श्रीशिवमहापुराणम् २४ रुद्रसंहितायां कुमारखण्डः

श्रीशिवमहापुराणम् २४ रुद्रसंहितायां कुमारखण्डः

॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१. प्रथमोऽध्यायः । तारकार्दितसुराणां शङ्करसन्निधौ दुःखनिवेदनम् ।

वन्दे वन्दनतुष्टमानसमतिप्रेमप्रियं प्रेमदं पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्वर्यैकवासं शिवम् । सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्मनुतं स्वकीयकृपयोपात्ताकृतिं शङ्करम् ॥ १॥ नारद उवाच । विवाहयित्वा गिरिजां शङ्करो लोकशङ्करः । गत्वा स्वपर्वतं ब्रह्मन् किमकार्षीद्धि तद्वद ॥ २॥ कथं हि तनयो जज्ञे शिवस्य परमात्मनः । यदर्थमात्मारामोऽपि समुवाह शिवां प्रभुः ॥ ३॥ तारकस्य कथं ब्रह्मन् वधोऽभूद्देवशङ्कर । एतत्सर्वमशेषेण वद कृत्वा दयां मयि ॥ ४॥ सूत उवाच । इत्याकर्ण्य वचस्तस्य नारदस्य प्रजापतिः । सुप्रसन्नमनाः स्मृत्वा शङ्करं प्रत्युवाच ह ॥ ५॥ ब्रह्मोवाच । चरितं श‍ृणु वक्ष्यामि शशिमौलेस्तु नारद । गुहजन्मकथां दिव्यां तारकासुरसद्वधम् ॥ ६॥ श्रूयतां कथयाम्यद्य कथां पापप्रणाशिनीम् । यां श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो ध्रुवम् ॥ ७॥ इदमाख्यानमनघं रहस्यं परमाद्भुतम् । पापसन्तापहरणं सर्वविघ्नविनाशनम् ॥ ८॥ सर्वमङ्गलदं सारं सर्वश्रुतिमनोहरम् । सुखदं मोक्षबीजं च कर्ममूलनिकृन्तनम् ॥ ९॥ कैलासमागत्य शिवां विवाह्य शोभां प्रपेदे नितरां शिवोऽपि । विचारयामास च देवकृत्यं पीडां जनस्यापि च देवकृत्ये ॥ १०॥ शिवःस भगवान् साक्षात्कैलासमगमद्यदा । सौख्यं च विविधं चक्रुर्गणाः सर्वे सुहर्षिताः ॥ ११॥ महोत्सवो महानासीच्छिवे कैलासमागते । देवाः स्वविषयं प्राप्ता हर्षनिर्भरमानसाः ॥ १२॥ अथ शम्भुर्महादेवो गृहीत्वा गिरिजां शिवाम् । जगाम निर्जनं स्थानं महादिव्यं मनोहरम् ॥ १३॥ शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् । अद्भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम् ॥ १४॥ स रेमे तत्र भगवान् शम्भुर्गिरिजया सह । सहस्रवर्षपर्यन्तं देवमानेन मानदः ॥ १५॥ दुर्गाङ्गस्पर्शमात्रेण लीलया मूर्च्छितः शिवः । मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम् ॥ १६॥ हरे भोगप्रवृत्ते तु लोकधर्मप्रवर्तिनि । महान् कालो व्यतीयाय तयोः क्षण इवानघ ॥ १७॥ अथ सर्वे सुरास्तात एकत्रीभूय चैकदा । मन्त्रयाञ्चक्रुरागत्य मेरौ शक्रपुरोगमाः ॥ १८॥ सुरा ऊचुः । विवाहं कृतवाञ्छम्भुरस्मत्कार्यार्थमीश्वरः । योगीश्वरो निर्विकारो स्वात्मारामो निरञ्जनः ॥ १९॥ नोत्पन्नस्तनयस्तस्य न जानीमोऽत्र कारणम् । विलम्बः क्रियते तेन कथं देवेश्वरेण ह ॥ २०॥ ब्रह्मोवाच । एतस्मिन्नन्तरे देवा नारदाद्देवदर्शनात् । बुबुधुस्तन्मितं भोगं तयोश्च रममाणयोः ॥ २१॥ चिरं ज्ञात्वा तयोर्भोगं चिन्तामापुः सुराश्च ते । ब्रह्माणं मां पुरस्कृत्य ययुर्नारायणान्तिकम् ॥ २२॥ तं नत्वा कथितं सर्वं मया वृत्तान्तमीप्सितम् । सन्तस्थिरे सर्वदेवाः चित्रे पुत्तलिका यथा ॥ २३॥ सहस्रवर्षपर्यन्तं देवमानेन शङ्करः । रतौ रतश्च निश्चेष्टो योगी विरमते न हि ॥ २४॥ श्रीभगवानुवाच । चिन्ता नास्ति जगद्धातः सर्वं भद्रं भविष्यति । शरणं व्रज देवेश शङ्करस्य महाप्रभोः ॥ २५॥ महेशशरणापन्ना ये जना मनसा मुदा । तेषां प्रजेश भक्तानां न कुतश्चिद्भयं क्वचित् ॥ २६॥ श‍ृङ्गारभङ्गः समये भविता नाधुना विधे । कालप्रयुक्तं कार्यं च सिद्धिं प्राप्नोति नान्यथा ॥ २७॥ शम्भोः सम्भोगमिष्टं को भद्रां कर्तुमिहेश्वरः । पूर्णे वर्षसहस्रे च स्वेच्छया हि विरंस्यति ॥ २८॥ स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः । तस्य स्त्रीपुत्रयोर्भेदो भवेज्जन्मनि जन्मनि ॥ २९॥ भ्रष्टज्ञानो नष्टकीर्त्तिरलक्ष्मीको भवेदिह । प्रयात्यन्ते कालसूत्रं वर्षलक्षं स पातकी ॥ ३०॥ रम्भायुक्तं शक्रमिमं चकार विरतं रतौ । महामुनीन्द्रो दुर्वासास्तत्स्त्रीभेदो बभूव ह ॥ ३१॥ पुनरन्यां स सम्प्राप्य विषेव्य शुभपाणिकाम् । दिव्यं वर्षसहस्रं च विजहौ विरहज्वरम् ॥ ३२॥ घृताच्या सह संश्लिष्टं कामं वारितवान् गुरुः । षण्मासाभ्यन्तरे चन्द्रस्तस्य पत्नीं जहार ह ॥ ३३॥ पुनश्शिवं समाराध्य कृत्वा तारामयं रणम् । तारां सगर्भां सम्प्राप्य विजहौ विरहज्वरम् ॥ ३४॥ मोहिनीसहितं चन्द्रं चकार विरतं रतौ । महर्षिर्गौतमस्तस्य स्त्रीविच्छेदो बभूव ह ॥ ३५॥ हरिश्चन्द्रो हालिकं च वृषल्या सह संयुतम् । वारयामास निश्चेष्टं निर्जने तत्फलं श‍ृणु ॥ ३६॥ भ्रष्टः स्त्रीपुत्रराज्येभ्यो विश्वामित्रेण ताडितः । ततः शिवं समाराध्य मुक्तो भूतो हि कश्मलात् ॥ ३७॥ अजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम् । न भिया वारयामासुः सुरास्तां चापि केचन ॥ ३८॥ सर्वं निषेकसाध्यं च निषेको बलवान् विधे । निषेकफलदो वै स निषेकः केन वार्यते ॥ ३९॥ दिव्यं वर्षसहस्रं च शम्भोः सम्भोगकर्म तत् । पूर्णे वर्षसहस्रे च गत्वा तत्र सुरेश्वराः ॥ ४०॥ येन वीर्यं पतेद्भूमौ तत् करिष्यथ निश्चितम् । तत्र वीर्ये च भविता स्कन्दनामा प्रभोः सुतः ॥ ४१॥ अधुना स्वगृहं गच्छ विधे सुरगणैः सह । करोतु शम्भुः सम्भोगं पार्वत्या सह निर्जने ॥ ४२॥ ब्रह्मोवाच । इत्युक्त्वा कमलाकान्तः शीघ्रं स्वान्तः पुरं ययौ । स्वालयं प्रययुर्देवा मया सह मुनीश्वर ॥ ४३॥ शक्तिशक्तिमतोश्चाथ विहारेणाति च क्षितिः । भाराक्रान्ता चकम्पे सा सशेषापि सकच्छपा ॥ ४४॥ कच्छपस्य हि भारेण सर्वाधारः समीरणः । स्तम्भितोऽथ त्रिलोकाश्च बभूवुर्भयविह्वलाः ॥ ४५॥ अथ सर्वे मया देवा हरेश्च शरणं ययुः । सर्वं निवेदयाञ्चक्रुस्तद्वृत्तं दीनमानसा ॥ ४६॥ देवा ऊचुः । देवदेव रमानाथ सर्वावनकर प्रभो । रक्ष नः शरणापन्नान् भयव्याकुलमानसान् ॥ ४७॥ स्तम्भितस्त्रिजगत्प्राणो न जाने केन हेतुना । व्याकुलं मुनिभिर्लेखैस्त्रैलोक्यं सचराचरम् ॥ ४८॥ ब्रह्मोवाच । इत्युक्त्वा सकला देवा मया सह मुनीश्वर । दीनास्तस्थुः पुरो विष्णोर्मौनीभूताः सुदुःखिताः ॥ ४९॥ तदाकर्ण्य समादाय सुरान्नः सकलान् हरिः । जगाम पर्वतं शीघ्रं कैलासं शिववल्लभम् ॥ ५०॥ तत्र गत्वा हरिर्देवैर्मया च सुरवल्लभः । ययौ शिववरस्थानं शङ्करं द्रष्टुकाम्यया ॥ ५१॥ तत्र दृष्ट्वा शिवं विष्णुर्न सुरैर्विस्मितोऽभवत् । तत्र स्थितान् शिवगणान् पप्रच्छ विनयान्वितः ॥ ५२॥ विष्णुरुवाच । हे शङ्कराः शिवः कुत्र गतः सर्वप्रभुर्गणाः । निवेदयत नः प्रीत्या दुःखितान्वै कृपालवः ॥ ५३॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य सामरस्य हरेर्गणाः । प्रोचुः प्रीत्या गणास्ते हि शङ्करस्य रमापतिम् ॥ ५४॥ शिवगणा ऊचुः । हरे श‍ृणु शिवप्रीत्या यथार्थं ब्रूमहे वयम् । ब्रह्मणा निर्जरैः सार्द्धं वृत्तान्तमखिलं च यत् ॥ ५५॥ सर्वेश्वरो महादेवो जगाम गिरिजालयम् । संस्थाप्य नोऽत्र सुप्रीत्या नानालीलाविशारदः ॥ ५६॥ तद्गुहाभ्यन्तरे शम्भुः किं करोति महेश्वरः । न जानीमो रमानाथ व्यतीयुर्बहवः समाः ॥ ५७॥ ब्रह्मोवाच । श्रुत्वेति वचनं तेषां स विष्णुः सामरो मया । विस्मितोऽति मुनिश्रेष्ठ शिवद्वारं जगाम ह ॥ ५८॥ तत्र गत्वा मया देवैः स हरिर्देववल्लभः । आर्तवाण्या मुने प्रोचे तारस्वरतया तदा ॥ ५९॥ शम्भुमस्तौन्महाप्रीत्या सामरो हि मया हरिः । तत्र स्थितो मुनिश्रेष्ठ सर्वलोकप्रभुं हरम् ॥ ६०॥ विष्णुरुवाच । किं करोषि महादेवाभ्यन्तरे परमेश्वर । तारकार्तान्सुरान्सर्वान् पाहि नः शरणागतान् ॥ ६१॥ इत्यादि संस्तुवन् शम्भुं बहुधा सोऽमरैर्मया । रुरोदाति हरिस्तत्र तारकार्तैर्मुनीश्वर ॥ ६२॥ दुःखकोलाहलस्तत्र बभूव त्रिदिवौकसाम् । मिश्रितश्शिव संस्तुत्यासुरार्त्तानां मुनीश्वर ॥ ६३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवविहारवर्णनं नाम प्रथमोऽध्यायः ॥ २.४.१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.२. द्वितीयोऽध्यायः । शरवणे कार्तिकेयोत्पत्तिवर्णनम् ।

ब्रह्मोवाच । तदाकर्ण्य महादेवो योगज्ञानविशारदः । त्यक्तकामो न तत्याज सम्भोगं पार्वतीभयात् ॥ १॥ आजगाम गृहद्वारि सुराणां निकटं शिवः । दैत्येन पीडितानां च शङ्करो भक्तवत्सलः ॥ २॥ देवाःसर्वे प्रभुं दृष्ट्वा हरिणा च मया शिवम् । बभूबुः सुखिनश्चाति तदा वै भक्तवत्सलम् ॥ ३॥ इत्याकर्ण्य वचस्तेषां सुराणां भगवान्भवः । प्रत्युवाच विषण्णात्मा दूयमानेन चेतसा ॥ ४॥ प्रणम्य सुमहाप्रीत्या नतस्कन्धाश्च निर्जराः । तुष्टुवुः शङ्करं सर्वे मया च हरिणा मुने ॥ ५॥ देवा ऊचुः । देवदेव महादेव करुणासागर प्रभो । अन्तर्यामी हि सर्वेषां सर्वं जानासि शङ्कर ॥ ६॥ देवकार्यं कुरु विभो रक्ष देवान् महेश्वर । जहि दैत्यान् कृपां कृत्वा तारकादीन् महाप्रभो ॥ ७॥ शिव उवाच । हे विष्णो हे विधे देवाः सर्वेषां वो मनोगतिः । यद्भावि तद्भवत्येव कोऽपि नो तन्निवारकः ॥ ८॥ यज्जातं तज्जातमेव प्रस्तुतं श‍ृणुतामराः । शिवरेतस्खलितं वीर्यं को ग्रहीष्यति मेऽधुना ॥ ९॥ स गृह्णीयादिति प्रोच्य पातयामास तद्भुवि । अग्निर्भूत्वा कपोतो हि प्रेरितःसर्वनिर्जरैः ॥ १०॥ अभक्षच्छाम्भवं वीर्यं चञ्च्वा तु निखिलं तदा । एतस्मिन्नन्तरे तत्राजगाम गिरिजा मुने ॥ ११॥ शिवागमविलम्बे च ददर्श सुरपुङ्गवान् ॥ ज्ञात्वा तद्वृत्तमखिलं महाक्रोधयुता शिवा ॥ १२॥ उवाच त्रिदशान् सर्वान् हरिप्रभृतिकाँस्तदा ॥ १३॥ देव्युवाच । रे रे सुरगणाःसर्वे यूयं दुष्टा विशेषतः । स्वार्थसंसाधका नित्यं तदर्थं परदुःखदाः ॥ १४॥ स्वार्थहेतोर्महेशानमाराध्य परमं प्रभुम् । नष्टं चक्रुर्मद्विहारं वन्ध्याऽभवमहं सुराः ॥ १५॥ मां विरोध्य सुखं नैव केषाञ्चिदपि निर्जराः । तस्माद्दुःखं भवेद्वो हि दुष्टानां त्रिदिवौकसाम् ॥ १६॥ ब्रह्मोवाच । इत्युक्त्वा विष्णुप्रमुखान् सुरान् सर्वान् शशाप सा । प्रज्वलन्ती प्रकोपेन शैलराजसुता शिवा ॥ १७॥ पार्वत्युवाच । अद्यप्रभृति देवानां वन्ध्या भार्या भवन्त्विति । देवाश्च दुःखिताःसन्तु निखिला मद्विरोधिनः ॥ १८॥ ब्रह्मोवाच । इति शप्त्वाखिलान्देवान् विष्ण्वाद्यान्सकलेश्वरी । उवाच पावकं क्रुद्धा भक्षकं शिवरेतसः ॥ १९॥ पार्वत्युवाच । सर्वभक्षी भव शुचे पीडितात्मेति नित्यशः । शिवतत्त्वं न जानासि मूर्खोऽसि सुरकार्यकृत् ॥ २०॥ रे रे शठ महादुष्ट दुष्टानां दुष्टबोधवान् । अभक्षः शिववीर्यं यन्नाकार्षीरुचितं हितम् ॥ २१॥ ब्रह्मोवाच । इति शप्त्वा शिवा वह्निं सहेशेन नगात्मजा । जगाम स्वालयं शीघ्रमसन्तुष्टा ततो मुने ॥ २२॥ गत्वा शिवा शिवं सम्यक् बोधयामास यत्नतः । अजीजनत्परं पुत्रं गणेशाख्यं मुनीश्वर ॥ २३॥ तद्वृत्तान्तमशेषं च वर्णयिष्ये मुनेऽग्रतः । इदानीं श‍ृणु सुप्रीत्या गुहोत्पत्तिं वदाम्यहम् ॥ २४॥ पावकार्पितमन्नादि भुञ्जते निर्जराः खलु । वेदवाण्येति सर्वे ते सगर्भा अभवन्सुराः ॥ २५॥ ततोऽसहन्तस्तद्वीर्यं पीडिता ह्यभवन् सुराः । विष्ण्वाद्या निखिलाश्चाति शिवाज्ञानष्टबुद्धयः ॥ २६॥ अथ विष्णुप्रभृतिकाःसर्वे देवा विमोहिताः । दह्यमाना ययुः शीघ्रं शरणं पार्वतीपतेः ॥ २७॥ शिवालयस्य ते द्वारि गत्वा सर्वे विनम्रकाः । तुष्टुवुःसशिवं शम्भुं प्रीत्या साञ्जलयःसुराः ॥ २८॥ देवा ऊचुः । देवदेव महादेव गिरिजेश महाप्रभो । किं जातमधुना नाथ तव माया दुरत्यया ॥ २९॥ सगर्भाश्च वयं जाता दह्यमानाश्च रेतसा । तव शम्भो कुरु कृपां निवारय दशामिमाम् ॥ ३०॥ ब्रह्मोवाच । इत्याकर्ण्याऽमरनुतिं परमेशः शिवापतिः । आजगाम द्रुतं द्वारि यत्र देवाः स्थिता मुने ॥ ३१॥ आगतं शङ्करं द्वारि सर्वे देवाश्च साच्युताः । प्रणम्य तुष्टुवुः प्रीत्या नर्तका भक्तवत्सलम् ॥ ३२॥ देवा ऊचुः । शम्भो शिव महेशान त्वां नताः स्म विशेषतः । रक्ष नः शरणापन्नान् दह्यमानांश्च रेतसा ॥ ३३॥ इदं दुःखं हर हर भवामो हि मृता ध्रुवम् । त्वां विना कः समर्थोऽद्य देवदुःखनिवारणे ॥ ३४॥ ब्रह्मोवाच । इति दीनतरं वाक्यमाकर्ण्य सुरराट् प्रभुः । प्रत्युवाच विहस्याथ स सुरान् भक्तवत्सलः ॥ ३५॥ शिव उवाच । हे हरे हे विधे देवाः सर्वे श‍ृणुत मद्वचः । भविष्यति सुखं वोऽद्य सावधाना भवन्तु हि ॥ ३६॥ एतद्वमत मद्वीर्यं द्रुतमेवाखिलाःसुराः । सुखिनस्तद्विशेषेण शासनान्मम सुप्रभोः ॥ ३७॥ ब्रह्मोवाच । इत्याज्ञां शिरसाऽधाय विष्ण्वाद्याः सकलाः सुराः । अकार्षुर्वमनं शीघ्रं स्मरन्तः शिवमव्ययम् ॥ ३८॥ तच्छम्भुरेतःस्वर्णाभं पर्वताकारमद्भुतम् । अभवत्पतितं भूमौ स्पृशद् द्यामेव सुप्रभम् ॥ ३९॥ अभवन्सुखिनःसर्वे सुराः सर्वेऽच्युतादयः । अस्तुवन् परमेशानं शङ्करं भक्तवत्सलम् ॥ ४०॥ पावकस्त्वभवन्नैव सुखी तत्र मुनीश्वर । तस्याज्ञां परमोऽदाद्वै शङ्करः परमेश्वरः ॥ ४१॥ ततः सवह्निर्विकलः साञ्जलिर्नतको मुने । अस्तौच्छिवं सुखी नात्मा वचनं चेदमब्रवीत् ॥ ४२॥ अग्निरुवाच । देवदेव महेशान मूढोऽहं तव सेवकः । क्षमस्व मेऽपराधं हि मम दाहं निवारय ॥ ४३॥ त्वं दीनवत्सलः स्वामिन् शङ्करः परमेश्वरः । प्रत्युवाच प्रसन्नात्मा पावको दीनवत्सलम् ॥ ४४॥ ब्रह्मोवाच । इत्याकर्ण्य शुचेर्वाणीं स शम्भुः परमेश्वरः । प्रत्युवाच प्रसन्नात्मा पावकं दीनवत्सलः ॥ ४५॥ शिव उवाच । कृतं त्वनुचितं कर्म मद्रेतो भक्षितं हि यत् । अतो निवृत्तस्ते दाहः पापाधिक्यान्मदाज्ञया ॥ ४६॥ इदानीं त्वं सुखी नाम शुचे मच्छरणागतः । अतः प्रसन्नो जातोऽहं सर्वं दुःखं विनश्यति ॥ ४७॥ कस्याश्चित्सुस्त्रियां योनौ मद्रेतस्त्यज यत्नतः । भविष्यति सुखी त्वं हि निर्दाहात्मा विशेषतः ॥ ४८॥ ब्रह्मोवाच । शम्भुवाक्यं निशम्येति प्रत्युवाच शनैः शुचिः । साञ्जलिर्नतकः प्रीत्या शङ्करं भक्तशङ्करम् ॥ ४९॥ दुरासदमिदं तेजस्तव नाथ महेश्वर । काचिन्नास्ति विना शक्त्या धर्तुं योनौ जगत्त्रये ॥ ५०॥ इत्थं यदाऽब्रवीद्वह्निस्तदा त्वं मुनिसत्तम । शङ्करप्रेरितः प्रात्थ हृदाग्निमुपकारकः ॥ ५१॥ नारद उवाच । श‍ृणु मद्वचनं वह्ने तव दाहहरं शुभम् । परमानन्ददं रम्यं सर्वकष्टनिवारकम् ॥ ५२॥ कृत्वोपायमिमं वह्ने सुखी भव विदाहकः । शिवेच्छया मया सम्यगुक्तं तातेदमादरात् ॥ ५३॥ तपोमासस्नानकर्त्र्यः स्त्रियो याःस्युः प्रगे शुचे । तद्देहेषु स्थापय त्वं शिवरेतस्त्विदं महत् ॥ ५४॥ ब्रह्मोवाच । तस्मिन्नवसरे तत्रागताः सप्तमुनिस्त्रियः । तपोमासि स्नानकामाः प्रातः सन्नियमा मुने ॥ ५५॥ स्नानं कृत्वा स्त्रियस्ता हि महाशीतार्द्दिताश्च षट् । गन्तुकामा मुने याता वह्निज्वालासमीपतः ॥ ५६॥ विमोहिताश्च ता दृष्ट्वारुन्धती गिरिशाज्ञया । निषिषेध विशेषेण सुचरित्रा सुबोधिनी ॥ ५७॥ ताः षड् मुनिस्त्रियो मोहाद्धठात्तत्र गता मुने । स्वशीतविनिवृत्त्यर्थं मोहिताः शिवमायया ॥ ५८॥ तद्रेतःकणिकाः सद्यस्तद्देहान् विविशुर्मुने । रोमद्वाराऽखिला वह्निरभूद्दाहविवर्जितः ॥ ५९॥ अन्तर्धाय द्रुतं वह्निर्ज्वालारूपो जगाम ह । सुखी स्वलोकं मनसा स्मरंस्त्वां शङ्करं च तम् ॥ ६०॥ सगर्भास्ताः स्त्रियः साधोऽभवन् दाहप्रपीडिताः । जग्मुःस्वभवनं तातारुन्धती दुःखिताग्निना ॥ ६१॥ दृष्ट्वा स्वस्त्रीगतिं तात नाथाः क्रोधाकुला द्रुतम् । तत्यजुस्ताः स्त्रियस्तात सुसम्मन्त्र्य परस्परम् ॥ ६२॥ अथ ताः षट् स्त्रियःसर्वा दृष्ट्वा स्वव्यभिचारकम् । महादुःखान्वितास्ताताभवन्नाकुलमानसाः ॥ ६३॥ तत्यजुश्शिवरेतस्तद्गर्भरूपं मुनिस्त्रियः । ता हिमाचलपृष्ठेऽथाभवन् दाहविवर्जिताः ॥ ६४॥ असहन् शिवरेतस्तद्धिमाद्रिः कम्पमुद्वहन् । गङ्गायां प्राक्षिपत्तूर्णमसह्यं दाहपीडितः ॥ ६५॥ गङ्गयाऽपि च तद्वीर्यं दुस्सहं परमात्मनः । निःक्षिप्तं हि शरस्तम्बे तरङ्गैः स्वैर्मुनीश्वर ॥ ६६॥ पतितं तत्र तद्रेतो द्रुतं बालो बभूव ह । सुन्दरः सुभगः श्रीमांस्तेजस्वी प्रीतिवर्द्धनः ॥ ६७॥ मार्गमासे सिते पक्षे तिथौ षष्ठ्यां मुनीश्वर । प्रादुर्भावोऽभवत्तस्य शिवपुत्रस्य भूतले ॥ ६८॥ तस्मिन्नवसरे ब्रह्मन्नकस्माद्धिमशैलजा । अभूतां सुखिनौ तत्र स्वगिरौ गिरिशोऽपि च ॥ ६९॥ शिवाकुचाभ्यां सुस्राव पय आनन्दसम्भवम् । तत्र गत्वा च सर्वेषां सुखमासीन्मुनेऽधिकम् ॥ ७०॥ मङ्गलं चाऽभवत्तात त्रिलोक्यां सुखदं सताम् । खलानामभवद्विघ्नो दैत्यानां च विशेषतः ॥ ७१॥ अकस्मादभवद् व्योम्नि परमो दुन्दुभिध्वनिः । पुष्पवृष्टिः पपाताऽशु बालकोपरि नारद ॥ ७२॥ विष्ण्वादीनां समस्तानां देवानां मुनिसत्तम । अभूदकस्मात्परम आनन्दः परमोत्सवः ॥ ७३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं नाम द्वितीयोऽध्यायः ॥ २.४.२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.३. तृतीयोऽध्यायः । कार्तिकेयलीलावर्णनम् ।

