श्रीशिवमहापुराणम् २१ रुद्रसंहितायां सृष्टिखण्डः
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहिता
प्रथमः सृष्टिखण्डः
२.१.१. प्रथमोऽध्यायः । मुनिप्रश्नवर्णनम् ।
विश्वोद्भवस्थितिलयादिषु हेतुमेकं
गौरीपतिं विदिततत्त्वमनन्तकीर्तिम् ।
मायाश्रयं विगतमायमचिन्त्यरूपं
बोधस्वरूपममलं हि शिवं नमामि ॥ १॥
वन्दे शिवं तं प्रकृतेरनादिं
प्रशान्तमेकं पुरुषोत्तमं हि ।
स्वमायया कृत्स्नमिदं हि सृष्ट्वा
नभोवदन्तर्बहिरास्थितो यः ॥ २॥
वन्देऽन्तरस्थं निजगूढरूपं
शिवं स्वतः स्रष्टुमिदं विचष्टे ।
जगन्ति नित्यं परितो भ्रमन्ति
यत्सन्निधौ चुम्बकलोहवत्तम् ॥ ३॥
व्यास उवाच ।
जगतः पितरं शम्भुं जगतो मातरं शिवाम् ।
तत्पुत्रश्च गणाधीशं नत्वैतद्वर्णयामहे ॥ ४॥
एकदा मुनयः सर्वे नैमिषारण्यवासिनः ।
पप्रच्छुर्वरया भक्त्या सूतं ते शौनकादयः ॥ ५॥
ऋषय ऊचुः ।
विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा ।
साध्यसाधनखण्डाख्या रम्याद्या भक्तवत्सला ॥ ६॥
सूत सूत महाभाग चिरञ्जीव सुखी भव ।
यच्छ्रावयसि नस्तात शाङ्करीं परमां कथाम् ॥ ७॥
पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतं वयम् ।
अवितृप्ताः पुनः किञ्चित्प्रष्टुमिच्छामहेऽनघ ॥ ८॥
व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम् ।
नाज्ञातं विद्यते किञ्चिद्भूतं भव्यं भवच्च यत् ॥ ९॥
गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम् ।
सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः ॥ १०॥
इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम् ।
दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः ॥ ११॥
अगुणो गुणतां याति कथं लोके महेश्वरः ।
शिवतत्त्वं वयं सर्वे न जानीमो विचारतः ॥ १२॥
सृष्टेः पूर्वं कथं शम्भुः स्वरूपेणावतिष्ठते ।
सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ १३॥
तदन्ते च कथं देवः स तिष्ठति महेश्वरः ।
कथं प्रसन्नतां याति शङ्करो लोकशङ्करः ॥ १४॥
स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम् ।
स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः ॥ १५॥
सद्यः प्रसन्नो भगवान्भवतीत्यनुशुश्रुम ।
भक्तप्रयासं स महान्न पश्यति दयापरः ॥ १६॥
ब्रह्मा विष्णुर्महेशश्च त्रयो देवाः शिवाङ्गजाः ।
महेशस्तत्र पूर्णांशः स्वयमेव शिवोऽपरः ॥ १७॥
तस्याविर्भावमाख्याहि चरितानि विशेषतः ।
उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो ॥ १८॥
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ।
एतत्सर्वं तदन्यच्च कथनीयं त्वयानघ ॥ १९॥
व्यास उवाच ।
इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः ।
स्मृत्वा शम्भुपदाम्भोजं प्रत्युवाच मुनीश्वरान् ॥ २०॥
सूत उवाच ।
सम्यक् पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः ।
सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः ॥ २१॥
सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि ।
वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा ॥ २२॥
शम्भोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः ।
विना पशुघ्नं त्रिविधजनानन्दकरात्सदा । २३॥
गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि ।
मनःश्रोत्राभिरामश्च यतः सर्वार्थदः स वै ॥ २४॥
कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः ।
शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात् ॥ २५॥
भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै ।
पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा ॥ २६॥
ब्रह्मा श्रुत्वा सुतवचः शिवभक्तः प्रसन्नधीः ।
जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम् ॥ २७॥
व्यास उवाच ।
सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः ।
पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः ॥ २८॥
ऋषय ऊचुः ।
सूत सूत महाभाग शैवोत्तम महामते ।
श्रुत्वा तव वचो रम्यं चेतो नः सकुतूहलम् ॥ २९॥
कदा बभूव सुखकृद्विधिनारदयोर्महान् ।
संवादो यत्र गिरिशसुलीला भवमोचनी ॥ ३०॥
विधिनारदसंवादपूर्वकं शाङ्करं यशः ।
ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः ॥ ३१॥
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।
सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः ॥ ३२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनं नाम प्रथमोऽध्यायः ॥ २.१.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.२. द्वितीयोऽध्यायः । नारदतपोवर्णनम् ।
सूत उवाच ।
एकस्मिन्समये विप्रा नारदो मुनिसत्तमः ।
ब्रह्मपुत्रो विनीतात्मा तपोऽर्थं मन आदधे ॥ १॥
हिमशैलगुहा काचिदेका परमशोभना ।
यत्समीपे सुरनदी सदा वहति वेगतः ॥ २॥
तत्राश्रमो महादिव्यो नानाशोभासमन्वितः ।
तपोऽर्थं स ययौ तत्र नारदो दिव्यदर्शनः ॥ ३॥
तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः ।
बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ॥ ४॥
चक्रे मुनिः समाधिं तमहम्ब्रह्मेति यत्र ह ।
विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ॥ ५॥
इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे ।
चकम्पेऽथ शुनासीरो मनस्सन्तापविह्वलः ॥ ६॥
मनसीति विचिन्त्यासौ मुनिर्मे राज्यमिच्छति ।
तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ॥ ७॥
सस्मार स स्मरं शक्रश्चेतसा देवनायकः ।
आजगाम द्रुतं कामः समधीर्महिषीयुतः ॥ ८॥
अथागतं स्मरं दृष्ट्वा सम्बोध्य सुरराट् प्रभुः ।
उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ॥ ९॥
इन्द्र उवाच ।
मित्रवर्य महावीर सर्वदा हितकारक ।
शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ॥ १०॥
त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः ।
मद्राज्यस्थिरता मित्र त्वदनुग्रहतः सदा ॥ ११॥
हिमशैलगुहायां हि मुनिस्तपति नारदः ।
मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ॥ १२॥
याचेन्न विधितो राज्यं स ममेति विशङ्कितः ।
अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर ॥ १३॥
इत्याज्ञप्तो महेन्द्रेण स कामः समधुप्रियः ।
जगाम तत्स्थलं गर्वादुपायं स्वं चकार ह ॥ १४॥
रचयामास तत्राशु स्वकलाः सकला अपि ।
वसन्तोऽपि स्वप्रभावं चकार विविधं मदात् ॥ १५॥
न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः ।
भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ॥ १६॥
शृणुतादरतस्तत्र कारणं शौनकादयः ।
ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ॥ १७॥
अत्रैव शम्भुनाकारि सुतपश्च स्मरारिणा ।
अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ॥ १८॥
कामजीवनहेतोर्हि रत्या सम्प्रार्थितैः सुरैः ।
सम्प्रार्थित उवाचेदं शङ्करो लोकशङ्करः ॥ १९॥
कञ्चित्समयमासाद्य जीविष्यति सुराः स्मरः ।
परन्त्विह स्मरोपायश्चलिष्यति न कश्चन ॥ २०॥
इह यावद्दृष्यते भूर्जनैः स्थित्वामराः सदा ।
कामबाणप्रभावोऽत्र न चलिष्यत्यसंशयम् ॥ २१॥
इति शम्भूक्तितः कामो मिथ्यात्मगतिकस्तदा ।
नारदे स जगामाशु दिवमिन्द्रसमीपतः ॥ २२॥
आचख्यौ सर्ववृत्तान्तं प्रभावं च मुनेः स्मरः ।
तदाज्ञया ययौ स्थानं स्वकीयं समधुप्रियः ॥ २३॥
विस्मितोऽभूत्सुराधीशः प्रशशंसाथ नारदम् ।
तद्वृत्तान्तानभिज्ञो हि मोहितः शिवमायया ॥ २४॥
दुर्ज्ञेया शाम्भवी माया सर्वेषां प्राणिनामिह ।
भक्तं विनार्पितात्मानं तया सम्मोह्यते जगत् ॥ २५॥
नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह ।
पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ॥ २६॥
कामाज्जयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः ।
वृथैव विगतज्ञानः शिवमायाविमोहितः ॥ २७॥
धन्या धन्या महामाया शाम्भवी मुनिसत्तमाः ।
तद्गतिं न हि पश्यन्ति विष्णुब्रह्मादयोऽपि हि ॥ २८॥
तया सम्मोहितोऽतीव नारदो मुनिसत्तमः ।
कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी ॥ २९॥
रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तं गर्ववान्मुनिः ।
मत्त्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम् ॥ ३०॥
तच्छ्रुत्वा शङ्करः प्राह नारदं भक्तवत्सलः ।
स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम् ॥ ३१॥
रुद्र उवाच ।
हे तात नारद प्राज्ञ धन्यस्त्वं शृणु मद्वचः ।
वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः ॥ ३२॥
पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान् ।
गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन ॥ ३३॥
शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् ।
विष्णुभक्तो यतस्त्वं हि तद्भक्तोऽतीव मेऽनुगः ॥ ३४॥
शास्ति स्मेत्थञ्च बहुशो रुद्रः सूतिकरः प्रभुः ।
नारदो न हितं मेने शिवमायाविमोहितः । ३५॥
प्रबला भाविनी कर्मगतिर्ज्ञेया विचक्षणैः ।
न निवार्या जनैः कैश्चिदपीच्छा सैव शाङ्करी ॥ ३६॥
ततः स मुनिवर्यो हि ब्रह्मलोकं जगाम ह ।
विधिं नत्वाब्रवीत्कामजयं स्वस्य तपोबलात् ॥ ३७॥
तदाकर्ण्य विधिः सोऽथ स्मृत्वा शम्भुपदाम्बुजम् ।
विज्ञाय कारणं सर्वं निषिषेध सुतं तदा ॥ ३८॥
मेने हितं न विध्युक्तं नारदो ज्ञानिसत्तमः ।
शिवमायामोहितश्च रूढचित्तमदाङ्कुरः ॥ ३९॥
शिवेच्छा यादृशी लोके भवत्येव हि सा तदा ।
तदधीनं जगत्सर्वं वचस्तन्त्यां स्थितं यतः ॥ ४०॥
नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः ।
मदाङ्कुरमना वृत्तं गदितुं स्वं तदग्रतः ॥ ४१॥
आगच्छन्तं मुनिं दृष्ट्वा नारदं विष्णुरादरात् ।
उत्थित्वाग्रे गतोऽरं तं शिश्लेष ज्ञातहेतुकः ॥ ४२॥
स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् ।
हरिः प्राह वचस्तथ्यं नारदं मदनाशनम् ॥ ४३॥
विष्णुरुवाच ।
कुत आगम्यते तात किमर्थमिह चागतः ।
धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात् ॥ ४४॥
विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः ।
स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः ॥ ४५॥
श्रुत्वा मुनिवचो विष्णुः समदं कारणं ततः ।
ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि ॥ ४६॥
तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड्ढरिः ।
साञ्जलिर्विसुधीर्नम्रमस्तकः परमेश्वरम् ॥ ४७॥
विष्णुरुवाच ।
देव देव महादेव प्रसीद परमेश्वर ।
धन्यस्त्वं शिव धन्या ते माया सर्वविमोहिनी ॥ ४८॥
इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः ।
निमील्य नयने ध्यात्वा विरराम पदाम्बुजम् ॥ ४९॥
यत्कर्तव्यं शङ्करस्य स ज्ञात्वा विश्वपालकः ।
शिवशासनतः प्राह हृदाथ मुनिसत्तमम् ॥ ५०॥
विष्णुरुवाच ।
धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः ।
भक्तित्रिकं न यस्यास्ति काममोहादयो मुने ॥ ५१॥
विकारास्तस्य सद्यो वै भवन्त्यखिलदुःखदाः ।
नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा ॥ ५२॥
कथं कामविकारी स्याज्जन्मनाविकृतः सुधीः ।
इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः ॥ ५३॥
विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् ।
नारद उवाच ।
किम्प्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि ॥ ५४॥
इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः ॥ ५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ॥ २.१.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.३. तृतीयोऽध्यायः । नारदमोहनं वर्णनम् ।
ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते ।
अद्भुतेयं कथा तात वर्णिता कृपया हि नः ॥ १॥
मुनौ गते हरिस्तात किञ्चकार ततः परम् ।
नारदोऽपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ॥ २॥
व्यास उवाच ।
इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः ।
प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः ॥ ३॥
सूत उवाच ।
मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे ।
शिवेच्छया चकाराशु मायां मायाविशारदः ॥ ४॥
मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् ।
शतयोजनविस्तारमद्भुतं सुमनोहरम् ॥ ५॥
स्वलोकादधिकं रम्यं नानावस्तुविराजितम् ।
नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ॥ ६॥
तत्र राजा शीलनिधिर्नामैश्वर्यसमन्वितः ।
सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः ॥ ७॥
चतुर्दिग्भ्यः समायातैः संयुतं नृपनन्दनैः ।
नानावेषैः सुशोभैश्च तत्कन्यावरणोत्सुकैः ॥ ८॥
एतादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः ।
कौतुकी तन्नृपद्वारं जगाम मदनैधितः ॥ ९॥
आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः ।
उपवेश्यार्चयाञ्चक्रे रत्नसिंहासने वरे ॥ १०॥
अथ राजा स्वतनयां नामतः श्रीमतीं वराम् ।
नारदस्य समानीय पादयोः समपातयत् ॥ ११॥
तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः ।
केयं राजन्महाभागा कन्या सुरसुतोपमा ॥ १२॥
तस्य तद्वचनं श्रुत्वा राजा प्राह कृताञ्जलिः ।
दुहितेयं मम मुने श्रीमती नाम नामतः ॥ १३॥
प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् ।
सा स्वयम्वरसम्प्राप्ता सर्वलक्षणलक्षिता ॥ १४॥
अस्या भाग्यं वद मुने सर्वं जातकमादरात् ।
कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ॥ १५॥
इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः ।
समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ॥ १६॥
सुतेयं तव भूपाल सर्वलक्षणलक्षिता ।
महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ॥ १७॥
सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः ।
अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ॥ १८॥
इत्युक्त्वा नृपमामन्त्र्य ययौ यादृच्छिको मुनिः ।
बभूव कामविवशः शिवमायाविमोहितः ॥ १९॥
चित्ते विचिन्त्य स मुनिराप्नुयां कन्यकां कथम् ।
स्वयंवरे नृपालानामेकं मां वृणुयात्कथम् ॥ २०॥
सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा ।
तद् दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः ॥ २१॥
विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः ।
विष्णुलोकं जगामाशु नारदः स्मरविह्वलः ॥ २२॥
प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह ।
रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ॥ २३॥
तथेत्युक्ते तथाभूते शिवेच्छाकार्यकर्तरि ।
ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम् ॥ २४॥
नारद उवाच ।
त्वदीयो भूपतिः शीलनिधिः स वृषतत्परः ।
तस्य कन्या विशालाक्षी श्रीमती वरवर्णिनी ॥ २५॥
जगन्मोहिन्यभिख्याता त्रैलोक्येऽप्यतिसुन्दरी ।
परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम् ॥ २६॥
स्वयम्वरं चकारासौ भूपतिस्तनयेच्छया ।
चतुर्दिग्भ्यः समायाता राजपुत्राः सहस्रशः ॥ २७॥
यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् ।
त्वद्रूपं सा विना कण्ठे जयमालां न धास्यति ॥ २८॥
स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव ।
वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा ॥ २९॥
सूत उवाच ।
वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः ।
शाङ्करीं प्रभुतां बुध्वा प्रत्युवाच दयापरः ॥ ३०॥
विष्णुरुवाच ।
स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव ।
भिषग्वरो यथार्तस्य यतः प्रियतरोऽसि मे ॥ ३१॥
इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरेः ।
स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः ॥ ३२॥
एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः ।
मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ॥ ३३॥
अथ तत्र गतः शीघ्रं नारदो मुनिसत्तमः ।
चक्रे स्वयम्वरं यत्र राजपुत्रैः समाकुलम् ॥ ३४॥
स्वयम्वरसभा दिव्या राजपुत्रसमावृता ।
शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभापरा ॥ ३५॥
तस्यां नृपसभायां वै नारदः समुपाविशत् ।
स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ॥ ३६॥
मां वरिष्यति नान्यं सा विष्णुरूपधरं ध्रुवम् ।
आननस्य कुरूपत्वं न वेद मुनिसत्तमः ॥ ३७॥
पूर्वरूपं मुनिं सर्वे ददृशुस्तत्र मानवाः ।
तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः । ३८॥
तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ ।
विप्ररूपधरौ गूढौ तद्भेदं जज्ञतुः परम् ॥ ३९॥
मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ ।
कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ॥ ४०॥
पश्य नारदरूपं हि विष्णोरिव महोत्तमम् ।
मुखं तु वानरस्येव विकटं च भयङ्करम् ॥ ४१॥
इच्छत्ययं नृपसुतां वृथैव स्मरमोहितः ।
इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ॥ ४२॥
न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः ।
पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ॥ ४३॥
एतस्मिन्नन्तरे भूपकन्या चान्तःपुरात्तु सा ।
स्त्रीभिः समावृता तत्राजगाम वरवर्णिनी ॥ ४४॥
मालां हिरण्मयीं रम्यामादाय शुभलक्षणा ।
तत्र स्वयम्वरे रेजे स्थिता मध्ये रमेव सा ॥ ४५॥
बभ्राम सा सभां सर्वां मालामादाय सुव्रता ।
वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ॥ ४६॥
वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा ।
दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा ॥ ४७॥
न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनेप्सितम् ।
अन्तःसभास्थिता कस्मिन्नर्पयामास न स्रजम् ॥ ४८॥
एतस्मिन्नन्तरे विष्णुराजगाम नृपाकृतिः ।
न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ॥ ४९॥
अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा ।
अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ॥ ५०॥
तामादाय ततो विष्णू राजरूपधरः प्रभुः ।
अन्तर्धानमगात्सद्यः स्वस्थानं प्रययौ किल ॥ ५१॥
सर्वे राजकुमाराश्च निराशाः श्रीमतीं प्रति ।
मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः ॥ ५२॥
तदा तावूचतुः सद्यो नारदं स्मरविह्वलम् ।
विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ॥ ५३॥
गणावूचतुः
हे नारद मुने त्वं हि वृथा मदनमोहितः ।
तल्लिप्सुः स्वमुखं पश्य वानरस्येव गर्हितम् ॥ ५४॥
सूत उवाच ।
इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् ।
मुखं ददर्श मुकुरे शिवमायाविमोहितः ॥ ५५॥
स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम् ।
शापं ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ॥ ५६॥
युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि ।
भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती ॥ ५७॥
श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ ।
न किञ्चिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ॥ ५८॥
स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम् ।
चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ॥ ५९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ॥ २.१.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.४. चतुर्थोऽध्यायः । नारदय विष्णूपदेशवर्णनम् ।
ऋषय ऊचुः ।
सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा ।
धन्या तु शाम्भवी माया तदधीनं चराचरम् ॥ १॥
गतयोर्गणयोः शम्भोः स्वयमात्मेच्छया विभोः ।
