श्रीशिवमहापुराणम् २४ रुद्रसंहितायां कुमारखण्डः
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१. प्रथमोऽध्यायः । तारकार्दितसुराणां शङ्करसन्निधौ दुःखनिवेदनम् ।
वन्दे वन्दनतुष्टमानसमतिप्रेमप्रियं प्रेमदं
पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्वर्यैकवासं शिवम् ।
सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं
विष्णुब्रह्मनुतं स्वकीयकृपयोपात्ताकृतिं शङ्करम् ॥ १॥
नारद उवाच ।
विवाहयित्वा गिरिजां शङ्करो लोकशङ्करः ।
गत्वा स्वपर्वतं ब्रह्मन् किमकार्षीद्धि तद्वद ॥ २॥
कथं हि तनयो जज्ञे शिवस्य परमात्मनः ।
यदर्थमात्मारामोऽपि समुवाह शिवां प्रभुः ॥ ३॥
तारकस्य कथं ब्रह्मन् वधोऽभूद्देवशङ्कर ।
एतत्सर्वमशेषेण वद कृत्वा दयां मयि ॥ ४॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य नारदस्य प्रजापतिः ।
सुप्रसन्नमनाः स्मृत्वा शङ्करं प्रत्युवाच ह ॥ ५॥
ब्रह्मोवाच ।
चरितं शृणु वक्ष्यामि शशिमौलेस्तु नारद ।
गुहजन्मकथां दिव्यां तारकासुरसद्वधम् ॥ ६॥
श्रूयतां कथयाम्यद्य कथां पापप्रणाशिनीम् ।
यां श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो ध्रुवम् ॥ ७॥
इदमाख्यानमनघं रहस्यं परमाद्भुतम् ।
पापसन्तापहरणं सर्वविघ्नविनाशनम् ॥ ८॥
सर्वमङ्गलदं सारं सर्वश्रुतिमनोहरम् ।
सुखदं मोक्षबीजं च कर्ममूलनिकृन्तनम् ॥ ९॥
कैलासमागत्य शिवां विवाह्य
शोभां प्रपेदे नितरां शिवोऽपि ।
विचारयामास च देवकृत्यं
पीडां जनस्यापि च देवकृत्ये ॥ १०॥
शिवःस भगवान् साक्षात्कैलासमगमद्यदा ।
सौख्यं च विविधं चक्रुर्गणाः सर्वे सुहर्षिताः ॥ ११॥
महोत्सवो महानासीच्छिवे कैलासमागते ।
देवाः स्वविषयं प्राप्ता हर्षनिर्भरमानसाः ॥ १२॥
अथ शम्भुर्महादेवो गृहीत्वा गिरिजां शिवाम् ।
जगाम निर्जनं स्थानं महादिव्यं मनोहरम् ॥ १३॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
अद्भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम् ॥ १४॥
स रेमे तत्र भगवान् शम्भुर्गिरिजया सह ।
सहस्रवर्षपर्यन्तं देवमानेन मानदः ॥ १५॥
दुर्गाङ्गस्पर्शमात्रेण लीलया मूर्च्छितः शिवः ।
मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम् ॥ १६॥
हरे भोगप्रवृत्ते तु लोकधर्मप्रवर्तिनि ।
महान् कालो व्यतीयाय तयोः क्षण इवानघ ॥ १७॥
अथ सर्वे सुरास्तात एकत्रीभूय चैकदा ।
मन्त्रयाञ्चक्रुरागत्य मेरौ शक्रपुरोगमाः ॥ १८॥
सुरा ऊचुः ।
विवाहं कृतवाञ्छम्भुरस्मत्कार्यार्थमीश्वरः ।
योगीश्वरो निर्विकारो स्वात्मारामो निरञ्जनः ॥ १९॥
नोत्पन्नस्तनयस्तस्य न जानीमोऽत्र कारणम् ।
विलम्बः क्रियते तेन कथं देवेश्वरेण ह ॥ २०॥
ब्रह्मोवाच ।
एतस्मिन्नन्तरे देवा नारदाद्देवदर्शनात् ।
बुबुधुस्तन्मितं भोगं तयोश्च रममाणयोः ॥ २१॥
चिरं ज्ञात्वा तयोर्भोगं चिन्तामापुः सुराश्च ते ।
ब्रह्माणं मां पुरस्कृत्य ययुर्नारायणान्तिकम् ॥ २२॥
तं नत्वा कथितं सर्वं मया वृत्तान्तमीप्सितम् ।
सन्तस्थिरे सर्वदेवाः चित्रे पुत्तलिका यथा ॥ २३॥
सहस्रवर्षपर्यन्तं देवमानेन शङ्करः ।
रतौ रतश्च निश्चेष्टो योगी विरमते न हि ॥ २४॥
श्रीभगवानुवाच ।
चिन्ता नास्ति जगद्धातः सर्वं भद्रं भविष्यति ।
शरणं व्रज देवेश शङ्करस्य महाप्रभोः ॥ २५॥
महेशशरणापन्ना ये जना मनसा मुदा ।
तेषां प्रजेश भक्तानां न कुतश्चिद्भयं क्वचित् ॥ २६॥
शृङ्गारभङ्गः समये भविता नाधुना विधे ।
कालप्रयुक्तं कार्यं च सिद्धिं प्राप्नोति नान्यथा ॥ २७॥
शम्भोः सम्भोगमिष्टं को भद्रां कर्तुमिहेश्वरः ।
पूर्णे वर्षसहस्रे च स्वेच्छया हि विरंस्यति ॥ २८॥
स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः ।
तस्य स्त्रीपुत्रयोर्भेदो भवेज्जन्मनि जन्मनि ॥ २९॥
भ्रष्टज्ञानो नष्टकीर्त्तिरलक्ष्मीको भवेदिह ।
प्रयात्यन्ते कालसूत्रं वर्षलक्षं स पातकी ॥ ३०॥
रम्भायुक्तं शक्रमिमं चकार विरतं रतौ ।
महामुनीन्द्रो दुर्वासास्तत्स्त्रीभेदो बभूव ह ॥ ३१॥
पुनरन्यां स सम्प्राप्य विषेव्य शुभपाणिकाम् ।
दिव्यं वर्षसहस्रं च विजहौ विरहज्वरम् ॥ ३२॥
घृताच्या सह संश्लिष्टं कामं वारितवान् गुरुः ।
षण्मासाभ्यन्तरे चन्द्रस्तस्य पत्नीं जहार ह ॥ ३३॥
पुनश्शिवं समाराध्य कृत्वा तारामयं रणम् ।
तारां सगर्भां सम्प्राप्य विजहौ विरहज्वरम् ॥ ३४॥
मोहिनीसहितं चन्द्रं चकार विरतं रतौ ।
महर्षिर्गौतमस्तस्य स्त्रीविच्छेदो बभूव ह ॥ ३५॥
हरिश्चन्द्रो हालिकं च वृषल्या सह संयुतम् ।
वारयामास निश्चेष्टं निर्जने तत्फलं शृणु ॥ ३६॥
भ्रष्टः स्त्रीपुत्रराज्येभ्यो विश्वामित्रेण ताडितः ।
ततः शिवं समाराध्य मुक्तो भूतो हि कश्मलात् ॥ ३७॥
अजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम् ।
न भिया वारयामासुः सुरास्तां चापि केचन ॥ ३८॥
सर्वं निषेकसाध्यं च निषेको बलवान् विधे ।
निषेकफलदो वै स निषेकः केन वार्यते ॥ ३९॥
दिव्यं वर्षसहस्रं च शम्भोः सम्भोगकर्म तत् ।
पूर्णे वर्षसहस्रे च गत्वा तत्र सुरेश्वराः ॥ ४०॥
येन वीर्यं पतेद्भूमौ तत् करिष्यथ निश्चितम् ।
तत्र वीर्ये च भविता स्कन्दनामा प्रभोः सुतः ॥ ४१॥
अधुना स्वगृहं गच्छ विधे सुरगणैः सह ।
करोतु शम्भुः सम्भोगं पार्वत्या सह निर्जने ॥ ४२॥
ब्रह्मोवाच ।
इत्युक्त्वा कमलाकान्तः शीघ्रं स्वान्तः पुरं ययौ ।
स्वालयं प्रययुर्देवा मया सह मुनीश्वर ॥ ४३॥
शक्तिशक्तिमतोश्चाथ विहारेणाति च क्षितिः ।
भाराक्रान्ता चकम्पे सा सशेषापि सकच्छपा ॥ ४४॥
कच्छपस्य हि भारेण सर्वाधारः समीरणः ।
स्तम्भितोऽथ त्रिलोकाश्च बभूवुर्भयविह्वलाः ॥ ४५॥
अथ सर्वे मया देवा हरेश्च शरणं ययुः ।
सर्वं निवेदयाञ्चक्रुस्तद्वृत्तं दीनमानसा ॥ ४६॥
देवा ऊचुः ।
देवदेव रमानाथ सर्वावनकर प्रभो ।
रक्ष नः शरणापन्नान् भयव्याकुलमानसान् ॥ ४७॥
स्तम्भितस्त्रिजगत्प्राणो न जाने केन हेतुना ।
व्याकुलं मुनिभिर्लेखैस्त्रैलोक्यं सचराचरम् ॥ ४८॥
ब्रह्मोवाच ।
इत्युक्त्वा सकला देवा मया सह मुनीश्वर ।
दीनास्तस्थुः पुरो विष्णोर्मौनीभूताः सुदुःखिताः ॥ ४९॥
तदाकर्ण्य समादाय सुरान्नः सकलान् हरिः ।
जगाम पर्वतं शीघ्रं कैलासं शिववल्लभम् ॥ ५०॥
तत्र गत्वा हरिर्देवैर्मया च सुरवल्लभः ।
ययौ शिववरस्थानं शङ्करं द्रष्टुकाम्यया ॥ ५१॥
तत्र दृष्ट्वा शिवं विष्णुर्न सुरैर्विस्मितोऽभवत् ।
तत्र स्थितान् शिवगणान् पप्रच्छ विनयान्वितः ॥ ५२॥
विष्णुरुवाच ।
हे शङ्कराः शिवः कुत्र गतः सर्वप्रभुर्गणाः ।
निवेदयत नः प्रीत्या दुःखितान्वै कृपालवः ॥ ५३॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य सामरस्य हरेर्गणाः ।
प्रोचुः प्रीत्या गणास्ते हि शङ्करस्य रमापतिम् ॥ ५४॥
शिवगणा ऊचुः ।
हरे शृणु शिवप्रीत्या यथार्थं ब्रूमहे वयम् ।
ब्रह्मणा निर्जरैः सार्द्धं वृत्तान्तमखिलं च यत् ॥ ५५॥
सर्वेश्वरो महादेवो जगाम गिरिजालयम् ।
संस्थाप्य नोऽत्र सुप्रीत्या नानालीलाविशारदः ॥ ५६॥
तद्गुहाभ्यन्तरे शम्भुः किं करोति महेश्वरः ।
न जानीमो रमानाथ व्यतीयुर्बहवः समाः ॥ ५७॥
ब्रह्मोवाच ।
श्रुत्वेति वचनं तेषां स विष्णुः सामरो मया ।
विस्मितोऽति मुनिश्रेष्ठ शिवद्वारं जगाम ह ॥ ५८॥
तत्र गत्वा मया देवैः स हरिर्देववल्लभः ।
आर्तवाण्या मुने प्रोचे तारस्वरतया तदा ॥ ५९॥
शम्भुमस्तौन्महाप्रीत्या सामरो हि मया हरिः ।
तत्र स्थितो मुनिश्रेष्ठ सर्वलोकप्रभुं हरम् ॥ ६०॥
विष्णुरुवाच ।
किं करोषि महादेवाभ्यन्तरे परमेश्वर ।
तारकार्तान्सुरान्सर्वान् पाहि नः शरणागतान् ॥ ६१॥
इत्यादि संस्तुवन् शम्भुं बहुधा सोऽमरैर्मया ।
रुरोदाति हरिस्तत्र तारकार्तैर्मुनीश्वर ॥ ६२॥
दुःखकोलाहलस्तत्र बभूव त्रिदिवौकसाम् ।
मिश्रितश्शिव संस्तुत्यासुरार्त्तानां मुनीश्वर ॥ ६३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवविहारवर्णनं नाम प्रथमोऽध्यायः ॥ २.४.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.२. द्वितीयोऽध्यायः । शरवणे कार्तिकेयोत्पत्तिवर्णनम् ।
ब्रह्मोवाच ।
तदाकर्ण्य महादेवो योगज्ञानविशारदः ।
त्यक्तकामो न तत्याज सम्भोगं पार्वतीभयात् ॥ १॥
आजगाम गृहद्वारि सुराणां निकटं शिवः ।
दैत्येन पीडितानां च शङ्करो भक्तवत्सलः ॥ २॥
देवाःसर्वे प्रभुं दृष्ट्वा हरिणा च मया शिवम् ।
बभूबुः सुखिनश्चाति तदा वै भक्तवत्सलम् ॥ ३॥
इत्याकर्ण्य वचस्तेषां सुराणां भगवान्भवः ।
प्रत्युवाच विषण्णात्मा दूयमानेन चेतसा ॥ ४॥
प्रणम्य सुमहाप्रीत्या नतस्कन्धाश्च निर्जराः ।
तुष्टुवुः शङ्करं सर्वे मया च हरिणा मुने ॥ ५॥
देवा ऊचुः ।
देवदेव महादेव करुणासागर प्रभो ।
अन्तर्यामी हि सर्वेषां सर्वं जानासि शङ्कर ॥ ६॥
देवकार्यं कुरु विभो रक्ष देवान् महेश्वर ।
जहि दैत्यान् कृपां कृत्वा तारकादीन् महाप्रभो ॥ ७॥
शिव उवाच ।
हे विष्णो हे विधे देवाः सर्वेषां वो मनोगतिः ।
यद्भावि तद्भवत्येव कोऽपि नो तन्निवारकः ॥ ८॥
यज्जातं तज्जातमेव प्रस्तुतं शृणुतामराः ।
शिवरेतस्खलितं वीर्यं को ग्रहीष्यति मेऽधुना ॥ ९॥
स गृह्णीयादिति प्रोच्य पातयामास तद्भुवि ।
अग्निर्भूत्वा कपोतो हि प्रेरितःसर्वनिर्जरैः ॥ १०॥
अभक्षच्छाम्भवं वीर्यं चञ्च्वा तु निखिलं तदा ।
एतस्मिन्नन्तरे तत्राजगाम गिरिजा मुने ॥ ११॥
शिवागमविलम्बे च ददर्श सुरपुङ्गवान् ॥
ज्ञात्वा तद्वृत्तमखिलं महाक्रोधयुता शिवा ॥ १२॥
उवाच त्रिदशान् सर्वान् हरिप्रभृतिकाँस्तदा ॥ १३॥
देव्युवाच ।
रे रे सुरगणाःसर्वे यूयं दुष्टा विशेषतः ।
स्वार्थसंसाधका नित्यं तदर्थं परदुःखदाः ॥ १४॥
स्वार्थहेतोर्महेशानमाराध्य परमं प्रभुम् ।
नष्टं चक्रुर्मद्विहारं वन्ध्याऽभवमहं सुराः ॥ १५॥
मां विरोध्य सुखं नैव केषाञ्चिदपि निर्जराः ।
तस्माद्दुःखं भवेद्वो हि दुष्टानां त्रिदिवौकसाम् ॥ १६॥
ब्रह्मोवाच ।
इत्युक्त्वा विष्णुप्रमुखान् सुरान् सर्वान् शशाप सा ।
प्रज्वलन्ती प्रकोपेन शैलराजसुता शिवा ॥ १७॥
पार्वत्युवाच ।
अद्यप्रभृति देवानां वन्ध्या भार्या भवन्त्विति ।
देवाश्च दुःखिताःसन्तु निखिला मद्विरोधिनः ॥ १८॥
ब्रह्मोवाच ।
इति शप्त्वाखिलान्देवान् विष्ण्वाद्यान्सकलेश्वरी ।
उवाच पावकं क्रुद्धा भक्षकं शिवरेतसः ॥ १९॥
पार्वत्युवाच ।
सर्वभक्षी भव शुचे पीडितात्मेति नित्यशः ।
शिवतत्त्वं न जानासि मूर्खोऽसि सुरकार्यकृत् ॥ २०॥
रे रे शठ महादुष्ट दुष्टानां दुष्टबोधवान् ।
अभक्षः शिववीर्यं यन्नाकार्षीरुचितं हितम् ॥ २१॥
ब्रह्मोवाच ।
इति शप्त्वा शिवा वह्निं सहेशेन नगात्मजा ।
जगाम स्वालयं शीघ्रमसन्तुष्टा ततो मुने ॥ २२॥
गत्वा शिवा शिवं सम्यक् बोधयामास यत्नतः ।
अजीजनत्परं पुत्रं गणेशाख्यं मुनीश्वर ॥ २३॥
तद्वृत्तान्तमशेषं च वर्णयिष्ये मुनेऽग्रतः ।
इदानीं शृणु सुप्रीत्या गुहोत्पत्तिं वदाम्यहम् ॥ २४॥
पावकार्पितमन्नादि भुञ्जते निर्जराः खलु ।
वेदवाण्येति सर्वे ते सगर्भा अभवन्सुराः ॥ २५॥
ततोऽसहन्तस्तद्वीर्यं पीडिता ह्यभवन् सुराः ।
विष्ण्वाद्या निखिलाश्चाति शिवाज्ञानष्टबुद्धयः ॥ २६॥
अथ विष्णुप्रभृतिकाःसर्वे देवा विमोहिताः ।
दह्यमाना ययुः शीघ्रं शरणं पार्वतीपतेः ॥ २७॥
शिवालयस्य ते द्वारि गत्वा सर्वे विनम्रकाः ।
तुष्टुवुःसशिवं शम्भुं प्रीत्या साञ्जलयःसुराः ॥ २८॥
देवा ऊचुः ।
देवदेव महादेव गिरिजेश महाप्रभो ।
किं जातमधुना नाथ तव माया दुरत्यया ॥ २९॥
सगर्भाश्च वयं जाता दह्यमानाश्च रेतसा ।
तव शम्भो कुरु कृपां निवारय दशामिमाम् ॥ ३०॥
ब्रह्मोवाच ।
इत्याकर्ण्याऽमरनुतिं परमेशः शिवापतिः ।
आजगाम द्रुतं द्वारि यत्र देवाः स्थिता मुने ॥ ३१॥
आगतं शङ्करं द्वारि सर्वे देवाश्च साच्युताः ।
प्रणम्य तुष्टुवुः प्रीत्या नर्तका भक्तवत्सलम् ॥ ३२॥
देवा ऊचुः ।
शम्भो शिव महेशान त्वां नताः स्म विशेषतः ।
रक्ष नः शरणापन्नान् दह्यमानांश्च रेतसा ॥ ३३॥
इदं दुःखं हर हर भवामो हि मृता ध्रुवम् ।
त्वां विना कः समर्थोऽद्य देवदुःखनिवारणे ॥ ३४॥
ब्रह्मोवाच ।
इति दीनतरं वाक्यमाकर्ण्य सुरराट् प्रभुः ।
प्रत्युवाच विहस्याथ स सुरान् भक्तवत्सलः ॥ ३५॥
शिव उवाच ।
हे हरे हे विधे देवाः सर्वे शृणुत मद्वचः ।
भविष्यति सुखं वोऽद्य सावधाना भवन्तु हि ॥ ३६॥
एतद्वमत मद्वीर्यं द्रुतमेवाखिलाःसुराः ।
सुखिनस्तद्विशेषेण शासनान्मम सुप्रभोः ॥ ३७॥
ब्रह्मोवाच ।
इत्याज्ञां शिरसाऽधाय विष्ण्वाद्याः सकलाः सुराः ।
अकार्षुर्वमनं शीघ्रं स्मरन्तः शिवमव्ययम् ॥ ३८॥
तच्छम्भुरेतःस्वर्णाभं पर्वताकारमद्भुतम् ।
अभवत्पतितं भूमौ स्पृशद् द्यामेव सुप्रभम् ॥ ३९॥
अभवन्सुखिनःसर्वे सुराः सर्वेऽच्युतादयः ।
अस्तुवन् परमेशानं शङ्करं भक्तवत्सलम् ॥ ४०॥
पावकस्त्वभवन्नैव सुखी तत्र मुनीश्वर ।
तस्याज्ञां परमोऽदाद्वै शङ्करः परमेश्वरः ॥ ४१॥
ततः सवह्निर्विकलः साञ्जलिर्नतको मुने ।
अस्तौच्छिवं सुखी नात्मा वचनं चेदमब्रवीत् ॥ ४२॥
अग्निरुवाच ।
देवदेव महेशान मूढोऽहं तव सेवकः ।
क्षमस्व मेऽपराधं हि मम दाहं निवारय ॥ ४३॥
त्वं दीनवत्सलः स्वामिन् शङ्करः परमेश्वरः ।
प्रत्युवाच प्रसन्नात्मा पावको दीनवत्सलम् ॥ ४४॥
ब्रह्मोवाच ।
इत्याकर्ण्य शुचेर्वाणीं स शम्भुः परमेश्वरः ।
प्रत्युवाच प्रसन्नात्मा पावकं दीनवत्सलः ॥ ४५॥
शिव उवाच ।
कृतं त्वनुचितं कर्म मद्रेतो भक्षितं हि यत् ।
अतो निवृत्तस्ते दाहः पापाधिक्यान्मदाज्ञया ॥ ४६॥
इदानीं त्वं सुखी नाम शुचे मच्छरणागतः ।
अतः प्रसन्नो जातोऽहं सर्वं दुःखं विनश्यति ॥ ४७॥
कस्याश्चित्सुस्त्रियां योनौ मद्रेतस्त्यज यत्नतः ।
भविष्यति सुखी त्वं हि निर्दाहात्मा विशेषतः ॥ ४८॥
ब्रह्मोवाच ।
शम्भुवाक्यं निशम्येति प्रत्युवाच शनैः शुचिः ।
साञ्जलिर्नतकः प्रीत्या शङ्करं भक्तशङ्करम् ॥ ४९॥
दुरासदमिदं तेजस्तव नाथ महेश्वर ।
काचिन्नास्ति विना शक्त्या धर्तुं योनौ जगत्त्रये ॥ ५०॥
इत्थं यदाऽब्रवीद्वह्निस्तदा त्वं मुनिसत्तम ।
शङ्करप्रेरितः प्रात्थ हृदाग्निमुपकारकः ॥ ५१॥
नारद उवाच ।
शृणु मद्वचनं वह्ने तव दाहहरं शुभम् ।
परमानन्ददं रम्यं सर्वकष्टनिवारकम् ॥ ५२॥
कृत्वोपायमिमं वह्ने सुखी भव विदाहकः ।
शिवेच्छया मया सम्यगुक्तं तातेदमादरात् ॥ ५३॥
तपोमासस्नानकर्त्र्यः स्त्रियो याःस्युः प्रगे शुचे ।
तद्देहेषु स्थापय त्वं शिवरेतस्त्विदं महत् ॥ ५४॥
ब्रह्मोवाच ।
तस्मिन्नवसरे तत्रागताः सप्तमुनिस्त्रियः ।
तपोमासि स्नानकामाः प्रातः सन्नियमा मुने ॥ ५५॥
स्नानं कृत्वा स्त्रियस्ता हि महाशीतार्द्दिताश्च षट् ।
गन्तुकामा मुने याता वह्निज्वालासमीपतः ॥ ५६॥
विमोहिताश्च ता दृष्ट्वारुन्धती गिरिशाज्ञया ।
निषिषेध विशेषेण सुचरित्रा सुबोधिनी ॥ ५७॥
ताः षड् मुनिस्त्रियो मोहाद्धठात्तत्र गता मुने ।
स्वशीतविनिवृत्त्यर्थं मोहिताः शिवमायया ॥ ५८॥
तद्रेतःकणिकाः सद्यस्तद्देहान् विविशुर्मुने ।
रोमद्वाराऽखिला वह्निरभूद्दाहविवर्जितः ॥ ५९॥
अन्तर्धाय द्रुतं वह्निर्ज्वालारूपो जगाम ह ।
सुखी स्वलोकं मनसा स्मरंस्त्वां शङ्करं च तम् ॥ ६०॥
सगर्भास्ताः स्त्रियः साधोऽभवन् दाहप्रपीडिताः ।
जग्मुःस्वभवनं तातारुन्धती दुःखिताग्निना ॥ ६१॥
दृष्ट्वा स्वस्त्रीगतिं तात नाथाः क्रोधाकुला द्रुतम् ।
तत्यजुस्ताः स्त्रियस्तात सुसम्मन्त्र्य परस्परम् ॥ ६२॥
अथ ताः षट् स्त्रियःसर्वा दृष्ट्वा स्वव्यभिचारकम् ।
महादुःखान्वितास्ताताभवन्नाकुलमानसाः ॥ ६३॥
तत्यजुश्शिवरेतस्तद्गर्भरूपं मुनिस्त्रियः ।
ता हिमाचलपृष्ठेऽथाभवन् दाहविवर्जिताः ॥ ६४॥
असहन् शिवरेतस्तद्धिमाद्रिः कम्पमुद्वहन् ।
गङ्गायां प्राक्षिपत्तूर्णमसह्यं दाहपीडितः ॥ ६५॥
गङ्गयाऽपि च तद्वीर्यं दुस्सहं परमात्मनः ।
निःक्षिप्तं हि शरस्तम्बे तरङ्गैः स्वैर्मुनीश्वर ॥ ६६॥
पतितं तत्र तद्रेतो द्रुतं बालो बभूव ह ।
सुन्दरः सुभगः श्रीमांस्तेजस्वी प्रीतिवर्द्धनः ॥ ६७॥
मार्गमासे सिते पक्षे तिथौ षष्ठ्यां मुनीश्वर ।
प्रादुर्भावोऽभवत्तस्य शिवपुत्रस्य भूतले ॥ ६८॥
तस्मिन्नवसरे ब्रह्मन्नकस्माद्धिमशैलजा ।
अभूतां सुखिनौ तत्र स्वगिरौ गिरिशोऽपि च ॥ ६९॥
शिवाकुचाभ्यां सुस्राव पय आनन्दसम्भवम् ।
तत्र गत्वा च सर्वेषां सुखमासीन्मुनेऽधिकम् ॥ ७०॥
मङ्गलं चाऽभवत्तात त्रिलोक्यां सुखदं सताम् ।
खलानामभवद्विघ्नो दैत्यानां च विशेषतः ॥ ७१॥
अकस्मादभवद् व्योम्नि परमो दुन्दुभिध्वनिः ।
पुष्पवृष्टिः पपाताऽशु बालकोपरि नारद ॥ ७२॥
विष्ण्वादीनां समस्तानां देवानां मुनिसत्तम ।
अभूदकस्मात्परम आनन्दः परमोत्सवः ॥ ७३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं नाम द्वितीयोऽध्यायः ॥ २.४.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.३. तृतीयोऽध्यायः । कार्तिकेयलीलावर्णनम् ।
नारद उवाच ।
देवदेव प्रजानाथ ब्रह्मन् सृष्टिकर प्रभो ।