नारद उवाच । देवदेव प्रजानाथ ब्रह्मन् सृष्टिकर प्रभो । ततः किमभवत्तत्र तद्वदाऽद्य कृपां कुरु ॥ १॥ ब्रह्मोवाच । तस्मिन्नवसरे तात विश्वामित्रः प्रतापवान् । प्रेरितो विधिना तत्रागच्छत्प्रीतो यदृच्छया ॥ २॥ स दृष्ट्वालौकिकं धाम तत्सुतस्य सुतेजसः । अभवत्पूर्णकामस्तु सुप्रसन्नो ननाम च ॥ ३॥ अकरोत्सुनुतिं तस्य सुप्रसन्नेन चेतसा । विधिप्रेरितवाग्भिश्च विश्वामित्रः प्रभाववित् ॥ ४॥ ततःसोऽभूत्सुतस्तत्र सुप्रसन्नो महोतिकृत् । सुप्रहस्याद्भुतमहो विश्वामित्रमुवाच च ॥ ५॥ शिवसुत उवाच । शिवेच्छया महाज्ञानिन्नकस्मात्त्वमिहागतः । संस्कारं कुरु मे तात यथावद्वेदसम्मितम् ॥ ६॥ अद्यारभ्य पुरोधास्त्वं भव मे प्रीतिमावहन् । भविष्यसि सदा पूज्यः सर्वेषां नात्र संशयः ॥ ७॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य सुप्रसन्नो हि गाधिजः । तमुवाचानुदात्तेन स्वरेण च सुविस्मितः ॥ ८॥ विश्वामित्र उवाच । श‍ृणु तात न विप्रोऽहं गाधिक्षत्रियबालकः । विश्वामित्रेति विख्यातः क्षत्रियो विप्रसेवकः ॥ ९॥ इति स्वचरितं ख्यातं मया ते वरबालक । कस्त्वं स्वचरितं ब्रूहि विस्मितायाखिलं हि मे ॥ १०॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य तत्स्ववृत्तं जगाद ह । ततश्चोवाच सुप्रीत्या गाधिजं तं महोतिकृत् ॥ ११॥ शिवसुत उवाच । विश्वामित्र वरान्मे त्वं ब्रह्मर्षिर्नात्र संशयः । वसिष्ठाद्याश्च नित्यं त्वां प्रशंसिष्यन्ति चादरात् ॥ १२॥ अतस्त्वमाज्ञया मे हि संस्कारं कर्तुमर्हसि । इदं सर्वं सुगोप्यं ते कथनीयं न कुत्रचित् ॥ १३॥ ब्रह्मोवाच । ततोऽकार्षीत्स संस्कारं तस्य प्रीत्याऽखिलं यथा । शिवबालस्य देवर्षे वेदोक्तविधिना परम् ॥ १४॥ शिवबालोपि सुप्रीतो दिव्यज्ञानमदात्परम् । विश्वामित्राय मुनये महोतिकारकः प्रभुः ॥ १५॥ पुरोहितं चकारासौ विश्वामित्रं शुचेस्सुतः । तदारभ्य द्विजवरो नानालीलाविशारदः ॥ १६॥ इत्थं लीला कृता तेन कथिता सा मया मुने । तल्लीलामपरां तात श‍ृणु प्रीत्या वदाम्यहम् ॥ १७॥ तस्मिन्नवसरे तात श्वेतनामा च सम्प्रति । तत्राऽपश्यत्सुतं दिव्यं निजं परमपावनम् ॥ १८॥ ततस्तं पावको गत्वा दृष्ट्वालिङ्ग्य चुचुम्ब च । पुत्रेति चोक्त्वा तस्मै स शस्त्रं शक्तिं ददौ च सः ॥ १९॥ गुहस्तां शक्तिमादाय तच्छृङ्गं चारुरोह ह । तं जघान तया शक्त्या श‍ृङ्गो भुवि पपात सः ॥ २०॥ दशपद्ममिता वीरा राक्षसाः पूर्वमागताः । तद्वधार्थं द्रुतं नष्टा बभूवुस्तत्प्रहारतः ॥ २१॥ हाहाकारो महानासीच्चकम्पे साचला मही । त्रैलोक्यं च सुरेशानःसदेवस्तत्र चागमत् ॥ २२॥ दक्षिणे तस्य पार्श्वे च वज्रेण स जघान च । शाखनामा ततो जातः पुमांश्चैको महाबलः ॥ २३॥ पुनश्शक्रो जघानाशु वामपार्श्वे हि तं तदा । वज्रेणाऽन्यः पुमाञ्जातो विशाखाख्योऽपरो बली ॥ २४॥ ततस्तद्धृदयं शक्रो जघान पविना तदा । परोऽभून्नैगमोपाख्यः पुमांस्तद्वन्महाबलः ॥ २५॥ तदा स्कन्दादिचत्वारो महावीरा महाबलाः । इन्द्रं हन्तुं द्रुतं जग्मुः सोऽयं तच्छरणं ययौ ॥ २६॥ शक्रः ससामरगणो भयं प्राप्य गृहात्ततः । ययौ स्वलोकं चकितो न भेदं ज्ञातवान्मुने ॥ २७॥ स बालकस्तु तत्रैव तस्थाऽऽवानन्दसंयुतः । पूर्ववन्निर्भयस्तात नानालीलाकरः प्रभुः ॥ २८॥ तस्मिन्नवसरे तत्र कृत्तिकाख्याश्च षट् स्त्रियः । स्नातुं समागता बालं ददृशुस्तं महाप्रभुम् ॥ २९॥ ग्रहीतुं तं मनश्चक्रुःसर्वास्ता कृत्तिकाः स्त्रियः । वादो बभूव तासां तद्ग्रहणेच्छापरो मुने ॥ ३०॥ तद्वादशमनार्थं स षण्मुखानि चकार ह । पपौ दुग्धं च सर्वासां तुष्टास्ता अभवन्मुने ॥ ३१॥ तन्मनोगतिमाज्ञाय सर्वास्ताः कृत्तिकास्तदा । तमादाय ययुर्लोकं स्वकीयं मुदिता मुने ॥ ३२॥ तं बालकं कुमाराख्यं स्तनं दत्त्वा स्तनार्थिने । वर्द्धयामासुरीशस्य सुतं सूर्याधिकप्रभम् ॥ ३३॥ न चक्रुर्बालकं याश्च लोचनानामगोचरम् । प्राणेभ्योऽपि प्रेमपात्रं यः पोष्टा तस्य पुत्रकः ॥ ३४॥ यानि यानि च वस्त्राणि त्रैलोक्ये दुर्लभानि च । ददुस्तस्मै च ताः प्रेम्णा भूषणानि वराणि वै ॥ ३५॥ दिने दिने ताः पुपुषुर्बालकं तं महाप्रभुम् । प्रशंसितानि स्वादूनि भोजयित्वा विशेषतः ॥ ३६॥ अथैकस्मिन् दिने तात स बालः कृत्तिकात्मजः । गत्वा देवसभां दिव्यां सुचरित्रं चकार ह ॥ ३७॥ स्वमहो दर्शयामास देवेभ्यो हि महाद्भुतम् । सविष्णुभ्योऽखिलेभ्यश्च महोतिकरबालकः ॥ ३८॥ तं दृष्ट्वा सकलास्ते वै साच्युताःसर्षयः सुराः । विस्मयं प्रापुरत्यन्तं पप्रच्छुस्तं च बालकम् ॥ ३९॥ को भवानिति तच्छ्रुत्वा न किञ्चित्स जगाद ह । स्वालयं स जगामाशु गुप्तस्तस्थौ हि पूर्ववत् ॥ ४०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं नाम तृतीयोऽध्यायः ॥ २.४.३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.४. चतुर्थोऽध्यायः । कार्तिकेयान्वेषणनन्दिसंवादवर्णनम् ।

नारद उवाच । देवदेव प्रजानाथ ततः किमभवद्विधे । वदेदानीं कृपातस्तु शिवलीलासमन्वितम् ॥ १॥ ब्रह्मोवाच । कृत्तिकाभिर्गृहीते वै तस्मिन् शम्भुसुते मुने । कश्चित्कालो व्यतीयाय बुबुधे न हिमाद्रिजा ॥ २॥ तस्मिन्नवसरे दुर्गा स्मेराननसरोरुहा । उवाच स्वामिनं शम्भुं देवदेवेश्वरं प्रभुम् ॥ ३॥ पार्वत्युवाच । देवदेव महादेव श‍ृणु मे वचनं शुभम् । पूर्वपुण्यातिभारेण त्वं मया प्राप्त ईश्वरः ॥ ४॥ कृपया योगिषु श्रेष्ठो विहारैस्तत्परोऽभवः । रतिभङ्गः कृतो देवैस्तत्र मे भवता भव ॥ ५॥ भूमौ निपतितं वीर्यं नोदरे मम ते विभो । कुत्र यातं च तद्देव केन देवेन निह्नुतम् ॥ ६॥ कथं मत्स्वामिनो वीर्यममोघं ते महेश्वर । मोघं यातं च किं किं वा शिशुर्जातश्च कुत्रचित् ॥ ७॥ ब्रह्मोवाच । पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः । उवाच देवानाहूय मुनींश्चापि मुनीश्वर ॥ ८॥ महेश्वर उवाच । देवाः श‍ृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् । अमोघं कुत्र मे वीर्यं यातं केन च निह्नुतम् ॥ ९॥ सभयं नाप तत्क्षिप्रं स चेद्दण्डं न चार्हति । शक्तौ राजा न शास्ता यः प्रजाबाध्यश्च भक्षकः ॥ १०॥ ब्रह्मोवाच शम्भोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् । ऊचुःसर्वे क्रमेणैव त्रस्तास्तु पुरतः प्रभोः ॥ ११॥ विष्णुरुवाच । ते मिथ्यावादिनःसन्तु भारते गुरुदारिकाः । गुरुनिन्दारताः शश्वत्त्वद्वीर्यं यैश्च निह्नुतम् ॥ १२॥ ब्रह्मोवाच । त्वद्वीर्यं निह्नुतं येन पुण्यक्षेत्रे च भारते । स नाऽन्वितो भवेत्तत्र सेवने पूजने तव ॥ १३॥ लोकपाला ऊचुः । त्वदवीर्यं निह्नुतं येन पापिना पतितभ्रमात् । भाजनं तस्य सोत्यन्तं तत्तापं कर्म सन्ततम् ॥ १४॥ देवा ऊचुः । कृत्वा प्रतिज्ञां यो मूढो नाऽऽपादयति पूर्णताम् । भाजनं तस्य पापस्य त्वद्वीर्यं येन निह्नुतम् ॥ १५॥ देवपत्न्य ऊचुः । या निन्दति स्वभर्तारं परं गच्छति पूरुषम् । मातृबन्धुविहीना च त्वद्वीर्यं निह्नुतं यया ॥ १६॥ ब्रह्मोवाच । देवानां वचनं श्रुत्वा देवदेवेश्वरो हरः । कर्मणां साक्षिणश्चाह धर्मादीन्सभयं वचः ॥ १७॥ श्रीशिव उवाच । देवैर्न निह्नुतं केन तद्वीर्यं निह्नुतं ध्रुवम् । तदमोघं भगवतो महेशस्य मम प्रभोः ॥ १८॥ यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् । युष्माकं निह्नुतं किं वा किं ज्ञातुं वक्तुमर्हथ ॥ १९॥ ब्रह्मोवाच । ईश्वरस्य वचः श्रुत्वा सभायां कम्पिताश्च ते । परस्परं समालोक्य क्रमेणोचुः पुरः प्रभोः ॥ २०॥ ब्रह्मोवाच । रते तु तिष्ठतो वीर्यं पपात वसुधातले । मया ज्ञातममोघं तच्छङ्करस्य प्रकोपतः ॥ २१॥ क्षितिरुवाच वीर्यं सोढुमशक्ताहं तद्वह्नौ न्यक्षिपं पुरा । अतोऽत्र दुर्वहं ब्रह्मन्नबलां क्षन्तुमर्हसि ॥ २२॥ वह्निरुवाच वीर्यं सोढुमशक्तोऽहं तव शङ्कर पर्वते । कैलासे न्यक्षिपं सद्यः कपोतात्मा सुदुस्सहम् ॥ २३॥ गिरिरुवाच वीर्यं सोढुमशक्तोऽहं तव शङ्कर लोकप । गङ्गायां प्राक्षिपं सद्यो दुस्सहं परमेश्वर ॥ २४॥ गङ्गोवाच वीर्यं सोढुमशक्ताहं तव शङ्कर लोकप । व्याकुलाऽति प्रभो नाथ न्यक्षिपं शरकानने ॥ २५॥ वायुरुवाच शरेषु पतितं वीर्यं सद्यो बालो बभूव ह । अतीव सुन्दरः शम्भो स्वर्नद्याः पावने तटे ॥ २६॥ सूर्य उवाच रुदन्तं बालकं दृष्ट्वागममस्ताचलं प्रभो । प्रेरितः कालचक्रेण निशायां स्थातुमक्षमः ॥ २७॥ चन्द्र उवाच रुदन्तं बालकं प्राप्य गृहीत्वा कृत्तिकागणः । जगाम स्वालयं शम्भो गच्छन्बदरिकाश्रमम् ॥ २८॥ जलमुवाच अमुं रुदन्तमानीय स्तन्यपानेन ताः प्रभो । वर्द्धयामासुरीशस्य सुतं तव रविप्रभम् ॥ २९॥ सन्ध्योवाच अधुना कृत्तिकानां च वने तं पोष्य पुत्रकम् । तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतुकात् ॥ ३०॥ रात्रिरुवाच न चक्रुर्बालकं ताश्च लोचनानामगोचरम् । प्राणेभ्योऽपि प्रीतिपात्रं यः पोष्टा तस्य पुत्रक ॥ ३१॥ दिनमुवाच यानि यानि च वस्त्राणि भूषणानि वराणि च । प्रशंसितानि स्वादूनि भोजयामासुरेव तम् ॥ ३२॥ ब्रह्मोवाच तेषां तद्वचनं श्रुत्वा सन्तुष्टः पुरसूदनः । मुदं प्राप्य ददौ प्रीत्या विप्रेभ्यो बहुदक्षिणाम् ॥ ३३॥ पुत्रस्य वार्त्तां सम्प्राप्य पार्वती हृष्टमानसा । कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च ॥ ३४॥ लक्ष्मी सरस्वती मेना सावित्री सर्वयोषितः । विष्णुः सर्वे च देवाश्च ब्राह्मणेभ्यो ददुर्धनम् ॥ ३५॥ प्रेरितः स प्रभुर्देवैर्मुनिभिः पर्वतैरथ । दूतान् प्रस्थापयामास स्वपुत्रो यत्र तान् गणान् ॥ ३६॥ वीरभद्रं विशालाक्षं शङ्कुकर्णं कराक्रमम् । नन्दीश्वरं महाकालं वज्रद्रंष्ट्रं महोन्मदम् ॥ ३७॥ गोकर्णास्यं दधिमुखं ज्वलदग्निशिखोपमम् । लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ॥ ३८॥ रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् । अन्यांश्च विकृताकारानसङ्ख्यानपि नारद ॥ ३९॥ ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः । कृत्तिकानां च भवनं वेष्टयामासुरुद्धताः ॥ ४०॥ दृष्ट्वा तान् कृत्तिकाःसर्वा भयविह्वलमानसाः । कार्त्तिकं कथयामासुर्ज्वलन्तं ब्रह्मतेजसा ॥ ४१॥ कृत्तिका ऊचुः । वत्स सैन्यान्यसङ्ख्यानि वेष्टयामासुरालयम् । किं कर्तव्यं क्व गन्तव्यं महाभयमुपस्थितम् ॥ ४२॥ कार्तिकेय उवाच भयं त्यजत कल्याण्यो भयं किं वा मयि स्थिते । दुर्निवार्योऽस्मि बालश्च मातरः केन वार्यते ॥ ४३॥ ब्रह्मोवाच एतस्मिन्नन्तरे तत्र सैन्येन्द्रो नन्दिकेश्वरः । पुरतः कार्तिकेयस्योपविष्टः समुवाच ह ॥ ४४॥ नन्दीश्वर उवाच भ्रातः प्रवृत्तिं श‍ृणु मे मातरश्च शुभावहाम् । प्रेरितोऽहं महेशेन संहर्त्रा शङ्करेण च ॥ ४५॥ कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः । सभायां संस्थितास्तात महत्युत्सवमङ्गले ॥ ४६॥ तदा शिवा सभायां वै शङ्करं सर्व शङ्करम् । सम्बोध्य कथयामास तवान्वेषणहेतुकम् ॥ ४७॥ पप्रच्छ तान् शिवो देवान् क्रमात्त्वत्प्राप्तिहेतवे । प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम् ॥ ४८॥ त्वामत्र कृत्तिकास्थाने कथयामासुरीश्वरम् । सर्वे धर्मादयो धर्माधर्मस्य कर्मसाक्षिणः ॥ ४९॥ प्रबभूव रहः क्रीडा पार्वतीशिवयोः पुरा । दृष्टस्य च सुरैः शम्भोर्वीर्यं भूमौ पपात ह ॥ ५०॥ भूमिस्तदक्षिपद्वह्नौ वह्निश्चाद्रौ स भूधरः । गङ्गायां सोऽक्षिपद्वेगात् तरङ्गैः शरकानने ॥ ५१॥ तत्र बालोऽभवस्त्वं हि देवकार्यकृतिः प्रभुः । तत्र लब्धः कृत्तिकाभिस्त्वं भूमिं गच्छ साम्प्रतम् ॥ ५२॥ तवाभिषेकं शम्भुस्तु करिष्यति सुरैः सह । लप्स्यसे सर्वशस्त्राणि तारकाख्यं हनिष्यसि ॥ ५३॥ पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां प्राप्तुं चाऽक्षमा इमाः । नाग्निं गोप्तुं यथा शक्तः शुष्कवृक्षः स्वकोटरे ॥ ५४॥ दीप्तवांस्त्वं च विश्वेषु नासां गेहेषु शोभसे । यथा पतन्महाकूपे द्विजराजो न राजते ॥ ५५॥ करोषि च यथाऽऽलोकं नाऽऽच्छन्नोऽस्मासु तेजसा । यथा सूर्यः कलाच्छन्नो न भवेन्मानवस्य च ॥ ५६॥ विष्णुस्त्वं जगतां व्यापी नान्यो जातोऽसि शाम्भव । यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ॥ ५७॥ योगीन्द्रो नाऽनुलिप्तश्च भागी चेत्परिपोषणे । नैव लिप्तो यथात्मा च कर्मयोगेषु जीविनाम् ॥ ५८॥ विश्वारम्भस्त्वमीशश्च नासु ते सम्भवेत् स्थितिः । गुणानां तेजसां राशिर्यथात्मानं च योगिनः ॥ ५९॥ भ्रातर्ये त्वां न जानन्ति ते नरा हतबुद्धयः । नाद्रियन्ते यथा भेकास्त्वेकवासाश्च पङ्कजान् ॥ ६०॥ कार्त्तिकेय उवाच भ्रातःसर्वं विजानासि ज्ञानं त्रैकालिकं च यत् । ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः ॥ ६१॥ कर्मणां जन्म येषां वा यासु यासु च योनिषु । तासु ते निर्वृतिं भ्रातः प्राप्नुवन्तीह साम्प्रतम् ॥ ६२॥ कृत्तिकाज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः । स्तन्येनासां वर्द्धितोऽहमुपकारेण सन्ततम् ॥ ६३॥ आसामहं पोष्यपुत्रो मदंशा योषितस्त्विमाः । तस्याश्च प्रकृतेरंशास्ततस्तत्स्वामिवीर्यजः ॥ ६४॥ न मद्भवो हे शैलेन्द्रकन्यया नन्दिकेश्वर । सा च मे धर्मतो माता यथेमाः सर्वसम्मताः ॥ ६५॥ शम्भुना प्रेषितस्त्वं च शम्भोः पुत्रसमो महान् । आगच्छामि त्वया सार्द्धं द्रक्ष्यामि देवताकुलम् ॥ ६६॥ इत्येवमुक्त्वा तं शीघ्रं सम्बोध्य कृत्तिकागणम् । कार्त्तिकेयः प्रतस्थे हि सार्द्धं शङ्करपार्षदैः ॥ ६७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं नाम चतुर्थोऽध्यायः ॥ २.४.४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.५. पञ्चमोऽध्यायः । देवकृतकुमाराभिषेकः ।