किञ्चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः ॥ २॥
सूत उवाच ।
विमोहितो मुनिर्दत्त्वा तयोः शापं यथोचितम् ।
जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया ॥ ३॥
शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम् ।
क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह ॥ ४॥
उवाच वचनं क्रुद्धः समिद्ध इव पावकः ।
दुरुक्तिगर्भितं व्यङ्गं नष्टज्ञानः शिवेच्छया ॥ ५॥
नारद उवाच ।
हे हरे त्वं महादुष्टः कपटी विश्वमोहनः ।
परोत्साहं न सहसे मायावी मलिनाशयः ॥ ६॥
मोहिनीरूपमादाय कपटं कृतवान्पुरा ।
असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि ॥ ७॥
चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः ।
भवेन्नष्टाखिला माया तव व्याजरते हरे ॥ ८॥
गतिः सकपटा तेऽतिप्रिया विष्णो विशेषतः ।
साधुस्वभावो न भवान्स्वतन्त्रः प्रभुणा कृतः ॥ ९॥
कृतं समुचितं नैव शिवेन परमात्मना ।
तत्प्रभावबलं ध्यात्वा स्वतन्त्रकृतिकारकः ॥ १०॥
त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः ।
विप्रं सर्वोपरि प्राह स्वोक्तवेदप्रमाणकृत् ॥ ११॥
तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात् ।
यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन ॥ १२॥
अद्यापि निर्भयस्त्वं हि सङ्गं नापस्तरस्विना ।
इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः ॥ १३॥
इत्थमुक्त्वा हरिं सोऽथ मुनिर्मायाविमोहितः ।
शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन् ॥ १४॥
स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः ।
अन्वकार्षीः स्वरूपेण येन कापट्यकार्यकृत् ॥ १५॥
तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे ।
यन्मुखं कृतवान्मे त्वं ते भवन्तु सहायिनः ॥ १६॥
त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः ।
मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः ॥ १७॥
इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः ।
विष्णुर्जग्राह तं शापं प्रशंसन् शाम्भवीमजाम् ॥ १८॥
अथ शम्भुर्महालीलो निश्चकर्ष विमोहिनीम ।
स्वमायां मोहितो ज्ञानी नारदोऽप्यभवद्यया ॥ १९॥
अन्तर्हितायां मायायां पूर्ववन्मतिमानभूत् ।
नारदो विस्मितमनाः प्राप्तबोधो निराकुलः ॥ २०॥
पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः ।
प्रशशंस तदा मायां शाम्भवीं ज्ञानिमोहिनीम् ॥ २१॥
अथ ज्ञात्वा मुनिःसर्वं मायाविभ्रममात्मनः ।
अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः ॥ २२॥
हर्युपस्थापितः प्राह वचनं नष्टदुर्मतिः ।
मया दुरुक्तयः प्रोक्ता मोहितेन कुबुद्धिना ॥ २३॥
दत्तः शापोऽपि ते नाथ वितथं कुरु तं प्रभो ।
महत्पापमकार्षं हि यास्यामि निरयं ध्रुवम् ॥ २४॥
कमुपायं हरे कुर्यां दासोऽहं ते तमादिश ।
येन पापकुलं नश्येन्निरयो न भवेन्मम ॥ २५॥
इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः ।
पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः ॥ २६॥
अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः ।
विष्णुरुवाच ।
न खेदं कुरु मे भक्तवरस्त्वं नात्र संशयः ॥ २७॥
शृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात् ।
निरयस्ते न भविता शिवः शं ते विधास्यति ॥ २८॥
यदकार्षीः शिववचो वितथं मदमोहितः ।
स दत्तवानीदृशं ते फलं कर्मफलप्रदः ॥ २९॥
शिवेच्छयाखिलं जातं कुर्वित्थं निश्चितां मतिम् ।
गर्वापहर्ता स स्वामी शङ्करः परमेश्वरः ॥ ३०॥
परं ब्रह्म परात्मा स सच्चिदानन्दबोधनः ।
निर्गुणो निर्विकारी च रजःसत्त्वतमःपरः ॥ ३१॥
स एवादाय मायां स्वां त्रिधा भवति रूपतः ।
ब्रह्मविष्णुमहेशात्मा निर्गुणोऽनिर्गुणोऽपि सः ॥ ३२॥
निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः ।
परं ब्रह्माव्ययोऽनन्तो महादेवेति गीयते ॥ ३३॥
तत्सेवया विधिः स्रष्टा पालको जगतामहम् ।
स्वयं सर्वस्य संहारी रुद्ररूपेण सर्वदा ॥ ३४॥
साक्षी शिवस्वरूपेण मायाभिन्नः स निर्गुणः ।
स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः ॥ ३५॥
शृणु त्वं नारद मुने सदुपायं सुखप्रदम् ।
सर्वपापापहर्तारं भुक्तिमुक्तिप्रदं सदा ॥ ३६॥
त्यक्त्वा स्वसंशयं सर्वं गायन् शङ्करसद्यशः ।
शतनामशिवस्तोत्रं सदानन्यमतिर्जप ॥ ३७॥
यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति ।
इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः ॥ ३८॥
मुने न कुरु शोकं त्वं त्वया किञ्चित्कृतं न हि ।
स्वेच्छया कृतवान्शम्भुरिदं सर्वं न संशयः ॥ ३९॥
अहार्षित्त्वन्मतिं दिव्यां कामक्लेशमदात्स ते ।
त्वन्मुखाद्दापयाञ्चक्रे शापं मे स महेश्वरः ॥ ४०॥
इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम् ।
मृत्युञ्जयः कालकालो भक्तोद्धारपरायणः ॥ ४१॥
न मे शिवसमानोऽस्ति प्रियः स्वामी सुखप्रदः ।
सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः ॥ ४२॥
तस्योपास्यां कुरु मुने तमेव सततं भज ।
तद्यशः शृणु गाय त्वं कुरु नित्यं तदर्चनम् ॥ ४३॥
कायेन मनसा वाचा यः शङ्करमुपैति भोः ।
स पण्डित इति ज्ञेयः स जीवन्मुक्त उच्यते ॥ ४४॥
शिवेति नामदावाग्नेर्महापातकपर्वताः ।
भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः ॥ ४५॥
पापमूलानि दुःखानि विविधान्यपि तान्यतः ।
शिवार्चनैकनश्यानि नान्यनश्यानि सर्वथा ॥ ४६॥
स वैदिकः स पुण्यात्मा स धन्यः स बुधो मुने ।
यः सदा कायवाक् चित्तैः शरणं याति शङ्करम् ॥ ४७॥
भवन्ति विविधा धर्मा येषां सद्यः फलोन्मुखाः ।
तेषां भवति विश्वासस्त्रिपुरान्तकपूजने ॥ ४८॥
पातकानि विनश्यन्ति यावन्ति शिवपूजया ।
भुवि तावन्ति पापानि न सन्त्येव महामुने ॥ ४९॥
ब्रह्महत्यादिपापानां राशयोऽप्यमिता मुने ।
शिवस्मृत्या विनश्यन्ति सत्यं सत्यं वदाम्यहम् ॥ ५०॥
शिवनामतरीं प्राप्य संसाराब्धिं तरन्ति ते ।
संसारमूलपापानि तस्य नश्यन्त्यसंशयम् ॥ ५१॥
संसारमूलभूतानां पातकानां महामुने ।
शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥ ५२॥
शिवनामामृतं पेयं पापदावानलार्दितैः ।
पापदावाग्नितप्तानां शान्तिस्तेन विना न हि ॥ ५३॥
शिवेति नामपीयूषवर्षधारापरिप्लुताः ।
संसारदवमध्येऽपि न शोचन्ति न संशयः ॥ ५४॥
न भक्तिः शङ्करे पुंसां रागद्वेषरतात्मनाम् ।
तद्विरुद्धजनानां हि मुक्तिर्भवति सर्वथा ॥ ५५॥
अनन्तजन्मभिर्येन तपस्तप्तं भविष्यति ।
तस्यैव भक्तिर्भवति भवानीप्राणवल्लभे ॥ ५६॥
जातापि शङ्करे भक्तिरन्यसाधारणी वृथा ।
परं त्वव्यभिचारेण शिवभक्तिरपेक्षिता ॥ ५७॥
यस्यासाधारणी शम्भौ भक्तिरव्यभिचारिणी ।
तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥ ५८॥
कृत्वाप्यनन्तपापानि यदि भक्तिर्महेश्वरे ।
सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥ ५९॥
भवन्ति भस्मसाद् वृक्षा दवदग्धा यथा वने ।
तथा भवन्ति दग्धानि शाङ्कराणामघान्यपि ॥ ६०॥
यो नित्यं भस्मपूताङ्गो शिवपूजोन्मुखो भवेत् ।
स तरत्येव संसारमपारमतिदारुणम् ॥ ६१॥
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ।
न लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः ॥ ६२॥
विलोक्य वेदानखिलान् शिवस्यैवार्चनं परम् ।
संसारनाशनोपाय इति पूर्वैर्विनिश्चितम् ॥ ६३॥
अद्यप्रभृति यत्नेन सावधानो यथाविधि ।
साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम् ॥ ६४॥
आपादमस्तकं सम्यग्भस्मनोद्धूल्य सादरम् ।
सर्वश्रुतिश्रुतं शैवं मन्त्रं जप षडक्षरम् ॥ ६५॥
सर्वाङ्गेषु प्रयत्नेन रुद्राक्षान् शिववल्लभान् ।
धारयस्वातिसद्भक्त्या समन्त्रं विधिपूर्वकम् ॥ ६६॥
शृणु शैवीं कथां नित्यं वद शैवीं कथां सदा ।
पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः ॥ ६७॥
अप्रमादेन सततं शिवैकशरणो भव ।
शिवार्चनेन सततमानन्दः प्राप्यते यतः ॥ ६८॥
उरस्याधाय विशदे शिवस्य चरणाम्बुजौ ।
शिवतीर्थानि विचर प्रथमं मुनिसत्तम ॥ ६९॥
पश्यन्माहात्म्यमतुलं शङ्करस्य परात्मनः ।
गच्छानन्दवनं पश्चाच्छम्भुप्रियतमं मुने ॥ ७०॥
तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः ।
नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि ॥ ७१॥
ततश्च भवता नूनं विधेयं गमनं मुने ।
ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः ॥ ७२॥
नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने ।
प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा ॥ ७३॥
स शैवप्रवरो ब्रह्मा माहात्म्यं शङ्करस्य ते ।
श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि ॥ ७४॥
अद्यतस्त्वं भव मुने शैवः शिवपरायणः ।
मुक्तिभागी विशेषेण शिवस्ते शं विधास्यति ॥ ७५॥
इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः ।
स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वन्तरधीयत ॥ ७६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं नाम चतुर्थोऽध्यायः ॥ २.१.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.५. पञ्चमोऽध्यायः । नारदस्य काशीक्षेत्रगमनम् ।
सूत उवाच ।
अन्तर्हिते हरौ विप्रा नारदो मुनिसत्तमः ।
विचचार महीं पश्यन् शिवलिङ्गानि भक्तितः ॥ १॥
पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः ।
ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः ॥ २॥
अथ तं विचरन्तं कौ नारदं दिव्यदर्शनम् ।
ज्ञात्वा शम्भुगणौ तौ तु सुचित्तमुपजग्मतुः ॥ ३॥
शिरसा सुप्रणम्याशु गणावूचतुरादरात् ।
गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ ॥ ४॥
शिवगणावूचतुः
ब्रह्मपुत्र सुरर्षे हि शृणु प्रीत्यावयोर्वचः ।
तवापराधकर्तारावावां विप्रौ न वस्तुतः ॥ ५॥
आवां हरगणौ विप्र तवागस्कारिणौ मुने ।
स्वयम्वरे राजपुत्र्या मायामोहितचेतसा ॥ ६॥
त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह ।
ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम् ॥ ७॥
स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् ।
सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ ॥ ८॥
सूत उवाच ।
वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् ।
प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः ॥ ९॥
नारद उवाच ।
शृणुतं मे महादेवगणौ मान्यतमौ सताम् ।
वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम् ॥ १०॥
पुरा मम मतिर्भ्रष्टासीच्छिवेच्छावशाद् ध्रुवम् ।
सर्वथा मोहमापन्नः शप्तवान्वां कुशेमुषिः ॥ ११॥
यदुक्तं तत्तथा भावि तथापि शृणुतां गणौ ।
शापोद्धारमहं वच्मि क्षमेथामघमद्य मे ॥ १२॥
वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम् ।
स्यातां विभवसंयुक्तौ बलिनौ सुप्रतापिनौ ॥ १३॥
सर्वब्रह्माण्डराजानौ शिवभक्तौ जितेन्द्रियौ ।
शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः ॥ १४॥
सूत उवाच ।
इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः ।
उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा ॥ १५॥
नारदोऽपि परं प्रीतो ध्यायन् शिवमनन्यधीः ।
विचचार महीं पश्यन् शिवतीर्थान्यभीक्ष्णशः ॥ १६॥
काशीं प्राप्याथ स मुनिः सर्वोपरिविराजिताम् ।
शिवप्रियां शम्भुसुखप्रदां शम्भुस्वरूपिणीम् ॥ १७॥
दृष्ट्वा काशीं कृतार्थोऽभूत्काशीनाथं ददर्श ह ।
आनर्च परमप्रीत्या परमानन्दसंयुतः ॥ १८॥
समुदः सेव्य तां काशीं कृतार्थो मुनिसत्तमः ।
नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः ॥ १९॥
ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः ।
शिवतत्त्वं विशेषेण ज्ञातुमिच्छुः स नारदः ॥ २०॥
नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः ।
पप्रच्छ शिवसत्तत्त्वं शिवसंयुक्तमानसः ॥ २१॥
नारद उवाच ।
ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो ।
त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ २२॥
भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् ।
दानमार्गं च तीर्थानां मार्गं च श्रुतवानहम् ॥ २३॥
न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् ।
चरित्रं विविधं तस्य निवेदय मम प्रभो ॥ २४॥
निर्गुणोऽपि शिवस्तात सगुणः शङ्करः कथम् ।
शिवतत्त्वं न जानामि मोहितः शिवमायया ॥ २५॥
सृष्टेः पूर्वं कथं शम्भुः स्वरूपेण प्रतिष्ठितः ।
सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ २६॥
तदन्ते च कथं देवः स तिष्ठति महेश्वरः ।
कथं प्रसन्नतां याति शङ्करो लोकशङ्करः ॥ २७॥
सन्तुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः ।
किं फलं यच्छति विधे तत्सर्वं कथयस्व मे ॥ २८॥
सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम् ।
भक्तप्रयासं स महान्न पश्यति दयापरः ॥ २९॥
ब्रह्मा विष्णुर्महेशश्च त्रयो देवाः शिवांशजाः ।
महेशस्तत्र पूर्णांशः स्वयमेव शिवः परः ॥ ३०॥
तस्याविर्भावमाख्याहि चरितानि विशेषतः ।
उमाविर्भावमाख्याहि तद्विवाहं तथा विभो ॥ ३१॥
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ।
एतत्सर्वं तथान्यच्च कथनीयं त्वयानघ ॥ ३२॥
तदुत्पत्तिं विवाहं च शिवायास्तु विशेषतः ।
प्रब्रूहि मे प्रजानाथ गुहजन्म तथैव च ॥ ३३॥
बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मि जगत्प्रभो ।
अतस्त्वां शरणं प्राप्तः कृपां कुरु ममोपरि ॥ ३४॥
इति श्रुत्वा वचस्तस्य नारदस्याङ्गजस्य हि ।
उवाच वचनं तत्र ब्रह्मा लोकपितामहः ॥ ३५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं नाम पञ्चमोऽध्यायः ॥ २.१.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.६. षष्ठोऽध्यायः । विष्णूत्पत्तिवर्णनम् ।
ब्रह्मोवाच ।
भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम ।
लोकोपकारिणा नित्यं लोकानां हितकाम्यया ॥ १॥
यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् ।
तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम् ॥ २॥
शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः ।
ज्ञातं च परमं रूपमद्भुतं च परेण न ॥ ३॥
महाप्रलयकाले च नष्टे स्थावरजङ्गमे ।
आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ॥ ४॥
अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् ।
अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम् ॥ २॥
अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् ।
अव्यक्तगन्धरूपं च रसत्यक्तमदिङ्मुखम् ॥ ६॥
इत्थं सत्यन्धतमसे सूचीभेद्ये निरन्तरे ।
तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते ॥ ७॥
इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् ।
योगिनोऽन्तर्हिताकाशे यत्पश्यन्ति निरन्तरम् ॥ ८॥
अमनोगोचरं वाचां विषयं न कदाचन ।
अनामरूपवर्णं च न च स्थूलं न यत्कृशम् ॥ ९॥
अह्रस्वदीर्घमलघु गुरुत्वपरिवर्जितम् ।
न यत्रोपचयः कश्चित्तथा नोपचयोऽपि च ॥ १०॥
अभिधत्ते सचकितं यदस्तीति श्रुतिः पुनः ।
सत्यं ज्ञानमनन्तं च परानन्दं परं महः ॥ ११॥
अप्रमेयमनाधारमविकारमनाकृति ।
निर्गुणं योगिगम्यं च सर्वव्याप्येककारकम् ॥ १२॥
निर्विकल्पं निरारम्भं निर्मायं निरुपद्रवम् ।
अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम् ॥ १३॥
यस्येत्थं संविकल्पन्ते संज्ञासंज्ञोक्तितः स्म वै ।
कियता चैव कालेन द्वितीयेच्छाऽभवत्किल ॥ १४॥
अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ।
सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥ १५॥
सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ।
सर्वैकवन्द्या सर्वाद्या सर्वदा सर्वसंस्कृतिः ॥ १६॥
परिकल्प्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् ।
अद्वितीयमनाद्यन्तं सर्वाभासं चिदात्मकम् ।
अन्तर्दधे पराख्यं यद् ब्रह्म सर्वगमव्ययम् ॥ १७॥
अमूर्ते यत्पराख्यं वै तस्य मूर्तिः सदाशिवः ।
अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ॥ १८॥
शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः ।
स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ॥ १९॥
प्रधानं प्रकृतिं तां च मायां गुणवतीं पराम् ।
बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ २०॥
सा शक्तिरम्बिका प्रोक्ता प्रकृतिः सकलेश्वरी ।
त्रिदेवजननी नित्या मूलकारणमित्युत ॥ २१॥
अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा ।
राकाचन्द्रसहस्रस्य वदने भाश्च नित्यशः ॥ २२॥
नानाभरणसंयुक्ता नानागतिसमन्विता ।
नानायुधधरा देवी फुल्लपङ्कजलोचना ॥ २३॥
अचिन्त्यतेजसा युक्ता सर्वयोनिः समुद्यता ।
एकाकिनी यदा माया संयोगाच्चाप्यनेकिका ॥ २४॥
परः पुमानीश्वरः स शिवः शम्भुरनीश्वरः ।
शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः ॥ २५॥
पञ्चवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् ।
कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः ॥ २६॥
युगपच्च तया शक्त्या साकं कालस्वरूपिणा ।
शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा ॥ २७॥
तदेव काशिकेत्येतत्प्रोच्यते क्षेत्रमुत्तमम् ।
परं निर्वाणसङ्ख्यानं सर्वोपरि विराजितम् ॥ २८॥
ताभ्यां च रममाणाभ्यां तस्मिन्क्षेत्रे मनोरमे ।
परमानन्दरूपाभ्यां परमानन्दरूपिणम् ॥ २९॥
मुने प्रलयकालेऽपि न तत्क्षेत्रं कदाचन ।
विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः ॥ ३०॥
अस्यानन्दवनं नाम पुराकारि पिनाकिना ।
क्षेत्रस्यानन्दहेतुत्वादविमुक्तमनन्तरम् ॥ ३१॥
अथानन्दवने तस्मिन् शिवयो रममाणयोः ।
इच्छेत्यभूत्सुरर्षे हि सृज्यः कोऽप्यपरः किल ॥ ३२॥
यस्मिन् न्यस्य महाभारमावां स्वस्वैरचारिणौ ।
निर्वाणधारणं कुर्वः केवलं काशिशायिनौ ॥ ३३॥
स एव सर्वं कुरुतां स एव परिपातु च ।
स एव संवृणोत्वन्ते मदनुग्रहतःसदा ॥ ३४॥
चेतः समुद्रमाकुञ्च्य चिन्ताकल्लोललोलितम् ।
सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ॥ ३५॥
यस्य प्रसादात्तिष्ठावः सुखमानन्दकानने ।
परिक्षिप्तमनोवृत्तौ बहिश्चिन्तातुरे सुखम् ॥ ३६॥
सम्प्रधार्येति स विभुस्तया शक्त्या परेश्वरः ।
सव्ये व्यापारयाञ्चक्रे दशमेऽङ्गे सुधासवम् ॥ ३७॥
ततः पुमानाविरासीदेकस्त्रैलोक्यसुन्दरः ।
शान्तःसत्त्वगुणोद्रिक्तो गाम्भीर्यामितसागरः ॥ ३८॥
तथा च क्षमया युक्तो मुनेऽलब्धोपमोऽभवत् ।
इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः ॥ ३९॥
सुवर्णकान्तिभृच्छ्रेष्ठदुकूलयुगलावृतः ।
लसत्प्रचण्डदोर्दण्डयुगलो ह्यपराजितः ॥ ४०॥
ततः स पुरुषः शम्भुं प्रणम्य परमेश्वरम् ।
नामानि कुरु मे स्वामिन्वद कर्म जगावति ॥ ४१॥
तच्छ्रुत्वा वचनं प्राह शङ्करः प्रहसन्प्रभुः ।
पुरुषं तं महेशानो वाचा मेघगभीरया ॥ ४२॥
शिव उवाच ।
विष्ण्विति व्यापकत्वात्ते नाम ख्यातं भविष्यति ।
बहून्यन्यानि नामानि भक्तसौख्यकराणि ह ॥ ४३॥
तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् ।
इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः ॥ ४४॥
ततोऽच्युतः शिवं नत्वा चकार विपुलं तपः ।
अन्तर्धानं गतः शक्त्या सलोकः परमेश्वरः ॥ ४५॥
दिव्यं द्वादशसाहस्रं वर्षं तप्त्वापि चाच्युतः ।
न प्राप स्वाभिलषितं सर्वदं शम्भुदर्शनम् ॥ ४६॥
ततः संशयमापन्नश्चिन्तितं हृदि सादरम् ।
मयाद्य किं प्रकर्तव्यमिति विष्णुः शिवं स्मरन् ॥ ४७॥
एतस्मिन्नन्तरे वाणी समुत्पन्ना शिवाच्छुभा ।
तपः पुनः प्रकर्तव्यं संशयस्यापनुत्तये ॥ ४८॥
ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् ।
बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि ॥ ४९॥
