श्रीशिवमहापुराणम् २१ रुद्रसंहितायां सृष्टिखण्डः

श्रीशिवमहापुराणम् २१ रुद्रसंहितायां सृष्टिखण्डः

॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहिता प्रथमः सृष्टिखण्डः

२.१.१. प्रथमोऽध्यायः । मुनिप्रश्नवर्णनम् ।

विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपतिं विदिततत्त्वमनन्तकीर्तिम् । मायाश्रयं विगतमायमचिन्त्यरूपं बोधस्वरूपममलं हि शिवं नमामि ॥ १॥ वन्दे शिवं तं प्रकृतेरनादिं प्रशान्तमेकं पुरुषोत्तमं हि । स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः ॥ २॥ वन्देऽन्तरस्थं निजगूढरूपं शिवं स्वतः स्रष्टुमिदं विचष्टे । जगन्ति नित्यं परितो भ्रमन्ति यत्सन्निधौ चुम्बकलोहवत्तम् ॥ ३॥ व्यास उवाच । जगतः पितरं शम्भुं जगतो मातरं शिवाम् । तत्पुत्रश्च गणाधीशं नत्वैतद्वर्णयामहे ॥ ४॥ एकदा मुनयः सर्वे नैमिषारण्यवासिनः । पप्रच्छुर्वरया भक्त्या सूतं ते शौनकादयः ॥ ५॥ ऋषय ऊचुः । विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा । साध्यसाधनखण्डाख्या रम्याद्या भक्तवत्सला ॥ ६॥ सूत सूत महाभाग चिरञ्जीव सुखी भव । यच्छ्रावयसि नस्तात शाङ्करीं परमां कथाम् ॥ ७॥ पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतं वयम् । अवितृप्ताः पुनः किञ्चित्प्रष्टुमिच्छामहेऽनघ ॥ ८॥ व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम् । नाज्ञातं विद्यते किञ्चिद्भूतं भव्यं भवच्च यत् ॥ ९॥ गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम् । सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः ॥ १०॥ इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम् । दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः ॥ ११॥ अगुणो गुणतां याति कथं लोके महेश्वरः । शिवतत्त्वं वयं सर्वे न जानीमो विचारतः ॥ १२॥ सृष्टेः पूर्वं कथं शम्भुः स्वरूपेणावतिष्ठते । सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ १३॥ तदन्ते च कथं देवः स तिष्ठति महेश्वरः । कथं प्रसन्नतां याति शङ्करो लोकशङ्करः ॥ १४॥ स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम् । स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः ॥ १५॥ सद्यः प्रसन्नो भगवान्भवतीत्यनुशुश्रुम । भक्तप्रयासं स महान्न पश्यति दयापरः ॥ १६॥ ब्रह्मा विष्णुर्महेशश्च त्रयो देवाः शिवाङ्गजाः । महेशस्तत्र पूर्णांशः स्वयमेव शिवोऽपरः ॥ १७॥ तस्याविर्भावमाख्याहि चरितानि विशेषतः । उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो ॥ १८॥ तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि । एतत्सर्वं तदन्यच्च कथनीयं त्वयानघ ॥ १९॥ व्यास उवाच । इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः । स्मृत्वा शम्भुपदाम्भोजं प्रत्युवाच मुनीश्वरान् ॥ २०॥ सूत उवाच । सम्यक् पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः । सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः ॥ २१॥ सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि । वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा ॥ २२॥ शम्भोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः । विना पशुघ्नं त्रिविधजनानन्दकरात्सदा । २३॥ गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि । मनःश्रोत्राभिरामश्च यतः सर्वार्थदः स वै ॥ २४॥ कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः । शिवलीलां प्रयत्नेन द्विजास्तां श‍ृणुतादरात् ॥ २५॥ भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै । पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा ॥ २६॥ ब्रह्मा श्रुत्वा सुतवचः शिवभक्तः प्रसन्नधीः । जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम् ॥ २७॥ व्यास उवाच । सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः । पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः ॥ २८॥ ऋषय ऊचुः । सूत सूत महाभाग शैवोत्तम महामते । श्रुत्वा तव वचो रम्यं चेतो नः सकुतूहलम् ॥ २९॥ कदा बभूव सुखकृद्विधिनारदयोर्महान् । संवादो यत्र गिरिशसुलीला भवमोचनी ॥ ३०॥ विधिनारदसंवादपूर्वकं शाङ्करं यशः । ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः ॥ ३१॥ इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् । सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः ॥ ३२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनं नाम प्रथमोऽध्यायः ॥ २.१.१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.२. द्वितीयोऽध्यायः । नारदतपोवर्णनम् ।

सूत उवाच । एकस्मिन्समये विप्रा नारदो मुनिसत्तमः । ब्रह्मपुत्रो विनीतात्मा तपोऽर्थं मन आदधे ॥ १॥ हिमशैलगुहा काचिदेका परमशोभना । यत्समीपे सुरनदी सदा वहति वेगतः ॥ २॥ तत्राश्रमो महादिव्यो नानाशोभासमन्वितः । तपोऽर्थं स ययौ तत्र नारदो दिव्यदर्शनः ॥ ३॥ तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः । बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ॥ ४॥ चक्रे मुनिः समाधिं तमहम्ब्रह्मेति यत्र ह । विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ॥ ५॥ इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे । चकम्पेऽथ शुनासीरो मनस्सन्तापविह्वलः ॥ ६॥ मनसीति विचिन्त्यासौ मुनिर्मे राज्यमिच्छति । तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ॥ ७॥ सस्मार स स्मरं शक्रश्चेतसा देवनायकः । आजगाम द्रुतं कामः समधीर्महिषीयुतः ॥ ८॥ अथागतं स्मरं दृष्ट्वा सम्बोध्य सुरराट् प्रभुः । उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ॥ ९॥ इन्द्र उवाच । मित्रवर्य महावीर सर्वदा हितकारक । श‍ृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ॥ १०॥ त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः । मद्राज्यस्थिरता मित्र त्वदनुग्रहतः सदा ॥ ११॥ हिमशैलगुहायां हि मुनिस्तपति नारदः । मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ॥ १२॥ याचेन्न विधितो राज्यं स ममेति विशङ्कितः । अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर ॥ १३॥ इत्याज्ञप्तो महेन्द्रेण स कामः समधुप्रियः । जगाम तत्स्थलं गर्वादुपायं स्वं चकार ह ॥ १४॥ रचयामास तत्राशु स्वकलाः सकला अपि । वसन्तोऽपि स्वप्रभावं चकार विविधं मदात् ॥ १५॥ न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः । भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ॥ १६॥ श‍ृणुतादरतस्तत्र कारणं शौनकादयः । ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ॥ १७॥ अत्रैव शम्भुनाकारि सुतपश्च स्मरारिणा । अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ॥ १८॥ कामजीवनहेतोर्हि रत्या सम्प्रार्थितैः सुरैः । सम्प्रार्थित उवाचेदं शङ्करो लोकशङ्करः ॥ १९॥ कञ्चित्समयमासाद्य जीविष्यति सुराः स्मरः । परन्त्विह स्मरोपायश्चलिष्यति न कश्चन ॥ २०॥ इह यावद्दृष्यते भूर्जनैः स्थित्वामराः सदा । कामबाणप्रभावोऽत्र न चलिष्यत्यसंशयम् ॥ २१॥ इति शम्भूक्तितः कामो मिथ्यात्मगतिकस्तदा । नारदे स जगामाशु दिवमिन्द्रसमीपतः ॥ २२॥ आचख्यौ सर्ववृत्तान्तं प्रभावं च मुनेः स्मरः । तदाज्ञया ययौ स्थानं स्वकीयं समधुप्रियः ॥ २३॥ विस्मितोऽभूत्सुराधीशः प्रशशंसाथ नारदम् । तद्वृत्तान्तानभिज्ञो हि मोहितः शिवमायया ॥ २४॥ दुर्ज्ञेया शाम्भवी माया सर्वेषां प्राणिनामिह । भक्तं विनार्पितात्मानं तया सम्मोह्यते जगत् ॥ २५॥ नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह । पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ॥ २६॥ कामाज्जयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः । वृथैव विगतज्ञानः शिवमायाविमोहितः ॥ २७॥ धन्या धन्या महामाया शाम्भवी मुनिसत्तमाः । तद्गतिं न हि पश्यन्ति विष्णुब्रह्मादयोऽपि हि ॥ २८॥ तया सम्मोहितोऽतीव नारदो मुनिसत्तमः । कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी ॥ २९॥ रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तं गर्ववान्मुनिः । मत्त्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम् ॥ ३०॥ तच्छ्रुत्वा शङ्करः प्राह नारदं भक्तवत्सलः । स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम् ॥ ३१॥ रुद्र उवाच । हे तात नारद प्राज्ञ धन्यस्त्वं श‍ृणु मद्वचः । वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः ॥ ३२॥ पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान् । गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन ॥ ३३॥ शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् । विष्णुभक्तो यतस्त्वं हि तद्भक्तोऽतीव मेऽनुगः ॥ ३४॥ शास्ति स्मेत्थञ्च बहुशो रुद्रः सूतिकरः प्रभुः । नारदो न हितं मेने शिवमायाविमोहितः । ३५॥ प्रबला भाविनी कर्मगतिर्ज्ञेया विचक्षणैः । न निवार्या जनैः कैश्चिदपीच्छा सैव शाङ्करी ॥ ३६॥ ततः स मुनिवर्यो हि ब्रह्मलोकं जगाम ह । विधिं नत्वाब्रवीत्कामजयं स्वस्य तपोबलात् ॥ ३७॥ तदाकर्ण्य विधिः सोऽथ स्मृत्वा शम्भुपदाम्बुजम् । विज्ञाय कारणं सर्वं निषिषेध सुतं तदा ॥ ३८॥ मेने हितं न विध्युक्तं नारदो ज्ञानिसत्तमः । शिवमायामोहितश्च रूढचित्तमदाङ्कुरः ॥ ३९॥ शिवेच्छा यादृशी लोके भवत्येव हि सा तदा । तदधीनं जगत्सर्वं वचस्तन्त्यां स्थितं यतः ॥ ४०॥ नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः । मदाङ्कुरमना वृत्तं गदितुं स्वं तदग्रतः ॥ ४१॥ आगच्छन्तं मुनिं दृष्ट्वा नारदं विष्णुरादरात् । उत्थित्वाग्रे गतोऽरं तं शिश्लेष ज्ञातहेतुकः ॥ ४२॥ स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् । हरिः प्राह वचस्तथ्यं नारदं मदनाशनम् ॥ ४३॥ विष्णुरुवाच । कुत आगम्यते तात किमर्थमिह चागतः । धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात् ॥ ४४॥ विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः । स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः ॥ ४५॥ श्रुत्वा मुनिवचो विष्णुः समदं कारणं ततः । ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि ॥ ४६॥ तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड्ढरिः । साञ्जलिर्विसुधीर्नम्रमस्तकः परमेश्वरम् ॥ ४७॥ विष्णुरुवाच । देव देव महादेव प्रसीद परमेश्वर । धन्यस्त्वं शिव धन्या ते माया सर्वविमोहिनी ॥ ४८॥ इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः । निमील्य नयने ध्यात्वा विरराम पदाम्बुजम् ॥ ४९॥ यत्कर्तव्यं शङ्करस्य स ज्ञात्वा विश्वपालकः । शिवशासनतः प्राह हृदाथ मुनिसत्तमम् ॥ ५०॥ विष्णुरुवाच । धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः । भक्तित्रिकं न यस्यास्ति काममोहादयो मुने ॥ ५१॥ विकारास्तस्य सद्यो वै भवन्त्यखिलदुःखदाः । नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा ॥ ५२॥ कथं कामविकारी स्याज्जन्मनाविकृतः सुधीः । इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः ॥ ५३॥ विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् । नारद उवाच । किम्प्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि ॥ ५४॥ इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः ॥ ५५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ॥ २.१.२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.३. तृतीयोऽध्यायः । नारदमोहनं वर्णनम् ।

ऋषय ऊचुः । सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते । अद्भुतेयं कथा तात वर्णिता कृपया हि नः ॥ १॥ मुनौ गते हरिस्तात किञ्चकार ततः परम् । नारदोऽपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ॥ २॥ व्यास उवाच । इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः । प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः ॥ ३॥ सूत उवाच । मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे । शिवेच्छया चकाराशु मायां मायाविशारदः ॥ ४॥ मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् । शतयोजनविस्तारमद्भुतं सुमनोहरम् ॥ ५॥ स्वलोकादधिकं रम्यं नानावस्तुविराजितम् । नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ॥ ६॥ तत्र राजा शीलनिधिर्नामैश्वर्यसमन्वितः । सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः ॥ ७॥ चतुर्दिग्भ्यः समायातैः संयुतं नृपनन्दनैः । नानावेषैः सुशोभैश्च तत्कन्यावरणोत्सुकैः ॥ ८॥ एतादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः । कौतुकी तन्नृपद्वारं जगाम मदनैधितः ॥ ९॥ आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः । उपवेश्यार्चयाञ्चक्रे रत्नसिंहासने वरे ॥ १०॥ अथ राजा स्वतनयां नामतः श्रीमतीं वराम् । नारदस्य समानीय पादयोः समपातयत् ॥ ११॥ तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः । केयं राजन्महाभागा कन्या सुरसुतोपमा ॥ १२॥ तस्य तद्वचनं श्रुत्वा राजा प्राह कृताञ्जलिः । दुहितेयं मम मुने श्रीमती नाम नामतः ॥ १३॥ प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् । सा स्वयम्वरसम्प्राप्ता सर्वलक्षणलक्षिता ॥ १४॥ अस्या भाग्यं वद मुने सर्वं जातकमादरात् । कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ॥ १५॥ इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः । समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ॥ १६॥ सुतेयं तव भूपाल सर्वलक्षणलक्षिता । महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ॥ १७॥ सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः । अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ॥ १८॥ इत्युक्त्वा नृपमामन्त्र्य ययौ यादृच्छिको मुनिः । बभूव कामविवशः शिवमायाविमोहितः ॥ १९॥ चित्ते विचिन्त्य स मुनिराप्नुयां कन्यकां कथम् । स्वयंवरे नृपालानामेकं मां वृणुयात्कथम् ॥ २०॥ सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा । तद् दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः ॥ २१॥ विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः । विष्णुलोकं जगामाशु नारदः स्मरविह्वलः ॥ २२॥ प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह । रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ॥ २३॥ तथेत्युक्ते तथाभूते शिवेच्छाकार्यकर्तरि । ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम् ॥ २४॥ नारद उवाच । त्वदीयो भूपतिः शीलनिधिः स वृषतत्परः । तस्य कन्या विशालाक्षी श्रीमती वरवर्णिनी ॥ २५॥ जगन्मोहिन्यभिख्याता त्रैलोक्येऽप्यतिसुन्दरी । परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम् ॥ २६॥ स्वयम्वरं चकारासौ भूपतिस्तनयेच्छया । चतुर्दिग्भ्यः समायाता राजपुत्राः सहस्रशः ॥ २७॥ यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् । त्वद्रूपं सा विना कण्ठे जयमालां न धास्यति ॥ २८॥ स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव । वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा ॥ २९॥ सूत उवाच । वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः । शाङ्करीं प्रभुतां बुध्वा प्रत्युवाच दयापरः ॥ ३०॥ विष्णुरुवाच । स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव । भिषग्वरो यथार्तस्य यतः प्रियतरोऽसि मे ॥ ३१॥ इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरेः । स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः ॥ ३२॥ एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः । मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ॥ ३३॥ अथ तत्र गतः शीघ्रं नारदो मुनिसत्तमः । चक्रे स्वयम्वरं यत्र राजपुत्रैः समाकुलम् ॥ ३४॥ स्वयम्वरसभा दिव्या राजपुत्रसमावृता । शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभापरा ॥ ३५॥ तस्यां नृपसभायां वै नारदः समुपाविशत् । स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ॥ ३६॥ मां वरिष्यति नान्यं सा विष्णुरूपधरं ध्रुवम् । आननस्य कुरूपत्वं न वेद मुनिसत्तमः ॥ ३७॥ पूर्वरूपं मुनिं सर्वे ददृशुस्तत्र मानवाः । तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः । ३८॥ तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ । विप्ररूपधरौ गूढौ तद्भेदं जज्ञतुः परम् ॥ ३९॥ मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ । कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ॥ ४०॥ पश्य नारदरूपं हि विष्णोरिव महोत्तमम् । मुखं तु वानरस्येव विकटं च भयङ्करम् ॥ ४१॥ इच्छत्ययं नृपसुतां वृथैव स्मरमोहितः । इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ॥ ४२॥ न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः । पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ॥ ४३॥ एतस्मिन्नन्तरे भूपकन्या चान्तःपुरात्तु सा । स्त्रीभिः समावृता तत्राजगाम वरवर्णिनी ॥ ४४॥ मालां हिरण्मयीं रम्यामादाय शुभलक्षणा । तत्र स्वयम्वरे रेजे स्थिता मध्ये रमेव सा ॥ ४५॥ बभ्राम सा सभां सर्वां मालामादाय सुव्रता । वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ॥ ४६॥ वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा । दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा ॥ ४७॥ न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनेप्सितम् । अन्तःसभास्थिता कस्मिन्नर्पयामास न स्रजम् ॥ ४८॥ एतस्मिन्नन्तरे विष्णुराजगाम नृपाकृतिः । न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ॥ ४९॥ अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा । अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ॥ ५०॥ तामादाय ततो विष्णू राजरूपधरः प्रभुः । अन्तर्धानमगात्सद्यः स्वस्थानं प्रययौ किल ॥ ५१॥ सर्वे राजकुमाराश्च निराशाः श्रीमतीं प्रति । मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः ॥ ५२॥ तदा तावूचतुः सद्यो नारदं स्मरविह्वलम् । विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ॥ ५३॥ गणावूचतुः हे नारद मुने त्वं हि वृथा मदनमोहितः । तल्लिप्सुः स्वमुखं पश्य वानरस्येव गर्हितम् ॥ ५४॥ सूत उवाच । इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् । मुखं ददर्श मुकुरे शिवमायाविमोहितः ॥ ५५॥ स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम् । शापं ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ॥ ५६॥ युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि । भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती ॥ ५७॥ श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ । न किञ्चिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ॥ ५८॥ स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम् । चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ॥ ५९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ॥ २.१.३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.४. चतुर्थोऽध्यायः । नारदय विष्णूपदेशवर्णनम् ।

