥ ६३॥
ततः कदाचिद्व्यासस्य सङ्गतिर्मे महामते ।
जाता भाग्यवशेनैव मया पृष्टो महामुनिः ॥ ६४॥
व्यास त्वं वेदशाखानां मुने कर्ता न संशयः ।
पुराणानां विभागस्य भारतस्य महामते ॥ ६५॥
वेदेषु च पुराणेषु किं सारं सर्वसम्मतम् ।
वद मां त्वं दयासिन्धो येन शान्तिं लभेन्नरः ॥ ६६॥
अवदत् स महाभागो गाणेशं पदमुत्तमम् ।
पुराणं गणनाथस्य श्रावयामास मां सुत ॥ ६७॥
ततोऽहं योगमार्गेण साधयित्वा गणेश्वरम् ।
मदादिं सर्वमुत्सृज्य शान्तिं प्राप्तो न संशयः ॥ ६८॥
मदेनाऽहं परिभ्रष्टः परीक्षां कर्तुमुद्यतः ।
सर्वज्ञोऽहं परीक्षायां समर्थः शृणु पुत्रक ॥ ६९॥
अतस्त्वं भज विघ्नेशं मम पुत्र कृताज्ञया ।
शान्तिं प्राप्स्यसि सर्वत्र गाणपत्यो भविष्यसि ॥ ७०॥
सर्वत्र व्यापकत्वेन मदोयं संस्थितोऽभवत् ।
त्वया सृष्टोऽधुना पापी पीडयिष्यति निश्चितम् ॥ ७१॥
तपसा मदयुक्तेन किं कृतं पुत्र दुःखदम् ।
अधुना गणपं भक्त्या भज योगस्य सेवया ॥ ७२॥
इत्युक्त्वा विररामाऽथ भृगुः सर्वार्थकोविदः ।
शान्तिं योगप्रदः साक्षाद्गाणपत्यो महायशाः ॥ ७३॥
इदं भृगोश्चरित्रं यः शृणुयाद्वा पठेन्नरः ।
स लभेदीप्सितं सर्वं प्रह्लादाऽत्र न संशयः ॥ ७४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते भृगुचरितं नाम द्विचत्वारिंशोऽध्यायः ॥ २.४२
२.४३ च्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
भृगोर्वचनमाकर्ण्य लज्जितश्च्यवनोऽभवत् ।
तं प्रणम्य महाभक्त्या प्रपच्छ स कृताञ्जलिः ॥ १॥
च्यवन उवाच ।
क्षमस्व मेऽपराधं च यत्कृतं सर्जनं मया ।
मदस्य भागहीनौ तावश्विनौ भागसंयुतौ ॥ २॥
अधुना गणनाथस्य ज्ञानं मे वद शान्तिदम् ।
मदादिकं समुत्सृज्य येन शान्तो भवाम्यहम् ॥ ३॥
गृत्समद उवाच ।
तदीयं वाक्यमाकर्ण्य भृगुस्तं प्राह सिद्धिदम् ।
योगं पूर्णं गणेशाख्यं तं शृणुष्व वदाम्यहम् ॥ ४॥
भृगुरुवाच ।
गणेशो ब्रह्मरूपोऽयं पूर्णशान्तिमयः स्मृतः ।
भेदाभेदादियोगेन गणेशः प्राप्यते नरैः ॥ ५॥
मायामयमिदं सर्वं भेदाभेदमयं सुत ।
त्यक्त्वा गणेश्वरत्वेन न चित्तं सम्भवेत् कदा ॥ ६॥
तदा चित्तस्य वृत्तीनां पञ्चानां नाश एव च ।
जायते नाऽत्र सन्देहो योगशान्तिमयो भवेत् ॥ ७॥
अतस्त्वं गणराजं तं भज योगस्य सेवया ।
मयोक्तेन विधानेन शान्तियुक्तो भविष्यसि ॥ ८॥
इत्युक्त्वा विररामाऽथ भृगुः शान्तिसमन्वितः ।
तं प्रणम्य ययौ सोऽपि च्यवनः परामादृतः ॥ ९॥
वने गत्वा तपस्तप्तं तेन योगप्रदायकम् ।
क्रमेण चित्तभूमीनां शोधनं च कृतं बलात् ॥ १०॥
शमश्चैव दमस्तेन सेवितौ भूमिनाशनात् ।
सर्वं सुसुलभं प्राप्तं ततो ब्रह्मविचारतः ॥ ११॥
शान्तियोगं समासाद्य तदाकारेण संस्थितः ।
गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥ १२॥
तं गणेशो ययौ दैत्य मूषकोपरि संस्थितः ।
गजाननश्चतुर्बाहुः प्रतापी च महोदरः ॥ १३॥
तं दृष्ट्वा दण्डवद्भूमौ पतितश्च्यवनो मुनिः ।
पूजयित्वा विधानेन ततः स्तोतुं प्रचक्रमे ॥ १४॥
हेरम्बस्योपनिषदा संस्तुतो गणनायकः ।
ततः प्रसन्नतां यातः प्रददौ वरमुत्तमम् ॥ १५॥
गणेश उवाच ।
यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् ।
योगशान्तिस्थभावेन सदा तिष्ठसि मानद ॥ १६॥
भक्तिर्मदीयपादे वै दृढा तव भविष्यति ।
स्मृतोऽहं पुरतो विप्र तुभ्यं दास्यामि दर्शनम् ॥ १७॥
एवमुक्त्वा गणाधीशोन्तर्धानमगमत् प्रभुः ।
तेनाऽपि स्थापिता मूतिर्गणेशस्य चतुर्भुजा ॥ १८॥
च्यवनाश्रमवासी स तदहात् गणपोऽभवत् ।
दर्शनात् स्मरणात् सद्यो भुक्तिर्मुक्तिश्च जायते ॥ १९॥
एतत्ते कथितं पुण्यं च्यवनस्य महात्मनः ।
आख्यानं सर्वदोषघ्नं नानासिद्धिफलप्रदम् ॥ २०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते च्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः ॥ २.४३
(Page खं. २ अ. ४४ पान ९३)
२.४४ मदासुरस्य राज्याभिषेको नाम चतुश्चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
प्रल्हाद उवाच ।
श्रुतं च्यवनमाहात्म्यं विश्रान्तं मे च मानसम् ।
मदस्य चरितं ब्रूहि किं चकार महामुने ॥ १॥
मुद्गल उवाच ।
एवं पृष्टो गृत्समदो महायोगी प्रतापवान् ।
गाणपत्यवरिष्ठश्चोवाच तच्छृणु सादरम् ॥ २॥
गृत्समद उवाच ।
शृणु प्रह्लाद माहात्म्यं मदस्य क्रमसंयुतम् ।
च्यवनेन स संसृष्टो मदः पातालमाययौ ॥ ३॥
विचार्य बलवान् दैत्यैर्ययौ शुक्रं महामुनिम् ।
तं प्रणम्य स्थितो दूरं बद्धाञ्जलिपुटो मदः ॥ ४॥
विनयेन समायुक्तं मदं दृष्ट्वा स भार्गवः ।
काव्यस्तं मानयामास कुतः कोऽसि वदस्व माम् ॥ ५॥
ततः स हर्षितो भूत्वा जगाद मुनिसत्तमम् ।
च्यवनाच्च समुत्पन्नं भार्गवं विद्धि मां मुने ॥ ६॥
तव भ्रातृसुतोऽहं वै शरणं त्वामुपागतः ।
शिष्यं मां कुरु योगीश येनाऽहं मानितो भुवि ॥ ७॥
ब्रह्माण्डस्य महद्राज्यं कर्तुमिच्छामि भार्गव ।
मदोऽहं मदरूपेण जेष्यामि त्वत्प्रसादतः ॥ ८॥
इति तस्य वचः श्रुत्वा नातिहृष्टेन चेतसा ।
मदं तं शिष्यभावेन जग्राह मुनिसत्तमः ॥ ९॥
शक्तिमन्त्रं ददौ तस्मै कविः सर्वार्थकोविदः ।
एकाक्षरविधानेन सहितं भार्गवाग्रणीः ॥ १०॥
स ययौ तं नमस्कृत्य वनं तपसि संस्थितः ।
निराहारयुतो दैत्यः शक्तिध्यानपरायणः ॥ ११॥
तस्य देहे समुत्पन्नो वल्मीको बहुकालतः ।
लतातरुसमायुक्तस्तथाऽपि तपसि स्थितः ॥ १२॥
अस्थिमात्रावशिष्टोऽभूदजपन् मनुमादरात् ।
ध्यानं साङ्गं चकाराऽसौ स्थिरचित्तेन तापसः ॥ १३॥
दिव्यवर्षसहस्राणि पञ्च वै तपतः किल ।
गतानि दैत्यराजेन्द्रातुरं सर्वं तदाऽभवत् ॥ १४॥
ततः शक्तिर्ययौ तस्याऽश्रमे भक्तिप्रभाविता ।
सिंहारूढा महाभागा शक्तिभिः संवृता परा ॥ १५॥
पुरुषाकृतिसंस्था तु तदधीनाश्चरन्ति ताः ।
पुरतो भक्तिसंयुक्ताः प्रकृतीनां महाबलाः ॥ १६॥
बोधयामास सा शक्तिरादिमाया मदं ततः ।
स्वभक्तं तापसं नैव स बुबोध मदासुरः ॥ १७॥
ततस्तया जलेनैव मार्जिताङ्गो महामदः ।
सावधानोऽभवत्तत्र दृष्ट्वा शक्तिं समुत्थितः ॥ १८॥
तां प्रणम्य महाभक्त्याऽपूजयन् भक्तिसंयुतः ।
कृत्वा करपुटं देवीं तुष्टाव च यथामति ॥ १९॥
मद उवाच ।
नमामि त्वां महामाये सर्वशक्तिसमन्विताम् ।
त्वदाधारमिदं सर्वं शक्तियुक्तं प्रवर्तते ॥ २०॥
अनादिमप्रमेयां त्वां न जानन्ति महर्षयः ।
वेदान्तवेद्यरूपां वै नमामि परमेश्वरीम् ॥ २१॥
नानाभेदकरीं देवीं नानाभेदविवर्जिताम् ।
भेदाभेदमयीं त्वाऽहं नमामि सकलेश्वरीम् ॥ २२॥
पार्वतीं दक्षपुत्रीं च हिमाचलसुतां तथा ।
समुद्रतनयां लक्ष्मीं सावित्रीं त्वां नमाम्यहम् ॥ २३॥
त्वां स्वाहां त्वां स्वधां चैव वषट्कारात्मिकां शिवाम् ।
बुद्धिरूपां देवमयीं ज्ञानरूपां नमाम्यहम् ॥ २४॥
सिद्धिदां सर्वकार्येषु सिद्धिरूपां तपस्विनीम् ।
योगिनीं योगदात्रीं वै योगेशीं त्वां नमाम्यहम् ॥ २५॥
(Page खं. २ अ. ४४ पान ९४)
त्वां स्तोतुं न समर्था ये मुनयो वेदवादिनः ।
देवाः स्कन्दश्च शेषश्च तत्राऽहं स्तौमि किं पराम् ॥ २६॥
धन्यौ मे पितरौ ज्ञानं तपो विद्यादिकं च यत् ।
यत्तवाङ्घ्रियुगं दृष्टं सर्वदुःखविमोचनम् ॥ २७॥
इत्युक्त्वा संस्थितस्तूष्णीं भावेन स मदासुरः ।
तमुवाच महाशक्तिर्भक्तिभावेन यन्त्रिता ॥ २८॥
शक्तिरुवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति महाभाग सर्वकामफलप्रदम् ॥ २९॥
धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति ।
पठतां शृण्वतां सर्वं सुखदं च महासुर ॥ ३०॥
वरान् वरय दास्यामि त्वया स्तोत्रेण तोषिता ।
तपसोग्रेण दैत्येन्द्र दुर्लभान् मनसि स्थितान् ॥ ३१॥
गृत्समद उवाच ।
देव्या वचनमाकर्ण्य हर्षितः स मदासुरः ।
तां प्रणम्य जगादाऽथ वरान् परसुदुर्लभान् ॥ ३२॥
मदासुर उवाच ।
यदि देवि प्रसन्ना त्वं यदि देया वराः पराः ।
तर्हि मे मरणं कुत्र न भवेत्त्वं तथा कुरु ॥ ३३॥
देहि मे सकलं राज्यं त्रैलोक्यस्य जगन्मयि ।
यद्यदिच्छामि तत्तद्वै प्रसिद्ध्यतु सदाशिवे ॥ ३४॥
त्वं च प्रकृतिरूपा वै त्वत्तः सर्वं समुद्भवम् ।
पञ्चधा तन्ममाधीनं जननि त्वं सदा कुरु ॥ ३५॥
ततस्तं जगदम्बा सोवाच विस्मितमानसा ।
यदुत्पन्नं महादैत्य तस्मात्ते मरणं न हि ॥ ३६॥
पञ्चधा यद्विभक्तं तत्तवाधीनं भविष्यति ।
यद्यदिच्छसि तत्तद्वै सफलं सर्वदा भवेत् ॥ ३७॥
आरोग्यमचलं राज्यं ब्रह्माण्डस्य भविष्यति ।
न समस्ते च दैत्येन्द्र युद्धे कश्चिद्भवेदपि ॥ ३८॥
इत्युक्त्वान्तर्दधे देवी जगन्माताऽसुरेश्वर ।
मदश्च हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ ३९॥
प्रमादासुरकन्यां वै सालसां रूपशालिनीम् ।
उपयेमे विधानेन दैत्यैः सम्मानितो भृशम् ॥ ४०॥
विलासदं ततस्तेन नगरं वासितं बभौ ।
तत्राययुश्च वासार्थं दिग्भ्यो दैत्या महासुराः ॥ ४१॥
अमात्यास्तस्य चत्वारः सञ्जाता लोकविश्रुताः ।
बाणस्त्रिपुरनामा वै तारकः शङ्खसंज्ञकः ॥ ४२॥
दैत्यैस्तत्र समानीतः कविः परमयोगवित् ।
ब्राह्मणैः सह तं राज्ये सिषेच स मदासुरम् ॥ ४३॥
दैत्यानां राक्षसानां चासुराणां पतिरादरात् ।
जातो मदासुरस्तत्र हर्षिता दैत्यपा बभुः ॥ ४४॥
पुत्रास्त्रयः समुत्पन्नाः सालसायां मदासुरात् ।
विलासी लोलुपश्चैव धनप्रिय इति स्मृताः ॥ ४५॥
एवं राज्यं चकाराऽसौ दैत्यानामसुरेश्वरः ।
गर्वेण तेन वा को वै न दध्रे बलसंयुतः ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते मदासुरस्य राज्याभिषेको नाम चतुश्चत्वारिंशोऽध्यायः ॥ २.४४
(Page खं. २ अ. ४५ पान ९५)
२.४५ मदासुरस्वर्गविजयो नाम पञ्चचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
ततः कदाचिद्दैत्येन्द्रैर्बोधितोऽभून् मदासुरः ।
विजयाय समुद्युक्तस्त्रैलोक्यस्य मदान्वितः ॥ १॥
स शुक्रमुपसङ्गम्य तं प्रणम्य विशेषतः ।
सङ्गृह्य मुनिमुख्यं वै विजयायाऽकरोन् मतिम् ॥ २॥
नानादिग्भ्यः समायाता असुरा दैत्यपास्ततः ।
सन्नद्धास्त्वरमाणाश्च राक्षसाः प्रययुर्मदम् ॥ ३॥
चतुरङ्गबलैर्युक्तः सङ्ख्यातीतैर्मदासुरः ।
निर्ययौ दिग्जयार्थं स संस्तुतो बन्दिभिर्नृपः ॥ ४॥
दैत्याः केऽपि महाघोरा निःसृतास्तत्पुरो बभुः ।
मेरुमन्दरसङ्काशा यमाय भयदायकाः ॥ ५॥
नानाशस्त्रास्त्रसंयुक्ताः कवचादिसमावृताः ।
नानावाहनगास्ते वै कम्पयन्तो वसुन्धराम् ॥ ६॥
केचित्पाषाणहस्ताश्च केचिद् वृक्षधरास्तथा ।
पर्वतस्य धराः केचिन् महाबलपराक्रमाः ॥ ७॥
नानाभयङ्कराकारा बभुः सैन्ये समन्ततः ।
तदा संशयिताः सर्वे ब्रह्माण्डे लोकसङ्कुले ॥ ८॥
पृथिवीजयने सक्ता दैत्याः परमदारुणाः ।
आदौ तत्रासुरेशानमदासुरसुचोदिताः ॥ ९॥
केचित् कृत्वा मृता युद्धं केचित्तान् शरणं ययुः ।
राजानो भयसंयुक्ताः केचिच्च्यवनमाश्रिताः ॥ १०॥
प्रलयं मेनिरे लोका भूमिस्थाः सर्वशस्तदा ।
दैत्या भूमण्डलं जित्वाऽभवंस्ते हर्षसंयुताः ॥ ११॥
सप्तद्वीपवतीं पृथ्वीं जित्वा दैत्या महासुराः ।
देवानां जयने बुद्धिं चक्रुः परमदारुणाः ॥ १२॥
वायुवेगसमाः सर्वे गताः स्वर्गं क्षणार्धतः ।
वनानि ते बभञ्जुश्च देवोद्यानानि दैत्यप ॥ १३॥
देवैः संज्ञापितस्तत्र सुरेन्द्रः क्रोधसंयुतः ।
युद्धाय शस्त्रसंयुक्तैर्देवैर्वै तत्परोऽभवत् ॥ १४॥
बृहस्पतिं समागम्य प्रणनाम सुरेश्वरः ।
सुरेश्वरो द्विजेन्द्रेण मानितो भक्तिसंयुतः ॥ १५॥
तत इन्द्रं जगादाऽसौ महाकान्तिर्बृहस्पतिः ।
शृण देवेन्द्र वाक्यं मे कालकर्मयुतं महत् ॥ १६॥
शक्तेः स वरदानेन दुर्जयः स मदासुरः ।
अतः सर्वं परित्यज्य पलायध्वं सुरेश्वराः ॥ १७॥
एवमुक्ते च जीवेन पलायन्त च देवताः ।
बृहस्पतिसमायुक्तास्त्यक्त्वा स्वर्गादिकं भयात् ॥ १८॥
ततो मदासुरो ज्ञात्वा सर्वं देवविचेष्टितम् ।
दैत्यैर्युक्तः सुसंहृष्ट आययावमरावतीम् ॥ १९॥
तत्रेन्द्रासनगो भूत्वा रराज स मदासुरः ।
सेव्यमानोऽप्सरोभिश्च गन्धर्वैर्गानतत्परैः ॥ २०॥
विविधैर्दिव्यभोगैः स सेव्यमानोऽमरैस्तथा ।
बलदर्पसमायुक्तो दैत्यैर्नानाविधैर्बभौ ॥ २१॥
देवानां स पदेष्वेव स्थापयामास दैत्यपान् ।
तारकाद्या महावीर्याः संस्थिता बुभुजुः सुखम् ॥ २२॥
ततस्तैः स विचार्यैव ययौ ब्रह्मपदं महत् ।
विधाता स्थानमुत्सृज्य कैलासं तद्भयाद्ययौ ॥ २३॥
सत्यलोके सुराः सर्वे बभ्रमुर्यत्र तत्र वै ।
नानाभोगयुता दुष्टा रेजिरे मदसंयुताः ॥ २४॥
विमानैर्वाह्यमानास्ते मनोवेगैः सुखप्रदैः ।
कामगैश्च महादैत्या मेनिरे कृतकृत्यताम् ॥ २५॥
मदासुरस्तत्र राजा ब्रह्मासनसमाश्रितः ।
मुदं लेभेऽसुरेशानैः संवृतः कालभीतिदैः ॥ २६॥
(Page खं. २ अ. ४५ पान ९६)
ततस्तैः संवृतो दैत्यो ययौ वैकुण्ठमादरात् ।
ज्ञात्वाऽऽगतं महाक्रूरं पलायत रमापतिः ॥ २७॥
सोऽपि कैलासमगमद्विष्णुः स्वैः पार्षदैर्वृतः ।
मदासुरो महादुष्टो वैकुण्ठे संस्थितोऽभवत् ॥ २८॥
नारायणासने संस्थो दैत्यराजैर्महाबलैः ।
संवृतः शुशुभेऽतीव नानाभोगसमन्वितः ॥ २९॥
सुखं चानुपमं तत्र वैकुण्ठे विष्णुना कृतम् ।
तदेव बुभुजे सोऽपि दैत्यैर्दुष्टैः समन्वितः ॥ ३०॥
विमानानि विचित्राणि देवोद्यानानि सर्वशः ।
कल्पवृक्षयुतान्येते दैत्यपाः समभुञ्जत ॥ ३१॥
ततस्तैः सहितो वीरः प्रतापी स मदासुरः ।
कैलासं शङ्करस्थानं ययौ रणविधित्सया ॥ ३२॥
शिवोऽपि स्वगणैर्युक्तो देवैर्विष्ण्वादिभिर्वृतः ।
शक्तिलोकं जगामाऽथ भयसङ्कुलितो मदात् ॥ ३३॥
दैत्येश्वरो महादैत्यैः कैलासे संस्थितोऽभवत् ।
अतुलं सुखमत्यन्तं बुभुजे तैः समन्वितः ॥ ३४॥
शिवेन रचितं पुण्यं कैलासे कल्पितप्रदम् ।
नानाश्चर्ययुतं हृष्टो दैत्यस्तद्बुभुजे बलात् ॥ ३५॥
मोहितो भोगभावेन धन्यं चैव मदासुरः ।
मेने स्वं सर्वदनुजैस्त्रिपुरप्रमुखैः खलैः ॥ ३६॥
देवाः सर्वे ययुः शक्तेर्लोकं तद्भयसङ्कुलाः ।
शक्तिस्तान् गणसंयुक्तान् समाश्वास्य स्थिताऽभवत् ॥ ३७॥
शिवादीनादिमाया सा जगाद वदतां वरा ।
जगतश्च जगन्माता सृष्टिस्थित्यन्तकारिणी ॥ ३८॥
आदिशक्तिरुवाच ।
मा भयं देवदेवेशाः कुरुध्वं मम सन्निधौ ।
तिष्ठताऽत्र न दैत्योऽयं कदापि त्वागमिष्यति ॥ ३९॥
मदीयवरदानेन गर्वयुक्तो बभूव ह ।
मदासुरो महाभागो वचो मम करिष्यति ॥ ४०॥
आगमिष्यति दैत्यश्चेत्तदा मां पूजयिष्यति ।
मदीयमवमानं वै न करिष्यति देवपः ॥ ४१॥
कदाचित्तेन गर्वेण ममलोकनिवासिनः ।
पीडिताश्चेत् क्षणं सद्यो हनिष्यामि न संशयः ॥ ४२॥
एवमाश्वासिता देवाः शक्त्या ते तत्र संस्थिताः ।
भयं त्यक्त्वा च दैत्येभ्यो दुःखयुक्ता महासुर ॥ ४३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते मदासुरस्वर्गविजयो नाम पञ्चचत्वारिंशोऽध्यायः ॥ २.४५
(Page खं. २ अ. ४६ पान ९७)
२.४६ तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
कैलासे दैत्यपैर्युक्तः संस्थितोऽभून मदासुरः ।
कियत्कालं प्रभुञ्जानो भोगान् परमदुर्लभान् ॥ १॥
गते कियति काले च त्रिपुराद्यास्तमब्रुवन् ।
देवानां छेदने दुष्टाः संसक्ता मदसंयुताः ॥ २॥
त्रिपुराद्या ऊचुः ।
शृणु राजन् महाभाग मदासुर हितं वचः ।
देवाः शम्भुमुखाः सर्वे शक्तिलोकं गता बभुः ॥ ३॥
तत्र शक्त्या विशेषेण मानिताः सुरसत्तमाः ।
भयहीनाः सुखे सक्ता बुभुजुर्विविधं सुखम् ॥ ४॥
अस्माकं शत्रवः सर्वे देवा दैत्य मताः सदा ।
दैत्यानां कदने सक्ताः समर्थाश्चेन्न संशयः ॥ ५॥
हिरण्याक्षादयः सर्वे सूदिता देवपैः पुरा ।
छिद्रदर्शनसंयुक्तैरस्माकं तैर्विशेषतः ॥ ६॥
सर्वत्र ख्यातिमत्यन्तं जानन्ति सकला जनाः ।
देवानां वैरिभावं च परस्परवधे रतम् ॥ ७॥
अस्माकं शक्तिरत्यन्तं वैरिभावे प्रवर्तिता ।
मान्या तदपि दैत्येन्द्र देवानां सा हिते रता ॥ ८॥
अतः शक्तिपुरे स्वामिन् गमिष्यामो न संशयः ।
हनिष्यामोऽमरान् सर्वान् वैरिभावं समाश्रितान् ॥ ९॥
दैत्यानां वचनं श्रुत्वा प्रतापी स मदासुरः ।
उवाच तान् महादैत्यो विनयेन समन्वितः ॥ १०॥
मदासुर उवाच ।
शृणुध्वं त्रिपुराद्या मे वचनं हितकारकम् ।
शक्तिप्रसादसम्भूतमैश्वर्यं सकलं च मे ॥ ११॥
इष्टा देवी मदीया सा तां भजामि विशेषतः ।
अतस्तस्या हितं मान्यं कर्तव्यं सकलैः सदा ॥ १२॥
तां च देवा ययुः सर्वे शरणं नात्र संशयः ।
मदीयदासभावेन यन्त्रिता शक्तिरादरात् ॥ १३॥
देवानां पक्षपातेन सह तैर्नागताऽभवत् ।
अस्माकं तु वधार्थाय महामाया च दानवाः ॥ १४॥
अतः प्रभजने तस्या आसक्ता ये भवन्ति वै ।
ते सम्मान्या मया नित्यं मा वैरं कुरुताऽसुराः ॥ १५॥
मदासुरवचः श्रुत्वा दैत्यपास्तं पुनर्जगुः ।
क्रोधयुक्ता मदोत्सिक्ता देवानां तु वधे रताः ॥ १६॥
दैत्येशा ऊचुः ।
मदासुर शृणु स्वामिन् पुरावृत्तं कथानकम् ।
हिरण्यकशिपुः प्रोक्तो ब्रह्मलब्धवरो महान् ॥ १७॥
अभवन् बहवश्चान्ये दैत्येशा देवशत्रवः ।
देवपक्षाश्रयं सर्वे त्यक्त्वा स्वं धर्ममाश्रिताः ॥ १८॥
कश्यपस्य सुतौ चैव तावुभौ देवसंश्रयम् ।
त्यक्त्वा तु देवसंहारे दैत्येशौ तत्परौ पुरा ॥ १९॥
अतस्त्वयाऽपि कर्तव्यं देवानां मूलनाशनम् ।
असुराश्च सुराः प्रोक्ता वेदेऽपि च विरोधिनः ॥ २०॥
शक्तिलोकं गमिष्यामो भक्तियुक्ता वयं प्रभो ।
देवास्तान्निर्दलिष्यामः खलु शक्तेः प्रसन्निधौ ॥ २१॥
यदि शक्तिर्महामायाऽस्माकं पक्षं समाश्रिता ।
तदा तां पूजयिष्यामः कुलदैवतमादरात् ॥ २२॥
अन्यथा योधयिष्यामो वयं शक्त्या न संशयः ।
शत्रुपक्षाश्रितां ज्ञात्वा नाऽत्र दोषः प्रवर्तते ॥ २३॥
दैत्येशानां वचः श्रुत्वा दुर्मतिः स मदासुरः ।
तथेति सत्यमत्यन्तं मानयामास दैत्यपः ॥ २४॥
तदैव दैत्यसंयुक्तो ययौ लोकं मदासुरः ।
शक्तेश्च सन्निधौ दूतं प्रेषयामास दुर्मतिः ॥ २५॥
(Page खं. २ अ. ४६ पान ९८)
तारकं प्रजगादाऽसौ गच्छ देवीं महाबल ।
सामयुक्तं वदाऽऽशु त्वं महामायां महासुर ॥ २६॥
तं प्रणम्य ययौ वेगाच्छक्तेः सन्निधिमादरात् ।
तारको मानितस्तैस्तु देवैः परमदारुणः ॥ २७॥
नत्वा शक्तिं महामायां कृताञ्जलिपुटोऽसुरः ।
तारकस्तामुवाचाऽथ सामयुक्तं वचः खलः ॥ २८॥
तारकासुर उवाच ।
शृणु शक्ते महामाये आगतः स मदासुरः ।
दर्शनार्थं च ते मातस्तेनाऽहं प्रेषितोऽधुना ॥ २९॥
तेनोदितं च शक्ते त्वं वचनं शृणु मानदे ।
भक्तेन भक्तिसंयुक्तं भावज्ञे जगदम्बिके ॥ ३०॥
अस्माकं कुलदेवी तु त्वमेवात्र न संशयः ।
असुरा हि वयं सर्वे त्वदीयाः सेवका मताः ॥ ३१॥
यत्राऽसुरा विराजन्ति सुरास्तत्र हतप्रभाः ।
भवन्ति नात्र सन्देहः स्वभावाच्छत्रवो मताः ॥ ३२॥
अतो देवान् समुत्सृज्य तिष्ठ त्वं पूजिताऽसुरैः ।
अस्माकं शत्रवो देवास्त्वदीयाः शत्रवो मताः ॥ ३३॥
प्रणमन्तो वयं यावत्तावद्देवनिकृन्तनम् ।
करिष्यामो न सन्देहस्तस्मान् मातस्त्यजाऽऽशु तान् ॥ ३४॥
एकं पक्षं समाश्रित्य तिष्ठ त्वं जगदम्बिके ।
असुराणां सुराणां वा पूजिता सततं परे ॥ ३५॥
इत्येवं कथितं देवि मदस्य वचनं मया ।
कुरु त्वं भक्तराजस्य पालनं परमादरात् ॥ ३६॥
गृत्समद उवाच ।
मदस्य वचनं क्रूरं तारकेण प्रकाशितम् ।
तच्छ्रुत्वा कुपिता देवी तं जगाद महासुरम् ॥ ३७॥
शक्तिरुवाच ।
मदीयं जगदम्बेति नाम वेदे प्रकाशितम् ।
केन मार्गेण दैत्येश पक्षमेकं समाश्रये ॥ ३८॥
यथा देवास्तथा दैत्या मान्या मे नात्र संशयः ।
देवैर्दैत्यैश्च कर्तव्यः स्वस्वधर्मो महासुर ॥ ३९॥
पाताले राज्यमानन्दाद्दैत्यैः कर्तव्यमञ्जसा ।
स्वर्गेषु सर्वदा देवैः कर्तव्यं स्वस्वभावजम् ॥ ४०॥
विपरीते हनिष्यामि क्रुद्धाऽहं नात्र संशयः ।
अतो दैत्यैः प्रगन्तव्यं पाताले वै मदाज्ञया ॥ ४१॥
शक्तेर्वचनमाकर्ण्य क्रुद्धः सोऽपि महासुरः ।
उवाच तां महाशक्तिं भयं त्यक्त्वा प्रभावतः ॥ ४२॥
तारक उवाच ।
मा गर्वं कुरु शक्ते त्वं शत्रुपक्षसमाश्रिते ।
तपसा वयमुत्कृष्टा जाताः स्वस्य न संशयः ॥ ४३॥
कर्मणा त्वं प्रसृजसि जगन्ति जगदम्बिके ।
कर्माधीनमिदं सर्वं तत्र त्वं किं करिष्यसि ॥ ४४॥
कर्मणा दैत्यराजश्च प्रतापी स मदासुरः ।
ब्रह्माण्डाधिपतिर्भूत्वा देवान् सर्वान् हनिष्यति ॥ ४५॥
युद्धाय सज्ज त्वं देवि देवैःसह जगन्मयि ।
असुरैश्च महाभागैर्गच्छामि मदसन्निधौ ॥ ४६॥
एवमुक्त्वा महाशक्तिं तारकः क्रोधसंयुतः ।
जगाम शक्तिलोकाद्वै मददैत्यस्य सन्निधौ ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ २.४६
(Page खं. २ अ. ४७ पान ९९)
२.४७ इन्द्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
आगतं तारकं दृष्ट्वा हर्षितः स मदासुरः ।
दैत्यैः सह महासाधो प्रह्लन्नश्चाभवत् खलः ॥ १॥
मदासुरं प्रणम्याऽसौ कथयामास तारकः ।
वृत्तान्तं देवपक्षे च संश्रितं कुलदैवतम् ॥ २॥
तच्छ्रुत्वा मद्यपो दैत्यः प्रतापी स मदासुरः ।
क्रोधयुक्तोऽभवत्तत्र देवान् हन्तुं समुद्यतः ॥ ३॥
सन्नद्धैर्दैत्यपैः सर्वैः सन्नद्धश्च मदासुरः ।
शक्तिलोकं जगामाऽथ महाकाल इवाऽऽबभौ ॥ ४॥
पुरःप्रान्ते स्थितान् शक्तेर्गणान् परमविश्रुतान् ।
ताञ्जघ्नुश्च महादैत्याः शस्त्रैः परमदारुणैः ॥ ५॥
छिन्नाङ्गास्ते पलायन्त गताः स्वनगरेऽभवन् ।
वृत्तान्तं कथयामासुर्दैत्यानामागमात्मकम् ॥ ६॥
श्रुत्वा तत्र महाशक्तिर्देवैः सर्वैर्महाबलैः ।
शङ्करादिभिरन्वीता ययौ सङ्ग्राममण्डलम् ॥ ७॥
सिंहारूढा चतुर्बाहुः खड्गचर्मधरा बभौ ।
धनुर्बाणधरा क्रोधान्नानाशक्तिसमन्विता ॥ ८॥
वामाङ्गाच्छ्रीः समुत्पन्ना सावित्री दक्षिणाङ्गतः ।
हृदयात् पुरतः संज्ञा तासां सैन्यं पृथग्बभौ ॥ ९॥
विष्णुशङ्करमुख्याश्च सन्नद्धा वाहने स्थिताः ।
स्वस्वसैन्येन संयुक्ता बभुः कालसमाः पुरः ॥ १०॥
इत्यादिशक्तिभिः शक्तैर्देवैर्वै संयुतं महत् ।
सैन्यं दैत्येन्द्रमुख्यैस्तैर्दृष्टं परमदारुणम् ॥ ११॥
ततो दैत्यैश्च शस्त्रौघैस्ताडितं सहसा बलात् ।
शक्तिसैन्यं महाघोरं क्रोधयुक्तं बभूव ह ॥ १२॥
शक्त्या सम्प्रेषिता देवा युयुधू रणमण्डले ।
कालिकाद्या महायुद्धे शक्तयः कुपिता भृशम् ॥ १३॥
अकस्मान्मिलिते सैन्ये परस्परजयैषिणी ।
दैत्यानां चैव देवानां मरणे कृतनिश्चये ॥ १४॥
सैन्यानां रजसा तत्र हृतं ज्ञानं समन्ततः ।
न प्रकाशो रवेरासीत् स्वपरज्ञानकारकः ॥ १५॥
हेषितैः क्ष्वेडितैस्तत्र बृंहितै रथनेमिभिः ।
वादित्राणां महाशब्दैर्नादयुक्ता दिशोऽभवन् ॥ १६॥
शङ्खनादैः सिंहनादैर्नानानादैश्च दैत्यप ।
बधिरा इव योधास्ते सञ्जाता रणमूर्धनि ॥ १७॥
शस्त्रैरस्त्रैरनेकैश्च परिजघ्नुः समन्ततः ।
द्रुमैः पर्वतखण्डैश्च स्वान् परान् युद्धदुर्मदाः ॥ १८॥
मृताः केचित् क्षताः केचित् केचिच्छस्त्रधरा बभुः ।
निजघ्नुः परवीरांस्ते स्वबलेन महाबलाः ॥ १९॥
भग्ने शस्त्रे समग्रे ते मल्लयुद्धपरायणाः ।
युयुधुः क्रोधसंयुक्ताः शस्त्रहीनास्तथाऽपरे ॥ २०॥
कबन्धा युयुधुस्तत्र शस्त्रहस्ता महाबलाः ।
स्वान् परानपि जघ्नुस्ते स्वपरज्ञानवर्जिताः ॥ २१॥
बाणैर्बाणान् समाक्षुब्धा विजघ्नुश्च परस्परम् ।
खड्गैः खड्गांस्तथा चान्ये गदाभिश्च गदा भृशम् ॥ २२॥
तोमरैश्च महावीराः पर्शुभिस्तु तथाऽपरे ।