ततः किमभवत्तत्र तद्वदाऽद्य कृपां कुरु ॥ १॥
ब्रह्मोवाच ।
तस्मिन्नवसरे तात विश्वामित्रः प्रतापवान् ।
प्रेरितो विधिना तत्रागच्छत्प्रीतो यदृच्छया ॥ २॥
स दृष्ट्वालौकिकं धाम तत्सुतस्य सुतेजसः ।
अभवत्पूर्णकामस्तु सुप्रसन्नो ननाम च ॥ ३॥
अकरोत्सुनुतिं तस्य सुप्रसन्नेन चेतसा ।
विधिप्रेरितवाग्भिश्च विश्वामित्रः प्रभाववित् ॥ ४॥
ततःसोऽभूत्सुतस्तत्र सुप्रसन्नो महोतिकृत् ।
सुप्रहस्याद्भुतमहो विश्वामित्रमुवाच च ॥ ५॥
शिवसुत उवाच ।
शिवेच्छया महाज्ञानिन्नकस्मात्त्वमिहागतः ।
संस्कारं कुरु मे तात यथावद्वेदसम्मितम् ॥ ६॥
अद्यारभ्य पुरोधास्त्वं भव मे प्रीतिमावहन् ।
भविष्यसि सदा पूज्यः सर्वेषां नात्र संशयः ॥ ७॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य सुप्रसन्नो हि गाधिजः ।
तमुवाचानुदात्तेन स्वरेण च सुविस्मितः ॥ ८॥
विश्वामित्र उवाच ।
शृणु तात न विप्रोऽहं गाधिक्षत्रियबालकः ।
विश्वामित्रेति विख्यातः क्षत्रियो विप्रसेवकः ॥ ९॥
इति स्वचरितं ख्यातं मया ते वरबालक ।
कस्त्वं स्वचरितं ब्रूहि विस्मितायाखिलं हि मे ॥ १०॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य तत्स्ववृत्तं जगाद ह ।
ततश्चोवाच सुप्रीत्या गाधिजं तं महोतिकृत् ॥ ११॥
शिवसुत उवाच ।
विश्वामित्र वरान्मे त्वं ब्रह्मर्षिर्नात्र संशयः ।
वसिष्ठाद्याश्च नित्यं त्वां प्रशंसिष्यन्ति चादरात् ॥ १२॥
अतस्त्वमाज्ञया मे हि संस्कारं कर्तुमर्हसि ।
इदं सर्वं सुगोप्यं ते कथनीयं न कुत्रचित् ॥ १३॥
ब्रह्मोवाच ।
ततोऽकार्षीत्स संस्कारं तस्य प्रीत्याऽखिलं यथा ।
शिवबालस्य देवर्षे वेदोक्तविधिना परम् ॥ १४॥
शिवबालोपि सुप्रीतो दिव्यज्ञानमदात्परम् ।
विश्वामित्राय मुनये महोतिकारकः प्रभुः ॥ १५॥
पुरोहितं चकारासौ विश्वामित्रं शुचेस्सुतः ।
तदारभ्य द्विजवरो नानालीलाविशारदः ॥ १६॥
इत्थं लीला कृता तेन कथिता सा मया मुने ।
तल्लीलामपरां तात शृणु प्रीत्या वदाम्यहम् ॥ १७॥
तस्मिन्नवसरे तात श्वेतनामा च सम्प्रति ।
तत्राऽपश्यत्सुतं दिव्यं निजं परमपावनम् ॥ १८॥
ततस्तं पावको गत्वा दृष्ट्वालिङ्ग्य चुचुम्ब च ।
पुत्रेति चोक्त्वा तस्मै स शस्त्रं शक्तिं ददौ च सः ॥ १९॥
गुहस्तां शक्तिमादाय तच्छृङ्गं चारुरोह ह ।
तं जघान तया शक्त्या शृङ्गो भुवि पपात सः ॥ २०॥
दशपद्ममिता वीरा राक्षसाः पूर्वमागताः ।
तद्वधार्थं द्रुतं नष्टा बभूवुस्तत्प्रहारतः ॥ २१॥
हाहाकारो महानासीच्चकम्पे साचला मही ।
त्रैलोक्यं च सुरेशानःसदेवस्तत्र चागमत् ॥ २२॥
दक्षिणे तस्य पार्श्वे च वज्रेण स जघान च ।
शाखनामा ततो जातः पुमांश्चैको महाबलः ॥ २३॥
पुनश्शक्रो जघानाशु वामपार्श्वे हि तं तदा ।
वज्रेणाऽन्यः पुमाञ्जातो विशाखाख्योऽपरो बली ॥ २४॥
ततस्तद्धृदयं शक्रो जघान पविना तदा ।
परोऽभून्नैगमोपाख्यः पुमांस्तद्वन्महाबलः ॥ २५॥
तदा स्कन्दादिचत्वारो महावीरा महाबलाः ।
इन्द्रं हन्तुं द्रुतं जग्मुः सोऽयं तच्छरणं ययौ ॥ २६॥
शक्रः ससामरगणो भयं प्राप्य गृहात्ततः ।
ययौ स्वलोकं चकितो न भेदं ज्ञातवान्मुने ॥ २७॥
स बालकस्तु तत्रैव तस्थाऽऽवानन्दसंयुतः ।
पूर्ववन्निर्भयस्तात नानालीलाकरः प्रभुः ॥ २८॥
तस्मिन्नवसरे तत्र कृत्तिकाख्याश्च षट् स्त्रियः ।
स्नातुं समागता बालं ददृशुस्तं महाप्रभुम् ॥ २९॥
ग्रहीतुं तं मनश्चक्रुःसर्वास्ता कृत्तिकाः स्त्रियः ।
वादो बभूव तासां तद्ग्रहणेच्छापरो मुने ॥ ३०॥
तद्वादशमनार्थं स षण्मुखानि चकार ह ।
पपौ दुग्धं च सर्वासां तुष्टास्ता अभवन्मुने ॥ ३१॥
तन्मनोगतिमाज्ञाय सर्वास्ताः कृत्तिकास्तदा ।
तमादाय ययुर्लोकं स्वकीयं मुदिता मुने ॥ ३२॥
तं बालकं कुमाराख्यं स्तनं दत्त्वा स्तनार्थिने ।
वर्द्धयामासुरीशस्य सुतं सूर्याधिकप्रभम् ॥ ३३॥
न चक्रुर्बालकं याश्च लोचनानामगोचरम् ।
प्राणेभ्योऽपि प्रेमपात्रं यः पोष्टा तस्य पुत्रकः ॥ ३४॥
यानि यानि च वस्त्राणि त्रैलोक्ये दुर्लभानि च ।
ददुस्तस्मै च ताः प्रेम्णा भूषणानि वराणि वै ॥ ३५॥
दिने दिने ताः पुपुषुर्बालकं तं महाप्रभुम् ।
प्रशंसितानि स्वादूनि भोजयित्वा विशेषतः ॥ ३६॥
अथैकस्मिन् दिने तात स बालः कृत्तिकात्मजः ।
गत्वा देवसभां दिव्यां सुचरित्रं चकार ह ॥ ३७॥
स्वमहो दर्शयामास देवेभ्यो हि महाद्भुतम् ।
सविष्णुभ्योऽखिलेभ्यश्च महोतिकरबालकः ॥ ३८॥
तं दृष्ट्वा सकलास्ते वै साच्युताःसर्षयः सुराः ।
विस्मयं प्रापुरत्यन्तं पप्रच्छुस्तं च बालकम् ॥ ३९॥
को भवानिति तच्छ्रुत्वा न किञ्चित्स जगाद ह ।
स्वालयं स जगामाशु गुप्तस्तस्थौ हि पूर्ववत् ॥ ४०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं नाम तृतीयोऽध्यायः ॥ २.४.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.४. चतुर्थोऽध्यायः । कार्तिकेयान्वेषणनन्दिसंवादवर्णनम् ।
नारद उवाच ।
देवदेव प्रजानाथ ततः किमभवद्विधे ।
वदेदानीं कृपातस्तु शिवलीलासमन्वितम् ॥ १॥
ब्रह्मोवाच ।
कृत्तिकाभिर्गृहीते वै तस्मिन् शम्भुसुते मुने ।
कश्चित्कालो व्यतीयाय बुबुधे न हिमाद्रिजा ॥ २॥
तस्मिन्नवसरे दुर्गा स्मेराननसरोरुहा ।
उवाच स्वामिनं शम्भुं देवदेवेश्वरं प्रभुम् ॥ ३॥
पार्वत्युवाच ।
देवदेव महादेव शृणु मे वचनं शुभम् ।
पूर्वपुण्यातिभारेण त्वं मया प्राप्त ईश्वरः ॥ ४॥
कृपया योगिषु श्रेष्ठो विहारैस्तत्परोऽभवः ।
रतिभङ्गः कृतो देवैस्तत्र मे भवता भव ॥ ५॥
भूमौ निपतितं वीर्यं नोदरे मम ते विभो ।
कुत्र यातं च तद्देव केन देवेन निह्नुतम् ॥ ६॥
कथं मत्स्वामिनो वीर्यममोघं ते महेश्वर ।
मोघं यातं च किं किं वा शिशुर्जातश्च कुत्रचित् ॥ ७॥
ब्रह्मोवाच ।
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ।
उवाच देवानाहूय मुनींश्चापि मुनीश्वर ॥ ८॥
महेश्वर उवाच ।
देवाः शृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ।
अमोघं कुत्र मे वीर्यं यातं केन च निह्नुतम् ॥ ९॥
सभयं नाप तत्क्षिप्रं स चेद्दण्डं न चार्हति ।
शक्तौ राजा न शास्ता यः प्रजाबाध्यश्च भक्षकः ॥ १०॥
ब्रह्मोवाच
शम्भोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ।
ऊचुःसर्वे क्रमेणैव त्रस्तास्तु पुरतः प्रभोः ॥ ११॥
विष्णुरुवाच ।
ते मिथ्यावादिनःसन्तु भारते गुरुदारिकाः ।
गुरुनिन्दारताः शश्वत्त्वद्वीर्यं यैश्च निह्नुतम् ॥ १२॥
ब्रह्मोवाच ।
त्वद्वीर्यं निह्नुतं येन पुण्यक्षेत्रे च भारते ।
स नाऽन्वितो भवेत्तत्र सेवने पूजने तव ॥ १३॥
लोकपाला ऊचुः ।
त्वदवीर्यं निह्नुतं येन पापिना पतितभ्रमात् ।
भाजनं तस्य सोत्यन्तं तत्तापं कर्म सन्ततम् ॥ १४॥
देवा ऊचुः ।
कृत्वा प्रतिज्ञां यो मूढो नाऽऽपादयति पूर्णताम् ।
भाजनं तस्य पापस्य त्वद्वीर्यं येन निह्नुतम् ॥ १५॥
देवपत्न्य ऊचुः ।
या निन्दति स्वभर्तारं परं गच्छति पूरुषम् ।
मातृबन्धुविहीना च त्वद्वीर्यं निह्नुतं यया ॥ १६॥
ब्रह्मोवाच ।
देवानां वचनं श्रुत्वा देवदेवेश्वरो हरः ।
कर्मणां साक्षिणश्चाह धर्मादीन्सभयं वचः ॥ १७॥
श्रीशिव उवाच ।
देवैर्न निह्नुतं केन तद्वीर्यं निह्नुतं ध्रुवम् ।
तदमोघं भगवतो महेशस्य मम प्रभोः ॥ १८॥
यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ।
युष्माकं निह्नुतं किं वा किं ज्ञातुं वक्तुमर्हथ ॥ १९॥
ब्रह्मोवाच ।
ईश्वरस्य वचः श्रुत्वा सभायां कम्पिताश्च ते ।
परस्परं समालोक्य क्रमेणोचुः पुरः प्रभोः ॥ २०॥
ब्रह्मोवाच ।
रते तु तिष्ठतो वीर्यं पपात वसुधातले ।
मया ज्ञातममोघं तच्छङ्करस्य प्रकोपतः ॥ २१॥
क्षितिरुवाच
वीर्यं सोढुमशक्ताहं तद्वह्नौ न्यक्षिपं पुरा ।
अतोऽत्र दुर्वहं ब्रह्मन्नबलां क्षन्तुमर्हसि ॥ २२॥
वह्निरुवाच
वीर्यं सोढुमशक्तोऽहं तव शङ्कर पर्वते ।
कैलासे न्यक्षिपं सद्यः कपोतात्मा सुदुस्सहम् ॥ २३॥
गिरिरुवाच
वीर्यं सोढुमशक्तोऽहं तव शङ्कर लोकप ।
गङ्गायां प्राक्षिपं सद्यो दुस्सहं परमेश्वर ॥ २४॥
गङ्गोवाच
वीर्यं सोढुमशक्ताहं तव शङ्कर लोकप ।
व्याकुलाऽति प्रभो नाथ न्यक्षिपं शरकानने ॥ २५॥
वायुरुवाच
शरेषु पतितं वीर्यं सद्यो बालो बभूव ह ।
अतीव सुन्दरः शम्भो स्वर्नद्याः पावने तटे ॥ २६॥
सूर्य उवाच
रुदन्तं बालकं दृष्ट्वागममस्ताचलं प्रभो ।
प्रेरितः कालचक्रेण निशायां स्थातुमक्षमः ॥ २७॥
चन्द्र उवाच
रुदन्तं बालकं प्राप्य गृहीत्वा कृत्तिकागणः ।
जगाम स्वालयं शम्भो गच्छन्बदरिकाश्रमम् ॥ २८॥
जलमुवाच
अमुं रुदन्तमानीय स्तन्यपानेन ताः प्रभो ।
वर्द्धयामासुरीशस्य सुतं तव रविप्रभम् ॥ २९॥
सन्ध्योवाच
अधुना कृत्तिकानां च वने तं पोष्य पुत्रकम् ।
तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतुकात् ॥ ३०॥
रात्रिरुवाच
न चक्रुर्बालकं ताश्च लोचनानामगोचरम् ।
प्राणेभ्योऽपि प्रीतिपात्रं यः पोष्टा तस्य पुत्रक ॥ ३१॥
दिनमुवाच
यानि यानि च वस्त्राणि भूषणानि वराणि च ।
प्रशंसितानि स्वादूनि भोजयामासुरेव तम् ॥ ३२॥
ब्रह्मोवाच
तेषां तद्वचनं श्रुत्वा सन्तुष्टः पुरसूदनः ।
मुदं प्राप्य ददौ प्रीत्या विप्रेभ्यो बहुदक्षिणाम् ॥ ३३॥
पुत्रस्य वार्त्तां सम्प्राप्य पार्वती हृष्टमानसा ।
कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च ॥ ३४॥
लक्ष्मी सरस्वती मेना सावित्री सर्वयोषितः ।
विष्णुः सर्वे च देवाश्च ब्राह्मणेभ्यो ददुर्धनम् ॥ ३५॥
प्रेरितः स प्रभुर्देवैर्मुनिभिः पर्वतैरथ ।
दूतान् प्रस्थापयामास स्वपुत्रो यत्र तान् गणान् ॥ ३६॥
वीरभद्रं विशालाक्षं शङ्कुकर्णं कराक्रमम् ।
नन्दीश्वरं महाकालं वज्रद्रंष्ट्रं महोन्मदम् ॥ ३७॥
गोकर्णास्यं दधिमुखं ज्वलदग्निशिखोपमम् ।
लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ॥ ३८॥
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ।
अन्यांश्च विकृताकारानसङ्ख्यानपि नारद ॥ ३९॥
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ।
कृत्तिकानां च भवनं वेष्टयामासुरुद्धताः ॥ ४०॥
दृष्ट्वा तान् कृत्तिकाःसर्वा भयविह्वलमानसाः ।
कार्त्तिकं कथयामासुर्ज्वलन्तं ब्रह्मतेजसा ॥ ४१॥
कृत्तिका ऊचुः ।
वत्स सैन्यान्यसङ्ख्यानि वेष्टयामासुरालयम् ।
किं कर्तव्यं क्व गन्तव्यं महाभयमुपस्थितम् ॥ ४२॥
कार्तिकेय उवाच
भयं त्यजत कल्याण्यो भयं किं वा मयि स्थिते ।
दुर्निवार्योऽस्मि बालश्च मातरः केन वार्यते ॥ ४३॥
ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र सैन्येन्द्रो नन्दिकेश्वरः ।
पुरतः कार्तिकेयस्योपविष्टः समुवाच ह ॥ ४४॥
नन्दीश्वर उवाच
भ्रातः प्रवृत्तिं शृणु मे मातरश्च शुभावहाम् ।
प्रेरितोऽहं महेशेन संहर्त्रा शङ्करेण च ॥ ४५॥
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ।
सभायां संस्थितास्तात महत्युत्सवमङ्गले ॥ ४६॥
तदा शिवा सभायां वै शङ्करं सर्व शङ्करम् ।
सम्बोध्य कथयामास तवान्वेषणहेतुकम् ॥ ४७॥
पप्रच्छ तान् शिवो देवान् क्रमात्त्वत्प्राप्तिहेतवे ।
प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम् ॥ ४८॥
त्वामत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ।
सर्वे धर्मादयो धर्माधर्मस्य कर्मसाक्षिणः ॥ ४९॥
प्रबभूव रहः क्रीडा पार्वतीशिवयोः पुरा ।
दृष्टस्य च सुरैः शम्भोर्वीर्यं भूमौ पपात ह ॥ ५०॥
भूमिस्तदक्षिपद्वह्नौ वह्निश्चाद्रौ स भूधरः ।
गङ्गायां सोऽक्षिपद्वेगात् तरङ्गैः शरकानने ॥ ५१॥
तत्र बालोऽभवस्त्वं हि देवकार्यकृतिः प्रभुः ।
तत्र लब्धः कृत्तिकाभिस्त्वं भूमिं गच्छ साम्प्रतम् ॥ ५२॥
तवाभिषेकं शम्भुस्तु करिष्यति सुरैः सह ।
लप्स्यसे सर्वशस्त्राणि तारकाख्यं हनिष्यसि ॥ ५३॥
पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां प्राप्तुं चाऽक्षमा इमाः ।
नाग्निं गोप्तुं यथा शक्तः शुष्कवृक्षः स्वकोटरे ॥ ५४॥
दीप्तवांस्त्वं च विश्वेषु नासां गेहेषु शोभसे ।
यथा पतन्महाकूपे द्विजराजो न राजते ॥ ५५॥
करोषि च यथाऽऽलोकं नाऽऽच्छन्नोऽस्मासु तेजसा ।
यथा सूर्यः कलाच्छन्नो न भवेन्मानवस्य च ॥ ५६॥
विष्णुस्त्वं जगतां व्यापी नान्यो जातोऽसि शाम्भव ।
यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ॥ ५७॥
योगीन्द्रो नाऽनुलिप्तश्च भागी चेत्परिपोषणे ।
नैव लिप्तो यथात्मा च कर्मयोगेषु जीविनाम् ॥ ५८॥
विश्वारम्भस्त्वमीशश्च नासु ते सम्भवेत् स्थितिः ।
गुणानां तेजसां राशिर्यथात्मानं च योगिनः ॥ ५९॥
भ्रातर्ये त्वां न जानन्ति ते नरा हतबुद्धयः ।
नाद्रियन्ते यथा भेकास्त्वेकवासाश्च पङ्कजान् ॥ ६०॥
कार्त्तिकेय उवाच
भ्रातःसर्वं विजानासि ज्ञानं त्रैकालिकं च यत् ।
ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः ॥ ६१॥
कर्मणां जन्म येषां वा यासु यासु च योनिषु ।
तासु ते निर्वृतिं भ्रातः प्राप्नुवन्तीह साम्प्रतम् ॥ ६२॥
कृत्तिकाज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ।
स्तन्येनासां वर्द्धितोऽहमुपकारेण सन्ततम् ॥ ६३॥
आसामहं पोष्यपुत्रो मदंशा योषितस्त्विमाः ।
तस्याश्च प्रकृतेरंशास्ततस्तत्स्वामिवीर्यजः ॥ ६४॥
न मद्भवो हे शैलेन्द्रकन्यया नन्दिकेश्वर ।
सा च मे धर्मतो माता यथेमाः सर्वसम्मताः ॥ ६५॥
शम्भुना प्रेषितस्त्वं च शम्भोः पुत्रसमो महान् ।
आगच्छामि त्वया सार्द्धं द्रक्ष्यामि देवताकुलम् ॥ ६६॥
इत्येवमुक्त्वा तं शीघ्रं सम्बोध्य कृत्तिकागणम् ।
कार्त्तिकेयः प्रतस्थे हि सार्द्धं शङ्करपार्षदैः ॥ ६७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं नाम चतुर्थोऽध्यायः ॥ २.४.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.५. पञ्चमोऽध्यायः । देवकृतकुमाराभिषेकः ।
ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम् ।
अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम् ॥ १॥
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ।
प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ॥ २॥
समारोहत्ततोऽनन्तो हृदयेन विदूयता ।
कार्त्तिकः परमज्ञानी परमेशानवीर्यजः ॥ ३॥
तदैव कृत्तिकाः प्राप्य मुक्तकेश्यः शुचाऽऽतुराः ।
उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः ॥ ४॥
कृत्तिका ऊचुः ।
विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः ।
नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत् ॥ ५॥
स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः ।
किं कुर्मः क्व च यास्यामो वयं किं करवाम ह ॥ ६॥
इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि कार्त्तिकम् ।
द्रुतं मूर्च्छामवापुस्ताःसुतविच्छेदकारणात् ॥ ७॥
ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै ।
ताभिश्च पार्षदैः सार्द्धमारुरोह रथं मुने ॥ ८॥
दृष्ट्वा श्रुत्वा मङ्गलानि बहूनि सुखदानि वै ।
कुमारः पार्षदैः सार्द्धं जगाम पितृमन्दिरम् ॥ ९॥
दक्षेण नन्दियुक्तश्च मनोयायिरथेन च ।
कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके ॥ १०॥
तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह ।
कुमारः शाङ्करिः प्रीतो नानालीलाविशारदः ॥ ११॥
तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः ।
विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम् ॥ १२॥
तदा दृष्ट्वा च गाङ्गेयं ययौ प्रमुदितश्शिवः ।
अन्यैः समेतो हरिणा ब्रह्मणा च सुरर्षिभिः । १३॥
शङ्खाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः ।
उत्सवः सुमहानासीद्देवानां तुष्टचेतसाम् ॥ १४॥
तदानीमेव तं सर्वे वीरभद्रादयो गणाः ।
कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ॥ १५॥
स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् ।
जयशब्दं नमश्शब्दं कुर्वाणाः प्रीतमानसाः ॥ १६॥
द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम् । १७॥
पार्वती मङ्गलं चक्रे राजमार्गं मनोहरम् ।
पद्मरागादिमणिभिः संस्कृतं परितः पुरम् ॥ १८॥
पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विताः ।
लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ ॥ १९॥
रम्भाद्यप्सरसो दिव्याः सस्मिता वेषसंयुताः ।
सङ्गीतनर्तनपरा बभूवुश्च शिवाज्ञया ॥ २०॥
ये तं समीक्षयामासुर्गाङ्गेयं शङ्करोपमम् ।
ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ॥ २१॥
तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् ।
ववन्दिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ॥ २२॥
जहृषुर्विनतस्कन्धा नमश्शब्दरतास्तदा ।
परिवार्योपतस्थुस्ते वामदक्षिणमागताः ॥ २३॥
अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः ।
दण्डवत्पतिता भूमौ परिवार्य कुमारकम् ॥ २४॥
एतस्मिन्नन्तरे शम्भुर्गिरिजा च मुदान्विता ।
महोत्सवं समागम्य ददर्श तनयं मुदा ॥ २५॥