ऋषय ऊचुः । सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा । धन्या तु शाम्भवी माया तदधीनं चराचरम् ॥ १॥ गतयोर्गणयोः शम्भोः स्वयमात्मेच्छया विभोः । किञ्चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः ॥ २॥ सूत उवाच । विमोहितो मुनिर्दत्त्वा तयोः शापं यथोचितम् । जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया ॥ ३॥ शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम् । क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह ॥ ४॥ उवाच वचनं क्रुद्धः समिद्ध इव पावकः । दुरुक्तिगर्भितं व्यङ्गं नष्टज्ञानः शिवेच्छया ॥ ५॥ नारद उवाच । हे हरे त्वं महादुष्टः कपटी विश्वमोहनः । परोत्साहं न सहसे मायावी मलिनाशयः ॥ ६॥ मोहिनीरूपमादाय कपटं कृतवान्पुरा । असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि ॥ ७॥ चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः । भवेन्नष्टाखिला माया तव व्याजरते हरे ॥ ८॥ गतिः सकपटा तेऽतिप्रिया विष्णो विशेषतः । साधुस्वभावो न भवान्स्वतन्त्रः प्रभुणा कृतः ॥ ९॥ कृतं समुचितं नैव शिवेन परमात्मना । तत्प्रभावबलं ध्यात्वा स्वतन्त्रकृतिकारकः ॥ १०॥ त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः । विप्रं सर्वोपरि प्राह स्वोक्तवेदप्रमाणकृत् ॥ ११॥ तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात् । यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन ॥ १२॥ अद्यापि निर्भयस्त्वं हि सङ्गं नापस्तरस्विना । इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः ॥ १३॥ इत्थमुक्त्वा हरिं सोऽथ मुनिर्मायाविमोहितः । शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन् ॥ १४॥ स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः । अन्वकार्षीः स्वरूपेण येन कापट्यकार्यकृत् ॥ १५॥ तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे । यन्मुखं कृतवान्मे त्वं ते भवन्तु सहायिनः ॥ १६॥ त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः । मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः ॥ १७॥ इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः । विष्णुर्जग्राह तं शापं प्रशंसन् शाम्भवीमजाम् ॥ १८॥ अथ शम्भुर्महालीलो निश्चकर्ष विमोहिनीम । स्वमायां मोहितो ज्ञानी नारदोऽप्यभवद्यया ॥ १९॥ अन्तर्हितायां मायायां पूर्ववन्मतिमानभूत् । नारदो विस्मितमनाः प्राप्तबोधो निराकुलः ॥ २०॥ पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः । प्रशशंस तदा मायां शाम्भवीं ज्ञानिमोहिनीम् ॥ २१॥ अथ ज्ञात्वा मुनिःसर्वं मायाविभ्रममात्मनः । अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः ॥ २२॥ हर्युपस्थापितः प्राह वचनं नष्टदुर्मतिः । मया दुरुक्तयः प्रोक्ता मोहितेन कुबुद्धिना ॥ २३॥ दत्तः शापोऽपि ते नाथ वितथं कुरु तं प्रभो । महत्पापमकार्षं हि यास्यामि निरयं ध्रुवम् ॥ २४॥ कमुपायं हरे कुर्यां दासोऽहं ते तमादिश । येन पापकुलं नश्येन्निरयो न भवेन्मम ॥ २५॥ इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः । पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः ॥ २६॥ अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः । विष्णुरुवाच । न खेदं कुरु मे भक्तवरस्त्वं नात्र संशयः ॥ २७॥ श‍ृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात् । निरयस्ते न भविता शिवः शं ते विधास्यति ॥ २८॥ यदकार्षीः शिववचो वितथं मदमोहितः । स दत्तवानीदृशं ते फलं कर्मफलप्रदः ॥ २९॥ शिवेच्छयाखिलं जातं कुर्वित्थं निश्चितां मतिम् । गर्वापहर्ता स स्वामी शङ्करः परमेश्वरः ॥ ३०॥ परं ब्रह्म परात्मा स सच्चिदानन्दबोधनः । निर्गुणो निर्विकारी च रजःसत्त्वतमःपरः ॥ ३१॥ स एवादाय मायां स्वां त्रिधा भवति रूपतः । ब्रह्मविष्णुमहेशात्मा निर्गुणोऽनिर्गुणोऽपि सः ॥ ३२॥ निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः । परं ब्रह्माव्ययोऽनन्तो महादेवेति गीयते ॥ ३३॥ तत्सेवया विधिः स्रष्टा पालको जगतामहम् । स्वयं सर्वस्य संहारी रुद्ररूपेण सर्वदा ॥ ३४॥ साक्षी शिवस्वरूपेण मायाभिन्नः स निर्गुणः । स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः ॥ ३५॥ श‍ृणु त्वं नारद मुने सदुपायं सुखप्रदम् । सर्वपापापहर्तारं भुक्तिमुक्तिप्रदं सदा ॥ ३६॥ त्यक्त्वा स्वसंशयं सर्वं गायन् शङ्करसद्यशः । शतनामशिवस्तोत्रं सदानन्यमतिर्जप ॥ ३७॥ यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति । इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः ॥ ३८॥ मुने न कुरु शोकं त्वं त्वया किञ्चित्कृतं न हि । स्वेच्छया कृतवान्शम्भुरिदं सर्वं न संशयः ॥ ३९॥ अहार्षित्त्वन्मतिं दिव्यां कामक्लेशमदात्स ते । त्वन्मुखाद्दापयाञ्चक्रे शापं मे स महेश्वरः ॥ ४०॥ इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम् । मृत्युञ्जयः कालकालो भक्तोद्धारपरायणः ॥ ४१॥ न मे शिवसमानोऽस्ति प्रियः स्वामी सुखप्रदः । सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः ॥ ४२॥ तस्योपास्यां कुरु मुने तमेव सततं भज । तद्यशः श‍ृणु गाय त्वं कुरु नित्यं तदर्चनम् ॥ ४३॥ कायेन मनसा वाचा यः शङ्करमुपैति भोः । स पण्डित इति ज्ञेयः स जीवन्मुक्त उच्यते ॥ ४४॥ शिवेति नामदावाग्नेर्महापातकपर्वताः । भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः ॥ ४५॥ पापमूलानि दुःखानि विविधान्यपि तान्यतः । शिवार्चनैकनश्यानि नान्यनश्यानि सर्वथा ॥ ४६॥ स वैदिकः स पुण्यात्मा स धन्यः स बुधो मुने । यः सदा कायवाक् चित्तैः शरणं याति शङ्करम् ॥ ४७॥ भवन्ति विविधा धर्मा येषां सद्यः फलोन्मुखाः । तेषां भवति विश्वासस्त्रिपुरान्तकपूजने ॥ ४८॥ पातकानि विनश्यन्ति यावन्ति शिवपूजया । भुवि तावन्ति पापानि न सन्त्येव महामुने ॥ ४९॥ ब्रह्महत्यादिपापानां राशयोऽप्यमिता मुने । शिवस्मृत्या विनश्यन्ति सत्यं सत्यं वदाम्यहम् ॥ ५०॥ शिवनामतरीं प्राप्य संसाराब्धिं तरन्ति ते । संसारमूलपापानि तस्य नश्यन्त्यसंशयम् ॥ ५१॥ संसारमूलभूतानां पातकानां महामुने । शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥ ५२॥ शिवनामामृतं पेयं पापदावानलार्दितैः । पापदावाग्नितप्तानां शान्तिस्तेन विना न हि ॥ ५३॥ शिवेति नामपीयूषवर्षधारापरिप्लुताः । संसारदवमध्येऽपि न शोचन्ति न संशयः ॥ ५४॥ न भक्तिः शङ्करे पुंसां रागद्वेषरतात्मनाम् । तद्विरुद्धजनानां हि मुक्तिर्भवति सर्वथा ॥ ५५॥ अनन्तजन्मभिर्येन तपस्तप्तं भविष्यति । तस्यैव भक्तिर्भवति भवानीप्राणवल्लभे ॥ ५६॥ जातापि शङ्करे भक्तिरन्यसाधारणी वृथा । परं त्वव्यभिचारेण शिवभक्तिरपेक्षिता ॥ ५७॥ यस्यासाधारणी शम्भौ भक्तिरव्यभिचारिणी । तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥ ५८॥ कृत्वाप्यनन्तपापानि यदि भक्तिर्महेश्वरे । सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥ ५९॥ भवन्ति भस्मसाद् वृक्षा दवदग्धा यथा वने । तथा भवन्ति दग्धानि शाङ्कराणामघान्यपि ॥ ६०॥ यो नित्यं भस्मपूताङ्गो शिवपूजोन्मुखो भवेत् । स तरत्येव संसारमपारमतिदारुणम् ॥ ६१॥ ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् । न लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः ॥ ६२॥ विलोक्य वेदानखिलान् शिवस्यैवार्चनं परम् । संसारनाशनोपाय इति पूर्वैर्विनिश्चितम् ॥ ६३॥ अद्यप्रभृति यत्नेन सावधानो यथाविधि । साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम् ॥ ६४॥ आपादमस्तकं सम्यग्भस्मनोद्धूल्य सादरम् । सर्वश्रुतिश्रुतं शैवं मन्त्रं जप षडक्षरम् ॥ ६५॥ सर्वाङ्गेषु प्रयत्नेन रुद्राक्षान् शिववल्लभान् । धारयस्वातिसद्भक्त्या समन्त्रं विधिपूर्वकम् ॥ ६६॥ श‍ृणु शैवीं कथां नित्यं वद शैवीं कथां सदा । पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः ॥ ६७॥ अप्रमादेन सततं शिवैकशरणो भव । शिवार्चनेन सततमानन्दः प्राप्यते यतः ॥ ६८॥ उरस्याधाय विशदे शिवस्य चरणाम्बुजौ । शिवतीर्थानि विचर प्रथमं मुनिसत्तम ॥ ६९॥ पश्यन्माहात्म्यमतुलं शङ्करस्य परात्मनः । गच्छानन्दवनं पश्चाच्छम्भुप्रियतमं मुने ॥ ७०॥ तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः । नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि ॥ ७१॥ ततश्च भवता नूनं विधेयं गमनं मुने । ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः ॥ ७२॥ नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने । प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा ॥ ७३॥ स शैवप्रवरो ब्रह्मा माहात्म्यं शङ्करस्य ते । श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि ॥ ७४॥ अद्यतस्त्वं भव मुने शैवः शिवपरायणः । मुक्तिभागी विशेषेण शिवस्ते शं विधास्यति ॥ ७५॥ इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः । स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वन्तरधीयत ॥ ७६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं नाम चतुर्थोऽध्यायः ॥ २.१.४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.५. पञ्चमोऽध्यायः । नारदस्य काशीक्षेत्रगमनम् ।

सूत उवाच । अन्तर्हिते हरौ विप्रा नारदो मुनिसत्तमः । विचचार महीं पश्यन् शिवलिङ्गानि भक्तितः ॥ १॥ पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः । ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः ॥ २॥ अथ तं विचरन्तं कौ नारदं दिव्यदर्शनम् । ज्ञात्वा शम्भुगणौ तौ तु सुचित्तमुपजग्मतुः ॥ ३॥ शिरसा सुप्रणम्याशु गणावूचतुरादरात् । गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ ॥ ४॥ शिवगणावूचतुः ब्रह्मपुत्र सुरर्षे हि श‍ृणु प्रीत्यावयोर्वचः । तवापराधकर्तारावावां विप्रौ न वस्तुतः ॥ ५॥ आवां हरगणौ विप्र तवागस्कारिणौ मुने । स्वयम्वरे राजपुत्र्या मायामोहितचेतसा ॥ ६॥ त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह । ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम् ॥ ७॥ स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् । सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ ॥ ८॥ सूत उवाच । वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् । प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः ॥ ९॥ नारद उवाच । श‍ृणुतं मे महादेवगणौ मान्यतमौ सताम् । वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम् ॥ १०॥ पुरा मम मतिर्भ्रष्टासीच्छिवेच्छावशाद् ध्रुवम् । सर्वथा मोहमापन्नः शप्तवान्वां कुशेमुषिः ॥ ११॥ यदुक्तं तत्तथा भावि तथापि श‍ृणुतां गणौ । शापोद्धारमहं वच्मि क्षमेथामघमद्य मे ॥ १२॥ वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम् । स्यातां विभवसंयुक्तौ बलिनौ सुप्रतापिनौ ॥ १३॥ सर्वब्रह्माण्डराजानौ शिवभक्तौ जितेन्द्रियौ । शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः ॥ १४॥ सूत उवाच । इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः । उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा ॥ १५॥ नारदोऽपि परं प्रीतो ध्यायन् शिवमनन्यधीः । विचचार महीं पश्यन् शिवतीर्थान्यभीक्ष्णशः ॥ १६॥ काशीं प्राप्याथ स मुनिः सर्वोपरिविराजिताम् । शिवप्रियां शम्भुसुखप्रदां शम्भुस्वरूपिणीम् ॥ १७॥ दृष्ट्वा काशीं कृतार्थोऽभूत्काशीनाथं ददर्श ह । आनर्च परमप्रीत्या परमानन्दसंयुतः ॥ १८॥ समुदः सेव्य तां काशीं कृतार्थो मुनिसत्तमः । नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः ॥ १९॥ ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः । शिवतत्त्वं विशेषेण ज्ञातुमिच्छुः स नारदः ॥ २०॥ नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः । पप्रच्छ शिवसत्तत्त्वं शिवसंयुक्तमानसः ॥ २१॥ नारद उवाच । ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो । त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ २२॥ भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् । दानमार्गं च तीर्थानां मार्गं च श्रुतवानहम् ॥ २३॥ न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् । चरित्रं विविधं तस्य निवेदय मम प्रभो ॥ २४॥ निर्गुणोऽपि शिवस्तात सगुणः शङ्करः कथम् । शिवतत्त्वं न जानामि मोहितः शिवमायया ॥ २५॥ सृष्टेः पूर्वं कथं शम्भुः स्वरूपेण प्रतिष्ठितः । सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ २६॥ तदन्ते च कथं देवः स तिष्ठति महेश्वरः । कथं प्रसन्नतां याति शङ्करो लोकशङ्करः ॥ २७॥ सन्तुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः । किं फलं यच्छति विधे तत्सर्वं कथयस्व मे ॥ २८॥ सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम् । भक्तप्रयासं स महान्न पश्यति दयापरः ॥ २९॥ ब्रह्मा विष्णुर्महेशश्च त्रयो देवाः शिवांशजाः । महेशस्तत्र पूर्णांशः स्वयमेव शिवः परः ॥ ३०॥ तस्याविर्भावमाख्याहि चरितानि विशेषतः । उमाविर्भावमाख्याहि तद्विवाहं तथा विभो ॥ ३१॥ तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि । एतत्सर्वं तथान्यच्च कथनीयं त्वयानघ ॥ ३२॥ तदुत्पत्तिं विवाहं च शिवायास्तु विशेषतः । प्रब्रूहि मे प्रजानाथ गुहजन्म तथैव च ॥ ३३॥ बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मि जगत्प्रभो । अतस्त्वां शरणं प्राप्तः कृपां कुरु ममोपरि ॥ ३४॥ इति श्रुत्वा वचस्तस्य नारदस्याङ्गजस्य हि । उवाच वचनं तत्र ब्रह्मा लोकपितामहः ॥ ३५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं नाम पञ्चमोऽध्यायः ॥ २.१.५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.६. षष्ठोऽध्यायः । विष्णूत्पत्तिवर्णनम् ।

ब्रह्मोवाच । भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम । लोकोपकारिणा नित्यं लोकानां हितकाम्यया ॥ १॥ यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् । तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम् ॥ २॥ शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः । ज्ञातं च परमं रूपमद्भुतं च परेण न ॥ ३॥ महाप्रलयकाले च नष्टे स्थावरजङ्गमे । आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ॥ ४॥ अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् । अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम् ॥ २॥ अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् । अव्यक्तगन्धरूपं च रसत्यक्तमदिङ्मुखम् ॥ ६॥ इत्थं सत्यन्धतमसे सूचीभेद्ये निरन्तरे । तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते ॥ ७॥ इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् । योगिनोऽन्तर्हिताकाशे यत्पश्यन्ति निरन्तरम् ॥ ८॥ अमनोगोचरं वाचां विषयं न कदाचन । अनामरूपवर्णं च न च स्थूलं न यत्कृशम् ॥ ९॥ अह्रस्वदीर्घमलघु गुरुत्वपरिवर्जितम् । न यत्रोपचयः कश्चित्तथा नोपचयोऽपि च ॥ १०॥ अभिधत्ते सचकितं यदस्तीति श्रुतिः पुनः । सत्यं ज्ञानमनन्तं च परानन्दं परं महः ॥ ११॥ अप्रमेयमनाधारमविकारमनाकृति । निर्गुणं योगिगम्यं च सर्वव्याप्येककारकम् ॥ १२॥ निर्विकल्पं निरारम्भं निर्मायं निरुपद्रवम् । अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम् ॥ १३॥ यस्येत्थं संविकल्पन्ते संज्ञासंज्ञोक्तितः स्म वै । कियता चैव कालेन द्वितीयेच्छाऽभवत्किल ॥ १४॥ अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया । सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥ १५॥ सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी । सर्वैकवन्द्या सर्वाद्या सर्वदा सर्वसंस्कृतिः ॥ १६॥ परिकल्प्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् । अद्वितीयमनाद्यन्तं सर्वाभासं चिदात्मकम् । अन्तर्दधे पराख्यं यद् ब्रह्म सर्वगमव्ययम् ॥ १७॥ अमूर्ते यत्पराख्यं वै तस्य मूर्तिः सदाशिवः । अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ॥ १८॥ शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः । स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ॥ १९॥ प्रधानं प्रकृतिं तां च मायां गुणवतीं पराम् । बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ २०॥ सा शक्तिरम्बिका प्रोक्ता प्रकृतिः सकलेश्वरी । त्रिदेवजननी नित्या मूलकारणमित्युत ॥ २१॥ अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा । राकाचन्द्रसहस्रस्य वदने भाश्च नित्यशः ॥ २२॥ नानाभरणसंयुक्ता नानागतिसमन्विता । नानायुधधरा देवी फुल्लपङ्कजलोचना ॥ २३॥ अचिन्त्यतेजसा युक्ता सर्वयोनिः समुद्यता । एकाकिनी यदा माया संयोगाच्चाप्यनेकिका ॥ २४॥ परः पुमानीश्वरः स शिवः शम्भुरनीश्वरः । शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः ॥ २५॥ पञ्चवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् । कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः ॥ २६॥ युगपच्च तया शक्त्या साकं कालस्वरूपिणा । शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा ॥ २७॥ तदेव काशिकेत्येतत्प्रोच्यते क्षेत्रमुत्तमम् । परं निर्वाणसङ्ख्यानं सर्वोपरि विराजितम् ॥ २८॥ ताभ्यां च रममाणाभ्यां तस्मिन्क्षेत्रे मनोरमे । परमानन्दरूपाभ्यां परमानन्दरूपिणम् ॥ २९॥ मुने प्रलयकालेऽपि न तत्क्षेत्रं कदाचन । विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः ॥ ३०॥ अस्यानन्दवनं नाम पुराकारि पिनाकिना । क्षेत्रस्यानन्दहेतुत्वादविमुक्तमनन्तरम् ॥ ३१॥ अथानन्दवने तस्मिन् शिवयो रममाणयोः । इच्छेत्यभूत्सुरर्षे हि सृज्यः कोऽप्यपरः किल ॥ ३२॥ यस्मिन् न्यस्य महाभारमावां स्वस्वैरचारिणौ । निर्वाणधारणं कुर्वः केवलं काशिशायिनौ ॥ ३३॥ स एव सर्वं कुरुतां स एव परिपातु च । स एव संवृणोत्वन्ते मदनुग्रहतःसदा ॥ ३४॥ चेतः समुद्रमाकुञ्च्य चिन्ताकल्लोललोलितम् । सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ॥ ३५॥ यस्य प्रसादात्तिष्ठावः सुखमानन्दकानने । परिक्षिप्तमनोवृत्तौ बहिश्चिन्तातुरे सुखम् ॥ ३६॥ सम्प्रधार्येति स विभुस्तया शक्त्या परेश्वरः । सव्ये व्यापारयाञ्चक्रे दशमेऽङ्गे सुधासवम् ॥ ३७॥ ततः पुमानाविरासीदेकस्त्रैलोक्यसुन्दरः । शान्तःसत्त्वगुणोद्रिक्तो गाम्भीर्यामितसागरः ॥ ३८॥ तथा च क्षमया युक्तो मुनेऽलब्धोपमोऽभवत् । इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः ॥ ३९॥ सुवर्णकान्तिभृच्छ्रेष्ठदुकूलयुगलावृतः । लसत्प्रचण्डदोर्दण्डयुगलो ह्यपराजितः ॥ ४०॥ ततः स पुरुषः शम्भुं प्रणम्य परमेश्वरम् । नामानि कुरु मे स्वामिन्वद कर्म जगावति ॥ ४१॥ तच्छ्रुत्वा वचनं प्राह शङ्करः प्रहसन्प्रभुः । पुरुषं तं महेशानो वाचा मेघगभीरया ॥ ४२॥ शिव उवाच । विष्ण्विति व्यापकत्वात्ते नाम ख्यातं भविष्यति । बहून्यन्यानि नामानि भक्तसौख्यकराणि ह ॥ ४३॥ तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् । इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः ॥ ४४॥ ततोऽच्युतः शिवं नत्वा चकार विपुलं तपः । अन्तर्धानं गतः शक्त्या सलोकः परमेश्वरः ॥ ४५॥ दिव्यं द्वादशसाहस्रं वर्षं तप्त्वापि चाच्युतः । न प्राप स्वाभिलषितं सर्वदं शम्भुदर्शनम् ॥ ४६॥ ततः संशयमापन्नश्चिन्तितं हृदि सादरम् । मयाद्य किं प्रकर्तव्यमिति विष्णुः शिवं स्मरन् ॥ ४७॥ एतस्मिन्नन्तरे वाणी समुत्पन्ना शिवाच्छुभा । तपः पुनः प्रकर्तव्यं संशयस्यापनुत्तये ॥ ४८॥ ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् । बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि ॥ ४९॥ ततः स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः । सुप्रीतो विस्मयं प्राप्तः किं यत्तत्तवमहो इति ॥ ५०॥ परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च । जलधारा हि संयाता विविधाः शिवमायया ॥ ५१॥ अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने । ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम् ॥ ५२॥ तदा श्रान्तश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् । सुष्वाप परमप्रीतो बहुकालं विमोहितः ॥ ५३॥ नारायणेति नामापि तस्यासीच्छ्रुतिसम्मतम् । नान्यत्किञ्चित्तदा ह्यासीत्प्राकृतं पुरुषं विना ॥ ५४॥ एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः । तत्प्रकारं श‍ृणु प्राज्ञ गदतो मे महामते ॥ ५५॥ प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः । अहङ्कारस्ततो जातस्त्रिविधो गुणभेदतः ॥ ५६॥ तन्मात्रश्च ततो जाताः पञ्च भूतानि वै ततः । तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च ॥ ५७॥ तत्त्वानामिति सङ्ख्यानमुक्तं ते ऋषिसत्तम । जडात्मकं च तत्सर्वं प्रकृतेः पुरुषं विना ॥ ५८॥ तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसङ्ख्यकम् । शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके ॥ ५९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं नाम षष्ठोऽध्यायः ॥ २.१.६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