भिन्दिपालैश्च पाशैश्च परिजघ्नुः परस्परम् ॥ २३॥
रथारूढा गजारूढैर्गजारूढाः पदातिभिः ।
अश्वारूढैस्तथाऽन्येऽपि युयुधुर्जातसम्भ्रमाः ॥ २४॥
तुमुलं दैत्यदेवानां युद्धं तत्र प्रवर्तितम् ।
उभयोर्नाशकं घोरं वक्तुं नैव प्रशक्यते ॥ २५॥
प्रवाहबहुलै रक्तै रजः सम्प्लावितं महत् ।
प्रकाशस्तत्र सञ्जातः स्वपरज्ञानकारकः ॥ २६॥
(Page खं. २ अ. ४७ पान १००)
प्रबोध्य केचिद्दैत्यांस्तान सुरा जघ्नुर्महाबलाः ।
असुराश्च सुरांस्तद्वन् महाक्रोधसमन्विताः ॥ २७॥
शक्तयः कुपितास्तत्र दैत्यांश्चैव प्रजह्रिरे ।
शस्त्रास्त्रैर्विविधैः सर्वाः पिपिषुश्चासुरेश्वरान् ॥ २८॥
दैत्याः प्रकुपिता अन्ये शस्त्रास्त्रैर्देवमण्डलम् ।
छिन्नं भिन्नमिमे चक्रुः क्रोधयुक्ता महाबलाः ॥ २९॥
मेरुशीताचलप्रख्या दैत्या देवाः स्थिता बभुः ।
चेलुर्न च पदं तत्र परस्परवधे रताः ॥ ३०॥
अभवन् शोणितौघानां महानद्यः समन्ततः ।
देवदैत्यशरीरेभ्यः प्रसूताश्च सहस्रशः ॥ ३१॥
मेदोमांसमहापङ्काः प्रपेतुर्धरणीतले ।
देवाश्च शतशो दैत्या गतप्राणा रणेऽसुर ॥ ३२॥
मांसं कर्दमरूपेण यत्र तत्र स्थितं रणे ।
मृतानां न च सङ्ख्याऽऽसीन् मार्गरोधनकारिणाम् ॥ ३३॥
असृक्प्रवाहजस्तत्र पूरः सन्ददृशे जनैः ।
जलौघ इव दैत्येन्द्र महामोहप्रवर्धनः ॥ ३४॥
मृतैर्गजैस्तथा भग्नै रथैर्वाजिभिरेव च ।
नानापशुगणैरुष्ट्रैः पक्षिभिर्दुर्गमं कृतम् ॥ ३५॥
मुमूर्षवस्तत्र पेतुर्मृताः केचिच्च खण्डिताः ।
तदपि क्रोधसंयुक्ताः प्रयत्नं चक्रुरादृताः ॥ ३६॥
एवं दश दिनान्येव दिवारात्रं महारणम् ।
बभूव समये तस्मिन् देवदैत्यसमुद्भवम् ॥ ३७॥
पलायनपरा देवास्ततो जाता महारणे ।
दशदिक्षु भयोद्विग्नाः पलायन्ताऽसुरेश्वर ॥ ३८॥
तद् दृष्ट्वा परमाश्चर्यं वज्रभृद्देवपैर्वृतः ।
सङ्ग्राममकरोद्घोरं दैत्यनाशकरं परम् ॥ ३९॥
वज्रपातेनासुरान् स चूर्णयामास वेगतः ।
देवेन्द्रो विविधैरन्यैर्यमाद्या आयुधैस्तथा ॥ ४०॥
मृता दैत्यगणाः केचित् भृशं केचिच्च मूर्च्छिताः ।
मुमूर्षवः परे तत्र कृता वै वज्रिणाऽभवन् ॥ ४१॥
शक्त्यादिशस्त्रपातेन वह्निचन्द्रयमादयः ।
असुरान् मारयामासुः क्रोधयुक्ताः सुरेश्वराः ॥ ४२॥
ततो भग्नं बलं सर्वं दैत्यानां भयसङ्कुलम् ।
दुद्राव दिक्षु सर्वासु त्रातारं नाभ्यपद्यत ॥ ४३॥
ततः संहर्षिता देवास्तथा देवगणाः परे ।
जयशक्ते महामायेऽवदंस्ते जय सर्वदा ॥ ४४॥
ततः क्रोधसमायुक्तस्तारको दैत्यपैर्वृतः ।
आययौ क्रोधदीप्ताक्षो योद्धुं शक्रेण वीर्यवान् ॥ ४५॥
आगत्य रणभूमिं स तमुवाच पुरन्दरम् ।
गर्वयुक्तं महोग्रं च मोहितो मदसंयुतः ॥ ४६॥
तारक उवाच ।
किं त्वं युध्यसि देवेन्द्र दैत्यपैः परमादृतैः ।
मया युक्तैकबाणेन न समोऽसि सुराधिप ॥ ४७॥
बलेन यदि संयुक्तस्तदा किममरावतीम् ।
त्यक्तवान् वद मे वाक्यं वृथा मृत्युमवाप्स्यसि ॥ ४८॥
इति तस्य वचः श्रुत्वा सुरेन्द्रस्तमुवाच ह ।
क्रोधसंरक्तचक्षुर्भिर्भक्षयन्निव दानवान् ॥ ४९॥
इन्द्र उवाच ।
तारक त्वं वल्गसि किं पश्य मे पौरुषं महत् ।
आसुरं प्रहरिष्यामि सैन्यं ते पश्यतो महत् ॥ ५०॥
पश्चात्त्वां च क्रमेणाऽहं मदं सबलवाहनम् ।
हत्वाऽभिवाद्य शक्तिं च गमिष्याम्यमरावतीम् ॥ ५१॥
(Page खं. २ अ. ४८ पान १०१)
आदौ शक्तिविहीनोऽहं किं करोमि पराक्रमम् ।
अधुना शक्तिसंयुक्तः कदनं ते करोम्यहम् ॥ ५२॥
किं बहूक्तेन दैत्येन्द्र दर्शय स्वपराक्रमम् ।
नोचेद्गच्छस्व पातालं मिथ्या वल्गसि किं वचः ॥ ५३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते इन्द्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः ॥ २.४७
२.४८ इन्द्रपराजयो नामाष्टचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
एवं गदित्वा देवेन्द्रो दैत्येन्द्रं क्रोधसंयुतम् ।
तारकं शरवर्षेण ववर्ष रणमण्डले ॥ १॥
एकस्मान् मन्त्रिताद्बाणादनन्तैर्निःसृतैः शरैः ।
बभूवुर्दैत्यसङ्घाताः पीडितास्तैः समन्ततः ॥ २॥
ततो दैत्यः स दैत्येशाः प्रधानप्रमुखाः स्थिताः ।
शरवर्षाणि सर्वत्र चक्रुः परमदारुणाः ॥ ३॥
तैबाणैर्देवसैन्यानां हता वीरा अनेकशः ।
छिन्नाङ्गाः पतितास्तत्र रुधिरौघप्रवर्षिणः ॥ ४॥
यत्र तत्र पलायन्त देवा भयसमाकुलाः ।
त्रातारं नाभ्यपद्यन्त प्रलयेषु यथा प्रजाः ॥ ५॥
तेषां तत्कर्म दृष्ट्वा ते ववृषुः सुरपा शरान् ।
अग्निधर्मादयस्तत्र कालमृत्यूपमान दृढान् ॥ ६॥
तैराहतं बलं पूर्णं दैत्यानां यत्र तत्र ते ।
मृता मुमूर्षवः सर्वे बभूवू राक्षसा मृधे ॥ ७॥
ततोऽतिकुपितो दैत्यस्तारकोऽतिभयानकः ।
निष्कास्य सुदृढं बाणं मोचयामास दारुणम् ॥ ८॥
आकर्णं धनुराकृष्य दीप्तो बाणो सुरेश्वर ।
इन्द्रस्य सहसागत्य हृदि सम्पतितोऽभवत् ॥ ९॥
तेन सम्पीडितो देवो मूर्च्छितो देवनायकः ।
मुहूर्तात् सावधानोऽभूद्वज्रं हस्ते समाददे ॥ १०॥
वज्रेण ताडितोऽत्यन्तं तारको दैत्यपुङ्गवः ।
पतितः स धरापृष्ठे गतप्राण इवाऽभवत् ॥ ११॥
एवं वरुणवन्ह्याद्यैर्वायुधर्मकुबेरकैः ।
हता दैत्या अनेके च पतिता मूर्च्छिता मृताः ॥ १२॥
हाहाकारश्च सर्वत्र दैत्यसैन्ये प्रवर्तितः ।
पलायन्त च दिक्प्रान्ते त्रासिता देवनायकैः ॥ १३॥
ततः शुक्रेण ते सर्वे तारकाद्या महासुराः ।
विद्यया सावधानाश्च कृता युद्धाय सज्जिताः ॥ १४॥
अग्निमन्त्रसमायुक्तं बाणं धनुषि सन्दधे ।
तारकः क्रोधसंयुक्तो दाहकं स मुमोच ह ॥ १५॥
पतितो देवसैन्ये च बाणस्तस्मान् महाबलः ।
निःसृतः पुरुषस्तत्र भक्षयामास वै सुरान् ॥ १६॥
मेरुमन्दरसङ्काशो विचचार महाबलः ।
देवसैन्येषु दैत्येन्द्र प्रलयाग्निसमोऽदहन् ॥ १७॥
अग्निज्वालाश्च सर्वत्र समुद्भूता भयानकाः ।
अदहद्देवसङ्घांस्तान् वाहनैः सहितान् मृधे ॥ १८॥
हाहाकाररवा देवाः पलायनमकुर्वत ।
(Page खं. २ अ. ४८ पान १०२)
तत्रापि पुरुषोऽत्यन्तं भक्षयामास चामरान् ॥ १९॥
ततः क्रोधसमायुक्तो महेन्द्रो वारुणं महत् ।
अस्त्रं धनुषि सङ्गृह्य मृधे तत्याज दारुणम् ॥ २०॥
तस्माच्च जलधाराऽभूत् समन्तान्निःसृता बहु ।
ववर्षुरतुलां वृष्टिं मेघाः सर्वत्र गर्जितैः ॥ २१॥
जलौघेन महावह्निः प्रशान्तः सहसा कृतः ।
अस्त्रेण पुरुषः सोऽपि पतितो रणमूर्धनि ॥ २२॥
ततो देवगणाः सर्वे सावधाना बभूविरे ।
दैत्या वृष्ट्या च वातेन पीडिता बलसंयुताः ॥ २३॥
विद्युज्ज्वालाभिरत्यन्तं दग्धाः केचिन् महासुराः ।
जलौघेन तथा केचिद्वाहिताश्च सवाहनाः ॥ २४॥
दैत्यानां प्रबलं सैन्यं पीडितं वारुणेन च ।
हाहाकाररवा दैत्या ययुर्मृत्युं भयानकम् ॥ २५॥
ततः स तारको दैत्यः क्रोधसंरक्तलोचनः ।
वाय्वस्त्रं तन्निवृत्त्यर्थं सन्दधेऽतिभयानकम् ॥ २६॥
मुमोच धनुराकृष्य देवसैन्ये महासुरः ।
तेन वारुणमस्त्रं च ग्रस्तं वै शान्तिमागमत् ॥ २७॥
वायुना प्रबलेनैव घूर्णिता देववाहिनी ।
शुष्कपत्रसमा तत्र बभ्राम समराङ्गणे ॥ २८॥
ततः समागतो दैत्यस्तारकोऽतिभयानकः ।
खड्गेन देवराजं तं जघानार्मषतो दृढम् ॥ २९॥
खड्गाघातेन देवेन्द्रं पतितं मूर्च्छया भृशम् ।
सङ्गृह्य दैत्यराजस्तु तारकः स्वबलं ययौ ॥ ३०॥
मदासुरस्य सान्निध्ये स्थापयामास देवपम् ।
मदेन मूर्च्छितो देवो बद्धः पाशैः समन्ततः ॥ ३१॥
ततो हाहाकृतं सर्वैः पलायत दिशो दश ।
सैन्यं देवगणानां वै विनाथं भयसङ्कुलम् ॥ ३२॥
यमं च सहसाऽऽगत्य गदया हृदि विव्यथे ।
तारकः स महामूर्च्छां जगाम प्रेतनायकः ॥ ३३॥
सङ्गृह्य स्वबले नीत्वा हर्षितोऽभून् महासुरः ।
एवमग्निमुखाः सर्वे धृतास्ते दैत्यनायकैः ॥ ३४॥
अनाथं देवसैन्यं तत् पलायत भयाकुलम् ।
मृतं भग्नं च शस्त्रैः संहतं दैत्यैर्महाबलैः ॥ ३५॥
एवं निर्जित्य दैत्येन्द्रा जहृषुर्नादसंयुताः ।
देवाः सर्वे भयोद्विग्नाः शरणं शङ्करं ययुः ॥ ३६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते इन्द्रपराजयो नामाष्टचत्वारिंशोऽध्यायः ॥ २.४८
(Page खं. २ अ. ४९ पान १०३)
२.४९ शिवादिदेवपराजयो नामैकोनपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
विष्णुना सहितो देवैस्ततः सर्वैः सुसंवृतः ।
गणैः सुदारुणैस्तत्र ययौ शम्भू रणस्थलम् ॥ १॥
समागतं शिवं ज्ञात्वा तारकः क्रोधसंयुतः ।
उवाच तं महादेवं गर्वयुक्तेन चेतसा ॥ २॥
तारक उवाच ।
किमागतोऽसि सङ्ग्रामे मदेन त्वं सदाशिव ।
सिंहेन शशको युद्धं किं करिष्यति मां वद ॥ ३॥
मदासुरस्य दासोऽहं त्वां हनिष्यामि निश्चितम् ।
संहारकारिणं सद्यो महासंहारकारकः ॥ ४॥
वचः श्रुत्वा त्रिशूलेन तारकः शम्भुना हतः ।
स मृतस्तत्क्षणाद्दैत्यः पतितो भग्नवृक्षवत् ॥ ५॥
ततश्चक्रेण देवेशः केशवो दैत्यनायकान् ।
मारयामास सङ्क्रुद्धः सकलान्यत्र तत्र च ॥ ६॥
ततोऽतिभयसंयुक्ताः पलायन्त दिशो दश ।
दत्याः प्राणपरीप्सार्थं हाहाकारकरा भृशम् ॥ ७॥
देवैस्तत्र धृता दैत्या मृतास्तारकमुख्यकाः ।
शुक्रस्य तु भयाच्छ्रेष्ठास्त्यक्तास्ते विवरे स्थिताः ॥ ८॥
देवेशानां च दैत्येशा दृष्ट्वाऽतीवपराक्रमम् ।
बाणस्त्रिपुरशङ्खौ च ससैन्या आययुर्मृधे ॥ ९॥
कोलाहलं प्रकुर्वाणाः शङ्खशब्दैः समन्ततः ।
ववृषुः शस्त्रधाराभिर्वर्षाकाले यथा घनाः ॥ १०॥
ततः परस्परं युद्धं नियतं सम्बभूव ह ।
देवानां चैव दैत्यानां विनाशकरमद्भुतम् ॥ ११॥
बाणः सूर्यं ययौ क्रुद्धः शङ्खो विष्णुं महाबलः ।
रुद्रं च त्रिपुरो वेगात् परसैन्यनिबर्हणः ॥ १२॥
अन्ये च शतशस्तत्र दैत्या देवान् समाययुः ।
गदितुं न भवेच्छक्यं बहुत्वाद्युद्धमद्भुतम् ॥ १३॥
क्रोधयुक्ता निजघ्नुस्ते दानवा देवमुख्यकान् ।
शस्त्रास्त्रैर्विविधैः क्रुद्धा वृक्षैर्वै पर्वतैर्मृधे ॥ १४॥
दैत्यानां बलमुत्कृष्टं ज्ञात्वा देवा महाबलाः ।
यत्नयुक्ताश्च सङ्ग्रामे युयुधुः शस्त्रपाणयः ॥ १५॥
एवं त्रिदिवसं युद्धं सञ्जातं दारुणं महत् ।
देवसेना ततो भग्ना भयभीता समन्ततः ॥ १६॥
जघान शङ्करोऽत्यन्तं क्रोधयुक्तो महाबलम् ।
गदया त्रिपुरं तत्र ततः परमदुर्जयम् ॥ १७॥
जघान गदया शम्भुं सोऽपि तं च पराक्रमी ।
गदायुद्धं महत्तत्र बभूवाऽतिभयानकम् ॥ १८॥
ततस्त्रिशूलघातेन हतो दैत्यः पपात ह ।
त्रिपुरो मूर्च्छयात्यन्तं पीडितः शङ्करेण सः ॥ १९॥
ज्वालया रविणा तत्र बाणो भूमौ निपातितः ।
चक्रेण विष्णुना दुष्टः शङ्खः समर्दितोऽभवत् ॥ २०॥
धृत्वा तान् दैत्यमुख्यांश्च चिक्षिपुर्विवरेऽमराः ।
पाशैर्बद्ध्वा ततो दुष्टान् पुनरुत्पातशङ्कया ॥ २१॥
ततो दैत्या हताः सर्वे देवैर्दैवगणैर्मृधे ।
मृता मुमूर्षवः केचिच्छरणं ते ययुः सुरान् ॥ २२॥
विजयं प्राप्य देवेन्द्रा हर्षिताः सम्बभूविरे ।
जगर्जुर्जयशब्देन प्राट्टहासं प्रचक्रिरे ॥ २३॥
ततो मदासुरः क्रुद्धो ज्ञात्वा वृत्तान्तमद्भुतम् ।
संरक्तनयनो दुष्टो ययौ रणविधित्सया ॥ २४॥
शुक्रेण सहितः सोऽपि महावीरैः समावृतः ।
रथारूढः स्वपुत्रैश्च सङ्ग्रामे सन्दधे मनः ॥ २५॥
ततस्तं दैत्यमुख्यं वै तनयाश्च समाययुः ।
सङ्ग्रामार्थं महावीर्यास्त्रयो देवैः शिवादिभिः ॥ २६॥
(Page खं. २ अ. ४९ पान १०४)
धनप्रियश्च सङ्ग्रामे सूर्यं विव्याध सायकैः ।
उवाच गर्वसहितो रविं त्रैलोक्यभाविनम् ॥ २७॥
धनप्रिय उवाच ।
शृणु दुष्टार्यमंस्त्वं मे वचनं हितकारकम् ।
गच्छ शीघ्रं महाबाहो नोचेन् मृत्युमुपेष्यसि ॥ २८॥
त्वया दैत्या हताः पूर्वं भुङ्क्ष्व तेषां फलं महत् ।
न मुञ्चामि महादुष्ट जीवन्तं त्वां च काश्यप ॥ २९॥
ततः सूर्येण खड्गेन हतो दैत्यो महाबलः ।
पपात मूर्च्छयाऽऽविष्टः पुनः संज्ञां च सोऽलभत् ॥ ३०॥
आगत्य काश्यपं दैत्यपुत्रो वेगसमन्वितः ।
खड्गेन तीक्ष्णधारेण जघान दृढमञ्जसा ॥ ३१॥
दृढाघातेन सूर्यः स पतितो मूर्च्छया भृशम् ।
तं धृत्वा विजयी दैत्यपुत्रश्च स्वस्थलं ययौ ॥ ३२॥
प्रणम्य पितरं पुत्रो ननन्द ह धनप्रियः ।
पाशैर्बद्ध्वा दृढं सूर्यं चिक्षेप विवरेऽसुरः ॥ ३३॥
विलासी विष्णुमागत्य क्रोधेन महताऽऽवृतः ।
बाणजालैः समाच्छाद्योवाच तं दारुणं वचः ॥ ३४॥
त्वया विष्णो मदीया वै सेना सन्नाशिता बलात् ।
गृहीता दैत्यवर्याश्च नाऽहं तत्र स्थितोऽभवम् ॥ ३५॥
अधुना शस्त्रघातेन हतस्त्वं गच्छसि प्रभो ।
मृत्योर्भुवनमुग्रं यन्न त्वां मुञ्चामि कर्हिचित् ॥ ३६॥
ततः क्रोधसमाविष्टो विष्णुश्चक्रेण दैत्यपम् ।
विलासिनं जघानाऽथ चक्रे सम्मूर्च्छितं खलम् ॥ ३७॥
क्षणेन सावधानोऽभूदागत्य गदया विभुम् ।
हृदि विव्याध दुष्टोऽसौ पपात गरुडाद्धरिः ॥ ३८॥
तं धृत्वा दैत्यपुत्रः स ययौ स्वस्थानमुत्तमम् ।
पितरं प्रणनामाऽथ पित्रा सम्मानितोऽभवत् ॥ ३९॥
बद्ध्वा पाशैर्महाविष्णुं चिक्षेप विवरे मदः ।
दैत्या हर्षसमायुक्ता जगर्जुश्च भयानकम् ॥ ४०॥
लोलुपश्च समागम्य शङ्करं वृषभध्वजम् ।
उवाच कोपरक्ताक्षः शृणु त्वं नीललोहित ॥ ४१॥
मदीयमतुलं सैन्यं त्वया युधि निपातितम् ।
अधुना त्वां हनिष्यामि फलदाता भवाम्यहम् ॥ ४२॥
ब्रुवन्तं तं ततो मूर्खं त्रिशूलेन जघान ह ।
शङ्करः क्रोधसंयुक्तः सोऽपतन् मूर्च्छया भृशम् ॥ ४३॥
शुक्रेण सहसाऽऽगत्य सावधानः कृतोऽसुरः ।
लोलुपो निर्ममे मायां सर्वदेवविमोहिनीम् ॥ ४४॥
अकस्माज्जलधिस्तत्र व्याप्तः सर्वभयावहः ।
अग्निश्च सर्वतः सर्वान् दाहयामास भैरवः ॥ ४५॥
नानाशस्त्रधरा अन्ये नग्नास्ते शूलपाणयः ।
नग्नास्त्रियश्च शस्त्रौघैर्मारयामासुरञ्जसा ॥ ४६॥
शङ्करो विस्मितो भूत्वा पश्चाद्भयसमन्वितः ।
मोहितो मायया तत्र लोलुपेनासुरेश्वर ॥ ४७॥
एतस्मिन्नन्तरे तत्र समुद्रे सर्वतः स्थिते ।
ममज्ज तत्र देवेशः शिवः प्रह्लाद मोहतः ॥ ४८॥
कर्मणा च तपोरूपेणेदं सर्वं कृतं मृधे ।
मज्जन्तं शङ्करं धृत्वा लोलुपः स्वस्थलं ययौ ॥ ४९॥
पित्राऽसौ मानितोऽत्यन्तं पाशैर्बद्ध्वा सदाशिवम् ।
(Page खं. २ अ. ५० पान १०५)
चिक्षेप विवरे दैत्यो लोलुपः सर्वलोलुपः ॥ ५०॥
ततो हाहारवं कृत्वा देवा देवागणा मृधे ।
शरणं जगदम्बां ते ययुः सन्त्रासतापिताः ॥ ५१॥
दैत्येन्द्रा हर्षिताः सर्वे जगर्जुर्घनवद्भृशम् ।
कुर्वन्तो वाद्यशब्दान् वै जयशब्दकरा भृशम् ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते शिवादिदेवपराजयो नामैकोनपञ्चाशत्तमोऽध्यायः ॥ २.४९
२.५० मदासुरविजयो नाम पञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
शिवविष्ण्वादिदेवेषु गृहीतेषु महाबलैः ।
दैत्यपुत्रैः सुराणां च सैन्ये त्रासः प्रवर्तितः ॥ १॥
देवा देवगणाः केऽपि क्षता भग्नास्तथाऽपरे ।
मृता मुमूर्षवस्तत्र गृहीता दैत्यपैर्मृधे ॥ २॥
केचित्तान् शरणं जग्मुर्दैत्यान् केचित् पलायिताः ।
शशंसुः सर्ववृत्तान्तं शक्तये भयविह्वलाः ॥ ३॥
वृत्तान्तमतुलं श्रुत्वा दैत्यानां कर्मसम्भवम् ।
क्रोधयुक्ता महामाया ययौ सङ्ग्राममण्डलम् ॥ ४॥
आगतां जगदम्बां तां स्वयं ज्ञात्वा मदासुरः ।
पुत्रैः प्रधानमुख्यैश्च नानावीरैर्वृतो ययौ ॥ ५॥
समागतं महादैत्यं ज्ञात्वा क्रोधसमन्विता ।
जगदम्बा रणे तत्र धनुः सज्जमथाऽकरोत् ॥ ६॥
धनुषः शब्दमुग्रं ते श्रुत्वा दैत्या भयातुराः ।
मूर्च्छिताः केऽपि भीताश्च दुद्रुवुः केऽपि दैत्यपाः ॥ ७॥
ततः शङ्खनिनादं वै चकार स मदासुरः ।
महता तस्य नादेन व्याप्तं सर्वं जगत्त्रयम् ॥ ८॥
ततः शङ्खनिनादैश्च देवीनां पूरितं नभः ।
दैत्येन्द्राणां च सर्वत्र महान् कोलाहलो ह्यभूत् ॥ ९॥
सिंहनादैर्जगर्जुस्ते वीरा वै शक्तयस्तथा ।
विनेदुर्बहुवाद्यानि सुरा हर्षं समाययुः ॥ १०॥
एतस्मिन्नन्तरे तत्र कालिका क्रोधसंयुता ।
शक्तिभिः संवृता क्रूरा दैत्यसैन्यं ममर्द ह ॥ ११॥
त्रिशूलेन तथा पाशैः शस्त्रैर्नानाविधैर्मृधे ।
शक्तिभिश्छेदिता दैत्याः पलायन्त दिशो दश ॥ १२॥
ततः क्रोधसमायुक्ता दैत्यपुत्राः समाययुः ।
ववृषुर्बाणजालानि कालरूपाणि संयुगे ॥ १३॥
तेषां बाणैर्हतास्तत्र देवानां शक्तयो गणाः ।
हाहाकाररवाः सर्वे पलायन्त भयाकुलाः ॥ १४॥
ततः काली समाक्रुद्धा रूपं कृत्वा भयानकम् ।
जघान दैत्यसेनां तां समन्तात् प्रलयप्रभा ॥ १५॥
गृहीत्वा दैत्यपुत्रान् वै बद्ध्वा पाशैर्महामदान् ।
चिक्षिपुर्विवरे संज्ञालक्ष्मीसावित्र्य आहवे ॥ १६॥
ततः क्रोधसमायुक्तो मददैत्यः प्रतापवान् ।
धनुः सज्जमथो कृत्वा मुमोच शरमुल्बणम् ॥ १७॥
संहारास्त्रान् महाघोरात्तस्माज्जातो महाबलः ।
पुरुषः पर्वताकारः शक्तीनां बुभुजे बलम् ॥ १८॥
अस्त्रस्य तत्र दैत्येन्द्र ज्वालया पीडिता रणे ।
(Page खं. २ अ. ५० पान १०६)
शक्तयश्च मृता दग्धा दुद्रुवुर्यत्र तत्र ताः ॥ १९॥
निःसहाया भयोद्विग्नाः कालीमुख्याः प्रदुद्रुवुः ।
महामायासमीपे ताः संस्थिताः सञ्जगुः कथाः ॥ २०॥
ततः क्रोधसमाविष्टां स्वयं शक्तिं समागताम् ।
सिंहारूढां स तां दृष्ट्वा दैत्येन्द्रः प्रणनाम च ॥ २१॥
उवाच शक्तिं गर्वेण पूरितोऽसौ महासुरः ।
देवांस्त्यक्त्वा जगन्मातरस्माकं पक्षमाश्रय ॥ २२॥
नोचेत्त्वां कर्मणां देवीं हनिष्यामि न संशयः ।
सदेवां सपरीवारां पश्य मे पौरुषं महत् ॥ २३॥
ततः क्रोधसमायुक्ता शूलं चिक्षेप वै रणे ।
वधाय दैत्यराजस्य महामाया प्रभावतः ॥ २४॥
त्रिशूलेनाऽऽहतो दुष्टः प्रह्लाद न चचाल ह ।
मदासुरो जगर्जासावतिक्रोधयुतोऽभवत् ॥ २५॥
शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धाय दैत्यपः ।
ययौ शक्तिर्महद्रूपं कृत्वा प्रययुधे ततः ॥ २६॥
न शक्यते वर्णयितुं युद्धं घोरं तयोर्महत् ।
बाहुभिर्हस्तपादैश्च प्रवृत्तं दारुणं परम् ॥ २७॥
परस्परं जयन्तौ तौ जल्पन्तौ साधु साध्विति ।
दिवसानि गतान्येव त्रीणि तत्रासुरेश्वर ॥ २८॥
वरदानबलेनैव तेन क्षीणबला कृता ।
शक्तिस्त्वशक्तिरूपा च जाता कर्मप्रभावतः ॥ २९॥
ममर्द देहपातेन महाशक्तिं महासुरः ।
मूर्च्छितां तां समादाय ययौ हर्षसमन्वितः ॥ ३०॥
अन्याश्च शक्तयस्तेन धृताः काश्चित्पलायिताः ।
हाहाकारश्च सर्वत्राऽभवच्छक्तिबले महान् ॥ ३१॥
दैत्येन्द्रो वारयामास शक्तीनां कदने रतान् ।
उवाच कुलदेव्यश्च शक्तयो नो न संशयः ॥ ३२॥
ततो मदासुरेणैव मोचिताः स्वसुतास्त्रयः ।
प्रधानादि महादैत्या धृता देवै रणे पुरा ॥ ३३॥
शक्तिलोकं समासाद्य गर्वितः स मदासुरः ।
भोगांश्च विविधांस्तत्र बुभुजे ज्ञातिभिः सह ॥ ३४॥
न ममर्ष निजात्मानं मोहितो दैत्यनायकः ।
स्त्रीमांसमदिरासक्तः प्रबभूवासुरेश्वर ॥ ३५॥
ततः शक्तिं समानीयोवाच गर्वसमन्वितः ।
देवैः सह महाशक्ते गच्छ यत्र च ते रुचिः ॥ ३६॥
उवाच मोहितो वाक्यं शिवादीन् समदासुरः ।
गच्छन्तु यत्र कुत्राऽपि ममाज्ञा वशगाः सुराः ॥ ३७॥
शक्तिं प्रणम्य दैत्येन्द्र ऊचिवान् भक्तिसंयुतः ।
अस्माकं पक्षमाश्रित्य वस त्वं पूजिता मया ॥ ३८॥
ततस्तं शक्तिरादृत्योवाच म्लानमुखश्रिया ।
देवैः सह गमिष्यामि यत्र कुत्र महासुर ॥ ३९॥
ततस्तां दैत्यराजस्तु मुक्तवान् गर्वमोहितः ।
अनादृत्य महामायां साऽऽगता देवसंयुता ॥ ४०॥
वनेषु गिरिदर्यां च संस्थिता भयसङ्कुला ।
देवैः सह जगन्माता निःसृता दारुणाद्भयात् ॥ ४१॥
दैत्योऽपि दैत्यपैस्तत्र संवृतो बुभुजे सुखम् ।
शक्तिलोकभवं वीरः कर्मणा निर्मितं परम् ॥ ४२॥
ततो बाणादयस्तेनाऽभवंश्च स्थापिताः सुताः ।
देवानां च पदे मुख्याः शक्तिलोके तथा कृताः ॥ ४३॥
पृथिव्यां नगरे दुष्ट आययौ स विलासदे ।
तत्र स्थित्वा त्रिलोकस्य राज्यं चक्रे मदासुरः ॥ ४४॥
(Page खं. २ अ. ५१ पान १०७)
ततः पातालविवरे प्रेषयामास दैत्यपः ।
त्रिपुरं शेषनागेन्द्रजयनाय महाबलम् ॥ ४५॥
शेषो ज्ञात्वा च वृत्तान्तं साम चक्रे पुरैव च ।
दैत्येन वार्षिकं भागं ददौ जग्राह शासनम् ॥ ४६॥
एवं मदासुरो दुष्टो जित्वा ब्रह्माण्डमण्डलम् ।
राज्यं चकार सर्वेषां भुवनानां प्रतापवान् ॥ ४७॥
अनुत्तमान् विचित्रांश्च देवादीनां सुदुर्लभान् ।
भोगान् सर्वान् स आहृत्य बुभुजे ज्ञातिभिः सह ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते मदासुरविजयो नाम पञ्चाशत्तमोऽध्यायः ॥ २.५०
२.५१ सनत्कुमारदेवसमागमो नामैकपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
शृणु प्रह्लाद दैत्यस्य चेष्टितं परमाद्भुतम् ।
मदासुरस्य सर्वं यन् मदमोहकरं महत् ॥ १॥
ततः कियति काले स गते दुष्टैर्महासुरः ।
बभौ परिवृतो दैत्यैर्महाबलपराक्रमैः ॥ २॥
तत्र तं त्रिपुरो दुष्ट उक्तवान् दत्यपैः सह ।
कृताञ्जलिपुटो भूत्वा वचनं साहसं खलः ॥ ३॥
त्रिपुर उवाच ।
शृणु प्रभो महाराज दैत्यानां हितकारकम् ।
वचनं सुखदं साध्यमखण्डानन्ददायकम् ॥ ४॥
जित्वा त्रिभुवनं पूर्वे दैत्याः सन्तोषमाययुः ।
हिरण्यकशिपुस्तत्राद्यो महान् परमद्युतिः ॥ ५॥
मृत्युभीतिविहीनोऽयमानन्देन समावृतः ।
अखिलं बुभुजे राज्यं त्रिलोकस्य न संशयः ॥ ६॥
वने गिरिगुहासंस्था देवाश्छद्मप्रदर्शिनः ।
शत्रवस्तत्र कालेन ससृजुर्नरसिंहकम् ॥ ७॥
नृसिंहेन हतो नूनं हिरण्यकशिपुः प्रभुः ।
एवं क्रमेण श्रेष्ठा ये ते हता दैत्यपाः क्रमात् ॥ ८॥
अधुना त्वं तथा जातो ब्रह्माण्डाधिपतिः स्वयम् ।
देवान मुक्त्वा महाराज किं स्थितोऽसि विचारय ॥ ९॥
अस्माकं शत्रवो नित्यं देवा वेदे प्रतिष्ठिताः ।
कथं मित्राणि ते राजन् भविष्यन्ति वद प्रभो ॥ १०॥
अतस्तेषां विनाशाय यतस्व नृपसत्तम ।
नोचेत्त्वां कालयोगेन हनिष्यन्ति न संशयः ॥ ११॥
शस्त्रास्त्रैः पीडिता देवा न मरिष्यन्ति कर्हिचित् ।
अमराः कथिता वेदे घोररूपा न संशयः ॥ १२॥
तेषां मरणमत्युग्रं वेदे पश्य प्रतिष्ठितम् ।
कर्मनाशाद् भवेत् पूर्णं कर्मान्ना देवता यतः ॥ १३॥
तस्मात् कर्मकरा विप्रास्ताडनीया न संशयः ।
आसुरं कर्म कुर्वन्तो मन्तव्यास्ते त्वयाऽनिशम् ॥ १४॥
अन्ये वर्णाश्रमस्था ये ब्राह्मणाः कर्मकारकाः ।
नष्टेषु विप्रजातेषु सर्वे नष्टा भवन्ति ते ॥ १५॥
अत आज्ञापय प्राज्ञ असुरान् कर्मखण्डने ।
सर्वत्रासुरभावेन कर्म सर्वं प्रवर्तताम् ॥ १६॥
एवमुक्त्वा महादैत्यं तूष्णीं भावेन संस्थितम् ।
(Page खं. २ अ. ५१ पान १०८)
सदसि त्रिपुरं वीक्ष्य तमुवाच मदासुरः ॥ १७॥
मदासुर उवाच ।
समीचीनं त्वया प्रोक्तमसि त्रिपुर बुद्धिमान् ।
यादृशं कथितं वाक्यं तादृशं कुरु दैत्यपैः ॥ १८॥
ततो दैत्यगणैर्युक्तस्त्रिपुरो निर्गतोऽसुरः ।
पृथिव्यां यत्र तत्राऽपि कर्मखण्डनकोऽभवत् ॥ १९॥
धृता मुनिगणास्तेन ताडिता वधिता बहु ।
केचित्तदाज्ञया युक्ताः संस्थिताः कर्मदूषकाः ॥ २०॥
केचिन् मुनिगणा दुष्टं शरणं तं ययुस्ततः ।
तस्याज्ञावर्तिनो भूत्वा संस्थिता ब्राह्मणाधमाः ॥ २१॥
केचिच्च दुद्रुवुस्तस्य वनेषु ब्राह्मणा भयात् ।
तत्र स्थिताः स्वधर्मस्थं कर्म चक्रुर्गतज्वराः ॥ २२॥
सिंहादिभयमुत्सृज्य मरणे कृतनिश्चयाः ।
सिंहादीनां समीपस्था अवसन् कर्मसिद्धये ॥ २३॥
एवं द्विजाः स्थितास्तत्र न ज्ञाता दैत्यपेन ते ।
कर्मभ्रष्टाः स्वभावेन ब्राह्मणा बहवोऽभवन् ॥ २४॥
तीर्थानि यज्ञवृक्षाश्च देवतायतनानि ते ।
बभञ्जुर्दैत्यचाराश्च यत्र तत्रासुरेश्वर ॥ २५॥