ब्रह्मोवाच एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम् । अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम् ॥ १॥ शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् । प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ॥ २॥ समारोहत्ततोऽनन्तो हृदयेन विदूयता । कार्त्तिकः परमज्ञानी परमेशानवीर्यजः ॥ ३॥ तदैव कृत्तिकाः प्राप्य मुक्तकेश्यः शुचाऽऽतुराः । उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः ॥ ४॥ कृत्तिका ऊचुः । विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः । नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत् ॥ ५॥ स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः । किं कुर्मः क्व च यास्यामो वयं किं करवाम ह ॥ ६॥ इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि कार्त्तिकम् । द्रुतं मूर्च्छामवापुस्ताःसुतविच्छेदकारणात् ॥ ७॥ ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै । ताभिश्च पार्षदैः सार्द्धमारुरोह रथं मुने ॥ ८॥ दृष्ट्वा श्रुत्वा मङ्गलानि बहूनि सुखदानि वै । कुमारः पार्षदैः सार्द्धं जगाम पितृमन्दिरम् ॥ ९॥ दक्षेण नन्दियुक्तश्च मनोयायिरथेन च । कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके ॥ १०॥ तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह । कुमारः शाङ्करिः प्रीतो नानालीलाविशारदः ॥ ११॥ तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः । विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम् ॥ १२॥ तदा दृष्ट्वा च गाङ्गेयं ययौ प्रमुदितश्शिवः । अन्यैः समेतो हरिणा ब्रह्मणा च सुरर्षिभिः । १३॥ शङ्खाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः । उत्सवः सुमहानासीद्देवानां तुष्टचेतसाम् ॥ १४॥ तदानीमेव तं सर्वे वीरभद्रादयो गणाः । कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ॥ १५॥ स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् । जयशब्दं नमश्शब्दं कुर्वाणाः प्रीतमानसाः ॥ १६॥ द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम् । १७॥ पार्वती मङ्गलं चक्रे राजमार्गं मनोहरम् । पद्मरागादिमणिभिः संस्कृतं परितः पुरम् ॥ १८॥ पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विताः । लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ ॥ १९॥ रम्भाद्यप्सरसो दिव्याः सस्मिता वेषसंयुताः । सङ्गीतनर्तनपरा बभूवुश्च शिवाज्ञया ॥ २०॥ ये तं समीक्षयामासुर्गाङ्गेयं शङ्करोपमम् । ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ॥ २१॥ तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् । ववन्दिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ॥ २२॥ जहृषुर्विनतस्कन्धा नमश्शब्दरतास्तदा । परिवार्योपतस्थुस्ते वामदक्षिणमागताः ॥ २३॥ अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः । दण्डवत्पतिता भूमौ परिवार्य कुमारकम् ॥ २४॥ एतस्मिन्नन्तरे शम्भुर्गिरिजा च मुदान्विता । महोत्सवं समागम्य ददर्श तनयं मुदा ॥ २५॥ पुत्रं निरीक्ष्य च तदा जगदेकबन्धुः प्रीत्यान्वितः परमया परया भवान्या । स्नेहान्वितो भुजगभोगयुतो हि साक्षात् सर्वेश्वरः परिवृतः प्रमथैः परेशः ॥ २६॥ अथ शक्तिधरः स्कन्दो दृष्ट्वा तौ पार्वतीशिवौ । अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ॥ २७॥ उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शङ्करः । जघ्रौ प्रेम्णा परेशानः प्रसन्नः स्नेहकर्तृकः ॥ २८॥ उपगुह्य गुहं तत्र पार्वती जातसम्भ्रमा । प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ २९॥ तदा नीराजितो देवैःसकलत्रैर्मुदान्वितैः । जयशब्देन महता व्याप्तमासीन्नभस्तलम् ॥ ३०॥ ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः । वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम् ॥ ३१॥ स्वमङ्कमारोप्य तदा महेशः कुमारकं तं प्रभया समुज्ज्वलम् । बभौ भवानीपतिरेव साक्षा- च्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः ॥ ३२॥ कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् । शिवाज्ञया महोत्साहैस्सह देवैर्महासुखी ॥ ३३॥ दम्पती तौ तदा तत्रैकपद्येन विरेजतुः । विवन्द्यमानावृषिभिरावृतौ सुरसत्तमैः ॥ ३४॥ कुमारः क्रीडयामास शिवोत्सङ्गे मुदान्वितः । वासुकिं शिवकण्ठस्थं पाणिभ्यां समपीडयत् ॥ ३५॥ प्रहस्य भगवान् शम्भुः शशंस गिरिजां तदा । निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम् ॥ ३६॥ मदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदं च परमां गिरिजासमेतः । प्रेम्णा स गद्गदगिरो जगदेकबन्धु- र्नोवाच किञ्चन विभुर्भुवनैकभर्त्ता ॥ ३७॥ अथ शम्भुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् । रत्नसिंहासने रम्ये वासयामास कार्त्तिकम् ॥ ३८॥ वेदमन्त्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः । सद्रत्नकुम्भशतकैः स्नापयामास तं मुदा ॥ ३९॥ सद्रत्नसाररचितकिरीटमुकुटाङ्गदम् । वैजयन्तीं स्वमालां च तस्मै चक्रं ददौ हरिः ॥ ४०॥ शूलं पिनाकं परशुं शक्तिं पाशुपतं शरम् । संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः ॥ ४१॥ अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् । कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम् ॥ ४२॥ गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः । श्वेतच्छत्रं रत्नमालां ददौ पाशं जलेश्वरः ॥ ४३॥ मनोयायिरथं सूर्यः सन्नाहं च महाचयम् । यमदण्डं यमश्चैव सुधाकुम्भं सुधानिधिः ॥ ४४॥ हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे । ददौ स्वशस्त्रं निरृतिर्वायव्यास्त्रं समीरणः ॥ ४५॥ गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा । नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा ॥ ४६॥ कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः । गदां ददौ स्वविद्याश्च तस्मै च परया मुदा ॥ ४७॥ क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम् । हिमालयो हि दिव्यानि भूषणान्यंशुकानि च ॥ ४८॥ चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ । अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम् ॥ ४९॥ पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् । ददौ तस्मै महाप्रीत्या चिरञ्जीवित्वमेव च ॥ ५०॥ लक्ष्मीश्च सम्पदं दिव्यां महाहारं मनोहरम् । सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा ॥ ५१॥ अन्याश्चापि मुने देव्यो या यास्तत्र समागताः । स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः ॥ ५२॥ महामहोत्सवस्तत्र बभूव मुनिसत्तम । सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ ॥ ५३॥ एतस्मिन्नन्तरे काले प्रोवाच प्रहसन् मुदा । मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान् ॥ ५४॥ शिव उवाच हे हरे हे विधे देवाः सर्वे श‍ृणुत मद्वचः । सर्वथाहं प्रसन्नोऽस्मि वरान्वृणुत ऐच्छिकान् ॥ ५५॥ ब्रह्मोवाच तच्छ्रुत्वा वचनं शम्भोर्मुने विष्ण्वादयः सुराः । सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् ॥ ५६॥ कुमारेण हतो ह्येष तारको भविता प्रभो । तदर्थमेव सञ्जातमिदं चरितमुत्तमम् ॥ ५७॥ तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यताः । आज्ञां देहि कुमाराय स तं हन्यात् सुखाय नः ॥ ५८॥ तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा । देवेभ्यस्तारकं हन्तुं कृपया परिभावितः ॥ ५९॥ शिवाज्ञया सुराः सर्वे ब्रह्मविष्णुमुखास्तदा । पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः ॥ ६०॥ बहिर्निस्सृत्य कैलासात्त्वष्टा शासनतो हरेः । विरेचे नगरं रम्यमद्भुतं निकटे गिरेः ॥ ६१॥ तत्र रम्यं गृहं दिव्यमद्भुतं परमोज्ज्वलम् । गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम् ॥ ६२॥ तदा हरिः सुधीर्भक्त्या कारयामास मङ्गलम् । कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैः सुरैः ॥ ६३॥ सर्वथा समलङ्कृत्य वासयामास सङ्ग्रहम् । कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम् ॥ ६४॥ ब्रह्माण्डाधिपतित्वं हि ददौ तस्मै मुदा हरिः । चकार तिलकं तस्य समानर्च सुरैस्सह ॥ ६५॥ प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिः सह । तुष्टाव विविधैः स्तोत्रैः शिवरूपं सनातनम् ॥ ६६॥ वरसिंहासनस्थो हि शुशुभेऽतीव कार्त्तिकः । स्वामिभावं समापन्नो ब्रह्माण्डस्यापि पालकः ॥ ६७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं नाम पञ्चमोऽध्यायः ॥ २.४.५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.६. षष्ठोऽध्यायः । कुमाराद्भुतचरित्रवर्णनम् ।

ब्रह्मोवाच अथ तत्र स गाङ्गेयो दर्शयामास सूतिकाम् । तामेव श‍ृणु सुप्रीत्या नारद त्वं स्वभक्तिदाम् ॥ १॥ द्विज एको नारदाख्य आजगाम तदैव हि । तत्राध्वरकरः श्रीमान् शरणार्थं गुहस्य वै ॥ २॥ स विप्रः प्राप्य निकटं कार्त्तिकस्य प्रसन्नधीः । स्वाभिप्रायं समाचख्यौ सुप्रणम्य शुभैः स्तवैः ॥ ३॥ विप्र उवाच श‍ृणु स्वामिन्वचो मेऽद्य कष्टं मे विनिवारय । सर्वब्रह्माण्डनाथस्त्वमतस्ते शरणं गतः ॥ ४॥ अजमेधाध्वरं कर्तुमारम्भं कृतवानहम् । सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबन्धनम् ॥ ५॥ न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु । न प्राप्तोऽतस्स बलवान् भङ्गो भवति मे क्रतोः ॥ ६॥ त्वयि नाथे सति विभो यज्ञभङ्गः कथं भवेत् । विचार्य्यैवाऽखिलेशान कामं पूर्णं कुरुष्व मे ॥ ७॥ त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो । सर्वब्रह्माण्डनाथं हि सर्वामरसुसेवितम् ॥ ८॥ दीनबन्धुर्दयासिन्धुः सुसेव्यो भक्तवत्सलः । हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः ॥ ९॥ पार्वतीनन्दनस्स्कन्दः परमेकः परन्तपः । परमात्माऽत्मदः स्वामी सतां च शरणार्थिनाम् ॥ १०॥ दीनानाथ महेश शङ्करसुत त्रैलोक्यनाथ प्रभो मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय । त्वं सर्वप्रभुरानताऽखिलविदब्रह्मादिदेवैः स्तुतः त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः ॥ ११॥ भक्तप्राणगुणाकरस्त्रिगुणतो भिन्नोऽसि शम्भुप्रियः शम्भुः शम्भुसुतः प्रसन्नसुखदः सच्चित्स्वरूपो महान् । सर्वज्ञस्त्रिपुरघ्नशङ्करसुतः सत्प्रेमवश्यःसदा षड्वक्त्रः प्रियसाधुरानतप्रियः सर्वेश्वरः शङ्करः । साधुद्रोहकरघ्न शङ्करगुरो ब्रह्माण्डनाथो प्रभुः सर्वेषाममरादिसेवितपदो मां पाहि सेवाप्रिय ॥ १२॥ वैरिभयङ्कर शङ्कर जनशरणस्य वन्दे तव पदपद्मं सुखकरणस्य । विज्ञप्तिं मम कर्णे स्कन्द निधेहि निजभक्तिं जनचेतसि सदा विधेहि ॥ १३॥ करोति किं तस्य बली विपक्षो दक्षोऽपि पक्षोभयपार्श्वगुप्तः । किं तक्षकोऽप्यामिषभक्षको वा त्वं रक्षको यस्य सदक्षमानः ॥ १४॥ विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात् कथय कथमहं स्यां मन्दबुद्धिर्वरार्च्यः । शुचिरशुचिरनार्यो यादृशस्तादृशो वा पदकमलपरागं स्कन्द ते प्रार्थयामि ॥ १५॥ हे सर्वेश्वर भक्तवत्सल कृपा-सिन्धो त्वदीयोऽस्म्यहं भृत्यः स्वस्य न सेवकस्य गणप-स्यागःशतं सत्प्रभो । भक्तिं क्वापि कृतां मनागपि विभो जानासि भृत्यार्तिहा त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः ॥ १६॥ कल्याणकर्त्ता कलिकल्मषघ्नः कुबेरबन्धुः करुणार्द्रचित्तः । त्रिषट्कनेत्रो रसवक्त्रशोभी यज्ञं प्रपूर्णं कुरु मे गुह त्वम् ॥ १७॥ रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः । यज्ञकर्त्ता यज्ञभर्त्ता हरसे विघ्नकारिणाम् ॥ १८॥ विघ्नवारण साधूनां सर्ग कारण सर्वतः । पूर्णं कुरु ममेशान सुतयज्ञ नमोस्तु ते ॥ १९॥ सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि । सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ॥ २०॥ सङ्गीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः । सर्वस्थाता विधाता त्वं देवदेवः सतां गतिः ॥ २१॥ भवानीनन्दनः शम्भुतनयो वयुनः स्वराट् । ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम् ॥ २२॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्य देवसम्राट् शिवात्मजः । स्वगणं वीरबाह्वाख्यं प्रेषयामास तत्कृते ॥ २३॥ तदाज्ञया वीरबाहुस्तदन्वेषणहेतवे । प्रणम्य स्वामिनं भक्त्या महावीरो द्रुतं ययौ ॥ २४॥ अन्वेषणं चकारासौ सर्वब्रह्माण्डगोलके । न प्राप तमजं कुत्र शुश्राव तदुपद्रवम् ॥ २५॥ जगामाऽथ स वैकुण्ठं तत्राऽजं प्रददर्श तम् । उपद्रवं प्रकुर्वन्तं गलयूपं महाबलम् ॥ २६॥ धृत्वा तं श‍ृङ्गयोर्वीरो धर्षयित्वातिवेगतः । आनिनाय स्वामिपुरो विकुर्वन्तं रवं बहु ॥ २७॥ दृष्ट्वा तं कार्त्तिकस्सोऽरमारुरोह स तं प्रभुः । धृतब्रह्माण्डगरिमा महासूतिकरो गुहः ॥ २८॥ मुहूर्तमात्रतस्सोऽजो ब्रह्माण्डं सकलं मुने । बभ्राम श्रम एवाशु पुनस्तत्स्थानमागतः ॥ २९॥ तत उत्तीर्य स स्वामी समुवास स्वमासनम् । सोऽजः स्थितस्तु तत्रैव स नारद उवाच तम् ॥ ३०॥ नारद उवाच नमस्ते देव देवेश देहि मेऽजं कृपानिधे । कुर्यामध्वरमानन्दात्सखायं कुरु मामहो ॥ ३१॥ कार्त्तिक उवाच वधयोग्यो न विप्राऽजः स्वगृहं गच्छ नारद । पूर्णोऽस्तु तेऽध्वरः सर्वः प्रसादादेव मे कृतः ॥ ३२॥ ब्रह्मोवाच इत्याकर्ण्य द्विजःस्वामी वचनं प्रीतमानसः । जगाम स्वालयं दत्त्वा तस्मा आशिषमुत्तमाम् ॥ ३३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं नाम षष्ठोऽध्यायः ॥ २.४.६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.७. सप्तमोऽध्यायः । तारकेण सहेन्द्रादिदेवानां युद्धवर्णनम् ।

ब्रह्मोवाच हर्य्यादयस्सुरास्ते च दृष्ट्वा तच्चरितं विभोः । सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ॥ १॥ वल्गन्तः कुर्वतो नादं भाविताश्शिवतेजसा । कुमारन्ते पुरस्कृत्य तारकं हन्तुमाययुः ॥ २॥ देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः । सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३॥ देवा दृष्ट्वा समायान्तं तारकस्य महाबलम् । बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ॥ ४॥ तदा नभोऽङ्गना वाणीं जगादोपरि सत्वरम् । शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ॥ ५॥ व्योमवाण्युवाच कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः । दैत्यान्विजित्य सङ्ग्रामे जयिनोऽथ भविष्यथ ॥ ६॥ ब्रह्मोवाच वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः । वीरशब्दान् प्रकुर्वन्तो निर्भया ह्यभवंस्तदा ॥ ७॥ कुमारं च पुरस्कृत्य सर्वे ते गतसाध्वसाः । योद्धुकामाः सुरा जग्मुर्महीसागरसङ्गमम् ॥ ८॥ आजगाम द्रुतं तत्र यत्र देवाः स तारकः । सैन्येन महता सार्द्धं असुरैर्बहुभिर्वृतः ॥ ९॥ रणदुन्दुभयो नेदुः प्रलयाम्बुदनिःस्वनाः । कर्कशानि च वाद्यानि पराणि च तदागमे ॥ १०॥ गर्जमानास्तदा दैत्यास्तारकेणासुरेण ह । कम्पयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ॥ ११॥ तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः । ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥ १२॥ गजमारोप्य देवेन्द्रः कुमारं ह्यग्रतोऽभवत् । सुरसैन्येन महता लोकपालैः समावृतः ॥ १३॥ तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः । वीणावेणुमृदङ्गानि तथा गन्धर्वनिस्स्वनाः ॥ १४॥ गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् । अनेकाश्चर्यसम्भूतं नानारत्नसमन्वितम् ॥ १५॥ विमानमारुह्य तदा महायशाः स शाङ्करिःसर्वगुणैरुपेतः । श्रिया समेतः परया बभौ महान् संवीज्यमानश्चमरैर्महाप्रभैः ॥ १६॥ प्राचेतसं छत्रमतीवसुप्रभं रत्नैरुपेतं विविधैर्विराजितम् । धृतं तदा तच्च कुमारमूर्ध्नि वै ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ॥ १७॥ मिलितास्ते तदा सर्वे देवाः शक्रपुरोगमाः । स्वैः स्वैर्बलैः परिवृता युद्धकामा महाबलाः ॥ १८॥ एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि । सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ॥ १९॥ ते सेने सुरदैत्यानां शुशुभाते परस्परम् । हन्तुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ॥ २०॥ उभे सेने तदा तेषामगर्जेतां वनोपमे । भयङ्करेऽत्यवीराणामितरेषां सुखावहे ॥ २१॥ एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम् । दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ॥ २२॥ आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् । रुण्डमुण्डाङ्कितं सर्वं क्षणेन समपद्यत ॥ २३॥ भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः । निकृत्ताङ्गा महाशस्त्रैर्निहता वीरसम्मताः ॥ २४॥ केषाञ्चिद्बाहवश्छिन्नाः खड्गपातैः सुदारुणैः । केषाञ्चिदूरवश्छिन्ना वीराणां मानिनां मृधे ॥ २५॥ केचिन्मथितसर्वाङ्गा गदाभिर्मुद्गरैस्तथा । केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ॥ २६॥ केचिद्विदारिताः पृष्ठे कुन्तैरृष्टिभिरङ्कुशैः । छिन्नान्यपि शिरांस्येव पतितानि च भूतले ॥ २७॥ बहूनि च कबन्धानि नृत्यमानानि तत्र वै । वल्गमानानि शतशो उद्यतास्त्रकराणि च ॥ २८॥ नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा । भूतप्रेतादयस्तत्र शतशश्च समागताः ॥ २९॥ गोमायवश्शिवाः तत्र भक्षयन्तः पलं बहु । तथा गृध्रवटा श्येना वायसा मांसभक्षकाः ॥ बुभुजुः पतितानां च पलानि सुबहूनि वै । ३०॥ एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः । सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३१॥ देवा दृष्ट्वा समायान्तं तारकं युद्धदुर्मदम् । योद्धुकामं तदा सद्यो ययुः शक्रादयस्तदा । बभूवाथ महोन्नादःसेनयोरुभयोरपि ॥ ३२॥ अथाभूद् द्वन्द्वयुद्धं हि सुरासुरविमर्दनम् । यं दृष्ट्वा हर्षिता वीराः क्लीबाश्च भयमागताः ॥ ३३॥ तारको युयुधे युद्धे शक्रेण दितिजो बली । अग्निना सह संह्रादो जम्भेनैव यमः स्वयम् ॥ ३४॥ महाप्रभुर्नैरृतेन पाशी सह बलेन च । सुवीरो वायुना सार्धं पवमानेन गुह्यराट् ॥ ३५॥ ईशानेन समं शम्भुर्युयुधे रणवित्तमः । शुम्भः शेषेण युयुधे कुम्भश्चन्द्रेण दानवः ॥ ३६॥ कुञ्जरो मिहिरेणाजौ महाबलपराक्रमः । युयुधे परमास्त्रैश्च नानायुद्धविशारदः ॥ ३७॥ एवं द्वन्द्वेन युद्धेन महता च सुरासुराः । सङ्गरे युयुधुःसर्वे बलेन कृतनिश्चयाः ॥ ३८॥ अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः । तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने ॥ ३९॥ तदा च तेषां सुरदानवानां बभूव युद्धं तुमुलं जयैषिणाम् । सुखावहं वीरमनस्विनां वै भयावहं चैव तथेतरेषाम् ॥ ४०॥ मही महारौद्रतरा विनष्टकैः सुरासुरैर्वै पतितैरनेकशः । तस्मिन्नगम्यातिभयानका तदा जाता महासौख्यवहा मनस्विनाम् ॥ ४१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारम्भवर्णनं नाम सप्तमोऽध्यायः ॥ २.४.७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.८. अष्टमोऽध्यायः । देवदैत्ययुद्धवर्णनम् ।

