श्रीशिवमहापुराणम् १ विद्येश्वरसंहिता
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ विद्येश्वरसंहिता
१.१. प्रथमोऽध्यायः । मुनिप्रश्नोत्तरवर्णनम् ।
आद्यन्तमङ्गलमजातसमानभाव-
मार्यं तमीशमजरामरमात्मदेवम् ।
पञ्चाननं प्रबलपञ्चविनोदशीलं
सम्भावये मनसि शङ्करमम्बिकेशम् ॥ १॥
व्यास उवाच ।
धर्मक्षेत्रे महाक्षेत्रे गङ्गाकालिन्दिसङ्गमे ।
प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ १॥
मुनयः शंसितात्मानः सत्यव्रतपरायणाः ।
महौजसो महाभागा महासत्रं वितेनिरे ॥ २॥
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ।
आजगाम मुनीन् द्रष्टुं सूतः पौराणिकोत्तमः ॥ ३॥
तं दृष्ट्वा सूतमायान्तं हर्षिता मुनयस्तदा ।
चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ४॥
ततो विनयसंयुक्ताः प्रोचुः साञ्जलयश्च ते ।
सुप्रसन्ना महात्मानः स्तुतिं कृत्वा यथाविधि ॥ ५॥
रोमहर्षण सर्वज्ञ भवान् वै भाग्यगौरवात् ।
पुराणविद्यामखिलां व्यासात् प्रत्यर्थमीयिवान् ॥ ६॥
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ।
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ७॥
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ।
न त्वयाविदितं किञ्चित् त्रिषु लोकेषु विद्यते ॥ ८॥
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ।
कुर्वन् किमपि नः श्रेयो न वृथागन्तुमर्हसि ॥ ९॥
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ।
न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ १०॥
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ।
तद्रहस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ॥ ११॥
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ।
दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ १२॥
परापवादनिरताः परद्रव्याभिलाषिणः ।
परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १३॥
देहात्मदृष्टयो मूढा नास्तिकाः पशुबुद्धयः ।
मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिङ्कराः ॥ १४॥
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ।
धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १५॥
त्यक्तस्वजातिकर्माणः प्रायशः परवञ्चकाः ।
त्रिकालसन्ध्यया हीना ब्रह्मबोधविवर्जिताः ॥ १६॥
अदयाः पण्डितम्मन्याः स्वाचारव्रतलोपकाः ।
कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ १७॥
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ।
असत्सङ्गाः पापरता व्यभिचारपरायणाः ॥ १८॥
अशूरा अरणप्रीताः पलायनपरायणाः ।
कुचौरवृत्तयः शूद्राः कामकिङ्करचेतसः ॥ १९॥
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ।
शरण्यावनहीनाश्च कामिन्यूतिमृगाः सदा ॥ २०॥
प्रजापालनसद्धर्मविहीना भोगतत्पराः ।
प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ २१॥
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ।
कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ २२॥
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ।
अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ २३॥
कामिनीजारभावेषु सुरता मलिनाशयाः ।
लोभमोहविचेतस्काः पूर्तादिषु वृषोज्झिताः ॥ २४॥
तद्वच्छूद्राश्च ये केचिद् ब्रह्मणाचारतत्पराः ।
उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ २५॥
कर्तारस्तपसां भूयो द्विजतेजोऽपहारकाः ।
शिश्वल्पमृत्युकाराश्च मन्त्रोच्चारपरायणाः ॥ २६॥
शालग्रामशिलादीनां पूजका होमतत्पराः ।
प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ २७॥
धनवन्तः कुकर्माणो विद्यावन्तो विवादिनः ।
आख्यानोपासनाधर्मवक्तारो धर्मलोपकाः ॥ २८॥
सुभूपाकृतयो दम्भाः सुदातारो महामदाः ।
विप्रादीन् सेवकान् मत्वा मन्यमाना निजं प्रभुम् ॥ २९॥
स्वधर्मरहिता मूढाः सङ्कराः क्रूरबुद्धयः ।
महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ ३०॥
सुकुलीनान्निजान् मत्वा चतुर्वर्णैर्विवर्तनाः ।
सर्ववर्णभ्रष्टकराः मूढाः सत्कर्मकारिणः ॥ ३१॥
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ।
श्वशुरद्रोहकारिण्यो निर्भया मलिनाशनाः ॥ ३२॥
कुहावभावनिरताः कुशीलाः स्मरविह्वलाः ।
जारसङ्गरता नित्यं स्वस्वामिविमुखास्तथा ॥ ३३॥
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ।
अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ ३४॥
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ।
परलोकेऽपीह लोके कथं सूत गतिर्भवेत् ॥ ३५॥
इति चिन्ताकुलं चित्तं जायते सततं हि नः ।
परोपकारसदृशो नास्ति धर्मोऽपरः खलु ॥ ३६॥
लघूपायेन येनैषां भवेत् सद्योऽघनाशनम् ।
सर्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ३७॥
व्यास उवाच ।
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।
मनसा शङ्करं स्मृत्वा सूतः प्रोवाच तान् मुनीन् ॥ ३८॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं नाम प्रथमोऽध्यायः ॥ १.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.२. द्वितीयोऽध्यायः । मुनिप्रश्नानामुत्तराणि ।
सूत उवाच ।
साधु पृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।
गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १॥
वेदान्तसारसर्वस्वं पुराणं चैवमुत्तमम् ।
सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २॥
कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ।
विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३॥
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।
सर्वोत्तमस्य शैवस्य ते यास्यन्ति सुसद्गतिम् ॥ ४॥
तावद्विजृम्भते पापं ब्रह्महत्यापुरस्सरम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५॥
तावत्कलिमहोत्पाताः सञ्चरिष्यन्ति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६॥
तावत्सर्वाणि शास्त्राणि विवदन्ते परस्परम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७॥
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ८॥
तावद्यमभटाः क्रूराः सञ्चरिष्यन्ति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९॥
तावत्सर्वपुराणानि प्रगर्जन्ति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १०॥
तावत्सर्वाणि तीर्थानि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११॥
तावत्सर्वे मुदा मन्त्रा विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२॥
तावत्सर्वाणि क्षेत्राणि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३॥
तावत्सर्वाणि पीठानि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४॥
तावत्सर्वाणि दानानि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५॥
तावत्सर्वे च ते देवा विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६॥
तावत्सर्वे च सिद्धान्ता विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७॥
अस्य शैवपुराणस्य कीर्तनश्रवणाद् द्विजाः ।
फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८॥
तथापि तस्य माहात्म्यं वक्ष्ये किञ्चित्तु वोऽनघाः ।
चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १९॥
एतच्छिवपुराणं हि श्लोकं श्लोकार्धमेव च ।
यः पठेद्भक्तिसंयुक्तः स पापान्मुच्यते क्षणात् ॥ २०॥
एतच्छिवपुराणं हि यः प्रत्यहमतन्द्रितः ।
यथाशक्ति पठेद् भक्त्या स जीवन्मुक्त उच्यते ॥ २१॥
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ।
दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२॥
एतच्छिवपुराणं यः साधारणपदेच्छया ।
अन्यतः शृणुयात् सोऽपि मत्तो मुच्येत पातकात् ॥ २३॥
एतच्छिवपुराणं यो नमस्कुर्याददूरतः ।
सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४॥
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ।
यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ २५॥
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ।
यत्फलं दुर्लभं लोके तत्फलं तस्य सम्भवेत् ॥ २६॥
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ।
शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७॥
प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं लभेत् ।
इह भुक्त्वाखिलान् कामानन्ते निर्वाणतां व्रजेत् ॥ २८॥
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ।
यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ २९॥
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ।
आत्मतुल्यधनं सूर्यग्रहणे सर्वतोमुखे ॥ ३०॥
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वा यत्फलमश्नुते ।
तत्फलं सम्भवेत्तस्य सत्यं सत्यं न संशयः ॥ ३१॥
एतच्छिवपुराणं हि गायते योऽप्यहर्निशम् ।
आज्ञां तस्य प्रतीक्षेरन् देवा इन्द्रपुरोगमाः ॥ ३२॥
एतच्छिवपुराणं यः पठञ्छृण्वन् हि नित्यशः ।
यद्यत् करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ३३॥
समाहितः पठेद्यस्तु तत्र श्रीरुद्रसंहिताम् ।
स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ ३४॥
तां रुद्रसंहितां यस्तु भैरवप्रतिमान्तिके ।
त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँल्लभेत् ॥ ३५॥
तां रुद्रसंहितां यस्तु सम्पठेद् वटबिल्वयोः ।
प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ३६॥
कैलाससंहिता तत्र ततोऽपि परमा स्मृता ।
ब्रह्मस्वरूपिणी साक्षात् प्रणवार्थप्रकाशिका ॥ ३७॥
कैलाससंहितायास्तु माहात्म्यं वेत्ति शङ्करः ।
कृत्स्नं तदर्धं व्यासश्च तदर्धं वेद्म्यहं द्विजाः ॥ ३८॥
तत्र किञ्चित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ।
यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ३९॥
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ।
तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ ४०॥
शिवेनोपनिषत्सिन्धुमन्थनोत्पादितां मुदा ।
कुमारायार्पितां तां वै सुधां पीत्वामरो भवेत् ॥ ४१॥
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ।
मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ४२॥
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम् ।
पापं सकृत् कीर्तनेन संहिता सा विनाशयेत् ॥ ४३॥
शिवालये बिल्ववने संहितां तां पठेत् तु यः ।
स यत्फलमवाप्नोति तद्वाचोऽपि न गोचरे ॥ ४४॥
संहितां तां पठन् भक्त्या यः श्राद्धे भोजयेद् द्विजान् ।
तस्य ये पितरः सर्वे यान्ति शम्भोः परं पदम् ॥ ४५॥
चतुर्दश्यां निराहारो यः पठेत् संहितां च ताम् ।
बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ ४६॥
अप्यन्याः संहितास्तत्र सर्वकामफलप्रदाः ।
उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ४७॥
तदिदं शैवमाख्यातं पुराणं वेदसम्मितम् ।
निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसम्मितम् ॥ ४८॥
विद्येशं च तथा रौद्रं वैनायकमथौमिकम् ।
मात्रं रुद्रैकादशकं कैलासं शतरुद्रकम् ॥ ४९॥
कोटिरुद्रसहस्राद्यं कोटिरुद्रं तथैव च ।
वायवीयं धर्मसंज्ञं पुराणमिति भेदतः ॥ ५०॥
संहिता द्वादशमिता महापुण्यतरा मताः ।
तासां सङ्ख्यां ब्रुवे विप्राः शृणुतादरतोऽखिलम् ॥ ५१॥
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा ।
औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ ५२॥
त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः ।
षट्सहस्रं च कैलासं शतरुद्रं तदर्धकम् ॥ ५३॥
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ।
सहस्रकोटिरुद्राख्यमुदितं ग्रन्थसङ्ख्यया ॥ ५४॥
वायवीयं खाब्धिशतं धर्मं रविसहस्रकम् ।
तदेवं लक्षसङ्ख्याकं शैवं सङ्ख्याविभेदतः ॥ ५५॥
व्यासेन तत्तु सङ्क्षिप्तं चतुर्विंशत्सहस्रकम् ।
शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ५६॥
शिवेन कल्पितं पूर्वं पुराणं ग्रन्थसङ्ख्यया ।
शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्तृतम् ॥ ५७॥
व्यस्तेऽष्टादशधा चैव पुराणे द्वापरादिषु ।
चतुर्लक्षेण सङ्क्षिप्ते कृते द्वैपायनादिभिः ॥ ५८॥
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ।
श्लोकानां सङ्ख्यया सप्तसंहितं ब्रह्मसम्मितम् ॥ ५९॥
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ।
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ६०॥
पञ्चमी चैवमौम्याख्या षष्ठी कैलाससंज्ञिका ।
सप्तमी वायवीयाख्या सप्तैवं संहिता मताः ॥ ६१॥
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ।
वरीवर्ति ब्रह्मतुल्यं सर्वोपरिगतिप्रदम् ॥ ६२॥
एतच्छिवपुराणं हि सप्तसंहितमादरात् ।
परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ६३॥
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ।
एतच्छिवपुराणस्य नार्हन्त्यल्पां कलामपि ॥ ६४॥
शैवं पुराणममलं शिवकीर्तितं तद्
व्यासेन शैवप्रवणेन च सङ्गृहीतम् ।
सङ्क्षेपतः सकलजीवगुणोपकारं
तापत्रयघ्नमतुलं शिवदं सतां हि ॥ ६५॥
विकैतवो धर्म इह प्रगीतो
वेदान्तविज्ञानमयः प्रधानः ।
अमत्सरान्तर्बुधवेद्यवस्तु
सत्क्लृप्तमन्त्रौघत्रिवर्गयुक्तम् ॥ ६६॥
शैवं पुराणतिलकं खलु सत्पुराणं
वेदान्तवेदविलसत्परवस्तुगीतम् ।
यो वै पठेच्च शृणुयात् परमादरेण
शम्भुप्रियः स हि लभेत् परमां गतिं वै ॥ ६७॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं नाम द्वितीयोऽध्यायः ॥ १.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.३. तृतीयोऽध्यायः । साध्यसाधनविचारः ।
व्यास उवाच ।
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ।
वेदान्तसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ १॥
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ।
संस्मरञ्छङ्करं सूतः प्रोवाच मुनिसत्तमान् ॥ २॥
सूत उवाच ।
शृण्वन्तु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ।
पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ ३॥
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ४॥
वेदान्तवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ ५॥
शृण्वन्तु ऋषयः सर्वे पुराणं वेदसारजम् ।
पुरा कालेन महता कल्पेऽतीते पुनः पुनः ॥ ६॥
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ।
मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ७॥
इदं परमिदं नेति विवादः सुमहानभूत् ।
तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ८॥
वाग्भिर्विनयगर्भाभिः सर्वे प्राञ्जलयोऽब्रुवन् ।
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ९॥
कः पुमान् सर्वतत्त्वेभ्यः पुराणः परतः परः ।
ब्रह्मोवाच ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ १०॥
यस्मात् सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ।
सह भूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥ ११॥
एष देवो महादेवः सर्वज्ञो जगदीश्वरः ।
अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ १२॥
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ।
भक्त्या परमया तस्य नित्यं दर्शनकाङ्क्षिणः ॥ १३॥
बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ।
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसम्भवः ।
यथेहाङ्कुरतो बीजं बीजतो वा यथाङ्कुरः ॥ १४॥
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ।
दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ १५॥
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ।
वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनम् ॥ १६॥
मुनयः ऊचुः ।
अथ किं परमं साध्यं किं वा तत्साधनं परम् ।
साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ १७॥
ब्रह्मोवाच ।
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ।
साधकस्तत्प्रसादाद्यो नित्यादिफलनिस्पृहः ॥ १८॥
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ।
परमेशपदप्राप्तिः सालोक्यादिक्रमात्ततः ॥ १९॥
तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ।
तत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ २०॥
सङ्क्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ।
श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ २१॥
मनसा मननं तस्य महासाधनमुच्यते ।
श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ २२॥
इति श्रुतिः प्रमाणं नः साधनेनामुना परम् ।
साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ २३॥
प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ।
अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ २४॥
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद् बुधः ।
ततः संसाधयेदन्यत् कीर्तनं मननं सुधीः ॥ २५॥
क्रमान्मननपर्यन्ते साधनेऽस्मिन् सुसाधिते ।
शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ २६॥
सर्वाङ्गव्याधयः पश्चात् सर्वानन्दश्च लीयते ।
अभ्यासात् क्लेशमेतद् वै पश्चादाद्यन्तमङ्गलम् ॥ २७॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनविचारं नाम तृतीयोऽध्यायः ॥ १.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.४. चतुर्थोऽध्यायः । श्रवणकीर्तमननानां श्रेष्ठत्वम् ।
मुनय ऊचुः ।
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ।
कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ १॥
ब्रह्मोवाच ।
पूजाजपेशगुणरूपविलासनाम्नां
युक्तिप्रियेण मनसा परिशोधनं यत् ।
तत्सन्ततं मननमीश्वरदृष्टिलभ्यं
सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ २॥
गीतात्मना श्रुतिपदेन च भाषया वा
शम्भुप्रतापगुणरूपविलासनाम्नाम् ।
वाचा स्फुटं तु रसवत् स्तवनं यदस्य
तत्कीर्तनं भवति साधनमत्र मध्यम् ॥ ३॥
येनापि केन करणेन च शब्दपुञ्जं
यत्र क्वचिच्छिवपरं श्रवणेन्द्रियेण ।
स्त्रीकेलिवद् दृढतरं प्रणिधीयते यत्
तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ ४॥
सत्सङ्गमेन भवति श्रवणं पुरस्तात्
सङ्कीर्तनं पशुपतेरथ तद् दृढं स्यात् ।
सर्वोत्तमं भवति तन्मननं तदन्ते
सर्वं हि सम्भवति शङ्करदृष्टिपाते ॥ ५॥
सूत उवाच ।
अस्मिन् साधनमाहात्म्ये पुरा वृत्तं मुनीश्वराः ।
युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ ६॥
पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ।
तपश्चचार सम्भ्रान्तः सरस्वत्यास्तटे शुभे ॥ ७॥
गच्छन् यदृच्छया तत्र विमानेनार्करोचिषा ।
सनत्कुमारो भगवान् ददर्श मम देशिकम् ॥ ८॥
ध्यानारूढः प्रबुद्धोऽसौ ददर्श तमजात्मजम् ।
प्रणिपत्याह सम्भ्रान्तः परं कौतूहलं मुनिः ॥ ९॥
दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टरम् ।
प्रसन्नः प्राह तं प्रह्वं प्रभुर्गम्भीरया गिरा ॥ १०॥
सनत्कुमार उवाच
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ।
स शिवोऽथ सहायोऽत्र तपश्चरसि किङ्कृते ॥ ११॥
एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ।
धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ १२॥
बहुधा स्थापिता लोके मया त्वत्कृपया तथा ।
एवं भूतस्य मेऽप्येवं गुरुभूतस्य सर्वतः ॥ १३॥
मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ।
तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ १४॥
इत्थं कुमारो भगवान् व्यासेन मुनिनार्थितः ।
समर्थः प्राह विप्रेन्द्रा निश्चयं मुक्तिकारणम् ॥ १५॥
श्रवणं कीर्तनं शम्भोर्मननं च महत्तरम् ।
त्रयं साधनमुक्तं च विद्यते वेदसम्मतम् ॥ १६॥
पुराहमथ सम्भ्रान्तो ह्यन्यसाधनसम्भ्रमः ।
अचले मन्दरे शैले तपश्चरणमाचरम् ॥ १७॥
शिवाज्ञया ततः प्राप्तो भगवान् नन्दिकेश्वरः ।
स मे दयालुर्भगवान् सर्वसाक्षी गणेश्वरः ॥ १८॥
उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ।
श्रवणं कीर्तनं शम्भोर्मननं वेदसम्मतम् ॥ १९॥
त्रिकं च साधनं मुक्तेः शिवेन मम भाषितम् ।
श्रवणादित्रिकं ब्रह्मन् कुरुष्वेति मुहुर्मुहुः ॥ २०॥
एवमुक्त्वा ततो व्यासं सानुगो विधिनन्दनः ।
जगाम स्वविमानेन पदं परमशोभनम् ॥ २१॥
एवमुक्तं समासेन पूर्ववृत्तान्तमुत्तमम् ।
ऋषय ऊचुः ।
श्रवणादित्रयं सूत मुक्त्युपायस्त्वयेरितः ॥ २२॥
श्रवणादित्रिकेऽशक्तः किं कृत्वा मुच्यते जनः ।
अयत्नेनैव मुक्तिः स्यात् कर्मणा केन हेतुना ॥ २३॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे चतुर्थोऽध्यायः ॥ १.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.५. पञ्चमोऽध्यायः । शिवल्लिङ्गमहिमवर्णनम् ।
सूत उवाच ।
श्रवणादित्रिकेऽशक्तो लिङ्गं वेरं च शाङ्करम् ।
संस्थाप्य नित्यमभ्यर्च्य तरेत् संसारसागरम् ॥ १॥
अपि द्रव्यं वहेदेव यथाबलमवञ्चयन् ।
अर्पयेल्लिङ्गवेरार्थमर्चयेदपि सन्ततम् ॥ २॥
मण्डपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ।
वस्त्रं गन्धं च माल्यं च धूपं दीपं च भक्तितः ॥ ३॥
विविधान्नं च नैवेद्यमपूपव्यञ्जनैर्युतम् ।
छत्रं ध्वजं च व्यजनं चामरं चापि साङ्गकम् ॥ ४॥
राजोपचारवत् सर्वं धारयेल्लिङ्गवेरयोः ।
प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ ५॥
आवाहनादि सर्गान्तं नित्यं कुर्यात् सुभक्तितः ।
इत्थमभ्यर्च्ययन् देवं लिङ्गे वेरे च शाङ्करे ॥ ६॥
सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ।
लिङ्गवेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ ७॥
मुनय ऊचुः ।
वेरमात्रे तु सर्वत्र पूज्यन्ते देवतागणाः ।
लिङ्गे वेरे च सर्वत्र कथं सम्पूज्यते शिवः ॥ ८॥
सूत उवाच ।
अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ।
अत्र वक्ता महादेवो नान्योऽस्ति पुरुषः क्वचित् ॥ ९॥
शिवेनोक्तं प्रवक्ष्यामि क्रमाद् गुरुमुखाच्छ्रुतम् ।
शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः ॥ १०॥
रूपित्वात् सकलस्तद्वत्तस्मात् सकलनिष्कलः ।
निष्कलत्वान्निराकारं लिङ्गं तस्य समागतम् ॥ ११॥
सकलत्वात् तथा वेरं साकारं तस्य सङ्गतम् ।
सकलाकलरूपत्वाद् ब्रह्मशब्दाभिधः परः ॥ १२॥
अपि लिङ्गे च वेरे च नित्यमभ्यर्च्यते जनैः ।
अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ॥ १३॥
तस्मात्ते निष्कले लिङ्गे नाराध्यन्ते सुरेश्वराः ।
अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ॥ १४॥
तूष्णीं सकलमात्रत्वादर्च्यन्ते वेरमात्रके ।
जीवत्वं शङ्करान्येषां ब्रह्मत्वं शङ्करस्य च ॥ १५॥
वेदान्तसारसंसिद्धं प्रणवार्थे प्रकाशनात् ।
एवमेव पुरा पृष्टो मन्दरे नन्दिकेश्वरः ॥ १६॥
सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ।
सनत्कुमार उवाच ।
शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ १७॥
वेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ।
शिवमात्रस्य पूजायां लिङ्गं वेरं च दृश्यते ॥ १८॥
अतस्तद् ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ।
नन्दिकेश्वर उवाच ।
अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ १९॥
कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ ।
शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् ॥ २०॥
लिङ्गं तस्यैव पूजायां सर्ववेदेषु सम्मतम् ।
तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ २१॥
सकलं च तथा वेरं पूजायां लोकसम्मतम् ।
शिवान्येषां च जीवत्वात् सकलत्वाच्च सर्वतः ॥ २२॥
वेरमात्रं च पूजायां सम्मतं वेदनिर्णये ।
स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ २३॥
शिवस्य लिङ्गं वेरं च दर्शने दृश्यते खलु ।
सनत्कुमार उवाच ।
उक्तं त्वया महाभाग लिङ्गवेरप्रचारणम् ॥ २४॥
शिवस्य च तदन्येषां विभज्य परमार्थतः ।
तस्मात्तदेव परमं लिङ्गं वेरादिसम्भवम् ॥ २५॥
श्रोतुमिच्छामि योगीन्द्र लिङ्गाविर्भावलक्षणम् ।
नन्दिकेश्वर उवाच ।
शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ २६॥
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ।
अयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ २७॥
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ।
निष्कलस्तम्भरूपेण स्वरूपं समदर्शयत् ॥ २८॥
ततः स्वलिङ्गचिह्नत्वात् स्तम्भतो निष्कलं शिवः ।
स्वलिङ्गं दर्शयामास जगतां हितकाम्यया ॥ २९॥
तदाप्रभृति लोकेषु निष्कलं लिङ्गमैश्वरम् ।
सकलं च तथा वेरं शिवस्यैव प्रकल्पितम् ॥ ३०॥
शिवान्येषां तु देवानां वेरमात्रं प्रकल्पितम् ।
तत्तद् वेरं तु देवानां तत्तद्भोगप्रदं शुभम् ।
शिवस्य लिङ्गवेरत्वं भोगमोक्षप्रदं शुभम् ॥ ३१॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं नाम पञ्चमोऽध्यायः ॥ १.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.६. षष्ठोऽध्यायः । कैलासयात्रावर्णनम् ।
नन्दिकेश्वर उवाच ।
पुरा कदाचिद्योगीन्द्र विष्णुर्विषधरासनः ।
सुष्वाप परया भूत्या स्वानुगैरपि संवृतः ॥ १॥