पुत्रं निरीक्ष्य च तदा जगदेकबन्धुः
प्रीत्यान्वितः परमया परया भवान्या ।
स्नेहान्वितो भुजगभोगयुतो हि साक्षात्
सर्वेश्वरः परिवृतः प्रमथैः परेशः ॥ २६॥
अथ शक्तिधरः स्कन्दो दृष्ट्वा तौ पार्वतीशिवौ ।
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ॥ २७॥
उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शङ्करः ।
जघ्रौ प्रेम्णा परेशानः प्रसन्नः स्नेहकर्तृकः ॥ २८॥
उपगुह्य गुहं तत्र पार्वती जातसम्भ्रमा ।
प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ २९॥
तदा नीराजितो देवैःसकलत्रैर्मुदान्वितैः ।
जयशब्देन महता व्याप्तमासीन्नभस्तलम् ॥ ३०॥
ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः ।
वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम् ॥ ३१॥
स्वमङ्कमारोप्य तदा महेशः
कुमारकं तं प्रभया समुज्ज्वलम् ।
बभौ भवानीपतिरेव साक्षा-
च्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः ॥ ३२॥
कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् ।
शिवाज्ञया महोत्साहैस्सह देवैर्महासुखी ॥ ३३॥
दम्पती तौ तदा तत्रैकपद्येन विरेजतुः ।
विवन्द्यमानावृषिभिरावृतौ सुरसत्तमैः ॥ ३४॥
कुमारः क्रीडयामास शिवोत्सङ्गे मुदान्वितः ।
वासुकिं शिवकण्ठस्थं पाणिभ्यां समपीडयत् ॥ ३५॥
प्रहस्य भगवान् शम्भुः शशंस गिरिजां तदा ।
निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम् ॥ ३६॥
मदस्मितेन च तदा भगवान्महेशः
प्राप्तो मुदं च परमां गिरिजासमेतः ।
प्रेम्णा स गद्गदगिरो जगदेकबन्धु-
र्नोवाच किञ्चन विभुर्भुवनैकभर्त्ता ॥ ३७॥
अथ शम्भुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् ।
रत्नसिंहासने रम्ये वासयामास कार्त्तिकम् ॥ ३८॥
वेदमन्त्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः ।
सद्रत्नकुम्भशतकैः स्नापयामास तं मुदा ॥ ३९॥
सद्रत्नसाररचितकिरीटमुकुटाङ्गदम् ।
वैजयन्तीं स्वमालां च तस्मै चक्रं ददौ हरिः ॥ ४०॥
शूलं पिनाकं परशुं शक्तिं पाशुपतं शरम् ।
संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः ॥ ४१॥
अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् ।
कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम् ॥ ४२॥
गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः ।
श्वेतच्छत्रं रत्नमालां ददौ पाशं जलेश्वरः ॥ ४३॥
मनोयायिरथं सूर्यः सन्नाहं च महाचयम् ।
यमदण्डं यमश्चैव सुधाकुम्भं सुधानिधिः ॥ ४४॥
हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे ।
ददौ स्वशस्त्रं निरृतिर्वायव्यास्त्रं समीरणः ॥ ४५॥
गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा ।
नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा ॥ ४६॥
कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः ।
गदां ददौ स्वविद्याश्च तस्मै च परया मुदा ॥ ४७॥
क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम् ।
हिमालयो हि दिव्यानि भूषणान्यंशुकानि च ॥ ४८॥
चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ ।
अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम् ॥ ४९॥
पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् ।
ददौ तस्मै महाप्रीत्या चिरञ्जीवित्वमेव च ॥ ५०॥
लक्ष्मीश्च सम्पदं दिव्यां महाहारं मनोहरम् ।
सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा ॥ ५१॥
अन्याश्चापि मुने देव्यो या यास्तत्र समागताः ।
स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः ॥ ५२॥
महामहोत्सवस्तत्र बभूव मुनिसत्तम ।
सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ ॥ ५३॥
एतस्मिन्नन्तरे काले प्रोवाच प्रहसन् मुदा ।
मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान् ॥ ५४॥
शिव उवाच
हे हरे हे विधे देवाः सर्वे शृणुत मद्वचः ।
सर्वथाहं प्रसन्नोऽस्मि वरान्वृणुत ऐच्छिकान् ॥ ५५॥
ब्रह्मोवाच
तच्छ्रुत्वा वचनं शम्भोर्मुने विष्ण्वादयः सुराः ।
सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् ॥ ५६॥
कुमारेण हतो ह्येष तारको भविता प्रभो ।
तदर्थमेव सञ्जातमिदं चरितमुत्तमम् ॥ ५७॥
तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यताः ।
आज्ञां देहि कुमाराय स तं हन्यात् सुखाय नः ॥ ५८॥
तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा ।
देवेभ्यस्तारकं हन्तुं कृपया परिभावितः ॥ ५९॥
शिवाज्ञया सुराः सर्वे ब्रह्मविष्णुमुखास्तदा ।
पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः ॥ ६०॥
बहिर्निस्सृत्य कैलासात्त्वष्टा शासनतो हरेः ।
विरेचे नगरं रम्यमद्भुतं निकटे गिरेः ॥ ६१॥
तत्र रम्यं गृहं दिव्यमद्भुतं परमोज्ज्वलम् ।
गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम् ॥ ६२॥
तदा हरिः सुधीर्भक्त्या कारयामास मङ्गलम् ।
कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैः सुरैः ॥ ६३॥
सर्वथा समलङ्कृत्य वासयामास सङ्ग्रहम् ।
कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम् ॥ ६४॥
ब्रह्माण्डाधिपतित्वं हि ददौ तस्मै मुदा हरिः ।
चकार तिलकं तस्य समानर्च सुरैस्सह ॥ ६५॥
प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिः सह ।
तुष्टाव विविधैः स्तोत्रैः शिवरूपं सनातनम् ॥ ६६॥
वरसिंहासनस्थो हि शुशुभेऽतीव कार्त्तिकः ।
स्वामिभावं समापन्नो ब्रह्माण्डस्यापि पालकः ॥ ६७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं नाम पञ्चमोऽध्यायः ॥ २.४.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.६. षष्ठोऽध्यायः । कुमाराद्भुतचरित्रवर्णनम् ।
ब्रह्मोवाच
अथ तत्र स गाङ्गेयो दर्शयामास सूतिकाम् ।
तामेव शृणु सुप्रीत्या नारद त्वं स्वभक्तिदाम् ॥ १॥
द्विज एको नारदाख्य आजगाम तदैव हि ।
तत्राध्वरकरः श्रीमान् शरणार्थं गुहस्य वै ॥ २॥
स विप्रः प्राप्य निकटं कार्त्तिकस्य प्रसन्नधीः ।
स्वाभिप्रायं समाचख्यौ सुप्रणम्य शुभैः स्तवैः ॥ ३॥
विप्र उवाच
शृणु स्वामिन्वचो मेऽद्य कष्टं मे विनिवारय ।
सर्वब्रह्माण्डनाथस्त्वमतस्ते शरणं गतः ॥ ४॥
अजमेधाध्वरं कर्तुमारम्भं कृतवानहम् ।
सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबन्धनम् ॥ ५॥
न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु ।
न प्राप्तोऽतस्स बलवान् भङ्गो भवति मे क्रतोः ॥ ६॥
त्वयि नाथे सति विभो यज्ञभङ्गः कथं भवेत् ।
विचार्य्यैवाऽखिलेशान कामं पूर्णं कुरुष्व मे ॥ ७॥
त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो ।
सर्वब्रह्माण्डनाथं हि सर्वामरसुसेवितम् ॥ ८॥
दीनबन्धुर्दयासिन्धुः सुसेव्यो भक्तवत्सलः ।
हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः ॥ ९॥
पार्वतीनन्दनस्स्कन्दः परमेकः परन्तपः ।
परमात्माऽत्मदः स्वामी सतां च शरणार्थिनाम् ॥ १०॥
दीनानाथ महेश शङ्करसुत त्रैलोक्यनाथ प्रभो
मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय ।
त्वं सर्वप्रभुरानताऽखिलविदब्रह्मादिदेवैः स्तुतः
त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः ॥ ११॥
भक्तप्राणगुणाकरस्त्रिगुणतो भिन्नोऽसि शम्भुप्रियः
शम्भुः शम्भुसुतः प्रसन्नसुखदः सच्चित्स्वरूपो महान् ।
सर्वज्ञस्त्रिपुरघ्नशङ्करसुतः सत्प्रेमवश्यःसदा
षड्वक्त्रः प्रियसाधुरानतप्रियः सर्वेश्वरः शङ्करः ।
साधुद्रोहकरघ्न शङ्करगुरो ब्रह्माण्डनाथो प्रभुः
सर्वेषाममरादिसेवितपदो मां पाहि सेवाप्रिय ॥ १२॥
वैरिभयङ्कर शङ्कर जनशरणस्य
वन्दे तव पदपद्मं सुखकरणस्य ।
विज्ञप्तिं मम कर्णे स्कन्द निधेहि
निजभक्तिं जनचेतसि सदा विधेहि ॥ १३॥
करोति किं तस्य बली विपक्षो
दक्षोऽपि पक्षोभयपार्श्वगुप्तः ।
किं तक्षकोऽप्यामिषभक्षको वा
त्वं रक्षको यस्य सदक्षमानः ॥ १४॥
विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात्
कथय कथमहं स्यां मन्दबुद्धिर्वरार्च्यः ।
शुचिरशुचिरनार्यो यादृशस्तादृशो वा
पदकमलपरागं स्कन्द ते प्रार्थयामि ॥ १५॥
हे सर्वेश्वर भक्तवत्सल कृपा-सिन्धो त्वदीयोऽस्म्यहं
भृत्यः स्वस्य न सेवकस्य गणप-स्यागःशतं सत्प्रभो ।
भक्तिं क्वापि कृतां मनागपि विभो जानासि भृत्यार्तिहा
त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः ॥ १६॥
कल्याणकर्त्ता कलिकल्मषघ्नः
कुबेरबन्धुः करुणार्द्रचित्तः ।
त्रिषट्कनेत्रो रसवक्त्रशोभी
यज्ञं प्रपूर्णं कुरु मे गुह त्वम् ॥ १७॥
रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः ।
यज्ञकर्त्ता यज्ञभर्त्ता हरसे विघ्नकारिणाम् ॥ १८॥
विघ्नवारण साधूनां सर्ग कारण सर्वतः ।
पूर्णं कुरु ममेशान सुतयज्ञ नमोस्तु ते ॥ १९॥
सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि ।
सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ॥ २०॥
सङ्गीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः ।
सर्वस्थाता विधाता त्वं देवदेवः सतां गतिः ॥ २१॥
भवानीनन्दनः शम्भुतनयो वयुनः स्वराट् ।
ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम् ॥ २२॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य देवसम्राट् शिवात्मजः ।
स्वगणं वीरबाह्वाख्यं प्रेषयामास तत्कृते ॥ २३॥
तदाज्ञया वीरबाहुस्तदन्वेषणहेतवे ।
प्रणम्य स्वामिनं भक्त्या महावीरो द्रुतं ययौ ॥ २४॥
अन्वेषणं चकारासौ सर्वब्रह्माण्डगोलके ।
न प्राप तमजं कुत्र शुश्राव तदुपद्रवम् ॥ २५॥
जगामाऽथ स वैकुण्ठं तत्राऽजं प्रददर्श तम् ।
उपद्रवं प्रकुर्वन्तं गलयूपं महाबलम् ॥ २६॥
धृत्वा तं शृङ्गयोर्वीरो धर्षयित्वातिवेगतः ।
आनिनाय स्वामिपुरो विकुर्वन्तं रवं बहु ॥ २७॥
दृष्ट्वा तं कार्त्तिकस्सोऽरमारुरोह स तं प्रभुः ।
धृतब्रह्माण्डगरिमा महासूतिकरो गुहः ॥ २८॥
मुहूर्तमात्रतस्सोऽजो ब्रह्माण्डं सकलं मुने ।
बभ्राम श्रम एवाशु पुनस्तत्स्थानमागतः ॥ २९॥
तत उत्तीर्य स स्वामी समुवास स्वमासनम् ।
सोऽजः स्थितस्तु तत्रैव स नारद उवाच तम् ॥ ३०॥
नारद उवाच
नमस्ते देव देवेश देहि मेऽजं कृपानिधे ।
कुर्यामध्वरमानन्दात्सखायं कुरु मामहो ॥ ३१॥
कार्त्तिक उवाच
वधयोग्यो न विप्राऽजः स्वगृहं गच्छ नारद ।
पूर्णोऽस्तु तेऽध्वरः सर्वः प्रसादादेव मे कृतः ॥ ३२॥
ब्रह्मोवाच
इत्याकर्ण्य द्विजःस्वामी वचनं प्रीतमानसः ।
जगाम स्वालयं दत्त्वा तस्मा आशिषमुत्तमाम् ॥ ३३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं नाम षष्ठोऽध्यायः ॥ २.४.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.७. सप्तमोऽध्यायः । तारकेण सहेन्द्रादिदेवानां युद्धवर्णनम् ।
ब्रह्मोवाच
हर्य्यादयस्सुरास्ते च दृष्ट्वा तच्चरितं विभोः ।
सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ॥ १॥
वल्गन्तः कुर्वतो नादं भाविताश्शिवतेजसा ।
कुमारन्ते पुरस्कृत्य तारकं हन्तुमाययुः ॥ २॥
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः ।
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३॥
देवा दृष्ट्वा समायान्तं तारकस्य महाबलम् ।
बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ॥ ४॥
तदा नभोऽङ्गना वाणीं जगादोपरि सत्वरम् ।
शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ॥ ५॥
व्योमवाण्युवाच
कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः ।
दैत्यान्विजित्य सङ्ग्रामे जयिनोऽथ भविष्यथ ॥ ६॥
ब्रह्मोवाच
वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः ।
वीरशब्दान् प्रकुर्वन्तो निर्भया ह्यभवंस्तदा ॥ ७॥
कुमारं च पुरस्कृत्य सर्वे ते गतसाध्वसाः ।
योद्धुकामाः सुरा जग्मुर्महीसागरसङ्गमम् ॥ ८॥
आजगाम द्रुतं तत्र यत्र देवाः स तारकः ।
सैन्येन महता सार्द्धं असुरैर्बहुभिर्वृतः ॥ ९॥
रणदुन्दुभयो नेदुः प्रलयाम्बुदनिःस्वनाः ।
कर्कशानि च वाद्यानि पराणि च तदागमे ॥ १०॥
गर्जमानास्तदा दैत्यास्तारकेणासुरेण ह ।
कम्पयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ॥ ११॥
तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः ।
ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥ १२॥
गजमारोप्य देवेन्द्रः कुमारं ह्यग्रतोऽभवत् ।
सुरसैन्येन महता लोकपालैः समावृतः ॥ १३॥
तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ।
वीणावेणुमृदङ्गानि तथा गन्धर्वनिस्स्वनाः ॥ १४॥
गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् ।
अनेकाश्चर्यसम्भूतं नानारत्नसमन्वितम् ॥ १५॥
विमानमारुह्य तदा महायशाः
स शाङ्करिःसर्वगुणैरुपेतः ।
श्रिया समेतः परया बभौ महान्
संवीज्यमानश्चमरैर्महाप्रभैः ॥ १६॥
प्राचेतसं छत्रमतीवसुप्रभं
रत्नैरुपेतं विविधैर्विराजितम् ।
धृतं तदा तच्च कुमारमूर्ध्नि वै
ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ॥ १७॥
मिलितास्ते तदा सर्वे देवाः शक्रपुरोगमाः ।
स्वैः स्वैर्बलैः परिवृता युद्धकामा महाबलाः ॥ १८॥
एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि ।
सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ॥ १९॥
ते सेने सुरदैत्यानां शुशुभाते परस्परम् ।
हन्तुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ॥ २०॥
उभे सेने तदा तेषामगर्जेतां वनोपमे ।
भयङ्करेऽत्यवीराणामितरेषां सुखावहे ॥ २१॥
एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम् ।
दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ॥ २२॥
आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् ।
रुण्डमुण्डाङ्कितं सर्वं क्षणेन समपद्यत ॥ २३॥
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः ।
निकृत्ताङ्गा महाशस्त्रैर्निहता वीरसम्मताः ॥ २४॥
केषाञ्चिद्बाहवश्छिन्नाः खड्गपातैः सुदारुणैः ।
केषाञ्चिदूरवश्छिन्ना वीराणां मानिनां मृधे ॥ २५॥
केचिन्मथितसर्वाङ्गा गदाभिर्मुद्गरैस्तथा ।
केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ॥ २६॥
केचिद्विदारिताः पृष्ठे कुन्तैरृष्टिभिरङ्कुशैः ।
छिन्नान्यपि शिरांस्येव पतितानि च भूतले ॥ २७॥
बहूनि च कबन्धानि नृत्यमानानि तत्र वै ।
वल्गमानानि शतशो उद्यतास्त्रकराणि च ॥ २८॥
नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा ।
भूतप्रेतादयस्तत्र शतशश्च समागताः ॥ २९॥
गोमायवश्शिवाः तत्र भक्षयन्तः पलं बहु ।
तथा गृध्रवटा श्येना वायसा मांसभक्षकाः ॥
बुभुजुः पतितानां च पलानि सुबहूनि वै । ३०॥
एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः ।
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३१॥
देवा दृष्ट्वा समायान्तं तारकं युद्धदुर्मदम् ।
योद्धुकामं तदा सद्यो ययुः शक्रादयस्तदा ।
बभूवाथ महोन्नादःसेनयोरुभयोरपि ॥ ३२॥
अथाभूद् द्वन्द्वयुद्धं हि सुरासुरविमर्दनम् ।
यं दृष्ट्वा हर्षिता वीराः क्लीबाश्च भयमागताः ॥ ३३॥
तारको युयुधे युद्धे शक्रेण दितिजो बली ।
अग्निना सह संह्रादो जम्भेनैव यमः स्वयम् ॥ ३४॥
महाप्रभुर्नैरृतेन पाशी सह बलेन च ।
सुवीरो वायुना सार्धं पवमानेन गुह्यराट् ॥ ३५॥
ईशानेन समं शम्भुर्युयुधे रणवित्तमः ।
शुम्भः शेषेण युयुधे कुम्भश्चन्द्रेण दानवः ॥ ३६॥
कुञ्जरो मिहिरेणाजौ महाबलपराक्रमः ।
युयुधे परमास्त्रैश्च नानायुद्धविशारदः ॥ ३७॥
एवं द्वन्द्वेन युद्धेन महता च सुरासुराः ।
सङ्गरे युयुधुःसर्वे बलेन कृतनिश्चयाः ॥ ३८॥
अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः ।
तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने ॥ ३९॥
तदा च तेषां सुरदानवानां
बभूव युद्धं तुमुलं जयैषिणाम् ।
सुखावहं वीरमनस्विनां वै
भयावहं चैव तथेतरेषाम् ॥ ४०॥
मही महारौद्रतरा विनष्टकैः
सुरासुरैर्वै पतितैरनेकशः ।
तस्मिन्नगम्यातिभयानका तदा
जाता महासौख्यवहा मनस्विनाम् ॥ ४१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारम्भवर्णनं नाम सप्तमोऽध्यायः ॥ २.४.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.८. अष्टमोऽध्यायः । देवदैत्ययुद्धवर्णनम् ।
ब्रह्मोवाच
इति ते वर्णितस्तात देवदानव सेनयोः ।
सङ्ग्रामस्तुमुलोऽतीव तत्प्रभ्वोः शृणु नारद ॥ १॥
एवं युद्धेऽतितुमुले देवदानवसङ्क्षये ।
तारकेणैव देवेन्द्रः शक्त्या परमया सह ॥ २॥
सद्यः पपात नागाश्च धरण्यां मूर्च्छितोऽभवत् ।
परं कश्मलमापेदे वज्रधारी सुरेश्वरः ॥ ३॥
तथैव लोकपाः सर्वेऽसुरैश्च बलवत्तरैः ।
पराजिता रणे तात महारणविशारदैः ॥ ४॥
अन्येऽपि निर्जरा दैत्यैर्युद्ध्यमानाः पराजिताः ।
असहन्तो हि तत्तेजः पलायनपरायणाः ॥ ५॥