२.१.७. सप्तमोऽध्यायः । विष्णुब्रह्मविवादवर्णनम् ।

ब्रह्मोवाच । सुप्ते नारायणे देवे नाभौ पङ्कजमुत्तमम् । आविर्बभूव सहसा बृहद्वै शङ्करेच्छया ॥ १॥ अनन्तयष्टिकायुक्तं कर्णिकारसमप्रभम् । अनन्तयोजनायाममनन्तोच्छ्रायसंयुतम् ॥ २॥ कोटिसूर्यप्रतीकाशं सुन्दरं तत्त्वसंयुतम् । अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम् ॥ ३॥ कृत्वा यत्नं पूर्ववत्स शङ्करः परमेश्वरः । दक्षिणाङ्गान्निजान्मां वै साम्बः शम्भुरजीजनत् ॥ ४॥ स मायामोहितं कृत्वा मां महेशो द्रुतं मुने । तन्नाभिपङ्कजादाविर्भावयामास लीलया ॥ ५॥ एवं पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः । चतुर्मुखो रक्तवर्णस्त्रिपुण्ड्राङ्कितमस्तकः ॥ ६॥ तन्मायामोहितश्चाहं नाविदं कमलं विना । स्वदेहजनकं तात पितरं ज्ञानदुर्बलः ॥ ७॥ कोऽहं वा कुत आयातः किं कार्यं तु मदीयकम् । कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना ॥ ८॥ इति संशयमापन्नं बुद्धिर्मां समपद्यत । किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु ॥ ९॥ एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः । मत्कर्ता च स वै तत्र भविष्यति न संशयः ॥ १०॥ इति बुद्धिं समास्थाय कमलादवरोहयम् । नाले नाले गतस्तत्र वर्षाणां शतकं मुने ॥ ११॥ न लब्धं तु मया तत्र कमलस्थानमुत्तमम् । संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः ॥ १२॥ आरुरोहाथ कमलं नालमार्गेण वै मुने । कुड्मलं कमलस्याथ लब्धवान्न विमोहितः ॥ १३॥ नालमार्गेण भ्रमतो गतं वर्षशतं पुनः । क्षणमात्रं तदा तत्र ततस्तिष्ठन्विमोहितः ॥ १४॥ तदा वाणी समुत्पन्ना तपेति परमा शुभा । शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने ॥ १५॥ तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः । पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा ॥ १६॥ तदा हि भगवान्विष्णुश्चतुर्बाहुः सुलोचनः । मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह ॥ १७॥ शङ्खचक्रायुधकरो गदापद्मधरः परः । घनश्यामलसर्वाङ्गः पीताम्बरधरः परः ॥ १८॥ मुकुटादिमहाभूषः प्रसन्नमुखपङ्कजः । कोटिकन्दर्पसङ्काशःसन्दृष्टो मोहितेन सः ॥ १९॥ तद् दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः । कालाभं काञ्चनाभं च सर्वात्मानं चतुर्भुजम् ॥ २०॥ तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना । नारायणं महाबाहुं हर्षितो ह्यभवं तदा ॥ २१॥ मायया मोहितः शम्भोस्तदा लीलात्मनः प्रभोः । अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः ॥ २२॥ ब्रह्मोवाच । कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् । तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु ॥ २३॥ प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी । ददर्श निद्राविक्लिन्न नीरजामललोचनः ॥ २४॥ मामत्र संस्थितं भासाध्यासितो भगवान्हरिः । आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत् ॥ २५॥ विष्णुरुवाच । स्वागतं स्वागतं वत्स पितामह महाद्युते । निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः ॥ २६॥ तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः । रजसा बद्धवैरश्च तमवोचं जनार्दनम् ॥ २७॥ ब्रह्मोवाच । भाषसे वत्स वत्सेति सर्वसंहारकारणम् । मामिहाति स्मितं कृत्वा गुरुः शिष्यमिवानघ ॥ २८॥ कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् । सनातनमजं विष्णुं विरिञ्चिं विष्णुसम्भवम् ॥ २९॥ विश्वात्मानं विधातारं धातारं पङ्कजेक्षणम् । किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम् ॥ ३०॥ वेदो मां वक्ति नियमात्स्वयम्भुवमजं विभुम् । पितामहं स्वराजं च परमेष्ठिनमुत्तमम् ॥ ३१॥ इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धो रमापतिः । सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः ॥ ३२॥ विष्णुरुवाच । कर्तुं धर्तुं भवानङ्गादवतीर्णो ममाव्ययात् । विस्मृतोऽसि जगन्नाथं नारायणमनामयम् ॥ ३३॥ पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् । विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम् ॥ ३४॥ नारायणं महाबाहुं सर्वव्यापकमीश्वरम् । मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः ॥ ३५॥ तवापराधो नास्त्यत्र त्वयि मायाकृतं मम । श‍ृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ ३६॥ कर्ता हर्ता च भर्ता च न मयास्ति समो विभुः । अहमेव परं ब्रह्म परं तत्त्वं पितामह ॥ ३७॥ अहमेव परं ज्योतिः परमात्मा त्वहं विभुः । अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिञ्चराचरम् ॥ ३८॥ तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ । मया सृष्टं पुराव्यक्तं चतुर्विंशतितत्त्वकम् ॥ ३९॥ नित्यं तेष्वणवो बद्धाः सृष्टाः क्रोधभयादयः । प्रभावाच्च भवानङ्गान्यनेकानीह लीलया ॥ ४०॥ सृष्टा बुद्धिर्मया तस्यामहङ्कारस्त्रिधा ततः । तन्मात्रं पञ्चकं तस्मान्मनो देहेन्द्रियाणि च ॥ ४१॥ आकाशादीनि भूतानि भौतिकानि च लीलया । इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे ॥ ४२॥ अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः । ब्रह्मोवाच । इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः । को वा त्वमिति सम्भर्त्स्याब्रुवं मायाविमोहितः ॥ ४३॥ किमर्थं भाषसे भूरि बह्वनर्थकरं वचः । नेश्वरस्त्वं परं ब्रह्म कश्चित्कर्ता भवेत्तव ॥ ४४॥ मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम् । हरिणा तेन वै सार्धं शङ्करस्य महाप्रभोः ॥ ४५॥ एवं मम हरेश्चासीत्सङ्गरो रोमहर्षणः । प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ॥ ४६॥ एतस्मिन्नन्तरे लिङ्गमभवच्चावयोः पुरः । विवादशमनार्थं हि प्रबोधार्थं तथावयोः ॥ ४७॥ ज्वालामालासहस्राढ्यं कालानलशतोपमम् । क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ ४८॥ अनौपम्यमनिर्देश्यमव्यक्तं विश्वसम्भवम् । तस्य ज्वालासहस्रेण मोहितो भगवान्हरिः ॥ ४९॥ मोहितं चाह मामत्र किमर्थं स्पर्धसेऽधुना । आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः ॥ ५०॥ कुत एवात्र सम्भूतः परीक्षावोऽग्निसम्भवम् । अधो गमिष्याम्यनलस्तम्भस्यानुपमस्य च ॥ ५१॥ परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः । भवानूर्ध्वं प्रयत्नेन गन्तुमर्हति सत्वरम् ॥ ५२॥ ब्रह्मोवाच । एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा । वाराहमहमप्याशु हंसत्वं प्राप्तवान्मुने ॥ ५३॥ तदाप्रभृति मामाहुर्हंसहंसो विराडिति । हंस हंसेति यो ब्रूयात्स हंसोऽथ भविष्यति ॥ ५४॥ सुश्वेतो ह्यनलप्रख्यो विश्वतः पक्षसंयुतः । मनोऽनिलजवो भूत्वा गतोर्ध्वं चोर्ध्वतः पुरा ॥ ५५॥ नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा । दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ५६॥ मेरुपर्वतवर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम् । कालादित्यसमाभासं दीर्घघोणं महास्वनम् ॥ ५७॥ ह्रस्वपादं विचित्राङ्गं जैत्रं दृढमनौपमम् । वाराहाकारमास्थाय गतवांस्तदधौ जवात् ॥ ५८॥ एवं वर्षसहस्रं च चरन्विष्णुरधो गतः । तदाप्रभृति लोकेषु श्वेतवाराहसंज्ञकः ॥ ५९॥ कल्पो बभूव देवर्षे नराणां कालसंज्ञकः । बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः ॥ ६०॥ नापश्यदल्पमप्यस्य मूलं लिङ्गस्य सूकरः । तावत्कालं गतश्चोर्ध्वमहमप्यरिसूदन ॥ ६१॥ सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया । श्रान्तो न दृष्ट्वा तस्यान्तमहं कालादधोगतः ॥ ६२॥ तथैव भगवान्विष्णुः श्रान्तः कमललोचनः । सर्वदेवनिभस्तूर्णमुत्थितः स महावपुः ॥ ६३॥ समागतो मया सार्धं प्रणिपत्य भवं मुहुः । मायया मोहितः शम्भोस्तस्थौ संविग्नमानसः ॥ ६४॥ पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम् । प्रणिपत्य मया सार्धं सस्मार किमिदं त्विति ॥ ६५॥ अनिर्देश्यं च तद्रूपमनाम कर्मवर्जितम् । अलिङ्गं लिङ्गतां प्राप्तं ध्यानमार्गेऽप्यगोचरम् ॥ ६६॥ स्वस्थं चित्तं तदा कृत्वा नमस्कारपरायणौ । बभूवतुरुभावावामहं हरिरपि ध्रुवम् ॥ ६७॥ जानीवो न हि ते रूपं योऽसि सोऽसि महाप्रभो । नमोऽस्तु ते महेशान रूपं दर्शय नौ त्वरम् ॥ ६८॥ एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः । आवयोर्मुनिशार्दूल मदमास्थितयोस्तदा ॥ ६९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं नाम सप्तमोऽध्यायः ॥ २.१.७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.८. अष्टमोऽध्यायः । शब्दब्रह्मतनुवर्णनम् ।

ब्रह्मोवाच । एवं तयोर्मुनिश्रेष्ठ दर्शनं काङ्क्षमाणयोः । विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने ॥ १॥ दयालुरभवच्छम्भुर्दीनानां प्रतिपालकः । गर्विणां गर्वहर्ता च सर्वेषां प्रभुरव्ययः ॥ २॥ तदा समभवत्तत्र नादो वै शब्दलक्षणः । ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः ॥ ३॥ किमिदं त्विति सञ्चिन्त्य मया तिष्ठन्महास्वनः । विष्णुः सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा ॥ ४॥ लिङ्गस्य दक्षिणे भागे तथापश्यत्सनातनम् । आद्यं वर्णमकाराख्यमुकारं चोत्तरे ततः ॥ ५॥ मकारं मध्यतश्चैव नादमन्तेऽस्य चोमिति । सूर्यमण्डलवद् दृष्ट्वा वर्णमाद्यं तु दक्षिणे ॥ ६॥ उत्तरे पावकप्रख्यमुकारमृषिसत्तम । शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः ॥ ७॥ तस्योपरि तदापश्यच्छुद्धस्फटिकसुप्रभम् । तुरीयातीतममलं निष्कलं निरुपद्रवम् ॥ ८॥ निर्द्वन्द्वं केवलं शून्यं बाह्याभ्यन्तरवर्जितम् । सबाह्याभ्यन्तरे चैव बाह्याभ्यन्तरसंस्थितम् ॥ ९॥ आदिमध्यान्तरहितमानन्दस्यादिकारणम् । सत्यमानन्दममृतं परं ब्रह्मपरायणम् ॥ १०॥ कुत एवात्र सम्भूतः परीक्षावोऽग्निसम्भवम् । अधो गमिष्याम्यनलस्तम्भस्यानुपमस्य च ॥ ११॥ वेदशब्दोभयावेशं विश्वात्मानं व्यचिन्तयत् । तदाभवदृषिस्तत्र ऋषेः सारतमः स्मृतः ॥ १२॥ तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् । महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम् ॥ १३॥ चिन्तया रहितो रुद्रो वाचो यन्मनसा सह । अप्राप्य तन्निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः ॥ १४॥ एकाक्षरेण तद्वाक्यमृतं परमकारणम् । सत्यमानन्दममृतं परं ब्रह्म परात्परम् ॥ १५॥ एकाक्षरादकाराख्याद्भगवान्बीजकोऽण्डजः । एकाक्षरादुकाराख्याद्धरिः परमकारणम् ॥ १६॥ एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः । सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ॥ १७॥ मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत् । मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते ॥ १८॥ उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः । बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ॥ १९॥ बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः । अस्य लिङ्गादभूद् बीजमकारो बीजिनः प्रभोः ॥ २०॥ उकारयोनौ निःक्षिप्तमवर्धत समन्ततः । सौवर्णमभवच्चाण्डमावेद्यं तदलक्षणम् ॥ २१॥ अनेकाब्दं तथा चाप्सु दिव्यमण्डं व्यवस्थितम् । ततो वर्षसहस्रान्ते द्विधा कृतमजोद्भवम् ॥ २२॥ अण्डमप्सु स्थितं साक्षाद् व्याघातेनेश्वरेण तु । तथास्य सुशुभं हैमं कपालं चोर्ध्वसंस्थितम् ॥ २३॥ जज्ञे सा द्यौस्तदपरं पृथिवी पञ्चलक्षणा । तस्मादण्डाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः ॥ २४॥ स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः । एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ॥ २५॥ यजुषां वचनं श्रुत्वा ऋचः सामानि सादरम् । एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा ॥ २६॥ ततो विज्ञाय देवेशं यथावच्छक्तिसम्भवैः । मन्त्रैर्महेश्वरं देवं तुष्टाव सुमहोदयम् ॥ २७॥ एतस्मिन्नन्तरेऽन्यच्च रूपमद्भुतसुन्दरम् । ददर्श च मया सार्धं भगवान्विश्वपालकः ॥ २८॥ पञ्चवक्त्रं दशभुजं गौरकर्पूरवन्मुने । नानाकान्तिसमायुक्तं नानाभूषणभूषितम् ॥ २९॥ महोदारं महावीर्यं महापुरुषलक्षणम् । तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः ॥ ३०॥ अथ प्रसन्नो भगवान्महेशः परमेश्वरः । दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः ॥ ३१॥ अकारस्तस्य मूर्धा हि ललाटो दीर्घ उच्यते । इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ॥ ३२॥ उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते । ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ॥ ३३॥ वामं कपोलमॄकारो लृ लॄ नासापुटे उभे । एकारश्चोष्ठ ऊर्ध्वश्च ह्यैकारस्त्वधरो विभोः ॥ ३४॥ ओकारश्च तथौकारो दन्तपङ्क्तिद्वयं क्रमात् । अमस्तु तालुनी तस्य देवदेवस्य शूलिनः ॥ ३५॥ कादिपञ्चाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे । चादिपञ्चाक्षराण्येवं पञ्च हस्तास्तु वामतः ॥ ३६॥ टादिपञ्चाक्षरं पादास्तादि पञ्चाक्षरं तथा । पकार उदरं तस्य फकारः पार्श्व उच्यते ॥ ३७॥ बकारो वामपार्श्वस्तु भकारः स्कन्ध उच्यते । मकारो हृदयं शम्भोर्महादेवस्य योगिनः ॥ ३८॥ यकारादिसकारान्ता विभोर्वै सप्तधातवः । हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते ॥ ३९॥ एवं शब्दमयं रूपमगुणस्य गुणात्मनः । दृष्ट्वा तमुमया सार्धं कृतार्थोऽभून्मया हरिः ॥ ४०॥ एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् । प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्ध्वतः ॥ ४१॥ ओङ्कारप्रभवं मन्त्रं कलापञ्चकसंयुतम् । शुद्धस्फटिकसङ्काशं शुभाष्टत्रिंशदक्षरम् ॥ ४२॥ मेधाकारमभूद्भूयः सर्वधर्मार्थसाधकम् । गायत्रीप्रभवं मन्त्रं सहितं वश्यकारकम् ॥ ४३॥ चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् । अथ पञ्चसितं मन्त्रं कलाष्टकसमायुतम् ॥ ४४॥ आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् । यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम् ॥ ४५॥ कलाष्टकसमायुक्तं सुश्वेतं शान्तिकं तथा । त्रयोदशकलायुक्तं बालाद्यैः सह लेहितम् ॥ ४६॥ बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् । वर्णा एकाधिकाः षष्टिरस्य मन्त्रवरस्य तु ॥ ४७॥ पुनर्मृत्युञ्जयं मन्त्रं पञ्चाक्षरमतः परम् । चिन्तामणिं तथा मन्त्रं दक्षिणामूर्तिसंज्ञकम् ॥ ४८॥ ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च । पञ्चमन्त्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ॥ ४९॥ अथ दृष्ट्वा कलावर्णमृग्यजुःसामरूपिणम् । ईशानमीशमुकुटं पुरुषाख्यं पुरातनम् ॥ ५०॥ अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् । वामपादं महादेवं महाभोगीन्द्रभूषणम् ॥ ५१॥ विश्वतः पादवन्तं तं विश्वतोऽक्षिकरं शिवम् । ब्रह्मणोऽधिपतिं सर्गस्थितिसंहारकारणम् ॥ ५२॥ तुष्टाव वाग्भिरिष्टाभिः साम्बं वरदमीश्वरम् । मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा ॥ ५३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनं नामाष्टमोऽध्यायः ॥ २.१.८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.९. नवमोऽध्यायः । शिवतत्त्ववर्णनम् ।

