मुद्गलपुराणं खण्डः ३ महोदरचरितम्

मुद्गलपुराणं खण्डः ३ महोदरचरितम्

॥ मुद्गलपुराणं खण्डः ३॥ ॥ अथ श्रीमुद्गलपुराणे तृतीयः खण्डः प्रारभ्यते ॥ (Page खं. ३ अ. १ पान १)

३.१ रविवालखिल्यप्रश्नवर्णनं नाम प्रथमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सर्वार्थतत्त्वज्ञ तारितोऽहं त्वया द्विज । गणेशचरितं पुण्यं श्रावितं परमाद्भुतम् ॥ १॥ एकदन्तस्य माहात्म्यं श्रुतं त्वत्तो द्विजोत्तम । यथा नरः सुधापानात् न तृप्तोऽहं तथाऽभवम् ॥ २॥ महोदरस्य माहात्म्यमधुना वद विस्तरात् । कीदृशोऽयं गणेशस्तु कति तस्यावतारकाः ॥ ३॥ कुरुक्षेत्रं महत्तस्य कस्माद्भूमौ समागतः । इत्यादि सर्वमत्यन्तं माहात्म्यं वद तस्य मे ॥ ४॥ सूत उवाच । श‍ृणु शौनक विपेन्द्र धन्योऽस्यत्र न संशयः । विवर्धयसि ढुण्ढेस्त्वं रहस्यं परमाद्भुतम् ॥ ५॥ अतोऽहं हर्षितः सर्वं कथयिष्यामि विस्तरात् । महोदरस्य माहात्म्यं यथा व्यासाच्छ्रुतं मया ॥ ६॥ दक्षेणाऽपि तथा पृष्टं यथा त्वं मां प्रपृच्छसि । मुद्गलेन यथा प्रोक्तं तथैव त्वां ब्रवीम्यहम् ॥ ७॥ दक्ष उवाच । त्वया मुद्गल योगीन्द्र तारितोऽहं विशेषतः । मङ्गलायतनां पूर्णां कथां वदसि मानद ॥ ८॥ अधुना वद मे ब्रह्मन् महोदरचरित्रकम् । विस्तरेण महाभाग भवबन्धविमोचनम् ॥ ९॥ मुद्गल उवाच । धन्योऽसि दक्ष येन त्वं गणेशामृतसत्कथाम् । भावयुक्तश्च पिबसि सङ्क्षेपेण ब्रवीमि ते ॥ १०॥ महोदरस्य माहात्म्यं विस्तरेणैव वर्णितुम् । भुवनेष्वर्हति च कः सर्वसिद्धिप्रदायकम् ॥ ११॥ एवमेव पुरा पृष्टो वालखिल्यैर्महात्मभिः । सूर्यस्तानब्रवीद्यच्च तदेव श‍ृणु यत्नतः ॥ १२॥ दक्ष उवाच । कथं स वालखिल्यैश्व पृष्टो भानुर्महायशाः । तत्सर्वं विस्तरेणैव वक्तुमर्हसि मुद्गल ॥ १३॥ मुद्गल उवाच । रथस्थं भास्करं नित्यं महर्षय उपासते । वालखिल्या महाभागा भक्तियुक्तेन चेतसा ॥ १४॥ तत्र सूर्यं गणेशस्य कीर्तने निरतं मुदा । दृष्ट्वा पप्रच्छुरादित्यं विस्मिता वालखिल्यकाः ॥ १५॥ भानो त्वं ब्रह्मरूपश्च वेदेषु प्रतिपादितः । एक एवाद्वितीयाख्योऽमृतात्मा नात्र संशयः ॥ १६॥ त्वदीयभजनेनैव सिद्धाः परमयोगिनः । विष्णुमुख्याः सुरेशाना भवन्ति विविधा जनाः ॥ १७॥ कर्मणां मूलरूपेण सगुणस्त्वं विभासि वै । ज्ञानरूपेण सर्वत्र निर्गुणोऽसि दिवाकर ॥ १८॥ त्वत्तः परतरं नास्ति वेदादिषु विशेषतः । तदपि त्वं विशेषेण भजसे गणनायकम् ॥ १९॥ कोऽसौ गणेशनामा वै तं कथं भजसे वद । मोहयुक्ता वयं जातास्तव दृष्ट्वा चिकीर्षितम् ॥ २०॥ अतो नस्तेजसा नाथ वद तत्त्वं यथातथम् । कस्माद्भ्रामयसे सर्वान् गणेशस्तवनेन वै ॥ २१॥ मुद्गल उवाच । इति पृष्टो महातेजाः सूर्य आत्मा शरीरिणाम् । जगाद सकलं तेभ्यस्तच्छृणु त्वं प्रजापते ॥ २२॥ सूर्य उवाच । वालखिल्या महाभागाः श‍ृणुध्वं सर्वसम्मताः । चरितं गणनाथस्य भविष्यथ च योगिनः ॥ २३॥ अहमात्मा च वेदेषु कथितो नात्र संशयः । तत्र ज्ञानं वो वदामि भ्रमनाशकरं महत् ॥ २४॥ असत्यं ब्रह्म यत् प्रोक्तं तत्राहं जीवधारकः । एक एवाद्वितीयश्च सत्यरूपो महर्षयः ॥ २५॥ (Page खं. ३ अ. २ पान २) वेदादिभावभिन्नेष्वात्माकारेण व्यवस्थितः । सत्यासत्य इति द्वन्द्वं ज्ञातव्यं विबुधोत्तमैः ॥ २६॥ तयोरभेदभावे यत् समरूपं परात्परम् । आनन्द उभयानन्दाद्ब्रह्म यद्विष्णुरुच्यते ॥ २७॥ समानन्दात्तुरीयं यद्ब्रह्माव्यक्तस्वरूपकम् । सर्वेषां नेति कर्ताऽसौ शङ्करश्च प्रकथ्यते ॥ २८॥ चतुर्णां योगकर्ताऽसौ स्वानन्दः परिकीर्तितः । सर्वसंयोगरूपं तद्ब्रह्म वेदेषु कथ्यते ॥ २९॥ स्वपदान्न परो योगः संयोगात्मक उच्यते । स एव गणनाथश्च मायायुक्तः प्रकथ्यते ॥ ३०॥ मायया सर्वभावेषु संयोगाभेदतः स्वयम् । तिष्ठति ब्रह्म विप्रेशास्तेन तन्मायया युतम् ॥ ३१॥ अयोगश्च परः प्रोक्तः संयोगान्नात्र संशयः । निर्मायिकमिदं ब्रह्म वेदे चैव हि कथ्यते ॥ ३२॥ तत्र केषां न संयोगस्तस्य केष्वपि नो भवेत् । अयोगस्तेन नामाऽभूदभिन्नोऽपि महर्षयः ॥ ३३॥ संयोगायोगयोर्योगे गणेशो योगवाचकः । शान्तिदो ब्रह्मभावेषु ब्रह्मणस्पतिरुच्यते ॥ ३४॥ सर्वेषां ब्रह्मणां विप्राः पतिस्तेन प्रकीर्तितः । गणेशस्तं सदा भक्तियुक्तोऽहं प्रभजामि हि ॥ ३५॥ गणः समूहरूपश्च धातुरुक्तो मनीषिभिः । बाह्यान्तरादियोगे वै समूहो जायते द्विजाः ॥ ३६॥ तेनाऽयं गणराजोऽभूद्ब्रह्मरूपा गणा मताः । तेषां स्वामी न सन्देहस्तं भजेऽहं विशेषतः ॥ ३७॥ आत्माकारं च यद्ब्रह्म तदेवैकगणात्मकम् । सोऽहं स्वामिनमत्यन्तं भजे भक्तिपरिप्लुतः ॥ ३८॥ मुद्गल उवाच । सूर्यस्य वचनं श्रुत्वा वालखिल्या महर्षयः । ऊचुस्तं विस्मिताः सर्वे प्रबद्धकरसम्पुटाः ॥ ३९॥ वालखिल्या ऊचुः । रवे गणेशमाहात्म्यं विस्तराद्वद योगदम् । येन तत्त्वार्थविज्ञाने भवामस्तस्य कौशलाः ॥ ४०॥ रविरुवाच । श‍ृणुध्वं मुनयः सर्वे कथां सकलसिद्धिदाम् । ब्रह्मणा कथिता मे या सर्वपापप्रणाशिनी ॥ ४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रविवालखिल्यप्रश्नवर्णनं नाम प्रथमोऽध्यायः ॥ ३.१

३.२ सूर्यसञ्जीवनदानं नाम द्वितीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ वालखिल्या ऊचुः । वद सूर्य विशेषेण ब्रह्मणा कथितं महत् । गणेशस्य चरित्रं ते श्रवणे लालसा प्रभो ॥ १॥ सूर्य उवाच । पुराऽहमात्मरूपे च संस्थितः सर्वलोकगः । गणेशध्यानसन्निष्ठो योगीन्द्राणां गुरुः स्वयम् ॥ २॥ ब्रह्मणा सृष्टमत्यन्तं त्रैलोक्यं सचराचरम् । कश्यपस्तत्र मुख्यो वै प्रजापतिसमोऽभवत् ॥ ३॥ तेन मे वै तपस्तप्तं वर्षाणामयुतं द्विजाः । आकृष्णेनेति मन्त्रेण ध्याननिष्ठो बभूव ह ॥ ४॥ ततस्तं वरदाताऽहं गतस्तस्याश्रमे पुरा । स मां दृष्ट्वा नमस्कृत्याऽपूजयद्भक्तिसंयुतः ॥ ५॥ ततस्तुष्टाव मां विप्रः प्रबद्धकरसम्पुटः । वरदं सर्वभावेन भक्तिनम्रात्मकन्धरः ॥ ६॥ कश्यप उवाच । नमस्ते जगदाधार आत्मने परमात्मने । सूर्याय त्रिविधायैव त्रिकालज्ञाय ते नमः ॥ ७॥ भेदाभेदविहीनाय नानाभेदधराय ते । अनाकाराय देवाय शाश्वताय नमो नमः ॥ ८॥ अमेयशक्तये तुभ्यं कर्माधाराय भानवे । सर्वकर्ममयायैव त्रिरूपाय नमो नमः ॥ ९॥ अमृताय सदा ब्रह्मनिष्ठाय त्वन्तरात्मने । अर्यम्णे रवये चैव हरिदश्वाय ते नमः ॥ १०॥ आदिमध्यान्तहीनाय तदाधाराय ते नमः । अनन्तविभवायैव तेजोराशे नमो नमः ॥ ११॥ दीननाथाय सर्वाय दिनानां पतये नमः । नमो हन्त्रे स्वभक्तानां पालकाय नमो नमः ॥ १२॥ भुक्तिमुक्तिप्रदायैव नानाखेलकराय च । नमो नमः परेशाय पुरुषाय दिवस्पते ॥ १३॥ एकस्मै चाद्वितीयाय मायाधाराय मायिने । संज्ञापते नमस्तुभ्यं रक्ष मां शरणागतम् ॥ १४॥ आत्माकारं च सर्वत्र किं स्तौमि त्वां दिवाकरम् । समर्था नाभवन् वेदा अतस्त्वां प्रणमामहे ॥ १५॥ देहि मे परमेशान भक्तिं ते चरणाम्बुजे । अन्यं वरं ययाचेऽहं त्वं मे पुत्रो भव प्रभो ॥ १६॥ सूर्य उवाच । एवं वदन्तमानन्दयुक्तं मुनिवरं द्विजाः । अवदं तं प्रसन्नोऽहं भावयुक्तं तपस्विनम् ॥ १७॥ तव पुत्रो भविष्यामि द्वादशादित्यरूपवान् । मदीया भक्तिरुग्रा ते भविष्यति महामुने ॥ १८॥ यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् । भवामि स्मरणेनाऽहं प्रत्यक्षस्ते पुरो मुने ॥ १९॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिं मुक्तिं प्रदास्यामि मुने स्तोत्रेण तोषितः ॥ २०॥ एवमुक्त्वा वालखिल्याः सौरलोके गतोऽभवम् । अन्तर्धाय स्वमात्मानं सोऽपि सम्मुदितोऽभवत् ॥ २१॥ अदित्यापि तथा तप्तं तपो मे परमाद्भुतम् । तयाऽपीदं च विप्रेन्द्रा याचितं तन्मया कृतम् ॥ २२॥ अहं पुत्रस्य भावेन कश्यपाज्जठरे गतः । अदित्याश्च सुकाले सा सुषुवे मां महर्षयः ॥ २३॥ जातकर्मादिकं सर्वं चकार मुनिसत्तमः । काले मौञ्ज्यादिकं कर्म वेदाध्ययनमादिशत् ॥ २४॥ तथा तताप पुत्र्यर्थं विश्वकर्मा तपो द्विजाः । संज्ञाऽग्रे भविता पुत्री कर्मरूपा सुसिद्धिदा ॥ २५॥ तया तस्मै वरो दत्तः साऽपि पुत्री बभूव ह । मह्यं ततस्तेन भावेन दत्ता विश्वकर्मणा ॥ २६॥ अहं च ब्रह्मणा तत्राभिषिक्तो ज्योतिषां तथा । ग्रहाणां कर्मणां राज्ये ततोऽहं मुदितोऽभवम् ॥ २७॥ सदाधारमिदं सर्वं त्रैलोक्यं सचराचरम् । वृष्ट्यादिना तथा काले तत्करोमि स्म तर्पितम् ॥ २८॥ कर्मणां फलदाताऽहं कर्माधारः प्रकीर्तितः । वेदे सर्वजनानामन्तरात्मा जगदात्मनाम् ॥ २९॥ ततो बहौ गते कालेऽभवं मनसि गर्वितः । निराधारोऽहमेको वै मदाधारमिदं बभौ ॥ ३०॥ कश्यपस्य सुतोऽहं वै जातस्तत्र मया द्विजाः । (Page खं. ३ अ. २ पान ४) गणेशाराधनं किञ्चिन्न कृतं कर्मधारिणा ॥ ३१॥ एवं क्रमेण तत्राऽपि बहुः कालो गतोऽभवत् । ततोऽकस्माच्च मे विघ्नः समुत्पन्नः सुदारुणः ॥ ३२॥ माली सुमालिको दैत्यौ तेपतुस्तप उत्तमम् । दिव्यवर्षसहस्राणि शिवः सन्तोषितोऽभवत् ॥ ३३॥ वरं ददौ स ताभ्यां यद्याचितं तादृशं परम् । सूर्यतेजःसमं दिव्यं विमानं प्रापतुस्तदा ॥ ३४॥ ताभ्यां विमाननिष्ठाभ्यां जितं सर्वं चराचरम् । राज्यं तौ चक्रतुर्दैत्यौ त्रिलोकस्य महर्षयः ॥ ३५॥ ततो बहौ गते काले धर्षयन्तौ च मां द्विजाः । विमाने संस्थितौ दैत्यौ जग्मतुर्दिवि भानुवत् ॥ ३६॥ विमानतेजसा सर्वं व्याप्तं त्र्यैलोक्यमण्डलम् । रात्रिलोपं च सर्वत्र चक्रतुः परमाद्भुतौ ॥ ३७॥ अहमस्तङ्गतो दैत्यौ विमाने तत्र संस्थितौ । उदये समनुप्राप्तौ ततश्च दिवसोऽभवत् ॥ ३८॥ एवं मां तौ निरर्थं वै चक्रतुर्दैत्यपुङ्गवौ । अर्कतेजःसमानेन विमानेन महौजसौ ॥ ३९॥ अहं सङ्क्षुभितोऽत्यन्तं जातस्तदपि भो द्विजाः । असहे वरदानस्य बलं ज्ञात्वा विशेषतः ॥ ४०॥ एवं सप्त गतास्तत्र दिवसास्तदपि द्विजाः । न समे संस्थितौ दैत्यौ लोकाः सर्वे सुविस्मताः ॥ ४१॥ कर्मलोपश्च सर्वत्र भ्रमाज्जातो महर्षयः । तेजसा दग्धरूपा वै पृथ्वी जाता तथा जनाः ॥ ४२॥ ततोऽहं क्षुभितोऽत्यन्तं गर्वयुक्तः स्वतेजसा । ज्वालयामि विमानं स्म दैत्यौ भूमौ मुमूर्च्छतुः ॥ ४३॥ दग्धौ तेजःसमूहेन मदीयेन ततः शिवः । आययौ सहसा क्रुद्धः स्मृतस्ताभ्यां विशेषतः ॥ ४४॥ त्रिशूलेन मदीयं वै शिरश्छिन्नं शिवेन च । पतितोऽहं ततः काश्यां लुलितः स मृतोऽभवम् ॥ ४५॥ ततः सर्वं जगत् क्षुब्धं सूर्यहीनतया द्विजाः । तद् दृष्ट्वा परमाश्चर्यं ययुस्तत्र महर्षयः ॥ ४६॥ देवाः सर्वे भयोद्विग्ना विष्णुब्रह्मादयो ययुः । शङ्करं सान्त्वयामासुर्नानायत्नैः सुरर्षयः ॥ ४७॥ ततः शिवं समूचुस्ते किं कृतं वृषभध्वज । सूर्यं हत्वा सदात्मानं जगद्धारयसे कथम् ॥ ४८॥ त्वं कालरूपभावेन तमोयुक्तः सदाशिव । अकाले विश्वसंहारे वर्तसे किं महेश्वर ॥ ४९॥ तेषां वचनमाकर्ण्य शङ्करः शोकसंयुतः । जगाद तान् महादेवान् दैवेनेदं सुकारितम् ॥ ५०॥ निमित्तमात्रं भावेन मां कृत्वा च सुरर्षयः । विघ्नराजेन विघ्नोऽयं दारुणः सम्प्रकाशितः ॥ ५१॥ मह्यं पुरा गणेशानो वरदाता बभूव ह । स्मृतमात्रस्तवाग्रेऽहं साक्षाद्वै सम्भवामि च ॥ ५२॥ अतोऽहं शरणं तं च गमिष्याम्यधुना विभुम् । जीवयिष्यामि भानुं तं तेजसा गणपस्य च ॥ ५३॥ इत्युक्त्वा तं हृदि ध्यात्वा मनसाऽपूजयच्च सः । अयाचत विशेषेण जीवनाय रवेरपि ॥ ५४॥ जगज्जीवनदाताऽयं सूर्यः स्वामिन् मया हतः । (Page खं. ३ अ. ३ पान ५) तं जीवय गणेशान नोचेद्देहं त्यजाम्यहम् ॥ ५५॥ इति प्रार्थयमानं तं ज्ञात्वा शम्भुं गजाननः । आत्मनामात्मरूपः स जीवयामास तं रविम् ॥ ५६॥ उत्थितं कश्यपस्यैवं पुत्रं दृष्ट्वा सुरर्षयः । हर्षितास्तं जयेति स्म गजानन जगुर्मुदा ॥ ५७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यसञ्जीवनदानं नाम द्वितीयोऽध्यायः ॥ ३.२

३.३ सूर्यवरप्रदानं नाम तृतीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूर्य उवाच । ततो लोलार्कनामाऽहं काश्यां जातो महर्षयः । विस्मितो मानसेऽत्यन्तं किमाधारमिदं भवेत् ॥ १॥ अहमात्मा च सर्वेषामात्मनो मरणं कथम् । मृते मयि जगत् सर्वं केन जीवयुतं कृतम् ॥ २॥ अहं च जीवितः केन नाहमात्मा शरीरिणाम् । मोहयुक्ततया व्यर्थं गर्विष्ठः सम्भवामि वै ॥ ३॥ अतोऽहं काननं यास्ये त्यक्त्वा सर्वं विशेषतः । यदाधारं भवेद्विश्वं तं भजिष्यामि नित्यदा ॥ ४॥ निःसृतोऽहं गृहं त्यक्त्वा तत्र मां विधिरब्रवीत् । सान्त्वयित्वा स वेदानां वाक्यैः परमतत्त्ववित् ॥ ५॥ श‍ृणु सूर्य रहस्यं यत् सर्वेभ्यः शान्तिदायकम् । भवितासि ततः शान्तः किमर्थं श्राम्यते मुधा ॥ ६॥ त्वमात्मा सर्वभूतानामात्माधारमिदं स्मृतम् । आत्मनो मरणं नास्ति ब्रह्मवेदे वदन्ति भोः ॥ ७॥ ब्रह्मणां पतिरूपेण संस्थितो गणनायकः । तस्मान्नानाविधानीह ब्रह्माणि प्रोद्भवन्ति वै ॥ ८॥ कश्यपात्मज सर्वत्र योगेन च स तिष्ठति । तस्मिन् स्थिते कथं विश्वं तन्नश्यति वदस्व माम् ॥ ९॥ त्वं कश्यपस्य पुत्रत्वं प्राप्तश्च वरदानतः । तत्राज्ञानावृतत्वेन पूजितो न गणाधिपः ॥ १०॥ तेन विघ्नः समुत्पन्नो विपरीतमयः परः । आत्मनो मरणं पश्य तव प्राप्तं भजस्व तम् ॥ ११॥ तेन सर्वं शुभं पूर्णं भविष्यति रवे पुनः । योगशान्तिधरस्त्वं वै गाणपत्यो भविष्यसि ॥ १२॥ अर्यमोवाच । इति श्रुत्वा विधेर्वाक्यं विस्मितोऽहं वदामि तत् । ज्ञानार्थं गणराजस्य श‍ृणुध्वं मे विचेष्टितम् ॥ १३॥ अहो ब्रह्मंस्त्वया स्वामिन् बोधितोऽहं विशेषतः । संशयं तत्र जातं मे छेदयस्व पितामह ॥ १४॥ योगशान्तिधरः पूर्णो गणेशः परिकीर्तितः । करोति स कथं विघ्नं विकारीव वदस्व मे ॥ १५॥ ब्रह्मोवाच । श‍ृणु सूर्य महाप्राज्ञ वचः संशयनाशकम् । गणेशभक्तस्त्वं येन भविताऽसि महाप्रभो ॥ १६॥ योगशान्तिमयः पूर्णो गणेशश्चैव निश्चितम् । तेन नानाविधं विश्वं रचितं ब्रह्म मानद ॥ १७॥ तत्र मायामयो मोहः सर्वत्र भ्रान्तिदायकः । तेन भ्रान्तिसमायुक्ते जगद्ब्रह्म बभूवतुः ॥ १८॥ तयोर्मोहविनाशार्थं योगमार्गं गजाननः । (Page खं. ३ अ. ३ पान ६) चकार सर्वशान्तेभ्यः शान्तिदं योगसेवया ॥ १९॥ तत्र तस्य कलांशा ये ब्रह्माकाराः शिवादयः । ब्रह्मभावेन गर्वेणाऽभवन् स्वब्रह्मणि स्थिताः ॥ २०॥ तेभ्यः शान्तिप्रदानार्थं विघ्नदाता गजाननः । भवते तेन ते सर्वे गर्वहीना भवन्ति वै ॥ २१॥ गर्वहीनस्वभावेन योगमिच्छन्ति शाश्वतम् । मूलभूतं च सर्वेषां जगतां ब्रह्मणां रवे ॥ २२॥ साधयित्वा महायोगं शान्तिरूपा भवन्ति ते । तत्र विघ्नहरो ढुण्ढिस्तेषां भवति सर्वदा ॥ २३॥ ततो विघ्नेश्वरं देवं भजन्ते शान्तिधारकाः । योगशान्तिमयं पूर्णं भक्तिभावसमन्विताः ॥ २४॥ एतदर्थं गणेशानः कुरुते विघ्नमुत्तमम् । देवर्षीणां च साधूनां दुष्टानां नैव तादृशम् ॥ २५॥ ब्रह्मणो गिरमाकर्ण्य प्रसन्नः सविता पुनः । विधिं जगाद योगार्थं सर्वज्ञं भक्तिसंयुतः ॥ २६॥ सूर्य उवाच । वद ब्रह्मन् गणेशस्य प्राप्त्यर्थं योगमुत्तमम् । साधयित्वा गणेशोऽहं भविष्यामि विधे यतः ॥ २७॥ ब्रह्मोवाच । सम्यक् पृष्टं त्वया वत्स त्वं जानासि विशेषतः । अपि तत् कश्यपाज्जातः सर्वं तेन सुविस्मृतम् ॥ २८॥ अधुना श‍ृणु सर्वं त्वं गाणेशं ज्ञानमुत्तमम् । साधयित्वा गणेशानः कालेन प्रभविष्यसि ॥ २९॥ मायाशक्तिरसद्रूपा भेदाकारा महामते । जानीहि तत्र सर्वात्मा त्वं च सद्रूप उच्यसे ॥ ३०॥ तयोः स्रष्टा सदानन्दो विष्णुः साम्यप्रधारकः । त्रिभिर्हीनः शिवो व्यक्तस्त्रिभिर्जानीहि संयुतः ॥ ३१॥ चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः । स्वानन्दान्न परब्रह्म संयोगात्मकमुच्यते ॥ ३२॥ स एव गणराजस्तु मायाखेलक उच्यते । संयोगाभेदभावेन जगति ब्रह्मणि स्थितः ॥ ३३॥ अयोगे मायया हीनो गणेशो ब्रह्मवाचकः । सर्वसंयोगहीनश्चासमाधिसुखदायकः ॥ ३४॥ संयोगायोगयोर्योगे गणेशः शान्तिवाचकः । योगशान्तिप्रदः सोऽपि शान्तीनां शान्तिरुच्यते ॥ ३५॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणीविहीनं यत् तत् जानीहि णकारजम् ॥ ३६॥ तयोः स्वामी गणेशानो ब्रह्मणां ब्रह्म उच्यते । सामवेदे रवे पश्य तं भजस्व विधानतः ॥ ३७॥ द्विविधा तस्य माया वै सिद्धिर्बुद्धिश्च कथ्यते । ताभ्यां युक्तः खेलति स नानार्थे गणनायकः ॥ ३८॥ चित्तं पञ्चविधं पुत्र बुद्धिरूपं न संशयः । उच्यते सिद्धिरैश्वर्यं भोगभेदाय पञ्चसु ॥ ३९॥ तयोर्बिम्बिस्वरूपं यज्जहि तद् योगसेवया । शान्तियोगधरः पुत्र भविष्यसि न संशयः ॥ ४०॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् । तस्मै सूर्याय पूर्णं स विधियुक्तं पितामहः ॥ ४१॥ विधिं प्रणम्य च वनं ययौ भानुः सुशोभनम् । तताप तप उग्रं स निराहारपरायणः ॥ ४२॥ जजाप हृदि सन्ध्याय गणेशं मन्त्रमुत्तमम् । एवं वर्षसहस्रेण प्रसन्नोऽभूद्गजाननः ॥ ४३॥ तं ययौ भक्तिभावेन सुप्रीतः सूर्यमादरात् । स्वगणैः सेवितः साक्षाद्बोधयामास विघ्नपः ॥ ४४॥ (Page खं. ३ अ. ३ पान ७) गणेश उवाच । भो सूर्य वृणु मत्तस्त्वं वरान्नानाविधान् परान् । तान् दास्यामि महाभाग तपसा तोषितस्त्वया ॥ ४५॥ श्रुत्वा गणेशवाणीं स सविता बोधसंयुतः । दृष्ट्वा गणपतिं भक्त्या समुत्तस्थौ भ्रमान्वितः ॥ ४६॥ तं प्रणम्यापूजयत् स यथाविधि गजाननम् । तुष्टाव सुमना भानुः पुरो बद्धाञ्जलिः स्थितः ॥ ४७॥ भानुरुवाच । नमस्ते विघ्ननाथाय विघ्नकर्त्रे दुरात्मनाम् । भक्तानां विघ्नहर्त्रे ते गणेशाय नमो नमः ॥ ४८॥ चतुर्बाहुधरायैव मूषकवाहनाय ते । नागयज्ञोपवीताय नाभिशेषाय ते नमः ॥ ४९॥ महोदराय देवाय सिद्धिबुद्धियुताय ते । शूर्पकर्णाय सर्वाय चैकदन्ताय वै नमः ॥ ५०॥ गजवक्त्रधरायैव भालचन्द्राय ते नमः । चिन्तामणिधरायैव हृदये ते नमो नमः ॥ ५१॥ रक्ताम्बराय रक्ताय नानाभूषणशालिने । अमेयाय नमस्तुभ्यं नानालीलाकराय च ॥ ५२॥ अनाधाराय सर्वेषामाधाराय च ते नमः । स्वानन्दवासिने तुभ्यमिक्षुसागरखेलिने ॥ ५३॥ हेरम्बाय नमस्तुभ्यं लम्बोदर नमो नमः । जगतां ब्रह्मणां पात्रे ब्रह्माधीशाय ते नमः ॥ ५४॥ निराकाराय सर्वेश पालकाय नमो नमः । साकाराय च भो ढुण्ढे ताभ्यां योगाय ते नमः ॥ ५५॥ योगशान्तिप्रदात्रे ते योगशान्तिमयाय च । योगिभ्यो योगदात्रे ते योगेशाय नमो नमः ॥ ५६॥ एवं स्तुवति सूर्ये च भक्तिरससमन्विते । अकस्माद्बाष्पकण्ठः स सरोमाञ्चो बभूव ह ॥ ५७॥ पुलकाङ्कितदेहं तं दृष्ट्वा खिन्नमिव स्थितम् । जगाद गणनाथो वै सूर्यं भक्तिरसप्लुतम् ॥ ५८॥ गणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिमुक्तिप्रदं भानो मम प्रीतिविवर्धनम् ॥ ५९॥ यद्यदिच्छसि तत्तद्वै सफलं प्रभविष्यति । पठतां श‍ृण्वतां चैव सदानन्दप्रवर्धनम् ॥ ६०॥ त्वं तु मत्तो वरान् ब्रूहि तान् दास्यामि न संशयः । तपसा भावितोऽत्यन्तं भृशं स्तोत्रेण तोषितः ॥ ६१॥ एवमुक्तो गणेशेन भानुर्भक्तिपरायणः । उवाच तं गणाधीशं हर्षनिर्भरमानसः ॥ ६२॥ सूर्य उवाच । तुष्टोऽसि गणनाथ त्वं यदि दास्यसि मे वरम् । तदा भक्तिं दृढां ते वै देहि नाथ नमोऽस्तु ते ॥ ६३॥ अन्यं यदा स्मरामि त्वां तदा दर्शय रूपकम् । यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो ॥ ६४॥ ओमित्युक्त्वा गणेशानस्तत्रैवान्तरधीयत । सूर्यः खिन्न इवातिष्ठत्तत्रैवं वालखिल्यकाः ॥ ६५॥ ततस्तेन गणेशस्य स्थापिता मूर्तिरादरात् । ब्राह्मणैः सह भानुस्तां पूजयामास भक्तितः ॥ ६६॥ ततः स्वगृहमागत्य मूर्तिं कृत्वाऽहमादरात् । पूजयामि सदा देवं गणेशानं भजामि तम् ॥ ६७॥ एतत् सर्वं मदीयं वश्चेष्टितं कथितं द्विजाः । वालखिल्या महाभागाः किं भूयः श्रोतुमिच्छथ ॥ ६८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यवरप्रदानं नाम तृतीयोऽध्यायः ॥ ३.३ (Page खं. ३ अ. ४ पान ८)

३.४ कामचरितं नाम चतुर्थोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । श्रुत्वा सूर्यचरित्रं ते गणेशभक्तिसंयुतम् । हृष्टास्तं वालखिल्या वै पप्रच्छुः पुनरादरात् ॥ १॥ वालखिल्या ऊचुः । भानो त्वया महच्चित्रं कथितं चेष्टितं प्रभो । तव वाक्यामृतेनैव सन्तृप्ता भृशमुत्तमम् ॥ २॥ अधुना ब्रूहि देवेश मोहपाशनिकृन्तनम् । गणेशचरितं येन मोहहीना भवन्ति च ॥ ३॥ अहो मोहस्य माहात्म्यं येन सञ्छादितो महान् । गणेशस्तेन सम्भ्रान्ता न विदुस्तं गजाननम् ॥ ४॥ मुद्गल उवाच । एवं पृष्टो महातेजा भानुस्तैः स महर्षिभिः । उवाच तान् प्रहृष्टात्मा गाणपत्यो महायशाः ॥ ५॥ भानुरुवाच । अत्र वः कथयिष्यामि इतिहासं पुराभवम् । मोहासुरचरित्रं यद्गणेशज्ञानसंयुतम् ॥ ६॥ कदाचित्तारको नाम दैत्योऽभूद्दारुणः खलः । ब्रह्मणो वरदानेन त्रैलोक्याधिपतिः स्वयम् ॥ ७॥ सर्वदेवगणास्तेन मुनयश्च प्रपीडिताः । वनेषु भयसन्त्रस्ता अवसन् दुःखभागिनः ॥ ८॥ ततो बहुगते काले देवाः सर्षिगणाः पुरा । शिवस्य ध्यानसंयुक्ताः शरणं पार्वतीं ययुः ॥ ९॥ शिववीर्यभवो देवः सेनाधीशो हनिष्यति । तारकं नात्र सन्देहो ज्ञात्वा तां तुष्टुवुः पराम् ॥ १०॥ महादेवो वने गत्वा तपसे संस्थितोऽभवत् । तत्र देवगणैर्युक्ता पार्वती तं ययौ द्विजाः ॥ ११॥ दृष्ट्वा ध्यानस्थितं शम्भुं मोहार्थं तस्य सा सती । भिल्लीवेषं चकारैव ययौ तं शङ्कराश्रमम् ॥ १२॥ इतस्ततश्च बभ्राम भिल्लीरूपा गुणाधिका । पुष्पाणां ग्रहणे सक्ता महामोहप्रवर्धिनी ॥ १३॥ एतस्मिन्नन्तरे तत्र त्यक्त्वा ध्यानं शिवः स्थितः । तेन दृष्टा महाभागा रूपयौवनशालिनी ॥ १४॥ तां दृष्ट्वा सहसा शम्भुर्मोहितो मायया भृशम् । आदिमायां ययौ तत्र कामविह्वलमानसः ॥ १५॥ हावभावयुतां भिल्लीं दृष्ट्वा परममोहितः । तां धर्तुं स मनश्चक्रे तज्ज्ञात्वा साऽपलायत ॥ १६॥ पृष्ठलग्नः स्वयं साक्षाच्छङ्करो विह्वलो भृशम् । ततः सा यत्र तत्राऽस्य समीपे विचचार ह ॥ १७॥ एवं मुहूर्तमात्रं वै नग्नः शम्भुर्महर्षयः । बभ्राम तां प्रधर्तुं तु साऽस्य नो हस्तगाऽभवत् ॥ १८॥ ततो वीर्यं पपातास्य शिवस्य परमाद्भुतम् । भिल्ली सान्तर्दधे विप्राः शिवः शान्तो बभूव ह ॥ १९॥ तस्माच्छिवस्य वीर्याद्वै सम्भूतः पुरुषो महान् । मोहरूपो महोग्रः स चतुर्बाहुधरो बभौ ॥ २०॥ वनेऽभूत् संस्थितस्तत्रैकाकी तेजस्विनां वरः । चारुरूपो महामानी सर्वावयवसंयुतः ॥ २१॥ स तु कन्दफलादीनि भक्षयामास यत्नतः । इतस्ततश्च बभ्राम गतो नानावनेषु वै ॥ २२॥ शिवस्तत्र समासीनो बभूव भृशदुःखितः । ध्यानेन सकलं ज्ञात्वा देवीकृतविचेष्टितम् ॥ २३॥ ततो क्रोधसमायुक्तः कामं सद्यो ददाह सः । स्वस्थानं प्रययौ शम्भुः पार्वतीं तां ददर्श ह ॥ २४॥ देवकार्यार्थमत्यन्तं पार्वत्या प्रार्थितः प्रभुः । कामं सस्मार शम्भुस्तं पुरोऽनङ्गं ददर्श सः ॥ २५॥ (Page खं. ३ अ. ४ पान ९) प्रणिपत्य महेशानं स्तुत्वा रुद्रं महायशाः । अवदद्देहसंयुक्तं मां कुरुष्व महेश्वर ॥ २६॥ कामस्य वचनं श्रुत्वा ददौ तस्मै सदाशिवः । एकाक्षरं गणेशस्य मन्त्रं तं विधिसंयुतम् ॥ २७॥ जगाद शङ्करः काममनेनाराधय प्रभुम् । गणेशं तेन तेऽभीष्टं भविष्यति न संशयः ॥ २८॥ नाशिकं स समागत्य सस्त्रीकश्च तताप ह । तपो गणपतिं ध्यायन् जपन् मन्त्रपरायणः ॥ २९॥ गतेषु वर्षसाहस्रेषु ययौ गणनायकः । तं कामं बोधयामास वरं वृणु हृदीप्सितम् ॥ ३०॥ दृष्ट्वा कामो गणेशानमुत्थाय प्रणतोऽभवत् । तुष्टाव तं गणेशानं भक्तिनम्रात्मकन्धरः ॥ ३१॥ काम उवाच । गणेशाय नमस्तुभ्यं पाशाङ्कुशविधारिणे । दन्ताभयधरायैव मूषकध्वज ते नमः ॥ ३२॥ गजवक्त्राय देवाय शूर्पकर्णाय वै नमः । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३३॥ सर्वाकाराय सर्वाय स्थूलसूक्ष्मादिभेदिने । गुणेशाय गुणानां ते चालकाय नमो नमः ॥ ३४॥ देहदेहिमयायैव प्रकृतेर्लयरूपिणे । विदेहाय स्वसंवेद्यपतये ते नमो नमः ॥ ३५॥ रजसा सृष्टिकर्त्रे ते सत्वतः पालकाय च । तमसा सर्वसंहर्त्रे कर्माकाराय ते नमः ॥ ३६॥ जगद्रूपाय वै तुभ्यं स्थावराय चराय च । अनाकाराय हेरम्बाय ब्रह्मपतये नमः ॥ ३७॥ वेदाद्यगम्यरूपाय योगेभ्यो योगदायक । किं स्तौमि त्वां गणाधीश अल्पज्ञोऽहं नमोस्तु ते ॥ ३८॥ अधुना मे वरं देहि गजानन दृढां पराम् । भक्तिं ते मे सुदेहं वै मां कुरुष्व महोदर ॥ ३९॥ एवमुक्त्वा नतोऽभूत् सस्त्रीकः कामः स तं द्विजाः । ततस्तं प्रत्युवाचाथ गणेशो भक्तवत्सलः ॥ ४०॥ गणेश उवाच । मदीया भक्तिरुग्रा वै भविष्यति रतेः पते । शिवदग्धश्च ते देहस्तथा कर्तुं न शक्यते ॥ ४१॥ मदीयवरदानेन शिवः सर्वार्थवानभूत् । अतस्त्वां भिन्नदेहं वै हितायाऽहं करोमि ते ॥ ४२॥ यौवनं स्त्री च पुष्पाणि सुवासानि महामते । गानं मधुरसश्चैव मृदुलाण्डजशब्दकः ॥ ४३॥ उद्यानानि वसन्तश्च सुवासाश्चन्दनादयः । सङ्गो विषयसक्तानां नराणां गुह्यदर्शनम् ॥ ४४॥ वायुर्मृदुः सुवासश्च वस्त्राण्यपि नवानि वै । भूषणादिकमेवं ते देहा नाना कृता मया ॥ ४५॥ तैर्युतः शङ्करादींश्च जेष्यसि त्वं पुरा यथा । मनोभूः स्मृतिभूरेवं त्वन्नामानि भवन्तु वै ॥ ४६॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । दग्धमूले प्ररोहाणां कारकं प्रभविष्यति ॥ ४७॥ एवं गणेशवाक्यं स श्रुत्वा कामस्तमब्रवीत् । हितं सर्वं त्वया मे यत् कृतं नाथ विशेषतः ॥ ४८॥ तथापि पूर्ववद्देहं देहि ढुण्ढे नमोऽस्तु ते । दग्धोऽहं शङ्करेणैवानङ्गं रक्षस्व विघ्नप ॥ ४९॥ मुद्गल उवाच । कामस्य वचनं श्रुत्वा भक्तिभावेन यन्त्रितः । गणेशस्तमथोवाच तपसा तोषितं भृशम् ॥ ५०॥ गणेश उवाच । त्वया त्वघटितं प्रोक्तं तथापि त्वत्सुभक्तितः । सन्तुष्टोऽहं प्रियं सर्वं करिष्यामि मनोभव ॥ ५१॥ यादवेषु स्वयं विष्णुः कृष्णो नाम्ना भविष्यति । लक्ष्मीर्वेषेण रुक्मिण्यास्तयोः पुत्रो भविष्यसि ॥ ५२॥ प्रद्युम्न इति विख्यातः सर्वमान्यः सुदेहभृत् । इयं ते वल्लभा तत्र भार्या देवी भविष्यति ॥ ५३॥ इत्युक्त्वा तं गणेशानः स्वानन्दस्थो बभूव ह । जगाम कामः सस्त्रीको पुनः क्षेत्रे मयूरके ॥ ५४॥ तत्र यात्राविधानेन पूजयामास विघ्नपम् । वासार्थं गणनाथस्य तपस्तत्र चकार सः ॥ ५५॥ वर्षेणैकेन सन्तुष्टस्तं ययौ विघ्ननायकः । पूजितश्च स्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥ ५६॥ जगाद कामस्तं देवं गणपं भक्तिसंयुतः । ज्ञात्वा नश्वररूपं यद्देहादिकमनुत्तमम् ॥ ५७॥ काम उवाच । भूस्वानन्दमिदं क्षेत्रं तत्र वासं करोम्यहम् । स्थानं देहि गणाधीश तव सेवार्थमेव मे ॥ ५८॥ अत्रैव मरणेऽनाथ ब्रह्मभूतत्वमादरात् । ददासि त्वं गणेशान अतो मां पालय प्रभो ॥ ५९॥ ततस्तं गणनाथः सः तथेति प्रत्युवाच ह । शक्तिं पश्चिमद्वारस्थां तदोवाच च विघ्नपः ॥ ६०॥ त्वदीये वामभागे वै दक्षिणाङ्गे जगन्मयि । रतिं कामं कुरुष्व त्वं क्षेत्रेऽस्मिन् वासकारणात् ॥ ६१॥ तथेति तत्र सस्त्रीकः कृतः कामः स मायया । उवास क्षेत्रे सेवार्थं मयूरे गणपस्य सः ॥ ६२॥ तदादि सर्वमान्योऽयं कामो जातो महर्षयः । त्रैलोक्यविजयी सर्वं मोहयामास निर्भयः ॥ ६३॥ एतत् कामस्य यश्चित्रं चरित्रं संश‍ृणोति वै । पठेद्वा तस्य नैवं स्यात् काममोहः कदाचन ॥ ६४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कामचरितं नाम चतुर्थोऽध्यायः ॥ ३.४

३.५ स्कन्दमाहात्म्यं नाम पञ्चमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ततः कामसमायुक्तः शङ्करोऽभूत्तया सह । पार्वत्या पुत्रकामार्थं रेमे हर्षसमन्वितः ॥ १॥ ततस्तस्य महेशस्य क्रीडतः प्रगतानि वै । वर्षाणि हि सहस्राणां षष्टिर्देवर्षिसत्तमाः ॥ २॥ महामायायुतः शम्भुर्न बुबोध दिवानिशम् । ततस्तस्य महेशस्य रतिभङ्गार्थमागताः ॥ ३॥ देवास्तैः प्रेषितो वह्निर्द्विजरूपधरो ययौ । भिक्षां देहि जगादासौ तच्छ्रुत्वा तौ समुत्थितौ ॥ ४॥ पपात भूतले वीर्यं शिवस्यैवोत्थितस्य च । तदेव पार्वती विप्रा ददौ वै भिक्षुकाय च ॥ ५॥ शिववीर्यं ततस्तेन प्राशितं दहनेन वै । अभवद्दाहसंयुक्तो गङ्गायामक्षिपत् स तत् ॥ ६॥ कार्तिकस्नानकार्यार्थं कृत्तिकाभिर्महाद्भुतम् । षड्भिः समागताभिस्तत् पीतमाचमनेन वै ॥ ७॥ स्नात्वा स्वस्वगृहे ताश्च गताः सद्यः समुज्ज्वलाः । (Page खं. ३ अ. ५ पान ११) पतिभिः परवीर्येण युक्ताः सन्त्याजिता ययुः ॥ ८॥ शरस्तम्बे महद्वीर्यं त्यक्त्वा स्नात्वा पुनर्गृहम् । ययुस्तत्र समुत्पन्नः षण्मुखो बालको बभौ ॥ ९॥ स दृष्टो गच्छता तत्र नारदेन शिशुः पुरः । ज्ञात्वा ध्यानेन कैलासे गतोऽभून् मुनिसत्तमः ॥ १०॥ तत्र शक्त्यै स वृत्तान्तं कथयित्वा महामुनिः । यदृच्छाविचरन् यातः पार्वती बालमाययौ ॥ ११॥ चकार बालमागृह्य स्तनपानं यशस्विनी । वह्निगङ्गाकृत्तिकाद्या मातरस्तस्य तं ययुः ॥ १२॥ शिवेन मातरः सर्वाः सत्कृताः स्वगृहं ययुः । ब्रह्मेशाद्यैस्ततो देवैर्मुनिभिः सोऽभिषेकितः ॥ १३॥ देवसेनापतित्वे स प्रययौ सेनया सह । प्रार्थितस्तारकस्यैव नाशाय बलवान् स्वयम् ॥ १४॥ स्कन्दस्य तारकस्यैव युद्धं परमदारुणम् । सञ्जातं च ततः स्कन्दो भृशं शक्त्या जघान तम् ॥ १५॥ सम्मूर्च्छितो महादैत्यः पुनः संज्ञायुतोऽभवत् । ताडयामास तं स्कन्दं गदया क्रोधसंयुतः ॥ १६॥ पतितं वीक्ष्य ते देवाः पलायनमकुर्वत । गृहीत्वा कार्तिकेयं तं दैत्यः स्वस्थानमाययौ ॥ १७॥ तत ओषधिभिर्देवैः सावधानः कृतोऽभवत् । स्कन्दः परमदुःखार्तः शङ्करं शरणं ययौ ॥ १८॥ जयोपायं वद ब्रह्मन् शिवशान्तिप्रदं तथा । सर्वार्थसाधकं पूर्णं तं भजामि विशेषतः ॥ १९॥ ततश्च शम्भुना तस्मै गणेशस्य षडक्षरः । मन्त्रो दत्तो विशाखाय ज्ञानं सङ्कथितं परम् ॥ २०॥ शम्भुरुवाच । श‍ृणु स्कन्द महायोगं येन शान्तो भविष्यसि । चित्ते चिन्तामणिं ज्ञात्वा शान्ता जाता वयं पुरा ॥ २१॥ यद्यच्चित्तेन वै पुत्र लभ्यते तत्प्रणश्वरम् । भवेज्जानीहि चित्तं ब्रह्माकारं योगसेवया ॥ २२॥ अन्तर्बाह्यादिभेदा ये ते सर्वे चित्तसम्भवाः । ओङ्कारोऽर्थसमायुक्तश्चित्तरूपो न संशयः ॥ २३॥ स्वकोत्थानं बभौ ब्रह्म परोत्थानकमेव च । चित्तरूपं विजानीहि बुद्ध्या मोहप्रदं कृतम् ॥ २४॥ स्वानन्दश्च निवृत्तिश्च चित्तरूपे न संशयः । बहुनाऽत्र किमुक्तेन चित्तं सर्वात्मकं बभौ ॥ २५॥ ब्रह्माकारं च जानीहि जगदाकारकं तथा । चित्तं पञ्चविधं पुत्र जहि तद् योगसेवया ॥ २६॥ चित्ते यद्बिम्बितं ब्रह्म भवति भ्रमसंयुतम् । बिम्बभावं परित्यज्य भव चिन्तामणिः सुत ॥ २७॥ चित्तं त्यक्त्वा महाभाग त्वन्न भिन्नो भविष्यसि । एतदेव परं ज्ञानं शान्तिरूपं वदन्ति च ॥ २८॥ रविरुवाच । शिवस्य वचनं श्रुत्वा तं प्रणम्य ययौ वनम् । कार्तिकेयः स विघ्नेशं ध्यायंश्च विधिपूर्वकम् ॥ २९॥ षडक्षरविधानेन पूजति स्म निरन्तरम् । मन्त्रं जजाप वै स्कन्दस्तताप तप उत्तमम् ॥ ३०॥ वायुभक्षः सदा भूत्वा जपध्यानपरायणः । दण्डकारण्यदेशे स गजाननमतोषयत् ॥ ३१॥ ततो वर्षसहस्रेण शान्तियोगमवाप ह । कार्तिकेयः स विघ्नेशमभजत्तदपि द्विजाः ॥ ३२॥ ततस्तुष्टो गणेशानो ययौ तं भक्तमुत्तमम् । तं दृष्ट्वा प्रणनामाथ पूजयन् भक्तिसंयुतः ॥ ३३॥ (Page खं. ३ अ. ५ पान १२) ततस्तुष्टाव विघ्नेशं कार्तिकेयो महाद्युतिः । कृत्वा करपुटं विप्राः स्वानुभावपरायणः ॥ ३४॥ स्कन्द उवाच । नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे । असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ ३५॥ वामाङ्गे भ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो । भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ ३६॥ माया सिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः । तयोर्योगे गणेशान त्वं स्थितोऽसि नमोस्तु ते ॥ ३७॥ जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः । तयोर्योगे गणेशाननामा तुभ्यं नमो नमः ॥ ३८॥ चतुर्विधं जगत् सर्वं ब्रह्म तन्त्रं सदात्मकम् । हस्ताश्चत्वार एवं ते चतुर्भुज नमो नमः ॥ ३९॥ स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् । तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ४०॥ द्वन्द्वं चरसि भक्तानां हृदि तेषां व्यवस्थितः । चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ४१॥ जगति ब्रह्मणि स्थित्वा भोगान् भुङ्क्षे सुयोगगः । जगद्भिर्ब्रह्मभिस्ते तच्चेष्टितं ज्ञायते न च ॥ ४२॥ चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् । मूषको मूषकारुढ हेरम्बाय नमो नमः ॥ ४३॥ किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् । वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ ४४॥ इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह । वरं वृणु महाभाग चेद्धि दास्यामि दुर्लभम् ॥ ४५॥ त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् । मयि भक्तिकरं स्कन्द सर्वसिद्धिप्रदं तथा ॥ ४६॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रयन्त्रितः । पठते श‍ृण्वते नित्यं कार्तिकेय विशेषतः ॥ ४७॥ एवं गणेशवाक्यं वै श्रुत्वा हर्षसमन्वितः । जगाद गणपं वाक्यं कार्तिकेयः स योगवित् ॥ ४८॥ स्कन्द उवाच । किं वृणोमि गणेशान सर्वं भ्रान्तिमयं विभो । अतस्त्वदीयभक्तिं मे सुदृढां देहि विघ्नप ॥ ४९॥ जगाद गणराजः स ततस्तं भक्तवत्सलः । मदीया भक्तिरुग्रा ते भविष्यति सदाऽनघ ॥ ५०॥ तारकाद्यान् महादैत्यान् त्वमेव च हनिष्यसि । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ५१॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो भक्तमुत्तमम् । कार्तिकेयोऽभवत्तत्र संस्थितो गणपं स्मरन् ॥ ५२॥ ब्राह्मणैः स्थापयामास मूर्तिं गणपतेः पराम् । लक्षं विनायकं नाम्ना स चकार द्विजेरितः ॥ ५३॥ तस्य दर्शनमात्रेण वाञ्छितं लभते नरः । तत्रैव मरणे प्राप्ते ब्रह्मभूतः स जायते ॥ ५४॥ ततो जगाम स्वगृहं कार्तिकेयः प्रतापवान् । देवैः सह जघानाऽसौ तारकासुरमुल्बणम् ॥ ५५॥ हत्वा तारकदैत्यं स गणेशक्षेत्रगोऽभवत् । तत्र विघ्नेशमत्यन्तं भजते नित्यमादरात् ॥ ५६॥ इति स्कन्दस्य माहात्म्यं कथितं सर्वदं परम् । पठते श‍ृण्वते वाऽपि ब्रह्मभूयकरं भवेत् ॥ ५७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते स्कन्दमाहात्म्यं नाम पञ्चमोऽध्यायः ॥ ३.५ (Page खं. ३ अ. ६ पान १३)

३.६ मोहासुरराज्याभिषेको नाम षष्ठोऽध्यायः

॥ श्रीगणेशाय नमः ॥ वालखिल्या ऊचुः । श्रुतं सर्वं महाभाग भानो ब्रह्मप्रदायकम् । तथापि न वयं तृप्ता भवामोऽमृतपानवत् ॥ १॥ अधुना ब्रूहि माहात्म्यं मोहस्य जगदीश्वर । शिववीर्यात् समुत्पन्नः किं चकार रवे वद ॥ २॥ मुद्गल उवाच । मुनीनां वचनं श्रुत्वा तान् जगाद महामतिः । सूर्यः सर्वान्तरात्मा च मोहस्य चरितं विधे ॥ ३॥ सूर्य उवाच । शिववीर्यात् समुत्पन्नो मोहः परमशोभनः । जगाम शरणं तत्र काव्यं वेदविदांवरम् ॥ ४॥ तं प्रणम्य जगदासौ वृत्तान्तं सर्वमञ्जसा । स्वस्योत्पत्तिस्वरूपं यद्विनीतात्मा विशेषतः ॥ ५॥ कथयित्वा पुनः प्राह स्वामिन् मां शाधि शिष्यकम् । त्वदधीनं विनाथं वै कार्यं वद महामुने ॥ ६॥ इति तस्य वचः श्रुत्वा शुक्रो दयासमन्वितः । उपवीतादिकं सर्वं कारयामास दैत्यपैः ॥ ७॥ जृम्भाय पुत्रभावेन ददौ तं मोहमुल्बणम् । तत्र वेदादिकं तेनाधीतं सर्वं महर्षयः ॥ ८॥ प्रमादासुरनामा वै तस्मै पुत्रीं ददौ स्वकाम् । रूपलावण्यसंयुक्तां नाम्ना च मदिरां द्विजाः ॥ ९॥ मोहो नत्वा स्वतातं सङ्गृह्य शुक्रान् महामनुम् । सूर्यस्य सवने गत्वा तताप परमं तपः ॥ १०॥ ऊर्ध्वदृष्टिं बबन्धाऽसौ सूर्यं ध्यायन् स मण्डले । मन्त्रं जजाप भावेन निराहारपरायणः ॥ ११॥ दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्दिवाकरः । तं ययौ वरदानार्थं स्वभक्तं भक्तिभावितः ॥ १२॥ अस्थित्वचासमायुक्तं मोहं दृष्ट्वार्यमा प्रभुः । विस्मितोऽभून् महद्धैर्यं दैत्यस्य परमाद्भुतम् ॥ १३॥ बोधयामास तं शीघ्रं रविर्देववरः स्वयम् । वरं ब्रूहि महामोह प्रसन्नोऽहं ददामि ते ॥ १४॥ श्रुत्वा मदीयवाक्यं स प्रबुद्धो सुरनायकः । पुरतो मां स्थितं वीक्ष्य प्रणनाम कृताञ्जलिः ॥ १५॥ उत्थाय पूजयामास परैर्नानोपचारकैः । कृताञ्जलिः पुनर्नत्वा स तुष्टाव महर्षयः ॥ १६॥ मोहासुर उवाच । नमः सूर्याय तपतां श्रेष्ठ ते सर्वरूपिणे । भानवे भास्करायैव रवये ते नमो नमः ॥ १७॥ कर्मणां फलदात्रे ते कर्ममूलधराय च । कर्माकाराय देवाय स्वात्मने ते नमो नमः ॥ १८॥ नानाभेदधरायैव नानाभेदविवर्जित । सदामृतस्वरूपाय परमात्मन्नमोऽस्तु ते ॥ १९॥ अनन्तापाररूपाय जगज्जीवनमूर्तये । सत्याय सत्यपात्रे ते दिवाकर नमोऽस्तु ते ॥ २०॥ त्रयीबोधाय ते त्रय्यै त्रयीकर्मप्रवर्तक । सर्वाहङ्कारमूलाय सदाहङ्कारनाशिने ॥ २१॥ ज्ञानदात्रे प्रकाशाय प्रकाशानां विशेषतः । अनादये महेशाय परेशाय नमो नमः ॥ २२॥ वृष्टिबीजाय सर्वेषां कालकर्मप्रवर्तक । मायाधाराय मायायाश्चालकाय नमो नमः ॥ २३॥ किं स्तौमि त्वां दिवानाथ आत्माकारधरं प्रभो । तथापि ज्ञानप्रामाण्यात् संस्तुतोऽसि नमाम्यहम् ॥ २४॥ यदि तुष्टोऽसि देवेश वरं दातुं समागतः । तदा मे मरणं स्वामिन्न भवेन्मां तथा कुरु ॥ २५॥ नामरूपधरं सर्वं तस्मान् मृत्युर्न मे भवेत् । (Page खं. ३ अ. ६ पान १४) राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर ॥ २६॥ आरोग्यादिसमायुक्तां देहसत्तां महाप्रभो । सर्वातिगां च मे देहि सङ्ग्रामे विजयं तथा ॥ २७॥ यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेत् । त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो ॥ २८॥ एवमुक्त्वा महादेवं भास्करं प्रणनाम सः । उत्थाय तस्य सामीप्ये संस्थितो विनयान्वितः ॥ २९॥ ततः स सविता तत्र विस्मितस्तमुवाच ह । त्वया यत् प्रार्थितं दैत्य तत् सर्वं लभसे महत् ॥ ३०॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । सर्वकामप्रदं चैव भविष्यति सुश‍ृण्वते ॥ ३१॥ इत्युक्त्वान्तर्दधे देवः सविता स्वस्थलं ययौ । दैत्योऽपि हर्षितोभूत्वा स्वगृहं प्रजगाम ह ॥ ३२॥ मातरं पितरं तत्र प्रणनाम महासुरः । सुहृदो मानयामास यथा सम्बन्धपूर्वकम् ॥ ३३॥ ततः शुक्रं जगामाऽसौ तं प्रणम्य महासुरः । मोहः सङ्कथयामास वृत्तान्तं तस्य सन्निधौ ॥ ३४॥ उपचारैः प्रपूज्याऽसौ प्रणम्य स्वगृहं पुनः । आययौ हर्षसंयुक्तो नगरं निर्ममे ततः ॥ ३५॥ विषयावासकं नाम मुनिस्तस्य चकार वै । शुक्रः परमतेजस्वी तत्र वासं चकार सः ॥ ३६॥ असुरादय एवं वै वृत्तान्तं यत्र तत्र ते । श्रुत्वा समागतास्तस्य नगरे चक्रिरे स्थितिम् ॥ ३७॥ चातुर्वर्ण्यसमायुक्तं नगरं शुशुभे द्विजाः । सर्वातिगं चानुपमं पृथिव्यां पूर्णभोगदम् ॥ ३८॥ ततो दैत्यगणाः सर्वे श्रेष्ठास्तत्र समागताः । शुक्रेण प्रेरितास्तं ते प्रणेमुर्भावसंयुताः ॥ ३९॥ प्रचण्डश्चैव चण्डश्च महाकालश्च वीर्यवान् । कालान्तकादयश्चान्ये बहवो दैत्यनायकाः ॥ ४०॥ मिलिता दैत्यसंयुक्तास्तदाज्ञावशवर्तिनः । भूत्वा ते नगरे तस्य समीपे संस्थिता बभुः ॥ ४१॥ ततो द्विजैः स्वयं काव्यस्तं चकार महर्षयः । दैत्याधिपं स सिषेच तदर्थं राज्यसम्पदि ॥ ४२॥ ततस्ते मुदिताः सर्वे दैत्याः स्वस्वस्थलं ययुः । मुख्यास्तत्र स्थिता विप्राः सेवार्थं लालसायुताः ॥ ४३॥ एवं मोहासुरः श्रेष्ठोऽसुराणां नायकोऽभवत् । तमाश्रित्य महादैत्या हर्षिता अचरन् धराम् ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरराज्याभिषेको नाम षष्ठोऽध्यायः ॥ ३.६ (Page खं. ३ अ. ७ पान १५)