यदृच्छयागतस्तत्र ब्रह्मा ब्रह्मविदां वरः ।
अपृच्छत् पुण्डरीकाक्षं शयानं सर्वसुन्दरम् ॥ २॥
कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् ।
उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ॥ ३॥
आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् ।
द्रोहिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते ॥ ४॥
इति श्रुत्वा वचः क्रुद्धो बहिः शान्तवदाचरन् ।
स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ॥ ५॥
किमु ते व्यग्रवद्वक्त्रं विभाति विषमेक्षणम् ।
ब्रह्मोवाच -
वत्स विष्णो महामानमागतं कालवेगतः ॥ ६॥
पितामहश्च जगतः पाता च तव वत्सक ।
विष्णुरुवाच -
मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ॥ ७॥
मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा ।
नन्दिकेश्वर उवाच ।
एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा ॥ ८॥
अहमेव वरो न त्वमहं प्रभुरहं प्रभुः ।
परस्परं हन्तुकामौ चक्रतुः समरोद्यमम् ॥ ९॥
युयुधातेऽमरौ वीरौ हंसपक्षीन्द्रवाहनौ ।
वैरञ्च्या वैष्णवाश्चैवं मिथो युयुधिरे तदा ॥ १०॥
तावद्विमानगतयः सर्वा वै देवजातयः ।
दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम् ॥ ११॥
क्षिपन्तः पुष्पवर्षाणि पश्यन्तः स्वैरमम्बरे ।
सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि ॥ १२॥
मुमोच बाणानसहानस्त्रांश्च विविधान् बहून् ।
मुमोचाथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् ॥ १३॥
बाणाननलसङ्काशानस्त्रांश्च बहुशस्तदा ।
तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् ॥ १४॥
समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ।
ततो विष्णुः सुसङ्क्रुद्धः श्वसन् व्यसनकर्शितः ॥ १५॥
माहेश्वरास्त्रं मतिमान् सन्दधे ब्रह्मणोपरि ।
ततो ब्रह्मा भृशं क्रुद्धः कम्पयन् विश्वमेव हि ॥ १६॥
अस्त्रं पाशुपतं घोरं सन्दधे विष्णुवक्षसि ।
ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् ॥ १७॥
सहस्रमुखमत्युग्रं चण्डवातभयङ्करम् ।
अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयङ्करम् ॥ १८॥
इत्थं बभूव समरं ब्रह्मविष्ण्वोः परस्परम् ।
ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ।
ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः ॥ १९॥
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।
यस्मात् प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने ॥ २०॥
अशक्यमन्यैर्यदनुग्रहं विना
तृणक्षयोऽप्यत्र यदृच्छया क्वचित् ॥ २१॥
इति देवा भयं कृत्वा विचिन्वन्तः शिवक्षयम् ।
जग्मुः कैलासशिखरं यत्रास्ते चन्द्रशेखरः ॥ २२॥
दृष्ट्वैवममरा हृष्टाः पदं तत्पारमेश्वरम् ।
प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि ॥ २३॥
तेऽपि तत्र सभामध्ये मण्डपे मणिविष्टरे ।
विराजमानमुमया ददृशुर्देवपुङ्गवम् ॥ २४॥
सव्योत्तरेतरपदं तदर्पितकराम्बुजम् ।
स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् ॥ २५॥
वीज्यमानं विशेषज्ञैः स्त्रीजनैस्तीव्रभावनैः ।
शंस्यमानं सदा वेदैरनुगृह्णन्तमीश्वरम् ॥ २६॥
दृष्ट्वैवमीशममराः सन्तोषसलिलेक्षणाः ।
दण्डवद् दूरतो वत्स नमश्चक्रुर्महागणाः ॥ २७॥
तानवेक्ष्य पतिर्देवान् समीपे चाह्वयद् गणैः ।
अथ संह्लादयन् देवान् देवो देवशिखामणिः ।
अवोचदथ गम्भीरं वचनं मधुमङ्गलम् ॥ २८॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां देवानां कैलासयात्रावर्णनं नाम षष्ठोऽध्यायः ॥ १.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.७. सप्तमोऽध्यायः । समरे शम्भोरनलस्तम्भाविष्कारः ।
ईश्वर उवाच ।
वत्सकाः स्वस्ति वः कच्चिद्वर्तते मम शासनात् ।
जगच्च देवतावंशः स्वस्वकर्मणि किं न वा ॥ १॥
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मया सुराः ।
भवतामभितापेन पौनरुक्त्येन भाषितम् ॥ २॥
इति सस्मितया माध्व्या कुमार परिभाषया ।
समतोषयदम्बायाः स पतिस्तत्सुरव्रजम् ॥ ३॥
अथ युद्धाङ्गणं गन्तुं हरिधात्रोरधीश्वरः ।
आज्ञापयद्गणेशानां शतं तत्रैव संसदि ॥ ४॥
ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ।
गणेश्वराश्च सन्नद्धा नानावाहनभूषणाः ॥ ५॥
प्रणवाकारमाद्यन्तं पञ्चमण्डलमण्डितम् ।
आरुरोह रथं भद्रमम्बिकापतिरीश्वरः ।
ससूनुगणमिन्द्राद्याः सर्वेऽप्यनुययुः सुराः ॥ ६॥
चित्रध्वजव्यजनचामरपुष्पवर्ष-
सङ्गीतनृत्यनिवहैरपि वाद्यवर्गैः ।
सम्मानितः पशुपतिः परया च देव्या
साकं तयोः समरभूमिमगात् ससैन्यः ॥ ७॥
समीक्ष्य तु तयोर्युद्धं निगूढोऽभ्रं समास्थितः ।
समाप्तवाद्यनिर्घोषः शान्तोरुगणनिःस्वनः ॥ ८॥
अथ ब्रह्माच्युतौ वीरौ हन्तुकामौ परस्परम् ।
माहेश्वरेण चास्त्रेण तथा पाशुपतेन च ॥ ९॥
अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ।
ईशोऽपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् ॥ १०॥
महानलस्तम्भविभीषणाकृति-
र्बभूव तन्मध्यतले स निष्कलः ॥ ११॥
ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ।
निपेततुः क्षणेनैव ह्याविर्भूते महानले ॥ १२॥
दृष्ट्वा तदद्भुतं चित्रमस्त्रशान्तिकरं शुभम् ।
किमेतदद्भुताकारमित्यूचुश्च परस्परम् ॥ १३॥
अतीन्द्रियमिदं स्तम्भमग्निरूपं किमुत्थितम् ।
अस्योर्ध्वमपि चाधश्च आवयोर्लक्ष्यमेव हि ॥ १४॥
इति व्यवस्थितौ वीरौ मिलितौ वीरमानिनौ ।
तत्परौ तत्परीक्षार्थं प्रतस्थातेऽथ सत्वरम् ॥ १५॥
आवयोर्मिश्रयोस्तत्र कार्यमेकं न सम्भवेत् ।
इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ १६॥
तथा ब्रह्मा हंसतनुस्तदन्तं वीक्षितुं ययौ ।
भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ १७॥
नापश्यत्तस्य संस्थानं स्तम्भस्यानलवर्चसः ।
श्रान्तः स सूकरहरिः प्राप पूर्वं रणाङ्गणम् ॥ १८॥
अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ।
ददर्श केतकीपुष्पं किञ्चिद्विच्युतमद्भुतम् ॥ १९॥
अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ।
अन्वीक्ष्य च तयोः कृत्यं भगवान् परमेश्वरः ॥ २०॥
परिहासं तु कृतवान्कम्पनाच्चलितं शिरः ।
तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ २१॥
किं त्वं पतसि पुष्पेश पुष्पराट् केन वै धृतः ।
आदिमस्याप्रमेयस्य स्तम्भमध्याच्च्युतश्चिरम् ॥ २२॥
न सम्पश्यामि तस्मात्त्वं जह्याशामन्तदर्शने ।
अस्यान्तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ २३॥
इतः परं सखे मेऽद्य त्वया कर्तव्यमीप्सितम् ।
मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ २४॥
स्तम्भान्तो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ।
इत्युक्त्वा केतकं तत्र प्रणनाम पुनः पुनः ।
असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॥ २५॥
समीक्ष्य तत्राच्युतमायतश्रमं
प्रनष्टहर्षं तु ननर्त हर्षात् ।
उवाच चैनं परमार्थमच्युतं
षण्ढात्तवादः स विधिस्ततोऽच्युतम् ॥ २६॥
स्तम्भाग्रमेतत् समुदीक्षितं हरे
तत्रैव साक्षी ननु केतकं त्विदम् ।
ततोऽवदत्तत्र हि केतकं मृषा
तथेति तद्धातृवचस्तदन्तिके ॥ २७॥
हरिश्च तत्सत्यमितीव चिन्तयं-
श्चकार तस्मै विधये नमः स्वयम् ।
षोडशैरुपचारैश्च पूजयामास तं विधिम् ॥ २८॥
विधिं प्रहर्तुं शठमग्नलिङ्गतः
स ईश्वरस्तत्र बभूव साकृतिः ।
समुत्थितः स्वामिविलोकनात् पुनः
प्रकम्पपाणिः परिगृह्य तत्पदम् ॥ २९॥
आद्यन्तहीनवपुषि त्वयि मोहबुद्ध्या
भूयान् विमर्श इह नावति कामनोत्थः ।
स त्वं प्रसीद करुणाकर कश्मलं नौ
मृष्टं क्षमस्व विहितं भवतैव केल्या ॥ ३०॥
ईश्वर उवाच ।
वत्स प्रसन्नोऽस्मि हरे यतस्त्व-
मीशत्वमिच्छन्नपि सत्यवाक्यम् ।
ब्रूयास्ततस्ते भविता जनेषु
साम्यं मया सत्कृतिरप्यलप्सि ॥ ३१॥
इतः परं ते पृथगात्मनश्च
क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ ३२॥
इति देवः पुरा प्रीतः सत्येन हरये परम् ।
ददौ स्वसाम्यमत्यर्थं देवसङ्घे च पश्यति ॥ ३३॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायामनलस्तम्भाविष्कारवर्णनं नाम सप्तमोऽध्यायः ॥ १.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.८. अष्टमोऽध्यायः । ब्रह्मोपरि शिवस्यानुग्रहः ।
नन्दिकेश्वर उवाच ।
ससर्जाथ महादेवः पुरुषं कञ्चिदद्भुतम् ।
भैरवाख्यं भ्रुवोर्मध्याद् ब्रह्मदर्पजिघांसया ॥ १॥
स वै तदा तत्र पतिं प्रणम्य शिवमङ्गणे ।
किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥ २॥
शिव उवाच ।
वत्स योऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ।
नूनमर्चय खड्गेन तिग्मेन जवसा परम् ॥ ३॥
स वै गृहीत्वैककरेण केशं
तत्पञ्चमं दृप्तमसत्यभाषिणम् ।
छित्त्वा शिरो ह्यस्य निहन्तुमुद्यतः
प्रकम्पयन् खड्गमतिस्फुटं करैः ॥ ४॥
पिता तवोत्सृष्टविभूषणाम्बर-
स्रगुत्तरीयामलकेशसंहतिः ।
प्रवातरम्भेव लतेव चञ्चलः
पपात वै भैरवपादपङ्कजे ॥ ५॥
तावद्विधिं तात दिदृक्षुरच्युतः
कृपालुरस्मत्पतिपादपल्लवम् ।
निषिच्य बाष्पैरवदत् कृताञ्जलि-
र्यथा शिशुः स्वं पितरं कलाक्षरम् ॥ ६॥
अच्युत उवाच ।
त्वया प्रयत्नेन पुरा हि दत्तं
यदस्य पञ्चाननमीश चिह्नम् ।
तस्मात् क्षमस्वाद्यमनुग्रहार्हं
कुरु प्रसादं विधये ह्यमुष्मै ॥ ७॥
इत्यर्थितोऽच्युतेनेशस्तुष्टः सुरगणाङ्गणे ।
निवर्तयामास तदा भैरवं ब्रह्मदण्डतः ॥ ८॥
अथाह देवः कितवं विधिं विगतकन्धरम् ।
ब्रह्मंस्त्वमर्हणाकाङ्क्षी शठेशत्वं समास्थितः ॥ ९॥
नातस्ते सत्कृतिर्लोके भूयात् स्थानोत्सवादिकम् ।
ब्रह्मोवाच -
स्वामिन् प्रसीदाद्य महाविभूते
मन्ये वरं मे शिरसः प्रमोक्षम् ॥ १०॥
नमस्तुभ्यं भगवते बन्धवे विश्वयोनये ।
सहिष्णवे च दोषाणां शम्भवे शैलधन्वने ॥ ११॥
ईश्वर उवाच ।
अराजभयमेतद्वै जगत् सर्वं नशिष्यति ।
ततस्त्वं जहि दण्डार्हं वह लोकधुरं शिशो ॥ १२॥
वरं ददामि ते तत्र गृहाण दुर्लभं परम् ।
वैतानिकेषु गृह्येषु यज्ञेषु च भवान् गुरुः ॥ १३॥
निष्फलस्त्वदृते यज्ञः साङ्गश्च सहदक्षिणः ।
अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥ १४॥
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ।
ममापि प्रेम ते पुष्पे माभूत्पूजास्वितः परम् ॥ १५॥
इत्युक्ते तत्र देवेन केतकं देवजातयः ।
सर्वा निवारयामासुस्तत्पार्श्वादन्यतस्तदा ॥ १६॥
केतक उवाच ।
नमस्ते नाथ मे जन्म निष्फलं भवदाज्ञया ।
सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥ १७॥
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ।
तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥ १८॥
तथा स्तुतस्तु भगवान् केतकेन सभास्थले ।
न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥ १९॥
मदीयास्त्वां धरिष्यन्ति जन्म ते सफलं ततः ।
त्वं वै वितानव्याजेन ममोपरि भविष्यसि ॥ २०॥
इत्यनुगृह्य भगवान् केतकं विधिमाधवौ ।
विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥ २१॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां शिवानुग्रहवर्णनं नामाष्टमोऽध्यायः ॥ १.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.९. नवमोऽध्यायः । शिवस्यात्मनो महेश्वराभिधानम् ।
नन्दिकेश्वर उवाच ।
तत्रान्तरे तौ च नाथं प्रणम्य विधिमाधवौ ।
बद्धाञ्जलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ १॥
तत्र संस्थाप्य तौ देवं सकुटुम्बं वरासने ।
पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ २॥
पौरुषं प्राकृतं वस्तु ज्ञेयं दीर्घाल्पकालिकम् ।
हारनूपुरकेयूरकिरीटमणिकुण्डलैः ॥ ३॥
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्याङ्गुलीयकैः ।
पुष्पताम्बूलकर्पूरचन्दनागुरुलेपनैः ॥ ४॥
धूपदीपसितच्छत्रव्यजनध्वजचामरैः ।
अन्यैर्दिव्योपहारैश्च वाङ्मनोतीतवैभवैः ॥ ५॥
पतियोग्यैः पश्वलभ्यैस्तौ समार्चयतां पतिम् ।
यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितध्वज ॥ ६॥
तद्वस्त्वखिलमीशोऽपि पारम्पर्यचिकीर्षया ।
सभ्यानां प्रददौ हृष्टः पृथक् तत्र यथाक्रमम् ॥ ७॥
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्यताम् ।
तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शङ्करः पुरा ॥ ८॥
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ।
ईश्वर उवाच ।
तुष्टोऽहमद्य वां वत्सौ पूजयास्मिन् महादिने ॥ ९॥
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ।
शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥ १०॥
एतत्काले तु यः कुर्यात् पूजां मल्लिङ्गवेरयोः ।
कुर्यात् स जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥ ११॥
शिवरात्रावहोरात्रं निराहारो जितेन्द्रियः ।
अर्चयेद्वा यथान्यायं यथाबलमवञ्चकः ॥ १२॥
यत्फलं मम पूजायां वर्षमेकं निरन्तरम् ।
तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥ १३॥
मद्धर्मवृद्धिकालोऽयं चन्द्रकाल इवाम्बुधेः ।
प्रतिष्ठाद्युत्सवो यत्र मामको मङ्गलायनः ॥ १४॥
यत्पुनः स्तम्भरूपेण स्वाविरासमहं पुरा ।
स कालो मार्गशीर्षे तु स्यादार्द्राऋक्षमर्भकौ ॥ १५॥
आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ।
मद्वेरमपि वा लिङ्गं स गुहादपि मे प्रियः ॥ १६॥
अलं दर्शनमात्रेण फलं तस्मिन् दिने शुभे ।
अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥ १७॥
रणरङ्गतलेऽमुष्मिन् यदहं लिङ्गवर्ष्मणा ।
जृम्भितो लिङ्गवत्तस्माल्लिङ्गस्थानमिदं भवेत् ॥ १८॥
अनाद्यन्तमिदं स्तम्भमणुमात्रं भविष्यति ।
दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रकौ ॥ १९॥
भोगावहमिदं लिङ्गं भुक्तिमुक्त्येकसाधनम् ।
दर्शनस्पर्शनध्यानाज्जन्तूनां जन्ममोचनम् ॥ २०॥
अनलाचलसङ्काशं यदिदं लिङ्गमुत्थितम् ।
अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ॥ २१॥
अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ।
मुक्तिरप्यत्र जन्तूनां वासेन मरणेन च ॥ २२॥
रथोत्सवादिकल्याणं जनावासं तु सर्वतः ।
अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥ २३॥
मत्क्षेत्रादपि सर्वस्मात् क्षेत्रमेतन्महत्तरम् ।
अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥ २४॥
तस्मान्महत्तरमिदं क्षेत्रमत्यन्तशोभनम् ।
सर्वकल्याणसम्पूर्णं सर्वमुक्तिकरं शुभम् ॥ २५॥
अर्चयित्वात्र मामेव लिङ्गे लिङ्गिनमीश्वरम् ।
सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥ २६॥
सायुज्यमिति पञ्चैते क्रियादीनां फलं मतम् ।
सर्वेऽपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥ २७॥
नन्दिकेश्वर उवाच ।
इत्यनुगृह्य भगवान् विनीतौ विधिमाधवौ ।
यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ॥ २८॥
तदुत्थापयदत्यर्थं स्वशक्त्यामृतधारया ।
तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ ॥ २९॥
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ।
नान्यस्य कस्यचित्तस्मादन्यः सर्वोऽप्यनीश्वरः ॥ ३०॥
पुरस्तात् स्तम्भरूपेण पश्चाद् रूपेण चार्भकौ ।
ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ॥ ३१॥
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ।
तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ॥ ३२॥
तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ।
तन्निराकर्तुमत्रैवमुत्थितोऽहं रणक्षितौ ॥ ३३॥
त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ।
मत्प्रसादेन लोकेषु सर्वोऽप्यर्थः प्रकाशते ॥ ३४॥
गुरूक्तिर्व्यञ्जकं तत्र प्रमाणं वा पुनः पुनः ।
ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ॥ ३५॥
अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ।
ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेऽनुग्रहादिकम् ॥ ३६॥
बृहत्त्वाद् बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ।
समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ॥ ३७॥
अनात्मानः परे सर्वे जीवा एव न संशयः ।
अनुग्रहाद्यं सर्गान्तं जगत्कृत्यं च पञ्चकम् ॥ ३८॥
ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ।
आदौ ब्रह्मत्वबुद्ध्यर्थं निष्कलं लिङ्गमुत्थितम् ॥ ३९॥
तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ।
सकलोऽहमतो जातः साक्षादीशस्तु तत्क्षणात् ॥ ४०॥
सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ।
यदिदं निष्कलं स्तम्भं मम ब्रह्मत्वबोधकम् ॥ ४१॥
लिङ्गलक्षणयुक्तत्वान्मम लिङ्गं भवेदिदम् ।
तदिदं नित्यमभ्यर्यं युवाभ्यामत्र पुत्रकौ ॥ ४२॥
मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ।
महत्पूज्यमिदं नित्यमभेदाल्लिङ्गलिङ्गिनोः ॥ ४३॥
यत्र प्रतिष्ठितं येन मदीयं लिङ्गमीदृशम् ।
तत्र प्रतिष्ठितः सोऽहमप्रतिष्ठोऽपि वत्सकौ ॥ ४४॥
मत्साम्यमेकलिङ्गस्य स्थापने फलमीरितम् ।
द्वितीये स्थापिते लिङ्गे मदैक्यं फलमेव हि ॥ ४५॥
लिङ्गं प्राधान्यतः स्थाप्यं तथा वेरं तु गौणकम् ।
लिङ्गाभावे न तत्क्षेत्रं सवेरमपि सर्वतः ॥ ४६॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां शिवस्य महेश्वराभिधानवर्णनं नाम नवमोऽध्यायः ॥ १.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.१०. दशमोऽध्यायः । ब्रह्मविष्णुभ्यां पञ्चकृत्यमोङ्कारमन्त्रं चोपदिश्य शिवस्यान्तर्धानम् ।
ब्रह्मविष्णू ऊचतुः
सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ।
शिव उवाच ।
मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ १॥
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।
पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ २॥
सर्गः संसारसंरम्भस्तत्प्रतिष्ठा स्थितिर्मता ।
संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ ३॥
तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् ।
कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिम्बवत् ॥ ४॥
सर्गादि यच्चतुःकृत्यं संसारपरिजृम्भणम् ।
पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ ५॥
तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः ।
सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ ६॥
तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे ।
सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्धते ॥ ७॥
अर्द्यते तेजसा सर्वं वायुना चापनीयते ।
व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ ८॥
पञ्चकृत्यमिदं वोढुं ममास्ति मुखपञ्चकम् ।
चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ ९॥
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ।
सृष्टिस्थित्यभिधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ १०॥
तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् ।
अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ ११॥
तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ।
न तद् रुद्रमहेशाभ्यां विस्मृतं कर्म तादृशम् ॥ १२॥
रूपे वेषे च कृत्ये च वाहने चासने तथा ।
आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ १३॥
मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ।
मज्ज्ञाने सति मैवं स्यान्मानं रूपं महेशवत् ॥ १४॥
तस्मान्मज्ज्ञानसिद्ध्यर्थं मन्त्रमोङ्कारनामकम् ।
इतः परं प्रजपतं मामकं मानभञ्जनम् ॥ १५॥
उपादिशं निजं मन्त्रमोङ्कारमुरुमङ्गलम् ।
ऊँकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ १६॥
वाचकोऽयमहं वाच्यो मन्त्रोऽयं हि मदात्मकः ।
तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ १७॥
अकार उत्तरात् पूर्वमुकारः पश्चिमाननात् ।
मकारो दक्षिणमुखाद् बिन्दुः प्राङ्मुखतस्तथा ॥ १८॥
नादो मध्यमुखादेवं पञ्चधासौ विजृम्भितः ।
एकीभूतः पुनस्तद्वदोमित्येकाक्षरोऽभवत् ॥ १९॥
नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ।
व्याप्तमेतेन मन्त्रेण शिवशक्त्योश्च बोधकः ॥ २०॥
अस्मात् पञ्चाक्षरं जज्ञे बोधकं सकलस्य तत् ।
अकारादिक्रमेणैव नकारादि यथाक्रमम् ॥ २१॥
अस्मात् पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः ।
तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गायत्रिरेव हि ॥ २२॥
वेदः सर्वस्ततो जज्ञे ततो वै मन्त्रकोटयः ।
तत्तन्मन्त्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ २३॥
अनेन मन्त्रकन्देन भोगो मोक्षश्च सिद्ध्यति ।
सकला मन्त्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ २४॥
नन्दिकेश्वर उवाच ।
पुनस्तयोस्तत्र तिरः पटं गुरुः
प्रकल्प्य मन्त्रं च समादिशत् परम् ।
निधाय तच्छीर्ष्णि कराम्बुजं शनै-
रुदङ्मुखं संस्थितयोः सहाम्बिकः ॥ २५॥
त्रिरुच्चार्याग्रहीन्मन्त्रं यन्त्रतन्त्रोक्तिपूर्वकम् ।
शिष्यौ च तौ दक्षिणायामात्मानं च समार्पयत् ॥ २६॥
प्रबद्धहस्तौ किल तौ तदन्तिके
तमूचतुर्देववरं जगद्गुरुम् ॥ २७॥
ब्रह्माच्युतावूचतुः
नमो निष्कलरूपाय नमो निष्कलतेजसे ।
नमः सकलनाथाय नमस्ते सकलात्मने ॥ २८॥
नमः प्रणववाच्याय नमः प्रणवलिङ्गिने ।
नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखाय ते ॥ २९॥
पञ्चब्रह्मस्वरूपाय पञ्चकृत्याय ते नमः ।
आत्मने ब्रह्मणे तुभ्यमनन्तगुणशक्तये ॥ ३०॥
सकलाकलरूपाय शम्भवे गुरवे नमः ।
इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश्च नेमतुः ॥ ३१॥
ईश्वर उवाच ।
वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् ।
जपतं प्रणवं मन्त्रं देवीदिष्टं मदात्मकम् ॥ ३२॥
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ।
आर्द्रायां च चतुर्दश्यां तज्जप्यं त्वक्षयं भवेत् ॥ ३३॥
सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् ।
मृगशीर्षान्तिमो भागः पुनर्वस्वादिमस्तथा ॥ ३४॥
आर्द्रासमं सदा ज्ञेयं पूजाहोमादितर्पणे ।
दर्शनं तु प्रभाते च प्रातःसङ्गवकालयोः ॥ ३५॥
चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ।
प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ ३६॥
लिङ्गं वेरं च मे तुल्यं यजतां लिङ्गमुत्तमम् ।
तस्माल्लिङ्गं परं पूज्यं वेरादपि मुमुक्षुभिः ॥ ३७॥
लिङ्गमोङ्कारमन्त्रेण वेरं पञ्चाक्षरेण तु ।
स्वयमेव हि सद्द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ ३८॥
पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ।
इति शास्य तथा शिष्यौ तत्रैवान्तर्हितः शिवः ॥ ३९॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं नाम दशमोऽध्यायः ॥ १.१०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.११. एकादशोऽध्यायः । शिवलिङ्गपूजनदानप्रकाराः ।
ऋषय ऊचुः
कथं लिङ्गं प्रतिष्ठाप्यं कथं वा तस्य लक्षणम् ।
कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ १॥
सूत उवाच ।
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ।
अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ २॥
यथेष्टं लिङ्गमारोप्यं यत्र स्यान्नित्यमर्चनम् ।
पार्थिवेन तथाप्येन तैजसेन यथारुचि ॥ ३॥
कल्पक्षणसंयुक्तं लिङ्गं पूजाफलं लभेत् ।
सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ ४॥
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ।
सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥ ५॥
मण्डलं चतुरस्रं वा त्रिकोणमथवा तथा ।
खट्वाङ्गवन्मध्यसूक्ष्मं लिङ्गपीठं महाफलम् ॥ ६॥
प्रथमं मृच्छिलादिभ्यो लिङ्गं लोहादिभिः कृतम् ।
येन लिङ्गं तेन पीठं स्थावरे हि विशिष्यते ॥ ७॥
लिङ्गं पीठं चरे त्वेकं लिङ्गं बाणकृतं विना ।
लिङ्गप्रमाणं कर्तॄणां द्वादशाङ्गुलमुत्तमम् ॥ ८॥
न्यूनं चेत्फलमल्पं स्यादधिकं नैव दुष्यते ।
कर्तुरेकाङ्गुलन्यूनं चरेऽपि च तथैव हि ॥ ९॥
आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ।
तत्र गर्भगृहे रम्ये दृढे दर्पणसन्निभे ॥ १०॥
भूषिते नवरत्नैश्च दिग्द्वारे च प्रधानके ।
नीलं रक्तं च वैडूर्यं श्यामं मारकतं तथा ॥ ११॥
मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् ।
मध्ये लिङ्गं महद् द्रव्यं निःक्षिपेत्सहवैदिके ॥ १२॥
सम्पूज्य लिङ्गं सद्याद्यैः पञ्चस्थाने यथाक्रमम् ।
अग्नौ च हुत्वा बहुधा हविषा सकुलं च माम् ॥ १३॥
अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बान्धवम् ।
दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ १४॥
स्थावरं जङ्गमं जीवं सर्वं सन्तोष्य यत्नतः ।
सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥ १५॥
सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ।
उदीर्य च महामन्त्रमोङ्कारं नादघोषितम् ॥ १६॥
लिङ्गं तत्र प्रतिष्ठाप्य लिङ्गं पीठेन योजयेत् ।
लिङ्गं सपीठं निक्षिप्य नित्यलेपेन बन्धयेत् ॥ १७॥
एवं वेरं च संस्थाप्यं तत्रैव परमं शुभम् ।
पञ्चाक्षरेण वेरं तु उत्सवार्थं बहिस्तथा ॥ १८॥
वेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ।
एवं लिङ्गे च वेरे च पूजा शिवपदप्रदा ॥ १९॥
पुनश्च द्विविधं प्रोक्तं स्थावरं जङ्गमं तथा ।
स्थावरं लिङ्गमित्याहुस्तरुगुल्मादिकं तथा ॥ २०॥