आसुरं कर्म सर्वत्र स्थापितं त्रिपुरेण च ।
वर्णेषु ब्राह्मणाद्येषु दुष्टसङ्करकारकम् ॥ २६॥
ततो हाहाऽकरोत् सर्वं जगत्तेन दुरात्मना ।
स्वधर्मवर्जितं दुःखाज्जातं दुष्टप्रपीडितम् ॥ २७॥
न स्वाहा न वषट्कारो न स्वधादिकमुत्तमम् ।
तेन देवगणाः सर्वे दैत्यस्य वधकाङ्क्षिणः ॥ २८॥
उपोषणैश्च संयुक्ता जाताः कालेन देवपाः ।
सगणाः परिवारण निस्तेजस्का बभूविरे ॥ २९॥
ततो देवगणाः सर्वे दैत्यस्य वधकाङ्क्षिणः ।
मिलितास्तत्र चोपायं लेभिरे न वधस्य च ॥ ३०॥
सनत्कुमारश्च महायोगी तत्रादराद्ययौ ।
सहसा भाग्ययोगेन सर्वेषां हितकारकः ॥ ३१॥
तं दृष्ट्वा देवपाः सर्वे समुत्तस्थुः प्रणम्य तम् ।
पूजयामासुरत्यन्तमुपचारैर्मनोहरैः ॥ ३२॥
कन्दमूलादिकं तत्र निवेद्य च सुभक्तितः ।
पप्रच्छुस्तं मदस्यैते मरणोपायमञ्जसा ॥ ३३॥
देवा ऊचुः ।
धन्यं जन्म तपो विद्या ज्ञानं देहाश्च पूर्वजाः ।
तवाङ्घ्रिदर्शनाद्योगिन् कृतकृत्या वयं ततः ॥ ३४॥
मदासुरेण बलिना जिताः सर्वे महामुने ।
अतस्तस्य वधार्थं नो वदोपायं महामते ॥ ३५॥
साधवो देवता विप्राः पीडितास्तेन योगिप ।
अतःसाध्वादिरक्षार्थं वद सर्वज्ञ ते नमः ॥ ३६॥
समशीलो भवान् साक्षान् मूर्तं ब्रह्मेव संस्थितः ।
तथापि दोषसंयुक्तमेकं हन्ता भव प्रभो ॥ ३७॥
अतिदुष्टमनादृत्य जगत्सर्वं सुखी कुरु ।
न हत्वा त्वं स्वयं साक्षान् मार्गदर्शी भवस्व नः ॥ ३८॥
साधवः समशीलाश्च मार्गं सन्दर्शयन्ति ते ।
दीनानां धर्मनिष्ठानामनाथानां महामुने ॥ ३९॥
सत्कर्मनिरतान् जन्तून् सदा कुर्वन्ति साधवः ।
विकर्मणश्च संहारस्तत्र सञ्जायते यथा ॥ ४०॥
न हिंसा सा महायोगिन् विकर्महितकारिका ।
भवज्ज्ञानेन चाज्ञानं नाशयन्ति सुसाधवः ॥ ४१॥
अतस्त्वं वद नाशार्थमुपायं करवामहै ।
धर्मसंस्थापनार्थं तं धर्मान्नाश्च वयं यतः ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते सनत्कुमारदेवसमागमो नामैकपञ्चाशत्तमोऽध्यायः ॥ २.५१
(Page खं. २ अ. ५२ पान १०९)
२.५२ एकदन्तप्रसन्नभावो नाम द्विपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
एवं दीनस्वभावेन प्रार्थितो मुनिसत्तमः ।
सनत्कुमार आनन्ददायकं तानुवाच ह ॥ १॥
सनत्कुमार उवाच ।
शृणुतेशादयो देवा मदासुरविनाशने ।
उपायं कथयिष्यामि तत् कुरुध्वं सुरेश्वराः ॥ २॥
गणेशं पूजयध्वं वै यूयं सर्वे समादृताः ।
सबाह्यान्तरसंस्थं तं हनिष्यति मदासुरम् ॥ ३॥
सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः ।
ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ४॥
देवर्षय ऊचुः ।
केनोपायेन देवेशं गणेशं मुनिसत्तम ।
पूजयाम विशेषेण तं वद त्वं यथातथम् ॥ ५॥
एवं पृष्टो महायोगी देवैश्च मुनिभिः सह ।
उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥ ६॥
एकाक्षरेण तं देवं हृदिस्थं गणनायकम् ।
विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ॥ ७॥
ध्यानं तस्य प्रवक्ष्यामि शृणुध्वं सुरसत्तमाः ।
यूयं तं तादृशं ध्यात्वा तोषयध्वं निधानतः ॥ ८॥
एकदन्तं चतुर्बाहुं गजवक्त्रं महोदरम् ।
सिद्धिबुद्धिसमायुक्तं मूषकारूढमेव च ॥ ९॥
नाभिशेषं सपाशं वै परशुं कमलं शुभम् ।
अभयं दधतं चैव प्रसन्नवदनाम्बुजम् ॥ १०॥
भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनम् ।
एतादृशं हृदि ध्यात्वा सेवध्वं चैकदन्तकम् ॥ ११॥
सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरकभावतः ।
स्वयं बुद्धिपतिः साक्षादात्मा वै सर्वदेहिनाम् ॥ १२॥
एकशब्दो मता माया देहरूपा विलासिनी ।
सत्तात्मको दन्तशब्दः प्रोक्तस्तत्र न संशयः ॥ १३॥
मायाया धारकोऽयं वै सत्तामात्रेण संस्थितः ।
एकदन्तो गणेशानः कथ्यते वेदवादिभिः ॥ १४॥
सर्वसत्ताधरं पूर्णमेकदन्तं गजाननम् ।
सेवध्वं भक्तिभावेन भविष्यति सदा सुखम् ॥ १५॥
सनत्कुमार उक्त्वैवं ययौ योगी स आदरात् ।
जयहेरम्बमन्त्रं वै समुच्चार्य मुखेन सः ॥ १६॥
ततो देवगणाः सर्वे मुनयस्तपसि स्थिताः ।
एकाक्षरविधानेन तोषयामासुरादरात् ॥ १७॥
पत्रभक्षा निराहारा वायुभक्षा जलाशिनः ।
कन्दमूलफलाहाराः केचित् केचिद्बभूविरे ॥ १८॥
संस्थिता ध्याननिष्ठा वै जपहोमपरायणाः ।
नानातपःप्रभावेणाऽतोषयन् गणनायकम् ॥ १९॥
गते वर्षशते चैव सन्तुष्टश्चैकदन्तकः ।
आययौ तान् वरं दातुं ध्यातस्तैर्यादृशस्तथा ॥ २०॥
जगाद स तपोयुक्तान् मुनीन् देवान् गजाननः ।
वरं वृणुत तुष्टोऽहं दास्यामि ब्राह्मणाऽमराः ॥ २१॥
तस्य तद्वचनं श्रुत्वा हृष्टा देवर्षयोऽभवन् ।
उन्मील्य लोचने देवमपश्यन् सविधस्थितम् ॥ २२॥
दृष्ट्वा मूषकसंस्थं तं प्रणेमुस्ते गजाननम् ।
मुनयो देवदेवेन्द्रा भक्तियुक्ता अपूजयन् ॥ २३॥
पूजयित्वा यथान्यायं प्रणम्य करसम्पुटैः ।
तुष्टुवुश्चैकदन्तं तं भक्तिनम्रात्मकन्धराः ॥ २४॥
देवर्षय ऊचुः ।
नमस्ते गजवक्त्राय गणेशाय नमो नमः ।
अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ २५॥
(Page खं. २ अ. ५२ पान ११०)
आदिमध्यान्तहीनाय चराचरमयाय ते ।
अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २६॥
कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर ।
सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ २७॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।
ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ २८॥
परशुं दधते तुभ्यं कमलेन प्रशोभिने ।
पाशाभयधरायैव महोदर नमो नमः ॥ २९॥
मूषकारूढदेवाय मूषकध्वजिने नमः ।
आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ ३०॥
गुणसंयुक्तकायाय निर्गुणात्मकमस्तक ।
तयोरभेदरूपेण चैकदन्ताय ते नमः ॥ ३१॥
वेदान्तागोचरायैव वेदान्तालभ्यकाय ते ।
योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ३२॥
अपारगुणधारायानन्तमायाप्रचालक ।
नानावतारभेदाय शान्तिदाय नमो नमः ॥ ३३॥
वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः ।
ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥ ३४॥
एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः ।
साश्रुनेत्रान् सरोमाञ्चान् दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ३५॥
एकदन्त उवाच ।
वरं वृणुत देवेशा मुनयश्च यथेप्सितम् ।
दास्यामि तं न सन्देहो भवेद्यद्यपि दुर्लभः ॥ ३६॥
भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् ।
पठते शृण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ ३७॥
शत्रुनाशकरं चैवान्ते स्वानन्दप्रदायकम् ।
पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ ३८॥
गृत्समद उवाच ।
एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
प्रणम्य चैकदन्तं तमूचुस्ते भक्तिभावतः ॥ ३९॥
सुरर्षय ऊचुः ।
यदि तुष्टोऽसि सर्वेश एकदन्त महाप्रभो ।
यदि देयो वरो नश्चेज्जहि दुष्टं महासुरम् ॥ ४०॥
स्थानभ्रष्टाः सुरेशानाः कर्मभ्रष्टा मुनीश्वराः ।
कृतास्तेन जगन्नाथ तस्मात्तं जहि विघ्नप ॥ ४१॥
त्वदीयां भक्तिमत्यन्तमचलां देहि मानद ।
यया मायाभयं घोरं भविष्यति कदापि न ॥ ४२॥
एवमुक्तो गणाधीशस्तथेति स उवाच तान् ।
अन्तर्धानं ययौ सद्य एकदन्तः प्रतापवान् ॥ ४३॥
महर्षिभिस्ततो देवैः स्थापना गणपस्य च ।
कृता तत्र महाभागैरभूत् क्षेत्रं च वैघ्नपम् ॥ ४४॥
आग्नेय्यां दिशि विख्यातं स्वस्वखण्डेषु विद्यते ।
एकदन्तस्य तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ ४५॥
तत्रैव देवदेवेन्द्रा मुनयः संस्थिता बभुः ।
सेवार्थं पूर्णभावेन स्वाधिकारे कलांशतः ॥ ४६॥
तस्य सन्दर्शनाज्जन्तुर्लभेदीप्सितमुत्तमम् ।
तत्रैव मरणे ब्रह्म प्रह्लादात्र न संशयः ॥ ४७॥
महिमा गदितुं पूर्णो वर्षकोटिशतैरपि ।
न शक्यते मया तस्मादुक्तं सारं च सारतः ॥ ४८॥
तत्र सिद्धिं विशेषेण प्राप्य देवर्षयोऽमलाः ।
भवन्ति कृतकृत्यास्ते ह्यन्ये नानाजनास्तथा ॥ ४९॥
धन्यं जन्म नराणां वै दृष्टो यैरेकदन्तकः ।
जन्ममृत्युभयघ्नश्च स्वेप्सितार्थप्रदः प्रभुः ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते एकदन्तप्रसन्नभावो नाम द्विपञ्चाशत्तमोऽध्यायः ॥ २.५२
(Page खं. २ अ. ५३ पान १११)
२.५३ मदासुरपराजयो नाम त्रिपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
एवं दत्वा वरं देवान् मुनीन् सर्वान् गजाननः ।
अन्तर्धाय स्वमात्मानमेकदन्तो ययौ पुरम् ॥ १॥
ततः कदाचिद्दैत्येन्द्रं प्रययौ नारदो मुनिः ।
मदासुरं महाक्रूरं तेनायं मानितोऽभवत् ॥ २॥
उवाच तं महादैत्यं नारदः प्रहसन् मुनिः ।
शृणु दैत्यपते वाक्यं मदीयं सर्वसौख्यदम् ॥ ३॥
वनेषु देवविप्रैश्च तपस्तप्तं सुदारुणम् ।
गणेशस्य मुदे भूप शतवर्षाणि भूरि वै ॥ ४॥
ततस्तेषां प्रसन्नोऽभूद्गणेशो ब्रह्मनायकः ।
वरदो ह्यभवत्तत्र भक्त्या सन्तोषितः स्वयम् ॥ ५॥
तैस्ते वधार्थमत्यन्तं याचितः स तथाऽवदत् ।
त्वां हनिष्यति वेगेन तस्माद्यत्नपरो भव ॥ ६॥
नारदस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह ।
मदासुरो मुनिं तत्र विसृज्याऽभूत् सुदुःखितः ॥ ७॥
ब्रह्माण्डवासिनो ये वै तेभ्यो मृत्युर्न मे भवेत् ।
अयं क एकदन्तश्च तं हन्मि क्रोधसंयुतः ॥ ८॥
मया विमोचिता देवा दयया तैः कृतं महत् ।
शत्रुभावयुतं कार्यं तस्मात्तान् हन्मि निश्चितम् ॥ ९॥
दैत्येन्द्रैः कथितं सर्वं सत्यं जातं न संशयः ।
देवेन्द्राः शत्रवः सर्वे सुराणां वेदवाक्यतः ॥ १०॥
एवं विचार्य दैत्येशः समाहूय महासुरान् ।
सन्नद्धो देवनाशार्थं ससैन्यो निःसृतो बहिः ॥ ११॥
ततोऽकस्मान् महादेव एकदन्तः प्रतापवान् ।
बभूव प्रकटस्तेषां समीपे भयदायकः ॥ १२॥
मूषकारूढमुग्रं तं नरनागस्वरूपिणम् ।
शस्त्रपाणिं चतुर्बाहुं दृष्ट्वा दैत्याः सुविस्मिताः ॥ १३॥
ततः कोलाहलं तत्र चक्रुः सर्वे समन्ततः ।
कोऽयं समागतो दैत्या महत् पश्यत कौतुकम् ॥ १४॥
दैत्याः सर्वे च तं दृष्ट्वा भयभीता बभूविरे ।
स्थित्वा तत्रैव दैत्येशा दूतं ते सञ्जगुर्वचः ॥ १५॥
गच्छ दूत समीपं त्वं पुरुषस्य त्वरान्वितः ।
वृत्तान्तमखिलं ज्ञात्वाऽऽयाहि त्वं सामसंयुतः ॥ १६॥
ततस्तमेकदन्तं स ययौ दूतः प्रणम्य च ।
उवाच प्राञ्जलिर्भूत्वा गणेशं देवनायकम् ॥ १७॥
दूत उवाच ।
स्वामिन् मदासुरस्याऽहं दूतस्तेन प्रचोदितः ।
स तु ब्रह्माण्डराजो वै त्वां दृष्ट्वा विस्मितोऽभवत् ॥ १८॥
भवान् कश्च कुतो यातः किं कार्यं नाम ते प्रभो ।
कस्य वा वद सर्वज्ञ संशयस्यापनुत्तये ॥ १९॥
इति पृष्टः स दूतेन एकदन्तस्तमादरात् ।
जगाद हास्यसंयुक्तो दैत्यदूतं विचक्षणम् ॥ २०॥
एकदन्त उवाच ।
अहं स्वानन्दवासी च स्वानन्दादागतोऽधुना ।
मदासुरं निहन्तुं वै देवानां सुखवृद्धये ॥ २१॥
एकदन्त इति ख्यातः सदा ब्रह्मसुखात्मकः ।
दूतवर्य वदाशु त्वं मोहितं तं मदासुरम् ॥ २२॥
इच्छसि त्वं जीवितुं चेत्तदा मां शरणं व्रज ।
देवानां द्वेषमुत्सृज्य वस त्वं नगरे स्वके ॥ २३॥
देवा हविर्भुजः सन्तु दैत्याः पातालभोगिनः ।
विश्वं सुखस्थं भवतु स्वस्वधर्मपरायणम् ॥ २४॥
एतदर्थमहं यातो वद सर्वं सुविस्तरम् ।
मदासुरं महाक्रूरं नोचेद्धन्मि क्षणेन तम् ॥ २५॥
एकदन्तवचः श्रुत्वा दैत्यदूतः प्रणम्य तम् ।
(Page खं. २ अ. ५३ पान ११२)
ययौ मदासुरं तत्र वृत्तान्तं चाऽब्रवीत् पुरः ॥ २६॥
दूतस्य वचनं श्रुत्वा मूर्च्छितो दैत्यपुङ्गवः ।
दैतेयैः सावधानश्च कृतः सोऽपि शुशोच ह ॥ २७॥
उवाच दैत्यपान् सर्वान्नारदेन समीरितम् ।
वाक्यं तदभवत् सत्यं मम शत्रुरयं मतः ॥ २८॥
नानाशस्त्रैस्तथास्त्रैस्तं हनिष्यामि न संशयः ।
कथं कालस्य मे मृत्युर्भविष्यति महासुराः ॥ २९॥
एवमुक्त्वा ययौ पापी मदः सर्वसमन्वितः ।
एकदन्तं समुद्दिश्य शस्त्रमुग्रं मुमोच ह ॥ ३०॥
अनिवार्यममोघं च शस्त्रं दृष्ट्वा गजाननः ।
परशुं तोलयित्वा स मुमोच यमसन्निभम् ॥ ३१॥
परशुं दैत्यपा दृष्ट्वा तेजसा संवृतं परम् ।
भयभीताः समन्तात्ते पलायन्त दिशो दश ॥ ३२॥
परशुर्दैत्यराजास्त्रं सच्छित्वा स्वेन तेजसा ।
ततो दैत्यांश्च सर्वत्र चिच्छेद यमसन्निभः ॥ ३३॥
हताः परशुना दैत्याः सर्वे प्रह्लाद तत्क्षणात् ।
त्रिपुरादय एवं ते दृष्ट्वा वै दुद्रुवुर्भयात् ॥ ३४॥
ततो मदासुरः क्रुद्धो जग्राहास्त्रमनुत्तमम् ।
संहाराख्यममोघं वै युयोज धनुषि स्वयम् ॥ ३५॥
तावत् परशुना विद्धो हृदये दैत्यपुङ्गवः ।
पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ ३६॥
ततस्तत्र महास्त्रं तत् परशूपस्थितं त्वभूत् ।
प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ ३७॥
अपश्यत् स महास्त्रं तत् परशुं यमसन्निभम् ।
समीपे दैत्यराजस्तु विस्मितो हृदयेऽभवत् ॥ ३८॥
अयं परशुराजः किं तेजःपुञ्जमयो मया ।
दृश्यते न च संसृष्टो ह्यत आश्चर्यकं त्विदम् ॥ ३९॥
ततो हस्तेन दैत्येन गृहीतः परशुर्महान् ।
तथाऽपि हस्तमध्येऽसौ खवच्छून्यस्तदाऽभवत् ॥ ४०॥
मदः स हृदि विज्ञाय शस्त्रं ब्रह्ममयं परम् ।
ज्ञात्वाऽवयवसंहीनं विचारमकरोत्तदा ॥ ४१॥
अहो क एकदन्तोऽयं ब्रह्माकारो न संशयः ।
न ब्रह्माण्डमयाकारो भवेत्तद्वर्जितो न च ॥ ४२॥
अतोऽनेन रणे पूर्णं न भविष्यति किञ्चन ।
मारयिष्यति मां नूनं नात्र कार्या विचारणा ॥ ४३॥
एवमुक्त्वा हृदि क्षुब्धो दैत्येशश्च मदासुरः ।
दैवयोगेन सस्मार वेदवाक्यं सुखप्रदम् ॥ ४४॥
एकदन्तार्थजं ज्ञानं विचार्यैव च विघ्नपम् ।
बुबोध हृदि दैत्येन्द्रो ब्रह्मरूपः प्रधारकम् ॥ ४५॥
मायात्मकश्चैकशब्दस्तत्र सर्वं समुद्भवत् ।
भ्रान्तिदं मोहदं पूर्णं नानाखेलमयं जगत् ॥ ४६॥
दन्तसत्तात्मकस्तत्र मायाचालकसंज्ञकः ।
बिम्बेन मोहयुक्तः स स्वयं स्वानन्दगोऽभवत् ॥ ४७॥
माया भ्रान्तिमयी प्रोक्ता सत्ता चालक उच्यते ।
तयोर्योगे गणेशोऽयमेकदन्तः प्रकथ्यते ॥ ४८॥
महद्भाग्यं मदीयं तद्येनाऽयं दृष्टिगोचरम् ।
आयासेन विना प्राप्तस्तं यामि शरणं ततः ॥ ४९॥
(Page खं. २ अ. ५४ पान ११३)
भक्त्या संयोगिनो नित्यं भजन्ते शुकमुख्यकाः ।
ब्रह्मभूता महाभागास्तं यामि शरणं ततः ॥ ५०॥
एवं भक्त्या मदो दैत्यः परियुक्तो महामते ।
त्यक्त्वाऽभिमानजं दोषं तमेव शरणं ययौ ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते मदासुरपराजयो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ २.५३
२.५४ मदासुरशान्तिप्राप्तिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
मदासुरः प्रणम्याऽऽदौ परशुं यमसन्निभम् ।
तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ १॥
मदासुर उवाच ।
नमस्ते शस्त्रराजाय नमस्ते परशो महन् ।
तेजःपुञ्जमयायैव कालकालाय ते नमः ॥ २॥
एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् ।
त्वमेव नात्र सन्देहो रक्ष मां शरणागतम् ॥ ३॥
कालरूपस्त्वमेवेह महाप्रलयसूचकः ।
कः समर्थश्च ते वेगसहने देहधारकः ॥ ४॥
अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् ।
रक्ष मां भयभीतं वै शरणागतवत्सल ॥ ५॥
एवं स्तुवन्तमत्यन्तं परशुः शान्तिमादधे ।
ययौ त्यक्त्वा पुनर्हस्ते एकदन्तस्य दैत्यप ॥ ६॥
ततो मदासुरः शीघ्रं ययौ तं शरणं भयात् ।
एकदन्तं प्रणम्याऽऽदौ पूजयामास सादरम् ॥ ७॥
पूजयित्वा यथान्यायं गणेशं धरणीतले ।
दण्डवत्तं प्रणम्यैव भक्त्या तुष्टाव संयुतः ॥ ८॥
मदासुर उवाच ।
नमस्ते एकदन्ताय मायामायिकरूपिणे ।
सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥
मूषकारूढरूपाय मूषकध्वजिने नमः ।
सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १०॥
चतुर्बाहुधरायैव लम्बोदर सुरूपिणे ।
नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ११॥
चिन्तामणिधरायैव चित्तस्थाय गजानन ।
नानाभूषणयुक्ताय गणाधिपतये नमः ॥ १२॥
अनन्तविभवायैवानन्तमायाप्रचालक ।
भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३॥
योगिनां योगदात्रे ते योगानां पतये नमः ।
योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ १४॥
मायाकारं शरीरं त एकशब्दः प्रकथ्यते ।
दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५॥
मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा ।
कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६॥
शरणागतपालाय शरणागतवत्सल ।
पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ १७॥
रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा ।
भक्तं भावेन सम्प्राप्तं संसारात्तारयस्व च ॥ १८॥
एवमुक्त्वा प्रणम्यापि मदः कृत्वा प्रदक्षिणाम् ।
कृताञ्जलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥ १९॥
तमुवाच गणाधीशः प्रहृष्टेनान्तरात्मना ।
विकाररहितं दृष्ट्वा हृदयं भक्तिसंयुतम् ॥ २०॥
(Page खं. २ अ. ५५ पान ११४)
एकदन्त उवाच ।
त्वां हन्तुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः ।
अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥ २१॥
मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा ।
देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥ २२॥
वरं वरय मत्तस्त्वं त्वया दास्यामि चिन्तितम् ।
विनयेन च सन्तुष्टः स्तोत्रेणाऽहं विशेषतः ॥ २३॥
त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप ।
शृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥ २४॥
न तत्र मदसम्भूतं भयं भवति कर्हिचित् ।
अन्ते स्वानन्ददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥ २५॥
एवं तस्य वचः श्रुत्वैकदन्तस्य मदासुरः ।
आसुरं भावमुत्सृज्य शान्तरूपस्तमब्रवीत् ॥ २६॥
मदासुर उवाच ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
एकदन्तपदे भक्तिं देहि नाथ दृढां सदा ॥ २७॥
अन्यं वरं गणेशान देहि वृत्तिं च शाश्वतीम् ।
भक्षयित्वा सदा देव भजेयं ते पदाम्बुजम् ॥ २८॥
मदस्य वचनं श्रुत्वा ह्येकदन्तस्तमब्रवीत् ।
मदीया भक्तिरुग्रा ते भविष्यति मदासुर ॥ २९॥
यत्र मे स्मरणं चादौ पूजनं वा मदासुर ।
तत्र कर्म सुशान्त्या त्वं युक्तो भव सुरक्षयन् ॥ ३०॥
विपरीते सदा दैत्य आसुरेण स्वभावतः ।
प्रवर्तय फलं तेषां कर्मणां भक्षयस्व च ॥ ३१॥
एवमुक्तो महादैत्यस्तं तथेति प्रणम्य च ।
नगरं स्वं जगामासावेकदन्तपरायणः ॥ ३२॥
दैत्यास्त्रिपुरकाद्या ये त्यक्त्वा तं ते ययुस्ततः ।
पातालानि भयोद्विग्ना देवाः स्वस्थानमाश्रिताः ॥ ३३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते मदासुरशान्तिप्राप्तिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ २.५४
२.५५ मदासुरचरितसमाप्तिर्नाम पञ्चपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।
भृग्वादयश्च योगीन्द्रा एकदन्तं समाययुः ॥ १॥
प्रणम्य तं प्रपूज्याऽऽदौ पुनस्ते नेमुरादरात् ।
तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गजाननम् ॥ २॥
देवर्षय ऊचुः ।
सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।
अथादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥
अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ।
हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥
समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभान्तमेवम् ।
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥
स्वबिम्बभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् ।
सुवीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥
यदीय वीर्येण समर्थभूतं स्वमायया संरचितं च विश्वम् ।
(Page खं. २ अ. ५५ पान ११५)
तुरीयकं ह्यात्मकवित्तिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ ७॥
त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् ।
भजन्त आद्यं तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८॥
ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै ।
समानरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ ९॥
तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभातम् ।
अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ १०॥
ततस्त्वया प्रेरितकेन सृष्टं सुसूक्ष्मभावं जगदेकसंस्थम् ।
सुसात्त्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११॥
तत् स्वप्नमेवं तपसा गणेश सुसिद्धिरूपं द्विविधं बभूव ।
सदैकरूपं कृपया च ते यत्तमेकदन्तं शरणं व्रजामः ॥ १२॥
त्वदाज्ञया तेन सदा हृदिस्थ तथा सुसृष्टं जगदंशरूपम् ।
विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३॥
तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेश्च ।
बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४॥
तदैव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।
धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५॥
सर्वे ग्रहा भानि यदाज्ञया च प्रकाशरूपाणि विभान्ति खे वै ।
भ्रमन्ति नित्यं स्वविहारकार्यात्तमेकदन्तं शरणं व्रजामः ॥ १६॥
त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः ।
त्वदाज्ञया संहारको हरो वै तमेकदन्तं शरणं व्रजामः ॥ १७॥
यदाज्ञया भूस्तु जले प्रसंस्था यदाज्ञयाऽऽपः प्रवहन्ति नद्यः ।
स्वतीरसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८॥
यदाज्ञया देवगणा दिविस्था यच्छन्ति वै कर्मफलानि नित्यम् ।
यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ १९॥
यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहद एव कामः ।
यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २०॥
यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः ।
यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ २१॥
तदन्तरिक्षं स्थितमेकदन्तं त्वदाज्ञया सर्वमिदं विभाति ।
अनन्तरूपं हृदि बोधकं त्वां तमेकदन्तं शरणं व्रजामः ॥ २२॥
सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवने समर्थः ।
अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३॥
गृत्समद उवाच ।
एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् ।
तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४॥
स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै ।
एकदन्तो महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५॥
एकदन्त उवाच ।
स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः खलु ।
वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६॥
भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत् ।
भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७॥