३.७ मोहासुरविजयवर्णनं नाम सप्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ रविरुवाच । मदिरायां सुताः पञ्च तस्माद्दैत्यान् महाबलाः । तेजस्विनश्च पित्रा ते बभूवुः समशीलकाः ॥ १॥ उग्रः क्रूरश्च मेधावी शोचनो हरणस्तथा । पञ्चैते शास्त्रसम्पन्ना रेजुस्तन्नगरे द्विजाः ॥ २॥ ततः किञ्चिद्गते काले राजा मोहासुरो द्विजाः । आह्वयामास दैत्येशान् सकलान् स्वनरैर्महान् ॥ ३॥ समागतानुवाचाऽथ वचनं हितकारकम् । दैत्येशान्नीतिसंयुक्तं सुखदं प्रीतिवर्धनम् ॥ ४॥ मोहासुर उवाच । भो भो दैत्याधिपाः सर्वे प्रचण्डाद्या वचो हितम् । श‍ृणुध्वं सकलं विश्वं जयेयमधुना किल ॥ ५॥ यदि स्वमानसे दैत्या हितं भवति चेत्तदा । सर्वेषां भवतां कार्यं कुर्वेऽहं नात्र संशयः ॥ ६॥ शुक्रेण पालिता यूयं तथाऽहमसुरेश्वराः । अजेयाः प्रभविष्यामो रवेश्च वरदानतः ॥ ७॥ ततस्ते तं नमस्कृत्य सञ्जगुर्हर्षसंयुताः । महात्मानं महाभागं तपस्तेजःसमन्वितम् ॥ ८॥ दैत्येशा ऊचुः । सम्यग्विचारिताः स्वामिंस्तृप्ता वाक्यामृतेन ते । जेष्यामः सकलान् लोकांस्त्वदाज्ञावशगा वयम् ॥ ९॥ न ते पराक्रमे तुल्यो विश्वस्मिन् विद्यते प्रभो । अतो विष्णुमुखान् देवान् जेष्यामोऽन्यांश्च साम्प्रतम् ॥ १०॥ रविरुवाच । इति मोहासुरस्तेषां वचः श्रुत्वा प्रतापवान् । आज्ञापयच्च दैत्येशान् मुदा भवत दंशिताः ॥ ११॥ ते सर्वे युद्धमार्गज्ञा ययुस्तस्य प्रसन्निधौ । नानाशस्त्रधरा भूत्वा यममत्तुमिवोद्यताः ॥ १२॥ तान् दृष्ट्वा हर्षितो दैत्यो वीर्यवांश्च महासुरः । रथसंस्थः स्वयं दैत्यैर्निर्जगाम स दंशितः ॥ १३॥ चतुरङ्गचमूमध्ये रराज रथसंस्थितः । कालरुद्र इवाध्यक्षः सर्वेभ्यो भयदायकः ॥ १४॥ स्वयं शुक्रेण संयुक्तः पृथिवीजयनोद्यतः । असुरैः सहितः पूर्वं बभ्राम वसुधातले ॥ १५॥ अपारा तस्य सेना सा छादयामास वै धराम् । चलनोत्थरजस्केन च्छादितो भास्करोऽभवत् ॥ १६॥ कालरूपैर्महादैत्यैः प्रयोद्धुं भूमिमण्डले । कः समर्थो भवेद्विप्रा जितं तैः स्वेन तेजसा ॥ १७॥ सप्तद्वीपवतीं पृथ्वीं जित्वा तेऽसुरसत्तमाः । ययुः सर्वे जयार्थाय देवान् विष्णुपुरोगमान् ॥ १८॥ देवाः सर्वे समाश्रुत्य ससैन्यं चागतं द्विजाः । मोहासुरं भयोद्विग्ना इन्द्रं ते शरणं ययुः ॥ १९॥ इन्द्रेण सहिताः सर्वे ब्रह्माणं प्रययुस्ततः । तेन सार्धं च कैलासे शङ्करं शरणं ययुः ॥ २०॥ शङ्करेण युता देवा वैकुण्ठे केशवं ययुः । केशवेन युताः सर्वे भास्करं प्रययुस्ततः ॥ २१॥ भास्करस्तानुवाचाऽथ भययुक्तान् सुरेश्वरान् । निःश्वस्य भयसंयुक्तो वचनं हितकारकम् ॥ २२॥ भास्कर उवाच । मदीयवरदानेन समर्थो दैत्यपुङ्गवः । मोहासुरश्च देवेन्द्रास्तं जेतुं कः क्षमो भवेत् ॥ २३॥ कर्मणां फलमुग्रं यच्च्यवते केनचिन्न तत् । अतो वयं वनेष्वद्य वसामो भयसंयुताः ॥ २४॥ त्यक्त्वा राज्यादिकं सर्वं देहं रक्षामहे वयम् । पुण्यान्ते तस्य मृत्युर्वै भविष्यति न संशयः ॥ २५॥ (Page खं. ३ अ. ७ पान १६) अन्यथा दैत्यभूपेन्द्रो मोहदैत्यः प्रतापवान् । हनिष्यति स देवेन्द्रं तस्मात् कुर्वन्तु मे वचः ॥ २६॥ एवं मदीयं वाक्यं वै श्रुत्वा प्राह बृहस्पतिः । सर्वनीतिविशेषज्ञो देवाचार्यो महायशाः ॥ २७॥ बृहस्पतिरुवाच । श‍ृणुध्वं देवराजानो वचनं हितकारकम् । भानुना भाषितं वाक्यं तन्नो भवति वै हितम् ॥ २८॥ ततः सर्वेऽब्रुवन् देवाः साधु साधु त्वयेरितम् । भानुना च गुरोर्वाक्यं करिष्यामो वयं तथा ॥ २९॥ एवं निश्चित्य देवेन्द्रा देवैः सर्वे ययुर्वनम् । गुहासु पर्वतोद्देशे संस्थिता भयसंयुताः ॥ ३०॥ मोहासुरोऽसुरैः सर्वैर्देवानां नगरेषु च । आययौ तत्र देवेन्द्रान् स नापश्यत् सुहर्षितः ॥ ३१॥ तेषु दैत्यान् समास्थाप्य स्वयमैन्द्रपदे स्थितः । दैत्यैः संसेव्यमानश्च बुभुजे भोगमुत्तमम् ॥ ३२॥ गन्धर्वाप्सरसस्तस्य सेवां चक्रुर्भयाकुलाः । स्वर्लोकवासिनो नाना तथैव च महर्षयः ॥ ३३॥ ततोऽगाद्दैत्यपैः सर्वैः सत्यलोकं महाबलः । मोहासुरो द्विजास्तत्र न ददर्श पितामहम् ॥ ३४॥ शून्यं नगरमेवं तत् दृष्ट्वा हर्षसमन्वितः । ययौ वैकुण्ठमुग्रोऽसावदर्शत्तत्र तादृशम् ॥ ३५॥ ततः कैलासमागत्य शङ्करेण विवर्जितम् । पुरं वीक्ष्य ययौ सोऽपि सौरलोकं महासुरः ॥ ३६॥ तत्रादित्यविहीनं च शक्तिलोकं तथा ययौ । दृष्ट्वा शक्तिविहीनं तं मुमुदे दैत्यनायकम् ॥ ३७॥ ततो दैत्येन्द्रमुख्योऽसौ स्वसुतान् बलगर्वितान् । स्थापयामास देवानां नगरेषु विशेषतः ॥ ३८॥ कैलासेऽधिपतिं चक्रे ह्युग्रं पुत्रं महासुरः । विकुण्ठाधिपतिं तद्वत् क्रूरं दैत्यसमन्वितम् ॥ ३९॥ सौरलोकाधिपं मेधाविनं चक्रे च गर्वितम् । शक्तिलोके तथा सोऽपि शोचनं युद्धलालसम् ॥ ४०॥ सत्यलोकेऽधिपं चक्रे हरणं सर्वहारकम् । प्रचण्डमुख्यकान् चक्रे इन्द्रलोकादिकाधिपान् ॥ ४१॥ कालान्तकश्च पातालदेशेषु प्रेषितस्ततः । मोहासुरेण नागेन्द्रं ययौ शेषं स सैनिकः ॥ ४२॥ कालान्तकं दैत्यराजमागतं च हि नागराट् । विनयेन ययौ तं स साम चक्रे सुरेण वै ॥ ४३॥ एवं जिगाय ब्रह्माण्डं स उग्रो दैत्यनायकः । मोहासुरो महावीर्यो मुमुदे दैत्यपैर्द्विजाः ॥ ४४॥ ततः स्वनगरे दैत्यो ययौ सर्वैः समन्वितः । विषयावासके तत्र पुरे स शुशुभे ततः ॥ ४५॥ तत्रस्थः प्रशशासाऽसौ ब्रह्माण्डं लोकसङ्कुलम् । राज्यं चकार दैत्येन्द्रो दैत्येन्द्रेश्च समन्वितः ॥ ४६॥ भोगान् स बुभुजे नाना ह्यतुलान् विषयप्रियः । दैत्यैः सह प्रगर्वेण कृतकृत्यममन्यत ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरविजयवर्णनं नाम सप्तमोऽध्यायः ॥ ३.७ (Page खं. ३ अ. ८ पान १७)

३.८ देवर्षिवरप्रदानं नामाष्टमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ रविरुवाच । ततोऽतिगर्वितो मोहासुरो दैत्यः प्रतापवान् । देवानां जीवघातार्थं प्रयत्नं स चकार ह ॥ १॥ तदर्थं प्रेषयामास दैत्यान् परमदारुणान् । कर्ममार्गस्य ते सर्वे चक्रुः खण्डनमादरात् ॥ २॥ स्वल्पकालेन भो विप्राः कर्महीनं महीतलम् । कृतं दैत्यैश्च सर्वत्र त्रासिताः कर्मकारकाः ॥ ३॥ वर्णाश्रमविहीनं तैः कृतं सर्वत्र भूतलम् । धर्ममूलं तथा नष्टं बभूव क्रमतः किल ॥ ४॥ न स्वाहा न स्वधा कुत्र प्रबभूव महर्षयः । मोहासुरस्य मूर्तिं ते स्थापयामासुरादरात् ॥ ५॥ दैत्यपास्तत्र लोकैर्वा पूजां सर्वत्र सम्मताम् । कारयामासुरुग्रैश्च दण्डैः सन्ताड्य मानवान् ॥ ६॥ ततो मुनिगणाः सर्वे भ्रष्टा जाता विशेषतः । मृताः केचित्तथाऽरण्ये गताः परमदारुणे ॥ ७॥ तत्र ते भयसंयुक्ताः क्रियां चक्रुर्महर्षयः । एवं धर्मस्य विच्छेदः कृतस्तेन सुरारिणा ॥ ८॥ ततो देवगणाः सर्वे भययुक्ता विशेषतः । उपोषणसमायुक्ता विचारं चक्रिरे द्विजाः ॥ ९॥ मिलिता मुनिभिः सार्धं मोहासुरविनाशने । न प्रापुर्देवविप्रेन्द्रा उपायं सुखदं परम् ॥ १०॥ ततस्तानर्यमा प्राह श‍ृणुध्वं सुरसत्तमाः । मुनयश्च महाभागा वचो मे हितकारकम् ॥ ११॥ नामरूपधरं सर्वं तस्मान् मृत्युर्न वै भवेत् । मोहासुरस्य देवेन्द्रास्तत्रोपायं वदाम्यहम् ॥ १२॥ गणेश्वरस्य हस्तेन दैत्योऽयं प्रमरिष्यति । स्वयं योगमयः प्रोक्तस्तस्मात्तं प्रभजामहे ॥ १३॥ स एव निजलोकस्थो निजबोधेन दैत्यपम् । हनिष्यति न सन्देहः स्तूयतां स सुरेश्वराः ॥ १४॥ सूर्यस्य वचनं श्रुत्वा देवा हर्षसमन्विताः । विष्ण्वाद्याश्च पुनस्तं ते जगुर्वचनमुत्तमम् ॥ १५॥ देवा ऊचुः । सम्यगुक्तं त्वया भानो बुद्ध्या त्वमधिको मतः । सर्वेभ्यो जीवदाता भो जातोऽस्यत्र न संशयः ॥ १६॥ ततो देवाश्च विप्राश्च तपसा गणनायकम् । आराधयन् प्रयत्नेन विघ्नवारणकारणम् ॥ १७॥ एकाक्षरविधानेनापूजयंस्तं निरन्तरम् । अजपन् मन्त्रमाद्यं तु ध्यायन्तो गणपं हृदि ॥ १८॥ नानातपःसमायुक्ता उपोषणपरायणाः । ऋषयो देवदेवेशा विघ्नेश्वरमतोषयन् ॥ १९॥ वर्षाणां शतकेष्वेवं गतेषु गणनायकः । आययौ तान् वरं दातुं भृशं भावेन तोषितः ॥ २०॥ सौम्यतेजोयुतश्चैवाखुगः पूर्णो गजाननः । चतुर्बाहुर्दयापूर्णो महोदरविराजितः ॥ २१॥ एकदन्तो विशालाक्षः शूर्पकर्णधरः प्रभुः । सिद्धिबुद्धिसमायुक्तो नाभिशेषविराजितः ॥ २२॥ चिन्तामणिं गले बद्ध्वा नागयज्ञोपवीतवान् । एवं समाययौ देवो देवर्षीणां पुरो विभुः ॥ २३॥ तं दृष्ट्वा देवविप्रास्ते हर्षिता भक्तिसंयुताः । प्रणेमुः पूजयामासुर्यथाशास्त्रविधानतः ॥ २४॥ ततस्तं तुष्टुवुः सर्वे कृताञ्जलय आदरात् । तद्दर्शनमहोत्साहा यथामतय भो द्विजाः ॥ २५॥ देवर्षय ऊचुः । नमस्ते गणनाथाय महोदरस्वरूपिणे । अनाथाय च नाथाय सर्वेषां ते नमो नमः ॥ २६॥ (Page खं. ३ अ. ८ पान १८) अनादिसिद्धिनाथाय बुद्धिनाथाय ढुण्ढये । हेरम्बाय स्वभक्तेभ्यः सर्वदाय नमो नमः ॥ २७॥ चतुर्बाहुधरायैव शूर्पकर्णाय ते नमः । लम्बोदराय विघ्नेश विघ्नवारण ते नमः ॥ २८॥ गजाननाय देवायाऽखुवाहाय महात्मने । शेषनाभिस्थितायैवैकदन्ताय नमो नमः ॥ २९॥ महागणपते तुभ्यं सर्वकारणकारण । भक्तवाञ्छाविधातानां हराय तु नमो नमः ॥ ३०॥ मायाश्रयाय मायायाधारकाय महाभुज । अभक्तकामदहनरूपाय च नमो नमः ॥ ३१॥ योगानां पतये तुभ्यं योगदात्रेऽव्ययाय ते । स्वानन्दवासिने चैव योगाकाराय ते नमः ॥ ३२॥ सर्वेषां जठरेषु त्वं स्थित्वा भोगान् करोषि वै । भोक्ता त्वदुदरे वै न कोऽपि तेन महोदरः ॥ ३३॥ देहदेहिसमायोगे बोधब्रह्मणि संस्थितम् । को जानाति च तं देवं सोऽपि दर्शनतां गतः ॥ ३४॥ भक्तवत्सलभावेन प्रकटस्त्वं समागतः । वयं तेन कृतार्थाश्च देवदेवेश निश्चितम् ॥ ३५॥ वयं धन्या यतो दृष्टः सर्वोदरविलासकृत् । महोदरः प्रसन्नात्मा साक्षाद्ब्रह्मपतिः प्रभुः ॥ ३६॥ किं स्तौमि त्वां गणाधीश वेदादीनां तथोदरे । संस्थितं प्रणमामस्तं योगगम्यं सनातनम् ॥ ३७॥ रविरुवाच । एवं स्तुतिं समाकर्ण्य प्रणयेन सुतोषितः । जगाद तान् गणेशानो भक्तिभावनियन्त्रितः ॥ ३८॥ महोदर उवाच । वृणुध्वं सर्वदेवेशा मुनयश्च यथेप्सितम् । दास्यामि सकलं तद्वो भक्त्या स्तोत्रेण तोषितः ॥ ३९॥ भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । पठतां श‍ृण्वतां देवाः सर्वसिद्धिप्रदायकम् ॥ ४०॥ इति तस्य वचः श्रुत्वा देवा मुनिगणैः सह । हर्षयुक्ताः प्रणम्यैनं जगुस्ते तं गणेश्वरम् ॥ ४१॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो देवदेवेश विघ्नप । तदा ते पादपद्मे नो भक्तिं देहि विशेषतः ॥ ४२॥ मोहासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् । मुनयः कर्महीनाश्च जहि तं गर्वसंयुतम् ॥ ४३॥ ब्रह्माण्डं विजितं तेन तत्र लोकाः सुदुःखिताः । कृतास्तान् सुखदाता वै भव स्वामिन्नमोऽस्तु ते ॥ ४४॥ तेषां वचनमाकर्ण्य तानुवाच तथेति ह । महोदरः प्रसन्नात्मा भक्तवत्सलभावतः ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते देवर्षिवरप्रदानं नामाष्टमोऽध्यायः ॥ ३.८ (Page खं. ३ अ. ९ पान १९)

३.९ मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ रविरुवाच । ततो महोदरः क्रोधसमायुक्तः प्रतापवान् । परश्वादि स्वायुधानि दधानो प्रबभौ द्विजाः ॥ १॥ मूषकोपरि संस्थाय देवर्षिगणसंयुतः । मोहासुरं निहन्तुं स ययौ तन्नगरे प्रभुः ॥ २॥ एतस्मिन्नन्तरे तत्र समासीनो महासुरः । मोहो दैत्याधिपैः सर्वैर्वेष्टितः प्रबभौ द्विजाः ॥ ३॥ अकस्मान्नारदो दैत्यं ययौ गानपरायणः । तं दृष्ट्वा प्रणनामाऽथ मोहः सर्वसमन्वितः ॥ ४॥ समासीनं महादैत्यः पप्रच्छ विनयान्वितः । वद चित्रं मुने किञ्चित् भ्रमसि त्वं च सर्वगः ॥ ५॥ दैत्यस्य वचनं श्रुत्वा नारदस्तमुवाच ह । हर्षयुक्तः कथां पुण्यां दैत्यस्य विषरूपिणीम् ॥ ६॥ नारद उवाच । मोहासुर महाभाग श‍ृणु मे वचनं हितम् । चित्रं वदामि यद् दृष्टं भावपूर्वेण चेतसा ॥ ७॥ देवैः सम्प्रार्थितो देवो मुनिभिर्वनसंस्थितैः । महोदरवधार्थाय तव दैत्यपतेऽधुना ॥ ८॥ स देवो मूषकारूढो वधार्थं ते समागतः । दशयोजनदूरस्थो बभूवासुर चाधुना ॥ ९॥ इत्युक्त्वा नारदस्तं स मौनभावपरायणः । बभूव दैत्यराजस्तु भयोद्विग्नस्तदाऽभवत् ॥ १०॥ नियम्य दुःखमुग्रं स उवाच नारदं पुनः । मोहासुरो भयोद्विग्नो हृदयेन विदूयता ॥ ११॥ मोहासुर उवाच । श‍ृणु नारद मे वाक्यं न मृत्युर्मे प्रवर्तते । नामरूपात्मकेभ्यश्च किं करिष्यति देवपः ॥ १२॥ महोदरात्मको नाम रूपधारी समागतः । स देवं तं हनिष्यामि नात्र कार्या विचारणा ॥ १३॥ तस्य दैत्याधिपस्यैतद्वचनं नारदो मुनिः । श्रुत्वोवाच महायोगी मोहासुरं विचारतः ॥ १४॥ श‍ृणु मोहासुर त्वं मे वचनं हितकारकम् । महोदरो नरो नैव न देवो न च राक्षसः ॥ १५॥ नामरूपविहीनं यद्ब्रह्म वेदेषु कथ्यते । नामरूपमयं पूर्णं स एवायं समागतः ॥ १६॥ हनिष्यति यदा क्रुद्धस्त्वां तस्माच्छरणं व्रज । महोदरं महाभागं तेन त्वं सुखमेष्यसि ॥ १७॥ ततस्तं दैत्यराजः स जगाद भयसङ्कुलः । वद नारद योगज्ञ भ्रमनाशाय मे वचः ॥ १८॥ नामरूपविहीनोऽयं कथ्यसे च महोदरः । समागतः कथं देही नामरूपसमन्वितः ॥ १९॥ नामरूपमयं ब्रह्म नामरूपविवर्जितम् । सर्वत्रयोगभावेन तिष्ठत्यत्र न संशयः ॥ २०॥ स्वपरभ्रान्तिजो मोहो न कदा तत्र वर्तते । देवदैत्यादिभेदेषु समभावयुतं सदा ॥ २१॥ अयं महोदरश्चैव देवपक्षविवर्धनः । दैत्यानां प्रवधार्थाय किमर्थं कुरुते मतिम् ॥ २२॥ विपरीतमिदं विप्र वचनं ते च साम्प्रतम् । भासते पश्य योगीन्द्र नुद मे संशयं प्रभो ॥ २३॥ महोदरस्य मामन्यत् ब्रह्मर्षे वद चेष्टितम् । किंरूपः किंस्वभावश्च कस्यांशः किम्पराक्रमः ॥ २४॥ कुत्र वासकरः सोऽपि कीदृशं ब्रह्म तस्य यत् । एतत् सर्वं सुविस्तार्य ज्ञानं मे करुणानिधे ॥ २५॥ भानुरुवाच । एवं पृष्टो महायोगी गाणपत्यः प्रतापवान् । मोहासुरं यथापूर्वं तं जगाद महासुरम् ॥ २६॥ (Page खं. ३ अ. ९ पान २०) नारद उवाच । मोहासुर महाभाग मतिस्ते योगिसम्मता । योगरूपं त्वया पृष्टं तेनाऽहं तोषितो भृशम् ॥ २७॥ अतस्त्वां सकलं दैत्य कथयामि विशेषतः । श‍ृणुष्वैकमना ढुण्ढेश्चेष्टितं योगदं परम् ॥ २८॥ नामरूपमयं विद्धि जगत्सर्वं चतुर्विधम् । नामरूपविहीनं यद्देहिरूपं जगद्धितम् ॥ २९॥ तयोर्योगे च दैत्येन्द्र बोधः सर्वत्र सम्मतः । ब्रह्म यद्वेदवादेषु कथ्यते विद्धि चेतसा ॥ ३०॥ तदेव नामरूपादियुक्तं भवति सर्वदा । तदेव नामरूपादि हीनं भवति सर्वदा ॥ ३१॥ तद्ब्रह्म पूर्णभावेन संस्थितं योगवाचकम् । दैत्यपुङ्गव जानीहि तदेवाऽसौ महोदरः ॥ ३२॥ देहदेहिकृतो भोगः स्वस्वस्वानन्ददः परः । सर्वत्रगः स उदरे भुक्तभोगश्च कथ्यते ॥ ३३॥ उदरेन कृतो भोगो यदि बाह्यपरायणैः । तदा ते मरणैर्युक्ता भवन्ति स्वल्पकालतः ॥ ३४॥ स्वस्वानन्दमयो भोगो भुज्यते सर्वभावतः । सर्वैर्ब्रह्मभिरत्यन्तं जगद्भिश्चैव निश्चितम् ॥ ३५॥ भिन्नभोगश्च विश्वस्मिन्नात्मनि ह्यमृतात्मकः । एकभावमयो भोगो भोगयुक्तानुभौ मतौ ॥ ३६॥ देहेषु जठरं भिन्नं जठरं मतमात्मनि । एकभावात्मकं दैत्य जानीहि योगसेवया ॥ ३७॥ यदि भोगविहीनौ तौ विश्वात्मानौ महामते । विशेषतो यत्नवन्तौ किमर्थं वै बभूवतुः ॥ ३८॥ नामरूपधरं विश्वं जातं भोगार्थमेव च । नामरूपविहीनं यद्देही जातस्तदर्थतः ॥ ३९॥ नास्ति भोगस्य चेच्छा चेत् किमर्थं द्विविधं भवेत् । अतो जानीहि दैत्येन्द्र भोगयुक्तौ विशेषतः ॥ ४०॥ विश्वात्मनोश्च संस्थोऽयं जठरे गणनायकः । महोदराख्या सञ्जाता तेन तस्य महात्मनः ॥ ४१॥ द्विविधस्य च दैत्येन्द्र जठरं स्वल्पवाचकम् । स्वस्वभोगपरत्वाद्वै विचारय महामते ॥ ४२॥ सकलानां विशेषेणोदरेषु स सदा स्थितः । महोदरश्च तेनाऽयं कथितो वेदवादिभिः ॥ ४३॥ विश्वं देहमयं तस्य मस्तकं चात्मवाचकम् । तयोर्योगे गणेशोऽयं कथ्यते स गजाननः ॥ ४४॥ जायते सकलं यस्मादन्ते गच्छति यत्र च । दैत्यनायक जानीहि गजरूपं तदेव वै ॥ ४५॥ विश्वात्मानौ च संसृष्टौ ताभ्यां ज्ञानार्थमेव सः । तपसाऽऽराधितो देवो देहधारी बभूव ह ॥ ४६॥ न तस्य प्राकृतो देहः सर्ववत्पश्य दैत्यप । भुक्तिमुक्त्यर्थमेवं स स्वेच्छया देहभोगवत् ॥ ४७॥ स्वसंवेद्येन योगेन लभ्यते गणनायकः । तदेव नगरं तस्मात्तस्य जानीहि सर्वगम् ॥ ४८॥ सिद्धिर्भ्रान्तिप्रदा माया ततो भ्रमति वै जनः । बुद्धिर्भ्रान्तिधरा प्रोक्ता चित्तरूपा विशेषतः ॥ ४९॥ चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं भ्रमात्मकम् । त्यक्त्वा शान्तिमवाप्नोति योगीशो योगसेवया ॥ ५०॥ तस्मात्सिद्धेश्च बुद्धेश्च स्वामी प्रोक्तो महोदरः । तं भजस्व महादैत्य नोचेत्त्वां स हनिष्यति ॥ ५१॥ सुरासुरमयं तेन सृष्टं विश्वं विशेषतः । स्वस्वधर्मसमायुक्तं तेन खेलति विघ्नपः ॥ ५२॥ देवा दैत्यविनाशार्थं यतन्ते स्म यदा प्रभो । (Page खं. ३ अ. १० पान २१) तदा दैत्याय भवति सिद्धीशः सिद्धिदायकः ॥ ५३॥ देहधारी स्वयं भूत्वा वरदो भवति प्रभुः । असुरेभ्यो न सन्देहस्तं जानीहि महोदरम् ॥ ५४॥ दैत्या देवविनाशार्थं यतन्ते सर्वभावतः । तदा देहधरश्चाऽयं हन्ति दैत्यान्न संशयः ॥ ५५॥ देवाः सङ्ख्यायुता वेदे वर्तन्ते दैत्यनायक । वृद्धिक्षयविहीनत्वाद् हन्ति तान्न विशेषतः ॥ ५६॥ दैत्या अपाररूपाश्च वृद्धिक्षययुता मताः । तस्मात्तान् हन्ति वेगेन गणेशो ब्रह्मनायकः ॥ ५७॥ स्वस्वधर्मरता एते यदा खलु सुरासुराः । तदा तिष्ठत्ययं योगरूपश्च जठरे विभुः ॥ ५८॥ सर्वं ते कथितं दैत्य ब्रह्मभूतोऽयमुच्यते । तस्यांशैः सर्वमुत्पन्नं जगद्ब्रह्म च कथ्यते ॥ ५९॥ तस्मात्तं शरणं गच्छ यदि जीवितुमिच्छसि । भोगार्थं दैत्यराज त्वं मोक्षार्थं लालसा यदि ॥ ६०॥ एवमुक्वान्तर्दधेऽसौ नारदः करुणानिधिः । गणेशगानसंयुक्तो वीणावादे प्रलालसः ॥ ६१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः ॥ ३.९

३.१० मोहासुरशान्तिवर्णनं नाम दशमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ रविरुवाच । गते मुनौ महाभागा मोहो जातः सुहर्षितः । विचारमकरोच्चित्ते नारदोक्तविचारवित् ॥ १॥ एकान्ते संस्थितो दैत्यो गणेशध्यानतत्परः । महोदरस्य माहात्म्यं ज्ञात्वा मनसि हर्षितः ॥ २॥ स शुक्रमुपसङ्गम्याकथयत् प्रकथानकम् । नारदोक्तं च काव्येन तेनैवं बोधितो द्विजाः ॥ ३॥ ततः स्वगृहमागत्य गणेशे मोहितोऽभवत् । मोहासुरश्च मोहेन वर्जितः प्रबभौ स्वयम् ॥ ४॥ एतस्मिन्नन्तरे तत्र विष्णुः स्वयमुपाययौ । प्रेषितो गणराजेन सामार्थं दैत्यसन्निधौ ॥ ५॥ केशवं मानयामास मोहासुरः प्रतापवान् । अपूजयन् महादैत्यो निवेश्य शुभ आसने ॥ ६॥ पप्रच्छ तं महाविष्णुं किमर्थं त्वमिहागतः । वद विष्णो महाभाग कारणं ते करोम्यहम् ॥ ७॥ विष्णुरुवाच । महोदरः समायातो धर्मरक्षणतत्परः । देवैश्च मुनिभिः सार्धं तेनाऽहं प्रेषितोऽसुर ॥ ८॥ सामार्थं ते महाभागाऽसि धन्यो दैत्यनायक । मित्रभावं त्वया सार्धं स इच्छति महोदरः ॥ ९॥ देहदेहिमयं ब्रह्म तदेव गणनायकः । महोदरः समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥ १०॥ सर्वेषामुदरे स्थित्वा भोगान् सर्वान् भुनक्ति सः । महोदरश्च तेनाऽसौ वयं स्वल्पोदराः स्मृताः ॥ ११॥ नगरस्य पुरो राजन् दशयोजनदूरगः । संस्थितो देवविप्राद्यैः संस्तुतः प्रबभौ विभुः ॥ १२॥ स उवाच तदेवाऽहं कथयामि श‍ृणुष्व तत् । वचनं सर्वभावज्ञ सर्वेभ्यः सुखदायकम् ॥ १३॥ (Page खं. ३ अ. १० पान २२) विरुद्धं त्यज दैत्येन्द्र तिष्ठ स्थाने स्वके सुखम् । देवा हविर्भुजः सन्तु ब्राह्मणाः कर्मकारकाः ॥ १४॥ तिष्ठन्तु लोका वर्णाश्रमयुता दुःखवर्जिताः । एतत् कुरु महादैत्य नोचेद्युद्ध्यस्व दैत्यपैः ॥ १५॥ एतत्ते कथितं वाक्यं गणेशेन विशेषतः । तत् कुरुष्व महाभाग भव मित्रं महात्मनः ॥ १६॥ रविरुवाच । श्रुत्वा विष्णुवचो रम्यं तमुवाच महाबलः । मोहासुरः प्रसन्नात्मा सर्वेषां मोहकारकम् ॥ १७॥ मोहासुर उवाच । सम्यग् ब्रवीषि विष्णो त्वं मदीयहितकारकम् । करिष्यामि तथा देवं मानयिष्ये महोदरम् ॥ १८॥ एवमुक्त्वा स दैत्येन्द्रानाह्वयामास सत्वरम् । समागतानुवाचाथ विष्णुना कथितं वचः ॥ १९॥ मोहासुरस्य वाक्यं तच्छ्रुत्वा ते दैत्यसत्तमाः । क्रोधयुक्ताश्च पातालं विविशुर्भयसङ्कुलाः ॥ २०॥ शुक्रेण सहितो मोहासुरो दैत्यः प्रतापवान् । विष्णुना च तथा विप्रा गणेशं शरणं ययौ ॥ २१॥ समागत्य स दैत्येन्द्रो ननाम स महोदरम् । भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥ २२॥ पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः । कृत्वा करपुटं मोहस्तुष्टाव च महोदरम् ॥ २३॥ मोहासुर उवाच । नमस्ते ब्रह्मरूपाय महोदर सुरूपिणे । सर्वेषां भोगभोक्त्रे वै देहदेहिमयाय ते ॥ २४॥ मूषकारूढदेवाय त्रिनेत्राय नमो नमः । चतुर्भुजाय देवानां पतये ते नमो नमः ॥ २५॥ अनादये च सर्वेषामादिरूपाय ते नमः । विनायकाय हेरम्ब दीनपालाय वै नमः ॥ २६॥ गणेशाय निजानन्दपतये ब्रह्मनायक । सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥ २७॥ ब्रह्मभ्यो ब्रह्मदात्रे वै योगशान्तिमयाय च । योगिनां पतये तुभ्यं योगिभ्यो योगदायक ॥ २८॥ सिद्धिबुद्धिपते नाथ एकदन्ताय ते नमः । शूर्पकर्णाय शूराय वीराय च नमो नमः ॥ २९॥ सर्वेषां मोहकर्त्रे वै भक्तेभ्यः सुखदायिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ३०॥ मायाविने च मायाया आधाराय नमो नमः । मायिभ्यो मायया चैव भ्रान्तिदाय नमो नमः ॥ ३१॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सहाङ्गकाः । शान्तिं प्राप्तास्तथापि त्वं संस्तुतोऽसि दयापरः ॥ ३२॥ धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च । धन्यं वपुश्च देवेश येन दृष्टं पदाम्बुजम् ॥ ३३॥ इत्युक्त्वा प्रणनामाथ तमुवाच महोदरः । भक्तं भावयुतं दृष्ट्वा वचः परमशोभनम् ॥ ३४॥ महोदर उवाच । मोहासुर वृणुष्व त्वं वरं यं मनसीप्सितम् । दास्यामि भक्तिमोहेन मोहितोऽहं त्वयाऽधुना ॥ ३५॥ त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः । शरणागतमेवं त्वां हन्मि नो भक्तिसंयुतम् ॥ ३६॥ मदीयं स्तोत्रमेतद्वै सर्वदं यत्त्वया कृतम् । भविष्यति जनायैव पठते श‍ृण्वतेऽसुर ॥ ३७॥ मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् । धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥ ३८॥ (Page खं. ३ अ. ११ पान २३) रविरुवाच । एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः । मोहासुर उवाचाऽथ निबद्धकरसम्पुटः ॥ ३९॥ मोहासुर उवाच । महोदर नमस्तुभ्यं यदि दास्यसि मे वरम् । तदा ते पादपद्मे वै भक्तिं देहि दृढां प्रभो ॥ ४०॥ त्वदीयभक्तमित्रत्वं स्थानं भक्ष्यादिकं तथा । देहि मे देवदेवेश तत्र स्थास्यामि निश्चलः ॥ ४१॥ मोहासुरस्य तद्वाक्यं श्रुत्वा तं प्रत्युवाच ह । महोदरः प्रसन्नात्मा भक्तिभावेन तोषितः ॥ ४२॥ महोदर उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । मदीयभक्तमित्रत्वं प्राप्स्यसि त्वं न संशयः ॥ ४३॥ कर्मज्ञानादिभावेषु मदीयं पूजनं न हि । स्मरणं तत्र दैत्य त्वं भोगभोक्ता भविष्यसि ॥ ४४॥ स्वस्थाने तिष्ठ दैत्येन्द्र स्वधर्मस्थितमादरात् । नरं मोहविहीनं च तं कुरुष्व भजस्व माम् ॥ ४५॥ तथेति गणपं मोहासुरो नत्वा प्रतापवान् । स्वस्थाने संस्थितो गत्वा शान्तियुक्तो बभूव ह ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरशान्तिवर्णनं नाम दशमोऽध्यायः ॥ ३.१०

३.११ महोदरांऽतर्धानं नामैकादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ रविरुवाच । गते मोहासुरे तत्र शान्तरूपे सुरेश्वराः । सुरैश्च मुनिभिः सार्धं महोदरमपूजयन् ॥ १॥ पूजयित्वा गणेशानं प्रणता भक्तिसंयुताः । तुष्टुवुस्ते विशेषेण हर्षयुक्ताः सुरर्षयः ॥ २॥ सुरर्षय ऊचुः । अमेयमायामितविक्रमाय निरञ्जनायाऽथ गणेश्वराय । अमायिने मायिकमोहनाय नमो नमस्तेऽस्तु महोदराय ॥ ३॥ मनोवचोहीनतया स्थिताय मनोवचोयुक्तगजाननाय । अयोगसंयोगमयाय ढुण्ढे नमो नमस्तेऽस्तु महोदराय ॥ ४॥ विदेहरूपाय च बोधकाय तथाहि सोऽहम्पदभोगकाय । सदा सुबिन्द्वात्मकदेहगाय नमो नमस्तेऽस्तु महोदराय ॥ ५॥ गुणेशरूपाय सुषुप्तिकाय तथा सुसूक्ष्माय च जागृते ते । हरीश ब्रह्मादिषु संस्थिताय नमो नमस्तेऽस्तु महोदराय ॥ ६॥ शुभाशुभाकारधराय भूम्ने शुभाशुभादौ च सुपूजिताय । शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेऽस्तु महोदराय ॥ ७॥ कर्त्रे सुपात्रे हरणाय कालप्रकाशरूपाय च भानवे ते । क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेऽस्तु महोदराय ॥ ८॥ यमाय चन्द्राय च वायवे वै कुबेररूपाय पुरन्दराय । शिवाय वन्ह्यात्मकनैरृताय नमो नमस्तेऽस्तु महोदराय ॥ ९॥ अनन्तरूपाय जलेशकाय प्रजापते रूपधराय पाशिन् । दिगीशपालाय दिशामयाय नमो नमस्तेऽस्तु महोदराय ॥ १०॥ सुरासुराणां च समाय नित्यं सुरासुराकारधराय धात्रे । (Page खं. ३ अ. ११ पान २४) पिशाचगन्धर्वमयाय यक्ष नमो नमस्तेऽस्तु महोदराय ॥ ११॥ धरास्वरूपाय जलप्रकाश जलस्वरूपाय च तेजसे ते । वाताय चाकाशमयाय धाम्ने नमो नमस्तेऽस्तु महोदराय ॥ १२॥ अनादिमध्यान्तविहारकाय सदादिमध्यान्तमयाय चित्रम् । तत्त्वप्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥ १३॥ नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय । वैश्याय शूद्राय तथांऽतिमाय नमो नमस्तेऽस्तु महोदराय ॥ १४॥ गुरोरधीनाय गृहस्थरूपवनस्थितायाऽथ परिव्रजाय । वर्णाश्रमैर्हीनमयाय योगिन् नमो नमस्तेऽस्तु महोदराय ॥ १५॥ वृक्षादिवीरुत्तृणसंस्थिताय धराधराकारमयाय देव । पशुस्वरूपाय च पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥ १६॥ रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय । चराचराकारमयाय नाग नमो नमस्तेऽस्तु महोदराय ॥ १७॥ वराङ्कुशाद्यैश्च सुचिह्नितायोन्दुरुध्वजायाऽऽखुसुवाहनाय । त्रिनेत्रधाराय च शूर्पकर्ण नमो नमस्तेऽस्तु महोदराय ॥ १८॥ स्वानन्दलोकाधिप देवदेव सुसिद्धिबुद्धिप्रभवे परात्मन् । सदैकदन्ताय चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥ १९॥ महोदरायादिसुपूजिताय सुवस्त्रसम्भूषणभूषिताय । प्रमोदमोदादिगणैः स्तुताय नमो नमस्तेऽस्तु महोदराय ॥ २०॥ सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकञ्जपाणे । गणेश हेरम्ब च भक्तपोष नमो नमस्तेऽस्तु महोदराय ॥ २१॥ प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण । विकारहीनाय सुबोधदाय नमो नमस्तेऽस्तु महोदराय ॥ २२॥ अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन । तेषु त्वमेवं सुखभोगकारिन् नमो नमस्तेऽस्तु महोदराय ॥ २३॥ भानुरुवाच । एवं संस्तुवतां तेषां सुरर्षीणां महर्षयः । समुत्पन्नो भक्तिरसस्तेन ते ननृतुः पुरः ॥ २४॥ साश्रुनेत्रान् स रोमाञ्चान् रुद्धकण्ठान् विशेषतः । तानुवाच स्वयं देवो भक्तान् वै भक्तवत्सलः ॥ २५॥ गणेश उवाच । वरान् वृणुत देवेशा देवा मुनिगणास्तथा । भक्त्या स्तोत्रेण तुष्टोऽहं दास्यामि मनसीप्सितान् ॥ २६॥ गणेशवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः । तं प्रणम्य महात्मानं द्विजा ऊचुर्महोदरम् ॥ २७॥ देवर्षय ऊचुः । यदि तुष्टोऽसि देवेश तदा ते भक्तिमुत्तमाम् । देहि नो गणनाथ त्वं तया तृप्ताः स्म साम्प्रतम् ॥ २८॥ त्वया शान्तिधरो दुष्टः कृतो मोहासुरः प्रभो । तेन सर्वं जगत् पूर्णं वरैश्चापि प्रपालितम् ॥ २९॥ अधुना तापसंहीनाः कृता गणपते वयम् । त्वं नाथोऽसि जगन्नाथ अनाथानां करोषि तत् ॥ ३०॥ एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः । तथेति तानुवाचैव गणेशोंऽतर्दधे द्विजाः ॥ ३१॥ देवाश्च मुनयः सर्वे स्वस्वस्थानं ययुस्ततः । स्वस्वधर्मरता लोका बभूवुर्विगतज्वराः ॥ ३२॥ एवं मोहासुरं विप्राः शान्तिरूपधरं प्रभुः । चकार गणनाथो वै मोहहीनं जगत्तथा ॥ ३३॥ (Page खं. ३ अ. १२ पान २५) महोदरस्य तस्यैवावतारा विविधाः स्मृताः । चरित्रमखिलं तेषां गदितुं न प्रशक्यते ॥ ३४॥ रामः सीतावियोगार्तः शरणं तं महोदरम् । ययौ तेन स शान्तोऽभूत् ससीतो भजने रतः ॥ ३५॥ दक्षिणस्यां दिशि प्रान्ते स्थापितोऽसौ महोदरः । देवर्षिभिश्च भो विप्राः स्थानं तद्भुवि पप्रथे ॥ ३६॥ इदं महोदरस्यैव चरितं मोहनाशनम् । मोहशान्तिप्रदं पूर्णं कथितं वो मया द्विजाः ॥ ३७॥ यः पठेच्छृणुयाद्यश्च तस्मै शान्तिप्रदायकम् । भुक्तिमुक्तिप्रदं चैव भविष्यति न संशयः ॥ ३८॥ मोहेन मोहिता विप्रा मां वदन्ति परात्परम् । स्वल्पयोगधरास्ते ये ज्ञातव्याश्च न संशयः ॥ ३९॥ एतद्वः कथितं सर्वं मदीयं सुचरित्रकम् । गणेशभक्तिसंयुक्तं तस्मात्तं प्रभजाम्यहम् ॥ ४०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते महोदरांऽतर्धानं नामैकादशोऽध्यायः ॥ ३.११

३.१२ नरनारायणविष्णुसंवादो नाम द्वादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सूर्येण कथितं चित्रं महोदरकथानकम् । श्रुत्वा विस्मयसंयुक्ता बभूवुर्वालखिल्यकाः ॥ १॥ मानसे धारयामासुर्गणेशोऽयं सुशान्तिदः । योगरूपो न सन्देहो भानुना बोधिता वयम् ॥ २॥ हर्षयुक्ताः पुनस्तं ते वालखिल्याः प्रजापते । महोदरस्य पप्रच्छुश्चेष्टितं तस्य शान्तिदम् ॥ ३॥ वालखिल्या ऊचुः । धन्योऽसि च रवे त्वं वै योगशान्तिप्रकाशकः । वयं बोधेन संयुक्ता संशयो न त्वया कृतः ॥ ४॥ धन्यं जन्म गणेशस्य कथां तस्य महाप्रभोः । श्रुत्वा मनसि सन्तुष्टा भवामस्त्वदनुग्रहात् ॥ ५॥ सर्वज्ञोऽसि महाभाग साक्षाद्गणपतिः स्वयम् । आत्माकारेण सूर्यस्त्वं तन्न चित्रं किमप्युत ॥ ६॥ अधुना ब्रूहि देवेश रामो गणपतिं कथम् । अभजद्भक्तिसंयुक्तः शान्तिरूपो बभूव ह ॥ ७॥ धन्यास्ते पुरुषा लोके गणेशस्य कथां रवे । पृच्छन्ति प्रपठन्त्यन्ये श‍ृण्वते योगशान्तिदाम् ॥ ८॥ मुद्गल उवाच । इति पृष्टो महातेजा वालखिल्यैः प्रजापते । रविस्तान् हर्षितो भूत्वा भो जगाद श‍ृणुष्व तत् ॥ ९॥ रविरुवाच । अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् । नारायणस्य संवादं मार्कण्डेयस्य सिद्धिदम् ॥ १०॥ मृकण्डाच्च समुत्पन्नो मार्कण्डेयो महामुनिः । कृतोपवीतको भूत्वा तताप परमं तपः ॥ ११॥ ब्रह्मचर्यसमायुक्तो वेदशास्त्रज्ञसत्तमः । नित्यं जजाप गायत्रीं मोक्षेप्सुः स विशेषतः ॥ १२॥ अयुते प्रगते विप्रा वर्षाणां च तदाऽऽश्रमे । आययौ शङ्करस्तत्र पार्वत्या गणसंवृतः ॥ १३॥ ध्याने विष्णुं समाधृत्वा संस्थितो न बुबोध तम् । (Page खं. ३ अ. १२ पान २६) समागतं महेशानं शिवश्चित्रं तदाऽकरोत् ॥ १४॥ योगमायाबलेनाऽसौ हृदि तस्य गतः शिवः । लोपयामास विष्णुं तं हृदि संस्थं मुनेः किल ॥ १५॥ हृदये शङ्करं दृष्ट्वा विस्मितोऽसौ महामुनिः । त्यक्त्वा ध्यानं बहिर्वीक्ष्य शङ्करं प्रणनाम सः ॥ १६॥ अथर्वशिरसा शम्भुं स्तुत्वा हर्षसमन्वितः । पुनः पुनर्महेशानं प्रणम्य पुरतः स्थितः ॥ १७॥ तमुवाच महादेवो वरं वृणु हृदीप्सितम् । दास्यामि तपसा तुष्टो गायत्र्याश्च जपेन ते ॥ १८॥ गायत्री वेदमाता वै पिता ओङ्कार उच्यते । ओङ्काराच्च वयं जाता जानीहि तापसोत्तम ॥ १९॥ अतो जपेन गायत्र्याः सन्तुष्टोऽहं न संशयः । स्तुत्या गम्भीरया विप्र दास्यामि हृदि वाञ्छितम् ॥ २०॥ शिवस्य वचनं श्रुत्वा तं जगाद महामुनिः । भक्तिं देहि त्वदीयां मे मुक्तिं संसारसागरात् ॥ २१॥ ततस्तं प्रत्युवाचेदं वाक्यं वाक्यविशारदः । शिवः सन्तोषदः पूर्णः स्वभक्तेभ्यो विशेषतः ॥ २२॥ शिव उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामुने । मुक्तिश्च शाश्वती पूर्णा पुराणाचार्यता तथा ॥ २३॥ आयुश्च सप्तकल्पाख्यं भविष्यति महामुने । यद्यदिच्छसि तत्तत्ते सफलं नात्र संशयः ॥ २४॥ एवमुक्त्वान्तर्दधे सशक्तिकोऽसौ शिवः स्वयम् । मार्कण्डेयश्च सङ्खिन्नः संस्थितोऽभून् महर्षयः ॥ २५॥ प्रकीर्तिता मन्त्रशक्तिर्गायत्री रूपधारिणी । देवता शम्भुरूपा च कल्पिताऽभून् महात्मना ॥ २६॥ शैवमार्गेण शम्भुं सोऽभजच्चानन्यचेतसा । कालात्मकं महेशानं मोहहीनं विशेषवित् ॥ २७॥ तत्र तेन समाख्यातं पुराणं सर्वसिद्धिदम् । मार्कण्डेयं शिवस्यैव शक्तेर्माहात्म्यसंयुतम् ॥ २८॥ ततो बहुगते काले नरनारायणावुभौ । आश्रमे तस्य देवर्षेर्जग्मतुः परमेश्वरौ ॥ २९॥ वालखिल्या ऊचुः । वद भानो महाभाग चरित्रं च तयोः शुभम् । परमेश्वरसंज्ञौ तौ भवतः कथमादरात् ॥ ३०॥ भानुरुवाच । मम पुत्रश्च धर्मात्मा धर्मः सर्वसमानगः । तेन विष्णोस्तपस्तप्तं कीर्त्या सह महर्षयः ॥ ३१॥ गते वर्षशते पूर्णे विष्णुश्च वरदोऽभवत् । ताभ्यां पुत्रस्त्वमेवं नौ भव सोऽपि तथाऽकरोत् ॥ ३२॥ नरनारायणावेवं तयोः पुत्रौ बभूवतुः । नरो जीवमयः प्रोक्तो परो नारायणः शिवः ॥ ३३॥ तयोर्योगे च यद्ब्रह्म वैष्णवं कथ्यते बुधैः । अतस्तौ प्रसमाख्यातौ मया वः परमेश्वरौ ॥ ३४॥ धर्मस्याज्ञां गृहीत्वा वै निमिषारण्यगौ द्विजाः । भवतः स्म ततो देवौ तेपाते परमं तपः ॥ ३५॥ समाययौ तत्र साक्षात् स्वयं विष्णुर्यदृच्छया । तं दृष्टा सन्नतौ तुष्टुवतुर्देवौ च केशवम् ॥ ३६॥ नानास्तोत्रैः प्रसाद्यैनं नेमतुर्भक्तितत्परौ । तावुवाच महाविष्णुरिच्छथः किं महामुनी ॥ ३७॥ ततस्तौ केशवं चैवोचतुः परमधार्मिकौ । वद योगं महाभाग सर्वशान्तिकरं परम् ॥ ३८॥ एवमुक्तो महायोगी तावुवाच प्रहर्षितः । (Page खं. ३ अ. १३ पान २७) योगं शान्तिप्रदं पूर्णं गाणपत्यप्रियः सदा ॥ ३९॥ विष्णुरुवाच । चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं च यत् स्मृतम् । मायारूपं तदेवाशु त्यक्त्वा योगं समाप्स्यथः ॥ ४०॥ यद्यच्चित्तेन सम्प्राप्तं तत्तद्योगेन मानदौ । योगरूपं प्रकर्तव्यं तदाकारसमाधिना ॥ ४१॥ यद्यच्चित्तेन न ज्ञातं तत्तन्निर्वृत्तिवाचकम् । तदेव योगरूपं वै कर्तव्यं योगसेवया ॥ ४२॥ चित्ते चिन्तामणिर्नित्यं तिष्ठेद्वै चित्तचालकः । भजतं तं महाभागौ तेन शान्तिमवाप्स्यथः ॥ ४३॥ मायामोहयुतं चित्तं नानाभावेषु लालसम् । मायाहीनं सदा चित्तं शान्तिरूपं भविष्यति ॥ ४४॥ चित्तमिच्छति धर्मं वै तथार्थं काममादरात् । मोक्षं च ब्रह्मभूतत्वं भ्रमयुक्तं न संशयः ॥ ४५॥ अहं चिन्तामणिः साक्षान्न मे भिन्नं प्रविद्यते । तदिच्छेयं भ्रामयति किमर्थं मां भ्रमात्मिका ॥ ४६॥ अनेन योगमार्गेण चित्तं त्यक्त्वा महामुनी । शान्तियोगस्वरूपौ वै संशयो न भविष्यथः ॥ ४७॥ एवमुक्त्वांऽतर्दधेऽसौ विष्णुर्वैकुण्ठगोऽभवत् । नरनारायणौ तत्र योगयुक्तौ बभूवतुः ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते नरनारायणविष्णुसंवादो नाम द्वादशोऽध्यायः ॥ ३.१२

३.१३ नरनारायणमार्कण्डेयसमागमो नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ वालखिल्या ऊचुः । वद भानो महायोगिन्नरनारायणावृषी । किं चक्रतुस्ततः सर्वं ब्रह्मभूतौ विशेषतः ॥ १॥ रविरुवाच । स्वाश्रमे तौ स्थितौ देवौ नरनारायणावृषी । विष्णुना कथितो योगः साधयामासतुः परम् ॥ २॥ क्रमेण शान्तिमापन्नौ गाणपत्यौ बभूवतुः । गणपस्य महामन्त्रं शिवात् सङ्गृह्य जेपतुः ॥ ३॥ चतुरक्षरकं मन्त्रं हेरम्बस्य विशेषतः । मूर्तिं रत्नमयीं कृत्वा पूजयेतां महामुनी ॥ ४॥ हेरम्बस्य हृदि ध्यानं चक्रतुः परमादृतौ । शान्तिं प्राप्तौ ततो विप्रा न मुञ्चन्तौ गजाननम् ॥ ५॥ एवं वर्षशते पूर्णे तयोराश्रमगोऽभवत् । हेरम्बः सिंहगो भूत्वा नागयज्ञोपवीतवान् ॥ ६॥ चतुर्बाहुधरश्चैव त्रिनेत्रो भूषणैर्वरैः । भूषितः सिद्धिबुद्धिभ्यां युतो लम्बोदरः प्रभुः ॥ ७॥ नानापुष्पमयीं मालां त्रिशूलं मुद्गरं तथा । अङ्कुशं च करैर्विप्रा दधानस्तेजसा युतः ॥ ८॥ एतादृशं च हेरम्बं दृष्ट्वा तौ मुनिसत्तमौ । प्रणेमतुर्दण्डवत्तु पादयोस्तस्य योगिनौ ॥ ९॥ हेरम्बं तत उत्थायापूजयेतां यथाविधि । पुनस्तुष्टुवतुस्तत्र तौ प्रणम्य गजाननम् ॥ १०॥ नरनारायणावूचतुः । नमस्ते गणनाथाय भक्तसंरक्षकाय ते । भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः ॥ ११॥ अनाथानां विशेषेण नाथाय गजवक्त्रिणे । (Page खं. ३ अ. १३ पान २८) चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते ॥ १२॥ ढुण्ढये सर्वसाराय नानाभेदप्रचारिणे । भेदहीनाय देवाय नमश्चिन्तामणे नमः ॥ १३॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे । योगाय योगनाथाय शूर्पकर्णाय ते नमः ॥ १४॥ सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने । सर्वपूज्याय सर्वाय देवदेवाय ते नमः ॥ १५॥ ब्रह्मणां ब्रह्मणे तुभ्यं सदा शान्तिप्रदायक । सुखशान्तिधरायैव नाभिशेषाय ते नमः ॥ १६॥ पूर्णाय पूर्णनाथाय पूर्णानन्दाय ते नमः । योगमायाप्रचालाय खेलकाय नमो नमः ॥ १७॥ अनादये नमस्तुभ्यमादिमध्यान्तमूर्तये । स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः ॥ १८॥ गताभिमानिनां नाथस्त्वमेवात्र न संशयः । तेन हेरम्बनामाऽसि विनायक नमोऽस्तु ते ॥ १९॥ किं स्तुवस्त्वां गणाधीश योगाभेदमयं परम् । अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो ॥ २०॥ एवमुक्त्वा नतौ तत्र नरनारायणावृषी । तावुत्थाप्य गणेशान उवाच घननिस्वनः ॥ २१॥ हेरम्ब उवाच । वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियन्त्रितः । महाभागावादिमुनी योगमार्गप्रकाशकौ ॥ २२॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । पठते श‍ृण्वते चैव भुक्तिमुक्तिप्रदं तथा ॥ २३॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम् ॥ २४॥ भानुरुवाच । हेरम्बवचनं श्रुत्वा हर्षितौ मुनिपुङ्गवौ । कृताञ्जलिपुटौ चोभावूचतुस्तं गजाननम् ॥ २५॥ यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तदा ते भक्तिमुग्रां नौ देहि चाव्यभिचारिणीम् ॥ २६॥ तथेति गणनाथस्तौ जगाद भक्तिभावितः । अन्तर्धानं चकाराऽसौ स्वानन्दस्थो बभूव ह ॥ २७॥ ततस्तौ नित्यमत्यन्तं गणेशभजने रतौ । हेरम्बेति सदा मन्त्रं वाण्या प्रोचतुरादरात् ॥ २८॥ ततो बहुगते काले मार्कण्डेयाश्रमे द्विजाः । जग्मतुर्ज्ञानदानार्थं करुणायुक्तमानसौ ॥ २९॥ नरनारायणौ दृष्ट्वा मार्कण्डेयो महामुनिः । प्रणनाम स साष्टाङ्गं पूजयन् भक्तिसंयुतः ॥ ३०॥ पूजयित्वा स्वयं तत्र पादसंवाहने स्थितः । उवाच तौ विनीतात्मा मार्कण्डेयो महामुनिः ॥ ३१॥ मार्कण्डेय उवाच । धन्यं मे जन्म विद्या च तपो ज्ञानादिकं तथा । धन्यौ मे जनकौ चैव युवयोः पाददर्शनात् ॥ ३२॥ एवं नानाविधैर्वाक्यैः संस्तुतौ मुनिपुङ्गवौ । ऊचतुस्तं विनीतं तौ भक्तिभावेन तोषितौ ॥ ३३॥ नरनारायणावूचतुः । मार्कण्डेय वृणुष्व त्वं वरं स्वमनसीप्सितम् । तवातिथ्यकृतेनैव सन्तुष्टौ नात्र संशयः ॥ ३४॥ तयोर्वचनमाकर्ण्य मार्कण्डेयः प्रतापवान् । प्रणम्य तावुवाचाऽथ भक्तिनम्रात्मकन्धरः ॥ ३५॥ मार्कण्डेय उवाच । ज्ञानं शान्तिप्रदं पूर्णं वदतं मुनिसत्तमौ । तेन तृप्तो भविष्यामि शान्तियोगपरायणः ॥ ३६॥ दर्शयेथां महामायां तां ज्ञात्वा सन्त्यजाम्यहम् । (Page खं. ३ अ. १४ पान २९) भक्तिरेव गुरोः पादे दीयतां मे वरस्त्वयम् ॥ ३७॥ रविरुवाच । तथेति तं महात्मानावूचतुर्ज्ञानमुत्तमम् । शान्तियोगप्रदं पूर्णं गाणेशं मुनिपुङ्गवौ ॥ ३८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते नरनारायणमार्कण्डेयसमागमो नाम त्रयोदशोऽध्यायः ॥ ३.१३