जङ्गमं लिङ्गमित्याहुः कृमिकीटादिकं तथा ।
स्थावरस्य च शुश्रूषा जङ्गमस्य च तर्पणम् ॥ २१॥
तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ।
पीठमम्बामयं सर्वं शिवलिङ्गं च चिन्मयम् ॥ २२॥
यथा देवीमुमामङ्के धृत्वा तिष्ठति शङ्करः ।
तथा लिङ्गमिदं पीठं धृत्वा तिष्ठति सन्ततम् ॥ २३॥
एवं स्थाप्य महालिङ्गं पूजयेदुपचारकैः ।
नित्यपूजा यथाशक्ति ध्वजादिकरणं तथा ॥ २४॥
इति संस्थापयेल्लिङ्गं साक्षाच्छिवपदप्रदम् ।
अथवा चरलिङ्गं तु षोडशैरुपचारकैः ॥ २५॥
पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ।
आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ २६॥
तदङ्गाचमनं चैव स्नानमभ्यङ्गपूर्वकम् ।
वस्त्रं गन्धं तथा पुष्पं धूपं दीपं निवेदनम् ॥ २७॥
नीराजनं च ताम्बूलं नमस्कारो विसर्जनम् ।
अथवार्घ्यादिकं कृत्वा नैवेद्यान्तं यथाविधि ॥ २८॥
अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ।
यथाशक्ति सदा कुर्यात्क्रमाच्छिवपदप्रदम् ॥ २९॥
अथवा मानुषे लिङ्गेऽप्यार्षे दैवे स्वयम्भुवि ।
स्थापितेऽपूर्वके लिङ्गे सोपचारं यथा तथा ॥ ३०॥
पूजोपकरणे दत्ते यत्किञ्चित्फलमश्नुते ।
प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ ३१॥
लिङ्गदर्शनमात्रं वा नियमेन शिवप्रदम् ।
मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ ३२॥
गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ।
लिङ्गं यत्नेन कृत्वान्ते यजेत्तदनुसारतः ॥ ३३॥
अङ्गुष्ठादावपि तथा पूजामिच्छन्ति केचन ।
लिङ्गकर्मणि सर्वत्र निषेधोऽस्ति न कर्हिचित् ॥ ३४॥
सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ।
अथवा लिङ्गदानं वा लिङ्गमौल्यमथापि वा ॥ ३५॥
श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ।
अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ ३६॥
सन्ध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ।
जपकाले मकारान्तं मनःशुद्धिकरं भवेत् ॥ ३७॥
समाधौ मानसं प्रोक्तमुपांशुसार्वकालिकम् ।
समानप्रणवं चेमं बिन्दुनादयुतं विदुः ॥ ३८॥
अथ पञ्चाक्षरं नित्यं जपेदयुतमादरात् ।
सन्ध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ ३९॥
प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ।
दीक्षायुक्तं गुरोर्ग्राह्यं मन्त्रं ह्यथ फलाप्तये ॥ ४०॥
कुम्भस्नानं मन्त्रदीक्षां मातृकान्यासमेव च ।
ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ ४१॥
द्विजानां च नमः पूर्वमन्येषां च नमोन्तकम् ।
स्त्रीणां च केचिदिच्छन्ति नमोऽन्तं च यथाविधि ॥ ४२॥
विप्रस्त्रीणां नमः पूर्वमिदमिच्छन्ति केचन ।
पञ्चकोटिजपं कृत्वा सदाशिवसमो भवेत् ॥ ४३॥
एकद्वित्रिचतुः कोट्या ब्रह्मादीनां पदं व्रजेत् ।
जपेदक्षरलक्षं वा अक्षराणां पृथक्पृथक् ॥ ४४॥
अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ।
सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ ४५॥
जपेन्मन्त्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ।
अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ ४६॥
ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदाम् ।
वेदमन्त्रांश्च सूक्तानि जपेन्नियममास्थितः ॥ ४७॥
एकं दशार्णमन्त्रं च शतोनं च तदूर्ध्वकम् ।
अयुतं च सहस्रं च शतमेकं विना भवेत् ॥ ४८॥
वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ।
अन्यान्बहुतरान्मन्त्राञ्जपेदक्षरलक्षतः ॥ ४९॥
एकाक्षरांस्तथा मन्त्राञ्जपेदक्षरकोटितः ।
ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् ॥ ५०॥
एवं कुर्याद्यथाशक्ति क्रमाच्छिवपदं लभेत् ।
नित्यं रुचिकरं त्वेकं मन्त्रमामरणान्तिकम् ॥ ५१॥
सहस्रमोमिति जपेत्सर्वाभीष्टं शिवाज्ञया ।
पुष्पारामादिकं वापि तथा सम्मार्जनादिकम् ॥ ५२॥
शिवाय शिवकार्यार्थे कृत्वा शिवपदं लभेत् ।
शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ ५३॥
जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ।
तस्माद्वासं शिवक्षेत्रे कुर्यादामरणं बुधः ॥ ५४॥
लिङ्गाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ।
सहस्रारत्निमात्रं तु पुण्यं क्षेत्रे तथार्षके ॥ ५५॥
दैवलिङ्गे तथा ज्ञेयं सहस्रारत्निमानतः ।
धनुःप्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयम्भुवि ॥ ५६॥
पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च ।
शिवगङ्गेति विज्ञेयं शिवस्य वचनं यथा ॥ ५७॥
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ।
शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ ५८॥
द्वाहं दशाहं मास्यं वा सपिण्डीकरणं तु वा ।
आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिण्डमथापि वा ॥ ५९॥
सर्वपापविनिर्मुक्तः सद्यः शिवपदं लभेत् ।
अथवा सप्तरात्रं वा वसेद्वा पञ्चरात्रकम् ॥ ६०॥
त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ।
स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ ६१॥
वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ।
सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥ ६२॥
सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ।
प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ ६३॥
प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ।
सायाह्नं शान्तिकं ज्ञेयं रात्रावपि तथैव हि ॥ ६४॥
कालो निशीथो वै प्रोक्तो मध्ययामद्वयं निशि ।
शिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ॥ ६५॥
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ।
कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ ६६॥
उक्तेन केनचिद्वापि ह्यधिकारविभेदतः ।
सद्वृत्तिः पापभीरुश्चेत्तत्तत्फलमवाप्नुयात् ॥ ६७॥
ऋषय ऊचुः ।
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ।
सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥ ६८॥
सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ।
सूत उवाच ।
शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥ ६९॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां शिवलिङ्गपूजादिवर्णनं नाम एकादशोऽध्यायः ॥ १.११॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.१२. द्वादशोऽध्यायः । शिवक्षेत्रवर्णनम् ।
सूत उवाच ।
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ।
तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ १॥
पञ्चाशत्कोटिविस्तीर्णा सशैलवनकानना ।
शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ २॥
तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ।
मोक्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ ३॥
परिग्रहाद् ॠषीणां च देवानां च परिग्रहात् ।
स्वयम्भूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ ४॥
तीर्थे क्षेत्रे सदा कार्यं स्नानदानजपादिकम् ।
अन्यथा रोगदारिद्र्यमूकत्वाद्याप्नुयान्नरः ॥ ५॥
अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ।
स्वयम्भूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ ६॥
क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ।
पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ ७॥
येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ।
सिन्धोः शतनदीतीरे सन्ति क्षेत्राण्यनेकशः ॥ ८॥
सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ।
तत्तत्तीरे वसेत्प्राज्ञः क्रमाद् ब्रह्मपदं लभेत् ॥ ९॥
हिमवद्गिरिजा गङ्गा पुण्या शतमुखा नदी ।
तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः ॥ १०॥
तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ ।
शोणभद्रो दशमुखः पुण्योऽभीष्टफलप्रदः ॥ ११॥
तत्र स्नानोपवासेन पदं वैनायकं लभेत् ।
चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ १२॥
तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ।
तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ १३॥
गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ।
एकविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी ॥ १४॥
कृष्ण वेणी पुण्यनदी सर्वपापक्षयावहा ।
साष्टादशमुखा प्रोक्ता विष्णुलोकप्रदायिनी ॥ १५॥
तुङ्गभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ।
सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ १६॥
तत्रैव सुप्रजायन्ते ब्रह्मलोकच्युतास्तथा ।
सरस्वती च पम्पा च कन्या श्वेतनदी शुभा ॥ १७॥
एतासां तीरवासेन इन्द्रलोकमवाप्नुयात् ।
सह्याद्रिजा महापुण्या कावेरीति महानदी ॥ १८॥
सप्तविंशमुखा प्रोक्ता सर्वाभीष्टप्रदायिनी ।
तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ १९॥
शिवलोकप्रदाः शैवास्तथाभीष्टफलप्रदाः ।
नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ ॥ २०॥
ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ।
सिन्धुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ २१॥
केदारोदकपानं च स्नानं च ज्ञानदं विदुः ।
गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ २२॥
शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ।
यमुनाशोणयोः स्नायाद् गुरौ कन्यागते रवौ ॥ २३॥
धर्मलोके दन्तिलोके महाभोगप्रदं विदुः ।
कावेर्यां च तथा स्नायात्तुलागे तु रवौ गुरौ ॥ २४॥
विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः ।
वृश्चिके मासि सम्प्राप्ते तथार्के गुरुवृश्चिके ॥ २५॥
नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात् ।
सुवर्णमुखरीस्नानां चापगे च गुरौ रवौ ॥ २६॥
शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ।
मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ २७॥
शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ।
ब्रह्मविष्ण्वोः पदे भुक्त्वा तदन्ते ज्ञानमाप्नुयात् ॥ २८॥
गङ्गायां माघमासे तु तथा कुम्भगते रवौ ।
श्राद्धं वा पिण्डदानं वा तिलोदकमथापि वा ॥ २९॥
वंशद्वयपितॄणां च कुलकोट्युद्धरं विदुः ।
कृष्णवेण्यां प्रशंसन्ति मीनगे च गुरौ रवौ ॥ ३०॥
तत्तत्तीर्थे च तन्मासि स्नानमिन्द्रपदप्रदम् ।
गङ्गां वा सह्यजां वापि समाश्रित्य वसेद् बुधः ॥ ३१॥
तत्कालकृतपापस्य क्षयो भवति निश्चितम् ।
रुद्रलोकप्रदान्येव सन्ति क्षेत्राण्यनेकशः ॥ ३२॥
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ।
तयोस्तीरे हि सन्त्येव क्षेत्राणि स्वर्गदानि च ॥ ३३॥
सन्ति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ।
तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥ ३४॥
सदाचारेण सद्वृत्त्या सदा भावनयापि च ।
वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥ ३५॥
पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ।
पुण्यक्षेत्रे कृतं पापं महदण्वापि जायते ॥ ३६॥
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ।
पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥ ३७॥
मानसं च तथा पापं तादृशं नाशयेद् द्विजाः ।
मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥ ३८॥
ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ।
वाचिकं जपजालेन कायिकं कायशोषणात् ॥ ३९॥
दानाद्धनकृतं नश्येन्नान्यथा कल्पकोटिभिः ।
क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति ॥ ४०॥
बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ।
ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥ ४१॥
भोगांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ।
बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥ ४२॥
देवानां पूजया चैव ब्रह्मणानां च दानतः ।
तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ।
तस्मात्पापमकृत्वैव वस्तव्यं सुखमिच्छता ॥ ४३॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं नाम द्वादशोऽध्यायः ॥ १.१२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.१३. त्रयोदशोऽध्यायः । सदाचारवर्णनम् ।
ऋषय ऊचुः ।
सदाचारं श्रावयाशु येन लोकाञ्जयेद् बुधः ।
धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ १॥
सूत उवाच ।
सदाचारयुतो विद्वान् ब्राह्मणो नाम नामतः ।
वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ २॥
अल्पाचारोऽल्पवेदश्च क्षत्रियो राजसेवकः ।
किञ्चिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तथा ॥ ३॥
शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ।
असूयालुः परद्रोही चण्डालद्विज उच्यते ॥ ४॥
पृथिवीपालको राजा इतरे क्षत्रिया मताः ।
धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ ५॥
ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ।
कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ ६॥
सर्वो ह्युषः प्राङ्मुखश्च चिन्तयेद् देवपूर्वकान् ।
धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ ७॥
आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ।
व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ ८॥
निशान्त्ययामोषा ज्ञेया यामार्धं सन्धिरुच्यते ।
तत्काले तु समुत्थाय विण्मूत्रे विसृजेद् द्विजः ॥ ९॥
गृहाद् दूरं ततो गत्वा बाह्यतः प्रावृतस्तथा ।
उदङ्मुखः समाविश्य प्रतिबन्धेऽन्यदिङ्मुखः ॥ १०॥
जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ।
लिङ्गं पिधाय वामेन मुखमन्येन पाणिना ॥ ११॥
मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ।
उद्धृतेन जलेनैव शौचं कुर्याज्जलाद् बहिः ॥ १२॥
अथवा देवपित्रर्षितीर्थावतरणं विना ।
सप्त वा पञ्च वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ १३॥
लिङ्गे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ।
तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ १४॥
येन केन च पत्रेण काष्ठेन च जलाद् बहिः ।
कार्यं सन्तर्जनीं त्यज्य दन्तधावनमीरितम् ॥ १५॥
जलदेवान्नमस्कृत्य मन्त्रेण स्नानमाचरेत् ।
अशक्तः कण्ठदघ्नं वा कटिदघ्नमथापि वा ॥ १६॥
आजानुजलमाविश्य मन्त्रस्थानं समाचरेत् ।
देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ १७॥
धौतवस्त्रं समादाय पञ्चकच्छेन धारयेत् ।
उत्तरीयं च किञ्चैव धार्यं सर्वेषु कर्मसु ॥ १८॥
नद्यादितीर्थस्नने तु स्नानवस्त्रं न शोधयेत् ।
वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥ १९॥
शिलादार्वादिके वापि जले वापि स्थलेऽपि वा ।
संशोध्य पीडयेद्वस्त्रं पितॄणां तृप्तये द्विजाः ॥ २०॥
जाबालकोक्तमन्त्रेण भस्मना च त्रिपुण्ड्रकम् ।
अन्यथा चेज्जले पातस्ततो नरकमृच्छति ॥ २१॥
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशान्तये ।
यस्येति मन्त्रं पादे तु सन्धिप्रोक्षणमुच्यते ॥ २२॥
हृदये मूर्ध्नि पादे च मूर्ध्नि हृत्पाद एव च ।
हृत्पादमूर्ध्नि सम्प्रोक्ष्य मन्त्रस्नानं विदुर्बुधाः ॥ २३॥
ईषत्स्पर्शे च दोःस्वास्थ्ये राजराष्ट्रभयेऽपि च ।
अगत्या गतिकाले च मन्त्रस्नानं समाचरेत् ॥ २४॥
प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ।
अपः पीत्वा तथा मध्ये पुनः प्रोक्षणमाचरेत् ॥ २५॥
गायत्र्या जपमन्त्रान्ते त्रिरूर्ध्वं प्राग्विनिक्षिपेत् ।
मन्त्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजाः ॥ २६॥
अथ जाते च सायाह्ने भुवि पश्चिमदिङ्मुखः ।
उद्धृत्य दद्यात् प्रातस्तु मध्याह्नेऽङ्गुलिभिस्तथा ॥ २७॥
अङ्गुलीनां च रन्ध्रेण लम्बं पश्येद् दिवाकरम् ।
आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ २८॥
सायं मुहूर्तादर्वाक्तु कृता सन्ध्या वृथा भवेत् ।
अकालात्काल इत्युक्तो दिनेऽतीते यथाक्रमम् ॥ २९॥
दिवातीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ।
आदशाहात्परातीतं गायत्रीं लक्षमभ्यसेत् ॥ ३०॥
मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ।
ईशो गौरी गुहो विष्णुर्ब्रह्मा चन्द्रश्च वै यमः ॥ ३१॥
एवंरूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ।
ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ ३२॥
तीर्थदक्षिणतः शस्ते मठे मन्त्रालये बुधः ।
तत्र देवालये वापि गृहे वा नियतस्थले ॥ ३३॥
सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ।
प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ ३४॥
जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ।
त्रैलोक्यसृष्टिकर्तारं स्थितिकर्तारमच्युतम् ॥ ३५॥
संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ।
ज्ञानकर्मेन्द्रियाणां च मनोवृत्तीर्धियस्तथा ॥ ३६॥
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ।
इत्थमर्थं धिया ध्यायन्ब्रह्म प्राप्नोति निश्चयम् ॥ ३७॥
केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ।
सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुङ्गवः ॥ ३८॥
अन्येषां च यथाशक्ति मध्याह्ने च शतं जपेत् ।
सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥ ३९॥
मूलाधारं समारभ्य द्वादशांशस्थितांस्तथा ।
विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् ॥ ४०॥
ब्रह्मबुद्ध्या तदैक्यं च सोऽहं भावनया जपेत् ।
तानेव ब्रह्मरन्ध्रादौ कायाद् बाह्ये च भावयेत् ॥ ४१॥
महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ।
एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ ४२॥
परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ।
शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥ ४३॥
मन्त्राणां जप एवं हि जपमादिक्रमाद्विदुः ।
सहस्रं ब्राह्मदं विद्याच्छतमैन्द्रप्रदं विदुः ॥ ४४॥
इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ।
दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ ४५॥
लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ।
गायत्र्या लक्षहीनं तु वेदकार्ये न योजयेत् ॥ ४६॥
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ।
प्रातर्द्वादशसाहस्रं प्रव्राजी प्रणवं जपेत् ॥ ४७॥
दिने दिने त्वतिक्रान्ते नित्यमेवं क्रमाज्जपेत् ।
मासादौ क्रमशोऽतीते सार्धलक्षजपेन हि ॥ ४८॥
अत ऊर्ध्वमतिक्रान्ते पुनः प्रैषं समाचरेत् ।
एवं कृत्वा दोषशान्तिरन्यथा रौरवं व्रजेत् ॥ ४९॥
धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ।
ब्राह्मणो मुक्तिकामः स्याद् बह्मज्ञानं सदाभ्यसेत् ॥ ५०॥
धर्मादर्थोऽर्थतो भोगो भोगाद्वैराग्यसम्भवः ।
धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ ५१॥
विपरीतार्थभोगेन राग एव प्रजायते ।
धर्मश्च द्विविधः प्रोक्तो द्रव्यदेहद्वयेन च ॥ ५२॥
द्रव्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ।
धर्मेण धनमाप्नोति तपसा दिव्यरूपताम् ॥ ५३॥
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ।
कृतादौ हि तपः श्लाघ्यं द्रव्यधर्मः कलौ युगे ॥ ५४॥
कृते ध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ।
द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ ५५॥
यादृशं पुण्यपापं वा तादृशं फलमेव हि ।
द्रव्यदेहाङ्गभेदेन न्यूनवृद्धिक्षयादिकम् ॥ ५६॥
अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ।
अधर्माद् दुःखमाप्नोति धर्माद्वै सुखमेधते ॥ ५७॥
विद्याद् दुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ।
धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥ ५८॥
सकुटुम्बस्य विप्रस्य चतुर्जनयुतस्य च ।
शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ॥ ५९॥
चान्द्रायणसहस्रं तु ब्रह्मलोकप्रदं विदुः ।
सहस्रस्य कुटुम्बस्य प्रतिष्ठां क्षत्रियश्चरेत् ॥ ६०॥
इन्द्रलोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ।
यां देवतां पुरस्कृत्य दानमाचरते नरः ॥ ६१॥
तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ।
अर्थहीनः सदा कुर्यात्तपसामर्जनं तथा ॥ ६२॥
तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ।
अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ ६३॥
कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धतः ।
अदैन्यादनतिक्लेशाद् ब्राह्मणो धनमर्जयेत् ॥ ६४॥
क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद् विशः ।
न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ ६५॥
ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ।
मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ ६६॥
सत्सङ्गात्सर्वमेतद्वै नराणां जायते द्विजाः ।
धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ ६७॥
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ।
तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥ ६८॥
जलं चैव सदा देयमन्नं क्षुद्व्याधिशान्तये ।
क्षेत्रं धान्यं तथामान्नमन्नमेव चतुर्विधम् ॥ ६९॥
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ।
तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः ॥ ७०॥
ग्रहीता हि गृहीतस्य दानाद्वै तपसा तथा ।
पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ ७१॥
आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ।
नित्यं नैमित्तिकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ ७२॥
वित्तस्य वर्धनं कुर्याद् वृद्ध्यंशेन हि साधकः ।
हितेन मितमेध्येन भोगं भोगांशतश्चरेत् ॥ ७३॥
कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ।
शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ ७४॥
अथवा पापबुद्धिः स्यात्क्षयं वा सस्यमेष्यति ।
वृद्धिवाणिज्यके देयं षडंशं हि विचक्षणैः ॥ ७५॥
शुद्धप्रतिग्रहे देयं चतुर्थांशं द्विजोत्तमैः ।
अकस्मादुत्थितेऽर्थे हि देयमर्धं द्विजोत्तमैः ॥ ७६॥
असत्प्रतिग्रहे सर्वं दुर्दानं सागरे क्षिपेत् ।
आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥ ७७॥
पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ।
जन्मान्तरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ ७८॥
परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ।
विद्वेषेण तथा ब्रह्मन् श्रुतं दृष्टं च नो वदेत् ॥ ७९॥
न वदेत्सर्वजन्तूनां हृदि रोषकरं बुधः ।
सन्ध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये ॥ ८०॥
अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ।
तण्डुलं धान्यमाज्यं वा फलं कन्दं हविस्तथा ॥ ८१॥
स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ।
प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ ८२॥
नित्यसन्धानमित्युक्तं तमजस्रं विदुर्बुधाः ।
अथवा जपमात्रं वा सूर्यवन्दनमेव च ॥ ८३॥
एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ।
ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ ८४॥
अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ।
ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ ८५॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां सदाचारवर्णनं नाम त्रयोदशोऽध्यायः ॥ १.१३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.१४. चतुर्दशोऽध्यायः । अग्नियज्ञादिवर्णनम् ।
ऋषय ऊचुः ।
अग्नियज्ञं देवयज्ञं ब्रह्मयज्ञं तथैव च ।
गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ १॥
सूत उवाच ।
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ।
ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ २॥
समिदग्नै व्रताद्यं च विशेषयजनादिकम् ।
प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ ३॥
आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ।
हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ ४॥
औपासनाग्निसन्धानं समारभ्य सुरक्षितम् ।
कुण्डे वाप्यथ भाण्डे वा तदजस्रं समीरितम् ॥ ५॥
अग्निमात्मन्यरण्यां वा राजदैववशाद् ध्रुवम् ।
अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ ६॥
सम्पत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ।
आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ ७॥
अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ।
इन्द्रादीन्सकलान्देवानुद्दिश्याग्नौ जुहोति यत् ॥ ८॥
देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ।
चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ ९॥
ब्रह्मयज्ञं द्विजः कुर्याद् देवानां तृप्तयेऽसकृत् ।
ब्रह्मयज्ञ इति प्रोक्तो वेदस्याध्ययनं भवेत् ॥ १०॥
नित्यानन्तरमासायं ततस्तु न विधीयते ।
अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ॥ ११॥
आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ।
सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ १२॥
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ।
आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥ १३॥
सम्पत्कारं स्वमायाया वारं च कृतवांस्ततः ।
जनने दुर्गतिक्रान्ते कुमारस्य ततः परम् ॥ १४॥
आलस्यदुरितक्रान्त्यै वारं कल्पितवान्प्रभुः ।
रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥ १५॥
पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ।
आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥ १६॥
त्रैलोक्यसृष्टिकर्तुर्हि ब्रह्मणः परमेष्ठिनः ।
जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥ १७॥
आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ।
तयोः कर्त्रोस्ततो वारमिन्द्रस्य च यमस्य च ॥ १८॥
भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ।
आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥ १९॥
वारेशान्कल्पयित्वादौ ज्योतिश्चक्रे प्रतिष्ठितान् ।
स्वस्ववारे हि तेषां तु पूजा स्वस्वफलप्रदा ॥ २०॥
आरोग्यं सम्पदश्चैव व्याधीनां शान्तिरेव च ।
पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ २१॥
वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ।
अन्येषामपि देवानां पूजायाः फलदः शिवः ॥ २२॥
देवानां प्रीतये पूजा पञ्चधैव प्रकल्पिता ।
तत्तन्मन्त्रजपो होमो दानं चैव तपस्तथा ॥ २३॥
स्थण्डिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ।
समाराधनमित्येवं षोडशैरुपचारकैः ॥ २४॥
उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ।
नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शान्तये ॥ २५॥
आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ।
दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ २६॥
प्रारब्धं प्रबलं चेत्स्यान्नश्येद् रोगजरादिकम् ।
जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ २७॥
पापशान्तिर्विशेषेण ह्यादिवारे निवेदयेत् ।
आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ २८॥
सोमवारे च लक्ष्म्यादीन्सम्पदर्थं यजेद् बुधः ।
आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ॥ २९॥
काल्यादीन्भौमवारे तु यजेद् रोगप्रशान्तये ।
माषमुद्गाढकान्नेन ब्राह्मणांश्चैव भोजयेत् ॥ ३०॥
सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ।
पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥ ३१॥
आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ।
उपवीतेन वस्त्रेण क्षीराज्येन यजेद् बुधः ॥ ३२॥
भोगार्थं भृगुवारे तु यजेद् देवान्समाहितः ।
षड्रसोपेतमन्नं च दद्याद् ब्राह्मणतृप्तये ॥ ३३॥
स्त्रीणां च तृप्तये तद्वद् देयं वस्त्रादिकं शुभम् ।
अपमृत्युहरे मन्दे रुद्रादींश्च यजेद् बुधः ॥ ३४॥
तिलहोमेन दानेन तिलान्नेन च भोजयेत् ।
इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ ३५॥
देवानां नित्ययजने विशेषयजनेऽपि च ।
स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ ३६॥
तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ।
आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ ३७॥
ततद्रुपेण सर्वेषामारोग्यादिफलप्रदः ।
देशकालानुसारेण तथा पात्रानुसारतः ॥ ३८॥
द्रव्यं श्रद्धानुसारेण तथा लोकानुसारतः ।
तारतम्यक्रमाद् देवस्त्वारोग्यादीन्प्रयच्छति ॥ ३९॥
शुभादावशुभान्ते च जन्मर्क्षेषु गृहे गृही ।
आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् ॥ ४०॥
तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ।
समन्त्रकं ब्राह्मणानामन्येषां चैव तान्त्रिकम् ॥ ४१॥
यथाशक्त्यनुरूपेण कर्तव्यं सर्वदा नरैः ।
सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥ ४२॥
दरिद्रस्तपसा देवान्यजेदाढ्यो धनेन हि ।
पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ ४३॥
पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ।
छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसञ्चयम् ॥ ४४॥
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ।
कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ ४५॥
य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः ।
श्रवणस्योपकर्ता च देवयज्ञफलं लभेत् ॥ ४६॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायामग्नियज्ञादिवर्णनं नाम चतुर्दशोऽध्यायः ॥ १.१४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.१५. पञ्चदशोऽध्यायः । देवयज्ञादिषु देशकालपात्रादिवर्णनम् ।
ऋषय ऊचुः ।
देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम ।
सूत उवाच ।
शुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ १॥
ततो दशगुणं गोष्ठं जलतीरं ततो दश ।
ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ २॥
ततो देवालयं विद्यात्तीर्थतीरं ततो दश ।
ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ ३॥
सप्तगङ्गानदीतीर्थं तस्या दशगुणं भवेत् ।
गङ्गा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ ४॥
सिन्धुश्च सरयू रेवा सप्त गङ्गाः प्रकीर्तिताः ।
ततोऽब्धितीरे दश च पर्वताग्रे ततो दश ॥ ५॥
सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ।
कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ॥ ६॥
त्रेतायुगे त्रिपादं च द्वापरेऽर्धं सदा स्मृतम् ।
कलौ पादं तु विज्ञेयं तत्पादोनं ततोऽर्धके ॥ ७॥
शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ।
तस्माद् दशगुणं ज्ञेयं रविसङ्क्रमणे बुधाः ॥ ८॥
विषुवे तद्दशगुणमयने तद्दश स्मृतम् ।
तद्दश मृगसङ्क्रान्तौ तच्चन्द्रग्रहणे दश ॥ ९॥
ततश्च सूर्यग्रहणे पूर्णं कालोत्तमे विदुः ।
जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् ॥ १०॥
अतस्तद्विषशान्त्यर्थं स्नानदानजपांश्चरेत् ।
विषशान्त्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ॥ ११॥
जन्मर्क्षे च व्रतान्ते च सूर्यरागोपमं विदुः ।
महतां सङ्गकालश्च कोट्यर्कग्रहणं विदुः ॥ १२॥
तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ।
पूजायाः पात्रमेते हि पापसङ्क्षयकारणम् ॥ १३॥
चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ।
ब्राह्मणस्तु भवेत्पात्रं सम्पूर्णफलभोगदम् ॥ १४॥
पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ।
दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ॥ १५॥
गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ।
यथार्थहिनो लोकेऽस्मिन्परस्यार्थं न यच्छति ॥ १६॥
अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ।
स्वयं शुद्धो हि पूतात्मा नरान्सन्त्रातुमर्हति ॥ १७॥
गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ।
तस्माद् दाने जपे होमे पूजायां सर्वकर्मणि ॥ १८॥
दानं कर्तुं तथा त्रातुं पात्रत्वं ब्राह्मणोऽर्हति ।
अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ॥ १९॥
ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ।
तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् ॥ २०॥
इच्छावतः प्रदानं च सम्पूर्णफलदं विदुः ।
यत्प्रश्नानन्तरं दत्तं तदर्धफलदं विदुः ॥ २१॥
यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ।
जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः ॥ २२॥
दत्तमर्थं हि भोगाय भूर्लोके दशवार्षिकम् ।
वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् ॥ २३॥
गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ।
विष्णुभक्तस्य विप्रस्य दत्तं वैकुण्ठदं विदुः ॥ २४॥
शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ।
तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते ॥ २५॥
दशाङ्गमन्नं विप्रस्य भानुवारे ददन्नरः ।
परजन्मनि चारोग्यं दशवर्षं समश्नुते ॥ २६॥
बहुमानमथाह्वानमभ्यङ्गं पादसेवनम् ।
वासो गन्धाद्यर्चनं च घृतापूपरसोत्तरम् ॥ २७॥
षड्रसं व्यञ्जनं चैव ताम्बूलं दक्षिणोत्तरम् ।
नमश्चानुगमश्चैव स्वन्नदानं दशाङ्गकम् ॥ २८॥
दशाङ्गमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ।
अर्कवारे तथारोग्यं शतवर्षं समश्नुते ॥ २९॥
सोमवारादिवारेषु तत्तद्वारगुणं फलम् ।
अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि ॥ ३०॥
सप्तस्वपि च वारेषु दशभ्यश्च दशाङ्गकम् ।
अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ॥ ३१॥
एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ।
सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ॥ ३२॥
सहस्रेभ्यस्तथा दत्त्वाऽयुतवर्षं समश्नुते ।
एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ॥ ३३॥
भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ।
अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ॥ ३४॥
अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ।
अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्नुते ॥ ३५॥
बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ।
यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ॥ ३६॥
वृद्धानां रुद्रबुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ।
बालस्त्री भारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ॥ ३७॥
लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ।
वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ॥ ३८॥
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ।
शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ॥ ३९॥
शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ।
कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते ॥ ४०॥
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ।
उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ॥ ४१॥
स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ।
गवादीनां द्वादशानां चैत्रादिषु यथाक्रमम् ॥ ४२॥
सम्भूय वा पुण्यकाले दद्यादिष्टसमृद्धये ।
गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ॥ ४३॥
रौप्यं लवणकूष्माण्डं कन्या द्वादशकं तथा ।
गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ॥ ४४॥
धनधान्याद्याश्रितानां दुरितानां निवारणम् ।
जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ॥ ४५॥
कायिकादित्रयाणां तु क्षीरदध्याज्यकैस्तथा ।
तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ॥ ४६॥
भूदानं तु प्रतिष्ठार्थमिह चामुत्र च द्विजाः ।
तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ॥ ४७॥
हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ।
आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ॥ ४८॥
धान्यमन्नंसमृद्ध्यर्थं मधुराहारदं गुडम् ।
रौप्यं रेतोऽभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ॥ ४९॥
सर्वं सर्वसमृद्ध्यर्थं कूष्माण्डं पुष्टिदं विदुः ।
प्राप्तिदं सर्वभोगानामिह चामुत्र च द्विजाः ॥ ५०॥
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ।
पनसाम्रकपित्थानां वृक्षाणां फलमेव च ॥ ५१॥
कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ।
माषादीनां च मुद्गानां फलं शाकादिकं तथा ॥ ५२॥
मरीचिसर्षपाद्यानां शाकोपकरणं तथा ।
यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ॥ ५३॥
श्रोत्रादीन्द्रियतृप्तिश्च सदा देया विपश्चिता ।
शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ॥ ५४॥
वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ।
कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ॥ ५५॥
बन्धुराजभयाद्बुद्धिः श्रद्धा सा च कनीयसी ।
सर्वाभावे दरिद्रस्तु वाचा वा कर्मणा यजेत् ॥ ५६॥
वाचिकं यजनं विद्यान्मन्त्रस्तोत्रजपादिकम् ।
तीर्थयात्रा व्रताद्यं हि कायिकं यजनं विदुः ॥ ५७॥
येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ।
देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ॥ ५८॥
तपश्चर्या च दानं च कर्तव्यमुभयं सदा ।
प्रतिश्रयं प्रदातव्यं स्ववर्णं गुणशोभितम् ॥ ५९॥
देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः ।
इहामुत्रोत्तमं जन्म सदा भोगं लभेद् बुधः ।
ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् ॥ ६०॥
य इमं पठतेऽध्यायं यः शृणोति सदा नरः ।
तस्य वै धर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ॥ ६१॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां देशकालपात्रादिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १.१५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.१६. षोडशोऽध्यायः । पार्थिवपूजनप्रकारास्तत्फलानि च ।
ऋषय ऊचुः ।
पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ।
येन पूजाविधानेन सर्वाभीष्टमवाप्यते ॥ १॥
सूत उवाच ।
सुसाधु पृष्टं युष्माभिः सदा सर्वार्थदायकम् ।
सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः ॥ २॥
अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ।
सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ ३॥
अन्नादिभोज्यं वस्त्रादि सर्वमुत्पद्यते यतः ।
ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ ४॥
पुरुषाणां च नारीणामधिकारोऽत्र निश्चितम् ।
नद्यां तडागे कूपे वा जलान्तर्मृदमाहरेत् ॥ ५॥
संशोध्य गन्धचूर्णेन पेषयित्वा सुमण्डपे ।
हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ ६॥
अङ्गप्रत्यङ्गकोपेतामायुधैश्च समन्विताम् ।
पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ ७॥
विघ्नेशादित्यविष्णूनामम्बायाश्च शिवस्य च ।
शिवस्य शिवलिङ्गं च सर्वदा पूजयेद् द्विजः ॥ ८॥
षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ।
पुष्पेण प्रोक्षणं कुर्यादभिषेकं समन्त्रकम् ॥ ९॥
शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ।
गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते ॥ १०॥
दैवे प्रस्थत्रयं योग्यं स्वयम्भोः प्रस्थपञ्चकम् ।
एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ ११॥
सहस्रपूजया सत्यं सत्यलोकं लभेद् द्विजः ।
द्वादशाङ्गुलमायामं द्विगुणं च ततोऽधिकम् ॥ १२॥
प्रमाणमङ्गुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् ।
अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ १३॥
तदष्टभागः प्रस्थः स्यात्तच्चतुष्कुडवं मतम् ।
दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ १४॥
जलतैलादिगन्धानां यथायोग्यं च मानतः ।
मानुषार्षस्वयम्भूनां महापूजेति कथ्यते ॥ १५॥
अभिषेकादात्मशुद्धिर्गन्धात्पुण्यमवाप्यते ।
आयुस्तृप्तिश्च नैवेद्याद् धूपादर्थमवाप्यते ॥ १६॥
दीपाज्ज्ञानमवाप्नोति ताम्बूलाद्भोगमाप्नुयात् ।
तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ १७॥
नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ।
पूजान्ते च सदा कार्यौ भोगमोक्षार्थिभिर्नरैः ॥ १८॥
सम्पूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ।
देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ १९॥
तदवान्तरलोके च यथेष्टं भोग्यमाप्यते ।
तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः ॥ २०॥
विघ्नेशपूजया सम्यग्भूर्लोकेऽभीष्टमाप्नुयात् ।
शुक्रवारे चतुर्थ्याञ्च सिते श्रावणभाद्रके ॥ २१॥
भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ।
शतं पूजा सहस्रं वा तत्सङ्ख्याकदिनैर्व्रजेत् ॥ २२॥
देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ।
सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ २३॥
वारपूजां शिवादीनामात्मशुद्धिप्रदां विदुः ।
तिथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ २४॥
तथा वृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ।
उदयादुदयं वारो ब्रह्मप्रभृतिकर्मणाम् ॥ २५॥
तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ।
पूर्वभागः पितॄणां तु निशियुक्तः प्रशस्यते ॥ २६॥
परभागस्तु देवानां दिवायुक्तः प्रशस्यते ।
उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ २७॥
देवकार्ये तथा ग्राह्यास्तिथिऋक्षादिकाः शुभाः ।
सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ॥ २८॥
पूर्जायते ह्यनेनेति वेदेष्वर्थस्य योजना ।
पूर्भोगफलसिद्धिश्च जायते तेन कर्मणा ॥ २९॥
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ।
पूजाशब्दार्थ एवं हि विश्रुतो लोकवेदयोः ॥ ३०॥
नित्यं नैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ।
नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ॥ ३१॥
तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ।
महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ॥ ३२॥
पक्षपापक्षयकरी पक्षभोगफलप्रदा ।
चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ॥ ३३॥
वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके ।
श्रावणादित्यवारे च सप्तम्यां हस्तभे दिने ॥ ३४॥
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ।
ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवणर्क्षके ॥ ३५॥
कृतं श्रीविष्णुयजनमिष्टसम्पत्करं विदुः ।
श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ॥ ३६॥
गवादीन्द्वादशानर्थान्साङ्गान्दत्त्वा तु यत्फलम् ।
तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ॥ ३७॥
द्वादश्यां द्वादशान्विप्रान् विष्णोर्द्वादशनामतः ।
षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ॥ ३८॥
एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ।
द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ॥ ३९॥
कर्कटे सोमवारे च नवम्यां मृगशीर्षके ।
अम्बां यजेद् भूतिकामः सर्वभोगफलप्रदाम् ॥ ४०॥
आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ।
आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ ४१॥
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ।
माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ॥ ४२॥
आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ।
ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेऽपि च ॥ ४३॥
मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ।
तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ॥ ४४॥
शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ।
वारादिदेवयजनं कार्तिके हि विशिष्यते ॥ ४५॥
कार्तिके मासि सम्प्राप्ते सर्वान्देवान्यजेद् बुधः ।
दानेन तपसा होमैर्जपेन नियमेन च ॥ ४६॥
षोडशैरुपचारैश्च प्रतिमाविप्रमन्त्रकैः ।
ब्राह्मणानां भोजनेन निष्कामार्तिहरो भवेत् ॥ ४७॥
कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ।
व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ॥ ४८॥
कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ।
तैलकार्पासदानात्तु भवेत्कुष्ठादिसङ्क्षयः ॥ ४९॥
हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ।
ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् ॥ ५०॥
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ।
कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ॥ ५१॥
महादारिद्र्यशमनं सर्वसम्पत्करं भवेत् ।
गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ॥ ५२॥
कृत्तिकाभौमवारेषु स्कन्दस्य यजनान्नृणाम् ।
दीपघण्टादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ॥ ५३॥
कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ।
दध्योदनस्य दानं च सत्सन्तानकरं भवेत् ॥ ५४॥
कृत्तिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ।
मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ॥ ५५॥
कृत्तिकाशुक्रवारेषु गजतुण्डस्य याजनात् ।
गन्धपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ॥ ५६॥
वन्ध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ।
कृत्तिकाशनिवारेषु दिक्पालानां च वन्दनम् ॥ ५७॥
दिग्गजानां च नागानां सेतुपानां च पूजनम् ।
त्र्यम्बकस्य च रुद्रस्य विष्णोः पापहरस्य च ॥ ५८॥
ज्ञानदं ब्रह्मणश्चैव धन्वन्तर्यश्विनोस्तथा ।
रोगापमृत्युहरणं तत्कालव्याधिशान्तिदम् ॥ ५९॥
लवणायसतैलानां माषादीनां च दानतः ।
त्रिकटुफलगन्धानां जलादीनां च दानतः ॥ ६०॥
द्रवाणां कठिनानां च प्रस्थेन पलमानतः ।
स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ॥ ६१॥
शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ।
शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते ॥ ६२॥
विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ।
मार्गशीर्षेऽन्नदस्यैव सर्वमिष्टफलं भवेत् ॥ ६३॥
पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ।
सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ॥ ६४॥
इहामुत्र महाभोगानन्ते योगं च शाश्वतम् ।
वेदान्तज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ॥ ६५॥
मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ।
यजेद् देवान्भोगकामो नाधनुर्मासिको भवेत् ॥ ६६॥
यावत्सङ्गवकालं तु धनुर्मासो विधीयते ।
धनुर्मासे निराहारो मासमात्रं जितेन्द्रियः ॥ ६७॥
आमध्याह्नं जपेद् विप्रो गायत्रीं वेदमातरम् ।
पञ्चाक्षरादिकान्मन्त्रान्पश्चादासुप्तिकं जपेत् ॥ ६८॥
ज्ञानं लब्ध्वा च देहान्ते विप्रो मुक्तिमवाप्नुयात् ।
अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ॥ ६९॥
सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ।
इष्टमन्त्रान्सदा जप्त्वा महापापक्षयं लभेत् ॥ ७०॥
धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ।
शालितण्डुलभारेण मरीचप्रस्थकेन च ॥ ७१॥
गणनाद् द्वादशं सर्वं मध्वाज्यकुडवेन हि ।
द्रोणयुक्तेन मुद्गेन द्वादशव्यञ्जनेन च ॥ ७२॥
घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ।
द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ॥ ७३॥
नारिकेलफलादीनां तथा गणनया सह ।
द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ॥ ७४॥
कर्पूरखुरचूर्णेन पञ्चसौगन्धिकैर्युतम् ।
ताम्बूलयुक्तं तु यदा महानैवेद्यलक्षणम् ॥ ७५॥
महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ।
वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ॥ ७६॥
एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् ।
महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ॥ ७७॥
महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ।
सत्यलोकं च तल्लोके पूर्णमायुरवाप्नुयात् ॥ ७८॥
सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ।
तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ॥ ७९॥
सहस्राणां च षट्त्रिंशज्जन्मनैवेद्यमीरितम् ।
तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते ॥ ८०॥
महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ।
जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ॥ ८१॥
ऊर्जे मासि दिने पुण्ये जन्मनैवेद्यमाचरेत् ।
सङ्क्रान्तिपातजन्मर्क्षपौर्णमास्यादिसंयुते ॥ ८२॥
अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ।
मासान्तरेषु जन्मर्क्षपूर्णयोगदिनेऽपि च ॥ ८३॥
मेलने च शनैर्वापि तावत्साहस्रमाचरेत् ।
जन्मनैवेद्यदानेन जन्मार्पणफलं लभेत् ॥ ८४॥
जन्मार्पणाच्छिवः प्रीतः स्वसायुज्यं ददाति हि ।
इदं तज्जन्मनैवेद्यं शिवस्यैव प्रदापयेत् ॥ ८५॥
योनिलिङ्गस्वरूपेण शिवो जन्मनिरूपकः ।
तस्माज्जन्मनिवृत्त्यर्थं जन्मपूजा शिवस्य हि ॥ ८६॥
बिन्दुनादात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
बिन्दुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् ॥ ८७॥
नादाधारमिदं बिन्दुर्बिन्द्वाधारमिदं जगत् ।
जगदाधारभूतौ हि बिन्दुनादौ व्यवस्थितौ ॥ ८८॥
बिन्दुनादयुतं सर्वं सकलीकरणं भवेत् ।
सकलीकरणाज्जन्म जगत्प्राप्नोत्यसंशयम् ॥ ८९॥
बिन्दुनादात्मकं लिङ्गं जगत्कारणमुच्यते ।
बिन्दुर्देवी शिवो नादः शिवलिङ्गं तु कथ्यते ॥ ९०॥
तस्माज्जन्मनिवृत्त्यर्थं शिवलिङ्गं प्रपूजयेत् ।
माता देवी बिन्दुरूपा नादरूपः शिवः पिता ॥ ९१॥
पूजिताभ्यां पितृभ्यां तु परमानन्द एव हि ।
परमानन्दलाभार्थं शिवलिङ्गं प्रपूजयेत् ॥ ९२॥
सा देवी जगतां माता स शिवो जगतः पिता ।
पित्रोः शुश्रूषके नित्यं कृपाधिक्यं हि वर्धते ॥ ९३॥
कृपयान्तर्गतैश्वर्यं पूजकस्य ददाति हि ।
तस्मादन्तर्गतानन्दलाभार्थं मुनिपुङ्गवाः ॥ ९४॥
पितृमातृस्वरूपेण शिवलिङ्गं प्रपूजयेत् ।
भर्गः पुरुषरूपो हि भर्गा प्रकृतिरुच्यते ॥ ९५॥
अव्यक्तान्तरधिष्ठानं गर्भः पुरुष उच्यते ।
सुव्यक्तान्तरधिष्ठानं गर्भः प्रकृतिरुच्यते ॥ ९६॥
पुरुषस्त्वादिगर्भो हि गर्भवाञ्जनको यतः ।