यद्यदिच्छति तत्तद्वै प्राप्नोति स्तोत्रपाठकः ।
(Page खं. २ अ. ५५ पान ११६)
पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २८॥
गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् ।
भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९॥
मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।
पठतां शृण्वतां नॄणां भवेत्तद्बन्धहीनता ॥ ३०॥
एकविंशतिवारं यः श्लोकानेवैकविंशतिम् ।
पठेद्वै हृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् ॥ ३१॥
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु वै भवेत् ।
असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२॥
नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वै नरः ।
तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३३॥
एवं तस्य वचः श्रुत्वा प्रहृष्टा अमरर्षयः ।
ऊचुः सर्वे करपुटैर्भक्त्या युक्ता गजाननम् ॥ ३४॥
देवर्षय ऊचुः ।
धन्या वयं गणेशान एकदन्तधर प्रभो ।
त्वदीयदर्शनादेव भाषणान्नात्र संशयः ॥ ३५॥
वरं देहि त्वदीया नो भक्तिश्च सुदृढा भवेत् ।
मायाहीनास्तथा देव कृतकृत्या भवामहे ॥ ३६॥
यदा सङ्कटयुक्ता वै वयं स्याम गजानन ।
तदा नो रक्ष देवेश वरमेवं वृणीमहे ॥ ३७॥
तेषां वचनमाकर्ण्य तानुवाच तथास्त्विति ।
एकदन्तोंऽन्तर्दधेऽसौ स्वस्वानन्दगतोऽभवत् ॥ ३८॥
देवा मुनिगणाः सर्वे ययुः स्वस्वपदेषु च ।
स्वस्वधर्मयुता नित्यमभजन्नेकदन्तकम् ॥ ३९॥
एवं मदासुरस्तेन शान्तिरूपधरः कृतः ।
प्रह्लाद चैकदन्तेन कथितं ते चरित्रकम् ॥ ४०॥
दुष्टसङ्गतियोगेन त्वं मदोत्सिक्तभावतः ।
अनादृत्य विधातारं भ्रष्टो ज्ञानान्न संशयः ॥ ४१॥
एकदन्तं गणेशं त्वं भजाऽतो दैत्यनायक ।
तेन शान्तो महाभाग भविष्यसि न संशयः ॥ ४२॥
स एव एकदन्तस्तु भक्तानां कार्यसिद्धये ।
करोति स्वावतारांश्च नानारूपांस्तु दैत्यप ॥ ४३॥
परमौ दारुणौ दैत्यौ देवान्तकनरान्तकौ ।
सम्भूतौ तौ हतौ तेन भूत्वा कश्यपवेश्मनि ॥ ४४॥
तथैव दुर्मतिर्नाम दैत्योऽभूद्धर्मलोपकः ।
शान्तये तस्य विघ्नेशः शिवपुत्रो बभूव ह ॥ ४५॥
गणासुरेण दुष्टेन धर्मलोपः कृतो यदा ।
तदा कपिलपुत्रोऽभूत् स एव त्वेकदन्तकः ॥ ४६॥
एवं नानावतारैः पालयते सकलं जगत् ।
एकदन्तः कलांशेन धर्मरक्षणतत्परः ॥ ४७॥
तेषां कथा न शक्या वै गदितुं केनचित् परा ।
गुणान्तं न ययुर्यस्य ब्रह्माद्या मुनयः सुराः ॥ ४८॥
अतस्त्वमेकदन्तं तं भज भावेन दैत्यप ।
तेन सर्वं च ते ज्ञानं भविष्यति सुशान्तिदम् ॥ ४९॥
एवं मदासुरस्याऽपि कृतं खण्डनमञ्जसा ।
एकदन्तेन सङ्क्षेपाच्चरितं कथितं मया ॥ ५०॥
पठेद्यः शृणुयात्तस्मै भक्तिं मुक्तिं ददाति सः ।
एकदन्तः प्रसन्नात्मा सदा भवति सौख्यदः ॥ ५१॥
नासुरेण स्वभावेन मदस्तं पीडयिष्यति ।
शान्तिरूपेण नित्यं स संरक्षेद्दैत्यनायकः ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते मदासुरचरितसमाप्तिर्नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ २.५५
(Page खं. २ अ. ५६ पान ११७)
२.५६ विनायककाशीप्रवेशो नाम षट्पञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
प्रह्लादेन श्रुतं पूर्णं मदासुरचरित्रकम् ।
पुनः किं च कृतं योगिंस्तद्वद त्वं महामते ॥ १॥
श्रुत्वा कथामृतं पूर्णं हर्षश्चेतसि मुद्गल ।
जायते नाऽत्र सन्देहो न तृप्तोऽहं भवाम्यतः ॥ २॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षितोऽभवत् ।
उवाच तं महाभागं तत्त्वं शृणु च शौनक ॥ ३॥
मुद्गल उवाच ।
धन्योऽसि दक्ष सारज्ञ गणेशस्य कथामृतम् ।
श्रुत्वा हृष्यसि ते पुण्यं कथयामि कथानकम् ॥ ४॥
मदासुरस्य संशान्तिं श्रुत्वा पप्रच्छ दैत्यपः ।
प्रह्लादस्तं गृत्समदं विनयावनतः कथाम् ॥ ५॥
प्रल्हाद उवाच ।
महद्भाग्यं मुने मे यद्येन संश्रावितं त्वया ।
एकदन्तस्य माहात्म्यं परमानन्ददायकम् ॥ ६॥
तथापि न सुतृप्तोऽहं श्रुत्वा ज्ञानप्रदायकम् ।
चरितं च पुनस्त्वं मे गणेशस्य कथां वद ॥ ७॥
कश्यपस्य गृहे देवः कथं पुत्रत्वमागतः ।
कथं दैत्यौ हतौ योगिन् विस्तरेण वदस्व माम् ॥ ८॥
कथं स शिवपुत्रोऽभूत् कथं दुर्मतिकं प्रभुः ।
अहनत्तं वदस्व त्वं सर्वज्ञोऽसि कृपानिधे ॥ ९॥
कथं गणासुरं दैत्यं कापिलो हतवान् पुरा ।
एतत् सर्वं वद स्वामिन्नेकदन्तचरित्रकम् ॥ १०॥
भवादृशा महाभागा नौकारूपेण संस्थिताः ।
संसाराब्धौ नराणां वै मज्जतां तरणाय तु ॥ ११॥
मुद्गल उवाच ।
एवं पृष्टो महायोगी तमुवाच सुहर्षितः ।
गुणैर्युक्तं गृत्समदः प्रह्लादं भावधारकम् ॥ १२॥
गृत्समद उवाच ।
शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते ।
सुखदं च समासेन एकदन्तचरित्रकम् ॥ १३॥
पुरा कृतयुगे दैत्य गौडदेशे बभूव ह ।
नगरे गौडसंज्ञे च रौद्रकेतुस्तपोधनः ॥ १४॥
तस्य पत्नी महाभागा शारदा रूपशालिनी ।
गर्भयुक्ता कदाचित् सा बभूवे हर्षिताऽभवत् ॥ १५॥
समये सुषुवे पुत्रौ यमलौ लोकभीतिदौ ।
नाम्ना चक्रे द्विजातिः स देवान्तकनरान्तकौ ॥ १६॥
कदाचिन्नारदेनाऽपि गत्वा तत्र शिवस्य च ।
पञ्चाक्षरेणोपदिष्टौ चेरतुः परमं तपः ॥ १७॥
दिव्यवर्षसहस्रैस्तु सन्तुष्टः स सदाशिवः ।
अभयं गुणरूपेभ्यो प्रददौ दैत्ययोः परम् ॥ १८॥
वरगर्वेण दैत्येन्द्रौ जित्वा सर्वं चराचरम् ।
ततस्तु कर्मनाशं तौ चक्रतुः पृथिवीतले ॥ १९॥
न स्वाहा न स्वधा कुत्र न वषट्कार एव च ।
अभवन्नमराः सर्वे क्षुधितास्तृषितास्ततः ॥ २०॥
तैः सर्वैः प्रार्थितो देव एकदन्तः प्रतापवान् ।
तपसोग्रेण सन्तुष्टो बभूव प्रददौ वरम् ॥ २१॥
कश्यपस्य च पुत्रोऽहं भविष्यामि प्रसिद्धये ।
दैत्येन्द्रयोर्वधस्यैवमुक्त्वा गणपतिययौ ॥ २२॥
अथ देवजनित्री सा कदाचित् कश्यपं मुनिम् ।
जगाद हास्यसंयुक्ता ह्यदितिः कृतसम्पुटा ॥ २३॥
इन्द्रो विष्णुश्च सूर्यश्च देवाः पुत्राश्च मेऽभवन् ।
स्वामिन् ब्रह्म कथं पुत्रः सम्भविष्यति मे परम् ॥ २४॥
तदा मे निश्चलं चेतो भवेच्चैव न संशयः ।
तस्य सेवां कर्तुमीहे तत्रोपायं वद प्रभो ॥ २५॥
(Page खं. २ अ. ५६ पान ११८)
तस्यास्तद्वचनं श्रुत्वा गणेशस्य मनुं ददौ ।
अष्टाक्षरं तया तेनाराधितो ह्येकदन्तकः ॥ २६॥
सहस्रवर्षपूर्तौ तां वरदः स समाययौ ।
तया पुत्रो भव स्वामिन् याचितः स तथाऽकरोत् ॥ २७॥
अदित्यां कश्यपाच्चैव सम्भूतः पुत्रतां गतः ।
मायामास्थाय विघ्नेशश्चिक्रीड प्राकृतो यथा ॥ २८॥
एकदा राक्षसी घोरा विरजास्तं जगाल ह ।
विदार्य जठरं तस्या बहिर्यातो ममार सा ॥ २९॥
उद्धतौ धुन्धुरत्युग्रौ शुकरूपौ समागतौ ।
धृत्वा तौ स्फालितौ शैले मृतौ दैत्यौ तथाऽकरोत् ॥ ३०॥
कदाचित् सहिता तेन स्नानार्थमदितिर्ययौ ।
तत्र तं मकराकारो गन्धर्वश्च पदेऽग्रहीत् ॥ ३१॥
तेनोड्डीनं कृतं पश्चाद्बहिः स च ममार ह ।
शापमुक्तोऽभवच्चित्रं तं प्रणम्य ययौ दिवम् ॥ ३२॥
उपवीतप्रदाने वै राक्षसा विप्रलिङ्गिनः ।
पञ्च तं हन्तुमायाता हतास्तेन क्षणेन ते ॥ ३३॥
कर्मणि प्रसमाप्ते तं ब्रह्मविष्ण्वादयः सुराः ।
मुनयश्च वसिष्ठाद्या नेमुर्भक्तिसमन्विताः ॥ ३४॥
इन्द्रस्तत्र मदेनैव संसिक्तो न ननाम तम् ।
कश्यपेन समाज्ञप्तस्तथाऽपि ज्येष्ठभावतः ॥ ३५॥
परीक्षार्थं महेन्द्रेण बालं हन्तुं प्रभञ्जनः ।
प्रेरितः सोऽपि भग्नोऽभूत्ततोऽग्निं स समादिशत् ॥ ३६॥
इन्द्रेणाऽऽज्ञापितो वह्निस्तं दग्धुं सहसाऽऽगतः ।
गिलितस्तेन बालेन महेन्द्रो विस्मितोऽभवत् ॥ ३७॥
विनायकेन देवेन्द्रः श्वासेन जठरे स्वके ।
नीतस्तत्र सविस्तारं ददर्श सकलं जगत् ॥ ३८॥
एवं नानाण्डकं दृष्ट्वा हतगर्वोऽभवत् स्वयम् ।
न ददर्श बहिर्यातुं मार्गं वर्षशतेन वै ॥ ३९॥
ततस्तं प्रार्थयामास विनायकमनामयम् ।
तेनाऽपि श्वासमार्गेण बहिर्निष्कासितो हरिः ॥ ४०॥
ततस्तेन महेन्द्रण दृष्टं कौतुकमुत्तमम् ।
कालोद्भवं महच्चित्रं तच्छृणुष्व महासुर ॥ ४१॥
विनायकस्य वर्षाणि जठरे स शतं स्वयम् ।
संस्थितश्च बहिस्तत्र क्षण एकस्तथाऽभवत् ॥ ४२॥
ततस्तं प्रणनामाऽऽदौ स्तुत्वा च विविधैः स्तवैः ।
चकार साधुभावेन स भक्तिं नित्यमादरात् ॥ ४३॥
ततः कदाचित् काशीपो मुनिगेहं समाययौ ।
पुत्रस्योद्वाहसिद्ध्यर्थं कश्यपं तममन्त्रयत् ॥ ४४॥
मुनिर्यज्ञेन रुद्धो वै पुत्रं तस्मै ददौ लघुम् ।
उपाध्यायत्वसिद्धयर्थं विधानज्ञो विनायकम् ॥ ४५॥
काशिराजो गणेशं सङ्गृह्य मार्गे जगाम ह ।
तत्र धूम्राक्षदैत्येशं सूर्यास्त्रेण जघान सः ॥ ४६॥
तस्य पुत्रौ महावीर्यौ जघनश्च मनुः स्मृतौ ।
भक्षणार्थं समायातौ विनायकमनामयम् ॥ ४७॥
विनायकेन निःश्वासेन नीतौ गगने गतौ ।
भ्रमन्तौ पतितौ तत्र नरान्तकसुमन्दिरे ॥ ४८॥
नरान्तकस्ततस्ताभ्यां ज्ञात्वा वृत्तान्तमुल्बणम् ।
शतानि पञ्च रक्षांसि प्रेषयामास दैत्यपः ॥ ४९॥
तेन दृष्टा महावीरा राक्षसा गणपेन च ।
हुङ्कारेण महोग्रेण मम्रुः सर्वे भयातुराः ॥ ५०॥
ततः स काशिराजेन सहितश्च विनायकः ।
काशीं प्राप्तस्तदा लोकैरविशत् पूजितः परम् ॥ ५१॥
(Page खं. २ अ. ५७ पान ११९)
आदौ मुद्गलविप्रेणोपदिष्टः स महामनाः ।
काशिराजश्च गणपमभजन्नित्यमादरात् ॥ ५२॥
काशीस्थाश्च जनाः सर्वे गणेशध्यानतत्पराः ।
मुद्गलान् महिमानं चाऽभवन् ज्ञात्वा विचक्षणाः ॥ ५३॥
कश्यपस्य स्वयं पुत्रो भविष्यति वधाय च ।
दैत्यानां सोऽपि काश्यां वै विवाहायाऽऽगमिष्यति ॥ ५४॥
तस्य दर्शनमात्रेण भविष्यन्ति सुयोगिनः ।
सर्वे काशीस्थभूतानि नरा नार्यो न संशयः ॥ ५५॥
एवं मुद्गलविप्रेण बोधिताः सकला जनाः ।
ते सर्वेऽपूजयंस्तं च ज्ञात्वा देवं विनायकम् ॥ ५६॥
स्त्रियः सर्वाः समायाता दर्शनार्थं महापथे ।
अनादृत्य पितॄन् भ्रातॄन भर्तॄन भक्तिपरायणाः ॥ ५७॥
महोत्सवोऽभवत्तत्र प्रवेशाख्यो महासुर ।
तत्रैका रोधिता नारी देहं तत्याज सोत्तमम् ॥ ५८॥
तालुस्फोटेन सा याता सर्वादौ तं विनायकम् ।
पश्यन्त्यस्याऽभवद्दहे लीना भक्तिसमन्विता ॥ ५९॥
यत्र तत्र जनैर्देवः पूजितश्च महापथे ।
चचार तत्र दैत्यौ द्वौ बालरूपौ प्रचेरतुः ॥ ६०॥
विनायकेन हस्ताभ्यां चूर्णितौ दशयोजने ।
पतितौ विस्मिता लोका मेनिरे गणपं च तम् ॥ ६१॥
ततो द्वौ चक्रवातस्य रूपेणैव समागतौ ।
शिखां धृत्वा तयोस्तेन मम्रतुः स्फालितौ दृढौ ॥ ६२॥
ततः पाषाणरूपेण दैत्यो मार्गे व्यवस्थितः ।
मुष्टिना बालकेनैव हतो मृत्युमवाप सः ॥ ६३॥
काशिराजस्ततस्तं स नीत्वा च स्वगृहे स्वयम् ।
पूजयामास विधिवत् स्थापयामास भावतः ॥ ६४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते विनायककाशीप्रवेशो नाम षट्पञ्चाशत्तमोऽध्यायः ॥ २.५६
२.५७ भ्रुशुण्डीभक्तिवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
द्वितीये दिवसे तत्र धर्मदत्तो महामुनिः ।
स्वगृहे तं मुनेः पुत्रमानयामास यत्नतः ॥ १॥
मार्गे दैत्यौ हतौ तेन खरवेषधरावुभौ ।
कामक्रोधासुरौ पश्चाद्गजवेषधरौ हतौ ॥ २॥
ततो मुनिः सुभावेनापूजयत्तं विनायकम् ।
कन्ये स्वे प्रददौ तस्मै सिद्धिबुद्धी सुलक्षणे ॥ ३॥
ततस्तत्राऽऽययौ जृम्भा राक्षसी घोररूपिणी ।
रूपं धृत्वा मनुष्यस्य सुप्रसन्नाननाम्बुजा ॥ ४॥
विषयुक्तेन तैलेन सा ममर्द विनायकम् ।
विज्ञाता देवदेवेन हता मृत्युमवाप च ॥ ५॥
चतुर्थे दिवसे तत्र सम्प्राप्ता दैत्यपुङ्गवाः ।
ज्वालामुखोऽथ व्याघ्रास्यो दारुणश्च महाबलः ॥ ६॥
तान् हत्वा योगभावेन काश्यपो लीलयाऽरमत् ।
बालमध्ये यथाऽन्यो वै प्राकृतो माययाऽसुर ॥ ७॥
ब्रह्मविष्णुमुखास्तत्र द्रष्टुमाश्चर्यमुत्कटम् ।
बालक्रीडनसम्भूतं संस्थिताश्च व्यलोकयन् ॥ ८॥
(Page खं. २ अ. ५७ पान १२०)
तत्र तं पञ्चमे देवं दिवसे मुनिनन्दनम् ।
प्रणम्य काशिराजः स भोजनार्थममन्त्रयत् ॥ ९॥
चतुर्थ्यां शुक्लपक्षस्य प्रातःकाले महामुनिः ।
भ्रुशुण्डी चापूजयत्तं मानस्या पूजया प्रभुम् ॥ १०॥
पूजां दृष्ट्वा स्वयं राजा प्रातस्तत्र सुविस्मितः ।
उवाच तं कृता केन पूजेयं वद मे प्रभो ॥ ११॥
ततस्तं कथयामास भ्रुशुण्डी मेऽतिवल्लभः ।
महाभक्तः करोतीमां पूजां पश्य नराधिप ॥ १२॥
एकनिष्ठतया विप्रो भजते मां विशेषतः ।
मद्विनान्यन्न जानाति देवतीर्थादिकं कदा ॥ १३॥
श्रुत्वा तस्य वचो रम्यं जगाद नृपसत्तमः ।
विनायकं प्रणम्यैव तं प्रदर्शय योगिनम् ॥ १४॥
काशिराजवचः श्रुत्वा प्रेषयामास तं ततः ।
जवनाश्वसमारूढो राजा तस्याश्रमं ययौ ॥ १५॥
दृष्ट्वा तं शुण्डया युक्तं स नत्वा विस्मितो नृपः ।
प्रार्थयामास योगीशं काश्यां नेतुं सुभक्तितः ॥ १६॥
काशिराज उवाच ।
विनायकाज्ञया स्वामिन्नागतस्तेऽहमाश्रमे ।
त्वामाह्वयति देवोऽसौ मद्गृहे संस्थितः स्वयम् ॥ १७॥
चतुर्थ्यामद्य योगीन्द्र मानस्या पूजया त्वया ।
पूजितस्तां महापूजां दर्शयामास मां विभुः ॥ १८॥
कश्यपस्य गृहे सोऽपि विनायक इति स्मृतः ।
तपसाऽऽराधितस्तेन पुत्रोऽभूद्गणनायकः ॥ १९॥
अहं तस्य तथा दासो यजमानो महामते ।
विवाहार्थं तु पुत्रस्याऽऽनीतोऽसौ मद्गृहे मया ॥ २०॥
विनायकेन कथितमानयस्व महामुनिम् ।
याचे ह्यतोऽहं योगीन्द्राऽऽगच्छ काशीं महापुरीम् ॥ २१॥
तस्य तद्वचनं श्रुत्वा विस्मितो मुनिसत्तमः ।
उवाच तं स गाणेशः काशिराजं महामतिम् ॥ २२॥
भ्रुशुण्ड्युवाच ।
शृणु राजन् महाभाग वेदान्तागोचरो विभुः ।
यदि भक्त्या समायातस्त्वद्गृहे कश्यपात्मजः ॥ २३॥
तथापि शुण्डया हीनं नमामि न कदाचन ।
कलांशादिसमायुक्तं जानीहि नृपसत्तम ॥ २४॥
कलात्मकास्तस्य सर्वे देवा विष्णुशिवादयः ।
ते सर्वे मां नमन्त्येव शुण्डाभक्तियुतं परम् ॥ २५॥
गजाननं परित्यज्याऽहं नमामि न कञ्चन ।
अतस्त्वं गच्छ काश्यां वै तं नयामि विनायकम् ॥ २६॥
तस्य तद्वचनं श्रुत्वा ह्येकभक्तिसमन्वितम् ।
उवाच तं प्रणम्यैव काशिराजः प्रतापवान् ॥ २७॥
काशिराज उवाच ।
मुने शृणु वचो मेऽद्य नाऽहं शक्तो भवामि च ।
काश्यां गन्तुं महाभागाऽपराह्णे श्रान्तवाहनः ॥ २८॥
ततो मुनिर्नृपं प्राह लोचनामीलनं कुरु ।
तथाभूतं नृपश्रेष्ठं प्रेषयामास तां पुरीम् ॥ २९॥
पुनरुन्मील्य नेत्रे स्वेऽपश्यद्गेहं महानृपः ।
स्वां पुरीं विस्मितो भूत्वा प्रणनाम विनायकम् ॥ ३०॥
वृत्तं संश्रुत्य भूपेशात् पुनस्तं गणनायकः ।
मायया स मुनेस्तस्याश्रमस्थमकरोत्ततः ॥ ३१॥
पुनः समागतं वीक्ष्य नृपं प्राह महामुनिः ।
किमर्थमागतो राजन्नद्यैव वद मे गृहे ॥ ३२॥
ततस्तं राजशार्दूलो जगाद कथितं च यत् ।
विनायकेन भोः स्वामिंस्त्वामाह्वयति विघ्नपः ॥ ३३॥
(Page खं. २ अ. ५७ पान १२१)
तेनाऽहं प्रेषितो नूनं शुण्डादण्डधरेण च ।
चल शीघ्रं मया सार्धं द्रष्टुं पूर्णं गजाननम् ॥ ३४॥
श्रुत्वा तस्य वचो रम्यं भक्त्याऽत्यन्तं लुलोठ च ।
रोमाञ्चितशरीरोऽसौ साश्रुनेत्रो महामुनिः ॥ ३५॥
तं दृष्ट्वा विस्मितोऽत्यन्तं काशिराजो महामनाः ।
अहो भक्तिरियं साक्षाद् दृश्यते देहधारिणी ॥ ३६॥
देहभावं समासाद्य यात्रार्थं तेन भूभुजा ।
भ्रुशुण्डी चलितश्चैव स्वाश्रमात् प्रजगाम सः ॥ ३७॥
देहश्रमेण यात्रा वै कर्तव्या गणपस्य च ।
विचार्यैवं ययौ पद्भ्यामविमुक्तं महामुनिः ॥ ३८॥
ज्ञात्वा तस्य हृदिस्थं सा निश्चयं धरणी मुनिम् ।
प्रापयामास काश्यां तं क्षणेन नृपसंयुतम् ॥ ३९॥
नृपेण नगरी दृष्टा तमुवाच ततः परम् ।
स्वामिन् समागता काशी प्रभावात्तपसश्च ते ॥ ४०॥
ततस्तं स्वगृहे नीत्वाऽपूजयन् नृपसत्तमः ।
विनायकः समायातं भक्तं पश्यति साश्रुकः ॥ ४१॥
तस्य भावं विदित्वाऽसौ शुण्डां धृत्वा विनायकः ।
मूषकोपरि संस्थाय प्रजगाम महामुनिम् ॥ ४२॥
चतुर्भुजधरं विप्रो महोदरविराजितम् ।
शेषनाभिं त्वेकदन्तं दृष्ट्वा तं प्रणनाम च ॥ ४३॥
अपूजयत् भ्रुशुण्डी तं भक्तिभावसमन्वितः ।
पुनः प्रणम्य तुष्टाव नानास्तोत्रैः प्रसन्नधीः ॥ ४४॥
उवाच विस्खलद्वाक्यो भक्ते रसपरिप्लुतः ।
गजाननं निजं नाथं कृतकृत्यो महासुर ॥ ४५॥
भ्रुशुण्ड्युवाच ।
तव दर्शनमात्रेण कृतकृत्यो गजानन ।
महता भाग्ययोगेन दृष्टं ते चरणं विभो ॥ ४६॥
अधुना मे वरं देहि तेन तुष्टो भवाम्यहम् ।
तव विस्मरणं नाथ न भवेन् मे तथा कुरु ॥ ४७॥
अनेनैव स्वरूपेण मत्स्थाने संस्थितो भव ।
आशापूरकनाम्ना त्वं ख्यातो भव गजानन ॥ ४८॥
तत्रैवानन्यभक्त्या त्वां भजामि रसयुक्तया ।
मुद्गलेन समं मां त्वं पूर्णं भक्तं कुरु प्रभो ॥ ४९॥
अथवा मुद्गलाच्चैवाधिकं मां कुरु विघ्नप ।
गुरोरतिक्रमाच्छिष्यः पुत्रो वा तस्य नाल्पकः ॥ ५०॥
एवं प्रार्थयमानं तं तथेति गणनायकः ।
जगाद स पुनर्बालो भूत्वाऽखेलत्तु सादरम् ॥ ५१॥
तं प्रणम्य ययौ स्थानं स्वकीयं मुनिसत्तमः ।
भ्रुशुण्डी च ततः काशिराजः संविस्मितोऽभवत् ॥ ५२॥
हृदि राजा विचार्यासावेकनिष्ठो बभूव ह ।
गणेशभजने दृष्ट्वा भ्रुशुण्डीचरितं महत् ॥ ५३॥
अहो मुनिवरो धन्यो नानारूपात्मिकां पराम् ।
मायां त्यक्त्वा स योगेन भजते गणनायकम् ॥ ५४॥
सर्वेषां ब्रह्मणां योगो गणेशे भवति प्रभो ।
अतस्तमेकभावेन भजतेऽसौ महामुनिः ॥ ५५॥
एकनिष्ठा समा भक्तिर्न भूता न भविष्यति ।
कोट्यंशेन समा नान्या तत् भजेत् योगिसत्तमः ॥ ५६॥
सर्वत्र गणराजोऽयं वसत्यत्र न संशयः ।
कलांशेन ततोऽन्येषां भजने च फलं लभेत् ॥ ५७॥
गणेशभजनं ह्येकं चेत् पूर्णं भजनं भवेत् ।
सर्वेषां च गणेशस्य भ्रुशुण्डी तत् समाश्रितः ॥ ५८॥
अहो भ्रुशुण्डिना तुल्यो दृश्यते न कदाचन ।
(Page खं. २ अ. ५८ पान १२२)
प्रत्यक्षो गणराजोऽयं शुण्डावान्नात्र संशयः ॥ ५९॥
काश्यां मुक्तिस्वरूपायामागतोऽसौ महामुनिः ।
मणिकर्णीं च विश्वेशं सस्मार मनसाऽपि न ॥ ६०॥
गणेशार्थं समायातस्तं प्रणम्य महामुनिः ।
स्वाश्रमं पुनरेवासौ जगाम सुखदायकम् ॥ ६१॥
एवं विस्मयभावेन काशिराजस्तथाऽभजत् ।
गणेशं साधुभावज्ञः सोऽपि तत्समतां ययौ ॥ ६२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते भ्रुशुण्डीभक्तिवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ २.५७
२.५८ यमशापवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
प्रल्हाद उवाच ।
शृणु गृत्समद त्वं मे वचनं दीनपालक ।
कोऽसौ भ्रुशुण्डिनामा वै मुनिर्मे ब्रूहि साम्प्रतम् ॥ १॥
तपसा केन तस्याऽपि भृशुण्डा निःसृता प्रभो ।
कीदृशी मानसी पूजा कृता मां वद विस्तरात् ॥ २॥
आश्चर्यं परमं प्राप्तः श्रुत्वा मुनिवरस्य च ।
महिमानं महाभाग धन्यो भूमण्डलेऽभवत् ॥ ३॥
गणेशभजने सक्ता नरास्ते ब्रह्मरूपिणः ।
तेषां कथा प्रवक्तारं श्रोतारं प्रपुनाति च ॥ ४॥
मुद्गल उवाच ।
एवं पृष्टो गृत्समदो महायोगी तमब्रवीत् ।
प्रह्लादं भक्तिपात्रं वै दृष्ट्वा हर्षसमन्वितः ॥ ५॥
गृत्समद उवाच ।
शृणु प्रह्लाद भावेन कथां लोकैकपावनीम् ।
भ्रुशुण्डिसंश्रितां पुण्यां ब्रह्मभूतपदप्रदाम् ॥ ६॥
नन्दुरे त्ववसद् ग्रामे नामा कैवर्तकः पुरा ।
नाम्ना पापी सुविख्यातो महापापपरायणः ॥ ७॥
धृत्वा ग्रामेषु शस्त्रादीन् वनेषु विचचार ह ।
जीवहिंसां सदा तत्र चकार कामवर्जितः ॥ ८॥
मार्गस्थांश्च जनान् वीक्ष्याऽमारयद्धनलिप्सया ।
सङ्गृह्य मिलितं ग्रामे जगाम प्रत्यहं खलः ॥ ९॥
द्रव्यवस्त्रादिहीनांस्तान् दृष्ट्वा मारयताप्यहो ।
जीवं दृष्ट्वा क्रूरकर्मा न मुमोच वधप्रियः ॥ १०॥
धनं तेषां गृहीत्वाऽसौ धनवान् प्रबभूव ह ।
द्रव्यसञ्चयभावेन न तुतोष कदाचन ॥ ११॥
न सङ्ख्यां कर्तुमत्यन्तं तस्य पापस्य वै भवेत् ।
ब्रह्मा समर्थः शेषश्च पापानां भागिनौ भयात् ॥ १२॥
स्त्रीगोबालद्विजादीनां हत्याऽपारा कृता पुरा ।
तेन तस्य च भारेण पीडिता भूरभूत्ततः ॥ १३॥
एकदा वनमध्येऽसौ कञ्चित्पुरुषमुत्तमम् ।
दृष्ट्वा वधार्थमानन्दादधावच्छस्त्रसंयुतः ॥ १४॥
तमागतं समालोक्य दुष्टं दूरे पलाय्य सः ।
गव्यूतिमात्रमासाद्य ग्रामं तत्र जगाम ह ॥ १५॥
नामा प्रह्लाद मार्गे स पतितोऽधावनाऽऽकुलः ।
जातश्च दुःखितोऽत्यन्तं विरराम वधात्तदा ॥ १६॥
मन्दगत्या चचालाऽसौ मार्गे कुण्डं ददर्श ह ।
तत्र श्रमापनोदार्थं स्नानं चक्रे महाखलः ॥ १७॥
तदेव गणराजस्य तीर्थं पुण्यप्रदं महत् ।
(Page खं. २ अ. ५८ पान १२३)
तस्य प्रभावयोगेन पापं संशिथिलं त्वभूत् ॥ १८॥
स पापशिथिलो नामा विचारमकरोद् हृदि ।
अहो मया च पापानि कृतानि कति नाऽविदम् ॥ १९॥
मृतोऽहं नरके घोरे पतिष्यामि न संशयः ।
कल्पान् दुःखमनेकांश्च सहिष्यामि कथं परम् ॥ २०॥
मुद्गल उवाच ।
एवं ब्रुवन्तमानन्ददायकं मुनिसत्तमम् ।
प्रह्लादो वै गृत्समदं पप्रच्छ विनयान्वितः ॥ २१॥
प्रल्हाद उवाच ।
कीदृशं कुण्डरूपं च केन वा चरितं तपः ।
तत्र येन गणेशस्य स्थानं कुण्डात्मकं ह्यभूत् ॥ २२॥
ततो गृत्समदः प्राह प्रह्लादं सर्वमञ्जसा ।
आह्लादेन समायुक्तो गाणपत्यो महायशाः ॥ २३॥
गृत्समद उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
सूर्यस्य यमराजस्य संवादं पापनाशनम् ॥ २४॥
सूर्याय प्रददौ कन्यां विश्वकर्मा महाद्भुताम् ।
संज्ञां कर्ममयीं देवीं मायारूपां महाद्युतिः ॥ २५॥
तपसा शतवर्षैस्तां प्रसन्नां स चकार ह ।
ययाचे विश्वकर्मा तां पुत्री मे भव मानदे ॥ २६॥
साऽऽदिमाया वरात्तस्य पुत्री जाता सुरेश्वर ।
तां गृहीत्वा गृहं देव सविता प्रजगाम ह ॥ २७॥
तया रेमे महातेजाश्चिरकालं विभावसुः ।
तस्यां पुत्रौ च पुत्रीं वै जनयामास वीर्यतः ॥ २८॥
वैवस्वतो मनुर्ज्येष्ठो यमश्च यमुना नदी ।
सर्वे स्वधर्मशीलास्ते महाभागा बभूविरे ॥ २९॥
तीक्ष्णेन तेजसा तप्ता संज्ञा सूर्यस्य नित्यदा ।
निर्ममे मायया छायां स्वस्याकृतिधरां ततः ॥ ३०॥
तस्यै सर्वं निवेद्यैव पुत्रीं पुत्रौ गृहादिकम् ।
उवाच रविणा पृष्टा मा वद त्वं स्वचेष्टितम् ॥ ३१॥
तां छाया प्रत्युवाचेदं यदि मां धर्षयिष्यति ।
सविता चेन् महाभागे वदिष्यामि न संशयः ॥ ३२॥
गच्छ देवि यथा चित्ते निश्चयस्तादृशं कुरु ।
अहं सर्वं त्वदीयं यत् कार्यं संसाधयामि तत् ॥ ३३॥
ततः संज्ञा ययौ गेहं पितुस्तेन तिरस्कृता ।
भर्तारं त्यज मैवं त्वं स्वगृहं गच्छ मा कुरु ॥ ३४॥
ततः सा वनवासाय जगामाश्वस्वरूपिणी ।
भूत्वा तताप सा ध्यात्वा तपो गणपतिं प्रभुम् ॥ ३५॥
मालामन्त्रेण विघ्नेशं तोषयामास सा सती ।
पूर्णे वर्षशते तत्राजगाम गणनायकः ॥ ३६॥
तया सम्पूजितो देवः स्तुतश्चैव विशेषतः ।
वरं ददौ महाराज मनसीप्सितमादरात् ॥ ३७॥
देव्यर्यमा सौम्यतेजा भविष्यति न संशयः ।
त्वं मायाबन्धहीना वै मद्भक्तिनिरता भव ॥ ३८॥
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ।
कोपहीनः स्वयं भानुस्त्वामत्रागत्य नेष्यति ॥ ३९॥
एवमुक्त्वा गणाधीशोन्तर्धानं प्रचकार ह ।
सा तत्र गणपं देवं ध्यायन्ती संस्थिताऽभवत् ॥ ४०॥
छायायां सविता तद्वत् पुत्रौ पुत्रीं महायशाः ।
अथ सञ्जनयामास धर्मयुक्तान् महौजसः ॥ ४१॥
सावर्णिश्च मनुर्ज्येष्ठः सम्भूतश्च शनैश्चरः ।
तापी नाम्नी नदी कन्या त्रयस्ते प्रथिता भुवि ॥ ४२॥
छाया स्वपुत्रवात्सल्यात् संज्ञा पुत्रांश्च भेदतः ।