३.१४ मायावर्णनं नाम चतुर्दशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । ज्ञानं शान्तिप्रदं पूर्णं श‍ृणु त्वं मुनिसत्तम । तपसा ब्रह्मचर्येण सिद्धोऽस्यत्र न संशयः ॥ १॥ शिवेन रामचन्द्राय कथितं योगदायकम् । तेन शान्तिसमायुक्तो बभूवे लक्ष्मणाग्रजः ॥ २॥ राज्यसङ्गसमायुक्तस्तेनाभूत्तच्च विस्मृतम् । पुनर्वसिष्ठवाक्येन तज्ज्ञानं समपद्यत ॥ ३॥ मार्कण्डेय उवाच । कोऽसौ रामो महाभागः कस्मिन् वंशे समुद्भवः । कस्य पुत्रश्च तत्सर्वं वदतं मां महामुनी ॥ ४॥ रविरुवाच । एवं पृष्टौ महात्मानौ मार्कण्डेयेन धीमता । ऊचतुः परमप्रीतौ चेष्टितं राघवस्य च ॥ ५॥ नरनारायणावूचतुः । मरीचिर्ब्रह्मणः पुत्रस्तस्माज्जातश्च कश्यपः । अदित्यां कश्यपाज्जज्ञे सूर्य आत्मा शरीरिणाम् ॥ ६॥ सूर्याच्च मनुनामा यो वैवस्वत इति श्रुतः । तस्य मन्वन्तरं प्रोक्तं सप्तमं भूमिमण्डले ॥ ७॥ ब्रह्मणो दिवसः प्रोक्तो मुनिभिः कालवादिभिः । चतुयुर्गसहस्राख्यस्तावती रात्रिरुच्यते ॥ ८॥ एकस्मिन् दिवसे विप्र मनवश्च चतुर्दश । भवन्ति स्वस्वकालेन प्रेरिताः क्षत्रकर्मणि ॥ ९॥ एकसप्ततिरेषैवाधिका किञ्चिन् महामुने । मन्वन्तरं चतुर्णां च युगानां वै प्रकथ्यते ॥ १०॥ स्वायम्भुवादयश्चैव मनवः कथिता बुधैः । तेषु षट्कं तथा भिन्नं भवति स्वाधिकारतः ॥ ११॥ मनुर्देवाश्च विप्रा वै सप्त चैव पुरन्दरः । मनुपुत्राश्च विष्णोर्यत्रावतारः प्रकीर्तितः ॥ १२॥ विभागतश्च मनुना सर्वधर्मः प्रकाश्यते । भूमिपालनकं कार्यं वर्णाश्रमविधानतः ॥ १३॥ ऋषिभिस्तत्त्वमार्गेण कर्मज्ञानादिकं मुने । सुबोधेन नराणां तत् प्रकाश्यं सर्वमादरात् ॥ १४॥ यजमानस्य यज्ञादि कर्म सर्वं तथा मुने । कारणीयं प्रकर्तव्यं स्वस्वमन्वन्तरेषु तैः ॥ १५॥ वृष्ट्यादिना त्रिभुवनं महेन्द्रेण विशेषतः । कर्मानुसारभोगेन पालनीयं यथातथम् ॥ १६॥ देवैः स्वयज्ञभागस्थं भोगं भुक्त्वा स्वलोकदम् । कर्मकर्त्रे तथा स्वर्गे फलं दातव्यमादरात् ॥ १७॥ इन्द्रस्य दैत्यजं घोरं भयं प्राप्तं यदा मुने । तदा विष्णुः कलांशेन तं रक्षति बिडौजसम् ॥ १८॥ मनोः पुत्रैश्च पौत्रैश्च तेषां सन्ततिभिः सदा । प्रजापालनकं कार्यं क्षात्रधर्मपरायणैः ॥ १९॥ एवं षट्कं समाख्यातं मन्वन्तरमयं मुने । मन्वन्तरे समाप्ते वै द्वितीयस्य समुद्भवः ॥ २०॥ ज्ञाननिष्ठं तदा षट्कं भवेद्वै नित्यमादरात् । तपसा देहमुत्सृज्य स्वस्वधाम्नि गतं भवेत् ॥ २१॥ लयस्तत्र समाख्यातो मन्वन्तरलयात्मकः । तत्र सर्वे लयं प्राप्ता जनाः स्थावरजङ्गमाः ॥ २२॥ द्वितीये मनुमुख्ये समुद्यते वै महामुने । भृग्वादयः स्वमात्मानं ससृजुर्योगसेवया ॥ २३॥ पुनः सृष्टिं प्रचक्रुस्ते चराचरमयीं मुने । एवं सर्वान्तरे प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥ २४॥ ब्रह्मणो दिवसान्ते यो लयो नैमित्तिकाह्वयः । भवति तत्र त्रैलोक्यं नाशमेति न संशयः ॥ २५॥ एवं दिनक्रमेणैव शतवर्षमयं मुने । ब्रह्मणः पूर्णमायुष्यं भविष्यति न संशयः ॥ २६॥ तदा स्वयं लयेनैव मरिष्यति पितामहः । एवं क्रमेण त्रैगुण्यं नाशरूपं वदन्ति च ॥ २७॥ जन्ममृत्युमयी पूर्णा नानाद्वन्द्वप्रकाशिनी । माया ते कथिता विप्र द्वन्द्वभावेषु भ्रान्तिदा ॥ २८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मायावर्णनं नाम चतुर्दशोऽध्यायः ॥ ३.१४

३.१५ कालगतिवर्णनं नाम पञ्चदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मार्कण्डेय उवाच । भवद्भ्यां कथितं चित्रं मायारूपं विशेषतः । श्रुत्वाऽहं तृप्तिसंयुक्तो भवामि भृशहर्षितः ॥ १॥ मायारूपं मया नाथौ न ज्ञातं पूर्णभावतः । अतो मां विस्तरेणैव वदतं योगिनां वरौ ॥ २॥ वर्णाश्रमविभागं वै स्वस्वाचारसमन्वितम् । युगमानं तथा विप्रो युगधर्मान् विशेषतः ॥ ३॥ पितृदेवासुराणां वै कर्ममार्गं सुतृप्तिदम् । सूर्यचन्द्रप्रसूतानां राज्ञां सर्वं चरित्रकम् ॥ ४॥ एतानि प्रश्नपीठानि वदतं चर्षिसत्तमौ । तत्र द्वन्द्वादिकस्यैव ज्ञानं मे प्रभविष्यति ॥ ५॥ भानुरुवाच । एवं पृष्टौ महाभागौ नरनारायणावृषी । ऊचतुस्तं दयायुक्तो मार्कण्डेयं तु तापसम् ॥ ६॥ नरनारायणावूचतुः । सम्यक् पृष्टं महाभाग वदिष्यावोऽखिलं च ते । येन मायाचरित्राणां ज्ञानं भवति निश्चलम् ॥ ७॥ निमेषमात्रः कालो यो लघ्वक्षरसमन्वितः । दशपञ्चनिमेषैश्च काष्ठाकालः प्रकीर्तितः ॥ ८॥ त्रिंशत्काष्ठाभिरेवं यः कलाकालः प्रजायते । त्रिंशत्कलाभिरेकं वै मुहूर्तं परिकीर्तितम् ॥ ९॥ त्रिंशन्मुहूर्तमानेन दिवानक्तमयो मतः । तैस्त्रिंशद्भिस्तथा कालो मासाख्यो विप्र जायते ॥ १०॥ मासपक्षद्वयाकारः शुक्लकृष्णविभागतः । मासैर्द्वादशभिः संवत्सरः पूर्णश्च जायते ॥ ११॥ द्वाभ्यामाभ्यामृतुः प्रोक्तः स षडृतुभिरुच्यते । संवत्सरप्रमाणाख्यः कथितः कालवेदिभिः ॥ १२॥ निमेषादिभिरेवं स कालः संवत्सरान्तगः । (Page खं. ३ अ. १५ पान ३१) नानाभावसमायुक्तः कालधर्मं प्रकाशते ॥ १३॥ संवत्सरात्मकः कालः पञ्चधा परिकीर्तितः । आद्यः संवत्सरः प्रोक्तो द्वितीयः परिवत्सरः ॥ १४॥ इडावत्सर एवाऽसौ चतुर्थश्चानुवत्सरः । वत्सरश्चैव पञ्चैते श‍ृणु तेषां गतिं मुने ॥ १५॥ अङ्गप्रत्यङ्गसंयोगः कालेनैव प्रजायते । अग्निर्जठरसंस्थश्च कुरुते सर्वमञ्जसा ॥ १६॥ देहोत्पत्तिः स्थितिश्चैव नाशस्तस्य प्रकीर्तितः । कालेन जायते सर्वं सोऽग्निः संवत्सरः स्मृतः ॥ १७॥ पञ्चानां मुख्यरूपोऽयं कालकर्मप्रवर्तकः । देहसंस्थो महायोगी बुधैः कालः प्रकथ्यते ॥ १८॥ परिवत्सरनामाऽयं सूर्यः कालमयो मुने । अयनादिस्वभावेन स्मृतः कालस्य चालकः ॥ १९॥ वर्षाशीतोष्णकालेषु ऋतुमासक्रमादिषु । कालधर्मं स चरति प्रकाशयति नित्यशः ॥ २०॥ इडावत्सरनामाऽयं चन्द्रः प्रोक्तो मनीषिभिः । तारानक्षत्रकादीनां चालकश्च प्रजायते ॥ २१॥ पितॄणां ज्ञानकारी च कालस्यात्र न संशयः । कालक्रमेण सोमोऽयं दधात्यमृतमंशुभिः ॥ २२॥ ओषधीनामंशुभिर्वै काले भावं प्रकाशते । काले देवजनानाममृतपानं ददाति सः ॥ २३॥ अनुवत्सरनामाऽसौ वायुः सर्वत्र पठ्यते । प्राणापानादिभिर्भावैश्चालकः कामकारकः ॥ २४॥ आवहप्रवहाद्यैः स नेमिभिर्ज्योतिषां गणम् । सञ्चालयति कालेन कालज्ञः कालरूपधृक् ॥ २५॥ वत्सरो रुद्ररूपोऽयं तथा कालः प्रकाशते । महालये समुत्पन्ने लयमोषधयो गताः ॥ २६॥ तत्र कालप्रमाणेन त्र्यम्बकः पुनरेव च । स ओषधीनां प्रस्रष्टा जायते कालसंस्थितः ॥ २७॥ गायत्री जगती त्रिष्टुबम्बिका नामतः स्मृताः । ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः ॥ २८॥ पुनश्चौषधयः सृष्टास्तत्र रुद्रेण कालतः । तेनाऽयं कालभावेन जगद्भावयति प्रभुः ॥ २९॥ एवं पञ्चविधं कालं यो जानाति स्वभावतः । न तस्य कालभावस्य दुःखं भवति कर्हिचित् ॥ ३०॥ अधुना श‍ृणु विप्रर्षे कालमानं विशेषतः । अयनं द्विविधं प्रोक्तं षण्मासात्मकमुच्यते ॥ ३१॥ तदेव देवतानां वै दिनमेकं प्रकथ्यते । उत्तरायणरूपश्च दिवसः परिकीर्तितः ॥ ३२॥ दक्षिणायनरूपा वै रात्रिस्तेषां प्रकीर्तिता । एवं त्रिंशद्भिराख्यातो मासश्चैव महामुने ॥ ३३॥ मासैर्द्वादशभिश्चैव वर्षस्तेषां प्रकीर्तितः । एवं सर्वत्र विप्राग्र्य ज्ञातव्यं कालजं वपुः ॥ ३४॥ शुक्लपक्षमयी रात्रिः कृष्णपक्षोऽहरेव च । पितॄणां सुखदः कालो मासेन दिवसो भवेत् ॥ ३५॥ मासौ च द्विविधौ प्रोक्तौ सौरचान्द्रौ विधानतः । सङ्क्रमेण रवेर्मासो जायते रविजः स्मृतः ॥ ३६॥ पूर्णिमायां स सम्पूर्णश्चन्द्रो लोकैः प्रदृश्यते । तदाधारेण मासो वै ज्ञातव्यश्चन्द्रमानतः ॥ ३७॥ अथवा क्षीणचन्द्रायाममायां ज्ञायते बुधैः । मासश्चान्द्रमसो विप्र द्विविधः परिकीर्तितः ॥ ३८॥ तत्रैव कारणं ब्रूवः श‍ृणु तत्त्वार्थसिद्धये । (Page खं. ३ अ. १६ पान ३२) अधिमासस्तथा लोकैः क्षयमासो मलात्मकः ॥ ३९॥ अमायां चन्द्रचिह्नेन ज्ञायते नान्यथा क्वचित् । स्नानार्थं मासमाहात्म्यं पूर्णिमायां विशेषतः ॥ ४०॥ चन्द्रचिह्नेन विप्रर्षे ज्ञातव्यं विबुधैः सदा । अन्यच्च पितृणां कालश्चन्द्रमासेन जायते ॥ ४१॥ देवानां पितृणां स्वर्गे सुधापानं प्रकीर्तितम् । पूर्णं सोमकलाभूतं चान्द्रमासे न जायते ॥ ४२॥ देवानां दिवसे कालः सूर्यचिह्नेन जायते । शुक्लकृष्णगतिश्चैव कारणं परिकीर्तितम् ॥ ४३॥ त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः । त्रिंशताधिकरूपाणि मतः सप्तर्षिवत्सरः ॥ ४४॥ नव वर्षसहस्राणि मानुषेण प्रमाणतः । अन्यानि नवतिश्चैव ध्रौव्यः संवत्सरः स्मृतः ॥ ४५॥ एवं कालप्रमाणं यत् कथितं ते द्विजोत्तम । मृत्युयुक्तं सदा भ्रान्तं ज्ञातव्यं द्वन्द्वसंयुतम् ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कालगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ३.१५

३.१६ युगधर्मवर्णनं नाम षोडशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । दिव्यवर्षसहस्राणि द्वादशाऽथ महामुने । चतुर्युगमयः कालो ज्ञातव्यो विबुधैः सदा ॥ १॥ चत्वारि च सहस्राणि वर्षाणि कृतनामकम् । युगं प्रकीर्तितं तत्राष्टशतैः सन्धिरुच्यते ॥ २॥ त्रीणि वर्षसहस्राणि युगं त्रेता प्रकीर्तितम् । सन्ध्यांशो द्विगुणैस्तत्र ज्ञातव्यो विबुधैः शतैः ॥ ३॥ सहस्रे द्वे च वर्षाणि द्वापरः परिकीर्तितः । सन्ध्यांशो द्विगुणैस्तस्माच्छतैस्तु परिकीर्तितः ॥ ४॥ एकवर्षसहस्रं वै कलिः परमदारुणः । तस्याऽपि सन्धिर्द्विगुणो ज्ञातव्यो विबुधैस्तथा ॥ ५॥ शतानि सन्धिरूपाणि ज्ञातव्यानि विशेषतः । सर्वत्र युगमानेष्वाद्यं तयोर्भोगदानि वै ॥ ६॥ एवं द्वादशसाहस्रदेववर्षाणि तानि वै । चतुर्युगानां मानं च कथितं कालवेदिभिः ॥ ७॥ आद्यं कृतयुगं प्रोक्तं ततस्त्रेता प्रकीर्तिता । ततो द्वापरनामाऽपि कलिस्तस्मात् प्रकीर्तितः ॥ ८॥ ध्यानं कृतयुगे मुख्यं त्रेतायामध्वरस्तपः । द्वापरे पूजनाचारः कलौ स्तवनमुच्यते ॥ ९॥ ब्राह्मः कृतयुगे धर्मश्चतुष्पादः सनातनः । त्रेतायां त्रिपदः प्रोक्तो धर्मो धर्मविदां वरैः ॥ १०॥ द्वापरे द्विपदो धर्मः सर्वशास्त्रेषु सम्मतः । कलावेकपदः प्रोक्तः सोप्यंऽते नाशमेष्यति ॥ ११॥ कृते ज्ञानं सदा पूज्यं त्रेतायां रविरुच्यते । द्वापरे दैवतं विष्णुं कलौ शम्भुं वदन्ति च ॥ १२॥ चतुर्युगानां मानेषु गणेशो मुख्यभावतः । पूज्यते मानवैः सर्वैः स्वस्वसिद्ध्यर्थमादरात् ॥ १३॥ कृते विनायकः प्रोक्तः कश्यपात्मज एव सः । सिंहारूढश्च दिग्बाहुस्तेजोरूपी प्रकथ्यते ॥ १४॥ (Page खं. ३ अ. १६ पान ३३) त्रेतायां पूज्यते देवो मयूरेशश्च षड्भुजः । मयूरवाहनः पुत्रः शशिवर्णः शिवस्य वै ॥ १५॥ द्वापरे मूषकारूढः पूज्यते च चतुर्भुजः । गजाननो वरेण्यस्य रक्तवर्णः सुतः स्मृतः ॥ १६॥ कलावश्वस्थितश्चैव धूम्रवर्णो द्विबाहुभृत् । तारकः सर्वभावज्ञो गणेशः पूज्यते जनैः ॥ १७॥ ब्रह्माकारमयश्चैव तेन भेदो न विद्यते । चतुर्युगेषु धर्मेषु सिद्धिदाता विशेषतः ॥ १८॥ कृते नराणामायुष्यं लक्षवर्षाणि सम्मतम् । त्रेतायां दशसाहस्रं द्वापरे तु सहस्रकम् ॥ १९॥ कलौ तु शतवर्षाण्यन्ते तन्न्यूनं भविष्यति । वर्षाणि पञ्चदश वै क्रमेण परमं मतम् ॥ २०॥ कृते स्वधर्मसन्निष्ठा जनाः सर्वे हिते रताः । परस्परं भावयन्तो भेदहीना विशेषतः ॥ २१॥ न मात्सर्यादि संयुक्ताः कलहादिविवर्जिताः । बाल्याद् धर्मधरा विप्र सदानन्दयुतास्तथा ॥ २२॥ विषयात्मसुखं तुच्छं मन्यन्ते सततं नराः । सुखे सन्ति सदा ज्ञानयुक्ता ध्यानपरायणाः ॥ २३॥ वर्णाश्रमविभागस्थाः स्वस्वाचारसमन्विताः । ब्रह्मणि श्रद्धया युक्ता योगाभ्यासपरायणाः ॥ २४॥ ऋतुगामिन एवं ते नानाधर्मकराः सदा । अन्तर्बाह्यैकभावाश्च भवन्ति सुखभोगिनः ॥ २५॥ त्रेतायां पादहीनेन नरा धर्मेण संयुताः । तत्रान्तर्बाह्यभावेषु भिन्नभावधरा मताः ॥ २६॥ तथा स्वार्थं परार्थं ते न समाना विशेषतः । विषयेच्छायुता विप्र किञ्चित् किञ्चित् क्रमेण वै ॥ २७॥ तत्र सन्ध्यांशमार्गं त्वं श‍ृणुष्वैतं महामुने । अष्टौ शतानि वर्षाणि कृते सन्ध्यांश उच्यते ॥ २८॥ चतुःशतानि तत्रैव कृतान्ते वर्षकाणि च । शतानि त्रीणि त्रेताया अर्धांशेन युतानि च ॥ २९॥ शतसप्तकवर्षाणि सन्ध्यांशः परिकीर्तितः । दिने दिने क्रमेणैव कृतधर्मो विनश्यति ॥ ३०॥ त्रेताधर्मोऽधिकत्वेन तत्र तिष्ठति निश्चितम् । शतसप्तकवर्षेषु गतेषु मुनिसत्तम ॥ ३१॥ केवलं प्रभवे त्रेतायुगं सर्वस्वभावतः । ज्ञातव्यमेवं सर्वत्र सन्ध्यांशेषु युगक्रमैः ॥ ३२॥ द्वापरे द्विपदो धर्मस्तत्र स्वार्थपरायणाः । कलहादिसमायुक्ता भवन्ति किल मानवाः ॥ ३३॥ बाह्यभावेषु साधूनां धर्माणां सेवका मताः । लज्जायुक्ततया विप्र अन्तरे विषयप्रियाः ॥ ३४॥ परेषां लज्जया धर्मं चरन्ति द्वापरे नराः । विषयेच्छायुताः सर्वे स्वगृहे धर्मलोपकाः ॥ ३५॥ एतादृशास्ते भवन्ति द्वापरे मलसंयुताः । नराः सर्वत्र भावेषु जानीहि मुनिसत्तम ॥ ३६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते युगधर्मवर्णनं नाम षोडशोऽध्यायः ॥ ३.१६ (Page खं. ३ अ. १७ पान ३४)

३.१७ कलियुगवर्णनं नाम सप्तदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । सात्त्विकं च युगं प्रोक्तं कृतं त्रेता च राजसी । द्वापरस्तमसा युक्तः स्वयं राजस उच्यते ॥ १॥ कलिस्तमोमयः पूर्णस्तत्र सर्वं विनश्यति । पापरूपधरः साक्षाद्विप्रधर्मः कुतो भवेत् ॥ २॥ कलौ प्रमारको रोगः सततं क्षुद्भयं मुने । अनावृष्टिभवं दुःखं देशानां च विपर्ययः ॥ ३॥ अधार्मिका अनाचारा महाकोपाऽल्पचेतसः । वदिष्यन्त्यनृतं लुब्धाः कलौ जाताः सुदुःप्रजाः ॥ ४॥ अरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ ५॥ नाधीयते कलौ वेदान्न यजन्ति द्विजातयः । पठन्ति न्यायतो वेदान् शूद्राग्रे चाल्पबुद्धयः ॥ ६॥ शूद्राणां मन्त्रयोगैश्च सम्बन्धो ब्राह्मणैः सह । भविष्यति कलौ विप्र शयनासनभोजनैः ॥ ७॥ शूद्रा भवन्ति राजानो ब्राह्मणान् बाधयन्ति ते । ब्रह्महत्यां पशोर्हत्यां कुर्वन्ते वै नरेश्वराः ॥ ८॥ स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् । अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ ९॥ विनिन्दन्ति गणेशानं ब्राह्मणान् दैवतान्यपि । वेदान् शास्त्राणि सर्वाणि पुराणानि कलौ युगे ॥ १०॥ कुर्वन्त्यवेदकर्माणि ह्यनाधाराणि भो मुने । स्वधर्मेषु रुचिर्नैव द्विजादीनां प्रजायते ॥ ११॥ कुशीलचर्यापाखण्डो वृथाऽनृतभयं भवेत् । याचकाः सर्ववर्णाश्च भविष्यन्ति कलौ युगे ॥ १२॥ अदृशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलाश्च भविष्यन्ति कलौ युगे ॥ १३॥ शुक्लदन्ता अक्षजिता मुण्डाः काषायवाससः । शूद्रा धर्मं चरिष्यन्ति ब्राह्मणानां कलौ युगे ॥ १४॥ अन्नचौरा भविष्यन्ति तथा वेलाभिमर्षिणः । चौरा चौरस्य हर्तारो हर्तुर्हर्तार एव च ॥ १५॥ दुःखप्रचुरताऽल्पायुः शिश्नोदरपरायणाः । द्यूतमद्यादिसंसक्ताः परस्त्रीलम्पटा मुने ॥ १६॥ कापालिकास्तथा चान्ये यतयो गृहमेधिनः । वेदविक्रयिणो विप्रास्तीर्थविक्रयिणस्तथा ॥ १७॥ आसनस्था द्विजान् दृष्ट्वा न चलन्त्यल्पबुद्धयः । ताडयन्ति द्विजान् शूद्रा राजानो राजजीविनः ॥ १८॥ उच्चासनसमासीना ब्राह्मणानां च पूजकाः । भविष्यन्ति कलौ शूद्रा वेदाध्ययनतत्पराः ॥ १९॥ सेवावसरमालोक्य द्वारि तिष्ठन्ति वै द्विजाः । उपायनादि सङ्गृह्य शूद्राणां राजजीविनाम् ॥ २०॥ बुद्धिशालिन एवं वै शूद्रा धर्मान् वदन्ति वै । वेदवादविचारज्ञा ब्राह्मणान् शिक्षयन्ति ते ॥ २१॥ तपो यज्ञफलानां वै वेदानां च सुकर्मणाम् । विक्रेतारो भविष्यन्ति ब्राह्मणाश्च कलौ युगे ॥ २२॥ पतिं त्यक्त्वा स्त्रियश्चैव परे पुंसि निरन्तरम् । संसक्ताश्च भविष्यन्ति पतिद्रोहपरायणाः ॥ २३॥ यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः । मद्यस्त्रीसङ्गसंसक्ताश्चरन्ति च कलौ युगे ॥ २४॥ वाममार्गाः पाशुपताः साङ्ख्या वै पञ्चवाहकाः । भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ २५॥ (Page खं. ३ अ. १७ पान ३५) ज्ञानमार्गेषु नष्टेषु लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ २६॥ करिष्यन्त्यवतारांश्च ब्राह्मणानां कुलेषु ते । दधीचिशापनिर्दग्धा पुरा दक्षाध्वरे द्विज ॥ २७॥ शापयुक्ता गौतमस्य भविष्यन्ति विशेषतः । वामादिमार्गसंसक्ता जनान् भ्रष्टांश्च कुर्वते ॥ २८॥ अन्यजातिषु सर्वत्र भविष्यन्ति तथा नराः । दक्षाध्वरे सर्ववर्णाः शापितास्ते दुराग्रहाः ॥ २९॥ मोहयिष्यन्ति च जनान् दर्शयित्वा फलानि वै । तमसाऽऽविष्टहृदया बिडालव्रतिकाऽधमाः ॥ ३०॥ बौद्धमायाधरस्तत्र विष्णुः पाखण्डपोषकः । सहायस्तान् सदा देवो दधीचेः शापकारणात् ॥ ३१॥ कर्ममार्गस्य सञ्छेत्ता भ्रष्टाचारयुतान्नरान् । करिष्यति स्वयं विष्णुर्युगधर्मप्रवर्तकः ॥ ३२॥ अतज्ज्ञास्तं भविष्यन्ति शरणागतवत्सलम् । बौद्धमायाश्रितं सर्वे भ्रष्टाचारयुता नराः ॥ ३३॥ कलौ दशसहस्रं वै वर्षाणां च यदा भवेत् । विष्णुस्त्यक्त्वा तदा पृथ्वीमालयं स्वं गमिष्यति ॥ ३४॥ वर्षपञ्चसहस्राणि स्थिरा भागीरथी नदी । ग्रामदेवास्तदर्धेन गताः स्वर्गं महामुने ॥ ३५॥ स्वधर्मविधिसंयुक्तं कर्म यत् क्रियते नरैः । तदेव देवभोग्यं वै भवति द्विज सर्वदा ॥ ३६॥ विपरीतं कृतं कर्म त्वासुरं तत् प्रजायते । कलावासुरभावेन गता देवा निजालयम् ॥ ३७॥ आसुरेण स्वभावेन तीर्थायतनकादिषु । समागतं नरं दृष्ट्वा गच्छन्ति तीर्थदेवताः ॥ ३८॥ तेषु तीर्थेषु देवानां मूर्त्यादिषु तदाऽसुराः । प्रविश्य कर्मभोक्तारो भविष्यन्ति कलौ युगे ॥ ३९॥ तीर्थानि गुप्तभावेन देवतायतनानि वै । संस्थितानि कलौ तस्मिन्नुपवासयुतानि च ॥ ४०॥ दैवेन संयुतं दृष्ट्वा स्वभावेन महासुराः । गच्छन्ति मानवं तीर्थदेवाः स्वस्थानगाः पुनः ॥ ४१॥ तत्र वै कर्मकर्तारो नरा आसुरभावतः । भविष्यन्ति सदा विप्र भ्रष्टा वै दोषसंयुताः ॥ ४२॥ क्रियारूपा महाशक्तिः संस्थिता जगतीतले । क्रियाफलप्रदाता वै गणेशः संस्थितो भवेत् ॥ ४३॥ असुराणां सुराणां च सिद्धिदाता गजाननः । महिमानं स्वकीयं स कलौ सङ्गोप्य संस्थितः ॥ ४४॥ धर्मपादाश्च चत्वारस्तपः शौचं दया तथा । सत्यं तत्र क्रमेणैव सर्वे नश्यन्ति धर्मजाः ॥ ४५॥ त्रेतायां च दया नष्टा नष्टं च द्वापरे तपः । आचारश्च कलौ प्राप्ते नष्टरूपो भविष्यति ॥ ४६॥ सत्यरूपमयः पादः कलौ तिष्ठति मानद । तेन सर्वे जना भूमौ व्यवहारं प्रकुर्वते ॥ ४७॥ द्वापरस्य तु सन्ध्यांशे गते पृथुबलः कलिः । बहुलानृतभावेनादरात् सत्यं छिनत्ति च ॥ ४८॥ ततः क्रमेण सत्यस्य विनाशश्च भविष्यति । तदा कोलाहलो विप्र देवानां सदने भवेत् ॥ ४९॥ कलौ दुःखयुता लोका अन्नादिकविवर्जिताः । ग्रामादि सकलं त्यक्त्वा वसन्ति वनगोचराः ॥ ५०॥ परस्परं क्षुधाविष्टा भक्षयन्ति विचेतसः । सत्यहीना धरित्री वै भविष्यति महामते ॥ ५१॥ (Page खं. ३ अ. १८ पान ३६) षोडशाब्दं परं चायुः पञ्चवर्षसमन्विता । अन्तर्वत्नी भवेन्नारी कलौ तस्मिन् विशेषतः ॥ ५२॥ एवमासुरभावेन जितं सर्वं महामुने । देवता मुनयः सर्वे गणेशानं स्तुवन्ति ते ॥ ५३॥ तदा ढुण्ढिः सुराणां स हितायाऽवतरिष्यति । धूम्रवर्णो ह्यधर्मं तं हत्वा धर्मं करिष्यति ॥ ५४॥ धर्मं प्रवर्तयित्वा स अन्तर्धानं गमिष्यति । तदा पुनः कृतं प्राप्तं सन्ध्यांशेन युगक्रमैः ॥ ५५॥ एवं युगप्रमाणं च युगधर्मः प्रकीर्तितः । मायामयमिदं सर्वं त्वं जानीहि भ्रमात्मकम् ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कलियुगवर्णनं नाम सप्तदशोऽध्यायः ॥ ३.१७

३.१८ ब्रह्मचर्याश्रमवर्णनं नामाष्टादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । वर्णाश्रमाश्च चत्वारस्ताञ्छृणुष्व महामुने । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णाः प्रकीर्तिताः ॥ १॥ ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थ्यं तथैव च । प्रोक्ता वेदेषु संन्यास आश्रमा वेदवादिभिः ॥ २॥ ब्राह्मणानां क्रमेणैते मताश्चत्वार आश्रमाः । क्षत्रियाणां च वैश्यानां संन्यासो न प्रविद्यते ॥ ३॥ गार्हस्थ्यमेव शूद्राणामाश्रमः परिकीर्तितः । अन्त्यजानां तदेवापि ज्ञातव्यं विबुधैः सदा ॥ ४॥ ब्राह्मणश्च समुत्पन्नो बालभावपरायणः । पञ्चमे सप्तमे चैवाऽष्टमे मौञ्जीं समाचरेत् ॥ ५॥ कृतोपवीतको विप्रः प्रगच्छेद्गुरुसन्निधौ । तत्र वेदादिकं सर्वमभ्यसेद् विनयान्वितः ॥ ६॥ तत्रैव ब्रह्मचर्यान्तं ब्राह्मणः प्रसमाचरेत् । सायं प्रातश्चरेद्भिक्षां गायत्रीमभ्यसेत्ततः ॥ ७॥ प्रातःकाले ब्रह्मरूपां मध्याह्ने रुद्ररूपिणीम् । गायत्रीं विष्णुरूपां तां ध्यायेत् सायाह्न आदरात् ॥ ८॥ भूर्भुवःस्वस्त्रिभिश्चैवाचामेन्नियमसंयुतः । स्वाहान्ताभिर्महातेजाः स्पृशेन्न्यासेषु चेन्द्रियम् ॥ ९॥ तर्जन्याद्यङ्गुलीभिश्च तिसृभिः संस्पृशेन् मुखम् । तर्जन्यङ्गुष्ठयोगेन नासिकां संस्पृशेद् बुधः ॥ १०॥ अङ्गुष्ठानामिकाभ्यां वै तथा चक्षूंषि संस्पृशेत् । कनिष्ठया च कर्णौ वै संस्पृशेन्नात्र संशयः ॥ ११॥ अङ्गुष्ठाभ्यां स्पृशेन्नाभिमुरः करतलेन च । सर्वाङ्गुलीभिर्भ्रूमध्यमङ्गुष्ठाग्रेण वै शिखाम् ॥ १२॥ सर्वाङ्गुलीभिर्बाहुं स्वं स्पृशेन्न्यासादिकर्मसु । एवमाचमनं प्रोक्तं स्वस्वशाखोक्तनामभिः ॥ १३॥ मन्त्रैर्वैदिकसम्भूतैः सन्ध्या कार्या विशेषतः । न्यासांश्च कारयेत्तत्र प्रणवस्य महामुने ॥ १४॥ व्याहृतीनां च गायत्र्याः षडङ्गेष्वक्षरोद्भवान् । गायत्रीशिरसो न्यासांस्तत आचमनं चरेत् ॥ १५॥ सूर्यश्चेति च मन्त्रेण प्रातःकाले विशेषतः । आपः पुनन्तु मध्याह्ने सायाह्नेऽग्निश्च मन्त्रतः ॥ १६॥ ततो मार्जनकं कुर्यान्नवविंशतिसङ्ख्यया । (Page खं. ३ अ. १८ पान ३७) ततोऽर्घ्यदानकं कुर्यादुपस्थानं ततश्चरेत् ॥ १७॥ गायत्र्याः शापमोक्षं वै ततो ध्यानं जपं चरेत् । ब्रह्मचारी शतान्येव पञ्चकालेषु वै पृथक् ॥ १८॥ गायत्र्याश्च जपं कुर्याद्वाग्यतो मानसैक्यतः । अष्टोत्तरशतं काले गृहस्थो जपमाचरेत् ॥ १९॥ वानप्रस्थश्च काले वै सहस्रं जपमाचरेत् । एवं सन्ध्या त्रिकालेषु ब्राह्मणैः क्रियते सदा ॥ २०॥ त्रिपदां चैव गायत्रीं जपेदोङ्कारसंयुताम् । तत्र क्रमं प्रवक्ष्यामि श‍ृणु तं मुनिसत्तम ॥ २१॥ आदौ प्रणवमुच्चार्य पश्चाद्व्याहृतिरुच्यते । भूर्भुवः स्वरिति प्रोक्ता ततः प्रणव उच्यते ॥ २२॥ ततः सा त्रिपदा विप्र गायत्री च ततः पुनः । ओङ्कारो विधिना नित्यं जपः सङ्क्रियते द्विजैः ॥ २३॥ संन्यासिभिश्च विप्रेन्द्र चतुष्पादा विशेषतः । जप्तव्या सैव गायत्री स्वस्वाश्रमविभागतः ॥ २४॥ ब्रह्मचारी स्वगोत्रादिगृहस्थेषु महामुने । भिक्षां चरेद्विधानेन गुरवे तां निवेदयेत् ॥ २५॥ भवत् पूर्वं व्रती विप्रो भवन् मध्यं तु क्षत्रियः । भवदन्तं तथा वैश्यः सदा भिक्षार्थमुच्चरेत् ॥ २६॥ गृहीता गुरुणा भिक्षा सम्पूर्णा यदि मानद । तदोपवाससंयुक्तो वसेद्वै ब्रह्मचर्यवान् ॥ २७॥ स्वल्पा वा परिपूर्णा वा दत्ता भिक्षा महात्मना । गुरुणा तावतीं भुक्त्वा सन्तिष्ठेत्तस्य सन्निधौ ॥ २८॥ पालाशदण्डसंयुक्तः सायं प्रातः स वह्निषु । जुहुयात् समिधं चैव नखलोमधरो भवेत् ॥ २९॥ गुरुदेवपरं तस्य दैवतं सर्वभावतः । गुरुस्त्रीपुत्रसेवां स गुरुवत्तां समाचरेत् ॥ ३०॥ एकान्ते गुरुपत्नीभिर्न वसेच्च कदाचन । न स्त्रीभिः सह सम्भाषां स कुर्यात् कार्यहीनकः ॥ ३१॥ स्त्रीगानादिकभावान् वै श‍ृणुयान्न सुयन्त्रितः । न शुक्रं सन्त्यजेतापि ब्रह्मचारी विशेषतः ॥ ३२॥ स्वप्ने शुक्रं गतं चेद्वै तदा स्नानं समाचरेत् । अष्टोत्तरशतं तत्र गायत्री जप उच्यते ॥ ३३॥ गुरुणाऽध्यापितश्चैव कुर्यादध्ययनं मुने । न स्वयं संवदेत् प्राज्ञो गुरुं विद्यापरायणः ॥ ३४॥ एवं नानाविधैः प्रोक्तैर्लक्षणैः संयुतो भवेत् । ब्रह्मचारी महाभागो वेदाध्ययनतत्परः ॥ ३५॥ वर्षाणि द्वादशैवाऽयं षोडशाऽप्यथ वा द्विजः । अथ वेच्छाप्रमाणेन ब्रह्मचर्यं समाचरेत् ॥ ३६॥ वेदादिकं समभ्यस्य कृत्वा कण्ठगमादरात् । पश्चाद्गुरुं समभ्यर्च्य दद्यात्तस्मै स दक्षिणाम् ॥ ३७॥ मनोविषयसंयुक्तं यदा तत्र गृही भवेत् । नोचेत् संन्यासकं कुर्यादथवा वनगो भवेत् ॥ ३८॥ अथवा ब्रह्मचर्यस्थः सदा तिष्ठेद् द्विजोत्तमः । यादृशी चित्तशुद्धिर्वै तादृशं सर्वमाचरेत् ॥ ३९॥ कृतमध्ययनं येन तदधीनं महामुने । ज्ञानं योगादिकं कर्म तस्मात्तच्च समाचरेत् ॥ ४०॥ ब्रह्मचर्यमिदं प्रोक्तं सङ्क्षेपेण महामुने । श्रवणात् पुण्यदं पूर्णं लोकोपकृतये भवेत् ॥ ४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मचर्याश्रमवर्णनं नामाष्टादशोऽध्यायः ॥ ३.१८ (Page खं. ३ अ. १९ पान ३८)

३.१९ आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । ततः क्षौरं द्विजः कृत्वा पितृमातृपरायणः । स्वगृहे वासमातिष्ठेत् द्विजदेवपरायणः ॥ १॥ ऊनेन वयसा युक्तां कुलशीलादिसंयुताम् । सर्वावयवसम्पूर्णां वधूं स वरयेत्ततः ॥ २॥ ऋतुगामी भवेच्चैव सन्तानार्थं कलत्रवान् । देवविप्रातिथिप्रेप्सुः सन्तिष्ठेत् स गृहाश्रमी ॥ ३॥ यजनं याजनं चैव दानमध्ययनं तथा । प्रतिग्रहोऽध्यापनं च षट् कर्माणि समाचरेत् ॥ ४॥ स्नानं सन्ध्यां जपं होममातिथ्यं देवतार्चनम् । स्वाध्यायं वैश्वदेवं वै गृही नित्यं समाचरेत् ॥ ५॥ चतुर्थीव्रतमाद्यं च कर्तव्यं त्वाश्रमस्थितैः । तथाऽन्यानि व्रतादीनि कर्तव्यानि विशेषतः ॥ ६॥ चतुर्थी व्रतहीनस्य नाधिकारो व्रतेषु वै । सदा शौची भवेन्नूनं चतुःपदविवर्जितः ॥ ७॥ शुक्ले चतुर्थिकायां वै योऽन्नं भुङ्क्ते महामुने । मांसाहारी मतो नूनं तथा भवति नारकी ॥ ८॥ अग्निहोत्रं चरेन्नित्यं तथा श्राद्धादिकं मुने । सदा दयापरो भूत्वा सन्तिष्ठेद् गृहसंस्थितः ॥ ९॥ अभक्षभक्षणं क्वापि न कुर्यात् स गृहाश्रमी । शौचाचारसमायुक्तो भवेन्नियमसंयुतः ॥ १०॥ तर्पणं पितृदेवानां मुनीनां च समाचरेत् । पञ्चयज्ञादिकं सर्वं नित्यं शास्त्रे प्रकीर्तितम् ॥ ११॥ स्वस्वसत्ताप्रमाणेन कर्तव्यं गृहमेधिना । तत्र धर्ममनुप्रोक्तं तं श‍ृणुष्व महामुने ॥ १२॥ अर्धेन पुत्रदारादींश्चतुर्थांशेन सौहृदम् । चतुर्थांशेन देवादीन् तोषयेच्च गृहाश्रमी ॥ १३॥ एवं नानाविधं धर्मं गृहस्थश्च समाचरेत् । तृतीयभाग आयुष्ययुक्तः सोऽपि वनी भवेत् ॥ १४॥ संस्थाप्य दारान् पुत्रादिसमीपे वा सह स्त्रिया । वनं गच्छेत् स धर्मार्थं तपस्वी कर्मसिद्धये ॥ १५॥ पुत्रा जाताश्च नोत्पन्ना अपि तद् वनगो भवेत् । तपस्तत्र प्रकुर्यात् स फलकन्दादि भक्षयन् ॥ १६॥ वन्येन चाग्निहोत्राद्यतिथीनां पूजनादिकम् । समाचरेद्वनस्थश्च नानातपसि संस्थितः ॥ १७॥ समीपे संस्थिता पत्नी मैथुनं न समाचरेत् । मनसाऽपि महाभाग वानप्रस्थः कदाचन ॥ १८॥ वायुभक्षादिकं कुर्याद्वायुसाधनमेव सः । प्राणायामैश्च विप्रेश आचरेद्वनसंस्थितः ॥ १९॥ पञ्चाग्निसाधनं ग्रीष्मे हेमन्ते जलवासनम् । वर्षास्वाकाशवासी स वानप्रस्थो भवेत्तथा ॥ २०॥ सङ्कटे च वनस्थः स ग्रामे नैव वसेत् कदा । प्रवेशोऽपि न कर्तव्यो ग्रामे तेन महात्मना ॥ २१॥ एवं नानाविधान् धर्मान् वानप्रस्थग आचरेत् । चतुर्थांशं यदा तस्यायुष्यं विद्येत भो मुने ॥ २२॥ चतुर्थांशायुषि स्थाता संन्यासं स समाचरेत् । तदा स्त्रियाऽपि तस्यैवाशां त्यक्त्वा ज्ञापितो भवेत् ॥ २३॥ आज्ञा तस्मै प्रदातव्या स्त्रिया चैव विशेषतः । स्वयं तपसि देहं स्त्री शोषयेन् मरणावधि ॥ २४॥ अग्निहोत्रं स्वदेहेऽसावात्मन्येकस्वभावतः । कृत्वा च निःस्पृहो भूत्वा विचरेत् पृथिवीमिमाम् ॥ २५॥ अहं ब्रह्मेति भावेन योगभूमिक्रमेण च । (Page खं. ३ अ. १९ पान ३९) योगी भवति संन्यासी चित्तभूमिविवर्जितः ॥ २६॥ कर्मादिन्याससंयुक्तो विचरेद्यत्र तत्र वै । ग्रामैकरात्रवासी स भवेन्न्यासपरायणः ॥ २७॥ द्वन्द्वभावविहीनः स भिक्षां नित्यं समाचरेत् । करपात्री भवेद्वाऽपि संन्यासी च सदा मुने ॥ २८॥ करपात्री स संन्यासी ग्रासे ग्रासे महामुने । अश्वमेधादिकं पुण्यं प्राप्नोत्यत्र न संशयः ॥ २९॥ चातुर्मास्ये वसेच्चैव तीर्थक्षेत्रादिभूमिषु । जितेन्द्रियो जितप्राणो निःसङ्गः सर्वकर्मसु ॥ ३०॥ अहिंसा परमो धर्मः संन्यासानां विशेषतः । तृणादिकं च विप्रेश च्छेदयेन्न कदा न च ॥ ३१॥ त्रिदण्डी यस्तु संन्यासी कुटीचक उदाहृतः । विधिं तत्र प्रवक्ष्यामि श‍ृणु त्वं मुनिसत्तम ॥ ३२॥ स्वधर्माचरणं नित्यं देहदण्डः स उच्यते । मौनं वाचामयं दण्डो द्वितीयश्च प्रकीर्तितः ॥ ३३॥ सर्वत्र रसहीनं च मानसं वर्तते यथा । कर्तव्यं तत्तथा तेन मनोदण्डः प्रकीर्तितः ॥ ३४॥ कुटीं देहमयीं योगी चालयेत् बिम्बभावतः । ब्रह्मणि ब्रह्मभूतश्च स कुटीचक उच्यते ॥ ३५॥ ततो बहूदको योगी द्विदण्डी स भवेन् मुने । देहदण्डविहीनत्वात् स्वेच्छाचारी विशेषतः ॥ ३६॥ एकगर्तस्थमुदकं सर्वैः सङ्गृह्यते यथा । गर्ते दोषो नराणां वै विद्यते न कदाचन ॥ ३७॥ तथात्मा देहसंस्थश्च चतुर्देही विकारतः । भिन्नः सदा न तद्दोषैर्लिप्यते क्वापि निश्चितम् ॥ ३८॥ सोऽहं ब्रह्मणि संस्थश्च भेदहीनो महामुनिः । बहूदकः स निःसङ्गो देहादिभ्यः प्रकीर्तितः ॥ ३९॥ ततो हंसाश्रमः प्रोक्तो मानसे दण्डधारकः । देहवाणीदण्डहीनः स्वेच्छाचारी मतो मुने ॥ ४०॥ देहदेहिसमायोगे ब्रह्म बोधात्मकं मतम् । तत्र संस्थः स्वयं योगी द्विविधे तन्मयो भवेत् ॥ ४१॥ द्वन्द्वं जलमयं प्रोक्तं देहदेहिस्वरूपकम् । तत्र दुग्धं भवेद्ब्रह्म हंसस्तद् ग्राहको भवेत् ॥ ४२॥ ततः परमहंसश्च ज्ञानदण्डपरायणः । देहवाणीमनोभूतैर्दण्डैर्हीनः प्रकीर्तितः ॥ ४३॥ देहदेहिमयं ब्रह्म भ्रान्तियुक्तं विशेषतः । तच्च प्रोक्तं सविषयं हंसकर्म परायणम् ॥ ४४॥ सदा साक्षिस्वरूपं यत्परं ब्रह्म महामुने । तत्र संस्थो महायोगी त्रिविधेषु विभागतः ॥ ४५॥ नाहं देहो न देहस्थो देहदेहिमयो न वै । सदा साक्षिस्वरूपस्थो ज्ञानानन्दमयो भवेत् ॥ ४६॥ यद्यज्ञानं भवेत्तस्य तत्तत् सर्वं विकारजम् । तत्त्यक्त्वा द्वन्द्वहीनश्च स्वेच्छाचारी भवेत् स्वयम् ॥ ४७॥ चतुर्विधोऽयं संन्यासस्तत्राश्रमसमाश्रितः । अहं ब्रह्मेति योगेन ब्रह्मभूतो भवेन्नरः ॥ ४८॥ मनसा रसयुक्तेन विषयादिषु भो मुने । संन्यासश्च कृतो येन नारकः स भविष्यति ॥ ४९॥ कपर्दिका यदा तेनैका गृहीता महामुने । तदा सहस्रवर्षाणि कुम्भीपाके पतेत् ध्रुवम् ॥ ५०॥ स्त्रीसम्भोगसुखेच्छा चेत्तस्य वै मानसे क्षणम् । सम्भवेच्चेत्तदा विप्र गोसहस्रवधी भवेत् ॥ ५१॥ कृते मनः सदाऽऽधीनं नराणां धर्मयोगतः । (Page खं. ३ अ. २० पान ४०) ध्यानं मुख्यं कृतं तत्र तेन सर्वं प्रलभ्यते ॥ ५२॥ त्रेतायां चञ्चलं चित्तं धर्मस्य पादहीनतः । तपस्तत्र कृतं मुख्यं तेन सर्वं लभेन्नरः ॥ ५३॥ द्वापरे देहकष्टं यन्न भवेत्तेन तत्र च । मुख्यः स्वधर्माचारश्च तेन सर्वं लभेन्नरः ॥ ५४॥ कलावासुरभावेन नष्टो धर्मः क्रमेण वै । तत्र स्मरणमात्रेण नाम्नः सर्वं लभेन्नरः ॥ ५५॥ नामस्मरणमार्गे वर्णाश्रमो न च विद्यते । संन्यासादिः सदाचारो भवेत्तेनासुरं हतम् ॥ ५६॥ कलावासुरबाहुल्यान्न संन्यासस्य योग्यता । चञ्चलं देहचित्तादि तेन नष्टो भविष्यति ॥ ५७॥ वर्णाश्रमविहीनश्च यो वै भवति निश्चितम् । तस्य दण्डो न विद्येतादण्डी वेदे स कथ्यते ॥ ५८॥ ज्ञानदण्डपरित्यागात् स्वयं योगी भवेन्नरः । निषेधविधिहीनश्च स्वेच्छाधर्मपरो भवेत् ॥ ५९॥ कर्तव्यं यदि तेनाऽपि वेदेषु विधृतं भवेत् । तदा विधिसमायुक्तो जन्तुर्भवति निश्चितम् ॥ ६०॥ किञ्चिन्न तेन कर्तव्यं यदा वेदे प्रकीर्तिम् । तदा निषेधसंयुक्तो नरो भवति मानद ॥ ६१॥ अतो विधिनिषेधाभ्यां हीनो योगी प्रकीर्तितः । तेनाचरित आचारः स एवं तस्य योगदः ॥ ६२॥ अतो योगी महाभाग दण्डहीनः प्रकीर्तितः । वर्णाश्रमविहीनः स ब्रह्मभूतः प्रजायते ॥ ६३॥ स विनायकनामा वै नायकैर्वर्जितः स्वयम् । योगी तेन समाख्यातः सर्वेषां नायको भवेत् ॥ ६४॥ ब्रह्मणि ब्रह्मभूतश्चेज्जातो योगस्य सेवया । यदि वर्णाश्रमे संस्थो भवति स्वेच्छया मुने ॥ ६५॥ लोकसङ्ग्रहणार्थं स नित्यं धर्मं समाचरेत् । निःस्पृहो धर्मभोगार्थे मतं तदपि तादृशम् ॥ ६६॥ एतदाश्रममार्गश्च कथितस्ते महामुने । मायया रचितं सर्वं जानीहि भ्रमणात्मकम् ॥ ६७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः ॥ ३.१९

३.२० वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । वर्णाश्चत्वार एवं ते स्वस्वधर्मयुता मुने । ब्राह्मणः क्षत्रियो वैश्यः श‍ृणु शूद्रः प्रकथ्यते ॥ १॥ व्यभिचारेण तेषां वै वर्णा जाता महामुने । नानाविधा विशेषेण जानीह्यत्र न संशयः ॥ २॥ तत्र ब्राह्मणधर्मं ते कथयामि समासतः । श‍ृणु मायाविनाशार्थं मायारूपं पुरातनम् ॥ ३॥ चतुर्धा ब्राह्मणानां वै वृत्तिः शास्त्रैः प्रकीर्तिता । उञ्छः शिलं तथा शुक्लं मृतं चामृतकं भवेत् ॥ ४॥ अयाचितं च भूमेर्यत् कर्षणं वा वने स्थितिः । तेषां मार्गं प्रवक्ष्यामि श‍ृणुष्व सुसमाहितः ॥ ५॥ गृहीतं कृषिकैर्धान्यं तत्र शिष्टं तदग्रहम् । कणादि तस्य योगेन देहपोषणमाचरेत् ॥ ६॥ (Page खं. ३ अ. २० पान ४१) अथवा वाणिजादीनां गृहेभ्यो मार्जितं भवेत् । कणादि तस्य योगेन देहपोषणमाचरेत् ॥ ७॥ एका वृत्तिरियं प्रोक्ता द्वितीयां श‍ृणु साम्प्रतम् । भूमेः कर्षणहीनेन वृष्ट्याऽन्नं तत्र जायते ॥ ८॥ तेनैव देहनिर्वाहः कर्तव्यो ब्राह्मणैः सदा । शुक्लवृत्याऽऽचरेद्भैक्ष्यं रागलोभविवर्जितः ॥ ९॥ तेन देहस्य निर्वाहं स कुर्यात्तन्मृतं स्मृतम् । अयाचितेन वा कार्योऽमृतमेतत् प्रकीर्तितम् ॥ १०॥ कृषीवलैः स भूमेर्यत् कर्षणं वा समाचरेत् । तत्र धान्योद्भवे नैव देहपोषणकं चरेत् ॥ ११॥ स्वधर्मः पूर्वभागे ते कथितश्च महामुने । सेवादिवृत्तियोगेन तिष्ठेन्न ब्राह्मणः कदा ॥ १२॥ क्षत्रियाणां च शस्त्रादिधारणेन महामुने । देहनिर्वाहकः प्रोक्तो न सेवाकारको भवेत् ॥ १३॥ अग्निहोमं च विप्रस्य हस्तेनाऽयं समाचरेत् । संन्यासं नैव विप्रेश कुर्यात् क्षत्रियजः कदा ॥ १४॥ वैश्योऽपि क्रयकारी वै विक्रयं च तथाऽऽचरेत् । कृषिभिः कर्षणं भूमेर्गवां पालनमादरात् ॥ १५॥ संन्यासधर्महीनश्च सदा तिष्ठेत् स मानद । क्षत्रियाणां विशां विप्र यजनं दानमेव च ॥ १६॥ समाख्यातं त्वध्ययनं न प्रोक्तं याजनादिकम् । अग्निकर्म तथा देवार्चनं ब्राह्मणहस्ततः ॥ १७॥ कारयेद्वैश्यधर्मज्ञः स्वधर्मपालनाय वै । तर्पणं ब्राह्मणास्येन मन्त्रेण तु समाचरेत् ॥ १८॥ एष वैश्यस्य मार्गो वै कथितस्ते द्विजोत्तम । शूद्रस्य तु त्रिवर्णानां सदा सेवा प्रकीर्तिता ॥ १९॥ दासवन्नात्र सन्देह आश्रमो गृहिसंज्ञितः । दानं दद्याद् द्विजायैव पुराणश्रवणं तथा ॥ २०॥ कुर्याद्वेदाक्षरस्यायं न कुर्याच्छ्रवणं कदा । पुराणादिषु देवानामवताराः प्रकीर्तिताः ॥ २१॥ तेषां मूर्तिप्रतिष्ठा वै कृता देवर्षिभिः पुरा । तासां स्पर्शादिकं चैव न कर्तव्यं कदाचन ॥ २२॥ नरादिभिश्च सर्वत्र स्वेच्छया स्थापिता भवेत् । तस्याः स्पर्शश्च कर्तव्यः शूद्रैर्नित्यं महामुने ॥ २३॥ नाममन्त्रेण पूजा वै कर्तव्या स्मरणं तथा । मृत्तिकार्चां समभ्यर्चेन्नाममन्त्रेण वा मुने ॥ २४॥ आवाहनादि प्रारभ्य विसर्गान्तं समाचरेत् । पुराणसम्भवैर्मन्त्रैः श्राद्धतर्पणकादिकम् ॥ २५॥ ब्राह्मणानां मुखैश्चैव शुद्रैः कर्तव्यमादरात् । न पुराणादिसम्भूताः श्लोकास्ते शूद्रजातिभिः ॥ २६॥ पठितव्या महाभाग श्रवणं सम्मतं सदा । अन्त्यजातिभवाः शूद्रास्तैर्नामस्मरणं सदा ॥ २७॥ कर्तव्यं देवमूर्तीनां स्पर्शो नैव कदाचन । पुराणसम्भवैर्मन्त्रैर्न कर्तव्यं महामुने ॥ २८॥ कर्म किञ्चिच्च तैः सर्वैः स्वस्वधर्मपरायणैः । पितॄणां देवतानां चोद्देशं कृत्वा धनादिकम् ॥ २९॥ धान्यं तैः सम्प्रदातव्यमेष मार्गः पुरातनः । स्वस्वधर्मरता एते स्वर्गगामिन एव च ॥ ३०॥ भवन्ति नात्र सन्देहो महाभोगाः सुखे रताः । प्राजापत्यं ब्राह्मणानां क्षत्रियाणां तथैन्द्रकम् ॥ ३१॥ वायवं वैश्यजातीनां गान्धर्वं शूद्रजन्मिनाम् । स्वस्वकर्मरतानां वै पदं प्रोक्तं मनीषिभिः ॥ ३२॥ (Page खं. ३ अ. २१ पान ४२) तत्र ते भोगभोक्तारो भवन्त्यत्र न संशयः । एवं मायामयं स्वल्पं वर्णधर्मप्रकाशनम् । श‍ृणोति यः पठेत्तस्य मायामोहो न विद्यते ॥ ३३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः ॥ ३.२०

३.२१ देवपितृकर्मवर्णनं नामैकविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । स्त्रीणां धर्मं प्रवक्ष्यावस्तं श‍ृणुष्व महामते । जातमात्रा च सा देवैर्भुज्यते त्रिभिरादरात् ॥ १॥ चन्द्रो गन्धर्वको वह्निर्द्वे द्वे वर्षे महामते । कन्यां भुनक्ति धर्मेण षट् वर्षाणि विभागतः ॥ २॥ तन्मध्ये न प्रदातव्या कन्या कस्मै सुहृज्जनैः । दत्ता चेद्देवताक्षोभो भवेद्वै धर्मनाशनात् ॥ ३॥ सप्ताष्टनवदिग्वर्षवयोयुक्ता सुहृज्जनैः । कन्या नराय दातव्या साधवे कुलजाय वै ॥ ४॥ दशवर्षाधिका कन्या रजोयुक्ता च सम्मता । न दत्ता यदि तन्मध्ये महापापप्रवर्धिनी ॥ ५॥ पदे पदे ब्रह्महत्यां लभन्ते जनकादयः । अतः कन्या प्रदातव्या विधिना स्वर्गदा भवेत् ॥ ६॥ कन्यादानसमं पुण्यं विद्यते न कदाचन । यया वंशः प्रवर्धेत सर्वेभ्यः सुखदायकः ॥ ७॥ रजोदर्शनयुक्ता चेज्जाता स्त्री सा तदा भवेत् । वशगा स्वपतेस्तस्या एव तद्दैवतं मतम् ॥ ८॥ दासीवत्तं पतिं सा वै सम्भजेद्भक्तिसंयुता । वने पतिर्यदा यातस्तदा तमनुगा भवेत् ॥ ९॥ यदि पुत्रादयो बालास्तदा तेषां प्रसन्निधौ । पोषणार्थं भवेच्चैव संस्थिता वनगे पतौ ॥ १०॥ यदि संन्यासधारी चेत् पतिर्भवति भो मुने । तदा स्त्रिया प्रदातव्या तस्मा आज्ञा महामुने ॥ ११॥ यदा गृहस्थितो भर्ता मृतश्चेत् सहगा भवेत् । वनस्थितस्तदा तद्वत् कर्तव्यं सुस्त्रिया किल ॥ १२॥ मृते भर्तरि पत्नी सा गर्भयुक्ता रजस्वला । तदा पत्या न सङ्गच्छेद्विधवाधर्मगा भवेत् ॥ १३॥ चतुर्थे दिवसे शुद्धा भवेत् सा पतिकर्मणि । पञ्चमे दिवसे विप्रादिपूजायां शुचिर्भवेत् ॥ १४॥ विधवा स्त्री सदा विप्र एकभुक्तपरायणा । व्रतादिना स्वदेहं वै शोषयेन्नित्यमादरात् ॥ १५॥ एवमादिः सतीनां वै धर्मो मुख्यः प्रकीर्तितः । श्रवणात् पुण्यदस्तासां भवत्येव महामुने ॥ १६॥ सर्वेषां पितृदेवानां कर्म कर्तव्यमादरात् । मनुजैस्तत्र पितॄणां कर्म सङ्क्षेपतः श‍ृणु ॥ १७॥ अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः । पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ १८॥ पिण्डान्वाहार्यकं श्राद्धं सङ्क्रमेषु प्रशस्यते । अपराह्णे द्विजातीनां प्रशस्तेनामिषेण वै ॥ १९॥ (Page खं. ३ अ. २१ पान ४३) पूर्णिमाद्या अमान्ता यास्तिथयः कृष्णपक्षके । चतुर्दशीं वर्जयित्वा प्रशस्ताः श्राद्धकर्मणि ॥ २०॥ शस्त्रादिविषयोगैर्ये मृतास्तेषां महामुने । चतुर्दश्यां समाख्यातं श्राद्धं नान्यत्र शस्यते ॥ २१॥ कृष्णपक्षेऽष्टकास्तिस्रः पौषमासादिषु त्रिषु । चतस्रोऽप्यष्टकाः पुण्याः श्राद्धकर्मणि सर्वदा ॥ २२॥ त्रयोदशी समायुक्ता युगादितिथयः स्मृताः । मन्वादितिथयः श्राद्धे प्रशस्ताः पुण्यदा मताः ॥ २३॥ नैमित्तिकमिदं प्रोक्तं व्यतीपाते च वैधृतौ । बान्धवानां मृतानां च दशपिण्डादिकं मुने ॥ २४॥ काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु । अयने विषुवे चैव तीर्थे क्षेत्रे त्वनित्यकम् ॥ २५॥ अक्षय्यं वारतिथिषु स्वस्वजन्मदिनेष्वपि । नक्षत्रेषु च सर्वेषु कार्यं श्राद्धं विशेषतः ॥ २६॥ अथवेह सुखप्राप्त्यै पितृलोकसुखाय च । श्राद्धं कामप्रदं प्रोक्तं सर्वदा नित्यवन् मुने ॥ २७॥ गयायामक्षयं श्राद्धं प्रयागेऽमरकण्टके । मयूरेशपुरे चैव काश्यादिषु विशेषतः ॥ २८॥ गायन्ति पितरो गाथां नर्तयन्ति मनीषिणः । एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ॥ २९॥ तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् । गयां प्राप्यानुसर्गेण यदि श्राद्धं समाचरेत् ॥ ३०॥ तारिताः पितरस्तेन स याति परमां गतिम् । वाराहे पर्वते चैव गयायां च विशेषतः ॥ ३१॥ मयूरे च तथा काश्यामष्टवैनायकस्थले । गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ॥ ३२॥ कुरुक्षेत्रे सेतुबन्धे भृगुतुङ्गे महालये । केदारे फल्गुतीर्थे वै नैमिषारण्यकादिषु ॥ ३३॥ इत्यादिबहुरूपेषु यदि श्राद्धं समाचरेत् । तदा भुक्तिप्रदं प्रोक्तमपवर्गप्रदं भवेत् ॥ ३४॥ चतुर्थी शुक्लकृष्णैवैकादशी रविवासरः । प्रदोषश्च तथा विप्र अष्टमी सर्वसिद्धिदा ॥ ३५॥ नित्यं देवार्चनं प्रोक्तं व्रतादिषु विशेषतः । एवं नानाव्रतादीनां कर्तव्यं सेवनं नरैः ॥ ३६॥ अग्निहोत्रादिमार्गैश्च देवानां सेवनं मतम् । तीर्थादिदानसम्भावैरिष्टापूर्तादिसम्मतम् ॥ ३७॥ एवं दैवं तथा पित्र्यं विविधं कर्म कथ्यते । तदेव ब्रह्मणि प्राज्ञैरर्पितं योगदं भवेत् ॥ ३८॥ इदं मायामयं प्रोक्तं कर्म वर्णाश्रमात्मकम् । मायामोहनिवृत्त्यर्थं रचितं विश्वयोनिना ॥ ३९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते देवपितृकर्मवर्णनं नामैकविंशतितमोऽध्यायः ॥ ३.२१ (Page खं. ३ अ. २२ पान ४४)