ततः स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः ।
सुप्रीतो विस्मयं प्राप्तः किं यत्तत्तवमहो इति ॥ ५०॥
परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च ।
जलधारा हि संयाता विविधाः शिवमायया ॥ ५१॥
अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने ।
ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम् ॥ ५२॥
तदा श्रान्तश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् ।
सुष्वाप परमप्रीतो बहुकालं विमोहितः ॥ ५३॥
नारायणेति नामापि तस्यासीच्छ्रुतिसम्मतम् ।
नान्यत्किञ्चित्तदा ह्यासीत्प्राकृतं पुरुषं विना ॥ ५४॥
एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः ।
तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते ॥ ५५॥
प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः ।
अहङ्कारस्ततो जातस्त्रिविधो गुणभेदतः ॥ ५६॥
तन्मात्रश्च ततो जाताः पञ्च भूतानि वै ततः ।
तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च ॥ ५७॥
तत्त्वानामिति सङ्ख्यानमुक्तं ते ऋषिसत्तम ।
जडात्मकं च तत्सर्वं प्रकृतेः पुरुषं विना ॥ ५८॥
तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसङ्ख्यकम् ।
शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके ॥ ५९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं नाम षष्ठोऽध्यायः ॥ २.१.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः
२.१.७. सप्तमोऽध्यायः । विष्णुब्रह्मविवादवर्णनम् ।
ब्रह्मोवाच ।
सुप्ते नारायणे देवे नाभौ पङ्कजमुत्तमम् ।
आविर्बभूव सहसा बृहद्वै शङ्करेच्छया ॥ १॥
अनन्तयष्टिकायुक्तं कर्णिकारसमप्रभम् ।
अनन्तयोजनायाममनन्तोच्छ्रायसंयुतम् ॥ २॥
कोटिसूर्यप्रतीकाशं सुन्दरं तत्त्वसंयुतम् ।
अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम् ॥ ३॥
कृत्वा यत्नं पूर्ववत्स शङ्करः परमेश्वरः ।
दक्षिणाङ्गान्निजान्मां वै साम्बः शम्भुरजीजनत् ॥ ४॥
स मायामोहितं कृत्वा मां महेशो द्रुतं मुने ।
तन्नाभिपङ्कजादाविर्भावयामास लीलया ॥ ५॥
एवं पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः ।
चतुर्मुखो रक्तवर्णस्त्रिपुण्ड्राङ्कितमस्तकः ॥ ६॥
तन्मायामोहितश्चाहं नाविदं कमलं विना ।
स्वदेहजनकं तात पितरं ज्ञानदुर्बलः ॥ ७॥
कोऽहं वा कुत आयातः किं कार्यं तु मदीयकम् ।
कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना ॥ ८॥
इति संशयमापन्नं बुद्धिर्मां समपद्यत ।
किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु ॥ ९॥
एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः ।
मत्कर्ता च स वै तत्र भविष्यति न संशयः ॥ १०॥
इति बुद्धिं समास्थाय कमलादवरोहयम् ।
नाले नाले गतस्तत्र वर्षाणां शतकं मुने ॥ ११॥
न लब्धं तु मया तत्र कमलस्थानमुत्तमम् ।
संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः ॥ १२॥
आरुरोहाथ कमलं नालमार्गेण वै मुने ।
कुड्मलं कमलस्याथ लब्धवान्न विमोहितः ॥ १३॥
नालमार्गेण भ्रमतो गतं वर्षशतं पुनः ।
क्षणमात्रं तदा तत्र ततस्तिष्ठन्विमोहितः ॥ १४॥
तदा वाणी समुत्पन्ना तपेति परमा शुभा ।
शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने ॥ १५॥
तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः ।
पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा ॥ १६॥
तदा हि भगवान्विष्णुश्चतुर्बाहुः सुलोचनः ।
मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह ॥ १७॥
शङ्खचक्रायुधकरो गदापद्मधरः परः ।
घनश्यामलसर्वाङ्गः पीताम्बरधरः परः ॥ १८॥
मुकुटादिमहाभूषः प्रसन्नमुखपङ्कजः ।
कोटिकन्दर्पसङ्काशःसन्दृष्टो मोहितेन सः ॥ १९॥
तद् दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः ।
कालाभं काञ्चनाभं च सर्वात्मानं चतुर्भुजम् ॥ २०॥
तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना ।
नारायणं महाबाहुं हर्षितो ह्यभवं तदा ॥ २१॥
मायया मोहितः शम्भोस्तदा लीलात्मनः प्रभोः ।
अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः ॥ २२॥
ब्रह्मोवाच ।
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ।
तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु ॥ २३॥
प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी ।
ददर्श निद्राविक्लिन्न नीरजामललोचनः ॥ २४॥
मामत्र संस्थितं भासाध्यासितो भगवान्हरिः ।
आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत् ॥ २५॥
विष्णुरुवाच ।
स्वागतं स्वागतं वत्स पितामह महाद्युते ।
निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः ॥ २६॥
तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः ।
रजसा बद्धवैरश्च तमवोचं जनार्दनम् ॥ २७॥
ब्रह्मोवाच ।
भाषसे वत्स वत्सेति सर्वसंहारकारणम् ।
मामिहाति स्मितं कृत्वा गुरुः शिष्यमिवानघ ॥ २८॥
कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् ।
सनातनमजं विष्णुं विरिञ्चिं विष्णुसम्भवम् ॥ २९॥
विश्वात्मानं विधातारं धातारं पङ्कजेक्षणम् ।
किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम् ॥ ३०॥
वेदो मां वक्ति नियमात्स्वयम्भुवमजं विभुम् ।
पितामहं स्वराजं च परमेष्ठिनमुत्तमम् ॥ ३१॥
इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धो रमापतिः ।
सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः ॥ ३२॥
विष्णुरुवाच ।
कर्तुं धर्तुं भवानङ्गादवतीर्णो ममाव्ययात् ।
विस्मृतोऽसि जगन्नाथं नारायणमनामयम् ॥ ३३॥
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ।
विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम् ॥ ३४॥
नारायणं महाबाहुं सर्वव्यापकमीश्वरम् ।
मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः ॥ ३५॥
तवापराधो नास्त्यत्र त्वयि मायाकृतं मम ।
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ ३६॥
कर्ता हर्ता च भर्ता च न मयास्ति समो विभुः ।
अहमेव परं ब्रह्म परं तत्त्वं पितामह ॥ ३७॥
अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ।
अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिञ्चराचरम् ॥ ३८॥
तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ।
मया सृष्टं पुराव्यक्तं चतुर्विंशतितत्त्वकम् ॥ ३९॥
नित्यं तेष्वणवो बद्धाः सृष्टाः क्रोधभयादयः ।
प्रभावाच्च भवानङ्गान्यनेकानीह लीलया ॥ ४०॥
सृष्टा बुद्धिर्मया तस्यामहङ्कारस्त्रिधा ततः ।
तन्मात्रं पञ्चकं तस्मान्मनो देहेन्द्रियाणि च ॥ ४१॥
आकाशादीनि भूतानि भौतिकानि च लीलया ।
इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे ॥ ४२॥
अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः ।
ब्रह्मोवाच ।
इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः ।
को वा त्वमिति सम्भर्त्स्याब्रुवं मायाविमोहितः ॥ ४३॥
किमर्थं भाषसे भूरि बह्वनर्थकरं वचः ।
नेश्वरस्त्वं परं ब्रह्म कश्चित्कर्ता भवेत्तव ॥ ४४॥
मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम् ।
हरिणा तेन वै सार्धं शङ्करस्य महाप्रभोः ॥ ४५॥
एवं मम हरेश्चासीत्सङ्गरो रोमहर्षणः ।
प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ॥ ४६॥
एतस्मिन्नन्तरे लिङ्गमभवच्चावयोः पुरः ।
विवादशमनार्थं हि प्रबोधार्थं तथावयोः ॥ ४७॥
ज्वालामालासहस्राढ्यं कालानलशतोपमम् ।
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ ४८॥
अनौपम्यमनिर्देश्यमव्यक्तं विश्वसम्भवम् ।
तस्य ज्वालासहस्रेण मोहितो भगवान्हरिः ॥ ४९॥
मोहितं चाह मामत्र किमर्थं स्पर्धसेऽधुना ।
आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः ॥ ५०॥
कुत एवात्र सम्भूतः परीक्षावोऽग्निसम्भवम् ।
अधो गमिष्याम्यनलस्तम्भस्यानुपमस्य च ॥ ५१॥
परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः ।
भवानूर्ध्वं प्रयत्नेन गन्तुमर्हति सत्वरम् ॥ ५२॥
ब्रह्मोवाच ।
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ।
वाराहमहमप्याशु हंसत्वं प्राप्तवान्मुने ॥ ५३॥
तदाप्रभृति मामाहुर्हंसहंसो विराडिति ।
हंस हंसेति यो ब्रूयात्स हंसोऽथ भविष्यति ॥ ५४॥
सुश्वेतो ह्यनलप्रख्यो विश्वतः पक्षसंयुतः ।
मनोऽनिलजवो भूत्वा गतोर्ध्वं चोर्ध्वतः पुरा ॥ ५५॥
नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा ।
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ५६॥
मेरुपर्वतवर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम् ।
कालादित्यसमाभासं दीर्घघोणं महास्वनम् ॥ ५७॥
ह्रस्वपादं विचित्राङ्गं जैत्रं दृढमनौपमम् ।
वाराहाकारमास्थाय गतवांस्तदधौ जवात् ॥ ५८॥
एवं वर्षसहस्रं च चरन्विष्णुरधो गतः ।
तदाप्रभृति लोकेषु श्वेतवाराहसंज्ञकः ॥ ५९॥
कल्पो बभूव देवर्षे नराणां कालसंज्ञकः ।
बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः ॥ ६०॥
नापश्यदल्पमप्यस्य मूलं लिङ्गस्य सूकरः ।
तावत्कालं गतश्चोर्ध्वमहमप्यरिसूदन ॥ ६१॥
सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ।
श्रान्तो न दृष्ट्वा तस्यान्तमहं कालादधोगतः ॥ ६२॥
तथैव भगवान्विष्णुः श्रान्तः कमललोचनः ।
सर्वदेवनिभस्तूर्णमुत्थितः स महावपुः ॥ ६३॥
समागतो मया सार्धं प्रणिपत्य भवं मुहुः ।
मायया मोहितः शम्भोस्तस्थौ संविग्नमानसः ॥ ६४॥
पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम् ।
प्रणिपत्य मया सार्धं सस्मार किमिदं त्विति ॥ ६५॥
अनिर्देश्यं च तद्रूपमनाम कर्मवर्जितम् ।
अलिङ्गं लिङ्गतां प्राप्तं ध्यानमार्गेऽप्यगोचरम् ॥ ६६॥
स्वस्थं चित्तं तदा कृत्वा नमस्कारपरायणौ ।
बभूवतुरुभावावामहं हरिरपि ध्रुवम् ॥ ६७॥
जानीवो न हि ते रूपं योऽसि सोऽसि महाप्रभो ।
नमोऽस्तु ते महेशान रूपं दर्शय नौ त्वरम् ॥ ६८॥
एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः ।
आवयोर्मुनिशार्दूल मदमास्थितयोस्तदा ॥ ६९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं नाम सप्तमोऽध्यायः ॥ २.१.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.८. अष्टमोऽध्यायः । शब्दब्रह्मतनुवर्णनम् ।
ब्रह्मोवाच ।
एवं तयोर्मुनिश्रेष्ठ दर्शनं काङ्क्षमाणयोः ।
विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने ॥ १॥
दयालुरभवच्छम्भुर्दीनानां प्रतिपालकः ।
गर्विणां गर्वहर्ता च सर्वेषां प्रभुरव्ययः ॥ २॥
तदा समभवत्तत्र नादो वै शब्दलक्षणः ।
ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः ॥ ३॥
किमिदं त्विति सञ्चिन्त्य मया तिष्ठन्महास्वनः ।
विष्णुः सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा ॥ ४॥
लिङ्गस्य दक्षिणे भागे तथापश्यत्सनातनम् ।
आद्यं वर्णमकाराख्यमुकारं चोत्तरे ततः ॥ ५॥
मकारं मध्यतश्चैव नादमन्तेऽस्य चोमिति ।
सूर्यमण्डलवद् दृष्ट्वा वर्णमाद्यं तु दक्षिणे ॥ ६॥
उत्तरे पावकप्रख्यमुकारमृषिसत्तम ।
शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः ॥ ७॥
तस्योपरि तदापश्यच्छुद्धस्फटिकसुप्रभम् ।
तुरीयातीतममलं निष्कलं निरुपद्रवम् ॥ ८॥
निर्द्वन्द्वं केवलं शून्यं बाह्याभ्यन्तरवर्जितम् ।
सबाह्याभ्यन्तरे चैव बाह्याभ्यन्तरसंस्थितम् ॥ ९॥
आदिमध्यान्तरहितमानन्दस्यादिकारणम् ।
सत्यमानन्दममृतं परं ब्रह्मपरायणम् ॥ १०॥
कुत एवात्र सम्भूतः परीक्षावोऽग्निसम्भवम् ।
अधो गमिष्याम्यनलस्तम्भस्यानुपमस्य च ॥ ११॥
वेदशब्दोभयावेशं विश्वात्मानं व्यचिन्तयत् ।
तदाभवदृषिस्तत्र ऋषेः सारतमः स्मृतः ॥ १२॥
तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ।
महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम् ॥ १३॥
चिन्तया रहितो रुद्रो वाचो यन्मनसा सह ।
अप्राप्य तन्निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः ॥ १४॥
एकाक्षरेण तद्वाक्यमृतं परमकारणम् ।
सत्यमानन्दममृतं परं ब्रह्म परात्परम् ॥ १५॥
एकाक्षरादकाराख्याद्भगवान्बीजकोऽण्डजः ।
एकाक्षरादुकाराख्याद्धरिः परमकारणम् ॥ १६॥
एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः ।
सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ॥ १७॥
मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत् ।
मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते ॥ १८॥
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ।
बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ॥ १९॥
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ।
अस्य लिङ्गादभूद् बीजमकारो बीजिनः प्रभोः ॥ २०॥
उकारयोनौ निःक्षिप्तमवर्धत समन्ततः ।
सौवर्णमभवच्चाण्डमावेद्यं तदलक्षणम् ॥ २१॥
अनेकाब्दं तथा चाप्सु दिव्यमण्डं व्यवस्थितम् ।
ततो वर्षसहस्रान्ते द्विधा कृतमजोद्भवम् ॥ २२॥
अण्डमप्सु स्थितं साक्षाद् व्याघातेनेश्वरेण तु ।
तथास्य सुशुभं हैमं कपालं चोर्ध्वसंस्थितम् ॥ २३॥
जज्ञे सा द्यौस्तदपरं पृथिवी पञ्चलक्षणा ।
तस्मादण्डाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः ॥ २४॥
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ।
एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ॥ २५॥
यजुषां वचनं श्रुत्वा ऋचः सामानि सादरम् ।
एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा ॥ २६॥
ततो विज्ञाय देवेशं यथावच्छक्तिसम्भवैः ।
मन्त्रैर्महेश्वरं देवं तुष्टाव सुमहोदयम् ॥ २७॥
एतस्मिन्नन्तरेऽन्यच्च रूपमद्भुतसुन्दरम् ।
ददर्श च मया सार्धं भगवान्विश्वपालकः ॥ २८॥
पञ्चवक्त्रं दशभुजं गौरकर्पूरवन्मुने ।
नानाकान्तिसमायुक्तं नानाभूषणभूषितम् ॥ २९॥
महोदारं महावीर्यं महापुरुषलक्षणम् ।
तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः ॥ ३०॥
अथ प्रसन्नो भगवान्महेशः परमेश्वरः ।
दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः ॥ ३१॥
अकारस्तस्य मूर्धा हि ललाटो दीर्घ उच्यते ।
इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ॥ ३२॥
उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते ।
ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ॥ ३३॥
वामं कपोलमॄकारो लृ लॄ नासापुटे उभे ।
एकारश्चोष्ठ ऊर्ध्वश्च ह्यैकारस्त्वधरो विभोः ॥ ३४॥
ओकारश्च तथौकारो दन्तपङ्क्तिद्वयं क्रमात् ।
अमस्तु तालुनी तस्य देवदेवस्य शूलिनः ॥ ३५॥
कादिपञ्चाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे ।
चादिपञ्चाक्षराण्येवं पञ्च हस्तास्तु वामतः ॥ ३६॥
टादिपञ्चाक्षरं पादास्तादि पञ्चाक्षरं तथा ।
पकार उदरं तस्य फकारः पार्श्व उच्यते ॥ ३७॥
बकारो वामपार्श्वस्तु भकारः स्कन्ध उच्यते ।
मकारो हृदयं शम्भोर्महादेवस्य योगिनः ॥ ३८॥
यकारादिसकारान्ता विभोर्वै सप्तधातवः ।
हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते ॥ ३९॥
एवं शब्दमयं रूपमगुणस्य गुणात्मनः ।
दृष्ट्वा तमुमया सार्धं कृतार्थोऽभून्मया हरिः ॥ ४०॥
एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् ।
प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्ध्वतः ॥ ४१॥
ओङ्कारप्रभवं मन्त्रं कलापञ्चकसंयुतम् ।
शुद्धस्फटिकसङ्काशं शुभाष्टत्रिंशदक्षरम् ॥ ४२॥
मेधाकारमभूद्भूयः सर्वधर्मार्थसाधकम् ।
गायत्रीप्रभवं मन्त्रं सहितं वश्यकारकम् ॥ ४३॥
चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् ।
अथ पञ्चसितं मन्त्रं कलाष्टकसमायुतम् ॥ ४४॥
आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् ।
यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम् ॥ ४५॥
कलाष्टकसमायुक्तं सुश्वेतं शान्तिकं तथा ।
त्रयोदशकलायुक्तं बालाद्यैः सह लेहितम् ॥ ४६॥
बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् ।
वर्णा एकाधिकाः षष्टिरस्य मन्त्रवरस्य तु ॥ ४७॥
पुनर्मृत्युञ्जयं मन्त्रं पञ्चाक्षरमतः परम् ।
चिन्तामणिं तथा मन्त्रं दक्षिणामूर्तिसंज्ञकम् ॥ ४८॥
ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ।
पञ्चमन्त्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ॥ ४९॥
अथ दृष्ट्वा कलावर्णमृग्यजुःसामरूपिणम् ।
ईशानमीशमुकुटं पुरुषाख्यं पुरातनम् ॥ ५०॥
अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् ।
वामपादं महादेवं महाभोगीन्द्रभूषणम् ॥ ५१॥
विश्वतः पादवन्तं तं विश्वतोऽक्षिकरं शिवम् ।
ब्रह्मणोऽधिपतिं सर्गस्थितिसंहारकारणम् ॥ ५२॥
तुष्टाव वाग्भिरिष्टाभिः साम्बं वरदमीश्वरम् ।
मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा ॥ ५३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनं नामाष्टमोऽध्यायः ॥ २.१.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.९. नवमोऽध्यायः । शिवतत्त्ववर्णनम् ।
ब्रह्मोवाच ।
अथाकर्ण्य नुतिं विष्णुकृतां स्वस्य महेश्वरः ।
प्रादुर्बभूव सुप्रीतः सवामः करुणानिधिः ॥ १॥
पञ्चवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः ।
गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः ॥ २॥
दशबाहुर्नीलगलः सर्वाभरणभूषितः ।
सर्वाङ्गसुन्दरो भस्मत्रिपुण्ड्राङ्कितमस्तकः ॥ ३॥
तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरम् ।
तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह ॥ ४॥
निगमं श्वासरूपेण ददौ तस्मै ततो हरः ।
विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ॥ ५॥
ततो ज्ञानमदात्तस्मै रहस्यं परमात्मने ।
परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने ॥ ६॥
सम्प्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम् ।
कृतार्थः साञ्जलिर्नत्वा मया सह महेश्वरम् ॥ ७॥
विष्णुरुवाच ।
कथं च तुष्यसे देव मया पूज्यः कथं प्रभो ।
कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम् । ८॥
किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् ।
सदा सदाज्ञापय नौ प्रीत्यर्थं कुरु शङ्कर ॥ ९॥
एतत्सर्वं महाराज कृपां कृत्वावयोः प्रभो ।
कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ॥ १०॥
ब्रह्मोवाच ।
इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः ।
उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः ॥ ११॥
श्रीशिव उवाच ।
भक्त्या च भवतोर्नूनं प्रीतोऽहं सुरसत्तमौ ।
पश्यन्तं मां महादेवं भयं सर्वं विमुञ्चताम् ॥ १२॥
मम लिङ्गं सदा पूज्यं ध्येयं चैतादृशं मम ।
इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः ॥ १३॥
पूजितो लिङ्गरूपेण प्रसन्नो विविधं फलम् ।
दास्यामि सर्वलोकेभ्यो मनोऽभीष्टान्यनेकशः ॥ १४॥
यदा दुःखं भवेत्तत्र युवयोः सुरसत्तमौ ।
पूजिते मम लिङ्गे च तदा स्याद् दुःखनाशनम् ॥ १५॥
युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ ।
सव्यापसव्यागात्राभ्यां मम सर्वेश्वरस्य हि ॥ १६॥
अयं मे दक्षिणात्पार्श्वाद् ब्रह्मा लोकपितामहः ।
वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः ॥ १७॥
प्रीतोऽहं युवयोः सम्यग्वरं दद्यां यथेप्सितम् ।
मयि भक्तिर्दृढा भूयाद्युवयोरभ्यनुज्ञया ॥ १८॥
पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम् ।
सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथः ॥ १९॥
ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः ।
वत्स वत्स हरे त्वं च पालयैवं चराचरम् ॥ २०॥
ब्रह्मोवाच ।
इत्युक्त्वा नौ प्रभुस्ताभ्यां पूजाविधिमदाच्छुभाम् ।
येनैव पूजितः शम्भुः फलं यच्छत्यनेकशः ॥ २१॥
इत्याकर्ण्य वचः शम्भोर्मया च सहितो हरिः ।