पुरुषात्प्रकृतौ युक्तं प्रथमं जन्म कथ्यते ॥ ९७॥
प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते ।
जन्म जन्तुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ॥ ९८॥
अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते ।
जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ॥ ९९॥
जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि ।
जन्मपाशनिवृत्त्यर्थं जन्मलिङ्गं प्रपूजयेत् ॥ १००॥
भं वृद्धिं गच्छतीत्यर्थाद्भगः प्रकृतिरुच्यते ।
प्राकृतैः शब्दमात्राद्यैः प्राकृतेन्द्रियभोजनात् ॥ १०१॥
भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ।
मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते ॥ १०२॥
भगवान्भोगदाता हि नान्यो भोगप्रदायकः ।
भगस्वामी च भगवान्भर्ग इत्युच्यते बुधैः ॥ १०३॥
भगेन सहितं लिङ्गं भगं लिङ्गेन संयुतम् ।
इहामुत्र च भोगार्थं नित्यभोगार्थमेव च ॥ १०४॥
भगवन्तं महादेवं शिवलिङ्गं प्रपूजयेत् ।
लोकप्रसविता सूर्यस्तच्चिह्नं प्रसवाद्भवेत् ॥ १०५॥
लिङ्गे प्रसूतिकर्तारं लिङ्गिनं पुरुषो यजेत् ।
लिङ्गार्थगमकं चिह्नं लिङ्गमित्यभिधीयते ॥ १०६॥
लिङ्गमर्थं हि पुरुषं शिवं गमयतीत्यदः ।
शिवशक्त्योश्च चिह्नस्य मेलनं लिङ्गमुच्यते ॥ १०७॥
स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ।
चिह्नकार्यं तु जन्मादि जन्माद्यं विनिवर्तते ॥ १०८॥
प्राकृतैः पुरुषैश्चापि बाह्याभ्यन्तरसम्भवैः ।
षोडशैरुपचारैश्च शिवलिङ्गं प्रपूजयेत् ॥ १०९॥
एवमादित्यवारे हि पूजा जन्मनिवर्तिका ।
आदिवारे महालिङ्गं प्रणवेनैव पूजयेत् ॥ ११०॥
आदिवारे पञ्चगव्यैरभिषेको विशिष्यते ।
गोमयं गोजलं क्षीरं दध्याज्यं पञ्चगव्यकम् ॥ १११॥
क्षीराद्यं च पृथक्चैव मधुना चेक्षुसारकैः ।
गव्यक्षीरान्ननैवेद्यं प्रणवेनैव कारयेत् ॥ ११२॥
प्रणवं ध्वनिलिङ्गं तु नादलिङ्गं स्वयम्भुवः ।
बिन्दुलिङ्गं तु यन्त्रं स्यान्मकारं तु प्रतिष्ठितम् ॥ ११३॥
उकारं चरलिङ्गं स्यादकारं गुरुविग्रहम् ।
षड्लिङ्गपूजया नित्यं जीवन्मुक्तो न संशयः ॥ ११४॥
शिवस्य भक्त्या पूजा हि जन्ममुक्तिकरी नृणाम् ।
रुद्राक्षधारणात्पादमर्धं वै भूतिधारणात् ॥ ११५॥
त्रिपादं मन्त्रजाप्याच्च पूजया पूर्णभक्तिमान् ।
शिवलिङ्गं च भक्तं च पूज्य मोक्षं लभेन्नरः ॥ ११६॥
य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः ।
तस्यैव शिवभक्तिश्च वर्धते सुदृढा द्विजाः ॥ ११७॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं नाम षोडशोऽध्यायः ॥ १.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.१७. सप्तदशोऽध्यायः । प्रणवपञ्चाक्षरमन्त्रमाहात्म्यम् ।
ऋषय ऊचुः ।
प्रणवस्य च माहात्म्यं षड्लिङ्गस्य महामुने ।
शिवभक्तस्य पूजां च क्रमशो ब्रूहि नः प्रभो ॥ १॥
सूत उवाच ।
तपोधनैर्भवद्भिश्च सम्यक् प्रश्नस्त्वयं कृतः ।
अस्योत्तरं महादेवो जानाति स्म न चापरः ॥ २॥
तथापि वक्ष्ये तमहं शिवस्य कृपयैव हि ।
शिवोऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः ॥ ३॥
प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः ।
नवं नावान्तरमिति प्रणवं वै विदुर्बुधाः ॥ ४॥
प्रः प्रपञ्चो न नास्ति वो युष्माकं प्रणवं विदुः ।
प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ॥ ५॥
स्वमन्त्रजापकानां च पूजकानां च योगिनाम् ।
सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ॥ ६॥
तमेव मायारहितं नूतनं परिचक्षते ।
प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ ७॥
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ।
प्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः ॥ ८॥
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः ।
सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत् ॥ ९॥
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हितस्य हि ।
मन्त्रेणार्थानुसन्धानं स्वदेहविलयावधि ॥ १०॥
स्वदेहे गलिते पूर्णं शिवं प्राप्नोति निश्चयः ।
केवलं मन्त्रजापी तु योगं प्राप्नोति निश्चयः ॥ ११॥
षट्त्रिंशत्कोटिजापी तु निश्चयं योगमाप्नुयात् ।
सूक्ष्मं च द्विविधं ज्ञेयं ह्रस्वदीर्घविभेदतः ॥ १२॥
अकारश्च उकारश्च मकारश्च ततः परम् ।
बिन्दुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ १३॥
दीर्घप्रणवमेवं हि योगिनामेव हृद्गतम् ।
मकारं तन्त्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ १४॥
शिवः शक्तिस्तयोरैक्यं मकारं तु त्रिकात्मकम् ।
ह्रस्वमेवं हि जाप्यं स्यात्सर्वपापक्षयैषिणाम् ॥ १५॥
भूवायुकनकार्णोद्योः शब्दाद्याश्च तथा दश ।
आशान्वये दश पुनः प्रवृत्ता इति कथ्यते ॥ १६॥
ह्रस्वमेव प्रवृत्तानां निवृत्तानां तु दीर्घकम् ।
व्याहृत्यादौ च मन्त्रादौ कामं शब्दकलायुतम् ॥ १७॥
वेदादौ च प्रयोज्यं स्याद्वन्दने सन्ध्ययोरपि ।
नवकोटिजपाञ्जप्त्वा संशुद्धः पुरुषो भवेत् ॥ १८॥
पुनश्च नवकोट्या तु पृथिवीजयमाप्नुयात् ।
पुनश्च नवकोट्या तु ह्यपां जयमवाप्नुयात् ॥ १९॥
पुनश्च नवकोट्या तु तेजसां जयमाप्नुयात् ।
पुनश्च नवकोट्या तु वायोर्जयमवाप्नुयात् ।
आकाशजयमाप्नोति नवकोटिजपेन वै ॥ २०॥
गन्धादीनां क्रमेणैव नवकोटिजपेन वै ।
अहङ्कारस्य च पुनर्नवकोटिजपेन वै ॥ २१॥
सहस्रमन्त्रजप्तेन नित्यशुद्धो भवेत्पुमान् ।
ततः परं स्वसिद्ध्यर्थं जपो भवति हि द्विजाः ॥ २२॥
एवमष्टोत्तरशतकोटिजप्तेन वै पुनः ।
प्रणवेन प्रबुद्धस्तु शुद्धयोगमवाप्नुयात् ॥ २३॥
शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशयः ।
सदा जपन्सदा ध्यायञ्छिवं प्रणवरूपिणम् ॥ २४॥
समाधिस्थो महायोगी शिव एव न संशयः ।
ऋषिच्छन्दो देवतादि न्यस्य देहे पुनर्जपेत् ॥ २५॥
प्रणवं मातृकायुक्तं देहे न्यस्य ऋषिर्भवेत् ।
दशमातृषडध्वादि सर्वं न्यासफलं लभेत् ॥ २६॥
प्रवृत्तानां च मिश्राणां स्थूलप्रणवमिष्यते ।
क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ २७॥
धनादिविभवैश्चैव कराद्यङ्गैर्नमादिभिः ।
क्रियया पूजया युक्तः क्रियायोगीति कथ्यते ॥ २८॥
पूजायुक्तश्च मितभुग्बाह्येन्द्रियजयान्वितः ।
परद्रोहादिरहितस्तपोयोगीति कथ्यते ॥ २९॥
एतैर्युक्तः सदा शुद्धः सर्वकामादिवर्जितः ।
सदा जपपरः शान्तो जपयोगीति तं विदुः ॥ ३०॥
उपचारैः षोडशभिः पूजया शिवयोगिनाम् ।
सालोक्यादिक्रमेणैव शुद्धो मुक्तिं लभेन्नरः ॥ ३१॥
जपयोगमथो वक्ष्ये गदतः शृणुत द्विजाः ।
तपः कर्तुर्जपः प्रोक्तो यज्जपन्परिमार्जते ॥ ३२॥
शिवनाम नमःपूर्वं चतुर्थ्यां पञ्चतत्त्वकम् ।
स्थूलप्रणवरूपं हि शिवपञ्चाक्षरं द्विजाः ॥ ३३॥
पञ्चाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ।
प्रणवेनादिसंयुक्तं सदा पञ्चाक्षरं जपेत् ॥ ३४॥
गुरूपदेशं सङ्गम्य सुखवासे सुभूतले ।
पूर्वपक्षे समारभ्य कृष्णभूतावधि द्विजाः ॥ ३५॥
माघं भाद्रं विशिष्टं तु सर्वकालोत्तमोत्तमम् ।
एकवारं मिताशी तु वाग्यतो नियतेन्द्रियः ॥ ३६॥
स्वस्य राजपितृणां च नित्यं शुश्रूषणं चरेत् ।
सहस्रजपमात्रेण भवेच्छुद्धोऽन्यथा ऋणी ॥ ३७॥
पञ्चाक्षरं पञ्चलक्षं जपेच्छिवमनुस्मरन् ।
पद्मासनस्थं शिवदं गङ्गाचन्द्रकलान्वितम् ॥ ३८॥
वामोरुस्थितशक्त्या च विराजन्तं महागणैः ।
मृगटङ्कधरं देवं वरदाभयपाणिकम् ॥ ३९॥
सदानुग्रहकर्तारं सदाशिवमनुस्मरन् ।
सम्पूज्य मनसा पूर्वं हृदि वा सूर्यमण्डले ॥ ४०॥
जपेत्पञ्चाक्षरीं विद्यां प्राङ्मुखः शुद्धकर्मकृत् ।
प्रातः कृष्णचतुर्दश्यां नित्यकर्म समाप्य च ॥ ४१॥
मनोरमे शुचौ देशे नियतः शुद्धमानसः ।
पञ्चाक्षरस्य मन्त्रस्य सहस्रं द्वादशं जपेत् ॥ ४२॥
वरयेच्च सपत्नीकान् शैवान्वै ब्राह्मणोत्तमान् ।
एकं गुरुवरं शिष्टं वरयेत्साम्बमूर्तिकम् ॥ ४३॥
ईशानं चाथ पुरुषमघोरं वाममेव च ।
सद्योजातं च पञ्चैव शिवभक्तान्द्विजोत्तमान् ॥ ४४॥
पूजाद्रव्याणि सम्पाद्य शिवपूजां समारभेत् ।
शिवपूजां च विधिवत्कृत्वा होमं समारभेत् ॥ ४५॥
मुखान्तं च स्वसूत्रेण कृत्वा होमं समाचरेत् ।
दशैकं वा शतैकं वा सहस्रैकमथापि वा ॥ ४६॥
कापिलेन घृतेनैव जुहुयात्स्वयमेव हि ।
कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतं बुधः ॥ ४७॥
होमान्ते दक्षिणा देया गुरोर्गोमिथुनं तथा ।
ईशानादिस्वरूपांस्तान्गुरुं साम्बं विभाव्य च ॥ ४८॥
तेषां पत्सिक्ततोयेन स्वशिरः स्नानमाचरेत् ।
षट्त्रिंशत्कोटितीर्थेषु सद्यः स्नानफलं लभेत् ॥ ४९॥
दशाङ्गमन्नं तेषां वै दद्याद्वै भक्तिपूर्वकम् ।
पराबुद्ध्या गुरोः पत्नीमीशानादिक्रमेण तु ॥ ५०॥
परमान्नेन सम्पूज्य यथाविभवविस्तरम् ।
रुद्राक्षवस्त्रपूर्वं च वटकापूपकैर्युतम् ॥ ५१॥
बलिदानं ततः कृत्वा भूरि भोजनमाचरेत् ।
ततः सम्प्रार्थ्य देवेशं जपं तावत्समापयेत् ॥ ५२॥
पुरश्चरणमेवं तु कृत्वा मन्त्री भवेन्नरः ।
पुनश्च पञ्चलक्षेण सर्वपापक्षयो भवेत् ॥ ५३॥
अतलादि समारभ्य सत्यलोकावधि क्रमात् ।
पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ॥ ५४॥
मध्येमृतश्चेद्भोगान्ते भूमौ तज्जापको भवेत् ।
पुनश्च पञ्चलक्षेण ब्रह्मसामीप्यमाप्नुयात् ॥ ५५॥
पुनश्च पञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात् ।
आहत्य शतलक्षेण साक्षाद् ब्रह्मसमो भवेत् ॥ ५६॥
कार्यब्रह्मण एवं हि सायुज्यं प्रतिपद्य वै ।
यथेष्टं भोगमाप्नोति तद् ब्रह्म प्रलयावधि ॥ ५७॥
पुनः कल्पान्तरे वृत्ते ब्रह्मपुत्रः स जायते ।
पुनश्च तपसा दीप्तः क्रमान्मुक्तो भविष्यति ॥ ५८॥
पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिताः क्रमात् ।
पातालादि च सत्यान्तं ब्रह्मलोकाश्चतुर्दश ॥ ५९॥
सत्यादूर्ध्वं क्षमान्तं वै विष्णुलोकाश्चतुर्दश ।
क्षमालोके कार्यविष्णुर्वैकुण्ठे वरपत्तने ॥ ६०॥
कार्यलक्ष्म्या महाभोगी रक्षां कृत्वाधितिष्ठति ।
तदूर्ध्वगाश्च शुच्यन्ता लोकाष्टाविंशतिः स्थिताः ॥ ६१॥
शुचौ लोके तु कैलासे रुद्रो वै भूतहृत्स्थितः ।
षडुत्तराश्च पञ्चाशदहिंसान्तास्तदूर्ध्वगाः ॥ ६२॥
अहिंसालोकमास्थाय ज्ञानकैलासके पुरे ।
कार्येश्वरस्तिरोभावं सर्वान्कृत्वाधितिष्ठति ॥ ६३॥
तदन्ते कालचक्रं हि कालातीतस्ततः परम् ।
शिवेनाधिष्ठितस्तत्र कालश्चक्रेश्वराह्वयः ॥ ६४॥
माहिषं धर्ममास्थाय सर्वान्कालेन युञ्जति ।
असत्यश्चाशुचिश्चैव हिंसा चैवाथ निर्घृणा ॥ ६५॥
असत्यादिचतुष्पादः सर्वांशः कामरूपधृक् ।
नास्तिक्यलक्ष्मीर्दुःसङ्गो वेदबाह्यध्वनिः सदा ॥ ६६॥
क्रोधसङ्गः कृष्णवर्णो महामहिषवेषवान् ।
तावन्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि ॥ ६७॥
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् ।
तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ॥ ६८॥
मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते ।
मा लक्ष्मीर्ज्ञानभोगो वै याति मायेति कथ्यते ॥ ६९॥
तदूर्ध्वं नित्यभोगो हि तदर्वाङ् नश्वरं विदुः ।
तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् ॥ ७०॥
तदर्वाक् पाशबन्धो हि तदूर्ध्वं नहि बन्धनम् ।
तदर्वाक् परिवर्तन्ते काम्यकर्मानुसारिणः ॥ ७१॥
निष्कामकर्मभोगस्तु तदूर्ध्वं परिकीर्तितः ।
तदर्वाक् परिवर्तन्ते बिन्दुपूजापरायणाः ॥ ७२॥
तदूर्ध्वं हि व्रजन्त्येव निष्कामा लिङ्गपूजकाः ।
तदर्वाक् परिवर्तन्ते शिवान्यसुरपूजकाः ॥ ७३॥
शिवैकनिरता ये च तदूर्ध्वं सम्प्रयान्ति ते ।
तदर्वाग्जीवकोटिः स्यात्तदूर्ध्वं परकोटिकाः ॥ ७४॥
सांसारिकास्तदर्वाक् च मुक्ताः खलु तदूर्ध्वगाः ।
तदर्वाक् परिवर्तन्ते प्राकृतद्रव्यपूजकाः ॥ ७५॥
तदूर्ध्वं हि व्रजन्त्येते पौरुषद्रव्यपूजकाः ।
तदर्वाक्छक्तिलिङ्गं तु शिवलिङ्गं तदूर्ध्वकम् ॥ ७६॥
तदर्वागावृतं लिङ्गं तदूर्ध्वं हि निराकृति ।
तदर्वाक्कल्पितं लिङ्गं तदूर्ध्वं वै न कल्पितम् ॥ ७७॥
तदर्वाग्बाह्यलिङ्गं स्यादन्तरङ्गं तदूर्ध्वकम् ।
तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ॥ ७८॥
तदर्वाग्बिन्दुरूपं हि नादरूपं तदुत्तरम् ।
तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ॥ ७९॥
नमस्कारस्तदूर्ध्वं हि मदाहङ्कारनाशनः ।
जनं तस्मात् तिरोधानं प्रत्यायाति न ना यतः ॥ ८०॥
ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ।
तदर्वाक् परिवर्तन्ते ह्याधिभौतिकपूजकाः ॥ ८१॥
आध्यात्मिकार्चका एव तदूर्ध्वं सम्प्रयान्ति वै ।
तावद्वै वेदिभागं तन्महालोकात्मलिङ्गके ॥ ८२॥
प्रकृत्याद्यष्टबन्धोऽपि वेद्यते सम्प्रतिष्ठितः ।
एवमेतादृशं ज्ञेयं सर्वं लौकिकवैदिकम् ॥ ८३॥
अधर्ममहिषारूढं कालचक्रं तरन्ति ते ।
सत्यादिधर्मयुक्ता ये शिवपूजापराश्च ये ॥ ८४॥
तदूर्ध्वं वृषभो धर्मो ब्रह्मचर्यस्वरूपधृक् ।
सत्यादिपादयुक्तस्तु शिवलोकाग्रतः स्थितः ॥ ८५॥
क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः ।
आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ॥ ८६॥
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ।
तं क्रियावृषभं धर्मं कालातीतोऽधितिष्ठति ॥ ८७॥
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ।
तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ ८८॥
पुनः कारणसत्यान्ताः कारणब्रह्मणस्तथा ।
गन्धादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ॥ ८९॥
सूक्ष्मगन्धस्वरूपा हि स्थिता लोकाश्चतुर्दश ।
पुनः कारणविष्णोर्वै स्थिता लोकाश्चतुर्दश ॥ ९०॥
पुनः कारणरुद्रस्य लोकाष्टाविंशका मताः ।
पुनश्च कारणेशस्य षट्पञ्चाशत्तदूर्ध्वगाः ॥ ९१॥
ततः परं ब्रह्मचर्यलोकाख्यं शिवसम्मतम् ।
तत्रैव ज्ञानकैलासे पञ्चावरणसंयुते ॥ ९२॥
पञ्चमण्डलसंयुक्तं पञ्चब्रह्मकलान्वितम् ।
आदिशक्तिसमायुक्तमादिलिङ्गं तु तत्र वै ॥ ९३॥
शिवालयमिदं प्रोक्तं शिवस्य परमात्मनः ।
परशक्त्या समायुक्तस्तत्रैव परमेश्वरः ॥ ९४॥
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।
पञ्चकृत्यप्रवीणोऽसौ सच्चिदानन्दविग्रहः ॥ ९५॥
ध्यानधर्मः सदा यस्य सदानुग्रहतत्परः ।
समाध्यासनमासीनः स्वात्मारामो विराजते ॥ ९६॥
तस्य सन्दर्शनं साध्यं कर्मध्यानादिभिः क्रमात् ।
नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ ९७॥
क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत् ।
तद्दर्शनगताः सर्वे मुक्ता एव न संशयः ॥ ९८॥
मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि ।
क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ॥ ९९॥
शिवस्य दर्शनं लब्धवा स्वात्मारामत्वमेव हि ।
यथा रविः स्वकिरणादशुद्धिमपनेष्यति ॥ १००॥
कृपाविचक्षणः शम्भुरज्ञानमपनेष्यति ।
अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते ॥ १०१॥
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ।
आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः ॥ १०२॥
पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् ।
पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् ॥ १०३॥
पुनश्च शतलक्षेण रुद्रस्य पदमाप्नुयात् ।
पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ १०४॥
पुनश्चैवंविधेनैव जपेन सुसमाहितः ।
शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ॥ १०५॥
कालचक्रं पञ्चचक्रमेकैकेन क्रमोत्तरे ।
सृष्टिमोहौ ब्रह्मचक्रं भोगमोहौ तु वैष्णवम् ॥ १०६॥
कोपमोहौ रौद्रचक्रं भ्रमणं चैश्वरं विदुः ।
शिवचक्रं ज्ञानमोहौ पञ्चचक्रं विदुर्बुधाः ॥ १०७॥
पुनश्च दशकोट्या हि कारणब्रह्मणः पदम् ।
पुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात् ॥ १०८॥
एवं क्रमेण विष्ण्वादेः पदं लब्ध्वा महौजसः ।
क्रमेण तत्पदैश्वर्यं लब्ध्वा चैव महात्मनः ॥ १०९॥
शतकोटिमनुं जप्त्वा पञ्चोत्तरमतन्द्रितः ।
शिवलोकमवाप्नोति पञ्चमावरणाद् बहिः ॥ ११०॥
राजसं मण्डपं तत्र नन्दिसंस्थानमुत्तमम् ।
तपोरूपश्च वृषभस्तत्रैव परिदृश्यते ॥ १११॥
सद्योजातस्य तत्स्थानं पञ्चमावरणं परम् ।
वामदेवस्य च स्थानं चतुर्थावरणं पुनः ॥ ११२॥
अघोरनिलयं पश्चात् तृतीयावरणं परम् ।
पुरुषस्यैव साम्बस्य द्वितीयावरणं शुभम् ॥ ११३॥
ईशानस्य परस्यैव प्रथमावरणं ततः ।
ध्यानधर्मस्य च स्थानं पञ्चमं मण्डपं ततः ॥ ११४॥
बलिनाथस्य संस्थानं तत्र पूर्णामृतप्रदम् ।
चतुर्थं मण्डपं पश्चाच्चन्द्रशेखरमूर्तिमत् ॥ ११५॥
सोमस्कन्दस्य च स्थानं तृतीयं मण्डपं परम् ।
द्वितीयं मण्डपं नृत्यमण्डपं प्राहुरास्तिकाः ॥ ११६॥
प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् ।
तत परं गर्भगृहं लिङ्गस्थानं परं शुभम् ॥ ११७॥
नन्दिसंस्थानतः पश्चान्न विदुः शिववैभवम् ।
नन्दीश्वरो बहिस्तिष्ठन्पञ्चाक्षरमुपासते ॥ ११८॥
एवं गुरुक्रमाल्लब्धं नन्दीशाच्च मया पुनः ।
ततः परं स्वसंवेद्यं शिवेनैवानुभावितम् ॥ ११९॥
शिवस्य कृपया साक्षाच्छिवलोकस्य वैभवम् ।
विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः ॥ १२०॥
एवं क्रमेण मुक्ताः स्युर्ब्राह्मणा वै जितेन्द्रियाः ।
अन्येषां च क्रमं वक्ष्ये गदतः शृणुतादरात् ॥ १२१॥
गुरूपदेशाज्जाप्यं वै ब्राह्मणानां नमोऽन्तकम् ।
पञ्चाक्षरं पञ्चलक्षमायुष्यं प्रजपेद्विधिः ॥ १२२॥
स्त्रीत्वापनयनार्थं तु पञ्चलक्षं जपेत्पुनः ।
मन्त्रेण पुरुषो भूत्वा क्रमान्मुक्तो भवेद् बुधः ॥ १२३॥
क्षत्रियः पञ्चलक्षेण क्षत्रत्वमपनेष्यति ।
पुनश्च पञ्चलक्षेण क्षत्रियो ब्राह्मणो भवेत् ॥ १२४॥
मन्त्रसिद्धिर्जपाच्चैव क्रमान्मुक्तो भवेन्नरः ।
वैश्यस्तु पञ्चलक्षेण वैश्यत्वमपनेष्यति ॥ १२५॥
पुनश्च पञ्चलक्षेण मन्त्रक्षत्रिय उच्यते ।
पुनश्च पञ्चलक्षेण क्षत्रत्वमपनेष्यति ॥ १२६॥
पुनश्च पञ्चलक्षेण मन्त्रब्राह्मण उच्यते ।
शूद्रश्चैव नमोऽन्तेन पञ्चविंशतिलक्षतः ॥ १२७॥
मन्त्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद् द्विजः ।
नारी वाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ १२८॥
नमोऽन्तं वा नमः पूर्वमातुरः सर्वदा जपेत् ।
तत्र स्त्रीणां तथैवोह्य गुरुर्निर्दर्शयेत्क्रमात् ॥ १२९॥
साधकः पञ्चलक्षान्ते शिवप्रीत्यर्थमेव हि ।
महाभिषेकनैवेद्यं कृत्वा भक्तांश्च पूजयेत् ॥ १३०॥
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ।
शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ १३१॥
शिवस्वरूपमन्त्रस्य धारणाच्छिव एव हि ।
शिवभक्तशरीरे हि शिवे तत्परमो भवेत् ॥ १३२॥
शिवभक्ताः क्रियाः सर्वा वेद सर्वक्रियां विदुः ।
यावद्यावच्छिवं मन्त्रं येन जप्तं भवेत्क्रमात् ॥ १३३॥
तावद्वै शिवसान्निध्यं तस्मिन्देहे न संशयः ।
देवीलिङ्गं भवेद् रूपं शिवभक्तस्त्रियास्तथा ॥ १३४॥
यावन्मन्त्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ।
शिवं सम्पूजयेद्धीमान्स्वयं वै शब्दरूपभाक् ॥ १३५॥
स्वयं चैव शिवो भूत्वा परां शक्तिं प्रपूजयेत् ।
शक्तिं वेरं च लिङ्गं च ह्यालेख्यामायया यजेत् ॥ १३६॥
शिवलिङ्गं शिवं मत्वा स्वात्मानं शक्तिरूपकम् ।
शक्तिलिङ्गं च देवीं च मत्वा स्वं शिवरूपकम् ॥ १३७॥
शिवलिङ्गं नादरूपं बिन्दुरूपं सशक्तिकम् ।
उपप्रधानभावेन अन्योन्यासक्तलिङ्गकम् ॥ १३८॥
पूजयेच्च शिवं शक्तिं स शिवो मूलभावनात् ।
शिवभक्ताञ्छिवमन्त्ररूपकाञ्छिवरूपकान् ॥ १३९॥
षोडशैरुपचारैश्च पूजयेदिष्टमाप्नुयात् ।
येन शुश्रूषणाद्यैश्च शिवभक्तस्य लिङ्गिनः ॥ १४०॥
आनन्दं जनयेद्विद्वाञ्छिवः प्रीततरो भवेत् ।
शिवभक्तान्सपत्नीकान्पत्न्या सह सदैव तत् ॥ १४१॥
पूजयेद्भोजनाद्यैश्च पञ्च वा दश वा शतम् ।
धने देहे च मन्त्रे च भावनायामवञ्चकः ॥ १४२॥
शिवशक्तिस्वरूपेण न पुनर्जायते भुवि ।
नाभेरधो ब्रह्मभागमाकण्ठं विष्णुभागकम् ॥ १४३॥
मुखं लिङ्गमिति प्रोक्तं शिवभक्तशरीरकम् ।
मृतान्दाहादियुक्तान्वा दाहादिरहितान्मृतान् ॥ १४४॥
उद्दिश्य पूजयेदादिपितरं शिवमेव हि ।
पूजां कृत्वादिमातुश्च शिवभक्तांश्च पूजयेत् ॥ १४५॥
पितृलोकं समासाद्य क्रमान्मुक्तो भवेन्मृतः ।
क्रियायुक्तदशभ्यश्च तपोयुक्तो विशिष्यते ॥ १४६॥
तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते ।
जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ॥ १४७॥
शिवज्ञानिषु लक्षेषु ध्यानयुक्तो विशिष्यते ।
ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ॥ १४८॥
उत्तरोत्तरवैशिष्ट्यात्पूजायामुत्तरोत्तरम् ।
फलं वैशिष्ट्यरूपं च दुर्विज्ञेयं मनीषिभिः ॥ १४९॥
तस्माद्वै शिवभक्तस्य माहात्म्यं वेत्ति को नरः ।
शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् ॥ १५०॥
कुरुते यो नरो भक्त्या स शिवः शिवमेधते ।
य इमं पठतेऽध्यायमर्थवद्वेदसम्मतम् ॥ १५१॥
शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते ।
श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः ॥ १५२॥
शिवप्रसादसिद्धिः स्याच्छिवस्य कृपया बुधाः ॥ १५३॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां प्रणवपञ्चाक्षरमन्त्रमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ १.१७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.१८. अष्टादशोऽध्यायः । बन्धमोक्षस्वरूपं शिवलिङ्गमाहात्म्यं च ।
ऋषय ऊचुः ।
बन्धमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ।
सूत उवाच ।
बन्धं मोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात् ॥ १॥
प्रकृत्याद्यष्टबन्धेन बद्धो जीवः स उच्यते ।
प्रकृत्याद्यष्टबन्धेन निर्मुक्तो मुक्त उच्यते ॥ २॥
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ।
बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥ ३॥
प्रकृत्यग्रे ततो बुद्धिरहङ्कारो गुणात्मकः ।
पञ्चतन्मात्रमित्येतत्प्रकृत्याद्यष्टकं विदुः ॥ ४॥
प्रकृत्याद्यष्टजो देहो देहजं कर्म उच्यते ।
पुनश्च कर्मजो देहो जन्म कर्म पुनः पुनः ॥ ५॥
शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम् ।
स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिन्द्रियभोगदम् ॥ ६॥
कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः ।
सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ ७॥
तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ।
शरीरत्रयकर्मभ्यां चक्रवद् भ्राम्यते सदा ॥ ८॥
चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ।
प्रकृत्यादिमहाचक्रं प्रकृतेः परतः शिवः ॥ ९॥
चक्रकर्ता महेशो हि प्रकृतेः परतो यतः ।
पिबति वाथ वमति जीवाबालो जलं यथा ॥ १०॥
शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ।
सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः ।
शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ ११॥
सर्वज्ञता तृप्तिरनादिबोधः
स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च महेश्वरस्य
यन्मानसैश्वर्यमवैति वेदः ॥ १२॥
अतः शिवप्रसादेन प्रकृत्यादि वशं भवेत् ।
शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् ॥ १३॥
निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् ।
शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥ १४॥
लिङ्गे वेरे भक्तजने शिवमुद्दिश्य पूजयेत् ।
कायेन मनसा वाचा धनेनापि प्रपूजयेत् ॥ १५॥
पूजया तु महेशो हि प्रकृतेः परमः शिवः ।
प्रसादं कुरुते सत्यं पूजकस्य विशेषतः ॥ १६॥
शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत् ।
कर्मारभ्य प्रकृत्यन्तं यदा सर्वं वशं भवेत् ॥ १७॥
तदा मुक्त इति प्रोक्तः स्वात्मारामो विराजते ।
प्रसादात्परमेशस्य कर्मदेहो यदा वशः ॥ १८॥
तदा वै शिवलोके तु वासः सालोक्यमुच्यते ।
सामीप्यं याति साम्बस्य तन्मात्रे च वशं गते ॥ १९॥
तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिः ।
महाप्रसादलाभे च बुद्धिश्चापि वशा भवेत् ॥ २०॥
बुद्धिस्तु कार्यं प्रकृतेस्तत्सार्ष्टिरिति कथ्यते ।
पुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति ॥ २१॥
शिवस्य मानसैश्वर्यं तदाऽयत्नं भविष्यति ।
सार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते ॥ २२॥
तत्सायुज्यमिति प्राहुर्वेदागमपरायणाः ।
एवं क्रमेण मुक्तिः स्याल्लिङ्गादौ पूजया स्वतः ॥ २३॥
अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम् ।
शिवक्रिया शिवतपः शिवमन्त्रजपः सदा ॥ २४॥
शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत् ।
आसुप्तेरामृतेः कालं नयेद्वै शिवचिन्तया ॥ २५॥
सद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यति ॥
ऋषय ऊचुः ।
लिङ्गादौ शिवपूजाया विधानं ब्रूहि सुव्रत ॥ २६॥
सूत उवाच ।
लिङ्गानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाः ।
तदेव लिङ्गं प्रथमं प्रणवं सार्वकामिकम् ॥ २७॥
सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्कलम् ।
स्थूललिङ्गं हि सकलं तत्पञ्चाक्षरमुच्यते ॥ २८॥
तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभे ।
पौरुषप्रकृतिभूतानि लिङ्गानि सुबहूनि च ॥ २९॥
तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरः ।
भूविकाराणि लिङ्गानि ज्ञातानि प्रब्रवीमि वः ॥ ३०॥
स्वयम्भूलिङ्गं प्रथमं बिन्दुलिङ्गं द्वितीयकम् ।
प्रतिष्ठितं चरं चैव गुरुलिङ्गं तु पञ्चमम् ॥ ३१॥
देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वै ।
पृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः ॥ ३२॥
स्थावराङ्कुरवद्भूमिमुद्भिद्य व्यक्त एव सः ।
स्वयम्भूतं जातमिति स्वयम्भूरिति तं विदुः ॥ ३३॥
तल्लिङ्गपूजया ज्ञानं स्वयमेव प्रवर्धते ।
सुवर्णरजतादौ वा पृथिव्यां स्थण्डिलेऽपि वा ॥ ३४॥
स्वहस्ताल्लिखितं लिङ्गं शुद्धप्रणवमन्त्रकम् ।
यन्त्रलिङ्गं समालिख्य प्रतिष्ठावाहनं चरेत् ॥ ३५॥
बिन्दुनादमयं लिङ्गं स्थावरं जङ्गमं च यत् ।
भावनामयमेतद्धि शिवदृष्टं न संशयः ॥ ३६॥
यत्र विश्वस्यते शम्भुस्तत्र तस्मै फलप्रदः ।
स्वहस्ताल्लिखिते यन्त्रे स्थावरादावकृत्रिमे ॥ ३७॥
आवाह्य पूजयेच्छम्भुं षोडशैरुपचारकैः ।
स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत् ॥ ३८॥
देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि ।
समन्त्रेणात्महस्तेन कृतं यच्छुद्धमण्डले ॥ ३९॥
शुद्धभावनया चैव स्थापितं लिङ्गमुत्तम् ।
तल्लिङ्गं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥ ४०॥
तल्लिङ्गपूजया नित्यं पौरुषैश्वर्यमाप्नुयात् ।
महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ॥ ४१॥
शिल्पिना कल्पितं लिङ्गं मन्त्रेण स्थापितं च यत् ।
प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ॥ ४२॥
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते ।
यद् दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥ ४३॥
लिङ्गं नाभिस्तथा जिह्वा नासाग्रं च शिखा क्रमात् ।
कट्यादिषु त्रिलोकेषु लिङ्गमाध्यात्मिकं चरम् ॥ ४४॥
पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः ।
वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥ ४५॥
षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ।
ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥ ४६॥
सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ।
प्रथमं चरलिङ्गेषु रसलिङ्गं प्रकथ्यते ॥ ४७॥
रसलिङ्गं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत् ।
बाणलिङ्गं क्षत्रियाणां महाराज्यप्रदं शुभम् ॥ ४८॥
स्वर्णलिङ्गं तु वैश्यानां महाधनपतित्वदम् ।
शिलालिङ्गं तु शूद्राणां महाशुद्धिकरं शुभम् ॥ ४९॥
स्फाटिकं बाणलिङ्गं च सर्वेषां सर्वकामदम् ।
स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते ॥ ५०॥
स्त्रीणां तु पार्थिवं लिङ्गं सभर्तृणां विशेषतः ।
विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम् ॥ ५१॥
विधवानां निवृत्तानां रसलिङ्गं विशिष्यते ।
बाल्ये वा यौवने वापि वार्धके वापि सुव्रताः ॥ ५२॥
शुद्धस्फटिकलिङ्गं तु स्त्रीणां तत्सर्वभोगदम् ।
प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि ॥ ५३॥
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् ।
नैवेद्यं चाभिषेकान्ते शाल्यन्नेन समाचरेत् ॥ ५४॥
पूजान्ते स्थापयेल्लिङ्गं सम्पुटेषु पृथग्गृहे ।
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ॥ ५५॥
निवृत्तानां परं सूक्ष्मं लिङ्गमेव विशिष्यते ।
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ ५६॥
पूजां कृत्वाथ तल्लिङ्गं शिरसा धारयेत्सदा ।
विभूतिस्त्रिविधा प्रोक्ता लोकवेदशिवाग्निभिः ॥ ५७॥
लोकाग्निजमथो भस्म द्रव्यशुद्ध्यर्थमावहेत् ।
मृद्दारुलोहरूपाणां धान्यानां च तथैव च ॥ ५८॥
तिलादीनां च द्रव्याणां वस्त्रादीनां तथैव च ।
तथा पर्युषितानां च भस्मना शुद्धिरिष्यते ॥ ५९॥
श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यते ।
सजलं निर्जलं भस्म यथायोग्यं तु योजयेत् ॥ ६०॥
वेदाग्निजं तथा भस्म तत्कर्मान्तेषु धारयेत् ।
मन्त्रेण क्रियया जन्यं कर्माग्नौ भस्मरूपधृक् ॥ ६१॥
तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ।
अघोरेणात्ममन्त्रेण बिल्वकाष्ठं प्रदाहयेत् ॥ ६२॥
शिवाग्निरिति सम्प्रोक्तस्तेन दग्धं शिवाग्निजम् ।
कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥ ६३॥
शम्यश्वत्थपलाशान्वा वटारग्वधबिल्वकान् ।
शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम् ॥ ६४॥
दर्भाग्नौ वा दहेत्काष्ठं शिवमन्त्रं समुच्चरन् ।
सम्यक्संशोध्य वस्त्रेण नवकुम्भे निधापयेत् ॥ ६५॥
दीप्त्यर्थं तत्तु सङ्ग्राह्यं मन्यते पूज्यतेऽपि च ।
भस्मशब्दार्थ एवं हि शिवः पूर्वं तथाकरोत् ॥ ६६॥
यथा स्वविषये राजा सारं गृह्णाति यत्करम् ।
यथा मनुष्याःसस्यादीन्दग्ध्वा सारं भजन्ति वै ॥ ६७॥
यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून् ।
दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति ॥ ६८॥
तथा प्रपञ्चकर्तापि स शिवः परमेश्वरः ।
स्वाधिष्ठेयप्रपञ्चस्य दग्ध्वा सारं गृहीतवान् ॥ ६९॥
दग्ध्वा प्रपञ्चं तद्भस्म स्वात्मन्यारोपयेच्छिवः ।
उद्धूलनस्य व्याजेन जगत्सारं गृहीतवान् ॥ ७०॥
स्वरत्नं स्थापयामास स्वकीये हि शरीरके ।
केशमाकाशसारेण वायुसारेण वै मुखम् ॥ ७१॥
हृदयं चाग्निसारेण त्वपां सारेण वै कटिम् ।
जानु चावनिसारेण तद्वत्सर्वं तदङ्गकम् ॥ ७२॥
ब्रह्मविष्ण्वोश्च रुद्राणां सारं चैव त्रिपुण्ड्रकम् ।
तथा तिलकरूपेण ललाटान्ते महेश्वरः ॥ ७३॥
भूवृद्धया सर्वमेतद्धि मन्यते स्वयमित्यसौ ।
प्रपञ्चसारसर्वस्वमनेनैव वशीकृतम् ॥ ७४॥
तस्मादस्य वशीकर्ता नान्योऽस्ति स शिवः स्मृतः ।
यथा सर्वमृगाणां च हिंसको मृगहिंसकः ॥ ७५॥
अस्य हिंसामृगो नास्ति तस्मात्सिंह इतीरितः ।
शं नित्यं सुखमानन्दमिकारः पुरुषः स्मृतः ॥ ७६॥
वकारः शक्तिरमृतं मेलनं शिव उच्यते ।
तस्मादेवं स्वमात्मानं शिवं कृत्वार्चयेच्छिवम् ॥ ७७॥
तस्मादुद्धूलनं पूर्वं त्रिपुण्ड्रं धारयेत्परम् ।
पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत् ॥ ७८॥
दिवा वा यदि वा रात्रौ नारी वाथ नरोऽपि वा ।
पूजार्थं सजलं भस्म त्रिपुण्ड्रेणैव धारयेत् ॥ ७९॥
त्रिपुण्ड्रं सजलं भस्म धृत्वा पूजां करोति यः ।
शिवपूजाफलं साङ्गं तस्यैव हि सुनिश्चितम् ॥ ८०॥
भस्म वै शिवमन्त्रेण धृत्वा ह्युच्चाश्रमी भवेत् ।
शिवाश्रमीति सम्प्रोक्तः शिवैकपरमो यतः ॥ ८१॥
शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम् ।
ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा ॥ ८२॥
स्वहस्ताद् गुरुहस्ताद्वा शिवभक्तस्य लक्षणम् ।
गुणान्रुन्ध इति प्रोक्तो गुरुशब्दस्य विग्रहः ॥ ८३॥
सविकारान्राजसादीन्गुणान्रुन्धे व्यपोहति ।
गुणातीतः परशिवो गुरुरूपं समाश्रितः ॥ ८४॥
गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः ।
विश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते ॥ ८५॥
तस्माद् गुरुशरीरं तु गुरुलिङ्गं भवेद् बुधः ।
गुरुलिङ्गस्य पूजा तु गुरुशुश्रूषणं भवेत् ॥ ८६॥
श्रुतं करोति शुश्रूषा कायेन मनसा गिरा ।
उक्तं यद् गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा ॥ ८७॥
करोत्येव हि पूतात्मा प्राणैरपि धनैरपि ।
तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ॥ ८८॥
शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकः ।
अग्रपाकं निवेद्याग्रे भुञ्जीयाद् गुर्वनुज्ञया ॥ ८९॥
शिष्यःपुत्र इति प्रोक्तः सदा शिष्यत्वयोगतः ।
जिह्वालिङ्गान्मन्त्रशुक्रं कर्णयोनौ निषिच्य वै ॥ ९०॥
जातः पुत्रो मन्त्रपुत्रः पितरं पूजयेद् गुरुम् ।
निमज्जयति पुत्रं वै संसारे जनकः पिता ॥ ९१॥
सन्तारयति संसाराद् गुरुर्वै बोधकः पिता ।
उभयोरन्तरं ज्ञात्वा पितरं गुरुमर्चयेत् ॥ ९२॥
अङ्गशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम् ।
पादादिकेशपर्यन्तं लिङ्गान्यङ्गानि यद्गुरोः ॥ ९३॥
धनरूपैः पादुकाद्यैः पादसङ्ग्रणादिभिः ।
स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ॥ ९४॥
गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः ।
गुरुसेवा तु यत्सर्वमात्मशुद्धिकरी भवेत् ॥ ९५॥
गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम् ।
शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद् द्विजाः ॥ ९६॥
गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत् ।
गुरोरपि विशेषज्ञं यत्नाद् गृह्णीत वै गुरुम् ॥ ९७॥
अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः ।
आदौ च विघ्नशमनं कर्तव्यं कर्मपूर्तये ॥ ९८॥
निर्विघ्नेन कृतं साङ्गं कर्म वै सफलं भवेत् ।
तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः ॥ ९९॥
सर्वबाधानिवृत्त्यर्थं सर्वान्देवान् यजेद् बुधः ।
ज्वरादिग्रन्थिरोगाश्च बाधा ह्याध्यात्मिकी मता ॥ १००॥
पिशाचजम्बुकादीनां वल्मीकाद्युद्भवे तथा ।
अकस्मादेव गोधादिजन्तूनां पतनेऽपि च ॥ १०१॥
गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेऽपि च ।
वृक्षनारीगवादीनां प्रसूतिविषयेऽपि च ॥ १०२॥
भाविदुःखं समायाति तस्मात्ते भौतिका मताः ।
अमेध्याशनिपातश्च महामारी तथैव च ॥ १०३॥
ज्वरमारी विषूचिश्च गोमारी च मसूरिका ।
जन्मर्क्षग्रहसङ्क्रान्तिग्रहयोगाः स्वराशिके ॥ १०४॥
दुःस्वप्नदर्शनाद्याश्च मता वै ह्याधिदैविकाः ।
शवचाण्डालपतितस्पर्शादन्तर्गृहे गते ॥ १०५॥
एतादृशे समुत्पन्ने भाविदुःखस्य सूचके ।
शान्तियज्ञं तु मतिमान्कुर्यात्तद्दोषशान्तये ॥ १०६॥
देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहाङ्गणे ।
प्रदेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलङ्कृते ॥ १०७॥
भारमात्रं व्रीहिधान्यं प्रस्थाप्य परिसृत्य च ।
मध्ये विलिख्य कमलं तथा दिक्षु विलिख्य वै ॥ १०८॥
तन्तुना वेष्टितं कुम्भं नवगुग्गुलधूपितम् ।
मध्ये स्थाप्य महाकुम्भं तथा दिक्ष्वपि विन्यसेत् ॥ १०९॥
सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ।
पूरयेन्मन्त्रपूतेन पञ्चद्रव्ययुतेन हि ॥ ११०॥
प्रक्षिपेन्नवरत्नानि नीलादीन्क्रमशस्तथा ।
कर्मज्ञं च सपत्नीकमाचार्यं वरयेद् बुधः ॥ १११॥
सुवर्णप्रतिमां विष्णोरिन्द्रादीनां च निक्षिपेत् ।
सशिरस्के मध्यकुम्भे विष्णुमावाह्य पूजयेत् ॥ ११२॥
प्रागादिषु यथामन्त्रमिन्द्रादीन्क्रमशो यजेत् ।
तत्तन्नाम्ना चतुर्थ्या च नमोऽन्तेन यथाक्रमम् ॥ ११३॥
आवाहनादिकं सर्वमाचार्येणैव कारयेत् ।
आचार्यऋत्विजैः सार्धं तन्मत्रान्प्रजपेच्छतम् ॥ ११४॥
कुम्भस्य पश्चिमे भागे जपान्ते होममाचरेत् ।
कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः ॥ ११५॥
एकाहं वा नवाहं वा तथा मण्डलमेव वा ।
यथायोग्यं प्रकुर्वीत कालदेशानुसारतः ॥ ११६॥
शमीहोमश्च शान्त्यर्थे वृत्त्यर्थे च पलाशकम् ।
समिदन्नाज्यकैर्द्रव्यैर्नाम्ना मन्त्रेण वा हुनेत् ॥ ११७॥
प्रारम्भे यत्कृतं द्रव्यं तत्क्रियान्तं समाचरेत् ।
पुण्याहं वाचयित्वान्ते दिने सम्प्रोक्ष्येज्जलैः ॥ ११८॥
ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसङ्ख्यया ।
आचार्यश्च हविष्याशी ऋत्विजश्च भवेद् बुधाः ॥ ११९॥
आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमान्त एव हि ।
ऋत्विग्भ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम् ॥ १२०॥
दशदानं ततः कुर्याद् भूरिदानं ततः परम् ।
बालानामुपनीतानां गृहिणां वनिनां धनम् ॥ १२१॥
कन्यानां च सभर्तृणां विधवानां ततः परम् ।
तन्त्रोपकरणं सर्वमाचार्याय निवेदयेत् ॥ १२२॥
उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतः ।
तस्माद्यमस्य प्रीत्यर्थं कालदानं प्रदापयेत् ॥ १२३॥
शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ।
पाशाङ्कुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥ १२४॥
तत्स्वर्णप्रतिमादानं कुर्याद्दक्षिणया सह ।
तिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये ॥ १२५॥
आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तये ।
सहस्रं भोजयेद्विप्रान्दरिद्रः शतमेव वा ॥ १२६॥
वित्ताभावे दरिद्रस्तु यथाशक्ति समाचरेत् ।
भैरवस्य महापूजां कुर्याद्भूतादिशान्तये ॥ १२७॥
महाभिषेकं नैवेद्यं शिवस्यान्ते तु कारयेत् ।
ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥ १२८॥
एवं कृतेन यज्ञेन दोषशान्तिमवाप्नुयात् ।
शान्तियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने ॥ १२९॥
दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत् ।
महापापादिसम्प्राप्तौ कुर्याद्भैरवपूजनम् ॥ १३०॥
महाव्याधिसमुत्पत्तौ सङ्कल्पं पुनराचरेत् ।
सर्वाभावे दरिद्रस्तु दीपदानमथाचरेत् ॥ १३१॥
तदप्यशक्तः स्नात्वा वै यत्किञ्चिद् दानमाचरेत् ।
दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम् ॥ १३२॥
सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः ।
नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥ १३३॥
त्वत्स्वरूपेऽर्पिता बुद्धिर्न तेऽशून्ये च रोचते ।
या चास्त्यस्मदहन्तेति त्वयि दृष्टे विवर्जिता ॥ १३४॥
नम्रोऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभो ।
न शून्यो मत्स्वरूपो वै तव दासोऽस्मि साम्प्रतम् ॥ १३५॥
यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत् ।
अथात्र शिवनैवेद्यं दत्त्वा ताम्बूलमाहरेत् ॥ १३६॥
शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम् ।
सहस्रमयुतं लक्षं कोटिमन्येन कारयेत् ॥ १३७॥
शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात् ।
दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् ॥ १३८॥
धर्मेणैव हि पापानामपनोदनमीरितम् ।
शिवोद्देशकृतो धर्मः क्षमः पापविनोदने ॥ १३९॥
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ।
क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् ॥ १४०॥
जननं मरणं द्वन्द्वं मायाचक्रमितीरितम् ।
शिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ॥ १४१॥
बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ।
पदे पदान्तरं गत्वा बलिपीठं समाविशेत् ॥ १४२॥
नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ।
निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥ १४३॥
जननं मरणं द्वन्द्वं शिवमायासमर्पितम् ।
शिवमायार्पितद्वन्द्वो न पुनस्त्वात्मभाग्भवेत् ॥ १४४॥
यावद्देहं क्रियाधीनः स जीवो बद्ध उच्यते ।
देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः ॥ १४५॥
मायाचक्रप्रणेता हि शिवः परमकारणम् ।
शिवमायार्पितद्वन्द्वं शिवस्तु परिमार्जति ॥ १४६॥
शिवेन कल्पितं द्वन्द्वं तस्मिन्नेव समर्पयेत् ।
शिवस्यातिप्रियं विद्यात्प्रदक्षिणनमो बुधाः ॥ १४७॥
प्रदक्षिणनमस्काराः शिवस्य परमात्मनः ।
षोडशैरुपचारैश्च कृता पूजा फलप्रदा ॥ १४८॥
प्रदक्षिणाऽविनाश्यं हि पातकं नास्ति भूतले ।
तस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत् ॥ १४९॥
शिवपूजापरो मौनी सत्यादिगुणसंयुतः ।
क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥ १५०॥
ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसङ्क्षयः ।
शिवसान्निध्यमित्येतत्क्रियादीनां फलं भवेत् ॥ १५१॥
करणेन फलं याति तमसः परिहापनात् ।
जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानिव ॥ १५२॥
यथादेशं यथाकालं यथादेहं यथाधनम् ।
यथायोग्यं प्रकुर्वीत क्रियादीन् शिवभक्तिमान् ॥ १५३॥
न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थले ।
जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥ १५४॥
पञ्चाक्षरेण जप्तं च तोयमन्नं विदुः सुखम् ।
अथवाहुर्दरिद्रस्य भिक्षान्नं ज्ञानदं भवेत् ॥ १५५॥
शिवभक्तस्य भिक्षान्नं शिवभक्तिविवर्धनम् ।
शम्भुसत्रमिति प्राहुर्भिक्षान्नं शिवयोगिनः ॥ १५६॥
येन केनाप्युपायेन यत्र कुत्रापि भूतले ।
शुद्धान्नभुक्सदा मौनी रहस्यं न प्रकाशयेत् ॥ १५७॥
प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हि ।
रहस्यं शिवमन्त्रस्य शिवो जानाति नापरः ॥ १५८॥
शिवभक्तो वसेन्नित्यं शिवलिङ्गं समाश्रितः ।
स्थाणुलिङ्गाश्रयेणैव स्थाणुर्भवति भूसुराः ॥ १५९॥
पूजया चरलिङ्गस्य क्रमान्मुक्तो भवेद् ध्रुवम् ।
सर्वमुक्तं समासेन साध्यसाधनमुत्तमम् ॥ १६०॥
व्यासेन यत्पुरा प्रोक्तं यच्छ्रुतं हि मया पुरा ।
भद्रमस्तु हि वोऽस्माकं शिवभक्तिर्दृढास्तु सा ॥ १६१॥
य इमं पठतेऽध्यायं यः शृणोति नरः सदा ।
शिवज्ञानं स लभते शिवस्य कृपया बुधाः ॥ १६२॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवलिङ्गमाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ॥ १.१८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.१९. एकोनविंशोऽध्यायः । पार्थिवपूजनमाहात्म्यं भस्मप्रकाराभिधानं च ।
ऋषय ऊचुः ।
सूत सूत चिरञ्जीव धन्यस्त्वं शिवभक्तिमान् ।
सम्यगुक्तस्त्वया लिङ्गमहिमा सत्फलप्रदः ॥ १॥
यत्र पार्थिवमाहेशलिङ्गस्य महिमाधुना ।
सर्वोत्कृष्टश्च कथितो व्यासतो ब्रूहि तं पुनः ॥ २॥
सूत उवाच ।
शृणुध्वमृषयः सर्वे सद्भक्त्यादरतोऽखिलाः ।
शिवपार्थिवलिङ्गस्य महिमा प्रोच्यते मया ॥ ३॥
उक्तेष्वेतेषु लिङ्गेषु पार्थिवं लिङ्गमुत्तमम् ।
तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ॥ ४॥
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ।
सम्पूज्य पार्थिवं लिङ्गं प्रापुः सर्वेप्सितं द्विजाः ॥ ५॥
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः ।
अन्येऽपि बहवः सिद्धिं तं सम्पूज्य गताः पराम् ॥ ६॥
कृते रत्नमयं लिङ्गं त्रेतायां हेमसम्भवम् ।
द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ॥ ७॥
अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा ।
अनन्यपूजिता विप्रास्तपस्तस्मान्महत्फलम् ॥ ८॥
यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठः महेश्वरः ।
एवं सर्वेषु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ॥ ९॥
यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ।
तथा सर्वेषु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १०॥
यथा सर्वेषु मन्त्रेषु प्रणवो हि महान्स्मृतः ।
तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि ॥ ११॥
यथा सर्वेषु वर्णेषु ब्राह्मणः श्रेष्ठ उच्यते ।
तथा सर्वेषु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १२॥
यथा पुरीषु सर्वासु काशी श्रेष्ठतमा स्मृता ।
तथा सर्वेषु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १३॥
यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् ।
तथा सर्वेषु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १४॥
यथा देवीषु सर्वासु शैवी शक्तिः परा स्मृता ।
तथा सर्वेषु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १५॥
प्रकृत्य पार्थिवं लिङ्गं योऽन्यदेवं प्रपूजयेत् ।
वृथा भवति सा पूजा स्नानदानादिकं वृथा ॥ १६॥
पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम् ।
तुष्टिदं पुष्टिदं श्रीदं कार्यं साधकसत्तमैः ॥ १७॥
यथालब्धोपचारैश्च भक्तिश्रद्धासमन्वितः ।
पूजयेत्पार्थिवं लिङ्गं सर्वकामार्थसिद्धिदम् ॥ १८॥
यः कृत्वा पार्थिवं लिङ्गं पूजयेच्छुभवेदिकम् ।
इहैव धनवाञ्छ्रीमानन्ते रुद्रोऽभिजायते ॥ १९॥
त्रिसन्ध्यं योऽर्चयंल्लिङ्गं कृत्वा बिल्वेन पार्थिवम् ।
दशैकादशकं यावत्तस्य पुण्यफलं शृणु ॥ २०॥
अनेनैव स्वदेहेन रुद्रलोके महीयते ।
पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ २१॥
जीवन्मुक्तः स वै ज्ञानी शिव एव न संशयः ।
तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते ॥ २२॥
शिवं यः पूजयेन्नित्यं कृत्वा लिङ्गं तु पार्थिवम् ।
यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ २३॥
मृडेनाप्रमितान्वर्षाञ्छिवलोके हि तिष्ठति ।
सकामः पुनरागत्य राजेन्द्रो भारते भवेत् ॥ २४॥
निष्कामः पूजयेन्नित्यं पार्थिवं लिङ्गमुत्तमम् ।
शिवलोके सदा तिष्ठेत्तस्य सायुज्यमाप्नुयात् ॥ २५॥
पार्थिवं शिवलिङ्गं च विप्रो यदि न पूजयेत् ।
स याति नरकं घोरं शूलप्रोतं सुदारुणम् ॥ २६॥
यथाकथञ्चिद्विधिना रम्यं लिङ्गं प्रकारयेत् ।
पञ्चसूत्रविधानं च पार्थिवे न विचारयेत् ॥ २७॥
अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत् ।
विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् ॥ २८॥
रत्नजं हेमजं लिङ्गं पारदं स्फाटिकं तथा ।
पार्थिवं पुष्परागोत्थमखण्डं तु प्रकारयेत् ॥ २९॥
अखण्डं तु चरं लिङ्गं द्विखण्डमचरं स्मृतम् ।
खण्डाखण्डविचारोऽयं सचराचरयोः स्मृतः ॥ ३०॥
वेदिका तु महाविद्या लिङ्गं देवो महेश्वरः ।
अतो हि स्थावरे लिङ्गे स्मृता श्रेष्ठा द्विखण्डता ॥ ३१॥
द्विखण्डं स्थावरं लिङ्गं कर्तव्यं हि विधानतः ।
अखण्डं जङ्गमं प्रोक्तं शैवसिद्धान्तवेदिभिः ॥ ३२॥
द्विखण्डं तु चरं लिङ्गं कुर्वन्त्यज्ञानमोहिताः ।
नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥ ३३॥
अखण्डं स्थावरं लिङ्गं द्विखण्डं चरमेव च ।
ये कुर्वन्ति नरा मूढा न पूजाफलभागिनः ॥ ३४॥
तस्माच्छास्त्रोक्तविधिना अखण्डं चरसंज्ञकम् ।
द्विखण्डं स्थावरं लिङ्गं कर्तव्यं परया मुदा ॥ ३५॥
अखण्डे तु चरे पूजा सम्पूर्णफलदायिनी ।
द्विखण्डे तु चरे पूजा महाहानिप्रदा स्मृता ॥ ३६॥
अखण्डे स्थावरे पूजा न कामफलदायिनी ।
प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः ॥ ३७॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिङ्गपूजनमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ॥ १.१९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.२०. विंशोऽध्यायः । वैदिकः पार्थिवपूजनप्रकारः ।
सूत उवाच -
अथ वैदिकभक्तानां पार्थिवार्चा निगद्यते ।
वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी ॥ १॥
सूत्रोक्तविधिना स्नात्वा सन्ध्यां कृत्वा यथाविधि ।
ब्रह्मयज्ञं विधायादौ ततस्तर्पणमाचरेत् ॥ २॥
नैत्यिकं सकलं कामं विधायानन्तरं पुमान् ।
शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः ॥ ३॥
वेदोक्तविधिना सम्यक् सम्पूर्णफलसिद्धये ।
पूजयेत्परया भक्त्या पार्थिवं लिङ्गमुत्तमम् ॥ ४॥
नदीतीरे तडागे च पर्वते काननेऽपि च ।
शिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ ५॥
शुद्धप्रदेशसम्भूतां मृदमाहृत्य यत्नतः ।
शिवलिङ्गं प्रकल्पेत सावधानतया द्विजाः ॥ ६॥
विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ।
वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ॥ ७॥
सङ्गृह्य मृत्तिकां लिङ्गनिर्माणार्थं प्रयत्नतः ।
अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ॥ ८॥
संशोध्य च जलेनापि पिण्डीकृत्य शनैः शनैः ।
विधीयेत शुभं लिङ्गं पार्थिवं वेदमार्गतः ॥ ९॥
ततः सम्पूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये ।
तत्प्रकारमहं वच्मि शृणुध्वं सविधानतः ॥ १०॥
नमः शिवाय मन्त्रेणार्चनद्रव्यं च प्रोक्षयेत् ।
भूरसीति च मन्त्रेण क्षेत्रसिद्धिं प्रकारयेत् ॥ ११॥
आपोऽस्मानिति मन्त्रेण जलसंस्कारमाचरेत् ।
नमस्ते रुद्रमन्त्रेण स्फाटिकाबन्धमुच्यते ॥ १२॥
शम्भवायेति मन्त्रेण क्षेत्रशुद्धिं प्रकारयेत् ।
कुर्यात्पञ्चामृतस्यापि नमःपूर्वेण प्रोक्षणम् ॥ १३॥
नीलग्रीवाय मन्त्रेण नमःपूर्वेण भक्तिमान् ।
चरेच्छङ्करलिङ्गस्य प्रतिष्ठापनमुत्तमम् ॥ १४॥
भक्तितस्तत एतत्ते रुद्रावेति च मन्त्रतः ।
आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् ॥ १५॥
मानो महान्तमिति च मन्त्रेणावाहनं चरेत् ।
या ते रुद्रेण मन्त्रेण सञ्चरेदुपवेशनम् ॥ १६॥
मन्त्रेण यामिषुमिति न्यासं कुर्याच्छिवस्य च ।
अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् ॥ १७॥
मनुनासौ जीव इति देवतान्यासमाचरेत् ।
असौ योऽवसर्पतीति चाचरेदुपसर्पणम् ॥ १८॥
नमोऽस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ।
अर्घ्यं च रुद्रगायत्र्याचमनं त्र्यम्बकेण च ॥ १९॥
पयः पृथिव्यां मन्त्रेण पयसा स्नानमाचरेत् ।
दधिक्राव्णेति मन्त्रेण दधिस्नानं च कारयेत् ॥ २०॥
घृतस्नानं खलु घृतं घृतयावेति मन्त्रतः ।
मधुव्वाता मधुनक्तं मधुमान्न इति त्र्यृचा ॥ २१॥
मधुखण्डस्नपनं प्रोक्तमिति पञ्चामृतं स्मृतम् ।
अथवा पाद्यमन्त्रेण स्नानं पञ्चामृतेन च ॥ २२॥
मानस्तोके इति प्रेम्णा मन्त्रेण कटिबन्धनम् ।
नमो धृष्णवे इति वा उत्तरीयं च धारयेत् ॥ २३॥
या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ।
शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥ २४॥
नमः श्वभ्य इति प्रेम्णा गन्धं दद्यादृचा सुधीः ।
नमस्तक्षभ्य इति चाक्षतान्मन्त्रेण चार्पयेत् ॥ २५॥
नमः पार्याय इति वा पुष्पं मन्त्रेण चार्पयेत् ।
नमः पर्ण्णाय इति वा बिल्वपत्रसमर्पणम् ॥ २६॥
नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ।
दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥ २७॥
नमो ज्येष्ठाय मन्त्रेण दद्यान्नैवेद्यमुत्तमम् ।
मनुना त्र्यम्बकमिति पुनराचमनं स्मृतम् ॥ २८॥
इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् ।
नमो व्रज्यायेति ऋचा सकलं शम्भवेऽर्पयेत् ॥ २९॥
मानो महान्तमिति च मानस्तोके इति ततः ।