ब्रह्मोवाच इति ते वर्णितस्तात देवदानव सेनयोः । सङ्ग्रामस्तुमुलोऽतीव तत्प्रभ्वोः श‍ृणु नारद ॥ १॥ एवं युद्धेऽतितुमुले देवदानवसङ्क्षये । तारकेणैव देवेन्द्रः शक्त्या परमया सह ॥ २॥ सद्यः पपात नागाश्च धरण्यां मूर्च्छितोऽभवत् । परं कश्मलमापेदे वज्रधारी सुरेश्वरः ॥ ३॥ तथैव लोकपाः सर्वेऽसुरैश्च बलवत्तरैः । पराजिता रणे तात महारणविशारदैः ॥ ४॥ अन्येऽपि निर्जरा दैत्यैर्युद्ध्यमानाः पराजिताः । असहन्तो हि तत्तेजः पलायनपरायणाः ॥ ५॥ जगर्जुरसुरास्तत्र जयिनः सुकृतोद्यमाः । सिंहनादं प्रकुर्वन्तः कोलाहलपरायणाः ॥ ६॥ एतस्मिन्नन्तरे तत्र वीरभद्रो रुषान्वितः । आससाद गणैर्वीरैस्तारकं वीरमानिनम् ॥ ७॥ निर्जरान् पृष्ठतः कृत्वा शिवकोपोद्भवो बली । तत्सम्मुखो बभूवाथ योद्धुकामो गणाग्रणीः ॥ ८॥ तदा ते प्रमथाः सर्वे दैत्याश्च परमोत्सवाः । युयुधुः संयुगेऽन्योन्यं प्रसक्ताश्च महारणे ॥ ९॥ त्रिशूलैरृष्टिभिः पाशैः खड्गैः परशुपट्टिशैः । निजघ्नुःसमरेऽन्योऽन्यं रणे रणविशारदाः ॥ १०॥ तारको वीरभद्रेण स त्रिशूलाहतो भृशम् । पपात सहसा भूमौ क्षणं मूर्छापरिप्लुतः ॥ ११॥ उत्थाय स द्रुतं वीरस्तारको दैत्यसत्तमः । लब्धसंज्ञो बलाच्छक्त्या वीरभद्रं जघान ह ॥ १२॥ वीरभद्रस्तथा वीरो महातेजा हि तारकम् । जघान त्रिशिखेनाशु घोरेण निशितेन तम् ॥ १३॥ सोऽपि शक्त्या वीरभद्रं जघान समरे ततः । तारको दितिजाधीशः प्रबलो वीरसम्मतः ॥ १४॥ एवं संयुद्ध्यमानौ तौ जघ्नतुश्चेतरेतरम् । नानास्त्रशस्त्रैः समरे रणविद्याविशारदौ ॥ १५॥ तयोर्महात्मनोस्तत्र द्वन्द्वयुद्धमभूत्तदा । सर्वेषां पश्यतामेव तुमुलं रोमहर्षणम् ॥ १६॥ ततो भेरीमृदङ्गाश्च पटहानकगोमुखाः । विनेदुर्विहता वीरैः श‍ृण्वतां सुभयानकाः ॥ १७॥ युयुधातेतिसन्नद्धौ प्रहारैर्जर्जरीकृतौ । अन्योऽन्यमतिसंरब्धौ तौ बुधाङ्गारकाविव ॥ १८॥ एवं दृष्ट्वा तदा युद्धं वीरभद्रस्य तेन च । तत्र गत्वा वीरभद्रमवोचस्त्वं शिवप्रियः ॥ १९॥ नारद उवाच वीरभद्र महावीर गणानामग्रणीर्भवान् । निवर्तस्व रणादस्माद्रोचते न वधस्त्वया ॥ २०॥ एवं निशम्य त्वद्वाक्यं वीरभद्रो गणाग्रणीः । अवदत्स रुषाविष्टस्त्वां तदा तु कृताञ्जलिः ॥ २१॥ वीरभद्र उवाच मुनिवर्य महाप्राज्ञ श‍ृणु मे परमं वचः । तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम् ॥ २२॥ आनयन्ति च ये वीराःस्वामिनं रणसंसदि । ते पापिनो महाक्लीबा विनश्यन्ति रणं गताः ॥ २३॥ असद्गतिं प्राप्नुवन्ति तेषां च निरयो ध्रुवम् । वीरभद्रो हि विज्ञेयो न वाच्यस्ते कदाचन ॥ २४॥ शस्त्रास्त्रैर्भिन्नगात्रा ये रणं कुर्वन्ति निर्भयाः । इहामुत्र प्रशंस्यास्ते लभन्ते सुखमद्भुतम् ॥ २५॥ श‍ृण्वन्तु मम वाक्यानि देवा हरिपुरोगमाः । अतारकां महीमद्य करिष्ये स्वामिवर्जितः ॥ २६॥ इत्युक्त्वा प्रमर्थैस्सार्द्धं वीरभद्रो हि शूलधृक् । विचिन्त्य मनसा शम्भुं युयुधे तारकेण हि ॥ २७॥ वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः । महावीरैः त्रिनेत्रैश्च स रेजे रणसङ्गतः ॥ २८॥ कोलाहलं प्रकुर्वन्तो निर्भयाः शतशो गणाः । वीरभद्रं पुरस्कृत्य युयुधुर्दानवैः सह ॥ २९॥ असुरास्तेऽपि युयुधुः तारकासुरजीविनः । बलोत्कटा महावीरा मर्दयन्तो गणान् रुषा ॥ ३०॥ पुनः पुनश्चैव बभूव सङ्गरो महोत्कटो दैत्यवरैर्गणानाम् । प्रहर्षमाणाः परमास्त्रकोविदाः तदा गणास्ते जयिनो बभूवुः ॥ ३१॥ गणैर्जितास्ते प्रबलैरसुरा विमुखा रणे । पलायनपरा जाता व्यथिता व्यग्रमानसाः ॥ ३२॥ एवं भ्रष्टं स्वसैन्यं तद् दृष्ट्वा तत्पालकोऽसुरः । तारको हि रुषाविष्टो हन्तुं देवगणान् ययौ ॥ ३३॥ भुजानामयुतं कृत्वा सिंहमारुह्य वेगतः । पातयामास तान्देवान् गणांश्च रणमूर्द्धनि ॥ ३४॥ स दृष्ट्वा तस्य तत्कर्म वीरभद्रो गणाग्रणीः । चकार सुमहत्कोपं तद्वधाय महाबली ॥ ३५८॥ स्मृत्वा शिवपदाम्भोजं जग्राह त्रिशिखं परम् । जज्वलुस्तेजसा तस्य दिशः सर्वा नभस्तथा ॥ ३६॥ एतस्मिन्नन्तरे स्वामी वारयामास तं रणात् । वीरबाहुमुखान्सद्यो महाकौतुकदर्शकः ॥ ३७॥ तदाज्ञया वीरभद्रो निवृत्तोऽभूद्रणात्तदा । कोपं चक्रे महावीरस्तारकोऽसुरनायकः ॥ ३८॥ चकार बाणवृष्टिं च सुरोपरि तदाऽसुरः । तप्तोऽऽह्वासीत्सुरान्सद्यो नानास्त्ररणकोविदः ॥ ३९॥ एवं कृत्वा महत्कर्म तारकोऽसुरपालकः । सर्वेषामपि देवानामशक्यो बलिनां वरः ॥ ४०॥ एवं निहन्यमानांस्तान् दृष्ट्वा देवान् भयाकुलान् । कोपं कृत्वा रणायाशु सन्नद्धोऽभवदच्युतः ॥ ४१॥ चक्रं सुदर्शनं शार्ङ्गं धनुरादाय सायुधः । अभ्युद्ययौ महादैत्यं रणाय भगवान् हरिः ॥ ४२॥ ततःसमभवद्युद्धं हरितारकयोर्महत् । लोमहर्षणमत्युग्रं सर्वेषां पश्यतां मुने ॥ ४३॥ गदामुद्यम्य स हरिर्जघानासुरमोजसा । द्विधा चकार तां दैत्यस्त्रिशिखेन महाबली ॥ ४४॥ ततः स क्रुद्धो भगवान्देवानामभयङ्करः । शार्ङ्गच्युतैः शरव्यूहैर्जघानासुरनायकम् ॥ ४६॥ सोऽपि दैत्यो महावीरस्तारकः परवीरहा । चिच्छेद सकलान्बाणान्स्वशरैर्निशितैर्द्रुतम् ॥ ४६॥ अथ शक्त्या जघानाशु मुरारिं तारकासुरः । भूमौ पपात स हरिस्तत्प्रहारेण मूर्च्छितः ॥ ४७॥ जग्राह स रुषा चक्रमुत्थितः क्षणतोऽच्युतः । सिंहनादं महत्कृत्वा ज्वलज्ज्वालासमाकुलम् ॥ ४८॥ तेन तं च जघानासौ दैत्यानामधिपं हरिः । तत्प्रहारेण महता व्यथितो न्यपतद्भुवि ॥ ४९॥ पुनश्चोत्थाय दैत्येन्द्रस्तारकोऽसुरनायकः । चिच्छेद त्वरितं चक्रं स्वशक्त्यातिबलान्वितः ॥ ५०॥ पुनस्तया महाशक्त्या जघानामरवल्लभम् । अच्युतोऽपि महावीरो नन्दकेन जघान तम् ॥ ५१॥ एवमन्योऽन्यमसुरो विष्णुश्च बलवानुभौ । युयुधाते रणे भूरि तत्राक्षतबलौ मुने ॥ ५२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे देव दैत्यसामान्ययुद्धवर्णनं नामाष्टमोऽध्यायः ॥ २.४.८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.९. नवमोऽध्यायः । तारकेण सह वीरभद्रविष्णोर्घोरयुद्धवर्णनम् ।

ब्रह्मोवाच देवदेव गुह स्वामिन् शाङ्करे पार्वतीसुत । न शोभते रणो विष्णुतारकासुरयोर्वृथा ॥ १॥ विष्णुना न हि वध्योऽसौ तारको बलवानति । मया दत्तवरस्तस्मात्सत्यं सत्यं वदाम्यहम् ॥ २॥ नान्यो हन्तास्य पापस्य त्वां विना पार्वतीसुत । तस्मात्त्वया हि कर्तव्यं वचनं मे महाप्रभो ॥ ३॥ सन्नद्धो भव दैत्यस्य वधायाशु परन्तप । तद्वधार्थं समुत्पन्नः शङ्करात्त्वं शिवासुत ॥ ४॥ रक्ष रक्ष महावीर त्रिदशान् व्यथितान् रणे । न बालस्त्वं युवा नैव किं तु सर्वेश्वरः प्रभुः ॥ ५॥ शक्रं पश्य तथा विष्णुं व्याकुलं च सुरान् गणान् । एनं जहि महादैत्यं त्रैलोक्यं सुखितं कुरु ॥ ६॥ अनेन विजितश्चेन्द्रो लोकपालैः पुरा सह । विष्णुश्चापि महावीरो तर्जितस्तपसो बलात् ॥ ७॥ त्रैलोक्यं निर्जितं सर्वमसुरेण दुरात्मना । इदानीं तव सान्निध्यात्पुनर्युद्धं कृतं च तैः ॥ ८॥ तस्मात्त्वया निहन्तव्यस्तारकः पापपूरुषः । अन्यवध्यो न चैवायं मद्वराच्छङ्करात्मज ॥ ९॥ इति श्रुत्वा मम वचः कुमारः शङ्करात्मजः । विजहास प्रसन्नात्मा तथास्त्विति वचोऽब्रवीत् ॥ १०॥ विनिश्चित्यासुरवधं शाङ्करिःस महाप्रभुः । विमानादवतीर्याथ पदातिरभवत्तदा ॥ ११॥ पद्भ्यां तदासौ परिधावमानो रेजेऽतिवीरः शिवजः कुमारः । करे समादाय महाप्रभां तां शक्तिं महोल्कामिव दीप्तिदीप्ताम् ॥ १२॥ दृष्ट्वा तमायान्तमतिप्रचण्ड- मव्याकुलं षण्मुखमप्रमेयम् । दैत्यो बभाषे सुरसत्तमान्स कुमार एष द्विषतां प्रहन्ता ॥ १३॥ अनेन साकं ह्यहमेकवीरो योत्स्ये च सर्वानहमेव वीरान् । गणांश्च सर्वानपि घातयामि सलोकपालान् हरिनायकांश्च ॥ १४॥ इत्येवमुक्त्वा स तदा महाबलः कुमारमुद्दिश्य ययौ च योद्धुम् । जग्राह शक्तिं परमाद्भुतां च स तारको देववरान् बभाषे ॥ १५॥ तारक उवाच कुमारो मेऽग्रतश्चाद्य भवद्भिश्च कथं कृतः । यूयं गतत्रपा देवा विशेषाच्छक्रकेशवौ ॥ १६॥ पुरैताभ्यां कृतं कर्म विरुद्धं वेदमार्गतः । तच्छृणुध्वं मया प्रोक्तं वर्णयामि विशेषतः ॥ १७॥ तत्र विष्णुश्छली दोषी ह्यविवेकी विशेषतः । बलिर्येन पुरा बद्धश्छलमाश्रित्य पापतः ॥ १८॥ तेनैव यत्नतः पूर्वमसुरौ मधुकैटभौ । शिरोहीनौ कृतौ धौर्त्याद्वेदमार्गो विवर्जितः ॥ १९॥ मोहिनीरूपतोऽनेन पङ्क्तिभेदः कृतो हि वै । देवासुरसुधापाने वेदमार्गो विगर्हितः ॥ २०॥ रामो भूत्वा हता नारी वाली विध्वंसितो हि सः । पुनर्वैश्रवणो विप्रो हतो नीतिर्हता श्रुतेः ॥ २१॥ पापं विना स्वकीया स्त्री त्यक्ता पापरतेन यत् । तत्रापि श्रुतिमार्गश्च ध्वंसितः स्वार्थहेतवे ॥ २२॥ स्वजनन्याः शिरश्छिन्नमवतारे रसाख्यके । गुरुपुत्रापमानश्च कृतोऽनेन दुरात्मना ॥ २३॥ कृष्णो भूत्वान्यनार्यश्च दूषिताः कुलधर्मतः । श्रुतिमार्गं परित्यज्य स्वविवाहाः कृतास्तथा ॥ २४॥ पुनश्च वेदमार्गो हि निन्दितो नवमे भवे । स्थापितं नास्तिकमतं वेदमार्गविरोधकृत् ॥ २५॥ एवं येन कृतं पापं वेदमार्गं विसृज्य वै । स कथं विजयेद्युद्धे भवेद्धर्मवतां वरः ॥ २६॥ भ्राता ज्येष्ठश्च यस्तस्य शक्रः पापी महान्मतः । तेन पापान्यनेकानि कृतानि निजहेतुतः ॥ २७॥ निकृत्तो हि दितेर्गर्भः स्वार्थ हेतोर्विशेषतः । धर्षिता गौतमस्त्री वै हतो वृत्रश्च विप्रजः ॥ २८॥ विश्वरूपद्विजातेर्वै भागिनेयस्य यद्गुरोः । निकृत्तानि च शीर्षाणि तदध्वाध्वंसितः श्रुतेः ॥ २९॥ कृत्वा बहूनि पापानि हरिः शक्रः पुनःपुनः । तेजोभिर्विहतावेव नष्टवीर्यौ विशेषतः ॥ ३०॥ तयोर्बलेन नो यूयं सङ्ग्रामे जयमाप्स्यथ । किमर्थं मूढतां प्राप्य प्राणांस्त्यक्तुमिहागताः ॥ ३१॥ जानन्तौ धर्ममेतौ न स्वार्थलम्पटमानसौ । धर्मं विनाऽमराः कृत्यं निष्फलं सकलं भवेत् ॥ ३२॥ महाधृष्टाविमौ मेऽद्य कृतवन्तौ पुरश्शिशुम् । अहं बालं वधिष्यामि तयोः सोऽपि भविष्यति ॥ ३३॥ किं तु बाल इतो यायाद् दूरं प्राणपरीप्सया । इत्युक्त्वोद्दिश्य च हरी वीरभद्रमुवाच सः ॥ ३४॥ पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः । तत्कर्मणः फलं चाद्य दर्शयिष्यामि तेऽनघ ॥ ३५॥ ब्रह्मोवाच इत्येवमुक्त्वा तु विधूय पुण्यं निजं स तन्निन्दनकर्मणा वै । जग्राह शक्तिं परमाद्भुतां च स तारको युद्धवतां वरिष्ठः ॥ ३६॥ तं बालान्तिकमायान्तं तारकासुरमोजसा । आजघान च वज्रेण शक्रो गुहपुरस्सरः ॥ ३७॥ तेन वज्रप्रहारेण तारको जर्जरीकृतः । भूमौ पपात सहसा निन्दाहतबलः क्षणम् ॥ ३८॥ पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्रुषा । पुरन्दरं गजस्थं हि पातयामास भूतले ॥ ३९॥ हाहाकारो महानासीत्पतिते च पुरन्दरे । सेनायां निर्जराणां हि तद् दृष्ट्वा क्लेश आविशत् ॥ ४०॥ तारकेणाऽपि तत्रैव यत्कृतं कर्म दुःखदम् । स्वनाशकारणं धर्मविरुद्धं तन्निबोध मे ॥ ४१॥ पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य वै । पुनरुद्वज्रघातेन शक्रमाताडयद्भृशम् । ४२॥ एवं तिरस्कृतं दृष्ट्वा शक्रं विष्णुः प्रतापवान् । चक्रमुद्यस्य भगवांस्तारकं स जघान ह ॥ ४३॥ चक्रप्रहाराभिहतो निपपात क्षितौ हि सः । पुनरुत्थाय दैत्येन्द्रः शक्त्या विष्णुं जघान तम् ॥ ४४॥ तेन शक्तिप्रहारेण पतितो भुवि चाच्युतः । हाहाकरो महानासीच्चुक्रुशुश्चाऽतिनिर्जराः ॥ ४५॥ निमेषेण पुनर्विष्णुर्यावदुत्तिष्ठते स्वयम् । तावत्स वीरभद्रो हि तत्क्षणादागतोऽसुरम् ॥ ४६॥ त्रिशूलं च समुद्यम्य वीरभद्रः प्रतापवान् । तारकं दितिजाधीशं जघान प्रसभं बली ॥ ४७॥ तत्त्रिशूलप्रहारेण स पपात क्षितौ तदा । पतितोऽपि महातेजास्तारकः पुनरुत्थितः ॥ ४८॥ कृत्वा क्रोधं महावीरःसकलासुरनायकः । जघान परया शक्त्या वीरभद्रं तदोरसि ॥ ४९॥ वीरभद्रोऽपि पतितो भूतले मूर्छितः क्षणम् । तच्छक्त्या परया क्रोधान्निहतो वक्षसि ध्रुवम् ॥ ५०॥ सगणाश्चैव देवास्ते गन्धर्वोरगराक्षसाः । हाहाकारेण महता चुक्रुशुश्च मुहुर्मुहुः ॥ ५१॥ निमेषमात्रात्सहसा महौजाः स्स वीरभद्रो द्विषतां निहन्ता । त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया विरेजे ॥ ५२॥ स्वरोचिषा भासितदिग्वितानं सूर्येन्दुबिम्बाग्निसमानमण्डलम् । महाप्रभं वीरभयावहं परं कालाख्यमत्यन्तकरं महोज्ज्वलम् ॥ ५३॥ यावत्त्रिशूलेन तदा हन्तुकामो महाबलः । वीरभद्रोऽसुरं तावत्कुमारेण निवारितः ॥ ५४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारकवाक्यशक्रविष्णुवीरभद्रयुद्धवर्णनं नाम नवमोऽध्यायः ॥ २.४.९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१०. दशमोऽध्यायः । तारकासुरवधः देवोत्सववर्णनञ्च ।

ब्रह्मोवाच निवार्य वीरभद्रं तं कुमारः परवीरहा । समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ ॥ १॥ जगर्जाथ महातेजाः कार्तिकेयो महाबलः । सन्नद्धः सोऽभवत्क्रुद्धः सैन्येन महता वृतः ॥ २॥ तदा जय जयेत्युक्तं सर्वैर्देवगणैस्तथा । संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः ॥ ३॥ तारकस्य कुमारस्य सङ्ग्रामोऽतीव दुःसहः । जातस्तदा महाघोरः सर्वभूत भयङ्करः ॥ ४॥ शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् । सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने ॥ ५॥ शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ । परस्परं वञ्चयन्तौ सिंहाविव महाबलौ ॥ ६॥ वैतालिकं समाश्रित्य तथा खेचरकं मतम् । प्रापतं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः ॥ ७॥ एभिर्मन्त्रैर्महावीरौ चक्रतुर्युद्धमद्भुतम् । अन्योऽन्यं साधकौ भूत्वा महाबलपराक्रमौ ॥ ८॥ महाबलं प्रकुर्वन्तौ परस्परवधैषिणौ । जघ्नतुः शक्तिधाराभी रणे रणविशारदौ ॥ ९॥ मूर्ध्नि कण्ठे तथा चोर्वोर्जान्वोश्चैव कटीतटे । वक्षस्युरसि पृष्ठे च चिच्छिदुश्च परस्परम् ॥ १०॥ तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ । वल्गन्तौ वीरशब्दैश्च नानायुद्धविशारदौ ॥ ११॥ अभवन्प्रेक्षकाः सर्वे देवा गन्धर्वकिन्नराः । ऊचुः परस्परं तत्र कोऽस्मिन् युद्धे विजेष्यते ॥ १२॥ तदा नभोगता वाणी जगौ देवांश्च सान्त्वयन् । असुरं तारकं चात्र कुमारोऽयं हनिष्यति ॥ १३॥ मा शोच्यतां सुरैः सर्वै सुखेन स्थीयतामिति । युष्मदर्थं शङ्करो हि पुत्ररूपेण संस्थितः ॥ १४॥ श्रुत्वा तदा तां गगने समीरितां वाचं शुभां स प्रमथैः समावृतः । निहन्तुकामः सुखितः कुमारको दैत्याधिपं तारकमाश्वभूत्तदा ॥ १५॥ शक्त्या तया महाबाहुराजघान स्तनान्तरे । कुमारः स्म रुषाविष्टस्तारकासुरमोजसा ॥ १६॥ तं प्रहारमनादृत्य तारको दैत्यपुङ्गवः । कुमारं चापि सङ्क्रुद्धः स्वशक्त्या सञ्जघान सः ॥ १७॥ तेन शक्तिप्रहारेण शाङ्करिर्मूर्च्छितोऽभवत् । मुहूर्ताच्चेतनां प्राप स्तूयमानो महर्षिभिः ॥ १८॥ यथा सिंहो मदोन्मत्तो हन्तुकामस्तथासुरम् । कुमारस्तारकं शक्त्या स जघान प्रतापवान् ॥ १९॥ एवं परस्परं तौ हि कुमारश्चापि तारकः । युयुधातेऽतिसंरब्धौ शक्तियुद्धविशारदौ ॥ २०॥ अभ्यासपरमावास्तामन्योन्यं विजिगीषया । पदातिनौ युध्यमानौ चित्ररूपौ तरस्विनौ ॥ २१॥ विविधैर्घातपुञ्जैस्तावन्योन्यं विनिजघ्नतुः । नानामार्गान्प्रकुर्वन्तौ गर्जन्तौ सुपराक्रमौ ॥ २२॥ अवलोकपराः सर्वे देवगन्धर्वकिन्नराः । विस्मयं परमं जग्मुर्नोचुः किञ्चन तत्र ते ॥ २३॥ न ववौ पवमानश्च निष्प्रभोऽभूद्दिवाकरः । चचाल वसुधा सर्वा सशैलवनकानना ॥ २४॥ एतस्मिन्नन्तरे तत्र हिमालयमुखा धराः । स्नेहार्दितास्तदा जग्मुः कुमारं च परीप्सवः ॥ २५॥ ततः स दृष्ट्वा तान्सर्वान्भयभीतांश्च शाङ्करिः । पर्वतान्गिरिजापुत्रो बभाषे परिबोधयन् ॥ २६॥ कुमार उवाच मा खिद्यतां महाभागा मा चिन्तां कुर्वतां नगाः । घातयाम्यद्य पापिष्ठं सर्वेषां वः प्रपश्यताम् ॥ २७॥ एवं समाश्वास्य तदा पर्वतान् निर्जरान् गणान् । प्रणम्य गिरिजां शम्भुमाददे शक्तिमुत्प्रभाम् ॥ २८॥ तं तारकं हन्तुमनाः करशक्तिर्महाप्रभुः । विरराज महावीरः कुमारः शम्भुबालकः ॥ २९॥ शक्त्या तया जघानाथ कुमारस्तारकासुरम् । तेजसाढ्यः शङ्करस्य लोकक्लेशकरं च तम् ॥ ३०॥ पपात सद्यः सहसा विशीर्णाङ्गोऽसुरः क्षितौ । तारकाख्यो महावीरःसर्वासुरगणाधिपः ॥ ३१॥ कुमारेण हतः सोऽतिवीरः स खलु तारकः । लयं ययौ च तत्रैव सर्वेषां पश्यतां मुने ॥ ३२॥ तथा तं पतितं दृष्ट्वा तारकं बलवत्तरम् । न जघान पुनर्वीरः स गत्वा व्यसुमाहवे ॥ ३३॥ हते तस्मिन्महादैत्ये तारकाख्ये महाबले । क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा ॥ ३४॥ केचिद्भीताः प्राञ्जलयो बभूवुस्तत्र चाहवे । छिन्नभिन्नाङ्गकाः केचिन्मृता दैत्याःसहस्रशः ॥ ३५॥ केचिज्जाताः कुमारस्य शरणं शरणार्थिनः । वदन्तः पाहि पाहीति दैत्याः साञ्जलयस्तदा ॥ ३६॥ कियन्तश्च हतास्तत्र कियन्तश्च पलायिताः । पलायमाना व्यथितास्ताडिता निर्ज्जरैर्गणैः ॥ ३७॥ सहस्रशः प्रविष्टास्ते पाताले च जिजीषवः । पलायमानास्ते सर्वे भग्नाशा दैन्यमागताः ॥ ३८॥ एवं सर्वं दैत्यसैन्यं भ्रष्टं जातं मुनीश्वर । न केचित्तत्र सन्तस्थुर्गणदेवभयात्तदा ॥ ३९॥ आसीन्निष्कण्टकं सर्वं हते तस्मिन्दुरात्मनि । ते देवाः सुखमापन्नाः सर्वे शक्रादयस्तदा ॥ ४०॥ एवं विजयमापन्नं कुमारं निखिलाः सुराः । बभूवुर्युगपद् हृष्टास्त्रिलोकाश्च महासुखा ॥ ४१॥ तदा शिवोऽपि तं ज्ञात्वा विजयं कार्तिकस्य च । तत्राजगाम स मुदा सगणः प्रियया सह ॥ ४२॥ स्वात्मजं स्वाङ्कमारोप्य कुमारं सूर्यवर्चसम् । लालयामास सुप्रीत्या शिवा च स्नेहसङ्कुला ॥ ४३॥ हिमालयस्तदागत्य स्वपुत्रैः परिवारितः । सबन्धुःसानुगः शम्भुं तुष्टाव च शिवां गुहम् ॥ ४४॥ ततो देवगणाः सर्वे मुनयः सिद्धचारणाः । तुष्टुवुः शाङ्करिं शम्भुं गिरिजां तुषितां भृशम् ॥ ४५॥ पुष्पवृष्टिं सुमहतीं चक्रुश्चोपसुरास्तदा । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४६॥ वादित्राणि तथा नेदुस्तदानीं च विशेषतः । जयशब्दो नमः शब्दो बभूवोच्चैर्मुहुर्मुहुः ॥ ४७॥ ततो मयाच्युतश्चापि सन्तुष्टोऽभूद्विशेषतः । शिवं शिवां कुमारं च सन्तुष्टाव समादरात् ॥ ४८॥ कुमारमग्रतः कृत्वा हरिकेन्द्रमुखाः सुराः । चक्रुर्नीराजनं प्रीत्या मुनयश्चापरे तथा ॥ ४९॥ गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा । तदोत्सवो महानासीत्कीर्तनं च विशेषतः ॥ ५०॥ गीतवाद्यैः सुप्रसन्नैस्तथा साञ्जलिभिर्मुने । स्तूयमानो जगन्नाथः सर्वैर्देवगणैरभूत् ॥ ५१॥ ततःस भगवान् रुद्रो भवान्या जगदम्बया । सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृतः ॥ ५२॥ इति श्री शिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारकातारकासुरवधदेवोत्सववर्णनं नाम दशमोऽध्यायः ॥ २.४.१०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.११. एकादशोऽध्यायः । बाणप्रलम्बवधपूर्वक कुमारविजयवर्णनं लिङ्गस्थापनञ्च ।