ब्रह्मोवाच । अथाकर्ण्य नुतिं विष्णुकृतां स्वस्य महेश्वरः । प्रादुर्बभूव सुप्रीतः सवामः करुणानिधिः ॥ १॥ पञ्चवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः । गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः ॥ २॥ दशबाहुर्नीलगलः सर्वाभरणभूषितः । सर्वाङ्गसुन्दरो भस्मत्रिपुण्ड्राङ्कितमस्तकः ॥ ३॥ तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरम् । तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह ॥ ४॥ निगमं श्वासरूपेण ददौ तस्मै ततो हरः । विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ॥ ५॥ ततो ज्ञानमदात्तस्मै रहस्यं परमात्मने । परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने ॥ ६॥ सम्प्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम् । कृतार्थः साञ्जलिर्नत्वा मया सह महेश्वरम् ॥ ७॥ विष्णुरुवाच । कथं च तुष्यसे देव मया पूज्यः कथं प्रभो । कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम् । ८॥ किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् । सदा सदाज्ञापय नौ प्रीत्यर्थं कुरु शङ्कर ॥ ९॥ एतत्सर्वं महाराज कृपां कृत्वावयोः प्रभो । कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ॥ १०॥ ब्रह्मोवाच । इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः । उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः ॥ ११॥ श्रीशिव उवाच । भक्त्या च भवतोर्नूनं प्रीतोऽहं सुरसत्तमौ । पश्यन्तं मां महादेवं भयं सर्वं विमुञ्चताम् ॥ १२॥ मम लिङ्गं सदा पूज्यं ध्येयं चैतादृशं मम । इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः ॥ १३॥ पूजितो लिङ्गरूपेण प्रसन्नो विविधं फलम् । दास्यामि सर्वलोकेभ्यो मनोऽभीष्टान्यनेकशः ॥ १४॥ यदा दुःखं भवेत्तत्र युवयोः सुरसत्तमौ । पूजिते मम लिङ्गे च तदा स्याद् दुःखनाशनम् ॥ १५॥ युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ । सव्यापसव्यागात्राभ्यां मम सर्वेश्वरस्य हि ॥ १६॥ अयं मे दक्षिणात्पार्श्वाद् ब्रह्मा लोकपितामहः । वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः ॥ १७॥ प्रीतोऽहं युवयोः सम्यग्वरं दद्यां यथेप्सितम् । मयि भक्तिर्दृढा भूयाद्युवयोरभ्यनुज्ञया ॥ १८॥ पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम् । सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथः ॥ १९॥ ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः । वत्स वत्स हरे त्वं च पालयैवं चराचरम् ॥ २०॥ ब्रह्मोवाच । इत्युक्त्वा नौ प्रभुस्ताभ्यां पूजाविधिमदाच्छुभाम् । येनैव पूजितः शम्भुः फलं यच्छत्यनेकशः ॥ २१॥ इत्याकर्ण्य वचः शम्भोर्मया च सहितो हरिः । प्रत्युवाच महेशानं प्रणिपत्य कृताञ्जलिः ॥ २२॥ विष्णुरुवाच । यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ । भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ॥ २३॥ त्वमप्यवतरस्वाद्य लीलया निर्गुणोऽपि हि । सहायं कुरु नौ तात त्वं परः परमेश्वरः ॥ २४॥ आवयोर्देवदेवेश विवादमपि शोभनम् । इहागतो भवान्यस्माद्विवादशमनाय नौ ॥ २५॥ ब्रह्मोवाच । तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् । प्रणिपत्य स्थितं मूर्ध्ना कृताञ्जलिपुटः स्वयम् ॥ २६॥ श्रीमहेश उवाच । प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः । परब्रह्म निर्विकारी सच्चिदानन्दलक्षणः ॥ २७॥ त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया । सर्गरक्षालयगुणैर्निष्कलोऽहं सदा हरे ॥ २८॥ स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे । प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः ॥ २९॥ मद्रूपं परमं ब्रह्मन्नीदृशं भवदङ्गतः । प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ ३०॥ मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति । योऽहं सोऽहं न भेदोऽस्ति पूजाविधिविधानतः ॥ ३१॥ यथा च ज्योतिषः सङ्गाज्जलादेः स्पर्शता न वै । तथा ममागुणस्यापि संयोगाद् बन्धनं न हि ॥ ३२॥ शिवरूपं ममैतच्च रुद्रोऽपि शिववत्तदा । न तत्र परभेदो वै कर्तव्यश्च महामुने ॥ ३३॥ वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत । अतो भेदो न विज्ञेयः शिवे रुद्रे कदाचन ॥ ३४॥ सुवर्णस्य यथैकस्य वस्तुत्वं नैव गच्छति । अलङ्कृतिकृते देव नामभेदो न वस्तुतः ॥ ३५॥ यथैकस्या मृदो भेदो नानापात्रे न वस्तुतः । कारणस्यैव कार्ये न सन्निधानं निदर्शनम् ॥ ३६॥ ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ । एवं ज्ञात्वा भवद्भ्यां तु न दृश्यं भेदकारणम् ॥ ३७॥ वस्तुवत् सर्वदृश्यं च शिवरूपं मतं मम । अहं भवानजश्चैव रुद्रो योऽयं भविष्यति ॥ ३८॥ एकरूपा न भेदस्तु भेदे वै बन्धनं भवेत् । तथापि च मदीयं हि शिवरूपं सनातनम् ॥ ३९॥ मूलीभूतं सदोक्तं च सत्यज्ञानमनन्तकम् । एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः ॥ ४०॥ श्रूयतां चैव भो ब्रह्मन् यद्गोप्यं कथ्यते मया । भवन्तौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः ॥ ४१॥ मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम् । गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः ॥ ४२॥ वैकारिकश्च विज्ञेयो योऽहङ्कार उदाहृतः । नामतो वस्तुतो नैव तामसः परिचक्ष्यते ॥ ४३॥ एतस्मात्कारणाद् बह्मन्करणीयमिदं त्वया । सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः ॥ ४४॥ मदीयश्च तथांशो यो लयकर्ता भविष्यति । इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी ॥ ४५॥ तस्यास्तु शक्तिर्वाग्देवी ब्रह्माणं सा भजिष्यति । अन्या शक्तिः पुनस्तत्र प्रकृतेः सम्भविष्यति ॥ ४६॥ समाश्रयिष्यते विष्णुं लक्ष्मीरूपेण सा तदा । पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम् ॥ ४७॥ ज्योतीरूपेण सा तत्र कार्यार्थे सम्भविष्यति । एवं देव्यास्तथा प्रोक्ताः शक्तयः परमाः शुभाः ॥ ४८॥ सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद ध्रुवम् । एतस्याः प्रकृतेरंशा मत्प्रियायाः सुरोत्तम ॥ ४९॥ त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि । ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च ॥ ५०॥ सृष्टिकार्यं हृदा कर्तुं मन्निर्देशादिहार्हसि । अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम् ॥ ५१॥ रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम् । चतुर्वर्णमयं लोकं तत्सर्वैराश्रमैर्ध्रुवम् ॥ ५२॥ तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः । ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः ॥ ५३॥ मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया । मद्दर्शने फलं यद्वत्तदेव तव दर्शने ॥ ५४॥ इति दत्तो वरस्तेऽद्य सत्यं सत्यं न संशयः । ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् ॥ ५५॥ उभयोरन्तरं यो वै न जानाति मनो मम । वामाङ्गजो मम हरिर्दक्षिणाङ्गोद्भवो विधिः ॥ ५६॥ महाप्रलयकृद रुद्रो विश्वात्मा हृदयोद्भवः । त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ॥ ५७॥ सर्गरक्षालयकरस्त्रिगुणै रज आदिभिः । गुणभिन्नः शिवः साक्षात्प्रकृते पुरुषात्परः ॥ ५८॥ परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरञ्जनः । अन्तस्तमो बहिःसत्त्वस्त्रिजगत्पालको हरिः ॥ ५९॥ अन्तःसत्त्वस्तमोबाह्यस्त्रिजगल्लयकृद्धरः ॥ ६०॥ अन्तर्बहिरजश्चैव त्रिजगत्सृष्टिकृद्विधिः । एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः ॥ ६१॥ विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम् । सम्पूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया ॥ ६२॥ तव सेव्यो विधेश्चापि रुद्र एव भविष्यति । शिवपूर्णावतारो हि त्रिजगल्लयकारकः ॥ ६३॥ पाद्मे भविष्यति सुतः कल्पे तव पितामहः । तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः ॥ ६४॥ एवमुक्त्वा महेशानः कृपां कृत्वातुलां हरः । पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः ॥ ६५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनं नाम नवमोऽध्यायः ॥ २.१.९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.१०. दशमोऽध्यायः । परमशिवतत्त्ववर्णनम् ।

परमेश्वर उवाच । अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत । सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि ॥ १॥ ब्रह्मणा निर्मिते लोके यदा दुःखं प्रजायते । तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ॥ २॥ सहायं ते करिष्यामि सर्वकार्ये च दुःसहे । तव शत्रून्हनिष्यामि दुःसाध्यान्परमोत्कटान् ॥ ३॥ विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् । विस्तारय हरे लोके तारणाय परो भव ॥ ४॥ गुणरूपो ह्यहं रुद्रो ह्यनेन वपुषा सदा । कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ॥ ५॥ रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा । युवयोरन्तरं नैव तव रुद्रस्य किञ्चन ॥ ६॥ वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च । लीलयापि महाविष्णो सत्यं सत्यं न संशयः ॥ ७॥ रुद्रभक्तो नरो यस्तु तव निन्दां करिष्यति । तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ॥ ८॥ नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम । मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ॥ ९॥ लोकेऽस्मिन्मुक्तिदो नृणां भुक्तिदश्च विशेषतः । ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ॥ १०॥ इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् । कथयामास दुःखेषु सहायो भव सर्वदा ॥ ११॥ सर्वाध्यक्षश्च सर्वेषु भक्तिमुक्तिप्रदायकः । भव त्वं सर्वदा श्रेष्ठः सर्वकामप्रसाधकः ॥ १२॥ सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया । सङ्कटे भजनीयो हि स रुद्रो मत्तनुर्हरे ॥ १३॥ त्वां यः समाश्रितो नूनं मामेव स समाश्रितः । अन्तरं यश्च जानाति निरये पतति ध्रुवम् ॥ १४॥ आयुर्बलं श‍ृणुष्वाद्य त्रिदेवानां विशेषतः । सन्देहोऽत्र न कर्तव्यो ब्रह्मविष्णुहरात्मनाम् ॥ १५॥ चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते । रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ॥ १६॥ तेषां त्रिंशद्दिनैर्मासो द्वादशैस्तैश्च वत्सरः । शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम् ॥ १७॥ ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते । सोऽपि वर्षशतं यावदात्ममानेन जीवति ॥ १८॥ वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद् ध्रुवम् । हरो वर्षशते याते नररूपेण संस्थितः ॥ १९॥ यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् । पश्चाच्छक्तिं समभ्येति यावन्निःश्वसितं भवेत् ॥ २०॥ निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् । ब्रह्मविष्णुहराणां च गन्धर्वोरगरक्षसाम् ॥ २१॥ एकविंशसहस्राणि शतैः षड्भिः शतानि च । अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ॥ २२॥ षड्भिरुच्छ्वासनिःश्वासैः पलमेकं प्रवर्तितम् । घटी षष्टिपला प्रोक्ता सा षष्ट्या च दिनं निशा ॥ २३॥ निःश्वासोच्छ्वासितानां च परिसङ्ख्या न विद्यते । सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ॥ २४॥ इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया । तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ॥ २५॥ ब्रह्मोवाच । इत्याकर्ण्य वचः शम्भोर्मया च भगवान्हरिः । प्रणिपत्य च विश्वेशं प्राह मन्दतरं वशी ॥ २६॥ विष्णुरुवाच । शङ्कर श्रूयतामेतत्कृपासिन्धो जगत्पते । सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः ॥ २७॥ मम ध्येयः सदा त्वं च भविष्यसि न चान्यथा । भवतः सर्वसामर्थ्यं लब्धं चैव पुरा मया ॥ २८॥ क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम । चेतसो दूरतो नैव सङ्गच्छतु कदाचन ॥ २९॥ मम भक्तश्च यः स्वामिँस्तव निन्दां करिष्यति । तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम् ॥ ३०॥ त्वद्भक्तो यो भवेत् स्वामिन्मम प्रियतरो हि सः । एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा ॥ ३१॥ महिमा च मदीयोऽद्य वर्धितो भवता ध्रुवम् । कदाचिदगुणश्चैव जायते क्षम्यतामिति ॥ ३२॥ ब्रह्मोवाच । तदा शम्भुस्तदीयं हि श्रुत्वा वचनमुत्तमम् । उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया ॥ ३३॥ एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः । पस्पर्श सकलाङ्गेषु कृपया तु कृपानिधिः ॥ ३४॥ आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः । ददौ वराननेकांश्चावयोर्हितचिकीर्षया ॥ ३५॥ ततः स भगवान् शम्भुः कृपया भक्तवत्सलः । दृष्ट्या सम्पश्यतोः शीघ्रं तत्रैवान्तरधीयत ॥ ३६॥ तदाप्रभृति लोकेऽस्मिँल्लिङ्गपूजाविधिः स्मृतः । लिङ्गे प्रतिष्ठितः शम्भुर्भुक्तिमुक्तिप्रदायकः ॥ ३७॥ लिङ्गवेदिर्महादेवी लिङ्गं साक्षान्महेश्वरः । लयनाल्लिङ्गमित्युक्तं तत्रैव निखिलं जगत् ॥ ३८॥ यस्तु लैङ्गं पठेन्नित्यमाख्यानं लिङ्गसन्निधौ । षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा ॥ ३९॥ यस्तु लिङ्गसमीपे तु कार्यं किञ्चित्करोति च । तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने ॥ ४०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ॥ २.१.१०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.११. एकादशोऽध्यायः । शिवपूजाविधिवर्णनम् ।

ऋषय ऊचुः । सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते । श्राविताद्याद्भुता शैवी कथा परमपावनी ॥ १॥ तत्राद्भुता महादिव्या लिङ्गोत्पत्तिः श्रुता शुभा । श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २॥ ब्रह्मनारदसंवादमनुसृत्य दयानिधे । शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ॥ ३॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः । कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम् ॥ ४॥ तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसम्मतम् । उवाच सकलं प्रीत्या मुनिप्रश्नानुसारतः ॥ ५॥ सूत उवाच । साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः । तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ॥ ६॥ भवद्भिः पृच्छ्यते यद्वत्तथा व्यासेन वै पुरा । पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ॥ ७॥ ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् । मह्यं च पाठितं तेन लोकानां हितकाम्यया ॥ ८॥ तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः । तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा ॥ ९॥ ब्रह्मोवाच । श‍ृणु नारद वक्ष्यामि सङ्क्षेपाल्लिङ्गपूजनम् । वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ॥ १०॥ एवं तु शाङ्करं रूपं सुखं स्वच्छं सनातनम् । पूजयेत्परया भक्त्या सर्वकामफलाप्तये ॥ ११॥ दारिद्र्यं रोगदुःखं च पीडनं शत्रुसम्भवम् । पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ॥ १२॥ सम्पूजिते शिवे देवे सर्वदुःखं विलीयते । सम्पद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ॥ १३॥ यो वै मानुष्यमाश्रित्य मुख्यं सन्तानतः सुखम् । तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ॥ १४॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च विधिवत्क्रमात् । शङ्करार्चां प्रकुर्वन्तु सर्वकामार्थसिद्धये ॥ १५॥ प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसंज्ञके । गुरोश्च स्मरणं कृत्वा शम्भोश्चैव तथा पुनः ॥ १६॥ तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि । ममापि निर्जराणां वै मुन्यादीनां तथा मुने ॥ १७॥ ततः स्तोत्रं शम्भुनाम गृह्णीयाद्विधिपूर्वकम् । ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ॥ १८॥ एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्य यच्छ्रुतम् । तदेव कथयाम्यद्य श‍ृण्वाधाय मनो मुने ॥ १९॥ शुद्धां मृदं द्विजो लिप्यात्पञ्चवारं विशुद्धये । क्षत्रियश्च चतुर्वारं वैश्यो वारत्रयं तथा ॥ २०॥ शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये । गुदे वाथ सकृल्लिङ्गे वारमेकं प्रयत्नतः ॥ २१॥ दशवारं वामहस्ते सप्तवारं द्वयोस्तथा । प्रत्येकं पादयोस्तात त्रिवारं करयोः पुनः ॥ २२॥ स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम् । हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ॥ २३॥ दन्तकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ॥ २४॥ विप्रः कुर्याद्दन्तकाष्ठं द्वादशाङ्गुलमानतः । एकादशाङ्गुलं राजा वैश्यः कुर्याद्दशाङ्गुलम् ॥ २५॥ शूद्रो नवाङ्गुलं कुर्यादिति मानमिदं स्मृतम् । कालदोषं विचार्येव मानदुष्टं विवर्जयेत् ॥ २६॥ षष्ट्याद्यामश्च नवमी व्रतमस्तं रवेर्दिनम् । तथा श्राद्धदिनं तात निषिद्धं रदधावने ॥ २७॥ स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु । देशकालविशेषेण स्नानं कार्यं समन्त्रकम् ॥ २८॥ आचम्य प्रथमं तत्र धौतवस्त्राणि धारयेत् । एकान्ते सुस्थले स्थित्वा सन्ध्याविधिमथाचरेत् ॥ २९॥ यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् । मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ॥ ३०॥ पूजाविधिं समादाय स्वासने ह्युपविश्य वै । न्यासादिकं विधायादौ पूजयेत् क्रमशो हरम् ॥ ३१॥ प्रथमं च गणाधीशं द्वारपालांस्तथैव च । दिक्पालांश्च सुसम्पूज्य पश्चात्पीठं प्रकल्पयेत् ॥ ३२॥ अथवाष्टदलं कृत्वा पूजाद्रव्यं समीपतः । उपविश्य ततस्तत्र उपवेश्य शिवं प्रभुम् ॥ ३३॥ आचमनत्रयं कृत्वा प्रक्षाल्य च पुनः करौ । प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ॥ ३४॥ पञ्चवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् । सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ॥ ३५॥ तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरः सदा । शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ॥ ३६॥ देहशुद्धिं ततः कृत्वा मूलमन्त्रं न्यसेत्क्रमात् । सर्वत्र प्रणवेनैव षडङ्गन्यासमाचरेत् ॥ ३७॥ कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् । पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत् ॥ ३८॥ स्थापयेद्विविधान्कुम्भान्नव धीमान्यथाविधि । दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ॥ ३९॥ तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम् । प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ॥ ४०॥ उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् । जातीकङ्कोलकर्पूरवटमूलतमालकम् ॥ ४१॥ चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके । एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ॥ ४२॥ पार्श्वयोर्देवदेवस्य नन्दीशं तु समर्चयेत् । गन्धैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम् ॥ ४३॥ लिङ्गशुद्धिं ततः कृत्वा मुदा युक्तो नरस्तदा । यथोचितं तु मन्त्रौघैः प्रणवादिर्नमोऽन्तकैः ॥ ४४॥ कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु । तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ॥ ४५॥ लघिमा दक्षिणं चैव महिमा पश्चिमं तथा । प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च ॥ ४६॥ ईशित्वं नैरृतं पत्रं वशित्वं वायुगोचरे । सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ॥ ४७॥ सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम् । धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ॥ ४८॥ अव्यक्तादि चतुर्दिक्षु सोमस्यान्ते गुणत्रयम् । सद्योजातं प्रपद्यामीत्यावाह्य परमेश्वरम् ॥ ४९॥ वामदेवेन मन्त्रेण तिष्ठेच्चैवासनोपरि । सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ॥ ५०॥ ईशानः सर्वविद्यानामिति मन्त्रेण पूजयेत् । पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत् ॥ ५१॥ स्थापयेद्विधिना रुद्रं गन्धचन्दनवारिणा । पञ्चगव्यविधानेन गृह्यपात्रेऽभिमन्त्र्य च ॥॥ ५२॥ प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् । दध्ना च मधुना चैव तथा चेक्षुरसेन तु ॥ ५३॥ घृतेन तु तथा पूज्यं सर्वकामहितावहम् । पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत् ॥ ५४॥ पवित्रजलभाण्डेषु मन्त्रैः तोयं क्षिपेत्ततः । शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ॥ ५५॥ तावद् दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् । तन्दुलैः सुन्दरैस्तत्र पूजयेच्छङ्करं मुदा ॥ ५६॥ कुशापामार्गकर्पूरजातिचम्पकपाटलैः । करवीरैः सितैश्चैव मल्लिकाकमलोत्पलैः ॥ ५७॥ अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च । जलेन जलधारां च कल्पयेत्परमेश्वरे ॥ ५८॥ पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् । मन्त्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ॥ ५९॥ मन्त्रांश्च तुभ्यं तांस्तात सर्वकामार्थसिद्धये । प्रवक्ष्यामि समासेन सावधानतया श‍ृणु ॥ ६०॥ पवमानेन मन्त्रेण तथा वाङ्मयकेन च । रुद्रेण नीलरुद्रेण सुशुक्लेन शुभेन च ॥ ६१॥ होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च । शान्त्या वाथ पुनः शान्त्या भारुण्डेनारुणेन च ॥ ६२॥ अर्थाभीष्टेन साम्ना च तथा देवव्रतेन च ॥ ६३॥ रथन्तरेण पुष्पेण सूक्तेन पुरुषेण च । मृत्युञ्जयेन मन्त्रेण तथा पञ्चाक्षरेण च ॥ ६४॥ जलधाराः सहस्रेण शतेनैकोत्तरेण वा । कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ॥ ६५॥ ततश्चन्दनपुष्पादि रोपणीयं शिवोपरि । दापयेत्प्रणवेनैव मुखवासादिकं तथा ॥ ६६॥ ततः स्फटिकसङ्काशं देवं निष्कलमक्षयम् । कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ६७॥ ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् । वेदविद्भिर्हि वेदान्ते त्वगोचरमिति स्मृतम् ॥ ६८॥ आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् । शिवतत्त्वमिति ख्यातं शिवलिङ्गं व्यवस्थितम् ॥ ६९॥ प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्द्धनि । धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैः सुन्दरैस्तथा ॥ ७०॥ नीराजनेन रम्येण यथोक्तविधिना ततः । नमस्कारैः स्तवैश्चान्यैर्मन्त्रैर्नानाविधैरपि ॥ ७१॥ अर्घ्यं दत्त्वा तु पुष्पाणि पादयोः सुविकीर्य च । प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ॥ ७२॥ हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृताञ्जलिः । प्रार्थयेत्पुनरीशानं मन्त्रेणानेन शङ्करम् ॥ ७३॥ अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया । कृतं तदस्तु सफलं कृपया तव शङ्कर ॥ ७४॥ पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् । ततः स्वस्त्ययनं कृत्वा ह्याशिषो विविधास्तथा ॥ ७५॥ मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः । नमस्कारं ततः क्षान्तिं पुनरागमनाय च ॥ ७६॥ अघोरमन्त्रमुच्चार्य नमस्कारं प्रकल्पयेत् । प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ॥ ७७॥ शिवे भक्तिः शिवे भक्तिः शिवे भक्तिर्भवे भवे । अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ ७८॥ इति सम्प्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् । पूजयेत्परया भक्त्या गलनादैर्विशेषतः ॥ ७९॥ नमस्कारं ततः कृत्वा परिवारगणैः सह । प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ॥ ८०॥ एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः । तस्य वै सकला सिद्धिर्जायते तु पदे पदे ॥ ८१॥ वाग्मी स जायते तस्य मनोऽभीष्टफलं ध्रुवम् । रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ॥ ८२॥ कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् । तद्दुःखं नाशयत्येव शिवः शिवकरः परः ॥ ८३॥ कल्याणं जायते तस्य शुक्लपक्षे यथा शशी । वर्धते सद्गुणस्तत्र ध्रुवं शङ्करपूजनात् ॥ ८४॥ इति पूजाविधिः शम्भोः प्रोक्तस्ते मुनिसत्तम । अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ॥ ८५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनं नामैकादशोऽध्यायः ॥ २.१.११॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