(Page खं. २ अ. ५९ पान १२४)
सततं न्यूनभावेनाऽवर्तयत् साधुसत्तम ॥ ४३॥
मनुश्च सेहे तं मातुरपराधं विचक्षणः ।
धर्मराजः स तां तत्र निषिषेध मुहुर्मुहुः ॥ ४४॥
सा स्वभावं स्वकीयं तं न तत्याज कदाचन ।
कुपितो धर्मराजस्तां पदा हन्तुं प्रचक्रमे ॥ ४५॥
तं चाविनयसंयुक्तं शशाप जननी सुतम् ।
पादस्ते क्लेद्यतां प्राप्य पतिष्यति धरातले ॥ ४६॥
धर्मः क्रोधं समागृह्य सवितारं जगाम ह ।
भयभीतश्च शापेन वृत्तान्तं तं जगाद सः ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते यमशापवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ २.५८
२.५९ कुण्डसम्भवचरित्रं नामैकोनषष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
यमस्य वचनं श्रुत्वा सविता विस्मितोऽभवत् ।
धर्मशीलस्य सङ्क्रोधो मातरि प्रबभूव ह ॥ १॥
माता स्वदेहजं पुत्रं भेदबुद्धया शशाप ह ।
अतः कारणकं किञ्चिद्विपरीतं भवेदिह ॥ २॥
ततो ज्ञानेन बुद्ध्वा स यमं भानुरुवाच ह ।
मातुः शापं कदा मिथ्या मया कर्तुं न शक्यते ॥ ३॥
अतो विनायकं देवं भज त्वं भक्तिभावतः ।
स चेत् प्रसन्नतां यातस्तदा सुखमवाप्स्यसि ॥ ४॥
एवमुक्त्वार्यमा पुत्रं मन्त्रं पञ्चाक्षरं ददौ ।
विधियुक्तं गणेशस्य स ययौ वनमादरात् ॥ ५॥
सविताऽसौ जगामेदं छायां वचनमब्रवीत् ।
संज्ञा कुत्र गता देवि वद नोचेच्छपाम्यहम् ॥ ६॥
सा भीता सत्यमेवेदं वचनं तं जगाद ह ।
पितुर्गेहं गता संज्ञाऽस्थाप्य मां त्वद्गृहे प्रभो ॥ ७॥
सत्यभाषणयोगेन तुष्टस्तां न शशाप सः ।
जगाम विश्वकर्माणं क्रोधयुक्तो दिवाकरः ॥ ८॥
तं प्रणम्य स पप्रच्छ वृत्तान्तं रक्तलोचनः ।
संज्ञाया विश्वकर्मा तं सान्त्वयामास युक्तिभिः ॥ ९॥
विश्वकर्मोवाच ।
मया ते गृहमेवं सा प्रेषिता नागता यदा ।
मायया गुप्तरूपेण कुत्र वै संस्थिता भवेत् ॥ १०॥
त्वदीयतेजसा तप्ता गता शुष्कशरीरका ।
अतस्त्वं तेजसा सौम्यो भव तस्यां रमस्व च ॥ ११॥
ततः सोऽपि जगादेदं वचनं तं विभावसुः ।
त्वं विश्वकर्मतां प्राप्तोऽतो मां सौम्यं कुरु प्रभो ॥ १२॥
ततस्तेन स्वयन्त्रे संस्थाप्य तेजो हृतं महत् ।
तीक्ष्णं तेन सुसौम्यश्च सूर्यस्तां प्रजगाम ह ॥ १३॥
अश्विनी रूपभावेन स्थितां वीक्ष्य वनेषु सः ।
अश्वो भूत्वा प्रयत्नेन धर्तुं तामुद्यतोऽभवत् ॥ १४॥
साऽपरं पुरुषं ज्ञात्वा गणेशं मनसाऽस्मरत् ।
ततः सूर्येण वीर्यं स्वं नसि निक्षिप्तमादरात् ॥ १५॥
ततस्तया रवेर्वीर्यं स्वश्वासेन बहिर्बलात् ।
निष्कासितं परस्यैव ज्ञात्वा सुविमनास्त्वभूत् ॥ १६॥
(Page खं. २ अ. ५९ पान १२५)
एवं दृढाग्रहं दृष्ट्वा सविता तोषवानभूत् ।
स्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ ॥ १७॥
संज्ञया सवितुर्वीर्यं त्यक्तं तस्मात् समुद्भवौ ।
अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यो बभूवतुः ॥ १८॥
गणेशभक्तिभावेन संज्ञा सुखयुताऽभवत् ।
तमेव सततं देवी भजतेऽनन्यमानसा ॥ १९॥
यमोऽपि च तपस्तेपे दारुणं भावसंयुतः ।
निराहारतया देवं ध्यात्वा जपपरोऽभवत् ॥ २०॥
संवत्सरसहस्रेण गणेशो वरदोऽभवत् ।
तं दृष्ट्वा सहसोत्थायाऽऽपूज्य तुष्टाव भानुजः ॥ २१॥
यम उवाच ।
नमो गणपते तुभ्यं नानामायाविलासिने ।
मायाधारकवेषेण स्थिताय तु नमो नमः ॥ २२॥
मायामोहविहीनाय साक्षिणे जगदादये ।
ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥ २३॥
अनन्ताय नमस्तुभ्यं हेरम्बाय च ढुण्ढये ।
विघ्नेशाय त्रिनेत्राय लम्बोदर नमोऽस्तु ते ॥ २४॥
गजाननाय देवाय देवानां पतये नमः ।
देवानां गर्वहन्त्रे च रक्षसां मर्दिने नमः ॥ २५॥
भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदाय ते ।
अनन्ताननधारायानन्तहस्ताय ते नमः ॥ २६॥
अनन्तशिरसे तुभ्यं ब्रह्मभूताय वेधसे ।
शिवाय शिववन्द्याय शिवदाय नमो नमः ॥ २७॥
अखण्डविभवायैव मूषकध्वजिने नमः ।
मूषकश्रेष्ठवाहस्थायैकदन्ताय ते नमः ॥ २८॥
आदिमध्यान्तरूपाय सर्वाकाराय ते नमः ।
पाशाङ्कुशधरायैव सर्वभोक्त्रे नमो नमः ॥ २९॥
त्वां स्तोतुं कः समर्थः स्याद्योगाकारस्वरूपिणम् ।
अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥ ३०॥
धन्योऽहं सर्वभावैश्च येन दृष्टो गणेश्वरः ।
अधुना रक्ष मां भक्तं शरणागतवत्सल ॥ ३१॥
एवं स्तुवन्तमत्यन्तमुवाच गणनायकः ।
यमं परमभक्तं च सूर्यपुत्रं यशस्विनम् ॥ ३२॥
गणेश उवाच ।
वरं वृणु महाभाग यम त्वं मनसीप्सितम् ।
दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥ ३३॥
ततस्तं भानुजस्तत्रोवाच देहि गजानन ।
भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥ ३४॥
अन्यं वरं च मे देहि मातृशापहरं परम् ।
यद्यदिच्छामि देवेश तत्तत् सिध्यतु विघ्नप ॥ ३५॥
एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् ।
मदीया ते महाभक्तिर्भविष्यति न संशयः ॥ ३६॥
मातृशापस्य योगेन किञ्चिद् दुःखमवाप्स्यसि ।
क्लेद्यपादाच्च मांसं ते कीटाः सङ्गृह्य सत्वरम् ॥ ३७॥
पतिष्यन्ति पृथिव्यां ते त्वं सुपादो भविष्यसि ।
यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥ ३८॥
दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि ।
धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥ ३९॥
स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो मतः ।
जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥ ४०॥
त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः ।
त्वया स्तोत्रमिदं पुण्यं कृतं तच्च सुसिद्धिदम् ॥ ४१॥
पठते शृण्वते पूर्णं भविष्यति न संशयः ।
यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो यम ॥ ४२॥
(Page खं. २ अ. ६० पान १२६)
हरामि नात्र सन्देहोंऽते स्वानन्दं ददाम्यहम् ।
त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥ ४३॥
गणेशतीर्थसंज्ञं तद्भविष्यति न संशयः ।
अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥ ४४॥
सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति ।
एवमुक्त्वान्तर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥ ४५॥
संस्थाप्य मूर्तिमचलां हेरम्बस्य महाद्विजैः ।
कुण्डं चकार भावेन गणेशपदलाञ्छितम् ॥ ४६॥
हेरम्बगणपो नाम्ना तत्र ख्यातो बभूव ह ।
यमः शापविहीनश्च बभूव स दिशोधिपः ॥ ४७॥
सदा गणपतिं चित्तेऽध्यायद्वै रविनन्दनः ।
समः सर्वत्र सञ्जातः सर्वमान्यो महायशाः ॥ ४८॥
एतत्ते कथितं दिव्यं चरित्रं कुण्डसम्भवम् ।
यमेन रचितं पुण्यं सर्वसिद्धकरं महत् ॥ ४९॥
एतद्यमस्य माहात्म्यं यः शृणोति नरोत्तमः ।
पठेद्वा शुभदं तस्मै सर्वदं प्रभविष्यति ॥ ५०॥
अधुना शृणु दैत्येन्द्र प्रकृतं यत् कथानकम् ।
भृशुण्डिनश्च पापघ्नं वाञ्छितार्थप्रदं परम् ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते कुण्डसम्भवचरित्रं नामैकोनषष्टितमोऽध्यायः ॥ २.५९
२.६० भ्रूशूण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
कैवर्तकस्ततो नामा महादुष्टो ददर्श ह ।
मुद्गलं मुनिशार्दूलं स्थितं तत्र महावने ॥ १॥
दृष्ट्वा मुनिवरं हृष्टः पापचेता बभूव सः ।
खड्गमुद्यम्य तं हन्तुं ययौ नामा दृढाग्रहः ॥ २॥
यावत् समीपगो भूत्वा हन्तुं तमुपचक्रमे ।
तावत्तस्य करात् खड्गः पपात धरणीतले ॥ ३॥
शस्त्राण्यन्यानि सर्वाणि दृढबद्धानि सर्वतः ।
पेतुर्धरातले तानि तेनाऽसौ विस्मितोऽभवत् ॥ ४॥
अपश्यन्मुद्गलं दुष्टो वदन्नेवं किमद्भुतम् ।
तेन निर्मलचित्तोऽसौ प्रबभूवाऽतिदारुणः ॥ ५॥
तं प्रणम्य महादुष्ट उवाच प्राञ्जलिर्मुनिम् ।
योगिदर्शनमात्रेण यथा साधुस्तथा वचः ॥ ६॥
नामोवाच ।
आजन्मनोऽद्यपर्यन्तं बुद्धिर्मे पापनिश्चया ।
तया कृतानि पापानि तेषां सङ्ख्या न विद्यते ॥ ७॥
अधुना कुण्डजेनैव किञ्चित् स्नानेन चाञ्जसा ।
जाता निर्मलभावा सा पापाद्वै सम्बिभेति च ॥ ८॥
तवदर्शनमात्रेण सन्तोषे संस्थिता मुने ।
मुक्तिमिच्छति मे बुद्धिर्महापापिन आदरात् ॥ ९॥
शस्त्राणि गलितान्येव न ग्रहीष्यामि तानि वै ।
उपदेशं वद प्राज्ञ संसारोत्तारणात्मकम् ॥ १०॥
तस्य तद्वचनं श्रुत्वा मुद्गलस्तमुवाच ह ।
गच्छ त्वं स्वगृहं तात स्वशस्त्राणि प्रगृह्य च ॥ ११॥
ततस्तं मुनिशार्दूलं जगादाऽसौ महाखलः ।
कैवर्तकः प्रणम्याऽऽदौ रुदन्नश्रुजलाविलः ॥ १२॥
नामोवाच ।
शिष्यं मां कुरु योगीन्द्र नोचेद् देहं त्यजाम्यहम् ।
(Page खं. २ अ. ६० पान १२७)
सन्निधौ ते महाभाग नेच्छामि विषये सुखम् ॥ १३॥
इति तस्य वचः श्रुत्वा शरणागतवत्सलः ।
गणेशाय नमो मन्त्रं योगी तस्मै ददौ स्वयम् ॥ १४॥
स्वयष्टिं तत्र योगीन्द्रः समारोप्य जगाद तम् ।
शुष्कामत्रैव तिष्ठ त्वं जपन्मन्त्रं महाखल ॥ १५॥
यावद्यष्टिश्च नामान् मे साङ्कुरा प्रभविष्यति ।
तावत्त्वं जप तं मन्त्रं तदा शुद्धो भविष्यसि ॥ १६॥
न फलं न जलं मूलं पर्णमन्नादिकं कदा ।
भक्षस्व वायुमात्रं त्वं तदा शुद्धो भविष्यसि ॥ १७॥
एवमुक्त्वा महादुष्टं मुद्गलो गाणपाग्रणीः ।
अन्तर्धानं चकारैव सोऽपि तादृशमाचरत् ॥ १८॥
गते वर्षसहस्रे तु वल्मीकोऽल्पस्तदङ्गके ।
समुत्पन्नस्तृणौघाद्यैः संवृतः सर्वतो बभौ ॥ १९॥
तथापि नाममन्त्रं स नामाऽजापीच्च भावतः ।
नाममन्त्रप्रभावेण साङ्कुरा यष्टिराबभौ ॥ २०॥
पापं सर्वं लयं प्राप्तं तस्य मन्त्रप्रभावतः ।
पुण्यराशिः समुत्पन्नोऽपाररूपो महासुर ॥ २१॥
अतिपुण्येन भक्त्या च शुण्डा तस्य विनिःसृता ।
भ्रूमध्यात्तेन सञ्जातो गजानन इवाऽपरः ॥ २२॥
ततस्तत्र समायातो मुद्गलश्च महायशाः ।
शिष्यं कैवर्तकं दैवात् सोऽस्मरत् साधुसत्तमः ॥ २३॥
ततो यष्टिं ददर्शाऽसौ साङ्कुरा विस्मितोऽभवत् ।
अहो दुष्टमतिर्नामा तपसे संस्थितोऽभवत् ॥ २४॥
चञ्चलं भावमुत्सृज्य देहशोषणतत्परः ।
कुत्राऽस्ति स मया शिष्यो दृश्यते न महातपाः ॥ २५॥
ततो वल्मीकरूपं स चाऽपश्यत्तत्र मुद्गलः ।
कैवर्तकस्य तस्यैव नेत्रे दृष्टे ततः किल ॥ २६॥
ततो यष्ट्या स वल्मीकमुत्खाय च जलेन तम् ।
सिषेच तेन नामाऽपि सावधानो बभूव ह ॥ २७॥
गुरुं दृष्ट्वा समुत्तस्थौ तं प्रणम्य पुरःस्थितः ।
ततः सम्मान्य योगीशो धृत्वाऽऽलिङ्ग्य जगाद तम् ॥ २८॥
वल्मीकात्त्वं समुत्पन्नः पुत्रो मे नात्र संशयः ।
भव ब्राह्मणमुख्यश्च भृशुण्डी संज्ञयाऽधुना ॥ २९॥
सिद्धोऽसि नाममन्त्रेण सर्ववन्द्यो भविष्यसि ।
तव दर्शनमात्रेण नरा मुक्तिमवाप्नुयुः ॥ ३०॥
लक्षकल्पमयं कालं जीवं स्थास्यसि भो मुने ।
कल्पे कल्पे च शिष्यास्ते भविष्यन्ति शिवादयः ॥ ३१॥
एवमुक्त्वा गणेशस्य ददौ तस्मै महामनुम् ।
एकाक्षरं विधानेन ततोंऽतर्धानमाययौ ॥ ३२॥
सोऽपि तत्र पुनस्तेन तताप तप उत्तमम् ।
वर्षमात्रेण तस्याऽग्रे प्रत्यक्षोऽभूद्गजाननः ॥ ३३॥
उवाच तं महाभक्तं किं वाञ्छसि वदस्व मे ।
ततस्तं स्तोतुमारेभे स्तोत्रैः स्वानुभवात्मकैः ॥ ३४॥
भृशुण्ड्युवाच ।
नमो नमस्ते गणनाथ ढुण्ढे सदा सुशान्तिप्रद शान्तिमूर्ते ।
अपारयोगेन च योगिनस्त्वां भजन्ति भावेन नमो नमस्ते ॥ ३५॥
प्रजापतीनां त्वमथो विधाता सुपालकानां गणनाथ विष्णुः ।
हरोऽसि संहारकरेषु देव कलांशमात्रेण नमो नमस्ते ॥ ३६॥
क्रियात्मकानां जगदम्बिका त्वं प्रकाशकानां रविरेव ढुण्ढे ।
यत्नप्रदानां च गुणेश नामा कलांशमात्रेण नमो नमस्ते ॥ ३७॥
(Page खं. २ अ. ६० पान १२८)
शरीरभाजां त्वमथासि बिन्दुः शरीरिणां सोऽहमथो विभासि ।
सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥ ३८॥
विदेहकानामसि साङ्ख्यरूपः समाधिदानां च निजात्मकस्त्वम् ।
निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥ ३९॥
गणास्त एते गणनाथ नाम्ना त्वमेव वेदादिषु योगकीर्ते ।
सदा सुशान्तिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥ ४०॥
गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री ।
तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥ ४१॥
गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि ।
तयोरभेदे गणनाथनामा योगेश भक्तेश नमो नमस्ते ॥ ४२॥
किं वदामि गणाधीश महिमानं महाद्भुतम् ।
यत्र वेदादयो भ्रान्ता इव जाताः प्रवर्णने ॥ ४३॥
पतितानामहं श्रेष्ठः पतितोत्तम एव च ।
तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ ४४॥
किञ्चित् संस्कारयोगेन विश्वामित्रादयः प्रभो ।
जाता वै ब्राह्मणत्वस्य ब्राह्मणा निर्मलाः पुरा ॥ ४५॥
अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः ।
तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ ४६॥
एवमुक्त्वा नतं विप्रं प्राञ्जलिं पुरतः स्थितम् ।
भक्तिभावेन सन्तुष्टस्तमुवाच गजाननः ॥ ४७॥
गणेश उवाच ।
वरान् वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि ।
त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ ४८॥
तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः ।
भृशुण्डी गद्गदोक्त्या च तं जगाद गजाननम् ॥ ४९॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
त्वदीयां भक्तिमुग्रां मे देहि सम्पूर्णभावतः ॥ ५०॥
तथेति तमुवाचाऽथ गणेशो भक्तवत्सलः ।
क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥ ५१॥
अमलाश्रमकं नाम्ना जनानां सेविनां सदा ।
अज्ञानजं मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥ ५२॥
एवमुक्त्वांऽतर्दधे च गणेशो देवनायकः ।
भृशुण्डी भक्तिभावेन भेजे वै तं निरन्तरम् ॥ ५३॥
नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः ।
तीर्थं जज्ञौ स योगीन्द्रो गणेशानान्न संशयः ॥ ५४॥
ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा ।
तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥ ५५॥
शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः ।
क्षेत्रसंन्यासभावेन तेऽसेवन्त महामुनिम् ॥ ५६॥
भृशुण्डिनस्तत्र तीर्थं गणेशस्य च सुन्दरम् ।
भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जन्तवे ॥ ५७॥
तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः ।
शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥ ५८॥
कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः ।
प्रशंसन्तो मुनिं सर्वे साक्षाच्छुण्डाधरं प्रभुम् ॥ ५९॥
इन्द्रादयस्तमेवं च दर्शनार्थं समागताः ।
कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥ ६०॥
ब्रह्मविष्णुमहेशाद्या ईश्वरास्ते महामुनेः ।
(Page खं. २ अ. ६१ पान १२९)
नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥ ६१॥
एवं प्रभावयुक्तः स भृशुण्डी कथितो मया ।
चाण्डालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥ ६२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते भ्रूशूण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः ॥ २.६०
२.६१ भृशुण्डिचरितं नामैकषष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
नित्यं स मानसीं पूजामकरोत् ब्राह्मणोत्तमः ।
बाह्यां चैव महाभागो गणेशस्य यथाविधि ॥ १॥
मानसी या त्वया पृष्टा तां शृणुष्व महामते ।
यथा स्वल्पेन कालेन गाणपत्यो नरो भवेत् ॥ २॥
चतुर्धा मानसी पूजा ज्ञातव्या चासुरोत्तम ।
साधारा द्विविधा प्रोक्ता निराधारा तथा द्विधा ॥ ३॥
हृदि मूर्तिं गणेशस्य ध्यात्वा तत्रोपचारकैः ।
मानसैः पूजयेद्देवं साधारा सा मता बुधैः ॥ ४॥
अन्या ह्येकाग्रचित्तेन सर्वत्रैकात्मभावना ।
तया यत्तस्य भोगादि कृतं तत् पूजनं भवेत् ॥ ५॥
तत्रैकात्मस्वरूपश्चाधारः प्राप्तो जनेन वै ।
तेन साधाररूपा सा प्रोक्ता पूजा मनीषिभिः ॥ ६॥
निरोधचित्तवृत्त्या यज्जनैः सर्वात्मवर्जितम् ।
मनोवाणीमयं सर्वमुपचारेण चार्पितम् ॥ ७॥
तदेव पूजनं तेन कृतं प्रह्लाद निश्चितम् ।
निराधारा मता पूजा गणेशस्य महात्मनः ॥ ८॥
चित्तस्य पञ्च भूमीनां लयं कृत्वा समा स्थितिः ।
तत्र शान्तिस्वरूपं यद्योगाकारेण दृश्यते ॥ ९॥
योगे विधिनिषेधादि सर्वं तेनोपचारकैः ।
समर्पितं गणेशाय तदेवं पूजनं भवेत् ॥ १०॥
शान्तियोगे निराधारा पूजा प्रोक्ता च योगिभिः ।
एवं मानसजं दैत्य चतुर्धा पूजनं भवेत् ॥ ११॥
एवं भृशुण्डिना तेन कृता पूजा विशेषतः ।
भक्तिभावेन काश्यां सा प्राप्ताऽभूद्गणपाय च ॥ १२॥
इदं भृशुण्डिनश्चित्रं चरित्रं च नरोत्तमः ।
यः शृणोति श्रावयति स वै स्वानन्दगो भवेत् ॥ १३॥
यं यमिच्छति तं तं वै लभते नाऽत्र संशयः ।
महापुण्यतमं श्रेष्ठं कथितं ते कथानकम् ॥ १४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते भृशुण्डिचरितं नामैकषष्टितमोऽध्यायः ॥ २.६१
(Page खं. २ अ. ६२ पान १३०)
२.६२ विनायकचरितं नाम द्विषष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
ततो विनायकस्तत्र काश्यां बालगणैः सह ।
चिक्रीड प्राकृतो भूत्वा भक्तानन्दविवर्धनः ॥ १॥
ततो गणकरूपेण दैत्यो हेमासुरो ययौ ।
तं मायया गणेशानो मारयामास दैत्यप ॥ २॥
ततः कूपासुरस्तत्र कन्दरेण सहागतः ।
परस्परविभेदेन तौ हतौ गणपेन च ॥ ३॥
ततोंऽभोसुरनामा यः प्रतापी च तथांऽधकः ।
तुङ्गासुरस्त्रयः प्राप्ता ब्रह्मलब्धवराः खलाः ॥ ४॥
खगरूपगणेशेन हता मुक्तिं प्रलेभिरे ।
विनायकस्य हस्तस्य स्पर्शनादिप्रभावतः ॥ ५॥
तेषां माता समायाता भ्रमरी नाम राक्षसी ।
रूपं कृत्वा ह्यदित्याश्च सा हता तेन दैत्यप ॥ ६॥
परीक्ष्य विस्मितास्तत्र मानवा भोजनार्थिनः ।
निमन्त्र्य तं ययुः सर्वे काशिराजसमन्विताः ॥ ७॥
एकस्मिन् दिवसे तत्र गेहे गेहे महोत्सवः ।
भोजनार्थं काश्यपस्य सामग्रीं चक्रिरे जनाः ॥ ८॥
तत्र शुक्लो महाभक्तः काशीप्रान्तनिवासकः ।
शुक्लवृत्याऽचरद्भिक्षां प्रभोः शुश्राव चेष्टितम् ॥ ९॥
शुक्लो दारिद्र्यसंयुक्तः सन्तोषी भजने रतः ।
विद्रुमा तस्य पत्नी सा पतिभक्तियुताऽभवत् ॥ १०॥
सर्वस्वदानभावेन चक्रतुस्तौ महोत्सवम् ।
भोजनार्थं काश्यपस्य मार्जितं स्वाङ्गणं तया ॥ ११॥
दर्भान् बद्ध्वा महायष्ट्यां ध्वजं चक्रे महामुनिः ।
सर्वधान्यस्य पिष्टेन चक्रे वै भास्करीं सती ॥ १२॥
तन्दुलान्नं जलैर्युक्तं चक्रे परमहर्षिता ।
प्रयत्नेनाल्पतैलं च शुक्ल आनयदादरात् ॥ १३॥
गृहे पलानि शुक्लस्य त्रीणि सञ्चयमानतः ।
तन्दुलानां हि पिष्टस्याऽभवन् पञ्च पलानि च ॥ १४॥
काश्यपस्य च भक्ष्यार्थं पाकं चक्रे च भावतः ।
शुष्कामलकखण्डं सोऽस्थापयन् मुखशुद्धये ॥ १५॥
नैवेद्यं वैश्वदेवं च कृत्वा ध्यानपरोऽभवत् ।
विनायकस्य शुक्लोऽपि महाभक्तिपरायणः ॥ १६॥
एतस्मिन्नन्तरे तत्र सनकश्च सनन्दनः ।
दर्शनार्थं समायातौ काश्यपस्य महात्मनः ॥ १७॥
राज्ञा सम्मानितौ विप्रौ दृष्ट्वा बालसमन्वितम् ।
विनायकं तथा तौ निर्भर्त्स्य गङ्गां प्रजग्मतुः ॥ १८॥
विनायको ययौ बालैः शुक्लस्याऽऽदौ गृहं प्रति ।
कुत्सितान्नं बभक्षैव ददौ सम्पत्तिमुत्तमाम् ॥ १९॥
ततो विनायको देवोऽनन्तरूपधरः स्वयम् ।
स काशिराजतां प्राप्य गेहे गेहे बभक्ष सः ॥ २०॥
एतस्मिन् समये तौ तं सनकश्च सनन्दनः ।
भिक्षार्थं वै ददृशतुः पर्यटन्तौ च काश्यपम् ॥ २१॥
गृहे गृहे च दृष्ट्वा तं भ्रष्टाचारयुतं मुनी ।
त्यक्त्वा काशीं क्षुधायुक्तौ जग्मतुर्बहिरेव तौ ॥ २२॥
ततो विनायकेनैव सर्वं रूपं प्रदर्शितम् ।
पुनस्तौ शरणं भ्रान्तावेव तं जग्मतुर्हृदा ॥ २३॥
ततो गाणेशकं ज्ञानं दत्तं तेन महात्मना ।
गाणपत्यस्वभावेन चेरतुस्तौ गतौ ततः ॥ २४॥
काशिराजेन तत्सर्वं न ज्ञातं चेष्टितं महत् ।
भ्रान्तो राजा स तं नेतुं ययौ शुक्लगृहं मुदा ॥ २५॥
शिबिकायां गणेशं संस्थापयित्वा ययौ नृपः ।
स्वगृहं तत्र दैत्यौ द्वौ विद्युद्रूपौ प्रपेततुः ॥ २६॥
(Page खं. २ अ. ६२ पान १३१)
विनायकेन तौ त्यक्तौ शिखां सन्धृत्य दैत्यपौ ।
प्रजग्मतुः स्ववृत्तान्तं कथयित्वा नरान्तकम् ॥ २७॥
राजाऽपि स्वगृहं प्राप ततो दैत्यः समाययौ ।
श्रुत्वा वृत्तान्तमत्यन्तं ताभ्यां सर्वं नरान्तकः ॥ २८॥
गुल्मस्था नगरद्वारि काशिराजं ययुर्जनाः ।
अवदन् दैत्यवृत्तान्तं नरान्तक उपागतः ॥ २९॥
सन्नद्धः सर्वसैन्येन काशिराजः स तं ययौ ।
युयुधे तेन दैत्येन धृतो राजा क्षणेन वै ॥ ३०॥
ततो विनायकः क्रुद्धः सिद्धिमाज्ञापयत् प्रभुः ।
तया सृष्टं महासैन्यं कालरूपं च तद्बभौ ॥ ३१॥
तत्रैको नायकः क्रूरः प्रणम्य गणनायकम् ।
ययौ तस्य महासेनां भक्षयन् पश्यतः क्षणात् ॥ ३२॥
धृत्वा नरान्तकं सोऽपि जगाम च विनायकम् ।
विनायकेन सैन्येशो मुखे लीनः कृतः स्वके ॥ ३३॥
तस्योदरे गणेशेन रक्षितः काशिपालकः ।
तेन सार्धं गणेशस्य देहे लीनोऽभवन्नृपः ॥ ३४॥
तं नृपं जठरे देवो दर्शयित्वा जगत् पुनः ।
रोममार्गेण पुत्राभ्यां बहिश्चक्रे स विघ्नपः ॥ ३५॥
प्रधानाभ्यां च पुत्राभ्यां निःसृतं नृपसत्तमम् ।
विस्मितं मायया तं स मोहितं प्रचकार ह ॥ ३६॥
तत् दृष्ट्वा दैत्यराजः स विस्मितो तर्कयत् स्वयम् ।
अयं ब्रह्ममयो देवः कश्यपात्मज एव च ॥ ३७॥
अस्य हस्तेन मे मृत्युर्भविता चेत् सुमङ्गलम् ।
ब्रह्मभूयकरं तस्माद्युद्ध्येयं हर्षसंयुतः ॥ ३८॥
नरान्तकेन कृत्वा च युद्धं तेन महत्ततः ।
मोहयित्वा तं जघान विराड्रूपेण विघ्नपः ॥ ३९॥
ममार दैत्यराजस्तु मस्तकस्तस्य वै गृहे ।
पतितस्तं विलोक्यैव शुशोच जननी पिता ॥ ४०॥
शिरो धृत्वा गतौ स्वर्गे दृष्ट्वा देवान्तको हि तत् ।
सोऽपि क्रोधसमायुक्तो ययौ काश्यां स दैत्यपः ॥ ४१॥
कृत्वा युद्धं महाघोरं तेन सार्धं विनायकः ।
गजाननस्वरूपं च दर्शयामास शत्रवे ॥ ४२॥
दृष्ट्वा दैत्येन दन्तस्तु भग्नो वामोऽस्य तत्क्षणात् ।
दैत्येन्द्रं तेन दन्तेन मारयामास विघ्नपः ॥ ४३॥
ततो हर्षयुतैर्देवः स्तुतो देवर्षिभिः प्रभुः ।
प्रविवेश नृपेणाऽसौ काशीं भक्तपरायणः ॥ ४४॥
राजपुत्रस्य देवेशो विवाहं च चकार ह ।
राज्ञा सम्पूजितो ढुण्ढिः स्वाश्रमं गन्तुमुत्सकः ॥ ४५॥
ततो लोका महा भक्तास्त्यक्त्वा गेहादिकं ययुः ।
तेभ्यो ज्ञानं ददौ देवः शान्तिं प्राप्ता गृहान् ययुः ॥ ४६॥
राज्ञा रथेन शीघ्रं वै स्वाश्रमं स जगाम ह ।
काशिराजं च काश्यामप्रेषयद्गणनायकः ॥ ४७॥
लोकैर्नृपो ढुण्ढिराजं स्थापयामास वै पुरे ।
नित्यं तं पूजयामास सर्वैर्भक्तिसमन्वितः ॥ ४८॥
अदितिं कश्यपं देवस्तौ प्रोवाच विनायकः ।
भूभारहरणार्थं च जातोऽहं युवयोः सुतः ॥ ४९॥
तच्च सर्वं कृतं कर्माधुना यामि निजं पुरम् ।
एवमुक्त्वा ददौ ताभ्यां ज्ञानं सोंऽतर्हितोऽभवत् ॥ ५०॥
ततस्ताभ्यां गणेशस्य मूर्तिः संस्थापिता प्रभोः ।
विनायकेति नाम्ना सा विख्याता प्रबभूव ह ॥ ५१॥
(Page खं. २ अ. ६३ पान १३२)
प्रह्लाद काशिराजोऽपि मुद्गलस्योपदेशतः ।
सदेहः स ययौ राजा स्वानन्दे गणनायकम् ॥ ५२॥
एतत्ते कथितं सर्वं विनायकचरित्रकम् ।