मन्त्रद्वयेनैकादशाक्षतै रुद्रान्प्रपूजयेत् ॥ ३०॥
हिरण्यगर्भ इति त्र्यृचा दक्षिणां हि समर्पयेत् ।
देवस्यत्वेति मन्त्रेण ह्यभिषेकं चरेद्बुधः ॥ ३१॥
दीपमन्त्रेण वा शम्भोर्नीराजनविधिं चरेत् ।
पुष्पाञ्जलिं चरेद्भक्त्या इमा रुद्राय च त्र्यृचा ॥ ३२॥
मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ।
मानस्तोकेति मन्त्रेण साष्टाङ्गं प्रणमेत्सुधीः ॥ ३३॥
एष ते इति मन्त्रेण शिवमुद्रां प्रदर्शयेत् ।
यतो यत इत्यभयां ज्ञानाख्यां त्र्यम्बकेण च ॥ ३४॥
नमः सेनेति मन्त्रेण महामुद्रां प्रदर्शयेत् ।
दर्शयेद्धेनुमुद्रां च नमो गोभ्य ऋचानया ॥ ३५॥
पञ्च मुद्राः प्रदर्श्याथ शिवमन्त्रजपं चरेत् ।
शतरुद्रियमन्त्रेण जपेद् वेदविचक्षणः ॥ ३६॥
ततः पञ्चाङ्गपाठं च कुयाद् वेदविचक्षणः ।
देवागात्विति मन्त्रेण कुर्याच्छम्भोर्विसर्जनम् ॥ ३७॥
इत्युक्तः शिवपूजाया व्यासतो वैदिको विधिः ।
समासतश्च शृणुत वैदिकं विधिमुत्तमम् ॥ ३८॥
ऋचा सद्योजातमिति मृदाहरणमाचरेत् ।
वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥ ३९॥
अघोरेण च मन्त्रेण लिङ्गनिर्माणमाचरेत् ।
तत्पुरुषाय मन्त्रेणाह्वानं कुर्याद्यथाविधि ॥ ४०॥
संयोजयेद्वेदिकायामीशानमनुना हरम् ।
अन्यत्सर्वं विधानं च कुर्यात्सङ्क्षेपतः सुधीः ॥ ४१॥
पञ्चाक्षरेण मन्त्रेण गुरुदत्तेन वा तथा ।
कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥ ४२॥
भवाय भवनाशाय महादेवाय धीमहि ।
उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ ४३॥
अनेन मनुना वापि पूजयेच्छङ्करं सुधीः ।
सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ॥ ४४॥
इत्यपि प्रोक्तमादृत्य वैदिकं क्रमपूजनम् ।
प्रोच्यतेऽन्यविधिः सम्यक्साधारणतया द्विजाः ॥ ४५॥
पूजा पार्थिवलिङ्गस्य सम्प्रोक्ता शिवनामभिः ।
तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥ ४६॥
हरो महेश्वरः शम्भुः शूलपाणिः पिनाकधृक् ।
शिवः पशुपतिश्चैव महादेव इति क्रमात् ॥ ४७॥
मृदाहरणसङ्घट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ॥ ४८॥
ऊँकारादिचतुर्थ्यन्तैर्नमोऽन्तैर्नामभिः क्रमात् ।
कर्तव्याश्च क्रियाः सर्वा भक्त्या परमया मुदा ॥ ४९॥
कृत्वा न्यासविधिं सम्यक् षडङ्गं करयोस्तथा ।
षडक्षरेण मन्त्रेण ततो ध्यानं समाचरेत् ॥ ५०॥
कैलासपीठासनमध्यसंस्थं
भक्तैः सनन्दादिभिरर्च्यमानम् ।
भक्तार्तिदावानलमप्रमेयं
ध्यायेदुमालिङ्गितविश्वभूषणम् ॥ ५१॥
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानम्
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ५२॥
इति ध्यात्वा च सम्पूज्य पार्थिवं लिङ्गमुत्तमम् ।
जपेत्पञ्चाक्षरं मन्त्रं गुरुदत्तं यथाविधि ॥ ५३॥
स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः ।
नानाभिधाभिर्विप्रेन्द्राः पठेद् वै शतरुद्रियम् ॥ ५४॥
ततः साक्षतपुष्पाणि गृहीत्वाञ्जलिना मुदा ।
प्रार्थयेच्छङ्करं भक्त्या मन्त्रैरेभिः सुभक्तितः ॥ ५५॥
तावकस्त्वद्गुणप्राणस्त्वच्चित्तोऽहं सदा मृड ।
कृपानिधे इति ज्ञात्वा भूतनाथ प्रसीद मे ॥ ५६॥
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृतं तदस्तु सफलं कृपया तव शङ्कर ॥ ५७॥
अहं पापी महानद्य पावनश्च भवान्महान् ।
इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ॥ ५८॥
वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ।
न ज्ञातोऽसि महादेव कुतोऽहं त्वां सदाशिव ॥ ५९॥
यथा तथा त्वदीयोऽस्मि सर्वभावैर्महेश्वर ।
रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ॥ ६०॥
इत्येवं चाक्षतान्पुष्पाण्यारोप्य च शिवोपरि ।
प्रणमेद्भक्तितः शम्भुं साष्टाङ्गं विधिवन्मुने ॥ ६१॥
ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ।
पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥ ६२॥
ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः ।
कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥ ६३॥
इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ।
भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ॥ ६४॥
इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि ।
सर्वपापविशुद्धात्मा सर्वान्कामानवाप्नुयात् ॥ ६५॥
आयुरारोग्यदं चैव यशस्यं स्वर्ग्यमेव च ।
पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ॥ ६६॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिङ्गपूजाविधिवर्णनं
@नाम विंशोऽध्यायः ॥ १.२०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.२१. एकविंशोऽध्यायः । कामनानुरोधेन पूजने शिवलिङ्गसङ्ख्याभिधानम् ।
ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते ।
सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम् ॥ १॥
कामनाभेदमाश्रित्य सङ्ख्यां ब्रूहि विधानतः ।
शिवपार्थिवलिङ्गानां कृपया दीनवत्सल ॥ २॥
सूत उवाच ।
शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम् ।
यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ॥ ३॥
अकृत्वा पार्थिवं लिङ्गं योऽन्यदेवं प्रपूजयेत् ।
वृथा भवति सा पूजा दमदानादिकं वृथा ॥ ४॥
सङ्ख्या पार्थिवलिङ्गानां यथाकामं निगद्यते ।
सङ्ख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा ॥ ५॥
प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक् ।
लिङ्गाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक् ॥ ६॥
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् ।
पूजयेच्छिवलिङ्गं हि निश्चयात्तत्फलप्रदम् ॥ ७॥
नरः पार्थिवलिङ्गानां धनार्थी च तदर्धकम् ।
पुत्रार्थी सार्धसाहस्रं वस्त्रार्थी शतपञ्चकम् ॥ ८॥
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् ।
दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ॥ ९॥
सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम् ।
मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् ॥ १०॥
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः ।
स्तम्भनार्थी सहस्रं तु द्वेषणार्थी तदर्धकम् ॥ ११॥
निगडान्मुक्तिकामस्तु सहस्रं सार्धमुत्तमम् ।
महाराजभये पञ्चशतं ज्ञेयं विचक्षणैः ॥ १२॥
चौरादिसङ्कटे ज्ञेयं पार्थिवानां शतद्वयम् ।
डाकिन्यादिभये पञ्चशतमुक्तं च पार्थिवम् ॥ १३॥
दारिद्रत्ये पञ्चसाहस्रमयुतं सर्वकामदम् । प्लेअसे चेच्क्
अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ॥ १४॥
एकं पापहरं प्रोक्तं द्विलिङ्गं चार्थसिद्धिदम् ।
त्रिलिङ्गं सर्वकामानां कारणं परमीरितम् ॥ १५॥
उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनावधि ।
मतान्तरमथो वक्ष्ये सङ्ख्यायां मुनिभेदतः ॥ १६॥
लिङ्गानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान् ।
निर्भयो हि भवेन्नूनं महाराजभयं हरेत् ॥ १७॥
कारागृहादिमुक्त्यर्थमयुतं कारयेद् बुधः ।
डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा ॥ १८॥
अपुत्रः पञ्चपञ्चाशत् सहस्राणि प्रकारयेत् ।
लिङ्गानामयुतेनैव कन्यकासन्ततिं लभेत् ॥ १९॥
लिङ्गानामयुतेनैव विष्ण्वाद्यैश्वर्यमाप्नुयात् ।
लिङ्गानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात् ॥ २०॥
कोटिमेकां तु लिङ्गानां यः करोति नरो भुवि ।
शिव एव भवेत्सोऽपि नात्र कार्या विचारणा ॥ २१॥
अर्चा पार्थिवलिङ्गानां कोटियज्ञफलप्रदा ।
भुक्तिदा मुक्तिदा नित्यं ततः कामार्थिनां नृणाम् ॥ २२॥
विना लिङ्गार्चनं यस्य कालो गच्छति नित्यशः ।
महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः ॥ २३॥
एकतः सर्वदानानि व्रतानि विविधानि च ।
तीर्थानि नियमा यज्ञा लिङ्गार्चा चैकतः स्मृता ॥ २४॥
कलौ लिङ्गार्चनं श्रेष्ठं यथा लोके प्रदृश्यते ।
तथान्यन्नास्ति शास्त्राणामेष सिद्धान्तनिश्चयः ॥ २५॥
भुक्तिमुक्तिप्रदं लिङ्गं विविधापन्निवारणम् ।
पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् ॥ २६॥
शिवनाममयं लिङ्गं नित्यं पूज्यं महर्षिभिः ।
यतश्च सर्वलिङ्गेषु तस्मात्पूज्यं विधानतः ॥ २७॥
उत्तमं मध्यमं नीचं त्रिविधं लिङ्गमीरितम् ।
मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥ २८॥
चतुरङ्गुलमुच्छ्रायं रम्यं वेदिकया युतम् ।
उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः ॥ २९॥
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम् ।
इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् ॥ ३०॥
अनेकलिङ्गं यो नित्यं भक्तिश्रद्धासमन्वितः ।
पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान् ॥ ३१॥
न लिङ्गाराधनादन्यत्पुण्यं वेदचतुष्टये ।
विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ॥ ३२॥
सर्वमेतत्परित्यज्य कर्मजालमशेषतः ।
भक्त्या परमया विद्वाँल्लिङ्गमेकं प्रपूजयेत् ॥ ३३॥
लिङ्गेऽर्चितेऽर्चितं सर्वं जगत्स्थावरजङ्गमम् ।
संसाराम्बुधिमग्नानां नान्यत्तरणसाधनम् ॥ ३४॥
अज्ञानतिमिरान्धानां विषयासक्तचेतसाम् ।
प्लवो नान्योऽस्ति जगति लिङ्गाराधनमन्तरा ॥ ३५॥
हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः ।
गन्धर्वाश्चारणाः सिद्धा दैतेया दानवास्तथा ॥ ३६॥
नागाः शेषप्रभृतयो गरुडाद्याः खगास्तथा ।
सप्रजापतयश्चान्ये मनवः किन्नरा नराः ॥ ३७॥
पूजयित्वा महाभक्त्या लिङ्गं सर्वार्थसिद्धिदम् ।
प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान् ॥ ३८॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ।
पूजयेत्सततं लिङ्गं तत्तन्मन्त्रेण सादरम् ॥ ३९॥
किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः ।
अधिकारोऽस्ति सर्वेषां शिवलिङ्गार्चने द्विजाः ॥ ४०॥
द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् ।
अन्येषामपि जन्तूनां वैदिकेन न सम्मतम् ॥ ४१॥
वैदिकानां द्विजानां च पूजा वैदिकमार्गतः ।
कर्तव्या नान्यमार्गेण इत्याह भगवान् शिवः ॥ ४२॥
दधीचिगौतमादीनां शापेनादग्धचेतसाम् ।
द्विजानां जायते श्रद्धा नैव वैदिककर्मणि ॥ ४३॥
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ।
अन्यत्समाचरेन्मर्त्यो न सङ्कल्पफलं लभेत् ॥ ४४॥
इत्थं कृत्वार्चनं शम्भोर्नैवेद्यान्तं विधानतः ।
पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ॥ ४५॥
क्षितिरापोऽनलो वायुराकाशः सूर्यसोमकौ ।
यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ॥ ४६॥
शर्वो भवश्च रुद्रश्च उग्रो भीम इतीश्वरः ।
महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥ ४७॥
पूजयेत्परिवारं च ततः शम्भोः सुभक्तितः ।
ईशानादिक्रमात्तत्र चन्दनाक्षतपत्रकैः ॥ ४८॥
ईशानं नन्दिनं चण्डं महाकालं च भृङ्गिणम् ।
वृषं स्कन्दं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ॥ ४९॥
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा ।
तत एकादशान् रुद्रान्पूजयेद्विधिना ततः ॥ ५०॥
ततः पञ्चाक्षरं जप्त्वा शतरुद्रियमेव च ।
स्तुतीर्नानाविधाः कृत्वा पञ्चाङ्गपठनं तथा ॥ ५१॥
ततः प्रदक्षिणां कृत्वा नत्वा लिङ्गं विसर्जयेत् ।
इति प्रोक्तमशेषं च शिवपूजनमादरात् ॥ ५२॥
रात्रावुदङ्मुखः कुर्याद् देवकार्यं सदैव हि ।
शिवार्चनं सदाप्येवं शुचिः कुर्यादुदङ्मुखः ॥ ५३॥
न प्राचीमग्रतः शम्भोर्नोदीचीं शक्तिसंहिताम् ।
न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत् ॥ ५४॥
विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
बिल्वपत्रं विना नैव पूजयेच्छङ्करं बुधः ॥ ५५॥
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ।
तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुण्ड्रकम् ॥ ५६॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः ॥ १.२१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.२२. द्वाविंशोऽध्यायः । शिवनैवेद्यभक्षणनिर्णयः बिल्वमाहात्म्यं च ।
ऋषय ऊचुः ।
अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ।
ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ १॥
सूत उवाच ।
शृणुध्वं मुनयःसर्वे सावधानतयाधुना ।
सर्वं वदामि सम्प्रीत्या धन्या यूयं शिवव्रताः ॥ २॥
शिवभक्तः शुचिः शुद्धः सद्व्रती दृढनिश्चयः ।
भक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम् ॥ ३॥
दृष्ट्वापि शिवनैवेद्यं यान्ति पापानि दूरतः ।
भुक्ते तु शिवनैवेद्ये पुण्यान्यायान्ति कोटिशः ॥ ४॥
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ।
भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ ५॥
यद्गृहे शिवनैवेद्यप्रचारोऽपि प्रजायते ।
तद्गृहं पावनं सर्वमन्यपावनकारणम् ॥ ६॥
आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा ।
भक्षणीयं प्रयत्नेन शिवस्मरणपूर्वकम् ॥ ७॥
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ।
विलम्बे पापसम्बन्धो भवत्येव हि मानवः ॥ ८॥
न यस्य शिवनैवेद्य ग्रहणेच्छा प्रजायते ।
स पापिष्ठः गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम् ॥ ९॥
हृदये चन्द्रकान्ते च स्वर्णरूप्यादिनिर्मिते ।
शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्यते ॥ १०॥
शिवदीक्षान्वितो भक्तो महाप्रसादसंज्ञकम् ।
सर्वेषामपि लिङ्गानां नैवेद्यं भक्षयेच्छुभम् ॥ ११॥
अन्यदीक्षायुजां नॄणां शिवभक्तिरतात्मनाम् ।
शृणुध्वं निर्णयं प्रीत्या शिवनैवेद्यभक्षणे ॥ १२॥
शालग्रामोद्भवे लिङ्गे रसलिङ्गे तथा द्विजाः ।
पाषाणे राजते स्वर्णे सुरसिद्धप्रतिष्ठिते ॥ १३॥
काश्मीरे स्फाटिके रात्ने ज्योतिर्लिङ्गेषु सर्वशः ।
चान्द्रायणसमं प्रोक्तं शम्भोर्नैवेद्यभक्षणम् ॥ १४॥
ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ।
भक्षयित्वा द्रुतं तस्य सर्वपापं प्रणश्यति ॥ १५॥
चण्डाधिकारो यत्रास्ति तद्भोक्तव्यं न मानवैः ।
चण्डाधिकारो नो यत्र भोक्तव्यं तच्च भक्तितः ॥ १६॥
बाणलिङ्गे च लौहे च सिद्धे लिङ्गे स्वयम्भुवि ।
प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत् ॥ १७॥
स्नापयित्वा विधानेन यो लिङ्गस्नपनोदकम् ।
त्रिःपिबेत्त्रिविधं पापं तस्येहाशु विनश्यति ॥ १८॥
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलासङ्गात्सर्वं याति पवित्रताम् ॥ १९॥
लिङ्गोपरि च यद् द्रव्यं तदग्राह्यं मुनीश्वराः ।
सुपवित्रं च तज्ज्ञेयं यल्लिङ्गस्पर्शबाह्यतः ॥ २०॥
नैवेद्यनिर्णयः प्रोक्त इत्थं वो मुनिसत्तमाः ।
शृणुध्वं बिल्वमाहात्म्यं सावधानतयादरात् ॥ २१॥
महादेवस्वरूपोऽयं बिल्वो देवैरपि स्तुतः ।
यथाकथञ्चिदेतस्य महिमा ज्ञायते कथम् ॥ २२॥
पुण्यतीर्थानि यावन्ति लोकेषु प्रथितान्यपि ।
तानि सर्वाणि तीर्थानि बिल्वमूले वसन्ति हि ॥ २३॥
बिल्वमूले महादेवं लिङ्गरूपिणमव्ययम् ।
यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद् ध्रुवम् ॥ २४॥
बिल्वमूले जलैर्यस्तु मूर्धानमभिषिञ्चति ।
स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः ॥ २५॥
एतस्य बिल्वमूलस्याथालवालमनुत्तमम् ।
जलाकुलं महादेवो दृष्ट्वा तुष्टो भवत्यलम् ॥ २६॥
पूजयेद् बिल्वमूलं यो गन्धपुष्पादिभिर्नरः ।
शिवलोकमवाप्नोति सन्ततिर्वर्धते सुखम् ॥ २७॥
बिल्वमूले दीपमालां यः कल्पयति सादरम् ।
स तत्त्वज्ञानसम्पन्नो महेशान्तर्गतो भवेत् ॥ २८॥
बिल्वशाखां समादाय हस्तेन नवपल्लवम् ।
गृहीत्वा पूजयेद् बिल्वं स च पापैः प्रमुच्यते ॥ २९॥
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ।
एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते ॥ ३०॥
बिल्वमूले क्षीरयुक्तमन्नमाज्येन संयुतम् ।
यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ ३१॥
साङ्गोपाङ्गमिति प्रोक्तं शिवलिङ्गप्रपूजनम् ।
प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ॥ ३२॥
प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि ।
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् ॥ ३३॥
नैवेद्यमभिषेकान्ते शाल्यन्नेन समाचरेत् ।
पूजान्ते स्थापयेल्लिङ्गं पुटे शुद्धे पृथग्गृहे ॥ ३४॥
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ।
निवृत्तानां परं सूक्ष्मं लिङ्गमेव विशिष्यते ॥ ३५॥
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ।
पूजां कृत्वा तथा लिङ्गं शिरसा धारयेत्सदा ॥ ३६॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनं नाम द्वाविंशोऽध्यायः ॥ १.२२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.२३. त्रयोविंशोऽध्यायः । रुद्राक्षमाहात्म्यं शिवनाममहिमा च ।
ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते ।
तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥ १॥
तथा रुद्राक्षमाहात्म्यं नाममाहात्म्यमुत्तमम् ।
त्रितयं ब्रूहि सुप्रीत्या ममानन्दय मानसम् ॥ २॥
सूत उवाच ।
साधु पृष्टं भवद्भिश्च लोकानां हितकारकम् ।
भवन्तो वै महाधन्याः पवित्राः कुलभूषणाः ॥ ३॥
येषां चैव शिवः साक्षाद् दैवतं परमं शुभम् ।
सदाशिवकथा लोके वल्लभा भवतां सदा ॥ ४॥
ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ।
उद्धृतं च कुलं तेषां ये शिवं समुपासते ॥ ५॥
शिवनाम मुखे यस्य सदा शिवशिवेति च ।
पापानि न स्पृशन्त्येव खदिराङ्गारकं यथा ॥ ६॥
श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा ।
तन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ॥ ७॥
तन्मुखं च तथा यो वै पश्यति प्रीतिमान्नरः ।
तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ॥ ८॥
यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजाः ।
तस्य दर्शनमात्रेण वेणीस्नानफलं लभेत् ॥ ९॥
शिवनाम विभूतिश्च तथा रुद्राक्ष एव च ।
एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् ॥ १०॥
एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ।
तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ॥ ११॥
तद्दर्शनं यथा वेणी नोभयोरन्तरं मनाक् ।
एवं यो न विजानाति स पापिष्ठो न संशयः ॥ १२॥
विभूतिर्यस्य नो भाले नाङ्गे रुद्राक्षधारणम् ।
नास्ये शिवमयी वाणी तं त्यजेदधमं यथा ॥ १३॥
शैवं नाम यथा गङ्गा विभूतिर्यमुना मता ।
रुद्राक्षं विधिजा प्रोक्ता सर्वपापविनाशिनी ॥ १४॥
शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ।
एकतो वेणिकायाश्च स्नानजं तु फलं बुधैः ॥ १५॥
तदेवं तुलितं पूर्वं ब्रह्मणा हितकारिणा ।
समानं चैव तज्जातं तस्माद् धार्यं सदा बुधैः ॥ १६॥
तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सुरैः ।
धार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥ १७॥
ऋष्य ऊचुः ।
ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ।
तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥ १८॥
सूत उवाच ।
ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ।
तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः ॥ १९॥
सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ।
भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना ॥ २०॥
कस्तत्त्रितयमाहात्म्यं सञ्जानाति द्विजोत्तमाः ।
महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥ २१॥
वच्म्यहं नाममाहात्म्यं यथाभक्ति समासतः ।
शृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥ २२॥
शिवेति नामदावाग्नेर्महापातकपर्वताः ।
भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः ॥ २३॥
पापमूलानि दुःखानि विविधान्यपि शौनक ।
शिवनामैकनश्यानि नान्यनश्यानि सर्वथा ॥ २४॥
स वैदिकः स पुण्यात्मा स धन्यः स बुधो मतः ।
शिवनामजपासक्तो यो नित्यं भुवि मानवः ॥ २५॥
भवन्ति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः ।
येषां भवति विश्वासः शिवनामजपे मुने ॥ २६॥
पातकानि विनश्यन्ति यावन्ति शिवनामतः ।
भुवि तावन्ति पापानि क्रियन्ते न नरैर्मुने ॥ २७॥
ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने ।
शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः ॥ २८॥
शिवनामतरीं प्राप्य संसाराब्धिं तरन्ति ये ।
संसारमूलपापानि तानि नश्यन्त्यसंशयम् ॥ २९॥
संसारमूलभूतानां पातकानां महामुने ।
शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥ ३०॥
शिवनामामृतं पेयं पापदावानलार्दितैः ।
पापदावाग्नितप्तानां शान्तिस्तेन विना न हि ॥ ३१॥
शिवेति नामपीयूषवर्षधारापरिप्लुताः ।
संसारदवमध्येऽपि न शोचन्ति कदाचन ॥ ३२॥
शिवनाम्नि महद्भक्तिर्जाता येषां महात्मनाम् ।
तद्विधानां तु सहसा मुक्तिर्भवति सर्वथा ॥ ३३॥
अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर ।
शिवनाम्नि भवेद्भक्तिः सर्वपापापहारिणी ॥ ३४॥
यस्यासाधारणी शम्भुनाम्नि भक्तिरखण्डिता ।
तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥ ३५॥
कृत्वाप्यनेकपापानि शिवनामजपादरः ।
सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥ ३६॥
भवन्ति भस्मसाद् वृक्षा दवदग्धा यथा वने ।
तथा तावन्ति दग्धानि पापानि शिवनामतः ॥ ३७॥
यो नित्यं भस्मपूताङ्गः शिवनामजपादरः ।
स तरत्येव संसारमघोरमपि शौनक ॥ ३८॥
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ।
न लिप्यते नरः पापैः शिवनामजपादरः ॥ ३९॥
विलोक्य वेदानखिलान् शिवनामजपः परः ।
संसारतरणोपाय इति पूर्वैर्विनिश्चितम् ॥ ४०॥
किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम् ।
शिवाभिधानमाहात्म्यं सर्वपापापहारणम् ॥ ४१॥
पापानां हरणे शम्भोर्नाम्नः शक्तिर्हि यावती ।
शक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ॥ ४२॥
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ।
इन्द्रद्युम्ननृपः पूर्वं महापापयुतो मुने ॥ ४३॥
तथा काचिद् द्विजा योषाऽसौ मुने बहुपापिनी ।
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ ४४॥
इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ।
शृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ॥ ४५॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं नाम त्रयोविंशोऽध्यायः ॥ १.२३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.२४. चतुर्विंशोऽध्यायः । भस्ममाहात्मम् ।
सूत उवाच ।
द्विविधं भस्म सम्प्रोक्तं सर्वमङ्गलदं परम् ।
तत्प्रकारमहं वक्ष्ये सावधानतया शृणु ॥ १॥
एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् ।
महाभस्म इति प्रोक्तं भस्म नानाविधं परम् ॥ २॥
तद्भस्म त्रिविधं प्रोक्तं श्रौतं स्मार्तं च लौकिकम् ।
भस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ॥ ३॥
श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ।
अन्येषामपि सर्वेषामपरं भस्म लौकिकम् ॥ ४॥
धारणं मन्त्रतः प्रोक्तं द्विजानां मुनिपुङ्गवैः ।
केवलं धारणं ज्ञेयमन्येषां मन्त्रवर्जितम् ॥ ५॥
आग्नेयमुच्यते भस्म दग्धगोमयसम्भवम् ।
तदपि द्रव्यमित्युक्तं त्रिपुण्ड्रस्य महामुने ॥ ६॥
अग्निहोत्रोत्थितं भस्म सङ्ग्राह्यं वा मनीषिभिः ।
अन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे ॥ ७॥
अग्निरित्यादिभिर्मन्त्रैर्जाबालोपनिषद्गतैः ।
सप्तभिर्धूलनं कार्यं भस्मना सजलेन च ॥ ८॥
वर्णानामाश्रमाणां च मन्त्रतोऽमन्त्रतोऽपि च ।
त्रिपुण्ड्रोद्धूलनं प्रोक्तं जाबालैरादरेण च ॥ ९॥
भस्मनोद्धूलनं चैव धृतं तिर्यक् त्रिपुण्ड्रकम् ।
प्रमादादपि मोक्षार्थी न त्यजेदिति वै श्रुतिः ॥ १०॥
शिवेन विष्णुना चैव धृतं तिर्यक् त्रिपुण्ड्रकम् ।
उमादेव्या च लक्ष्म्या च स्तुतमन्यैश्च नित्यशः ॥ ११॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपि च सङ्करैः ।
अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १२॥
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।
तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः ॥ १३॥
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।
तेषां नास्ति विनिर्मुक्तिः संसाराज्जन्मकोटिभिः ॥ १४॥
उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये ।
तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि ॥ १५॥
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।
ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः ॥ १६॥
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।
तेषामाचरितं सर्वं विपरीतफलाय हि ॥ १७॥
महापातकयुक्तानां जन्तूनां सर्वविद्विषाम् ।
त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढं मुने ॥ १८॥
शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित् ।
मुच्यते सर्वपापैस्तु स्पृष्टेन भस्मना नरः ॥ १९॥
सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।
सर्वपापविनिर्मुक्तः शिवेन सह मोदते ॥ २०॥
सितेन भस्मना कुर्याल्ललाटे तु त्रिपुण्ड्रकम् ।
योऽसावनादिभूतान्हि लोकानाप्तोऽमृतो भवेत् ॥ २१॥
अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम् ।
त्रिपुण्ड्रं च रचित्वा तु विधिना भस्मना जपेत् ॥ २२॥
अदयो वाधमो वापि सर्वपापान्वितोऽपि वा ।