जगर्जुरसुरास्तत्र जयिनः सुकृतोद्यमाः ।
सिंहनादं प्रकुर्वन्तः कोलाहलपरायणाः ॥ ६॥
एतस्मिन्नन्तरे तत्र वीरभद्रो रुषान्वितः ।
आससाद गणैर्वीरैस्तारकं वीरमानिनम् ॥ ७॥
निर्जरान् पृष्ठतः कृत्वा शिवकोपोद्भवो बली ।
तत्सम्मुखो बभूवाथ योद्धुकामो गणाग्रणीः ॥ ८॥
तदा ते प्रमथाः सर्वे दैत्याश्च परमोत्सवाः ।
युयुधुः संयुगेऽन्योन्यं प्रसक्ताश्च महारणे ॥ ९॥
त्रिशूलैरृष्टिभिः पाशैः खड्गैः परशुपट्टिशैः ।
निजघ्नुःसमरेऽन्योऽन्यं रणे रणविशारदाः ॥ १०॥
तारको वीरभद्रेण स त्रिशूलाहतो भृशम् ।
पपात सहसा भूमौ क्षणं मूर्छापरिप्लुतः ॥ ११॥
उत्थाय स द्रुतं वीरस्तारको दैत्यसत्तमः ।
लब्धसंज्ञो बलाच्छक्त्या वीरभद्रं जघान ह ॥ १२॥
वीरभद्रस्तथा वीरो महातेजा हि तारकम् ।
जघान त्रिशिखेनाशु घोरेण निशितेन तम् ॥ १३॥
सोऽपि शक्त्या वीरभद्रं जघान समरे ततः ।
तारको दितिजाधीशः प्रबलो वीरसम्मतः ॥ १४॥
एवं संयुद्ध्यमानौ तौ जघ्नतुश्चेतरेतरम् ।
नानास्त्रशस्त्रैः समरे रणविद्याविशारदौ ॥ १५॥
तयोर्महात्मनोस्तत्र द्वन्द्वयुद्धमभूत्तदा ।
सर्वेषां पश्यतामेव तुमुलं रोमहर्षणम् ॥ १६॥
ततो भेरीमृदङ्गाश्च पटहानकगोमुखाः ।
विनेदुर्विहता वीरैः शृण्वतां सुभयानकाः ॥ १७॥
युयुधातेतिसन्नद्धौ प्रहारैर्जर्जरीकृतौ ।
अन्योऽन्यमतिसंरब्धौ तौ बुधाङ्गारकाविव ॥ १८॥
एवं दृष्ट्वा तदा युद्धं वीरभद्रस्य तेन च ।
तत्र गत्वा वीरभद्रमवोचस्त्वं शिवप्रियः ॥ १९॥
नारद उवाच
वीरभद्र महावीर गणानामग्रणीर्भवान् ।
निवर्तस्व रणादस्माद्रोचते न वधस्त्वया ॥ २०॥
एवं निशम्य त्वद्वाक्यं वीरभद्रो गणाग्रणीः ।
अवदत्स रुषाविष्टस्त्वां तदा तु कृताञ्जलिः ॥ २१॥
वीरभद्र उवाच
मुनिवर्य महाप्राज्ञ शृणु मे परमं वचः ।
तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम् ॥ २२॥
आनयन्ति च ये वीराःस्वामिनं रणसंसदि ।
ते पापिनो महाक्लीबा विनश्यन्ति रणं गताः ॥ २३॥
असद्गतिं प्राप्नुवन्ति तेषां च निरयो ध्रुवम् ।
वीरभद्रो हि विज्ञेयो न वाच्यस्ते कदाचन ॥ २४॥
शस्त्रास्त्रैर्भिन्नगात्रा ये रणं कुर्वन्ति निर्भयाः ।
इहामुत्र प्रशंस्यास्ते लभन्ते सुखमद्भुतम् ॥ २५॥
शृण्वन्तु मम वाक्यानि देवा हरिपुरोगमाः ।
अतारकां महीमद्य करिष्ये स्वामिवर्जितः ॥ २६॥
इत्युक्त्वा प्रमर्थैस्सार्द्धं वीरभद्रो हि शूलधृक् ।
विचिन्त्य मनसा शम्भुं युयुधे तारकेण हि ॥ २७॥
वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः ।
महावीरैः त्रिनेत्रैश्च स रेजे रणसङ्गतः ॥ २८॥
कोलाहलं प्रकुर्वन्तो निर्भयाः शतशो गणाः ।
वीरभद्रं पुरस्कृत्य युयुधुर्दानवैः सह ॥ २९॥
असुरास्तेऽपि युयुधुः तारकासुरजीविनः ।
बलोत्कटा महावीरा मर्दयन्तो गणान् रुषा ॥ ३०॥
पुनः पुनश्चैव बभूव सङ्गरो
महोत्कटो दैत्यवरैर्गणानाम् ।
प्रहर्षमाणाः परमास्त्रकोविदाः
तदा गणास्ते जयिनो बभूवुः ॥ ३१॥
गणैर्जितास्ते प्रबलैरसुरा विमुखा रणे ।
पलायनपरा जाता व्यथिता व्यग्रमानसाः ॥ ३२॥
एवं भ्रष्टं स्वसैन्यं तद् दृष्ट्वा तत्पालकोऽसुरः ।
तारको हि रुषाविष्टो हन्तुं देवगणान् ययौ ॥ ३३॥
भुजानामयुतं कृत्वा सिंहमारुह्य वेगतः ।
पातयामास तान्देवान् गणांश्च रणमूर्द्धनि ॥ ३४॥
स दृष्ट्वा तस्य तत्कर्म वीरभद्रो गणाग्रणीः ।
चकार सुमहत्कोपं तद्वधाय महाबली ॥ ३५८॥
स्मृत्वा शिवपदाम्भोजं जग्राह त्रिशिखं परम् ।
जज्वलुस्तेजसा तस्य दिशः सर्वा नभस्तथा ॥ ३६॥
एतस्मिन्नन्तरे स्वामी वारयामास तं रणात् ।
वीरबाहुमुखान्सद्यो महाकौतुकदर्शकः ॥ ३७॥
तदाज्ञया वीरभद्रो निवृत्तोऽभूद्रणात्तदा ।
कोपं चक्रे महावीरस्तारकोऽसुरनायकः ॥ ३८॥
चकार बाणवृष्टिं च सुरोपरि तदाऽसुरः ।
तप्तोऽऽह्वासीत्सुरान्सद्यो नानास्त्ररणकोविदः ॥ ३९॥
एवं कृत्वा महत्कर्म तारकोऽसुरपालकः ।
सर्वेषामपि देवानामशक्यो बलिनां वरः ॥ ४०॥
एवं निहन्यमानांस्तान् दृष्ट्वा देवान् भयाकुलान् ।
कोपं कृत्वा रणायाशु सन्नद्धोऽभवदच्युतः ॥ ४१॥
चक्रं सुदर्शनं शार्ङ्गं धनुरादाय सायुधः ।
अभ्युद्ययौ महादैत्यं रणाय भगवान् हरिः ॥ ४२॥
ततःसमभवद्युद्धं हरितारकयोर्महत् ।
लोमहर्षणमत्युग्रं सर्वेषां पश्यतां मुने ॥ ४३॥
गदामुद्यम्य स हरिर्जघानासुरमोजसा ।
द्विधा चकार तां दैत्यस्त्रिशिखेन महाबली ॥ ४४॥
ततः स क्रुद्धो भगवान्देवानामभयङ्करः ।
शार्ङ्गच्युतैः शरव्यूहैर्जघानासुरनायकम् ॥ ४६॥
सोऽपि दैत्यो महावीरस्तारकः परवीरहा ।
चिच्छेद सकलान्बाणान्स्वशरैर्निशितैर्द्रुतम् ॥ ४६॥
अथ शक्त्या जघानाशु मुरारिं तारकासुरः ।
भूमौ पपात स हरिस्तत्प्रहारेण मूर्च्छितः ॥ ४७॥
जग्राह स रुषा चक्रमुत्थितः क्षणतोऽच्युतः ।
सिंहनादं महत्कृत्वा ज्वलज्ज्वालासमाकुलम् ॥ ४८॥
तेन तं च जघानासौ दैत्यानामधिपं हरिः ।
तत्प्रहारेण महता व्यथितो न्यपतद्भुवि ॥ ४९॥
पुनश्चोत्थाय दैत्येन्द्रस्तारकोऽसुरनायकः ।
चिच्छेद त्वरितं चक्रं स्वशक्त्यातिबलान्वितः ॥ ५०॥
पुनस्तया महाशक्त्या जघानामरवल्लभम् ।
अच्युतोऽपि महावीरो नन्दकेन जघान तम् ॥ ५१॥
एवमन्योऽन्यमसुरो विष्णुश्च बलवानुभौ ।
युयुधाते रणे भूरि तत्राक्षतबलौ मुने ॥ ५२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे देव दैत्यसामान्ययुद्धवर्णनं नामाष्टमोऽध्यायः ॥ २.४.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.९. नवमोऽध्यायः । तारकेण सह वीरभद्रविष्णोर्घोरयुद्धवर्णनम् ।
ब्रह्मोवाच
देवदेव गुह स्वामिन् शाङ्करे पार्वतीसुत ।
न शोभते रणो विष्णुतारकासुरयोर्वृथा ॥ १॥
विष्णुना न हि वध्योऽसौ तारको बलवानति ।
मया दत्तवरस्तस्मात्सत्यं सत्यं वदाम्यहम् ॥ २॥
नान्यो हन्तास्य पापस्य त्वां विना पार्वतीसुत ।
तस्मात्त्वया हि कर्तव्यं वचनं मे महाप्रभो ॥ ३॥
सन्नद्धो भव दैत्यस्य वधायाशु परन्तप ।
तद्वधार्थं समुत्पन्नः शङ्करात्त्वं शिवासुत ॥ ४॥
रक्ष रक्ष महावीर त्रिदशान् व्यथितान् रणे ।
न बालस्त्वं युवा नैव किं तु सर्वेश्वरः प्रभुः ॥ ५॥
शक्रं पश्य तथा विष्णुं व्याकुलं च सुरान् गणान् ।
एनं जहि महादैत्यं त्रैलोक्यं सुखितं कुरु ॥ ६॥
अनेन विजितश्चेन्द्रो लोकपालैः पुरा सह ।
विष्णुश्चापि महावीरो तर्जितस्तपसो बलात् ॥ ७॥
त्रैलोक्यं निर्जितं सर्वमसुरेण दुरात्मना ।
इदानीं तव सान्निध्यात्पुनर्युद्धं कृतं च तैः ॥ ८॥
तस्मात्त्वया निहन्तव्यस्तारकः पापपूरुषः ।
अन्यवध्यो न चैवायं मद्वराच्छङ्करात्मज ॥ ९॥
इति श्रुत्वा मम वचः कुमारः शङ्करात्मजः ।
विजहास प्रसन्नात्मा तथास्त्विति वचोऽब्रवीत् ॥ १०॥
विनिश्चित्यासुरवधं शाङ्करिःस महाप्रभुः ।
विमानादवतीर्याथ पदातिरभवत्तदा ॥ ११॥
पद्भ्यां तदासौ परिधावमानो
रेजेऽतिवीरः शिवजः कुमारः ।
करे समादाय महाप्रभां तां
शक्तिं महोल्कामिव दीप्तिदीप्ताम् ॥ १२॥
दृष्ट्वा तमायान्तमतिप्रचण्ड-
मव्याकुलं षण्मुखमप्रमेयम् ।
दैत्यो बभाषे सुरसत्तमान्स
कुमार एष द्विषतां प्रहन्ता ॥ १३॥
अनेन साकं ह्यहमेकवीरो
योत्स्ये च सर्वानहमेव वीरान् ।
गणांश्च सर्वानपि घातयामि
सलोकपालान् हरिनायकांश्च ॥ १४॥
इत्येवमुक्त्वा स तदा महाबलः
कुमारमुद्दिश्य ययौ च योद्धुम् ।
जग्राह शक्तिं परमाद्भुतां च
स तारको देववरान् बभाषे ॥ १५॥
तारक उवाच
कुमारो मेऽग्रतश्चाद्य भवद्भिश्च कथं कृतः ।
यूयं गतत्रपा देवा विशेषाच्छक्रकेशवौ ॥ १६॥
पुरैताभ्यां कृतं कर्म विरुद्धं वेदमार्गतः ।
तच्छृणुध्वं मया प्रोक्तं वर्णयामि विशेषतः ॥ १७॥
तत्र विष्णुश्छली दोषी ह्यविवेकी विशेषतः ।
बलिर्येन पुरा बद्धश्छलमाश्रित्य पापतः ॥ १८॥
तेनैव यत्नतः पूर्वमसुरौ मधुकैटभौ ।
शिरोहीनौ कृतौ धौर्त्याद्वेदमार्गो विवर्जितः ॥ १९॥
मोहिनीरूपतोऽनेन पङ्क्तिभेदः कृतो हि वै ।
देवासुरसुधापाने वेदमार्गो विगर्हितः ॥ २०॥
रामो भूत्वा हता नारी वाली विध्वंसितो हि सः ।
पुनर्वैश्रवणो विप्रो हतो नीतिर्हता श्रुतेः ॥ २१॥
पापं विना स्वकीया स्त्री त्यक्ता पापरतेन यत् ।
तत्रापि श्रुतिमार्गश्च ध्वंसितः स्वार्थहेतवे ॥ २२॥
स्वजनन्याः शिरश्छिन्नमवतारे रसाख्यके ।
गुरुपुत्रापमानश्च कृतोऽनेन दुरात्मना ॥ २३॥
कृष्णो भूत्वान्यनार्यश्च दूषिताः कुलधर्मतः ।
श्रुतिमार्गं परित्यज्य स्वविवाहाः कृतास्तथा ॥ २४॥
पुनश्च वेदमार्गो हि निन्दितो नवमे भवे ।
स्थापितं नास्तिकमतं वेदमार्गविरोधकृत् ॥ २५॥
एवं येन कृतं पापं वेदमार्गं विसृज्य वै ।
स कथं विजयेद्युद्धे भवेद्धर्मवतां वरः ॥ २६॥
भ्राता ज्येष्ठश्च यस्तस्य शक्रः पापी महान्मतः ।
तेन पापान्यनेकानि कृतानि निजहेतुतः ॥ २७॥
निकृत्तो हि दितेर्गर्भः स्वार्थ हेतोर्विशेषतः ।
धर्षिता गौतमस्त्री वै हतो वृत्रश्च विप्रजः ॥ २८॥
विश्वरूपद्विजातेर्वै भागिनेयस्य यद्गुरोः ।
निकृत्तानि च शीर्षाणि तदध्वाध्वंसितः श्रुतेः ॥ २९॥
कृत्वा बहूनि पापानि हरिः शक्रः पुनःपुनः ।
तेजोभिर्विहतावेव नष्टवीर्यौ विशेषतः ॥ ३०॥
तयोर्बलेन नो यूयं सङ्ग्रामे जयमाप्स्यथ ।
किमर्थं मूढतां प्राप्य प्राणांस्त्यक्तुमिहागताः ॥ ३१॥
जानन्तौ धर्ममेतौ न स्वार्थलम्पटमानसौ ।
धर्मं विनाऽमराः कृत्यं निष्फलं सकलं भवेत् ॥ ३२॥
महाधृष्टाविमौ मेऽद्य कृतवन्तौ पुरश्शिशुम् ।
अहं बालं वधिष्यामि तयोः सोऽपि भविष्यति ॥ ३३॥
किं तु बाल इतो यायाद् दूरं प्राणपरीप्सया ।
इत्युक्त्वोद्दिश्य च हरी वीरभद्रमुवाच सः ॥ ३४॥
पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः ।
तत्कर्मणः फलं चाद्य दर्शयिष्यामि तेऽनघ ॥ ३५॥
ब्रह्मोवाच
इत्येवमुक्त्वा तु विधूय पुण्यं
निजं स तन्निन्दनकर्मणा वै ।
जग्राह शक्तिं परमाद्भुतां च
स तारको युद्धवतां वरिष्ठः ॥ ३६॥
तं बालान्तिकमायान्तं तारकासुरमोजसा ।
आजघान च वज्रेण शक्रो गुहपुरस्सरः ॥ ३७॥
तेन वज्रप्रहारेण तारको जर्जरीकृतः ।
भूमौ पपात सहसा निन्दाहतबलः क्षणम् ॥ ३८॥
पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्रुषा ।
पुरन्दरं गजस्थं हि पातयामास भूतले ॥ ३९॥
हाहाकारो महानासीत्पतिते च पुरन्दरे ।
सेनायां निर्जराणां हि तद् दृष्ट्वा क्लेश आविशत् ॥ ४०॥
तारकेणाऽपि तत्रैव यत्कृतं कर्म दुःखदम् ।
स्वनाशकारणं धर्मविरुद्धं तन्निबोध मे ॥ ४१॥
पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य वै ।
पुनरुद्वज्रघातेन शक्रमाताडयद्भृशम् । ४२॥
एवं तिरस्कृतं दृष्ट्वा शक्रं विष्णुः प्रतापवान् ।
चक्रमुद्यस्य भगवांस्तारकं स जघान ह ॥ ४३॥
चक्रप्रहाराभिहतो निपपात क्षितौ हि सः ।
पुनरुत्थाय दैत्येन्द्रः शक्त्या विष्णुं जघान तम् ॥ ४४॥
तेन शक्तिप्रहारेण पतितो भुवि चाच्युतः ।
हाहाकरो महानासीच्चुक्रुशुश्चाऽतिनिर्जराः ॥ ४५॥
निमेषेण पुनर्विष्णुर्यावदुत्तिष्ठते स्वयम् ।
तावत्स वीरभद्रो हि तत्क्षणादागतोऽसुरम् ॥ ४६॥
त्रिशूलं च समुद्यम्य वीरभद्रः प्रतापवान् ।
तारकं दितिजाधीशं जघान प्रसभं बली ॥ ४७॥
तत्त्रिशूलप्रहारेण स पपात क्षितौ तदा ।
पतितोऽपि महातेजास्तारकः पुनरुत्थितः ॥ ४८॥
कृत्वा क्रोधं महावीरःसकलासुरनायकः ।
जघान परया शक्त्या वीरभद्रं तदोरसि ॥ ४९॥
वीरभद्रोऽपि पतितो भूतले मूर्छितः क्षणम् ।
तच्छक्त्या परया क्रोधान्निहतो वक्षसि ध्रुवम् ॥ ५०॥
सगणाश्चैव देवास्ते गन्धर्वोरगराक्षसाः ।
हाहाकारेण महता चुक्रुशुश्च मुहुर्मुहुः ॥ ५१॥
निमेषमात्रात्सहसा महौजाः
स्स वीरभद्रो द्विषतां निहन्ता ।
त्रिशूलमुद्यम्य तडित्प्रकाशं
जाज्वल्यमानं प्रभया विरेजे ॥ ५२॥
स्वरोचिषा भासितदिग्वितानं
सूर्येन्दुबिम्बाग्निसमानमण्डलम् ।
महाप्रभं वीरभयावहं परं
कालाख्यमत्यन्तकरं महोज्ज्वलम् ॥ ५३॥
यावत्त्रिशूलेन तदा हन्तुकामो महाबलः ।
वीरभद्रोऽसुरं तावत्कुमारेण निवारितः ॥ ५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारकवाक्यशक्रविष्णुवीरभद्रयुद्धवर्णनं नाम नवमोऽध्यायः ॥ २.४.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१०. दशमोऽध्यायः । तारकासुरवधः देवोत्सववर्णनञ्च ।
ब्रह्मोवाच
निवार्य वीरभद्रं तं कुमारः परवीरहा ।
समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ ॥ १॥
जगर्जाथ महातेजाः कार्तिकेयो महाबलः ।
सन्नद्धः सोऽभवत्क्रुद्धः सैन्येन महता वृतः ॥ २॥
तदा जय जयेत्युक्तं सर्वैर्देवगणैस्तथा ।
संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः ॥ ३॥
तारकस्य कुमारस्य सङ्ग्रामोऽतीव दुःसहः ।
जातस्तदा महाघोरः सर्वभूत भयङ्करः ॥ ४॥
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ।
सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने ॥ ५॥
शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ ।
परस्परं वञ्चयन्तौ सिंहाविव महाबलौ ॥ ६॥
वैतालिकं समाश्रित्य तथा खेचरकं मतम् ।
प्रापतं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः ॥ ७॥
एभिर्मन्त्रैर्महावीरौ चक्रतुर्युद्धमद्भुतम् ।
अन्योऽन्यं साधकौ भूत्वा महाबलपराक्रमौ ॥ ८॥
महाबलं प्रकुर्वन्तौ परस्परवधैषिणौ ।
जघ्नतुः शक्तिधाराभी रणे रणविशारदौ ॥ ९॥
मूर्ध्नि कण्ठे तथा चोर्वोर्जान्वोश्चैव कटीतटे ।
वक्षस्युरसि पृष्ठे च चिच्छिदुश्च परस्परम् ॥ १०॥
तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ।
वल्गन्तौ वीरशब्दैश्च नानायुद्धविशारदौ ॥ ११॥
अभवन्प्रेक्षकाः सर्वे देवा गन्धर्वकिन्नराः ।
ऊचुः परस्परं तत्र कोऽस्मिन् युद्धे विजेष्यते ॥ १२॥
तदा नभोगता वाणी जगौ देवांश्च सान्त्वयन् ।
असुरं तारकं चात्र कुमारोऽयं हनिष्यति ॥ १३॥
मा शोच्यतां सुरैः सर्वै सुखेन स्थीयतामिति ।
युष्मदर्थं शङ्करो हि पुत्ररूपेण संस्थितः ॥ १४॥
श्रुत्वा तदा तां गगने समीरितां
वाचं शुभां स प्रमथैः समावृतः ।
निहन्तुकामः सुखितः कुमारको
दैत्याधिपं तारकमाश्वभूत्तदा ॥ १५॥
शक्त्या तया महाबाहुराजघान स्तनान्तरे ।
कुमारः स्म रुषाविष्टस्तारकासुरमोजसा ॥ १६॥
तं प्रहारमनादृत्य तारको दैत्यपुङ्गवः ।
कुमारं चापि सङ्क्रुद्धः स्वशक्त्या सञ्जघान सः ॥ १७॥
तेन शक्तिप्रहारेण शाङ्करिर्मूर्च्छितोऽभवत् ।
मुहूर्ताच्चेतनां प्राप स्तूयमानो महर्षिभिः ॥ १८॥
यथा सिंहो मदोन्मत्तो हन्तुकामस्तथासुरम् ।
कुमारस्तारकं शक्त्या स जघान प्रतापवान् ॥ १९॥
एवं परस्परं तौ हि कुमारश्चापि तारकः ।
युयुधातेऽतिसंरब्धौ शक्तियुद्धविशारदौ ॥ २०॥
अभ्यासपरमावास्तामन्योन्यं विजिगीषया ।
पदातिनौ युध्यमानौ चित्ररूपौ तरस्विनौ ॥ २१॥
विविधैर्घातपुञ्जैस्तावन्योन्यं विनिजघ्नतुः ।
नानामार्गान्प्रकुर्वन्तौ गर्जन्तौ सुपराक्रमौ ॥ २२॥
अवलोकपराः सर्वे देवगन्धर्वकिन्नराः ।
विस्मयं परमं जग्मुर्नोचुः किञ्चन तत्र ते ॥ २३॥
न ववौ पवमानश्च निष्प्रभोऽभूद्दिवाकरः ।
चचाल वसुधा सर्वा सशैलवनकानना ॥ २४॥
एतस्मिन्नन्तरे तत्र हिमालयमुखा धराः ।
स्नेहार्दितास्तदा जग्मुः कुमारं च परीप्सवः ॥ २५॥
ततः स दृष्ट्वा तान्सर्वान्भयभीतांश्च शाङ्करिः ।
पर्वतान्गिरिजापुत्रो बभाषे परिबोधयन् ॥ २६॥
कुमार उवाच
मा खिद्यतां महाभागा मा चिन्तां कुर्वतां नगाः ।
घातयाम्यद्य पापिष्ठं सर्वेषां वः प्रपश्यताम् ॥ २७॥
एवं समाश्वास्य तदा पर्वतान् निर्जरान् गणान् ।
प्रणम्य गिरिजां शम्भुमाददे शक्तिमुत्प्रभाम् ॥ २८॥
तं तारकं हन्तुमनाः करशक्तिर्महाप्रभुः ।
विरराज महावीरः कुमारः शम्भुबालकः ॥ २९॥
शक्त्या तया जघानाथ कुमारस्तारकासुरम् ।
तेजसाढ्यः शङ्करस्य लोकक्लेशकरं च तम् ॥ ३०॥
पपात सद्यः सहसा विशीर्णाङ्गोऽसुरः क्षितौ ।
तारकाख्यो महावीरःसर्वासुरगणाधिपः ॥ ३१॥
कुमारेण हतः सोऽतिवीरः स खलु तारकः ।
लयं ययौ च तत्रैव सर्वेषां पश्यतां मुने ॥ ३२॥
तथा तं पतितं दृष्ट्वा तारकं बलवत्तरम् ।
न जघान पुनर्वीरः स गत्वा व्यसुमाहवे ॥ ३३॥
हते तस्मिन्महादैत्ये तारकाख्ये महाबले ।
क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा ॥ ३४॥
केचिद्भीताः प्राञ्जलयो बभूवुस्तत्र चाहवे ।
छिन्नभिन्नाङ्गकाः केचिन्मृता दैत्याःसहस्रशः ॥ ३५॥
केचिज्जाताः कुमारस्य शरणं शरणार्थिनः ।
वदन्तः पाहि पाहीति दैत्याः साञ्जलयस्तदा ॥ ३६॥
कियन्तश्च हतास्तत्र कियन्तश्च पलायिताः ।
पलायमाना व्यथितास्ताडिता निर्ज्जरैर्गणैः ॥ ३७॥
सहस्रशः प्रविष्टास्ते पाताले च जिजीषवः ।
पलायमानास्ते सर्वे भग्नाशा दैन्यमागताः ॥ ३८॥
एवं सर्वं दैत्यसैन्यं भ्रष्टं जातं मुनीश्वर ।
न केचित्तत्र सन्तस्थुर्गणदेवभयात्तदा ॥ ३९॥
आसीन्निष्कण्टकं सर्वं हते तस्मिन्दुरात्मनि ।
ते देवाः सुखमापन्नाः सर्वे शक्रादयस्तदा ॥ ४०॥
एवं विजयमापन्नं कुमारं निखिलाः सुराः ।
बभूवुर्युगपद् हृष्टास्त्रिलोकाश्च महासुखा ॥ ४१॥
तदा शिवोऽपि तं ज्ञात्वा विजयं कार्तिकस्य च ।
तत्राजगाम स मुदा सगणः प्रियया सह ॥ ४२॥