सङ्क्षेपेण महाभाग एकदन्तावतारजम् ॥ ५३॥
शृणुयाद्यः पठेद्वाऽपि स लभेदीप्सितं फलम् ।
अन्ते स्वानन्दवासेन ब्रह्मभूतो भविष्यति ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते विनायकचरितं नाम द्विषष्टितमोऽध्यायः ॥ २.६२
२.६३ शनिसमागमो नाम त्रिषष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
शृणु पुष्टिपतेः ख्यातं सर्वपापहरं परम् ।
भुक्तिमुक्तिप्रदं चैव गणेशस्य महात्मनः ॥ १॥
शकुनेश्च महामानी पुत्रोऽभूद् दुर्मतिः पुरा ।
दैत्यराजस्य तेजस्वी महापर्वतसन्निभः ॥ २॥
तताप तप उग्रं स शक्तिं ध्यात्वा महासुरः ।
नवार्णेन सुमन्त्रेण शुक्रशिष्यः प्रतापवान् ॥ ३॥
सहस्रवर्षे प्रगते शक्तिः सा वरदाऽभवत् ।
आययौ भक्तमुख्यं साऽबोधयत्तं वरं वृणु ॥ ४॥
तेनाऽपि पूजिता देवी माहात्म्येन च संयुता ।
शक्तेस्तेन प्रसन्ना सा तस्मै सर्वाऽभयं ददौ ॥ ५॥
त्रैलोक्यराजमुग्रं च सङ्ग्रामे जयमादरात् ।
आरोग्यं च स्वलोके सा प्रययौ सिंहवाहिनी ॥ ६॥
तत्र तेन क्रमेणैव जितं सर्वं चराचरम् ।
विष्णुमुख्याः सुराः सर्वे वने वासं प्रचक्रिरे ॥ ७॥
शक्तिं शिवेन संयुक्तां पीडयित्वा महाखलः ।
पत्नीं कर्तुं समुद्युक्तो देवीं दैत्याधिपोऽभवत् ॥ ८॥
शक्तिर्लोकं परित्यज्य शिवेन सहिता ययौ ।
अन्तर्धाय स्वमात्मानं वने वासं चकार ह ॥ ९॥
गते कियति काले तौ नारदस्तत्र चागतः ।
जगाद विघ्नराजस्य ताभ्यां चोपासनां शुभाम् ॥ १०॥
पुत्रभावेन देवेशो भविष्यति गणेश्वरः ।
आराधितो न सन्देहो दुर्मतिं स हनिष्यति ॥ ११॥
एवमुक्त्वा गते चैव नारदे शक्तिशङ्करौ ।
तेपाते तप उग्रं तौ षोडशाक्षरमानतः ॥ १२॥
मन्त्रं षोडशवर्णाख्यं जेपतुर्गणपस्य च ।
एवं वर्षशते पूर्णे गणेशो वरदोऽभवत् ॥ १३॥
आगतं गणपं दृष्ट्वा नेमतुश्चरणाम्बुजे ।
गणाधीशं तुष्टुवतः शिवशक्ती कृताञ्जली ॥ १४॥
शक्तिशिवावूचतुः ।
नमस्ते गणनाथाय गणानां पतये नमः ।
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १५॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ १६॥
वरदाभयहस्ताय नमः परशुधारिणे ।
अनामयाय सर्वाय सर्वपूज्याय ते नमः ॥ १७॥
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ।
ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ॥ १८॥
(Page खं. २ अ. ६३ पान १३३)
ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः ।
मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ॥ १९॥
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ।
विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ॥ २०॥
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ।
किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप ॥ २१॥
तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः ।
तावुत्थाप्य गणाधीश उवाचाऽसौ महेश्वरौ ॥ २२॥
गणेश उवाच ।
भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ।
पठते शृण्वते चैव भविष्यति सुखप्रदम् ॥ २३॥
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ।
धनधान्यादिकं सर्वं लभते तेन निश्चितम् ॥ २४॥
वरं च वदतं देवौ प्रसन्नोऽहं ददामि तम् ।
भवतोर्भक्तिभावेन विभुः स्तोत्रेण तोषितः ॥ २५॥
शक्तिशिवावूचतुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा नौ पुत्रतां याहि कृतकृत्यौ तया विभो ॥ २६॥
भक्तिं देहि दृढां देव त्वदीये पादपङ्कजे ।
दुर्मतिं जहि विघ्नेश त्रैलोक्यं च सुखीकुरु ॥ २७॥
गृत्समद उवाच ।
तयोर्वचनमाकर्ण्योमित्युक्त्वांऽतर्दधे विभुः ।
शिवौ सन्तोषयुक्तौ च तत्र सञ्चेरतुर्भयात् ॥ २८॥
एकदा पार्वती शम्भुर्वैशाखस्नानमादरात् ।
चक्रतुर्गणनाथस्य प्रीतये हिमपर्वते ॥ २९॥
भागीरथीजले नित्यं स्नात्वाऽपूजयतां च वै ।
दूर्वादिभिर्मृन्मयं तौ गणनाथं सुभक्तितः ॥ ३०॥
वैशाखपूर्णिमायां तावुषःकाले तु भक्तितः ।
स्नात्वा मूर्तिं शिवौ कृत्वा ध्यानं चक्रतुरादरात् ॥ ३१॥
ध्यात्वा हृद्यावाहयतां गणाधीशं तमञ्जसा ।
मूर्तौ सा ह्यचला मूर्तिः सचैतन्या बभूव ह ॥ ३२॥
चतुर्भुजधरस्तत्र गणराजो बभौ स्वयम् ।
उवाच पितरौ देवः पुत्रोऽहं वां न संशयः ॥ ३३॥
वरदानप्रभावेण वैशाखस्नानजेन च ।
तपसा पुत्ररूपं मां रक्षतं पितरौ सदा ॥ ३४॥
ततः प्रणम्य तं देवः शङ्करः शक्तिसंयुतः ।
तुष्टावाथर्ववेदोक्तोपनिषद्भिर्महायशाः ॥ ३५॥
ततो गणपतिः प्रीत्या मोहयामास मायया ।
शिवं सशक्तिकं तत्र पुत्रभावप्रकाशनात् ॥ ३६॥
ततस्तस्य स संस्कारान् कारयामास वै द्विजैः ।
शिवश्च जातकर्मादीन् हर्षयुक्तेन चेतसा ॥ ३७॥
ततो लक्ष्मीसुता पुष्टिस्तपसा च बभूव ह ।
तां ददौ स गणेशाय विष्णुः परमहर्षितः ॥ ३८॥
एकदा तत्र संयातो ग्रहोत्तमशनैश्चरः ।
दर्शनार्थं गणेशस्य सस्त्रीकस्य महामतिः ॥ ३९॥
प्रणनाम स सस्त्रीकं गणेशं दैत्यनायक ।
जगाद भक्तिसंयुक्तो वचनं सर्वसन्निधौ ॥ ४०॥
धन्यं मे जन्म विद्या च तपो विद्यादिकं महत् ।
येन ते दर्शनं प्राप्तं सस्त्रीकस्य गजानन ॥ ४१॥
त्वं साक्षाद्योगरूपश्च पुष्टिः पोषणकारिणी ।
विश्वम्भरा महाशक्तिस्तस्माद्वां वै नमो नमः ॥ ४२॥
(Page खं. २ अ. ६४ पान १३४)
एतस्मिन्नन्तरे तत्र शक्तिः स्वयमुपागता ।
प्रणतं रविपुत्रं तमुवाच प्रेमनिर्भरा ॥ ४३॥
पश्य पश्य ग्रहश्रेष्ठ सम्यक् सर्वत्र भावतः ।
ततस्तां स शनिर्देवीमवोचद् दुःखितो भृशम् ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते शनिसमागमो नाम त्रिषष्टितमोऽध्यायः ॥ २.६३
२.६४ विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
प्रल्हाद उवाच ।
किमर्थं दुःखितो देवः शनिस्तत्र बभूव ह ।
तन्मे त्वं सकलं ब्रूहि रविपुत्रस्य चेष्टितम् ॥ १॥
गृत्समद उवाच ।
शृणु तत्रैव सञ्जातं वृत्तान्तं साधुसत्तम ।
तेन ते सर्वसन्देहो नाशं यास्यति निश्चितम् ॥ २॥
शनिरुवाच ।
शृणु शक्ते महामाये एकदाऽहं गृहे स्थितः ।
सूर्यपूजनसंशीलो ध्याननिष्ठोऽभवं पुरा ॥ ३॥
निशि तत्र समायाता पत्नी मे वेषधारिणी ।
भूषणैर्भूषिता सर्वैर्मां जगाद सुविह्वला ॥ ४॥
ऋतुदानमिदानीं त्वं मह्यं देह्येव भानुज ।
पश्य मां सर्वशृङ्गारयुक्तां भर्तर्नमोऽस्तु ते ॥ ५॥
अहं ध्यानसमायुक्तो नाऽपश्यं च हि तां प्रियाम् ।
द्विमुहूर्ते गते सा मां शशाप क्रोधसंयुता ॥ ६॥
यदि मां पश्यसि न च भर्तस्त्वं विफलं ऋतुम् ।
करोषि तेन दृष्टं यत्त्वया नष्टं भविष्यति ॥ ७॥
एवमुक्त्वा गता सा वै तदहादहमञ्जसा ।
न पश्यामि कदा कुत्र जगदम्ब यथायथम् ॥ ८॥
तस्य तद्वचनं श्रुत्वा जगदम्बा तमब्रवीत् ।
पश्य त्वं ग्रह वै ढुण्ढिं तेन सर्वं शुभं भवेत् ॥ ९॥
एवमुक्तः शनिस्तत्र गणेशानमलोकयत् ।
सर्वाङ्गैः शोभमानं वै सस्त्रीकं साधुसत्तम ॥ १०॥
ततस्तस्य गणेशस्य मस्तकं सहसा गतम् ।
अन्तर्धानं च तद् दृष्ट्वा हाहाकारो बभूव ह ॥ ११॥
मुहूर्ते प्रगते तत्र पुनस्तं देवविप्रपाः ।
अपश्यन् शिरसा युक्तं सर्वावयवसुन्दरम् ॥ १२॥
ततो हर्षयुताः सर्वे तुष्टुवुस्तं गजाननम् ।
शनिः प्रणतभावेन तुष्टाव गणनायकम् ॥ १३॥
शनिरुवाच ।
नमस्ते गणनाथाय पुष्टिकान्ताय ते नमः ।
विश्वम्भराय सर्वादिपूज्याय तु नमो नमः ॥ १४॥
सर्वेषां मातृरूपेण स्थितेयं पुष्टिकारिका ।
पिता त्वं पुष्टिदाता च सत्तारूपेण संस्थितः ॥ १५॥
क्षमस्वैतं चापराधं मदीयं गणनायक ।
पुत्रोऽहं ते महाभाग प्रार्थये द्विरदानन ॥ १६॥
किं स्तौमि त्वां च हेरम्ब योगरूपं सनातनम् ।
वेदाद्यैर्योगिभिः स्तोतुं शक्यते न नमाम्यहम् ॥ १७॥
तथापि बुद्धिप्रामाण्यात् स्तुवन्ति त्वां महेश्वराः ।
अतोऽहं त्वां महाराज स्तौमि भक्तिसमन्वितः ॥ १८॥
नमस्ते बुद्धिकान्ताय सिद्धिनाथ नमोऽस्तु ते ।
ब्रह्मणां पतये तुभ्यं हेरम्बाय नमो नमः ॥ १९॥
(Page खं. २ अ. ६४ पान १३५)
सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे ।
तयोर्योगे च योगाय शान्तिरूपाय ते नमः ॥ २०॥
पुन्नामनरकात्त्राता पुत्रस्तेन प्रकीर्तितः ।
शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥ २१॥
सिद्धिर्माया च वामाङ्गे मायिके दक्षिण च धीः ।
तयोरभेदयोगे त्वमेकदन्ताय ते नमः ॥ २२॥
एवमुक्त्वा प्रहर्षेण सरोमाञ्चो बभूव ह ।
प्रणनाम स साष्टाङ्गं भक्तिभावेन सम्प्लुतः ॥ २३॥
तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् ।
वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥ २४॥
त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
यः पठिष्यति यो मर्त्यः शृणुयात् सर्वदं भवेत् ॥ २५॥
ततस्तं गणनाथं स उवाच रविनन्दनः ।
भक्तिं देहि त्वदीयां मे शापान् मोचय मां प्रभो ॥ २६॥
ततस्तं गणराजश्च स जगादासुरेश्वर ।
भक्तिर्मदीया भविता दृढा सौरे न संशयः ॥ २७॥
क्रूरदृष्ट्या च यं कञ्चित् पश्यसि त्वं शनैश्चर ।
स एव नाशमायातु निःशापो भव सर्वदा ॥ २८॥
ततो विष्णुं जगामाऽसौ तं प्रणम्य च भानुजः ।
उवाच देहि मे नाथ गणेशोपासनां शुभाम् ॥ २९॥
ततस्तेन समाख्यातं कवचादिकमुत्तमम् ।
गीतासारं ददौ तस्मा एकाक्षरमनुं प्रभोः ॥ ३०॥
ततस्तं प्रययौ गेहे प्रणम्य स शनैश्चरः ।
योगं च साधयामास गाणपत्यो बभूव ह ॥ ३१॥
ततः कियति काले च गते शङ्करमब्रवीत् ।
गणेशो भावयुक्तं यद्वचनं भक्तवत्सलः ॥ ३२॥
किं तात देवदेवेशैर्मुनिभिश्च सदाशिव ।
वनवासं करोषि त्वं वद कारणमत्र माम् ॥ ३३॥
जगाद शङ्करो हृष्टस्ततस्तं भक्तिभावितः ।
जगत् सर्वं दुर्मतिनाऽसुरेशेन पराजितम् ॥ ३४॥
ब्रह्माण्डाधिपतिः सोऽपि प्रजातो वरदानतः ।
अस्माकं सकलैश्वर्यं हृत्वा श्रेष्ठोऽभवत् स्वयम् ॥ ३५॥
गृत्समद उवाच ।
शिवस्य वचनं श्रुत्वा क्रोधयुक्तो बभूव ह ।
गजाननो जगादेदं वचनं हितकारकम् ॥ ३६॥
गणेश उवाच ।
मयि ते पुत्रतां याते दुर्लभं किं च ते भवेत् ।
हनिष्यामि महादैत्यं पश्य मे पौरुषं शिव ॥ ३७॥
एवमुक्त्वा महादेवं सन्नद्धः स गजाननः ।
मूषकारूढको भूत्वा त्वगमद्दैत्यनायकम् ॥ ३८॥
तमनु प्रययुर्देवा मुनयो भक्तितत्पराः ।
नगरप्रान्तभागे च स गत्वा संस्थितोऽभवत् ॥ ३९॥
दूतं सम्प्रेषयामास विष्णुं देववरं ततः ।
स गत्वा दुर्मतिं दुष्टमबोधीद्युक्तिभिश्च तम् ॥ ४०॥
विष्णुरुवाच ।
स्वानन्दवासकारी यो गणेशो ब्रह्मनायकः ।
शिवेन तपसा सोऽपि याचितः पुत्रकाम्यया ॥ ४१॥
स एव पुत्रतां प्राप्तः पुष्टीशो यः समागतः ।
त्वां बोधितुं च मां सोऽपि प्रेषयामास दुर्मते ॥ ४२॥
देवानां द्वेषमुत्सृज्य वस पातालमण्डले ।
स्वस्वधर्मरता लोका भवन्तु विगतज्वराः ॥ ४३॥
एवमुक्तो महादैत्यस्तमुवाच जनार्दनम् ।
दूत्येन त्वं समायातो नो चेद्धन्मि प्रभावतः ॥ ४४॥
कः स्वानन्दपतिः सोऽपि देवपक्षधरोऽभवत् ।
(Page खं. २ अ. ६५ पान १३६)
तं हनिष्यामि वेगेन द्रक्षसि त्वं गजाननम् ॥ ४५॥
ततो विष्णुः समायातो गणेशं तस्य दुर्मतेः ।
वृत्तान्तमवदत्तीव्रं श्रुत्वा चुक्रोध विघ्नपः ॥ ४६॥
बभूव मूषकारूढो तं हन्तुं शस्त्रधारकः ।
देवाः सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥ २.६४
२.६५ द्रव्यप्रयत्नो नाम पञ्चषष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद वाच ।
ततः स दैत्यराजोऽपि स्वसेनासंवृतो ययौ ।
रथारूढो महातेजाः शस्त्रास्त्रैः संयुतो बभौ ॥ १॥
दुर्मतिर्गणपं दृष्ट्वा चुकोपाऽतितरां खलः ।
आज्ञापयत् स्वसेनां वै देवानां कदनाय च ॥ २॥
ततो दैत्याश्च देवास्ते युयुधुश्चातिदारुणम् ।
असम्बद्धं महाक्रोधा जग्मुः सप्त च वासराः ॥ ३॥
देवसेना ततो भग्ना पलायत दिशो दश ।
भयभीता ततः क्रोधाद्युयुधे शङ्करो भृशम् ॥ ४॥
ततो दुर्मतिना तत्र कृतं युद्धं महाद्भुतम् ।
मूर्च्छिताः पतिताः केचिद्देवेशाः खण्डिताः शरैः ॥ ५॥
शम्भुं विष्णुं च देवेन्द्रं सर्वानन्यान् सुमूर्च्छितान् ।
तान् दृष्ट्वा गणराजस्तु क्रोधयुक्तो बभूव ह ॥ ६॥
मूषकारुढ एवाऽसौ सङ्ग्रामाय समाययौ ।
तं दृष्ट्वा दुर्मतिः प्राह क्रोधारुणविलोचनः ॥ ७॥
दुर्मतिरुवाच ।
किमर्थं मूर्खभावेन युद्धाय समुपागतः ।
बाणेनैकेन हन्मि त्वां पश्य मे पौरुषं खल ॥ ८॥
ब्रह्माण्डं निर्जितं येन तेन युद्धं करिष्यसि ।
अज्ञानेनावृतो नूनं गच्छ त्वां नैव हन्म्यहम् ॥ ९॥
एवं वदन्तमुग्रं तं दैत्येशं दुर्मतिं प्रभुः ।
जगाद हास्यसंयुक्तः पतिः पुष्टेः प्रतापवान् ॥ १०॥
पुष्टिपतिरुवाच ।
मा गर्वं कुरु दैत्येश दुर्मते शृणु मे वचः ।
त्वां हनिष्यामि नूनं च पश्य मे पौरुषं महत् ॥ ११॥
इत्युक्तवन्तमप्येनं दुर्मतिः सहसा ययौ ।
दन्तं धृत्वा गणेशस्याकर्षयत् क्रोधसंयुतः ॥ १२॥
महाबलेन दैत्येन वामदन्तः प्रपातितः ।
भक्त्त्वा स धरणी पृष्ठे तं दन्तं गणपोऽग्रहीत् ॥ १३॥
दन्तेन शिरसि प्रोतो दुर्मतिः स ममार ह ।
ततः पुष्टिपतिर्देवान् सावधानांश्चकार ह ॥ १४॥
ततो दैत्यगणाः सर्वे पलायन्त दिशो दश ।
पातालं जग्मुरत्यन्तं भयभीताः समन्ततः ॥ १५॥
ततो देवेश्वरास्तत्र मुनयो हर्षसंयुताः ।
अपूजयंस्तथा पुष्टिपतिं ते तुष्टुवुः पुनः ॥ १६॥
देवर्षय ऊचुः ।
जय देव गणाधीश जय विघ्नहराव्यय ।
जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १७॥
जयानन्त गुणाधार जय सिद्धिप्रद प्रभो ।
जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ १८॥
जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर ।
जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ १९॥
(Page खं. २ अ. ६५ पान १३७)
जय वेदान्तवादज्ञ जय वेदान्तकारण ।
जय बुद्धिधर प्राज्ञ जय सर्वामरप्रिय ॥ २०॥
जय मायामये खेलिन् जयाव्यक्त गजानन ।
जय लम्बोदरः साक्षिन् जय दुर्मतिनाशन ॥ २१॥
जयैकदन्तहस्तस्त्वं जयैकरदधारक ।
जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥ २२॥
जय कर्म तपोरूप जय ज्ञानप्रदायक ।
जयामेय महाभाग जय पूर्णमनोरथ ॥ २३॥
जयानन्द गणेशान जय पाशाङ्कुशप्रिय ।
जय पर्शुधर त्वं वै जय पावनकारक ॥ २४॥
जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय ।
जय भक्तेश विघ्नेश जय नाथ महोदर ॥ २५॥
नमो नमस्ते गणनायकाय नमो नमस्ते सकलात्मकाय ।
नमो नमस्ते भवमोचनाय नमो नमस्तेऽतिसुखप्रदाय ॥ २६॥
इति स्तुत्वा गणाधीशं प्रणेमुस्तं महामते ।
उत्थाय ननृतुः सर्वे हर्षयुक्ताः सुरर्षयः ॥ २७॥
तेषां महोत्सवं दृष्ट्वा तान् जगाद महाप्रभुः ।
प्रसन्नात्मा पुष्टिपतिर्भक्तान् भक्तप्रियङ्करः ॥ २८॥
पुष्टिपतिरुवाच ।
भवत्कृतमिदं स्तोत्रं यः पठिष्यति नित्यशः ।
श्रोष्यते सकलं तस्य जयरूपं भविष्यति ॥ २९॥
पठनाच्छ्रवणादस्य सर्वं जयति मानवः ।
अन्ते मदीयसायुज्यं प्राप्नोत्यत्र न संशयः ॥ ३०॥
एवमुक्त्वान्तर्दधेऽसौ पतिः पुष्टेर्गणेश्वरः ।
देवाश्च मुनयः सर्वे विस्मिता अभवंस्तदा ॥ ३१॥
स्वे स्वे पदे च ते जग्मुर्यथा सुखरताः पुरा ।
तथा पुनःस्वलोकस्था मोदन्ते स्म च तत्पराः ॥ ३२॥
स्वाचारं मुनयश्चक्रुर्वर्णाश्रमरता जनाः ।
बभूवुरभजंस्तं ते स्वधर्मेण गजाननम् ॥ ३३॥
शिवश्च शक्तिसंयुक्तस्तमेव हृदये स्थितम् ।
अभजत् भावयुक्तश्च गाणपत्यः प्रतापवान् ॥ ३४॥
मूर्तिं चक्रुर्गणेशस्य स्थापयामासुरादरात् ।
वैशाखपूर्णिमायां चाभवत्तत्र महोत्सवः ॥ ३५॥
तत्र सिद्धिरनुप्राप्ता शिवेन ननु मानद ।
चक्रुः सिद्धाश्रमं नाम्ना क्षेत्रं देवर्षयः परम् ॥ ३६॥
तत्रैव सिद्धिमापन्ना देवा ब्रह्मर्षयः पुरा ।
सनकाद्या महात्मानो गाणेशास्तेऽभवंस्ततः ॥ ३७॥
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
अगस्त्यस्य च संवादयुक्तं च ब्रह्मणः पुरा ॥ ३८॥
एकदा वनगो भूत्वाऽगस्त्यस्तपसि संस्थितः ।
लोपामुद्रा च सेवायां रता पत्नी तथाऽभवत् ॥ ३९॥
राजपुत्री महाभागा पातिव्रत्यपरायणा ।
सुकुमाराऽभवत्तत्र कर्षिता सेवनोत्सुका ॥ ४०॥
घर्मेण सकलं व्याप्तं वपुस्तस्या रजोयुतम् ।
शिरो जटायुतं वीक्ष्य तुतोष मुनिसत्तमः ॥ ४१॥
तामुवाच वरं ब्रूहि दास्येऽहं भावयन्त्रितः ।
सोवाच राजभोगेन युक्तं देहि मुने ऋतुम् ॥ ४२॥
ततः स राजभोगार्थं द्रव्येप्सुश्च समागतः ।
राजानं याचनार्थाय सार्वभौमं ययाच वै ॥ ४३॥
दिलीपस्तमुवाचाथ कियन्मानं धनं वद ।
दास्यामि भावसंयुक्तस्तुभ्यं तत्तापसोत्तम ॥ ४४॥
राज्ञो वचनमाकर्ण्योवाच तं मुनिसत्तमः ।
व्ययादुर्वरितं यन् मे धनं देहि सुपुष्कलम् ॥ ४५॥
(Page खं. २ अ. ६५ पान १३८)
ततो दिलीपो राजा तं जगाद व्ययमानकम् ।
द्रव्यं मेऽस्ति महाभाग तस्मात् सङ्ख्यां वदस्व भो ॥ ४६॥
जगाद मुनिशार्दूलः ततस्तं विस्मयान्वितः ।
न ग्रहीष्यामि ते द्रव्यं दरिद्रस्य न संशयः ॥ ४७॥
मया द्रव्यं त्वदीयं वै गृहीतं चेन्नराधिप ।
तदा सर्वे जना राजन् भवन्ति च निपीडिताः ॥ ४८॥
अतस्त्वं राजभिर्युक्तश्चल शीघ्रं नराधिप ।
मया सार्धं महद् द्रव्यं यत्र वै सञ्चितं भवेत् ॥ ४९॥
ततो राजा च वृत्तान्तं कथयामास तं मुनिम् ।
वातापिर्दैत्यपोऽगस्त्यद्रव्ययुक्तो भवत्यपि ॥ ५०॥
देवैरवध्यतां प्राप्य हन्ति विप्रांश्च नित्यशः ।
पशुं कृत्वाऽनुजं दुष्ट इल्वलं श्राद्धकर्मणि ॥ ५१॥
देवानां निधनार्थाय कर्ममूलनिकृन्तनः ।
अखिलं ब्राह्मणाधारं कर्म तेन हिनस्ति तत् ॥ ५२॥
इल्वलश्चाऽपि योगीन्द्र वरयुक्तप्रभावतः ।
गत्वोदरे कामरूपो वाताप्याहूत एव सः ॥ ५३॥
तदा तेषां नखेनैव स्फोटयित्वा महोदरम् ।
निर्गत्य पूर्ववद्देहसंयुक्तो भवतीत्यहो ॥ ५४॥
अतस्त्वं गच्छ योगीन्द्र तं हत्वा द्रव्यसञ्चयम् ।
गृहाणास्माभिरत्यन्तं वातापिं भ्रातृसंयुतम् ॥ ५५॥
दिलीपस्य वचः श्रुत्वा हर्षयुक्तो महामुनिः ।
राजभिर्ब्राह्मणैर्युक्तस्तत्र गन्तुं मनो दधे ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते पुष्टिपत्युपाख्याने अगस्त्यस्य
द्रव्यप्रयत्नो नाम पञ्चषष्टितमोऽध्यायः ॥ २.६५
२.६६ कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
अगस्त्यो राजभिर्युक्तो ब्राह्मणैश्च समन्वितः ।
वातापेः सुस्थलं रम्यं ययौ क्रोधसमन्वितः ॥ १॥
तमागतं स विज्ञाय वातापिर्हर्षितो ययौ ।
प्रणम्य प्रत्युवाचेदं वचनं विनयान्वितः ॥ २॥
वातापिरुवाच ।
स्वामिंस्ते स्वागतं मेऽद्य भाग्यं सुफलितं महत् ।
ब्राह्मणै राजभिः सार्धं प्रपश्यामीऽह तापसम् ॥ ३॥
श्राद्धं मे भगवन्नद्य पितुरत्र समागतम् ।
निमन्त्रयाम्यहं सर्वैस्त्वां महाभाग वै सह ॥ ४॥
जगाद तं तथेत्येव दैत्यः संहर्षितोऽभवत् ।
इल्वलं पशुभावस्थं कृत्वा सञ्छिद्य दैत्यपः ॥ ५॥
पपाच विधिवन्मांसं ब्राह्मणार्थं विधानवित् ।
ततोऽगस्त्यं समायातं भोजनार्थं सहानुगम् ॥ ६॥
विधिवत् पूजयित्वा तं स्थापयामास चासने ।
तेनाङ्गुष्ठेन भूमिः सा पीडिता मुनिना कृतः ॥ ७॥
गर्तस्तत्र च सर्वान्नं पूरितं दैत्यदेहजम् ।
तज्ज्ञात्वा विस्मितो दैत्यो न किञ्चित्तमुवाच ह ॥ ८॥
अन्यान् सर्वान् सुभोज्येन भोजयामास चान्धसा ।
अगस्त्यः सकलं भुक्त्वा चान्नमिल्वलजं महत् ॥ ९॥
मन्त्रेण वैदिकेनाऽसौ मन्त्रयामास चोदरम् ।
(Page खं. २ अ. ६६ पान १३९)
तस्य मन्त्रप्रभावेण दैत्यः सञ्जीर्णतां गतः ॥ १०॥
अपानवायुरत्युग्रो निःसृतो धूलिमुद्वहन् ।
तेन नादेन सर्वे ते विस्मिताः प्रबभूविरे ॥ ११॥
ततो मुनिः समुत्तस्थौ मुखप्रक्षालनाय च ।
क्षालयित्वा स हस्तादि संस्थितः स महाधने ॥ १२॥
ततो वातापिना भ्रातैहीत्याहूतोऽभवत्तदा ।
उवाच मुनिशार्दूलस्ततस्तं दैत्यपुङ्गवम् ॥ १३॥
स मृतो मे च मन्त्रेण सञ्जीर्णो जठरऽधुना ।
अधुना त्वां हनिष्यामि दुष्ट ब्राह्मणहिंसकम् ॥ १४॥
पलायत स तच्छ्रुत्वा वातापिर्भयसङ्कुलः ।
ततः सराजका विप्राः स्थापिता मुनिनाऽमुना ॥ १५॥
तत्रैव स्वयमेनं तमगमत् दैत्यनायकम् ।
अगस्त्यः पृष्ठगं दृष्ट्वा समुद्रं शरणं ययौ ॥ १६॥
वातापिस्तेन दैत्येन्द्रः स्थापितः स्वजलेऽभवत् ।
ततस्तं जलाधिं विप्र उवाच क्रोधसंयुतः ॥ १७॥
देहि दैत्यं समुद्र त्वं नोचेच्छापं ददाम्यहम् ।
ततोऽगस्त्यं समुद्रश्च जगाद भयसङ्कुलः ॥ १८॥
स्वभावो मे महाभाग अतो नाऽहं ददामि तम् ।
दैत्या देवभयाद्विप्र शरणं मामुपागताः ॥ १९॥
अन्ये पर्वतभूपाश्च न दत्तास्ते मया मुने ।
अतस्त्वां प्रार्थयामीह कृपां कुरु दयानिधे ॥ २०॥
त्यक्त्वा दैत्यं मुनिश्रेष्ठ गच्छ त्वं प्रणमाम्यहम् ।
क्षुभितोऽभूत्ततोऽगस्त्यो गर्विष्ठोऽयं महोदधिः ॥ २१॥
मदमस्य हरिष्यामि तादृशं न ददर्श ह ।
ततो मुनिर्विधातारं शरणं वै जगाम ह ॥ २२॥
प्रणम्य लोकनाथं तं पप्रच्छ च जगद्गुरुम् ॥ २३॥
अगस्त्य उवाच ।
स्वामिन् समुद्रसम्मग्नो वातापिर्द्विजहिंसकः ।
तदर्थं जलधिं नाथ शोषयामि मदान्वितम् ॥ २४॥
तत्रोपायं वद ब्रह्मन् तं करिष्यामि यत्नतः ।
त्वं सर्वज्ञश्च सर्वेषां पितामह विशेषतः ॥ २५॥
एवं तस्य वचः श्रुत्वा तं जगाद महामुनिम् ।
अगस्त्यं लोकनाथस्तु हर्षयुक्तेन चेतसा ॥ २६॥
ब्रह्मोवाच ।
शृणु पुत्र महाभाग गर्विष्ठोऽयं महोदधिः ।
अधर्मचारिणो दैत्या रक्षितास्तेन निश्चितम् ॥ २७॥
वातापिरधुनाऽरक्ष्यः सत्कृतस्तेन पुत्रक ।
अतस्तच्छोषणार्थाय गणपं शरणं व्रज ॥ २८॥
तस्य तद्वचनं श्रुत्वा जगाद स पितामहम् ।
कथं त्यक्त्वा विधे देवान् गणेशानं प्रशंससि ॥ २९॥
ततस्तं मुनिमुख्यं स ब्रह्मोवाच प्रजापतिः ।
शृणु पुत्र महाभाग कथां पापप्रणाशिनीम् ॥ ३०॥
विघ्नकर्ता च तद्धर्ता गणेशोऽयं न संशयः ।
तेन विघ्नेश्वरो नाम्ना वर्तते सर्वमण्डले ॥ ३१॥
विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः ।
सर्वसत्ताधरः पूर्णस्तस्मात्तं कथयाम्यहम् ॥ ३२॥
अन्यच्च शृणु पुत्र त्वं विनायक इति श्रुतिः ।
नायकैः सेव्यते सर्वैः स्वस्वकार्यार्थमादरात् ॥ ३३॥
नायकैर्वर्जितः साक्षात्तेन स्वाधीनतां गतः ।
संसृष्टं सकलं विश्वं कलांशेन महामुने ॥ ३४॥
स्वस्वाधिकारसंयुक्ता कलांशजविभूतयः ।
समुद्रस्तासु तं पुत्र चालितुं न क्षमा वयम् ॥ ३५॥
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥ ३६॥
गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः ।
उवास तत्र देवेशः सर्ववन्द्यः प्रतापवान् ॥ ३७॥
सर्वेषां मदहन्ता स जातः स्वस्यैव तेजसा ।
अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥ ३८॥
तथा राधाऽपि देवीनां मदस्य हरणं बलात् ।
कृत्वा वन्द्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥ ३९॥
त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः ।
विघ्नयुक्ताः शिवाद्यास्ते शरणं त्वगमन् परम् ॥ ४०॥
अन्याशरणकृष्णस्य हृदि गर्वः समागतः ।
सततं मदयुक्तः स बभूव परमाद्भुतः ॥ ४१॥
अहं ब्रह्मेति यत् प्रोक्तं तदेवाऽहं न संशयः ।
मदाधारमिदं सर्वं तस्मान्नान्योऽस्ति मत्परः ॥ ४२॥
मदनुग्रहमात्रेण देवाः शम्भुपुरोगमाः ।
शक्ताः स्वव्यवहारेषु तस्मान्नान्योऽस्ति मत्परः ॥ ४३॥