२.१.१२. द्वादशोऽध्यायः । पूजाविधिवर्णने सारासारविचारवर्णनम् ।

नारद उवाच । ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः । एतदेव पुनः सम्यग्ब्रूहि मे विस्तराद्विधे ॥ १॥ ब्रह्मोवाच । एकस्मिन्समये तात ऋषीनाहूय सर्वतः । निर्जरांश्चावदं प्रीत्या सुवचः पद्मसम्भवः ॥ २॥ यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः । आगन्तव्यं मया सार्धं तीरं क्षीरपयोनिधेः ॥ ३॥ इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह । यत्रास्ते भगवान्विष्णुः सर्वेषां हितकारकः ॥ ४॥ तत्र गत्वा जगन्नाथं देवदेवं जनार्दनम् । उपतस्थुः सुरा नत्वा सुकृताञ्जलयो मुने ॥ ५॥ तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् । स्मरन् शिवपदाम्भोजमब्रवीत्परमं वचः ॥ ६॥ विष्णुरुवाच । किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः । सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ॥ ७॥ ब्रह्मोवाच । इति पृष्टास्तदा तेन विष्णुना च मया सुराः । पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ॥ विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ॥ ८॥ देवा ऊचुः । नित्यं सेवा तु कस्यैव कार्या दुःखापहारिणी ॥ ९॥ इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः । सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ॥ १०॥ श्रीभगवानुवाच । ब्रह्मन् श‍ृणु सुरैः सम्यक् श्रुतं च भवता पुरा । तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ॥ ११॥ दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यतेऽधुना । ब्रह्मन्देवैः समस्तैश्च बहुधा कार्यतत्परैः ॥ १२॥ सेव्यः सेव्यः सदा देवः शङ्करः सर्वदुःखहा । ममापि कथितं तेन ब्रह्मणोऽपि विशेषतः ॥ १३॥ प्रस्तुतं चैव दृष्टं वः सर्वं दृष्टान्तमद्भुतम् । त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः ॥ १४॥ सन्त्यज्य देवदेवेशं लिङ्गमूर्तिं महेश्वरम् । तारपुत्रास्तथैवैते नष्टास्तेऽपि सबान्धवाः ॥ १५॥ मया च मोहितास्ते वै मायया दूरतः कृताः । सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा ॥ १६॥ तस्मात्सदा पूजनीयो लिङ्गमूर्तिधरो हरः । सेवनीयो विशेषेण श्रद्धया देवसत्तम ॥ १७॥ शर्वलिङ्गार्चनादेव देवा दैत्याश्च सत्तमाः । अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया ॥ १८॥ तल्लिङ्गमर्चयेन्नित्यं येन केनापि हेतुना । तस्मात् ब्रह्मन्सुरैः शर्वः सर्वकामफलेप्सया ॥ १९॥ सा हानिस्तन्महाछिद्रं सान्धता सा च मुग्धता । यन्मुहूर्तं क्षणं वापि शिवं नैव समर्चयेत् ॥ २०॥ भवभक्तिपरा ये च भवप्रणतचेतसः । भवसंस्मरणा ये च न ते दुःखस्य भाजनाः ॥ २१॥ भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः । धनं च तुष्टिपर्यन्तं पुत्रपौत्रादिसन्ततिः ॥ २२॥ आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् । ये वाञ्छन्ति महाभागाः सुखं वा त्रिदशालयम् ॥ २३॥ अन्ते मुक्तिफलं चैव भक्तिं वा परमेशितुः । पूर्वपुण्यातिरेकेण तेऽर्चयन्ति सदाशिवम् ॥ २४॥ योऽर्चयेच्छिवलिङ्गं वै नित्यं भक्तिपरायणः । तस्य वै सफला सिद्धिर्न स पापैः प्रयुज्यते ॥ २५॥ ब्रह्मोवाच । इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् । लिङ्गानि प्रार्थयामासुः सर्वकामाप्तये नृणाम् ॥ २६॥ तच्छ्रुत्वा च तदा विष्णुर्विश्वकर्माणमब्रवीत् । अहं च मुनिशार्दूल जीवोद्धारपरायणः ॥ २७॥ विश्वकर्मन्यथा शम्भोः कल्पयित्वा शुभानि च । लिङ्गानि सर्वदेवेभ्यो देयानि वचनान्मम ॥ २८॥ ब्रह्मोवाच । लिङ्गानि कल्पयित्वैवमधिकारानुरूपतः । विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः ॥ २९॥ तदेव कथयाम्यद्य श्रूयतामृषिसत्तम । पद्मरागमयं शक्रो हैमं विश्रवसः सुतः ॥ ३०॥ पीतं मणिमयं धर्मो वरुणः श्यामलं शिवम् । इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा ॥ ३१॥ विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च । आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने ॥ ३२॥ लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् । मौक्तिकं सोमराजो वै वज्रलिङ्गं विभावसुः ॥ ३३॥ मृण्मयं चैव विप्रेन्द्रा विप्रपत्न्यस्तथैव च । चान्दनं च मयो नागाः प्रवालमयमादरात् ॥ ३४॥ नवनीतमयं देवी योगी भस्ममयं तथा । यक्षा दधिमयं लिङ्गं छाया पिष्टमयं तथा ॥ ३५॥ शिवलिङ्गं च ब्रह्माणी रत्नं पूजयति ध्रुवम् । पारदं पार्थिवं बाणः समर्चति परेऽपि वा ॥ ३६॥ एवंविधानि लिङ्गानि दत्तानि विश्वकर्मणा । ते पूजयन्ति सर्वे वै देवा ऋषिगणास्तथा ॥ ३७॥ विष्णुर्दत्त्वा च लिङ्गानि देवेभ्यो हितकाम्यया । पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः ॥ ३८॥ तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः । आगच्छं च स्वकं धाम हर्षनिर्भरमानसः ॥ ३९॥ तत्रागत्य ऋषीन्सर्वान्देवांश्चाहं तथा मुने । शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम् ॥ ४०॥ ब्रह्मोवाच । श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः । शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम् ॥ ४१॥ मानुषं जन्म सम्प्राप्य दुर्लभं सर्वजन्तुषु । तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः ॥ ४२॥ अव्यङ्गं चैव विप्रेषु साचारेषु सपुण्यतः । शिवसन्तोषहेतोश्च कर्म स्वोक्तं समाचरेत् ॥ ४३॥ यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लङ्घयेत् । यावद्दानस्य सम्पत्तिस्तावत्कर्म समावहेत् ॥ ४४॥ कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते । तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ॥ ४५॥ ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् । यतः समरसं स्वेष्टं योगी ध्यानेन पश्यति ॥ ४६॥ ध्यानयज्ञरतस्यास्य सदा सन्निहितः शिवः । नास्ति विज्ञानिनां किञ्चित्प्रायश्चित्तादिशोधनम् ॥ ४७॥ विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः । नास्ति क्रिया च तेषां वै सुखं दुःखं विचारतः ॥ ४८॥ धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा । सर्वदा निर्विकारास्ते विद्यया च तयामराः ॥ ४९॥ परानन्दकरं लिङ्गं विशुद्धं शिवमक्षरम् । निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ॥ ५०॥ लिङ्गं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं द्विजाः । बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यन्तरं मतम् ॥ ५१॥ कर्मयज्ञरता ये च स्थूललिङ्गार्चने रताः । असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः ॥ ५२॥ आध्यात्मिकं तु यल्लिङ्गं प्रत्यक्षं यस्य नो भवेत् । स तल्लिङ्गे तथा स्थूले कल्पयेच्च न चान्यथा ॥ ५३॥ ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् । यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम् ॥ ५४॥ अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः । निष्कलं सकलं चित्ते सर्वं शिवमयं जगत् ॥ ५५॥ एवं ज्ञानविमुक्तानां नास्ति दोषविकल्पना । विधिश्चैव तथा नास्ति विहिताविहिते तथा ॥ ५६॥ यथा जलेषु कमलं सलिलैर्नावलिप्यते । तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते ॥ ५७॥ इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै । तावच्च कर्मणा देवं शिवमाराधयेन्नरः ॥ ५८॥ प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः । एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु ॥ ५९॥ दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् । तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम् ॥ ६०॥ भेदो जलानां लोकेऽस्मिन्प्रतिभावेऽविचारतः । एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः ॥ ६१॥ हृदि संसारिणः साक्षात्सकलः परमेश्वरः । इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः ॥ ६२॥ इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा । पदमुच्चैः समारोढुं पुंसो ह्यालम्बनं स्मृतम् ॥ ६३॥ आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् । निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम् ॥ ६४॥ सगुणान्निर्गुणप्राप्तिर्भवतीति सुनिश्चितम् । एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा ॥ ६५॥ देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् । गन्धचन्दनपुष्पादि किमर्थं प्रतिमां विना ॥ ६६॥ तावच्च प्रतिमा पूज्या यावद्विज्ञानसम्भवः । ज्ञानाभावे न पूज्येत पतनं तस्य निश्चितम् ॥ ६७॥ एतस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः । स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः ॥ ६८॥ यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् । विना पूजनदानादि पातकं न च दूरतः ॥ ६९॥ यावच्च पातकं देहे तावत्सिद्धिर्न जायते । गते च पातके तस्य सर्वं च सफलं भवेत् ॥ ७०॥ तथा च मलिने वस्त्रे रङ्गः शुभतरो न हि । क्षालने हि कृते शुद्धे सर्वो रङ्गः प्रसज्जते ॥ ७१॥ तथा च निर्मले देहे देवानां सम्यगर्चया । ज्ञानरङ्गः प्रजायेत तदा विज्ञानसम्भवः ॥ ७२॥ विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी । ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते ॥ ७३॥ भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् । तन्मूलं सद्गुरुः प्रोक्तस्तन्मूलं सङ्गतिः सताम् ॥ ७४॥ सङ्गत्या गुरुराप्येत गुरोर्मन्त्रादिपूजनम् । पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ॥ ७४॥ विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् । विज्ञानं च यदा जातं तदा भेदो निवर्तते ॥ ७६॥ भेदे निवृत्ते सकले द्वन्द्वदुःखविहीनता । द्वन्द्वदुःखविहीनस्तु शिवरूपो भवत्यसौ ॥ ७७॥ द्वन्द्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः । विहिताविहिते तस्य न स्यातां च सुरर्षयः ॥ ७८॥ ईदृशो विरलो लोके गृहाश्रमविवर्जितः । यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः ॥ ७९॥ तीर्थानि श्लाघयन्तीह तादृशं ज्ञानवित्तमम् । देवाश्च मुनयः सर्वे परब्रह्मात्मकं शिवम् ॥ ८०॥ तादृशानि न तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन विज्ञानी दर्शनादपि ॥ ८१॥ यावद्गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् । कुर्याच्छ्रेष्ठस्य सुप्रीत्या सुरेषु खलु पञ्चसु ॥ ८२॥ अथवा च शिवः पूज्यो मूलमेकं विशिष्यते । मूले सिक्ते तथा शाखाः तृप्ताः सत्यखिलाः सुराः ॥ ८३॥ शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् । एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः ॥ ८४॥ सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः । शिवे च पूजिते देवाः पूजिताः सर्व एव हि ॥ ८५॥ तस्माच्च पूजयेद्देवं शङ्करं लोकशङ्करम् । सर्वकामफलावाप्त्यै सर्वभूतहिते रतः ॥ ८६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनं नाम द्वादशोऽध्यायः ॥ २.१.१२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.१३. त्रयोदशोऽध्यायः । शिवपूजनवर्णनम् ।

ब्रह्मोवाच । अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् । श्रूयतामृषयो देवाःसर्वकामसुखावहम् ॥ १॥ ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्साम्बकं शिवम् । कुर्यात्तत्प्रार्थनां भक्त्या साञ्जलिर्नतमस्तकः ॥ २॥ उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय । उत्तिष्ठ त्वमुमास्वामिन्ब्रह्माण्डे मङ्गलं कुरु ॥ ३॥ जानामि धर्मं न च मे प्रवृत्ति- र्जानाम्यधर्मं न च मे निवृत्तिः । त्वया महादेव हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ४॥ इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके । बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ॥ ५॥ देहशुद्धिं ततः कृत्वा स मृज्जलविशोधनैः । हस्तौ पादौ च प्रक्षाल्य दन्तधावनमाचरेत् ॥ ६॥ दिवानाथे त्वनुदिते कृत्वा वै दन्तधावनम् । मुखं षोडशवारं तु प्रक्षाल्याञ्जलिभिस्तथा ॥ ७॥ षष्ठ्याद्यामाश्च तिथयो नवम्यर्कदिने तथा । वर्ज्याः सुरर्षयो यत्नाद्भक्तेन रदधावने ॥ ८॥ यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे । देशकालाविरुद्धं च स्नानं कार्यं नरेण च ॥ ९॥ रवेर्दिने तथा श्राद्धे सङ्क्रान्तौ ग्रहणे तथा । महादाने तथा तीर्थे ह्युपवासदिने तथा ॥ १०॥ अशौचेऽप्यथवा प्राप्ते न स्नायादुष्णवारिणा । यथा साभिमुखं स्नायात्तीर्थादौ भक्तिमान्नरः ॥ ११॥ तैलाभ्यङ्गं च कुर्वीत वारान्दृष्ट्वा क्रमेण च । नित्यमभ्यङ्गके चैव वासितं वा न दूषितम् ॥ १२॥ श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने । अथवा सार्षपं तैलं न दुष्येद् ग्रहणं विना ॥ १३॥ देशं कालं विचार्य्यैवं स्नानं कुर्याद्यथाविधि । उत्तराभिमुखश्चैव प्राङ्मुखोऽप्यथवा पुनः ॥ १४॥ उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन । शुद्धवस्त्रेण स स्नायात्तद्देवस्मृतिपूर्वकम् ॥ १५॥ परधार्य्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् । तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ॥ १६॥ तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् । धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ॥ १७॥ शुचौ देशे ततो गत्वा गोमयाद्यपमार्जिते । आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ॥ १८॥ शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा । चित्रासनं तथा कुर्यात्सर्वकामफलप्रदम् ॥ १९॥ यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् । तत्रोपविश्य कुर्वीत त्रिपुण्ड्रं भस्मना सुधीः ॥ २०॥ जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् । अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ॥ २१॥ एवं कृत्वा त्रिपुण्ड्रं च रुद्राक्षान्धारयेन्नरः । सम्पाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ॥ २२॥ पुनराचमनं कृत्वा त्रिवारं मन्त्रपूर्वकम् । एकं वाथ प्रकुर्याच्च गङ्गाबिन्दुरिति ब्रुवन् ॥ २३॥ अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् । अन्यद्वस्तु च यत्किञ्चिद्यथाशक्ति समीपगम् ॥ २४॥ कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः । अर्घपात्रं तथा चैकं जलगन्धाक्षतैर्युतम् ॥ २५॥ दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये । गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ॥ २६॥ सङ्कल्पं विधिवत्कृत्वा कामनां च नियुज्य वै । पूजयेत्परया भक्त्या शिवं सपरिवारकम् ॥ २७॥ मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम् । सिन्दुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ॥ २८॥ लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः । चतुर्थ्यन्तैर्नामपदैर्नमोऽन्तैः प्रणवादिभिः ॥ २९॥ क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् । पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ॥ ३०॥ द्वारपालं सदा द्वारि तिष्ठन्तं च महोदरम् । पूजयित्वा ततः पश्चात्पूजयेद्गिरिजां सतीम् ॥ ३१॥ चन्दनैः कुङ्कुमैश्चैव धूपैर्दीपैरनेकशः । नैवेद्यैर्विविधैश्चैव पूजयित्वा ततः शिवम् ॥ ३२॥ नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ । यदि गेहे पार्थिवीं वा हैमीं वा राजतीं तथा ॥ ३३॥ धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् । नमस्कृत्य पुनस्तां च पूजयेद्भक्तितत्परः ॥ ३४॥ तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तथा । स्थापयेच्च मृदा लिङ्गं विधाय विधिपूर्वकम् ॥ ३५॥ कर्तव्यं सर्वथा तत्र नियमाः स्वगृहे स्थितैः । प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ॥ ३६॥ दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये । गृहे शिवः सदा पूज्यो मूलमन्त्राभियोगतः ॥ ३७॥ तत्र तु द्वारपालानां नियमो नास्ति सर्वथा । गृहे लिङ्गं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ॥ ३८॥ पूजाकाले च साङ्गं वै परिवारेण संयुतम् । आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ॥ ३९॥ शिवस्य सन्निधिं कृत्वा स्वासनं परिकल्पयेत् । उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ॥ ४०॥ प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् । मूलमन्त्रेण तत्रैव दशावर्तं नयेन्नरः ॥ ४१॥ पञ्चमुद्राः प्रकर्तव्याः पूजावश्यं करे स्थिता । एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ॥ ४२॥ दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ । बध्वा पद्मासनं तत्र भद्रासनमथापि वा ॥ ४३॥ उत्तानासनकं कृत्वा पर्यङ्कासनकं तथा । यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ॥ ४४॥ कृत्वा पूजां पुरा जातां वट्टकेनैव तारयेत् । यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ॥ ४५॥ पश्चाच्चैवार्घपात्रेण क्षालयेल्लिङ्गमुत्तमम् । अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ॥ ४६॥ पश्चाच्चावाहयेद्देवं मन्त्रेणानेन वै नरः । कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ॥ ४७॥ यथोक्तरूपिणं शम्भुं निर्गुणं गुणरूपिणम् । पञ्चवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ॥ ४८॥ कर्पूरगौरं दिव्याङ्गं चन्द्रमौलिं कपर्दिनम् । व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ॥ ४९॥ वासुक्यादिपरीताङ्गं पिनाकाद्यायुधान्वितम् । सिद्धयोऽष्टौ च यस्याग्रे नृत्यन्तीह निरन्तरम् ॥ ५०॥ जयजयेति शब्दैश्च सेवितं भक्तपुञ्जकैः । तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ॥ ५१॥ शरण्यं सर्वसत्त्वानां प्रसन्नमुखपङ्कजम् । वेदैः शास्त्रैर्यथागीतं विष्णुब्रह्मनुतं सदा ॥ ५२॥ भक्तवत्सलमानन्दं शिवमावाहयाम्यहम् । एवं ध्यात्वा शिवं साम्बमासनं परिकल्पयेत् ॥ ५३॥ चतुर्थ्यन्तपदेनैव सर्वं कुर्याद्यथाक्रमम् । ततः पाद्यं प्रदद्याद्वै ततोऽर्घ्यं शङ्कराय च ॥ ५४॥ ततश्चाचमनं कृत्वा शम्भवे परमात्मने । पश्चाच्च पञ्चभिर्द्रव्यैः स्नापयेच्छङ्करं मुदा ॥ ५५॥ वेदमन्त्रैर्यथायोग्यं नामभिर्वा समन्त्रकैः । चतुर्थ्यन्तपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ॥ ५६॥ तथाभिलषितं द्रव्यमर्पयेच्छङ्करोपरि । ततश्च वारुणं स्नानं करणीयं शिवाय वै ॥ ५७॥ सुगन्धं चन्दनं दद्यादन्यलेपानि यत्नतः । ससुगन्धजलेनैव जलधारां प्रकल्पयेत् ॥ ५८॥ वेदमन्त्रैः षडङ्गैर्वा नामभी रुद्रसङ्ख्यया । यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ॥ ५९॥ पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत । तिलाश्चैव यवा वापि गोधूमा मुद्गमाषकाः ॥ ६०॥ अर्पणीयाः शिवायैवं मन्त्रैर्नानाविधैरपि । ततः पुष्पाणि देयानि पञ्चास्याय महात्मने ॥ ६१॥ प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः । कमलैः शतपत्रैश्च शङ्खपुष्पैः परैस्तथा ॥ ६२॥ कुशपुष्पैश्च धत्तूरैर्मन्दारैर्द्रोणसम्भवैः । तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ॥ ६३॥ पूजयेत्परया भक्त्या शङ्करं भक्तवत्सलम् । सर्वाभावे बिल्वपत्रमर्पणीयं शिवाय वै ॥ ६४॥ बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति । ततः सुगन्धचूर्णं वै वासितं तैलमुत्तमम् ॥ ६५॥ अर्पणीयं च विविधं शिवाय परया मुदा । ततो धूपः प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ॥ ६६॥ दीपो देयस्ततस्तस्मै शङ्कराय घृताप्लुतः । अर्घं दद्यात्पुनस्तस्मै मन्त्रेणानेन भक्तितः ॥ ६७॥ कारयेद्भावतो भक्त्या वस्त्रेण मुखमार्जनम् । रूपं देहि यशो देहि भोगं देहि च शङ्कर ॥ ६८॥ भुक्तिमुक्तिफलं देहि गृहीत्वार्घं नमोऽस्तु ते । ततो देयं शिवायैव नैवेद्यं विविधं शुभम् ॥ ६९॥ तत आचमनं प्रीत्या कारयेद्वाविलम्बतः । ततः शिवाय ताम्बूलं साङ्गोपाङ्गं विधाय च ॥ ७०॥ कुर्यादारार्तिकं पञ्चवर्तिकामनुसङ्ख्यया । पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ॥ ७१॥ एककृत्वो मुखे सप्तकृत्वः सर्वाङ्ग एव हि । ततो ध्यानं यथोक्तं वै कृत्वा मन्त्रमुदीरयेत् ॥ ७२॥ यथासङ्ख्यं यथाज्ञानं कुर्यान्मन्त्रविधिं नरः । गुरूपदिष्टमार्गेण कृत्वा मन्त्रजपं सुधीः ॥ ७३॥ गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् । यथासङ्ख्यं यथाज्ञानं कुर्यान्मन्त्रविधिं नरः ॥ ७४॥ स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् । ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैः शनैः ॥ ७५॥ नमस्कारांस्ततः कुर्यात्साष्टाङ्गं विधिवत्पुमान् । ततः पुष्पाञ्जलिर्देयो मन्त्रेणानेन भक्तितः ॥ ७६॥ शङ्कराय परेशाय शिवसन्तोषहेतवे । अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ॥ ७७॥ कृतं तदस्तु सफलं कृपया तव शङ्कर । तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ॥ ७८॥ इति विज्ञाय गौरीश भूतनाथ प्रसीद मे । भूमौ स्खलितपादानां भूमिरेवावलम्बनम् ॥ ७९॥ त्वयि जातापराधानां त्वमेव शरणं प्रभो । इत्यादि बहुविज्ञप्तिं कृत्वा सम्यग्विधानतः ॥ ८०॥ पुष्पाञ्जलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः । स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो ॥ ८१॥ पूजाकाले पुनर्नाथ त्वयागन्तव्यमादरात् । इति सम्प्रार्थ्य बहुशः शङ्करं भक्तवत्सलम् ॥ ८२॥ विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत् । इति प्रोक्तमशेषेण मुनयः शिवपूजनम् । भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ॥ ८३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजनवर्णनं नाम त्रयोदशोऽध्यायः ॥ २.१.१३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