स्वात्मजं स्वाङ्कमारोप्य कुमारं सूर्यवर्चसम् ।
लालयामास सुप्रीत्या शिवा च स्नेहसङ्कुला ॥ ४३॥
हिमालयस्तदागत्य स्वपुत्रैः परिवारितः ।
सबन्धुःसानुगः शम्भुं तुष्टाव च शिवां गुहम् ॥ ४४॥
ततो देवगणाः सर्वे मुनयः सिद्धचारणाः ।
तुष्टुवुः शाङ्करिं शम्भुं गिरिजां तुषितां भृशम् ॥ ४५॥
पुष्पवृष्टिं सुमहतीं चक्रुश्चोपसुरास्तदा ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४६॥
वादित्राणि तथा नेदुस्तदानीं च विशेषतः ।
जयशब्दो नमः शब्दो बभूवोच्चैर्मुहुर्मुहुः ॥ ४७॥
ततो मयाच्युतश्चापि सन्तुष्टोऽभूद्विशेषतः ।
शिवं शिवां कुमारं च सन्तुष्टाव समादरात् ॥ ४८॥
कुमारमग्रतः कृत्वा हरिकेन्द्रमुखाः सुराः ।
चक्रुर्नीराजनं प्रीत्या मुनयश्चापरे तथा ॥ ४९॥
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।
तदोत्सवो महानासीत्कीर्तनं च विशेषतः ॥ ५०॥
गीतवाद्यैः सुप्रसन्नैस्तथा साञ्जलिभिर्मुने ।
स्तूयमानो जगन्नाथः सर्वैर्देवगणैरभूत् ॥ ५१॥
ततःस भगवान् रुद्रो भवान्या जगदम्बया ।
सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृतः ॥ ५२॥
इति श्री शिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारकातारकासुरवधदेवोत्सववर्णनं नाम दशमोऽध्यायः ॥ २.४.१०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.११. एकादशोऽध्यायः । बाणप्रलम्बवधपूर्वक कुमारविजयवर्णनं लिङ्गस्थापनञ्च ।
ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र क्रौञ्चनामाचलो मुने ।
आजगाम कुमारस्य शरणं बाणपीडितः ॥ १॥
पलायमानो यो युद्धादसोढा तेज ऐश्वरम् ।
तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः ॥ २॥
प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् ।
प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात् ॥ ३॥
क्रौञ्च उवाच
कुमार स्कन्द देवेश तारकासुरनाशक ।
पाहि मां शरणापन्नं बाणासुरनिपीडितम् ॥ ४॥
सङ्गरात्ते महासेन समुच्छिन्नः पलायितः ।
न्यपीडयच्च माऽऽगत्य हा नाथ करुणाकर ॥ ५॥
तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः ।
पलायमानो देवेश शरजन्मन् दयां कुरु ॥ ६॥
दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु ।
दैत्यघ्नस्त्वं विशेषेण देवावनकरः स्वराट् ॥ ७॥
ब्रह्मोवाच
इति क्रौञ्चस्तुतःस्कन्दः प्रसन्नो भक्तपालकः ।
गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया ॥ ८॥
चिक्षेप तां समुद्दिश्य स बाणं शङ्करात्मजः ।
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ ९॥
सबलं भस्मसात्कृत्वासुरं तं क्षणमात्रतः ।
गुहोपकण्ठं शक्तिः सा जगाम परमा मुने ॥ १०॥
ततः कुमारः प्रोवाच क्रौञ्चं गिरिवरं प्रभुः ।
निर्भयः स्वगृहं गच्छ नष्टः स सबलोऽसुरः ॥ ११॥
तच्छुत्वा स्वामिवचनं मुदितो गिरिराट् तदा ।
स्तुत्वा गुहं तदारातिं स्वधाम प्रत्यपद्यत ॥ १२॥
ततः स्कन्दो महेशस्य मुदा स्थापितवान्मुने ।
त्रीणि लिङ्गानि तत्रैव पापघ्नानि विधानतः ॥ १३॥
प्रतिज्ञेश्वरनामादौ कपालेश्वरमादरात् ।
कुमारेश्वरमेवाथ सर्वसिद्धिप्रदं त्रयम् ॥ १४॥
पुनःसर्वेश्वरस्तत्र जयस्तम्भसमीपतः ।
स्तम्भेश्वराभिधं लिङ्गं गुहः स्थापितवान्मुदा ॥ १५॥
ततः सर्वे सुरास्तत्र विष्णुप्रभृतयो मुदा ।
लिङ्गं स्थापितवन्तस्ते देवदेवस्य शूलिनः ॥ १६॥
सर्वेषां शिवलिङ्गानां महिमाभूत्तदाद्भुतः ।
सर्वकामप्रदश्चापि मुक्तिदो भक्तिकारिणाम् ॥ १७॥
ततः सर्वे सुरा विष्णुप्रमुखाः प्रीतमानसाः ।
ऐच्छन्गिरिवरं गन्तुं पुरस्कृत्य गुहं मुदा ॥ १८॥
तस्मिन्नवसरे शेषपुत्रः कुमुदनामकः ।
आजगाम कुमारस्य शरणं दैत्यपीडितः ॥ १९॥
प्रलम्बाख्योऽसुरो यो हि रणादस्मात्पलायितः ।
स तत्रोपद्रवं चक्रे प्रबलस्तारकानुगः ॥ २०॥
सोऽथ शेषस्य तनयः कुमुदोऽहिपतेर्महान् ।
कुमारशरणं प्राप्तस्तुष्टाव गिरिजात्मजम् ॥ २१॥
कुमुद उवाच
देवदेव महादेव वरतात महाप्रभो ।
पीडितोऽहं प्रलम्बेन त्वाऽहं शरणमागतः ॥ २२॥
पाहि मां शरणापन्नं प्रलम्बासुरपीडितम् ।
कुमार स्कन्द देवेश तारकारे महाप्रभो ॥ २३॥
त्वं दीनबन्धुः करुणासिन्धुरानतवत्सलः ।
खलनिग्रहकर्ता हि शरण्यश्च सतां गतिः ॥ २४॥
कुमुदेनस्तुतश्चेत्थं विज्ञप्तस्तद्वधाय हि ।
स्वाश्च शक्तिं स जग्राह स्मृत्वा शिवपदाम्बुजौ ॥ २५॥
चिक्षेप तां समुद्दिश्य प्रलम्बं गिरिजासुतः ।
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ २६॥
तं सायुतबलं शक्तिर्द्रुतं कृत्वा च भस्मसात् ।
गुहोपकण्ठं सहसाजगामाक्लिष्टकारिणी ॥ २७॥
ततः कुमारः प्रोवाच कुमुदं नागबालकम् ।
निर्भयः स्वगृहं गच्छ नष्टः स सबलोऽसुरः ॥ २८॥
तच्छुत्वा गुहवाक्यं स कुमुदोऽहिपतेः सुतः ।
स्तुत्वा कुमारं नत्वा च पातालं मुदितो ययौ ॥ २९॥
एवं कुमारविजयं वर्णितं ते मुनीश्वर ।
चरितं तारकवधं परमाश्चर्यकारकम् ॥ ३०॥
सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् ।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३१॥
ये कीर्तयन्ति सुयशोऽमितभाग्ययुता नराः ।
कुमारचरितं दिव्यं शिवलोकं प्रयान्ति ते ॥ ३२॥
श्रोष्यन्ति ये च तत्कीर्तिं भक्त्या श्रद्धान्विता जनाः ।
मुक्तिं प्राप्स्यन्ति ते दिव्यामिह भुक्त्वा परं सुखम् ॥ ३३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे बाणप्रलम्बवध कुमारविजयवर्णनं नामैकादशोऽध्यायः ॥ २.४.११॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१२. द्वादशोऽध्यायः । तारकवधानन्तरं देवैः कृतास्तुतिः ।
ब्रह्मोवाच
निहतं तारकं दृष्ट्वा देवा विष्णुपुरोगमाः ।
तुष्टुवुः शाङ्करिं भक्त्या सर्वेऽन्ये मुदिताननाः ॥ १॥
देवा ऊचुः ।
नमः कल्याणरूपाय नमस्ते विश्वमङ्गल ।
विश्वबन्धो नमस्तेऽस्तु नमस्ते विश्वभावन ॥ २॥
नमोस्तु ते दानववर्यहन्त्रे
बाणासुरप्राणहराय देव ।
प्रलम्बनाशाय पवित्ररूपिणे
नमोनमः शङ्करतात तुभ्यम् ॥ ३॥
त्वमेव कर्त्ता जगतां च भर्त्ता
त्वमेव हर्त्ता शुचिज प्रसीद ।
प्रपञ्चभूतस्तव लोकबिम्बः
प्रसीद शम्भ्वात्मज दीनबन्धो ॥ ४॥
देवरक्षाकर स्वामिन् रक्ष नः सर्वदा प्रभो ।
देवप्राणावनकर प्रसीद करुणाकर ॥ ५॥
हत्वा त्वं तारकं दैत्यं परिवारयुतं विभो ।
मोचिताः सकला देवा विपद्भ्यः परमेश्वर ॥ ६॥
ब्रह्मोवाच
एवं स्तुतः कुमारोऽसौ देवैर्विष्णुमुखैः प्रभुः ।
वरान्ददावभिनवान्सर्वेभ्यः क्रमशो मुने ॥ ७॥
शैलान्निरीक्ष्य स्तुवतस्ततःस गिरिशात्मजः ।
सुप्रसन्नतरो भूत्वा प्रोवाच प्रददद्वरान् ॥ ८॥
स्कन्द उवाच
यूयं सर्वे पर्वता हि पूजनीयास्तपस्विभिः ।
कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ ॥ ९॥
शम्भोर्विशिष्टरूपाणि लिङ्गरूपाणि चैव हि ।
भविष्यथ न सन्देहः पर्वता वचनान्मम ॥ १०॥
योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः ।
तपस्विनां महाभागः फलदो हि भविष्यति ॥ ११॥
देवा ऊचुः ।
एवं दत्त्वा वरान् हत्वा तारकं चासुराधिपम् ।
त्वया कृताश्च सुखिनो वयं सर्वे चराचराः ॥ १२॥
इदानीं खलु सुप्रीत्या कैलासं गिरिशालयम् ।
जननी जनकौ द्रष्टुं शिवाशम्भू त्वमर्हसि ॥ १३॥
ब्रह्मोवाच
इत्युक्त्वा निखिला देवा विष्ण्वाद्याः प्राप्तशासनाः ।
कृत्वा महोत्सवं भूरि सकुमारा ययुर्गिरिम् ॥ १४॥
कुमारे गच्छति विभौ कैलासं शङ्करालयम् ।
महामङ्गलमुत्तस्थौ जयशब्दो बभूव ह ॥ १५॥
आरुरोह कुमारोऽसौ विमानं परमर्द्धिमत् ।
सर्वतोलङ्कृतं रम्यं सर्वोपरि विराजितम् ॥ १६॥
अहं विष्णुश्च समुदौ तदा चामरधारिणौ ।
गुह मूर्ध्नि महाप्रीत्या मुनेऽभूवं ह्यतन्द्रितौ ॥ १७॥
इन्द्राद्या अमराः सर्वे कुर्वन्तो गुहसेवनम् ।
यथोचितं चतुर्दिक्षु जग्मुश्च प्रमुदास्तदा ॥ १८॥
शम्भोर्जयं प्रभाषन्तः प्रापुस्ते शम्भुपर्वतम् ।
सानन्दा विविशुस्तत्रोच्चरितो मङ्गलध्वनिः ॥ १९॥
दृष्ट्वा शिवं शिवां चैव सर्वे विष्ण्वादयो द्रुतम् ।
प्रणम्य शङ्करं भक्त्या करौ बद्ध्वा विनम्रकाः ॥ २०॥
कुमारोऽपि विनीतात्मा विमानादवतीर्य च ।
प्रणनाम मुदा शम्भुं शिवां सिंहासनस्थिताम् ॥ २१॥
अथ दृष्ट्वा कुमारं तं तनयं प्राणवल्लभम् ।
तौ दम्पती शिवौ देवौ मुमुदातेऽति नारद ॥ २२॥
महाप्रभुःसमुत्थाप्य तमुत्सङ्गे न्यवेशयत् ।
मूर्ध्नि जघ्रौ मुदा स्नेहात्तं पस्पर्श करेण ह ॥ २३॥
महानन्दभरः शम्भुश्चकार मुखचुम्बनम् ।
कुमारस्य महास्नेहात् तारकारेर्महाप्रभोः ॥ २४॥
शिवापि तं समुत्थाप्य स्वोत्सङ्गे संन्यवेशयत् ।
कृत्वा मूर्ध्नि महास्नेहात् तन्मुखाब्जं चुचुम्ब हि ॥ २५॥
तयोस्तदा महामोदो ववृधेऽतीव नारद ।
दम्पत्योः शिवयोस्तात भवाचारं प्रकुर्वतोः ॥ २६॥
तदोत्सवो महानासीन्नानाश्चर्यः शिवालये ।
जयशब्दो नमश्शब्दो बभूवातीव सर्वतः ॥ २७॥
ततःसुरगणाः सर्वे विष्ण्वाद्या मुनयस्तथा ।
सुप्रणम्य मुदा शम्भुं तुष्टुवुः सशिवं मुने ॥ २८॥
देवा ऊचुः ।
देवदेव महादेव भक्तानामभयप्रद ।
नमो नमस्ते बहुशः कृपाकर महेश्वर ॥ २९॥
अद्भुता ते महादेव महालीला सुखप्रदा ।
सर्वेषां शङ्कर सतां दीनबन्धो महाप्रभो ॥ ३०॥
एवं मूढधियश्चाज्ञाः पूजायां ते सनातनम् ।
आवाहनं न जानीमो गतिं नैव प्रभोद्भुताम् ॥ ३१॥
गङ्गासलिलधाराय ह्याधाराय गुणात्मने ।
नमस्ते त्रिदशेशाय शङ्कराय नमोनमः ॥ ३२॥
वृषाङ्काय महेशाय गणानां पतये नमः ।
सर्वेश्वराय देवाय त्रिलोकपतये नमः ॥ ३३॥
संहर्त्रे जगतां नाथ सर्वेषां ते नमो नमः ।
भर्त्रे कर्त्रे च देवेश त्रिगुणेशाय शाश्वते ॥ ३४॥
विसङ्गाय परेशाय शिवाय परमात्मने ।
निष्प्रपञ्चाय शुद्धाय परमायाव्ययाय च ॥ ३५॥
दण्डहस्ताय कालाय पाशहस्ताय ते नमः ।
वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः ॥ ३६॥
भूतं भव्यं भविष्यं च स्थावरं जङ्गमं च यत् ।
तव देहात्समुत्पन्नं सर्वथा परमेश्वर ॥ ३७॥
पाहि नः सर्वदा स्वामिन्प्रसीद भगवन्प्रभो ।
वयं ते शरणापन्नाः सर्वथा परमेश्वर ॥ ३८॥
शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः ।
अरूपाय सरूपाय विश्वरूपाय ते नमः ॥ ३९॥
शिवाय नीलकण्ठाय चिताभस्माङ्गधारिणे ।
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमोनमः ॥ ४०॥
सर्वप्रणतदेहाय संयमप्रणताय च ।
महादेवाय शर्वाय सर्वार्चितपदाय च ॥ ४१॥
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ।
आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यसे ॥ ४२॥
पर्वतानां सुमेरुस्त्वं नक्षत्राणां च चन्द्रमाः ।
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ॥ ४३॥
ॐङ्कारस्सर्ववेदानां त्राता भव महेश्वर ।
त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ॥ ४४॥
महेश्वर महाभाग शुभाशुभनिरीक्षक ।
आप्यायास्मान्हि देवेश कर्तॄन्वै वचनं तव ॥ ४५॥
रूपकोटिसहस्रेषु रूपकोटिशतेषु ते ।
अन्तं गन्तुं न शक्ताः स्म देवदेव नमोऽस्तु ते ॥ ४६॥
ब्रह्मोवाच
इति स्तुत्वाऽखिला देवा विष्ण्वाद्याःप्रमुखस्थिताः ।
मुहुर्मुहुस्सुप्रणम्य स्कन्दं कृत्वा पुरस्सरम् ॥ ४७॥
देवस्तुतिं समाकर्ण्य शिवःसर्वेश्वरः स्वराट् ।
सुप्रसन्नो बभूवाथ विजहास दयापरः ॥ ४८॥
उवाच सुप्रसन्नात्मा विष्ण्वादीन्सुरसत्तमान् ।
शङ्करः परमेशानो दीनबन्धुःसतां गतिः ॥ ४९॥
शिव उवाच
हे हरे हे विधे देवा वाक्यं मे शृणुतादरात् ।
सर्वथाऽहं सतां त्राता देवानां वः कृपानिधिः ॥ ५०॥
दुष्टहन्ता त्रिलोकेशः शङ्करो भक्तवत्सलः ।
कर्ता भर्ता च हर्ता च सर्वेषां निर्विकारवान् ॥ ५१॥
यदा यदा भवेद्दुःखं युष्माकं देवसत्तमाः ।
तदा तदा मां यूयं वै भजन्तु सुखहेतवे ॥ ५२॥
ब्रह्मोवाच
इत्याज्ञप्तास्तदा देवा विष्ण्वाद्याः समुनीश्वराः ।
शिवां प्रणम्य सशिवं कुमारं च मुदान्विताः ॥ ५३॥
कथयन्तो यशो रम्यं शिवयोः शाङ्करेश्च तत् ।
आनन्दं परमं प्राप्य स्वधामानि ययुर्मुने ॥ ५४॥
शिवोऽपि शिवया सार्द्धं सगणः परमेश्वरः ।
कुमारेणयुतः प्रीत्योवास तस्मिन्गिरौ मुदा ॥ ५५॥
इत्येवं कथितं सर्वं कौमारं चरितं मुने ।
शैवं च सुखदं दिव्यं किमन्यच्छ्रोतुमिच्छसि ॥ ५६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनं नाम द्वादशोऽध्यायः ॥ २.४.१२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१३. त्रयोदशोऽध्यायः । गणेशोत्पत्तिः ।
सूत उवाच
तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ।
नारदः सुप्रसन्नोऽथ पप्रच्छ प्रीतितो विधिम् ॥ १॥
नारद उवाच
देवदेव प्रजानाथ शिवज्ञाननिधे मया ।
श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ॥ २॥
अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ।
तज्जन्मचरितं दिव्यं सर्वमङ्गलमङ्गलम् ॥ ३॥
सूत उवाच
इत्याकर्ण्य वचस्तस्य नारदस्य महामुनेः ।
प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन् ॥ ४॥
ब्रह्मोवाच
कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात् ।
शनिदृष्टं शिरश्छिन्नं सञ्चितं गाजमाननम् ॥ ५॥
इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ।
यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना ॥ ६॥
सन्देहो नात्र कर्तव्यः शङ्करस्सूतिकृन्मुने ।
स हि सर्वाधिपः शम्भुर्निर्गुणः सगुणोऽपि हि ॥ ७॥
तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ।
विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात् ॥ ८॥
उद्वाहिते शिवे चात्र कैलासं च गते सति ।
कियता चैव कालेन जातो गणपतेर्भवः ॥ ९॥
एकस्मिन्नेव काले च जया च विजया सखी ।
पार्वत्या च मिलित्वा वै विचारे तत्पराभवत् ॥ १०॥
रुद्रस्य च गणाःसर्वे शिवस्याज्ञापरायणाः ।
ते सर्वेऽप्यस्मदीयाश्च नन्दिभृङ्गिपुरस्सराः ॥ ११॥
प्रमथास्ते ह्यसङ्ख्याता अस्मदीयो न कश्चन ।
द्वारि तिष्ठन्ति ते सर्वे शङ्कराज्ञापरायणाः ॥ १२॥
ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ।
एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे ॥ १३॥
ब्रह्मोवाच
इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ।
हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति ॥ १४॥
ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ।
नन्दिनं परिभर्त्स्याथ ह्याजगाम गृहान्तरम् ॥ १५॥
आयान्तं शङ्करं दृष्ट्वाऽसमये जगदम्बिका ।
उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ॥ १६॥
तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ।
तदीयं तद्वचश्चैव हितं मेने सुखावहम् ॥ १७॥
एवं जाते तदा काले कदाचित्पार्वती शिवा ।
विचिन्त्य मनसा चेति परमाया परेश्वरी ॥ १८॥
मदीयः सेवकः कश्चिद्भवेच्छुभतरः कृती ।
मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह ॥ १९॥
विचार्येति च सा देवी वपुषो मलसम्भवम् ।
पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम् ॥ २०॥
सर्वावयवनिर्दोषं सर्वावयव सुन्दरम् ।
विशालं सर्वशोभाढ्यं महाबलपराक्रमम् ॥ २१॥
वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ।
नानालङ्करणं चैव बह्वाशिषमनुत्तमाम् ॥ २२॥
मत्पुत्रस्त्वं मदीयोऽसि नान्यः कश्चिदिहास्ति मे ।
एवमुक्तः स पुरुषो नमस्कृत्य शिवां जगौ ॥ २३॥
गणेश उवाच
किं कार्यं विद्यते तेऽद्य करवाणि तवोदितम् ।
इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा ॥ २४॥
शिवोवाच
हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे ।
मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे ॥ २५॥
विना मदाज्ञां सत्पुत्र नैवायान्मद्गृहान्तरम् ।
कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम् ॥ २६॥
ब्रह्मोवाच
इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ।
तदीयं रूपमालोक्य सुन्दरं हर्षमागता ॥ २७॥
मुखमाचुम्ब्य सुप्रीत्यालिङ्ग्य तं कृपया सुतम् ।
स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम् ॥ २८॥
अथ देवीसुतस्तात गृहद्वारि स्थितो गणः ।
यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया ॥ २९॥
स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा ।
स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता ॥ ३०॥
एतस्मिन्नेव काले तु शिवो द्वारि समागतः ।
कौतुकी मुनिर्शादूल नानालीलाविशारदः ॥ ३१॥
उवाच च शिवेशं तमविज्ञाय गणाधिपः ।
मातुराज्ञां विना देव गम्यतां न त्वयाधुना ॥ ३२॥
मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना ।
इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत् ॥ ३३॥
तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः ।
मां न जानास्यसद्बुद्धे शिवोऽहमिति नान्यथा ॥ ३४॥
ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः ।
प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः ॥ ३५॥