३.२२ मान्धातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । चतुर्दश मनूनां वै षट्कं यत्ते प्रकीर्तितम् । तैस्तपश्च कृतं घोरं गणेशस्य महात्मनः ॥ १॥ नानामन्त्रजपेनैव नानाध्यानपरायणैः । निराहारप्रभावेण तोषितस्तैर्गजाननः ॥ २॥ पूर्णवर्षसहस्रेण ययौ विघ्नपतिः प्रभुः । उवाच वृणुत प्राज्ञा वरांस्तान् प्रददाम्यहम् ॥ ३॥ ततस्तैः पूजितो देवः स्तुतश्च विविधैः स्तवैः । बहुत्वान्नैव शक्यं तद्वर्णनं मुनिसत्तम ॥ ४॥ सर्वेषामीप्सितं दत्त्वा ययौ स्वानन्दके पुरे । ते सर्वे स्वस्वकर्मज्ञाश्चक्रुः स्वस्वक्रियां मुने ॥ ५॥ मन्वन्तरेष्वतीतेषु तैः पुनश्च गणेश्वरः । आराधितो विशेषेण योगशान्त्यर्थमादरात् ॥ ६॥ क्रमेण ब्रह्मभूतास्ते ययुस्तं गणपं पुनः । एकभावेन योगज्ञा योगाकारं महामुने ॥ ७॥ पुत्राश्च बहवस्तेषां वर्णनं नैव शक्यते । पौत्रादिक्रमभावेन पालिता तैर्वसुन्धरा ॥ ८॥ वैवस्वतेन्तरे प्राप्तेऽधुना तत्र ब्रवीमि ते । श‍ृणु सङ्क्षेपतो विप्र मनुजानां चरित्रकम् ॥ ९॥ मनोस्तु दश पुत्रा वै जाताः पितृसमा मुने । सुद्युम्नः प्रथमस्तेषां ज्येष्ठा कन्या बभूव ह ॥ १०॥ इक्ष्वाकुर्नृगशर्यातिदिष्टा धृष्णः करूषकः । नरिष्यन्तपृषध्रौ च नभगः परिकीर्तिताः ॥ ११॥ नवैते सूर्यवंशे वै शक्रतुल्यपराक्रमाः । ज्येष्ठे चन्द्रस्य वंशो वै स्त्रीभावात् सम्बभूव ह ॥ १२॥ सुद्युम्नः स कदाचिद्वै मृगयार्थं वने ययौ । वनेषु सैन्यसंयुक्तो बभ्रामामितविक्रमः ॥ १३॥ दैवयोगेन राजाऽयं ययौ गौरीवनं मुने । तत्र प्रवेशमात्रेण स्त्रीरूपः स बभूव ह ॥ १४॥ शिवेन शैलपुत्र्यर्थं शापितं तद्वनं सदा । मृकण्डदेहज श‍ृणुष्वोग्रं वै तत्र कारणम् ॥ १५॥ गौरीवने भवान्या स नग्नः शम्भुश्च सा तथा । नग्ना रेमे शिवेनैव तया शम्भुश्च मानद ॥ १६॥ एकदा मुनयः श्रेष्ठा वसिष्ठाद्याः समाययुः । दर्शनार्थं महेशस्य तत्र ते विविशुः सुखम् ॥ १७॥ तान् दृष्ट्वा लज्जिता देवी शिवश्चैव महामुने । ततस्ते विमुखा जग्मुर्मुनयो लज्जिता भृशम् ॥ १८॥ ततः शिवेन शापो वै दत्तस्तत्र वने मुने । प्रवेशेऽत्र पुमान् सद्यो भवतु स्त्रीस्वरूपधृक् ॥ १९॥ सुद्युम्नस्तत्र सञ्जातो नारीरूपो विशेषतः । शुशुभे यौवनश्रिया स्तनभारभरान्वितः ॥ २०॥ ततस्तत्र बुधो देवश्चन्द्रपुत्रः समाययो । तेन दृष्टा सुरूपा सा नारी मोहकरी मुने ॥ २१॥ साऽपि तं चक्रमे तत्र देवरूपं महाप्रभम् । तेन भुक्ता ययौ स्थानं स्वकीयं लज्जिताऽभवत् ॥ २२॥ तस्यां पुरुरवा जज्ञे चन्द्रवंशधरः प्रभुः । श्राद्धकर्मणि विख्यातो बभूव पितृभक्तितः ॥ २३॥ तदर्थं च वसिष्ठेन गणेशस्य महामनुः । दत्तो विनायकायेति नमोन्तः स्त्रीस्वरूपिणे ॥ २४॥ राजपुत्री वनं गत्वा तताप तप उत्तमम् । शतवर्षैर्गणाध्यक्षस्तां ययौ भक्तिभावतः ॥ २५॥ तया सम्पूजितो ढुण्ढिः स्तुतस्तस्यै वरं ददौ । तया पुरुषभावाय याचितश्च वरः शुभः ॥ २६॥ तथेति तं पुनः सद्यः कृत्वा नरसुरूपिणम् । (Page खं. ३ अ. २२ पान ४५) गणेशः स ययौ स्थानं स्वकीयं भक्तवत्सलः ॥ २७॥ सुद्युम्नस्य ततस्तस्य पुत्रा जातास्त्रयो मुने । उत्कलश्च गयश्चैव विनीतश्च महाबलः ॥ २८॥ पुत्रान् स राज्ये संस्थाप्य महातेजा ययौ वनम् । गणेशं योगमार्गेण तोषयामास नित्यदा ॥ २९॥ शान्तियोगधरः सोऽपि बभूव वनसंस्थितः । अन्ते सायुज्यतां प्राप्तो गणेशस्य महाबलः ॥ ३०॥ सुद्युम्ने स्त्रीत्वमापन्ने इलानामधरे मुने । इक्ष्वाकुं राज्यधर्मे तं स्थापयामास वै मनुः ॥ ३१॥ वनं ययौ महाभागो मनुर्वैवस्वतो मुने । सूर्यात् प्राप्य महामन्त्रं जजाप च षडक्षरम् ॥ ३२॥ सूर्येण योगमार्गश्च कथितस्तेन विघ्नपम् । अभजद्योगशान्त्यर्थं सोऽपि शान्तो बभूव ह ॥ ३३॥ नित्यं गणपतिं स्वर्गेऽभजच्चानन्यचेतसा । महायोगी मनुर्देवं न मुमोच कदाचन ॥ ३४॥ इक्ष्वाकुः पुत्रकामार्थं वसिष्ठस्योपदेशतः । अष्टाक्षरेण मन्त्रेणाऽतोषयद् गणनायकम् ॥ ३५॥ शतवर्षैः प्रसन्नोऽभूद्ददौ तं वरमुत्तमम् । स्तुतः सम्पूजितस्तेन ययौ स्थानं गणेश्वरः ॥ ३६॥ गणेशवरदानेन विकुक्षिस्तस्य चात्मजः । बभूव सर्वमान्यः स तेजस्वी दृढविक्रमः ॥ ३७॥ संस्थाप्य स्वाधिकारे वै राज्ये राजा ययौ वनम् । पुनस्तेन सुमन्त्रेण तोषयामास विघ्नपम् ॥ ३८॥ क्रमेण शान्तिमापन्न इक्ष्वाकुर्ब्रह्मणो मुने । ब्रह्मभूतः स्वभावस्थः स्वानन्दे गणपं ययौ ॥ ३९॥ विकुक्षेरभवन् पुत्रा दश पञ्च महामुने । तेषां ज्येष्ठः ककुत्स्थश्च श‍ृणु तस्य विचेष्टितम् ॥ ४०॥ दैत्यैः सन्ताडिता देवाः शरणं तं नृपात्मजम् । ययुः सोऽपि महातेजा दैत्यान् योद्धुं समाययौ ॥ ४१॥ तत्रेन्द्रं वृषभं तस्य कृत्वा ककुदि संस्थितः । जघान दैत्यपान् सर्वान् विजयी चाऽभवन्नृपः ॥ ४२॥ ककुत्स्थस्तेन देवेन्द्रैर्नाम्ना सङ्कीर्तितो नृपः । स गणेश्वरभक्तो वै ययौ विघ्नेश्वरं परम् ॥ ४३॥ ततोऽनेनाः पृथुस्तस्माद्विश्वरन्धिश्च तत्सुतः । तस्माच्चन्द्रो महाबाहुस्तस्माच्च युवनाश्वकः ॥ ४४॥ तस्माच्छाबस्तनामाऽभूद् बृहदश्वश्च तत्सुतः । ततः कुवलयाश्वश्च पुत्रोऽभूदेव धुन्धुहा ॥ ४५॥ धुन्धुं हत्वा महादैत्यं धुन्धुमारो बभूव ह । धुन्धुमारस्य पुत्रा वै त्रयः प्रोक्ता महामुने ॥ ४६॥ दृढाश्वः कपिलाश्वश्च भद्राश्वश्च महाबलः । दृढाश्वस्य च हर्यश्वो महाबलपराक्रमः ॥ ४७॥ हर्यश्वस्य निकुम्भोऽभून्निकुम्भाद्बर्हणाश्वकः । कृशाश्वश्च रणाश्वश्च द्वौ पुत्रौ तस्य सम्मतौ ॥ ४८॥ कृशाश्वस्य च पुत्रोऽभूद्युवनाश्व इति स्मृतः । स युद्धे देवतुल्यो वै बभूव परमद्युतिः ॥ ४९॥ तेन पुत्रार्थमानन्दान् मुनिभिश्च महात्मना । वरुणस्य कृतो यज्ञस्तत्र तैर्मन्त्रितं जलम् ॥ ५०॥ रात्रौ राजा पपौ विप्र तृषितो दैवयोगतः । ब्राह्मणैश्च तदा पृष्टं केन पीतं जलं महत् ॥ ५१॥ राज्ञा पीतं विदित्वा ते विस्मिता ब्राह्मणास्ततः । ऊचुस्तं राजशार्दूलं किं कृतं च त्वया प्रभो ॥ ५२॥ तवोदरे तथा गर्भो भविष्यति न संशयः । (Page खं. ३ अ. २३ पान ४६) एवमुक्त्वा च ते यज्ञं पूर्णं कृत्वा ययुः स्थलम् ॥ ५३॥ उदरे युवनाश्वस्य गर्भः संववृधे मुने । सम्पूर्णे तत्र देवेन्द्रो गर्भे तस्य महात्मनः ॥ ५४॥ विदार्य जठरं सद्यः पूर्ववत्तं चकार ह । कं धास्यति कुमारोऽयं तत्रेन्द्रस्तानुवाच ह ॥ ५५॥ मां धास्यति ततस्तेन मान्धाता कथितो द्विजैः । इन्द्रेण वर्धितः सोऽपि रराज परमद्युतिः ॥ ५६॥ स तु सर्वान् वशे कृत्वा सार्वभौमो बभूव ह । अव्याहतगतिर्लोके देवतुल्यो विशेषतः ॥ ५७॥ गुणा वर्णयितुं शक्या मान्धातुर्न महात्मनः । स एव गणराजं तमभजन्नित्यमादरात् ॥ ५८॥ वसिष्ठाद्योगमाश्रित्य योगिवन्द्यो बभूव ह । पुरुकुत्सः सुतस्तस्य संस्थाप्य स वनं ययौ ॥ ५९॥ गणेशभक्तिं वै तत्र चकारांऽते लयं ययौ । स्वानन्दे गणपे विप्र ब्रह्मभूतः स्वभावतः ॥ ६०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मान्धातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः ॥ ३.२२

३.२३ अम्बरीषचरितं नाम त्रयोविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुनिरुवाच । मनोर्वंशे महाभागोंऽबरीषश्च बभूव यः । एकादशीव्रती नित्यं वदतं तस्य चेष्टितम् ॥ १॥ नरनारायणावूचतुः । मनोर्वंशेंऽत्यपुत्रोऽभूदम्बरीषः प्रतापवान् । नित्यं विष्णुं स्वभावेनाऽभजच्चानन्यमानसः ॥ २॥ एकादशीव्रतेनैव तोषयामास माधवम् । ततो बहुगते काले द्वादश्यां तं ययौ मुनिः ॥ ३॥ दुर्वासाः क्रोधशाली चातिथिः पारणकेऽभवत् । तं प्रणम्य स राजर्षिरुवाच प्रकृताञ्जलिः ॥ ४॥ भगवन् स्वल्पकालस्था द्वादशी मे च पारणे । व्रतसाधनकार्यार्थं प्रार्थयामि महामुने ॥ ५॥ स्वल्पकालेन सन्ध्यादि कृत्वाऽऽगन्तव्यमादरात् । तथेति नृपतिं विप्र उक्त्वा तीर्थं जगाम ह ॥ ६॥ तत्र शीघ्रतया तेन कृतं सन्ध्यादिकं मुने । तथापि कालयोगेन द्वादशी प्रगता ततः ॥ ७॥ मुहूर्तमात्रकालस्योत्क्रमणं तेन वै कृतम् । नृपेण पलमात्रा सा द्वादशी साधिताऽभवत् ॥ ८॥ विष्णुतीर्थं ततस्तेन भक्षितं व्रतसिद्धये । पश्चादतिथिराजस्य प्रतीक्षामकरोन्नृपः ॥ ९॥ ततः शीघ्रतया तत्र दुर्वासाः प्रययौ मुने । राज्ञा तस्मै स्ववृत्तान्तः कथितो विस्तरेण ह ॥ १०॥ श्रुत्वा स कुपितोऽत्यन्तं दुर्वासास्तं शशाप ह । निमन्त्र्य मां त्वया राजन् प्रकृतं पारणं कथम् ॥ ११॥ अतस्त्वं फलहीनो वै भविष्यसि न संशयः । एवमुक्त्वा जगामाऽसौ दुर्वासाः स्वेच्छया चरन् ॥ १२॥ ततः सोऽपि नृपोऽत्यन्त दुःखितः संस्थितोऽभवत् । उपोषणसमायुक्तः स्वगृहे तं प्रतीक्षयन् ॥ १३॥ अतिथिं त्वागतं त्यक्त्वा कथं कुर्वे हि भोजनम् । (Page खं. ३ अ. २३ पान ४७) निमन्त्र्य तं विशेषेण जपध्यानपरायणः ॥ १४॥ गते संवत्सरे तत्राऽऽजगाम मुनिनारदः । प्रपूज्य सर्ववृत्तान्तं कथयामास तं नृपः ॥ १५॥ ततस्तं नारदः प्राह श‍ृणु राजन् महामते । जलभक्षणमात्रेण पारणं च त्वया कृतम् ॥ १६॥ तेनोपोषणयुक्तेन त्वया धर्मः प्रपालितः । द्वादशी व्रतगा पूर्णा साधिता व्रतसिद्धये ॥ १७॥ अपराधविहीनस्य तवाऽयं विघ्न उत्थितः । दुर्वासाः कोपसंयुक्तो जगाम क्षुधितो गृहात् ॥ १८॥ अतस्त्वं विघ्नराजं तं भज यत्नेन मानद । तेन विघ्नविहीनश्च भविष्यसि न संशयः ॥ १९॥ विष्णुना प्रेषितोऽहं वै त्वदर्थं नृपसत्तम । सर्वेषामादिरूपोऽयमन्ते सोऽपि गणेश्वरः ॥ २०॥ शिवविष्ण्वादयस्तस्य गणाः प्रोक्ता न संशयः । तेन संस्थापिताः सर्वे नानाकार्येषु भूमिप ॥ २१॥ चित्तं बुद्धिस्वरूपं यत्तत्र चिन्तामणिः स्थितः । तं गच्छ शरणं वत्स पतिं बुद्धेर्विशेषतः ॥ २२॥ त्यक्त्वा सिद्धिपतिं देवं सिद्धिमिच्छति दुर्मतिः । तस्यासिद्धिर्भवेन्नित्यं सर्वत्राऽत्र न संशयः ॥ २३॥ एवमुक्त्वा मुनिस्तस्मै ददौ मन्त्रं षडक्षरम् । महाविष्णुर्जपति यं ततः सोंऽतर्हितोऽभवत् ॥ २४॥ अम्बरीषस्तदारभ्य विघ्नेशं शरणं गतः । जजाप मन्त्रराजं तं पूजयित्वा विनायकम् ॥ २५॥ विष्णोर्गणेशस्य चैवाभेदस्तेन समाश्रितः । गणेशस्य चतुर्धा सा मूर्तिः सर्वत्र दृश्यते ॥ २६॥ ततो दुर्वाससो विप्र मनश्चञ्चलतां गतम् । दयया स्वयमेवासावम्बरीषं जगाम ह ॥ २७॥ समागतं मुनीन्द्रं तं दृष्ट्वा विस्मितमानसः । प्रणम्यादावम्बरीषोऽपूजयद् भक्तिसंयुतः ॥ २८॥ ततस्तं नृपशार्दूलं जगाद मुनिसत्तमः । दुर्वासा विनयेनैव युक्तं परमहर्षितः ॥ २९॥ दुर्वासा उवाच । क्षमस्वैनं मेऽपराधं साहसं नृपसत्तम । अपराधविहीनं त्वामशपं क्रोधसंयुतः ॥ ३०॥ त्वं तु साधुस्वभावेन संस्थितः स्वगृहे नृप । उपोषणसमायुक्तस्तेन सर्वं जितं त्वया ॥ ३१॥ मां त्यक्त्वा जलपानेन पारणं यत्त्वया कृतम् । सैव निष्फलरूपैकादशी तव भविष्यति ॥ ३२॥ अन्याः फलयुताः सर्वास्ते भवन्तु नृपोत्तम । एवमुक्त्वा स तेनैव बुभुजे मुनिसत्तमः ॥ ३३॥ तमनुगृह्य दुर्वासा ययौ स्वस्याश्रमं शुभम् । अम्बरीषस्ततो देवं गणेशमभजत् सदा ॥ ३४॥ तस्मात्पुत्राः समुत्पन्नास्तत्र ज्येष्ठं प्रतापवान् । राज्ये नृपोत्तमस्तं स स्थापयित्वा वनं ययौ ॥ ३५॥ भक्त्या गणपतिं तत्राऽभजच्चानन्यचेतसा । कालेनांऽते गणेशानं ययौ योगेन तत्त्वतः ॥ ३६॥ अम्बरीषस्य पठति चित्रं यच्च श‍ृणोति यः । चरित्रं तस्य भक्तिश्च मुक्तिर्भवति शाश्वती ॥ ३७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते अम्बरीषचरितं नाम त्रयोविंशतितमोऽध्यायः ॥ ३.२३

३.२४ मुचुकुन्दचरितं नाम चतुर्विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । पुरुकुत्सस्य दायादावभूतां तु महाबलौ । अम्बरीषो महाभागो मुचुकुन्दस्तथाऽपरः ॥ १॥ अम्बरीषः स्वराज्यं वै कृत्वा गणपतिं ययौ । तपस्तप्त्वा सुविपुलं पुत्रे राज्यं निधाय च ॥ २॥ चकार मुचुकुन्दः स राजर्षिर्राज्यमुत्तमम् । धर्मयुक्तो महातेजाः शक्रतुल्यपराक्रमः ॥ ३॥ कदाचिद्देवदैत्यानां युद्धं जातं महाद्भुतम् । तत्र देवा जिताः सर्वे दैत्यैः परमदारुणैः ॥ ४॥ मुचुकुन्दं ततो देवाः शरणं जग्मुरादरात् । ततस्तेन महादैत्या हताः शस्त्रबलेन वै ॥ ५॥ तत्र युद्धप्रसङ्गेन कालो विप्र गतो बहुः । युगातिक्रमणं तेन प्राप्तं तस्य महात्मनः ॥ ६॥ युगभेदं निरीक्ष्याऽसौ देवान् सर्वानुवाच ह । ज्ञानं दातव्यमाद्यं मे भवद्भिरधुना परम् ॥ ७॥ ततस्ते दैवताः सर्वे जगुः परमभाविताः । अधुना पर्वतद्रोण्यां निद्रायुक्तो भव प्रभो ॥ ८॥ नृप त्वां यो नरस्तत्र कश्चिदुत्थापयिष्यति । स एव मरणं सद्यः प्राप्नोतु त्वत्समीपगः ॥ ९॥ तत्र ते वासुदेवस्य दर्शनं प्रभविष्यति । स एव ज्ञानसन्दाता महायोगी नृपोत्तम ॥ १०॥ ययावुवाचैव वनं तान् तथेति महाबलः । स गन्धमादनद्रोण्यां सुष्वाप च नृपोत्तमः ॥ ११॥ ततो बहुगते काले वसुदेवसुतोऽभवत् । विष्णुः साक्षान् महायोगी तपसाऽऽराधितो मुने ॥ १२॥ कंसं हत्वा महावीरं मथुरायां स्थितोऽभवत् । कंसस्य श्वशुरोऽत्यन्तं क्रोधयुक्तो बभूव ह ॥ १३॥ जरासन्धो ययौ तत्र युद्धार्थं सैन्यसंयुतः । राजभिः शाल्वकाद्यैश्च संवृतो वीरसत्तमैः ॥ १४॥ त्रयोविंशतिरेतस्याऽक्षौहिण्यश्च बलं बभौ । तन्ममर्द महातेजाः कृष्णः सङ्कर्षणान्वितः ॥ १५॥ पलायत ततो राजा गतः स्थानं पुनर्ययौ । तावत् सन्यैन संयुक्तो भवदेवं पराजितः ॥ १६॥ एवं महाबलः सप्त दश वारं समागतः । जरासन्धस्ततो राजा न यशः प्राप दुःखितः ॥ १७॥ तदा तेनाऽपि विप्रेन्द्र यवनाधिपतिः खलः । सहायार्थं धृतः पक्षे स कालयवनाभिधः ॥ १८॥ स वै यवनराजश्च यादवानां विनाशकृत् । गर्गशापात् समुद्भूत आययौ मथुरां मुने ॥ १९॥ तमागतं परिज्ञाय मायया निर्ममे स्वयम् । द्वारकां जलधौ कृष्णस्तत्र चिक्षेप यादवान् ॥ २०॥ ततो यवनराजस्य समीपे स समागतः । दर्शयित्वा तथाऽऽत्मानं वासुदेवः पलायत ॥ २१॥ नारदेन च कृष्णस्य चिह्नानि कथितानि वै । यवनेन्द्राय तैः कृष्णं ज्ञात्वा सन्धावितोऽभवत् ॥ २२॥ अभर्त्सयन् महात्मानं कृष्णकालसमः स्वयम् । यवनः किं यदोर्वंशे लाञ्छनप्रद धावसि ॥ २३॥ ततः कृष्णो गतस्तत्र यत्र सुष्वाप वै नृपः । मुचुकुन्दः स तं त्यक्त्वा गुहान्तरगतोऽभवत् ॥ २४॥ यवनेन्द्रेण सुप्तोऽसौ दृष्टस्तं स्वपदाऽहनत् । किं सुप्तोऽसि च निर्लज्ज कुरु युद्धं मया सह ॥ २५॥ बोधितो यवनेनैवं मुचुकुन्दः प्रतापवान् । तस्य नेत्रोद्भवो वह्निर्यवनं स ददाह च ॥ २६॥ (Page खं. ३ अ. २५ पान ४९) एवं तं कालयवनं हतं दृष्ट्वा जनार्दनः । आययौ नृपनाथं तं हर्षनिर्भरमानसः ॥ २७॥ तमागतं समादृष्ट्वा मुचुकुन्दो ननाम च । उवाच भक्तिसंयुक्तः कृष्णं योगीश्वरं मुने ॥ २८॥ मुचुकुन्द उवाच । देवैः सङ्कथितं कृष्ण ममैतदभवत् प्रभो । अधुना ज्ञानमार्गं वै कथयस्व कृपानिधे ॥ २९॥ मुचुकुन्दस्य वाक्यं स श्रुत्वा हर्षसमन्वितः । जगाद तं महाभागं कृष्णः परमयोगवित् ॥ ३०॥ श्रीकृष्ण उवाच । अहं गणेश्वरः पूर्णो न भिन्नश्च महामते । एतदेव परं ज्ञानं संज्ञातव्यं त्वया नृप ॥ ३१॥ त्यक्त्वा पञ्चविधं चित्तं तदैश्वर्यं च मोहदम् । योगेन ब्रह्मणि प्रोक्तं गणेशस्त्वं भविष्यसि ॥ ३२॥ चित्तरूपा महाबुद्धिर्मोहरूपा च भूमिप । सिद्धिर्गणपतेर्माये तत्र बिम्बं स्थितं च यत् ॥ ३३॥ तदेव गणनाथोऽयं पश्य तं योगसेवया । चित्ते चिन्तामणिं भूप त्यक्त्वा बिम्बभवं भ्रमम् ॥ ३४॥ गकारात्मकरूपां वै सिद्धिं जानीहि मानद । णकाररूपिकां बुद्धिं तयोः स्वामी गणेश्वरः ॥ ३५॥ तं भजस्व महाभाग तेन शान्तिमवाप्स्यसि । ज्ञानं गुह्यतमं प्रोक्तं मया ते नृपसत्तम ॥ ३६॥ एवमुक्त्वा महायोगी कृष्णस्तेन प्रपूजितः । आगत्य मथुरायां स जघान यवनान् प्रभुः ॥ ३७॥ जरासन्धं समागत्य धावितो रामसंयुतः । वञ्चयित्वा ययौ तं स द्वारकायां महामुने ॥ ३८॥ मुचुकुन्दश्च राजर्षिः साधयामास यत्नतः । कृष्णेन कथितं योगं तेन शान्तिं जगाम ह ॥ ३९॥ ततो भ्रमन् स राजेन्द्रः पृथिव्यां यत्र तत्र च । गणेशमभजत् भक्त्या तं प्राणान्तं महायशाः ॥ ४०॥ मुचुकुन्दस्य यो मर्त्यश्चरितं श‍ृणुयात् परम् । पठेत्तस्मै तु सर्वं स प्रदद्याद्गणपः प्रभुः ॥ ४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मुचुकुन्दचरितं नाम चतुर्विंशतितमोऽध्यायः ॥ ३.२४

३.२५ सगरभगीरथचरितं नाम पञ्चविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । अम्बरीषस्य पुत्रोऽभूद्यौवनाश्वो परः स्मृतः । हरितो यौवनाश्वस्य हारितस्तु सुतोऽभवत् ॥ १॥ पुरुकुत्सस्य पुत्रोऽभूत्त्रसद्दस्युस्ततोऽभवत् । अनरण्यस्तस्य पुत्रो हर्यश्वः साधुसम्मतः ॥ २॥ अरुणस्तत्सुतः सूर्यवरात् प्रोक्तः समुद्भवः । तस्य पुत्रोऽभवत् सत्यव्रतो विद्वान् महाशयाः ॥ ३॥ स एवाऽभूत्त्रिशङ्क्वाख्यो देहभृत् स्वर्गर्लोकगः । तस्य पुत्रो हरिश्चन्द्रः सर्वधर्मपरायणः ॥ ४॥ विश्वामित्राच्च विघ्नेशं ज्ञात्वा गाणेशकोऽभवत् । स्वानन्दे गणनाथं सोंऽते जगाम महायशाः ॥ ५॥ रोहितस्तस्य पुत्रोऽभूद्धरितो वै ततोऽभवत् । चम्पस्तस्मात् सुदेवोऽतो विजयो भरुकस्ततः ॥ ६॥ ततो वृकस्ततो बाहुः सगरस्तस्य चात्मजः । सगरस्याऽपि भार्ये द्वे प्रभा भानुमती तथा ॥ ७॥ ताभ्यामाराधितो योगी भृगुः परमपावनः । (Page खं. ३ अ. २५ पान ५०) पुत्रार्थं स ददौ ताभ्यां वरं पुत्रप्रदं परम् ॥ ८॥ षष्टिसाहस्रपुत्रा वै वृताश्च प्रभया ततः । एकं वंशधरं भानुमती वव्रे महामुने ॥ ९॥ भृगोः प्रसादयोगेन भानुमत्यां समुद्भवः । असमञ्जसनामा वै पुत्रो वंशधरो मुने ॥ १०॥ स तु योगयुतः सर्वान् शिशून् धृत्वा महायशाः । चिक्षेप शरयूमध्ये बालो बालविनाशकृत् ॥ ११॥ वनं ययौ ततः पित्रा स सन्त्यक्तो महामुने । जीवयित्वा शिशून् सर्वान् योगी मायाबलेन वै ॥ १२॥ तस्य पुत्रः समुत्पन्नोंऽशुमान् धर्मपरायणः । प्रभायां षष्टिसाहस्रं पुत्राणां प्रबभूव ह ॥ १३॥ सगरेण ततो यज्ञा अश्वमेधाः कृता बलात् । शतसङ्ख्याः प्रमाणेन तत्रेन्द्रः क्षुभितोऽभवत् ॥ १४॥ अन्त्ये यज्ञे समारब्धे मायया च सुराधिपः । अश्वं सङ्गृह्य पाताले स्थापयामास सन्निधौ ॥ १५॥ कपिलस्य ततस्तत्र पुत्राश्च सगरस्य ये । कुपितास्ते सहस्राणां षष्टिः परमदुर्जयाः ॥ १६॥ अश्वपादं प्रपश्यद्भिर्भूमिमध्ये विचक्षणैः । ततस्तैः खनिता भूमिः सर्वत्र बलसंयुतैः ॥ १७॥ तैऽस्तु संवर्धितो विप्र समुद्रो लवणात्मकः । तेन सागरनामाऽभूत्तदारभ्य स्वकर्मणा ॥ १८॥ तमश्वराजं ददृशुश्चरन्तं कपिलान्तिके । तं चौरं सागरा ज्ञात्वा हन्तुं शस्त्राणि सन्दधुः ॥ १९॥ कपिलक्रोधवह्नौ ते भस्मीभूता बभूविरे । सगरा हर्षितस्तेन स प्रतापी पुरन्दरः ॥ २०॥ नारदात् सगरो ज्ञात्वांऽशुमन्तं पौत्रकं ततः । प्रेषयामास तं विप्रं ननाम स महाद्युतिः ॥ २१॥ स्तुतः सम्पूजितस्तेन कपिलः प्रददौ हयम् । सङ्गृह्य स ययौ विप्र सगरं स्वपितामहम् ॥ २२॥ ततश्चकार तं यज्ञं सम्पूर्णं त्वश्वमेधकम् । ययौ राज्येऽभिषिच्याऽसौ वनं पौत्रं महायशाः ॥ २३॥ गुरोः प्राप्य महामन्त्रं गाणेशं योगशान्तिदम् । साधयित्वा स वै योगी बभूव परमद्युतिः ॥ २४॥ अनन्यमनसा देवं गणेशमभजन्नृपः । अन्ते स गणपं विप्र ययौ ब्रह्मपरायणः ॥ २५॥ अंशुमान् कपिलाच्चैव ज्ञानं प्राप्य महायशाः । गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥ २६॥ तस्य पुत्रो दिलीपश्च दिलीपात्तु भगीरथः । दिलीपोऽन्यस्य राज्ये तं ययौ विघ्नेशमुत्तमम् ॥ २७॥ ततो भगीरथो राजा दिलीपस्थापितः स वै । पालयामास सम्पूर्णं राज्यं सद्धर्मभावतः ॥ २८॥ एकदा नारदस्तत्र जगाम नृपतिं मुने । पूजितस्तेन होवाच नृपं वचनमुत्तमम् ॥ २९॥ नारद उवाच । भगीरथ महाभाग श‍ृणु मे वचनं हितम् । तव ब्राह्मणसङ्क्रोधाद्दग्धाश्च प्रपितामहाः ॥ ३०॥ विप्रक्रोधेन दग्धा ये गतिस्तेषां न विद्यते । अतस्त्वं च महाराज कुरु तेषां हितं परम् ॥ ३१॥ स्वर्णदीं त्वं समानीय प्लावयस्व च तान् जलैः । स्वर्गवासिन एवं ते प्रभविष्यन्ति पूर्वजाः ॥ ३२॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । (Page खं. ३ अ. २५ पान ५१) ययौ स्वर्गं ततो विप्र राजा सन्दुःखितोऽभवत् ॥ ३३॥ प्रधानेषु स्वकीयं तद्राज्यं त्यक्त्वा वनं ययौ । तपसाऽऽराधयामास स्वर्णदीं च भगीरथः ॥ ३४॥ पूर्णे वर्षशते चैव तं ययौ स्वर्गवाहिनी । वरेण च्छन्दयामास राजानं भक्तिसंयुतम् ॥ ३५॥ पूजयामास तां देवीं स्तुत्वा च विविधैः स्तवैः । प्रतापवान् जगादाऽसौ भूमिपः स भगीरथः ॥ ३६॥ भगीरथ उवाच । यदि तुष्टा महाभागे तदा मे प्रपितामहान् । प्लावयस्व महीसंस्था सा तथेति तमब्रवीत् ॥ ३७॥ मदीयमुग्रवेगं सन्धारणार्थं महामते । पात्रं पश्य महाभागाऽऽगमिष्यामि महीतलम् ॥ ३८॥ तथेति स महीपालः पूजयामास शङ्करम् । वर्षेणैकेन तं शम्भुः प्रसन्नो वरदोऽभवत् ॥ ३९॥ स्वर्णदीं धारयस्व त्वं यदि तुष्टोऽसि शङ्कर । तथेति शिव ऊचे तं सस्मार स महानदीम् ॥ ४०॥ आगतां तां तदा प्राह पत देवि महीतले । धारयिष्यति ते वेगं शङ्करः करुणानिधिः ॥ ४१॥ स्वर्गङ्गा गर्वयुक्ता च तथेति शिवमस्तके । पपात सैव धाराभिः सहस्रेण समन्ततः ॥ ४२॥ शिवमस्तकमाप्लाव्य गमिष्यामि रसातलम् । इति सन्धार्य मनसि महावेगयुता ययौ ॥ ४३॥ तस्या गर्वं परिज्ञाय शङ्करेण स्वमायया । जटायां गोपिता देवी तत्र बभ्राम वै नदी ॥ ४४॥ नान्तं जगाम शम्भोः सा जटायास्तं नमाम वै । ततः शिवेन राजार्थे मोचिता धरणीं ययौ ॥ ४५॥ तत्र जन्हुं महीपालं ददर्श स्वर्गवाहिनी । तं तपन्तं तपो घोरं जगाद चल तापस ॥ ४६॥ नोचेत्त्वां प्लावयिष्यामि स जगाद न तां यदा । तदा सा क्रोधसंयुक्ता प्लावितुं तं समाययौ ॥ ४७॥ तामागतां समाज्ञाय क्रोधयुक्तो महीपतिः । तपोबलेन तां पीत्वा सन्तस्थौ तपसि प्रभुः ॥ ४८॥ ततो भगीरथस्तं प्रणनामाऽथ महायशाः । प्रार्थितः स मुमोचाऽपि स्वोरुं भित्वा ततो नदीम् ॥ ४९॥ तस्य पुत्रीत्वमापन्ना जाह्नवी तेन कथ्यते । पुनः सा वेगसंयुक्ता प्लावयामास सागरान् ॥ ५०॥ विमानवरमारूढास्ते भगीरथसन्निधौ । ते गताः स्वर्गलोके च जलस्पर्शेन तत्क्षणात् ॥ ५१॥ राज्ञा भगीरथेनैवं पूजिता स्वर्गवाहिनी । पुत्रीभावेन सङ्क्लृप्ताऽभवत् भागीरथी ततः ॥ ५२॥ एवं भगीरथोऽसौ प्रभावयुक्तः प्रतापवान् । भगीरथसुतोऽप्यासीच्छ्रुतो नाम महीपतिः ॥ ५३॥ संस्थाप्य स्वपदे राज्ये स ययौ वनमुत्तमम् । वसिष्ठात् स विदित्वा च योगं गाणेशकं मुने ॥ ५४॥ साधयित्वा स वै राजा गाणपत्यो बभूव ह । अन्ते जगाम गाणेशसायुज्यं योगसेवया ॥ ५५॥ इदं भगीरथाऽऽख्यानं यः श‍ृणोति नरोत्तमः । पठेद्वा तस्य भो विप्र भुक्तिमुक्तिप्रदं भवेत् ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सगरभगीरथचरितं नाम पञ्चविंशतितमोऽध्यायः ॥ ३.२५

३.२६ रामचन्द्रचरितं नाम षड्विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरानरायणावूचतुः । श्रुतस्य चैव नाभाख्यः पुत्रस्तस्य बभूव ह । सिन्धुद्वीपस्ततो जज्ञे ज्ञानी पुत्रो महायशाः ॥ १॥ अयुतायुः सुतस्तस्य ततो य ऋतुपर्णकः । स वै नलसखस्तस्मादश्वविद्यापरायणः ॥ २॥ सर्वकामस्ततो जज्ञे तस्माज्जातः सुदासकः । सौदासस्तस्य पुत्रोऽभूत् ख्यातः कल्माषपादकः ॥ ३॥ कल्माषपादक्षेत्रे वै वसिष्ठो मुनिसत्तमः । अश्मकं जनयामास चेक्ष्वाकुकुलवर्धकम् ॥ ४॥ अश्मकस्य च पुत्रोऽभून्मूलको नाम पार्थिवः । स हि रामभयाद्राजा वनं प्राप्य सुदुःखितः ॥ ५॥ तत्र नारीस्वरूपः सन्नारीभिः परिरक्षितः । नारीकवचनामाऽभूत् कर्मणा तेन भो मुने ॥ ६॥ तस्माच्छतरथश्चैलविलो जज्ञे च तत्सुतः । ततो विश्वसहस्तस्मात् खट्वाङ्गो ढुण्ढिमाप्तवान् ॥ ७॥ दीर्घबाहुस्ततस्तस्माद्रघुस्तस्मादजोऽभवत् । पुत्रो दशरथस्तस्य कश्यपांशः स वै स्मृतः ॥ ८॥ तस्य भार्यात्रयं चासीद्रूपेणाप्रतिमं मुने । कौसल्या चैव कैकेयी सुमित्रा धर्मसंयुता ॥ ९॥ यौवने प्रगते प्राप न राजा पुत्रमुत्तमम् । नानायत्नं चकाराऽसौ व्रततीर्थादिकं मुने ॥ १०॥ ततो वसिष्ठं विप्रेशं सस्त्रीकः शरणं ययौ । प्रधानेषु विनिक्षिप्य राज्यं निहतकण्टकम् ॥ ११॥ वसिष्ठेन गणेशस्य मन्त्रो दत्तो दशाक्षरः । तस्मै राज्ञे तथा चैवोवाच पत्नीसमन्वितम् ॥ १२॥ सूर्यस्य कुलदेवत्वं सम्प्राप्तः स गजाननः । तस्य वंशे त्वमुत्पन्नः कथं विस्मृतवांश्च तम् ॥ १३॥ तस्य विस्मृतिमात्रेण न सिद्धिं पुरुषो लभेत् । परत्रेह च विघ्नेन पीडितोऽतिमहाद्भुतम् ॥ १४॥ अतस्त्वमपि राजेन्द्र गणपं भज भावतः । न त्याज्योऽयं मन्त्रराजस्त्यागे हानिर्भविष्यति ॥ १५॥ तथेति तं वसिष्ठं स उक्त्वा नत्वा ययौ वनम् । तताप वै दशरथस्तप उग्रं महायशाः ॥ १६॥ वायुमात्राशनो भूत्वाऽपूजयद् गणनायकम् । पत्न्या सह विनीतात्माऽजपत्तं मन्त्रमुत्तमम् ॥ १७॥ ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । आययौ तं वरान् दातुं मूषकारूढ एव सः ॥ १८॥ तं दृष्ट्वोत्थाय सस्त्रीको ननाम सहसा प्रभुम् । पूजयामास तं देवं स्तुत्वा स्तोत्रैर्ननाम च ॥ १९॥ ततस्तं गणराजो वै जगाद स नृपोत्तमम् । वरं ब्रूहि महाबाहो दास्ये ते मनसेप्सितम् ॥ २०॥ ततस्तद्वचनं श्रुत्वोवाच संविनयान्वितः । प्रसन्नात्मा दशरथो गणेशं सर्वसिद्धिदम् ॥ २१॥ दशरथ उवाच । यदि प्रसन्नो देवेश तदा देहि गजानन । भक्तिं ते चरणे नाथ ययाऽज्ञानं न विद्यते ॥ २२॥ अन्यद्देहि गणाधीश पुत्रं पृथुलकीर्तिदम् । बलेनाप्रतिमं चैव तव भक्तिपरायणम् ॥ २३॥ मया यत्र तपस्तप्तं तत्र त्वं सुस्थिरो भव । पूरयन् भक्तिभावेन जनानां मनसीप्सितम् ॥ २४॥ तथेति वै दशरथं जगाद गणनायकः । अन्तर्धाय स्वमात्मानं ययौ स्वानन्दमादरात् ॥ २५॥ ततो वसिष्ठहस्तेन स्थापिता मूर्तिरादरात् । (Page खं. ३ अ. २६ पान ५३) गणेशस्य च तत्राऽऽसीत् क्षेत्रं सकलसिद्धिदम् ॥ २६॥ पूजयित्वा दशरथः सस्त्रीकश्च स विप्र तम् । आययौ नगरेऽयोध्यायां सर्वान् सम्प्रहर्षयन् ॥ २७॥ ततो रावणनाशार्थं विष्णुमाज्ञापयत् प्रभुः । गणेशः स तु पुत्रोऽभून् मुने दशरथस्य भोः ॥ २८॥ चतुर्धात्मानमाभज्य विबभौ हरिरव्ययः । कौसल्यायां समुत्पन्नो रामः शस्त्रभृतां वरः ॥ २९॥ कैकेय्यां भरतो जज्ञे सुमित्रायां च लक्ष्मणः । शत्रुघ्नश्चैव विप्रेन्द्र सर्वे विष्णुसमा बभुः ॥ ३०॥ ततो दशरथो राजा कामभोगपरायणः । सञ्जातस्तं न सस्मार विस्मृत्या गणनायकम् ॥ ३१॥ ततो रामस्य मौञ्ज्यादि कर्म तेन कृतं मुने । विश्वामित्रेण यज्ञस्य रक्षार्थं याचितोऽभवत् ॥ ३२॥ स लक्ष्मणेन रामेण यज्ञस्तस्य प्रपालितः । हतः सुबाहको नाम राक्षसो दारुणो मुने ॥ ३३॥ प्रसन्नोऽभून् महायोगी विश्वामित्रः प्रतापवान् । अस्त्रविद्यां ददौ तस्मै रामाय सकलां मुने ॥ ३४॥ ततो जनकयज्ञं वै जगाम मुनिकौशिकः । रामलक्ष्मणसंयुक्तः पूजितो जनकेन सः ॥ ३५॥ माहेश्वरं धनुस्तत्र सज्यं रामेण वै कृतम् । आकर्षणेन महता भग्नं मध्ये महामुने ॥ ३६॥ ततो जनकभूपेन दत्ता सीता महात्मने । रामाय प्रीतियुक्तेन लक्ष्मणाय तथोर्मिला ॥ ३७॥ भ्रातृकन्ये ततो राज्ञा दत्ते तत्र महामुने । भरताय तथा शत्रुघ्नाय भावेन मानद ॥ ३८॥ ततो दशरथो राजा कैकेय्या प्रार्थितो भृशम् । रामस्य वनवासार्थं राज्यार्थं भरतस्य च ॥ ३९॥ वरदानप्रभावेन तथेति स चकार ह । वर्षाणि वनवासं स चतुर्दश च राघवः ॥ ४०॥ सलक्ष्मणश्च सस्त्रीकश्चकार पितृगौरवात् । स तत्र नासिके रामो वासं चक्रे प्रहर्षितः ॥ ४१॥ तत्रातिथिस्वरूपेण रावणश्च समाययौ । एकाकिनीं च सीतां सङ्गृह्य लङ्कां ययौ खलः ॥ ४२॥ सलक्ष्मणस्ततो रामो न ददर्श विदेहजाम् । पपात मूर्च्छितो भूत्वा विललाप भृशातुरः ॥ ४३॥ ततो जगाम रामश्च सीतामन्वेषयन् वने । कर्णाटे तत्र शैवं स क्षत्रं मुख्यं ददर्श ह ॥ ४४॥ तत्र शम्भुं स रामो वै लक्ष्मणेन समन्वितः । आराधयन् महाभक्त्या मासं वै शैवरूपधृक् ॥ ४५॥ सन्तुष्टस्तत्र रामाय वरं प्रादात् सदाशिवः । सीताप्राप्तिस्वरूपं तमुपदेशं चकार सः ॥ ४६॥ शिव उवाच । श‍ृणु राम महाभाग त्वं वै विष्णुः सनातनः । भृगोः शापेन जातोऽसि मानुषे देहधारकः ॥ ४७॥ सीतावियोगजं दुःखं वनवासं तथाऽऽश्रितः । अतस्त्वं गणराजं वै भज त्वं भक्तिसंयुतः ॥ ४८॥ तेन ज्ञानं च ते राम भविष्यति पुरातनम् । सीताप्राप्तिर्महाबाहो भविता नात्र संशयः ॥ ४९॥ शिवस्य वचनं श्रुत्वा तं पप्रच्छ महायशाः । रामः परमशोकार्तो विनयेन समन्वितः ॥ ५०॥ राम उवाच । वद शम्भो महेशान गणेशस्य स्वरूपकम् । कीदृशोऽयं विशेषेण सर्वाधीशश्च कथ्यते ॥ ५१॥ रामस्य वचनं श्रुत्वा शङ्करस्तमुवाच ह । योगं गाणेशकं पूर्णं बोधयन् मुनिसत्तम ॥ ५२॥ शिव उवाच । श‍ृणु राम गणेशस्य ज्ञानं ते कथयाम्यहम् । तेन त्वं सर्वभावज्ञः शान्तिं प्रलभसे प्रभो ॥ ५३॥ पञ्चधा हृदि संस्था या बुद्धिः सैव न संशयः । चित्तरूपा महाभागा प्रकृतिस्तस्य भो विभो ॥ ५४॥ नानाभ्रमकरी माया सिद्धिः सर्वत्र दृश्यते । भ्रमन्ति सर्वलोका वै सिद्ध्यर्थं मोहितास्तया ॥ ५५॥ सा तस्य प्रकृतिः प्रोक्ता वामभागे प्रसंस्थिता । बभूव दक्षिणाङ्गे वै बुद्धिर्मायेति कथ्यते ॥ ५६॥ तयोः स्वामी गणेशः स योगशान्तिमयो मतः । तं ज्ञात्वा च वयं राम शान्तिं प्राप्ता भजामहे ॥ ५७॥ बुद्ध्या यद् बुध्यते राम तदेवं तस्य रूपकम् । योगादिसाधने नैव लभ्यते तच्च सिद्धिजम् ॥ ५८॥ माये च द्विविधे त्यक्त्वा भजस्व गणनायकम् । तेन त्वं योगमार्गज्ञो गणेशश्च भविष्यसि ॥ ५९॥ विघ्नराजः स वेदेषु प्रोक्तो वै वेदवादिभिः । तमनादृत्य विघ्नेशं विघ्नहीनः कथं भवेत् ॥ ६०॥ विघ्नाधीनं महाभाग सकलं वेदवर्णितम् । अतो विघ्नेन संयुक्तं हीनं प्रभवति प्रभो ॥ ६१॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः । तं भजस्व विधानेन विघ्नहीनो भविष्यसि ॥ ६२॥ हेरम्बं भज भावेन भक्तिमार्गं वदामि ते । तेन त्वं लभसे देवं गणेशं नात्र संशयः ॥ ६३॥ स्वकीयसत्तया हीनो भवेद्वै यदि मानवः । हीनस्तदा समाख्यातः पराधीनस्वभावतः ॥ ६४॥ दीनानां रक्षका ये वै ईश्वराः परमेश्वराः । ते दीनपालकाः प्रोक्ता विचारय महामते ॥ ६५॥ दीनार्थवाचको राम हेर्वेदेषु विनिश्चितम् । नाथो रम्बस्तयोर्योगे हेरम्बश्च प्रकथ्यते ॥ ६६॥ दीनाः सत्ताविहीनाश्च सत्तायुक्ताश्च पालकाः । तेषां स्वामी स हेरम्बस्तं भजस्व विधानतः ॥ ६७॥ अभिमानं च द्विविधं त्यज त्वं राघव प्रभो । दीनात्मकं तथा पूर्णपालनात्मकमुत्तमम् ॥ ६८॥ दीना येन कृता जीवाः पालकाः परमेश्वराः । तदधीनं जगद्ब्रह्म मत्वा तं शरणं ब्रज ॥ ६९॥ एवमुक्त्वा महादेवो राघवं च सलक्ष्मणम् । अन्तर्धानं जगामाऽपि राघवस्तत्र संस्थितः ॥ ७०॥ विद्याधीशपुरे रामस्तताप तप उत्तमम् । शिवोपदिष्टमन्त्रेण तोषयामास विघ्नपम् ॥ ७१॥ हेरम्बं तं सदा रामो लक्ष्मणश्च विशेषतः । पुपूज भक्तिसंयुक्तो निराहारसमन्वितः ॥ ७२॥ ध्यानेन तस्य देवस्य स्वल्पकालेन च प्रभुः । रामः शान्तियुतो विप्र समभूद् योगसेवया ॥ ७३॥ निश्चयं तस्य रामस्य दृष्ट्वा भक्तं तमाययौ । षण्मासैश्च वरं दातुं गणेशः करुणानिधिः ॥ ७४॥ सलक्ष्मणं च रामं स बोधयामास विघ्नपः । ततो ध्यानं परित्यज्य गणपं नेमतुः परम् ॥ ७५॥ ततस्तं पूजयामास रामो देववरो मुने । तुष्टाव स गणाधीशं भक्तिनम्रात्मकन्धरः ॥ ७६॥ (Page खं. ३ अ. २६ पान ५५) राम उवाच । हेरम्बाय नमस्तुभ्यं दीनकर्त्रे कृपालवे । दीनानाथस्वरूपाणां कर्त्रे ते वै नमो नमः ॥ ७७॥ ईश्वराणां च दीनानामभेदाय च ते नमः । विघ्नेशाय गणानां वै पतये ते नमो नमः ॥ ७८॥ अनादये च सर्वेषामादिरूपाय ते नमः । अन्तमध्यप्रतिष्ठाय लम्बोदर नमो नमः ॥ ७९॥ चिन्तामणे च चित्तानां चालकाय नमो नमः । भेदाभेदादिहीनाय तदाकाराय ते नमः ॥ ८०॥ सर्वपूज्याय सर्वादिपूज्याय परमात्मने । अनन्ताय परेशाय ढुण्ढिराजाय ते नमः ॥ ८१॥ पूर्णाय पूर्णनाथाय स्वानन्दस्थाय ते नमः । सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिवराय च ॥ ८२॥ समर्थानां च ते भक्तिहीनानां दैन्यकारिणे । दीनानां भक्तियुक्तानां नमः सामर्थ्यकारिणे ॥ ८३॥ दीनत्वं च समर्थत्वं त्वदधीनं न संशयः । अतो मां रक्ष योगेश योगेशाय नमो नमः ॥ ८४॥ किं स्तौमि त्वां गणाधीश शान्तियोगस्वरूपिणम् । न समर्थाश्च वेदा यं योगीन्द्रास्तत्र कोऽप्यहम् ॥ ८५॥ रामस्य तस्य स्तुवत एवं सम्भक्तिभावितः । रोमोद्गमः प्रादुरासीत् कण्ठरोधस्तथैव च ॥ ८६॥ ततो भक्तिरसे मग्नं रामं वीक्ष्य गजाननः । जगाद तं वरं ब्रूहि मनसीप्सितमादरात् ॥ ८७॥ त्वया कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । शान्तियोगप्रदं चैव भक्तिलक्षणवर्धनम् ॥ ८८॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । श्रवणेन न सन्देहः प्रियो मे स भविष्यति ॥ ८९॥ हेरम्बस्य वचः श्रुत्वा तमुवाच जनार्दनः । रामः परमभावेन भक्त्या च प्रकृताञ्जलिः ॥ ९०॥ राम उवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा त्वदीयपादाब्जे भक्तिर्भवतु शाश्वती ॥ ९१॥ योगशान्तिः स्मृतिर्नित्यं यथा शङ्करभाषितम् । तथा योगीन्द्रवन्द्यं मां कुरुष्व गणप प्रभो ॥ ९२॥ रावणेन हृता सीता तद्वधार्थं समुद्यतः । अहं तत्र च हेरम्ब जयं देहि विशेषतः ॥ ९३॥ मदीयस्य च नाम्नो वै महिमानं महाद्भुतम् । कुरु सर्वत्र मान्यं मां कीर्तियुक्तं गजानन ॥ ९४॥ एवं तस्य वचः श्रुत्वा हेरम्बो राममब्रवीत् । यथा सम्प्रार्थितं विष्णो तथाऽस्तु तव नित्यदा ॥ ९५॥ मदीयस्मरणेनैव सर्वं ते सुलभं भवेत् । तव नामप्रभावेण तरिष्यन्ति तु जन्तवः ॥ ९६॥ एवमुक्त्वा गणेशानोंऽतर्धानं प्रचकार ह । रामो लक्ष्मणसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ ९७॥ ततोऽगस्त्यं समानीय रामो विपेन्द्रसत्तमैः । मूर्तिं संस्थापयामास हेरम्बस्य विधानतः ॥ ९८॥ तदादिगणनाथस्तु हेरम्बः संस्थितोऽभवत् । विद्याधीशपुरे विप्र भक्तेभ्यः सर्वसिद्धिदः ॥ ९९॥ तं पूजयित्वा रामः स शोकहीनतया मुने । जगाम लक्ष्मणेनैव युक्तो रक्षोवधाय च ॥ १००॥ सुग्रीवं मित्रभावेन वानरैः सहितं मुने । कृत्वा च वालिनं हत्वा ययौ लङ्कां महाबलः ॥ १०१॥ हनूमदङ्गदाद्यैश्च सुग्रीवाद्यैश्च संवृतः । अन्यैर्जाम्बवदाद्यैश्च वानरैर्देवरूपिभिः ॥ १०२॥ (Page खं. ३ अ. २७ पान ५६) सलक्ष्मणश्च रामोऽयं युयुधे राक्षसैस्ततः । हत्वा राक्षससङ्घान् स कुम्भकर्णं जघान च ॥ १०३॥ लक्ष्मणश्चेन्द्रजेतारं मारयामास वेगतः । ततोऽतिकोपसंयुक्तो रावणो युयुधे भृशम् ॥ १०४॥ तेन सर्वे कपीन्द्राश्च हताः सम्मूर्च्छिताः कृताः । लक्ष्मणो मूर्च्छितस्तत्र भृशं रामश्च पीडितः ॥ १०५॥ शस्त्रास्त्राणि च रामस्य कुण्ठितानि विशेषतः । ततोऽतिविह्वलो रामः सस्मार गणनायकम् ॥ १०६॥ स्मृतिमात्रेण रामस्य हृदि चिन्तामणिः स्वयम् । ददौ स्फूर्तिं तथा रामो जघान रावणं मुने ॥ १०७॥ स्वयं बुद्धिपतिः साक्षाद्रामार्थं बुद्धिदोऽभवत् । बुद्ध्यधीनं विशेषेण जगद्ब्रह्म महामुने ॥ १०८॥ ततो हत्वा महावीरं रावणं रविवंशजः । रामश्चकार लङ्कायां राजानं च बिभीषणम् ॥ १०९॥ ययौ सीतां विमानेन सङ्गृह्य नगरे स्वके । चकार राज्यमुग्रं वै सदा धर्मेण धर्मवित् ॥ ११०॥ सीतयाऽऽसक्तचित्तः स व्यस्मरत् ज्ञानमुत्तमम् । गाणेशं च ततस्तस्य वियोगः सीतयाऽभवत् ॥ १११॥ अश्वमेधादिकं कृत्वा संस्थितो राज्यकर्मणि । ततो वसिष्ठयोगेन पुनर्ज्ञानमवाप ह ॥ ११२॥ ततः शान्तिसमायुक्तो गणेशं मनसा सदा । पुपूज भक्तिसंयुक्तो बहिर्मूर्तिधरं मुने ॥ ११३॥ अन्ते जगाम रामः स विकुण्ठं विष्णुरव्ययः । तत्र तं गणनाथं सोऽभजतानन्यचेतसा ॥ ११४॥ इदं रामचरित्रं यः श‍ृणुते भक्तिसंयुतः । पठेद्वा भुक्तिदं तस्य मुक्तिदं प्रभविष्यति ॥ ११५॥ अयं महोदरस्यैवावतारस्ते महामुने । हेरम्बाख्यस्तथा प्रोक्तः श्रवणात् सर्वसिद्धिदः ॥ ११६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रामचन्द्रचरितं नाम षड्विंशतितमोऽध्यायः ॥ ३.२६