एवं मनसि गर्वेण मदेन च समाकुलः ।
मदयुक्ता तथा राधा बभूव मुनिसत्तम ॥ ४४॥
ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् ।
स्वभक्तिभावदानार्थं शान्तियोगार्थमादरात् ॥ ४५॥
विररामैकदा युक्तो राधया वनमण्डले ।
रतिक्रीडासमायुक्तो बभूवे कामसंयुतः ॥ ४६॥
तत्रैका नायिका तस्य प्रीतिदा विरजाऽभवत् ।
तया संस्मरणं सद्यः कृतं कृष्णस्य तत्क्षणे ॥ ४७॥
अधः स्थितां परित्यज्य राधां कृष्णो ययौ मुने ।
विरजां स तया सार्धं क्रीडासक्तो बभूव ह ॥ ४८॥
ततः सङ्कुपिता राधा रतिभङ्गेन मानद ।
जगाद याः समीपस्था गोपिका वचनं तदा ॥ ४९॥
कुत्र दृष्टो महामानी कृष्णः स्त्रीलम्पटाग्रणीः ।
तं मां वदत वै देव्यस्त्यजामि मनसा पतिम् ॥ ५०॥
ततस्तां गोपिका काचिदुवाच विनयान्विता ।
विरजाया मया राधे दृष्ट आश्रमसन्निधौ ॥ ५१॥
ततः सा क्रोधताम्राक्षी रथोपरि ययौ स्थिता ।
विरजाश्रमसान्निध्यं गोपीभिः संवृता मुने ॥ ५२॥
तामागतां समाज्ञाय कृष्णश्चान्तर्दधे भयात् ।
विरजा जलरूपा सा जाता भयसमन्विता ॥ ५३॥
तया न दृष्टः सस्त्रीको देवेशस्तत्र राधया ।
पुनः स्वमन्दिरे गत्वाऽतिष्ठच्च क्रोधसंयुता ॥ ५४॥
ततः स प्रकटः कृष्णो बभूव ह चकार ताम् ।
स्त्रीरूपां जलभावस्थां चिक्रीड भृशहर्षितः ॥ ५५॥
सन्तोषेण समायुक्तां कृत्वा स विरजां ययौ ।
राधां द्वारसमीपे चागतं वीक्ष्य जगाद सा ॥ ५६॥
राधोवाच ।
किमर्थं लम्पटोऽत्यन्तमागतोऽसि ममान्तिकम् ।
गच्छ तां विरजां देव कदा न त्वां स्पृशाम्यहम् ॥ ५७॥
मदीयसत्तया लोको रचितोऽयं मया पुरा ।
त्यक्त्वा लोकं मदीयं वै गच्छ त्वं यत्र ते रुचिः ॥ ५८॥
इत्यादिविविधैर्वाक्यैः पतिं निर्भत्स्य राधिका ।
शशाप क्रोधसंयुक्ता मृत्युलोके पतेति तम् ॥ ५९॥
ततः शप्तं च तं ज्ञात्वा श्रीदामा गोपनायकः ।
(Page खं. २ अ. १७ पान १४१)
न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥ ६०॥
तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव ।
शशाप सा मुनिश्रेष्ठ सोऽपि क्रोधयुतोऽभवत् ॥ ६१॥
राधां शशाप मर्त्येषु भव नारी त्वमञ्जसा ।
शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥ ६२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः ॥ २.६६
२.६७ राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
एवं परस्परं शप्त्वा खेदयुक्ता बभूविरे ।
गतगर्वाश्च सर्वे ते विचारं चक्रुरादरात् ॥ १॥
अहं गोलोकराजोऽहं सर्वाधीशो न संशयः ।
इयं प्रकृतिरूपा मे कृतौ केनापराधिनौ ॥ २॥
कृष्णोऽहं सर्वदेवेश अपि मां विघ्न उत्थितः ।
अतो वै विघ्नराजः स गणेशः कुरुतेऽखिलम् ॥ ३॥
हिताहितं न सन्देहस्तदाधारमिदं जगत् ।
सस्त्रीकः शरणं यामि ब्रह्माकारमतश्च तम् ॥ ४॥
एवं विचार्य देवेशः सस्त्रीको मित्रसंयुतः ।
पपात भगवान् कृष्णो मृत्युलोके महामुने ॥ ५॥
मथुरायां च देवक्यां वसुदेवात् समुद्भवः ।
कृष्णो यादववंशे वै तेषां स सुखदोऽभवत् ॥ ६॥
वृषभानुसुता जाता राधा सा गोकुले मुने ।
शङ्खचूडो बभूवाऽथ श्रीदामाऽसुरसत्तमः ॥ ७॥
ततश्च गोकुलं कृष्णः कंसस्यैव भयाद्ययौ ।
तत्र राधासमायुक्तो बभूव स जनार्दनः ॥ ८॥
ततो विघ्नेशमत्यन्तं भेजतुस्तौ स्वभावतः ।
षोडशाक्षरमन्त्रेण परे तपसि संस्थितौ ॥ ९॥
पुरश्चरणमेकं तौ चक्रतुः परमादरात् ।
बभूवतुस्ततो ध्यानसमायुक्तौ निरन्तरम् ॥ १०॥
तपस्त्यक्त्वा तस्य हृदि ध्यानयुक्तौ विशेषतः ।
तपसोऽधिकमुग्रं वै ध्यानं शास्त्रेषु सम्मतम् ॥ ११॥
संवत्सरान् स तत्रैव कृष्णश्चैकादश स्थितः ।
ततश्च मथुरायां स जगामाक्रूरसंयुतः ॥ १२॥
शतवर्षं वियोगेन राधाकृष्णौ बभूवतुः ।
युक्तौ परमदुःखार्तौ ध्यायन्तौ गणनायकम् ॥ १३॥
ततस्तयोश्च सम्प्राप्तो योगः शान्तिप्रदायकः ।
तेन सन्तोषमापन्नौ गाणपत्यौ बभूवतुः ॥ १४॥
गते वर्षशते विप्र जग्मतुस्तौ सहानुगौ ।
वैशाखपूर्णिमायां वै मुने बदरिकाश्रमम् ॥ १५॥
तत्र शम्भुमुखा देवाः सस्त्रीकाश्च समागताः ।
यात्रार्थं गणनाथस्य मुनयश्च ययुर्मुदा ॥ १६॥
शेषादयो महानागा राजानश्च विशेषतः ।
त्रिलोकस्था जनाः सर्वे जग्मुस्तत्र महामुने ॥ १७॥
योगिनः कपिलाद्याश्च तत्राऽहं सङ्गतो मुने ।
सर्वैर्महोत्सवस्तत्र वार्षिकः क्रियते सदा ॥ १८॥
ततस्तं पूजयित्वा ते सर्वे चोपोषणान्विताः ।
स्थिताश्चक्रुः प्रतिपदि पारणं ते महामुने ॥ १९॥
तत्र राधा च कृष्णश्च मिलितौ गणपं निशि ।
(Page खं. २ अ. ५७ पान १४२)
ध्यायन्तौ भावसंयुक्तौ जेपतुर्मन्त्रमुत्तमम् ॥ २०॥
ततस्तयोर्गणेशानो दर्शयामास चोत्तमम् ।
रूपं चतुर्भुजं साक्षाद्गजवक्त्रादिचिह्नितम् ॥ २१॥
तं दृष्ट्वा सहसोत्थाय नेमतुश्चरणाम्बुजे ।
सरोमाञ्चौ तुष्टुवतुः साश्रुनेत्रौ गणेश्वरम् ॥ २२॥
राधाकृष्णावूचतुः ।
नमस्तुभ्यं पुष्टिपते नमः शङ्करसूनवे ।
ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥ २३॥
स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः ।
सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥ २४॥
हेरम्बाय नमस्तुभ्यं नमो योगमयाय च ।
सर्वादये च सर्वेश सर्वज्ञाय नमो नमः ॥ २५॥
निगुर्णाय नमस्तुभ्यं सगुणाय नमो नमः ।
गजाननाय वै तुभ्यमभेदाय तयोर्नमः ॥ २६॥
शान्तिरूपाय शान्ताय शान्तिदाय महोदर ।
मूषकश्रेष्ठयानाय गाणपत्यप्रियाय ते ॥ २७॥
अनन्तानन्तरूपाय भक्तसंरक्षकाय च ।
भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥ २८॥
चतुर्बाहुधरायैव नागयज्ञोपवीतिने ।
शूर्पकर्णाय शूराय परशोर्धर ते नमः ॥ २९॥
विष्णुपुत्राय सर्वेषां पित्रे मात्रे नमो नमः ।
विनायकाय विप्राणां पुत्राय च नमो नमः ॥ ३०॥
सर्वेषां गर्वहन्त्रे च सर्वेभ्यः सुखदाय ते ।
लम्बोदराय विघ्नेश ब्रह्मनायक ते नमः ॥ ३१॥
किं स्तुवस्त्वां गणाधीश यत्र वेदादयः प्रभो ।
शम्भुः शुकादयश्चैव बभूवुः कुण्ठिताः परम् ॥ ३२॥
आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो ।
तव तत्र च विघ्नेन कृतं गर्वस्य खण्डनम् ॥ ३३॥
साधूनां विघ्नदाता त्वं शान्तियोगार्थमञ्जसा ।
असाधूनां विनाशाय ह्यतस्त्वां प्रणमावहे ॥ ३४॥
विघ्नयुक्ततया ढुण्ढे आवाभ्यां योगसेवया ।
साक्षात्कारकृतस्त्वं वै समीचीनमिदं कृतम् ॥ ३५॥
हृदि चिन्तामणिं त्वां च पश्यावः सततं प्रभो ।
अतः स शुभदो विघ्नः सञ्जातो नौ गजानन ॥ ३६॥
अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे ।
दृढां यया च गर्वेण न भवावः समायुतौ ॥ ३७॥
इत्युक्त्वा तं ननृततुः प्रणम्यैव मुदान्वितौ ।
धन्यौ धन्यौ प्रब्रुवन्तौ दर्शनाद्गणपस्य तौ ॥ ३८॥
ब्रह्मोवाच ।
जगाद गणनाथस्तौ ततो वै भक्तिभावितः ।
दृष्ट्वा ब्रह्मरसाह्लादयुतौ राधाजनार्दनौ ॥ ३९॥
पुष्टिपतिरुवाच ।
भो राधे कृष्ण मे वाक्यं शृणुतं जगदीश्वरौ ।
मदीयां भक्तिमत्यन्तं संशयो न करिष्यथः ॥ ४०॥
सङ्कटे स्मरणेनैव प्रकटः सम्भवाम्यहम् ।
यं यमिच्छथ आनन्दं सफलः स भविष्यति ॥ ४१॥
भवत्कृतमिदं स्तोत्रं पठतां शृण्वतां नृणाम् ।
सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरेश्वरौ ॥ ४२॥
मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् ।
अन्ते स्वानन्ददं कृष्ण भविष्यति न संशयः ॥ ४३॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
तौ तं हृदि विशेषेण पश्यन्तौ तस्थतुर्निशि ॥ ४४॥
ततः पुनश्च गोलोके गतौ राधाहरी स्वके ।
बभूवतुरखण्डैश्वर्यसंयुक्तौ महामुने ॥ ४५॥
(Page खं. २ अ. ६८ पान १४३)
अतस्त्वं मदहीनश्च शरणं गणपं व्रज ।
अगस्त्य तेन ते वाञ्छां पूरयिष्यति स प्रभुः ॥ ४६॥
ब्रह्माण्डं वर्तते तस्याऽऽधारेण मुनिसत्तम ।
सर्वत्र गणनाथोऽयं क्रीडति स्वेच्छया स्वयम् ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ २.६७
२.६८ पुष्टिपतिचरितं नामाष्टषष्टितमोऽध्यायः
॥ श्रीगणेशाय नमः ।
गृत्समद उवाच ।
श्रुत्वा कथां महारम्यामगस्त्यस्तमुवाच ह ।
प्रणयावनतो भूत्वा ब्रह्माणं सर्ववेदिनम् ॥ १॥
अगस्त्य उवाच ।
भगवन् सर्वतत्त्वज्ञ कथितं सर्वमञ्जसा ।
त्वया तेनाहमत्यन्तं सुतुष्टो ब्रह्मवित्तम ॥ २॥
एतादृशो गणेशोऽयं तस्य ज्ञानं कथं भवेत् ।
तद्वदस्व दयासिन्धो भवेयं दुःखवर्जितः ॥ ३॥
ततस्तं प्रत्युवाचेदं वचनं स पितामहः ।
ज्ञानयुक्तं गणेशस्य भक्तिदं परमाद्भुतम् ॥ ४॥
ब्रह्मोवाच ।
शृणु पुत्र प्रवक्ष्यामि ज्ञानं योगात्मकं महत् ।
यस्य त्वं गाणपत्यो वै भविष्यसि सुसेवनात् ॥ ५॥
देहदेहिमयं ब्रह्म स्वत उत्थानवाचकम् ।
जानीहि सर्वभावेन बोधरूपं विशेषतः ॥ ६॥
साङ्ख्यं यद्वदति ब्रह्म परतोत्थानवाचकम् ।
बोधहीनस्वभावेन लभते स्वसुखस्थितम् ॥ ७॥
तयोरभेदयोगे वै स्वसंवेद्यमतः परम् ।
जानीहि सर्वसंयोगकारकं योगसेवया ॥ ८॥
पञ्च भेदा मतास्तस्य ताञ्छृणुष्व महामते ।
जानीहि भेदरूपं यदसत्यं शक्तिवाचकम् ॥ ९॥
सत्यं भानुमयं प्रोक्तमात्माकारेण तत्र तु ।
जानीहि संस्थितं पुत्र सदा भेदादिवर्जितम् ॥ १०॥
तयोः संयोगकर्ता स विष्णुरानन्दवाचकः ।
समात्मकं मतं ब्रह्म जानीहि सुखदं परम् ॥ ११॥
त्रयाणां नेति कर्ता च शङ्करः परिकीर्तितः ।
अव्यक्तं ब्रह्म जानीहि तत् प्रोक्तं मोहवर्जितम् ॥ १२॥
त्रिविधं मोहयुक्तं वै तुरीयं मोहवर्जितम् ।
तेषां संयोगभावेन स्वानन्दः परिलभ्यते ॥ १३॥
स्वसंवेद्यात् परं ब्रह्म नास्ति संयोगधारकम् ।
सर्वत्राऽयं निजानन्दः स्वानन्दे सकलो भवेत् ॥ १४॥
अयोगवाचकं ब्रह्म निजानन्दात् परं मतम् ।
संयोगहीनभावेन लभ्यते नात्र संशयः ॥ १५॥
संयोगायोगयोर्योगे तयोर्नाशे महामुने ।
स एव योग आख्यातः शान्तिरूपेण लभ्यते ॥ १६॥
स एव गणनाथोऽयं जानीहि ब्रह्मनायकः ।
गकारश्चैव संयोगो णकारो योग उच्यते ॥ १७॥
तयोः स्वामी स वेदेषु विचारय महामते ।
तमाराधय यत्नेन ततः सौख्यमवाप्स्यसि ॥ १८॥
अधुना त्वं सुसङ्कष्टयुक्तस्तत्र कुरुष्व भो ।
चतुर्थीं कृष्णपक्षस्य ध्यात्वा हृदि गजाननम् ॥ १९॥
(Page खं. २ अ. ६९ पान १४४)
समुद्रगर्वं त्वं तेन हरिष्यसि महाद्भुतम् ।
तपोवनं तात गच्छ व्यवसायं करोम्यहम् ॥ २०॥
गृत्समद उवाच ।
ब्रह्माणं स नमस्कृत्य ययौ स्वकतपोवनम् ।
षडक्षरेण विघ्नेशं तोषयन् मुनिसत्तमः ॥ २१॥
सदा ध्यानरतो भूत्वा तताप तप उत्तमम् ।
सङ्कष्टहरणीं प्राप्तां चतुर्थीं स चकार ह ॥ २२॥
त्रिमासे प्रगते तुष्टो गणेशो व्रतसेवया ।
ध्यानेन तस्य प्रह्लाद तपसा भक्तिभावतः ॥ २३॥
पञ्चम्यां कृष्णपक्षस्य बभूवाकाशवाक् परा ।
अगस्त्यस्तत्र शुश्राव तां वाणीं सुखदायिनीम् ॥ २४॥
गच्छ त्वं पिब विघ्नेशं स्मृत्वा तं जलधिं मुने ।
वातापिं जहि तत्रस्थं तपस्तेजःसमन्वितः ॥ २५॥
ततः स हर्षितो भूत्वा गत्वा जलधिसन्निधौ ।
गणेशं मनसा ध्यात्वा पपौ तं क्रोधसंयुतः ॥ २६॥
शोषयित्वा जलं सर्वं संस्थितो मुनिसत्तमः ।
तेजसा ज्वालयामास वातापिं विप्रघातिनम् ॥ २७॥
ततो देवगणाः सर्वे तुष्टवुस्तं महामुनिम् ।
दैत्यांस्तत्र स्थितान् सर्वान् जघ्नुर्देवा उदायुधैः ॥ २८॥
पुनर्गङ्गां समानीयोदधिमापूर्य तज्जलैः ।
भगीरथेन देवास्ते संस्थिता विगतज्वराः ॥ २९॥
ततोऽगस्त्यः समागम्य वातापिनगरं प्रभुः ।
राजभिः पुष्कलं द्रव्यं गृहीत्वा स्वस्थलं ययौ ॥ ३०॥
लोपामुद्रां महातेजास्तोषयामास यत्नतः ।
पश्चात्तपसि संस्थोऽसावजपन् मन्त्रमुत्तमम् ॥ ३१॥
जित्वा पञ्चविधं चित्तं योगीन्द्रो योगसेवया ।
ततो महायशाः शान्तिमापेदे गणनायके ॥ ३२॥
पुनर्भक्त्या गणेशानं मयूरे तं समागतः ।
क्षेत्रे तत्रापूजयत् स नित्यं हर्षसमन्वितः ॥ ३३॥
एवं पुष्टिपतेश्चैव महिमा ते निरूपितः ।
सङ्क्षेपेण मया दैत्य शृणु चिन्तामणेः कथाम् ॥ ३४॥
इदं पुष्टिपतेश्चित्रं चरितं यः शृणोति वा ।
पठेच्च सकलं तस्य हस्तगं प्रभवेत् ध्रुवम् ॥ ३५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते पुष्टिपतिचरितं नामाष्टषष्टितमोऽध्यायः ॥ २.६८
२.६९ देवहूतिकर्दमशान्तिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
स्वायम्भुवो ददौ कन्यां कर्दमाय प्रहर्षितः ।
देवहूतिं च तस्यां स कपिलः सम्बभूव ह ॥ १॥
साक्षाद्विष्णुः स्वयं देवस्तपसा कर्दमेन सः ।
आराधितश्च पुत्रोऽभूत्तत्त्वज्ञानप्रकाशकः ॥ २॥
तं महोत्सवयुक्तश्चापूजयत् स महामुनिः ।
ब्रह्मादयः समायाता दर्शनार्थं गृहे मुनेः ॥ ३॥
उपवीतयुतं कृत्वा कर्दमो हर्षनिर्भरः ।
वेदान् साङ्गान् स्वपुत्राय ह्यध्यापयत यत्नतः ॥ ४॥
स च श्रवणमात्रेण जग्राह गुरुणोदितम् ।
स्वल्पकालेन सम्पूर्णविद्यायुक्तो बभूव ह ॥ ५॥
(Page खं. २ अ. ६९ पान १४५)
ननाम कर्दमः पुत्रमेकदा भक्तिसंयुतः ।
सस्त्रीकश्च महाभागं पप्रच्छ विनयान्वितः ॥ ६॥
कर्दम उवाच ।
त्वं साक्षाद्विष्णुरूपो मां शुक्लः सर्वार्थकोविदः ।
वद ज्ञानं महाबाहो तारयस्व भवार्णवात् ॥ ७॥
एवं पृष्टो महात्माऽसौ कपिलस्तमुवाच ह ।
सर्वसारमयं ज्ञानं गाणेशं तारकः प्रभुः ॥ ८॥
कपिल उवाच ।
शृणु तात मया दृष्टमेव तत् शान्तिदायकम् ।
कथयामि महाज्ञानं शान्तियोगप्रदं प्रभो ॥ ९॥
सर्वं मायामयं विद्धि पञ्चकं पञ्चकं यतः ।
त्रिविधं भ्रान्तिरूपं यन्नानाभेदमयं भवेत् ॥ १०॥
भ्रान्तिधारकरूपं यत्तच्चतुर्थं प्रकथ्यते ।
तेषामभेदसंयोगे ब्रह्मयोगमयं मतम् ॥ ११॥
पृथ्वी जलं तथा तेजस्त्रिविधं भ्रान्तिदायकम् ।
वायुर्भ्रान्तिधरस्तत्र तुरीयात्मा प्रकथ्यते ॥ १२॥
तेषामभेदसंयोग आकाशं ब्रह्म कथ्यते ।
भूतानां ज्ञानदं कस्माद्भूतं नैव प्रकीर्तितम् ॥ १३॥
तथैव पञ्चकं सर्वं जानीहि मुनिसत्तम ।
मायामायिकसंयुक्तं ब्रह्म स्वानन्दसंज्ञितम् ॥ १४॥
कर्मेन्द्रियाणि पञ्चैव पञ्चज्ञानेन्द्रियाणि च ।
पञ्चतन्मातृकाः प्रोक्ता एवं जानीहि मानद ॥ १५॥
पञ्च देवा निजे देहे कर्मेन्द्रियविकाशकाः ।
तथा ज्ञानेन्द्रियाणां च प्रकथ्यन्ते प्रकाशकाः ॥ १६॥
स्थूलं सूक्ष्मं समं चैवात्मप्रतीतिप्रदायकम् ।
बिन्दुः पञ्चममत्रस्थं देहपञ्चकमुच्यते ॥ १७॥
स्वर्गो मृत्युश्च पातालं ब्रह्माण्डं च तुरीयकम् ।
गुणेशः पञ्चमः पूर्णोंऽडपञ्चकमुदाहृतम् ॥ १८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महामुने ।
योगिभिर्वर्णहीनाश्च वर्णपञ्चकमुच्यते ॥ १९॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
आश्रमैर्हीनरूपश्चाश्रमपञ्चकमुच्यते ॥ २०॥
अण्डजः खेदजो विप्रैरुद्भिज्जो जारजः स्मृतः ।
मानसश्चैव विपेन्द्र योनिपञ्चकमुच्यते ॥ २१॥
रक्तः श्वेतस्तथा श्यामो नीलः पीतश्च पञ्चमः ।
एवं कथयितुं रङ्गपञ्चकं न प्रशक्यते ॥ २२॥
देहेषु देहरूपं यदभिमानेन पञ्चधा ।
देहिपञ्चकमेतच्च ज्ञातव्यं मुनिसत्तम ॥ २३॥
शक्तिः सूर्यस्तथा ब्रह्मा विष्णू रुद्रो महामते ।
गुणपञ्चकमित्युक्तं भिन्नभावधरं पितः ॥ २४॥
शक्तिः सूर्यश्च विष्णुश्च शिवश्चाऽत्र तुरीयकः ।
गणेशः पञ्चमो विप्रैः पञ्चायतनमुच्यते ॥ २५॥
प्रकृतिः पुरुषश्चैव स्वत उत्थानसंज्ञितम् ।
परतोत्थानरूपं च संयोगः पञ्चमः स्मृतः ॥ २६॥
असद्वेदेषु सद्विप्रैरानन्दश्चोभयात्मकः ।
अव्यक्तश्च निजानन्दो नैजं पञ्चकमुच्यते ॥ २७॥
देहो देही च बोधाख्यं साङ्ख्यमत्र चतुर्थकम् ।
पञ्चमं च स्वसंवेद्यं भवपञ्चकमुच्यते ॥ २८॥
प्रकृत्यालयसंज्ञश्च विदेहो भवप्रत्ययः ।
उपायप्रत्ययो योगो योगपञ्चकमुच्यते ॥ २९॥
एवं सर्वं च जानीहि पञ्चकं पञ्चकं परम् ।
मयाऽशक्यं कथयितुं तस्मान् मुख्यं प्रकीर्तितम् ॥ ३०॥
तत्र योगे महाशान्तिर्लभ्यते योगसेवया ।
योगाच्च न परं ब्रह्म वेदेषु परिकीर्तितम् ॥ ३१॥
सर्वब्रह्मसुयोगस्य योगस्तेन महामुने ।
(Page खं. २ अ. ६९ पान १४६)
न योगे कस्यचिद्भावो ब्रह्मणश्च प्रजापते ॥ ३२॥
गृत्समद उवाच ।
एवं पुत्रं वदन्तं स प्रणिपत्य महामुनिः ।
उवाच कर्दमो यज्ञं योगेप्सुः परमादृतः ॥ ३३॥
कर्दम उवाच ।
केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते ।
तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ ३४॥
कपिल उवाच ।
गणेशभजनं मुख्यं शान्तियोगप्रदं मतम् ।
योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥ ३५॥
सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने ।
य आदिः प्रलयान्ते स तिष्ठति श्रुतिसम्मतम् ॥ ३६॥
ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् ।
गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥ ३७॥
नानाजगत्स्वरूपं वै देहरूपं कृतं मुने ।
महात्मना तेन कृतं नानाब्रह्ममयं शिरः ॥ ३८॥
यस्माज्जातमिदं यत्रान्ते गच्छति महामते ।
तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥ ३९॥
त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् ।
तयोर्योगे गणेशोऽयं देहमस्तकयोगतः ॥ ४०॥
चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा ।
मोहरूपा महासिद्धिर्बुद्धिर्वै मोहधारिका ॥ ४१॥
तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः ।
चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥ ४२॥
पञ्चधा चित्तमुत्सृज्य तदैश्वर्यं तथैव च ।
योगशान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥ ४३॥
तस्मात्तं भज मन्त्रेणैकाक्षरेण महामुने ।
तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥ ४४॥
एवमुक्त्वा महायोगी कपिलस्तत्त्वधारकः ।
विरराम महासाधो विष्णुः प्रह्लाद सोऽव्ययः ॥ ४५॥
ततः प्रणम्य तं पुत्रं कपिलं कर्दमो मुनिः ।
ययौ तपोवनं सद्यस्तताप परमं तपः ॥ ४६॥
एकाक्षरविधानेन परितुष्टो गजाननः ।
योगं शान्तिमयं तस्मै प्रददौ भक्तवत्सलः ॥ ४७॥
कर्दमः शान्तभावेन गणेशमभजत् परम् ।
विचचार महायोगी धरणीं लोकधारकः ॥ ४८॥
देवहूतिश्च तत्रैव योगं चासाधयत् परम् ।
गणेशं हृदि भावेन धृत्वा कपिलसन्निधौ ॥ ४९॥
क्रमेण शान्तिमापन्ना चित्तं त्यक्त्वा महासती ।
चिन्तामणौ तदाकारा बभूव भ्रमवर्जिता ॥ ५०॥
तां दृष्ट्वा सिद्धिमापन्नां कपिलः स ययौ ततः ।
गङ्गाया दक्षिणे तीरेऽभजत्तं गणनायकम् ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते देवहूतिकर्दमशान्तिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥ २.६९
(Page खं. २ अ. ७० पान १४७)
२.७० चिन्तामणिहरणं नाम सप्ततितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
एकदा कपिलस्यैवाश्रमं देवपतिर्ययौ ।
सर्वामरसमायुक्तस्तं ननाम कृताञ्जलिः ॥ १॥
अपराह्णे च सम्प्राप्तमिन्द्रं दृष्ट्वा महामुनिः ।
न्यमन्त्रयत् क्षुधायुक्तं सर्वैर्योगीश्वरो मुदा ॥ २॥
सिद्धियुक्तं गणेशानं ध्यात्वा ह्यमृतमुत्तमम् ।
देवार्थं कल्पयित्वा स भोजयामास तेन तान् ॥ ३॥
पृथिव्यमृतभोगेन सन्तुष्टः सुरनायकः ।
मुनये वायुनाऽऽनाय्य प्रददौ मणिमुत्तमम् ॥ ४॥
गणेशभूषणं चिन्तामणिर्मुख्यं प्रकथ्यते ।
योगी धृत्वा तमात्मानं मन्यते स्म कृतार्थकम् ॥ ५॥
कपिलस्तत्र मनसि विचारमकरोत् परम् ।
गणेशोऽहं न भिन्नश्च योगमार्गपरायणः ॥ ६॥
अतो गणेशदेवेन प्रेरितोऽयं मणिर्महान् ।
कण्ठे च तं बबन्धाऽसौ यथा गणपतिस्तथा ॥ ७॥
तं दृष्ट्वा हर्षिता देवा सेन्द्राः स्वस्वस्थलं ययुः ।
कपिलः स्वाश्रमे तत्र संस्थितो मणिसंयुतः ॥ ८॥
प्रल्हाद उवाच ।
स्वानन्दवासकारी च गणेशो ब्रह्मनायकः ।
तस्येन्द्रेण मणिर्योगिन् कथं लब्धो वदस्व माम् ॥ ९॥
गृत्समद उवाच ।
शृणु प्रह्लाद माहात्म्यं चिन्तामणिसमुद्भवम् ।
कथयामि च ते प्रीत्या सर्वपापप्रणाशनम् ॥ १०॥
एकदा विष्णुना पूर्वं तपस्तप्तं सुदारुणम् ।
तेन शान्तिरनुप्राप्ता षडक्षरविधानतः ॥ ११॥
तस्मै भक्तिपरीक्षार्थं ददौ चिन्तामणिं प्रभुः ।
गणेशो भक्तिदानार्थं चिन्तितार्थप्रदायिनम् ॥ १२॥
विष्णुना पूजने क्षिप्तो मणिश्चिन्तामणिः प्रभो ।
अहं भक्तो गणेशस्य न योग्यो धारणे मणिः ॥ १३॥
भूषणं गणनाथस्य पूजनीयं विशेषतः ।
न धार्यं देवदासैस्तत् पूजा कार्या च नित्यदा ॥ १४॥
शान्तियोगेन विघ्नेशो मया हृदि हृतः स्वके ।
न भिन्नस्तदपि स्वामी स दासोऽहं स्वभावतः ॥ १५॥
ततो बहुगते काल इन्द्रस्तपसि संस्थितः ।
एकाक्षरविधानेनाऽतोषयद्गणनायकम् ॥ १६॥
बभूव युक्तो ध्यानेन सततं देवनायकः ।
योगयुक्तः क्रमेणैव गाणपत्यो बभूव सः ॥ १७॥
शान्तिं प्राप्य स्वयं देवो गणेशाभेदतां गतः ।
आययौ स्वगृहं पश्चाद् देवराज्यं चकार ह ॥ १८॥
एतस्मिन्नन्तरे दैत्यगृहे शुश्राव केशवः ।
अशरीरां महावाणीं शृणु तत् कथयामि ते ॥ १९॥
चिन्तामणिं महाविष्णो देहीन्द्राय महामते ।
शान्तियोगधरायाद्य मद्भक्ताय ददाम्यहम् ॥ २०॥
श्रुत्वाऽऽकाशभवां वाणीं ययौ विष्णुर्ददौ परम् ।
महेन्द्रायामरावत्यां मणिं तं चिन्तितार्थदम् ॥ २१॥
मघवा दासभावेन संस्थाप्याऽपूजयन् मणिम् ।
न योगमदतां प्राप्तो महेन्द्रश्च प्रतापवान् ॥ २२॥
तं मणिं कपिलं दृष्ट्वा शान्तियोगधरं प्रभुम् ।
ददौ तस्मै महेन्द्रः स भावयुक्तेन चेतसा ॥ २३॥
अयं सिद्धेश्वरः साक्षाद्योग्यः सन्धारणे मणेः ।
वयं गृहस्थसंशीला न योग्या इत्यधारयत् ॥ २४॥
एवं क्रमेण जानीहि चिन्तामणिसमागमम् ।
कपिलः स्वगले नित्यं बबन्ध गणराजवत् ॥ २५॥
(Page खं. २ अ. ७० पान १४८)
गते कियति काले वै कपिलस्याश्रमं ययौ ।
मृगयाभिरतो दैत्यो गणासुर इति स्मृतः ॥ २६॥
सेनां बहिः समास्थाप्य एकाकी मुनिमाययौ ।
कपिलं प्रणनामैव कृताञ्जलिपुटः स्थितः ॥ २७॥
विनीतं तं विलोक्यैव कपिलस्तमुवाच ह ।
कोऽसि कस्मादिहाऽऽयातो वद सर्वं नरोत्तम ॥ २८॥
गणासुर उवाच ।
गणासुर इति ख्यातो नाम्नाऽहं मुनिसत्तम ।
मृगयाभिरतो ह्यत्र दैवेनैवोपसादितः ॥ २९॥
तवाश्रमे क्षुधायुक्तः श्रान्तवाहन एव च ।
ससैन्यः सहसाऽऽगत्य सन्तृप्तः सुखदायके ॥ ३०॥
जलं फलान्यहं पीत्वा भक्षयित्वा ससैनिकः ।
दर्शनार्थं समायातः सेना मे सरसि स्थिता ॥ ३१॥
त्वद्दर्शनेन निष्पापो जातोऽहं मुनिसत्तम ।
आज्ञां देहि गमिष्यामि ससैन्यो नगरं स्वकम् ॥ ३२॥
तस्य तद्वचनं श्रुत्वा सन्तुष्टः कपिलोऽवदत् ।
ससैन्यो भुङ्क्ष्व किञ्चित्त्वं मद्दत्तं नृपसत्तम ॥ ३३॥
ममाश्रमे च दैत्येन्द्र क्षुधितस्त्वं समागतः ।
अतस्त्वां प्रार्थये भूप अतिथिं सुसमागतम् ॥ ३४॥
तथेति संस्थितस्तत्र गणदैत्यः प्रतापवान् ।
उक्त्वा विनयसंयुक्तः कपिलेन सुसत्कृतः ॥ ३५॥
ततः कपिलशिष्येण सेनाऽऽनीता गणस्य वै ।
सेनया सह दैत्येशं पूजयामास तं मुनिः ॥ ३६॥
चिन्तामणिं स सम्पूज्य प्रार्थयामास भोजनम् ।
यथारुचि च सर्वेषां तथा देयं महामणे ॥ ३७॥
ततो मणिप्रसादेन षड्रसैः संयुतं परम् ।
स्थितं पात्रेषु सर्वत्र प्रेषितं त्वन्नमादरात् ॥ ३८॥
ततस्तैर्भुक्तमत्यन्तं स्वादयुक्तं विशेषतः ।
ससैन्यो गणदैत्योऽभूद्विस्मितो चेतसा भृशम् ॥ ३९॥
मुनिं प्रणम्य दैत्येश आर्थयत्तं महामणिम् ।
न ददौ तं मुनिश्रेष्ठो गाणेशं भूषणं मणिम् ॥ ४०॥