ब्रह्मोवाच एतस्मिन्नन्तरे तत्र क्रौञ्चनामाचलो मुने । आजगाम कुमारस्य शरणं बाणपीडितः ॥ १॥ पलायमानो यो युद्धादसोढा तेज ऐश्वरम् । तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः ॥ २॥ प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् । प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात् ॥ ३॥ क्रौञ्च उवाच कुमार स्कन्द देवेश तारकासुरनाशक । पाहि मां शरणापन्नं बाणासुरनिपीडितम् ॥ ४॥ सङ्गरात्ते महासेन समुच्छिन्नः पलायितः । न्यपीडयच्च माऽऽगत्य हा नाथ करुणाकर ॥ ५॥ तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः । पलायमानो देवेश शरजन्मन् दयां कुरु ॥ ६॥ दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु । दैत्यघ्नस्त्वं विशेषेण देवावनकरः स्वराट् ॥ ७॥ ब्रह्मोवाच इति क्रौञ्चस्तुतःस्कन्दः प्रसन्नो भक्तपालकः । गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया ॥ ८॥ चिक्षेप तां समुद्दिश्य स बाणं शङ्करात्मजः । महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ ९॥ सबलं भस्मसात्कृत्वासुरं तं क्षणमात्रतः । गुहोपकण्ठं शक्तिः सा जगाम परमा मुने ॥ १०॥ ततः कुमारः प्रोवाच क्रौञ्चं गिरिवरं प्रभुः । निर्भयः स्वगृहं गच्छ नष्टः स सबलोऽसुरः ॥ ११॥ तच्छुत्वा स्वामिवचनं मुदितो गिरिराट् तदा । स्तुत्वा गुहं तदारातिं स्वधाम प्रत्यपद्यत ॥ १२॥ ततः स्कन्दो महेशस्य मुदा स्थापितवान्मुने । त्रीणि लिङ्गानि तत्रैव पापघ्नानि विधानतः ॥ १३॥ प्रतिज्ञेश्वरनामादौ कपालेश्वरमादरात् । कुमारेश्वरमेवाथ सर्वसिद्धिप्रदं त्रयम् ॥ १४॥ पुनःसर्वेश्वरस्तत्र जयस्तम्भसमीपतः । स्तम्भेश्वराभिधं लिङ्गं गुहः स्थापितवान्मुदा ॥ १५॥ ततः सर्वे सुरास्तत्र विष्णुप्रभृतयो मुदा । लिङ्गं स्थापितवन्तस्ते देवदेवस्य शूलिनः ॥ १६॥ सर्वेषां शिवलिङ्गानां महिमाभूत्तदाद्भुतः । सर्वकामप्रदश्चापि मुक्तिदो भक्तिकारिणाम् ॥ १७॥ ततः सर्वे सुरा विष्णुप्रमुखाः प्रीतमानसाः । ऐच्छन्गिरिवरं गन्तुं पुरस्कृत्य गुहं मुदा ॥ १८॥ तस्मिन्नवसरे शेषपुत्रः कुमुदनामकः । आजगाम कुमारस्य शरणं दैत्यपीडितः ॥ १९॥ प्रलम्बाख्योऽसुरो यो हि रणादस्मात्पलायितः । स तत्रोपद्रवं चक्रे प्रबलस्तारकानुगः ॥ २०॥ सोऽथ शेषस्य तनयः कुमुदोऽहिपतेर्महान् । कुमारशरणं प्राप्तस्तुष्टाव गिरिजात्मजम् ॥ २१॥ कुमुद उवाच देवदेव महादेव वरतात महाप्रभो । पीडितोऽहं प्रलम्बेन त्वाऽहं शरणमागतः ॥ २२॥ पाहि मां शरणापन्नं प्रलम्बासुरपीडितम् । कुमार स्कन्द देवेश तारकारे महाप्रभो ॥ २३॥ त्वं दीनबन्धुः करुणासिन्धुरानतवत्सलः । खलनिग्रहकर्ता हि शरण्यश्च सतां गतिः ॥ २४॥ कुमुदेनस्तुतश्चेत्थं विज्ञप्तस्तद्वधाय हि । स्वाश्च शक्तिं स जग्राह स्मृत्वा शिवपदाम्बुजौ ॥ २५॥ चिक्षेप तां समुद्दिश्य प्रलम्बं गिरिजासुतः । महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ २६॥ तं सायुतबलं शक्तिर्द्रुतं कृत्वा च भस्मसात् । गुहोपकण्ठं सहसाजगामाक्लिष्टकारिणी ॥ २७॥ ततः कुमारः प्रोवाच कुमुदं नागबालकम् । निर्भयः स्वगृहं गच्छ नष्टः स सबलोऽसुरः ॥ २८॥ तच्छुत्वा गुहवाक्यं स कुमुदोऽहिपतेः सुतः । स्तुत्वा कुमारं नत्वा च पातालं मुदितो ययौ ॥ २९॥ एवं कुमारविजयं वर्णितं ते मुनीश्वर । चरितं तारकवधं परमाश्चर्यकारकम् ॥ ३०॥ सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् । धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३१॥ ये कीर्तयन्ति सुयशोऽमितभाग्ययुता नराः । कुमारचरितं दिव्यं शिवलोकं प्रयान्ति ते ॥ ३२॥ श्रोष्यन्ति ये च तत्कीर्तिं भक्त्या श्रद्धान्विता जनाः । मुक्तिं प्राप्स्यन्ति ते दिव्यामिह भुक्त्वा परं सुखम् ॥ ३३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे बाणप्रलम्बवध कुमारविजयवर्णनं नामैकादशोऽध्यायः ॥ २.४.११॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१२. द्वादशोऽध्यायः । तारकवधानन्तरं देवैः कृतास्तुतिः ।

ब्रह्मोवाच निहतं तारकं दृष्ट्वा देवा विष्णुपुरोगमाः । तुष्टुवुः शाङ्करिं भक्त्या सर्वेऽन्ये मुदिताननाः ॥ १॥ देवा ऊचुः । नमः कल्याणरूपाय नमस्ते विश्वमङ्गल । विश्वबन्धो नमस्तेऽस्तु नमस्ते विश्वभावन ॥ २॥ नमोस्तु ते दानववर्यहन्त्रे बाणासुरप्राणहराय देव । प्रलम्बनाशाय पवित्ररूपिणे नमोनमः शङ्करतात तुभ्यम् ॥ ३॥ त्वमेव कर्त्ता जगतां च भर्त्ता त्वमेव हर्त्ता शुचिज प्रसीद । प्रपञ्चभूतस्तव लोकबिम्बः प्रसीद शम्भ्वात्मज दीनबन्धो ॥ ४॥ देवरक्षाकर स्वामिन् रक्ष नः सर्वदा प्रभो । देवप्राणावनकर प्रसीद करुणाकर ॥ ५॥ हत्वा त्वं तारकं दैत्यं परिवारयुतं विभो । मोचिताः सकला देवा विपद्भ्यः परमेश्वर ॥ ६॥ ब्रह्मोवाच एवं स्तुतः कुमारोऽसौ देवैर्विष्णुमुखैः प्रभुः । वरान्ददावभिनवान्सर्वेभ्यः क्रमशो मुने ॥ ७॥ शैलान्निरीक्ष्य स्तुवतस्ततःस गिरिशात्मजः । सुप्रसन्नतरो भूत्वा प्रोवाच प्रददद्वरान् ॥ ८॥ स्कन्द उवाच यूयं सर्वे पर्वता हि पूजनीयास्तपस्विभिः । कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ ॥ ९॥ शम्भोर्विशिष्टरूपाणि लिङ्गरूपाणि चैव हि । भविष्यथ न सन्देहः पर्वता वचनान्मम ॥ १०॥ योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः । तपस्विनां महाभागः फलदो हि भविष्यति ॥ ११॥ देवा ऊचुः । एवं दत्त्वा वरान् हत्वा तारकं चासुराधिपम् । त्वया कृताश्च सुखिनो वयं सर्वे चराचराः ॥ १२॥ इदानीं खलु सुप्रीत्या कैलासं गिरिशालयम् । जननी जनकौ द्रष्टुं शिवाशम्भू त्वमर्हसि ॥ १३॥ ब्रह्मोवाच इत्युक्त्वा निखिला देवा विष्ण्वाद्याः प्राप्तशासनाः । कृत्वा महोत्सवं भूरि सकुमारा ययुर्गिरिम् ॥ १४॥ कुमारे गच्छति विभौ कैलासं शङ्करालयम् । महामङ्गलमुत्तस्थौ जयशब्दो बभूव ह ॥ १५॥ आरुरोह कुमारोऽसौ विमानं परमर्द्धिमत् । सर्वतोलङ्कृतं रम्यं सर्वोपरि विराजितम् ॥ १६॥ अहं विष्णुश्च समुदौ तदा चामरधारिणौ । गुह मूर्ध्नि महाप्रीत्या मुनेऽभूवं ह्यतन्द्रितौ ॥ १७॥ इन्द्राद्या अमराः सर्वे कुर्वन्तो गुहसेवनम् । यथोचितं चतुर्दिक्षु जग्मुश्च प्रमुदास्तदा ॥ १८॥ शम्भोर्जयं प्रभाषन्तः प्रापुस्ते शम्भुपर्वतम् । सानन्दा विविशुस्तत्रोच्चरितो मङ्गलध्वनिः ॥ १९॥ दृष्ट्वा शिवं शिवां चैव सर्वे विष्ण्वादयो द्रुतम् । प्रणम्य शङ्करं भक्त्या करौ बद्ध्वा विनम्रकाः ॥ २०॥ कुमारोऽपि विनीतात्मा विमानादवतीर्य च । प्रणनाम मुदा शम्भुं शिवां सिंहासनस्थिताम् ॥ २१॥ अथ दृष्ट्वा कुमारं तं तनयं प्राणवल्लभम् । तौ दम्पती शिवौ देवौ मुमुदातेऽति नारद ॥ २२॥ महाप्रभुःसमुत्थाप्य तमुत्सङ्गे न्यवेशयत् । मूर्ध्नि जघ्रौ मुदा स्नेहात्तं पस्पर्श करेण ह ॥ २३॥ महानन्दभरः शम्भुश्चकार मुखचुम्बनम् । कुमारस्य महास्नेहात् तारकारेर्महाप्रभोः ॥ २४॥ शिवापि तं समुत्थाप्य स्वोत्सङ्गे संन्यवेशयत् । कृत्वा मूर्ध्नि महास्नेहात् तन्मुखाब्जं चुचुम्ब हि ॥ २५॥ तयोस्तदा महामोदो ववृधेऽतीव नारद । दम्पत्योः शिवयोस्तात भवाचारं प्रकुर्वतोः ॥ २६॥ तदोत्सवो महानासीन्नानाश्चर्यः शिवालये । जयशब्दो नमश्शब्दो बभूवातीव सर्वतः ॥ २७॥ ततःसुरगणाः सर्वे विष्ण्वाद्या मुनयस्तथा । सुप्रणम्य मुदा शम्भुं तुष्टुवुः सशिवं मुने ॥ २८॥ देवा ऊचुः । देवदेव महादेव भक्तानामभयप्रद । नमो नमस्ते बहुशः कृपाकर महेश्वर ॥ २९॥ अद्भुता ते महादेव महालीला सुखप्रदा । सर्वेषां शङ्कर सतां दीनबन्धो महाप्रभो ॥ ३०॥ एवं मूढधियश्चाज्ञाः पूजायां ते सनातनम् । आवाहनं न जानीमो गतिं नैव प्रभोद्भुताम् ॥ ३१॥ गङ्गासलिलधाराय ह्याधाराय गुणात्मने । नमस्ते त्रिदशेशाय शङ्कराय नमोनमः ॥ ३२॥ वृषाङ्काय महेशाय गणानां पतये नमः । सर्वेश्वराय देवाय त्रिलोकपतये नमः ॥ ३३॥ संहर्त्रे जगतां नाथ सर्वेषां ते नमो नमः । भर्त्रे कर्त्रे च देवेश त्रिगुणेशाय शाश्वते ॥ ३४॥ विसङ्गाय परेशाय शिवाय परमात्मने । निष्प्रपञ्चाय शुद्धाय परमायाव्ययाय च ॥ ३५॥ दण्डहस्ताय कालाय पाशहस्ताय ते नमः । वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः ॥ ३६॥ भूतं भव्यं भविष्यं च स्थावरं जङ्गमं च यत् । तव देहात्समुत्पन्नं सर्वथा परमेश्वर ॥ ३७॥ पाहि नः सर्वदा स्वामिन्प्रसीद भगवन्प्रभो । वयं ते शरणापन्नाः सर्वथा परमेश्वर ॥ ३८॥ शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः । अरूपाय सरूपाय विश्वरूपाय ते नमः ॥ ३९॥ शिवाय नीलकण्ठाय चिताभस्माङ्गधारिणे । नित्यं नीलशिखण्डाय श्रीकण्ठाय नमोनमः ॥ ४०॥ सर्वप्रणतदेहाय संयमप्रणताय च । महादेवाय शर्वाय सर्वार्चितपदाय च ॥ ४१॥ त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः । आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यसे ॥ ४२॥ पर्वतानां सुमेरुस्त्वं नक्षत्राणां च चन्द्रमाः । ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ॥ ४३॥ ॐङ्कारस्सर्ववेदानां त्राता भव महेश्वर । त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ॥ ४४॥ महेश्वर महाभाग शुभाशुभनिरीक्षक । आप्यायास्मान्हि देवेश कर्तॄन्वै वचनं तव ॥ ४५॥ रूपकोटिसहस्रेषु रूपकोटिशतेषु ते । अन्तं गन्तुं न शक्ताः स्म देवदेव नमोऽस्तु ते ॥ ४६॥ ब्रह्मोवाच इति स्तुत्वाऽखिला देवा विष्ण्वाद्याःप्रमुखस्थिताः । मुहुर्मुहुस्सुप्रणम्य स्कन्दं कृत्वा पुरस्सरम् ॥ ४७॥ देवस्तुतिं समाकर्ण्य शिवःसर्वेश्वरः स्वराट् । सुप्रसन्नो बभूवाथ विजहास दयापरः ॥ ४८॥ उवाच सुप्रसन्नात्मा विष्ण्वादीन्सुरसत्तमान् । शङ्करः परमेशानो दीनबन्धुःसतां गतिः ॥ ४९॥ शिव उवाच हे हरे हे विधे देवा वाक्यं मे श‍ृणुतादरात् । सर्वथाऽहं सतां त्राता देवानां वः कृपानिधिः ॥ ५०॥ दुष्टहन्ता त्रिलोकेशः शङ्करो भक्तवत्सलः । कर्ता भर्ता च हर्ता च सर्वेषां निर्विकारवान् ॥ ५१॥ यदा यदा भवेद्दुःखं युष्माकं देवसत्तमाः । तदा तदा मां यूयं वै भजन्तु सुखहेतवे ॥ ५२॥ ब्रह्मोवाच इत्याज्ञप्तास्तदा देवा विष्ण्वाद्याः समुनीश्वराः । शिवां प्रणम्य सशिवं कुमारं च मुदान्विताः ॥ ५३॥ कथयन्तो यशो रम्यं शिवयोः शाङ्करेश्च तत् । आनन्दं परमं प्राप्य स्वधामानि ययुर्मुने ॥ ५४॥ शिवोऽपि शिवया सार्द्धं सगणः परमेश्वरः । कुमारेणयुतः प्रीत्योवास तस्मिन्गिरौ मुदा ॥ ५५॥ इत्येवं कथितं सर्वं कौमारं चरितं मुने । शैवं च सुखदं दिव्यं किमन्यच्छ्रोतुमिच्छसि ॥ ५६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनं नाम द्वादशोऽध्यायः ॥ २.४.१२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१३. त्रयोदशोऽध्यायः । गणेशोत्पत्तिः ।

सूत उवाच तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् । नारदः सुप्रसन्नोऽथ पप्रच्छ प्रीतितो विधिम् ॥ १॥ नारद उवाच देवदेव प्रजानाथ शिवज्ञाननिधे मया । श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ॥ २॥ अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् । तज्जन्मचरितं दिव्यं सर्वमङ्गलमङ्गलम् ॥ ३॥ सूत उवाच इत्याकर्ण्य वचस्तस्य नारदस्य महामुनेः । प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन् ॥ ४॥ ब्रह्मोवाच कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात् । शनिदृष्टं शिरश्छिन्नं सञ्चितं गाजमाननम् ॥ ५॥ इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते । यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना ॥ ६॥ सन्देहो नात्र कर्तव्यः शङ्करस्सूतिकृन्मुने । स हि सर्वाधिपः शम्भुर्निर्गुणः सगुणोऽपि हि ॥ ७॥ तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा । विनाश्यते मुनिश्रेष्ठ प्रस्तुतं श‍ृणु चादरात् ॥ ८॥ उद्वाहिते शिवे चात्र कैलासं च गते सति । कियता चैव कालेन जातो गणपतेर्भवः ॥ ९॥ एकस्मिन्नेव काले च जया च विजया सखी । पार्वत्या च मिलित्वा वै विचारे तत्पराभवत् ॥ १०॥ रुद्रस्य च गणाःसर्वे शिवस्याज्ञापरायणाः । ते सर्वेऽप्यस्मदीयाश्च नन्दिभृङ्गिपुरस्सराः ॥ ११॥ प्रमथास्ते ह्यसङ्ख्याता अस्मदीयो न कश्चन । द्वारि तिष्ठन्ति ते सर्वे शङ्कराज्ञापरायणाः ॥ १२॥ ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः । एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे ॥ १३॥ ब्रह्मोवाच इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः । हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति ॥ १४॥ ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः । नन्दिनं परिभर्त्स्याथ ह्याजगाम गृहान्तरम् ॥ १५॥ आयान्तं शङ्करं दृष्ट्वाऽसमये जगदम्बिका । उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ॥ १६॥ तस्मिन्नवसरे देवी कौतुकेनातिसंयुता । तदीयं तद्वचश्चैव हितं मेने सुखावहम् ॥ १७॥ एवं जाते तदा काले कदाचित्पार्वती शिवा । विचिन्त्य मनसा चेति परमाया परेश्वरी ॥ १८॥ मदीयः सेवकः कश्चिद्भवेच्छुभतरः कृती । मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह ॥ १९॥ विचार्येति च सा देवी वपुषो मलसम्भवम् । पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम् ॥ २०॥ सर्वावयवनिर्दोषं सर्वावयव सुन्दरम् । विशालं सर्वशोभाढ्यं महाबलपराक्रमम् ॥ २१॥ वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि । नानालङ्करणं चैव बह्वाशिषमनुत्तमाम् ॥ २२॥ मत्पुत्रस्त्वं मदीयोऽसि नान्यः कश्चिदिहास्ति मे । एवमुक्तः स पुरुषो नमस्कृत्य शिवां जगौ ॥ २३॥ गणेश उवाच किं कार्यं विद्यते तेऽद्य करवाणि तवोदितम् । इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा ॥ २४॥ शिवोवाच हे तात श‍ृणु मद्वाक्यं द्वारपालो भवाद्य मे । मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे ॥ २५॥ विना मदाज्ञां सत्पुत्र नैवायान्मद्गृहान्तरम् । कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम् ॥ २६॥ ब्रह्मोवाच इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने । तदीयं रूपमालोक्य सुन्दरं हर्षमागता ॥ २७॥ मुखमाचुम्ब्य सुप्रीत्यालिङ्ग्य तं कृपया सुतम् । स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम् ॥ २८॥ अथ देवीसुतस्तात गृहद्वारि स्थितो गणः । यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया ॥ २९॥ स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा । स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता ॥ ३०॥ एतस्मिन्नेव काले तु शिवो द्वारि समागतः । कौतुकी मुनिर्शादूल नानालीलाविशारदः ॥ ३१॥ उवाच च शिवेशं तमविज्ञाय गणाधिपः । मातुराज्ञां विना देव गम्यतां न त्वयाधुना ॥ ३२॥ मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना । इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत् ॥ ३३॥ तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः । मां न जानास्यसद्बुद्धे शिवोऽहमिति नान्यथा ॥ ३४॥ ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः । प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः ॥ ३५॥ शिव उवाच मुर्खोऽसि त्वं न जानासि शिवोऽहं गिरिजापतिः । स्वगृहं यामि रे बाल निषेधसि कथं हि माम् ॥ ३६॥ ब्रह्मोवाच इत्युक्त्वा प्रविशन्तं तं महेशं गणनायकः । क्रोधं कृत्वा ततो विप्र दण्डेनाताडयत्पुनः ॥ ३७॥ ततश्शिवश्च सङ्क्रुद्धो गणानाज्ञापयन्निजान् । को वाऽयं वर्तते किं च क्रियते पश्यतां गणाः ॥ ३८॥ इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः । भवाचाररतःस्वामी बह्वद्भुतसुलीलकः ॥ ३९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ २.४.१३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१४. चतुर्दशोऽध्यायः । गणेशेन सह शिवगणानां विवादवर्णनम् ।