२.१.१४. चतुर्दशोऽध्यायः । शिवपूजाविधानवर्णनम् ।

ऋषय ऊचुः । व्यासशिष्य महाभाग कथय त्वं प्रमाणतः । कैः पुष्पैः पूजितः शम्भुः किं किं यच्छति वै फलम् ॥ १॥ सूत उवाच । शौनकाद्याश्च ऋषयः श‍ृणुतादरतोऽखिलम् ॥ कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम् । २॥ एष एव विधिः पृष्टो नारदेन महर्षिणा । प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम् ॥ ३॥ ब्रह्मोवाच । कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः । शङ्खपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम् ॥ ४॥ एतैश्च लक्षसङ्ख्याकैः पूजितश्चेद्भवेच्छिवः । पापहानिस्तथा विप्र लक्ष्मीः स्यान्नात्र संशयः ॥ ५॥ विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् । बिल्वो दलसहस्रेण प्रस्थार्धं परिभाषितम् ॥ ६॥ शतपत्रसहस्रेण प्रस्थार्धं परिभाषितम् । पलैः षोडशभिः प्रस्थः पलं टङ्कदशस्मृतः ॥ ७॥ अनेनैव तु मानेन तुलामारोपयेद्यदा । सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत् ॥ ८॥ राज्यस्य कामुको यो वै पार्थिवानां च पूजया । तोषयेच्छङ्करं देवं दशकोट्या मुनीश्वराः ॥ ९॥ लिङ्गं शिवं तथा पुष्पमखण्डं तण्डुलं तथा । चर्चितं चन्दनेनैव जलधारां तथा पुनः ॥ १०॥ प्रतिरूपं तथा मन्त्रं बिल्वीदलमनुत्तमम् । अथवा शतपत्रं च कमलं वा तथा पुनः ॥ ११॥ शङ्खपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः । सर्वकामफलं दिव्यं परत्रेहापि सर्वथा ॥ १२॥ धूपं दीपं च नैवेद्यमर्घं चारार्तिकं तथा । प्रदक्षिणां नमस्कारं क्षमापनविसर्जने ॥ १३॥ कृत्वा साङ्गं तथा भोज्यं कृतं येन भवेदिह । तस्य वै सर्वथा राज्यं शङ्करः प्रददाति च ॥ १४॥ प्रधान्यकामुको यो वै तदर्धेनार्चयेत्पुमान् । कारागृहगतो यो वै लक्षेनैवार्चयेद्धरम् ॥ १५॥ रोगग्रस्तो यदा स्याद्वै तदर्धेनार्चयेच्छिवम् । कन्याकामो भवेद्यो वै तदर्धेन शिवं पुनः ॥ १६॥ विद्याकामस्तथा यः स्यात्तदर्धेनार्चयेच्छिवम् । वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम् ॥ १७॥ उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् । मारणे वै तु लक्षेण मोहने तु तदर्धतः ॥ १८॥ सामन्तानां जये चैव कोटिपूजा प्रशस्यते । राज्ञामयुतसङ्ख्यं च वशीकरणकर्मणि ॥ १९॥ यशसे च तथा सङ्ख्या वाहनाद्यैः सहस्रिका । मुक्तिकामोऽर्चयेच्छम्भुं पञ्चकोट्या सुभक्तितः ॥ २०॥ ज्ञानार्थी पूजयेत्कोट्या शङ्करं लोक शङ्करम् । शिवदर्शनकामो वै तदर्धेन प्रपूजयेत् ॥ २१॥ तथा मृत्युञ्जयो जाप्यः कामनाफलरूपतः । पञ्चलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः ॥ २२॥ लक्षेण भजते कश्चिद् द्वितीये जातिसम्भवः । तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति ॥ २३॥ पञ्चमं च यदा लक्षं फलं यच्छत्यसंशयम् । अनेनैव तु मन्त्रेण दशलक्षे फलं भवेत् ॥ २४॥ मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् । लक्षसङ्ख्या तु सर्वत्र ज्ञातव्या ऋषिसत्तम ॥ २५॥ आयुःकामो भवेद्यो वै दूर्वाभिः पूजनं चरेत् । पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत् ॥ २६॥ रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः । अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः ॥ २७॥ भुक्तिमुक्तिफलं तस्य तुलस्या पूजयेद्यदि । अर्कपुष्पैः प्रतापश्च कुब्जकह्लारकैस्तथा ॥ २८॥ जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता । रोगोच्चाटनकानीह करवीराणि वै क्रमात् ॥ २९॥ बन्धुकैर्भूषणावाप्तिर्जात्या वाहान्न संशयः । अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात् ॥॥ ३०॥ शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च । मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः ॥ ३१॥ यूथिकाकुसुमैः शस्तैर्गृहं नैव विमुच्यते । कर्णिकारैस्तथा वस्त्रसम्पत्तिर्जायते नृणाम् ॥ ३२॥ निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् । विल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात् ॥ ३३॥ श‍ृङ्गारहारपुष्पैस्तु वर्धते सुखसम्पदा । ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः ॥ ३४॥ राजिकाकुसुमानीह शत्रूणां मृत्युदानि च । एषां लक्षं शिवे दद्याद्दद्याच्च विपुलं फलम् ॥ ३५॥ विद्यते कुसुमं तन्न यन्नैव शिववल्लभम् । चम्पकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत् ॥ ३६॥ अतः परं च धान्यानां पूजने शङ्करस्य च । प्रमाणं च फलं सर्वं प्रीत्या श‍ृणु च सत्तम ॥ ३७॥ तन्दुलारोपणे नृणां लक्ष्मी वृद्धिः प्रजायते । अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि ॥ ३८॥ षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः । पलद्वयं तथा लक्षमानेन समुदाहृतम् ॥ ३९॥ पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् । शिवोपरि न्यसेत्तत्र तन्दुलार्पणमुत्तमम् ॥ ४०॥ उपरि श्रीफलं त्वेकं गन्धपुष्पादिभिस्तथा । रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत् ॥॥ ४१॥ प्रजापत्यद्वयं रौप्यमाषसङ्ख्या च दक्षिणा । देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता ॥ ४२॥ आदित्यसङ्ख्यया तत्र ब्राह्मणान्भोजयेत्ततः । लक्षपूजा तथा जाता साङ्गञ्च मन्त्रपूर्वकम् ॥ ४३॥ शतमष्टोत्तरं तत्र मन्त्रे विधिरुदाहृतः । तिलानां च पलं लक्षं महापातकनाशनम् ॥ ४४॥ एकादशपलैरेव लक्षमानमुदाहृतम् । पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया ॥ ४५॥ भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि । महापातकजं दुःखं तत्क्षणान्नश्यति ध्रुवम् ॥ ४६॥ यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे । प्रस्थानामष्टकं चैव तथा प्रस्थार्धकं पुनः ॥ ४७॥ पलद्वययुतं तत्र मानमेतत्पुरातनम् । यवपूजा च मुनिभिः स्वर्गसौख्यविवर्धिनी ॥ ४८॥ प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः । गोधूमान्नैस्तथा पूजा प्रशस्ता शङ्करस्य वै ॥ ४९॥ सन्ततिर्वर्धते तस्य यदि लक्षावधिः कृता । द्रोणार्धेन भवेल्लक्षं विधानं विधिपूर्वकम् ॥ ५०॥ मुद्गानां पूजने देवः शिवो यच्छति वै सुखम् । प्रस्थानां सप्तकेनैव प्रस्थार्धेनाथवा पुनः ॥ ५१॥ पलद्वययुतेनैव लक्षमुक्तं पुरातनैः । ब्राह्मणाश्च तथा भोज्या रुद्रसङ्ख्याप्रमाणतः ॥ ५२॥ प्रियङ्गुपूजनादेव धर्माध्यक्षे परात्मनि । धर्मार्थकामा वर्धन्ते पूजा सर्वसुखावहा ॥ ५३॥ प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः । ब्रह्मभोजं तथा प्रोक्तमर्कसङ्ख्याप्रमाणतः ॥ ५४॥ राजिकापूजनं शम्भोः शत्रोर्मृत्युकरं स्मृतम् । सर्षपानां तथा लक्षं पलैर्विंशतिसङ्ख्यया ॥ ५५॥ तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः । आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम् ॥ ५६॥ वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च । मरीचिसम्भवा पूजा शत्रोर्नाशकरी स्मृता ॥ ५७॥ आढकीनां दलैश्चैव रञ्जयित्वार्चयेच्छिवम् । नानासुखकरी ह्येषा पूजा सर्वफलप्रदा ॥ ५८॥ धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम । लक्षमानं तु पुष्पाणां श‍ृणु प्रीत्या मुनीश्वर ॥ ५९॥ प्रस्थानां च तथा चैकं शङ्खपुष्पसमुद्भवम् । प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना ॥ ६०॥ प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् । यूथिकायास्तथा मानं राजिकायास्तदर्धकम् ॥ ६१॥ प्रस्थैर्विंशतिकैश्चैव मल्लिकामानमुत्तमम् । तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च ॥ ६२॥ ततश्च त्रिगुणं मानं करवीरभवे स्मृतम् । निर्गुण्डीकुसुमे मानं तथैव कथितं बुधैः ॥ ६३॥ कर्णिकारे तथा मानं शिरीषकुसुमे पुनः । बन्धुजीवे तथा मानं प्रस्थानं दशकेन च ॥ ६४॥ इत्याद्यैर्विविधैर्मानं दृष्ट्वा कुर्याच्छिवार्चनम् । सर्वकामसमृद्ध्यर्थं मुक्त्यर्थं कामनोज्झितः ॥ ६५॥ अतः परं प्रवक्ष्यामि धारापूजाफलं महत् । यस्य श्रवणमात्रेण कल्याणं जायते नृणाम् ॥ ६६॥ विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै । पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः ॥ ६७॥ ज्वरप्रलापशान्त्यर्थं जलधारा शुभावहा । शतरुद्रियमन्त्रेण रुद्रस्यैकादशेन तु ॥ ६८॥ रुद्रजाप्येन वा तत्र सूक्तेन पौरुषेण वा । षडङ्गेनाथ वा तत्र महामृत्युञ्जयेन च ॥ ६९॥ गायत्र्या वा नमोऽन्तैश्च नामभिः प्रणवादिभिः । मन्त्रैर्वाथागमोक्तैश्च जलधारादिकं तथा ॥ ७०॥ सुखसन्तानवृद्ध्यर्थं धारापूजनमुत्तमम् । नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्भस्मधारिणा ॥ ७१॥ घृतधारा शिवे कार्या यावन्मन्त्रसहस्रकम् । तदा वंशस्य विस्तारो जायते नात्र संशयः ॥ ७२॥ एवमयुतमन्त्रेण कार्यं वै शिवपूजनम् । प्रमेहरोगशान्त्यर्थं प्राप्नुयाच्च मनेप्सितम् । षण्ढत्वं यदादातस्तदा घृतसुपूजनम् । ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः ॥ ७३॥ केवलं दुग्धधारा च तदा कार्या विशेषतः । शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत् ॥ ७४॥ तस्या सञ्जायते जीवसदृशी बुद्धिरुत्तमा । यावन्मन्त्रायुतं न स्यात्तावद्धाराप्रपूजनम् ॥ ७५॥ यदा चोच्चाटनं देहे जायते कारणं विना । यत्र कुत्रापि वा प्रेम दुःखं च परिवर्धितम् ॥ ७६॥ स्वगृहे कलहो नित्यं यदा चैव प्रजायते । तद्धारायां कृतायां वै सर्वं दुःखं विलीयते ॥ ७७॥ शत्रूणां तापनार्थं वै तैलधारा शिवोपरि । कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्ध्रुवं भवेत् ॥ ७८॥ वासितेनैव तैलेन भोगवृद्धिः प्रजायते । सार्षपेणैव तैलेन शत्रुनाशो भवेद् ध्रुवम् ॥ ७९॥ मधुना यक्षराजो वै गच्छेच्च शिवपूजनात् । धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे ॥ ८०॥ धारा गङ्गाजलस्यैव भुक्तिमुक्तिफलप्रदा । एताः सर्वाश्च याः प्रोक्ता मृत्यञ्जयसमुद्भवाः ॥ ८१॥ तत्रायुतप्रमाणं हि कर्तव्यं तद्विधानतः । कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसङ्ख्यया ॥ ८२॥ एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर । एतद्वै सफलं लोके सर्वकामहितावहम् ॥ ८३॥ स्कन्दोमासहितं शम्भुं सम्पूज्य विधिना सह । यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम् ॥ ८४॥ अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् । ततो याति महेशस्य लोकं सर्वसुखावहम् ॥ ८५॥ सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः । रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः ॥ ८६॥ क्रीडते शिवभूतश्च यावदाभूतसम्प्लवम् । ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम् ॥ ८७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधानवर्णनं नाम चतुर्दशोऽध्यायः ॥ २.१.१४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

२.१.१५. पञ्चदशोऽध्यायः । रुद्रावताराविर्भाववर्णनम् ।

नारद उवाच । विधे विधे महाभाग धन्यस्त्वं सुरसत्तम । श्राविताद्याद्भुता शैवकथा परमपावनी ॥ १॥ तत्राद्भुता महादिव्या लिङ्गोत्पत्तिः श्रुता शुभा । श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २॥ अनन्तरं च यज्जातं माहात्म्यं चरितं तथा । सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ॥ ३॥ ब्रह्मोवाच । सम्यक् पृष्टं च भवता यज्जातं तदनन्तरम् । कथयिष्यामि सङ्क्षेपाद्यथा पूर्वं श्रुतं मया ॥ ४॥ अन्तर्हिते तदा देवे शिवरूपे सनातने । अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ॥ ५॥ मया च विष्णुना रूपं हंसवाराहयोस्तदा । संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ॥ ६॥ नारद उवाच । विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् । कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि ॥ ७॥ हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् । अन्यद्रूपं विहायैव किमत्र वद कारणम् ॥ ८॥ सूत उवाच । इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः । स्मृत्वा शिवपदाम्भोजं ब्रह्मा सादरमब्रवीत् ॥ ९॥ ब्रह्मोवाच । हंसस्य चोर्ध्वगमने गतिर्भवति निश्चला । तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ॥ १०॥ अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः । हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ॥ ११॥ विवेको नैव लब्धश्च यतो हंसो व्यलीयत । शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ॥ १२॥ सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते । यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ॥ १३॥ गमनेऽधो वराहस्य गतिर्भवति निश्चला । धृतं वाराहरूपं हि विष्णुना वनचारिणा ॥ १४॥ अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् । विष्णुना च वराहस्य भुवनावनकारिणा ॥ १५॥ यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः । तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञकः ॥ १६॥ तदिच्छा वा यदा जाता तस्य रूपस्य धारणे । तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञकः ॥ १७॥ इति प्रश्नोत्तरं दत्तं प्रस्तुतं श‍ृणु नारद । स्मृत्वा शिवपदाम्भोजं वक्ष्ये सृष्टिविधिं मुने ॥ १८॥ अन्तर्हिते महादेवे त्वहं लोकपितामहः । तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ॥ १९॥ नमस्कृत्य तदा शम्भुं ज्ञानं प्राप्य हरेस्तदा । आनन्दं परमं गत्वा सृष्टिं कर्तुं मनो दधे ॥ २०॥ विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् । उपदिश्य च मां तात ह्यन्तर्धानमुपागतः ॥ २१॥ ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् । वैकुण्ठनगरं गत्वा तत्रोवास हरिः सदा ॥ २२॥ अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया । पूर्वं सृष्टं जलं यच्च तत्राञ्जलिमुदाक्षिपम् ॥ २३॥ अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञकम् । विराड्रूपमभूद्विप्र जलरूपमपश्यतः ॥ २४॥ ततः संशयमापन्नस्तपस्तेपे सुदारुणम् । द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ॥ २५॥ तस्मिंश्च समये तात प्रादुर्भूतो हरिः स्वयम् । मामुवाच महाप्रीत्या मदङ्गं संस्पृशन्मुदा ॥ २६॥ विष्णुरुवाच । वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव । ब्रह्मन् शम्भुप्रसादेन सर्वं दातुं समर्थकः ॥ २७॥ ब्रह्मोवाच । युक्तमेतन्महाभाग दत्तोऽहं शम्भुना च ते । तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते ॥ २८॥ विराड्रूपमिदं ह्यण्डं चतुर्विंशतिसंज्ञकम् । न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते ॥ २९॥ प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे । प्राप्तं शङ्करसम्भूत्या ह्यण्डं चैतन्यमावह ॥ ३०॥ इत्युक्ते च महाविष्णुः शम्भोराज्ञापरायणः । अनन्तरूपमास्थाय प्रविवेश तदण्डकम् ॥ ३१॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं सर्वतः स्पृत्त्वा तदण्डं व्याप्तवानिति ॥ ३२॥ प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे । सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम् ॥ ३३॥ पातालादिसमारभ्य सत्यलोकाधिपः स्वयम् । राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः ॥ ३४॥ कैलासनगरं रम्यं सर्वोपरिविराजितम् । निवासार्थं निजस्यैव पञ्चवक्त्रश्चकार ह ॥ ३५॥ ब्रह्माण्डस्य तथा नाशे वैकुण्ठस्य च तस्य च । कदाचिदेव देवर्षे नाशो नास्ति तयोरिह ॥ ३६॥ सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम । सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम् ॥ ३७॥ सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः । अविद्यापञ्चकस्तात बुद्धिपूर्वस्तमोपमः । ३८॥ ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् । मुख्यसर्गं च निःसङ्गमध्यायं शम्भुशासनात् ॥ ३९॥ तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः । सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः ॥ ४०॥ तं चासाधकमाज्ञाय पुनश्चिन्तयतश्च मे । अभवत्सात्त्विकः सर्ग ऊर्ध्वस्रोता इति द्रुतम् ॥ ४१॥ देवसर्गः प्रतिख्यातः सत्योऽतीव सुखावहः । तमप्यसाधकं मत्वाऽचिन्तयं प्रभुमात्मनः ॥ ४२॥ प्रादुरासीत्ततः सर्गो राजसः शङ्कराज्ञया । अर्वाक्स्रोता इति ख्यातो मानुषः परसाधकः ॥ ४३॥ महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् । इति पञ्चविधा सृष्टिः प्रवृत्ता वै कृता मया ॥ ४४॥ त्रयः सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः । तत्राद्यो महतः सर्गो द्वितीयः सूक्ष्मभौतिकः ॥ ४५॥ वैकारिकस्तृतीयश्च इत्येते प्राकृतास्त्रयः । एवं चाष्टविधाः सर्गाः प्राकृतैर्वैकृतैः सह ॥ ४६॥ कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः । एषामवान्तरो भेदो मया वक्तुं न शक्यते ॥ ४७॥ अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् । कौमारः सनकादीनां यत्र सर्गो महानभूत् ॥ ४८॥ सनकाद्याः सुता मे हि मानसा ब्रह्मसम्मिताः । महावैराग्यसम्पन्ना अभवन्पञ्च सुव्रताः ॥ ४९॥ मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः । शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ॥ ५०॥ प्रत्युत्तरं च तैर्दत्तं श्रुत्वाहं मुनिसत्तम । अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद ॥ ५१॥ क्रुद्धस्य मोहितस्याथ विह्वलस्य मुने मम । क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥॥ ५२॥ तस्मिन्नवसरे तत्र स्मृतेन मनसा मया । प्रबोधितोऽहं त्वरितमागतेन हि विष्णुना ॥ ५३॥ तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् । तपोऽकारी महद् घोरं परमं मुनिसत्तम ॥ ५४॥ तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः । अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः ॥ ५५॥ त्रिमूर्तीनां महेशस्य प्रादुरासीद् घृणानिधिः । अर्द्धनारीश्वरो भूत्वा पूर्णांशः सकलेश्वरः ॥ ५६॥ तमजं शङ्करं साक्षात्तेजोराशिमुमापतिम् । सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम् ॥ ५७॥ दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः । अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः ॥ ५८॥ श्रुत्वा मम वचः सोऽथ देवदेवो महेश्वरः । ससर्ज स्वात्मनस्तुल्यान् रुद्रो रुद्रगणान्बहून ॥ ५९॥ अवोचं पुनरेवेशं महारुद्रं महेश्वरम् । जन्ममृत्युभयाविष्टाः सृज देव प्रजा इति ॥ ६०॥ एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः । प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम ॥ ६१॥ महादेव उवाच । जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे । अशोभनाः कर्मवशा निमग्ना दुःखवारिधौ ॥ ६२॥ अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः । सम्यग् ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ॥ ६३॥ त्वमेव सृज दुःखाढ्याः प्रजाः सर्वाः प्रजापते । मदाज्ञया न बद्धस्त्वं मायया सम्भविष्यसि ॥ ६४॥ ब्रह्मोवाच । इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः । सगणः पश्यतो मे हि द्रुतमन्तर्दधे हरः ॥ ६५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं नाम पञ्चदशोऽध्यायः ॥ २.१.१५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