३.२७ सूर्यवालखिल्यसंवादसमाप्तिवर्णनं नाम सप्तविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नरनारायणवूचतुः । इत्यादि राजमाहात्म्यं वक्तुं नैव प्रशक्यते । सर्वं मायामयं विद्धि मार्कण्डेय विशेषतः ॥ १॥ ब्रह्मणा सृष्टमापूर्णं विष्णुना पालितं तथा । हरेण संहृतं सर्वं ब्रह्माण्डं मायया कृतम् ॥ २॥ अनन्तानि च सर्वत्र ब्रह्माण्डानि स्थितानि वै । महाकारणरूपेण सन्धृता विद्धि मानद ॥ ३॥ मायात्मकानि सर्वाणि ज्ञातव्यानि विशेषतः । भ्रमनाशेन योगेन ज्ञायन्ते नात्र संशयः ॥ ४॥ मनोवाणीमयं सर्वं भ्रमरूपं प्रकथ्यते । मनोवाणीविहीनं वै तदेवं तादृशं मतम् ॥ ५॥ धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमेव च । भ्रमेण मायया विप्र भासते योगिनां हृदि ॥ ६॥ रामस्य चरितं पूर्णं कथितं ते समासतः । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यावो निजाश्रमम् ॥ ७॥ भानुरुवाच । तयोर्वचनमाकर्ण्य मार्कण्डेयश्च तौ पुनः । (Page खं. ३ अ. २७ पान ५७) जगाद प्रणतो भूत्वा योगार्थं पूर्णभावतः ॥ ८॥ मार्कण्डेय उवाच । नरनारायणौ देवौ भवद्भ्यां पावितोऽह्यहम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥ ९॥ अतो गणेशयोगं मे वदतं येन चाप्यहम् । रामवच्छान्तिमाश्रित्य ब्रह्मभूतो भवामि च ॥ १०॥ नरनारायणावूचतुः । गणेशयोगमार्गं ते वदिष्यावः सुयुक्तितः । न शक्तिस्तं वर्णयितुं मनसाऽपि मुनीश्वर ॥ ११॥ चित्तं पञ्चविधं विप्र तत्र चिन्तामणिः स्थितः । पञ्चवृत्तिनिरोधेन लभ्यते नात्र संशयः ॥ १२॥ भ्रान्तिदा सर्वभावेषु सिद्धिः सर्वत्र संस्थिता । भ्रान्तिधारकरूपा वै बुद्धिः सा कथ्यते बुधैः ॥ १३॥ तयोर्बिम्बं च यत् प्रोक्तं तदेव गणनायकः । मोहयुक्तः स्वभावेन खेलते मुनिसत्तम ॥ १४॥ बिम्बिभावं परित्यज्य भव त्वं गणनायकः । अहं गणेशरूपश्च योगोऽयं शान्तिदायकः ॥ १५॥ चित्तं पञ्चविधं त्यक्त्वा तदैश्वर्यं भ्रमात्मकम् । अधुना गणनाथो वै त्वं योगेन भविष्यसि ॥ १६॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणी विहीनं च णकारः कथ्यते बुधैः ॥ १७॥ तयोः स्वामी गणेशानो वेदे पश्य महामुने । तं भजस्व ततः शान्तिं गच्छसि त्वं न संशयः ॥ १८॥ एवमुक्त्वा वालखिल्या नरनारायणावृषी । विरेमतुरथैवं तं जानीत गणनायकम् ॥ १९॥ तौ प्रणम्य पुनः प्राह मार्कण्डेयः प्रतापवान् । धन्योऽहं भवतोश्चैव दर्शनेन महामुनी ॥ २०॥ मायां मोहकरीं नाथौ द्रष्टुमिच्छामि शाश्वतीम् । दर्शयेतं महामायां भगवन्तौ नमाम्यहम् ॥ २१॥ भानुरुवाच । तथेति तं वालखिल्या ऊचतुर्मुनिसत्तमौ । पश्यसि त्वं महामायां मार्कण्डेय न संशयः ॥ २२॥ आज्ञां प्रगृह्य तेनैव पूजितौ योगिनां वरौ । ययतुः स्वाश्रमं योगाद्गाणपत्यौ महर्षयः ॥ २३॥ ततः कदाचिद्विप्रेन्द्रो मार्कण्डेयः स्व आश्रमे । संस्थितो योगिनौ ध्यात्वा मायादर्शनलालसः ॥ २४॥ ततोऽकस्मात् प्रशुश्राव महानादं समुद्भवम् । भयभ्रान्तोऽभवत् सोऽपि ततो मेघा जगर्जिरे ॥ २५॥ हस्तिहस्तोपमाभिस्ते धाराभिर्ववृषुस्ततः । मेघैस्तत्र जगत् सर्वं मज्जितं पश्यतो मुनेः ॥ २६॥ ततः समुद्रजेनैव जलेन प्लावितं महत् । सर्वं चराचरं तत्र बभ्राम मुनिसत्तमः ॥ २७॥ मत्स्यादिभिश्च विप्रेन्द्रः किञ्चित् क्षतयुतः कृतः । सस्मार गणनाथं स मार्कण्डेयोऽतिविह्वलः ॥ २८॥ ततो ददर्श तत्रैव वटपत्रस्थितं शिशुम् । अङ्गुष्ठपर्वमात्रं स विष्णुं सर्वार्थदं परम् ॥ २९॥ तं प्रणम्य प्रतुष्टाव मार्कण्डेयो महर्षयः । अथर्वशिरसा देवं सन्तुष्टं स चकार ह ॥ ३०॥ उवाच तं स विप्रेन्द्रं किमिच्छसि महामुने । वद तेऽहं प्रदास्यामि वरदो नात्र संशयः ॥ ३१॥ तं प्रणम्य तथोऽवाच मार्कण्डेयः प्रसन्नधीः । मायां दर्शय मे विष्णो तां ज्ञात्वा सन्त्यजाम्यहम् ॥ ३२॥ ततस्तं विष्णुरूपः स बालको भक्तियन्त्रितः । जगाद हास्यसंयुक्तो भक्तरक्षणतत्परः ॥ ३३॥ (Page खं. ३ अ. २७ पान ५८) बालविष्णुरुवाच । पश्य मायां महर्षे त्वं ज्ञानदृष्ट्या महामुने । ज्ञानचक्षुर्मया दत्तं तुभ्यं भक्तिप्रभावतः ॥ ३४॥ मार्कण्डेयस्ततो विप्रा ज्ञानचक्षुःसमन्वितः । मायामपश्यदानन्दान्नानाभावप्रकाशिनीम् ॥ ३५॥ व्याप्यव्यापकरूपेण द्विजाः सर्वत्र संस्थिताः । नानागुणविभेदेन मोहयन्ति नरान् सदा ॥ ३६॥ कुत्र ब्रह्माण्डनाशश्च कुत्र ब्रह्माण्डपालनम् । कुत्रोत्पत्तिश्च विप्रेन्द्रा दृश्यते तेन योगिना ॥ ३७॥ कुत्र शून्यमयं कुत्र पूर्णरूपं तथा पुनः । ध्यानसंस्थं परं ब्रह्म ददर्श मुनिसत्तमः ॥ ३८॥ कुत्र योगार्थमत्यन्तं नराः परमभाविकाः । लिप्यन्ते कुत्र भोगार्थं मोक्षार्थं कुत्रचिद् द्विजाः ॥ ३९॥ पुनः पुनश्च सृज्यन्ते म्रियन्ते च पुनः पुनः । ईश्वरानेश्वराः कुत्र प्रभवन्तीश्वरा नराः ॥ ४०॥ अमृतं विषरूपं च विषं चामृतदायकम् । ददर्श तत्र विप्रर्षिः सूर्यं शीतत्वमास्थितम् ॥ ४१॥ स्थले जलं जले चैव स्थलं नानाविकारजम् । मुक्तं नरं तथा बद्धं ददर्श मुनिसत्तमः ॥ ४२॥ न प्रलेभे गतिं तत्रेश्वरो भ्रान्त्या ह्यनीश्वरः । जगच्च जगदात्मा वै ततोऽसौ विस्मितोऽभवत् ॥ ४३॥ एवं नानाविधं भावं ददर्श मुनिसत्तमः । न शक्यते मया वक्तुं वर्षकोटिशतैरपि ॥ ४४॥ ततस्तं परितुष्टाव बालविष्णुं महामुनिः । नानास्तोत्रैः सुतुष्टं स प्रार्थयामास भावतः ॥ ४५॥ निवर्तय हरे मायां कुरु मां पूर्ववद्यथा । इति प्रार्थयमानं स चक्रे स्वे चाश्रमे स्थितम् ॥ ४६॥ ततस्तत्र द्विजेन्द्रेण न दृष्टमिव तद्बभौ । यथा स्वप्नगतं जन्तुर्न ददर्श समुत्थितः ॥ ४७॥ न जलं नैव सामुद्रं भयं दुःखं न केशवः । बालरूपधरश्चैव न माया तेन विस्मितः ॥ ४८॥ वालखिल्यास्ततो विप्रस्त्यक्त्वा मायां भ्रमात्मिकाम् । गणेशभजने सक्तोऽजपद्वै मन्त्रमुत्तमम् ॥ ४९॥ नरनारायणाभ्यां यः कथितो योग उत्तमः । हेरम्बमन्त्रभावेन साधयामास तं पुनः ॥ ५०॥ रामेण साधितः पूर्वं तथा तेनाऽपि साधितः । योगः शान्तिप्रदः पूर्णो गाणपत्यस्वभावतः ॥ ५१॥ योगशान्तिपरो भूत्वाऽभजत्तं गणनायकम् । अनन्यचेतसा सोऽपि मार्कण्डेयः सुयोगवित् ॥ ५२॥ अन्ते गणेशदेहे स सायुज्यं प्राप भक्तितः । एवं नानाविधा विप्रा गाणेशाः सम्भवन्ति वै ॥ ५३॥ एतन् मृकण्डपुत्रस्य चरितं यः श‍ृणोति वा । पठेत्तु तस्य वै मायाबन्धो न प्रभविष्यति ॥ ५४॥ महोदरो भवेद्देवो हेरम्बाख्यः प्रकीर्तितः । विद्याधीशपुरे भक्तिसिद्धिदस्तत्र तिष्ठति ॥ ५५॥ अतोऽहं गणनाथं तं प्रभजे वालखिल्यकाः । योगभावेन संसाध्यं कृत्वा भक्तिसमन्वितः ॥ ५६॥ मुद्गल उवाच । एवं भानोर्वचः श्रुत्वा प्रणेमुर्वालखिल्यकाः । रविं सर्वत्र चात्मानं तुष्टुवुर्विविधैः स्तवैः ॥ ५७॥ ऊचुः प्राञ्जलयस्ते तं भानुं सर्वप्रियं पुनः । कृतकृत्याः कृता भानो वयं देव न संशयः ॥ ५८॥ (Page खं. ३ अ. २८ पान ५९) किं प्रदद्मो महात्मंस्त्वां देहोऽयं ते समर्पितः । तेन तुष्टो भव स्वामिन् गुरुरस्माकमादरात् ॥ ५९॥ ततः सर्वे पुपूजुस्तं वालखिल्यास्तपोधनाः । प्रणम्य प्रययुस्ते वै तपसे वनमुत्तमम् ॥ ६०॥ साधयित्वा यथायोगं श्रुतमत्र प्रजापते । योगिनः सर्ववन्द्यास्ते सम्बभूवुर्विशेषतः ॥ ६१॥ हेरम्बं भजमानाश्च नित्यं ध्यानपरायणाः । अनन्यबुद्धयः सर्वे योगशान्तिं प्रलेभिरे ॥ ६२॥ हेरम्बाख्यावतारश्च महोदरकलात्मकः । कथितस्ते प्रजापाल नानाख्यानसमन्वितः ॥ ६३॥ एतादृशाऽवताराश्च बहवस्तस्य मानद । महोदरस्य तेषां यच्चरित्रं परमाद्भुतम् ॥ ६४॥ नैव शक्यं कथयितुं तत् केनाऽपि न संशयः । अतः सङ्क्षेपतः प्रोक्तं मया दक्ष प्रजापते ॥ ६५॥ सूर्यस्य वालखिल्यानां संवादः परमाद्भुतः । ब्रह्मभूयप्रदः प्रोक्तो धर्मकामार्थमोक्षदः ॥ ६६॥ प्रभवेत् स विशेषेण सर्वसम्पत्प्रदायकः । मोहनाशकरः पूर्णः श्रोतुमिच्छसि किं पुनः ॥ ६७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यवालखिल्यसंवादसमाप्तिवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥ ३.२७

३.२८ बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत त्वया महाख्यानं कथितं सर्वसिद्धिदम् । श्रुत्वा तृप्तिं न यामीहाऽमृतं पीत्वा यथा नरः ॥ १॥ पुनस्त्वं वद मे ब्रह्मन् भवेद्दक्षेण संश्रुतम् । मुद्गलान् मुनिमुख्याच्च सर्वेषां सम्मतं परम् ॥ २॥ सूत उवाच । सूर्यस्य वालखिल्यानां संवादं ब्रह्मदायकम् । श्रुत्वा पप्रच्छ तं दक्षो मुद्गलं विनयान्वितः ॥ ३॥ दक्ष उवाच । श्रुतं हेरम्बमाहात्म्यं ब्रह्मभूतपदप्रदम् । पुनस्त्वं वद विप्रर्षे महोदरचरित्रकम् ॥ ४॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते योगिसत्तम । कथां ब्रह्ममयीं पूर्णां सुधारससमां पराम् ॥ ५॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा हृष्टरोमा महायशाः । जगाद तं प्रजापालं यत्तच्छृणु हि शौनक ॥ ६॥ मुद्गल उवाच । युधिष्ठिरेण देवेशो मानप्रद महोदरः । आराधितो विशेषेण योगी सोऽभूच्च पाण्डवः ॥ ७॥ दक्ष उवाच । युधिष्ठिरस्य विप्रर्षे चरित्रं वद साम्प्रतम् । प्रारभ्य चन्द्रवंशाच्च तदन्तं पुण्यदं भवेत् ॥ ८॥ मुद्गल उवाच । अत्रिनेत्रात् समुत्पन्नश्चन्द्रोऽमृतमयः पुरा । तेनातितपसा देवः सेवितो गणनायकः ॥ ९॥ गणेशवरदानेन ताराणामधिपोऽभवत् । ओषधीनां च विप्राणां योगयुक्तः प्रतापवान् ॥ १०॥ ततः स राजा मोहेन मोहितोऽतितरां विभो । गणेशभजनं त्यक्त्वा भोगयुक्तो बभूव ह ॥ ११॥ ततो विघ्नेन वै चन्द्रः पीडितो मोहसंयुतः । मोहेन गर्हितं कर्म यच्चकार श‍ृणुष्व तत् ॥ १२॥ (Page खं. ३ अ. २८ पान ६०) बृहस्पतेश्च या नारी तारा यौवनशालिनी । रूपेणाप्रतिमा तां स जगृहे तीर्थसंश्रिताम् ॥ १३॥ मा मेति ब्रुवतीं तारां हाहाकारं प्रकुर्वतीम् । गुरुपत्नीं महामूर्खश्चुचुम्ब हठसंयुतः ॥ १४॥ वनेषु पर्वतद्रोण्यां नानाभावेषु सोऽत्रिजः । रेमे तया प्रजापाल कामबाणप्रपीडितः ॥ १५॥ ततो बहौ गते काले गर्भस्तस्यां व्यवर्धत । न मुमोच तदाऽप्येतां मोहयुक्तश्च चन्द्रमाः ॥ १६॥ बृहस्पतिश्च तं ज्ञात्वा वृत्तान्तं क्षुभितो भृशम् । नानायत्नेन चन्द्रं स ययाचे न ददौ शठः ॥ १७॥ ततश्च गुरुणा दक्ष शिवस्तेन प्रसादितः । शम्भुरङ्गिरसः शिष्यः स वै क्रोधयुतोऽभवत् ॥ १८॥ देवैरिन्द्रादिभिः सर्वैः शङ्करः क्रोधसंयुतः । हन्तुं चन्द्रं ययौ तत्र क्रोधारुणविलोचनः ॥ १९॥ भयभीतः शशी तत्र शुक्रं स शरणं ययौ । तेनाप्याङ्गिरस्यैव वैरी सम्पादितोऽभवत् ॥ २०॥ शुक्रेणाकारिता दैत्याः प्रह्लादप्रमुखा ययुः । सङ्ग्रामाय शिवेनैव ससुरेण महाबलाः ॥ २१॥ ततस्तेषामभूद्युद्धं तुमुलं रोमहर्षणम् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥ २२॥ मासमात्रं महोग्रं तन्न शान्तिमलभन् कदा । दिवारात्रं देवगणा दैत्यानां च गणा विभो ॥ २३॥ ततो बृहस्पतिर्दुःखात् सस्मार गणनायकम् । निन्दयामास चात्मानं तथा चन्द्रं प्रजापते ॥ २४॥ अहो भ्रातृविरोधेन मम ज्ञानं गतं महत् । गतो गणेशस्तेनाऽहं विघ्नयुक्तोऽधुनाऽभवम् ॥ २५॥ मदर्थं देवदैत्यानामधुना नाश आगतः । किं भविष्यति देवेश गजानन नमोऽस्तु ते ॥ २६॥ निर्विघ्नं कुरु मां ढुण्ढेऽधुना देव दयानिधे । देवानां चैव दैत्यानां मूलच्छेदो भविष्यति ॥ २७॥ तथा चन्द्रः स तं देवं सस्मार हृदि भावतः । ततो विघ्नहरश्चैव तयोर्दक्ष बभूव ह ॥ २८॥ तत्राऽऽजगाम देवेशो ब्रह्मा सर्वपितामहः । देवानां दानवानां वै ज्ञात्वा नाशं दयान्वितः ॥ २९॥ शङ्कराद्यांश्च देवान् स प्रह्लादाद्यांश्च दानवान् । वारयामास सर्वज्ञो विधाता सर्वभावनः ॥ ३०॥ ब्रह्मणो वचनं श्रुत्वा संस्थिता देवदानवाः । प्रणम्य तं विधातारं बद्धाञ्जलिपुटाः पुरः ॥ ३१॥ चन्द्रं ततस्तिरस्कृत्य ददौ तारां पितामहः । गुरवे तत्र संवादः पुत्रार्थं च तयोरभूत् ॥ ३२॥ ताराया उदरे गर्भो वा चन्द्रस्य बृहस्पतेः । न ज्ञायते देवगणैस्ततस्तां विधिरब्रवीत् ॥ ३३॥ त्यज गर्भं महाभागे कस्यांऽशोऽयं वद स्नुषे । तथा तया च सन्त्यक्तो गर्भः सम्पतितोऽभवत् ॥ ३४॥ महातेजोमयं पुत्रं वीक्ष्य देवा विसिस्मिरे । लज्जयाऽधोमुखी तारा कथयामास नैव तम् ॥ ३५॥ ततो गर्भः स्वयं तत्रोवाच ब्रह्माणमादरात् । चन्द्रस्याऽहं न सन्देहस्तं ताराऽपि तथाऽब्रवीत् ॥ ३६॥ तस्य नाम कृतं देवैर्बुधस्तेन सुकर्मणा । चन्द्राय तं ददौ धाता सर्वे स्वस्वालयं ययुः ॥ ३७॥ एवं पुरा तारकार्थे सङ्ग्रामस्तारकामयः । बभूव परमुग्रश्च दैत्यदेवविनाशकृत् ॥ ३८॥ (Page खं. ३ अ. २९ पान ६१) बुधस्य चरितं पूर्णं कथितं ते प्रजापते । पुरूरवास्तस्य पुत्रो बभूवाऽपि महायशाः ॥ ३९॥ इलायां गर्भसन्दानात्तस्य जन्म मया पुरा । कथितं सोऽपि राजर्षिः पितृतृप्तिकरोऽभवत् ॥ ४०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः ॥ ३.२८

३.२९ पुरूरवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरूरवाश्चकाराऽसौ राज्यं भूमण्डलस्य च । धर्मयुक्तः सुनीत्या तान् पालयामास मानवान् ॥ १॥ मुनिशापसमायुक्तोर्वशी नृपतिमाययौ । कुरुक्षेत्रे चरन्तं स चकमे तां महीपतिः ॥ २॥ सोवाच पुत्रतुल्यौ मे उरणौ रक्षसि प्रभो । रतिं विना स्वदेहं त्वं नग्नं मा दर्शयस्व माम् ॥ ३॥ तदा तव गृहे राजन् वसामि घृतभोजना । तथेति स तु भूपस्तां सङ्गृह्य गृहमाययौ ॥ ४॥ तस्यां पुत्रा बभूवुश्च षडिन्द्रसमतेजसः । आयुर्मायुरमायुश्च विश्वायुश्च तथा प्रभो ॥ ५॥ शतायुः स्थायुरेते च नामभिः परिकीर्तिताः । चन्द्रवंशकराः सर्वे बभूवुर्जयशालिनः ॥ ६॥ तत इन्द्रेण गन्धर्वाः प्रेषिता राजवेश्मनि । उर्वशीनयनार्थं वै विश्वावसुपुरोगमाः ॥ ७॥ तैर्मायाप्रकृती तत्र रात्रौ तस्याः समाहृतौ । उरणौ च तथा ताभ्यां शब्दैः प्ररुदितं भृशम् ॥ ८॥ तयो रुदनमाकर्ण्य राजानं रभसाज्जगौ । उर्वशी वीर्यहीनं त्वां न जानामि नरेश्वरम् ॥ ९॥ मम पुत्रौ हृतौ केन चौरेण किमु पश्यसि । तस्या वचनमाकर्ण्य क्रोधरूपो बभूव सः ॥ १०॥ नग्नः खड्गधरः सद्यो निर्ययौ भाविगौरवात् । विद्युत्पातस्तथा तत्र समभूद्देवनिर्मितः ॥ ११॥ तेजसा विद्युतस्तत्र राजा नग्नो बभौ गृहे । तथा तमुर्वशी दृष्ट्वांऽतर्धानं सा चकार वै ॥ १२॥ मेषौ प्रगृह्य गन्धर्वा गताः स्वर्गं विहायसा । उर्वशीसहिताः शक्रं प्रणेमुर्हर्षसंयुताः ॥ १३॥ राजा स्वगृहमध्ये तां न ददर्श यशस्विनीम् । तदा पपात भूपृष्ठे हाहाकृत्वा मुमूर्च्छ सः ॥ १४॥ तथाविधो महाराजो विललाप पुरूरवाः । बभ्राम वसुधां सर्वामुर्वशीदर्शनोत्सुकः ॥ १५॥ ततो बहौ गते काले वर्षमात्रे दयायुताम् । कुरुक्षेत्रे पुनस्तां स दृष्टवान् हर्षितोऽभवत् ॥ १६॥ मां त्यक्त्वा क्व गताऽसि त्वं प्रिये ते भक्तिसंयुतम् । अधुना मां गृहाण त्वं त्यज मा चाप्सरोवरे ॥ १७॥ ततस्तेन समायुक्ता रात्रिमेकामुवास सा । उवाच तं तु राजानं शोकयुक्तं वचो हितम् ॥ १८॥ अहं देवाप्सरो रम्या गन्धर्वाऽधीनतां गता । अतस्तं पितृयज्ञेन यज त्वं नित्यमादरात् ॥ १९॥ ततः स्वर्गे च ते वासो भविष्यति महामते । (Page खं. ३ अ. २९ पान ६२) त्वदधीना भविष्यामि नित्यं राजन्न संशयः ॥ २०॥ ततः शोकाकुलो राजा रुरोदातीव दारुणम् । सा तथा विह्वलं दृष्ट्वोवाच देवाङ्गना च तम् ॥ २१॥ वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् । त्वया सार्द्धं महाभाग ततः सांऽतर्हिताऽभवत् ॥ २२॥ राज्ञाऽपि तादृशं तत्र कृतं नित्यं प्रजापते । तेन पितृगणास्तुष्टा वरं राज्ञे ददौ परम् ॥ २३॥ उर्वशी त्वदधीना सा भविष्यति महामते । तव नामाङ्किता देवाः श्राद्धेऽस्माकं भवन्तु च ॥ २४॥ अक्षयः पितृलोकस्ते भविष्यति न संशयः । एवमुक्त्वांऽतर्दधुस्ते पितरो भक्तवत्सलाः ॥ २५॥ ततः स्वल्पेन कालेन भूमिपो निधनं गतः । स्वर्गं पुण्यबलेनैव जगाम स पुरूरवाः ॥ २६॥ तत्रोर्वशी समायुक्तो बुभुजे विषयप्रियः । भोगान् स्वर्गोद्भवान् नित्यं तामवाप्य पुरूरवाः ॥ २७॥ ततो बहौ गते काले पितृलोके गतेन सः । नारदेन महीपालो बोधितो दयया विधे ॥ २८॥ नारद उवाच । किं राजंस्त्वं महाभाग विषयेषु विशेषतः । सक्तः पश्य स्वमात्मानं पतिष्यसि न संशयः ॥ २९॥ देहोऽयं बन्धनागारं तत्र त्वं निगडेन च । बद्धस्तस्माच्च योगेन बन्धहीनो भव प्रभो ॥ ३०॥ पुनः पुनश्च भोगाः किं भोक्तव्यास्तादृशास्त्वया । न तृप्तिमधिगच्छन्ति जना अज्ञानसंयुताः ॥ ३१॥ ब्रह्मामृतं पिब त्वं च सदा स्वानन्ददायकम् । तत्त्यक्त्वाऽल्पसुखे सक्तः पतिष्यसि पुनर्ह्यधिः ॥ ३२॥ चतुरशीति लक्षासु नरो भ्रमति योनिषु । तत्र स्त्रीपुत्रकाद्यं स लभते नाऽत्र संशयः ॥ ३३॥ मनुष्ययोनिगो भूत्वा नरः सर्वार्थवान् भवेत् । तत्र ज्ञानं विशेषेण भवत्यत्र न संशयः ॥ ३४॥ कर्मार्हो नरदेहोऽयं तत्र योगो न साधितः । पतिष्यति पुनः सोऽपि नानायोनिषु मानद ॥ ३५॥ द्वन्द्वभावमयं दुःखं यत्र तत्र च विन्दति । न शाश्वतस्वरूपं स ब्रह्म भुङ्क्ते नरः कदा ॥ ३६॥ त्वमपि ज्ञानयुक्तः सन् किं करोषि महामते । तारयस्व स्वमात्मानं योगेन नरसत्तम ॥ ३७॥ नारदस्य वचः श्रुत्वा तं जगाद नराधिपः । सत्यमुक्तं त्वया योगिन् मया तच्चैव सन्धृतम् ॥ ३८॥ अहं विषयदोषेण पीडितोऽतितरां प्रभो । निर्वेदं मे मनः प्राप्तं ज्ञानं ब्रूहि महामुने ॥ ३९॥ नारद उवाच । गणेशं भज भावेन ततः क्षेमं भविष्यति । एकाक्षरविधानेन सर्वेभ्यश्च परात्परम् ॥ ४०॥ हृदि बुद्धिप्रदातारं बहिः सिद्धिप्रदं परम् । योगाकारं च सर्वत्र संस्थितं ब्रह्मनायकम् ॥ ४१॥ चित्तं त्यक्त्वा महाराज भव चिन्तामणिः स्वयम् । एवमुक्त्वा च तस्मै स ददावेकाक्षरं मनुम् ॥ ४२॥ ततस्तेनाभ्यनुज्ञातो नारदः प्रजगाम ह । सोऽपि तामुर्वशीं त्यक्त्वा ध्यानसंस्थो बभूव ह ॥ ४३॥ कालेन स्वल्पभावेन गाणपत्यो बभूव ह । ततः स निन्दयामास स्वात्मानं भृशदुःखितः ॥ ४४॥ (Page खं. ३ अ. ३० पान ६३) अहो मयाऽतिमूर्खेण कृतं कर्म विशेषतः । भोगदं मोहितेनैव स्त्रीकामेन न संशयः ॥ ४५॥ अस्थिमांसमयो देहस्तत्र दुर्गन्धसंयुतः । छिद्रं मूत्रगृहं नीचं तत्र सक्तो भवाम्यहम् ॥ ४६॥ सर्वार्थदं मनुष्याणां देहं प्राप्य मया सदा । नरकाधिप्रदं कर्म कृतं वै नात्र संशयः ॥ ४७॥ नरदेहमवाप्यैव मद्विना को भवेच्छठः । स्त्रीसंसक्तो विशेषेण त्यक्त्वा गणपतिं नरः ॥ ४८॥ एवं खेदसमायुक्तो बभूव नृपसत्तमः । अभजत्तं स्वभावेन गणेशं सर्वसिद्धिदम् ॥ ४९॥ अन्ते जगाम योगेन गणेशं स पुरूरवाः । महिमा कथितस्तस्य पापनाशकरो यतः ॥ ५०॥ पुरूरवस आख्यानं यः श‍ृणोति नरोत्तमः । पापक्षयकरं तस्य भवतीदं प्रजापते ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पुरूरवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः ॥ ३.२९

३.३० नहुषचरितं नाम त्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आयुषस्तनया दक्ष पञ्चाऽऽसन् दृढविक्रमाः । स्वर्भानुतनयायां वै प्रभायां तेजसा युताः ॥ १॥ नहुषः प्रथमस्तेषां शक्रतुल्यपराक्रमः । चकार शतयज्ञांश्च राज्ञः सर्वान् विजित्य यः ॥ २॥ तत्रेन्द्रः क्षुभितोऽत्यन्तं निराकर्तुं शशाक न । राजानं सर्वशास्त्रज्ञं ततः शान्तो बभूव ह ॥ ३॥ गौतमेन महेन्द्रोऽथ शापितस्त्रीप्रधर्षणात् । भ्रष्टराज्योऽभवद्देवस्ततो देवा भयातुराः ॥ ४॥ दैत्यानां वेगमुग्रं ते सहने न क्षमास्ततः । बृहस्पतिं समागम्य पप्रच्छुः क्षेमकारकम् ॥ ५॥ तेनाज्ञप्तास्ततो देवा मुनयश्च प्रजापते । नहुषं स्वर्गराजं तं चक्रुस्तेजस्विनां वरम् ॥ ६॥ देवेन्द्रो नहुषो भूत्वा शशास स्वर्गमण्डलम् । इन्द्रासने समासीनः पालयामास तान् सुरान् ॥ ७॥ तस्मै वरं ददौ देवा मुनयस्ते प्रजापते । क्रोधेन यस्त्वया दृश्यः सत्ताहीनो भवेत् सदा ॥ ८॥ ततोऽतितेजसा युक्तो बभूव स नराधिपः । देवादिभिः सदा दक्ष सेवितो नहुषः किल ॥ ९॥ ततोऽतिगर्वितो राजाऽभवत् स्त्रीसङ्गलालसः । शचीं देवैश्च निर्लज्ज आह्वयामास दुर्मतिः ॥ १०॥ देवानुवाच सा देवी नाहं यामि नराधिपम् । इन्द्रस्य देवमुख्यस्य पत्न्यहं पुरुषं परम् ॥ ११॥ एवमुक्त्वा ततो देवान् ययौ गेहं बृहस्पतेः । ननाम तं महाभागा स्नुषां रक्षेति साऽब्रवीत् ॥ १२॥ तस्या वृत्तान्तमुग्रं स श्रुत्वा देवगुरुः स्वयम् । निकटे तां समास्थाप्य इन्द्रार्थं ह्युद्यतोऽभवत् ॥ १३॥ गौतमं सहसाऽऽगत्य तमुवाच महामुनिम् । शापहीनं महेन्द्रं त्वं कुरुष्व वचनाच्च मे ॥ १४॥ (Page खं. २ अ. ३० पान ६४) तमुवाच महायोगी गौतमः किं करोम्यहम् । उपायं वद मे तात तं करिष्ये जवादहम् ॥ १५॥ गौतमाय ततस्तेन कथितं सुखदं परम् । विनायकस्य मन्त्रं त्वं देहीन्द्राय महामुने ॥ १६॥ गौतमेन तदा दत्तः स्वमन्त्रो गणपस्य च । इन्द्राय स ततस्तेनाऽभवच्छक्रश्च नीरुजः ॥ १७॥ जजाप मन्त्रराजं तं शक्रो गणपतेस्ततः । ध्यात्वा तं देवदेवेशं तताप तप उत्तमम् ॥ १८॥ विदर्भे निर्जने देवो वने वाय्वशनः स्वयम् । नासाग्रन्यस्तदृष्टिः स पूजयामास विघ्नपम् ॥ १९॥ गते वर्षसहस्रे वै तं ययौ भक्तवत्सलः । गणेशानो वरं दातुं तपसा तोषितो भृशम् ॥ २०॥ सिंहारूढो महाबाहुश्चतुर्भुजविराजितः । सिद्धिबुद्धियुतश्चैव नाभिशेषधरः प्रभुः ॥ २१॥ इन्द्रं स बोधयामास वरं ब्रूहि हृदीप्सितम् । मघवंस्ते प्रसन्नोऽहं दास्यामि तपसाऽधुना ॥ २२॥ ततस्तं प्रणनामाऽथ इन्द्रो भक्तिसमन्वितः । तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥ २३॥ इन्द्र उवाच । नमस्तेऽस्तु गणाध्यक्ष भक्तेभ्यः सिद्धिदायक । विनायकाय देवाय हेरम्बाय नमो नमः ॥ २४॥ अनादये च सर्वेषामादिभूताय ते नमः । आदिपूज्याय विघ्नेश सर्वपूज्याय वै नमः ॥ २५॥ आदिमध्यान्तहीनाय ह्यादिमध्यमयाय च । अन्त्यरूपाय देवेश विघ्नहर्त्रे नमो नमः ॥ २६॥ पाशाङ्कुशधरायैव सिंहवाहाय ते नमः । अमेयाय नमस्तुभ्यं नानामायाधराय च ॥ २७॥ विघ्नकर्त्रे ह्यभक्तानां सदा स्वानन्दवासिने । सिद्धिबुद्धिपते तुभ्यं नाभिशेषाय ते नमः ॥ २८॥ ब्रह्मणे ब्रह्मरूपाय ब्रह्मदात्रे कृपालवे । धर्मार्थकाममोक्षाणां दात्रे ते वै नमो नमः ॥ २९॥ पूर्णाय पूर्णभावज्ञ पूर्णानन्दप्रदाय वै । कर्त्रे हर्त्रे च पात्रे ते गणेशाय नमो नमः ॥ ३०॥ सूक्ष्मेषु सूक्ष्मरूपाय स्थूलेषु स्थूलभोगिने । स्थूलसूक्ष्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ ३१॥ किं स्तौमि त्वां सदा शान्तिरूपं तस्मान्नमो नमः । तेन तुष्टो भव स्वामिन् दयाकाराय ते नमः ॥ ३२॥ मुद्गल उवाच । एवं स्तुतिं समाकर्ण्य मघवन्तमुवाच ह । गणेशो भक्तिभावेन सन्तुष्टो भक्तमुत्तमम् ॥ ३३॥ गणेश उवाच । इन्द्र त्वया कृतं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । यः पठेच्छृणुयाच्चेद्यस्तस्मै सर्वार्थदं तथा ॥ ३४॥ नित्यं त्वमपि देवेन्द्र पठ स्तोत्रं प्रयत्नतः । तेन विघ्नविहीनस्तु भविष्यसि महामते ॥ ३५॥ वरान् ब्रूहि महाभाग ये ते चित्ते भवन्ति वै । तान् दास्यामि न सन्देहो भक्त्या स्तोत्रेण तोषितः ॥ ३६॥ ततस्तं मघवा देवं प्रणम्याभिदधे वचः । निर्विघ्नं कुरु मां देव स्वपदस्थं तथा प्रभो ॥ ३७॥ भक्तिं त्वदीयपादे मे देहि नाथ नमोऽस्तु ते । इदं क्षेत्रं सुविख्यातं गाणपत्यं तथा कुरु ॥ ३८॥ तीर्थं च सर्वदं स्वामिन् कुरु ते पादलाञ्छितम् । स्वानन्ददायकं स्नानमात्रेणात्र न संशयः ॥ ३९॥ पुरे कदम्बनाम्न्येव गाणेशं चिन्तितार्थदम् । (Page खं. ३ अ. ३० पान ६५) लोके भवतु विख्यातं प्रसादात्ते च विघ्नप ॥ ४०॥ तथेति तमुवाचाऽथ गणेशोंऽतर्दधे ततः । इन्द्रेण गणनाथस्य मूर्तिः संस्थापिता द्विजैः ॥ ४१॥ तं पूजयित्वा देवेन्द्रः संस्थितस्तत्र मानद । नित्यं ध्यानपरो भूत्वाऽभजत्तं गणनायकम् ॥ ४२॥ अधुना श‍ृणु भो दक्ष नहुषस्य प्रचेष्टितम् । गणेशेन तदा राजा विघ्नयुक्तः कृतः खलः ॥ ४३॥ बृहस्पतिमुवाचाऽथ मृत इन्द्रो न संशयः । न दृश्यते जनैः कुत्र शचीं मे देहि भो गुरो ॥ ४४॥ ततस्तं वाक्पतिर्देवोऽवदत् क्रोधसमन्वितः । द्विजवाहनगो भूत्वा शचीं याहि नराधिप ॥ ४५॥ नानावाहेषु सा देवी देवेन्द्रेण प्रलालिता । अपूर्वं वाहनं चैवेच्छति तस्मात्तथा करु ॥ ४६॥ तथेति मदयुक्तः स चकार नहुषस्ततः । विमानवाहान् सङ्गृह्य दुरात्मा ब्राह्मणान् बलात् ॥ ४७॥ ततो दुःखं द्विजानां स ज्ञात्वाऽत्रेयः समाययौ । दुर्वासास्तं प्रगृह्यैव वाहकं स चकार ह ॥ ४८॥ ततोऽतिवेगभावार्थं सर्पध्वं ब्राह्मणान्नृपः । उवाच शिबिकायां स संस्थितो मोहसंयुतः ॥ ४९॥ दुर्वासाः कुपितोऽत्यन्तं ददौ शापं सुदारुणम् । सर्पो भव महादुष्ट पत भूमौ नृपाधम ॥ ५०॥ ततस्तं प्रणनामाऽथ गतगर्वो महीपतिः । उच्छापं वद मे ब्रह्मन् दयया त्वं दयानिधे ॥ ५१॥ धिङ् मां ब्राह्मणभावेषु विपरीतं प्रवर्तिनम् । मोहेन मोहितं पूर्णं तारयस्व महामुने ॥ ५२॥ ततस्तापसमायुक्तं नहुषं मुनिसत्तमः । दुर्वासाः प्रत्युवाचेदं वचनं दयया युतः ॥ ५३॥ दुर्वासा उवाच । तव वंशे महाराज धर्मः साक्षाद्भविष्यति । युधिष्ठिरस्तदा तस्य दर्शनं ते भविष्यति ॥ ५४॥ तेन सङ्कथितं ज्ञानं ज्ञात्वा शापविवर्जितः । भविष्यसि न सन्देहोऽधुना गच्छ महीतलम् ॥ ५५॥ द्विजाः पूज्याः सदा राजन्नृपैर्नान्ये कदाचन । त्वयाऽवमानिता विप्रा वाहकास्ते कृता बलात् ॥ ५६॥ तेनाऽतिधर्मलोपो वै जातस्ते नात्र संशयः । पुनर्धर्मं निरीक्ष्य त्वं धर्मयुक्तो भविष्यसि ॥ ५७॥ एवमुक्त्वा स दुर्वासा गतः स्वेच्छापरायणः । नहुषः सर्परूपोऽभूत् पपात धरणीतले ॥ ५८॥ तत इन्द्रं समानीय सामरश्च बृहस्पतिः । इन्द्रासने समास्थाप्य मुदितः स बभूव ह ॥ ५९॥ नहुषो वनमध्ये स चचार गणपं स्मरन् । अहो विघ्नयुतं सर्वं जगत् स्थावरजङ्गमम् ॥ ६०॥ अहं विघ्नेन संयुक्तः कृतो विघ्नेशरूपिणा । अतस्तं शरणं यामि तेन सर्वं शुभं भवेत् ॥ ६१॥ ततः क्रमेण तेनाऽपि जितं चित्तं प्रजापते । सर्पदेहगतेनैव गाणपत्यस्वभावतः ॥ ६२॥ ततो बहौ गते काले वनमायाद् युधिष्ठिरः । द्रौपद्याः भ्रातृभिः सार्द्धं द्यूतदोषेण निश्चितम् ॥ ६३॥ ततो भीमो वने तत्र चचार फलकाम्यया । नहुषेण समादृष्टो बद्धो ज्ञात्वा स पाण्डवः ॥ ६४॥ स्वदेहेनावृतं भीमं कृत्वा नागस्वरूपधृक् । पातयामास भूमौ तं बलेन बलवान्नृपः ॥ ६५॥ भीमेन तत्र नादश्च कृतो मेघसमो महान् । (Page खं. ३ अ. ३० पान ६६) तं श्रुत्वा धर्मराजः स ययौ भीमं महाबलम् ॥ ६६॥ सर्पेण वेष्टितं भीमं दृष्ट्वा दुःखसमन्वितम् । युधिष्ठिरं स तं तत्रोवाच नागो महाबलः ॥ ६७॥ नाग उवाच । अहं नहुषनामा ते नृपः पुत्र न संशयः । दर्शनार्थं मया चाऽयं भीमः सञ्जगृहेऽधुना ॥ ६८॥ अहं पृच्छामि राजंस्त्वां तद्वदस्व यथातथम् । तदा भीमं प्रमोक्ष्यामि सर्वज्ञस्त्वं मतो यतः ॥ ६९॥ नहुषस्य वचः श्रुत्वा हर्षितः स युधिष्ठिरः । तमुवाच महाभागं स्ववंशवरभूषणम् ॥ ७०॥ युधिष्ठिर उवाच । वद नाग महाभाग मान्योऽसि त्वं महामते । संशयं छेदयिष्यामि प्रसादात्तव मानद ॥ ७१॥ नहुष उवाच । किं सत्यं किं तथा राजन्ननृतं धर्ममुत्तमम् । पापं बन्धं च मोक्षं किं योगं ध्यानं वदस्व च ॥ ७२॥ किं कर्म किमकर्म त्वं किं विकर्म स्मृतं भवेत् । किं ज्ञानं किं तपोमूलं दैवतं किं वदस्व मे ॥ ७३॥ किं सारं किमसारं च किं मान्यं च तथा नृप । अवमान्यं च सर्वेशं किं वदस्व युधिष्ठिर ॥ ७४॥ एतान् वै वद मे वत्स तदा भीमं महामते । मोचयिष्यामि वेगेन गमिष्यामि यथेच्छया ॥ ७५॥ युधिष्ठिर उवाच । सत्यं ब्रह्म च विज्ञेयं जगद्वै ह्यनृतात्मकम् । धर्मः स्वधर्मरूपश्च जानीया राजसत्तम ॥ ७६॥ स्वधर्महीनं रूपं यत् पापं सर्वैः प्रकीर्तितम् । अहं ममात्मको बन्धो मोक्षस्ताभ्यां विवर्जितः ॥ ७७॥ योगश्चित्तस्य रोधो वै ध्यानं निर्विषयं मनः । कर्म सत्कर्मरूपं वै ज्ञातव्यं विबुधैः सदा ॥ ७८॥ ब्रह्मार्पणात्मकं सर्वमकर्म कथितं किल । विकर्म पापाचरणं सर्वशास्त्रैः प्रकाशितम् ॥ ७९॥ ज्ञानं ब्रह्माहमित्युक्तं तपो द्वन्द्वसमात्मकम् । दैवतं सर्वपूज्यं वै गाणेशं विद्धि मानद ॥ ८०॥ देवस्य भजनं सारं नवधा सततं नृप । असारं विषयाणां वै भजनं नवधा स्मृतम् ॥ ८१॥ मान्यं सङ्कथितं वेदैः पुराणैः स्मृतिभिर्भवेत् । वेदाधारविहीनं यदवमान्यं मनीषिभिः ॥ ८२॥ सर्वेशं हृदि संस्थं वै विद्धि बुद्धिप्रचालकम् । सर्वं ते कथितं स्वामिन् मोचयस्वाऽनिलात्मजम् ॥ ८३॥ एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् । दिव्यभोगसमायुक्तं तद्ददर्श युधिष्ठिरः ॥ ८४॥ मुमोच नहुषो भीमं तं तदा बन्धनात् प्रभो । देहं त्यक्त्वा विमानस्थो ययौ स्वर्गं नराधिपः ॥ ८५॥ तत्रेन्द्रस्य समीपे सोऽभवदर्धासनस्थितः । गणेशमभजन्नित्यं स नृपोऽनन्यचेतसा ॥ ८६॥ स्वर्गान्ते स गतो भूपः शुक्लगत्या गजाननम् । विघ्नहीनः स्वभावेन पुण्यश्लोको बभूव ह ॥ ८७॥ नहुषस्य चरित्रं ते कथितं पापनाशनम् । श‍ृणुयाद्वा पठेद्वाऽपि तस्मै कामप्रदं भवत् ॥ ८८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते नहुषचरितं नाम त्रिंशत्तमोऽध्यायः ॥ ३.३० (Page खं. ३ अ. ३१ पान ६७)

३.३१ ययातिचरितं नामैकत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नहुषस्याभवन् पुत्राः पञ्च देवसमा धिया । यभ्यातिश्च ययातिश्च तथा संयातिरायतिः ॥ १॥ पञ्चमश्चाश्वको नाम ययातिर्भूमिपोऽभवत् । माहात्म्यं तस्य मुख्यं ते कथयामि प्रजापते ॥ २॥ देवयानीमुशनसः स तां भार्यामवाप ह । वृषपर्वसुतां चैव शर्मिष्ठां राजसत्तमः ॥ ३॥ यदुं च तुर्वसं चैव देवयानी व्यजीजनत् । द्रुह्यं तद्वदनुं पूरुं शर्मिष्ठां वार्षपर्वणी ॥ ४॥ सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठान् पुत्रान् महामतिः । पूरुं कनिष्ठमेवं च पितुर्वाक्यपरायणम् ॥ ५॥ दक्ष उवाच । किमर्थं तेन भूपेन विपरीतं कृतं प्रभो । तत् सर्वं वद योगीन्द्र सादरेण श‍ृणोम्यहम् ॥ ६॥ मुद्गल उवाच । वृषपर्वा प्रजानाथ दैत्यानामधिपः स्मृतः । तस्य पुत्री महाभागा शर्मिष्ठा मानिताऽभवत् ॥ ७॥ तत्र शुक्रस्य पुत्री या देवयानी प्रकीर्तिता । साऽपि पित्रा स्ववात्सल्यात् स्थापिता लालिता भृशम् ॥ ८॥ सखीभिरेकदा बाला संवृता राजकन्यका । शर्मिष्ठा वाटिकायां सा हर्षयुक्ता जगाम ह ॥ ९॥ देवयानी तथा तत्र क्रीडार्थं सा समागता । तत्र नानाविधां क्रीडां चक्रिरे कन्यकाः प्रभो ॥ १०॥ ततस्ताः श्रमसंयुक्ता जग्मुः स्नानार्थमादरात् । तीरे क्षिप्त्वा स्ववस्त्राणि चिक्रीडुर्जलमध्यगाः ॥ ११॥ ततः सखीभिर्युक्ता सा शर्मिष्ठा निःसृता पुरः । सम्भ्रमेण तया वस्त्रं देवयान्या धृतं किल ॥ १२॥ निःसृता देवयानी वै दृष्ट्वा कर्म जुगुप्सितम् । राजपुत्रीमुवाचाऽथ भर्त्सयन्ती प्रजापते ॥ १३॥ ब्राह्मणस्य महादुष्टे पुत्र्यहं किं धृतानि वै । वस्त्राणि मे यथा पाकस्पर्शने च शुनी खले ॥ १४॥ द्वारपा लोमतः शास्त्रे ब्राह्मणानां विशेषतः । राजन्यस्तस्य पुत्री त्वं न योग्याऽसि कदाचन ॥ १५॥ एवं नानाविधैर्वाक्यैर्देवयानी च तां प्रभो । भर्त्सयामास सोवाच कुपिता तां पुनर्वचः ॥ १६॥ शर्मिष्ठोवाच । किमात्मानं च दुष्टे त्वं कथ्यसे मम सन्निधौ । राजप्रसादसंसर्गाद्ब्राह्मणा मानिता बभुः ॥ १७॥ अस्मदीयप्रसादेन वस्त्रान्नादिकमादरात् । भुक्त्वा मां स्पर्शसे दुष्टे बलिभुग्वायसी यथा ॥ १८॥ एवं नानाविधैर्वाक्यैस्तां निर्भर्त्स्य प्रजापते । सखीभिर्देवयानीं सा कूपे चिक्षेप चासुरी ॥ १९॥ ततः सा स्वगृहे क्रुद्धा प्रययौ दुःखिता भृशम् । देवयानी तथा कूपे संस्थिता जलवर्जिते ॥ २०॥ दैवयोगेन तत्राऽसौ ययातिः स जगाम ह । एकाकी मृगयासक्तः कूपस्थां तां ददर्श ह ॥ २१॥ ततोऽतिकरुणायुक्तो हस्तं दत्वा स्वदक्षिणम् । देवयानीं दधाराऽसौ तया हस्तो धृतस्तथा ॥ २२॥ बहिर्निष्कास्य राजा सोऽभवद्गन्तुं समुद्यतः । ततस्तं देवयानी सोवाच हर्षसमन्विता ॥ २३॥ देवयान्युवाच । पाणेस्त्वया मे ग्रहणं कृतं सौम्य महामते । कोऽसि त्वं वद मां सर्वं वृत्तान्तं ते यथायथम् ॥ २४॥ तामुवाच महीपालः श‍ृणु त्वं वरवर्णिनि । ययातिं विद्धि मां देवि नाहुषं क्षत्रवंशजम् ॥ २५॥ मृगयाऽऽसक्तभावेन प्राप्तं ते दर्शनं महत् । गच्छ त्वं स्वगृहे बाले गमिष्यामि स्वमालयम् ॥ २६॥ तमुवाच प्रजानाथं देवयानी प्रहर्षिता । काव्यपुत्रीं च मां विद्धि भव त्वं मे पतिः प्रभो ॥ २७॥ हस्तस्य ग्रहणं ते वै विशेषेण कृतं मया । त्वदृते न वृणोम्यन्यमतस्त्वं मे पतिर्भव ॥ २८॥ तस्यास्तद्वचनं श्रुत्वा ययातिस्तामुवाच ह । काव्यकन्यां कथं देवि वृणोमि क्षत्रवंशजः ॥ २९॥ ततः सोवाच तं देवयानी श‍ृणु वचो महत् । ब्राह्मणो मे न भर्ता च भविता कचशापतः ॥ ३०॥ अतस्वं भयहीनः सन् वृणु मां राजसत्तम । काव्यं सम्बोधयित्वाऽहं पत्नी ते प्रभवामि च ॥ ३१॥ तथेति नृपवर्योऽसौ तां जगाद तथा ययौ । नगरं स महाभागः सा च तत्र स्थिताऽभवत् ॥ ३२॥ तत्राऽऽगतं नरं कञ्चित्तमुवाच वद प्रभुम् । काव्यमत्र स्थिता पुत्री देवयानी महामते ॥ ३३॥ ततस्तेन मुनीन्द्रोऽसौ बोधितः श‍ृणु मे वचः । वने ते देवयानी सा पुत्री वत्सल संस्थिता ॥ ३४॥ शुक्रस्तां प्रययौ शीघ्रं तमुवाच सुविह्वला । रुदती देवयानी सा वृत्तान्तं सर्वमञ्जसा ॥ ३५॥ तं श्रुत्वा कुपितः काव्यस्त्यक्त्वा दैत्यं स निर्ययौ । वनवासार्थमानन्दादूहयन् वृत्तिमुल्बणाम् ॥ ३६॥ ततो दैत्याधिपः श्रुत्वा वृत्तान्तं विह्वलो भृशम् । तं ययौ धावमानः स प्रणनाम महामुनिम् ॥ ३७॥ उवाच भक्तिसंयुक्तं वचनं दैत्यनायकः । त्वदाधारमिदं राज्यं देहोऽयं मे तथा मुने ॥ ३८॥ मुनिसत्तम मां त्यक्त्वा कुत्र गन्तुं त्वमिच्छसि । राज्यादिकं परित्यज्य याम्यहं ते प्रसन्निधौ ॥ ३९॥ तस्य तद्वचनं श्रुत्वा काव्यः पुत्रीमुवाच ह । चल त्वं राजकन्याया अपराधं क्षमस्व च ॥ ४०॥ देवयानी मुनिं तत्रोवाच क्रोधसमन्विता । नाऽहं यामि पितः पुर्यां देहत्यागं करोमि वै ॥ ४१॥ ततः पुत्रीं स्वयं काव्य ऊचे तां शोकसङ्कुलः । किमिच्छसि वद त्वं म उपायं तं करोम्यहम् ॥ ४२॥ ततस्तं देवयानी सोवाच क्रोधसमन्विता । सखीभिः सहिता दासी शर्मिष्ठा मे भवेद्यदि ॥ ४३॥ यत्र दास्यसि मां तात तत्रेयं सहगा भवेत् । तदाहं नगरे यामि हृष्टा दैत्याधिपस्य च ॥ ४४॥ उवाच काव्यो दैत्येशं तं पुत्रीवत्सलस्ततः । तथेति दैत्यराजः स गृहे काव्यं समानयत् ॥ ४५॥ काव्येन नाहुषायैव दत्ता पुत्री विधानतः । तत्र दासी स्वभावेन शर्मिष्ठा प्रययौ विधे ॥ ४६॥ कदाचित्तत्र शर्मिष्ठाऽभवदृतुयुता स्वयम् । राजानं वाटिकामध्ये उवाच विनयान्विता ॥ ४७॥ सख्या मे देवयान्या त्वं महीपाल वृतो यदा । पतिस्तदा मया नाथ त्वमेव मनसा वृतः ॥ ४८॥ ऋतुयुक्तां स्त्रियं स्वामिन् भज त्वं भक्तिसंयुताम् । तथेति नाहुषेणैव वृता सा गुप्तभावतः ॥ ४९॥ देवयान्या चरित्रं न तस्या ज्ञातं प्रजापते । (Page खं. ३ अ. ३१ पान ६९) गर्भयुक्तां विदित्वा तां सा पप्रच्छ मुनेः सुता ॥ ५०॥ कस्य वीर्यं त्वया देवि धृतं मे वद चाधुना । लाञ्छनं दैत्यराजस्य प्राप्तं किं दैवयोगतः ॥ ५१॥ शर्मिष्ठा तां जगादाऽथ न कृतं लाञ्छनं मया । ब्राह्मणस्य महद्वीर्यं गृहीतं गुप्ततः सखि ॥ ५२॥ तस्यां पुत्राः समुत्पन्नास्त्रयो देवसमा बभुः । राज्ञा सम्मानिता नित्यं वाटिकायां विशेषतः ॥ ५३॥ कदाचिद्देवयानी सा वाटिकायां जगाम ह । तत्र पुत्रा ययातिं तं पितरं प्राहुरादरात् ॥ ५४॥ तच्छ्रुत्वा क्षुभिताऽत्यन्तं देवयानी गृहं ययौ । पितुस्तां सान्त्वयामास ययातिर्विनयान्वितः ॥ ५५॥ न शशाक स राजर्षिस्तां स्वगेहे भयाकुलः । आनेतुं सा तथा काव्यं जगाद रुदती भृशम् ॥ ५६॥ शुक्रेण शापितो राजा जरायुक्तो बभूव सः । गत्वा चोशनसं तत्रोवाच शोकसमाकुलः ॥ ५७॥ नाऽहं श्वशुर तृप्तोऽस्मि कामभोगेभ्य एव च । जराघ्नं मे वदोपायं तं करिष्यामि यत्नतः ॥ ५८॥ देवयानीं विनाऽन्यां स्त्रीं न स्पृशामि कदाचन । ततस्तमुशनाः प्रीत उवाच वचनं हितम् ॥ ५९॥ तव पुत्रा महाभाग यौवनास्था भवन्ति ये । जरां तत्र विनिक्षिप्य गृहाण नृप यौवनम् ॥ ६०॥ त्वदाज्ञया जरां पुत्रो ग्रहीष्यति कुरुष्व तम् । राजानं मुख्यभावं त्वं न दोषस्तत्र ते भवेत् ॥ ६१॥ तथेति देवयानीं सङ्गृह्य स्वनगरं ययौ । ज्येष्ठान् पुत्रान् ययाचे स राजर्षिर्यौवनं ततः ॥ ६२॥ न जरां जगृहुस्तस्य सर्वे ते मूर्खभावतः । ततः पूरुं स राजर्षिर्ययाचे स ददौ किल ॥ ६३॥ शुक्रस्य वरदानेन दोषः पूरोर्न तस्य वै । भुक्त्वा भोगाननेकान् स ययातिस्तोषितोऽभवत् ॥ ६४॥ यज्ञान् कृत्वा महाभागः साङ्गान् सर्वान् विशेषतः । तीर्थादीनि जगामाऽसौ नानारूपाणि भावतः ॥ ६५॥ सर्वं कोशगतं द्रव्यं भूषणादिकमादरात् । ददौ स ब्राह्मणेभ्यश्च दानशीलोऽभवत्तथा ॥ ६६॥ मृत्पात्रैर्गृहकार्येषु चरन्तं गालवो मुनिः । तमाययौ ययाचे वै राजानं खेदसंयुतः ॥ ६७॥ गुरोश्च दक्षिणार्थं मे देह्यश्वान् श्यामकर्णकान् । सहस्रसङ्ख्यायुक्तांस्त्वं श्रेष्ठः सकलभूभुजाम् ॥ ६८॥ माधवीं स्वां ददौ तस्मै ततः कन्यां महीपतिः । तया तस्य मुनेः कार्यं कृतं सर्वं प्रजापते ॥ ६९॥ ततः स राजशार्दूलो जरां सङ्गृह्य यौवनम् । पूरवेऽदात् पुनः सद्यस्तं चकार नराधिपम् ॥ ७०॥ दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् । दक्षिणापश्चिमायां स यदुं ज्येष्ठं न्ययोजयत् ॥ ७१॥ प्रतीच्यामुत्तरायां स द्रुह्यं चानुमयोऽजयत् । तैरियं पृथिवी सर्वा धर्मतः परिपालिता ॥ ७२॥ सर्वत्र सार्वभौमेन पूरुस्तत्र रराज च । धर्मयुक्तो विनीतात्मा सत्यसन्धः प्रतापवान् ॥ ७३॥ ततो वनं ययौ राजा तताप तप उत्तमम् । अन्ते जगाम स्वर्गं स नानाभोगप्रदं परम् ॥ ७४॥ तत्र सर्वानतिक्रम्य बुभुजे भोगमुत्तमम् । न मत्समश्च स्वर्गेषु पुण्यभोगकरः परः ॥ ७५॥ (Page खं. ३ अ. ३१ पान ७०) इति गर्वेण संयुक्तमिन्द्रस्तं प्रजगाद सः । त्वया राजन् महत्पुण्यं कीदृशं प्रकृतं वद ॥ ७६॥ उवाच नरशार्दूलः ततस्तं मोहसंयुतः । न सङ्ख्या विद्यते देव मम पुण्यस्य देवप ॥ ७७॥ स्वर्गेषु ये स्थिता देवाः पुण्यकर्मकरा इमे । न मे कलां च पुण्यस्य लभन्ते देवनायक ॥ ७८॥ तस्य तद्वचनं श्रुत्वा तमिन्द्रः प्रत्युवाच ह । न जानासि महाराज एषां पुण्यप्रभावकम् ॥ ७९॥ सर्वानिमांस्तिरस्कृत्य त्वं प्रमोहसमन्वितः । स्वप्रशंसां तथाऽपारं पुण्यं वदसि चाऽद्य माम् ॥ ८०॥ तेन ते पुण्यमुग्रं तत् सर्वं नष्टं नराधिप । प्रपत त्वं महीपृष्ठे पुनः पुण्यं समाचर ॥ ८१॥ ततः पपात भूपृष्ठे ययातिर्दुःखसंयुतः । तं पतन्तं च दौहित्रा ददृशुः शिबिमुख्यकाः ॥ ८२॥ मातामहं च विज्ञाय ददुः पुण्यं पुनः स्वकम् । तेन स्वर्गस्थितो राजा मुमुदे देववत् स्वयम् ॥ ८३॥ ततस्तं नारदो योगी जगाद करुणायुतः । त्वया विघ्नो महाराज प्राप्तः पुण्यविनाशकृत् ॥ ८४॥ विघ्नेशं भज राजंस्त्वमन्ते स्वानन्दगस्ततः । भविष्यसि न सन्देहो नोचेद्भूमौ पतिष्यसि ॥ ८५॥ ततस्तेन गणेशस्य मन्त्रो दत्तो दशाक्षरः । तं जजाप ययातिश्च गणेशध्यानतत्परः ॥ ८६॥ पुण्यक्षये स राजेन्द्रः शुक्लगत्या प्रजापते । गणेशं प्रययौ भक्त्या गाणपत्यो महायशाः ॥ ८७॥ ययातेश्चरितं पुण्यं सङ्क्षेपेण निरूपितम् । श‍ृण्वते कामदं पूर्णं भविष्यति न संशयः ॥ ८८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ययातिचरितं नामैकत्रिंशत्तमोऽध्यायः ॥ ३.३१