प्रत्युवाच महेशानं प्रणिपत्य कृताञ्जलिः ॥ २२॥
विष्णुरुवाच ।
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ।
भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ॥ २३॥
त्वमप्यवतरस्वाद्य लीलया निर्गुणोऽपि हि ।
सहायं कुरु नौ तात त्वं परः परमेश्वरः ॥ २४॥
आवयोर्देवदेवेश विवादमपि शोभनम् ।
इहागतो भवान्यस्माद्विवादशमनाय नौ ॥ २५॥
ब्रह्मोवाच ।
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् ।
प्रणिपत्य स्थितं मूर्ध्ना कृताञ्जलिपुटः स्वयम् ॥ २६॥
श्रीमहेश उवाच ।
प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः ।
परब्रह्म निर्विकारी सच्चिदानन्दलक्षणः ॥ २७॥
त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया ।
सर्गरक्षालयगुणैर्निष्कलोऽहं सदा हरे ॥ २८॥
स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे ।
प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः ॥ २९॥
मद्रूपं परमं ब्रह्मन्नीदृशं भवदङ्गतः ।
प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ ३०॥
मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति ।
योऽहं सोऽहं न भेदोऽस्ति पूजाविधिविधानतः ॥ ३१॥
यथा च ज्योतिषः सङ्गाज्जलादेः स्पर्शता न वै ।
तथा ममागुणस्यापि संयोगाद् बन्धनं न हि ॥ ३२॥
शिवरूपं ममैतच्च रुद्रोऽपि शिववत्तदा ।
न तत्र परभेदो वै कर्तव्यश्च महामुने ॥ ३३॥
वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत ।
अतो भेदो न विज्ञेयः शिवे रुद्रे कदाचन ॥ ३४॥
सुवर्णस्य यथैकस्य वस्तुत्वं नैव गच्छति ।
अलङ्कृतिकृते देव नामभेदो न वस्तुतः ॥ ३५॥
यथैकस्या मृदो भेदो नानापात्रे न वस्तुतः ।
कारणस्यैव कार्ये न सन्निधानं निदर्शनम् ॥ ३६॥
ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ ।
एवं ज्ञात्वा भवद्भ्यां तु न दृश्यं भेदकारणम् ॥ ३७॥
वस्तुवत् सर्वदृश्यं च शिवरूपं मतं मम ।
अहं भवानजश्चैव रुद्रो योऽयं भविष्यति ॥ ३८॥
एकरूपा न भेदस्तु भेदे वै बन्धनं भवेत् ।
तथापि च मदीयं हि शिवरूपं सनातनम् ॥ ३९॥
मूलीभूतं सदोक्तं च सत्यज्ञानमनन्तकम् ।
एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः ॥ ४०॥
श्रूयतां चैव भो ब्रह्मन् यद्गोप्यं कथ्यते मया ।
भवन्तौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः ॥ ४१॥
मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम् ।
गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः ॥ ४२॥
वैकारिकश्च विज्ञेयो योऽहङ्कार उदाहृतः ।
नामतो वस्तुतो नैव तामसः परिचक्ष्यते ॥ ४३॥
एतस्मात्कारणाद् बह्मन्करणीयमिदं त्वया ।
सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः ॥ ४४॥
मदीयश्च तथांशो यो लयकर्ता भविष्यति ।
इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी ॥ ४५॥
तस्यास्तु शक्तिर्वाग्देवी ब्रह्माणं सा भजिष्यति ।
अन्या शक्तिः पुनस्तत्र प्रकृतेः सम्भविष्यति ॥ ४६॥
समाश्रयिष्यते विष्णुं लक्ष्मीरूपेण सा तदा ।
पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम् ॥ ४७॥
ज्योतीरूपेण सा तत्र कार्यार्थे सम्भविष्यति ।
एवं देव्यास्तथा प्रोक्ताः शक्तयः परमाः शुभाः ॥ ४८॥
सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद ध्रुवम् ।
एतस्याः प्रकृतेरंशा मत्प्रियायाः सुरोत्तम ॥ ४९॥
त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि ।
ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च ॥ ५०॥
सृष्टिकार्यं हृदा कर्तुं मन्निर्देशादिहार्हसि ।
अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम् ॥ ५१॥
रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम् ।
चतुर्वर्णमयं लोकं तत्सर्वैराश्रमैर्ध्रुवम् ॥ ५२॥
तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः ।
ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः ॥ ५३॥
मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया ।
मद्दर्शने फलं यद्वत्तदेव तव दर्शने ॥ ५४॥
इति दत्तो वरस्तेऽद्य सत्यं सत्यं न संशयः ।
ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् ॥ ५५॥
उभयोरन्तरं यो वै न जानाति मनो मम ।
वामाङ्गजो मम हरिर्दक्षिणाङ्गोद्भवो विधिः ॥ ५६॥
महाप्रलयकृद रुद्रो विश्वात्मा हृदयोद्भवः ।
त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ॥ ५७॥
सर्गरक्षालयकरस्त्रिगुणै रज आदिभिः ।
गुणभिन्नः शिवः साक्षात्प्रकृते पुरुषात्परः ॥ ५८॥
परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरञ्जनः ।
अन्तस्तमो बहिःसत्त्वस्त्रिजगत्पालको हरिः ॥ ५९॥
अन्तःसत्त्वस्तमोबाह्यस्त्रिजगल्लयकृद्धरः ॥ ६०॥
अन्तर्बहिरजश्चैव त्रिजगत्सृष्टिकृद्विधिः ।
एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः ॥ ६१॥
विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम् ।
सम्पूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया ॥ ६२॥
तव सेव्यो विधेश्चापि रुद्र एव भविष्यति ।
शिवपूर्णावतारो हि त्रिजगल्लयकारकः ॥ ६३॥
पाद्मे भविष्यति सुतः कल्पे तव पितामहः ।
तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः ॥ ६४॥
एवमुक्त्वा महेशानः कृपां कृत्वातुलां हरः ।
पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः ॥ ६५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनं नाम नवमोऽध्यायः ॥ २.१.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.१०. दशमोऽध्यायः । परमशिवतत्त्ववर्णनम् ।
परमेश्वर उवाच ।
अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत ।
सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि ॥ १॥
ब्रह्मणा निर्मिते लोके यदा दुःखं प्रजायते ।
तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ॥ २॥
सहायं ते करिष्यामि सर्वकार्ये च दुःसहे ।
तव शत्रून्हनिष्यामि दुःसाध्यान्परमोत्कटान् ॥ ३॥
विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ।
विस्तारय हरे लोके तारणाय परो भव ॥ ४॥
गुणरूपो ह्यहं रुद्रो ह्यनेन वपुषा सदा ।
कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ॥ ५॥
रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ।
युवयोरन्तरं नैव तव रुद्रस्य किञ्चन ॥ ६॥
वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ।
लीलयापि महाविष्णो सत्यं सत्यं न संशयः ॥ ७॥
रुद्रभक्तो नरो यस्तु तव निन्दां करिष्यति ।
तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ॥ ८॥
नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ।
मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ॥ ९॥
लोकेऽस्मिन्मुक्तिदो नृणां भुक्तिदश्च विशेषतः ।
ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ॥ १०॥
इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ।
कथयामास दुःखेषु सहायो भव सर्वदा ॥ ११॥
सर्वाध्यक्षश्च सर्वेषु भक्तिमुक्तिप्रदायकः ।
भव त्वं सर्वदा श्रेष्ठः सर्वकामप्रसाधकः ॥ १२॥
सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ।
सङ्कटे भजनीयो हि स रुद्रो मत्तनुर्हरे ॥ १३॥
त्वां यः समाश्रितो नूनं मामेव स समाश्रितः ।
अन्तरं यश्च जानाति निरये पतति ध्रुवम् ॥ १४॥
आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः ।
सन्देहोऽत्र न कर्तव्यो ब्रह्मविष्णुहरात्मनाम् ॥ १५॥
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।
रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ॥ १६॥
तेषां त्रिंशद्दिनैर्मासो द्वादशैस्तैश्च वत्सरः ।
शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम् ॥ १७॥
ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ।
सोऽपि वर्षशतं यावदात्ममानेन जीवति ॥ १८॥
वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद् ध्रुवम् ।
हरो वर्षशते याते नररूपेण संस्थितः ॥ १९॥
यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ।
पश्चाच्छक्तिं समभ्येति यावन्निःश्वसितं भवेत् ॥ २०॥
निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ।
ब्रह्मविष्णुहराणां च गन्धर्वोरगरक्षसाम् ॥ २१॥
एकविंशसहस्राणि शतैः षड्भिः शतानि च ।
अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ॥ २२॥
षड्भिरुच्छ्वासनिःश्वासैः पलमेकं प्रवर्तितम् ।
घटी षष्टिपला प्रोक्ता सा षष्ट्या च दिनं निशा ॥ २३॥
निःश्वासोच्छ्वासितानां च परिसङ्ख्या न विद्यते ।
सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ॥ २४॥
इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ।
तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ॥ २५॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचः शम्भोर्मया च भगवान्हरिः ।
प्रणिपत्य च विश्वेशं प्राह मन्दतरं वशी ॥ २६॥
विष्णुरुवाच ।
शङ्कर श्रूयतामेतत्कृपासिन्धो जगत्पते ।
सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः ॥ २७॥
मम ध्येयः सदा त्वं च भविष्यसि न चान्यथा ।
भवतः सर्वसामर्थ्यं लब्धं चैव पुरा मया ॥ २८॥
क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम ।
चेतसो दूरतो नैव सङ्गच्छतु कदाचन ॥ २९॥
मम भक्तश्च यः स्वामिँस्तव निन्दां करिष्यति ।
तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम् ॥ ३०॥
त्वद्भक्तो यो भवेत् स्वामिन्मम प्रियतरो हि सः ।
एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा ॥ ३१॥
महिमा च मदीयोऽद्य वर्धितो भवता ध्रुवम् ।
कदाचिदगुणश्चैव जायते क्षम्यतामिति ॥ ३२॥
ब्रह्मोवाच ।
तदा शम्भुस्तदीयं हि श्रुत्वा वचनमुत्तमम् ।
उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया ॥ ३३॥
एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः ।
पस्पर्श सकलाङ्गेषु कृपया तु कृपानिधिः ॥ ३४॥
आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः ।
ददौ वराननेकांश्चावयोर्हितचिकीर्षया ॥ ३५॥
ततः स भगवान् शम्भुः कृपया भक्तवत्सलः ।
दृष्ट्या सम्पश्यतोः शीघ्रं तत्रैवान्तरधीयत ॥ ३६॥
तदाप्रभृति लोकेऽस्मिँल्लिङ्गपूजाविधिः स्मृतः ।
लिङ्गे प्रतिष्ठितः शम्भुर्भुक्तिमुक्तिप्रदायकः ॥ ३७॥
लिङ्गवेदिर्महादेवी लिङ्गं साक्षान्महेश्वरः ।
लयनाल्लिङ्गमित्युक्तं तत्रैव निखिलं जगत् ॥ ३८॥
यस्तु लैङ्गं पठेन्नित्यमाख्यानं लिङ्गसन्निधौ ।
षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा ॥ ३९॥
यस्तु लिङ्गसमीपे तु कार्यं किञ्चित्करोति च ।
तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने ॥ ४०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ॥ २.१.१०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.११. एकादशोऽध्यायः । शिवपूजाविधिवर्णनम् ।
ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते ।
श्राविताद्याद्भुता शैवी कथा परमपावनी ॥ १॥
तत्राद्भुता महादिव्या लिङ्गोत्पत्तिः श्रुता शुभा ।
श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २॥
ब्रह्मनारदसंवादमनुसृत्य दयानिधे ।
शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ॥ ३॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः ।
कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम् ॥ ४॥
तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसम्मतम् ।
उवाच सकलं प्रीत्या मुनिप्रश्नानुसारतः ॥ ५॥
सूत उवाच ।
साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः ।
तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ॥ ६॥
भवद्भिः पृच्छ्यते यद्वत्तथा व्यासेन वै पुरा ।
पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ॥ ७॥
ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् ।
मह्यं च पाठितं तेन लोकानां हितकाम्यया ॥ ८॥
तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः ।
तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा ॥ ९॥
ब्रह्मोवाच ।
शृणु नारद वक्ष्यामि सङ्क्षेपाल्लिङ्गपूजनम् ।
वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ॥ १०॥
एवं तु शाङ्करं रूपं सुखं स्वच्छं सनातनम् ।
पूजयेत्परया भक्त्या सर्वकामफलाप्तये ॥ ११॥
दारिद्र्यं रोगदुःखं च पीडनं शत्रुसम्भवम् ।
पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ॥ १२॥
सम्पूजिते शिवे देवे सर्वदुःखं विलीयते ।
सम्पद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ॥ १३॥
यो वै मानुष्यमाश्रित्य मुख्यं सन्तानतः सुखम् ।
तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ॥ १४॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च विधिवत्क्रमात् ।
शङ्करार्चां प्रकुर्वन्तु सर्वकामार्थसिद्धये ॥ १५॥
प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसंज्ञके ।
गुरोश्च स्मरणं कृत्वा शम्भोश्चैव तथा पुनः ॥ १६॥
तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि ।
ममापि निर्जराणां वै मुन्यादीनां तथा मुने ॥ १७॥
ततः स्तोत्रं शम्भुनाम गृह्णीयाद्विधिपूर्वकम् ।
ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ॥ १८॥
एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्य यच्छ्रुतम् ।
तदेव कथयाम्यद्य शृण्वाधाय मनो मुने ॥ १९॥
शुद्धां मृदं द्विजो लिप्यात्पञ्चवारं विशुद्धये ।
क्षत्रियश्च चतुर्वारं वैश्यो वारत्रयं तथा ॥ २०॥
शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये ।
गुदे वाथ सकृल्लिङ्गे वारमेकं प्रयत्नतः ॥ २१॥
दशवारं वामहस्ते सप्तवारं द्वयोस्तथा ।
प्रत्येकं पादयोस्तात त्रिवारं करयोः पुनः ॥ २२॥
स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम् ।
हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ॥ २३॥
दन्तकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ॥ २४॥
विप्रः कुर्याद्दन्तकाष्ठं द्वादशाङ्गुलमानतः ।
एकादशाङ्गुलं राजा वैश्यः कुर्याद्दशाङ्गुलम् ॥ २५॥
शूद्रो नवाङ्गुलं कुर्यादिति मानमिदं स्मृतम् ।
कालदोषं विचार्येव मानदुष्टं विवर्जयेत् ॥ २६॥
षष्ट्याद्यामश्च नवमी व्रतमस्तं रवेर्दिनम् ।
तथा श्राद्धदिनं तात निषिद्धं रदधावने ॥ २७॥
स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु ।
देशकालविशेषेण स्नानं कार्यं समन्त्रकम् ॥ २८॥
आचम्य प्रथमं तत्र धौतवस्त्राणि धारयेत् ।
एकान्ते सुस्थले स्थित्वा सन्ध्याविधिमथाचरेत् ॥ २९॥
यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् ।
मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ॥ ३०॥
पूजाविधिं समादाय स्वासने ह्युपविश्य वै ।
न्यासादिकं विधायादौ पूजयेत् क्रमशो हरम् ॥ ३१॥
प्रथमं च गणाधीशं द्वारपालांस्तथैव च ।
दिक्पालांश्च सुसम्पूज्य पश्चात्पीठं प्रकल्पयेत् ॥ ३२॥
अथवाष्टदलं कृत्वा पूजाद्रव्यं समीपतः ।
उपविश्य ततस्तत्र उपवेश्य शिवं प्रभुम् ॥ ३३॥
आचमनत्रयं कृत्वा प्रक्षाल्य च पुनः करौ ।
प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ॥ ३४॥
पञ्चवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् ।
सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ॥ ३५॥
तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरः सदा ।
शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ॥ ३६॥
देहशुद्धिं ततः कृत्वा मूलमन्त्रं न्यसेत्क्रमात् ।
सर्वत्र प्रणवेनैव षडङ्गन्यासमाचरेत् ॥ ३७॥
कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् ।
पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत् ॥ ३८॥
स्थापयेद्विविधान्कुम्भान्नव धीमान्यथाविधि ।
दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ॥ ३९॥
तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम् ।
प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ॥ ४०॥
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।
जातीकङ्कोलकर्पूरवटमूलतमालकम् ॥ ४१॥
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ।
एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ॥ ४२॥
पार्श्वयोर्देवदेवस्य नन्दीशं तु समर्चयेत् ।
गन्धैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम् ॥ ४३॥
लिङ्गशुद्धिं ततः कृत्वा मुदा युक्तो नरस्तदा ।
यथोचितं तु मन्त्रौघैः प्रणवादिर्नमोऽन्तकैः ॥ ४४॥
कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु ।
तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ॥ ४५॥
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ।
प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च ॥ ४६॥
ईशित्वं नैरृतं पत्रं वशित्वं वायुगोचरे ।
सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ॥ ४७॥
सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम् ।
धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ॥ ४८॥
अव्यक्तादि चतुर्दिक्षु सोमस्यान्ते गुणत्रयम् ।
सद्योजातं प्रपद्यामीत्यावाह्य परमेश्वरम् ॥ ४९॥
वामदेवेन मन्त्रेण तिष्ठेच्चैवासनोपरि ।
सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ॥ ५०॥
ईशानः सर्वविद्यानामिति मन्त्रेण पूजयेत् ।
पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत् ॥ ५१॥
स्थापयेद्विधिना रुद्रं गन्धचन्दनवारिणा ।
पञ्चगव्यविधानेन गृह्यपात्रेऽभिमन्त्र्य च ॥॥ ५२॥
प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् ।
दध्ना च मधुना चैव तथा चेक्षुरसेन तु ॥ ५३॥
घृतेन तु तथा पूज्यं सर्वकामहितावहम् ।
पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत् ॥ ५४॥
पवित्रजलभाण्डेषु मन्त्रैः तोयं क्षिपेत्ततः ।
शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ॥ ५५॥
तावद् दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् ।
तन्दुलैः सुन्दरैस्तत्र पूजयेच्छङ्करं मुदा ॥ ५६॥
कुशापामार्गकर्पूरजातिचम्पकपाटलैः ।
करवीरैः सितैश्चैव मल्लिकाकमलोत्पलैः ॥ ५७॥
अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च ।
जलेन जलधारां च कल्पयेत्परमेश्वरे ॥ ५८॥
पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् ।
मन्त्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ॥ ५९॥
मन्त्रांश्च तुभ्यं तांस्तात सर्वकामार्थसिद्धये ।
प्रवक्ष्यामि समासेन सावधानतया शृणु ॥ ६०॥
पवमानेन मन्त्रेण तथा वाङ्मयकेन च ।
रुद्रेण नीलरुद्रेण सुशुक्लेन शुभेन च ॥ ६१॥
होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च ।
शान्त्या वाथ पुनः शान्त्या भारुण्डेनारुणेन च ॥ ६२॥
अर्थाभीष्टेन साम्ना च तथा देवव्रतेन च ॥ ६३॥
रथन्तरेण पुष्पेण सूक्तेन पुरुषेण च ।
मृत्युञ्जयेन मन्त्रेण तथा पञ्चाक्षरेण च ॥ ६४॥
जलधाराः सहस्रेण शतेनैकोत्तरेण वा ।
कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ॥ ६५॥
ततश्चन्दनपुष्पादि रोपणीयं शिवोपरि ।
दापयेत्प्रणवेनैव मुखवासादिकं तथा ॥ ६६॥
ततः स्फटिकसङ्काशं देवं निष्कलमक्षयम् ।
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ६७॥
ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् ।
वेदविद्भिर्हि वेदान्ते त्वगोचरमिति स्मृतम् ॥ ६८॥
आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् ।
शिवतत्त्वमिति ख्यातं शिवलिङ्गं व्यवस्थितम् ॥ ६९॥