ब्रह्मोवाच गणास्ते क्रोधसम्पन्नास्तत्र गत्वा शिवाज्ञया । पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम् ॥ १॥ शिवगणा ऊचुः कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि । इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि ॥ २॥ ब्रह्मोवाच तदीयं तद्वचः श्रुत्वा गिरिजातनयः स वै । निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम् ॥ ३॥ गणेश उवाच यूयं के कुत आयाता भवन्तः सुन्दरा इमे । यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः ॥ ४॥ ब्रह्मोवाच एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम् । ऊचुःसर्वे शिवगणा महावीरा गतस्मयाः ॥ ५॥ परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः । द्वारपालं गणेशं तं प्रत्यूचुः क्रुद्धमानसाः ॥ ६॥ शिवगणा ऊचुः श्रूयतां द्वारपाला हि वयं शिवगणा वराः । त्वां निवारयितुं प्राप्ताः शङ्करस्याज्ञया विभोः ॥ ७॥ त्वामपीह गणं मत्वा न हन्यामोऽन्यथा हतः । तिष्ठ दूरे स्वतः त्वं च किमर्थं मृत्युमीहसे ॥ ८॥ ब्रह्मोवाच इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः । निर्भर्त्स्य शङ्करगणान्न द्वारं मुक्तवांस्तदा ॥ ९॥ ते सर्वेऽपि गणाः शैवाः तत्रत्या वचनं तदा । श्रुत्वा तत्र शिवं गत्वा तद्वृत्तान्तमथाब्रुवन् ॥ १०॥ ततश्च तद्वचः श्रुत्वाद्भुतलीलो महेश्वरः । विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने ॥ ११॥ महेश्वर उवाच कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः । किं करिष्यत्यसद्बुद्धिः स्वमृत्युं वाञ्छति ध्रुवम् ॥ १२॥ दूरतः क्रियतां ह्येष द्वारपालो नवीनकः । क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम् ॥ १३॥ स्वामिनोक्ता गणास्ते चाद्भुतलीलेन शम्भुना । पुनरागत्य तत्रैव तमूचुर्द्वारपालकम् ॥ १४॥ शिवगणा ऊचुः । रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः । नैवास्मान्गणयस्येवं कथं जीवितुमिच्छसि ॥ १५॥ द्वारपाला वयं सर्वे स्थिताः किं परिभाषसे । सिंहासनगृहीतश्च श‍ृगालः शिवमीहते ॥ १६॥ तावद्गर्जसि मूर्ख त्वं यावद्गणपराक्रमः । नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि ॥ १७॥ इत्युक्तस्तैस्सुसङ्क्रुद्धो हस्ताभ्यां यष्टिकां तदा । गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः ॥ १८॥ उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् । शङ्करस्य महावीरान्निर्भयस्तान्गणेश्वरः ॥ १९॥ शिवापुत्र उवाच यात यात इतो दूरे नो चेद्वो दर्शयामि ह । स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम् ॥ २०॥ इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि । परस्परमथोचुस्ते शङ्करस्य गणास्तदा ॥ २१॥ शिवगणा ऊचुः । किं कर्तव्यं क्व गन्तव्यं क्रियते स न किं पुनः । मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च ॥ २२॥ ब्रह्मोवाच ततः शम्भुगणाःसर्वे शिवं दूरे व्यवस्थितम् । क्रोशमात्रं तु कैलासाद्गत्वा ते च तथाऽब्रुवन् ॥ २३॥ शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः । उवाच परमेशो हि स्वगणान् वीरसम्मतान् ॥ २४॥ शिव उवाच रे रे गणाः क्लीबमता न वीरा वीरमानिनः । मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत् ॥ २५॥ गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह । बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः ॥ २६॥ ब्रह्मोवाच इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर । भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः ॥ २७॥ शिवगणा ऊचुः । रेरे त्वं श‍ृणु वै बाल बलात्किं परिभाषसे । इतस्त्वं दूरतो याहि नो चेन्मृत्युर्भविष्यति ॥ २८॥ ब्रह्मोवाच इति श्रुत्वा वचस्तेषां शिवाज्ञाकारिणां ध्रुवम् । शिवासुतस्तदाभूत्स किं करोमीति दुःखितः ॥ २९॥ एतस्मिन्नन्तरे देवी तेषां तस्य च वै पुनः । श्रुत्वा तु कलहं द्वारि सखीं पश्येति साब्रवीत् ॥ ३०॥ समागत्य सखी तत्र वृत्तान्तं समबुध्यत । क्षणमात्रं तदा दृष्ट्वा गता हृष्टा शिवान्तिकम् ॥ ३१॥ तत्र गत्वा तु तत्सर्वं वृत्तं तद्यदभून्मुने । अशेषेण तया सख्या कथितं गिरिजाग्रतः ॥ ३२॥ सख्युवाच अस्मदीयो गणो यो हि स्थितो द्वारि महेश्वरि । निर्भर्त्सयन्ति तं वीराः शङ्करस्य गणा ध्रुवम् ॥ ३३॥ शिवश्चैव गणाः सर्वे विना तेऽवसरं कथम् । प्रविशन्ति हठाद्गेहे नैतच्छुभतरं तव ॥ ३४॥ सम्यक् कृतं ह्यनेनैव न हि कोऽपि प्रवेशितः । दुःखं चैवानुभूयात्र तिरस्कारादिकं तथा ॥ ३५॥ अतः परन्तु वाग्वादः क्रियते च परस्परम् । वाग्वादे च कृते नैव तर्ह्यायान्तु सुखेन वै ॥ ३६॥ कृतश्चैवात्र वाग्वादस्तं जित्वा विजयेन च । प्रविशन्तु तथा सर्वे नान्यथा कर्हिचित्प्रिये ॥ ३७॥ अस्मिन्नेवास्मदीये वै सर्वे सम्भर्त्सिता वयम् । तस्माद्देवि त्वया भद्रे न त्याज्यो मान उत्तमः ॥ ३८॥ शिवो मर्कटवत्तेऽद्य वर्तते सर्वदा सति । किं करिष्यत्यहङ्कारमानुकूल्यं भविष्यति ॥ ३९॥ ब्रह्मोवाच अहो क्षणं स्थिता तत्र शिवेच्छा वशतःसती । ४०॥ मनस्युवाच सा भूत्वा मानिनी पार्वती तदा । ४१॥ शिवोवाच अहो क्षणं स्थितो नैव हठात्कारः कथं कृतः । कथं चैवात्र कर्त्तव्यं विनयेनाथ वा पुनः ॥ ४२॥ भविष्यति भवत्येव कृतं नैवान्यथा पुनः । इत्युक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा ॥ ४३॥ समागत्याऽब्रवीत्सा च प्रियया कथितं हि यत् । समाचष्ट गणेशं तं गिरिजातनयं तदा ॥ ४४॥ सख्युवाच सम्यक्कृतं त्वया भद्र बलात्ते प्रविशन्तु न । भवदग्रे गणा ह्येते किं जयन्तु भवादृशम् ॥ ४५॥ कृतं चेद्वाकृतं चैव कर्त्तव्यं क्रियतां त्वया । जितो यस्तु पुनर्वापि न वैरमथ वा ध्रुवम् ॥ ४६॥ ब्रह्मोवाच इति श्रुत्वा वचस्तस्या मातुश्चैव गणेश्वरः । आनन्दं परमं प्राप बलं भूरि महोन्नतिम् ॥ ४७॥ बद्धकक्षस्तथोष्णीषं बद्ध्वा जङ्घोरु संस्पृशन् । उवाच तान् गणान् सर्वान् निर्भयं वचनं मुदा ॥ ४८॥ गणेश उवाच अहं च गिरिजासूनुर्यूयं शिवगणास्तथा । उभये समतां प्राप्ताः कर्तव्यं क्रियतां पुनः ॥ ४९॥ भवन्तो द्वारपालाश्च द्वारपोऽहं कथं न हि । भवन्तश्च स्थितास्तत्राऽहं स्थितोऽत्रेति निश्चितम् ॥ ५०॥ भवद्भिश्च स्थितं ह्यत्र यदा भवति निश्चितम् । तदा भवद्भिः कर्त्तव्यं शिवाज्ञापरिपालनम् ॥ ५१॥ इदानीं तु मया चात्र शिवाज्ञापरिपालनम् । सत्यं च क्रियते वीरा निर्णीतं मे यथोचितम् ॥ ५२॥ तस्माच्छिवगणाःसर्वे वचनं श‍ृणुतादरात् । हठाद्वा विनयाद्वा न गन्तव्यं मन्दिरे पुनः ॥ ५३॥ ब्रह्मोवाच इत्युक्तास्ते गणेनैव सर्वे ते लज्जिता गणाः । ययुः शिवान्तिकं तं वै नमस्कृत्य पुरः स्थिताः ॥ ५४॥ स्थित्वा न्यवेदयन्सर्वे वृत्तान्तं च तदद्भुतम् । करौ बद्ध्वा नतस्कन्धाः शिवं स्तुत्वा पुरः स्थिताः ॥ ५५॥ तत्सर्वं तु तदा श्रुत्वा वृत्तं तत्स्वगणोदितम् । लौकिकीं वृत्तिमाश्रित्य शङ्करो वाक्यमब्रवीत् ॥ ५६॥ शङ्कर उवाच श्रूयतां च गणाःसर्वे युद्धं योग्यं भवेन्न हि । यूयं चात्रास्मदीया वै स च गौरीगणस्तथा ॥ ५७॥ विनयः क्रियते चेद्वै वश्यः शम्भुः स्त्रिया सदा । इति ख्यातिर्भवेल्लोके गर्हिता मे गणा ध्रुवम् ॥ ५८॥ कृते चैवात्र कर्तव्यमिति नीतिर्गरीयसी । एकाकी स गणो बालः किं करिष्यति विक्रमम् ॥ ५९॥ भवन्तश्च गणा लोके युद्धे चाति विशारदाः । मदीयाश्च कथं युद्धं हित्वा यास्यथ लाघवम् ॥ ६०॥ स्त्रियाऽऽग्रहः कथं कार्यो पत्युरग्रे विशेषतः । कृत्वा सा गिरिजा तस्य नूनं फलमवाप्स्यति ॥ ६१॥ तस्मात्सर्वे च मद्वीराः श‍ृणुतादरतो वचः । कर्त्तव्यं सर्वथा युद्धं भावि यत्तद्भवत्विति ॥ ६२॥ ब्रह्मोवाच इत्युक्त्वा शङ्करो ब्रह्मन् नानालीलाविशारदः । विरराम मुनिश्रेष्ठ दर्शयँल्लौकिकीं गतिम् ॥ ६३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणविवादवर्णनं नाम चतुर्दशोऽध्यायः ॥ २.४.१४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१५. पञ्चदशोऽध्यायः । शिवगणैः सह गणेशयुद्धवर्णनम् ।

ब्रह्मोवाच इत्युक्ता विभुना तेन निश्चयं परमं गताः । सन्नद्धास्तु तदा तत्र जग्मुश्च शिवमन्दिरम् ॥ १॥ गणेशोऽपि तथा दृष्ट्वा ह्यायातान्गणसत्तमान् । युद्धाऽऽटोपं विधायैव स्थितांश्चैवाब्रवीदिदम् ॥ २॥ गणेश उवाच आयान्तु गणपाः सर्वे शिवाज्ञापरिपालकाः । अहमेकश्च बालश्च शिवाज्ञापरिपालकः ॥ ३॥ तथापि पश्यतां देवी पार्वती सूनुजं बलम् । शिवश्च स्वगणानां तु बलं पश्यतु वै पुनः ॥ ४॥ बलवद्बालयुद्धं च भवानीशिवपक्षयोः । भवद्भिश्च कृतं युद्धं पूर्वं युद्धविशारदैः ॥ ५॥ मया पूर्वं कृतं नैव बालोऽस्मि क्रियतेऽधुना । तथापि भवतां लज्जा गिरिजाशिवयोरिह ॥ ६॥ ममैवं तु भवेन्नैव वैपरीत्यं भविष्यति । ममैव भवतां लज्जा गिरिजाशिवयोरिह ॥ ७॥ एवं ज्ञात्वा च कर्त्तव्यः समरश्च गणेश्वराः । भवद्भिः स्वामिनं दृष्ट्वा मया च मातरं तदा ॥ ८॥ क्रियते कीदृशं युद्धं भवितव्यं भवत्विति । तस्य वै वारणे कोऽपि न समर्थस्त्रिलोकके ॥ ९॥ ब्रह्मोवाच इत्येवं भर्त्सितास्ते तु दण्डभूषितबाहवः । विविधान्यायुधान्येवं धृत्वा ते च समाययुः ॥ १०॥ घर्षयन्तस्तथा दन्तान् हुङ्कृत्य च पुनः पुनः । पश्य पश्य ब्रुवन्तश्च गणास्ते समुपागताः ॥ ११॥ नन्दी प्रथममागत्य धृत्वा पादं व्यकर्षयत् । धावन्भृङ्गी द्वितीयं च पादं धृत्वा गणस्य च ॥ १२॥ यावत्पादे विकर्षन्तौ तावद्धस्तेन वै गणः । आहत्य हस्तयोस्ताभ्यामुत्क्षिप्तौ पादकौ स्वयम् ॥ १३॥ अथ देवीसुतो वीरस्सङ्गृह्य परिघं बृहत् । द्वारस्थितो गणपतिः सर्वानापोथयत्तदा ॥ १४॥ केषाञ्चित्पाणयो भिन्नाः केषाञ्चित्पृष्ठकानि च । केषाञ्चिच्च शिरांस्येव केषाञ्चिन्मस्तकानि च ॥ १५॥ केषाञ्चिज्जानुनी तत्र केषाञ्चित्स्कन्धकास्तथा । केषाञ्चिज्जानुनी तत्र केषाञ्चित्स्कन्धास्तथा । सम्मुखे चागता ये वै ते सर्वे हृदये हताः ॥ १६॥ केचिच्च पतिता भूमौ केचिच्च विदिशो गताः । केषाञ्चिच्चरणौ छिन्नौ केचिच्छर्वान्तिकं गताः ॥ १७॥ तेषां मध्ये तु कश्चिद्वै सङ्ग्रामे सम्मुखो न हि । सिंहं दृष्ट्वा यथा यान्ति मृगाश्चैव दिशो दश ॥ १८॥ तथा ते च गणाः सर्वे गताश्चैव सहस्रशः । परावृत्य तथा सोऽपि सुद्वारि समुपस्थितः ॥ १९॥ कल्पान्तकरणे कालो दृश्यते च भयङ्करः । यथा तथैव दृष्टः स सर्वेषां प्रलयङ्करः ॥ २०॥ एतस्मिन्समये चैव सरमेशसुरेश्वराः । प्रेरिता नारदेनेह देवाः सर्वे समागमन् ॥ २१॥ समब्रुवंस्तदा सर्वे शिवस्य हितकाम्यया । पुरः स्थित्वा शिवं नत्वा ह्याज्ञां देहि प्रभो इति ॥ २२॥ त्वं परब्रह्म सर्वेशः सर्वे च तव सेवकाः । सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः ॥ २३॥ रजस्सत्त्वतमोरूपो लीलया निर्गुणः स्वतः । का लीला रचिता चाद्य तामिदानीं वद प्रभो ॥ २४॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तेषां मुनिश्रेष्ठ महेश्वरः । गणान् भिन्नाँस्तदा दृष्ट्वा तेभ्यस्सर्वं न्यवेदयत् ॥ २५॥ अथ सर्वेश्वरस्तत्र शङ्करो मुनिसत्तम । विहस्य गिरिजानाथो ब्रह्माणं मामुवाच ह ॥ २६॥ शिव उवाच ब्रह्मञ्छृणु मम द्वारि बाल एकः समास्थितः । महाबलो यष्टिपाणिर्गेहावेशनिवारकः ॥ २७॥ महाप्रहारकर्ताऽसौ मत्पार्षदविघातकः । पराजयः कृतस्तेन मद्गणानां बलादिह ॥ २८॥ ब्रह्मन् त्वयैव गन्तव्यं प्रसाद्योऽयं महाबलः । यथा ब्रह्मन्नयः स्याद्वै तथा कार्यं त्वया विधे ॥ २९॥ ब्रह्मोवाच इत्याकर्ण्य प्रभोर्वाक्यमज्ञात्वाऽज्ञानमोहितः । तदीयनिकटं तात सर्वैरृषिवरैरयाम् ॥ ३०॥ समायान्तं च मां दृष्ट्वा स गणेशो महाबली । क्रोधं कृत्वा समभ्येत्य मम श्मश्रूण्यवाकिरत् ॥ ३१॥ क्षम्यतां क्षम्यतां देव न युद्धार्थं समागतः । ब्राह्मणोऽहमनुग्राह्यः शान्तिकर्तानुपद्रवः ॥ ३२॥ इत्येवं ब्रुवति ब्रह्मंस्तावत्परिघमाददे । स गणेशो महावीरो बालोऽबालपराक्रमः ॥ ३३॥ गृहीतपरिघं दृष्ट्वा तं गणेशं महाबलम् । पलायनपरो यातस्त्वहं द्रुततरं तदा ॥ ३४॥ यात यात ब्रुवन्तस्ते परिघेन हतास्तदा । स्वयं च पतिताः केचित्केचित्तेन निपातिताः ॥ ३५॥ केचिच्च शिवसामीप्यं गत्वा तत्क्षणमात्रतः । शिवं विज्ञापयाञ्चक्रुस्तद्वृत्तान्तमशेषतः ॥ ३६॥ तथाविधांश्च तान् दृष्ट्वा तद्वृत्तान्तं निशम्य सः । अपारमादधे कोपं हरो लीलाविशारदः ॥ ३७॥ इन्द्रादिकान्देवगणान् षण्मुखप्रवरान् गणान् । भूतप्रेतपिशाचांश्च सर्वानादेशयत्तदा ॥ ३८॥ ते सर्वे च यथायोग्यं गतास्ते सर्वतो दिशम् । तं गणं हन्तुकामा हि शिवाज्ञप्ता उदायुधाः ॥ ३९॥ यस्य यस्यायुधं यच्च तत्तत्सर्वं विशेषतः । तद् गणेशोपरि बलात्समागत्य विमोचितम् ॥ ४०॥ हाहाकारो महानासीत् त्रैलोक्ये सचराचरे । त्रिलोकस्था जनाः सर्वे संशयं परमं गताः ॥ ४१॥ न यातं ब्रह्मणोऽप्यायुर्ब्रह्माण्डं क्षयमेति हि । अकाले च तथा नूनं शिवेच्छावशतः स्वयम् ॥ ४२॥ ते सर्वे चागतास्तत्र षण्मुखाद्याश्च ये पुनः । देवा व्यर्थायुधा जाता आश्चर्यं परमं गताः ॥ ४३॥ एतस्मिन्नन्तरे देवी जगदम्बा विबोधना । ज्ञात्वा तच्चरितं सर्वमपारं क्रोधमादधे ॥ ४४॥ शक्तिद्वयं तदा तत्र तया देव्या मुनीश्वर । निर्मितं स्वगणस्यैव सर्वसाहाय्यहेतवे ॥ ४५॥ एका प्रचण्डरूपं च धृत्वातिष्ठन्महामुने । श्यामपर्वतसङ्काशं विस्तीर्य मुखगह्वरम् ॥ ४६॥ एका विद्युत्स्वरूपा च बहुहस्तसमन्विता । भयङ्करा महादेवी दुष्टदण्डविधायिनी ॥ ४७॥ आयुधानि च सर्वाणि मोचितानि सुरैर्गणैः । गृहीत्वा स्वमुखे तानि ताभ्यां शीघ्रं च चिक्षिपे ॥ ४८॥ देवायुधं न दृश्येत परिघः परितः पुनः । एवं ताभ्यां कृतं तत्र चरितं परमाद्भुतम् ॥ ४९॥ एको बालोऽखिलं सैन्यं लोडयामास दुस्तरम् । यथा गिरिवरेणैव लोडितः सागरः पुरा ॥ ५०॥ एकेन निहताः सर्वे शक्राद्या निर्जरास्तथा । शङ्करस्य गणाश्चैव व्याकुला अभवंस्तदा ॥ ५१॥ अथ सर्वे मिलित्वा ते निःश्वस्य च मुहुर्मुहुः । परस्परं समूचुस्ते तत्प्रहारसमाकुलाः ॥ ५२॥ देवगणा ऊचुः किं कर्तव्यं क्व गन्तव्यं न ज्ञायन्ते दिशो दश । परिघं भ्रामयत्येष सव्यापसव्यमेव च ॥ ५३॥ ब्रह्मोवाच एतत्कालेऽप्सरः श्रेष्ठाः पुष्पचन्दनपाणयः । ऋषयश्च त्वदाद्या हि येऽतियुद्धेऽतिलालसाः ॥ ५४॥ ते सर्वे च समाजग्मुर्युद्धसन्दर्शनाय वै । पूरितो व्योम सन्मार्गस्तैस्तदा मुनिसत्तम ॥ ५५॥ तास्ते दृष्ट्वा रणं तं वै महाविस्मयमागताः । ईदृशं परमं युद्धं न दृष्टं चैकदापि हि ॥ ५६॥ पृथिवी कम्पिता तत्र समुद्रसहिता तदा । पर्वताः पतिताश्चैव चक्रुः सङ्ग्रामसम्भवम् ॥ ५७॥ द्यौर्ग्रहर्क्षगणैर्घूर्ण्णा सर्वे व्याकुलतां गताः । देवाः पलायिताःसर्वे गणाश्च सकलास्तदा ॥ ५८॥ केवलं षण्मुखस्तत्र नापलायत विक्रमी । महावीरस्तदा सर्वानावार्य पुरतः स्थितः ॥ ५९॥ शक्तिद्वयेन तद्युद्धे सर्वे च निष्फलीकृताः । सर्वास्त्राणि निकृत्तानि सङ्क्षिप्तान्यमरैर्गणैः ॥ ६०॥ येऽवस्थिताश्च ते सर्वे शिवस्यान्तिकमागताः । देवाः पलायिताः सर्वे गणाश्च सकलास्तदा ॥ ६१॥ ते सर्वे मिलिताश्चैव मुहुर्नत्वा शिवं तदा । अब्रुवन्वचनं क्षिप्रं कोऽयं गणवरः प्रभो ॥ ६२॥ पुरा चैव श्रुतं युद्धमिदानीं बहुधा पुनः । दृश्यते न श्रुतं दृष्टमीदृशं तु कदाचन ॥ ६३॥ किञ्चिद्विचार्यतां देव त्वन्यथा न जयो भवेत् । त्वमेव रक्षकः स्वामिन्ब्रह्माण्डस्य न संशयः ॥ ६४॥ ब्रह्मोवाच इत्येवं तद्वचः श्रुत्वा रुद्रः परमकोपनः । कोपं कृत्वा च तत्रैव जगाम स्वगणैः सह ॥ ६५॥ देवसैन्यं च तत्सर्वं विष्णुना चक्रिणा सह । समुत्सवं महत्कृत्वा शिवस्यानुजगाम ह ॥ ६६॥ एतस्मिन्नन्तरे भक्त्या नमस्कृत्य महेश्वरम् । अब्रवीन्नारद त्वं वै देवदेवं कृताञ्जलिः ॥ ६७॥ नारद उवाच देवदेव महादेव श‍ृणु मद्वचनं विभो । त्वमेव सर्वगस्स्वामी नानालीलाविशारदः ॥ ६८॥ त्वया कृत्वा महालीलां गणगर्वोऽपहारितः । अस्मै दत्त्वा बलं भूरि देवगर्वश्च शङ्कर ॥ ६९॥ दर्शितं भुवने नाथ स्वमेव बलमद्भुतम् । स्वतन्त्रेण त्वया शम्भो सर्वगर्वप्रहारिणा ॥ ७०॥ इदानीं न कुरुष्वेश तां लीलां भक्तवत्सलः । स्वगणानमरांश्चापि सुसन्मान्याभिवर्द्धय ॥ ७१॥ इमं न खेलयेदानीं जहि ब्रह्मपदप्रद । इत्युक्त्वा नारद त्वं वै ह्यन्तर्द्धानं गतस्तदा ॥ ७२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं नाम पञ्चदशोऽध्यायः ॥ २.४.१५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१६. षोडशोऽध्यायः । गणेशशिरश्च्छेदनवर्णनम् ।