३.३२ धनकस्य व्रतोपदेशो नाम द्वात्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यदोरप्यभवन् पुत्राश्चत्वारो देवसन्निभाः । सहस्त्रजित्तथा ज्येष्ठस्तस्य पुत्रो बभूव ह ॥ १॥ शतजिन्नाम विख्यातस्तस्य पुत्रास्त्रयोऽभवन् । हिहयश्च हयश्चैव वपुर्हय उदाहृतः ॥ २॥ हिहयस्याऽभवत् पुत्रो धर्म इत्यभिविश्रुतः । तस्य नेत्रस्तस्य कुन्तिः सोहञ्जिस्तत्सुतः स्मृतः ॥ ३॥ सो हञ्जेरभवत् पुत्रो महिष्मान्नाम पार्थिवः । माहिष्मती च नगरी वासिता येन भूभुजा ॥ ४॥ तस्य पुत्रो भद्रसेनो दुर्मदस्तत्सुतः स्मृतः । धनकश्चाऽपरो धीमान् मुख्योऽभूत्तत्र पार्थिवः ॥ ५॥ धनकादभवन् पुत्राश्चत्वारो लोकविश्रुताः । कृतवीर्यः कृताग्निश्च कृतवर्मा ततः स्मृतः ॥ ६॥ कृतौजाश्च तथा दक्ष तत्र ज्येष्ठः प्रतापवान् । बभूव दानशीलश्च कृतवीर्यो महीपतिः ॥ ७॥ तेन वै पृथिवीमध्ये चतुर्थी कृष्णगाऽपरा । (Page खं. ३ अ. ३२ पान ७१) प्रकाशिता प्रजापाल स्वर्गात् सर्वशुभप्रदा ॥ ८॥ दक्ष उवाच । कथं तेन नृपालेन चतुर्थी भूमिमण्डले । समानीता महायोगिन् वद तस्य चरित्रकम् ॥ ९॥ श्रुत्वा कथामृतं स्वामिन् हर्षश्चेतसि वर्धते । अतो विस्तरभावेन कथयस्व कथानकम् ॥ १०॥ मुद्गल उवाच । माहिष्मत्यां महापुर्यां भीमनामाऽभवत् पुरा । अन्त्यजो द्रव्यलुब्धश्च पापकर्मपरायणः ॥ ११॥ स तु मार्गे जनान् वीक्ष्याऽमारयत्तान् दिने दिने । मांसविक्रयकारी च पशुन् हत्वा निरन्तरम् ॥ १२॥ एकदा माघमासस्य चतुर्थी कृष्णपक्षगा । समागता च तत्राऽसौ विचचार वनान्तरे ॥ १३॥ महापर्वतदेशे स जनानां प्रवधाय च । दैवयोगेन तस्याऽपि मिलितं नैव किञ्चन ॥ १४॥ अयं बभ्रामान्नजलविहीनो लोभसंयुतः । मिलितं तत्र नो किञ्चित्तथाभूतश्चचार ह ॥ १५॥ ततोऽस्तमगमत् सूर्यस्तं दृष्ट्वा स्वगृहे मतिम् । गमनाय तथा चक्रे मार्गसंस्थो बभूव ह ॥ १६॥ मार्गे दुष्टो द्विजास्तत्र दृष्ट्वा द्वादशसङ्ख्यकान् । तान् हत्वा स तदीयं वै गृहीत्वा स्वगृहं ययौ ॥ १७॥ चन्द्रोदये ततः प्राप्ते बुभुजे भोजनाकुलः । पुत्रं गणेशनामानमाह्वयामास तेन सः ॥ १८॥ पुनश्चकार तद्वत् स कदाचित् पापमुल्बणम् । कृष्णपक्षे चतुर्थ्यां च स ममारोदये विधोः ॥ १९॥ गणेशदूतास्तं तत्र समानेतुं समाययुः । कैलासे गणपस्थाने निन्युस्तं ते विमानगम् ॥ २०॥ स्वर्गमार्गेषु देवैश्च ब्रह्मविष्ण्वादिभिस्तुतः । विमानगैः स्तूयमानः प्रविवेश शिवास्पदम् ॥ २१॥ तत्र भुक्त्वा प्रभोगान् स पपात पृथिवीतले । माहिष्मत्यां सुतो जज्ञे धनकस्य महाबलः ॥ २२॥ कृतवीर्य इति ख्यातो नानाधर्मपरायणः । देवविप्रातिथिप्रेप्सुर्बभूवे यज्ञकारकः ॥ २३॥ अपुत्रः स्माऽभवद्राजा कृतवीर्यः प्रतापवान् । पुत्रार्थं यतते स्मातिनानाधर्मपरायणः ॥ २४॥ न लेभे सन्ततिं राजा ततोऽसौ दुःखसंयुतः । प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकम् ॥ २५॥ सपत्नीको वनं राजा ययौ तपसि संस्थितः । पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूत् ॥ २६॥ नानातपश्चकाराऽसौ सन्ततिं न तथाऽपि च । लेभे नृपः प्रजानाथ नेत्रप्राणावशेषितः ॥ २७॥ अस्थित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः । स्वर्गस्थं धनकं तत्र वृत्तान्तमवदन्नृपम् ॥ २८॥ तव पुत्रो वने संस्थः पुत्रार्थं यतते नृप । नानायत्नसमायुक्तोऽस्थित्वचाप्रयुतोऽस्ति वै ॥ २९॥ न लेभे सन्ततिं राजा स्वल्पकाले मरिष्यति । पुत्रहीनस्य भो राजन् का गतिः प्रभवेद्वद ॥ ३०॥ इत्युक्वा तं मुनीन्द्रः स ययौ कैलासमादरात् । धनको मनसाऽत्यन्तं विचारमकरोत्ततः ॥ ३१॥ ब्रह्माणं शरणं यामि सर्वज्ञं तेन चेप्सितम् । भविष्यति न सन्देहस्ततः सोऽपि ययौ विधिम् ॥ ३२॥ प्रणिपत्य प्रतुष्टाव नानास्तोत्रैः प्रजापतिम् । उवाच तं महाभागं विनयेन समन्वितः ॥ ३३॥ धनक उवाच । (Page खं. ३ अ. ३२ पान ७२) धर्मशीलश्च मे पुत्रः पुत्रहीनो बभूव हि । पुत्रार्थं यतते ब्रह्मन्नानाव्रतपरायणः ॥ ३४॥ राज्यादिकं समुत्सृज्य वने तपति संस्थितः । तपस्तेनाऽवशेषोऽसावस्थिचर्मवृतो बभौ ॥ ३५॥ केनोपायेन पुत्रश्च भविता तं वदस्व मे । प्रापयिष्याम्यहं तत्र स्ववंशस्य विवृद्धये ॥ ३६॥ ततस्तं प्रत्युवाचेदं वचनं चतुराननः । पूर्वजन्मनि सम्भूतं द्विजहत्यायुतं व्रतम् ॥ ३७॥ पुनः प्रोवाच तं देवो विधिः सर्वार्थकोविदः । पुत्रप्राप्त्यर्थमेवैकमुपायं सर्वसिद्धिदम् ॥ ३८॥ अज्ञानेन व्रतं तेन कृतं सङ्कष्टहारकम् । चतुर्थीप्रभवं तेन पापं सर्वं लयं गतम् ॥ ३९॥ महापापानि नश्यन्ति सङ्कष्टीव्रतसाधनात् । सङ्कष्टीव्रतसम्बन्धिदिवसे यत् कृतं भवेत् ॥ ४०॥ तदेवाक्षयभावेन तिष्ठत्यत्र न संशयः । चतुर्थ्यां भूप कृष्णायां पुण्यमेव समाचरेत् ॥ ४१॥ तव पुत्रेण राजेन्द्र द्वादश ब्राह्मणा हताः । चतुर्थ्यां पूर्वजन्मस्थेन पापं तत्स्थितं महत् ॥ ४२॥ नानातपःप्रभावेण व्रततीर्थादिकेन च । यज्ञादिभिश्च तत्पापं लयं नैव गमिष्यति ॥ ४३॥ सङ्कष्ट्यां यत्कृतं पापं वज्रलेपं च तत्स्मृतम् । तत्र कश्चिदुपायो न तथाऽपि श‍ृणु मे वचः ॥ ४४॥ येन सङ्कष्टिका पुण्या चतुर्थी साधिता नृप । तस्य जन्मादिकं नैव भविष्यति कदा पुनः ॥ ४५॥ चतुर्विधं प्रजानीहि सर्वं मायामयं जगत् । सङ्कष्टं चैव जीवानां तेन युक्ता भ्रमन्ति ते ॥ ४६॥ चतुर्थी गणनाथस्य सङ्कष्टी साधिता यदा । चतुर्विधं तस्य कष्टं न भवेद्वै कदाचन ॥ ४७॥ ब्रह्मणि ब्रह्मभूतोंऽते स्वानन्दे वर्तते नरः । व्रतस्यैव प्रभावेणेहलोके सुखमाप्नुयात् ॥ ४८॥ चतुर्थ्यां पापकारा ये तेषां मुक्तिर्न विद्यते । पापयुक्ततया राजन् स्वर्गस्थास्ते भवन्ति च ॥ ४९॥ पुनर्जन्मधरा भूमौ तत्र पापफलं स्वकम् । भुञ्जन्ति च पुनः सर्वे गाणपत्या भवन्ति ते ॥ ५०॥ अतो गणेशदूतैः स कैलासे स्थापितोंऽत्यजः । पापभोगार्थमेवं च तव पुत्रोऽधुनाऽभवत् ॥ ५१॥ चतुर्थ्यां यत्कृतं पापं चतुर्थी हन्ति तत् सदा । तदर्थं ते सुतो राजंश्चतुर्थीमाचरिष्यति ॥ ५२॥ तदा पापविहीनोऽयं भविता नात्र संशयः । पुत्रयुक्तश्च ते पुत्रो भविष्यति महामते ॥ ५३॥ अपराधयुतं कर्म कृतं नाशार्थमादरात् । तस्य पुण्यं प्रकर्तव्यं दुरितं तेन नश्यति ॥ ५४॥ चतुर्थी महिमाऽनन्तो भूतं यदपि तद्दिने । पापं क्रोधसमायुक्ता महाकृच्छ्रेण हन्ति सा ॥ ५५॥ अतस्तत्पापनाशार्थं सङ्कष्टीर्द्वादशाऽऽचरेत् । तदा द्वादशविप्रान्तभवं पापं गमिष्यति ॥ ५६॥ ततस्तं करुणायुक्तः स विधि व्रतमादरात् । कथयामास वै ब्रह्मा ययौ राजा प्रणम्य तम् ॥ ५७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते धनकस्य व्रतोपदेशो नाम द्वात्रिंशोऽध्यायः ॥ ३.३२ (Page खं. ३ अ. ३३ पान ७३)

३.३३ कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । व्रतं लब्ध्वा पुस्तकं संलिख्य सङ्गृह्य मायया । धनकः कृतवीर्यस्य स्वप्ने सद्यो जगाम ह ॥ १॥ धनकं पितरं दृष्ट्वा कृतवीर्यो ननाम तम् । पुत्रं राजा समादायोत्सङ्गे स्वस्य जगाद तम् ॥ २॥ धनक उवाच । पुत्र नानाविधा यत्ना विशेषेण कृतास्त्वया । पुत्रार्थमधुनैकं त्वं व्रतं कुरु ममाज्ञया ॥ ३॥ तेन पुण्येन पुत्रस्ते भविता नात्र संशयः । ब्रह्मणा कथितं मे यत् पुस्तकं तद् गृहाण ह ॥ ४॥ इत्युक्त्वा पुत्रहस्ते तद्दत्वा पुस्तकमादरात् । अन्तर्धानं ययौ राजा जजागार नृपात्मजः ॥ ५॥ पुस्तकं हस्तगं दृष्ट्वा विस्मितोऽभूत् प्रहर्षितः । पितरं दुःखितो भूत्वा सस्मार स रुरोद वै ॥ ६॥ सपत्नीकस्ततो राजा कृतवीर्यो जगाम ह । स्वपुरं मानितस्तत्र प्रधानादिभिरादरात् ॥ ७॥ ततः स ब्राह्मणान् राजा समाकार्य ननाम तान् । पुस्तकं दर्शयामास तस्यार्थं ब्राह्मणा जगुः ॥ ८॥ अहो राजन् महाभाग पुस्तके व्रतमुत्तमम् । लिखितं सर्वसङ्कष्टहारकं सर्वदं परम् ॥ ९॥ कृष्णपक्षे चतुर्थ्यां वै चन्द्रोदयसमागमे । पूजनीयो विशेषेण गणेशः सिद्धिदायकः ॥ १०॥ पूजयित्वा गणाधीशं ततोऽर्घ्यं तिथये नृप । गणेशाय च चन्द्राय दातव्यं व्रतकारिणा ॥ ११॥ सूर्योदयात् समारभ्य गणेशस्मरणं नृप । कर्तव्यं वर्जयेत्तत्र जलपानादिकं तथा ॥ १२॥ चन्द्रायाऽर्घ्यं तथा दत्वा सप्तवारं नृपोत्तम । ब्राह्मणांस्तत आपूज्य सपत्नीकान्नमेत् स तान् ॥ १३॥ भोजयेत् परमान्नेन मोदकादिभिरादरात् । पायसेनाऽपि सितया युतेन मधुरेण च ॥ १४॥ ततः स्वयं सुहृद्भिश्च भोजनं वै समाचरेत् । दानं दद्यात् स विप्रेभ्यो योषिद्भ्यः कञ्चुकादिकम् ॥ १५॥ ततो जागरणं कार्यं गणेशस्तवनेन च । प्रभाते विमले स्नात्वा पूर्ववत् पूजयेद्विभुम् ॥ १६॥ गणेशं च ततो विप्रान् भोजयेत् पूर्ववन्नृप । दक्षिणां विपुलां तेभ्यो दापयेत्तान्नमेत्ततः ॥ १७॥ मासे मासे प्रकुर्यास्त्वं व्रतं गाणेश्वरं त्विदम् । सर्वसङ्कटहीनः सन्नन्ते स्वानन्दगो भवेः ॥ १८॥ अपारमहिमायुक्तं व्रतं प्राप्तं त्वया नृप । त्वदीयसङ्गयोगेन जनेभ्यः सिद्धिदं भवेत् ॥ १९॥ न श्रुतं नैव दृष्टं च व्रतं केनाऽपि भूमिप । लोकानामुपकाराय भविष्यति विशेषतः ॥ २०॥ चतुर्विधं जगत्सर्वं सङ्कष्टकरमुच्यते । तस्माद्बन्धननाशार्थं व्रतं चेदं भविष्यति ॥ २१॥ इह भुक्त्वाऽखिलान् भोगान् दुर्लभान् देवभोग्यकान् । अन्ते मुक्तिमवाप्नोति व्रतस्यास्य प्रभावतः ॥ २२॥ एवमुक्त्वा द्विजाः सर्वे गताः स्वस्वाश्रमे तदा । कृतवीर्यस्तथा राजा चकार व्रतमुत्तमम् ॥ २३॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा हृष्टरोमा प्रजापतिः । जगाद तं पुर्नवाक्यं संशयच्छेदनाय सः ॥ २४॥ दक्ष उवाच । कृतवीर्यात् समारभ्य व्रतं भूम्यां समागतम् । महामुने भीमनाम्नांऽत्यजेनैव कृतं कथम् ॥ २५॥ चतुर्थीव्रतपुण्येन स एव कृतवीर्यकः । (Page खं. ३ अ. ३४ पान ७४) बभूव वर्णितं विप्र त्वया संशयदायकम् ॥ २६॥ अतः संशयनाशार्थं वद मुद्गल मे वचः । सर्वज्ञस्त्वं न सन्देहः साक्षाद्योगीश्वरो महान् ॥ २७॥ मुद्गल उवाच । प्रजापते श‍ृणु ह्यत्र वचनं मे महामते । येन ते संशयो नाशं गमिष्यति न संशयः ॥ २८॥ व्रतं गाणेश्वरं दक्ष चतुर्थीसंज्ञकं परम् । सङ्कष्टहरणं प्रोक्तं तज्जानीहि पुरातनम् ॥ २९॥ पृथिव्यां स्वर्गलोके तत् पाताले सर्वसम्मतम् । चतुर्थी च समुत्पन्ना तदारभ्य प्रतिष्ठितम् ॥ ३०॥ जनास्तन्नैव जानन्ति पृथिव्यां कुत्रचित् प्रभो । कृतवीर्याच्च सर्वत्र प्रकाशमगमद्व्रतम् ॥ ३१॥ एत्तते सर्वमाख्यातं श‍ृणु तस्य कथानकम् । कृतवीर्यस्य भूपस्य पुण्यदं श‍ृण्वते भवेत् ॥ ३२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३.३३

३.३४ कृतवीर्यचरितं नाम चतुस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । वर्षमात्रव्रतेनैव गतं पापं लयं महत् । द्वादशब्रह्महत्याख्यं ततो राजा बभौ विधे ॥ १॥ व्रतपुण्यप्रभावेण ससत्त्वाऽभून्नृपाङ्गना । सुषुवे शुभवेलायां पुत्रं तेजस्विनां वरम् ॥ २॥ हस्तपादविहीनं तं दृष्ट्वा माता रुरोद ह । कृतवीर्यस्तथा सर्वैः प्रधानैः बोधितोऽभवत् ॥ ३॥ त्यक्त्वा शोकं स्वयं राजा जातकर्म चकार वै । महोत्सवयुतैः सर्वैर्नगरे संस्थितोऽभवत् ॥ ४॥ रात्रौ स्वप्ने ददर्शाऽसौ दत्तात्रेयं च योगिनम् । तेन यत् कथितं स्वप्ने तच्छृणुष्व प्रजापते ॥ ५॥ गते द्वादशवर्षे तु त्वत्पुत्रस्य नृपोत्तम । आगमिष्यामि ते गेहं साङ्गं पुत्रं करोम्यहम् ॥ ६॥ मा चिन्तां कुरु राजेन्द्र गणनाथप्रसादजः । पुत्रोऽयं ते सुतेजस्वी देवमान्यो भविष्यति ॥ ७॥ ततः सोंऽतर्दधे योगी दत्तात्रेयस्तथा नृपः । प्रबुद्धो हर्षयुक्तः स बभूव गणपं स्मरन् ॥ ८॥ ततस्तेन पृथिव्यां तु घोषः सर्वत्र कारितः । चतुर्थ्यां कृष्णपक्षस्य व्रतं कार्यं जनैः सदा ॥ ९॥ येन व्रतमिदं नैव कृतं चेत्तं निहन्म्यहम् । चाण्डालादिद्विजान्तास्ते व्रतं चक्रुर्विशेषतः ॥ १०॥ अष्टवर्षसमायुक्ता नरा नार्यः स्म मानद । अकुर्वन् विधिवत् सर्वे व्रतं गाणेश्वरं महत् ॥ ११॥ तस्य राज्ये नरः कोऽपि दुःखयुक्तो बभूव न । न वन्ध्यादि भयं तद्वद्रोगादिकभयं नहि ॥ १२॥ ततो द्वादशवर्षेषु गतेषु स जगाम ह । दत्तो योगीन्द्रसेव्यश्च तं ननाम नराधिपः ॥ १३॥ पूजितो भोजितस्तेन वचो दत्तस्तमब्रवीत् । पुत्रं दर्शय ते राजन्नद्भुतं द्रष्टुमागतः ॥ १४॥ (Page खं. ३ अ. ३४ पान ७५) ततः स हर्षितो राजा ददौ पुत्रं च तत्करे । अङ्के सङ्गृह्य योगीन्द्रो राजानं प्रत्युवाच ह ॥ १५॥ राजन् व्रतं त्वया तत्राङ्गहीनत्वमजानता । कृतं तु तेन ते पुत्रोंऽगहीनः प्रबभूव ह ॥ १६॥ व्रतस्य जागरे राजन् जृम्भितं च पुनः पुनः । त्वया नाचमनं तत्र कृतं तेनायमीदृशः ॥ १७॥ व्रतस्याऽयं प्रभावेण विष्णुः साक्षान्नराकृतिः । पुत्रोऽभवत्तदंशेन विख्यातः प्रभविष्यति ॥ १८॥ तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः । विधियुक्तं गणेशस्य कार्तवीर्याय धीमते ॥ १९॥ अनुष्ठानं समादिश्य द्वादशाब्दमयं प्रभुः । अन्तर्धानं चकाराऽसौ राजा संहर्षितोऽभवत् ॥ २०॥ प्रवालक्षेत्रसान्निध्ये वने व्याघ्रादिसंयुते । राजा बभूव संस्थाप्य जनैः पुत्रं च दुःखितः ॥ २१॥ ततश्च कार्तवीर्येण तपस्तप्तं सुदारुणम् । वायुमात्राशनेनैव ध्यात्वा हृदि गजाननम् ॥ २२॥ मन्त्रं जजाप भो दक्ष हस्तपादविवर्जितः । देहभावमतिक्रम्य संस्थितः काष्ठवद्बभौ ॥ २३॥ तपःप्रभावतस्तस्य वने निर्वैरभावतः । प्राणिनः सञ्चरन्ति स्म गजसिंहादयः सदा ॥ २४॥ एवं द्वादशवर्षाणि गतानि तपसो यदा । तदा तत्राऽऽययौ ढुण्ढिर्भक्तं परमभाविकम् ॥ २५॥ तडागमध्यभागात्तं निःसृतं गणपं नृपः । दृष्ट्वा ननाम विघ्नेशं पूजयन् भक्तिसंयुतः ॥ २६॥ हर्षेण महता युक्तस्तं तुष्टाव गजाननम् । सरोमाञ्चो महावीरः कार्तवीर्यो महायशाः ॥ २७॥ कार्तवीर्य उवाच । नमस्ते गणनाथाय विघ्नेशाय नमो नमः । विनायकाय देवेश सर्वेषां पतये नमः ॥ २८॥ निर्गुणाय परेशाय परात्परतराय वै । अनादये च सर्वादिपूज्याय तु नमो नमः ॥ २९॥ सर्वपूज्याय हेरम्ब दीनपालाय ते नमः । ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥ ३०॥ निराकाराय साकाररूपाय परमात्मने । योगाय योगदात्रे ते शान्तिरूपाय वै नमः ॥ ३१॥ सदा ज्ञानघनायैव कर्ममार्गप्रवर्तिने । आनन्दाय सदानन्दकन्दरूपाय ते नमः ॥ ३२॥ रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च । तामसेन प्रसंहर्त्रे गुणेशाय नमो नमः ॥ ३३॥ नानामायाधरायैव नानामायाविवर्जित । मायिभ्यो मोहदात्रे वै मायामायिक ते नमः ॥ ३४॥ स्वानन्दपतये तुभ्यं सिद्धिबुद्धिवराय च । सिद्धिबुद्धिप्रदात्रे च लम्बोदर नमोऽस्तु ते ॥ ३५॥ किं स्तौमि गणनाथ त्वां यत्र वेदा विसिस्मिरे । शिवविष्ण्वादयश्चैव योगिनो योगरूपिणम् ॥ ३६॥ जगाद गणनाथस्तु ततस्तं भक्तमुत्तमम् । वरं वृणु महाभाग कार्तवीर्य हृदीप्सितम् ॥ ३७॥ त्वया कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् । अङ्गहीनस्य सर्वस्य स्वङ्गदं प्रभविष्यति ॥ ३८॥ कृत्वा भावेन मत्पूजां नरः स्तोत्रमिदं पठेत् । तस्य साङ्गं सदा सर्वं करोमि स्तोत्रपाठतः ॥ ३९॥ इह भुक्त्वाऽखिलान् भोगान् पुत्रपौत्रादिसंयुतः । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ॥ ४०॥ ततस्तं कार्तवीर्यश्च जगाद गणनायकम् । हर्षयुक्तो महाभक्तो भक्तेशं भक्तवत्सलम् ॥ ४१॥ कार्तवीर्य उवाच । किं वृणोमि गणाधीश सर्वं मायामयं विभो । तव दर्शनमात्रेण मया ज्ञातं न संशयः ॥ ४२॥ सुहृदां तदपि स्वामिन् सन्तोषार्थं वृणोम्यहम् । शरीरे चारुतां देहि भक्तिं त्वच्चरणे प्रभो ॥ ४३॥ यद्यदिच्छामि तत्तच्च सुलभं मे गजानन । भवतु त्वत्प्रसादेन राज्यं पूर्णं प्रदेहि च ॥ ४४॥ अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तान् पालय विघ्नप । धर्मार्थकाममोक्षादि ब्रह्मभूयप्रदं कुरु ॥ ४५॥ प्रवालमयरूपेण मया दृष्टो गजाननः । प्रवालक्षेत्रमित्युक्तं नाम्ना भवतु नित्यदा ॥ ४६॥ सदा विजयसंयुक्तं सहस्रभुजसंयुतम् । मां कुरुष्व दयासिङ्घो विष्णुतुल्यपराक्रमम् ॥ ४७॥ मदीयसेवनं देव देववच्च सदा भवेत् । मन्त्रादिकं च मे नाथ भवतु त्वप्रसादतः ॥ ४८॥ मदीयस्मरणेनैव गतं प्राप्तं कुरु प्रभो । न मत्समस्त्रिलोकेषु सेन्द्रादिषु भवेत्किल ॥ ४९॥ ततस्तं गणनाथः स तथेति प्रत्युवाच ह । सर्वं ते भविता राजन् मत्प्रसादान्न संशयः ॥ ५०॥ मदीयस्मरणेनैव मन्त्रादीनां प्रसेवया । निर्विघ्नं ते च राजेन्द्र भविष्यति निरन्तरम् ॥ ५१॥ एवमुक्त्वा गणेशस्तमन्तर्धानं जगाम ह । ततस्तस्य प्रजानाथ देहः साङ्गो बभूव ह ॥ ५२॥ सहस्रभुजसंयुक्तो बभूव पदसंयुतः । महाबलो महावीर्यस्तेजसा संयुतोऽभवत् ॥ ५३॥ तत्र देवादयो जग्मुर्दर्शनार्थं नृपस्य च । साक्षाद् विष्णुः कलांशेन कार्तवीर्यो बभौ तदा ॥ ५४॥ ततस्तेन द्विजैः सार्धं स्थापिता मूर्तिरादरात् । गणेश्वरस्य तां राजाऽपूजयत् भक्तिसंयुतः ॥ ५५॥ पूजार्थं ब्राह्मणांस्तत्र स्थापयामास भूमिपः । ततो देवान् द्विजांस्तत्राऽपूजयत् स यथाविधि ॥ ५६॥ ननाम भक्तियुक्तस्तांस्तेऽपि तस्मै वरान् ददुः । हर्षिताश्च पुनः स्वर्गं जग्मुर्देवाः सवासवाः ॥ ५७॥ कार्तवीर्यो रथस्थः स ययौ स्वनगरं ततः । दूतैर्ज्ञात्वा च वृत्तान्तं तं ययुः सर्वनागराः ॥ ५८॥ प्रधानाश्च प्रणम्यैनं सुहृद्भिरभिनन्दितम् । अलङ्कृते पुरे सर्वे वेशयामासुरादरात् ॥ ५९॥ ननाम मातरं सोऽपि पितरं हर्षसंयुतः । ताभ्यामाशीर्भिरत्यन्तं मुदितश्च कृतो बभौ ॥ ६०॥ ततः कियति काले संस्थाप्य पुत्रं यशस्विनम् । स्वराज्ये कृतवीर्यश्च सस्त्रीकः प्रययौ वनम् ॥ ६१॥ राजा गणपतिं तत्राऽभजत् सोऽनन्यचेतसा । स्वल्पकालेन सस्त्रीकः सोऽपि तं गणपं ययौ ॥ ६२॥ तस्य राज्ये जनाः सर्वे सङ्कष्टीव्रतकारकाः । क्रमेण गणनाथं ते ययुर्दक्ष प्रजापते ॥ ६३॥ इदं च कृतवीर्यस्य चरितं यः श‍ृणोति चेत् । पठेद्वा तस्य सङ्कष्टं भवेन्न च चतुर्विधम् ॥ ६४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कृतवीर्यचरितं नाम चतुस्त्रिंशोऽध्यायः ॥ ३.३४ (Page खं. ३ अ. ३५ पान ७७)

३.३५ सहस्रार्जुननिमन्त्रणं नाम पञ्चत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । चकार कार्तवीर्योऽयं स ततो राज्यमुत्तमम् । धर्मेण राज्यनीत्या स्वां पालयामास हि प्रजाम् ॥ १॥ ततस्तेन च भूपेन जिताः सर्वे महीभृतः । सप्तद्वीपवतीं पृथ्वीं बुभुजे बलसंयुतः ॥ २॥ देवैः संस्थापितं नाम सहस्रार्जुन आदरात् । न समस्तेन कश्चिद्वै बभूव क्षात्रमण्डले ॥ ३॥ स्वर्गे देवादयश्चैव त्रासयुक्ता बभूविरे । यदा क्रुद्धः स्वयं राजा तदा स्वर्गं ग्रहीष्यति ॥ ४॥ न सङ्ख्या वर्तते तस्य सैन्यानां च प्रजापते । यशसा तेजसा पूर्णं पूरितं तेन वै जगत् ॥ ५॥ सस्त्रीको नर्मदामध्ये चिक्रीड नृप एकदा । सहस्रबाहुभिर्धृत्वा जलौघं तत्र लीलया ॥ ६॥ यत्र वै नर्मदातीरे रावणः स महानुगः । पुपूज शाङ्करं लिङ्गं जलौघस्तत्र चागतः ॥ ७॥ पूजाविधिं स शीघ्रं समाप्य वै राक्षसाधिपः । पप्रच्छ केन दूतेशा जलौघः सम्प्रवर्तितः ॥ ८॥ गत्वा पश्यत मामत्र क्षोभयुक्तं स चाऽकरोत् । तं हनिष्यामि सङ्क्रुद्धो नित्यभङ्गेन दुःखितः ॥ ९॥ ततस्ते त्वरया जग्मुर्दृष्ट्वा तं कार्तवीर्यकम् । समाचख्युर्महादैत्यं रावणं विस्मिता विभो ॥ १०॥ श्रुत्वा वृत्तान्तमेवं स रावणस्तं ययौ नृपम् । प्रधानैः षड्भिरत्यन्तं क्रोधयुक्तः प्रतापवान् ॥ ११॥ सहसा रावणं दृष्ट्वा गदां धृत्वा महाबलः । आर्द्रवस्त्रेण संयुक्तो युयुधेऽर्जुन एककः ॥ १२॥ गदायुद्धं महाघोरं तयोस्तत्र बभूव ह । ततः स गदया राजाऽपीडयद्रावणं परम् ॥ १३॥ कवचादिकमेतस्य राक्षसस्य नराधिपः । भेदयामास वै दक्ष रावणस्तत आपतत् ॥ १४॥ सङ्गृह्य स्वगृहं भूपो ययौ तत्र बबन्ध तम् । निकटे स्थापयामास सभायां खेलकारकम् ॥ १५॥ दशमस्तकयुक्तं तं दृष्ट्वा चिक्रीड भूमिपः । ततस्तं मुनिवर्यश्च पुलस्त्यः सहसाऽऽययौ ॥ १६॥ तं प्रणम्य महाभागं गाणपत्यं विशेषतः । पुपूज भक्तिसंयुक्तो भोजयामास यत्नतः ॥ १७॥ पुनः प्रणम्य तं विप्रं कृताञ्जलिपुटः पुरः । संस्थितस्तमुवाचाऽथ मुनिः सर्वार्थकोविदः ॥ १८॥ रावणं मुञ्च राजेन्द्र मत्पौत्रं वरसंयुतम् । मित्रभावेन तिष्ठ त्वं रावणस्य महामते ॥ १९॥ तथेति तं जगादासावमुञ्चद्रावणं नृपः । पुलस्त्यः प्रययौ स्थानमाशिष्या चाभिनन्द्य तम् ॥ २०॥ इत्यादितेजसा युक्तः साक्षाद्विष्णुमयो नृपः । नैव शक्यो वर्णयितुं धर्मशीलो बभूव ह ॥ २१॥ दिग्जये येन राज्ञा वै समुद्रः पादघाततः । ताडितः स विशीर्णोऽभूद्भयभीतः प्रजापते ॥ २२॥ यज्ञान् स विपुलांश्चक्रे भूरिदक्षिणसंयुतान् । स्वाहां स्वधा वषट्कारैर्मुमुदुर्देवतादयः ॥ २३॥ येन द्विजेन यत्तत्र प्रार्थितं तद्ददौ नृपः । स्वस्वधर्मरतान् लोकान् कारयामास यत्नतः ॥ २४॥ सदा गणेशभक्तिं स चकार नृपसत्तमः । गाणपत्यप्रियश्चासीत्तीर्थदेवातिथिप्रियः ॥ २५॥ आगतः स मयूरेशं यात्रां तत्र चकार ह । (Page खं. ३ अ. ३५ पान ७८) वर्षमात्रोषितो राजा यात्रार्थं लोलुपः स्वयम् ॥ २६॥ गणेशं स्थापयामास ब्राह्मणैर्मन्त्रकोविदैः । प्रवालगणनाथेति नाम कृत्वा पुपूज ह ॥ २७॥ एवं नानाविधैर्भावैर्गणेशमभजत् सदा । त्रिलोककीर्तिसङ्गीतो बभूव कृतवीर्यजः ॥ २८॥ चतुर्थीव्रतजेनैव तेजसा संयुतो बभौ । अङ्गहीनकभावेन मोहयुक्तो बभूव ह ॥ २९॥ देवादीनामभून् मान्यः श्रिया परमया युतः । भोगयुक्तः स्वभावेन विसस्मार गजाननम् ॥ ३०॥ त्यक्त्वा मन्त्रं गणेशस्य ब्रह्मज्ञानमदेन सः । अहं गणेशरूपः सन् कं भजाम्यवदत् खलः ॥ ३१॥ ततो बभूवातिविघ्नसंयुक्तः सोऽर्जुनः प्रभो । तच्छृणुष्व महाभाग कथयामि प्रचेष्टितम् ॥ ३२॥ सैन्येन संयुतो राजा मृगयार्थं वनं ययौ । नीलवेषधरो भूत्वा सैनिकास्तादृशा बभुः ॥ ३३॥ जघान विविधांस्तत्र मृगांस्तान् नगरे स्वके । प्रेषयामास दूतैः स विभ्रमन् यत्र तत्र वै ॥ ३४॥ ततोऽकस्मान् महाराजो ददार्शाश्रममुत्तमम् । मुनेः प्रपच्छ राजाऽसौ सचिवान् कस्य चाश्रमः ॥ ३५॥ त ऊचुर्जमदग्नेर्वै मुनेराश्रम आगतः । ततः सोऽपि मुनिं दक्ष ययौ हर्षसमन्वितः ॥ ३६॥ प्रणम्य सचिवैर्मुख्यैः संवृतः स कृताञ्जलिः । उवाच मुनिशार्दूलं जमदग्निं महायशाः ॥ ३७॥ धन्यं मेऽद्य महायोगिन् जन्म ज्ञानादिकं तथा । कुलं च पितरो सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ ३८॥ ततस्तं मुनिमुख्योऽसावासनादिकमादरात् । दत्त्वा शिष्यैश्च सम्पूज्य पप्रच्छ कुशलादिकम् ॥ ३९॥ प्रयोजनं तथा विप्रः सम्पृच्छन् राजसत्तमम् । मानयामास तं भूपं विष्णोरंशसमुद्भवम् ॥ ४०॥ ततो राजा मुनिं दक्ष जगाद प्रीतिसंयुतः । तवाशीर्वचनेनैव कुशलं मे प्रवर्तते ॥ ४१॥ मृगयाऽऽसक्तचित्तोऽहमागतो मुनिसत्तम । पूर्वपुण्यबलेनैव प्राप्तं ते दर्शनं महत् ॥ ४२॥ सर्वैः सह महाभाग पवित्रोऽहं न संशयः । दर्शनेनैव सन्तुष्ट आज्ञां देह्यधुना प्रभो ॥ ४३॥ गमिष्यामि ससैन्योऽहं नगरे स्वे महामते । न ते समश्च योगेन तपसा भासते मम ॥ ४४॥ जगाद मुनिमुख्योऽसौ ततस्तं हर्षसंयुतः । विष्णोरंशः स्वयं त्वं मेऽधुना सम्प्राप्त आश्रमे ॥ ४५॥ अनायासेन भो राजन्नतस्त्वां प्रार्थये विभो । भुङ्क्ष्व किञ्चिन्मया दत्तमपराह्णे समागतः ॥ ४६॥ ततो राजा जगादेदं वचनं तं प्रणम्य च । स्वामिन् वनेषु मे सैन्यं क्षुधितं भ्रमणे रतम् ॥ ४७॥ सन्त्यज्य कथमेकोऽहं भुनज्मि मुनिसत्तम । सर्वेषां भोजने शक्तिर्वर्तते नैव ते मुने ॥ ४८॥ वदामि तेन योगीन्द्र आज्ञां देहि च मे प्रभो । गमिष्यामि त्वरायुक्तो नगरे सैन्यसंयुतः ॥ ४९॥ ततस्तं राजशार्दूलमुवाच मुनिसत्तमः । न चिन्तां कुरु राजेन्द्र ससैन्यं भोजयाम्यऽहम् ॥ ५०॥ (Page खं. ३ अ. ३६ पान ७९) तपसा मे महाराज वश्यं ब्रह्माण्डमण्डलम् । अतस्त्वं गच्छ नद्यां वै स्नानार्थं सर्वसंयुतः ॥ ५१॥ तथेति तं प्रणम्याऽसावगमत् सैन्यसंयुतः । स्नानार्थं विस्मितो भूत्वा सहस्रार्जुन आदरात् ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सहस्रार्जुननिमन्त्रणं नाम पञ्चत्रिंशोऽध्यायः ॥ ३.३५

३.३६ रेणुकाजमदग्निसञ्जीवनकरणं नाम षट्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गते राजनि भो दक्ष जमदग्निर्महामुनिः । रेणुकां च समाहूय वृत्तान्तमवदत् स्वयम् ॥ १॥ ततस्ताभ्यां स्मृता देवी कामधेनुः प्रजापते । समागतां प्रसम्पूज्य प्रार्थयन्तावुभौ समम् ॥ २॥ कार्तवीर्यः ससैन्यश्च भोजनाय निमन्त्रितः । तदर्थं कुरु कल्याणि यत्नं प्रत्वरिता सखि ॥ ३॥ तयोर्वचनमाकर्ण्य कामधेन्वा महापुरम् । रचितं स्वप्रभावेण परिखावलयाङ्कितम् ॥ ४॥ चतुर्विधान्नसंयुक्तां निर्ममे पाकशालिकाम् । क्षणेन तां समालोक्य हर्षितश्चाऽभवन् मुनिः ॥ ५॥ शिष्यै राजानमाहूय ससैन्यं तं प्रजापते । भोजयामास विप्रोऽसावन्नैर्नानाविधैः परैः ॥ ६॥ अमृतकल्परूपं ते बुभुजुर्हर्षसंयुताः । तृप्तास्ते फलकन्दादीन् भक्षयामासुरादृताः ॥ ७॥ ताम्बूलानि ततः सर्वे बभक्षुः प्रेमसंयुताः । ततो वस्त्रादिभिस्ते च सत्कृता मुनिना बभुः ॥ ८॥ राजाऽथ विस्मितो भूत्वा प्रणनाम महामुनिम् । आज्ञां गृहीत्वा सैन्येन ययौ स्वनगरं प्रति ॥ ९॥ गच्छन्तं तं प्रधानं च ऊचे विनयसंयुतः । धेनुं प्रार्थय राजंस्त्वं ब्राह्मणस्तां प्रदास्यति ॥ १०॥ इयं धेनुर्महाराज रत्नभूता न संशयः । तां विना राज्यमुग्रं ते निष्फलं भासतेऽधुना ॥ ११॥ तस्य तद्वचनं श्रुत्वा राजा मोहेन संयुतः । विघ्नेन पीडितोऽत्यन्तमुवाच सचिवं वचः ॥ १२॥ गच्छ त्वं प्रार्थ्य विप्रं तं धेनुमानय यत्नतः । तथेति सैन्यमादाय मुनिं दुष्टः समाययौ ॥ १३॥ प्रधानं मुनिमुख्यं तं प्रणम्याभिदधे वचः । मुने धेनुमिमां देहि राज्ञे ह्यतिथिरूपिणे ॥ १४॥ ततस्तं कोपसंयुक्त उवाच मुनिसत्तमः । न दास्यामि महामूर्ख धेनुं देवस्वरूपिणीम् ॥ १५॥ ततः सोऽपि महावीरैर्धृत्वा धेनुं बलात् खलः । निर्जगाम मुनेस्तस्याऽऽश्रमात् कोपसमन्वितः ॥ १६॥ ततो धेनुः समाक्रुद्धा ससृजे बलमुत्कटम् । तेन सेन्यं हतं तस्य प्रधानसहितं प्रभो ॥ १७॥ ज्ञात्वा वृत्तान्तमुग्रं तं क्षुभितः कृतवीर्यजः । युद्धार्थं गर्वसंयुक्तो ययौ तस्याश्रमं विधे ॥ १८॥ (Page खं. ३ अ. ३६ पान ८०) ततस्तस्य महत् सैन्यं हतं धेन्वा बलेन वै । राजा खेदसमायुक्तो पपाल गतमत्सरः ॥ १९॥ कामधेनुर्गता स्वर्गं पुनः राजा समाययौ । हृदि विव्याध बाणेन मुनिः सोऽपि ममार ह ॥ २०॥ ततस्तं भर्त्सयामास रेणुका भूमिपाधमम् । एकविंशतिबाणैस्तां नृपो विव्याध सर्वतः ॥ २१॥ ततः सा क्षुभिताऽत्यन्तं तमुवाच नृपाधमम् । स्वल्पकालेन राजंस्त्वं मरिष्यसि न संशयः ॥ २२॥ सहस्रबाहुच्छेदस्ते भविष्यति सुदुर्मते । ततः सोऽपि भयोद्विग्नो जगाम नगरे स्वके ॥ २३॥ गते भूपे मुनेः पत्नी रुरोद करुणस्वरा । सस्मार तनयं रामं बदर्याश्रमगं प्रभुम् ॥ २४॥ स्मृतिमात्रेण रामः स ययौ मातुस्तदान्तिकम् । दृष्ट्वा मृतं महाविप्रं पितरं प्ररुरोद ह ॥ २५॥ मातरं बाणनिचयैश्चितां वीक्ष्य विशेषतः । प्रभुर्निष्कासयामास शरान् मातुः शरीरगान् ॥ २६॥ ततस्तं रेणुकादेवी सान्त्वयामास युक्तितः । मा शोकं कुरु पुत्र त्वं स्थास्यामि निकटे प्रभो ॥ २७॥ दत्तात्रेयं समानीय कुरु कर्म यथाविधि । आवयोः प्रभविष्यावो देहयुक्तौ पुनः प्रभो ॥ २८॥ नान्यो वक्ता न सन्देहः तस्माद्यत्नपरो भव । जहि दुष्टं च भूपं त्वं हस्तानां छेदनं कुरु ॥ २९॥ ततस्ते जनकं तत्र तस्य देहोद्भवेन च । रक्तेन तर्पयस्व त्वं तृप्तः सोऽपि भविष्यति ॥ ३०॥ ममाङ्गे एकविंशच्च बाणास्तेन समर्पिताः । एकविंशतिवारं त्वं कुरु निःक्षत्रियां धराम् ॥ ३१॥ एवमुक्त्वा गता देवी स्वर्गे देहं विसृज्य सा । रामस्तथा चकाराऽसौ दत्तेन सहितस्ततः ॥ ३२॥ पञ्चमे दिवसे रामः कर्म कृत्वा समास्थितः । दत्तात्रेयश्च स्वस्थाने ययौ भिक्षार्थमादरात् ॥ ३३॥ षष्ठे दिने समायातः व्याघ्रस्तत्र महाबलः । तं दृष्ट्वा भयसंयुक्तो रामः सस्मार मातरम् ॥ ३४॥ स्मृतिमात्रेण साऽऽयाता शिरोमात्रा प्रजापते । तां दृष्ट्वा विस्मितो रामस्तमुवाच हि रेणुका ॥ ३५॥ किमर्थं पुत्रकाऽऽहूता तव स्नेहात् समागता । ततोंऽतर्धानमकरोद्व्याघ्रः परम दुर्जयः ॥ ३६॥ एतस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ । दृष्ट्वा तां राममामन्त्र्योवाच योगविदां वरः ॥ ३७॥ समागता त्वया तात किमर्थं रेणुका स्मृता । न्यूनदेहा विशेषेण कुरु कर्म यथातथम् ॥ ३८॥ वृत्तान्तं कथयामास रामस्तं मुनिसत्तमम् । चकार कर्म साङ्गं तद्दत्तेन सहितः प्रभुः ॥ ३९॥ सपिण्डीकरणं रामश्चकार द्वादशेऽहनि । पाथेयश्राद्धमेवं स त्रयोदशदिने तथा ॥ ४०॥ ततः स जमदग्निस्तं दिव्यदेहः समागतः । राममालिङ्ग्य संहृष्टो बभूव मुनिसत्तमः ॥ ४१॥ जमदग्निं ततो दत्तो रेणुकां हर्षसंयुतः । उवाच भावगम्भीरो बोधयन् बोधदायकः ॥ ४२॥ गणेशं मन्त्रराजेन भजतं भावपूर्वकम् । तेन विघ्नविहीनौ च शान्तिरूपौ भविष्यथः ॥ ४३॥ क्षत्रहस्तेन मरणं युवाभ्यां प्राप्तमेव च । विघ्नराजमविज्ञाय जातौ दुःखेन संयुतौ ॥ ४४॥ (Page खं. ३ अ. ३७ पान ८१) एवमुक्त्वा गणेशस्य ददौ मन्त्रं महामुनिः । ताभ्यामेकाक्षरं विप्रौ तपोयुक्तौ बभूवतुः ॥ ४५॥ दत्तश्च स्वाश्रमे तद्वद्ययौ हर्षसमन्वितः । पित्रोः सेवार्थमानन्दाद्रामस्तत्र स्थितोऽभवत् ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रेणुकाजमदग्निसञ्जीवनकरणं नाम षट्त्रिंशोऽध्यायः ॥ ३.३६

३.३७ परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गत वर्षसहस्रे स तपतोराययौ प्रभुः । विघ्नेश्वरो भार्गवयोर्वरदस्तावुवाच ह ॥ १॥ रेणुके जमदग्ने त्वं वृणु मे वरमुत्तमम् । एकाक्षरविधानेन तपसा तोषितोऽभवम् ॥ २॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तौ बभूवतुः । ऊचतुर्गणराजं तौ भक्तिभावसमन्वितौ ॥ ३॥ धन्यो वंशो गणेशान दर्शनेन तथाऽऽवयोः । तपः स्वाध्याय एवं त आवयोर्नात्र संशयः ॥ ४॥ एवमुक्त्वा प्रणम्यैनं पूजयन्तौ गणेश्वरम् । सरोमाञ्चौ तुष्टुवतुः प्रहर्षेण प्रजापते ॥ ५॥ रेणुकाजमदग्नी उचतुः । नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥ ६॥ अनादये त्वनाधार वक्रतुण्डस्वरूपिणे । गणेशान अनन्तानां गणानां पतये नमः ॥ ७॥ नानाशक्तियुतायैव नानाभेदकराय ते । नानाभेदविहीनाय हेरम्बाय नमो नमः ॥ ८॥ अमेयमायया चैव खेलकाय च ढुण्ढये । सिद्धिबुद्धिसहायाय सिद्धिबुद्धिवराय च ॥ ९॥ स्वानन्दपतये तुभ्यं भक्तेभ्यो योगदायिने । योगाकाराय योगाय शान्तिदाय नमो नमः ॥ १०॥ अखण्डानन्दरूपाय भुक्तिमुक्तिप्रदाय च । लम्बोदराय देवाय चैकदन्ताय ते नमः ॥ ११॥ महोदराय विघ्नानां पतये सुखदायिने । मूषकध्वजिने तुभ्यं नमो मूषकवाहन ॥ १२॥ चतुर्भुजाय सर्वेषामादिपूज्याय भोगिने । ज्येष्ठराजाय सर्वेषां पितृमातृस्वरूपिणे ॥ १३॥ यं स्तोतुं न समर्थाश्च वेदा देवाः शिवादयः । योगिनस्तं कथं चावां ह्यतस्त्वां प्रणमावहे ॥ १४॥ एवं स्तुत्वा गणेशानं प्रणतौ भक्तिसंस्तुतौ । तावुत्थाप्य गणाधीश ऊचिवान् हर्षसंयुतः ॥ १५॥ वरं च वृणुतं पुत्रौ दास्यामि मनसीप्सितम् । यमिच्छथो महाभागौ भक्तिभावनियन्त्रितः ॥ १६॥ गणेशवचनं श्रुत्वा दम्पती तमथोचतुः । प्रणम्य च पुनः पादौ स्पृष्ट्वा तौ हर्षसंयुतौ ॥ १७॥ तावूचतुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा ते पादपद्मे नौ भक्तिं देहि सुखप्रदाम् ॥ १८॥ योगशान्तिं च विघ्नेश देहि योगेश नौ परा । गाणपत्यप्रियां चैव सदा ह्यानन्ददायिकाम् ॥ १९॥ ओमित्युक्त्वा गणाध्यक्षः पुनः प्रोवाच तौ तदा । (Page खं. ३ अ. ३७ पान ८२) दृष्ट्वा भक्तिं तयोर्भावं भक्तेभ्यः सुखदायकः ॥ २०॥ भवत्कृतमिदं मे यत् स्तोत्रं योगप्रदं भवेत् । यो यदिच्छति तत्तस्मै दास्यामि स्तोत्रपाठतः ॥ २१॥ जमदग्ने सदा शान्तो भव मे भक्तिकारकः । रेणुके देहयुक्ता त्वं भज मां योगभाविता ॥ २२॥ लोकास्त्वां मस्तकाकारां पश्यन्त्यत्र न संशयः । ज्ञानदृष्ट्या तथा साङ्गां पश्येयुर्दैवतादयः ॥ २३॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । रेणुका जमदग्निश्च स्वाश्रमस्थौ बभूवतुः ॥ २४॥ ततः कदाचिद्रामस्तौ प्रणिपत्य कृताञ्जलिः । उवाच पितरौ वाक्यं साक्षाद्विष्णुः प्रतापवान् ॥ २५॥ श्रीराम उवाच । अर्जुनं संहनिष्यामि तथा निःक्षत्रियां धराम् । करिष्यामि न सन्देहः पितरौ भवदाज्ञया ॥ २६॥ ततस्तं जमदग्निश्चोवाच हर्षसमन्वितः । मा कुरुष्व वृथा हिंसां राम गर्वं परित्यज ॥ २७॥ ततस्तं भार्गवं राम उवाच विनयान्वितः । मातुरग्रे प्रतिज्ञा च मुनीश्वर कृता मया ॥ २८॥ तां सत्यां प्रकरिष्यामि मातृभक्तिपरायणः । देहत्यागं करिष्यामि तदर्थमथवा मुने ॥ २९॥ तस्याऽऽग्रहं समालोक्य न्यगदत् पुत्रमादरात् । शङ्करं गच्छ भो राम स तेऽभीष्टं करिष्यति ॥ ३०॥ तौ प्रणम्य जगामाऽसौ कैलासे शङ्करं प्रभुः । प्रणिपत्य महेशानं स्तुत्वा तं चाब्रवीद्वचः ॥ ३१॥ कार्तवीर्यं हनिष्यामि कुर्वे निःक्षत्रियां धराम् । एकविंशतिवारं च तत्रोपायं वद प्रभो ॥ ३२॥ तत एकाक्षरं मन्त्रं गणेशस्य ददौ शिवः । रामाय तं प्रगम्याशु वनं प्रायान् महाबलः ॥ ३३॥ पूर्वजन्मनि देवस्य गणेशस्य कृतं तपः । वामनेन च तत् स्मृत्वा तस्मिन् तपसि संस्थितः ॥ ३४॥ वायुभक्षस्ततो मन्त्रं जजाप ध्यानसंयुतः । समाधिना महोग्रेण तोषयामास विघ्नपम् ॥ ३५॥ गते वर्षशते पूर्णे आययौ तं गजाननः । भक्तं भक्त्या समायुक्तं महोग्रतपसा युतम् ॥ ३६॥ उवाच तं महाभागं भार्गवं विष्णुमव्ययम् । वरं वृणु महाभाग भक्त्या दास्यामि भावितः ॥ ३७॥ श्रुत्वा तस्य वचो रम्यमुत्थाय गणपं द्विजः । ननाम दण्डवद्भूमौ तं पुपूज विशेषतः ॥ ३८॥ पूजयित्वा पुनर्नत्वा तुष्टाव प्रकृताञ्जलिः । रामो भक्तिरसेनैव सम्प्लुतः साश्रुलोचनः ॥ ३९॥ राम उवाच । नमस्ते गणनाथाय भक्तानन्दविवर्धन । भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥ ४०॥ वेदान्तवेद्यरूपाय मनोवाणीमयाय च । मनोवाणीविहीनाय योगाकाराय ते नमः ॥ ४१॥ गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे । सगुणाय च कण्ठाधो नराकाराय ते नमः ॥ ४२॥ अनादये च पूज्याय सर्वेषां सर्वदायिने । आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥ ४३॥ विघ्नहन्त्रे सुभक्तानां विघ्नकर्त्रे दुरात्मनाम् । सदा स्वानन्दनाथाय ढुण्ढिराजाय ते नमः ॥ ४४॥ वक्रतुण्डाय ते नाथ नमो लम्बोदराय वै । (Page खं. ३ अ. ३७ पान ८३) सततं शान्तिरूपाय शान्तिदाय नमो नमः ॥ ४५॥ महोदराय सिद्धेश्च बुद्धेश्च पतये नमः । नानैश्वर्यप्रदात्रे ते भ्रमदाय नमो नमः ॥ ४६॥ नानाज्ञानप्रभेदैश्च मोहकर्त्रे नमो नमः । सुभक्तानां सदा नाथ भ्रममोहादिहारिणे ॥ ४७॥ नानादैत्यनिहन्त्रे च देवानां मदहारिणे । सुरासुरमयायैव ब्रह्मेशाय नमो नमः ॥ ४८॥ सर्वत्र योगरूपेण संयोगायोगहीनतः । संस्थितं तं कथं स्तौमि त्वां विघ्नेश वद प्रभो ॥ ४९॥ यं समर्था गणाध्यक्ष योगिनः शेषकादयः । शिवादयश्च वेदा वै स्तौतुं न प्रभवन्ति ते ॥ ५०॥ तं किं स्तौमि गणाधीशमतस्त्वां प्रणतोऽभवम् । तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् ॥ ५१॥ एवं संस्तुवतस्तस्य भक्तिभावेन मानद । भक्त्या रोमोद्गमः प्राप्तः कण्ठरोधो बभूव ह ॥ ५२॥ ननर्त परमानन्दयुक्तोऽसौ भार्गवाग्रणीः । जय विघ्नेश हेरम्ब गणेशेति वदंस्तदा ॥ ५३॥ तं तथा भक्तिसम्मग्नं वीक्ष्य देवो गजाननः । उवाच साश्रुनेत्रश्च सरोमाञ्चः प्रजापते ॥ ५४॥ राम राम महाभाग श‍ृणु मे परमं वचः । धन्योऽसि सर्वभावेन भक्तो मे मग्नतां गतः ॥ ५५॥ त्वया कृतमिदं स्तोत्रं भवेत् भक्तिरसप्रदम् । पठिष्यति च यश्चैतच्छृणुयात् सततं परम् ॥ ५६॥ तस्याऽहं सकलां बाधां नाशयिष्यामि नित्यदा । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ५७॥ यद्यच्चिन्तयति प्राज्ञ तत्तद्दास्यामि केशव । मम मान्यः सदा सोऽपि भविता नात्र संशयः ॥ ५८॥ परशुं मे गृहाण त्वं तेन मत्तौल्यगो भवेः । जेष्यसि त्वं महावीरमर्जुनं राजभिर्वृतम् ॥ ५९॥ निःक्षत्रियां तथा पृथ्वीं करिष्यसि न संशयः । एकविंशतिवारं त्वं सदा जयसमन्वितः ॥ ६०॥ नाम ते सर्वविख्यातं भविष्यति शुभप्रदम् । उक्तं परशुरामेति स्मरणेन सुखप्रदम् ॥ ६१॥ यज्ञान् कृत्वा महाभाग यशः संस्थाप्य भूतले । शान्तियोगस्थभावेन मां भजिष्यसि नित्यदा ॥ ६२॥ एवमुक्त्वांऽतर्दधेऽसौ जामदग्न्यं गणेश्वरः । रामः संस्थापयामास गणेशं ब्राह्मणैस्ततः ॥ ६३॥ सम्पूज्य स्वगृहं रामो ययौ हर्षसमन्वितः । रेणुकां जमदग्निं स ननाम परशोर्धरः ॥ ६४॥ तयोराज्ञां गृहीत्वा स भ्रातृभिश्च समन्वितः । जुहाव कार्तवीर्यं तं महाबलपराक्रमम् ॥ ६५॥ सिद्धैश्च कवचैर्युक्ता राजानः सर्व आगताः । अवध्याः सर्वभावेन देवादीनां महाबलाः ॥ ६६॥ गणेशवरदानेन परशोस्तेजसा प्रभुः । रामः सर्वांश्च सङ्ग्रामे मारयामास यत्नतः ॥ ६७॥ कार्तवीर्यं तं जघान स ततो रोषतो दृढम् । युद्धं कृत्वा महाघोरं बाहूंश्चिच्छेद लीलया ॥ ६८॥ ममार कार्तवीर्यश्च पर्शुना च प्रजापते । ततः स विजयी रामः क्षत्रियाणां वधे रतः ॥ ६९॥ निःक्षत्रियां धरां तत्र चकार क्रोधसंयुतः । पुनर्ब्राह्मणवीर्येण क्षत्रियाः प्रबभूविरे ॥ ७०॥ रामेण ते पुनः सर्वे हताः क्षत्रकुलोद्भवाः । (Page खं. ३ अ. ३८ पान ८४) निःक्षत्रियां धरां दक्ष चकार स पुनः पुनः ॥ ७१॥ एकविंशतिवारं च कृत्वा निःक्षत्रियां धराम् । क्षत्रियाणां च रक्तेन तर्पयामास पूर्वजान् ॥ ७२॥ यज्ञं कृत्वा ददौ पृथ्वीं ब्राह्मणेभ्यो महायशाः । समुद्रेण ततस्तस्मै दत्ता पृथ्वी भयाद्विधे ॥ ७३॥ तत्राऽयं संस्थितो रामो भजते गणनायकम् । अनन्यभावसंयुक्तो गाणपत्योऽधुना महान् ॥ ७४॥ इदं ते कार्तवीर्यस्य रामस्य च महाद्भुतम् । जमदग्ने रेणुकायाश्चरितं कथितं मया ॥ ७५॥ यः श‍ृणोति नरो भक्त्या पठेद्वा तस्य सम्भवेत् । भुक्तिमुक्तिप्रदं दक्ष चिन्तितार्थप्रदं परम् ॥ ७६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः ॥ ३.३७