प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्द्धनि ।
धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैः सुन्दरैस्तथा ॥ ७०॥
नीराजनेन रम्येण यथोक्तविधिना ततः ।
नमस्कारैः स्तवैश्चान्यैर्मन्त्रैर्नानाविधैरपि ॥ ७१॥
अर्घ्यं दत्त्वा तु पुष्पाणि पादयोः सुविकीर्य च ।
प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ॥ ७२॥
हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृताञ्जलिः ।
प्रार्थयेत्पुनरीशानं मन्त्रेणानेन शङ्करम् ॥ ७३॥
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृतं तदस्तु सफलं कृपया तव शङ्कर ॥ ७४॥
पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् ।
ततः स्वस्त्ययनं कृत्वा ह्याशिषो विविधास्तथा ॥ ७५॥
मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः ।
नमस्कारं ततः क्षान्तिं पुनरागमनाय च ॥ ७६॥
अघोरमन्त्रमुच्चार्य नमस्कारं प्रकल्पयेत् ।
प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ॥ ७७॥
शिवे भक्तिः शिवे भक्तिः शिवे भक्तिर्भवे भवे ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ ७८॥
इति सम्प्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् ।
पूजयेत्परया भक्त्या गलनादैर्विशेषतः ॥ ७९॥
नमस्कारं ततः कृत्वा परिवारगणैः सह ।
प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ॥ ८०॥
एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः ।
तस्य वै सकला सिद्धिर्जायते तु पदे पदे ॥ ८१॥
वाग्मी स जायते तस्य मनोऽभीष्टफलं ध्रुवम् ।
रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ॥ ८२॥
कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् ।
तद्दुःखं नाशयत्येव शिवः शिवकरः परः ॥ ८३॥
कल्याणं जायते तस्य शुक्लपक्षे यथा शशी ।
वर्धते सद्गुणस्तत्र ध्रुवं शङ्करपूजनात् ॥ ८४॥
इति पूजाविधिः शम्भोः प्रोक्तस्ते मुनिसत्तम ।
अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ॥ ८५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनं नामैकादशोऽध्यायः ॥ २.१.११॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः
२.१.१२. द्वादशोऽध्यायः । पूजाविधिवर्णने सारासारविचारवर्णनम् ।
नारद उवाच ।
ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः ।
एतदेव पुनः सम्यग्ब्रूहि मे विस्तराद्विधे ॥ १॥
ब्रह्मोवाच ।
एकस्मिन्समये तात ऋषीनाहूय सर्वतः ।
निर्जरांश्चावदं प्रीत्या सुवचः पद्मसम्भवः ॥ २॥
यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ।
आगन्तव्यं मया सार्धं तीरं क्षीरपयोनिधेः ॥ ३॥
इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ।
यत्रास्ते भगवान्विष्णुः सर्वेषां हितकारकः ॥ ४॥
तत्र गत्वा जगन्नाथं देवदेवं जनार्दनम् ।
उपतस्थुः सुरा नत्वा सुकृताञ्जलयो मुने ॥ ५॥
तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ।
स्मरन् शिवपदाम्भोजमब्रवीत्परमं वचः ॥ ६॥
विष्णुरुवाच ।
किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ।
सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ॥ ७॥
ब्रह्मोवाच ।
इति पृष्टास्तदा तेन विष्णुना च मया सुराः ।
पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ॥
विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ॥ ८॥
देवा ऊचुः ।
नित्यं सेवा तु कस्यैव कार्या दुःखापहारिणी ॥ ९॥
इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ।
सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ॥ १०॥
श्रीभगवानुवाच ।
ब्रह्मन् शृणु सुरैः सम्यक् श्रुतं च भवता पुरा ।
तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ॥ ११॥
दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यतेऽधुना ।
ब्रह्मन्देवैः समस्तैश्च बहुधा कार्यतत्परैः ॥ १२॥
सेव्यः सेव्यः सदा देवः शङ्करः सर्वदुःखहा ।
ममापि कथितं तेन ब्रह्मणोऽपि विशेषतः ॥ १३॥
प्रस्तुतं चैव दृष्टं वः सर्वं दृष्टान्तमद्भुतम् ।
त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः ॥ १४॥
सन्त्यज्य देवदेवेशं लिङ्गमूर्तिं महेश्वरम् ।
तारपुत्रास्तथैवैते नष्टास्तेऽपि सबान्धवाः ॥ १५॥
मया च मोहितास्ते वै मायया दूरतः कृताः ।
सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा ॥ १६॥
तस्मात्सदा पूजनीयो लिङ्गमूर्तिधरो हरः ।
सेवनीयो विशेषेण श्रद्धया देवसत्तम ॥ १७॥
शर्वलिङ्गार्चनादेव देवा दैत्याश्च सत्तमाः ।
अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया ॥ १८॥
तल्लिङ्गमर्चयेन्नित्यं येन केनापि हेतुना ।
तस्मात् ब्रह्मन्सुरैः शर्वः सर्वकामफलेप्सया ॥ १९॥
सा हानिस्तन्महाछिद्रं सान्धता सा च मुग्धता ।
यन्मुहूर्तं क्षणं वापि शिवं नैव समर्चयेत् ॥ २०॥
भवभक्तिपरा ये च भवप्रणतचेतसः ।
भवसंस्मरणा ये च न ते दुःखस्य भाजनाः ॥ २१॥
भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः ।
धनं च तुष्टिपर्यन्तं पुत्रपौत्रादिसन्ततिः ॥ २२॥
आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् ।
ये वाञ्छन्ति महाभागाः सुखं वा त्रिदशालयम् ॥ २३॥
अन्ते मुक्तिफलं चैव भक्तिं वा परमेशितुः ।
पूर्वपुण्यातिरेकेण तेऽर्चयन्ति सदाशिवम् ॥ २४॥
योऽर्चयेच्छिवलिङ्गं वै नित्यं भक्तिपरायणः ।
तस्य वै सफला सिद्धिर्न स पापैः प्रयुज्यते ॥ २५॥
ब्रह्मोवाच ।
इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् ।
लिङ्गानि प्रार्थयामासुः सर्वकामाप्तये नृणाम् ॥ २६॥
तच्छ्रुत्वा च तदा विष्णुर्विश्वकर्माणमब्रवीत् ।
अहं च मुनिशार्दूल जीवोद्धारपरायणः ॥ २७॥
विश्वकर्मन्यथा शम्भोः कल्पयित्वा शुभानि च ।
लिङ्गानि सर्वदेवेभ्यो देयानि वचनान्मम ॥ २८॥
ब्रह्मोवाच ।
लिङ्गानि कल्पयित्वैवमधिकारानुरूपतः ।
विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः ॥ २९॥
तदेव कथयाम्यद्य श्रूयतामृषिसत्तम ।
पद्मरागमयं शक्रो हैमं विश्रवसः सुतः ॥ ३०॥
पीतं मणिमयं धर्मो वरुणः श्यामलं शिवम् ।
इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा ॥ ३१॥
विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च ।
आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने ॥ ३२॥
लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् ।
मौक्तिकं सोमराजो वै वज्रलिङ्गं विभावसुः ॥ ३३॥
मृण्मयं चैव विप्रेन्द्रा विप्रपत्न्यस्तथैव च ।
चान्दनं च मयो नागाः प्रवालमयमादरात् ॥ ३४॥
नवनीतमयं देवी योगी भस्ममयं तथा ।
यक्षा दधिमयं लिङ्गं छाया पिष्टमयं तथा ॥ ३५॥
शिवलिङ्गं च ब्रह्माणी रत्नं पूजयति ध्रुवम् ।
पारदं पार्थिवं बाणः समर्चति परेऽपि वा ॥ ३६॥
एवंविधानि लिङ्गानि दत्तानि विश्वकर्मणा ।
ते पूजयन्ति सर्वे वै देवा ऋषिगणास्तथा ॥ ३७॥
विष्णुर्दत्त्वा च लिङ्गानि देवेभ्यो हितकाम्यया ।
पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः ॥ ३८॥
तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः ।
आगच्छं च स्वकं धाम हर्षनिर्भरमानसः ॥ ३९॥
तत्रागत्य ऋषीन्सर्वान्देवांश्चाहं तथा मुने ।
शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम् ॥ ४०॥
ब्रह्मोवाच ।
श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः ।
शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम् ॥ ४१॥
मानुषं जन्म सम्प्राप्य दुर्लभं सर्वजन्तुषु ।
तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः ॥ ४२॥
अव्यङ्गं चैव विप्रेषु साचारेषु सपुण्यतः ।
शिवसन्तोषहेतोश्च कर्म स्वोक्तं समाचरेत् ॥ ४३॥
यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लङ्घयेत् ।
यावद्दानस्य सम्पत्तिस्तावत्कर्म समावहेत् ॥ ४४॥
कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ।
तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ॥ ४५॥
ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् ।
यतः समरसं स्वेष्टं योगी ध्यानेन पश्यति ॥ ४६॥
ध्यानयज्ञरतस्यास्य सदा सन्निहितः शिवः ।
नास्ति विज्ञानिनां किञ्चित्प्रायश्चित्तादिशोधनम् ॥ ४७॥
विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः ।
नास्ति क्रिया च तेषां वै सुखं दुःखं विचारतः ॥ ४८॥
धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा ।
सर्वदा निर्विकारास्ते विद्यया च तयामराः ॥ ४९॥
परानन्दकरं लिङ्गं विशुद्धं शिवमक्षरम् ।
निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ॥ ५०॥
लिङ्गं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं द्विजाः ।
बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यन्तरं मतम् ॥ ५१॥
कर्मयज्ञरता ये च स्थूललिङ्गार्चने रताः ।
असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः ॥ ५२॥
आध्यात्मिकं तु यल्लिङ्गं प्रत्यक्षं यस्य नो भवेत् ।
स तल्लिङ्गे तथा स्थूले कल्पयेच्च न चान्यथा ॥ ५३॥
ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् ।
यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम् ॥ ५४॥
अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः ।
निष्कलं सकलं चित्ते सर्वं शिवमयं जगत् ॥ ५५॥
एवं ज्ञानविमुक्तानां नास्ति दोषविकल्पना ।
विधिश्चैव तथा नास्ति विहिताविहिते तथा ॥ ५६॥
यथा जलेषु कमलं सलिलैर्नावलिप्यते ।
तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते ॥ ५७॥
इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै ।
तावच्च कर्मणा देवं शिवमाराधयेन्नरः ॥ ५८॥
प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः ।
एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु ॥ ५९॥
दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् ।
तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम् ॥ ६०॥
भेदो जलानां लोकेऽस्मिन्प्रतिभावेऽविचारतः ।
एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः ॥ ६१॥
हृदि संसारिणः साक्षात्सकलः परमेश्वरः ।
इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः ॥ ६२॥
इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा ।
पदमुच्चैः समारोढुं पुंसो ह्यालम्बनं स्मृतम् ॥ ६३॥
आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् ।
निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम् ॥ ६४॥
सगुणान्निर्गुणप्राप्तिर्भवतीति सुनिश्चितम् ।
एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा ॥ ६५॥
देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् ।
गन्धचन्दनपुष्पादि किमर्थं प्रतिमां विना ॥ ६६॥
तावच्च प्रतिमा पूज्या यावद्विज्ञानसम्भवः ।
ज्ञानाभावे न पूज्येत पतनं तस्य निश्चितम् ॥ ६७॥
एतस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः ।
स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः ॥ ६८॥
यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् ।
विना पूजनदानादि पातकं न च दूरतः ॥ ६९॥
यावच्च पातकं देहे तावत्सिद्धिर्न जायते ।
गते च पातके तस्य सर्वं च सफलं भवेत् ॥ ७०॥
तथा च मलिने वस्त्रे रङ्गः शुभतरो न हि ।
क्षालने हि कृते शुद्धे सर्वो रङ्गः प्रसज्जते ॥ ७१॥
तथा च निर्मले देहे देवानां सम्यगर्चया ।
ज्ञानरङ्गः प्रजायेत तदा विज्ञानसम्भवः ॥ ७२॥
विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी ।
ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते ॥ ७३॥
भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् ।
तन्मूलं सद्गुरुः प्रोक्तस्तन्मूलं सङ्गतिः सताम् ॥ ७४॥
सङ्गत्या गुरुराप्येत गुरोर्मन्त्रादिपूजनम् ।
पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ॥ ७४॥
विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् ।
विज्ञानं च यदा जातं तदा भेदो निवर्तते ॥ ७६॥
भेदे निवृत्ते सकले द्वन्द्वदुःखविहीनता ।
द्वन्द्वदुःखविहीनस्तु शिवरूपो भवत्यसौ ॥ ७७॥
द्वन्द्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः ।
विहिताविहिते तस्य न स्यातां च सुरर्षयः ॥ ७८॥
ईदृशो विरलो लोके गृहाश्रमविवर्जितः ।
यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः ॥ ७९॥
तीर्थानि श्लाघयन्तीह तादृशं ज्ञानवित्तमम् ।
देवाश्च मुनयः सर्वे परब्रह्मात्मकं शिवम् ॥ ८०॥
तादृशानि न तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन विज्ञानी दर्शनादपि ॥ ८१॥
यावद्गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् ।
कुर्याच्छ्रेष्ठस्य सुप्रीत्या सुरेषु खलु पञ्चसु ॥ ८२॥
अथवा च शिवः पूज्यो मूलमेकं विशिष्यते ।
मूले सिक्ते तथा शाखाः तृप्ताः सत्यखिलाः सुराः ॥ ८३॥
शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् ।
एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः ॥ ८४॥
सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः ।
शिवे च पूजिते देवाः पूजिताः सर्व एव हि ॥ ८५॥
तस्माच्च पूजयेद्देवं शङ्करं लोकशङ्करम् ।
सर्वकामफलावाप्त्यै सर्वभूतहिते रतः ॥ ८६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनं नाम द्वादशोऽध्यायः ॥ २.१.१२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.१३. त्रयोदशोऽध्यायः । शिवपूजनवर्णनम् ।
ब्रह्मोवाच ।
अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ।
श्रूयतामृषयो देवाःसर्वकामसुखावहम् ॥ १॥
ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्साम्बकं शिवम् ।
कुर्यात्तत्प्रार्थनां भक्त्या साञ्जलिर्नतमस्तकः ॥ २॥
उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ।
उत्तिष्ठ त्वमुमास्वामिन्ब्रह्माण्डे मङ्गलं कुरु ॥ ३॥
जानामि धर्मं न च मे प्रवृत्ति-
र्जानाम्यधर्मं न च मे निवृत्तिः ।
त्वया महादेव हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥ ४॥
इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ।
बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ॥ ५॥
देहशुद्धिं ततः कृत्वा स मृज्जलविशोधनैः ।
हस्तौ पादौ च प्रक्षाल्य दन्तधावनमाचरेत् ॥ ६॥
दिवानाथे त्वनुदिते कृत्वा वै दन्तधावनम् ।
मुखं षोडशवारं तु प्रक्षाल्याञ्जलिभिस्तथा ॥ ७॥
षष्ठ्याद्यामाश्च तिथयो नवम्यर्कदिने तथा ।
वर्ज्याः सुरर्षयो यत्नाद्भक्तेन रदधावने ॥ ८॥
यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ।
देशकालाविरुद्धं च स्नानं कार्यं नरेण च ॥ ९॥
रवेर्दिने तथा श्राद्धे सङ्क्रान्तौ ग्रहणे तथा ।
महादाने तथा तीर्थे ह्युपवासदिने तथा ॥ १०॥
अशौचेऽप्यथवा प्राप्ते न स्नायादुष्णवारिणा ।
यथा साभिमुखं स्नायात्तीर्थादौ भक्तिमान्नरः ॥ ११॥
तैलाभ्यङ्गं च कुर्वीत वारान्दृष्ट्वा क्रमेण च ।
नित्यमभ्यङ्गके चैव वासितं वा न दूषितम् ॥ १२॥
श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ।
अथवा सार्षपं तैलं न दुष्येद् ग्रहणं विना ॥ १३॥
देशं कालं विचार्य्यैवं स्नानं कुर्याद्यथाविधि ।
उत्तराभिमुखश्चैव प्राङ्मुखोऽप्यथवा पुनः ॥ १४॥
उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ।
शुद्धवस्त्रेण स स्नायात्तद्देवस्मृतिपूर्वकम् ॥ १५॥
परधार्य्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ।
तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ॥ १६॥
तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ।
धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ॥ १७॥
शुचौ देशे ततो गत्वा गोमयाद्यपमार्जिते ।
आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ॥ १८॥
शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ।
चित्रासनं तथा कुर्यात्सर्वकामफलप्रदम् ॥ १९॥
यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ।
तत्रोपविश्य कुर्वीत त्रिपुण्ड्रं भस्मना सुधीः ॥ २०॥
जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ।
अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ॥ २१॥
एवं कृत्वा त्रिपुण्ड्रं च रुद्राक्षान्धारयेन्नरः ।
सम्पाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ॥ २२॥
पुनराचमनं कृत्वा त्रिवारं मन्त्रपूर्वकम् ।
एकं वाथ प्रकुर्याच्च गङ्गाबिन्दुरिति ब्रुवन् ॥ २३॥
अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ।
अन्यद्वस्तु च यत्किञ्चिद्यथाशक्ति समीपगम् ॥ २४॥
कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ।
अर्घपात्रं तथा चैकं जलगन्धाक्षतैर्युतम् ॥ २५॥
दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ।
गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ॥ २६॥
सङ्कल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ।
पूजयेत्परया भक्त्या शिवं सपरिवारकम् ॥ २७॥
मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम् ।
सिन्दुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ॥ २८॥
लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः ।
चतुर्थ्यन्तैर्नामपदैर्नमोऽन्तैः प्रणवादिभिः ॥ २९॥
क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ।
पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ॥ ३०॥
द्वारपालं सदा द्वारि तिष्ठन्तं च महोदरम् ।
पूजयित्वा ततः पश्चात्पूजयेद्गिरिजां सतीम् ॥ ३१॥
चन्दनैः कुङ्कुमैश्चैव धूपैर्दीपैरनेकशः ।
नैवेद्यैर्विविधैश्चैव पूजयित्वा ततः शिवम् ॥ ३२॥
नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ ।
यदि गेहे पार्थिवीं वा हैमीं वा राजतीं तथा ॥ ३३॥
धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ।
नमस्कृत्य पुनस्तां च पूजयेद्भक्तितत्परः ॥ ३४॥
तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तथा ।
स्थापयेच्च मृदा लिङ्गं विधाय विधिपूर्वकम् ॥ ३५॥
कर्तव्यं सर्वथा तत्र नियमाः स्वगृहे स्थितैः ।
प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ॥ ३६॥
दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ।
गृहे शिवः सदा पूज्यो मूलमन्त्राभियोगतः ॥ ३७॥
तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ।
गृहे लिङ्गं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ॥ ३८॥
पूजाकाले च साङ्गं वै परिवारेण संयुतम् ।
आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ॥ ३९॥
शिवस्य सन्निधिं कृत्वा स्वासनं परिकल्पयेत् ।
उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ॥ ४०॥
प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ।
मूलमन्त्रेण तत्रैव दशावर्तं नयेन्नरः ॥ ४१॥
पञ्चमुद्राः प्रकर्तव्याः पूजावश्यं करे स्थिता ।
एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ॥ ४२॥
दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ।
बध्वा पद्मासनं तत्र भद्रासनमथापि वा ॥ ४३॥
उत्तानासनकं कृत्वा पर्यङ्कासनकं तथा ।
यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ॥ ४४॥
कृत्वा पूजां पुरा जातां वट्टकेनैव तारयेत् ।
यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ॥ ४५॥
पश्चाच्चैवार्घपात्रेण क्षालयेल्लिङ्गमुत्तमम् ।
अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ॥ ४६॥
पश्चाच्चावाहयेद्देवं मन्त्रेणानेन वै नरः ।
कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ॥ ४७॥
यथोक्तरूपिणं शम्भुं निर्गुणं गुणरूपिणम् ।
पञ्चवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ॥ ४८॥