२.१.१६. षोडशोऽध्यायः । ब्रह्मनारदसंवादे सृष्टिवर्णनम् ।

ब्रह्मोवाच । शब्दादीनि च भूतानि पञ्चीकृत्वाहमात्मना । तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम् ॥ १॥ पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद । कलादियुगपर्यन्तान्कालानन्यानवासृजम् ॥ २॥ सृष्ट्यन्तानपरांश्चापि नाहं तुष्टोऽभवं मुने । ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने ॥ ३॥ मरीचिं च स्वनेत्राभ्यां हृदयाद् भृगुमेव च । शिरसोऽङ्गिरसं व्यानात्पुलहं मुनिसत्तमम् ॥ ४॥ उदानाच्च पुलस्त्यं हि वसिष्ठं च समानतः । क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः ॥ ५॥ असृजं त्वां तदोत्सङ्गाच्छायायाः कर्दमं मुनिम् । सङ्कल्पादसृजं धर्मं सर्वसाधनसाधनम् ॥ ६॥ एवमेतानहं सृष्ट्वा कृतार्थः साधकोत्तमान् । अभवं मुनिशार्दूल महादेवप्रसादतः ॥ ७॥ ततो मदाज्ञया तात धर्मः सङ्कल्पसम्भवः । मानवं रूपमापन्नः साधकैस्तु प्रवर्तितः ॥ ८॥ ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् । सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने ॥ ९॥ ततोऽहं शङ्करेणाथ प्रेरितोऽन्तर्गतेन ह । द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने ॥ १०॥ अर्धेन नारी पुरुषश्चार्धेन सन्ततो मुने । स तस्यामसृजद् द्वन्द्वं सर्वसाधनमुत्तमम् । ११॥ स्वायम्भुवो मनुस्तत्र पुरुषः परसाधनम् । शतरूपाभिधा नारी योगिनी सा तपस्विनी ॥ १२॥ सा पुनर्मनुना तेन गृहीतातीव शोभना । विवाहविधिना तातासृजत्सर्गं समैथुनम् ॥ १३॥ तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः । तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः ॥ १४॥ आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः । आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ॥ १५॥ ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताम् । तासां प्रसूतिप्रसवैः सर्वं व्याप्तं चराचरम् ॥ १६॥ आकूत्यां च रुचेश्चाभूद् द्वन्द्वं यज्ञश्च दक्षिणा । यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश ॥ १७॥ देवहूत्यां कर्दमाच्च बह्व्यो जाताः सुता मुने । दक्षाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः ॥ १८॥ धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश । श‍ृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर ॥ १९॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया । बुद्धिर्लज्जा वसुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥ २०॥ ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः । ख्यातिः सत्पथसम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ २१॥ सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा । भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥ २२॥ पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा । अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ २३॥ ख्यातास्ता जगृहुः कन्या भृग्वाद्याः साधका वराः । ततःसम्पूरितं सर्वं त्रैलोक्यं सचराचरम् ॥ २४॥ एवं कर्मानुरूपेण प्राणिनामम्बिकापतेः । आज्ञया बहवो जाता असङ्ख्याता द्विजर्षभाः ॥ २५॥ कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः । तासां दश च धर्माय शशिने सप्तविंशतिम् ॥ २६॥ विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश । चतस्रः पररूपाय ददौ तार्क्ष्याय नारद ॥ २७॥ भृग्वङ्गिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् । ताभ्यस्तेभ्यस्तु सञ्जाता बह्वी सृष्टिश्चराचरा ॥ २८॥ त्रयोदशमितास्तस्मै कश्यपाय महात्मने । दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम ॥ २९॥ तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् । स्थावरं जङ्गमं चैव शून्यं नैव तु किञ्चन ॥ ३०॥ देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे । वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः ॥ ३१॥ दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् । पातालतलमारभ्य सत्यलोकावधि ध्रुवम् ॥ ३२॥ ब्रह्माण्डं सकलं व्याप्तं शून्यं नैव कदाचन । एवं सृष्टिः कृता सम्यग्ब्रह्मणा शम्भुशासनात् ॥ ३३॥ सती नाम त्रिशूलाग्रे सदा रुद्रेण रक्षिता । तपोऽर्थं निर्मिता पूर्वं शम्भुना सर्वविष्णुना ॥ ३४॥ सैव दक्षात्समुद्भूता लोककार्यार्थमेव च । लीलां चकार बहुशो भक्तोद्धरणहेतवे ॥ ३५॥ वामाङ्गो यस्य वैकुण्ठो दक्षिणाङ्गोऽहमेव च । रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः ॥ ३६॥ अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः । स्वयं सदा निर्गुणश्च परब्रह्माव्ययः शिवः ॥ ३७॥ विष्णुः सत्त्वं रजोऽहं च तमो रुद्र उदाहृतः । लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा ॥ ३८॥ अन्तस्तमो बहिः सत्त्वो विष्णू रुद्रस्तथा मतः । अन्तः सत्त्वस्तमो बाह्यो रजोऽहं सर्वथा मुने ॥ ३९॥ राजसी च सुरा देवी सत्त्वरूपा तु सा सती । लक्ष्मीस्तमोमयी ज्ञेया त्रिरूपा च शिवा परा ॥ ४०॥ एवं शिवा सती भूत्वा शङ्करेण विवाहिता । पितुर्यज्ञे तनुं त्यक्त्वा नादरात् स्वपदं ययौ ॥ ४१॥ पुनश्च पार्वती जाता देवप्रार्थनया शिवा । तपः कृत्वा सुविपुलं पुनः शिवमुपागता ॥ ४२॥ तस्य नामान्यनेकानि जातानि च मुनीश्वर । कालिका चण्डिका भद्रा चामुण्डा विजया जया ॥ ४३॥ जयन्ती भद्रकाली च दुर्गा भगवतीति च । कामाख्या कामदा ह्यम्बा मृडानी सर्वमङ्गला ॥ ४४॥ नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च । गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती ॥ ४५॥ गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः । मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम् ॥ ४६॥ एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम । शिवाज्ञया विरचितो ब्रह्माण्डस्य मयाखिलः ॥ ४७॥ परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः । अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः ॥ ४८॥ शिवया रमते स्वैरं शिवलोके मनोरमे । स्वतन्त्रः परमात्मा हि निर्गुणः सगुणोऽपि वै ॥ ४९॥ तस्य पूर्णावतारो हि रुद्रः साक्षाच्छिवः स्मृतः । कैलासे भवनं रम्यं पञ्चवक्त्रश्चकार ह । ब्रह्माण्डस्य तथा नाशे तस्य नाशोऽस्ति वै न हि ॥ ५०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे ब्रह्मनारदसंवादे सृष्टिवर्णनं नाम षोडशोऽध्यायः ॥ २.१.१६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

२.१.१७. सप्तदशोऽध्यायः । गुणनिधिचरित्रवर्णनम् ।

सूत उवाच । इत्याकर्ण्य वचस्तस्य ब्रह्मणः स तु नारदः । पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः ॥ १॥ नारद उवाच । कदा गतो हि कैलासं शङ्करो भक्तवत्सलः । क्व वा सखित्वं तस्यासीत् कुबेरेण महात्मना ॥ २॥ किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः । एतत्सर्वं समाचक्ष्व परं कौतूहलं मम ॥ ३॥ ब्रह्मोवाच । श‍ृणु नारद वक्ष्यामि चरितं शशिमौलिनः । यथा जगाम कैलासं सखित्वं धनदस्य च ॥ ४॥ असीत् काम्पिल्यनगरे सोमयाजिकुलोद्भवः । दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ॥ ५॥ वेदवेदाङ्गवित्प्राज्ञो वेदान्तादिषु दक्षिणः । राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः ॥ ६॥ अग्निशुश्रूषणरतो वेदाध्ययनतत्परः । सुन्दरो रमणीयाङ्गश्चन्द्रबिम्बसमाकृतिः ॥ ७॥ आसीद् गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः । कृतोपनयनः सोऽष्टौ विद्यां जग्राह भूरिशः ॥ अथ पित्रानभिज्ञातो द्यूतकर्मरतोऽभवत् । ८॥ आदायादाय बहुशो धनं मातुः सकाशतः । समदाद् द्यूतकारेभ्यो मैत्रीं तैश्च चकार सः ॥ ९॥ सन्त्यक्तब्राह्मणाचारः सन्ध्यास्नानपराङ्मुखः । निन्दको वेदशास्त्राणां देवब्राह्मणनिन्दकः ॥ १०॥ स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक् । नटपाखण्डभाण्डैस्तु बद्धप्रेमपरम्परः ॥ ११॥ प्रेरितोऽपि जनन्या स न ययौ पितुरन्तिकम् । गृहकार्यान्तरव्याप्तो दीक्षितो दीक्षितायिनीम् ॥ १२॥ यदा यदैव तां पृच्छेदये गुणनिधिः सुतः । न दृश्यते मया गेहे कल्याणि विदधाति किम् ॥ १३॥ तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः । स्नात्वा समर्च्य वै देवानेतावन्तमनेहसम् ॥ १४॥ अधीत्याध्ययनार्थं स द्वित्रैर्मित्रैः समं ययौ । एकपुत्रेति तन्माता प्रतारयति दीक्षितम् ॥ १५॥ न तत्कर्म च तद्वृत्तं किञ्चिद्वेत्ति स दीक्षितः । सर्वं केशान्तकर्मास्य चक्रे वर्षेऽथ षोडशे ॥ १६॥ अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च । गृह्योक्तेन विधानेन पाणिग्राहमकारयम् ॥ १७॥ प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु । शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ॥ १८॥ क्रोधनस्तेऽस्ति तनय स महात्मा पितेत्यलम् । यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति ॥ १९॥ आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम् । लोकमान्योऽस्ति ते तातः सदाचारैर्न वै धनैः ॥ २०॥ ब्राह्मणानां धनं तात सद्विद्या साधुसङ्गमः । किमर्थं न करोषि त्वं स्वरुचिं प्रीतमानसः ॥ २१॥ सच्छ्रोत्रियास्तेऽनूचाना दीक्षिताःसोमयाजिनः । इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ॥ २२॥ त्यक्त्वा दुर्वृत्तसंसर्गं साधुसङ्गरतो भव । सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर ॥ २३॥ तातानुरूपो रूपेण यशसा कुलशीलतः । ततो न त्रपसे किं नः त्यज दुर्वृत्ततां स्वकाम् ॥ २४॥ ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी । एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव ॥ २५॥ श्वशुरोऽपि हि ते मान्यः सर्वत्र गुणशीलतः । ततो न त्रपसे किं नः त्यज दुर्वृत्ततां सुत ॥ २६॥ मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः । तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः ॥ २७॥ पश्यैतान्प्रतिवेश्मस्थान्ब्राह्मणानां कुमारकान् । गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ॥ २८॥ राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत । श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ॥ २९॥ बालचेष्टितमेवैतद् वदन्त्यद्यापि ते जनाः । अनन्तरं हरिष्यन्ति युक्तां दीक्षिततामिह ॥ ३०॥ सर्वेऽप्याक्षारयिष्यन्ति तव तातं च मामपि । मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ॥ ३१॥ पितापि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः । तदङ्घ्रिलीनमनसो मम साक्षी महेश्वरः ॥ ३२॥ न चर्तुस्नातयापीह मुखं दुष्टस्य वीक्षितम् । अहो बलीयान्स विधिर्येन जातो भवानिति ॥ ३३॥ प्रतिक्षणं जनन्येति शिक्ष्यमाणोऽतिदुर्मतिः । न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ॥ ३४॥ मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः । स वारदारैर्व्यसनैरेभिः कोऽत्र न खण्डितः ॥ ३५॥ यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः । अर्पयेद् द्यूतकाराणां सकुप्यं वसनादिकम् ॥ ३६॥ न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम् । चोरयित्वैकदादाय दुरोदरकरेऽर्पयत् ॥ ३७॥ दीक्षितेन परिज्ञातो दैवाद् द्यूतकृतः करे । उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ॥ ३८॥ पृष्टस्तेनाथ निर्बन्धादसकृत्तमुवाच सः । मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा ॥ ३९॥ लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता । मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः ॥ ४०॥ न केवलं ममैवैतदङ्गुलीयं समर्पितम् । अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु ॥ ४१॥ रत्नकुप्यदुकूलानि भृङ्गारप्रभृतीनि च । भाजनानि विचित्राणि कांस्यताम्रमयानि च ॥ ४२॥ नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः । न तेन सदृशः कश्चिदाक्षिको भूमिमण्डले ॥ ४३॥ अद्यावधि त्वया विप्र दुरोदरशिरोमणिः । कथं नाज्ञायि तनयोऽविनयानयकोविदः ॥ ४४॥ इति श्रुत्वा त्रपाभारविनम्रतरकन्धरः । प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ॥ ४५॥ महापतिव्रतामस्य पत्नीं प्रोवाच तामथ । स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः ॥ ४६॥ यज्ञदत्त उवाच । दीक्षितायनि कुत्रास्ति धूर्तो गुणनिधिः सुतः । अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ॥॥ ४७॥ अङ्गोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता । सा त्वं रत्नमयीं शीघ्रं तामानीय प्रयच्छ मे ॥ ४८॥ इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी । प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयन्त्यथ ॥ ४९॥ व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि । समयोऽयमतिक्रामेदतिथीनां प्रियातिथे ॥ ५०॥ इदानीमेव पक्वान्नकरणव्यग्रया मया । स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ॥ ५१॥ दीक्षित उवाच । हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि । यदा यदा त्वां सम्पृच्छे तनयः क्व गतस्त्विति ॥ ५२॥ तदा तदेति त्वं ब्रूयान्नाथेदानीं स निर्गतः । अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैः सयुग्बहिः ॥ ५३॥ कुतस्ते शाटकः पत्नि माञ्जिष्ठो यो मयार्पितः । लम्बते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज ॥ ५४॥ साम्प्रतं नेक्ष्यते सोऽपि भृङ्गारो मणिमण्डितः । पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता ॥ ५५॥ क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा । नागदन्तमयी सा क्व सुखकौतुकमञ्चिका ॥ ५६॥ क्व सा पर्वतदेशीया चन्द्रकान्तिरिवाद्भुता । दीपकव्यग्रहस्ताग्रालङ्कृता शालभञ्जिका ॥ ५७॥ किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा । तदाभ्यवहरिष्येऽहमुपयंस्याम्यहं यदा ॥ ५८॥ अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा । उत्तिष्ठानय पाथस्त्वं तस्मै दद्यां तिलाञ्जलिम् ॥ ५९॥ अपुत्रत्वं वरं नृणां कुपुत्रात्कुलपांसनात् । त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ॥ ६०॥ स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित् । श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ॥ ६१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनं नाम सप्तदशोऽध्यायः ॥ २.१.१७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

२.१.१८. अष्टादशोऽध्यायः । कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनम् ।