३.३८ हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । कार्तवीर्यस्य पुत्रास्तु शतं तत्र महारथाः । पञ्चैव बलिनः शूरा धर्मात्मानो यशस्विनः ॥ १॥ जयध्वजः शूरसेनो वृषभोऽथ पुरुर्जितौ । जयध्वजस्तत्र राजा मुख्योऽभूत् स प्रजापते ॥ २॥ जयध्वजस्य पुत्रोऽभूत्तालजङ्घः प्रतापवान् । तस्य पुत्रशतं जज्ञे तालजङ्घा इति स्मृताः ॥ ३॥ तेषां ज्येष्ठो महाबाहुर्वीतिहोत्रोऽभवन्नृपः । वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ ४॥ वृषो वंशकरश्चासीत्तस्य पुत्रोऽभवन् मधुः । मधोः पुत्रशतं जज्ञे वृष्णिर्ज्येष्ठः स वंशकृत् ॥ ५॥ वीतिहोत्रसुतश्चैवानन्तनामा महायशाः । दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥ ६॥ तस्य भार्या गुणैर्युक्ता पातिव्रत्यपरायणा । वने स तु ययौ राजोर्वशीं तत्र ददर्श ह ॥ ७॥ तस्यां सक्तः स्वयं कामी न सस्मार स्वकां स्त्रियम् । गते बहुतिथे काले ययौ कण्वेन बोधितः ॥ ८॥ स्वगृहं पुनरेवाऽसौ प्रायश्चित्तं चकार वै । याजयामास तं कण्वः स विनीतो बभूव ह ॥ ९॥ तस्य पुत्रो बभूवाऽपि सुप्रतीक इति श्रुतः । सहस्रजित् कुलभवं सर्वं ते कथितं त्विदम् ॥ १०॥ यदुपुत्रस्य वंशं वै श‍ृणु क्रोष्टोः प्रजापते । क्रोष्टोरेको वृजिनवानिति पुत्रोऽभवच्छ्रुतः ॥ ११॥ तस्य पुत्रोऽभवच्छाहिः कुशेकुस्तत्सुतो मतः । कुशेकोश्चाऽभवत्पुत्रो नाम्ना चित्ररथो बली ॥ १२॥ पुत्रश्चित्ररथस्याऽभूच्छशबिन्दुस्ततोऽभवत् । दशलक्षसहस्राणि तेषु ज्येष्ठः पृथुश्रवाः ॥ १३॥ उशनास्तस्य पुत्रोऽभूद्धर्म एव स कथ्यते । तस्माद्रुचकनामाऽभूत्ततः पञ्च सुता मताः ॥ १४॥ तेषु वंशधरः प्रोक्तो ज्यामघो लोकविश्रुतः । तस्माद्विदर्भः पुत्रोऽभूद्विदर्भाच्च कुशक्रथौ ॥ १५॥ लोमपादस्तृतीयस्तु बभ्रुस्तस्याऽऽत्मजोऽभवत् । (Page खं. ३ अ. ३८ पान ८५) कृतिस्तस्यात्मजः प्रोक्त उशिकस्तत्सुतोऽभवत् ॥ १६॥ उशिकात् पुत्रको जातश्चेदिश्चैद्यस्ततोऽभवत् । तस्य पुत्रो महाबाहुःप्रभावात् कौशिकः स्मृतः ॥ १७॥ अभूत्तस्य सुतो धीमान् सुमन्तुश्च ततोऽमलः । अमलस्य सुतः प्रोक्तो निःश्वेतश्च महाबलः ॥ १८॥ तस्य दक्षाऽभवन् पुत्राः शतं चैव महाबलाः । क्रथस्याप्यऽभवत्कुन्तिर्धृष्टिस्तस्याऽथ निर्वृतिः ॥ १९॥ दशार्होऽस्य ततो व्योमस्तस्माज्जीमूतकस्ततः । विकृतिस्तस्य पुत्रो भीमरथोऽभून् महाबलः ॥ २०॥ तस्मान्नवरथो नाम बभूव च महाबलः । तस्य पुत्रो दशरथः शकुनिस्तस्य चात्मजः ॥ २१॥ तस्मात् करम्भिः सम्भूतो देवरातोऽभवत्ततः । ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ॥ २२॥ मधुस्तस्य सुतो जज्ञे तस्मात् कुरुरजायत । पुत्रद्वयमभूत्तस्य सुत्रामा चानुरेव च ॥ २३॥ अनोस्तु पुरुहोत्रोऽभूदायुस्तस्य सुतो मतः । आयुषः सात्त्वतो नाम तस्य सप्त सुता मताः ॥ २४॥ भजमानो भजिर्दिव्यो वृष्णिर्देववृधोंऽधकः । महाभोजश्च विख्याता यादवेषु प्रजापते ॥ २५॥ भजमानस्य निम्लोचिः किङ्कणो वृष्णिरेव च । अथ देववृधो राजा पुत्रार्थे तप आचरत् ॥ २६॥ बभ्रुः पुत्रोऽभवत्तस्य पुण्यश्लोको महायशाः । सर्वशास्त्रार्थतत्त्वज्ञः श्लोकौ यस्य बभूवतुः ॥ २७॥ यशसा तेजसा राजा त्रिलोकेषु विराजितः । महाभोजकुले जाता भोजास्ते वै प्रकीर्तिताः ॥ २८॥ वृष्णेः सुमित्रः पुत्रश्च युधाजिदपरस्तथा । अनमित्रः शिनिस्तस्मान्निम्नोऽभूदनमित्रतः ॥ २९॥ सत्राजिच्च प्रसेनश्च विख्यातौ निम्नजौ सुतौ । सत्राजित् सूर्यमाराध्य मणिं लेभे स्यमन्तकम् ॥ ३०॥ शिनेरथ समुत्पन्नः पुत्रः सर्वार्थकोविदः । सत्यकः सत्यसम्पन्नः सत्यनामा महायशाः ॥ ३१॥ सात्यकिर्युयुधानः स जयस्तस्याऽभवत्सुतः । कुणिश्चाथ सुतो धीमांस्तस्य पुत्रो युगन्धरः ॥ ३२॥ अनमित्रसुतो योऽन्यो वृष्णिः शस्त्रविशारदः । श्वफल्कश्च सुतो वृष्णेः परश्चित्ररथोऽभवत् ॥ ३३॥ श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । तस्यामजनयत् पुत्रमक्रूरं साधुसम्मतम् ॥ ३४॥ आसङ्गसारमेयाद्या अन्ये च द्वादशाऽऽत्मजाः । अक्रूरस्याऽभवत्पुत्रो देववानुपदेवकः ॥ ३५॥ अभूच्चित्ररथात् पुत्रः पृथुश्चापृथुरेव हि । अश्वग्रीवः सुबाहुश्च सुधाश्वाद्याः सुताः स्मृताः ॥ ३६॥ अथान्धको महाबाहुर्लेभे वै चतुरः सुतान् । कुकुरं भजमानं च शुचिं कम्बलबर्हिणम् ॥ ३७॥ कुकरस्य सुतो वह्निर्वह्नेस्तु तनयोऽभवत् । कपोतरोमा भो दक्ष पुत्रोऽभवदनुस्ततः ॥ ३८॥ सोऽभवत्तुम्बरोर्मित्रं सुतस्तस्यांऽधकः स्मृतः । अन्धकादभवत् पुत्रस्तेजोयुक्तश्च दुन्दुभिः ॥ ३९॥ स गोवर्धनमासाद्य तताप विपुलं तपः । ब्रह्मा तस्मै ददौ चैव वरं तन्मनसीप्सितम् ॥ ४०॥ वंशस्ते चाक्षयो भावी कीर्तिज्ञानादिकं यशः । (Page खं. ३ अ. ३९ पान ८६) सुरैः सदाधिकं मैत्र्यं कामरूपित्वमेव च ॥ ४१॥ अरिद्योतः सुतस्तस्य तेजोयुक्तश्च दुन्दुभेः । पुनर्वसुः सुतस्तस्याहुकस्तस्य सुतः स्मृतः ॥ ४२॥ आहुकादुग्रसेनश्च देवकश्च प्रजापते । देवकस्य सुता वीरा जज्ञिरे देवसन्निभाः ॥ ४३॥ देववानुपदेवश्च सुदेवो देववर्धनः । तेषां स्वसारः सप्ताऽऽसन् वसुदेवाय ता ददौ ॥ ४४॥ धृतदेवा तथा चैवोपदेवा देवसाक्षिता । श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ॥ ४५॥ देवकी वसुदेवाय ददौ सर्वाः प्रजापते । उग्रसेनस्य पुत्रास्तु कंसमुख्या महाबलाः ॥ ४६॥ महायशा अभूत् पुत्रो भजमानाद्विदूरथः । तस्य शूरः शिनिस्तस्य स्वयम्भोजश्च तत्सुतः ॥ ४७॥ हृदिकोऽतो देहबाहुस्ततः शतधनुस्ततः । कृतवर्मा ततो देवमीढोऽतः शूरकस्ततः ॥ ४८॥ वसुदेवादयो दक्ष दश धर्मपरायणाः । वसुदेवान् महातेजा वासुदेवो जगद्गुरुः ॥ ४९॥ देवकीपुत्रतां यातो देवैः सम्प्रार्थितो हरिः । भूमिभारावताराय साधूनां पालनाय च ॥ ५०॥ रोहिणी च महाभागा वसुदेवादजीजनत् । सङ्कर्षणं ततो ज्येष्ठं शेषांशं च हलायुधम् ॥ ५१॥ उमा देहधरा जाता योगनिद्रा च कौशिकी । नियोगाद्वासुदेवस्य यशोदा तनयाऽभवत् ॥ ५२॥ ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । जघान कंसः प्रागेव तान् सर्वान् सूतिमात्रतः ॥ ५३॥ सुषेणश्च ततो दायि भद्रसेनो महाबलः । ऋतुः सम्मर्दनो भद्रः कीर्तिमानिति संज्ञिताः ॥ ५४॥ हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः । असूत लोकनाथं तं बलभद्रं हलायुधम् ॥ ५५॥ जाते रामे च देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३.३८

३.३९ विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । रामस्य रेवती भार्या सुरूपाऽऽसीद्गुणान्विता । तस्यामुत्पादयामास द्वौ पुत्रौ निषधोल्मुकौ ॥ १॥ षोडश स्त्रीसहस्राणि शतमष्टोत्तरं तथा । कृष्णस्य पत्न्यः सम्प्रोक्ताश्चारुरूपाः सुलोचनाः ॥ २॥ तासु पुत्रा बभूवुश्च शतशोऽथ सहस्रशः । प्रत्येकं दश पुत्राश्च दुहितैका बभूविरे ॥ ३॥ प्रद्युम्नसाम्बमुख्याश्च महातेजोयुताः सुताः । महारथा महाभागा बभूवुर्ज्ञानसंयुताः ॥ ४॥ प्रद्युम्नस्य च पुत्रोऽभूदनिरुद्धः प्रतापवान् । तस्य पुत्रस्तु वज्रः स एवाभूद्वंशधारकः ॥ ५॥ (Page खं. ३ अ. ३९ पान ८७) मुसलात् सोऽवशिष्टोऽभूदेवं नानाविधा नृपाः । जातास्तत्र न शक्यं वै भवेत् कथयितुं मया ॥ ६॥ दक्ष उवाच । कथं विष्णुः स्वयं साक्षान् मानुषे देहधारकः । बभूव तत्र यन्मूलं तदेव वद मानद ॥ ७॥ मुद्गल उवाच । कथां श‍ृणु महारम्यां पुरा जातां प्रजापते । यया ते संशयः सर्वो नाशमेष्यति तच्छ्रुतात् ॥ ८॥ पुरा देवैश्च दैत्येशा जिता विष्णुसमन्वितैः । राज्यं त्यक्त्वा ततो दैत्या वनेषु व्यचरन् भयात् ॥ ९॥ ततस्तान् हन्तुमत्यन्तं ययुर्देवा उदायुधाः । प्रह्लादप्रमुखाः सर्वे भयभीतास्ततोऽभवन् ॥ १०॥ अनाथांस्तानथोचुस्ते कृत्वा करपुटं पुरः । राज्यं त्यक्त्वा वयं सर्वे वनेषु विचरामहे ॥ ११॥ शस्त्रादिभिर्विहीनान्नः कथं हन्तुं समुद्यताः । सुराः सर्वं भवद्भिश्च गृहीतं तदपि ह्यहो ॥ १२॥ अतो नो रक्षत प्राज्ञाः शरणं समुपागतान् । मा हिंस्यत महाभागा दीनांश्चैव विशेषतः ॥ १३॥ तथाऽपि विष्णुना तत्र प्रेरितास्तेऽपि दानवान् । देवा हन्तुं प्रारभन्त पलायन्ताऽसुरास्तदा ॥ १४॥ शरणं स्वगुरुं तत्र भृगुं योगनिधिं ययुः । उदायुधास्तु पश्चात्ते जग्मुः क्रोधसमन्विताः ॥ १५॥ तत्र सर्वे भृगुं दक्ष ददृशुर्न च दानवाः । समिदर्थं गतं ज्ञात्वा भृगुपत्नीं समाययुः ॥ १६॥ रक्ष नो देवि भीतांस्तु देवेभ्यः शरणं गतान् । नोचेद्वयं मरिष्यामस्त्वदग्रे नात्र संशयः ॥ १७॥ तेषां वचनमाकर्ण्य तानुवाच सुखप्रदा । मा भयं कुरुत ह्येवं वारयामि सुरानहम् ॥ १८॥ तस्यास्तद्वचनं श्रुत्वा हर्षयुक्ताश्च दानवाः । तत्र संस्थास्ततो दक्ष निःश्वासोच्छ्वाससंयुताः ॥ १९॥ एतस्मिन्नन्तरे तत्राजग्मुर्विष्णुपुरोगमाः । देवा उदायुधाः सर्वे दैत्यान् हन्तुं प्रचक्रमुः ॥ २०॥ तानुवाच भृगोः पत्नी मा हिंस्यत सुरोत्तमाः । दैत्यान् मां शरणं प्राप्तान्राज्यहीनान् विशेषतः ॥ २१॥ तामनादृत्य देवेन्द्रो विष्णुना प्रेरितः स्वयम् । वज्रं धृत्वा ययौ हन्तुं दैत्यान् क्रोधविलोचनः ॥ २२॥ ततो भृगोश्च पत्नी सा चुकोप तपसा स्वयम् । सवज्रं देवराजं तं स्तम्भितं प्रचकार ह ॥ २३॥ तद् दृष्ट्वा विष्णुना तत्र चक्रेण क्षुरनेमिना । शिरश्छिन्नं भृगोः पत्न्याः सा पपात धरातले ॥ २४॥ एतस्मिन्नेव काले तु भृगुस्तत्र समागतः । मृतां पत्नीं तथा दृष्ट्वा चुकोपारुणलोचनः ॥ २५॥ शशाप विष्णुमावेशात् पत त्वं पृथिवीतले । ब्राह्मणीवधदोषेण देवाधम न बुद्ध्यसि ॥ २६॥ भृगुणा तपसा स्वेन ज्ञानेनाऽपि प्रजापते । जीवयुक्ता कृता पत्नी रक्षिता दानवास्तथा ॥ २७॥ ततोऽतिदुःखितो देवो विष्णुः शोकसमन्वितः । शरणं विघ्नराजं तं ययौ क्षेत्रे मयूरके ॥ २८॥ तत्राऽतितपसा देवं वर्षमात्रं प्रजापते । निराहारेण भक्त्या स तोषयामास विघ्नपम् ॥ २९॥ ततस्तं गणराजः स ययौ भक्तिनियन्त्रितः । उवाच च महाविष्णुं वरं वृणु हृदीप्सितम् ॥ ३०॥ गणेशं प्रणनामाथोत्थायाऽसौ विष्टरश्रवाः । (Page खं. ३ अ. ४० पान ८८) पुपूज भक्तिभावेन तं तुष्टाव गजाननम् ॥ ३१॥ अथर्वशिरसा तेन स्तुतस्तं प्रत्युवाच ह । वरं वरय दास्यामि मा खेदं कुरु केशव ॥ ३२॥ श्रीविष्णुरुवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । शापं मे भृगुसम्भूतं निवर्तय महाप्रभो ॥ ३३॥ अत्रैव वाससंस्थानं देहि ते भजनाय मे । निर्विघ्नं सर्वदा स्वामिन् कुरु मां त्वत्पदप्रियम् ॥ ३४॥ ओमित्युक्त्वा स्वयं ढुण्ढिरूचिवान् भक्तमुत्तमम् । मा चिन्तां कुरु विष्णो त्वं श‍ृणु मे परमं वचः ॥ ३५॥ भृगोर्मदीयभक्तस्य तस्य वाणीं न वै मृषा । करिष्यामि कदा तस्मान् मृत्युलोके पतिष्यसि ॥ ३६॥ तत्रैव ते सदा ज्ञानं नष्टं नैव भविष्यति । मत्प्रसादाच्च देवेश स्वेच्छाचारी सदा सुखी ॥ ३७॥ देवैः सम्प्रार्थितस्त्वं वै दैत्यादीनां वधाय च । धर्मसंस्थापनार्थायाऽवतारं प्रधरिष्यसि ॥ ३८॥ तत्र ते कीर्तिरत्यन्तं भविष्यति विशेषतः । यशो महत् पृथिव्यां त्वं स्थापयिष्यसि केशव ॥ ३९॥ तत्र त्वदीयभक्ताश्च भविष्यन्ति विशेषतः । तेषां चतुर्विधां वाञ्छां पूरयिष्यसि नित्यदा ॥ ४०॥ पुनश्च देवकार्यं च कृत्वा देव जनार्दन । विकुण्ठे ते सदा वासो भविष्यति न संशयः ॥ ४१॥ स्वेच्छया देहवांस्त्वं वै भविष्यसि न संशयः । मत्प्रसादात् हृषीकेश सर्वं ते वाञ्छितं भवेत् ॥ ४२॥ अन्यत्त्वया च देवेश प्रार्थितं तद् भविष्यति । वस त्वं क्षेत्रगो भूत्वा स्थानं दत्तं मयाऽक्षयम् ॥ ४३॥ इत्युक्त्वांऽतर्दधे दक्ष गणेशः करुणानिधिः । विष्णुना तत्र संवासः कृतो भक्त्या प्रजापते ॥ ४४॥ पूर्वदिग्भागदेशे वै स्थापितो गणनायकः । विष्णुर्विनायक इति नाम तस्य कृतं द्विजैः ॥ ४५॥ एत्तते कथितं दक्ष देहधारणकारणम् । विष्णोर्देवाधिपस्याऽपि नानायोनिसमुद्भवः ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३.३९

३.४० माण्डव्यचरितं नाम चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः । मुद्गल उवाच । पुरोर्वंशे महाभागा राजानो धर्मशालिनः । बभूवुर्यज्ञकर्तारः स्वधर्मनिरताः किल ॥ १॥ तेषां चरित्रमत्यन्तं कथनाय न शक्यते । बहुत्वात् कारणं दक्ष श‍ृणु ते कथयाम्यहम् ॥ २॥ पूरोर्वंशे महाराज शन्तनुः प्रबभूव ह । विख्यातो धर्मशीलश्च प्रजापालनतत्परः ॥ ३॥ तस्य पुत्रोऽभवच्छ्रेष्ठो भीष्मो धर्मपरायणः । गङ्गायां सर्वशास्त्रज्ञो ब्रह्मचर्यपरायणः ॥ ४॥ सत्यवत्यां च पुत्रौ द्वौ शन्तनोर्वै बभूवतुः । चित्राङ्गदो महाबाहुर्विचित्रवीर्यकोऽपरः ॥ ५॥ चित्राङ्गदो महातेजाः पस्पर्धे क्षत्रियान् सदा । चित्राङ्गदेन युद्धे स गन्धर्वेण हतोऽभवत् ॥ ६॥ विचित्रवीर्यकस्तत्र यक्ष्मणा पीडितोऽभवत् । (Page खं. ३ अ. ४० पान ८९) मृतः स रोगदोषेण दुःखिताः सुहृदोऽभवन् ॥ ७॥ तस्य भार्ये प्रजानाथ द्वे काशीराजपुत्रिके । अम्बिकांऽबालिका नाम्न्यौ दुःखिते ते बभूवतुः ॥ ८॥ सत्यवत्या कृतं तत्र सन्तानार्थं महामुनेः । व्यासस्य स्मरणं दक्ष स्वपुत्रस्य विशेषतः ॥ ९॥ स आगत उवाचैनां किमर्थं दुःखिता वद । मातस्ते दुःखनाशं च करिष्यामि न संशयः ॥ १०॥ तं प्रत्युवाच सा देवी वंशवृद्धिं कुरु प्रभो । विचित्रवीर्यक्षेत्रे त्वं मदाज्ञावशगो भव ॥ ११॥ तथेति तेन वंशस्य कृता वृद्धिः प्रजापते । कुत्सितं वेषमास्थाय रात्रौ रेमे महामुनिः ॥ १२॥ अम्बिकायां मुनेर्वीर्यात् धृतराष्ट्रो बभूव ह । पाण्डुरम्बालिकायां वै दास्यां च विदुरोऽभवत् ॥ १३॥ यमोऽयं विदुरः साक्षाच्छूद्रयोनौ समुद्भवन् । माण्डव्यशापभोगार्थं नीतिज्ञः स बभूव ह ॥ १४॥ दक्ष उवाच । कथं माण्डव्यशापश्च यमेशस्य पुराऽभवत् । धर्ममार्गरतस्यापि स्वपरेषु समस्य भोः ॥ १५॥ मुद्गल उवाच । सम्यक् पृष्टं त्वया नाथ श‍ृणु तस्य कथानकम् । पुरातनभवं तेऽहं कथयामि सविस्तरम् ॥ १६॥ माण्डव्यो मुनिवर्यः स वने तपसि संस्थितः । तत्र चोरा धनं हृत्वा पलन्तश्च समाययुः ॥ १७॥ राज्ञश्च वीरमुख्यास्तन्निशायां धर्तुमाययुः । चोरांश्चोरैर्धनं सर्वं स्थापितं मुनिसन्न्निधौ ॥ १८॥ धनं त्यक्त्वा गताश्चोरा वने वै यत्र तत्र ते । राजदूतैर्धनं दृष्टं सङ्गृह्य कुपिता भृशम् ॥ १९॥ ततो मुनिं तिरस्कृत्य मौनभावसमन्वितम् । सङ्गृह्य ताडयन्तस्त आययुर्नगरे स्वके ॥ २०॥ राजानं ते समाचख्युर्धनं दत्त्वा यथातथम् । वृत्तान्तं चोरसम्भूतं नृपोऽपि कुपितोऽभवत् ॥ २१॥ शूले प्रोतव्य एवं चेद्भवद्भिश्चोरसत्तमः । तथेति तैः कृतं तत्र हस्ते प्रोतो महामुनिः ॥ २२॥ तत्र दुःखसमायुक्तो माण्डव्यस्तपसि स्थितः । सस्मार स्वगुरुं विप्रं कश्यपं सृष्टिकारकम् ॥ २३॥ स्मृतमात्रः स तस्याऽग्रे कश्यपः सहसाऽऽययौ । तं तथा दुःखसंयुक्तं दृष्ट्वा सन्दुःखितोऽभवत् ॥ २४॥ उवाच तं स्वशिष्यं स भज त्वं गणनायकम् । सर्वविघ्ननिहन्तारं भक्तेभ्यः शान्तिदायकम् ॥ २५॥ ततस्तं मुनिशार्दूलं माण्डव्यः प्रजगाद वै । केन मार्गेण विघ्नेशं तं भजामि वदस्व माम् ॥ २६॥ तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह । गणेशस्य स्वरूपं वै भक्तेभ्यः सुखदं परम् ॥ २७॥ कश्यप उवाच । पञ्चधा चित्तवृत्तेश्च चालकोऽयं गजाननः । चिन्तामणिरिति ख्यातो वेदान्ते वेदवादिभिः ॥ २८॥ सम्प्रज्ञातस्वरूपो वै देहस्तस्य महामुने । असम्प्रज्ञातरूपं च शिरो गणपतेः स्मृतम् ॥ २९॥ तेनाऽयं गजवक्त्रोऽभूद्गजशब्दं विचारय । भ्रमरूपां महामायां सिद्धिं विद्धि महामते ॥ ३०॥ भ्रमधारकरूपां त्वं बुद्धिं जानीहि सत्तम । तयोः स्वामी गणाधीशो योगाकारः प्रदृश्यते ॥ ३१॥ तं भजस्व विधानेन योगशान्तिमयं मुने । (Page खं. ३ अ. ४० पान ९०) तेन त्वं विघ्नसंहीनो भविष्यसि न संशयः ॥ ३२॥ इत्युक्त्वा स गणेशस्य ददौ तस्मै महामुनिः । एकाक्षरविधानेन कवचं शास्त्रसम्मतम् ॥ ३३॥ आज्ञां सङ्गृह्य विप्रेशः कश्यपः स्वालयं ययौ । माण्डव्यस्तत्र विघ्नेशमभजद्भावसंयुतः ॥ ३४॥ कवचं गणराजस्य दधार मुनिसत्तमः । कवचे सन्धृते दक्ष पीडाहीनो बभूव ह ॥ ३५॥ तत्रैव सहसा राजा कस्मै कार्यार्थमाययौ । ददर्श तं महाविप्रं प्रणनाम कृताञ्जलिः ॥ ३६॥ रुदोद भयसंयुक्तो वचस्तं मुनिरब्रवीत् । मा रुद त्वं महीपाल नैव शापं ददाम्यहम् ॥ ३७॥ मदीयकर्मदोषेण शूलप्रोतोऽहमेव च । अजानता त्वया राजन् कृतं तेन सहाम्यहम् ॥ ३८॥ ततो नृपेण विप्रार्थं लोहकारविचक्षणाः । समानीताश्च तैस्तत्र कृतो यत्नो विशेषतः ॥ ३९॥ शूलाग्रं हस्तगं तत्रैकभागं सङ्गतं बभौ । निष्कासितुं न शक्तास्ते व्याकुला भयसंयुताः ॥ ४०॥ शस्त्रैः सञ्छेदितं तैस्तत् शूलाग्रं हस्तगं विधे । यावन्मात्रं मुनेर्हस्ते संस्थितं तत्स्थितं बभौ ॥ ४१॥ राज्ञा सम्पूजितो विप्रः प्रययौ यमसन्निधिम् । उवाच कोपरक्ताक्षो यमं यमवतां वरम् ॥ ४२॥ माण्डव्य उवाच । मया किं प्रकृतं कर्म पापरूपं वदस्व माम् । येनाऽहं शूलजं दुःखं प्राप्तः शीघ्रं महाशठ ॥ ४३॥ तस्य क्रोधयुतं वाक्यं श्रुत्वा भयसमन्वितः । प्राञ्जलिः प्रत्युवाचेदं वचनं कर्मसूचकम् ॥ ४४॥ यम उवाच । बालभावे त्वया ब्रह्मन् कीटः कण्टकवेधितः । तत्कर्मणः फलं प्राप्तं तदेव मुनिसत्तम ॥ ४५॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महामुनिः । जगाद धर्मराजं तं माण्डव्यश्च प्रजापते ॥ ४६॥ अहो बालस्वभावेन कृतं कर्म मया किल । अज्ञानेन महामूर्ख तस्येदं किं फलं भवेत् ॥ ४७॥ अतो नीतिविहीनस्त्वं पतिष्यसि धरातले । शूद्रयोनौ शतं वर्षाणि भुक्त्वा पुनरेष्यसि ॥ ४८॥ अधुनाऽहं करोम्येतां मर्यादां श‍ृणु भानुज । अष्टवर्षवयोयुक्तैः कृतं कर्म हि निष्फलम् ॥ ४९॥ मम वाक्येन भवतु गणराजप्रसादतः । तदादि बालकैः कर्म कृतं तन्निष्फलं भवेत् ॥ ५०॥ माण्डव्यः स्वाश्रमे गत्वा तताप तप उत्तमम् । एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ ५१॥ कवचस्य प्रसादेन शूलाग्रं तस्य हस्तगम् । बभूव मांसरूपं तु यथापूर्वं करो बभौ ॥ ५२॥ अणिमाण्डव्यको नाम्ना तदादि स बभूव ह । स्वल्पकालेन योगीशो गाणपत्यप्रियोऽभवत् ॥ ५३॥ नित्यं गणपतेर्विप्रो मूर्तिपूजापरोऽभवत् । सदा गणेशभावज्ञः सर्ववन्द्यो महायशाः ॥ ५४॥ माण्डव्यचरितं पुण्यं यः श‍ृणोति नरोत्तमः । पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते माण्डव्यचरितं नाम चत्वारिंशोऽध्यायः ॥ ३.४० (Page खं. ३ अ. ४१ पान ९१)

३.४१ युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । धृतराष्ट्रं च जन्मान्धं त्यक्त्वा पाण्डुं प्रचक्रिरे । राजानं ब्राह्मणाः सर्वे स विजिग्ये वसुन्धराम् ॥ १॥ छत्रादि राजचिह्नैस्तं ज्येष्ठं भक्तिपरायणः । धृतराष्ट्रं चकाराऽसौ पाण्डुः परपुरञ्जयः ॥ २॥ धृतराष्ट्रस्य भार्याऽभूद्गान्धारी च पतिव्रता । पाण्डोः कुन्ती तथा माद्री भार्ये द्वे प्रबभूवतुः ॥ ३॥ भार्याभ्यां संयुतो राजा वनं पाण्डुर्जगाम ह । क्रीडार्थं तत्र नित्यं स रेमे हर्षेण संयुतः ॥ ४॥ मृगरूपधरं राजा मुनिं जघ्ने शरेण सः । मृग्यासक्तं शशापाऽसौ राजानं मरणोन्मुखः ॥ ५॥ भार्यासंसक्तरूपं मां हतवांश्च नृपाधम । अतस्त्वं भार्यया सक्तो मैथुनाय भविष्यसि ॥ ६॥ तदा ते मरणं सद्यो मम वाक्याद्भविष्यति । इत्युक्त्वा देहसन्त्यागं चकार द्विजसत्तमः ॥ ७॥ श्रुत्वा शापं महाघोरं राज्यं त्यक्त्वा वने स्थितः । भार्याभ्यां सहितः पाण्डुः कन्दमूलादि भक्षयन् ॥ ८॥ ततः कुन्त्यां समुद्भूतो धर्माद्धर्मभृतां वरः । युधिष्ठिरो महाभागो मन्त्रसामर्थ्यकारणात् ॥ ९॥ वायोश्च भीमसेनो वै बभूव बलसंयुतः । इन्द्रात् कुन्त्यामर्जुनः स धनुर्विद्यापरायणः ॥ १०॥ अश्विभ्यां नकुलस्तद्वत् सहदेवश्च वीर्यवान् । माद्र्यां धर्मरतौ दक्ष रूपलावण्यसंयुतौ ॥ ११॥ गान्धार्यां च शतं पूर्णं पुत्राणाममितौजसाम् । बभूव पुत्रिका दक्ष रूपलावण्यसंयुता ॥ १२॥ पाण्डुः शापविमोहेन माद्र्यां सक्तो ममार ह । सा वै सहगता जाता कुन्ती पुत्रानपालयत् ॥ १३॥ ब्राह्मणैः सा महाभागैरानीता हस्तिनापुरे । पुत्रैः कुन्ती तथा भीष्मादिभिः सम्मानिताऽवसत् ॥ १४॥ ततो बहौ गते कालेऽनुजैर्दुर्योधनः स ह । पाण्डवान् द्वेषसंयुक्तोऽपीडयत् स विषादिना ॥ १५॥ दग्धुं तेनैकदा लाक्षागृहे संस्थापिताः किल । पाण्डवाः सह मात्रा ते रक्षिताः कर्मणा तदा ॥ १६॥ इत्यादिविविधैर्भावैः द्वेषयुक्तः स दुर्मतिः । पीडयामास तान् शूरांस्ततो भीष्म उवाच ह ॥ १७॥ अर्धं राज्यं च सङ्गृह्य पुराद् गच्छन्तु पाण्डवाः । इन्द्रप्रस्थं ततो जग्मुर्धृतराष्ट्रप्रचोदिताः ॥ १८॥ तत्र दिग्विजयं कृत्वा श्रिया युक्ताश्च तेऽभवन् । कृष्णस्तेषां महाभागः पक्षग्राही बभूव ह ॥ १९॥ राजसूयमखं कृत्वा शुशुभुः पाण्डवास्ततः । यत्र दुर्योधनो राजाऽभवन्मनसि दुःखितः ॥ २०॥ धृतराष्ट्रेण दुर्बुद्धिरानयामास पाण्डवान् । द्यूतेन तान् महाभागान् जित्वा संहर्षितोऽभवत् ॥ २१॥ वनेषु स्थापयामास पाण्डवान् साहसप्रियः । वर्षाणि द्वादशाऽथैकं वर्षं गुप्ततया तथा ॥ २२॥ त्यक्त्वा राज्यादिकं सर्वं पाण्डवा वनमाययुः । तत्राऽजगाम तान् कृष्णो बलभद्रेण संयुतः ॥ २३॥ पाण्डवान् सान्त्वयामास क्रोधयुक्तो बभूव सः । दुर्योधनं हनिष्यामि महादुष्टं युधिष्ठिर ॥ २४॥ कुरु राज्यं मया दत्तं शत्रुहीनं विशेषतः । ब्रुवन्तं तं ततः कृष्णं जगाद स युधिष्ठिरः ॥ २५॥ धर्मयुक्ततया राज्यं करिष्यामि जनार्दन । (Page खं. ३ अ. ४२ पान ९२) अहं नाधर्मसंयुक्तं राज्यमिच्छामि पापदम् ॥ २६॥ अतः कोपं महाबाहो नियच्छ मम वाक्यतः । वद त्वं धर्मसंयुक्तमुपायं राज्यलाभदम् ॥ २७॥ ततः कृष्णः स्वयं तत्र कोपहीन उवाच ह । युधिष्ठिरं स द्रौपद्या भ्रातृभिस्तं समन्वितम् ॥ २८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः ॥ ३.४१

३.४२ लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । श‍ृणु दक्ष महाभाग चरितं विघ्नपस्य च । कृष्णः सङ्कथयामास पाण्डवानमितद्युतिः ॥ १॥ श्रीकृष्ण उवाच । युधिष्ठिर महापुण्यशीलः श‍ृणु वचो महत् । येन त्वं सङ्कटेभ्यश्च मुक्तः सन् सुखमाप्स्यसि ॥ २॥ इतिहासं पुरावृत्तं कथयामि समासतः । सर्वविघ्नहरं पुण्यं महोदरगुणैर्युतम् ॥ ३॥ एकदा देवदेवेशो विष्णुर्वैकुण्ठसंस्थितः । लक्ष्म्या सह विलासेन विष्वक्सेनादिभिर्वृतः ॥ ४॥ गरुडेन समीपस्थेन सदा हर्षसंयुतः । अप्सरोभिश्च गन्धर्वैर्देवैः संसेवितो बभौ ॥ ५॥ तमुवाच महाभागं भगवन्तं सनातनम् । श‍ृण्वत्सु सर्वदेवेषु लक्ष्मीर्विनयसंयुता ॥ ६॥ श्रीलक्ष्मीरुवाच । स्वामिन्निच्छामि विज्ञप्तुं मम त्वं सततं गतिः । स्त्रीणां भर्तृसमं नैवास्ति किञ्चिद्वेदभाषितम् ॥ ७॥ त्वं साक्षाद्देवदेवेशः शङ्कराद्यैः सुसंस्तुतः । षडैश्वर्यसमायुक्तो भक्तेभ्यः सिद्धिदायकः ॥ ८॥ देवादीनां पदप्राप्तिस्त्वत्तो नैवात्र संशयः । सर्वेभ्यो भुक्तिदाता त्वं मुक्तिदाता तथा भवान् ॥ ९॥ सर्वेषां पालकस्त्वं वै तव पाता न विद्यते । तदपि ध्यानसंयुक्तो भजसे कं वदस्व मे ॥ १०॥ एकान्ते पूजयसि कं देवं त्वं विष्टरश्रवाः । आनन्दं परमं ब्रह्म तदेव त्वं श्रुतेर्मुखात् ॥ ११॥ विस्मापयति मां चित्ते त्वया ध्यानं कृतं प्रभो । अधुना त्वां च निर्लज्जा नाथ पृच्छामि ते नमः ॥ १२॥ संशयच्छेदनार्थं मां वद विष्णो विशेषतः । दासीं ते पादपद्मस्य द्वन्द्वहीनः सदा मतः ॥ १३॥ सर्वत्र समरूपस्त्वं सदाऽऽनन्दमयस्ततः । तस्मात्परं किमत्राऽस्ति कथं मोहयसे जनान् ॥ १४॥ ध्यानेन पूजनेनैव फलं किं ते भविष्यति । तथाऽपि त्वं किमर्थं भो ध्यानयुक्तोऽसि केशव ॥ १५॥ श्रीकृष्ण उवाच । इति प्रियावचः श्रुत्वा तां प्रहस्य जनार्दनः । समालिङ्ग्य प्रजानाथ उवाच जलधेः सुताम् ॥ १६॥ श्रीविष्णुरुवाच । श‍ृणु प्रिये प्रवक्ष्यामि त्वया पृष्टं शुभप्रदम् । तारकं सर्वभूतानां सर्वेभ्यः सिद्धिदायकम् ॥ १७॥ न करोमि जनानां वै ध्यानं मोहाय नित्यदा । कुलदेवं गणेशानं भजामि सर्वभावतः ॥ १८॥ गुणेश्वराद्वयं देवि समुत्पन्ना महेश्वराः । (Page खं. ३ अ. ४२ पान ९३) पञ्च देवा महाभागे तेन संस्थापिताः पदे ॥ १९॥ गुणेशेन तपस्तप्त्वाऽऽराधितो गणनायकः । गणेशेन गुणेशश्च स्थापितः स्वपदे पुरा ॥ २०॥ ज्ञानसत्तादिसंयुक्तो जातस्तद्वरदानतः । सोऽपि तं भजते देवि गणेशं भक्तिसंयुतः ॥ २१॥ प्रसेव्य तं महेशाना गणेशं सर्वदं वयम् । जाता ज्ञानादिसंयुक्ताः स्वस्वकार्यप्रवर्तकाः ॥ २२॥ अतस्तं भावसंयुक्ता भजामो नित्यमादरात् । स वै सर्वार्थदोऽस्माकं कुलदेवः प्रकीर्तितः ॥ २३॥ विष्णोर्वचनमाकर्ण्य लक्ष्मीर्विस्मितमानसा । जगाद तं महाविष्णुं विनयेन समन्विता ॥ २४॥ श्रीलक्ष्मीरुवाच । कोऽसौ गणेश्वरो नाम वद तस्य विशेषतः । स्वरूपं कुलदेवस्य भजिष्यामि जनार्दन ॥ २५॥ श्रीविष्णुरुवाच । सम्यक् पृष्टं त्वया देवि श‍ृणु तस्य स्वरूपकम् । वदामि स्नेहयुक्तोऽहं यदि तं बोधयिष्यसि ॥ २६॥ स्वानन्दे सोऽपि वसति गणेशो ब्रह्मनायकः । स्वानन्दः पञ्चधा जातः श‍ृणु तस्य कथानकम् ॥ २७॥ नामरूपात्मकं देवि जगति ब्रह्मणि स्थितम् । तत्र स्वानन्दको योगोऽसद्रूपः परिकथ्यते ॥ २८॥ असत्यमृतरूपं यत्तत् सदात्मप्रवाचकम् । सत्स्वरूपं च तद्विद्धि सत् स्वानन्दः प्रकीर्तितः ॥ २९॥ सत्यासत्यविहीनं यत् सत्यासत्यमयं तथा । आनन्दात्मकरूपं तत् समस्वानन्द उच्यते ॥ ३०॥ त्रिप्रबोधं त्रिभिर्हीनं मोहहीनं सदा मतम् । नेतिरूपं महाभागे स्वानन्दोऽव्यक्त उच्यते ॥ ३१॥ चतुर्णां योगभावोऽयं समाधिर्जायते किल । स्वानन्दः पञ्चमो ह्यत्र सर्वसंयोग उच्यते ॥ ३२॥ स वै मायामयः प्रोक्तो गणेशो वेदवादिभिः । चतुर्धा रचितं तेन तेषु खेलति नित्यदा ॥ ३३॥ मायाहीनतया ढुण्ढिरभूत् सोऽयोगवाचकः । न तत्र कस्य संयोगो बुधैस्तस्यापि कथ्यते ॥ ३४॥ मायायुक्तविहीनत्वं तदेव भ्रान्तिदायकम् । ताभ्यां हीनो गणेशोऽयं योगरूपः प्रकथ्यते ॥ ३५॥ तत्र शान्तिर्भवेद्देवि योगिनां नात्र संशयः । अतो योगस्वरूपा सा कथ्यते शान्तिरुत्तमा ॥ ३६॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणीविहीनं वै णकाराक्षररूपकम् ॥ ३७॥ तयोः स्वामी गणाधीशः पश्य वेदे शुचिस्मिते । अतस्तं भक्तिसंयुक्तो भजेऽहं सर्वनायकम् ॥ ३८॥ भ्रमरूपां महामायां सिद्धिं जानीहि मानदे । सिद्ध्यर्थं सर्वलोकाश्च विभ्रमन्तीश्वरा अतः ॥ ३९॥ भ्रमधारकरूपां वै बुद्धिं जानीहि निश्चितम् । सिद्ध्या बुद्ध्या च तत्रैव भ्रमोत्पत्तिः प्रजायते ॥ ४०॥ तयोः स्वामी सदायोगशान्तिरूपोऽयमुच्यते । तस्यैव भजने देवि ब्रह्मभूता भवन्त्यतः ॥ ४१॥ इत्युक्त्वा विररामाऽथ स्वयं नारायणः प्रभुः । श्रुत्वा समुद्रपुत्री सा विस्मिता मानसेऽभवत् ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ३.४२ (Page खं. ३ अ. ४३ पान ९४)

३.४३ महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । श‍ृणु धर्म महाभाग कथां पापापनोदिनीम् । लक्ष्मीस्तं पुनरप्याह गणेशज्ञानलालसा ॥ १॥ श्रीमहालक्ष्मीरुवाच । भगवन् भवता प्रोक्तं महाशान्तिप्रदं परम् । तथाऽपि मे सुशान्त्यर्थं तत्रोपायं वदस्व मे ॥ २॥ श्रीनारायण उवाच । षडक्षरेण मन्त्रेण यदि तं साधयिष्यसि । तदा ते गणनाथः स प्रत्यक्षं प्रभविष्यति ॥ ३॥ तस्य दर्शनमात्रेण शान्तिं प्राप्स्यसि निश्चितम् । तमाराधय यत्नेन तपसा योगभाविता ॥ ४॥ एवमुक्त्वा महाविष्णुर्गणेशस्य ददौ मनुम् । षडक्षरं महालक्ष्म्यै विधियुक्तं विधानतः ॥ ५॥ ततः सा तं प्रणम्यैव तपसे वनमाययौ । हिमाचलशिरःसंस्था तताप तप उत्तमम् ॥ ६॥ षडक्षरविधानेन ध्यात्वा देवं गजाननम् । जजाप मन्त्रराजं तं नासाग्रनयना सती ॥ ७॥ चित्तस्य चेन्द्रियाणां संस्थाप्य वृत्तिं गजानने । निराहारयुता देवी बभूव तपसि स्थिता ॥ ८॥ शतवर्षे गते पूर्णे सास्थिचर्माऽवशेषिता । तामाऽऽययौ गणाधीशो भक्त्या बद्धो धरापते ॥ ९॥ तमागतं महादेवी प्रणनाम चतुर्भुजम् । महोदरं त्रिनेत्रं च परश्वादिधरं प्रभुम् ॥ १०॥ मूषकध्वजिनं पूर्णं मूषकोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं नानाभूषणभूषितम् ॥ ११॥ गले चिन्तामणिमणिं बिभ्रतं ज्योतिषां पतिम् । शेषनाभिं गजास्यं वै पीतवस्त्रैश्च शोभितम् ॥ १२॥ ततस्तं पूजयामास प्रभुं नानोपचारकैः । प्रणम्योत्थाय तुष्टाव कृत्वा करपुटं सती ॥ १३॥ श्रीमहालक्ष्मीरुवाच । नमो महोदरायैव नानालीलाधराय ते । सदा स्वानन्दसंस्थाय भक्तिगम्याय वै नमः ॥ १४॥ चतुर्बाहुधरायैव चतुर्णां चालकाय ते । मूषकारूढरूपाय मूषकध्वजिने नमः ॥ १५॥ अन्नताननदेहाय ह्यनन्तविभवाय ते । अनन्तहस्तपादाय सदाऽनन्ताय ते नमः ॥ १६॥ चराचरमयायैव चराचरविवर्जित । योगशान्तिप्रदात्रे ते सदा योगस्वरूपिणे ॥ १७॥ अनादये गणेशायादिमध्यान्तस्वरूपिणे । आदिमध्यान्तहीनाय विघ्नेशाय नमो नमः ॥ १८॥ सर्वादिपूज्यकायैव सर्वपूज्याय ते नमः । सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥ १९॥ विनायकाय सर्वेषां नायकाय विशेषतः । ढुण्ढिराजाय हेरम्ब भक्तेशाय नमो नमः ॥ २०॥ सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः । त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः ॥ २१॥ कर्मणां फलदात्रे च कर्मणां चालकाय ते । कर्माकर्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ २२॥ योगेशाय च योगिभ्यो योगदाय गजानन । सदा शान्तिघनायैव ब्रह्मभूताय ते नमः ॥ २३॥ किं स्तौमि गणनाथं त्वां सदा ब्रह्मपतिं प्रभो । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ २४॥ धन्याऽहं कृतकृत्याऽहं सफलो मे भवोऽभवत् । धन्यो मे जनको नाथो यया दृष्टो गजाननः ॥ २५॥ एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा । साश्रुयुक्ता ननर्तैव बाष्पकण्ठा युधिष्ठिर ॥ २६॥ (Page खं. ३ अ. ४३ पान ९५) तामुवाच गणाधीशो वरं वृणु यथेप्सितम् । दास्यामि ते महालक्ष्मि भक्तिभावेन तोषितः ॥ २७॥ त्वया कृतं च मे स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठतां श‍ृण्वतां देवि नानाकार्यकरं तथा ॥ २८॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः । धनधान्यादिसम्भूतं सुखं विन्दति मानवः ॥ २९॥ गणेशवचनं श्रुत्वा महालक्ष्मीर्जगाद तम् । हर्षेण महता युक्ता प्रणम्य करसम्पुटा ॥ ३०॥ श्रीमहालक्ष्मीरुवाच । यदि प्रसन्नभावेन वरदोऽसि महोदर । तदा ते भक्तिमुग्रां मे देहि नाथ नमोऽस्तु ते ॥ ३१॥ अस्माकं कुलदेवस्त्वं तत्र त्वां गणनायक । भजामि भावयुक्ताऽहं तथापि श‍ृणु मे वचः ॥ ३२॥ मनश्चञ्चलभावेन संसारे गच्छति प्रभो । संसारः पुत्रमोहाख्यस्तदर्थं भ्रमते सदा ॥ ३३॥ अतस्त्वं पुत्रभावेन भव मे विघ्नवारण । तत्र त्वां पुत्रवात्सल्येन भजामि निरन्तरम् ॥ ३४॥ देवभावेन ते मूर्तिं गजवक्त्रादिचिह्निताम् । भजामि च तथा त्वाहं संसारे पुत्ररूपिणम् ॥ ३५॥ योगरूपः स्वयं साक्षाद्यदि पुत्रो भविष्यसि । तेन योगस्वरूपा सा शान्तिः प्राप्ता न संशयः ॥ ३६॥ तव माता पिता चैव बन्धयुक्तौ यदि प्रभो । तदा वेदादिकं सर्वं मिथ्यारूपं भविष्यति ॥ ३७॥ अतो मे पुत्रतां याहि तयाऽहं गणनायक । भजामि ब्रह्मभूता न सन्देहो भक्तिसंयुता ॥ ३८॥ मह्यमेष वरो नाथ दातव्यः करुणानिधे । नान्यं याचे महाभाग देवदेवेश ते नमः ॥ ३९॥ इति लक्ष्म्या वचः श्रुत्वा हर्षयन् स महोदरः । उवाच तां सुभावज्ञो भावपूर इति स्मृतः ॥ ४०॥ गणेश उवाच । तव पुत्रो भविष्यामि ज्ञानारेर्नाशनाय च । दैत्यस्य ते प्रसेवार्थं भक्तिग्रहणलालसः ॥ ४१॥ यद्यदिच्छसि तत्तत्त्वं लभसे देवि निश्चितम् । मदीयवरदानेन योगिवन्द्या भविष्यसि ॥ ४२॥ आदौ त्वया महादेवि मदीयं भजनं कृतम् । तेन शान्तियुता जाता योगस्था मोहवर्जिता ॥ ४३॥ ततस्त्वां तपसा विप्रो भृगुः पुत्रीं चकार ह । सा त्वं नष्टा द्विजस्यैव शापतो मोहसंयुता ॥ ४४॥ समुद्रेण ततो देवि तथैवाऽऽराधिता पुरा । तस्य पुत्रीत्वमापन्ना त्वं विष्णोर्दयिता सदा ॥ ४५॥ तेन ते विस्मृतिर्जाता मदीया नात्र संशयः । विष्णुना बोधिता मां त्वं प्राप्ता योगस्य सेवया ॥ ४६॥ अधुना स्मर सर्वं तत् स्मारितं ते मयाऽनघे । विष्णुनाऽप्यादिकालेऽहं पुत्रार्थे याचितोऽभवम् ॥ ४७॥ त्वं तथा पुत्रभावार्थं याचसे मां समुद्रजे । करोमि ते हितं देवि विष्णोश्चैव न संशयः ॥ ४८॥ एवमुक्त्वा गणेशस्तां ययौ स्वानन्दके पुरे । अन्तर्धाय स्वमात्मानं लक्ष्मीः खिन्ना ततोऽभवत् ॥ ४९॥ स्मृत्वा योगबलेनैव पुरातनभवां कथाम् । विस्मिता मानसे जाता सस्मार द्विरदाननम् ॥ ५०॥ मूर्तिं तत्र प्रतिष्ठाप्य ब्राह्मणैर्वेदपारगैः । पूजयित्वा ययौ स्थानं लक्ष्मीर्भक्तिसमन्विता ॥ ५१॥ (Page खं. ३ अ. ४४ पान ९६) प्रणम्य तं महाविष्णुं जगाद सर्वमञ्जसा । वृत्तान्तं सोऽपि तं श्रुत्वा हर्षितस्तामुवाच ह ॥ ५२॥ धन्याऽसि जलधेः पुत्रि साक्षाद् दृष्टस्त्वया विभुः । पुत्रभावेन ते गेह आगमिष्यति विघ्नपः ॥ ५३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ३.४३

३.४४ ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । तव कृष्णमुखाम्भोजान्निःसृतां सर्वपावनीम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥ १॥ ज्ञानारिर्नाम दैत्येशः कस्य पुत्रो बभूव ह । किं कर्म तस्य यत् कृष्ण चेष्टितं वद विस्तरात् ॥ २॥ यदर्थं गणराजः स देहधारी बभूव ह । न सामान्यं चरित्रं वै दैत्येशस्य जगद्गुरो ॥ ३॥ कथं विष्णोश्च पुत्रोऽभूद्गणेशो ब्रह्मनायकः । चरित्रं किं कृतं तेन विस्तराद्वद केशव ॥ ४॥ मुद्गल उवाच । युधिष्ठिरस्य भावं स ज्ञात्वा वृष्णिकुलोद्भवः । नारायणः कथां तस्मै अवदद्भवनाशिनीम् ॥ ५॥ श्रीकृष्ण उवाच । युधिष्ठिर कथां रम्यां श‍ृणु पापापनोदिनीम् । ब्रह्मभूयप्रदां ढुण्ढेः सुचरित्राश्रितां प्रभोः ॥ ६॥ दुर्बुद्धिर्नाम दैत्येशो हतो विघ्नहरेण च । शिवपुत्रस्वरूपेण त्रैलोक्यविजयी पुरा ॥ ७॥ तस्य पुत्रोऽयमुत्पन्नः संस्थितः स्वगृहे तथा । बालभावाच्च धर्मज्ञाऽभवत् ज्ञानारिनामकः ॥ ८॥ प्रह्लादः स्वसुतां तस्मै ददौ हर्षसमन्वितः । रूपलावण्यसंयुक्तां सुकलां नामतः स्वयम् ॥ ९॥ स तु यौवनमापन्नो दुर्मतिं पितरं सदा । सस्मार दुःखसंयुक्तो गणेशेन हतं पुरा ॥ १०॥ स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् । शैवीं तया वने गत्वाऽऽराधयामास शङ्करम् ॥ ११॥ वायुभक्षो महादैत्यो ज्ञानारिर्यत्नमास्थितः । तताप तप उग्रं स वर्षाणामयुतं प्रभो ॥ १२॥ ततस्तं प्रययौ शम्भुः पार्वत्या सहितः स्वयम् । उवाच तं महाभक्तं भक्तवाञ्छाप्रपूरकः ॥ १३॥ श्रीशिव उवाच । वरं वृणु महाभाग तपसा तोषितस्त्वया । दास्यामि वाञ्छितं दैत्य यद्यपि स्यात् सुदुर्लभम् ॥ १४॥ शिवस्य वचनं श्रुत्वा प्रबुद्धो दैत्यपुङ्गवः । दृष्ट्वा शम्भुं मुदा युक्तः प्रणनाम कृताञ्जलिः ॥ १५॥ प्रणम्य पूजयामास ततस्तं दैत्यपः पुनः । तुष्टाव सुस्थिरो भूत्वा शङ्करं भक्तवत्सलम् ॥ १६॥ ज्ञानारिरुवाच । नमस्ते शङ्करायैव पार्वतीसहिताय ते । वृषध्वजाय शैलादिवाहनाय नमो नमः ॥ १७॥ अव्यक्तदेवाय च शिवाय शूलप्रधारिणे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ १८॥ सदाशिवाय मायाया आधाराय नमो नमः । (Page खं. ३ अ. ४५ पान ९७) मायामोहविहीनाय शम्भवे ते नमो नमः ॥ १९॥ सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे । अनाथाय च सर्वेषां नाथाय परमात्मने ॥ २०॥ चराचरस्वरूपाय नमोऽचरचरात्मने । महादेवाय देवानां पतये ते नमो नमः ॥ २१॥ मनोवागतिरूपाय योगिध्येयाय ते नमः । योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥ २२॥ धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः । तपो ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥ २३॥ प्रसन्नोऽसि महेशान तदा देहि महाप्रभो । चराचरस्य वै राज्यं तस्मान् मृत्युर्न मे भवेत् ॥ २४॥ यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा । आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥ २५॥ तथेति शिव ऊचे तमन्तर्धानं चकार ह । स दैत्यो हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ २६॥ ज्ञानारिकृतमेतत्तु स्तोत्रं पठति यो नरः । श‍ृणोति शङ्करस्तस्मै वाञ्छितं ददते परम् ॥ २७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ३.४४

३.४५ पूर्णानन्दावतारो नाम पञ्चचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । ज्ञानारिर्वरसंयुक्तोऽभवद्दैत्यैः प्रपूजितः । शुक्रेणाऽऽगत्य विप्रैः सोऽभिषिक्तो राज्यकर्मणि ॥ १॥ नमुचिः शम्बरः कालासुरश्चैव प्रतापवान् । जम्भो बलासुरः पञ्च प्रधानास्तस्य चाऽभवन् ॥ २॥ नानादैत्यगणैर्युक्तः पृथिवीं सप्तसागराम् । दैत्यो विजिग्ये सद्वीपां तथा पातालमोजसा ॥ ३॥ ततः स्वर्गं ययौ दैत्यो दैत्यपैश्च समावृतः । इन्द्रः सुरगणैः सार्धं पपाल भयसङ्कुलः ॥ ४॥ ज्ञानारिः सत्यलोकं च ययौ दैत्यसमन्वितः । तत्र ब्रह्मस्थितो देवैर्ज्ञात्वा दैत्यं पपाल सः ॥ ५॥ विष्णुर्वैकुण्ठमुत्सृज्य पपाल च युधिष्ठिर । दैत्यस्तत्र समागम्य हर्षितः सम्बभूव ह ॥ ६॥ जगाम तत आनन्दात् कैलासं दैत्यनायकः । शङ्करं प्रणिपत्याऽऽह कैलासं देहि मे प्रभो ॥ ७॥ नोचेद्युद्धेन जेष्यामि त्वामहं नात्र संशयः । शङ्करः क्षुभितो भूत्वा कम्पितः प्रददौ तथा ॥ ८॥ पपाल भयसंयुक्तः सामरः स वनं ययौ । कैलासे संस्थितो दैत्यो ननन्द भृशमोहितः ॥ ९॥ ततः स्वर्गेषु दैत्येशान् स्थापयामास निर्भयः । ययौ स्वनगरे धर्म दैत्यपैः संवृतो बभौ ॥ १०॥ सुकलायां महादैत्यात् पुत्रोऽभूच्च युधिष्ठिर । सुमुहूर्ते महातेजा रूपेणाऽप्रतिमः परः ॥ ११॥ पुत्रजन्मप्रहृष्टः स ददौ दानानि भूमिप । जातकर्मादिकं कर्म चकार विधिपूर्वकम् ॥ १२॥ सदा कर्मविनाशार्थं प्रेषयामास दैत्यपान् । तैः सर्वत्र कृतो नाशः कर्मणां भूमिमण्डले ॥ १३॥ (Page खं. ३ अ. ४५ पान ९८) न स्वाहा न वषट्कारो न स्वधा कुत्रचित् प्रभो । कर्महीनतया देवा दुःखिता अभवंस्ततः ॥ १४॥ उपोषणसमायुक्ता विचारं चक्रुरादरात् । ज्ञानारिनाशनार्थाय न प्रापुस्ते विचक्षणाः ॥ १५॥ गते बहुतरे काले किं कुर्यामिति विह्वलाः । तत्र विष्णुरुवाचेदं वचनं हितकारकम् ॥ १६॥ श्रीविष्णुरुवाच । चराचरमयं सर्वं तस्मात्तस्य भयं नहि । अतो विघ्नेश्वरं देवा भजामाऽत्र न संशयः ॥ १७॥ स वै बुद्धिपतिः साक्षाद्बुद्ध्या छिद्रं प्रकाशयेत् । तेन तं निहनिष्यामः सिद्धिदाता स नो भवेत् ॥ १८॥ विष्णोर्वचनमाकर्ण्य साधु साधु दिवौकसः । ऊचुस्तं ते ततो ढुण्ढिमभजन् भक्तिसंयुताः ॥ १९॥ दशाक्षरेण मन्त्रेण ध्यात्वा देवं गजाननम् । अतुष्यन्नमराः सर्वे विभो नानातपोन्विताः ॥ २०॥ गते वर्षे गणाधीशः प्रसन्नः स समाययौ । रात्रौ स्वप्ने च लक्ष्म्यास्तामुवाच वचनं हितम् ॥ २१॥ श‍ृणु मातस्त्वया पूर्वं याचितः पुत्रकाम्यया । सोऽहं ते पुत्रभावेन संस्थितः पश्य भामिनि ॥ २२॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो गणवल्लभः । लक्ष्म्युत्सङ्गे ततो बालो भूत्वा चिक्रीड विघ्नपः ॥ २३॥ जजागार महालक्ष्मीर्गणेशं मनसाऽस्मरत् । ददर्श निजशय्यायां बालं शुण्डाधरं परम् ॥ २४॥ विस्मिता हर्षिताऽत्यन्तं नारायणमुवाच ह । वृत्तान्तं सा महाभागा दर्शयामास विघ्नपम् ॥ २५॥ सस्त्रीकः प्रणनामाऽथ तुष्टाव गणपं प्रभुम् । गाणपत्यैर्महासूक्तैर्हर्षयुक्तश्व माधवः ॥ २६॥ धन्योऽहं सर्वभावेन त्वदङ्घ्रियुगदर्शनात् । पुत्रभावेन मां पालयसि नाथ न संशयः ॥ २७॥ ततस्तत्रामराः सर्वे मुनयश्च समागताः । विस्मितास्तुष्टुवस्तं ते नानास्तोत्रैर्युधिष्ठिर ॥ २८॥ ततस्ते जातकर्माऽपि चक्रुः परमभाविताः । एकादशदिने तस्य मुनयो नाम चक्रिरे ॥ २९॥ द्वन्द्वभावविहीनोऽयं साक्षादानन्ददायकः । समो द्वन्द्वेषु सर्वेषु तद्विकारविवर्जितः ॥ ३०॥ अतो नामाऽस्य देवेशाः पूर्णानन्द इति स्फुटम् । कुरुध्वं सर्वदाऽऽनन्ददायको नो भविष्यति ॥ ३१॥ तथेति नाम तैः सर्वैः कृतं तस्य महात्मनः । चकार व्रतबन्धं च पञ्चमे विष्णुरव्ययः ॥ ३२॥ कश्यपस्य गृहे देव्यौ सम्भूते पुत्रिकात्मिके । विद्याऽविद्ये ततोऽदित्यां तपसाऽऽराधिते विभो ॥ ३३॥ तस्मै ददौ मुदा युक्तः कश्यपः सम्प्रहर्षितः । ननाम पूर्णानन्दाय विप्रेशो भक्तिसंयुतः ॥ ३४॥ द्वादशाब्दवयो युक्तो बभूव गणनायकः । बालक्रीडनकेनैव मोहयामास देवपान् ॥ ३५॥ स्तनपानादिकं तस्य भोजनाच्छादनादिकम् । लक्ष्मीः स्वयं चकारैव हर्षयुक्तेन चेतसा ॥ ३६॥ विष्णुस्तं लालयामास नित्यं देवगणैर्वृतः । जामातरं कश्यपश्च तथा विप्रैर्युधिष्ठिर ॥ ३७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पूर्णानन्दावतारो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ३.४५ (Page खं. ३ अ. ४६ पान ९९)