उपपापान्वितो वापि मूर्खो वा पतितोऽपि वा ॥ २३॥
यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः ।
सर्वतीर्थैश्च क्रतुभिः सान्निध्यं क्रियते सदा ॥ २४॥
त्रिपुण्ड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ।
पापान्वितोऽपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ २५॥
यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ।
गतो यदृच्छयाद्यापि तस्मिंस्तीर्थाः समागताः ॥ २६॥
बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः ।
लिङ्गार्चनं सदा कार्यं जप्यो मन्त्रः षडक्षरः ॥ २७॥
ब्रह्मणा विष्णुना वापि रुद्रेण मुनिभिः सुरैः ।
भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ॥ २८॥
इति वर्णाश्रमाचारो लुप्तवर्णक्रियोऽपि च ।
पापात्सकृत्त्रिपुण्ड्रस्य धारणात्सोऽपि मुच्यते ॥ २९॥
ये भस्मधारिणं त्यक्त्वा कर्म कुर्वन्ति मानवाः ।
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ ३०॥
तेनाधीतं गुरोः सर्वं तेन सर्वमनुष्ठितम् ।
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् ॥ ३१॥
ये भस्मधारिणं दृष्ट्वा नराः कुर्वन्ति ताडनम् ।
तेषां चण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥ ३२॥
मानस्तोकेन मन्त्रेण मन्त्रितं भस्म धारयेत् ।
ब्राह्मणः क्षत्रियश्चैव प्रोक्तेष्वङ्गेषु भक्तिमान् ॥ ३३॥
वैश्यस्त्रियम्बकेनैव शूद्रः पञ्चाक्षरेण तु ।
अन्यासां विधवास्त्रीणां विधिः प्रोक्तश्च शूद्रवत् ॥ ३४॥
पञ्चब्रह्मादिमनुभिर्गृहस्थस्य विधीयते ।
त्रियम्बकेन मनुना विधिर्वै ब्रह्मचारिणः ॥ ३५॥
अघोरेणाथ मनुना विपिनस्थविधिः स्मृतः ।
यतिस्तु प्रणवेनैव त्रिपुण्ड्रादीनि कारयेत् ॥ ३६॥
अतिवर्णाश्रमी नित्यं शिवोऽहं भावनात्परात् ।
शिवयोगी च नियतमीशानेनापि धारयेत् ॥ ३७॥
न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ।
अन्यैरपि यथा जीवैः सदेति शिवशासनम् ॥ ३८॥
भस्मस्नानेन यावन्तः कणाः स्वाङ्गे प्रतिष्ठिताः ।
तावन्ति शिवलिङ्गानि तनौ धत्ते हि धारकः ॥ ३९॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चापि च सङ्कराः ।
स्त्रियोऽथ विधवा बालाः प्राप्ता पाखण्डिकास्तथा ॥ ४०॥
ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा ।
नार्यो भस्मत्रिपुण्ड्राङ्का मुक्ता एव न संशयः ॥ ४१॥
ज्ञानाज्ञानधृतो वापि वह्निदाहसमो यथा ।
ज्ञानाज्ञानधृतं भस्म पावयेत्सकलं नरम् ॥ ४२॥
नाश्नीयाज्जलमन्नमल्पमपि वा भस्माक्षधृत्या विना
भुक्त्वा वाथ गृही वनीपतियतिर्वर्णी तथा सङ्करः ।
एनोभुङ् नरकं प्रयाति स तदा गायत्रिजापेन तद्
वर्णानां तु यतेस्तु मुख्यप्रणवाजापेन मुक्तिर्भवेत् ॥ ४३॥
त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ।
धारयन्ति च ये भक्त्या धारयन्ति तमेव ते ॥ ४४॥
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ।
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥ ४५॥
ये निन्दन्ति महेश्वरं त्रिजगतामाधारभूतं हरं
ये निन्दन्ति त्रिपुण्ड्रधारणकरं दोषस्तु तद्दर्शने ।
ते वै सङ्करसूकरासुरखरश्वक्रोष्टुकीटोपमा
जाता एव भवन्ति पापपरमास्ते नारकाः केवलम् ॥ ४६॥
ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेऽपि नो केवलं
पश्यन्तु श्रुतिरुद्रसूक्तजपतो मुच्येत तेनादृताः ।
तत्सम्भाषणतो भदेद्धि नरकं निस्तारवानास्थितं
ये भस्मादिविधारणं हि पुरुषं निन्दन्ति मन्दा हि ते ॥ ४७॥
न तान्त्रिकस्त्वधिकृतो नोर्ध्वपुण्ड्रधरो मुने ।
सन्तप्तचक्रचिह्नोऽत्र शिवयज्ञे बहिष्कृतः ॥ ४८॥
तत्रैते बहवो लोका बृहज्जाबालचोदिताः ।
ते विचार्याः प्रयत्नेन ततो भस्मरतो भवेत् ॥ ४९॥
यच्चन्दनैश्चन्दनकेऽपि मिश्रं
धार्यं हि भस्मैव त्रिपुण्ड्रभस्मना ।
विभूतिभालोपरि किञ्चनापि
धार्यं सदा नो यदि सन्ति बुद्धयः ॥ ५०॥
स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं
भस्म द्विजादिभिरथो विधवाभिरेवम् ।
तद्वत्सदाश्रमवतां विशदा विभूति-
र्धार्यापवर्गफलदा सकलाघहन्त्री ॥ ५१॥
त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम् ।
महापातकसङ्घातैर्मुच्यते चोपपातकैः ॥ ५२॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ।
ब्रह्मक्षत्राश्च विट्शूद्रास्तथान्ये पतिताधमाः ॥ ५३॥
उद्धूलनं त्रिपुण्ड्रं च धृत्वा शुद्धा भवन्ति च ।
भस्मनो विधिना सम्यक् पापराशिं विहाय च ॥ ५४॥
भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ।
वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः ॥ ५५॥
परद्रव्यापहरणं परदाराभिमर्शनम् ।
परनिन्दां परक्षेत्रहरणं परपीडनम् ॥ ५६॥
सस्यारामादिहरणं गृहदाहादिकर्म च ।
गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ॥ ५७॥
अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः ।
दाशवेश्यामतङ्गीषु वृषलीषु नटीषु च ॥ ५८॥
रजस्वलासु कन्यासु विधवासु च मैथुनम् ।
मांसचर्मरसादीनां लवणस्य च विक्रयः ॥ ५९॥
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ।
एवमादीन्यसङ्ख्यानि पापानि विविधानि च ।
सद्य एव विनश्यन्ति त्रिपुण्ड्रस्य च धारणात् ॥ ६०॥
शिवद्रव्यापहरणं शिवनिन्दा च कुत्रचित् ।
निन्दा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति ॥ ६१॥
रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपुण्ड्रकम् ।
स चाण्डालोऽपि सम्पूज्यः सर्ववर्णोत्तमोत्तमः ॥ ६२॥
यानि तीर्थानि लोकेऽस्मिन् गङ्गाद्याः सरितश्च याः ।
स्नातो भवति सर्वत्र ललाटे तु यस्त्रिपुण्ड्रकम् ॥ ६३॥
सप्तकोटिमहामन्त्राः पञ्चाक्षरपुरस्सराः ।
तथान्ये कोटिशो मन्त्राः शैवकैवल्यहेतवः ॥ ६४॥
अन्ये मन्त्राश्च देवानां सर्वसौख्यकरा मुने ।
ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुण्ड्रकम् ॥ ६५॥
सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ।
स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुण्ड्रकृत् ॥ ६६॥
इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ।
जीवितान्ते च मरणं सुखेनैव प्रपद्यते ॥ ६७॥
अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यवपुः शिवम् ।
दिव्यं विमानमारुह्य दिव्यत्रिदशसेवितम् ॥ ६८॥
विद्याधराणां सर्वेषां गन्धर्वाणां महौजसाम् ।
इन्द्रादिलोकपालानां लोकेषु च यथाक्रमम् ॥ ६९॥
भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ।
ब्रह्मणः पदमासाद्य तत्र कन्याशतं रमेत् ॥ ७०॥
तत्र ब्रह्मायुषो मानं भुक्त्वा भोगाननेकशः ।
विष्णोर्लोके लभेद्भोगं यावद् ब्रह्मशतात्ययः ॥ ७१॥
शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ।
शिवसायुज्यमाप्नोति संशयो नात्र जायते ॥ ७२॥
सर्वोपनिषदां सारं समालोक्य मुहुर्मुहुः ।
इदमेव हि निर्णीतं परं श्रेयस्त्रिपुण्ड्रकम् ॥ ७३॥
विभूतिं निन्दते यो वै ब्राह्मणः सोऽन्यजातकः ।
प्रयाति नरके घोरे यावद् ब्रह्मा चतुर्मुखः ॥ ७४॥
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।
धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः ॥ ७५॥
जलस्नानं मलत्यागे भस्मस्नानं सदा शुचिः ।
मन्त्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम् ॥ ७६॥
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति भस्मस्नानकरो नरः ॥ ७७॥
भस्मस्नानं परं तीर्थं गङ्गास्नानं दिने दिने ।
भस्मरूपी शिवः साक्षाद्भस्म त्रैलोक्यपावनम् ॥ ७८॥
न तत्स्नानं न तद्ध्यानं न तद्दानं जपो न सः ।
त्रिपुण्ड्रेण विना येन विप्रेण यदनुष्ठितम् ॥ ७९॥
वानप्रस्थस्य कन्यानां दीक्षाहीननृणां तथा ।
मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् ॥ ८०॥
एवं त्रिपुण्ड्रं यः कुर्यान्नित्यं नियतमानसः ।
शिवभक्तः स विज्ञेयो भुक्तिं मुक्तिं च विन्दति ॥ ८१॥
यस्याङ्गे नैव रुद्राक्ष एकोऽपि बहुपुण्यदः ।
तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितो यदि ॥ ८२॥
एवं त्रिपुण्ड्रमाहात्म्यं समासात् कथितं मया ।
रहस्यं सर्वजन्तूनां गोपनीयमिदं त्वया ॥ ८३॥
तिस्रो रेखा भवन्त्येव स्थानेषु मुनिपुङ्गवाः ।
ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने ॥ ८४॥
भ्रुवोर्मध्यं समारभ्य यावदन्तो भवेद् भ्रुवोः ।
तावत्प्रमाणं सन्धार्यं ललाटे च त्रिपुण्ड्रकम् ॥ ८५॥
मध्यमानामिकाङ्गुल्या मध्ये तु प्रतिलोमतः ।
अङ्गुष्ठेन कृता रेखा त्रिपुण्ड्राख्याभिधीयते ॥ ८६॥
मध्येऽङ्गुलिभिरादाय तिसृभिर्भस्म यत्नतः ।
त्रिपुण्ड्रं धारयेद्भक्त्या भुक्तिमुक्तिप्रदं परम् ॥ ८७॥
तिसृणामपि रेखानां प्रत्येकं नवदेवताः ।
सर्वत्राङ्गेषु ता वक्ष्ये सावधानतया शृणु ॥ ८८॥
अकारो गार्हपत्याग्निर्भूर्धर्मश्च रजोगुणः ।
ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥ ८९॥
महादेवश्च रेखायाः प्रथमायाश्च देवता ।
विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः ॥ ९०॥
उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ।
मध्यन्दिनं च सवनमिच्छाशक्त्यन्तरात्मकौ ॥ ९१॥
महेश्वरश्च रेखाया द्वितीयायाश्च देवता ।
विज्ञेया मुनिशार्दूल शिवदीक्षापरायणैः ॥ ९२॥
मकाराहवनीयौ च परमात्मा तमो दिवौ ।
ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥ ९३॥
शिवश्चैव च रेखायास्तृतीयायाश्च देवता ।
विज्ञेया मुनिशार्दूल शिवदीक्षापरायणैः ॥ ९४॥
एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ।
त्रिपुण्ड्रं धारयेच्छुद्धो भुक्तिं मुक्तिं च विन्दति ॥ ९५॥
इत्युक्ताः स्थानदेवाश्च सर्वाङ्गेषु मुनिश्वराः ।
तेषां सम्बन्धिनो भक्त्या स्थानानि शृणु साम्प्रतम् ॥ ९६॥
द्वात्रिंशत्स्थानके वार्धषोडशस्थानकेऽपि च ।
अष्टस्थाने तथा चैव पञ्चस्थानेऽपि नान्यसेत् ॥ ९७॥
उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा ।
नासावक्त्रगलेष्वेवं हस्तयोरुभयोस्ततः ॥ ९८॥
कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः ।
नाभौ मुष्कद्वये चैवमूर्वोर्गुल्फे च जानुनि ॥ ९९॥
जङ्घाद्वये पदद्वन्द्वे द्वात्रिंशत्स्थानमुत्तमम् ।
अग्न्यब्भूवायुदिग्देशदिक्पालान् वसुभिः सह ॥ १००॥
धरा ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभातश्च वसवोऽष्ट प्रकीर्तिताः ॥ १०१॥
एतेषां नाममात्रेण त्रिपुण्ड्रं धारयेद् बुधाः ।
कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥ १०२॥
शीर्षके च ललाटे च कण्ठे चांसद्वये भुजे ।
कूर्परे मणिबन्धे च हृदये नाभिपार्श्वके ॥ १०३॥
पृष्ठे चैवं प्रतिष्ठाप्य यजेत्तत्राश्विदैवते ।
शिवं शक्तिं तथा रुद्रमीशं नारदमेव च ॥ १०४॥
वामादिनवशक्तीश्च एता षोडश देवताः ।
नासत्यौ दस्रकश्चैव अश्विनौ द्वौ प्रकीर्तितौ ॥ १०५॥
अथवा मूर्ध्नि केशे च कर्णयोर्वदने तथा ।
बाहुद्वये च हृदये नाभ्यामूरुयुगे तथा ॥ १०६॥
जानुद्वये च पदयोः पृष्ठभागे च षोडश ।
शिवश्चन्द्रश्च रुद्रः को विघ्नेशो विष्णुरेव वा ॥ १०७॥
श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः ।
नागश्च नागकन्याश्च उभयोरृषिकन्यकाः ॥ १०८॥
पादयोश्च समुद्राश्च तीर्थाः पृष्ठे विशालतः ।
इत्येवं षोडशस्थानमष्टस्थानमथोच्यते ॥ १०९॥
गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ।
अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् ॥ ११०॥
ब्रह्मा च ऋषयः सप्त देवताश्च प्रकीर्तिताः ।
इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः ॥ १११॥
अथवा मस्तकं बाहू हृदयं नाभिरेव च ।
पञ्चस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥ ११२॥
यथासम्भवनं कुर्याद्देशकालाद्यपेक्षया ।
उद्धूलनेऽप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ॥ ११३॥
त्रिनेत्रं त्रिगुणाधारं त्रिदेवजनकं शिवम् ।
स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ ११४॥
ईशाभ्यां नम इत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम् ।
बीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ॥ ११५॥
कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि ।
भीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ॥ ११६॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां भस्मधारणवर्णनं नाम चतुर्विंशोऽध्यायः ॥ १.२४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
विद्येश्वरसंहिता
१.२५. पञ्चविंशोऽध्यायः । रुद्राक्षमाहात्म्यम् ।
सूत उवाच ।
शौनकर्षे महाप्राज्ञ शिवरूप महापते ।
शृणु रुद्राक्षमाहात्म्यं समासात् कथयाम्यहम् ॥ १॥
शिवप्रियतमो ज्ञेयो रुद्राक्षः परपावनः ।
दर्शनात् स्पर्शनाज्जाप्यात् सर्वपापहरः स्मृतः ॥ २॥
पुरा रुद्राक्षमहिमा देव्यग्रे कथितो मुने ।
लोकोपकरणार्थाय शिवेन परमात्मना ॥ ३॥
शिव उवाच ।
श्रूयतां तु महेशानि रुद्राक्षमहिमा शिवे ।
कथयामि तव प्रीत्या भक्तानां हितकाम्यया ॥ ४॥
दिव्यवर्षसहस्राणि महेशानि पुनः पुरा ।
तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ॥ ५॥
स्वतन्त्रेण परेशेन लोकोपकृतिकारिणा ।
लीलया परमेशानि चक्षुरुन्मीलितं मया ॥ ६॥
पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिन्दवः ।
तत्राश्रुबिन्दुतो जाता वृक्षा रुद्राक्षसंज्ञकाः ॥ ७॥
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ।
ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ ८॥
भूमौ गौडोद्भवांश्चक्रे रुद्राक्षाञ्छिववल्लभान् ।
मथुरायामयोध्यायां लङ्कायां मलये तथा ॥ ९॥
सह्याद्रौ च तथा काश्यां देशेष्वन्येषु वा तथा ।
परानसह्यपापौघभेदनाञ्छ्रुतिनोदनान् ॥ १०॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया ।
रुद्राक्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ११॥
श्वेतरक्ताः पीतकृष्णा वर्णा ज्ञेयाः क्रमाद् बुधैः ।
स्वजातीयं नृभिर्धार्यं रुद्राक्षं वर्णतः क्रमात् ॥ १२॥
वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ।
शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ १३॥
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ।
बदरीफलमात्रं तु मध्यमं सम्प्रकीर्तितम् ॥ १४॥
अधमं चणमात्रं स्यात् प्रक्रियैषा परोच्यते ।
शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ॥ १५॥
बदरीफलमात्रं च यत् स्यात् किल महेश्वरि ।
तथापि फलदं लोके सुखसौभाग्यवर्धनम् ॥ १६॥
धात्रीफलसमं यत् स्यात् सर्वारिष्टविनाशनम् ।
गुञ्जया सदृशं यत् स्यात् सर्वार्थफलसाधनम् ॥ १७॥
यथा यथा लघुः स्याद्वै तथाधिकफलप्रदः ।
एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ॥ १८॥
रुद्राक्षधारणं प्रोक्तं पापनाशनहेतवे ।
तस्माच्च धारणीयो वै सर्वार्थसाधनो ध्रुवम् ॥ १९॥
यथा च दृश्यते लोके रुद्राक्षः फलदः शुभः ।
न तथा दृश्यतेऽन्या च मालिका परमेश्वरि ॥ २०॥
समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः ।
रुद्राक्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा ॥ २१॥
कृमिदुष्टं छिन्नभिन्नं कण्टकैर्हीनमेव च ।
व्रणयुक्तमवृत्तं च रुद्राक्षान् षड् विवर्जयेत् ॥ २२॥
स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।
यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ २३॥
रुद्राक्षधारणं प्रोक्तं महापातकनाशनम् ।
रुद्रसङ्ख्याशतं धृत्वा रुद्ररूपो भवेन्नरः ॥ २४॥
एकादशशतानीह धृत्वा यत्फलमाप्यते ।
तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५॥
शतार्धेन युतैः पञ्चशतैर्वै मुकुटं मतम् ।
रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ २६॥
त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ।
रुद्राक्षैरुपवीतं च निर्मीयाद्भक्तितत्परः ॥ २७॥
शिखायां च त्रयं प्रोक्तं रुद्रक्षाणां महेश्वरि ।
कर्णयोः षट् च षट् चैव वामदक्षिणयोस्तथा ॥ २८॥
शतमेकोत्तरं कण्ठे बाह्वोर्वै रुद्रसङ्ख्यया ।
कूर्परद्वारयोस्तत्र मणिबन्धे तथा पुनः ॥ २९॥
उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः ।
शेषानुर्वरितान्पञ्च सम्मितान्धारयेत्कटौ ॥ ३०॥
एतत्सङ्ख्या धृता येन रुद्राक्षाः परमेश्वरि ।
तद्रूपं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ॥ ३१॥
एवम्भूतं स्थितं ध्याने यदा कृत्वासने जनम् ।
शिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते ॥ ३२॥
शताधिकसहस्रस्य विधिरेष प्रकीर्तितः ।
तदभावे प्रकारोऽन्यः शुभः सम्प्रोच्यते मया ॥ ३३॥
शिखायामेकरुद्राक्षं शिरसा त्रिंशतं वहेत् ।
पञ्चाशच्च गले दध्याद् बाह्वोः षोडश षोडश ॥ ३४॥
मणिबन्धे द्वादश द्विस्कन्धे पञ्चशतं वहेत् ।
अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ॥ ३५॥
एवं सहस्ररुद्राक्षान्धारयेद्यो दृढव्रतः ।
तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः ॥ ३६॥
एकं शिखायां रुद्राक्षं चत्वारिंशत्तु मस्तके ।
द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ॥ ३७॥
एकैकं कर्णयोः षट् षट् बाह्वोः षोडश षोडश ।
करयो रविमानेन द्विगुणेन मुनीश्वर ॥ ३८॥
सङ्ख्या प्रीतिधृता येन सोऽपि शैवजनः परः ।
शिववत्पूजनीयो हि वन्द्यः सर्वैरभीक्ष्णशः ॥ ३९॥
शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च ।
अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥ ४०॥
अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः ।
पञ्चदशाक्षग्रथितां वामदेवेन चोदरे ॥ ४१॥
पञ्चब्रह्मभिरङ्गैश्च त्रिमालां पञ्च सप्त च ।
अथ वा मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् ॥ ४२॥
मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च ।
श्लेष्मान्तकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ ४३॥
वलक्षं रुद्राक्षं द्विजतनुभिरेवेह विहितं
सुरक्तं क्षत्राणां प्रमुदितमुमे पीतमसकृत् ।
ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो
तथा कृष्णं शूद्रैः श्रुतिगदितमार्गोऽयमगजे ॥ ४४॥
वर्णी वनी गृहयतीर्नियमेन दध्या-
देतद्रहस्यपरमो न हि जातु तिष्ठेत् ।
रुद्राक्षधारणमिदं सुकृतैश्च लभ्यं
त्यक्त्वेदमेतदखिलान्नरकान् प्रयान्ति ॥ ४५॥
आदावामलकास्ततो लघुतरा
रुग्णास्ततः कण्टकैः
सन्दष्टाः कृमिभिस्तनूपकरण-
च्छिद्रेण हीनास्तथा ।
धार्या नैव शुभेप्सुभिश्चणकवद्
रुद्राक्षमप्यन्ततो
रुद्राक्षो मम लिङ्गमङ्गलमुमे
सूक्ष्मं प्रशस्तं सदा ॥ ४६॥
सर्वाश्रमाणां वर्णानां स्त्रीशूद्राणां शिवाज्ञया ।
धार्याः सदैव रुद्राक्षा यतीनां प्रणवेन हि ॥ ४७॥
दिवा बिभ्रद्रात्रिकृतै रात्रौ बिभ्रद्दिवाकृतैः ।
प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ॥ ४८॥
ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये ।
ये रुद्राक्षधरास्ते वै यमलोकं प्रयान्ति न ॥ ४९॥
रुद्राक्षमेकं शिरसा बिभर्ति
तथा त्रिपुण्ड्रं च ललाटमध्ये ।
पञ्चाक्षरं ये हि जपन्ति मन्त्रं
पूज्या भवद्भिः खलु ते हि साधवः ॥ ५०॥
यस्याङ्गे नास्ति रुद्राक्षस्त्रिपुण्ड्रं भालपट्टके ।
मुखे पञ्चाक्षरं नास्ति तमानय यमालयम् ॥ ५१॥
ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्राक्षधारिणः ।
ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ॥ ५२॥
एवमाज्ञापयामास कालोऽपि निजकिङ्करान् ।
तथेति मत्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ॥ ५३॥
अत एव महादेवि रुद्राक्षोऽप्यघनाशनः ।
तद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति ॥ ५४॥
हस्ते बाहौ तथा मूर्ध्नि रुद्राक्षं धारयेत्तु यः ।
अवध्यः सर्वभूतानां रुद्ररूपी चरेद्भुवि ॥ ५५॥
सुरासुराणां सर्वेषां वन्दनीयः सदा स वै ।
पूजनीयो हि दृष्टस्य पापहा च यथा शिवः ॥ ५६॥
ध्यानज्ञानावमुक्तोऽपि रुद्राक्षं धारयेत्तु यः ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५७॥
रुद्राक्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत् ।
दशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ ५८॥
यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै ।
तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ॥ ५९॥
त्रिपुण्ड्रेण च संयुक्तं रुद्राक्षाविलसाङ्गकम् ।
मृत्युञ्जयं जपन्तं च दृष्ट्वा रुद्रफलं लभेत् ॥ ६०॥
पञ्चदेवप्रियश्चैव सर्वदेवप्रियस्तथा ।
सर्वमन्त्राञ्जपेद्भक्तो रुद्राक्षमालया प्रिये ॥ ६१॥
विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः ।
रुद्रभक्तो विशेषेण रुद्राक्षान्धारयेत्सदा ॥ ६२॥
रुद्राक्षा विविधाः प्रोक्तास्तेषां भेदान् वदाम्यहम् ।
शृणु पार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ ६३॥
एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ।
तस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥ ६४॥
यत्र सम्पूजितस्तत्र लक्ष्मीर्दूरतरा नहि ।
नश्यन्त्युपद्रवाः सर्वे सर्वकामा भवन्ति हि ॥ ६५॥
द्विवक्त्रो देवदेवेशः सर्वकामफलप्रदः ।
विशेषतः स रुद्राक्षो गोवधं नाशयेद् द्रुतम् ॥ ६६॥
त्रिवक्त्रो यो हि रुद्राक्षः साक्षात्साधनदः सदा ।
तत्प्रभावाद्भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः ॥ ६७॥
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ।
दर्शनात् स्पर्शनात् सद्यश्चतुर्वर्गफलप्रदः ॥ ६८॥
पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नामतः प्रभुः ।
सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः ॥ ६९॥
अगम्यागमनं पापमभक्ष्यस्य च भक्षणम् ।
इत्यादिसर्वपापानि पञ्चवक्त्रो व्यपोहति ॥ ७०॥
षड्वक्त्रः कार्तिकेयस्तु धारणाद् दक्षिणे भुजे ।
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७१॥
सप्तवक्त्रो महेशानि ह्यनङ्गो नाम नामतः ।
धारणात्तस्य देवेशि दरिद्रोऽपीश्वरो भवेत् ॥ ७२॥
रुद्राक्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ।
धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ ७३॥
भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः ।
दुर्गा वा तदधिष्ठात्री नवरूपा महेश्वरी ॥ ७४॥
तं धारयेद्वामहस्ते रुद्राक्षं भक्तितत्परः ।
सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः ॥ ७५॥
दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ।
धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ ७६॥
एकादशमुखो यस्तु रुद्राक्षः परमेश्वरि ।
स रुद्रो धारणात्तस्य सर्वत्र विजयी भवेत् ॥ ७७॥
द्वादशास्यं तु रुद्राक्षं धारयेत् केशदेशके ।
आदित्याश्चैव ते सर्वे द्वादशैव स्थितास्तथा ॥ ७८॥
त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ।
सर्वान्कामानवाप्नोति सौभाग्यं मङ्गलं लभेत् ॥ ७९॥
चतुर्दशमुखो यो हि रुद्राक्षः परमः शिवः ।
धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति ॥ ८०॥
इति रुद्राक्षभेदा हि प्रोक्ता वै मुखभेदतः ।
तत्तन्मन्त्राञ्छृणु प्रीत्या क्रमाच्छैलेश्वरात्मजे ॥ ८१॥
ॐ ह्रीं नमः १ ॐ नमः २ ॐ क्लीं नमः ३ ॐ ह्रीं नमः ४
ॐ ह्रीं नमः ५ ॐ ह्रीं हुं नमः ६ ॐ हुं नमः ७ ॐ हुं नमः ८
ॐ ह्रीं हुं नमः ९ ॐ ह्रीं नमः १०
ॐ ह्रीं हुं नमः ११ ॐ क्रौं क्षौं रौं नमः १२
ॐ ह्रीं नमः १३ ॐ नमः १४
भक्तिश्रद्धायुतश्चैव सर्वकामार्थसिद्धये ।
रुद्राक्षान्धारयेन्मन्त्रैर्देवि आलस्यवर्जितः ॥ ८२॥
विना मन्त्रेण हो धत्ते रुद्राक्षं भुवि मानवः ।
स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥ ८३॥
रुद्राक्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः ।
डाकिनी शाकिनी चैव ये चान्ये द्रोहकारकाः ॥ ८४॥
कृत्रिमं चैव यत्किञ्चिदभिचारादिकं च यत् ।
तत्सर्वं दूरतो याति दृष्ट्वा शङ्कितविग्रहम् ॥ ८५॥
रुद्राक्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ।
देवी गणपतिः सूर्यः सुराश्चान्येऽपि पार्वति ॥ ८६॥
एवं ज्ञात्वा तु माहात्म्यं रुद्राक्षस्य महेश्वरि ।
सम्यग्धार्याः समन्त्राश्च भक्त्या धर्मविवृद्धये ॥ ८७॥
इत्युक्तं गिरिजाग्रे हि शिवेन परमात्मना ।
भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ ८८॥
शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्राक्षधारिणौ ।
तद्धारणप्रभावाद्धि भुक्तिर्मुक्तिर्न संशयः ॥ ८९॥
भस्मरुद्राक्षधारी यः शिवभक्तः स उच्यते ।
पञ्चाक्षरजपासक्तः परिपूर्णश्च सन्मुखे ॥ ९०॥
विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो नाभीष्टफलदायकः ॥ ९१॥
तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर ।
भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ ९२॥
एतद्यः शृणुयान्नित्यं माहात्म्यं परमं शुभम् ।
रुद्राक्षभस्मनोर्भक्त्या सर्वान्कामानवाप्नुयात् ॥ ९३॥
इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ।
लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ ९४॥
विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ।
सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ॥ ९५॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः ॥ १.२५॥
॥ समाप्तेयं प्रथमा विद्येश्वरसंहिता ॥