कर्पूरगौरं दिव्याङ्गं चन्द्रमौलिं कपर्दिनम् ।
व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ॥ ४९॥
वासुक्यादिपरीताङ्गं पिनाकाद्यायुधान्वितम् ।
सिद्धयोऽष्टौ च यस्याग्रे नृत्यन्तीह निरन्तरम् ॥ ५०॥
जयजयेति शब्दैश्च सेवितं भक्तपुञ्जकैः ।
तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ॥ ५१॥
शरण्यं सर्वसत्त्वानां प्रसन्नमुखपङ्कजम् ।
वेदैः शास्त्रैर्यथागीतं विष्णुब्रह्मनुतं सदा ॥ ५२॥
भक्तवत्सलमानन्दं शिवमावाहयाम्यहम् ।
एवं ध्यात्वा शिवं साम्बमासनं परिकल्पयेत् ॥ ५३॥
चतुर्थ्यन्तपदेनैव सर्वं कुर्याद्यथाक्रमम् ।
ततः पाद्यं प्रदद्याद्वै ततोऽर्घ्यं शङ्कराय च ॥ ५४॥
ततश्चाचमनं कृत्वा शम्भवे परमात्मने ।
पश्चाच्च पञ्चभिर्द्रव्यैः स्नापयेच्छङ्करं मुदा ॥ ५५॥
वेदमन्त्रैर्यथायोग्यं नामभिर्वा समन्त्रकैः ।
चतुर्थ्यन्तपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ॥ ५६॥
तथाभिलषितं द्रव्यमर्पयेच्छङ्करोपरि ।
ततश्च वारुणं स्नानं करणीयं शिवाय वै ॥ ५७॥
सुगन्धं चन्दनं दद्यादन्यलेपानि यत्नतः ।
ससुगन्धजलेनैव जलधारां प्रकल्पयेत् ॥ ५८॥
वेदमन्त्रैः षडङ्गैर्वा नामभी रुद्रसङ्ख्यया ।
यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ॥ ५९॥
पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ।
तिलाश्चैव यवा वापि गोधूमा मुद्गमाषकाः ॥ ६०॥
अर्पणीयाः शिवायैवं मन्त्रैर्नानाविधैरपि ।
ततः पुष्पाणि देयानि पञ्चास्याय महात्मने ॥ ६१॥
प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ।
कमलैः शतपत्रैश्च शङ्खपुष्पैः परैस्तथा ॥ ६२॥
कुशपुष्पैश्च धत्तूरैर्मन्दारैर्द्रोणसम्भवैः ।
तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ॥ ६३॥
पूजयेत्परया भक्त्या शङ्करं भक्तवत्सलम् ।
सर्वाभावे बिल्वपत्रमर्पणीयं शिवाय वै ॥ ६४॥
बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ।
ततः सुगन्धचूर्णं वै वासितं तैलमुत्तमम् ॥ ६५॥
अर्पणीयं च विविधं शिवाय परया मुदा ।
ततो धूपः प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ॥ ६६॥
दीपो देयस्ततस्तस्मै शङ्कराय घृताप्लुतः ।
अर्घं दद्यात्पुनस्तस्मै मन्त्रेणानेन भक्तितः ॥ ६७॥
कारयेद्भावतो भक्त्या वस्त्रेण मुखमार्जनम् ।
रूपं देहि यशो देहि भोगं देहि च शङ्कर ॥ ६८॥
भुक्तिमुक्तिफलं देहि गृहीत्वार्घं नमोऽस्तु ते ।
ततो देयं शिवायैव नैवेद्यं विविधं शुभम् ॥ ६९॥
तत आचमनं प्रीत्या कारयेद्वाविलम्बतः ।
ततः शिवाय ताम्बूलं साङ्गोपाङ्गं विधाय च ॥ ७०॥
कुर्यादारार्तिकं पञ्चवर्तिकामनुसङ्ख्यया ।
पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ॥ ७१॥
एककृत्वो मुखे सप्तकृत्वः सर्वाङ्ग एव हि ।
ततो ध्यानं यथोक्तं वै कृत्वा मन्त्रमुदीरयेत् ॥ ७२॥
यथासङ्ख्यं यथाज्ञानं कुर्यान्मन्त्रविधिं नरः ।
गुरूपदिष्टमार्गेण कृत्वा मन्त्रजपं सुधीः ॥ ७३॥
गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ।
यथासङ्ख्यं यथाज्ञानं कुर्यान्मन्त्रविधिं नरः ॥ ७४॥
स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ।
ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैः शनैः ॥ ७५॥
नमस्कारांस्ततः कुर्यात्साष्टाङ्गं विधिवत्पुमान् ।
ततः पुष्पाञ्जलिर्देयो मन्त्रेणानेन भक्तितः ॥ ७६॥
शङ्कराय परेशाय शिवसन्तोषहेतवे ।
अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ॥ ७७॥
कृतं तदस्तु सफलं कृपया तव शङ्कर ।
तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ॥ ७८॥
इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ।
भूमौ स्खलितपादानां भूमिरेवावलम्बनम् ॥ ७९॥
त्वयि जातापराधानां त्वमेव शरणं प्रभो ।
इत्यादि बहुविज्ञप्तिं कृत्वा सम्यग्विधानतः ॥ ८०॥
पुष्पाञ्जलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः ।
स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो ॥ ८१॥
पूजाकाले पुनर्नाथ त्वयागन्तव्यमादरात् ।
इति सम्प्रार्थ्य बहुशः शङ्करं भक्तवत्सलम् ॥ ८२॥
विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत् ।
इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ।
भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ॥ ८३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजनवर्णनं नाम त्रयोदशोऽध्यायः ॥ २.१.१३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
२.१.१४. चतुर्दशोऽध्यायः । शिवपूजाविधानवर्णनम् ।
ऋषय ऊचुः ।
व्यासशिष्य महाभाग कथय त्वं प्रमाणतः ।
कैः पुष्पैः पूजितः शम्भुः किं किं यच्छति वै फलम् ॥ १॥
सूत उवाच ।
शौनकाद्याश्च ऋषयः शृणुतादरतोऽखिलम् ॥
कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम् । २॥
एष एव विधिः पृष्टो नारदेन महर्षिणा ।
प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम् ॥ ३॥
ब्रह्मोवाच ।
कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः ।
शङ्खपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम् ॥ ४॥
एतैश्च लक्षसङ्ख्याकैः पूजितश्चेद्भवेच्छिवः ।
पापहानिस्तथा विप्र लक्ष्मीः स्यान्नात्र संशयः ॥ ५॥
विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् ।
बिल्वो दलसहस्रेण प्रस्थार्धं परिभाषितम् ॥ ६॥
शतपत्रसहस्रेण प्रस्थार्धं परिभाषितम् ।
पलैः षोडशभिः प्रस्थः पलं टङ्कदशस्मृतः ॥ ७॥
अनेनैव तु मानेन तुलामारोपयेद्यदा ।
सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत् ॥ ८॥
राज्यस्य कामुको यो वै पार्थिवानां च पूजया ।
तोषयेच्छङ्करं देवं दशकोट्या मुनीश्वराः ॥ ९॥
लिङ्गं शिवं तथा पुष्पमखण्डं तण्डुलं तथा ।
चर्चितं चन्दनेनैव जलधारां तथा पुनः ॥ १०॥
प्रतिरूपं तथा मन्त्रं बिल्वीदलमनुत्तमम् ।
अथवा शतपत्रं च कमलं वा तथा पुनः ॥ ११॥
शङ्खपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः ।
सर्वकामफलं दिव्यं परत्रेहापि सर्वथा ॥ १२॥
धूपं दीपं च नैवेद्यमर्घं चारार्तिकं तथा ।
प्रदक्षिणां नमस्कारं क्षमापनविसर्जने ॥ १३॥
कृत्वा साङ्गं तथा भोज्यं कृतं येन भवेदिह ।
तस्य वै सर्वथा राज्यं शङ्करः प्रददाति च ॥ १४॥
प्रधान्यकामुको यो वै तदर्धेनार्चयेत्पुमान् ।
कारागृहगतो यो वै लक्षेनैवार्चयेद्धरम् ॥ १५॥
रोगग्रस्तो यदा स्याद्वै तदर्धेनार्चयेच्छिवम् ।
कन्याकामो भवेद्यो वै तदर्धेन शिवं पुनः ॥ १६॥
विद्याकामस्तथा यः स्यात्तदर्धेनार्चयेच्छिवम् ।
वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम् ॥ १७॥
उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् ।
मारणे वै तु लक्षेण मोहने तु तदर्धतः ॥ १८॥
सामन्तानां जये चैव कोटिपूजा प्रशस्यते ।
राज्ञामयुतसङ्ख्यं च वशीकरणकर्मणि ॥ १९॥
यशसे च तथा सङ्ख्या वाहनाद्यैः सहस्रिका ।
मुक्तिकामोऽर्चयेच्छम्भुं पञ्चकोट्या सुभक्तितः ॥ २०॥
ज्ञानार्थी पूजयेत्कोट्या शङ्करं लोक शङ्करम् ।
शिवदर्शनकामो वै तदर्धेन प्रपूजयेत् ॥ २१॥
तथा मृत्युञ्जयो जाप्यः कामनाफलरूपतः ।
पञ्चलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः ॥ २२॥
लक्षेण भजते कश्चिद् द्वितीये जातिसम्भवः ।
तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति ॥ २३॥
पञ्चमं च यदा लक्षं फलं यच्छत्यसंशयम् ।
अनेनैव तु मन्त्रेण दशलक्षे फलं भवेत् ॥ २४॥
मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् ।
लक्षसङ्ख्या तु सर्वत्र ज्ञातव्या ऋषिसत्तम ॥ २५॥
आयुःकामो भवेद्यो वै दूर्वाभिः पूजनं चरेत् ।
पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत् ॥ २६॥
रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः ।
अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः ॥ २७॥
भुक्तिमुक्तिफलं तस्य तुलस्या पूजयेद्यदि ।
अर्कपुष्पैः प्रतापश्च कुब्जकह्लारकैस्तथा ॥ २८॥
जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता ।
रोगोच्चाटनकानीह करवीराणि वै क्रमात् ॥ २९॥
बन्धुकैर्भूषणावाप्तिर्जात्या वाहान्न संशयः ।
अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात् ॥॥ ३०॥
शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च ।
मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः ॥ ३१॥
यूथिकाकुसुमैः शस्तैर्गृहं नैव विमुच्यते ।
कर्णिकारैस्तथा वस्त्रसम्पत्तिर्जायते नृणाम् ॥ ३२॥
निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् ।
विल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात् ॥ ३३॥
शृङ्गारहारपुष्पैस्तु वर्धते सुखसम्पदा ।
ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः ॥ ३४॥
राजिकाकुसुमानीह शत्रूणां मृत्युदानि च ।
एषां लक्षं शिवे दद्याद्दद्याच्च विपुलं फलम् ॥ ३५॥
विद्यते कुसुमं तन्न यन्नैव शिववल्लभम् ।
चम्पकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत् ॥ ३६॥
अतः परं च धान्यानां पूजने शङ्करस्य च ।
प्रमाणं च फलं सर्वं प्रीत्या शृणु च सत्तम ॥ ३७॥
तन्दुलारोपणे नृणां लक्ष्मी वृद्धिः प्रजायते ।
अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि ॥ ३८॥
षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः ।
पलद्वयं तथा लक्षमानेन समुदाहृतम् ॥ ३९॥
पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् ।
शिवोपरि न्यसेत्तत्र तन्दुलार्पणमुत्तमम् ॥ ४०॥
उपरि श्रीफलं त्वेकं गन्धपुष्पादिभिस्तथा ।
रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत् ॥॥ ४१॥
प्रजापत्यद्वयं रौप्यमाषसङ्ख्या च दक्षिणा ।
देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता ॥ ४२॥
आदित्यसङ्ख्यया तत्र ब्राह्मणान्भोजयेत्ततः ।
लक्षपूजा तथा जाता साङ्गञ्च मन्त्रपूर्वकम् ॥ ४३॥
शतमष्टोत्तरं तत्र मन्त्रे विधिरुदाहृतः ।
तिलानां च पलं लक्षं महापातकनाशनम् ॥ ४४॥
एकादशपलैरेव लक्षमानमुदाहृतम् ।
पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया ॥ ४५॥
भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि ।
महापातकजं दुःखं तत्क्षणान्नश्यति ध्रुवम् ॥ ४६॥
यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे ।
प्रस्थानामष्टकं चैव तथा प्रस्थार्धकं पुनः ॥ ४७॥
पलद्वययुतं तत्र मानमेतत्पुरातनम् ।
यवपूजा च मुनिभिः स्वर्गसौख्यविवर्धिनी ॥ ४८॥
प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः ।
गोधूमान्नैस्तथा पूजा प्रशस्ता शङ्करस्य वै ॥ ४९॥
सन्ततिर्वर्धते तस्य यदि लक्षावधिः कृता ।
द्रोणार्धेन भवेल्लक्षं विधानं विधिपूर्वकम् ॥ ५०॥
मुद्गानां पूजने देवः शिवो यच्छति वै सुखम् ।
प्रस्थानां सप्तकेनैव प्रस्थार्धेनाथवा पुनः ॥ ५१॥
पलद्वययुतेनैव लक्षमुक्तं पुरातनैः ।
ब्राह्मणाश्च तथा भोज्या रुद्रसङ्ख्याप्रमाणतः ॥ ५२॥
प्रियङ्गुपूजनादेव धर्माध्यक्षे परात्मनि ।
धर्मार्थकामा वर्धन्ते पूजा सर्वसुखावहा ॥ ५३॥
प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः ।
ब्रह्मभोजं तथा प्रोक्तमर्कसङ्ख्याप्रमाणतः ॥ ५४॥
राजिकापूजनं शम्भोः शत्रोर्मृत्युकरं स्मृतम् ।
सर्षपानां तथा लक्षं पलैर्विंशतिसङ्ख्यया ॥ ५५॥
तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः ।
आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम् ॥ ५६॥
वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च ।
मरीचिसम्भवा पूजा शत्रोर्नाशकरी स्मृता ॥ ५७॥
आढकीनां दलैश्चैव रञ्जयित्वार्चयेच्छिवम् ।
नानासुखकरी ह्येषा पूजा सर्वफलप्रदा ॥ ५८॥
धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम ।
लक्षमानं तु पुष्पाणां शृणु प्रीत्या मुनीश्वर ॥ ५९॥
प्रस्थानां च तथा चैकं शङ्खपुष्पसमुद्भवम् ।
प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना ॥ ६०॥
प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् ।
यूथिकायास्तथा मानं राजिकायास्तदर्धकम् ॥ ६१॥
प्रस्थैर्विंशतिकैश्चैव मल्लिकामानमुत्तमम् ।
तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च ॥ ६२॥
ततश्च त्रिगुणं मानं करवीरभवे स्मृतम् ।
निर्गुण्डीकुसुमे मानं तथैव कथितं बुधैः ॥ ६३॥
कर्णिकारे तथा मानं शिरीषकुसुमे पुनः ।
बन्धुजीवे तथा मानं प्रस्थानं दशकेन च ॥ ६४॥
इत्याद्यैर्विविधैर्मानं दृष्ट्वा कुर्याच्छिवार्चनम् ।
सर्वकामसमृद्ध्यर्थं मुक्त्यर्थं कामनोज्झितः ॥ ६५॥
अतः परं प्रवक्ष्यामि धारापूजाफलं महत् ।
यस्य श्रवणमात्रेण कल्याणं जायते नृणाम् ॥ ६६॥
विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै ।
पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः ॥ ६७॥
ज्वरप्रलापशान्त्यर्थं जलधारा शुभावहा ।
शतरुद्रियमन्त्रेण रुद्रस्यैकादशेन तु ॥ ६८॥
रुद्रजाप्येन वा तत्र सूक्तेन पौरुषेण वा ।
षडङ्गेनाथ वा तत्र महामृत्युञ्जयेन च ॥ ६९॥
गायत्र्या वा नमोऽन्तैश्च नामभिः प्रणवादिभिः ।
मन्त्रैर्वाथागमोक्तैश्च जलधारादिकं तथा ॥ ७०॥
सुखसन्तानवृद्ध्यर्थं धारापूजनमुत्तमम् ।
नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्भस्मधारिणा ॥ ७१॥
घृतधारा शिवे कार्या यावन्मन्त्रसहस्रकम् ।
तदा वंशस्य विस्तारो जायते नात्र संशयः ॥ ७२॥
एवमयुतमन्त्रेण कार्यं वै शिवपूजनम् ।
प्रमेहरोगशान्त्यर्थं प्राप्नुयाच्च मनेप्सितम् ।
षण्ढत्वं यदादातस्तदा घृतसुपूजनम् ।
ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः ॥ ७३॥
केवलं दुग्धधारा च तदा कार्या विशेषतः ।
शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत् ॥ ७४॥
तस्या सञ्जायते जीवसदृशी बुद्धिरुत्तमा ।
यावन्मन्त्रायुतं न स्यात्तावद्धाराप्रपूजनम् ॥ ७५॥
यदा चोच्चाटनं देहे जायते कारणं विना ।
यत्र कुत्रापि वा प्रेम दुःखं च परिवर्धितम् ॥ ७६॥
स्वगृहे कलहो नित्यं यदा चैव प्रजायते ।
तद्धारायां कृतायां वै सर्वं दुःखं विलीयते ॥ ७७॥
शत्रूणां तापनार्थं वै तैलधारा शिवोपरि ।
कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्ध्रुवं भवेत् ॥ ७८॥
वासितेनैव तैलेन भोगवृद्धिः प्रजायते ।
सार्षपेणैव तैलेन शत्रुनाशो भवेद् ध्रुवम् ॥ ७९॥
मधुना यक्षराजो वै गच्छेच्च शिवपूजनात् ।
धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे ॥ ८०॥
धारा गङ्गाजलस्यैव भुक्तिमुक्तिफलप्रदा ।
एताः सर्वाश्च याः प्रोक्ता मृत्यञ्जयसमुद्भवाः ॥ ८१॥
तत्रायुतप्रमाणं हि कर्तव्यं तद्विधानतः ।
कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसङ्ख्यया ॥ ८२॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर ।
एतद्वै सफलं लोके सर्वकामहितावहम् ॥ ८३॥
स्कन्दोमासहितं शम्भुं सम्पूज्य विधिना सह ।
यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम् ॥ ८४॥
अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् ।
ततो याति महेशस्य लोकं सर्वसुखावहम् ॥ ८५॥
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः ।
रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः ॥ ८६॥
क्रीडते शिवभूतश्च यावदाभूतसम्प्लवम् ।
ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम् ॥ ८७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधानवर्णनं नाम चतुर्दशोऽध्यायः ॥ २.१.१४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः
२.१.१५. पञ्चदशोऽध्यायः । रुद्रावताराविर्भाववर्णनम् ।
नारद उवाच ।
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम ।
श्राविताद्याद्भुता शैवकथा परमपावनी ॥ १॥
तत्राद्भुता महादिव्या लिङ्गोत्पत्तिः श्रुता शुभा ।
श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २॥
अनन्तरं च यज्जातं माहात्म्यं चरितं तथा ।
सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ॥ ३॥
ब्रह्मोवाच ।
सम्यक् पृष्टं च भवता यज्जातं तदनन्तरम् ।
कथयिष्यामि सङ्क्षेपाद्यथा पूर्वं श्रुतं मया ॥ ४॥
अन्तर्हिते तदा देवे शिवरूपे सनातने ।
अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ॥ ५॥
मया च विष्णुना रूपं हंसवाराहयोस्तदा ।
संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ॥ ६॥
नारद उवाच ।
विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् ।
कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि ॥ ७॥
हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् ।
अन्यद्रूपं विहायैव किमत्र वद कारणम् ॥ ८॥
सूत उवाच ।
इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः ।
स्मृत्वा शिवपदाम्भोजं ब्रह्मा सादरमब्रवीत् ॥ ९॥
ब्रह्मोवाच ।
हंसस्य चोर्ध्वगमने गतिर्भवति निश्चला ।
तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ॥ १०॥
अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः ।
हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ॥ ११॥
विवेको नैव लब्धश्च यतो हंसो व्यलीयत ।
शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ॥ १२॥
सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते ।
यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ॥ १३॥
गमनेऽधो वराहस्य गतिर्भवति निश्चला ।
धृतं वाराहरूपं हि विष्णुना वनचारिणा ॥ १४॥
अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् ।
विष्णुना च वराहस्य भुवनावनकारिणा ॥ १५॥
यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः ।
तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञकः ॥ १६॥
तदिच्छा वा यदा जाता तस्य रूपस्य धारणे ।
तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञकः ॥ १७॥
इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद ।
स्मृत्वा शिवपदाम्भोजं वक्ष्ये सृष्टिविधिं मुने ॥ १८॥
अन्तर्हिते महादेवे त्वहं लोकपितामहः ।
तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ॥ १९॥
नमस्कृत्य तदा शम्भुं ज्ञानं प्राप्य हरेस्तदा ।
आनन्दं परमं गत्वा सृष्टिं कर्तुं मनो दधे ॥ २०॥
विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् ।
उपदिश्य च मां तात ह्यन्तर्धानमुपागतः ॥ २१॥
ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् ।
वैकुण्ठनगरं गत्वा तत्रोवास हरिः सदा ॥ २२॥
अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया ।
पूर्वं सृष्टं जलं यच्च तत्राञ्जलिमुदाक्षिपम् ॥ २३॥
अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञकम् ।
विराड्रूपमभूद्विप्र जलरूपमपश्यतः ॥ २४॥
ततः संशयमापन्नस्तपस्तेपे सुदारुणम् ।
द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ॥ २५॥
तस्मिंश्च समये तात प्रादुर्भूतो हरिः स्वयम् ।
मामुवाच महाप्रीत्या मदङ्गं संस्पृशन्मुदा ॥ २६॥
विष्णुरुवाच ।
वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव ।
ब्रह्मन् शम्भुप्रसादेन सर्वं दातुं समर्थकः ॥ २७॥
ब्रह्मोवाच ।
युक्तमेतन्महाभाग दत्तोऽहं शम्भुना च ते ।
तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते ॥ २८॥
विराड्रूपमिदं ह्यण्डं चतुर्विंशतिसंज्ञकम् ।
न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते ॥ २९॥
प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे ।
प्राप्तं शङ्करसम्भूत्या ह्यण्डं चैतन्यमावह ॥ ३०॥
इत्युक्ते च महाविष्णुः शम्भोराज्ञापरायणः ।
अनन्तरूपमास्थाय प्रविवेश तदण्डकम् ॥ ३१॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं सर्वतः स्पृत्त्वा तदण्डं व्याप्तवानिति ॥ ३२॥