३.४६ ब्रह्मयज्ञवर्णनं नाम षट्चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाभाग वद दैत्यस्य चेष्टितम् । पूर्णानन्दः कथं दैत्यं जघान कौतुकं महत् ॥ १॥ चराचराद्भयं तस्य नास्ति नारायण प्रभो । अत आश्चर्यभूतं वै चरित्रं मे प्रभासते ॥ २॥ मुद्गल उवाच । युधिष्ठिरवचः श्रुत्वा कृष्णस्तं प्रत्युवाच यत् । तदेव श‍ृणु दक्ष त्वं चेष्टितं गणपस्य च ॥ ३॥ श्रीकृष्ण उवाच । पुत्रो बभूव दैत्यस्य ज्ञानारेः सर्वसम्मतः । एकादशदिने तत्र ब्राह्मणा प्रययुर्गृहम् ॥ ४॥ सुबोध इति नाम्ना तं चक्रुर्दैत्येशसत्तमाः । द्विजेरिता द्विजेभ्यस्ते ददुर्दानानि हर्षिताः ॥ ५॥ स तु ज्ञानसमायुक्तो गाणेशो दैत्यजो नृपः । बालभावेऽपि विघ्नेशं चिन्तयामास सर्वदा ॥ ६॥ स्तनपानादिकं बालः सस्मार न कदाचन । माता तस्मै यदा स्मृत्वा स्तनपानं ददौ पपौ ॥ ७॥ एवं सोऽपि स्वमातृस्थः स्तनपानं चकार ह । सदा ध्यानसमायुक्तः सस्मार गणपं हृदि ॥ ८॥ ततः पञ्च तथा सप्त मासास्तस्य गता विभो । वयसः स तदा चक्रे क्रीडनं श‍ृणु तत्प्रभो ॥ ९॥ धूलिमध्ये स्वहस्तेन चकार गणपाकृतिम् । चिक्षेप तत्र धूलिं पूजोपचारककारणात् ॥ १०॥ त्रिकालपूजनं तत्र चकार नियमेन सः । ध्यानयुक्तेन विघ्नेशमभजच्च ततः परम् ॥ ११॥ एकदा भोजनार्थं च संस्थितो दैत्यनायकः । ज्ञानारिस्तं ददर्शैव क्रीडन्तं बालभावतः ॥ १२॥ गणेशाकारमूर्तिं वै भूमिमध्ये चकार सः । पूजयामास तां पुत्रस्ततो धूल्युपचारकैः ॥ १३॥ ततोऽतिकुपितः पत्नीमूचिवान् विस्मयान्वितः । पितुर्मम निहन्तारं भजतेऽयं तवात्मजः ॥ १४॥ अधुना निश्चयाभावान्न सुतं हन्मि ते प्रिये । सावधानमना भूत्वा चेष्टाहीनं सुतं कुरु ॥ १५॥ पितृहन्तारमेवायं करोति तनयो यतः । पुनर्दृष्टो मया चेत्तं हनिष्यामि सुतं प्रिये ॥ १६॥ सा तथेति तमुच्चार्य स्थिता विनयसंयुता । पतिव्रता महाभागा पतिवाक्यपराऽभवत् ॥ १७॥ भर्तुर्गमनकाले सा संयता पुत्रमाददे । लालयामास तं तत्र न पश्यति यथा नृपः ॥ १८॥ ततः सुबोधनामाऽसौ वर्षादूर्ध्वं वयःस्थितः । चकार भाषणं तत्र वाचाऽस्पष्टस्वरूपया ॥ १९॥ नमो हेरम्ब विघ्नेश गणेशाय महोदर । लम्बोदराय विकटाय नमो ढुण्ढये नमः ॥ २०॥ इत्यादिभावयुक्तश्च सस्मार गणपं सदा । अनन्यमनसा धर्म तथा पूजापरायणः ॥ २१॥ माताऽऽगृह्य ततः स्नेहवशात्पुत्रं युधिष्ठिर । भर्त्रा गमनकाले सा दूरं चक्रे सखीजनैः ॥ २२॥ यत्नमास्थाय सा देवी पुत्रं नित्यं ररक्ष ह । कदाचित् सा स्वपतिनाऽऽज्ञप्ता पुत्रं नयस्व च ॥ २३॥ निद्रितोऽयं सुतः स्वामिन्नेवं प्रोच्य महासती । कालातिक्रमणं चक्रे दुःखयुक्ता युधिष्ठिर ॥ २४॥ पञ्चमे व्रतबन्धं च ज्ञानारिस्तस्य हर्षितः । चकार स सुतस्तत्र गणेशं मनसा स्मरन् ॥ २५॥ कर्मभङ्गभयात् सोऽपि पूजां चक्रे सुमानसीम् । (Page खं. ३ अ. ४६ पान १००) ततः कर्मसमाप्तौ वै ननाम सकलान्नृप ॥ २६॥ ततो गुरुकुले राज्ञा स्थापितोऽभूत् सुबोधकः । तत्र दैत्यसुताः सर्वे नानारूपाः स्थिता बभुः ॥ २७॥ शुक्रशिष्या महाभागाः तान् सर्वान् यत्नतः सदा । विद्यां तां शिक्षयामासुरासुरीं देवमोहिनीम् ॥ २८॥ तत्राऽयं राजपुत्रश्च गुरुभिर्मानितो भृशम् । अतिष्ठद्विघ्नराजं स संस्मरन् भक्तिलालसः ॥ २९॥ विद्यां शिक्षयितुं राजपुत्रो गुरुभिरासुरीम् । सम्मानितश्च तान् सोऽपि नमस्कृत्य स्थितोऽभवत् ॥ ३०॥ गुरुभिः कथितं यच्च श्रुत्वा विस्मितमानसः । उवाच तान् महाबुद्धिः सुबोधो विषयात्मकान् ॥ ३१॥ सुबोध उवाच । ब्राह्मणा ब्रह्मनिष्ठाश्च सदा योगपरायणाः । गाणपत्या विशेषेण भजन्ते गणनायकम् ॥ ३२॥ भेदाभेदादिभिर्हीने गणेशार्थे विचक्षणाः । मोहदामासुरीं विद्यां त्यक्त्वा वन्द्या भवन्त्यतः ॥ ३३॥ भवन्तो ज्ञानशीलाश्च किं मां वदथ विप्रपाः । गणेशं सर्वपूज्यं वै त्यक्त्वा मोहप्रदं परम् ॥ ३४॥ यदा स्वधर्मनिष्ठाश्चेद्ब्राह्मणा वचनं तदा । तेषां ग्राह्यं न सन्देहो नान्यथा मोहकं कदा ॥ ३५॥ गुणयुक्तविहीनाश्चेद्ब्राह्मणा मानवैः सदा । वन्दनीया न सन्देहः पूज्या सर्वत्र सम्मताः ॥ ३६॥ अतोऽहं ब्राह्मणान् सर्वान्नमामि वचनं तथा । हितं चेत्तद् ग्रहीष्यामि नान्यथा गुरवः कदा ॥ ३७॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा विस्मितास्ते महर्षयः । ऊचुस्ते दैत्यपुत्रं वै श‍ृणु धर्मं सुखप्रदम् ॥ ३८॥ दैत्याचार्या ऊचुः । सुबोध त्वं च बालोऽसि योगं वदसि सूत्तमम् । स्वधर्मादि समायुक्तं साक्षाद्योगीश्वरो यथा ॥ ३९॥ न त्वया वेदविद्या या शिक्षिता सा महामते । तथाऽपि कथमेतत्ते ज्ञानं प्राप्तं वदस्व भोः ॥ ४०॥ सुबोध उवाच । माता गर्भवती मे गता पितृर्गृह एकदा । तत्राऽऽययौ महाभागः शुकः सर्वार्थकोविदः ॥ ४१॥ तं प्रणम्य स योगीशं प्रह्लादो हर्षसंयुतः । सम्पूज्य तं महात्मानं पप्रच्छ विनयान्वितः ॥ ४२॥ प्रल्हाद उवाच । व्यासपुत्र महायोगिन् शुक साक्षाच्छिवः स्वयम् । त्वं जातोऽसि न सन्देहो योगीन्द्राणां गुरोर्गुरुः ॥ ४३॥ पूर्वपुण्यबलेनैव प्राप्तं ते दर्शनं महत् । अतस्त्वां परिपृच्छामि वद त्वं करुणानिधे ॥ ४४॥ सर्वमान्यं च सर्वेषां योगशान्तिप्रदं भवेत् । नानामतविमोहस्य च्छेदकं वद विस्तरात् ॥ ४५॥ सुबोध उवाच । प्रह्लादस्य वचो रम्यं श्रुत्वा योगीन्द्रसत्तमः । जगाद तं महाभागं योगशान्तिपरायणम् ॥ ४६॥ श्रीशुक उवाच । प्रह्लाद त्वं महाभागाऽसि सुज्ञो योगधारकः । अतस्त्वां हि विशेषेण वदामि हितकारकम् ॥ ४७॥ सर्वमान्यं तथा राजन् सर्वेभ्यः शान्तिदायकम् । नानामतेषु सेव्यं यत् कथयामि सविस्तरम् ॥ ४८॥ एकदा नैमिषारण्ये समाजग्मुर्महर्षयः । ब्रह्माण्डस्था महाभागा ब्रह्मयज्ञस्य कारणात् ॥ ४९॥ यत्र योगमयी गाथा वर्तते दानवोत्तम । (Page खं. ३ अ. ४७ पान १०१) वेदेषु स ब्रह्मयज्ञ इत्युक्तो वेदवादिभिः ॥ ५०॥ मरीचिः कश्यपश्चैव कण्वोऽत्रिः पुलहः क्रतुः । विश्वामित्रो महातेजा याज्ञवल्क्यस्तथाऽऽरुणिः ॥ ५१॥ अष्टावक्रो वसिष्ठश्च भरद्वाजः पराशरः । व्यासः परशुरामः श्वेतकेतुर्मुद्गलो मुनिः ॥ ५२॥ अगस्त्यो हनुमांश्चैव राक्षसश्च विभीषणः । अश्वत्थामा गृत्समदः कृपश्चैव प्रतापवान् ॥ ५३॥ मार्कण्डेयो मृकण्डश्च बकदाल्भ्यस्तथा विभो । नारदः कपिलो रैभ्यः कर्दमश्च महायशाः ॥ ५४॥ एको द्वितस्त्रितश्चैव देवलो ह्यसितस्तथा । पुलस्त्यश्च भृगुश्चैव च्यवनो गौतमो मुनिः ॥ ५५॥ अङ्गिरा वै दीर्घतमा उतथ्यो गालवस्तथा । दधीचिरुशना जीवो जमदग्निर्महामुनिः ॥ ५६॥ वैशम्पायन एवं वै शौनकः शुनकः प्रभो । वामदेवः सुमन्तुश्च पैलः शाकलको मुनिः ॥ ५७॥ जैमिनिर्धौम्यकाद्याश्च स शिष्यास्तत्र ते ययुः । अन्ये नाना मुनिवरा हर्षयुक्ता ययुः किल ॥ ५८॥ दत्तात्रेयश्च दुर्वासा निदाघो भरतो जडः । सनातनः सनन्दः सनत्कुमारक आययुः ॥ ५९॥ अहं रिभूश्च सनक इत्याद्या बहवोऽपरे । अवधूता योगिनश्च जग्मुर्यज्ञस्य दर्शनात् ॥ ६०॥ इन्द्रो ब्रह्मा तथा विष्णुः शङ्करो भानुरेव च । सस्त्रीका देवराजाश्च देवा अन्ये समाययुः ॥ ६१॥ शेषो वासुकिनागश्च कम्बलोऽश्वतरस्तथा । तक्षकाद्या महाभागा नागास्तत्र समाययुः ॥ ६२॥ गन्धर्वाश्चारणाश्चैव सिद्धाः साध्यगणास्तथा । आदित्या वसवो यक्षा आययुश्चाप्सरोवराः ॥ ६३॥ कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठाश्च योगिनः । नानादेवरताः सर्वे आययुस्तत्र मानद ॥ ६४॥ प्रह्लाद ब्रह्मयज्ञस्य दर्शनार्थं विशेषतः । तत्रैव निश्चये सक्ताः सर्वमान्येऽभवञ्जनाः ॥ ६५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मयज्ञवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ३.४६

३.४७ ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीशुक उवाच । तत्र नानाकथां चक्रुर्नानामतविकासिनीम् । स्वस्वबुद्ध्या विशेषेण मुख्याः प्रह्लाद आदरात् ॥ १॥ केचिदाहुर्विधातारं विष्णुं शक्तिं शिवं रविम् । ब्रह्मरूपं गणेशानं नानामतपरायणाः ॥ २॥ केचिदन्नं च प्राणं च मनोविज्ञानकं तथा । आनन्दं सोऽहमेकं वै चैतन्यं बिन्दुकं परे ॥ ३॥ बोधमात्मानमेके च साङ्ख्यं कर्म तथाऽपरे । सममव्यक्तरूपं ते आहुर्ब्रह्म तथाऽपरम् ॥ ४॥ स्वसंवेद्यं तथा केचिन्निवृत्तिं शान्तिरूपकम् । योगमध्यात्मरूपं त आहुर्वेदपरायणाः ॥ ५॥ असत्यं सत्यमेके च पूर्णानन्दं तथाऽसुर । सहजं च परं ब्रह्म वादयुक्ता बभूविरे ॥ ६॥ (Page खं. ३ अ. ४७ पान १०२) निश्चयस्तत्र दैत्येश न बभूव मतैषिणाम् । स्वस्वज्ञानसमायुक्ता वादं चक्रुरपण्डिताः ॥ ७॥ ततो वादस्य शान्त्यर्थमवोचद् विष्णुरव्ययः । सर्वान् समागतांस्तत्र सर्वज्ञः शङ्करेरितः ॥ ८॥ श्रीविष्णुरुवाच । वेदा गुरुस्वरूपाश्च सर्वेषां नात्र संशयः । तैर्यत् सम्पादितं देव मुनयः सर्व आगताः ॥ ९॥ सम्पाद्यतां विशेषेण ब्रह्मणो निश्चयार्थिनः । सुखं तदेव सर्वेषां सर्वमान्यं भविष्यति ॥ १०॥ वेदैः स्वानुभवं गीतं याथातथ्यं मुनीश्वराः । अतो वेदैश्च सर्वेषां ज्ञानं सञ्जायते परम् ॥ ११॥ योगादिभिर्जनाः केचिन् मुनयो देवराक्षसाः । साक्षाद्रूपं च तद्ब्रह्म कुर्वते नात्र संशयः ॥ १२॥ तथापि वेदसम्मान्यं वचस्तेषां न विद्यते । वेदानां न समो विप्रा योगज्ञः कुत्र दृश्यते ॥ १३॥ सम्पूर्णयोगिनो वेदा अतस्ते गुरवो मताः । महाभागाः स्मरध्वं त्वांस्तदा निःसंशयो भवेत् ॥ १४॥ ततो मुनिगणाः सर्वे योगिनो देवनायकाः । साधु साधु समूचुस्तं विष्णुं बुद्धिमतां वरम् ॥ १५॥ ततः शङ्करमुख्यैस्तैः संस्मृताः कार्यसिद्ध्ये । साङ्गाः समाययुर्वेदा ओङ्कारेण समन्विताः ॥ १६॥ तान् दृष्ट्वा सहसोत्थाय देवाः सर्षिगणाः परे । प्रणम्य पूजयामासुः कृताञ्जलिपुटाः पुरः ॥ १७॥ आसनेषु समासीनाः सोङ्कारा वेदमुख्यकाः । ऊचुस्तान् शिवमुख्यान् वै प्रहृष्टमनसोऽभवन् ॥ १८॥ वेदा ऊचुः । किमर्थं स्मरणं देवा मुनयश्च कृतं जनाः । अस्माकं ब्रूत कार्यं तत् करिष्यामो न संशयः ॥ १९॥ वेदानां वचनं श्रुत्वा शिवस्तानब्रवीद्वचः । विनयेन विशेषज्ञो निश्चयार्थं हितैषिणाम् ॥ २०॥ शिव उवाच । ब्रह्मयज्ञः समारब्धोऽस्माभिः सर्वैर्हितेप्सुभिः । तत्र वादसमायुक्ता न तदन्तं लभामहे ॥ २१॥ अतो भवत्स्मृतिर्वेदाः कृताऽस्माभिर्विशेषतः । निश्चयं गुरवो यूयं वदध्वं भेदनाशकम् ॥ २२॥ योगिनो न भवन्तीह कदापि च भवत्समाः । भवद्वचःप्रमाणेन योगज्ञा वयमप्युत ॥ २३॥ शिवस्य वचनं श्रुत्वा वेदास्तत्र जगुर्वचः । देवान् मुनीन् जनान् सर्वान् दीनपा असुरेश्वर ॥ २४॥ वेदा ऊचुः । ब्रह्मयज्ञस्य पारं वै गमिष्यामः कथं वयम् । अक्षरात्मकदेहत्वात्तथापि कथयामहे ॥ २५॥ न वयं ब्रह्मरूपाश्च ब्रह्मज्ञाः किञ्चिदप्यहो । योगमार्गबलेनैव वदिष्यामो यथातथम् ॥ २६॥ प्रत्येकनिश्चयं देवाः श‍ृणुत ब्रह्मधारणम् । येन संशयसंहीना गमिष्यथ परां गतिम् ॥ २७॥ ब्रह्म नानाविधं प्रोक्तं मया योगबलेन च । प्रज्ञानादिमहावाक्यैस्तेषु योगो विशिष्यते ॥ २८॥ सर्वब्रह्मसुयोगस्य स्थानं योगात्मकं भवेत् । योगे ब्रह्माणि सर्वाणि तदाकाराणि वर्णितम् ॥ २९॥ न योगात् परमं ब्रह्म योगशान्त्या प्रलभ्यते । ब्रह्मणस्पतिरेकोऽयं मया प्रोक्तो गणेश्वरः ॥ ३०॥ ब्रह्मणां सकलानां च पातृपालयितृत्वतः । तं भजध्वं सुरश्रेष्ठा मुनयो भक्तिसंयुताः ॥ ३१॥ (Page खं. ३ अ. ४७ पान १०३) भवन्ति ब्रह्मभूताः सर्वे जनास्तेन निश्चितम् । एवमुक्त्वा बह्वृचस्तु तूष्णीम्भावधरोऽभवत् ॥ ३२॥ ततो यजुः स्वयं साक्षादवोचत् सर्वसंसदि । ब्रह्मप्रदं च वचनं तत्र स्वानुभवात्मकम् ॥ ३३॥ यजुरुवाच । नानाविधं मया ब्रह्म वर्णितं योगसेवया । महावाक्यैश्च सर्वज्ञाः क्रमार्थं नात्र संशयः ॥ ३४॥ तत्र योगस्वरूपाख्यमान्त्यं ब्रह्म विशिष्यते । सर्वब्रह्मसुयोगेन योगस्तेन प्रकथ्यते ॥ ३५॥ तदेव गणराजश्च भक्तैः सम्प्रार्थितः पुरा । योगप्राप्त्यर्थमत्यन्तं तेन साकारकोऽभवत् ॥ ३६॥ गणः समूहरूपाख्यः समूहा ब्रह्मरूपिणः । तेषां स्वामी न सन्देहस्तं भजध्वं विधानतः ॥ ३७॥ अन्नानां सकलानां च सदैकानेकरूपिणाम् । समूहे ब्रह्म ज्ञातव्यमन्नात्मकमिति श्रुतिः ॥ ३८॥ नानाविधानि च ब्रह्माण्येवं भो दैवतर्षयः । ज्ञातव्यानि विचारेण गणरूपाणि निश्चितम् ॥ ३९॥ अतो गणेशभक्त्या वै सकलं सुलभं भवेत् । ब्रह्मभूयप्रदः प्रोक्तो मया योगेन योगपः ॥ ४०॥ इत्युक्त्वा विररामाऽथ यजुर्योगविदां वरम् । उवाचाऽथ ततः साम ब्रह्म निर्णयकारणम् ॥ ४१॥ साम उवाच । योगसेवनसामर्थ्यात् समर्थोऽहं च वर्णने । किञ्चित् श‍ृणुत देवेशा ब्रह्मणो मुनयो वचः ॥ ४२॥ प्रोक्तानि नाना ब्रह्माणि महावाक्यादिभिर्मया । पात्रभेदार्थमत्यन्तं ज्ञातव्यं योगसेवया ॥ ४३॥ तत्र शान्तिप्रदं ब्रह्म योगाख्यं नात्र संशयः । भवति ब्रह्मणां योगो यत्र तेन च योगकः ॥ ४४॥ नास्ति योगात् परं ब्रह्म शान्तिमार्गेण लभ्यते । तदेव मुनयो देवा गणेशो नात्र संशयः ॥ ४५॥ मनोवाणीमयं देवा मया यद्यत् प्रकीर्तितम् । गकाराक्षरसम्भूतं ज्ञातव्यं विबुधैः सदा ॥ ४६॥ मनोवाणीविहीनं यद्वर्ण्यते विविधं तथा । णकाराक्षरगं सर्वं निश्चितं योगसेवया ॥ ४७॥ तयोः स्वामी गणेशानो योगाकारः प्रकीर्तितः । तं भजध्वं विशेषेण ब्रह्मभूतपदप्रदम् ॥ ४८॥ नानाभावेन युक्तास्तं भजन्ते तद्ददाति सः । एवमुक्त्वा महायोगी विरराम स सामगः ॥ ४९॥ ततोऽथर्वा महायोगी जगाद सकलांस्तदा । ब्रह्मयज्ञस्य वेत्ताऽसौ प्रह्लाद श‍ृणु तद्वचः ॥ ५०॥ अथर्वा उवाच । आत्माऽहमिति वाक्याद्यैर्ब्रह्म नानाविधं मया । सम्पादितं च योगेन तदेवोपाधिसंयुतम् ॥ ५१॥ योगाख्यं परमं ब्रह्म तद्योगेन प्रलभ्यते । संयोगायोगहीनोऽयं योगो ब्रह्म सुतिष्ठति ॥ ५२॥ शान्तिस्तत्र समाख्याता योगे योगविदां वरः । स एव गणनाथस्तु सर्वशान्तिप्रदोऽभवत् ॥ ५३॥ एक एव गणेशानो जगतां ब्रह्मणां स्वयम् । ईशः समूहरूपाणां योगरूपस्ततः स्मृतः ॥ ५४॥ सर्वेषामादिरूपोऽयं योगाकारः प्रभावतः । मध्ये नानाविधः स्वांशैर्जगत् सुब्रह्म सुप्रभुः ॥ ५५॥ अन्ते स्वयं तथा तिष्ठेत्तेनादौ पूजितोऽभवत् । सर्वपूज्यश्च देवेशा मुनयो निश्चयार्थिनः ॥ ५६॥ य आदिः सोंऽतरूपस्तु भवते सर्वसम्मते । (Page खं. ३ अ. ४८ पान १०४) मध्ये मायाविहारेण भेदाभेदयुतोऽभवत् ॥ ५७॥ अतस्तं योगरूपाख्यं भजध्वं योगसेवया । भविष्यथ ब्रह्मभूता ब्रह्मयज्ञस्य पारगाः ॥ ५८॥ एवमुक्त्वा महायोगी विरराम महामते । अथर्वा सर्वयोगज्ञस्तत्रोङ्कारोऽब्रवीद्वचः ॥ ५९॥ ओङ्कार उवाच । चतुर्वेदप्रचुरोऽहं मया योगस्य सेवया । ब्रह्म साक्षात् कृतं देवास्तेन योगिमतोऽभवम् ॥ ६०॥ मयोपदेशिता वेदाः साधयामासुरन्वहम् । योगं ब्रह्मप्रदं तेन ब्रह्मज्ञाः सर्वसम्मताः ॥ ६१॥ योगात् परं न विद्येत ब्रह्म सर्वत्र सम्मतम् । जगत् सुब्रह्म सुप्रोक्तं योगेन ब्रह्म शाश्वतम् ॥ ६२॥ तदेव गणराजो वै निश्चितो योगिभिः सदा । संयोगायोगभावेन क्रीडते योगरूपधृक् ॥ ६३॥ सिद्धिर्भ्रान्तिमयी माया बुद्धिर्भ्रान्तिधरा मता । तयोः स्वामी गणेशानो मायाभ्यां खेलते विभुः ॥ ६४॥ भुक्तेः सिद्धिस्तथा मुक्तेः सिद्धिर्ब्रह्मप्रदायिनी । चित्तं पञ्चविधं बुद्धिस्तयोर्योगेन लभ्यते ॥ ६५॥ स्वसंवेद्यात्मकं ब्रह्म वेदेषु कथितं परम् । सर्वसंयोगरूपाख्यं तत्राऽयं दृश्यते स्वयम् ॥ ६६॥ तेन स्वानन्दवासी च मायायुक्तः प्रकीर्तितः । अयोगे दर्शनं तस्य जायते न कदाचन ॥ ६७॥ निर्मायिकस्ततः प्रोक्तस्तयोर्योगेन लभ्यते । गकारश्चैव संयोगो णकारोऽयोग उच्यते ॥ ६८॥ तेन नाम्ना समाख्यातो गणेशो वेदवादिभिः । तं भजध्वं विशेषेण ब्रह्मीभूतस्य कारणात् ॥ ६९॥ ब्रह्मभूता द्विजा देवा भविष्यथ न संशयः । एवमुक्त्वा तदोङ्कारस्तूष्णीमासीन् महामते ॥ ७०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः ॥ ३.४७

३.४८ शुक्रशिष्यसुबोधसंवादो नामाष्टचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीशुक उवाच । सोङ्कारवेदमुख्यानां वचनं हितकारकम् । श्रुत्वा जहृषिरे नागादयः सर्षिगणाः सुराः ॥ १॥ त्यक्त्वा स्वस्वमतं सर्वे तान् प्रणम्य प्रपूज्य वै । ओङ्कारादीन् महाभागा ऊचुः प्राञ्जलयो वचः ॥ २॥ देवादय ऊचुः । ओङ्कारसहिता वेदा भवद्भिः कथितं वचः । तदेव सर्वमान्यं वै ब्रह्मभूयप्रदं भवेत् ॥ ३॥ सर्वेषां गुरवः प्रोक्ता वेदास्तैः कथितं भवेत् । तदेव करणीयं यद् गतिदं सर्वसम्मतम् ॥ ४॥ वेदाधारविहीनं यत्त्याज्यं सर्वैर्न संशयः । नो चेन्नरकगो भूत्वा यातनां लभते नरः ॥ ५॥ ब्रह्मयज्ञस्य पारं वै भवन्तो देवनायकैः । मुनिभिर्जनसङ्घैश्च गता भवथ निश्चितम् ॥ ६॥ देवादयो महाभागा एवमुक्त्वा विशेषतः । प्रह्लाद तुष्टुवुर्वेदमुख्यांस्ते हर्षसंयुताः ॥ ७॥ पूजितास्तैरुक्तवेदाः सोङ्कारा दैत्यनायक । (Page खं. ३ अ. ४८ पान १०५) अन्तर्दधुस्ततः सर्वे हृष्टाः स्थानं ययुः स्वकम् ॥ ८॥ एवं सर्वैः पुरा साधो ब्रह्मयज्ञः कृतोऽभवत् । तेन संशयहीनास्ते भजन्ते गणनायकम् ॥ ९॥ एतत्ते कथितं पूर्णयोगशान्तिप्रदं परम् । सर्वमान्यं विशेषेण भज तं गणनायकम् ॥ १०॥ सुबोध उवाच । एवमुक्त्वा महायोगी शुकश्चान्तर्हितोऽभवत् । प्रह्लादो भक्तिसंयुक्तो भजते गणनायकम् ॥ ११॥ संश्रुतं मातुरुदरसंस्थेन सकलं ततः । मया धृतं विशेषेण तदेवं योगदायकम् ॥ १२॥ पूर्वपुण्यबलेनैव स्मृतिर्मेऽत्र प्रसंस्थिता । जनितोऽहमतो विप्रा भजामि गणनायकम् ॥ १३॥ एतत् सर्वं मया प्रोक्तं यत्पृष्टं गुरुमुख्यकाः । अतो मे मोहदां विद्यां मा वदेत दयायुताः ॥ १४॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा ब्राह्मणा हर्षसंयुताः । ऊचुस्तं योगनिपुणं भावज्ञा भावसिद्धये ॥ १५॥ विप्रा ऊचुः । सुबोध यत्त्वया प्रोक्तं तत्तथा न तदन्यथा । तथापि श‍ृणु वत्स त्वं हितकारकमुत्तमम् ॥ १६॥ पितामहो महाभाग दुर्बुद्धिस्ते महासुरः । गणेशेन हतो रोषाद्देवपक्षप्रधारिणा ॥ १७॥ तं द्वेष्टि गणराजं च पिता ते पितृवत्सल । पितृद्रुहं ततस्त्वं तं त्यज विघ्नेशमादरात् ॥ १८॥ नोचेत्त्वां ते पिता पुत्र हनिष्यति न संशयः । तस्मादाग्रहमत्यन्तं मा कुरुष्व महामते ॥ १९॥ असुराणां कुले पश्य जनिस्तव हितावहा । स्वकुलस्थस्य मार्गस्य सेवनं कुरु सर्वदा ॥ २०॥ तेषां वचनमाकर्ण्य सुबोधो रक्तलोचनः । जगाद तान् द्विजांस्तत्र वचनं धर्मसंयुतम् ॥ २१॥ सुबोध उवाच । सर्वत्र योगरूपेण गणेशस्तिष्ठति द्विजाः । स्वस्वधर्मनियन्ताऽसौ नानाक्रीडापरायणः ॥ २२॥ स्वर्गे देवा नराः पृथ्व्यां पाताले तेन दैत्यपाः । स्थापिताः स्वस्वमार्गेषु स्थातव्यं तैर्हितेप्सुभिः ॥ २३॥ पितामहश्च मे विप्रास्त्रिलोकी राज्यमुत्कटम् । चकार धर्महीनः स तस्मात्तेन हतो बलात् ॥ २४॥ पिता मेऽपि तथा विप्रा धर्महीनतया स्थितः । तं हनिष्यति वेगेन गणेशो नात्र संशयः ॥ २५॥ अतः किं गणराजेन विपरीतं कृतं द्विजाः । स्वधर्मस्य प्रियेणैव मां वदेत विशेषतः ॥ २६॥ सर्वेषां हितकर्ताऽसौ विघ्नराजो न संशयः । तं भजिष्यामि यत्नेन त्यक्त्वा स्वपितरं खलम् ॥ २७॥ गणेशं भजमानं मां वधिष्यति यदा खलः । तदेव मरणं श्रेष्ठं ब्रह्मभूयप्रदं भवेत् ॥ २८॥ मशके कुपिते किं वै गृहं त्यक्त्वा मनीषिणः । तिष्ठन्ति ब्राह्मणाः सर्वे मां वदेत हि साम्प्रतम् ॥ २९॥ बुद्धेः पतेर्गणेशस्य सत्ता सर्वत्र वर्तते । सिद्धेः पतेर्न सन्देहः किं करिष्यति मां पिता ॥ ३०॥ स्वधर्मः सर्वभूतानां धर्मकामार्थमुक्तये । ब्रह्मभूयार्थमत्यन्तं गणेशभजनात्मकः ॥ ३१॥ तं तादृशं स्वधर्मं किं त्यक्त्वा विषयलम्पटः । भविष्याम्यसुराधीनो ब्राह्मणाः कुलपांसवः ॥ ३२॥ न ब्राह्मणा भवन्तोऽपि विषयेषु परायणाः । त्यक्त्वा धर्मं स्थिता अत्र दैत्याधीना न संशयः ॥ ३३॥ गणेशभजने सक्ता ब्रह्मभूयपरायणाः । ब्राह्मणास्ते मताः शास्त्रे किं मां वदथ बालिशाः ॥ ३४॥ श्रीकृष्ण उवाच । शुक्रशिष्यान् प्रजानाथ एवमुक्त्वा महामतिः । सुबोधो गणनाथस्य भजने तत्परोऽभवत् ॥ ३५॥ नमो गणेशाय नमो महात्मने नमः परेशाय परात्पराय ते । अनादिमध्यान्तमयाय ढुण्ढये नमो नमो विघ्नपते सुशान्तिद ॥ ३६॥ एवं विवदमानं तं ज्ञात्वा काव्यस्य शिष्यकाः । भयभीता विशेषेण ज्ञानारिं ते ययुः प्रभो ॥ ३७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते शुक्रशिष्यसुबोधसंवादो नामाष्टचत्वारिंशोऽध्यायः ॥ ३.४८

३.४९ सुबोधभक्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । काव्यशिष्या गतास्तत्र यत्र दैत्याधिपोऽभवत् । सभासनस्थमूचुस्तं दृष्ट्वा भयसमन्विताः ॥ १॥ शुक्रशिष्या ऊचुः । ज्ञानारे श‍ृणु वाक्यं नो दारुणं विपरीतगम् । पुत्रस्तेऽभून् मदोत्सिक्तः सर्वदाऽस्मानुपेक्षते ॥ २॥ उल्लङ्घ्य सर्वमस्माभिः कथितं जातिदूषणम् । करोति स्वमतेनायमन्यान् सम्बोधयंस्तथा ॥ ३॥ पितृहन्तारमत्यन्तं सदा स्मरति भक्तितः । तिरस्कृत्य महाराज त्वामस्मान्नात्र संशयः ॥ ४॥ अतः कथयितुं याताः शिक्षयस्व स्वपुत्रकम् । वयं शिक्षयितुं शक्ता नाविनीतं महामते ॥ ५॥ श्रीकृष्ण उवाच । तेषां वचनमाकर्ण्य क्षोभितो दैत्यनायकः । प्रेषयामास दूतं स पुत्रमानेतुमन्तिके ॥ ६॥ दूतेनागतमेवं तं पुत्रं दृष्ट्वा महासुरः । उवाच कृतवन्तं तं प्रणामं क्रोधसंयुतः ॥ ७॥ ज्ञानारिरुवाच । किं तिरस्कृत्य रे वत्स गुरून् स्मरसि तद्वद । हितं ते हृदये किं च वर्तते कुलपांसन ॥ ८॥ पितुर्वचनमाकर्ण्य क्रोधयुक्तः सुबोधकः । उवाच पितरं भ्रान्तं मायया गणपस्य सः ॥ ९॥ सुबोध उवाच । सर्वेषां कुलदेवं च सर्वेषां हितकारकम् । भुक्तिमुक्तिप्रदं तात भजामि गणनायकम् ॥ १०॥ ब्रह्मविष्ण्वादिभिर्देवैः कश्यपादिमुनीश्वरैः । पूजितं कुलवृद्ध्यर्थं योगशान्त्यर्थमादरात् ॥ ११॥ कश्यपात् वयमुत्पन्ना देवा दैत्यास्तथा नराः । जन्तवो विविधाश्चैव तेषां स्वामी तथाऽभवत् ॥ १२॥ भजामि गणनाथं वै अतोऽहं सर्वभावतः । तमनादृत्य दैत्येश न सिद्धिं लभते पुमान् ॥ १३॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः । जगाद तं धर्मराजमुखादनलमुद्वमन् ॥ १४॥ ज्ञानारिरुवाच । अस्माकं शत्रवो देवा दैत्यानां नात्र संशयः । सुरासुराश्च वेदेषु प्रोक्ताः पश्य सुदुर्मते ॥ १५॥ तत्राप्ययं पितुर्हन्ता मम तं भजसे मुधा । बालभावे मया ज्ञातं चेष्टितं ते रिपुश्रितम् ॥ १६॥ (Page खं. ३ अ. ४९ पान १०७) बालं मत्वा न दुष्ट त्वां हतवान् कृपया शठ । अधुना तादृशं मत्वा न मुञ्चामि कदाचन ॥ १७॥ त्यज शत्रुं महामूर्ख नोचेद्धन्म्यधुना किल । एवमुक्त्वा खङ्गहस्तो दुद्राव स्वसुतं नृप ॥ १८॥ ततस्तं दैत्यराजं स उवाच तनयो वचः । किं धर्षयसि मां तात भ्रान्तिभावेन मोहितः ॥ १९॥ सर्वसत्ताधरः प्रोक्तो वेदेषु गणनायकः । तस्य सत्तां परित्यज्य किं मां हंसि त्वमेव च ॥ २०॥ सुरासुरमयः साक्षाद्गणेशो नात्र संशयः । उद्धतं हन्ति वेगेन नानारूपधरः प्रभुः ॥ २१॥ ब्रुवन्तं स्वसुतं दृष्ट्वा भयहीनं युधिष्ठिर । क्रोधयुक्तः स्वयं तत्र संस्थितो दैत्यनायकः ॥ २२॥ दूतानाज्ञापयामास शस्त्रास्त्रैः स्वसुतस्य सः । वधार्थं ते दैत्यगणाः क्रोधयुक्ता बभूविरे ॥ २३॥ नानानादयुताः सर्वे नग्नशस्त्रधरा ययुः । हन्तुं तं तानथो दृष्ट्वा सुबोधो निर्भयो बभौ ॥ २४॥ गणेशभजने सक्तो बभूव न चचाल ह । देहप्रारब्धभावेन भवेत्तन् मे गजानन ॥ २५॥ विघ्नेश हेरम्ब जयाखिलेश स्वानन्दवासिन् जय वक्रतुण्ड । नाथोऽसि सर्वत्र जगत् सुढुण्ढे लम्बोदर ब्रह्मसुते नमो वै ॥ २६॥ इत्याद्यैर्विविधैर्वाक्यैर्गणेशमभजत् सुतः । तं तथा क्रोधसंयुक्ता जघ्रुर्दैत्या महाबलाः ॥ २७॥ नानाशस्त्रनिपातैस्तेऽस्त्रैः सर्वत्र युधिष्ठिर । गणेशस्तस्य देहस्थो निष्फलांस्तांश्चकार ह ॥ २८॥ क्रोधानलेन सर्वान् स दाहयामास विघ्नपः । ततः पलायनं चक्रुर्दैत्याः प्राणपरीप्सया ॥ २९॥ तत् दृष्ट्वा परमाश्चर्यं ज्ञानारिः क्रोधमूर्च्छितः । श्रेष्ठानाज्ञापयामास वधाय स्वसुतस्य वै ॥ ३०॥ चतुरङ्गबलैर्युक्ता दैत्येशास्तं समाययुः । अमोघास्त्रैः सुबोधं ते जघ्नुः परमदारुणाः ॥ ३१॥ गणेशभक्तिं तां सोऽपि चक्रे वै निर्भयो दृढाम् । जय देवेश विघ्नेश महोदर नमोऽस्तु ते ॥ ३२॥ तस्य देहान् महानग्निः शस्त्रघातच्छलेन सः । समुत्पन्नः प्रजज्वाल दैत्येशान् क्षणमात्रतः ॥ ३३॥ ते मेघास्त्राणि ससृजुस्तैर्न शान्तो बभूव ह । ददाह सकलांस्तत्र प्रलयाग्निसमश्च तान् ॥ ३४॥ मृताः सर्वे सुराणां वै नायकास्तत्र भूमिप । ज्ञानारिः परमाश्चर्ययुक्तोऽभूत् खेदसंयुतः ॥ ३५॥ प्रधानैः स विचार्यैवं पुत्रं तत्याज तत्क्षणात् । शुक्रं तपसि तिष्ठन्तं ज्ञात्वा क्रोधं नियम्य च ॥ ३६॥ मेधावी स यदा शुक्र आगमिष्यति वै गृहे । तदा तेन समायुक्ता हनिष्यामः सुबोधकम् ॥ ३७॥ एवं निश्चितसङ्कल्पाः स्थितास्ते दैत्यनायकाः । ज्ञानारिः स तथा चक्रे हृदयेन विदूयता ॥ ३८॥ सुबोधो गणपं तत्राऽभजत् सोऽनन्यमानसः । निर्भयो दानवान् सर्वान् तृणीकृत्य विशेषतः ॥ ३९॥ ततस्तेन सुबोधेन दैत्यपुत्रा युधिष्ठिर । शिक्षिताः प्रत्ययं दृष्ट्वा तथा गणपमाभजन् ॥ ४०॥ सत्यं गणेशमाहात्म्यं महत्तन्नात्र संशयः । सन्दृश्य दैत्यभूपाला मृताः कक्षवदप्यहो ॥ ४१॥ एवं विचार्य सर्वत्र बाला विघ्नेशमादरात् । (Page खं. ३ अ. ५० पान १०८) अभजन् सर्वभावेन तिरस्कृत्य गुरोः सुतान् ॥ ४२॥ यत्र तत्र गणेशस्य कीर्तनं ह्यर्चनादिकम् । अकुर्वन् दैत्यपुत्रास्ते सुबुधेन समन्विताः ॥ ४३॥ नमो नमो विघ्नपते गणेश सदा स्वसंवेद्यपुरे निवासिन् । अनादिमध्यान्तविहीनकाय सुशान्तिदात्रे जय सर्वपूज्य ॥ ४४॥ एवं दृष्ट्वा स सर्वत्र ज्ञानारिः क्रोधमादधे । सहने न समर्थोऽभून् मतिं चक्रे वधाय वै ॥ ४५॥ हनिष्यामि सुतं दुष्टं वरयुक्तप्रभावतः । न मे मृत्युर्भवेन्नूनमिति व्यवसितोऽभवत् ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सुबोधभक्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ३.४९

३.५० युधिष्ठिरचरितं नाम पञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । अधुना श‍ृणु धर्मज्ञ देवादीनां वनेषु वै । यज्जातं तत् प्रवक्ष्यामि पूर्णानन्दस्य चेष्टितम् ॥ १॥ विष्णुमुख्यान् सुरानाह पूर्णानन्दः प्रतापवान् । किमर्थं दुःखसंयुक्ता भवन्तः सर्वजन्तुभिः ॥ २॥ ज्ञानारिणा कृतं सर्वं जगत् स्थावरजङ्गमम् । दुःखयुक्तं विशेषेण तं हनिष्यामि निश्चितम् ॥ ३॥ मयि पुत्रत्वमापन्ने दुर्लभं किं भविष्यति । तस्माद्देवगणैस्तात गच्छ वैकुण्ठमादरात् ॥ ४॥ ज्ञानारिः पुत्रनाशार्थं यतते चाधुना प्रभो । तस्य पुत्रो महाभक्तो मदीयो नात्र संशयः ॥ ५॥ भक्तरक्षार्थमेवाहं गमिष्याम्यधुना स्वयम् । तं हत्वा सुखमेष्यामि स्वभक्तद्वेषिणं खलम् ॥ ६॥ चराचरमयात्तस्य भयं नास्ति कदाचन । चराचरमयं सर्वं त्रैगुण्यं नात्र संशयः ॥ ७॥ अतो द्वन्द्वविहीनेन तं रूपेण महासुरम् । हनिष्यामि स्वभक्तार्थं पश्य मे त्वं कुतूहलम् ॥ ८॥ एतस्मिन्नन्तरे चैव ज्ञानारिः खड्गमादधौ । सुबोधं हन्तुमत्यन्तं क्रोधयुक्तो युधिष्ठिर ॥ ९॥ ज्ञानारिं तादृशं दृष्ट्वा सुबोधो भक्तिसंयुतः । गणेशस्य जगादापि तच्छृणुष्व युधिष्ठिर ॥ १०॥ सुबोध उवाच । अहङ्कारेण संयुक्तस्तात त्वं मायया भृशम् । न जानासि गणेशानं चित्ते संस्थितमेव ते ॥ ११॥ चिन्तामणिः स वेदेषु कथितो वेदवादिभिः । तं गच्छ शरणं तात नोचेत्त्वं वै मरिष्यसि ॥ १२॥ न ते भयेन भावेन त्यजेयं विघ्ननायकम् । किमु श्राम्यसि मूर्ख त्वं सत्ताधारं न पश्यसि ॥ १३॥ इति पुत्रं ब्रुवन्तं स जघान दृढरोषतः । खड्गेन तीक्ष्णधारेण स खड्गो निष्फलोऽभवत् ॥ १४॥ ततो नानास्त्रवर्षैस्तमवर्षद्दैत्यनायकः । तानि निष्फलरूपाणि बभूवुश्च युधिष्ठिर ॥ १५॥ अग्न्यस्त्रादीनि शस्त्राणि निष्फलानि महासुरः । वीक्ष्य विस्मितचित्तोऽसौ मल्लयुद्धोद्यतोऽभवत् ॥ १६॥ पुत्रं पादे शिलायां स सङ्गृह्याऽऽस्फालयद्यदा । (Page खं. ३ अ. ५० पान १०९) तावत् स्वयं पपातैव मूर्च्छितस्ताडितोऽभवत् ॥ १७॥ अदृश्यरूपभावेन हतो विघ्नविनाशिना । पुनः संज्ञासमायुक्तोऽपश्यत्पुत्रं सुदुर्मतिः ॥ १८॥ गणेशभजने सक्तं वीक्ष्य विस्मितमानसः । विचारं हृदये सोऽपि चकार परमाद्भुतम् ॥ १९॥ अहो मां को जघानैवं न पश्यामि महारिपुम् । केन मार्गेण मे पुत्रं हनिष्यामि कुलान्तकम् ॥ २०॥ पुत्रस्य मरणार्थाय यतेऽहं विविधं सदा । तदर्थं दैत्यनाथाश्च सुहृद्भिरभवन् मृताः ॥ २१॥ अहं किं वा मरिष्यामि हनिष्यामि सुतं नु वा । अधुना किं मया कार्यमेवं व्यवसितोऽभवत् ॥ २२॥ ततस्तेन वधार्थाय प्राप्तं ज्ञानं विशेषतः । पुत्ररक्षाकरं चादौ हन्मि पश्चात् सुतं खलम् ॥ २३॥ मृतो रक्षाकरस्तस्य रक्षिता न भविष्यति । पुत्रस्य तेन मृत्युं मे गमिष्यति सुतोऽधुना ॥ २४॥ एवं निश्चितसङ्कल्पो जगाद क्रोधसंयुतः । पुत्रं सुबोधनामानं मोहेनामोहितोऽसुरः ॥ २५॥ सुबोध कुत्र ते रक्षिता विशेषेण वर्तते । तमानय महादुष्टं हनिष्याम्यधुना शठ ॥ २६॥ ततस्तं मोहितं प्राह सुबोधः करुणायुतः । तात पश्य हृदिस्थं तं चित्तवृत्तिप्रचालकम् ॥ २७॥ वैरभावं परित्यज्य तथाऽहङ्कारमद्य वै । शरणं गच्छ विघ्नेशं ब्रह्मभूतो भविष्यसि ॥ २८॥ सर्वत्र संस्थितं पश्य स्वामिनं मे गजाननम् । तं हन्तुमुद्यतस्त्वं वै मरिष्यसि न संशयः ॥ २९॥ ततस्तं प्रत्युवाचेदं ज्ञानारिर्वचनं नृप । दर्शयस्व महाभाग तं भजिष्यामि निश्चितम् ॥ ३०॥ एवं कपटभावेन सुबोधं स जगाद ह । सुबोधस्तं गणेशानं सस्मार पितृकारणात् ॥ ३१॥ ततस्तं मूषकारूढो विष्णुपुत्रः समाययौ । तमन्वयुर्द्विजा देवा भयभीता युधिष्ठिर ॥ ३२॥ आकाशे गुप्तरूपेण मुनयो देवतागणाः । संस्थिता अभवंस्तत्र पश्यन्तश्चेष्टितं प्रभोः ॥ ३३॥ सुबोधस्य समीपे तं संस्थितं गणनायकम् । पश्यन् क्रूरो महादुष्टो ज्ञानारिर्हर्षितोऽभवत् ॥ ३४॥ सुबोधस्तं प्रणम्यादौ स्तुत्वा च विविधैः स्तवैः । उवाच पितरं योगी पश्य तात गजाननम् ॥ ३५॥ सुबोधस्य वचः श्रुत्वा क्रोधयुक्तो महासुरः । अमोघं सर्वसंहारकारकं शस्त्रमाददे ॥ ३६॥ एतस्मिन्नन्तरे तत्र पूर्णानन्दो हृदि स्थितः । जीवभावं स दैत्यस्य कर्षयामास भूमिप ॥ ३७॥ ततः स पतितो भूमौ गतचैतन्यकोऽञ्जसा । हाहाकारं प्रचक्रुस्ते दैत्याः पातालमाययुः ॥ ३८॥ ततस्ते देवविप्राद्या नभःस्थाः सहसाऽऽगताः । प्रणम्य तुष्टुवुस्तं वै पूर्णानन्दं गणेश्वरम् ॥ ३९॥ स्तुवतां पश्यतां भूप सुबोधं गृह्य विघ्नपः । अन्तर्धानं चकाराऽपि सर्वे खिन्ना इवाऽभवन् ॥ ४०॥ लक्ष्मीर्नारायणश्चैव मूर्च्छितौ धरणीतले । पेततुर्दुःखसंयुक्तौ पूर्णानन्दवियोगतः ॥ ४१॥ द्विमुहूर्तात् प्रबुद्धौ तौ ततो हृदि तयोः प्रभुः । प्रकटोऽभूदुवाचाऽथ मूर्तौ मां भजतं युवाम् ॥ ४२॥ न वियोगो भवेत्तातौ पश्यतं बुद्धिचालकम् । (Page खं. ३ अ. ५० पान ११०) एवमुक्त्वान्तर्दधेऽसौ हृदिस्थो गणनायकः ॥ ४३॥ ततस्तौ दुःखसंयुक्तौ चक्रतुः परमादृतौ । लक्ष्मीनारायणौ मूर्तिं भक्त्या प्रभजने रतौ ॥ ४४॥ एवं महोदरः सर्वप्रदाता वै प्रतापवान् । हर्ता च ब्रह्मभूतोऽसौ ब्रह्मभूयप्रदो मतः ॥ ४५॥ शिवविष्ण्वादिभिर्देवैः सेवितो भक्तिभावतः । मुनिभिर्योगिभिर्नानाजन्तुभिर्नात्र संशयः ॥ ४६॥ तं भजस्व महीपाल विघ्नहीनो भविष्यसि । स्वधर्मस्थो महाभाग शान्तियोगमवाप्स्यसि ॥ ४७॥ मुद्गल उवाच । एवं नारायणं तं स ब्रुवन्तं धर्मपालकः । युधिष्ठिर उवाचाऽथ प्रेमयुक्तो महामतिः ॥ ४८॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाप्राज्ञ कथां ब्रह्मप्रदायिनीम् । सर्वकामप्रदां पूर्णां वदस्यत्र न संशयः ॥ ४९॥ त्वदीयसङ्गयोगेन मया ज्ञातो गजाननः । वद त्वं तस्य मन्त्रं मे सस्त्रीकाय सबन्धवे ॥ ५०॥ स तस्मै देवकीपुत्रो ददौ मन्त्रं षडक्षरम् । देवेशो धौम्यमुखतस्तथा सर्वेभ्य आदरात् ॥ ५१॥ मुद्गल उवाच । पाण्डवा द्रौपदीयुक्तास्तेन मन्त्रेण विघ्नपम् । अभजन् भक्तिसंयुक्ताश्चतुर्थीव्रतकारकाः ॥ ५२॥ ततो दुःखविहीनास्ते सूर्यात् प्राप्य यथेप्सितम् । स्थालीस्थमन्नमत्यन्तं पोषयामासुरग्रजान् ॥ ५३॥ वनस्थाः दुखहीनाश्च भ्रमन्तस्ते समाययुः । व्यासेन वासुदेवेन युताः स्वानन्दके पुरे ॥ ५४॥ मयूरेशं च तत्रैवाऽपूजयन् भक्तिसंयुताः । पाण्डवेशं समास्थाप्य श्राद्धं चक्रुः पितुस्ततः ॥ ५५॥ तत्र पिण्डप्रदानेन पाण्डुं स्वर्गस्थमादरात् । नानासुहृद्गणैर्युक्तं समानेतुं ययुर्गणाः ॥ ५६॥ गाणेशेन विमानेन स्वानन्दे ब्रह्मरूपिणम् । चक्रुर्दक्ष महाभाग महिम्ना क्षेत्रजेन ते ॥ ५७॥ गुप्तरूपेण वर्षं ते निर्विघ्ना अवसंस्ततः । पश्चात् प्राकट्यमास्थाय सस्त्रीकाः पाण्डवा ययुः ॥ ५८॥ हत्वा दुर्योधनं वीराः ससैन्यं कर्णसंयुतम् । राज्यं प्राप्याऽभजंस्ते तं गणेशं सर्वनायकम् ॥ ५९॥ एवं युधिष्ठिरेणैवाराधितः स महोदरः । मोहशून्यस्वभावेन योगिना शान्तिधारिणा ॥ ६०॥ पूर्णानन्दावतारो महोदरान्तर्गतः स्मृतः । एवं नानावतारैश्च कुरुते क्रीडनं स्वयम् ॥ ६१॥ तेषां कथयितुं पुण्यं चरित्रं न प्रशक्यते । वर्षाणामयुतैर्दक्ष मया केनापि निश्चितम् ॥ ६२॥ इदं युधिष्ठिरस्यैव चरित्रं पापनाशनम् । श‍ृण्वते पठते वाऽपि तस्मै सर्वार्थदं भवेत् ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते युधिष्ठिरचरितं नाम पञ्चाशत्तमोऽध्यायः ॥ ३.५० (Page खं. ३ अ. ५१ पान १११)

३.५१ श्रवणफलवर्णन नामैकपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । महोदरस्य क्षेत्रं यद्दक्षिणस्यां दिशि स्थितम् । देवैश्च मुनिभिस्तत्र स्थापितो गणनायकः ॥ १॥ दशयोजनविस्तारस्तस्य क्षेत्रस्य मानद । महोदरश्च तन्मध्ये चतुरस्रे स्थितोऽभवत् ॥ २॥ स्वस्वखण्डेषु सर्वत्र द्वीपेषु मुनिभिः पुरा । स्थापितो दक्षिणस्यां स दिशि ब्रह्ममयः प्रभुः ॥ ३॥ तत्र देवादयः सर्वे ऋषयो योगिनस्तथा । तीर्थानि क्षेत्रमुख्यानि संस्थितानि भवन्ति च ॥ ४॥ समुद्रे स्नानकर्तारः स्वस्वतीर्थेषु नित्यदा । गणेशानं भजन्तस्ते परस्परहिते रताः ॥ ५॥ नानारूपाणि ते सर्वे महोदर कृतानि च । चेष्टितानि स्मरन्तो वै हृष्टरोमाण आभवन् ॥ ६॥ सिद्धिबुद्धियुतं तं ते मूषकं पुरतः स्थितम् । दूर्वादिभिः पूजयन्ति विशेषेण प्रजापते ॥ ७॥ भाद्रशुक्लचतुर्थीजस्तत्र मुख्यो महोत्सवः । वर्षमध्ये वै भवति भक्ता यात्रां प्रकुर्वते ॥ ८॥ ततो महोदरस्यैव दर्शनेन हृदीप्सितम् । लभते मानवः सर्वं स्मरणेन तथा विभोः ॥ ९॥ क्षेत्रे मरणतो दक्ष ब्रह्मभूतो भवेन्नरः । अष्टौ विनायकाः प्रोक्तास्तेषां क्षेत्राणि सर्वदा ॥ १०॥ ब्रह्मभूतमयान्येव तेषु सर्वे शिवादयः । संस्थिता भक्तिकार्यार्थं ज्ञातव्यं विबुधैः सदा ॥ ११॥ त्रैलोक्ये श्रेष्ठरूपा ये शेषादय उदाहृताः । ते सर्वे निवसन्त्यत्र क्षेत्रेष्वष्टसु निश्चितम् ॥ १२॥ तत्र गाणेशतीर्थं महोदरस्य च हर्षदम् । स्नानेनात्रकृतेनैव पुमान् सर्वार्थसिद्धिभाक् ॥ १३॥ विष्ण्वादिषु तथाऽन्येषु तीर्थेषु च विशेषतः । गणेशक्षेत्रगेष्वेव स्नानमात्रेण देहिनाम् ॥ १४॥ तत्तत्पदप्रदानि स्युस्तेषामन्ते प्रजापते । ब्रह्मभूता भविष्यन्ति स्वानन्दे वासकारिणः ॥ १५॥ अन्यदेवस्य भक्ता ये क्षेत्रे गाणेशके मृताः । तस्य देवस्य लोके ते गमिष्यन्ति न संशयः ॥ १६॥ महालये त्रयो देवा लयं गच्छन्ति चेत् प्रभो । तदा ते निजलोके वै गमिष्यन्ति सुखप्रदे ॥ १७॥ क्षेत्रे मरणसंस्काराद्ब्रह्मभूता भवन्ति च । अतो नरेण तद्भक्त्या गाणेशं सेव्यमादरात् ॥ १८॥ यत्र कुत्र स्थिता भक्ता ये भजन्ति महोदरम् । ते सर्वे ब्रह्मभूता वै ज्ञातव्याः पावना नृणाम् ॥ १९॥ कुर्वन्ति ये शिवादीनां भजनं जन्मजन्मसु । तेन संस्कारयोगेन गाणेशास्ते भवन्ति वै ॥ २०॥ गाणेशान्न परं ब्रह्म कथितं सर्वसम्मतम् । अतो गणेशभक्ता ये ब्रह्मभूताश्च ते मताः ॥ २१॥ इदं महोदराख्यानं कथितं ते प्रजापते । सर्वसिद्धिप्रदं पूर्णं समासेन यथामति ॥ २२॥ श‍ृणुयाद्यो नरो भत्तया श्रावयेद्वा पठेद्यदि । अन्ते स ब्रह्मभूतश्च भविता नात्र संशयः ॥ २३॥ अनेन न समं किञ्चित् त्रिषु लोकेषु विद्यते । सर्वदं मानवादीनां ब्रह्मादीनां च योगिनाम् ॥ २४॥ व्रतानि विधिवन्नाना कुरुते मानवोत्तमः । अस्य श्रवणमात्रेण तत् फलं लभते प्रभो ॥ २५॥ नानातीर्थेषु यः स्नायात्तर्पयेद्देवतादिकान् । यथाशास्त्रं फलं तस्य तदस्य श्रवणाल्लभेत् ॥ २६॥ (Page खं. ३ अ. ५१ पान ११२) क्षेत्रेषु भक्तिसंयुक्तो नरो वासं करोति यः । विधिवद्धर्मशीलज्ञस्तत् फलं श्रवणाल्लभेत् ॥ २७॥ यज्ञैर्नानाविधैर्देक्ष दृष्ट्वा देवान् यथार्थतः । यत्फलं लभते मर्त्यस्तदस्य श्रवणात् फलम् ॥ २८॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । अस्य श्रवणतः सद्यस्तत्फलं लभते पुमान् ॥ २९॥ बहुनाऽत्र किमुक्तेन ब्रह्मभूयप्रदं भवेत् । श्रवणेन न सन्देहो धर्मकामार्थमोक्षदम् ॥ ३०॥ पुत्रपौत्रादिकं सर्वं धनं धान्यं विशेषतः । राज्यमश्वादिकं सर्वं लभते श्रवणेन च ॥ ३१॥ महोदरस्य माहात्म्यं गृहे संलिखितं भवेत् । न तत्र राक्षसादिभ्यश्चोराग्न्याद्याद्भयं भवेत् ॥ ३२॥ ग्रहरोगादिका पीडा पूजनेन च नश्यति । पुस्तकस्यास्य भो दक्ष नात्र कार्या विचारणा ॥ ३३॥ इच्छन्ति जन्तवो यद्यदस्य श्रवणकारकाः । तत्तन् महोदरः सुप्रीतो ददाति प्रतापवान् ॥ ३४॥ वाचकं परितोष्यैव लभते तत्क्षणात् फलम् । गणेशसन्निधाने च श्रवणेन न संशयः ॥ ३५॥ पतिता उद्धरिष्यन्ति श्रवणेनास्य निश्चितम् । किं पुर्नभावसंयुक्ता ब्रह्मभूता भवन्ति चेत् ॥ ३६॥ नानेन सदृशं कुत्र वर्तते ब्रह्मगोलके । साक्षाद्योगपतिर्यत्र वर्ण्यते स महोदरः ॥ ३७॥ इति ते कथितं सर्वं सङ्क्षेपेण मया प्रभो । महोदरस्य माहात्म्यं श्रोतुमिच्छसि किं पुनः ॥ ३८॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । तदेतत् कथितं सर्वं मया ते नात्र संशयः ॥ ३९॥ सर्वमान्यं विशेषेण मतमान्यं महामते । वेदादीनां तथा सारं ज्ञातव्यं ब्राह्मणा इदम् ॥ ४०॥ नानाशास्त्रपुराणानि मन्थयित्वा महामुनिः । व्यासः सङ्कथयामास मह्यं ब्रह्मप्रदं प्रभुः ॥ ४१॥ न गणेशात् परं ब्रह्म न गणेशात् परं तपः । न गणेशात् परं कर्म ज्ञानं न गणपात्परम् ॥ ४२॥ त्यक्त्वा गणेशमेकं यो नरः कर्मपरायणः । ब्रह्मज्ञानादिकं सर्वं साधयेच्चेत् सुनिष्फलम् ॥ ४३॥ सिद्धेः पतिं परित्यज्य सिद्धिमिच्छति शाश्वतीम् । फलहीनः स्वभावेन नारकी जायते नरः ॥ ४४॥ बुद्धेः पतिं परित्यज्य स्थिरबुद्धिं य इच्छति । न योगं लभते सोऽपि भस्मनि प्रहुतं यथा ॥ ४५॥ सर्वपूज्योऽयमेकश्च सर्वादिः सर्वभावनः । तं भजध्वं विशेषेण द्विजा वेदादिसम्मतम् ॥ ४६॥ कथितं सर्वसारं ते महोदरकथानकम् । किं श्रोतुमिच्छसि प्राज्ञ वद शौनक ते नमः ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते श्रवणफलवर्णन नामैकपञ्चाशत्तमोऽध्यायः ॥ ३.५१ ॥ इति तृतीयः खण्डः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणे तृतीयः खण्डः समाप्तः ॥ Proofread by Yash Khasbage
% Text title            : Mudgala Purana Khanda 3 Mahodaracharitam
% File name             : mudgalapurANam3.itx
% itxtitle              : mudgalapurANaM khaNDaH 3 mahodaracharitam
% engtitle              : Mudgala Purana Khanda 3 Mahodaracharitam
% Category              : purana, ganesha
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org