ब्रह्मोवाच । श्रुत्वा तथा स वृत्तान्तं प्राक्तनं स्वं विनिन्द्य च । काञ्चिद्दिशं समालोक्य निर्ययौ दीक्षिताङ्गजः ॥ १॥ कियच्चिरं ततो गत्वा यज्ञदत्तात्मजः स हि । दुष्टो गुणनिधिस्तस्थौ गतोत्साहो विसर्जितः ॥ २॥ चिन्तामवाप महतीं क्व यामि करवाणि किम् । नाहमभ्यस्तविद्योऽस्मि न चैवातिधनोऽस्म्यहम् ॥ ३॥ देशान्तरे यस्य धनं स सद्यः सुखमेधते । भयमस्ति धने चौरात्स विघ्नः सर्वतो भवः ॥ ४॥ याजकस्य कुले जन्म कथं मे व्यसनं महत् । अहो बलीयान्हि विधिर्भावि कर्मानुसन्धयेत् ॥ ५॥ भिक्षितुं नाधिगच्छामि न मे परिचितः क्वचित् । न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत् ॥ ६॥ सदानभ्युदिते भानौ प्रसूर्मे मिष्टभोजनम् । दद्यादद्यात्र कं याचे न चेह जननी मम ॥ ७॥ ब्रह्मोवाच । इति चिन्तयतस्तस्य बहुशस्तत्र नारद । अतिदीनं तरोर्मूले भानुरस्ताचलं गतः ॥ ८॥ एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः । सहोपहारानादाय नगराद् बहिरभ्यगात् ॥ ९॥ नानाविधान्महादिव्यान्स्वजनैः परिवारितः । समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ॥ १०॥ शिवालयं प्रविश्याथ स भक्तः शिवसक्तधीः । यथोचितं सुचित्तेन पूजयामास शङ्करम् ॥ ११॥ पक्वान्नगन्धमाघ्राय यज्ञदत्तात्मजो द्विजः । पितृत्यक्तो मातृहीनः क्षुधितः स तमन्वगात् ॥ १२॥ इदमन्नं मया ग्राह्यं शिवायोपकृतं निशि । सुप्ते शैवजने दैवात्सर्वस्मिन्विविधं महत् ॥ १३॥ इत्याशामवलम्ब्याथ द्वारि शम्भोरुपाविशत् । ददर्श च महापूजां तेन भक्तेन निर्मिताम् ॥ १४॥ विधाय नृत्यगीतादि भक्ताः सुप्ताः क्षणे यदा । नैवेद्यं स तदादातुं भर्गागारं विवेश ह ॥ १५॥ दीपं मन्दप्रभं दृष्ट्वा पक्वान्नवीक्षणाय सः । निजचैलाञ्चलाद्वर्तिं कृत्वा दीपं प्रकाश्य च ॥ १६॥ यज्ञदत्तात्मजः सोऽथ शिवनैवेद्यमादरात् । जग्राह सहसा प्रीत्या पक्वान्नं बहुशस्ततः ॥ १७॥ ततः पक्वान्नमादाय त्वरितं गच्छतो बहिः । तस्य पादतलाघातात्प्रसुप्तः कोऽप्यबुध्यत ॥ १८॥ कोऽयं कोऽयं त्वरापन्नो गृह्यतां गृह्यतामसौ । इति चुक्रोश स जनो गिरा भयमहोच्चया ॥ १९॥ यावद्भयात्समागत्य तावत्स पुररक्षकैः । पलायमानो निहतः क्षणादन्धत्वमागतः ॥ २०॥ अभक्षयच्च नैवेद्यं यज्ञदत्तात्मजो मुने । शिवानुग्रहतो नूनं भाविपुण्यबलान्न सः ॥ २१॥ मृतो बद्धः समागत्य पाशमुद्गरपाणिभिः । निनीषुभिः संयमनीं याम्यैः स विकटैर्भटैः ॥ २२॥ तावत्पारिषदाः प्राप्ताः किङ्किणीजालमालिनः । दिव्यं विमानमादाय तं नेतुं शूलपाणयः ॥ २३॥ शिवगणा ऊचुः । मुञ्चतैनं द्विजं याम्या गणाः परमधार्मिकम् । दण्डयोग्यो न विप्रोऽसौ दग्धः सर्वाघसञ्चयः ॥ २४॥ इत्याकर्ण्यवचस्ते हि यमराजगणास्ततः । महादेवगणानाहुर्बभूवुश्चकिता भृशम् ॥ २५॥ शम्भोर्गणानथालोक्य भीतैस्तैर्यमकिङ्करैः । अवादि प्रणतैरित्थं दुर्वृत्तोऽयं गणा द्विजः ॥ २६॥ यमगणा ऊचुः । कुलाचारं प्रतीर्य्यैष पित्रोर्वाक्यपराङ्मुखः । सत्यशौचपरिभ्रष्टः सन्ध्यास्नानविवर्जितः ॥ २७॥ आस्तां दूरेऽस्य कर्माणि शिवनिर्माल्यलङ्घकः । प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योऽयं भवादृशाम् ॥ २८॥ शिवनिर्माल्यभोक्तारः शिवनिर्माल्यलङ्घकाः । शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत् ॥ २९॥ विषमालोक्य वा पेयं श्रेयो वा स्पर्शनं परम् । सेवितव्यं शिवस्वं न प्राणैः कण्ठगतैरपि ॥ ३०॥ यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् । अस्ति चेद्धर्मलेशोऽस्य गणास्तं श‍ृणुमो वयम् ॥ ३१॥ इत्थं तद्वाक्यमाकर्ण्य याम्यानां शिवकिङ्कराः । स्मृत्वा शिवपदाम्भोजं प्रोचुः पारिषदास्तु तान् ॥ ३२॥ शिवकिङ्करा ऊचुः । किङ्कराः शिवधर्मा ये सूक्ष्मास्ते तु भवादृशैः । स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ॥ ३३॥ अनेनानेनसा कर्म यत्कृतं श‍ृणुतेह तत् । यज्ञदत्तात्मजेनाथ सावधानतया गणाः ॥ ३४॥ पतन्ती लिङ्गशिरसि दीपच्छाया निवारिता । स्वचैलाञ्चलतोऽनेन दत्त्वा दीपदशां निशि ॥ ३५॥ अपरोऽपि परो धर्मो जातस्तत्रास्य किङ्कराः । श‍ृण्वतः शिवनामानि प्रसङ्गादपि गृह्यताम् ॥ ३६॥ भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता । उपोषितेन भूतायामनेन स्थिरचेतसा ॥ ३७॥ शिवलोकमयं ह्यद्य गन्तास्माभिः सहैव तु । कञ्चित्कालं महाभोगान्करिष्यति शिवानुगः ॥ ३८॥ कलिङ्गराजो भविता ततो निर्धूतकल्मषः । एष द्विजवरो नूनं शिवप्रियतरो यतः ॥ ३९॥ अन्यत्किञ्चिन्न वक्तव्यं यूयं यात यथागतम् । यमदूताः स्वलोकं तु सुप्रसन्नेन चेतसा ॥ ४०॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषां यमदूता मुनीश्वर । यथागतं ययुः सर्वे यमलोकं पराङ्मुखाः ॥ ४१॥ सर्वं निवेदयामासुः शमनाय गणा मुने । तद्वृत्तमादितः प्रोक्तं शम्भुदूतैश्च धर्मतः ॥ ४२॥ धर्मराज उवाच । सर्वे श‍ृणुत मद्वाक्यं सावधानतया गणाः । तदेव प्रीत्या कुरुत मच्छासनपुरःसरम् ॥ ४३॥ ये त्रिपुण्ड्रधरा लोके विभूत्या सितया गणाः । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४४॥ उद्धूलनकरा ये हि विभूत्या सितया गणाः । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४५॥ शिववेशतया लोके येन केनापि हेतुना । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४६॥ ये रुद्राक्षधरा लोके जटाधारिण एव ये । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४७॥ उपजीवनहेतोश्च शिववेशधरा हि ये । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥॥ ४८॥ दम्भेनापि छलेनापि शिववेशधरा हि ये । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४९॥ एवमाज्ञापयामास स यमो निजकिङ्करान् । मत्वा तथेति ते सर्वे तूष्णीमासञ्छुचिस्मिताः ॥ ५०॥ ब्रह्मोवाच । पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः । शिवलोकं जगामाशु तैर्गणैः शुचिमानसः ॥ ५१॥ तत्र भुक्त्वाखिलान्भोगान्संसेव्य च शिवाशिवौ । अरिन्दमस्य तनयः कलिङ्गाधिपतेरभूत् ॥ ५२॥ दम इत्यभिधानोऽभूच्छिवसेवापरायणः । बालोऽपि शिशुभिः साकं शिवभक्तिं चकार सः ॥ ५३॥ क्रमाद्राज्यमवापाथ पितर्युपरते युवा । प्रीत्या प्रवर्तयामास शिवधर्मांश्च सर्वशः ॥ ५४॥ नान्यं धर्मं स जानाति दुर्दमो भूपतिर्दमः । शिवालयेषु सर्वेषु दीपदानादृते द्विज ॥ ५५॥ ग्रामाधीशान्समाहूय सर्वान्स विषयस्थितान् । इत्थमाज्ञापयामास दीपा देयाः शिवालये ॥ ५६॥ अन्यथा सत्यमेवेदं स मे दण्ड्यो भविष्यति । दीपदानाच्छिवस्तुष्टो भवतीति श्रुतीरितम् ॥ ५७॥ यस्य यस्याभितो ग्रामं यावन्तश्च शिवालयाः । तत्र तत्र सदा दीपो द्योतनीयोऽविचारितम् ॥ ५८॥ ममाज्ञाभङ्गदोषेण शिरश्छेत्स्याम्यसंशयम् । इति तद्भयतो दीपा दीप्ताः प्रतिशिवालयम् ॥ ५९॥ अनेनैव स धर्मेण यावज्जीवं दमो नृपः । धर्मर्द्धिं महतीं प्राप्य कालधर्मवशं गतः ॥ ६०॥ स दीपवासनायोगाद् बहून्दीपान्प्रदीप्य वै । अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ॥ ६१॥ एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् । इति ज्ञात्वा शिवे कार्यं भजनं सुसुखार्थिभिः ॥ ६२॥ क्व स दीक्षितदायादः सर्वधर्मारतिः सदा । शिवालये दैवयोगाद्यातश्चोरयितुं वसु ॥ स्वार्थदीपदशोद्योतलिङ्गमौलितमोहरः । ६३॥ कलिङ्गविषये राज्यं प्राप्तो धर्मरतिं सदा । शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ॥ ६४॥ क्वैषा दिक्पालपदवी मुनीश्वर विलोकय । मनुष्यधर्मिणानेन साम्प्रतं येह भुज्यते ॥ ६५॥ इति प्रोक्तं गुणनिधेर्यज्ञदत्तात्मजस्य हि । चरितं शिवसन्तोषं श‍ृण्वतां सर्वकामदम् ॥ ६६॥ सर्वदेवशिवेनासौ सखित्वं च यथेयिवान् । तदप्येकमना भूत्वा श‍ृणु तात ब्रवीमि ते ॥ ६७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने कैलासगमनोपाख्याने गुणनिधिसद्गतिवर्णनं नामाष्टादशोऽध्यायः ॥ २.१.१८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

२.१.१९. एकोनविंशोऽध्यायः । कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनम् ।

ब्रह्मोवाच । पाद्मे कल्पे मम पुरा ब्रह्मणो मानसात्सुतात् । पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणः सुतः ॥ १॥ तेनेयमलका भुक्ता पुरी विश्वकृता कृता । आराध्य त्र्यम्बकं देवमत्युग्रतपसा पुरा ॥ २॥ व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने । याज्ञदत्तिरसौ श्रीमान् तपस्तेपे सुदुःसहम् ॥ ३॥ भक्तिप्रभावं विज्ञाय शम्भोस्तद्दीपमात्रतः । पुरा पुरारेः सम्प्राप्य काशिकां चित्प्रकाशिकाम् ॥ ४॥ शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः । अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः ॥ ५॥ शिवैक्यं सुमहापात्रं तपोऽग्निपरिबृंहितम् । कामक्रोधमहाविघ्नपतङ्गाघातवर्जितम् ॥ ६॥ प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् । संस्थाप्य शाम्भवं लिङ्गं सद्भावकुसुमार्चितम् ॥ ७॥ तावत्तताप स तपस्त्वगस्थिपरिशेषितम् । यावद् बभूव तद्वर्ष्म वर्षाणामयुतं शतम् ॥ ८॥ ततः सह विशालाक्ष्या देवो विश्वेश्वरः स्वयम् । अलकापतिमालोक्य प्रसन्नेनान्तरात्मना ॥ ९॥ लिङ्गे मनःसमाधाय स्थितं स्थाणुस्वरूपिणम् । उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ॥ १०॥ उन्मील्य नयने यावत्स पश्यति तपोधनः । तावदुद्यत्सहस्रांशुसहस्राधिकतेजसम् ॥ ११॥ पुरो ददर्श श्रीकण्ठं चन्द्रचूडमुमाधवम् । तत्तेजः परिभूताक्षितेजाः सम्मील्य लोचने ॥ १२॥ उवाच देवदेवेशं मनोरथपदातिगम् । निजाङ्घ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ॥ १३॥ अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे । किमन्येन वरेणेश नमस्ते शशिशेखर ॥ १४॥ इति तद्वचनं श्रुत्वा देवदेव उमापतिः । ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम् ॥ १५॥ प्रसार्य नयने पूर्वमुमामेव व्यलोकयत् । ततोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ॥ १६॥ शम्भोः समीपे का योषिदेषा सर्वाङ्गसुन्दरी । अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ॥ १७॥ अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् । इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ॥ १८॥ क्रूरदृग्वीक्षते यावत्पुनः पुनरिदं वदन् । तावत्पुस्फोट तन्नेत्रं वामं वामाविलोकनात् ॥ १९॥ अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः । असकृद्वीक्ष्य मां वक्ति वद त्वं मे तपःप्रभाम् ॥ २०॥ असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति । असूयमानो मे रूपप्रेमसौभाग्यसम्पदः ॥ २१॥ इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः । उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ॥ २२॥ सम्पश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् । इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ॥ २३॥ वरान्ददामि ते वत्स तपसानेन तोषितः । निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ॥ २४॥ यक्षाणां किन्नराणां च राज्ञां राजा च सुव्रत । पतिः पुण्यजनानां च सर्वेषां धनदो भव ॥ २५॥ मया सख्यं च ते नित्यं वत्स्यामि च तवान्तिके । अलकां निकषा मित्र तव प्रीतिविवृद्धये ॥ २६॥ आगच्छ पादयोरस्याः पत ते जननी त्वियम् । याज्ञदत्ते महाभक्त सुप्रसन्नेन चेतसा ॥ २७॥ ब्रह्मोवाच । इति दत्त्वा वरान्देवः पुनराह शिवां शिवः । प्रसादं कुरु देवेशि तपस्विन्यङ्गजेऽत्र वै ॥ २८॥ इत्याकर्ण्य वचः शम्भोः पार्वती जगदम्बिका । अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ॥ २९॥ देव्युवाच । वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा । भवैकपिङ्गो नेत्रेण वामेन स्फुटितेन ह ॥ ३०॥ देवेन दत्ता ये तुभ्यं वराः सन्तु तथैव ते । कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ॥ ३१॥ इति दत्त्वा वरान्देवो देव्या सह महेश्वरः । धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ॥ ३२॥ इत्थं सखित्वं श्रीशम्भोः प्रापैष धनदः पुरम् । अलकान्निकषा चासीत्कैलासः शङ्करालयः ॥ ३३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनं नामैकोनविंशोऽध्यायः ॥ २.१.१९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

२.१.२०. विंशोऽध्यायः । कैलासोपाख्याने शिवस्य कैलासगमनम् ।

ब्रह्मोवाच । नारद त्वं श‍ृणु मुने शिवागमनमुत्तमम् । कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात् ॥ १॥ निधिपत्ववरं दत्त्वा गत्वा स्वस्थानमुत्तमम् । विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः ॥ २॥ विध्यङ्गजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत् । तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम् ॥ ३॥ रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्म निष्कलः । हरिब्रह्मादिभिः सेव्यो मदभिन्नो निरञ्जनः ॥ ४॥ तत्स्वरूपेण तत्रैव सुहृद्भूत्वा विलास्यहम् । कुबेरस्य च वत्स्यामि करिष्यामि तपो महत् ॥ ५॥ इति सञ्चिन्त्य रुद्रोऽसौ शिवेच्छां गन्तुमुत्सुकः । ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम् ॥ ६॥ त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः । आह्वानगतिसंयुक्तो विचित्रः सान्द्रशब्दकः ॥ ७॥ तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा । आगमा निगमा मूर्ताः सिद्धा जग्मुश्च तत्र वै ॥ ८॥ सुरासुराद्याः सकलास्तत्र जग्मुश्च सोत्सवाः । सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः ॥ ९॥ गणपाश्च महाभागाः सर्वलोकनमस्कृताः । तेषां सङ्ख्यामहं वच्मि सावधानतया श‍ृणु ॥ १०॥ अभ्ययाच्छङ्खकर्णश्च गणकोट्या गणेश्वरः । दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ ११॥ चतुः षष्ट्या विशाखश्च नवभिः पारियात्रकः । षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२॥ जालङ्को हि द्वादशभिः कोटिभिर्गणपुङ्गवः । सप्तभिः समदः श्रीमाँस्तथैव विकृताननः ॥ १३॥ पञ्चभिश्च कपाली हि षड्भिः सन्दारकः शुभः । कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा ॥ १४॥ विष्टम्भोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः । १५॥ महाकेशः सहस्रेण कोटीनां गणपो वृतः । १६॥ कुण्डी द्वादशभिर्वाहस्तथा पर्वतकः शुभः । कालश्च कालकश्चैव महाकालः शतेन वै ॥ १७॥ अग्निकः शतकोट्या वै कोट्याभिमुख एव च । आदित्यमूर्धा कोट्या च तथा चैव धनावहः ॥ १८॥ सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा । अमोघः कोकिलश्चैव कोटिकोट्या सुमन्त्रकः ॥ १९॥ काकपादोऽपरः षष्ट्या षष्ट्या सन्तानकः प्रभुः । महाबलश्च नवभिर्मधुपिङ्गश्च पिङ्गलः ॥ २०॥ नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च । कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २१॥ कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः । तत्राजगाम सर्वेशः कैलासगमनाय वै ॥। २२॥ काष्ठागूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा । कोटिभिः सप्तभिश्चैत्रो नकुलीशस्स्वयं प्रभुः ॥ २३॥ लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तकः प्रभुः । देवो भृङ्गी रिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २४॥ अशनिर्भानुकश्चैव चतुःषष्ट्या सनातनः । नन्दीश्वरो गणाधीशः शतकोट्या महाबलः ॥ २५॥ एते चान्ये च गणपा असङ्ख्याता महाबलाः । सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ २६॥ सर्वे चन्द्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः । हारकुण्डलकेयूरमुकुटाद्यैरलङ्कृताः ॥ २७॥ ब्रह्मेन्द्रविष्णुसङ्काशा अणिमादिगणैर्वृताः । सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ॥ २८॥ एते गणाधिपाश्चान्ये महात्मानोऽमलप्रभाः । जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः ॥ २९॥ गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् । सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः ॥ ३०॥ इति विष्ण्वादिभिः सार्धं महेशः परमेश्वरः । कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः ॥ ३१॥ कुबेरोऽप्यागतं शम्भुं पूजयामास सादरम् । भक्त्या नानोपहारैश्च परिवारसमन्वितः ॥ ३२॥ ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् । शिवानुगान्समानर्च शिवतोषणहेतवे ॥ ३३॥ अथ शम्भुः समालिङ्ग्य कुबेरं प्रीतमानसः । मूर्ध्निं चाघ्राय सन्तस्थावलकां निकषाखिलैः ॥ ३४॥ शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः । नानाभक्तनिवासाय स्वपरेषां यथोचितम् ॥ ३५॥ विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने । रचनां रचयामास द्रुतं शम्भोरनुज्ञया ॥ ३६॥ अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा ॥ ३७॥ कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् । सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः ॥ ३८॥ अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः । अथ सर्वे प्रमुदिता विष्णुप्रभृतयः सुराः । मुनयश्चापरे सिद्धा अभ्यषिञ्चन्मुदा शिवम् । ३९॥ समानर्चुः क्रमात्सर्वे नानोपायनपाणयः । नीराजनं समाकार्षुर्महोत्सवपुरःसरम् ॥ ४०॥ तदासीत्सुमनोवृष्टिर्मङ्गलायतना मुने । सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः ॥ ४१॥ जयशब्दो नमः शब्दस्तत्रासीत्सर्वसंस्कृतः । तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः ॥ ४२॥ स्थित्वा सिंहासने शम्भुर्विरराजाधिकं तदा । सर्वैः संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम् ॥ ४३॥ अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक् । अर्थ्याभिर्वाग्भिरिष्टाभिः शकरं लोकशङ्करम् ॥ ४४॥ प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः । मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः ॥ ४५॥ शिवाज्ञयाथ ते सर्वे स्वं स्वं धाम ययुर्मुने । प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह ॥ ४६॥ उपवेश्यासने विष्णुं मां च शम्भुरुवाच ह । बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः ॥ ४७॥ शिव उवाच । हे हरे हे विधे तातौ युवां प्रियतरौ मम । सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा ॥ ४८॥ गच्छतं निर्भयं नित्यं स्वस्थानं च मदाज्ञया । सुखप्रदाताहं वै वां विशेषात्प्रेक्षकः सदा ॥ ४९॥ इत्याकर्ण्य वचः शम्भोः सुप्रणम्य तदाज्ञया । अहं हरिश्च स्वं धामागमाव प्रीतमानसौ ॥ ५०॥ तदानीमेव सुप्रीतः शङ्करो निधिपं मुदा । उपवेश्य गृहीत्वा तं कर आह शुभं वचः ॥ ५१॥ तव प्रेम्णा वशीभूतो मित्रतामगमं सखे । स्वस्थानं गच्छ विभयः सहायोऽहं सदानघ ॥ ५२॥ इत्याकर्ण्य वचः शम्भोः कुबेरः प्रीतमानसः । तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः ॥ ५३॥ स उवास गिरौ शम्भुः कैलासे पर्वतोत्तमे । सगणो योगनिरतः स्वच्छन्दो ध्यानतत्परः ॥ ५४॥ क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् । इतिहासं गणान्प्रीत्यावादीत्स्वच्छन्दमानसः ॥ ५५॥ क्वचित्कैलासकुधरसुस्थानेषु महेश्वरः । विजहार गणैः प्रीत्या विविधेषु विहारवित् ॥ ५६॥ इत्थं रुद्रस्वरूपोऽसौ शङ्करः परमेश्वरः । अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः ॥ ५७॥ नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः । पश्चादवाप स्वां पत्नीं दक्षपत्नीसमुद्भवाम् ॥ ५८॥ विजहार तया सत्या दक्षपुत्र्या महेश्वरः । सुखी बभूव देवर्षे लोकाचारपरायणः ॥ ५९॥ इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर । कैलासागमनं चास्य सखित्वं निधिपस्य हि ॥ ६०॥ तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी । इहामुत्र च या नित्यं सर्वकामफलप्रदा ॥ ६१॥ इमां कथां पठेद्यस्तु श‍ृणुयाद्वा समाहितः । इह भुक्तिं समासाद्य लभेन्मुक्तिं परत्र सः ॥ ६२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ॥ २.१.२०॥ ॥ इति श्रीशिवमहापुराणे द्वितीयरुद्रसंहितायां प्रथमः सृष्टिखण्डः समाप्तः ॥ २.१॥
% Text title            : Shivapuranam 2.1 rudrasaMhitA sRiShTikhaNDaH
% File name             : shivapurANam2rudrasaMhitA1sRRiShTikhaNDaH.itx
% itxtitle              : shivapurANam 2\.1 (rudrasaMhitAyAM sRiShTikhaNDaH)
% engtitle              : shivapurANam 2.1 rudrasaMhitA sRiShTikhaNDaH
% Category              : shiva, purANa, shivapurANa
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman and team members
% Indexextra            : (Scan, Hindi)
% Latest update         : January 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org