ब्रह्मोवाच इति श्रुत्वा महेशानो भक्तानुग्रहकारकः । त्वद्वाचा युदकामोऽभूत्तेन बालेन नारद ॥ १॥ विष्णुमाहूय सम्मन्त्र्य बलेन महता युतः । सामरः सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः ॥ २॥ देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् । महाबला महोत्साहाश्शिवसद्दृष्टिलोकिताः ॥ ३॥ युयुधेऽथ हरिस्तेन महाबलपराक्रमः । महादेव्यायुधो वीरः प्रवणः शिवरूपकः ॥ ४॥ यष्ट्या गणाधिपः सोऽथ जघानामरपुङ्गवान् । हरिं च सहसा वीरः शक्तिदत्तमहाबलः ॥ ५॥ सर्वेऽमरगणास्तत्र विकुण्ठितबला मुने । अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः ॥ ६॥ शिवोऽपि सह सैन्येन युद्धं कृत्वा चिरं मुने । विकरालं च तं दृष्ट्वा विस्मयं परमं गतः ॥ ७॥ छलेनैव च हन्तव्यो नान्यथा हन्यते पुनः । इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः ॥ ८॥ शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि । विष्णौ चैवाथ सङ्ग्रामे आयाते सर्वदेवताः ॥ ९॥ गणाश्चैव महेशस्य महाहर्षं तदा ययुः । सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम् ॥ १०॥ अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः । प्रथमं पूजयामास विष्णुं सर्वसुखावहम् ॥ ११॥ अहं च मोहयिष्यामि हन्यतां च त्वया विभो । छलं विना न वध्योऽयं तामसोऽयं दुरासदः ॥ १२॥ इति कृत्वा मतिं तत्र सुसम्मन्त्र्य च शम्भुना । आज्ञां प्राप्याऽभवच्छैवीं विष्णुर्मोहपरायणः ॥ १३॥ शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् । दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने ॥ १४॥ शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितः स्वयम् । परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः ॥ १५॥ कृत्वा यत्नं किमप्यत्र वञ्चयामास तद्गतिम् । शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम् ॥ १६॥ एकतस्तन्मुखं दृष्ट्वा शङ्करोऽप्याजगाम ह । स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया ॥ १७॥ स ददर्शागतं शम्भुं शूलहस्तं महेश्वरम् । हन्तुकामं निजं वीरः शिवापुत्रो महाबलः ॥ १८॥ शक्त्या जघान तं हस्ते स्मृत्वा मातृपदाम्बुजम् । स गणशो महावीरः शिवशक्तिप्रवर्द्धितः ॥ १९॥ त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः । दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे ॥ २०॥ तमप्यपातयद्भूमौ परिघेण गणेश्वरः । हताः पञ्च तथा हस्ताः पञ्चभिश्शूलमाददे ॥ २१॥ अहो दुःखतरं नूनं सञ्जातमधुना मम । भवेत्पुनर्गणानां किं भवाचारो जगाविति ॥ २२॥ एतस्मिन्नन्तरे वीरः परिघेण गणेश्वरः । जघान सगणान् देवान् शक्तिदत्तबलान्वितः ॥ २३॥ गता दशदिशो देवाः सगणाः परिघार्दिताः । न तस्थुःसमरे केऽपि तेनाद्भुतप्रहारिणा ॥ २४॥ विष्णुस्तं च गणं दृष्ट्वा धन्योऽयमिति चाब्रवीत् । महाबलो महावीरो महाशूरो रणप्रियः ॥ २५॥ बहवो देवताश्चैव मया दृष्टास्तथा पुनः । दानवा बहवो दैत्या यक्षगन्धर्वराक्षसाः ॥ २६॥ नैतेन गणनाथेन समतां यान्ति केऽपि च । त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः ॥ २७॥ एवं सम्ब्रुवतेऽमुष्मै परिघं भ्रामयन् स च । चिक्षेप विष्णवे तत्र शक्तिपुत्रो गणेश्वरः ॥ २८॥ चक्रं गृहीत्वा हरिणा स्मृत्वा शिवपदाम्बुजम् । तेन चक्रेण परिघो द्रुतं खण्डीकृतस्तदा ॥ २९॥ खण्डं तु परिघस्यापि हरये प्राक्षिपद्गणः । गृहीत्वा गरुडेनापि पक्षिणा विफलीकृतः ॥ ३०॥ एवं विचरितं कालं महावीरावुभावपि । विष्णुश्चापि गणश्चैव युयुधाते परस्परम् ॥ ३१॥ पुनर्वीरवरः शक्तिसुतःस्मृतशिवो बली । गृहीत्वा यष्टिमतुलां तया विष्णुं जघान ह ॥ ३२॥ अविषह्य प्रहारं तं स भूमौ निपपात ह । द्रुतमुत्थाय युयुधे शिवापुत्रेण तेन वै ॥ ३३॥ एतदन्तरमासाद्य शूलपाणिस्तथोत्तरे । आगत्य च त्रिशूलेन तच्छिरो निरकृन्तत ॥ ३४॥ छिन्ने शिरसि तस्यैव गणनाथस्य नारद । गणसैन्यं देवसैन्यमभवच्च सुनिश्चलम् ॥ ३५॥ नारदेन त्वयाऽऽगत्य देव्यै सर्वं निवेदितम् । मानिनि श्रूयतां मानस्त्याज्यो नैव त्वयाधुना ॥ ३६॥ इत्युक्त्वाऽन्तर्हितस्तत्र नारद त्वं कलिप्रियः । अविकारी सदा शम्भुर्मनोगतिकरो मुनिः ॥ ३७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदनवर्णनं नाम षोडशोऽध्यायः ॥ २.४.१६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१७. सप्तदशोऽध्यायः । गणेशदेहे गजमुखयोजनवर्णनम् ।

नारद उवाच ब्रह्मन् वद महाप्राज्ञ तद् वृत्तान्तेऽखिले श्रुते । किमकार्षीन्महादेवी श्रोतुमिच्छामि तत्त्वतः ॥ १॥ ब्रह्मोवाच श्रूयतां मुनिशार्दूल कथयाम्यद्य तद्ध्रुवम् । चरितं जगदम्बाया यज्जातं तदनन्तरम् ॥ २॥ मृदङ्गान्पटहांश्चैव गणाश्चावादयंस्तथा । महोत्सवं तदा चक्रुर्हते तस्मिन्गणाधिपे ॥ ३॥ शिवोऽपि तच्छिरश्छित्वा यावद्दुःखमुपाददे । तावच्च गिरिजा देवी चुक्रोधाति मुनीश्वर ॥ ४॥ किं करोमि क्व गच्छामि हाहा दुःखमुपागतम् । कथं दुःखं विनश्येतास्याऽतिदुःखं ममाधुना ॥ ५॥ मत्सुतो नाशितश्चाद्य देवैः सर्वैर्गणैस्तथा । सर्वांस्तान्नाशयिष्यामि प्रलयं वा करोम्यहम् ॥ ६॥ इत्येवं दुःखिता सा च शक्तीः शतसहस्रशः । निर्ममे तत्क्षणं क्रुद्धा सर्वलोकमहेश्वरी ॥ ७॥ निर्मितास्ता नमस्कृत्य जगदम्बां शिवां तदा । जाज्वल्यमाना ह्यवदन्मातरादिश्यतामिति ॥ ८॥ तच्छुत्वा शम्भुशक्तिः सा प्रकृतिः क्रोधतत्परा । प्रत्युवाच तु ताः सर्वा महामाया मुनीश्वर ॥ ९॥ देव्युवाच हे शक्तयोऽधुना देव्यो युष्माभिर्मन्निदेशतः । प्रलयश्चात्र कर्त्तव्यो नात्र कार्या विचारणा ॥ १०॥ देवांश्चैव ऋषींश्चैव यक्षराक्षसकांस्तथा । अस्मदीयान्परांश्चैव सख्यो भक्षत वै हठात् ॥ ११॥ ब्रह्मोवाच तदाज्ञप्ताश्च ताः सर्वाः शक्तयः क्रोधतत्पराः । देवादीनां च सर्वेषां संहारं कर्तुमुद्यताः ॥ १२॥ यथा च तृणसंहारमनलः कुरुते तथा । एवं ताः शक्तयः सर्वाः संहारं कर्तुमुद्यताः ॥ १३॥ गणपो वाथ विष्णुर्वा ब्रह्मा वा शङ्करस्तथा । इन्द्रो वा यक्षराजो वा स्कन्दो वा सूर्य एव वा ॥ १४॥ सर्वेषां चैव संहारं कुर्वन्ति स्म निरन्तरम् । यत्र यत्र तु दृश्येत तत्र तत्रापि शक्तयः ॥ १५॥ कराली कुब्जका खञ्जा लम्बशीर्षा ह्यनेकशः । हस्ते धृत्वा तु देवांश्च मुखे चैवाक्षिपंस्तदा ॥ १६॥ तं संहारं तदा दृष्ट्वा हरो ब्रह्मा तथा हरिः । इन्द्रादयोऽखिला देवा गणाश्च ऋषयस्तथा ॥ १७॥ किं करिष्यति सा देवी संहारं वाप्यकालतः । इति संशयमापन्ना जीवनाशा हताऽभवत् ॥ १८॥ सर्वे च मिलिताश्चेमे किं कर्त्तव्यं विचिन्त्यताम् । एवं विचारयन्तस्ते तूर्णमूचुः परस्परम् ॥ १९॥ यदा च गिरिजा देवी प्रसन्ना हि भवेदिह । तदा चैव भवेत्स्वास्थ्यं नान्यथा कोटि यत्नतः ॥ २०॥ शिवोऽपि दुःखमापन्नो लौकिकीं गतिमाश्रितः । मोहयन्सकलांस्तत्र नानालीलाविशारदः ॥ २१॥ सर्वेषां चैव देवानां कटिर्भग्ना यदा तदा । शिवा क्रोधमयी साक्षाद् गन्तुं न पुर उत्सहेत् ॥। २२॥ स्वीयो वा परकीयो वा देवो वा दानवोऽपि वा । गणो वापि च दिक्पालो यक्षो वा किन्नरो मुनिः ॥ २३॥ विष्णुर्वापि तथा ब्रह्मा शङ्करश्च तथा प्रभुः । न कश्चिद्गिरिजाग्रे च स्थातुं शक्तोऽभवन्मुने ॥ २४॥ जाज्वल्यमानं तत्तेजःसर्वतो दाहि तेऽखिलाः । दृष्ट्वा भीततरा आसन् सर्वे दूरतरं स्थिताः ॥ २५॥ एतस्मिन्समये तत्र नारदो दिव्यदर्शनः । आगतस्त्वं मुने देवगणानां सुखहेतवे ॥ २६॥ ब्रह्माणं मां भवं विष्णुं शङ्करं च प्रणम्य सः । समागत्य मिलित्वोचे विचार्य कार्यमेव वा ॥ २७॥ सर्वे सम्मन्त्रयाञ्चक्रुस्त्वया देवा महात्मना । दुःखशान्तिः कथं स्याद्वै समूचुस्तत एव ते ॥ २८॥ यावच्च गिरिजा देवी कृपां नैव करिष्यति । तावन्नैव सुखं स्याद्वै नात्र कार्या विचारणा ॥ २९॥ ऋषयो हि त्वदाद्याश्च गतास्ते वै शिवान्तिकम् । सर्वे प्रसादयामासुः क्रोधशान्त्यै तदा शिवाम् ॥ ३०॥ पुनः पुनः प्रणेमुश्च स्तुत्वा स्तोत्रैरनेकशः । सर्वे प्रसादयन्प्रीत्या प्रोचुर्देवगणाज्ञया ॥ ३१॥ सुरर्षय ऊचुः । जगदम्ब नमस्तुभ्यं शिवायै ते नमोऽस्तु ते । चण्डिकायै नमस्तुभ्यं कल्याण्यै च नमोऽस्तु ते ॥ ३२॥ आदिशक्तिस्त्वमेवाम्ब सर्वसृष्टिकरी सदा । त्वमेव पालिनी शक्तिस्त्वमेव प्रलयङ्करी ॥ ३३॥ प्रसन्ना भव देवेशि शान्तिं कुरु नमोऽस्तु ते । सर्वं हि विकलं देवि त्रिजगत्तव कोपतः ॥ ३४॥ ब्रह्मोवाच एवं स्तुता परा देवी ऋषिभिश्च त्वदादिभिः । क्रुद्धदृष्ट्या तदा तांश्च किञ्चिन्नोवाच सा शिवा ॥ ३५॥ तदा च ऋषयः सर्वे नत्वा तच्चरणाम्बुजम् । पुनरूचुश्शिवां भक्त्या कृताञ्जलिपुटाः शनैः ॥ ३६॥ क्षम्यतां क्षम्यतां देवि संहारो जायतेऽधुना । तव स्वामी स्थितश्चात्र पश्य पश्य तमम्बिके ॥ ३७॥ वयं के च इमे देवा विष्णुब्रह्मादयस्तथा । प्रजाश्च भवदीयाश्च कृताञ्जलिपुटाः स्थिताः ॥ ३८॥ क्षन्तव्यश्चापराधो वै सर्वेषां परमेश्वरि । सर्वे हि विकलाश्चाद्य शान्तिं तेषां शिवे कुरु ॥ ३९॥ ब्रह्मोवाच इत्युक्त्वा ऋषयःसर्वे सुदीनतरमाकुलाः । सन्तस्थिरे चण्डिकाग्रे कृताञ्जलिपुटास्तदा ॥ ४०॥ एवं श्रुत्वा वचस्तेषां प्रसन्ना चण्डिकाऽभवत् । प्रत्युवाच ऋषींस्तान्वै करुणाविष्टमानसा ॥ ४१॥ देव्युवाच मत्पुत्रो यदि जीवेत तदा संहरणं न हि । यथा हि भवतां मध्ये पूज्योऽयं च भविष्यति ॥ ४२॥ सर्वाध्यक्षो भवेदद्य यूयं कुरुत तद्यदि । तदा शान्तिर्भवेल्लोके नान्यथा सुखमाप्स्यथ ॥ ४३॥ ब्रह्मोवाच इत्युक्तास्ते तदा सर्वे ऋषयो युष्मदादयः । तेभ्यो देवेभ्य आगत्य सर्वं वृत्तं न्यवेदयन् ॥ ४४॥ ते च सर्वे तथा श्रुत्वा शङ्कराय न्यवेदयन् । नत्वा प्राञ्जलयो दीनाः शक्रप्रभृतयः सुराः ॥ ४५॥ प्रोवाचेति सुराञ्छ्रुत्वा शिवश्चापि तथा पुनः । कर्त्तव्यं च तथा सर्वलोकस्वास्थ्यं भवेदिह ॥ ४६॥ उत्तरस्यां पुनर्यात प्रथमं यो मिलेदिह । तच्छिरश्च समाहृत्य योजनीयं कलेवरे ॥ ४७॥ ब्रह्मोवाच ततस्तैस्तत्कृतं सर्वं शिवाज्ञाप्रतिपालकैः । कलेवरं समानीय प्रक्षाल्य विधिवच्च तत् ॥ ४८॥ पूजयित्वा पुनस्ते वै गताश्चोदङ्मुखास्तदा । प्रथमं मिलितस्तत्र हस्ती चाप्येकदन्तकः ॥ ४९॥ तच्छिरश्च तदा नीत्वा तत्र तेऽयोजयन् ध्रुवम् । संयोज्य देवताःसर्वाः शिवं विष्णुं विधिं तदा ॥ ५०॥ प्रणम्य वचनं प्रोचुर्भवदुक्तं कृतं च नः । अनन्तरं च तत्कार्यं भवताद्भवशेषितम् ॥ ५१॥ ततस्ते तु विरेजुश्च पार्षदाश्च सुराः सुखम् । अथ तद्वचनं श्रुत्वा शिवोक्तं पर्यपालयन् ॥ ५२॥ ऊचुस्ते च तदा तत्र ब्रह्मविष्णुसुरास्तथा । प्रणम्येशं शिवं देवं स्वप्रभुं गुणवर्जितम् ॥ ५३॥ यस्मात्त्वत्तेजसःसर्वे वयं जाता महात्मनः । त्वत्तेजस्तत्समायातु वेदमन्त्राभियोगतः ॥ ५४॥ इत्येवमभिमन्त्रेण मन्त्रितं जलमुत्तमम् । स्मृत्वा शिवं समेतास्ते चिक्षिपुस्तत्कलेवरे ॥ ९५॥ तज्जलस्पर्शमात्रेण चिद्युतो जीवितो द्रुतम् । तदोत्तस्थौ सुप्त इव स बालश्च शिवेच्छया ॥ ५६॥ सुभगः सुन्दरतरो गजवक्त्रः सुरक्तकः । प्रसन्नवदनश्चाति सुप्रभो ललिताकृतिः ॥ ५७॥ तं दृष्ट्वा जीवितं बालं शिवापुत्रं मुनीश्वर । सर्वे मुमुदिरे तत्र सर्वं दुःखं क्षयं गतम् ॥ ५८॥ देव्यै सन्दर्शयामासुः सर्वे हर्षसमन्विताः । जीवितं तनयं दृष्ट्वा देवी हृष्टतराभवत् ॥ ५९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं नाम सप्तदशोऽध्यायः ॥ २.४.१७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१८. अष्टदशोऽध्यायः । गणेशगणाधिपपदवीप्राप्तिः ।