ततो मुनिं तिरस्कृत्य हस्तात्तस्य प्रगृह्य तम् ।
मणिं स प्रययौ स्थानं हर्षनिर्भरमानसः ॥ ४१॥
मुनिः क्षुब्धो महाभाग तस्य नाशाय दुर्मतेः ।
विचारमकरोच्चित्ते मणिग्रहणलालसः ॥ ४२॥
सुसाधुवदहो दैत्योऽविनीतः सुसमागतः ।
चकार कर्म प्रह्लाद पश्य तत् जातिवत् परम् ॥ ४३॥
अतो दुष्टोऽविनीतश्च न विश्वास्यः कदाचन ।
दुष्टसङ्गतियोगेन ज्ञानभ्रंशः प्रजायते ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते चिन्तामणिहरणं नाम सप्ततितमोऽध्यायः ॥ २.७०
(Page खं. २ अ. ७१ पान १४९)
२.७१ कपिलवरप्रदानं नामैकसप्ततितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
प्रल्हाद उवाच ।
कोऽसौ गणासुरो दैत्यो येन चासत्कृतो मुनिः ।
समर्थः कपिलः साक्षात् प्रलयाग्निसमद्युतिः ॥ १॥
यस्य क्रोधयुता दृष्टिः सगरान् प्रददाह सा ।
तं तिरस्कृत्य जीवन् स कथं स्वनगरे गतः ॥ २॥
गृत्समद उवाच ।
शृणु प्रह्लाद यत्नेन गणासुरविचेष्टितम् ।
सर्वं वदामि पापघ्नं गणेशचरिताश्रितम् ॥ ३॥
अभिजिन्नाम राजर्षिरपुत्रः सम्बभूव ह ।
पुत्रार्थं स वनं राजा ययौ त्यक्त्वा स्वराज्यकम् ॥ ४॥
भ्रमन् ददर्श योगीशं वैशम्पायनमञ्जसा ।
तं प्रणम्य सपत्नीकः पप्रच्छ विनयान्वितः ॥ ५॥
पुत्रप्राप्तेरुपायं मे वद सर्वज्ञ ते नमः ।
मुनिना मन्त्रराजस्तु दत्तस्तस्मै प्रजापते ॥ ६॥
चातुर्मास्यप्रयोगं तं विधियुक्तं नृपस्य सः ।
उपदिश्य ततस्तीर्थं प्रभासं संस्थितोऽभवत् ॥ ७॥
अभिजित्तं प्रणम्यैव सस्त्रीकः प्रययौ महत् ।
तीर्थं तत्र यथायोग्यमनुष्ठानपरोऽभवत् ॥ ८॥
तत्र ब्रह्मा तपस्तेपे सरस्वत्या समन्वितः ।
स्नानार्थं सुतया युक्तः कदाचित् स जगाम ह ॥ ९॥
तत्रैकवस्त्रसंयुक्तां विधिर्दृष्ट्वा सरस्वतीम् ।
यौवनस्थां कुचाभ्यां तां रूपिणीं विस्मितोऽभवत् ॥ १०॥
अकस्माज्जलमध्येऽसौ कामबाणार्दितोऽभवत् ।
पुत्रीभावं समागृह्य चञ्चलं चित्तमाददे ॥ ११॥
कामेनात्यन्तमुग्रेण पीडितस्य जगद्गुरोः ।
वीर्यं तस्यास्खलत्तत्र जलमध्ये सुरेश्वर ॥ १२॥
ततः सुमनसा युक्तः सत्यलोकं ययौ विधिः ।
प्रयोगोऽभिजितः सोऽथ समाप्तस्तद्दिनेऽभवत् ॥ १३॥
सस्त्रीकः स्नानसिद्ध्यर्थं ययौ तीर्थं नृपस्तदा ।
तृषिता तस्य पत्नी सा जलपानरताऽभवत् ॥ १४॥
दैवयोगेन तद्वीर्यं ब्रह्मणो वारिणा सह ।
तस्या उदरगं जातममोघमसुरोत्तम ॥ १५॥
राजा समाप्य तत् सर्वं मन्त्रानुष्ठानमादरात् ।
ययौ स्वनगरं पूर्णं चक्रे वै राज्यमुत्तमम् ॥ १६॥
कालेन सुषुवे राज्ञी पुत्रं सा चारुहासिनी ।
तेजोयुक्तं महावीर्यं लक्षणैरुपशोभितम् ॥ १७॥
जातकर्मादिकं राजा चकार विधिवद् द्विजैः ।
दत्त्वोपवीतदानं स वेदाभ्यासे मतिं ददौ ॥ १८॥
स्वल्पकालेन पुत्रोऽसौ गणो नाम्ना महाबलः ।
वेदशास्त्रनिधिर्जातस्ततोऽयात् स वनं स्वयम् ॥ १९॥
मार्गे च सहसाऽऽगत्य शुक्रः पञ्चाक्षरीं ददौ ।
तस्मै दीक्षां शिवस्याऽसौ तथा चक्रे स भावतः ॥ २०॥
शिवं ध्यात्वा तपस्तेपे महोग्रं वायुभक्षकः ।
दशवर्षसहस्रैस्तं ययौ भक्त्या सदाशिवः ॥ २१॥
आगतं शङ्करं दृष्ट्वाऽपूजयद् भक्तिभावतः ।
तुष्टाव विविधैस्तोत्रैर्वरदं तं जगाद सः ॥ २२॥
आरोग्यादिसमायुक्तं त्रिगुणान्न भयं च मे ।
त्रैलोक्यराज्यमुग्रं वै देहि मे त्वं सदाशिव ॥ २३॥
ओमित्युक्त्वा महादेवः स्वस्थानं प्रजगाम ह ।
गणश्च स्वगृहं दैत्य ययौ परमहर्षितः ॥ २४॥
सर्वानानन्दयामास सुहृदः पितरौ स्वकौ ।
ततो विजिग्ये पृथिवीं सेनया स्वेन तेजसा ॥ २५॥
(Page खं. २ अ. ७१ पान १५०)
ततो पित्राऽभिषिक्तोऽभूत् स्वराज्ये वनगेन सः ।
सपत्नीकेन भूपालो गणः स्थाने बभूव ह ॥ २६॥
ततो दैत्यैः समायातैर्नानादिग्भ्यो नृपो गणः ।
तैर्युक्तः सकलां पृथ्वीं विजिग्ये द्वीपसंयुताम् ॥ २७॥
पातालं स ततो नागैर्जिगाय बलसंयुतः ।
युद्धं कृत्वा महाघोरं ततः स्वर्गं ययौ गणः ॥ २८॥
स्वर्गं जित्वा सहेन्द्रैः स ततो ब्रह्माणमञ्जसा ।
विष्णुं शिवं क्रमेणैवाजयत्तेजःसमन्वितः ॥ २९॥
ततस्तान् करदान् कृत्वा स्थापयामास देवपान् ।
स्वस्वस्थानेषु तत्रैकं दैत्यं न्यस्य धरां ययौ ॥ ३०॥
एवं त्रैलोक्यराज्यं स जित्वा सर्वांश्चकार ह ।
ततश्चिन्तामणिं दुष्टो जहार कपिलस्य सः ॥ ३१॥
कपिलो गणनाथस्य भक्तः परमभाविकः ।
तताप स तपो घोरं गणेशस्य महात्मनः ॥ ३२॥
वर्षेणैकेन देवेशो ययौ मूषकवाहनः ।
सिद्धिबुद्धिसमायुक्तो बोधयत्तं महामुनिम् ॥ ३३॥
कपिलस्तं गणाध्यक्षमागतं पूजयन् प्रभुम् ।
तुष्टाव साश्रुनेत्रश्च प्रेमगद्गदया गिरा ॥ ३४॥
कपिल उवाच ।
नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ३५॥
आकाशाय च भूतानां मनसे चामरेषु ते ।
बुद्ध्यै चेन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ ३६॥
देहानां बिन्दुरूपाय सोऽहंरूपाय देहिनाम् ।
तयोरभेदभावेषु बोधाय तु नमो नमः ॥ ३७॥
साङ्ख्याय वै विदेहानां सयोगानां निजात्मने ।
चतुर्णां पञ्चमायैव सर्वत्र तु नमो नमः ॥ ३८॥
नामरूपात्मकानां वै शक्तिरूपाय ते नमः ।
आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ३९॥
आनन्दानां महाविष्णुरूपिणे नेतिधारिणाम् ।
शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ४०॥
कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम् ।
समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ४१॥
स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः ।
तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ४२॥
निर्मायिकस्वरूपाणामयोगाय नमो नमः ।
योगानां योगरूपाय गणेशाय नमो नमः ॥ ४३॥
शान्तियोगप्रदात्रे ते शान्तियोगमयाय च ।
किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ ४४॥
जगाद गणनाथो वै ततस्तं भक्तमुत्तमम् ।
हर्षेण महता युक्तो हर्षयन् मुनिसत्तमम् ॥ ४५॥
गणेश उवाच ।
त्वया कृतं मदीयं यत् स्तोत्रं योगप्रदं भवेत् ।
धर्मार्थकाममोक्षणां दायकं च न संशयः ॥ ४६॥
वरं वरय दास्यामि मत्तस्त्वं भक्तियन्त्रितः ।
त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ ४७॥
तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह ।
त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ ४८॥
त्वदीयभूषणं दैत्यो गणो हृत्वा जगाम ह ।
मत्तश्चिन्तामणिं नाथ जहि तं मणिमानय ॥ ४९॥
स्मरामि चेद्यदाऽहं त्वां तदात्मानं प्रदर्शय ।
एतमेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ ५०॥
गृत्समद उवाच ।
तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः ।
उवाच तं महाभागं प्रेमयुक्तं विशेषतः ॥ ५१॥
(Page खं. २ अ. ७२ पान १५१)
गणेश उवाच ।
त्वया यत् प्रार्थितं विष्णो तत् सर्वं प्रभविष्यति ।
तव पुत्रो भविष्यामि गणासुरवधाय च ॥ ५२॥
एवमुक्त्वान्तर्दधेऽसौ ढुण्ढिराजः प्रतापवान् ।
मुनिस्तं हृदि सञ्चिन्त्य स्वाश्रमस्थो बभूव ह ॥ ५३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते कपिलवरप्रदानं नामैकसप्ततितमोऽध्यायः ॥ २.७१
२.७२ गणासुरवधो नाम द्विसप्ततितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
ततः स्वल्पे गते काले मुनिर्होमपरायणः ।
हुत्वाऽग्निं ध्याननिष्ठोऽभूद्गणेशस्य महात्मनः ॥ १॥
ततोऽग्निकुण्डमध्याद्वै गणेशो निःसृतः पुरः ।
चतुर्बाहुधरो रक्तः स बभौ परमश्रिया ॥ २॥
सिद्धिबुद्धिसमायुक्तं सिंहगं परशोर्धरम् ।
एकदन्तं विशालाक्षं शुण्डादण्डविराजितम् ॥ ३॥
नाभिशेष क्वणत्पादं ददर्श कपिलः परम् ।
उत्थाय तं ननामाऽसौ भक्तियुक्तेन चेतसा ॥ ४॥
पूजयित्वा प्रतुष्टावाथर्वशीर्षभवेन वै ।
स्तोत्रेण तेन सन्तुष्टस्तमुवाच गजाननः ॥ ५॥
गणेश उवाच ।
तव पुत्रो मुनेऽहं वै जातो गणवधाय च ।
हनिष्यामि महादैत्यं ग्रहीष्यामि महामणिम् ॥ ६॥
ततस्तं मुनिशार्दूलः प्रणम्य प्रत्युवाच ह ।
धन्यं मे जन्म देवेश पितरौ तप आश्रमः ॥ ७॥
विद्या व्रतादिकं सर्वं तव पादस्य दर्शनात् ।
पुत्रभावेन सम्प्राप्तस्तारणान् मां न संशयः ॥ ८॥
ततस्तस्य महाभक्तिं चक्रे वै नित्यमादरात् ।
तेन भक्तिरहस्यं यत्तज्ज्ञात्वा दुःखितोऽभवत् ॥ ९॥
ततः स्वात्मानमत्युग्रं निन्दयामास मानसे ।
अहो मानवरूपोऽहं शान्तियोगेन सङ्गतः ॥ १०॥
मया ज्ञानमदेनैव गले चिन्तामणिर्धृतः ।
गणेशवन्न सन्देहस्तद्भक्त्या हीनचेतसा ॥ ११॥
देवस्य समता नैव कर्तव्या भजनार्थिना ।
ब्रह्मणस्पतिनामा स गणेशश्चैकराट् बभौ ॥ १२॥
तस्य देहे मदर्थं वै सत्ता पूर्णा प्रवर्तते ।
योगिदेहेन सा सत्ता तस्मात्तं भजते महान् ॥ १३॥
चिन्तामणिर्मया प्राप्तः पूजायां स्थापितो न सः ।
गले धृतो मया मोहाद्गतश्चिन्तामणिर्ध्रुवम् ॥ १४॥
देवस्य भक्तिमाहात्म्यात् प्राप्तं भक्तेन भूषणम् ।
वस्त्रं वाहनकाद्यं च पूजनीयं न संशयः ॥ १५॥
गन्धपुष्पादिकं तस्योच्छिष्टं धार्यं विशेषतः ।
नैवेद्यं भक्षणीयं वै सदा भक्त्याऽऽदरेण च ॥ १६॥
न देवसमता कार्या दासैर्वै नित्यमादरात् ।
भययुक्तेन संसेवा कार्या भक्तेन धीमता ॥ १७॥
मदीयसङ्गतश्चिन्तामणिश्चाहो सुदुःखितः ।
गतो दैत्यकरे साक्षादसुरस्तं प्रपीडयेत् ॥ १८॥
अतो गणेशमत्यन्तं प्रार्थयामि वधाय च ।
गणस्य तद्वधाच्चिन्तामणिः सद्यः सुलभ्यते ॥ १९॥
(Page खं. २ अ. ७२ पान १५२)
विचार्येति स योगीन्द्र एकदन्तं जगाद च ।
स्वामिन् हत्वा गणं शीघ्रं मणिमानय विघ्नप ॥ २०॥
कपिलस्य वचः श्रुत्वा हृष्टस्तं त्वेकदन्तकः ।
जगाद ते प्रियं तात करिष्यामि न संशयः ॥ २१॥
एकदन्तेन तद्रात्रौ स्वप्नो दत्तो गणस्य च ।
स्वप्नेन भ्रान्तरूपोऽभूद्विचारमकरोत् स्वयम् ॥ २२॥
सिंहारूढश्चतुर्बाहुः कुञ्जराननधारकः ।
परश्वधधरः क्रूरः कोऽयं स्वप्ने प्रदर्शितः ॥ २३॥
कपिलेन समादिष्टो मस्तकं मे च सोऽच्छिनत् ।
मणिं समागृह्य ददौ कपिलाय महात्मने ॥ २४॥
अयं स्वप्नो मया दुष्टो दृष्टः किं वा भविष्यति ।
अतः कपिलनाशार्थं यामि सैन्यसमन्वितः ॥ २५॥
ततो धृत्वा च शस्त्रादीन् नानावीरसमन्वितः ।
रात्रौ कपिलमुग्रोऽसौ ययौ हन्तुं तदाश्रमम् ॥ २६॥
प्रभाते दैत्यराजः स सम्प्राप्तः कपिलाश्रमम् ।
शिष्यैर्दृष्टो महादुष्टः कपिलं ते ययुस्ततः ॥ २७॥
स्वामिन् समागतो दैत्यो गणनामा ससैनिकः ।
ऊचुः शिष्याः प्रणम्यैनं कपिलं भयसंयुताः ॥ २८॥
ततो गणपतिं नत्वा वधार्थं तस्य वै मुनिः ।
प्रार्थयामास शीघ्रं स गणस्य विनयान्वितः ॥ २९॥
ततः क्रुद्धो गणेशानः सिंहारूढो ययौ गणम् ।
गणेन पुरुषो दृष्टः स्वप्नगः स च निश्चितम् ॥ ३०॥
ततो गणेन योधाश्च दैत्येशाः प्रेरिता रणे ।
उदायुधा महोग्रास्त आययुर्देवसन्निधिम् ॥ ३१॥
तान् दृष्ट्वा कुपिता देवी सिद्धिर्वामाङ्गसंस्थिता ।
गणेशं मनसि ध्यात्वा पुत्रं सा निर्ममेऽतुलम् ॥ ३२॥
तेन सर्वं हतं सैन्यं प्रेरितेन गणस्य वै ।
सिद्ध्या पलायत ततः सैन्यं तस्य दिशो दश ॥ ३३॥
विजयी पुरुषः सोऽपि गणेशं प्रणनाम ह ।
सस्त्रीकं तेन नाम्ना स कृतो लक्ष इति प्रभुः ॥ ३४॥
जगति ब्रह्मणि त्वं वै तिष्ठ सर्वत्र पुत्रक ।
नरेण यादृशं लक्षं क्रियते भुङ्क्ष्व तादृशम् ॥ ३५॥
हृदि लक्षप्रतापी त्वं सर्वेभ्यो नाऽत्र संशयः ।
सिद्धिपुत्र महाभाग मद्भक्तान् रक्ष यत्नतः ॥ ३६॥
बुद्धिपुत्रः स्वयं लाभः फलदाता भविष्यति ।
अनुसारेण लक्षस्य तव भ्राता महाबलः ॥ ३७॥
भुक्तौ मुक्तौ तथा पापे हृदि ब्रह्मणि जन्तवः ।
लक्षं कुर्वन्ति ये तेषां लाभश्चैतादृशो भवेत् ॥ ३८॥
एवमुक्त्वा स्वपुत्रं तं लक्षमेकरदस्ततः ।
युद्धाय स ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ ३९॥
तमागतं स विज्ञाय प्रतापी स गणासुरः ।
हन्तुं शस्त्रममोघं यदाददे धनुषि स्वयम् ॥ ४०॥
तावच्च गणराजेन पर्शुना तूग्रवेगिना ।
दैत्यराजगणस्यैव शिरश्छिन्नं पपात सः ॥ ४१॥
हाहाकृत्वाऽसुराः सर्वे पातालं विविशुस्ततः ।
देवा हर्षयुताः सर्वे मुनयस्ते ययुर्विभुम् ॥ ४२॥
कपिलं सान्त्वयामासागृह्य दत्वा मणिं पुनः ।
कपिलायैकदन्तस्तु कपिलः प्रणनाम तम् ॥ ४३॥
जगाद भक्तिसंयुक्तः कपिलो गणनायकम् ।
स्वामिंस्त्वदीयमेतद्वै भूषणं तद् गृहाण भोः ॥ ४४॥
अस्माभिः पूजनीयं तच्चायोग्यं धारणे प्रभो ।
अतस्त्वमेव विघ्नेश स्वगले धारयस्व तत् ॥ ४५॥
(Page खं. २ अ. ७३ पान १५३)
चित्ते निवासिना स्वामिंस्त्वया ज्ञातमतः प्रभो ।
मदीयं चिन्तितं सर्वं तादृशं सफलं कृतम् ॥ ४६॥
अतस्ते भविता चिन्ता मणिर्नाम न संशयः ।
एवमुक्त्वा स्वयं तस्यारोपयत्तं मणिं गले ॥ ४७॥
ततः स मणिमादाय स्वानन्दं चैकदन्तकः ।
अन्तर्धानं चकाराऽपि देवेशा विस्मिता ययुः ॥ ४८॥
कपिलेन सदा ध्यानबलेन हृदये विभुः ।
चिन्तामणिः सुभावेन पूजितस्तत्त्वबोधिना ॥ ४९॥
एवं गणासुरं हत्वा भक्तिं दत्वा सुरेश्वर ।
कपिलायैकदन्तस्तु चक्रे वै साधुरक्षणम् ॥ ५०॥
इदमेकरदस्यैव चरितं सर्वदं परम् ।
शृणुयात् सर्वपापघ्नं पठेद्वा तस्य सम्भवेत् ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते गणासुरवधो नाम द्विसप्ततितमोऽध्यायः ॥ २.७२
२.७३ गृत्समदप्रल्हादसंवादसमाप्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गत्समद उवाच ।
एवं नानावतारा य एकदन्तस्य धीमतः ।
तेषां चरित्रविस्तारं मया वक्तुं न शक्यते ॥ १॥
यत्र वेदादयो दैत्य न समर्था भवन्ति वै ।
तत्र कोऽहं महासाधो स्वल्पबुद्धिप्रधारकः ॥ २॥
गणेश एकदन्तोऽयं सोऽहं ब्रह्मणि संस्थितः ।
देहिनां ज्ञानदाने च स्वस्वव्यापारके प्रभुः ॥ ३॥
एकदन्तः स सर्वेशः पूर्णयोगस्य धारकः ।
तत्रार्थान्तरभावेन ज्ञातव्यो विबुधैः परः ॥ ४॥
एकवाच्या महामाया तत्र सत्ताप्रधारकः ।
दन्तश्च मायिकः प्रोक्तस्तयोर्योगे हि स स्मृतः ॥ ५॥
तं भजस्व महाभाग प्रह्लाद विधिपूर्वकम् ।
नष्टशापश्च भावी त्वमेकदन्तप्रसादतः ॥ ६॥
मुद्गल उवाच ।
पुनर्गृत्समदं प्राह प्रह्लादो विनयान्वितः ।
गणेशज्ञानभोगार्थं वैष्णवानां शिरोमणिः ॥ ७॥
प्रल्हाद उवाच ।
विष्णुभक्तोऽहमत्यन्तं मुने जन्मादितः खलु ।
अतः केन प्रकारेण भजामि गणनायकम् ॥ ८॥
सर्वज्ञस्त्वं विशेषेण पृच्छामि त्वामतः प्रभो ।
वद सर्वं गणेशस्य योगसाधनमुत्तमम् ॥ ९॥
गृत्समद उवाच ।
गणेशस्यावताराश्च चत्वारः परिकीर्तिताः ।
गौणांस्तांस्ते वदामीह संशयच्छेदनाय वै ॥ १०॥
स्वानन्दनगरे देवो गणेशानः प्रतिष्ठते ।
स्वयं ससर्ज लीलार्थं जगद्ब्रह्मा सुरेश्वर ॥ ११॥
तेषु नानाविधां क्रीडां करोति गणनायकः ।
जगत्सु ब्रह्म जानीहि स त्वं तं योगसेवया ॥ १२॥
स ब्रह्मणि चतुर्धा वै जातः क्रीडार्थमादरात् ।
पञ्चमो निजलोकस्थस्तेषां संयोगधारकः ॥ १३॥
चतुरो मोहयित्वा वै मायया स गणेश्वरः ।
तिष्ठति स्वस्वरूपेण तेषां हृदि गजाननः ॥ १४॥
(Page खं. २ अ. ७३ पान १५४)
नामरूपात्मकेष्वेव ब्रह्म यत् परितिष्ठति ।
जानीहि वेदेषु तदसद्रूपं शक्तिवाचकम् ॥ १५॥
तेष्वात्माऽमृतरूपश्च भानुः सद्रूपवाचकः ।
तयोरभेदभावेष्वानन्दो विष्णुः स उच्यते ॥ १६॥
त्रिष्वव्यक्तस्वरूपं यन्नेति कर्ता विशेषतः ।
निर्मोहः शिव एवाऽसौ तुर्यो वेदे प्रकथ्यते ॥ १७॥
चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः ।
तद्ब्रह्म गणनाथोऽयं नानाखेलकरोऽभवत् ॥ १८॥
एवं तस्यावताराश्च चत्वारः परिकीर्तिताः ।
चतुर्भावप्रसिद्ध्यर्थं गौणरूपास्ततोऽभवन् ॥ १९॥
आनन्दात्मकलांशेन विष्णुं गणपरूपिणम् ।
जानीहि तं गणेशानान्न भिन्नं दानवोत्तम ॥ २०॥
चतुर्णां भजनेनैव मनः शुद्धिमवाप्नुयात् ।
ततो गाणेशयोगे सोऽधिकारी भवति स्वयम् ॥ २१॥
यथाऽऽश्रमविभागेन नरः क्रमपरायणः ।
एकं त्यक्त्वा स गृह्णाति द्वितीयं भक्तिसंयुतः ॥ २२॥
अन्ते योगी स शान्तिस्थ आश्रमै रहितो भवेत् ।
तद्वत् क्रमेण गाणेशा भवेयुर्वैष्णवादिकाः ॥ २३॥
अधुना शृणु देवस्य साधनं योगदं परम् ।
साधयित्वा स्वयं योगी भविष्यति न संशयः ॥ २४॥
स्वानन्दः स विहारेण संयुक्तश्च विशेषतः ।
सर्वसंयोगकारित्वाद्गणेशो मायया युतः ॥ २५॥
विहारेण विहीनश्चायोगो निर्मायिकः स्मृतः ।
संयोगाभेदहीनत्वाद्भवहा गणनायकः ॥ २६॥
संयोगायोगयोर्योगः पूर्णयोगः प्रकीर्तितः ।
प्रह्लाद गणनाथस्तु पूर्णो ब्रह्ममयः परः ॥ २७॥
योगेन तं गणाधीशं प्राप्नुवन्तीह योगिनः ।
तं विद्धि पूर्णभावेन संयोगायोगवर्जितम् ॥ २८॥
तस्य माया द्विधा प्रोक्ता सिद्धिर्बुद्धिश्च दैत्यप ।
बुद्धिः सा पञ्चधा जाता चित्तरूपा स्वभावतः ॥ २९॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
पञ्चधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥ ३०॥
क्षिप्तं मूढं च चित्तं यत् कर्मण्यपि विकर्मणि ।
संस्थितं तेन विश्वं वै चलति स्वस्वभावतः ॥ ३१॥
अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद ।
तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥ ३२॥
एकाग्रमष्टधा चित्तं तदेवैकात्मनि स्थितम् ।
सम्प्रज्ञातसमाधिस्थं साधु जानीहि सत्तम ॥ ३३॥
निरोधसंज्ञितं चित्तं निवृत्ते रूपधारकम् ।
असम्प्रज्ञातयोगस्थं जानीयाद्योगसेवया ॥ ३४॥
पञ्चधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता ।
माया सा गणनाथस्य त्यक्तव्या योगसेवया ॥ ३५॥
सिद्धिर्नानाविधा प्रोक्ता भ्रान्तिदा तत्र सम्मता ।
सिद्ध्यर्थं तत्र लोकाश्च भ्रमयुक्ता भवन्त्यतः ॥ ३६॥
धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता ।
ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पञ्चधा सदा ॥ ३७॥
मोहदा सिद्धिरत्यन्तं मोहधारकतां गता ।
बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥ ३८॥
बुद्धया यद् बुध्यते तत्र पश्चान् मोहः प्रवर्तते ।
अतो गणेशभक्त्या स मायाभ्यां वर्जितो भवेत् ॥ ३९॥
(Page खं. २ अ. ७४ पान १५५)
पञ्चधा चित्तवृत्तिं च पञ्चधा सिद्धिमादरात् ।
त्यक्त्वा गाणेशयोगेन गणेशं भज भावतः ॥ ४०॥
ततः स गणराजस्य मन्त्रं तस्मै ददौ स्वयम् ।
गणानां त्वेति वेदोक्तं स विधिं मुनिसत्तमः ॥ ४१॥
तेन सम्पूजितो योगी प्रह्लादेन महात्मना ।
ययौ गृत्समदो दक्ष स्वर्गलोकं विहायसा ॥ ४२॥
प्रह्लादश्च तथा साधुः साधयित्वा विशेषतः ।
योगी योगीन्द्रवन्द्यः स शान्तिसन्धारकोऽभवत् ॥ ४३॥
विरोचनाय राज्यं स ददौ पुत्राय दैत्यपः ।
गणेशभजने योगी संसक्तः सर्वदाऽभवत् ॥ ४४॥
सगुणं विष्णुरूपं च निर्गुणं ब्रह्मवाचकम् ।
गणेशेन धृतं सर्वं कलांशेन न संशयः ॥ ४५॥
एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रितः ।
हृदि चिन्तामणिं ज्ञात्वाऽभजच्चानन्यभावतः ॥ ४६॥
स्वल्पकालेन दैत्येन्द्रः शान्तियोगपरायणः ।
शान्तिं प्राप्तो गणेशे चैकभावः सोऽभवत्परः ॥ ४७॥
शापश्चैव गणेशेन प्रह्लादस्य निराकृतः ।
न पुनर्दुष्टसङ्गेनाऽभवद् भ्रान्तः स मानद ॥ ४८॥
एवं मदं परित्यज्यैकदन्तस्य समाश्रयात् ।
असुरोऽपि महायोगी प्रह्लादः सम्बभूव ह ॥ ४९॥
एतत् प्रह्लादमाहात्म्यं यः शृणोति नरोत्तमः ।
पठेत्तु तस्य वै दक्ष भवेदीप्सितदायकम् ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते गृत्समदप्रल्हादसंवादसमाप्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ २.७३
२.७४ चरितमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
एकदन्तस्य यत् क्षेत्रं सङ्क्षेपेण मया श्रुतम् ।
यात्रादि विस्तरेणैव कथयस्व महामुने ॥ १॥
मुद्गल उवाच ।
अग्निकोणे दिशां प्रान्ते स्वस्वखण्डेषु मानद ।
एकदन्तस्य च क्षेत्रं ज्ञातव्यं जलधेस्तटे ॥ २॥
दश योजनविस्तारं समन्तात्तत्र मध्यगः ।
एकदन्तो गणेशानः पूज्यते सिद्धसाधकैः ॥ ३॥
तद्वामाङ्गे स्वयं सिद्धिर्दक्षिणाङ्गे प्रजापते ।
बुद्धिश्च मूषकस्तस्य समीपे संस्थितः प्रभोः ॥ ४॥
सिद्धयोऽष्टौ पुरस्तस्य संस्थिता भक्तिकारिकाः ।
वामे देवादयः सर्वे भक्त्या तिष्ठन्ति संयुताः ॥ ५॥
दक्षिणाङ्गे च वेदादि शास्त्राणि प्रस्तुवन्ति तम् ।
पृष्ठे काश्यादि क्षेत्राणि तीर्थानि च भजन्ति तम् ॥ ६॥
श्रेष्ठस्वरूपकाः संस्थाः सर्वे त्रिभुवनेषु ये ।
ते क्षेत्रवासिनो भूत्वा भजन्ते त्वेकदन्तकम् ॥ ७॥
समुद्रे स्नानकर्तारः स्वस्वनाम्नाङ्कितेषु वै ।
तीर्थेषु सूक्ष्मरूपेषु सूक्ष्मरूपधराः सदा ॥ ८॥
तत्रैकदन्ततीर्थं वै सर्वलोकेषु विश्रुतम् ।
दर्शनात् सर्वपापघ्नं भुक्तिमुक्तिप्रदं भवेत् ॥ ९॥
भाद्रशुक्लचतुर्थ्यां महोत्सवस्तत्र वर्तते ।
यात्रार्थं सर्वलोकश्च त्रिलोकस्था व्रजन्ति तम् ॥ १०॥
(Page खं. २ अ. ७४ पान १५६)
ब्रह्मभूयकरं क्षेत्रं गाणेशं शास्त्रसम्मतम् ।
मरणे तत्र सम्प्राप्ते स्वानन्दे वसतिर्भवेत् ॥ ११॥
सङ्क्षेपेण मया प्रोक्तं यत्क्षेत्रस्य यशोऽमलम् ।
अयुतायुतवर्षैश्च विस्तारे कः क्षमो भवेत् ॥ १२॥
एतच्चरित्रमाद्यं वै कथितं ते महामते ।
एकदन्तस्य माहात्म्यं सङ्क्षेपेण तथा मया ॥ १३॥
विस्तरेण न शेषोऽपि ब्रह्मा विष्णुर्महेश्वरः ।
शुको नैव समर्थश्च भवेत् कथयितुं कदा ॥ १४॥
य एतदेकदन्तस्य चरित्रं सर्वसिद्धिदम् ।
शृणुयाच्छ्रावयेद्वापि पठेत् स लभतेऽखिलम् ॥ १५॥
पुत्रपौत्रादिकं सर्वं धनधान्यसमन्वितम् ।
कलत्रं सुखदं जन्तुर्लभते नात्र संशयः ॥ १६॥
अनेन भावसंयुक्त एकदन्तं प्रजापते ।
नित्यं स्तुयात् स एवैकदन्तरूपो धरातले ॥ १७॥
तस्य दर्शनमात्रेण कृतकृत्या भवन्ति च ।
देवादयो न सन्देहो ब्रह्माकारस्वरूपिणः ॥ १८॥
श्रवणेनैव खण्डस्य कृतकृत्यो नरो भवेत् ।
नारी वा पशुरूपो वा निश्चितं मुनिभिः पुरा ॥ १९॥
सर्वतीर्थेषु यः स्नायात् सर्वदानं करोति यः ।
तपांसि यस्तपेन्नित्यं यात्राः सर्वाः करोति यः ॥ २०॥
इष्टापूर्तादिकं सर्वं कुरुते भक्तिसंयुतः ।
तेभ्यः संश्रवणात् पुण्यं लभेदस्य शताधिकम् ॥ २१॥
धर्मार्थकाममोक्षान् वै लभते श्रवणेन च ।
खण्डस्यास्य न सन्देहो ब्रह्मभूतो भवेन्नरः ॥ २२॥
यद्यदिच्छति तत्तद्वै सफलं प्रभवेत् सदा ।
श्रवणेनैकदन्तस्य चरित्रस्य नरो महान् ॥ २३॥
सम्पूर्णो महिमा दक्ष न वक्तुं शक्यते मया ।
ब्रह्मादिभिश्च तस्मात्ते कथितं सारमञ्जसा ॥ २४॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
दक्षस्तं हर्षितोऽत्यन्तं प्रणनाम कृताञ्जलिः ॥ २५॥
महोदरस्य माहात्म्यश्रवणे लालसी स्वयम् ।
दक्षस्तं पुनरप्याह तदग्रे वर्णयाम्यहम् ॥ २६॥
एतच्छौनक मुख्यं ते चरित्रं कथितं मया ।
यथा दक्षेण सर्वं वै मुद्गलात् संश्रुतं तथा ॥ २७॥
सर्वसिद्धिकरं प्रोक्तमेकदन्तचरित्रकम् ।
श्रुतं भावेन भो विप्र किं भूयः श्रोतुमिच्छसि ॥ २८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
द्वितीये खण्डे एकदन्तचरिते चरितमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥ २.७४
॥ इति द्वितीयः खण्डः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे द्वितीयः खण्डः समाप्तः ॥
Proofread by Yash Khasbage