प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे ।
सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम् ॥ ३३॥
पातालादिसमारभ्य सत्यलोकाधिपः स्वयम् ।
राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः ॥ ३४॥
कैलासनगरं रम्यं सर्वोपरिविराजितम् ।
निवासार्थं निजस्यैव पञ्चवक्त्रश्चकार ह ॥ ३५॥
ब्रह्माण्डस्य तथा नाशे वैकुण्ठस्य च तस्य च ।
कदाचिदेव देवर्षे नाशो नास्ति तयोरिह ॥ ३६॥
सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम ।
सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम् ॥ ३७॥
सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः ।
अविद्यापञ्चकस्तात बुद्धिपूर्वस्तमोपमः । ३८॥
ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् ।
मुख्यसर्गं च निःसङ्गमध्यायं शम्भुशासनात् ॥ ३९॥
तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः ।
सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः ॥ ४०॥
तं चासाधकमाज्ञाय पुनश्चिन्तयतश्च मे ।
अभवत्सात्त्विकः सर्ग ऊर्ध्वस्रोता इति द्रुतम् ॥ ४१॥
देवसर्गः प्रतिख्यातः सत्योऽतीव सुखावहः ।
तमप्यसाधकं मत्वाऽचिन्तयं प्रभुमात्मनः ॥ ४२॥
प्रादुरासीत्ततः सर्गो राजसः शङ्कराज्ञया ।
अर्वाक्स्रोता इति ख्यातो मानुषः परसाधकः ॥ ४३॥
महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् ।
इति पञ्चविधा सृष्टिः प्रवृत्ता वै कृता मया ॥ ४४॥
त्रयः सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः ।
तत्राद्यो महतः सर्गो द्वितीयः सूक्ष्मभौतिकः ॥ ४५॥
वैकारिकस्तृतीयश्च इत्येते प्राकृतास्त्रयः ।
एवं चाष्टविधाः सर्गाः प्राकृतैर्वैकृतैः सह ॥ ४६॥
कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः ।
एषामवान्तरो भेदो मया वक्तुं न शक्यते ॥ ४७॥
अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् ।
कौमारः सनकादीनां यत्र सर्गो महानभूत् ॥ ४८॥
सनकाद्याः सुता मे हि मानसा ब्रह्मसम्मिताः ।
महावैराग्यसम्पन्ना अभवन्पञ्च सुव्रताः ॥ ४९॥
मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः ।
शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ॥ ५०॥
प्रत्युत्तरं च तैर्दत्तं श्रुत्वाहं मुनिसत्तम ।
अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद ॥ ५१॥
क्रुद्धस्य मोहितस्याथ विह्वलस्य मुने मम ।
क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥॥ ५२॥
तस्मिन्नवसरे तत्र स्मृतेन मनसा मया ।
प्रबोधितोऽहं त्वरितमागतेन हि विष्णुना ॥ ५३॥
तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् ।
तपोऽकारी महद् घोरं परमं मुनिसत्तम ॥ ५४॥
तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः ।
अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः ॥ ५५॥
त्रिमूर्तीनां महेशस्य प्रादुरासीद् घृणानिधिः ।
अर्द्धनारीश्वरो भूत्वा पूर्णांशः सकलेश्वरः ॥ ५६॥
तमजं शङ्करं साक्षात्तेजोराशिमुमापतिम् ।
सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम् ॥ ५७॥
दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः ।
अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः ॥ ५८॥
श्रुत्वा मम वचः सोऽथ देवदेवो महेश्वरः ।
ससर्ज स्वात्मनस्तुल्यान् रुद्रो रुद्रगणान्बहून ॥ ५९॥
अवोचं पुनरेवेशं महारुद्रं महेश्वरम् ।
जन्ममृत्युभयाविष्टाः सृज देव प्रजा इति ॥ ६०॥
एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः ।
प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम ॥ ६१॥
महादेव उवाच ।
जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे ।
अशोभनाः कर्मवशा निमग्ना दुःखवारिधौ ॥ ६२॥
अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः ।
सम्यग् ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ॥ ६३॥
त्वमेव सृज दुःखाढ्याः प्रजाः सर्वाः प्रजापते ।
मदाज्ञया न बद्धस्त्वं मायया सम्भविष्यसि ॥ ६४॥
ब्रह्मोवाच ।
इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः ।
सगणः पश्यतो मे हि द्रुतमन्तर्दधे हरः ॥ ६५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं नाम पञ्चदशोऽध्यायः ॥ २.१.१५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः
२.१.१६. षोडशोऽध्यायः । ब्रह्मनारदसंवादे सृष्टिवर्णनम् ।
ब्रह्मोवाच ।
शब्दादीनि च भूतानि पञ्चीकृत्वाहमात्मना ।
तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम् ॥ १॥
पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद ।
कलादियुगपर्यन्तान्कालानन्यानवासृजम् ॥ २॥
सृष्ट्यन्तानपरांश्चापि नाहं तुष्टोऽभवं मुने ।
ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने ॥ ३॥
मरीचिं च स्वनेत्राभ्यां हृदयाद् भृगुमेव च ।
शिरसोऽङ्गिरसं व्यानात्पुलहं मुनिसत्तमम् ॥ ४॥
उदानाच्च पुलस्त्यं हि वसिष्ठं च समानतः ।
क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः ॥ ५॥
असृजं त्वां तदोत्सङ्गाच्छायायाः कर्दमं मुनिम् ।
सङ्कल्पादसृजं धर्मं सर्वसाधनसाधनम् ॥ ६॥
एवमेतानहं सृष्ट्वा कृतार्थः साधकोत्तमान् ।
अभवं मुनिशार्दूल महादेवप्रसादतः ॥ ७॥
ततो मदाज्ञया तात धर्मः सङ्कल्पसम्भवः ।
मानवं रूपमापन्नः साधकैस्तु प्रवर्तितः ॥ ८॥
ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् ।
सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने ॥ ९॥
ततोऽहं शङ्करेणाथ प्रेरितोऽन्तर्गतेन ह ।
द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने ॥ १०॥
अर्धेन नारी पुरुषश्चार्धेन सन्ततो मुने ।
स तस्यामसृजद् द्वन्द्वं सर्वसाधनमुत्तमम् । ११॥
स्वायम्भुवो मनुस्तत्र पुरुषः परसाधनम् ।
शतरूपाभिधा नारी योगिनी सा तपस्विनी ॥ १२॥
सा पुनर्मनुना तेन गृहीतातीव शोभना ।
विवाहविधिना तातासृजत्सर्गं समैथुनम् ॥ १३॥
तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः ।
तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः ॥ १४॥
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ।
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ॥ १५॥
ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताम् ।
तासां प्रसूतिप्रसवैः सर्वं व्याप्तं चराचरम् ॥ १६॥
आकूत्यां च रुचेश्चाभूद् द्वन्द्वं यज्ञश्च दक्षिणा ।
यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश ॥ १७॥
देवहूत्यां कर्दमाच्च बह्व्यो जाताः सुता मुने ।
दक्षाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः ॥ १८॥
धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ।
शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर ॥ १९॥
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ।
बुद्धिर्लज्जा वसुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥ २०॥
ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः ।
ख्यातिः सत्पथसम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ २१॥
सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ।
भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥ २२॥
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ।
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ २३॥
ख्यातास्ता जगृहुः कन्या भृग्वाद्याः साधका वराः ।
ततःसम्पूरितं सर्वं त्रैलोक्यं सचराचरम् ॥ २४॥
एवं कर्मानुरूपेण प्राणिनामम्बिकापतेः ।
आज्ञया बहवो जाता असङ्ख्याता द्विजर्षभाः ॥ २५॥
कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः ।
तासां दश च धर्माय शशिने सप्तविंशतिम् ॥ २६॥
विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश ।
चतस्रः पररूपाय ददौ तार्क्ष्याय नारद ॥ २७॥
भृग्वङ्गिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् ।
ताभ्यस्तेभ्यस्तु सञ्जाता बह्वी सृष्टिश्चराचरा ॥ २८॥
त्रयोदशमितास्तस्मै कश्यपाय महात्मने ।
दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम ॥ २९॥
तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् ।
स्थावरं जङ्गमं चैव शून्यं नैव तु किञ्चन ॥ ३०॥
देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे ।
वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः ॥ ३१॥
दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् ।
पातालतलमारभ्य सत्यलोकावधि ध्रुवम् ॥ ३२॥
ब्रह्माण्डं सकलं व्याप्तं शून्यं नैव कदाचन ।
एवं सृष्टिः कृता सम्यग्ब्रह्मणा शम्भुशासनात् ॥ ३३॥
सती नाम त्रिशूलाग्रे सदा रुद्रेण रक्षिता ।
तपोऽर्थं निर्मिता पूर्वं शम्भुना सर्वविष्णुना ॥ ३४॥
सैव दक्षात्समुद्भूता लोककार्यार्थमेव च ।
लीलां चकार बहुशो भक्तोद्धरणहेतवे ॥ ३५॥
वामाङ्गो यस्य वैकुण्ठो दक्षिणाङ्गोऽहमेव च ।
रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः ॥ ३६॥
अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः ।
स्वयं सदा निर्गुणश्च परब्रह्माव्ययः शिवः ॥ ३७॥
विष्णुः सत्त्वं रजोऽहं च तमो रुद्र उदाहृतः ।
लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा ॥ ३८॥
अन्तस्तमो बहिः सत्त्वो विष्णू रुद्रस्तथा मतः ।
अन्तः सत्त्वस्तमो बाह्यो रजोऽहं सर्वथा मुने ॥ ३९॥
राजसी च सुरा देवी सत्त्वरूपा तु सा सती ।
लक्ष्मीस्तमोमयी ज्ञेया त्रिरूपा च शिवा परा ॥ ४०॥
एवं शिवा सती भूत्वा शङ्करेण विवाहिता ।
पितुर्यज्ञे तनुं त्यक्त्वा नादरात् स्वपदं ययौ ॥ ४१॥
पुनश्च पार्वती जाता देवप्रार्थनया शिवा ।
तपः कृत्वा सुविपुलं पुनः शिवमुपागता ॥ ४२॥
तस्य नामान्यनेकानि जातानि च मुनीश्वर ।
कालिका चण्डिका भद्रा चामुण्डा विजया जया ॥ ४३॥
जयन्ती भद्रकाली च दुर्गा भगवतीति च ।
कामाख्या कामदा ह्यम्बा मृडानी सर्वमङ्गला ॥ ४४॥
नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च ।
गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती ॥ ४५॥
गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः ।
मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम् ॥ ४६॥
एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम ।
शिवाज्ञया विरचितो ब्रह्माण्डस्य मयाखिलः ॥ ४७॥
परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः ।
अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः ॥ ४८॥
शिवया रमते स्वैरं शिवलोके मनोरमे ।
स्वतन्त्रः परमात्मा हि निर्गुणः सगुणोऽपि वै ॥ ४९॥
तस्य पूर्णावतारो हि रुद्रः साक्षाच्छिवः स्मृतः ।
कैलासे भवनं रम्यं पञ्चवक्त्रश्चकार ह ।
ब्रह्माण्डस्य तथा नाशे तस्य नाशोऽस्ति वै न हि ॥ ५०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे ब्रह्मनारदसंवादे सृष्टिवर्णनं नाम षोडशोऽध्यायः ॥ २.१.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः
२.१.१७. सप्तदशोऽध्यायः । गुणनिधिचरित्रवर्णनम् ।
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य ब्रह्मणः स तु नारदः ।
पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः ॥ १॥
नारद उवाच ।
कदा गतो हि कैलासं शङ्करो भक्तवत्सलः ।
क्व वा सखित्वं तस्यासीत् कुबेरेण महात्मना ॥ २॥
किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः ।
एतत्सर्वं समाचक्ष्व परं कौतूहलं मम ॥ ३॥
ब्रह्मोवाच ।
शृणु नारद वक्ष्यामि चरितं शशिमौलिनः ।
यथा जगाम कैलासं सखित्वं धनदस्य च ॥ ४॥
असीत् काम्पिल्यनगरे सोमयाजिकुलोद्भवः ।
दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ॥ ५॥
वेदवेदाङ्गवित्प्राज्ञो वेदान्तादिषु दक्षिणः ।
राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः ॥ ६॥
अग्निशुश्रूषणरतो वेदाध्ययनतत्परः ।
सुन्दरो रमणीयाङ्गश्चन्द्रबिम्बसमाकृतिः ॥ ७॥
आसीद् गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः ।
कृतोपनयनः सोऽष्टौ विद्यां जग्राह भूरिशः ॥
अथ पित्रानभिज्ञातो द्यूतकर्मरतोऽभवत् । ८॥
आदायादाय बहुशो धनं मातुः सकाशतः ।
समदाद् द्यूतकारेभ्यो मैत्रीं तैश्च चकार सः ॥ ९॥
सन्त्यक्तब्राह्मणाचारः सन्ध्यास्नानपराङ्मुखः ।
निन्दको वेदशास्त्राणां देवब्राह्मणनिन्दकः ॥ १०॥
स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक् ।
नटपाखण्डभाण्डैस्तु बद्धप्रेमपरम्परः ॥ ११॥
प्रेरितोऽपि जनन्या स न ययौ पितुरन्तिकम् ।
गृहकार्यान्तरव्याप्तो दीक्षितो दीक्षितायिनीम् ॥ १२॥
यदा यदैव तां पृच्छेदये गुणनिधिः सुतः ।
न दृश्यते मया गेहे कल्याणि विदधाति किम् ॥ १३॥
तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ।
स्नात्वा समर्च्य वै देवानेतावन्तमनेहसम् ॥ १४॥
अधीत्याध्ययनार्थं स द्वित्रैर्मित्रैः समं ययौ ।
एकपुत्रेति तन्माता प्रतारयति दीक्षितम् ॥ १५॥
न तत्कर्म च तद्वृत्तं किञ्चिद्वेत्ति स दीक्षितः ।
सर्वं केशान्तकर्मास्य चक्रे वर्षेऽथ षोडशे ॥ १६॥
अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च ।
गृह्योक्तेन विधानेन पाणिग्राहमकारयम् ॥ १७॥
प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु ।
शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ॥ १८॥
क्रोधनस्तेऽस्ति तनय स महात्मा पितेत्यलम् ।
यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति ॥ १९॥
आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम् ।
लोकमान्योऽस्ति ते तातः सदाचारैर्न वै धनैः ॥ २०॥
ब्राह्मणानां धनं तात सद्विद्या साधुसङ्गमः ।
किमर्थं न करोषि त्वं स्वरुचिं प्रीतमानसः ॥ २१॥
सच्छ्रोत्रियास्तेऽनूचाना दीक्षिताःसोमयाजिनः ।
इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ॥ २२॥
त्यक्त्वा दुर्वृत्तसंसर्गं साधुसङ्गरतो भव ।
सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर ॥ २३॥
तातानुरूपो रूपेण यशसा कुलशीलतः ।
ततो न त्रपसे किं नः त्यज दुर्वृत्ततां स्वकाम् ॥ २४॥
ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ।
एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव ॥ २५॥
श्वशुरोऽपि हि ते मान्यः सर्वत्र गुणशीलतः ।
ततो न त्रपसे किं नः त्यज दुर्वृत्ततां सुत ॥ २६॥
मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः ।
तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः ॥ २७॥
पश्यैतान्प्रतिवेश्मस्थान्ब्राह्मणानां कुमारकान् ।
गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ॥ २८॥
राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ।
श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ॥ २९॥
बालचेष्टितमेवैतद् वदन्त्यद्यापि ते जनाः ।
अनन्तरं हरिष्यन्ति युक्तां दीक्षिततामिह ॥ ३०॥
सर्वेऽप्याक्षारयिष्यन्ति तव तातं च मामपि ।
मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ॥ ३१॥
पितापि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः ।
तदङ्घ्रिलीनमनसो मम साक्षी महेश्वरः ॥ ३२॥
न चर्तुस्नातयापीह मुखं दुष्टस्य वीक्षितम् ।
अहो बलीयान्स विधिर्येन जातो भवानिति ॥ ३३॥
प्रतिक्षणं जनन्येति शिक्ष्यमाणोऽतिदुर्मतिः ।
न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ॥ ३४॥
मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः ।
स वारदारैर्व्यसनैरेभिः कोऽत्र न खण्डितः ॥ ३५॥
यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ।
अर्पयेद् द्यूतकाराणां सकुप्यं वसनादिकम् ॥ ३६॥
न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम् ।
चोरयित्वैकदादाय दुरोदरकरेऽर्पयत् ॥ ३७॥
दीक्षितेन परिज्ञातो दैवाद् द्यूतकृतः करे ।
उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ॥ ३८॥
पृष्टस्तेनाथ निर्बन्धादसकृत्तमुवाच सः ।
मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा ॥ ३९॥
लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता ।
मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः ॥ ४०॥
न केवलं ममैवैतदङ्गुलीयं समर्पितम् ।
अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु ॥ ४१॥
रत्नकुप्यदुकूलानि भृङ्गारप्रभृतीनि च ।
भाजनानि विचित्राणि कांस्यताम्रमयानि च ॥ ४२॥
नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः ।
न तेन सदृशः कश्चिदाक्षिको भूमिमण्डले ॥ ४३॥
अद्यावधि त्वया विप्र दुरोदरशिरोमणिः ।
कथं नाज्ञायि तनयोऽविनयानयकोविदः ॥ ४४॥
इति श्रुत्वा त्रपाभारविनम्रतरकन्धरः ।
प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ॥ ४५॥
महापतिव्रतामस्य पत्नीं प्रोवाच तामथ ।
स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः ॥ ४६॥
यज्ञदत्त उवाच ।
दीक्षितायनि कुत्रास्ति धूर्तो गुणनिधिः सुतः ।
अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ॥॥ ४७॥
अङ्गोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता ।
सा त्वं रत्नमयीं शीघ्रं तामानीय प्रयच्छ मे ॥ ४८॥
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी ।
प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयन्त्यथ ॥ ४९॥
व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि ।
समयोऽयमतिक्रामेदतिथीनां प्रियातिथे ॥ ५०॥
इदानीमेव पक्वान्नकरणव्यग्रया मया ।
स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ॥ ५१॥
दीक्षित उवाच ।
हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि ।
यदा यदा त्वां सम्पृच्छे तनयः क्व गतस्त्विति ॥ ५२॥
तदा तदेति त्वं ब्रूयान्नाथेदानीं स निर्गतः ।
अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैः सयुग्बहिः ॥ ५३॥
कुतस्ते शाटकः पत्नि माञ्जिष्ठो यो मयार्पितः ।
लम्बते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज ॥ ५४॥
साम्प्रतं नेक्ष्यते सोऽपि भृङ्गारो मणिमण्डितः ।
पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता ॥ ५५॥
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ।
नागदन्तमयी सा क्व सुखकौतुकमञ्चिका ॥ ५६॥
क्व सा पर्वतदेशीया चन्द्रकान्तिरिवाद्भुता ।
दीपकव्यग्रहस्ताग्रालङ्कृता शालभञ्जिका ॥ ५७॥
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ।
तदाभ्यवहरिष्येऽहमुपयंस्याम्यहं यदा ॥ ५८॥
अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा ।
उत्तिष्ठानय पाथस्त्वं तस्मै दद्यां तिलाञ्जलिम् ॥ ५९॥
अपुत्रत्वं वरं नृणां कुपुत्रात्कुलपांसनात् ।
त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ॥ ६०॥
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित् ।
श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ॥ ६१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनं नाम सप्तदशोऽध्यायः ॥ २.१.१७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः
२.१.१८. अष्टादशोऽध्यायः । कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनम् ।
ब्रह्मोवाच ।
श्रुत्वा तथा स वृत्तान्तं प्राक्तनं स्वं विनिन्द्य च ।
काञ्चिद्दिशं समालोक्य निर्ययौ दीक्षिताङ्गजः ॥ १॥
कियच्चिरं ततो गत्वा यज्ञदत्तात्मजः स हि ।
दुष्टो गुणनिधिस्तस्थौ गतोत्साहो विसर्जितः ॥ २॥
चिन्तामवाप महतीं क्व यामि करवाणि किम् ।
नाहमभ्यस्तविद्योऽस्मि न चैवातिधनोऽस्म्यहम् ॥ ३॥
देशान्तरे यस्य धनं स सद्यः सुखमेधते ।
भयमस्ति धने चौरात्स विघ्नः सर्वतो भवः ॥ ४॥