नारद उवाच जीविते गिरिजापुत्रे देव्या दृष्टे प्रजेश्वर । ततः किमभवत्तत्र कृपया तद्वदाधुना ॥ १॥ ब्रह्मोवाच जीविते गिरिजापुत्रे देव्या दृष्टे मुनीश्वर । यज्जातं तच्छृणुष्वाद्य वच्मि तं महदुत्सवम् ॥ २॥ जीवितःस शिवापुत्रो निर्व्यग्रो विकृतो मुने । अभिषिक्तस्तदा देवैर्गणाध्यक्षैर्गजाननः ॥ ३॥ दृष्ट्वा स्वतनयं देवी शिवा हर्षसमन्विता । गृहीत्वा बालकं दोर्भ्यां प्रमुदा परिषस्वजे ॥ ४॥ वस्त्राणि विविधानीह नानालङ्करणानि च । ददौ प्रीत्या गणेशाय स्वपुत्राय मुदाम्बिका ॥ ५॥ पूजयित्वा तया देव्या सिद्धिभिश्चाप्यनेकशः । करेण स्पर्शितः सोऽथ सर्वदुःखहरेण वै ॥ ६॥ पूजयित्वा सुतं देवी मुखमाचुम्ब्य शाङ्करी । वरान्ददौ तदा प्रीत्या जातस्त्वं दुःखितोऽधुना ॥ ७॥ धन्योऽसि कृतकृत्योऽसि पूर्वपूज्यो भवाधुना । सर्वेषाममराणां वै सर्वदा दुःखवर्जितः ॥ ८॥ आनने तव सिन्दूरं दृश्यते साम्प्रतं यदि । तस्मात्त्वं पूजनीयोऽसि सिन्दूरेण सदा नरैः ॥ ९॥ पुष्पैर्वा चन्दनैर्वापि गन्धेनैव शुभेन च । नैवेद्येन सुरम्येण नीराजेन विधानतः ॥ १०॥ ताम्बूलैरथ दानैश्च तथा प्रक्रमणैरपि । नमस्कारविधानेन पूजां यस्ते विधास्यति ॥ ११॥ तस्य वै सकला सिद्धिर्भविष्यति न संशयः । विघ्नान्यनेकरूपाणि क्षयं यास्यन्त्यसंशयम् ॥ १२॥ ब्रह्मोवाच इत्युक्त्वा च तदा देवी स्वपुत्रं तं महेश्वरी । नानावस्तुभिरुत्कृष्टैः पुनरप्यर्चयत्तथा ॥ १३॥ ततःस्वास्थ्यं च देवानां गणानां च विशेषतः । गिरिजाकृपया विप्र जातं तत्क्षणमात्रतः ॥ १४॥ एतस्मिंश्च क्षणे देवा वासवाद्याः शिवं मुदा । स्तुत्वा प्रसाद्य तं देवं भक्ता निन्युः शिवान्तिकम् ॥ १५॥ संसाद्य गिरिशं पश्चादुत्सङ्गे सन्न्यवेशयन् । बालकं तं महेशान्यास्त्रिजगत्सुखहेतवे ॥ १६॥ शिवोऽपि तस्य शिरसि दत्त्वा स्वकरपङ्कजम् । उवाच वचनं देवान् पुत्रोऽयमिति मेऽपरः ॥ १७॥ गणेशोऽपि तदोत्थाय नमस्कृत्य शिवाय वै । पार्वत्यै च नमस्कृत्य मह्यं वै विष्णवे तथा ॥ १८॥ नारादाद्यानृषीन्सर्वान्स त्वास्थाय पुरोऽब्रवीत् । क्षन्तव्यश्चापराधो मे मानश्चैवेदृशो नृणाम् ॥ १९॥ अहं च शङ्करश्चैव विष्णुश्चैते त्रयः सुराः । प्रत्यूचुर्युगपत्प्रीत्या ददतो वरमुत्तमम् ॥ २०॥ त्रयो वयं सुरवरा यथा पूज्या जगत्त्रये । तथायं गणनाथश्च सकलैः प्रतिपूज्यताम् ॥ २१॥ वयं च प्राकृताश्चायं प्राकृतः पूज्य एव च । गणेशो विघ्नहर्त्ता हि सर्वकामफलप्रदः ॥ २२॥ एतत्पूजां पुरा कृत्वा पश्चात्पूज्या वयं नरैः । वयं च पूजिताः सर्वे नायं चापूजितो यदा ॥ २३॥ अस्मिन्नपूजिते देवाः परपूजाकृता यदि । तदा तत्फलहानिः स्यान्नात्र कार्या विचारणा ॥ २४॥ ब्रह्मोवाच इत्युक्त्वा स गणेशानो नानावस्तुभिरादरात् । शिवेन पूजितः पूर्वं विष्णुनाऽनु प्रपूजितः ॥ २५॥ ब्रह्मणा च मया तत्र पार्वत्या च प्रपूजितः । सर्वैर्देवगणैश्चैव पूजितः परया मुदा ॥ २६॥ सवैर्मिलित्वा तत्रैव ब्रह्मविष्णुहरादिभिः । सगणेशश्शिवातुष्ट्यै सर्वाध्यक्षो निवेदितः ॥ २७॥ पुनश्चैव शिवेनास्मै सुप्रसन्नेन चेतसा । सर्वदा सुखदा लोके वरा दत्ता ह्यनेकशः ॥ २८॥ शिव उवाच हे गिरीन्द्रसुतापुत्र सन्तुष्टोऽहं न संशयः । मयि तुष्टे जगत्तुष्टं विरुद्धः कोऽपि नो भवेत् ॥ २९॥ बालरूपोऽपि यस्मात्त्वं महाविक्रमकारकः । शक्तिपुत्रः सुतेजस्वी तस्माद्भव सदा सुखी ॥ ३०॥ त्वन्नाम विघ्नहन्तृत्वे श्रेष्ठं चैव भवत्विति । मम सर्वगणाध्यक्षः सम्पूज्यस्त्वं भवाधुना ॥ ३१॥ एवमुक्त्वा शङ्करेण पूजाविधिरनेकशः । आशिषश्चाप्यनेका हि कृतास्तस्मिंस्तु तत्क्षणात् ॥ ३२॥ ततो देवगणाश्चैव गीतं वाद्यं च नृत्यकम् । मुदा ते कारयामासुस्तथैवाप्सरसां गणाः ॥ ३३॥ पुनश्चैव वरो दत्तः सुप्रसन्नेन शम्भुना । तस्मै च गणनाथाय शिवेनैव महात्मना ॥ ३४॥ चतुर्थ्यां त्वं समुत्पन्नो भाद्रे मासि गणेश्वर । असिते च तथा पक्षे चन्द्रस्योदयने शुभे ॥ ३५॥ प्रथमे च तथा यामे गिरिजायाः सुचेतसः । आविर्बभूव ते रूपं यस्मात्ते व्रतमुत्तमम् ॥ ३६॥ तस्मात्तद्दिनमारभ्य तस्यामेव तिथौ मुदा । व्रतं कार्यं विशेषेण सर्वसिद्ध्यै सुशोभनम् ॥ ३७॥ यावत्पुनः समायाति वर्षान्ते च चतुर्थिका । तावद्व्रतं च कर्तव्यं तव चैव ममाज्ञया ॥ ३८॥ संसारे सुखमिच्छन्ति येऽतुलं चाप्यनेकशः । त्वां पूजयन्तु ते भक्त्या चतुर्थ्यां विधिपूर्वकम् ॥ ३९॥ मार्गशीर्षे तथा मासे रमा या वै चतुर्थिका । प्रातः स्नानं तदा कृत्वा व्रतं विप्रान्निवेदयेत् ॥ ४०॥ दूर्वाभिः पूजनं कार्यमुपवासस्तथाविधः । रात्रेश्च प्रहरे जाते स्नात्वा सम्पूजयेन्नरः ॥ ४१॥ मूर्तिं धातुमयीं कृत्वा प्रवालसम्भवां तथा । श्वेतार्कसम्भवां चापि मार्द्दिकां निर्मितां तथा ॥ ४२॥ प्रतिष्ठाप्य तदा तत्र पूजयेत्प्रयतः पुमान् । गन्धैर्नानाविधैर्दिव्यैश्चन्दनैः पुष्पकैरिह ॥ ४३॥ वितस्तिमात्रा दूर्वा च त्र्यङ्गा वै मूलवर्जिता । ईदृशानां शाद्बलानां शतेनैकोत्तरेण ह ॥ ४४॥ एकविंशतिकेनैव पूजयेत्प्रतिमां स्थिताम् । धूपैर्दीपैश्च नैवेद्यैर्विविधैर्गणनायकम् ॥ ४५॥ ताम्बूलाद्यर्घसद्द्रव्यैः प्रणिपत्य स्तवैस्तथा । त्वां तत्र पूजयित्वेत्थं बालचन्द्रं च पूजयेत् ॥ ४६॥ पश्चाद्विप्रांश्च सम्पूज्य भोजयेन्मधुरैर्मुदा । स्वयं चैव ततो भुञ्ज्यान्मधुरं लवणं विना ॥ ४७॥ विसर्जयेत्ततः पश्चान्नियमं सर्वमात्मनः । गणेशस्मरणं कुर्यात्सम्पूर्णं स्याद् व्रतं शुभम् ॥ ४८॥ एवं व्रतेन सम्पूर्णे वर्षे जाते नरस्तदा । उद्यापनविधिं कुर्याद्व्रतसम्पूर्त्तिहेतवे ॥ ४९॥ द्वादश ब्राह्मणास्तत्र भोजनीया मदाज्ञया । कुम्भमेकं च संस्थाप्य पूज्या मूर्तिस्त्वदीयिका ॥ ५०॥ स्थण्डिलेऽष्टदलं कृत्वा तदा वेदविधानतः । होमश्चैवात्र कर्तव्यो वित्तशाठ्यविवर्जितैः ॥ ५१॥ स्त्रीद्वयं च तथा चात्र बटुकद्वयमादरात् । भोजयेत्पूजयित्वा वै मूर्त्यग्रे विधिपूर्वकम् ॥ ५२॥ निशि जागरणं कार्यं पुनः प्रातः प्रपूजयेत् । विसर्जनं ततश्चैव पुनरागमनाय च ॥ ५३॥ बालकाच्चाशिषो ग्राह्याःस्वस्तिवाचनमेव च । पुष्पाञ्जलिं प्रदद्याच्च व्रतसम्पूर्णहेतवे ॥ ५४॥ नमस्कारांस्ततः कृत्वा नानाकार्यं प्रकल्पयेत् । एवं व्रतं कृतं येन तस्येप्सितफलं भवेत् ॥ ५५॥ यो नित्यं श्रद्धया सार्द्धं पूजां चैव स्वशक्तितः । कुर्य्यात्तव गणेशान सर्वकामफलाप्तये ॥ ५६॥ सिन्दूरैश्चन्दनैश्चैव तण्डुलैः केतकैस्तथा । उपचारैरनेकैश्च पूजयेत्त्वां गणेश्वरम् ॥ ५७॥ एवं त्वां पूजयेयुर्ये भक्त्या नानोपचारतः । तेषां सिद्धिर्भवेन्नित्यं विघ्ननाशो भवेदिह ॥ ५८॥ सर्वैर्वर्णैः प्रकर्त्तव्या स्त्रीभिश्चैव विशेषतः । उदयाभिमुखैश्चैव राजभिश्च विशेषतः ॥ ५९॥ यं यं कामयते यो वै तं तमाप्नोति निश्चितम् । अतः कामयमानेन तेन सेव्यः सदा भवान् ॥ ६०॥ ब्रह्मोवाच शिवेनैवं तदा प्रोक्तं गणेशाय महात्मने । तदानीं दैवतैश्चैव सर्वैश्च ऋषिसत्तमैः ॥ ६१॥ तथेत्युक्त्वा तु तैःसर्वैर्गणैः शम्भुप्रियैर्मुने । पूजितो हि गणाधीशो विधिना परमेण सः ॥ ६२॥ ततश्चैव गणाः सर्वे प्रणेमुस्ते गणेश्वरम् । समानर्चुर्विशेषेण नानावस्तुभिरादरात् ॥ ६३॥ गिरिजायास्समुत्पन्नो यश्च हर्षो मुनीश्वर । चतुर्भिर्वदनैर्वै तमवर्ण्यं च कथं ब्रुवे ॥ ६४॥ देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः । जगुर्गन्धर्वमुख्याश्च पुष्पवर्षं पपात ह ॥ ६५॥ जगत्स्वास्थ्यं तदा प्राप गणाधीशे प्रतिष्ठिते । महोत्सवो महानासीत्सर्वं दुःखं क्षयं गतम् ॥ ६६॥ शिवाशिवौ च मोदेतां विशेषेणाति नारद । आसीत्सुमङ्गलं भूरि सर्वत्र सुखदायकम् ॥ ६७॥ ततो देवगणाः सर्वे ऋषीणां च गणास्तथा । समागताश्च ये तत्र जग्मुस्ते तु शिवाज्ञया ॥ ६८॥ प्रशंसन्तः शिवां तत्र गणेशं च पुनः पुनः । शिवं चैव तथा स्तुत्वा कीदृशं युद्धमेव च ॥ ६९॥ यदा सा गिरिजा देवी कोपहीना बभूव ह । शिवोऽपि गिरिजां तत्र पूर्ववत्सम्प्रपद्य ताम् ॥ ७०॥ चकार विविधं सौख्यं लोकानां हितकाम्यया । स्वात्मारामोऽपि परमो भक्तकार्योद्यतः सदा ॥ ७१॥ विष्णुश्च शिवमापृच्छ्य ब्रह्माहं तं तथैव हि । आगच्छाव स्वधामं च शिवौ संसेव्य भक्तितः ॥ ७२॥ नारद त्वं च भगवन्सङ्गीय शिवयोर्यशः । आगमो भवनं स्वं च शिवौ पृष्ट्वा मुनीश्वर ॥ ७३॥ एतत्ते सर्वमाख्यातं मया वै शिवयोर्यशः । भवत्पृष्टेन विघ्नेशयशः सम्मिश्रमादरात् ॥ ७४॥ इदं सुमङ्गलाख्यानं यः श‍ृणोति सुसंयतः । सर्वमङ्गलसंयुक्तः स भवेन्मङ्गलालयः ॥ ७५॥ अपुत्रो लभते पुत्रं निर्धनो लभते धनम् । भार्यार्थी लभते भार्यां प्रजार्थी लभते प्रजाम् ॥ ७६॥ आरोग्यं लभते रोगी सौभाग्यं दुर्भगो लभेत् । नष्टपुत्रं नष्टधनं प्रोषिता च पतिं लभेत् । शोकाविष्टः शोकहीनः स भवेन्नात्र संशयः ॥ ७७॥ इदं गाणेशमाख्यानं यस्य गेहे च तिष्ठति सदा मङ्गलसंयुक्तः स भवेन्नात्र संशयः ॥ ७८॥ यात्राकाले च पुण्याहे यः श‍ृणोति समाहितः । सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः ॥ ७९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशगणाधिपपदवीप्राप्तिवर्णनं नामाष्टादशोऽध्यायः ॥ २.४.१८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.१९. एकोनविंशोऽध्यायः । विवाहोपक्रमे गणेशस्य प्रथमपूज्यत्ववर्णनम् ।

नारद उवाच गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा । चरित्रमपि दिव्यं वै सुपराक्रमभूषितम् ॥ १॥ ततः किमभवत्तात तत्त्वं वद सुरेश्वर । शिवाशिवयशस्स्फीतं महानन्दप्रदायकम् ॥ २॥ ब्रह्मोवाच साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना । श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम ॥ ३॥ शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् । दर्शं दर्शं च तल्लीलां महत्प्रेम समावहत् ॥ ४॥ पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत । सदा प्रीत्या मुदा चातिखेलनं चक्रतुः सुतौ ॥ ५॥ तावेव तनयौ तत्र मातापित्रोर्मुनीश्वर । महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः ॥ ६॥ षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा । स्नेहो व्यवर्द्धत महान् शुक्लपक्षे यथा शशी ॥ ७॥ कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ । शिवा शिवश्च देवर्षे सुविचारपरायणौ ॥ ८॥ शिवाशिवावूचतुः विवाहयोग्यौ सञ्जातौ सुताविति च तावुभौ ॥ विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम् । ९॥ षण्मुखश्च प्रियतमो गणेशश्च तथैव च । इति चिन्तासमुद्विग्नौ लीलानन्दौ बभूवतुः ॥ १०॥ स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ । तदिच्छया विवाहार्थं बभूवतुरथो मुने ॥ ११॥ अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः । परस्परं च नित्यं वै विवादे तत्परावुभौ ॥ १२॥ श्रुत्वा तद्वचनं तौ च दम्पती जगतां प्रभू । लौकिकाचारमाश्रित्य विस्मयं परमं गतौ ॥ १३॥ किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः । इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता ॥ १४॥ कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ । कथयामासतुस्तत्र पुत्रयोः पितरौ तदा ॥ १५॥ अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ॥ श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम् । १६॥ समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते । तस्मात्पणः कृतः शन्दः पुत्रयोरुभयोरपि ॥ १७॥ यश्चैव पृथिवीं सर्वां क्रान्त्वा पूर्वमुपाव्रजेत् । तस्यैव प्रथमं कार्यो विवाहः शुभलक्षणः ॥ १८॥ ब्रह्मोवाच तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः । जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै ॥ १९॥ गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः । सुबुद्ध्या संविचार्येति चित्त एव पुनः पुनः ॥ २०॥ किं कर्तव्यं क्व गन्तव्यं लङ्घितुं नैव शक्यते । क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः ॥ २१॥ किं पुनः पृथिवीमेतां क्रान्त्वा चोपार्जितं सुखम् । विचार्येति गणेशस्तु यच्चकार श‍ृणुष्व तत् ॥ २२॥ स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् । उवाच पितरं तत्र मातरं पुनरेव सः ॥ २३॥ गणेश उवाच आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह । भवन्तौ संस्थितौ तातौ पूर्य्यतां मे मनोरथः ॥ २४॥ ब्रह्मोवाच इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ । अस्थातामासने तत्र तत्पूजाग्रहणाय वै ॥ २५॥ तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः । एवं च कृतवान् सप्त प्रणामांस्तु तथैव सः ॥ २६॥ बद्धाञ्जलिरथोवाच गणेशो बुद्धिसागरः । स्तुत्वा बहुतिथस्तात पितरौ प्रेमविह्वलौ ॥ २७॥ गणेश उवाच भो मातर्भो पितस्त्वं च श‍ृणु मे परमं वचः । शीघ्रं चैवात्र कर्तव्यो विवाहः शोभनो मम ॥ २८॥ ब्रह्मोवाच इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः । महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा ॥ २९॥ शिवाशिवावूचतुः प्रक्रामेत भवान्सम्यक् पृथिवीं च सकाननाम् । कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज ॥ ३०॥ ब्रह्मोवाच इत्येवं वचनं श्रुत्वा पित्रोर्गणपतिर्द्रुतम् । उवाच नियतस्तत्र वचनं क्रोधसंयुतः ॥ ३१॥ गणेश उवाच भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ । धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ ॥ ३२॥ मया तु पृथिवी क्रान्ता सप्तवारं पुनः पुनः । एवं कथं ब्रुवाते वै पुनश्च पितराविह ॥ ३३॥ ब्रह्मोवाच तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ । महालीलाकरौ तत्र पितरावूचतुश्च तम् ॥ ३४॥ पितरावूचतुः कदा क्रान्ता त्वया पुत्र पृथिवी सुमहत्तरा । सप्तद्वीपा समुद्रान्ता महद्भिर्गहनैर्युता ॥ ३५॥ ब्रह्मोवाच तयोरेवं वचः श्रुत्वा शिवाशङ्करयोर्मुने । महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत् ॥ ३६॥ गणेश उवाच भवतोः पूजनं कृत्वा शिवाशङ्करयोरहम् । स्वबुद्ध्या हि समुद्रान्तपृथ्वीकृतपरिक्रमः ॥ ३७॥ इत्येवं वचनं वेदे शास्त्रे वा धर्मसञ्चये । वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा ॥ ३८॥ पित्रोश्च पूजनं कृत्वा प्रक्रान्तिं च करोति यः । तस्य वै पृथिवीजन्यं फलं भवति निश्चितम् ॥ ३९॥ अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् । तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा ॥ ४०॥ पुत्रस्य च महत्तीर्थं पित्रोश्चरणपङ्कजम् । अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः ॥ ४१॥ इदं सन्निहितं तीर्थं सुलभं धर्मसाधनम् । पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम् ॥ ४२॥ इति शास्त्राणि वेदाश्च भाषन्ते यन्निरन्तरम् । भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च ॥ ४३॥ भवदीयं त्विदं रूपमसत्यं च भवेदिह । तदा वेदोऽप्यसत्यो वै भवेदिति न संशयः ॥ ४४॥ शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः । अथ वा वेदशास्त्रं च व्यलीकं कथ्यतामिति ॥ ४५॥ द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत् । कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ ॥ ४६॥ ब्रह्मोवाच इत्युक्त्वा पार्वतीपुत्रः स गणेशः प्रकृष्टधीः । विरराम महाज्ञानी तदा बुद्धिमतां वरः ॥ ४७॥ तौ दम्पती च विश्वेशौ पार्वतीशङ्करौ तदा । इति श्रुत्वा वचस्तस्य विस्मयं परमं गतौ ॥ ४८॥ ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् । सम्प्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम् ॥ ४९॥ शिवाशिवावूचतुः पुत्र ते विमला बुद्धिः समुत्पन्ना महात्मनः ॥ त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा ॥ ५०॥ समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते । तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः ॥ ५१॥ बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । कूपे सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ५२॥ वेदशास्त्रपुराणेषु बालकस्य यथोदितम् । त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम् ॥ ५३॥ सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह । आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना ॥ ५४॥ ब्रह्मोवाच इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम् । विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम् ॥ ५५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमो नामैकोनविंशोऽध्यायः ॥ २.४.१९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे

२.४.२०. विंशोऽध्यायः । गणेशविवाहवर्णनम् ।

ब्रह्मोवाच एतस्मिन्नन्तरे तत्र विश्वरूपः प्रजापतिः । तदुद्योगं संविचार्य सुखमाप प्रसन्नधीः ॥ १॥ विश्वरूपप्रजेशस्य दिव्यरूपे सुते उभे । सिद्धिबुद्धिरिति ख्याते शुभे सर्वाङ्गशोभने ॥ २॥ ताभ्यां चैव गणेशस्य गिरिजा शङ्करः प्रभू । महोत्सवं विवाहं च कारयामासतुर्मुदा ॥ ३॥ सन्तुष्टा देवताः सर्वास्तद्विवाहे समागमन् । यथा चैव शिवस्यैव गिरिजाया मनोरथः ॥ ४॥ तथा च विश्वकर्माऽसौ विवाहं कृतवांस्तथा । तथा च ऋषयो देवा लेभिरे परमां मुदम् ॥ ५॥ गणेशोऽपि तदा ताभ्यां सुखं परमदुर्लभम् । प्राप्तवांश्च मुने तत्तु वर्णितुं नैव शक्यते ॥ ६॥ कियता चैव कालेन गणेशस्य महात्मनः । द्वयोः पत्न्योश्च द्वौ दिव्यौ तस्य पुत्रौ बभूवतुः ॥ ७॥ सिद्धेर्गणेशपत्न्यास्तु क्षेमनामा सुतोऽभवत् । बुद्धेर्लाभाभिधः पुत्रो ह्यासीत्परमशोभनः ॥ ८॥ एवं सुखमचिन्त्यं वै भुञ्जाने हि गणेश्वरे । आजगाम द्वितीयश्च क्रान्त्वा पृथ्वीं सुतस्तदा ॥ ९॥ तावश्च नारदेनैव प्राप्तो गेहे महात्मना । यथार्थं वच्मि नोऽसत्यं न छलेन न मत्सरात् ॥ १०॥ पितृभ्यां तु कृतं यच्च शिवया शङ्करेण ते । तन्न कुर्यात्परो लोके सत्यं सत्यं ब्रवीम्यहम् ॥ ११॥ निष्कास्य त्वां कुक्रमणं मिषमुत्पाद्य यत्नतः । गणेशस्य वरोऽकारि विवाहः परशोभनः ॥ १२॥ गणेशस्य कृतोद्वाहो लब्धवांस्त्रीद्वयं मुदा । विश्वरूपप्रजेशस्य कन्यारत्नं महोत्तमम् ॥ १३॥ पुत्रद्वयं ललाभासौ द्वयोः पत्न्योः शुभाङ्गयोः । सिद्धेः क्षेमं तथा बुद्धेर्लाभं सर्वसुखप्रदम् ॥ १४॥ पत्न्योर्द्वयोर्गणेशोऽसौ लब्ध्वापुत्रद्वयं शुभम् । मातापित्रोर्मतेनैव सुखं भुङ्क्ते निरन्तरम् ॥ १५॥ भवता पृथिवी क्रान्ता ससमुद्रा सकानना । तच्छलाज्ञावशात्तात तस्य जातं फलं त्विदम् ॥ १६॥ पितृभ्यां हि कृतं यत्तु छलं तात विचार्यताम् । स्वस्वामिभ्यां विशेषेण ह्यन्यः किन्न करोति वै ॥ १७॥ असम्यक्च कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म ह । विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम् ॥ १८॥ दद्याद्यदि गरं माता विक्रीणीयात्पिता यदि । राजा हरति सर्वस्वं कस्मै किं च ब्रवीतु वै ॥ १९॥ येनैवेदं कृतं स्याद्वै कर्मानर्थकरं परम् । शान्तिकामस्सुधीस्तात तन्मुखं न विलोकयेत् ॥ २०॥ इति नीतिः श्रुतौ प्रोक्ता स्मृतौ शास्त्रेषु सर्वतः । निवेदिता च सा तेऽद्य यथेच्छसि तथा कुरु ॥ २१॥ ब्रह्मोवाच इत्युक्त्वा नारद त्वं तु महेश्वरमनोगतिः । तस्मै तथा कुमाराय वाक्यं मौनमुपागतः ॥ २२॥ स्कन्दोऽपि पितरं नत्वा कोपाग्निज्वलितस्तदा । जगाम पर्वतं क्रौञ्चं पितृभ्यां वारितोऽपि सन् ॥ २३॥ वारणे च कृते त्वद्य गम्यते च कथं त्वया । इत्येवं च निषिद्धोऽपि प्रोच्य नेति जगाम सः ॥ २४॥ न स्थातव्यं मया तातौ क्षणमप्यत्र किञ्चन । यद्येवं कपटं प्रीतिमपहाय कृतं मयि ॥ २५॥ एवमुक्त्वा गतस्तत्र मुने सोऽद्यापि वर्तते । दर्शनेनैव सर्वेषां लोकानां पापहारकः ॥ २६॥ तद्दिनं हि समारभ्य कार्तिकेयस्य तस्य वै । शिवपुत्रस्य देवर्षे कुमारत्वं प्रतिष्ठितम् ॥ २७॥ तन्नाम शुभदं लोके प्रसिद्धं भुवनत्रये । सर्वपापहरं पुण्यं ब्रह्मचर्यप्रदं परम् ॥ २८॥ कार्तिक्यां च सदा देवा ऋषयश्च सतीर्थकाः । दर्शनार्थं कुमारस्य गच्छन्ति च मुनीश्वराः ॥ २९॥ कार्तिक्यां कृत्तिकासङ्गे कुर्याद्यः स्वामिदर्शनम् । तस्य पापं दहेत्सर्वं चित्तेप्सितफलं लभेत् ॥ ३०॥ उमाऽपि दुःखमापन्ना स्कन्दस्य विरहे सति । उवाच स्वामिनं दीना तत्र गच्छ मया प्रभो ॥ ३१॥ तत्सुखार्थं स्वयं शम्भुर्गतः स्वांशेन पर्वते । मल्लिकार्जुननामासीज्ज्योतिर्लिङ्गं सुखावहम् ॥ ३२॥ अद्यापि दृश्यते तत्र शिवया सहितश्शिवः । सर्वेषां निजभक्तानां कामपूरः सतां गतिः ॥ ३३॥ तमागतं स विज्ञाय कुमारः सशिवां शिवम् । स विरज्य ततोऽन्यत्र गन्तुमासीत्समुत्सुकः ॥ ३४॥ देवैश्च मुनिभिश्चैव प्रार्थितः सोऽपि दूरतः । योजनत्रयमुत्सृज्य स्थितः स्थाने च कार्तिकः ॥ ३५॥ पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि । दर्शनार्थं कुमारस्य तस्य नारद गच्छतः ॥ ३६॥ अमावास्यादिने शम्भुः स्वयं गच्छति तत्र ह । पूर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम् ॥ ३७॥ यद्यत्तस्य च वृत्तान्तं भवत्पृष्टं मुनीश्वर । कार्तिकस्य गणेशस्य परमं कथितं मया ॥ ३८॥ एतच्छ्रुत्वा नरो धीमान् सर्वपापैः प्रमुच्यते । शोभनां लभते कामानीप्सितान्सकलान्सदा ॥ ३९॥ यः पठेत्पाठयेद्वापि श‍ृणुयाच्छ्रावयेत्तथा । सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ ४०॥ ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धस्स्याच्छूद्रस्सत्तमतामियात् ॥ ४१॥ रोगी रोगात्प्रमुच्येत भयान्मुच्येत भीतियुक् । भूतप्रेतादिबाधाभ्यः पीडितो न भवेन्नरः ॥ ४२॥ एतदाख्यानमनघं यशस्यं सुखवर्द्धनम् । आयुष्यं स्वर्ग्यमतुलं पुत्रपौत्रादिकारकम् ॥ ४३॥ अपवर्गप्रदं चापि शिवज्ञानप्रदं परम् । शिवाशिवप्रीतिकरं शिवभक्तिविवर्द्धनम् ॥ ४४॥ श्रवणीयं सदा भक्तैर्निष्कामैश्च मुमुक्षुभिः । शिवाद्वैतप्रदं चैतत्सदाशिवमयं शिवम् ॥ ४५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहवर्णनं नाम विंशोऽध्यायः ॥ २.४.२०॥ ॥ इति श्रीशिवमहापुराणे द्वितीयरुद्रसंहितायां चतुर्थः कुमारखण्डः समाप्तः ॥ २.४॥ Proofread by H Revathy Rajaraman/Uma Mahesh
% Text title            : Shivapuranam 2.4 rudrasaMhitA kumArakhaNDaH
% File name             : shivapurANam2rudrasaMhitA4kumArakhaNDaH.itx
% itxtitle              : shivapurANam 2\.4 (rudrasaMhitAyAM kumArakhaNDaH)
% engtitle              : shivapurANam 2.4 rudrasaMhitA kumArakhaNDaH
% Category              : shiva, purANa, shivapurANa
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman and team members
% Indexextra            : (Scan, Hindi)
% Latest update         : January 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org