शिव उवाच
मुर्खोऽसि त्वं न जानासि शिवोऽहं गिरिजापतिः ।
स्वगृहं यामि रे बाल निषेधसि कथं हि माम् ॥ ३६॥
ब्रह्मोवाच
इत्युक्त्वा प्रविशन्तं तं महेशं गणनायकः ।
क्रोधं कृत्वा ततो विप्र दण्डेनाताडयत्पुनः ॥ ३७॥
ततश्शिवश्च सङ्क्रुद्धो गणानाज्ञापयन्निजान् ।
को वाऽयं वर्तते किं च क्रियते पश्यतां गणाः ॥ ३८॥
इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः ।
भवाचाररतःस्वामी बह्वद्भुतसुलीलकः ॥ ३९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ २.४.१३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१४. चतुर्दशोऽध्यायः । गणेशेन सह शिवगणानां विवादवर्णनम् ।
ब्रह्मोवाच
गणास्ते क्रोधसम्पन्नास्तत्र गत्वा शिवाज्ञया ।
पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम् ॥ १॥
शिवगणा ऊचुः
कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि ।
इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि ॥ २॥
ब्रह्मोवाच
तदीयं तद्वचः श्रुत्वा गिरिजातनयः स वै ।
निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम् ॥ ३॥
गणेश उवाच
यूयं के कुत आयाता भवन्तः सुन्दरा इमे ।
यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः ॥ ४॥
ब्रह्मोवाच
एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम् ।
ऊचुःसर्वे शिवगणा महावीरा गतस्मयाः ॥ ५॥
परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः ।
द्वारपालं गणेशं तं प्रत्यूचुः क्रुद्धमानसाः ॥ ६॥
शिवगणा ऊचुः
श्रूयतां द्वारपाला हि वयं शिवगणा वराः ।
त्वां निवारयितुं प्राप्ताः शङ्करस्याज्ञया विभोः ॥ ७॥
त्वामपीह गणं मत्वा न हन्यामोऽन्यथा हतः ।
तिष्ठ दूरे स्वतः त्वं च किमर्थं मृत्युमीहसे ॥ ८॥
ब्रह्मोवाच
इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः ।
निर्भर्त्स्य शङ्करगणान्न द्वारं मुक्तवांस्तदा ॥ ९॥
ते सर्वेऽपि गणाः शैवाः तत्रत्या वचनं तदा ।
श्रुत्वा तत्र शिवं गत्वा तद्वृत्तान्तमथाब्रुवन् ॥ १०॥
ततश्च तद्वचः श्रुत्वाद्भुतलीलो महेश्वरः ।
विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने ॥ ११॥
महेश्वर उवाच
कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः ।
किं करिष्यत्यसद्बुद्धिः स्वमृत्युं वाञ्छति ध्रुवम् ॥ १२॥
दूरतः क्रियतां ह्येष द्वारपालो नवीनकः ।
क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम् ॥ १३॥
स्वामिनोक्ता गणास्ते चाद्भुतलीलेन शम्भुना ।
पुनरागत्य तत्रैव तमूचुर्द्वारपालकम् ॥ १४॥
शिवगणा ऊचुः ।
रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः ।
नैवास्मान्गणयस्येवं कथं जीवितुमिच्छसि ॥ १५॥
द्वारपाला वयं सर्वे स्थिताः किं परिभाषसे ।
सिंहासनगृहीतश्च शृगालः शिवमीहते ॥ १६॥
तावद्गर्जसि मूर्ख त्वं यावद्गणपराक्रमः ।
नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि ॥ १७॥
इत्युक्तस्तैस्सुसङ्क्रुद्धो हस्ताभ्यां यष्टिकां तदा ।
गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः ॥ १८॥
उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् ।
शङ्करस्य महावीरान्निर्भयस्तान्गणेश्वरः ॥ १९॥
शिवापुत्र उवाच
यात यात इतो दूरे नो चेद्वो दर्शयामि ह ।
स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम् ॥ २०॥
इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि ।
परस्परमथोचुस्ते शङ्करस्य गणास्तदा ॥ २१॥
शिवगणा ऊचुः ।
किं कर्तव्यं क्व गन्तव्यं क्रियते स न किं पुनः ।
मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च ॥ २२॥
ब्रह्मोवाच
ततः शम्भुगणाःसर्वे शिवं दूरे व्यवस्थितम् ।
क्रोशमात्रं तु कैलासाद्गत्वा ते च तथाऽब्रुवन् ॥ २३॥
शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः ।
उवाच परमेशो हि स्वगणान् वीरसम्मतान् ॥ २४॥
शिव उवाच
रे रे गणाः क्लीबमता न वीरा वीरमानिनः ।
मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत् ॥ २५॥
गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह ।
बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः ॥ २६॥
ब्रह्मोवाच
इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर ।
भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः ॥ २७॥
शिवगणा ऊचुः ।
रेरे त्वं शृणु वै बाल बलात्किं परिभाषसे ।
इतस्त्वं दूरतो याहि नो चेन्मृत्युर्भविष्यति ॥ २८॥
ब्रह्मोवाच
इति श्रुत्वा वचस्तेषां शिवाज्ञाकारिणां ध्रुवम् ।
शिवासुतस्तदाभूत्स किं करोमीति दुःखितः ॥ २९॥
एतस्मिन्नन्तरे देवी तेषां तस्य च वै पुनः ।
श्रुत्वा तु कलहं द्वारि सखीं पश्येति साब्रवीत् ॥ ३०॥
समागत्य सखी तत्र वृत्तान्तं समबुध्यत ।
क्षणमात्रं तदा दृष्ट्वा गता हृष्टा शिवान्तिकम् ॥ ३१॥
तत्र गत्वा तु तत्सर्वं वृत्तं तद्यदभून्मुने ।
अशेषेण तया सख्या कथितं गिरिजाग्रतः ॥ ३२॥
सख्युवाच
अस्मदीयो गणो यो हि स्थितो द्वारि महेश्वरि ।
निर्भर्त्सयन्ति तं वीराः शङ्करस्य गणा ध्रुवम् ॥ ३३॥
शिवश्चैव गणाः सर्वे विना तेऽवसरं कथम् ।
प्रविशन्ति हठाद्गेहे नैतच्छुभतरं तव ॥ ३४॥
सम्यक् कृतं ह्यनेनैव न हि कोऽपि प्रवेशितः ।
दुःखं चैवानुभूयात्र तिरस्कारादिकं तथा ॥ ३५॥
अतः परन्तु वाग्वादः क्रियते च परस्परम् ।
वाग्वादे च कृते नैव तर्ह्यायान्तु सुखेन वै ॥ ३६॥
कृतश्चैवात्र वाग्वादस्तं जित्वा विजयेन च ।
प्रविशन्तु तथा सर्वे नान्यथा कर्हिचित्प्रिये ॥ ३७॥
अस्मिन्नेवास्मदीये वै सर्वे सम्भर्त्सिता वयम् ।
तस्माद्देवि त्वया भद्रे न त्याज्यो मान उत्तमः ॥ ३८॥
शिवो मर्कटवत्तेऽद्य वर्तते सर्वदा सति ।
किं करिष्यत्यहङ्कारमानुकूल्यं भविष्यति ॥ ३९॥
ब्रह्मोवाच
अहो क्षणं स्थिता तत्र शिवेच्छा वशतःसती । ४०॥
मनस्युवाच सा भूत्वा मानिनी पार्वती तदा । ४१॥
शिवोवाच
अहो क्षणं स्थितो नैव हठात्कारः कथं कृतः ।
कथं चैवात्र कर्त्तव्यं विनयेनाथ वा पुनः ॥ ४२॥
भविष्यति भवत्येव कृतं नैवान्यथा पुनः ।
इत्युक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा ॥ ४३॥
समागत्याऽब्रवीत्सा च प्रियया कथितं हि यत् ।
समाचष्ट गणेशं तं गिरिजातनयं तदा ॥ ४४॥
सख्युवाच
सम्यक्कृतं त्वया भद्र बलात्ते प्रविशन्तु न ।
भवदग्रे गणा ह्येते किं जयन्तु भवादृशम् ॥ ४५॥
कृतं चेद्वाकृतं चैव कर्त्तव्यं क्रियतां त्वया ।
जितो यस्तु पुनर्वापि न वैरमथ वा ध्रुवम् ॥ ४६॥
ब्रह्मोवाच
इति श्रुत्वा वचस्तस्या मातुश्चैव गणेश्वरः ।
आनन्दं परमं प्राप बलं भूरि महोन्नतिम् ॥ ४७॥
बद्धकक्षस्तथोष्णीषं बद्ध्वा जङ्घोरु संस्पृशन् ।
उवाच तान् गणान् सर्वान् निर्भयं वचनं मुदा ॥ ४८॥
गणेश उवाच
अहं च गिरिजासूनुर्यूयं शिवगणास्तथा ।
उभये समतां प्राप्ताः कर्तव्यं क्रियतां पुनः ॥ ४९॥
भवन्तो द्वारपालाश्च द्वारपोऽहं कथं न हि ।
भवन्तश्च स्थितास्तत्राऽहं स्थितोऽत्रेति निश्चितम् ॥ ५०॥
भवद्भिश्च स्थितं ह्यत्र यदा भवति निश्चितम् ।
तदा भवद्भिः कर्त्तव्यं शिवाज्ञापरिपालनम् ॥ ५१॥
इदानीं तु मया चात्र शिवाज्ञापरिपालनम् ।
सत्यं च क्रियते वीरा निर्णीतं मे यथोचितम् ॥ ५२॥
तस्माच्छिवगणाःसर्वे वचनं शृणुतादरात् ।
हठाद्वा विनयाद्वा न गन्तव्यं मन्दिरे पुनः ॥ ५३॥
ब्रह्मोवाच
इत्युक्तास्ते गणेनैव सर्वे ते लज्जिता गणाः ।
ययुः शिवान्तिकं तं वै नमस्कृत्य पुरः स्थिताः ॥ ५४॥
स्थित्वा न्यवेदयन्सर्वे वृत्तान्तं च तदद्भुतम् ।
करौ बद्ध्वा नतस्कन्धाः शिवं स्तुत्वा पुरः स्थिताः ॥ ५५॥
तत्सर्वं तु तदा श्रुत्वा वृत्तं तत्स्वगणोदितम् ।
लौकिकीं वृत्तिमाश्रित्य शङ्करो वाक्यमब्रवीत् ॥ ५६॥
शङ्कर उवाच
श्रूयतां च गणाःसर्वे युद्धं योग्यं भवेन्न हि ।
यूयं चात्रास्मदीया वै स च गौरीगणस्तथा ॥ ५७॥
विनयः क्रियते चेद्वै वश्यः शम्भुः स्त्रिया सदा ।
इति ख्यातिर्भवेल्लोके गर्हिता मे गणा ध्रुवम् ॥ ५८॥
कृते चैवात्र कर्तव्यमिति नीतिर्गरीयसी ।
एकाकी स गणो बालः किं करिष्यति विक्रमम् ॥ ५९॥
भवन्तश्च गणा लोके युद्धे चाति विशारदाः ।
मदीयाश्च कथं युद्धं हित्वा यास्यथ लाघवम् ॥ ६०॥
स्त्रियाऽऽग्रहः कथं कार्यो पत्युरग्रे विशेषतः ।
कृत्वा सा गिरिजा तस्य नूनं फलमवाप्स्यति ॥ ६१॥
तस्मात्सर्वे च मद्वीराः शृणुतादरतो वचः ।
कर्त्तव्यं सर्वथा युद्धं भावि यत्तद्भवत्विति ॥ ६२॥
ब्रह्मोवाच
इत्युक्त्वा शङ्करो ब्रह्मन् नानालीलाविशारदः ।
विरराम मुनिश्रेष्ठ दर्शयँल्लौकिकीं गतिम् ॥ ६३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणविवादवर्णनं नाम चतुर्दशोऽध्यायः ॥ २.४.१४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१५. पञ्चदशोऽध्यायः । शिवगणैः सह गणेशयुद्धवर्णनम् ।
ब्रह्मोवाच
इत्युक्ता विभुना तेन निश्चयं परमं गताः ।
सन्नद्धास्तु तदा तत्र जग्मुश्च शिवमन्दिरम् ॥ १॥
गणेशोऽपि तथा दृष्ट्वा ह्यायातान्गणसत्तमान् ।
युद्धाऽऽटोपं विधायैव स्थितांश्चैवाब्रवीदिदम् ॥ २॥
गणेश उवाच
आयान्तु गणपाः सर्वे शिवाज्ञापरिपालकाः ।
अहमेकश्च बालश्च शिवाज्ञापरिपालकः ॥ ३॥
तथापि पश्यतां देवी पार्वती सूनुजं बलम् ।
शिवश्च स्वगणानां तु बलं पश्यतु वै पुनः ॥ ४॥
बलवद्बालयुद्धं च भवानीशिवपक्षयोः ।
भवद्भिश्च कृतं युद्धं पूर्वं युद्धविशारदैः ॥ ५॥
मया पूर्वं कृतं नैव बालोऽस्मि क्रियतेऽधुना ।
तथापि भवतां लज्जा गिरिजाशिवयोरिह ॥ ६॥
ममैवं तु भवेन्नैव वैपरीत्यं भविष्यति ।
ममैव भवतां लज्जा गिरिजाशिवयोरिह ॥ ७॥
एवं ज्ञात्वा च कर्त्तव्यः समरश्च गणेश्वराः ।
भवद्भिः स्वामिनं दृष्ट्वा मया च मातरं तदा ॥ ८॥
क्रियते कीदृशं युद्धं भवितव्यं भवत्विति ।
तस्य वै वारणे कोऽपि न समर्थस्त्रिलोकके ॥ ९॥
ब्रह्मोवाच
इत्येवं भर्त्सितास्ते तु दण्डभूषितबाहवः ।
विविधान्यायुधान्येवं धृत्वा ते च समाययुः ॥ १०॥
घर्षयन्तस्तथा दन्तान् हुङ्कृत्य च पुनः पुनः ।
पश्य पश्य ब्रुवन्तश्च गणास्ते समुपागताः ॥ ११॥
नन्दी प्रथममागत्य धृत्वा पादं व्यकर्षयत् ।
धावन्भृङ्गी द्वितीयं च पादं धृत्वा गणस्य च ॥ १२॥
यावत्पादे विकर्षन्तौ तावद्धस्तेन वै गणः ।
आहत्य हस्तयोस्ताभ्यामुत्क्षिप्तौ पादकौ स्वयम् ॥ १३॥
अथ देवीसुतो वीरस्सङ्गृह्य परिघं बृहत् ।
द्वारस्थितो गणपतिः सर्वानापोथयत्तदा ॥ १४॥
केषाञ्चित्पाणयो भिन्नाः केषाञ्चित्पृष्ठकानि च ।
केषाञ्चिच्च शिरांस्येव केषाञ्चिन्मस्तकानि च ॥ १५॥
केषाञ्चिज्जानुनी तत्र केषाञ्चित्स्कन्धकास्तथा ।
केषाञ्चिज्जानुनी तत्र केषाञ्चित्स्कन्धास्तथा ।
सम्मुखे चागता ये वै ते सर्वे हृदये हताः ॥ १६॥
केचिच्च पतिता भूमौ केचिच्च विदिशो गताः ।
केषाञ्चिच्चरणौ छिन्नौ केचिच्छर्वान्तिकं गताः ॥ १७॥
तेषां मध्ये तु कश्चिद्वै सङ्ग्रामे सम्मुखो न हि ।
सिंहं दृष्ट्वा यथा यान्ति मृगाश्चैव दिशो दश ॥ १८॥
तथा ते च गणाः सर्वे गताश्चैव सहस्रशः ।
परावृत्य तथा सोऽपि सुद्वारि समुपस्थितः ॥ १९॥
कल्पान्तकरणे कालो दृश्यते च भयङ्करः ।
यथा तथैव दृष्टः स सर्वेषां प्रलयङ्करः ॥ २०॥
एतस्मिन्समये चैव सरमेशसुरेश्वराः ।
प्रेरिता नारदेनेह देवाः सर्वे समागमन् ॥ २१॥
समब्रुवंस्तदा सर्वे शिवस्य हितकाम्यया ।
पुरः स्थित्वा शिवं नत्वा ह्याज्ञां देहि प्रभो इति ॥ २२॥
त्वं परब्रह्म सर्वेशः सर्वे च तव सेवकाः ।
सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः ॥ २३॥
रजस्सत्त्वतमोरूपो लीलया निर्गुणः स्वतः ।
का लीला रचिता चाद्य तामिदानीं वद प्रभो ॥ २४॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां मुनिश्रेष्ठ महेश्वरः ।
गणान् भिन्नाँस्तदा दृष्ट्वा तेभ्यस्सर्वं न्यवेदयत् ॥ २५॥
अथ सर्वेश्वरस्तत्र शङ्करो मुनिसत्तम ।
विहस्य गिरिजानाथो ब्रह्माणं मामुवाच ह ॥ २६॥
शिव उवाच
ब्रह्मञ्छृणु मम द्वारि बाल एकः समास्थितः ।
महाबलो यष्टिपाणिर्गेहावेशनिवारकः ॥ २७॥
महाप्रहारकर्ताऽसौ मत्पार्षदविघातकः ।
पराजयः कृतस्तेन मद्गणानां बलादिह ॥ २८॥
ब्रह्मन् त्वयैव गन्तव्यं प्रसाद्योऽयं महाबलः ।
यथा ब्रह्मन्नयः स्याद्वै तथा कार्यं त्वया विधे ॥ २९॥
ब्रह्मोवाच
इत्याकर्ण्य प्रभोर्वाक्यमज्ञात्वाऽज्ञानमोहितः ।
तदीयनिकटं तात सर्वैरृषिवरैरयाम् ॥ ३०॥
समायान्तं च मां दृष्ट्वा स गणेशो महाबली ।
क्रोधं कृत्वा समभ्येत्य मम श्मश्रूण्यवाकिरत् ॥ ३१॥
क्षम्यतां क्षम्यतां देव न युद्धार्थं समागतः ।
ब्राह्मणोऽहमनुग्राह्यः शान्तिकर्तानुपद्रवः ॥ ३२॥
इत्येवं ब्रुवति ब्रह्मंस्तावत्परिघमाददे ।
स गणेशो महावीरो बालोऽबालपराक्रमः ॥ ३३॥
गृहीतपरिघं दृष्ट्वा तं गणेशं महाबलम् ।
पलायनपरो यातस्त्वहं द्रुततरं तदा ॥ ३४॥
यात यात ब्रुवन्तस्ते परिघेन हतास्तदा ।
स्वयं च पतिताः केचित्केचित्तेन निपातिताः ॥ ३५॥
केचिच्च शिवसामीप्यं गत्वा तत्क्षणमात्रतः ।
शिवं विज्ञापयाञ्चक्रुस्तद्वृत्तान्तमशेषतः ॥ ३६॥
तथाविधांश्च तान् दृष्ट्वा तद्वृत्तान्तं निशम्य सः ।
अपारमादधे कोपं हरो लीलाविशारदः ॥ ३७॥
इन्द्रादिकान्देवगणान् षण्मुखप्रवरान् गणान् ।
भूतप्रेतपिशाचांश्च सर्वानादेशयत्तदा ॥ ३८॥
ते सर्वे च यथायोग्यं गतास्ते सर्वतो दिशम् ।
तं गणं हन्तुकामा हि शिवाज्ञप्ता उदायुधाः ॥ ३९॥
यस्य यस्यायुधं यच्च तत्तत्सर्वं विशेषतः ।
तद् गणेशोपरि बलात्समागत्य विमोचितम् ॥ ४०॥
हाहाकारो महानासीत् त्रैलोक्ये सचराचरे ।
त्रिलोकस्था जनाः सर्वे संशयं परमं गताः ॥ ४१॥
न यातं ब्रह्मणोऽप्यायुर्ब्रह्माण्डं क्षयमेति हि ।
अकाले च तथा नूनं शिवेच्छावशतः स्वयम् ॥ ४२॥
ते सर्वे चागतास्तत्र षण्मुखाद्याश्च ये पुनः ।
देवा व्यर्थायुधा जाता आश्चर्यं परमं गताः ॥ ४३॥
एतस्मिन्नन्तरे देवी जगदम्बा विबोधना ।
ज्ञात्वा तच्चरितं सर्वमपारं क्रोधमादधे ॥ ४४॥
शक्तिद्वयं तदा तत्र तया देव्या मुनीश्वर ।
निर्मितं स्वगणस्यैव सर्वसाहाय्यहेतवे ॥ ४५॥
एका प्रचण्डरूपं च धृत्वातिष्ठन्महामुने ।
श्यामपर्वतसङ्काशं विस्तीर्य मुखगह्वरम् ॥ ४६॥
एका विद्युत्स्वरूपा च बहुहस्तसमन्विता ।
भयङ्करा महादेवी दुष्टदण्डविधायिनी ॥ ४७॥
आयुधानि च सर्वाणि मोचितानि सुरैर्गणैः ।
गृहीत्वा स्वमुखे तानि ताभ्यां शीघ्रं च चिक्षिपे ॥ ४८॥
देवायुधं न दृश्येत परिघः परितः पुनः ।
एवं ताभ्यां कृतं तत्र चरितं परमाद्भुतम् ॥ ४९॥
एको बालोऽखिलं सैन्यं लोडयामास दुस्तरम् ।
यथा गिरिवरेणैव लोडितः सागरः पुरा ॥ ५०॥
एकेन निहताः सर्वे शक्राद्या निर्जरास्तथा ।
शङ्करस्य गणाश्चैव व्याकुला अभवंस्तदा ॥ ५१॥
अथ सर्वे मिलित्वा ते निःश्वस्य च मुहुर्मुहुः ।
परस्परं समूचुस्ते तत्प्रहारसमाकुलाः ॥ ५२॥
देवगणा ऊचुः
किं कर्तव्यं क्व गन्तव्यं न ज्ञायन्ते दिशो दश ।
परिघं भ्रामयत्येष सव्यापसव्यमेव च ॥ ५३॥
ब्रह्मोवाच
एतत्कालेऽप्सरः श्रेष्ठाः पुष्पचन्दनपाणयः ।
ऋषयश्च त्वदाद्या हि येऽतियुद्धेऽतिलालसाः ॥ ५४॥
ते सर्वे च समाजग्मुर्युद्धसन्दर्शनाय वै ।
पूरितो व्योम सन्मार्गस्तैस्तदा मुनिसत्तम ॥ ५५॥
तास्ते दृष्ट्वा रणं तं वै महाविस्मयमागताः ।
ईदृशं परमं युद्धं न दृष्टं चैकदापि हि ॥ ५६॥
पृथिवी कम्पिता तत्र समुद्रसहिता तदा ।
पर्वताः पतिताश्चैव चक्रुः सङ्ग्रामसम्भवम् ॥ ५७॥
द्यौर्ग्रहर्क्षगणैर्घूर्ण्णा सर्वे व्याकुलतां गताः ।
देवाः पलायिताःसर्वे गणाश्च सकलास्तदा ॥ ५८॥
केवलं षण्मुखस्तत्र नापलायत विक्रमी ।
महावीरस्तदा सर्वानावार्य पुरतः स्थितः ॥ ५९॥
शक्तिद्वयेन तद्युद्धे सर्वे च निष्फलीकृताः ।
सर्वास्त्राणि निकृत्तानि सङ्क्षिप्तान्यमरैर्गणैः ॥ ६०॥
येऽवस्थिताश्च ते सर्वे शिवस्यान्तिकमागताः ।
देवाः पलायिताः सर्वे गणाश्च सकलास्तदा ॥ ६१॥
ते सर्वे मिलिताश्चैव मुहुर्नत्वा शिवं तदा ।
अब्रुवन्वचनं क्षिप्रं कोऽयं गणवरः प्रभो ॥ ६२॥
पुरा चैव श्रुतं युद्धमिदानीं बहुधा पुनः ।
दृश्यते न श्रुतं दृष्टमीदृशं तु कदाचन ॥ ६३॥
किञ्चिद्विचार्यतां देव त्वन्यथा न जयो भवेत् ।
त्वमेव रक्षकः स्वामिन्ब्रह्माण्डस्य न संशयः ॥ ६४॥
ब्रह्मोवाच
इत्येवं तद्वचः श्रुत्वा रुद्रः परमकोपनः ।
कोपं कृत्वा च तत्रैव जगाम स्वगणैः सह ॥ ६५॥
देवसैन्यं च तत्सर्वं विष्णुना चक्रिणा सह ।
समुत्सवं महत्कृत्वा शिवस्यानुजगाम ह ॥ ६६॥
एतस्मिन्नन्तरे भक्त्या नमस्कृत्य महेश्वरम् ।
अब्रवीन्नारद त्वं वै देवदेवं कृताञ्जलिः ॥ ६७॥
नारद उवाच
देवदेव महादेव शृणु मद्वचनं विभो ।
त्वमेव सर्वगस्स्वामी नानालीलाविशारदः ॥ ६८॥
त्वया कृत्वा महालीलां गणगर्वोऽपहारितः ।
अस्मै दत्त्वा बलं भूरि देवगर्वश्च शङ्कर ॥ ६९॥
दर्शितं भुवने नाथ स्वमेव बलमद्भुतम् ।