याजकस्य कुले जन्म कथं मे व्यसनं महत् ।
अहो बलीयान्हि विधिर्भावि कर्मानुसन्धयेत् ॥ ५॥
भिक्षितुं नाधिगच्छामि न मे परिचितः क्वचित् ।
न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत् ॥ ६॥
सदानभ्युदिते भानौ प्रसूर्मे मिष्टभोजनम् ।
दद्यादद्यात्र कं याचे न चेह जननी मम ॥ ७॥
ब्रह्मोवाच ।
इति चिन्तयतस्तस्य बहुशस्तत्र नारद ।
अतिदीनं तरोर्मूले भानुरस्ताचलं गतः ॥ ८॥
एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः ।
सहोपहारानादाय नगराद् बहिरभ्यगात् ॥ ९॥
नानाविधान्महादिव्यान्स्वजनैः परिवारितः ।
समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ॥ १०॥
शिवालयं प्रविश्याथ स भक्तः शिवसक्तधीः ।
यथोचितं सुचित्तेन पूजयामास शङ्करम् ॥ ११॥
पक्वान्नगन्धमाघ्राय यज्ञदत्तात्मजो द्विजः ।
पितृत्यक्तो मातृहीनः क्षुधितः स तमन्वगात् ॥ १२॥
इदमन्नं मया ग्राह्यं शिवायोपकृतं निशि ।
सुप्ते शैवजने दैवात्सर्वस्मिन्विविधं महत् ॥ १३॥
इत्याशामवलम्ब्याथ द्वारि शम्भोरुपाविशत् ।
ददर्श च महापूजां तेन भक्तेन निर्मिताम् ॥ १४॥
विधाय नृत्यगीतादि भक्ताः सुप्ताः क्षणे यदा ।
नैवेद्यं स तदादातुं भर्गागारं विवेश ह ॥ १५॥
दीपं मन्दप्रभं दृष्ट्वा पक्वान्नवीक्षणाय सः ।
निजचैलाञ्चलाद्वर्तिं कृत्वा दीपं प्रकाश्य च ॥ १६॥
यज्ञदत्तात्मजः सोऽथ शिवनैवेद्यमादरात् ।
जग्राह सहसा प्रीत्या पक्वान्नं बहुशस्ततः ॥ १७॥
ततः पक्वान्नमादाय त्वरितं गच्छतो बहिः ।
तस्य पादतलाघातात्प्रसुप्तः कोऽप्यबुध्यत ॥ १८॥
कोऽयं कोऽयं त्वरापन्नो गृह्यतां गृह्यतामसौ ।
इति चुक्रोश स जनो गिरा भयमहोच्चया ॥ १९॥
यावद्भयात्समागत्य तावत्स पुररक्षकैः ।
पलायमानो निहतः क्षणादन्धत्वमागतः ॥ २०॥
अभक्षयच्च नैवेद्यं यज्ञदत्तात्मजो मुने ।
शिवानुग्रहतो नूनं भाविपुण्यबलान्न सः ॥ २१॥
मृतो बद्धः समागत्य पाशमुद्गरपाणिभिः ।
निनीषुभिः संयमनीं याम्यैः स विकटैर्भटैः ॥ २२॥
तावत्पारिषदाः प्राप्ताः किङ्किणीजालमालिनः ।
दिव्यं विमानमादाय तं नेतुं शूलपाणयः ॥ २३॥
शिवगणा ऊचुः ।
मुञ्चतैनं द्विजं याम्या गणाः परमधार्मिकम् ।
दण्डयोग्यो न विप्रोऽसौ दग्धः सर्वाघसञ्चयः ॥ २४॥
इत्याकर्ण्यवचस्ते हि यमराजगणास्ततः ।
महादेवगणानाहुर्बभूवुश्चकिता भृशम् ॥ २५॥
शम्भोर्गणानथालोक्य भीतैस्तैर्यमकिङ्करैः ।
अवादि प्रणतैरित्थं दुर्वृत्तोऽयं गणा द्विजः ॥ २६॥
यमगणा ऊचुः ।
कुलाचारं प्रतीर्य्यैष पित्रोर्वाक्यपराङ्मुखः ।
सत्यशौचपरिभ्रष्टः सन्ध्यास्नानविवर्जितः ॥ २७॥
आस्तां दूरेऽस्य कर्माणि शिवनिर्माल्यलङ्घकः ।
प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योऽयं भवादृशाम् ॥ २८॥
शिवनिर्माल्यभोक्तारः शिवनिर्माल्यलङ्घकाः ।
शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत् ॥ २९॥
विषमालोक्य वा पेयं श्रेयो वा स्पर्शनं परम् ।
सेवितव्यं शिवस्वं न प्राणैः कण्ठगतैरपि ॥ ३०॥
यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ।
अस्ति चेद्धर्मलेशोऽस्य गणास्तं शृणुमो वयम् ॥ ३१॥
इत्थं तद्वाक्यमाकर्ण्य याम्यानां शिवकिङ्कराः ।
स्मृत्वा शिवपदाम्भोजं प्रोचुः पारिषदास्तु तान् ॥ ३२॥
शिवकिङ्करा ऊचुः ।
किङ्कराः शिवधर्मा ये सूक्ष्मास्ते तु भवादृशैः ।
स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ॥ ३३॥
अनेनानेनसा कर्म यत्कृतं शृणुतेह तत् ।
यज्ञदत्तात्मजेनाथ सावधानतया गणाः ॥ ३४॥
पतन्ती लिङ्गशिरसि दीपच्छाया निवारिता ।
स्वचैलाञ्चलतोऽनेन दत्त्वा दीपदशां निशि ॥ ३५॥
अपरोऽपि परो धर्मो जातस्तत्रास्य किङ्कराः ।
शृण्वतः शिवनामानि प्रसङ्गादपि गृह्यताम् ॥ ३६॥
भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ।
उपोषितेन भूतायामनेन स्थिरचेतसा ॥ ३७॥
शिवलोकमयं ह्यद्य गन्तास्माभिः सहैव तु ।
कञ्चित्कालं महाभोगान्करिष्यति शिवानुगः ॥ ३८॥
कलिङ्गराजो भविता ततो निर्धूतकल्मषः ।
एष द्विजवरो नूनं शिवप्रियतरो यतः ॥ ३९॥
अन्यत्किञ्चिन्न वक्तव्यं यूयं यात यथागतम् ।
यमदूताः स्वलोकं तु सुप्रसन्नेन चेतसा ॥ ४०॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषां यमदूता मुनीश्वर ।
यथागतं ययुः सर्वे यमलोकं पराङ्मुखाः ॥ ४१॥
सर्वं निवेदयामासुः शमनाय गणा मुने ।
तद्वृत्तमादितः प्रोक्तं शम्भुदूतैश्च धर्मतः ॥ ४२॥
धर्मराज उवाच ।
सर्वे शृणुत मद्वाक्यं सावधानतया गणाः ।
तदेव प्रीत्या कुरुत मच्छासनपुरःसरम् ॥ ४३॥
ये त्रिपुण्ड्रधरा लोके विभूत्या सितया गणाः ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४४॥
उद्धूलनकरा ये हि विभूत्या सितया गणाः ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४५॥
शिववेशतया लोके येन केनापि हेतुना ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४६॥
ये रुद्राक्षधरा लोके जटाधारिण एव ये ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४७॥
उपजीवनहेतोश्च शिववेशधरा हि ये ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥॥ ४८॥
दम्भेनापि छलेनापि शिववेशधरा हि ये ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४९॥
एवमाज्ञापयामास स यमो निजकिङ्करान् ।
मत्वा तथेति ते सर्वे तूष्णीमासञ्छुचिस्मिताः ॥ ५०॥
ब्रह्मोवाच ।
पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः ।
शिवलोकं जगामाशु तैर्गणैः शुचिमानसः ॥ ५१॥
तत्र भुक्त्वाखिलान्भोगान्संसेव्य च शिवाशिवौ ।
अरिन्दमस्य तनयः कलिङ्गाधिपतेरभूत् ॥ ५२॥
दम इत्यभिधानोऽभूच्छिवसेवापरायणः ।
बालोऽपि शिशुभिः साकं शिवभक्तिं चकार सः ॥ ५३॥
क्रमाद्राज्यमवापाथ पितर्युपरते युवा ।
प्रीत्या प्रवर्तयामास शिवधर्मांश्च सर्वशः ॥ ५४॥
नान्यं धर्मं स जानाति दुर्दमो भूपतिर्दमः ।
शिवालयेषु सर्वेषु दीपदानादृते द्विज ॥ ५५॥
ग्रामाधीशान्समाहूय सर्वान्स विषयस्थितान् ।
इत्थमाज्ञापयामास दीपा देयाः शिवालये ॥ ५६॥
अन्यथा सत्यमेवेदं स मे दण्ड्यो भविष्यति ।
दीपदानाच्छिवस्तुष्टो भवतीति श्रुतीरितम् ॥ ५७॥
यस्य यस्याभितो ग्रामं यावन्तश्च शिवालयाः ।
तत्र तत्र सदा दीपो द्योतनीयोऽविचारितम् ॥ ५८॥
ममाज्ञाभङ्गदोषेण शिरश्छेत्स्याम्यसंशयम् ।
इति तद्भयतो दीपा दीप्ताः प्रतिशिवालयम् ॥ ५९॥
अनेनैव स धर्मेण यावज्जीवं दमो नृपः ।
धर्मर्द्धिं महतीं प्राप्य कालधर्मवशं गतः ॥ ६०॥
स दीपवासनायोगाद् बहून्दीपान्प्रदीप्य वै ।
अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ॥ ६१॥
एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् ।
इति ज्ञात्वा शिवे कार्यं भजनं सुसुखार्थिभिः ॥ ६२॥
क्व स दीक्षितदायादः सर्वधर्मारतिः सदा ।
शिवालये दैवयोगाद्यातश्चोरयितुं वसु ॥
स्वार्थदीपदशोद्योतलिङ्गमौलितमोहरः । ६३॥
कलिङ्गविषये राज्यं प्राप्तो धर्मरतिं सदा ।
शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ॥ ६४॥
क्वैषा दिक्पालपदवी मुनीश्वर विलोकय ।
मनुष्यधर्मिणानेन साम्प्रतं येह भुज्यते ॥ ६५॥
इति प्रोक्तं गुणनिधेर्यज्ञदत्तात्मजस्य हि ।
चरितं शिवसन्तोषं शृण्वतां सर्वकामदम् ॥ ६६॥
सर्वदेवशिवेनासौ सखित्वं च यथेयिवान् ।
तदप्येकमना भूत्वा शृणु तात ब्रवीमि ते ॥ ६७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने कैलासगमनोपाख्याने गुणनिधिसद्गतिवर्णनं नामाष्टादशोऽध्यायः ॥ २.१.१८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः
२.१.१९. एकोनविंशोऽध्यायः । कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनम् ।
ब्रह्मोवाच ।
पाद्मे कल्पे मम पुरा ब्रह्मणो मानसात्सुतात् ।
पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणः सुतः ॥ १॥
तेनेयमलका भुक्ता पुरी विश्वकृता कृता ।
आराध्य त्र्यम्बकं देवमत्युग्रतपसा पुरा ॥ २॥
व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ।
याज्ञदत्तिरसौ श्रीमान् तपस्तेपे सुदुःसहम् ॥ ३॥
भक्तिप्रभावं विज्ञाय शम्भोस्तद्दीपमात्रतः ।
पुरा पुरारेः सम्प्राप्य काशिकां चित्प्रकाशिकाम् ॥ ४॥
शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः ।
अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः ॥ ५॥
शिवैक्यं सुमहापात्रं तपोऽग्निपरिबृंहितम् ।
कामक्रोधमहाविघ्नपतङ्गाघातवर्जितम् ॥ ६॥
प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् ।
संस्थाप्य शाम्भवं लिङ्गं सद्भावकुसुमार्चितम् ॥ ७॥
तावत्तताप स तपस्त्वगस्थिपरिशेषितम् ।
यावद् बभूव तद्वर्ष्म वर्षाणामयुतं शतम् ॥ ८॥
ततः सह विशालाक्ष्या देवो विश्वेश्वरः स्वयम् ।
अलकापतिमालोक्य प्रसन्नेनान्तरात्मना ॥ ९॥
लिङ्गे मनःसमाधाय स्थितं स्थाणुस्वरूपिणम् ।
उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ॥ १०॥
उन्मील्य नयने यावत्स पश्यति तपोधनः ।
तावदुद्यत्सहस्रांशुसहस्राधिकतेजसम् ॥ ११॥
पुरो ददर्श श्रीकण्ठं चन्द्रचूडमुमाधवम् ।
तत्तेजः परिभूताक्षितेजाः सम्मील्य लोचने ॥ १२॥
उवाच देवदेवेशं मनोरथपदातिगम् ।
निजाङ्घ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ॥ १३॥
अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ।
किमन्येन वरेणेश नमस्ते शशिशेखर ॥ १४॥
इति तद्वचनं श्रुत्वा देवदेव उमापतिः ।
ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम् ॥ १५॥
प्रसार्य नयने पूर्वमुमामेव व्यलोकयत् ।
ततोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ॥ १६॥
शम्भोः समीपे का योषिदेषा सर्वाङ्गसुन्दरी ।
अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ॥ १७॥
अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् ।
इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ॥ १८॥
क्रूरदृग्वीक्षते यावत्पुनः पुनरिदं वदन् ।
तावत्पुस्फोट तन्नेत्रं वामं वामाविलोकनात् ॥ १९॥
अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः ।
असकृद्वीक्ष्य मां वक्ति वद त्वं मे तपःप्रभाम् ॥ २०॥
असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति ।
असूयमानो मे रूपप्रेमसौभाग्यसम्पदः ॥ २१॥
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ।
उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ॥ २२॥
सम्पश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् ।
इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ॥ २३॥
वरान्ददामि ते वत्स तपसानेन तोषितः ।
निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ॥ २४॥
यक्षाणां किन्नराणां च राज्ञां राजा च सुव्रत ।
पतिः पुण्यजनानां च सर्वेषां धनदो भव ॥ २५॥
मया सख्यं च ते नित्यं वत्स्यामि च तवान्तिके ।
अलकां निकषा मित्र तव प्रीतिविवृद्धये ॥ २६॥
आगच्छ पादयोरस्याः पत ते जननी त्वियम् ।
याज्ञदत्ते महाभक्त सुप्रसन्नेन चेतसा ॥ २७॥
ब्रह्मोवाच ।
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ।
प्रसादं कुरु देवेशि तपस्विन्यङ्गजेऽत्र वै ॥ २८॥
इत्याकर्ण्य वचः शम्भोः पार्वती जगदम्बिका ।
अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ॥ २९॥
देव्युवाच ।
वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा ।
भवैकपिङ्गो नेत्रेण वामेन स्फुटितेन ह ॥ ३०॥
देवेन दत्ता ये तुभ्यं वराः सन्तु तथैव ते ।
कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ॥ ३१॥
इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ।
धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ॥ ३२॥
इत्थं सखित्वं श्रीशम्भोः प्रापैष धनदः पुरम् ।
अलकान्निकषा चासीत्कैलासः शङ्करालयः ॥ ३३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनं नामैकोनविंशोऽध्यायः ॥ २.१.१९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः
२.१.२०. विंशोऽध्यायः । कैलासोपाख्याने शिवस्य कैलासगमनम् ।
ब्रह्मोवाच ।
नारद त्वं शृणु मुने शिवागमनमुत्तमम् ।
कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात् ॥ १॥
निधिपत्ववरं दत्त्वा गत्वा स्वस्थानमुत्तमम् ।
विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः ॥ २॥
विध्यङ्गजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत् ।
तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम् ॥ ३॥
रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्म निष्कलः ।
हरिब्रह्मादिभिः सेव्यो मदभिन्नो निरञ्जनः ॥ ४॥
तत्स्वरूपेण तत्रैव सुहृद्भूत्वा विलास्यहम् ।
कुबेरस्य च वत्स्यामि करिष्यामि तपो महत् ॥ ५॥
इति सञ्चिन्त्य रुद्रोऽसौ शिवेच्छां गन्तुमुत्सुकः ।
ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम् ॥ ६॥
त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः ।
आह्वानगतिसंयुक्तो विचित्रः सान्द्रशब्दकः ॥ ७॥
तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा ।
आगमा निगमा मूर्ताः सिद्धा जग्मुश्च तत्र वै ॥ ८॥
सुरासुराद्याः सकलास्तत्र जग्मुश्च सोत्सवाः ।
सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः ॥ ९॥
गणपाश्च महाभागाः सर्वलोकनमस्कृताः ।
तेषां सङ्ख्यामहं वच्मि सावधानतया शृणु ॥ १०॥
अभ्ययाच्छङ्खकर्णश्च गणकोट्या गणेश्वरः ।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ ११॥
चतुः षष्ट्या विशाखश्च नवभिः पारियात्रकः ।
षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२॥
जालङ्को हि द्वादशभिः कोटिभिर्गणपुङ्गवः ।
सप्तभिः समदः श्रीमाँस्तथैव विकृताननः ॥ १३॥
पञ्चभिश्च कपाली हि षड्भिः सन्दारकः शुभः ।
कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा ॥ १४॥
विष्टम्भोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः । १५॥
महाकेशः सहस्रेण कोटीनां गणपो वृतः । १६॥
कुण्डी द्वादशभिर्वाहस्तथा पर्वतकः शुभः ।
कालश्च कालकश्चैव महाकालः शतेन वै ॥ १७॥
अग्निकः शतकोट्या वै कोट्याभिमुख एव च ।
आदित्यमूर्धा कोट्या च तथा चैव धनावहः ॥ १८॥
सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।
अमोघः कोकिलश्चैव कोटिकोट्या सुमन्त्रकः ॥ १९॥
काकपादोऽपरः षष्ट्या षष्ट्या सन्तानकः प्रभुः ।
महाबलश्च नवभिर्मधुपिङ्गश्च पिङ्गलः ॥ २०॥
नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च ।
कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २१॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ।
तत्राजगाम सर्वेशः कैलासगमनाय वै ॥। २२॥
काष्ठागूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ।
कोटिभिः सप्तभिश्चैत्रो नकुलीशस्स्वयं प्रभुः ॥ २३॥
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तकः प्रभुः ।
देवो भृङ्गी रिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २४॥
अशनिर्भानुकश्चैव चतुःषष्ट्या सनातनः ।
नन्दीश्वरो गणाधीशः शतकोट्या महाबलः ॥ २५॥
एते चान्ये च गणपा असङ्ख्याता महाबलाः ।
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ २६॥
सर्वे चन्द्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः ।
हारकुण्डलकेयूरमुकुटाद्यैरलङ्कृताः ॥ २७॥
ब्रह्मेन्द्रविष्णुसङ्काशा अणिमादिगणैर्वृताः ।
सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ॥ २८॥
एते गणाधिपाश्चान्ये महात्मानोऽमलप्रभाः ।
जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः ॥ २९॥
गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् ।
सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः ॥ ३०॥
इति विष्ण्वादिभिः सार्धं महेशः परमेश्वरः ।
कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः ॥ ३१॥
कुबेरोऽप्यागतं शम्भुं पूजयामास सादरम् ।
भक्त्या नानोपहारैश्च परिवारसमन्वितः ॥ ३२॥
ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् ।
शिवानुगान्समानर्च शिवतोषणहेतवे ॥ ३३॥
अथ शम्भुः समालिङ्ग्य कुबेरं प्रीतमानसः ।
मूर्ध्निं चाघ्राय सन्तस्थावलकां निकषाखिलैः ॥ ३४॥
शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः ।
नानाभक्तनिवासाय स्वपरेषां यथोचितम् ॥ ३५॥
विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने ।
रचनां रचयामास द्रुतं शम्भोरनुज्ञया ॥ ३६॥
अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा ॥ ३७॥
कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् ।
सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः ॥ ३८॥
अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः ।
अथ सर्वे प्रमुदिता विष्णुप्रभृतयः सुराः ।
मुनयश्चापरे सिद्धा अभ्यषिञ्चन्मुदा शिवम् । ३९॥
समानर्चुः क्रमात्सर्वे नानोपायनपाणयः ।
नीराजनं समाकार्षुर्महोत्सवपुरःसरम् ॥ ४०॥
तदासीत्सुमनोवृष्टिर्मङ्गलायतना मुने ।
सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः ॥ ४१॥
जयशब्दो नमः शब्दस्तत्रासीत्सर्वसंस्कृतः ।
तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः ॥ ४२॥
स्थित्वा सिंहासने शम्भुर्विरराजाधिकं तदा ।
सर्वैः संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम् ॥ ४३॥
अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक् ।
अर्थ्याभिर्वाग्भिरिष्टाभिः शकरं लोकशङ्करम् ॥ ४४॥
प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः ।
मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः ॥ ४५॥
शिवाज्ञयाथ ते सर्वे स्वं स्वं धाम ययुर्मुने ।
प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह ॥ ४६॥
उपवेश्यासने विष्णुं मां च शम्भुरुवाच ह ।
बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः ॥ ४७॥
शिव उवाच ।
हे हरे हे विधे तातौ युवां प्रियतरौ मम ।
सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा ॥ ४८॥
गच्छतं निर्भयं नित्यं स्वस्थानं च मदाज्ञया ।
सुखप्रदाताहं वै वां विशेषात्प्रेक्षकः सदा ॥ ४९॥
इत्याकर्ण्य वचः शम्भोः सुप्रणम्य तदाज्ञया ।
अहं हरिश्च स्वं धामागमाव प्रीतमानसौ ॥ ५०॥
तदानीमेव सुप्रीतः शङ्करो निधिपं मुदा ।
उपवेश्य गृहीत्वा तं कर आह शुभं वचः ॥ ५१॥
तव प्रेम्णा वशीभूतो मित्रतामगमं सखे ।
स्वस्थानं गच्छ विभयः सहायोऽहं सदानघ ॥ ५२॥
इत्याकर्ण्य वचः शम्भोः कुबेरः प्रीतमानसः ।
तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः ॥ ५३॥
स उवास गिरौ शम्भुः कैलासे पर्वतोत्तमे ।
सगणो योगनिरतः स्वच्छन्दो ध्यानतत्परः ॥ ५४॥
क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् ।
इतिहासं गणान्प्रीत्यावादीत्स्वच्छन्दमानसः ॥ ५५॥
क्वचित्कैलासकुधरसुस्थानेषु महेश्वरः ।
विजहार गणैः प्रीत्या विविधेषु विहारवित् ॥ ५६॥
इत्थं रुद्रस्वरूपोऽसौ शङ्करः परमेश्वरः ।
अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः ॥ ५७॥
नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः ।
पश्चादवाप स्वां पत्नीं दक्षपत्नीसमुद्भवाम् ॥ ५८॥
विजहार तया सत्या दक्षपुत्र्या महेश्वरः ।
सुखी बभूव देवर्षे लोकाचारपरायणः ॥ ५९॥
इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर ।
कैलासागमनं चास्य सखित्वं निधिपस्य हि ॥ ६०॥
तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी ।
इहामुत्र च या नित्यं सर्वकामफलप्रदा ॥ ६१॥
इमां कथां पठेद्यस्तु शृणुयाद्वा समाहितः ।
इह भुक्तिं समासाद्य लभेन्मुक्तिं परत्र सः ॥ ६२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ॥ २.१.२०॥
॥ इति श्रीशिवमहापुराणे द्वितीयरुद्रसंहितायां प्रथमः सृष्टिखण्डः समाप्तः ॥ २.१॥