स्वतन्त्रेण त्वया शम्भो सर्वगर्वप्रहारिणा ॥ ७०॥
इदानीं न कुरुष्वेश तां लीलां भक्तवत्सलः ।
स्वगणानमरांश्चापि सुसन्मान्याभिवर्द्धय ॥ ७१॥
इमं न खेलयेदानीं जहि ब्रह्मपदप्रद ।
इत्युक्त्वा नारद त्वं वै ह्यन्तर्द्धानं गतस्तदा ॥ ७२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं नाम पञ्चदशोऽध्यायः ॥ २.४.१५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१६. षोडशोऽध्यायः । गणेशशिरश्च्छेदनवर्णनम् ।
ब्रह्मोवाच
इति श्रुत्वा महेशानो भक्तानुग्रहकारकः ।
त्वद्वाचा युदकामोऽभूत्तेन बालेन नारद ॥ १॥
विष्णुमाहूय सम्मन्त्र्य बलेन महता युतः ।
सामरः सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः ॥ २॥
देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् ।
महाबला महोत्साहाश्शिवसद्दृष्टिलोकिताः ॥ ३॥
युयुधेऽथ हरिस्तेन महाबलपराक्रमः ।
महादेव्यायुधो वीरः प्रवणः शिवरूपकः ॥ ४॥
यष्ट्या गणाधिपः सोऽथ जघानामरपुङ्गवान् ।
हरिं च सहसा वीरः शक्तिदत्तमहाबलः ॥ ५॥
सर्वेऽमरगणास्तत्र विकुण्ठितबला मुने ।
अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः ॥ ६॥
शिवोऽपि सह सैन्येन युद्धं कृत्वा चिरं मुने ।
विकरालं च तं दृष्ट्वा विस्मयं परमं गतः ॥ ७॥
छलेनैव च हन्तव्यो नान्यथा हन्यते पुनः ।
इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः ॥ ८॥
शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि ।
विष्णौ चैवाथ सङ्ग्रामे आयाते सर्वदेवताः ॥ ९॥
गणाश्चैव महेशस्य महाहर्षं तदा ययुः ।
सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम् ॥ १०॥
अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः ।
प्रथमं पूजयामास विष्णुं सर्वसुखावहम् ॥ ११॥
अहं च मोहयिष्यामि हन्यतां च त्वया विभो ।
छलं विना न वध्योऽयं तामसोऽयं दुरासदः ॥ १२॥
इति कृत्वा मतिं तत्र सुसम्मन्त्र्य च शम्भुना ।
आज्ञां प्राप्याऽभवच्छैवीं विष्णुर्मोहपरायणः ॥ १३॥
शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् ।
दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने ॥ १४॥
शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितः स्वयम् ।
परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः ॥ १५॥
कृत्वा यत्नं किमप्यत्र वञ्चयामास तद्गतिम् ।
शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम् ॥ १६॥
एकतस्तन्मुखं दृष्ट्वा शङ्करोऽप्याजगाम ह ।
स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया ॥ १७॥
स ददर्शागतं शम्भुं शूलहस्तं महेश्वरम् ।
हन्तुकामं निजं वीरः शिवापुत्रो महाबलः ॥ १८॥
शक्त्या जघान तं हस्ते स्मृत्वा मातृपदाम्बुजम् ।
स गणशो महावीरः शिवशक्तिप्रवर्द्धितः ॥ १९॥
त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः ।
दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे ॥ २०॥
तमप्यपातयद्भूमौ परिघेण गणेश्वरः ।
हताः पञ्च तथा हस्ताः पञ्चभिश्शूलमाददे ॥ २१॥
अहो दुःखतरं नूनं सञ्जातमधुना मम ।
भवेत्पुनर्गणानां किं भवाचारो जगाविति ॥ २२॥
एतस्मिन्नन्तरे वीरः परिघेण गणेश्वरः ।
जघान सगणान् देवान् शक्तिदत्तबलान्वितः ॥ २३॥
गता दशदिशो देवाः सगणाः परिघार्दिताः ।
न तस्थुःसमरे केऽपि तेनाद्भुतप्रहारिणा ॥ २४॥
विष्णुस्तं च गणं दृष्ट्वा धन्योऽयमिति चाब्रवीत् ।
महाबलो महावीरो महाशूरो रणप्रियः ॥ २५॥
बहवो देवताश्चैव मया दृष्टास्तथा पुनः ।
दानवा बहवो दैत्या यक्षगन्धर्वराक्षसाः ॥ २६॥
नैतेन गणनाथेन समतां यान्ति केऽपि च ।
त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः ॥ २७॥
एवं सम्ब्रुवतेऽमुष्मै परिघं भ्रामयन् स च ।
चिक्षेप विष्णवे तत्र शक्तिपुत्रो गणेश्वरः ॥ २८॥
चक्रं गृहीत्वा हरिणा स्मृत्वा शिवपदाम्बुजम् ।
तेन चक्रेण परिघो द्रुतं खण्डीकृतस्तदा ॥ २९॥
खण्डं तु परिघस्यापि हरये प्राक्षिपद्गणः ।
गृहीत्वा गरुडेनापि पक्षिणा विफलीकृतः ॥ ३०॥
एवं विचरितं कालं महावीरावुभावपि ।
विष्णुश्चापि गणश्चैव युयुधाते परस्परम् ॥ ३१॥
पुनर्वीरवरः शक्तिसुतःस्मृतशिवो बली ।
गृहीत्वा यष्टिमतुलां तया विष्णुं जघान ह ॥ ३२॥
अविषह्य प्रहारं तं स भूमौ निपपात ह ।
द्रुतमुत्थाय युयुधे शिवापुत्रेण तेन वै ॥ ३३॥
एतदन्तरमासाद्य शूलपाणिस्तथोत्तरे ।
आगत्य च त्रिशूलेन तच्छिरो निरकृन्तत ॥ ३४॥
छिन्ने शिरसि तस्यैव गणनाथस्य नारद ।
गणसैन्यं देवसैन्यमभवच्च सुनिश्चलम् ॥ ३५॥
नारदेन त्वयाऽऽगत्य देव्यै सर्वं निवेदितम् ।
मानिनि श्रूयतां मानस्त्याज्यो नैव त्वयाधुना ॥ ३६॥
इत्युक्त्वाऽन्तर्हितस्तत्र नारद त्वं कलिप्रियः ।
अविकारी सदा शम्भुर्मनोगतिकरो मुनिः ॥ ३७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदनवर्णनं नाम षोडशोऽध्यायः ॥ २.४.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१७. सप्तदशोऽध्यायः । गणेशदेहे गजमुखयोजनवर्णनम् ।
नारद उवाच
ब्रह्मन् वद महाप्राज्ञ तद् वृत्तान्तेऽखिले श्रुते ।
किमकार्षीन्महादेवी श्रोतुमिच्छामि तत्त्वतः ॥ १॥
ब्रह्मोवाच
श्रूयतां मुनिशार्दूल कथयाम्यद्य तद्ध्रुवम् ।
चरितं जगदम्बाया यज्जातं तदनन्तरम् ॥ २॥
मृदङ्गान्पटहांश्चैव गणाश्चावादयंस्तथा ।
महोत्सवं तदा चक्रुर्हते तस्मिन्गणाधिपे ॥ ३॥
शिवोऽपि तच्छिरश्छित्वा यावद्दुःखमुपाददे ।
तावच्च गिरिजा देवी चुक्रोधाति मुनीश्वर ॥ ४॥
किं करोमि क्व गच्छामि हाहा दुःखमुपागतम् ।
कथं दुःखं विनश्येतास्याऽतिदुःखं ममाधुना ॥ ५॥
मत्सुतो नाशितश्चाद्य देवैः सर्वैर्गणैस्तथा ।
सर्वांस्तान्नाशयिष्यामि प्रलयं वा करोम्यहम् ॥ ६॥
इत्येवं दुःखिता सा च शक्तीः शतसहस्रशः ।
निर्ममे तत्क्षणं क्रुद्धा सर्वलोकमहेश्वरी ॥ ७॥
निर्मितास्ता नमस्कृत्य जगदम्बां शिवां तदा ।
जाज्वल्यमाना ह्यवदन्मातरादिश्यतामिति ॥ ८॥
तच्छुत्वा शम्भुशक्तिः सा प्रकृतिः क्रोधतत्परा ।
प्रत्युवाच तु ताः सर्वा महामाया मुनीश्वर ॥ ९॥
देव्युवाच
हे शक्तयोऽधुना देव्यो युष्माभिर्मन्निदेशतः ।
प्रलयश्चात्र कर्त्तव्यो नात्र कार्या विचारणा ॥ १०॥
देवांश्चैव ऋषींश्चैव यक्षराक्षसकांस्तथा ।
अस्मदीयान्परांश्चैव सख्यो भक्षत वै हठात् ॥ ११॥
ब्रह्मोवाच
तदाज्ञप्ताश्च ताः सर्वाः शक्तयः क्रोधतत्पराः ।
देवादीनां च सर्वेषां संहारं कर्तुमुद्यताः ॥ १२॥
यथा च तृणसंहारमनलः कुरुते तथा ।
एवं ताः शक्तयः सर्वाः संहारं कर्तुमुद्यताः ॥ १३॥
गणपो वाथ विष्णुर्वा ब्रह्मा वा शङ्करस्तथा ।
इन्द्रो वा यक्षराजो वा स्कन्दो वा सूर्य एव वा ॥ १४॥
सर्वेषां चैव संहारं कुर्वन्ति स्म निरन्तरम् ।
यत्र यत्र तु दृश्येत तत्र तत्रापि शक्तयः ॥ १५॥
कराली कुब्जका खञ्जा लम्बशीर्षा ह्यनेकशः ।
हस्ते धृत्वा तु देवांश्च मुखे चैवाक्षिपंस्तदा ॥ १६॥
तं संहारं तदा दृष्ट्वा हरो ब्रह्मा तथा हरिः ।
इन्द्रादयोऽखिला देवा गणाश्च ऋषयस्तथा ॥ १७॥
किं करिष्यति सा देवी संहारं वाप्यकालतः ।
इति संशयमापन्ना जीवनाशा हताऽभवत् ॥ १८॥
सर्वे च मिलिताश्चेमे किं कर्त्तव्यं विचिन्त्यताम् ।
एवं विचारयन्तस्ते तूर्णमूचुः परस्परम् ॥ १९॥
यदा च गिरिजा देवी प्रसन्ना हि भवेदिह ।
तदा चैव भवेत्स्वास्थ्यं नान्यथा कोटि यत्नतः ॥ २०॥
शिवोऽपि दुःखमापन्नो लौकिकीं गतिमाश्रितः ।
मोहयन्सकलांस्तत्र नानालीलाविशारदः ॥ २१॥
सर्वेषां चैव देवानां कटिर्भग्ना यदा तदा ।
शिवा क्रोधमयी साक्षाद् गन्तुं न पुर उत्सहेत् ॥। २२॥
स्वीयो वा परकीयो वा देवो वा दानवोऽपि वा ।
गणो वापि च दिक्पालो यक्षो वा किन्नरो मुनिः ॥ २३॥
विष्णुर्वापि तथा ब्रह्मा शङ्करश्च तथा प्रभुः ।
न कश्चिद्गिरिजाग्रे च स्थातुं शक्तोऽभवन्मुने ॥ २४॥
जाज्वल्यमानं तत्तेजःसर्वतो दाहि तेऽखिलाः ।
दृष्ट्वा भीततरा आसन् सर्वे दूरतरं स्थिताः ॥ २५॥
एतस्मिन्समये तत्र नारदो दिव्यदर्शनः ।
आगतस्त्वं मुने देवगणानां सुखहेतवे ॥ २६॥
ब्रह्माणं मां भवं विष्णुं शङ्करं च प्रणम्य सः ।
समागत्य मिलित्वोचे विचार्य कार्यमेव वा ॥ २७॥
सर्वे सम्मन्त्रयाञ्चक्रुस्त्वया देवा महात्मना ।
दुःखशान्तिः कथं स्याद्वै समूचुस्तत एव ते ॥ २८॥
यावच्च गिरिजा देवी कृपां नैव करिष्यति ।
तावन्नैव सुखं स्याद्वै नात्र कार्या विचारणा ॥ २९॥
ऋषयो हि त्वदाद्याश्च गतास्ते वै शिवान्तिकम् ।
सर्वे प्रसादयामासुः क्रोधशान्त्यै तदा शिवाम् ॥ ३०॥
पुनः पुनः प्रणेमुश्च स्तुत्वा स्तोत्रैरनेकशः ।
सर्वे प्रसादयन्प्रीत्या प्रोचुर्देवगणाज्ञया ॥ ३१॥
सुरर्षय ऊचुः ।
जगदम्ब नमस्तुभ्यं शिवायै ते नमोऽस्तु ते ।
चण्डिकायै नमस्तुभ्यं कल्याण्यै च नमोऽस्तु ते ॥ ३२॥
आदिशक्तिस्त्वमेवाम्ब सर्वसृष्टिकरी सदा ।
त्वमेव पालिनी शक्तिस्त्वमेव प्रलयङ्करी ॥ ३३॥
प्रसन्ना भव देवेशि शान्तिं कुरु नमोऽस्तु ते ।
सर्वं हि विकलं देवि त्रिजगत्तव कोपतः ॥ ३४॥
ब्रह्मोवाच
एवं स्तुता परा देवी ऋषिभिश्च त्वदादिभिः ।
क्रुद्धदृष्ट्या तदा तांश्च किञ्चिन्नोवाच सा शिवा ॥ ३५॥
तदा च ऋषयः सर्वे नत्वा तच्चरणाम्बुजम् ।
पुनरूचुश्शिवां भक्त्या कृताञ्जलिपुटाः शनैः ॥ ३६॥
क्षम्यतां क्षम्यतां देवि संहारो जायतेऽधुना ।
तव स्वामी स्थितश्चात्र पश्य पश्य तमम्बिके ॥ ३७॥
वयं के च इमे देवा विष्णुब्रह्मादयस्तथा ।
प्रजाश्च भवदीयाश्च कृताञ्जलिपुटाः स्थिताः ॥ ३८॥
क्षन्तव्यश्चापराधो वै सर्वेषां परमेश्वरि ।
सर्वे हि विकलाश्चाद्य शान्तिं तेषां शिवे कुरु ॥ ३९॥
ब्रह्मोवाच
इत्युक्त्वा ऋषयःसर्वे सुदीनतरमाकुलाः ।
सन्तस्थिरे चण्डिकाग्रे कृताञ्जलिपुटास्तदा ॥ ४०॥
एवं श्रुत्वा वचस्तेषां प्रसन्ना चण्डिकाऽभवत् ।
प्रत्युवाच ऋषींस्तान्वै करुणाविष्टमानसा ॥ ४१॥
देव्युवाच
मत्पुत्रो यदि जीवेत तदा संहरणं न हि ।
यथा हि भवतां मध्ये पूज्योऽयं च भविष्यति ॥ ४२॥
सर्वाध्यक्षो भवेदद्य यूयं कुरुत तद्यदि ।
तदा शान्तिर्भवेल्लोके नान्यथा सुखमाप्स्यथ ॥ ४३॥
ब्रह्मोवाच
इत्युक्तास्ते तदा सर्वे ऋषयो युष्मदादयः ।
तेभ्यो देवेभ्य आगत्य सर्वं वृत्तं न्यवेदयन् ॥ ४४॥
ते च सर्वे तथा श्रुत्वा शङ्कराय न्यवेदयन् ।
नत्वा प्राञ्जलयो दीनाः शक्रप्रभृतयः सुराः ॥ ४५॥
प्रोवाचेति सुराञ्छ्रुत्वा शिवश्चापि तथा पुनः ।
कर्त्तव्यं च तथा सर्वलोकस्वास्थ्यं भवेदिह ॥ ४६॥
उत्तरस्यां पुनर्यात प्रथमं यो मिलेदिह ।
तच्छिरश्च समाहृत्य योजनीयं कलेवरे ॥ ४७॥
ब्रह्मोवाच
ततस्तैस्तत्कृतं सर्वं शिवाज्ञाप्रतिपालकैः ।
कलेवरं समानीय प्रक्षाल्य विधिवच्च तत् ॥ ४८॥
पूजयित्वा पुनस्ते वै गताश्चोदङ्मुखास्तदा ।
प्रथमं मिलितस्तत्र हस्ती चाप्येकदन्तकः ॥ ४९॥
तच्छिरश्च तदा नीत्वा तत्र तेऽयोजयन् ध्रुवम् ।
संयोज्य देवताःसर्वाः शिवं विष्णुं विधिं तदा ॥ ५०॥
प्रणम्य वचनं प्रोचुर्भवदुक्तं कृतं च नः ।
अनन्तरं च तत्कार्यं भवताद्भवशेषितम् ॥ ५१॥
ततस्ते तु विरेजुश्च पार्षदाश्च सुराः सुखम् ।
अथ तद्वचनं श्रुत्वा शिवोक्तं पर्यपालयन् ॥ ५२॥
ऊचुस्ते च तदा तत्र ब्रह्मविष्णुसुरास्तथा ।
प्रणम्येशं शिवं देवं स्वप्रभुं गुणवर्जितम् ॥ ५३॥
यस्मात्त्वत्तेजसःसर्वे वयं जाता महात्मनः ।
त्वत्तेजस्तत्समायातु वेदमन्त्राभियोगतः ॥ ५४॥
इत्येवमभिमन्त्रेण मन्त्रितं जलमुत्तमम् ।
स्मृत्वा शिवं समेतास्ते चिक्षिपुस्तत्कलेवरे ॥ ९५॥
तज्जलस्पर्शमात्रेण चिद्युतो जीवितो द्रुतम् ।
तदोत्तस्थौ सुप्त इव स बालश्च शिवेच्छया ॥ ५६॥
सुभगः सुन्दरतरो गजवक्त्रः सुरक्तकः ।
प्रसन्नवदनश्चाति सुप्रभो ललिताकृतिः ॥ ५७॥
तं दृष्ट्वा जीवितं बालं शिवापुत्रं मुनीश्वर ।
सर्वे मुमुदिरे तत्र सर्वं दुःखं क्षयं गतम् ॥ ५८॥
देव्यै सन्दर्शयामासुः सर्वे हर्षसमन्विताः ।
जीवितं तनयं दृष्ट्वा देवी हृष्टतराभवत् ॥ ५९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं नाम सप्तदशोऽध्यायः ॥ २.४.१७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१८. अष्टदशोऽध्यायः । गणेशगणाधिपपदवीप्राप्तिः ।
नारद उवाच
जीविते गिरिजापुत्रे देव्या दृष्टे प्रजेश्वर ।
ततः किमभवत्तत्र कृपया तद्वदाधुना ॥ १॥
ब्रह्मोवाच
जीविते गिरिजापुत्रे देव्या दृष्टे मुनीश्वर ।
यज्जातं तच्छृणुष्वाद्य वच्मि तं महदुत्सवम् ॥ २॥
जीवितःस शिवापुत्रो निर्व्यग्रो विकृतो मुने ।
अभिषिक्तस्तदा देवैर्गणाध्यक्षैर्गजाननः ॥ ३॥
दृष्ट्वा स्वतनयं देवी शिवा हर्षसमन्विता ।
गृहीत्वा बालकं दोर्भ्यां प्रमुदा परिषस्वजे ॥ ४॥
वस्त्राणि विविधानीह नानालङ्करणानि च ।
ददौ प्रीत्या गणेशाय स्वपुत्राय मुदाम्बिका ॥ ५॥
पूजयित्वा तया देव्या सिद्धिभिश्चाप्यनेकशः ।
करेण स्पर्शितः सोऽथ सर्वदुःखहरेण वै ॥ ६॥
पूजयित्वा सुतं देवी मुखमाचुम्ब्य शाङ्करी ।
वरान्ददौ तदा प्रीत्या जातस्त्वं दुःखितोऽधुना ॥ ७॥
धन्योऽसि कृतकृत्योऽसि पूर्वपूज्यो भवाधुना ।
सर्वेषाममराणां वै सर्वदा दुःखवर्जितः ॥ ८॥
आनने तव सिन्दूरं दृश्यते साम्प्रतं यदि ।
तस्मात्त्वं पूजनीयोऽसि सिन्दूरेण सदा नरैः ॥ ९॥
पुष्पैर्वा चन्दनैर्वापि गन्धेनैव शुभेन च ।
नैवेद्येन सुरम्येण नीराजेन विधानतः ॥ १०॥
ताम्बूलैरथ दानैश्च तथा प्रक्रमणैरपि ।
नमस्कारविधानेन पूजां यस्ते विधास्यति ॥ ११॥
तस्य वै सकला सिद्धिर्भविष्यति न संशयः ।
विघ्नान्यनेकरूपाणि क्षयं यास्यन्त्यसंशयम् ॥ १२॥
ब्रह्मोवाच
इत्युक्त्वा च तदा देवी स्वपुत्रं तं महेश्वरी ।
नानावस्तुभिरुत्कृष्टैः पुनरप्यर्चयत्तथा ॥ १३॥
ततःस्वास्थ्यं च देवानां गणानां च विशेषतः ।
गिरिजाकृपया विप्र जातं तत्क्षणमात्रतः ॥ १४॥
एतस्मिंश्च क्षणे देवा वासवाद्याः शिवं मुदा ।
स्तुत्वा प्रसाद्य तं देवं भक्ता निन्युः शिवान्तिकम् ॥ १५॥
संसाद्य गिरिशं पश्चादुत्सङ्गे सन्न्यवेशयन् ।
बालकं तं महेशान्यास्त्रिजगत्सुखहेतवे ॥ १६॥
शिवोऽपि तस्य शिरसि दत्त्वा स्वकरपङ्कजम् ।
उवाच वचनं देवान् पुत्रोऽयमिति मेऽपरः ॥ १७॥
गणेशोऽपि तदोत्थाय नमस्कृत्य शिवाय वै ।
पार्वत्यै च नमस्कृत्य मह्यं वै विष्णवे तथा ॥ १८॥
नारादाद्यानृषीन्सर्वान्स त्वास्थाय पुरोऽब्रवीत् ।
क्षन्तव्यश्चापराधो मे मानश्चैवेदृशो नृणाम् ॥ १९॥
अहं च शङ्करश्चैव विष्णुश्चैते त्रयः सुराः ।
प्रत्यूचुर्युगपत्प्रीत्या ददतो वरमुत्तमम् ॥ २०॥
त्रयो वयं सुरवरा यथा पूज्या जगत्त्रये ।
तथायं गणनाथश्च सकलैः प्रतिपूज्यताम् ॥ २१॥
वयं च प्राकृताश्चायं प्राकृतः पूज्य एव च ।
गणेशो विघ्नहर्त्ता हि सर्वकामफलप्रदः ॥ २२॥
एतत्पूजां पुरा कृत्वा पश्चात्पूज्या वयं नरैः ।
वयं च पूजिताः सर्वे नायं चापूजितो यदा ॥ २३॥
अस्मिन्नपूजिते देवाः परपूजाकृता यदि ।
तदा तत्फलहानिः स्यान्नात्र कार्या विचारणा ॥ २४॥
ब्रह्मोवाच
इत्युक्त्वा स गणेशानो नानावस्तुभिरादरात् ।
शिवेन पूजितः पूर्वं विष्णुनाऽनु प्रपूजितः ॥ २५॥
ब्रह्मणा च मया तत्र पार्वत्या च प्रपूजितः ।
सर्वैर्देवगणैश्चैव पूजितः परया मुदा ॥ २६॥
सवैर्मिलित्वा तत्रैव ब्रह्मविष्णुहरादिभिः ।
सगणेशश्शिवातुष्ट्यै सर्वाध्यक्षो निवेदितः ॥ २७॥
पुनश्चैव शिवेनास्मै सुप्रसन्नेन चेतसा ।
सर्वदा सुखदा लोके वरा दत्ता ह्यनेकशः ॥ २८॥
शिव उवाच
हे गिरीन्द्रसुतापुत्र सन्तुष्टोऽहं न संशयः ।
मयि तुष्टे जगत्तुष्टं विरुद्धः कोऽपि नो भवेत् ॥ २९॥
बालरूपोऽपि यस्मात्त्वं महाविक्रमकारकः ।
शक्तिपुत्रः सुतेजस्वी तस्माद्भव सदा सुखी ॥ ३०॥
त्वन्नाम विघ्नहन्तृत्वे श्रेष्ठं चैव भवत्विति ।
मम सर्वगणाध्यक्षः सम्पूज्यस्त्वं भवाधुना ॥ ३१॥
एवमुक्त्वा शङ्करेण पूजाविधिरनेकशः ।
आशिषश्चाप्यनेका हि कृतास्तस्मिंस्तु तत्क्षणात् ॥ ३२॥
ततो देवगणाश्चैव गीतं वाद्यं च नृत्यकम् ।
मुदा ते कारयामासुस्तथैवाप्सरसां गणाः ॥ ३३॥
पुनश्चैव वरो दत्तः सुप्रसन्नेन शम्भुना ।
तस्मै च गणनाथाय शिवेनैव महात्मना ॥ ३४॥
चतुर्थ्यां त्वं समुत्पन्नो भाद्रे मासि गणेश्वर ।
असिते च तथा पक्षे चन्द्रस्योदयने शुभे ॥ ३५॥
प्रथमे च तथा यामे गिरिजायाः सुचेतसः ।
आविर्बभूव ते रूपं यस्मात्ते व्रतमुत्तमम् ॥ ३६॥
तस्मात्तद्दिनमारभ्य तस्यामेव तिथौ मुदा ।
व्रतं कार्यं विशेषेण सर्वसिद्ध्यै सुशोभनम् ॥ ३७॥
यावत्पुनः समायाति वर्षान्ते च चतुर्थिका ।
तावद्व्रतं च कर्तव्यं तव चैव ममाज्ञया ॥ ३८॥
संसारे सुखमिच्छन्ति येऽतुलं चाप्यनेकशः ।
त्वां पूजयन्तु ते भक्त्या चतुर्थ्यां विधिपूर्वकम् ॥ ३९॥
मार्गशीर्षे तथा मासे रमा या वै चतुर्थिका ।
प्रातः स्नानं तदा कृत्वा व्रतं विप्रान्निवेदयेत् ॥ ४०॥
दूर्वाभिः पूजनं कार्यमुपवासस्तथाविधः ।
रात्रेश्च प्रहरे जाते स्नात्वा सम्पूजयेन्नरः ॥ ४१॥
मूर्तिं धातुमयीं कृत्वा प्रवालसम्भवां तथा ।
श्वेतार्कसम्भवां चापि मार्द्दिकां निर्मितां तथा ॥ ४२॥
प्रतिष्ठाप्य तदा तत्र पूजयेत्प्रयतः पुमान् ।
गन्धैर्नानाविधैर्दिव्यैश्चन्दनैः पुष्पकैरिह ॥ ४३॥
वितस्तिमात्रा दूर्वा च त्र्यङ्गा वै मूलवर्जिता ।
ईदृशानां शाद्बलानां शतेनैकोत्तरेण ह ॥ ४४॥
एकविंशतिकेनैव पूजयेत्प्रतिमां स्थिताम् ।
धूपैर्दीपैश्च नैवेद्यैर्विविधैर्गणनायकम् ॥ ४५॥
ताम्बूलाद्यर्घसद्द्रव्यैः प्रणिपत्य स्तवैस्तथा ।
त्वां तत्र पूजयित्वेत्थं बालचन्द्रं च पूजयेत् ॥ ४६॥
पश्चाद्विप्रांश्च सम्पूज्य भोजयेन्मधुरैर्मुदा ।
स्वयं चैव ततो भुञ्ज्यान्मधुरं लवणं विना ॥ ४७॥
विसर्जयेत्ततः पश्चान्नियमं सर्वमात्मनः ।
गणेशस्मरणं कुर्यात्सम्पूर्णं स्याद् व्रतं शुभम् ॥ ४८॥
एवं व्रतेन सम्पूर्णे वर्षे जाते नरस्तदा ।
उद्यापनविधिं कुर्याद्व्रतसम्पूर्त्तिहेतवे ॥ ४९॥
द्वादश ब्राह्मणास्तत्र भोजनीया मदाज्ञया ।
कुम्भमेकं च संस्थाप्य पूज्या मूर्तिस्त्वदीयिका ॥ ५०॥
स्थण्डिलेऽष्टदलं कृत्वा तदा वेदविधानतः ।
होमश्चैवात्र कर्तव्यो वित्तशाठ्यविवर्जितैः ॥ ५१॥
स्त्रीद्वयं च तथा चात्र बटुकद्वयमादरात् ।
भोजयेत्पूजयित्वा वै मूर्त्यग्रे विधिपूर्वकम् ॥ ५२॥
निशि जागरणं कार्यं पुनः प्रातः प्रपूजयेत् ।
विसर्जनं ततश्चैव पुनरागमनाय च ॥ ५३॥
बालकाच्चाशिषो ग्राह्याःस्वस्तिवाचनमेव च ।
पुष्पाञ्जलिं प्रदद्याच्च व्रतसम्पूर्णहेतवे ॥ ५४॥
नमस्कारांस्ततः कृत्वा नानाकार्यं प्रकल्पयेत् ।
एवं व्रतं कृतं येन तस्येप्सितफलं भवेत् ॥ ५५॥
यो नित्यं श्रद्धया सार्द्धं पूजां चैव स्वशक्तितः ।
कुर्य्यात्तव गणेशान सर्वकामफलाप्तये ॥ ५६॥
सिन्दूरैश्चन्दनैश्चैव तण्डुलैः केतकैस्तथा ।
उपचारैरनेकैश्च पूजयेत्त्वां गणेश्वरम् ॥ ५७॥
एवं त्वां पूजयेयुर्ये भक्त्या नानोपचारतः ।
तेषां सिद्धिर्भवेन्नित्यं विघ्ननाशो भवेदिह ॥ ५८॥
सर्वैर्वर्णैः प्रकर्त्तव्या स्त्रीभिश्चैव विशेषतः ।
उदयाभिमुखैश्चैव राजभिश्च विशेषतः ॥ ५९॥
यं यं कामयते यो वै तं तमाप्नोति निश्चितम् ।
अतः कामयमानेन तेन सेव्यः सदा भवान् ॥ ६०॥
ब्रह्मोवाच
शिवेनैवं तदा प्रोक्तं गणेशाय महात्मने ।
तदानीं दैवतैश्चैव सर्वैश्च ऋषिसत्तमैः ॥ ६१॥
तथेत्युक्त्वा तु तैःसर्वैर्गणैः शम्भुप्रियैर्मुने ।
पूजितो हि गणाधीशो विधिना परमेण सः ॥ ६२॥
ततश्चैव गणाः सर्वे प्रणेमुस्ते गणेश्वरम् ।
समानर्चुर्विशेषेण नानावस्तुभिरादरात् ॥ ६३॥
गिरिजायास्समुत्पन्नो यश्च हर्षो मुनीश्वर ।
चतुर्भिर्वदनैर्वै तमवर्ण्यं च कथं ब्रुवे ॥ ६४॥
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।
जगुर्गन्धर्वमुख्याश्च पुष्पवर्षं पपात ह ॥ ६५॥
जगत्स्वास्थ्यं तदा प्राप गणाधीशे प्रतिष्ठिते ।
महोत्सवो महानासीत्सर्वं दुःखं क्षयं गतम् ॥ ६६॥
शिवाशिवौ च मोदेतां विशेषेणाति नारद ।
आसीत्सुमङ्गलं भूरि सर्वत्र सुखदायकम् ॥ ६७॥
ततो देवगणाः सर्वे ऋषीणां च गणास्तथा ।
समागताश्च ये तत्र जग्मुस्ते तु शिवाज्ञया ॥ ६८॥
प्रशंसन्तः शिवां तत्र गणेशं च पुनः पुनः ।
शिवं चैव तथा स्तुत्वा कीदृशं युद्धमेव च ॥ ६९॥
यदा सा गिरिजा देवी कोपहीना बभूव ह ।
शिवोऽपि गिरिजां तत्र पूर्ववत्सम्प्रपद्य ताम् ॥ ७०॥
चकार विविधं सौख्यं लोकानां हितकाम्यया ।
स्वात्मारामोऽपि परमो भक्तकार्योद्यतः सदा ॥ ७१॥
विष्णुश्च शिवमापृच्छ्य ब्रह्माहं तं तथैव हि ।
आगच्छाव स्वधामं च शिवौ संसेव्य भक्तितः ॥ ७२॥
नारद त्वं च भगवन्सङ्गीय शिवयोर्यशः ।
आगमो भवनं स्वं च शिवौ पृष्ट्वा मुनीश्वर ॥ ७३॥
एतत्ते सर्वमाख्यातं मया वै शिवयोर्यशः ।
भवत्पृष्टेन विघ्नेशयशः सम्मिश्रमादरात् ॥ ७४॥
इदं सुमङ्गलाख्यानं यः शृणोति सुसंयतः ।
सर्वमङ्गलसंयुक्तः स भवेन्मङ्गलालयः ॥ ७५॥
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ।
भार्यार्थी लभते भार्यां प्रजार्थी लभते प्रजाम् ॥ ७६॥
आरोग्यं लभते रोगी सौभाग्यं दुर्भगो लभेत् ।
नष्टपुत्रं नष्टधनं प्रोषिता च पतिं लभेत् ।
शोकाविष्टः शोकहीनः स भवेन्नात्र संशयः ॥ ७७॥
इदं गाणेशमाख्यानं यस्य गेहे च तिष्ठति
सदा मङ्गलसंयुक्तः स भवेन्नात्र संशयः ॥ ७८॥
यात्राकाले च पुण्याहे यः शृणोति समाहितः ।
सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः ॥ ७९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशगणाधिपपदवीप्राप्तिवर्णनं नामाष्टादशोऽध्यायः ॥ २.४.१८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.१९. एकोनविंशोऽध्यायः । विवाहोपक्रमे गणेशस्य प्रथमपूज्यत्ववर्णनम् ।
नारद उवाच
गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा ।
चरित्रमपि दिव्यं वै सुपराक्रमभूषितम् ॥ १॥
ततः किमभवत्तात तत्त्वं वद सुरेश्वर ।
शिवाशिवयशस्स्फीतं महानन्दप्रदायकम् ॥ २॥
ब्रह्मोवाच
साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना ।
श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम ॥ ३॥
शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् ।
दर्शं दर्शं च तल्लीलां महत्प्रेम समावहत् ॥ ४॥
पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत ।
सदा प्रीत्या मुदा चातिखेलनं चक्रतुः सुतौ ॥ ५॥
तावेव तनयौ तत्र मातापित्रोर्मुनीश्वर ।
महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः ॥ ६॥
षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा ।
स्नेहो व्यवर्द्धत महान् शुक्लपक्षे यथा शशी ॥ ७॥
कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ ।
शिवा शिवश्च देवर्षे सुविचारपरायणौ ॥ ८॥
शिवाशिवावूचतुः
विवाहयोग्यौ सञ्जातौ सुताविति च तावुभौ ॥
विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम् । ९॥
षण्मुखश्च प्रियतमो गणेशश्च तथैव च ।
इति चिन्तासमुद्विग्नौ लीलानन्दौ बभूवतुः ॥ १०॥
स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ ।
तदिच्छया विवाहार्थं बभूवतुरथो मुने ॥ ११॥
अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः ।
परस्परं च नित्यं वै विवादे तत्परावुभौ ॥ १२॥
श्रुत्वा तद्वचनं तौ च दम्पती जगतां प्रभू ।
लौकिकाचारमाश्रित्य विस्मयं परमं गतौ ॥ १३॥
किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः ।
इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता ॥ १४॥
कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ ।
कथयामासतुस्तत्र पुत्रयोः पितरौ तदा ॥ १५॥
अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ॥
श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम् । १६॥
समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते ।
तस्मात्पणः कृतः शन्दः पुत्रयोरुभयोरपि ॥ १७॥
यश्चैव पृथिवीं सर्वां क्रान्त्वा पूर्वमुपाव्रजेत् ।
तस्यैव प्रथमं कार्यो विवाहः शुभलक्षणः ॥ १८॥
ब्रह्मोवाच
तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः ।
जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै ॥ १९॥
गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः ।
सुबुद्ध्या संविचार्येति चित्त एव पुनः पुनः ॥ २०॥
किं कर्तव्यं क्व गन्तव्यं लङ्घितुं नैव शक्यते ।
क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः ॥ २१॥
किं पुनः पृथिवीमेतां क्रान्त्वा चोपार्जितं सुखम् ।
विचार्येति गणेशस्तु यच्चकार शृणुष्व तत् ॥ २२॥
स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् ।
उवाच पितरं तत्र मातरं पुनरेव सः ॥ २३॥
गणेश उवाच
आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह ।
भवन्तौ संस्थितौ तातौ पूर्य्यतां मे मनोरथः ॥ २४॥
ब्रह्मोवाच
इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ ।
अस्थातामासने तत्र तत्पूजाग्रहणाय वै ॥ २५॥
तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः ।
एवं च कृतवान् सप्त प्रणामांस्तु तथैव सः ॥ २६॥
बद्धाञ्जलिरथोवाच गणेशो बुद्धिसागरः ।
स्तुत्वा बहुतिथस्तात पितरौ प्रेमविह्वलौ ॥ २७॥
गणेश उवाच
भो मातर्भो पितस्त्वं च शृणु मे परमं वचः ।
शीघ्रं चैवात्र कर्तव्यो विवाहः शोभनो मम ॥ २८॥
ब्रह्मोवाच
इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः ।
महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा ॥ २९॥
शिवाशिवावूचतुः
प्रक्रामेत भवान्सम्यक् पृथिवीं च सकाननाम् ।
कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज ॥ ३०॥
ब्रह्मोवाच
इत्येवं वचनं श्रुत्वा पित्रोर्गणपतिर्द्रुतम् ।
उवाच नियतस्तत्र वचनं क्रोधसंयुतः ॥ ३१॥
गणेश उवाच
भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ ।
धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ ॥ ३२॥
मया तु पृथिवी क्रान्ता सप्तवारं पुनः पुनः ।
एवं कथं ब्रुवाते वै पुनश्च पितराविह ॥ ३३॥
ब्रह्मोवाच
तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ ।
महालीलाकरौ तत्र पितरावूचतुश्च तम् ॥ ३४॥
पितरावूचतुः
कदा क्रान्ता त्वया पुत्र पृथिवी सुमहत्तरा ।
सप्तद्वीपा समुद्रान्ता महद्भिर्गहनैर्युता ॥ ३५॥
ब्रह्मोवाच
तयोरेवं वचः श्रुत्वा शिवाशङ्करयोर्मुने ।
महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत् ॥ ३६॥
गणेश उवाच
भवतोः पूजनं कृत्वा शिवाशङ्करयोरहम् ।
स्वबुद्ध्या हि समुद्रान्तपृथ्वीकृतपरिक्रमः ॥ ३७॥
इत्येवं वचनं वेदे शास्त्रे वा धर्मसञ्चये ।
वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा ॥ ३८॥
पित्रोश्च पूजनं कृत्वा प्रक्रान्तिं च करोति यः ।
तस्य वै पृथिवीजन्यं फलं भवति निश्चितम् ॥ ३९॥
अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् ।
तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा ॥ ४०॥
पुत्रस्य च महत्तीर्थं पित्रोश्चरणपङ्कजम् ।
अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः ॥ ४१॥
इदं सन्निहितं तीर्थं सुलभं धर्मसाधनम् ।
पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम् ॥ ४२॥
इति शास्त्राणि वेदाश्च भाषन्ते यन्निरन्तरम् ।
भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च ॥ ४३॥
भवदीयं त्विदं रूपमसत्यं च भवेदिह ।
तदा वेदोऽप्यसत्यो वै भवेदिति न संशयः ॥ ४४॥
शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः ।
अथ वा वेदशास्त्रं च व्यलीकं कथ्यतामिति ॥ ४५॥
द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत् ।
कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ ॥ ४६॥
ब्रह्मोवाच
इत्युक्त्वा पार्वतीपुत्रः स गणेशः प्रकृष्टधीः ।
विरराम महाज्ञानी तदा बुद्धिमतां वरः ॥ ४७॥
तौ दम्पती च विश्वेशौ पार्वतीशङ्करौ तदा ।
इति श्रुत्वा वचस्तस्य विस्मयं परमं गतौ ॥ ४८॥
ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् ।
सम्प्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम् ॥ ४९॥
शिवाशिवावूचतुः
पुत्र ते विमला बुद्धिः समुत्पन्ना महात्मनः ॥
त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा ॥ ५०॥
समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते ।
तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः ॥ ५१॥
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
कूपे सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ५२॥
वेदशास्त्रपुराणेषु बालकस्य यथोदितम् ।
त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम् ॥ ५३॥
सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह ।
आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना ॥ ५४॥
ब्रह्मोवाच
इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम् ।
विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम् ॥ ५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमो नामैकोनविंशोऽध्यायः ॥ २.४.१९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे
२.४.२०. विंशोऽध्यायः । गणेशविवाहवर्णनम् ।
ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र विश्वरूपः प्रजापतिः ।
तदुद्योगं संविचार्य सुखमाप प्रसन्नधीः ॥ १॥
विश्वरूपप्रजेशस्य दिव्यरूपे सुते उभे ।
सिद्धिबुद्धिरिति ख्याते शुभे सर्वाङ्गशोभने ॥ २॥
ताभ्यां चैव गणेशस्य गिरिजा शङ्करः प्रभू ।
महोत्सवं विवाहं च कारयामासतुर्मुदा ॥ ३॥
सन्तुष्टा देवताः सर्वास्तद्विवाहे समागमन् ।
यथा चैव शिवस्यैव गिरिजाया मनोरथः ॥ ४॥
तथा च विश्वकर्माऽसौ विवाहं कृतवांस्तथा ।
तथा च ऋषयो देवा लेभिरे परमां मुदम् ॥ ५॥
गणेशोऽपि तदा ताभ्यां सुखं परमदुर्लभम् ।
प्राप्तवांश्च मुने तत्तु वर्णितुं नैव शक्यते ॥ ६॥
कियता चैव कालेन गणेशस्य महात्मनः ।
द्वयोः पत्न्योश्च द्वौ दिव्यौ तस्य पुत्रौ बभूवतुः ॥ ७॥
सिद्धेर्गणेशपत्न्यास्तु क्षेमनामा सुतोऽभवत् ।
बुद्धेर्लाभाभिधः पुत्रो ह्यासीत्परमशोभनः ॥ ८॥
एवं सुखमचिन्त्यं वै भुञ्जाने हि गणेश्वरे ।
आजगाम द्वितीयश्च क्रान्त्वा पृथ्वीं सुतस्तदा ॥ ९॥
तावश्च नारदेनैव प्राप्तो गेहे महात्मना ।
यथार्थं वच्मि नोऽसत्यं न छलेन न मत्सरात् ॥ १०॥
पितृभ्यां तु कृतं यच्च शिवया शङ्करेण ते ।
तन्न कुर्यात्परो लोके सत्यं सत्यं ब्रवीम्यहम् ॥ ११॥
निष्कास्य त्वां कुक्रमणं मिषमुत्पाद्य यत्नतः ।
गणेशस्य वरोऽकारि विवाहः परशोभनः ॥ १२॥
गणेशस्य कृतोद्वाहो लब्धवांस्त्रीद्वयं मुदा ।
विश्वरूपप्रजेशस्य कन्यारत्नं महोत्तमम् ॥ १३॥
पुत्रद्वयं ललाभासौ द्वयोः पत्न्योः शुभाङ्गयोः ।
सिद्धेः क्षेमं तथा बुद्धेर्लाभं सर्वसुखप्रदम् ॥ १४॥
पत्न्योर्द्वयोर्गणेशोऽसौ लब्ध्वापुत्रद्वयं शुभम् ।
मातापित्रोर्मतेनैव सुखं भुङ्क्ते निरन्तरम् ॥ १५॥
भवता पृथिवी क्रान्ता ससमुद्रा सकानना ।
तच्छलाज्ञावशात्तात तस्य जातं फलं त्विदम् ॥ १६॥
पितृभ्यां हि कृतं यत्तु छलं तात विचार्यताम् ।
स्वस्वामिभ्यां विशेषेण ह्यन्यः किन्न करोति वै ॥ १७॥
असम्यक्च कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म ह ।
विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम् ॥ १८॥
दद्याद्यदि गरं माता विक्रीणीयात्पिता यदि ।
राजा हरति सर्वस्वं कस्मै किं च ब्रवीतु वै ॥ १९॥
येनैवेदं कृतं स्याद्वै कर्मानर्थकरं परम् ।
शान्तिकामस्सुधीस्तात तन्मुखं न विलोकयेत् ॥ २०॥
इति नीतिः श्रुतौ प्रोक्ता स्मृतौ शास्त्रेषु सर्वतः ।
निवेदिता च सा तेऽद्य यथेच्छसि तथा कुरु ॥ २१॥
ब्रह्मोवाच
इत्युक्त्वा नारद त्वं तु महेश्वरमनोगतिः ।
तस्मै तथा कुमाराय वाक्यं मौनमुपागतः ॥ २२॥
स्कन्दोऽपि पितरं नत्वा कोपाग्निज्वलितस्तदा ।
जगाम पर्वतं क्रौञ्चं पितृभ्यां वारितोऽपि सन् ॥ २३॥
वारणे च कृते त्वद्य गम्यते च कथं त्वया ।
इत्येवं च निषिद्धोऽपि प्रोच्य नेति जगाम सः ॥ २४॥
न स्थातव्यं मया तातौ क्षणमप्यत्र किञ्चन ।
यद्येवं कपटं प्रीतिमपहाय कृतं मयि ॥ २५॥
एवमुक्त्वा गतस्तत्र मुने सोऽद्यापि वर्तते ।
दर्शनेनैव सर्वेषां लोकानां पापहारकः ॥ २६॥
तद्दिनं हि समारभ्य कार्तिकेयस्य तस्य वै ।
शिवपुत्रस्य देवर्षे कुमारत्वं प्रतिष्ठितम् ॥ २७॥
तन्नाम शुभदं लोके प्रसिद्धं भुवनत्रये ।
सर्वपापहरं पुण्यं ब्रह्मचर्यप्रदं परम् ॥ २८॥
कार्तिक्यां च सदा देवा ऋषयश्च सतीर्थकाः ।
दर्शनार्थं कुमारस्य गच्छन्ति च मुनीश्वराः ॥ २९॥
कार्तिक्यां कृत्तिकासङ्गे कुर्याद्यः स्वामिदर्शनम् ।
तस्य पापं दहेत्सर्वं चित्तेप्सितफलं लभेत् ॥ ३०॥
उमाऽपि दुःखमापन्ना स्कन्दस्य विरहे सति ।
उवाच स्वामिनं दीना तत्र गच्छ मया प्रभो ॥ ३१॥
तत्सुखार्थं स्वयं शम्भुर्गतः स्वांशेन पर्वते ।
मल्लिकार्जुननामासीज्ज्योतिर्लिङ्गं सुखावहम् ॥ ३२॥
अद्यापि दृश्यते तत्र शिवया सहितश्शिवः ।
सर्वेषां निजभक्तानां कामपूरः सतां गतिः ॥ ३३॥
तमागतं स विज्ञाय कुमारः सशिवां शिवम् ।
स विरज्य ततोऽन्यत्र गन्तुमासीत्समुत्सुकः ॥ ३४॥
देवैश्च मुनिभिश्चैव प्रार्थितः सोऽपि दूरतः ।
योजनत्रयमुत्सृज्य स्थितः स्थाने च कार्तिकः ॥ ३५॥
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ।
दर्शनार्थं कुमारस्य तस्य नारद गच्छतः ॥ ३६॥
अमावास्यादिने शम्भुः स्वयं गच्छति तत्र ह ।
पूर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम् ॥ ३७॥
यद्यत्तस्य च वृत्तान्तं भवत्पृष्टं मुनीश्वर ।
कार्तिकस्य गणेशस्य परमं कथितं मया ॥ ३८॥
एतच्छ्रुत्वा नरो धीमान् सर्वपापैः प्रमुच्यते ।
शोभनां लभते कामानीप्सितान्सकलान्सदा ॥ ३९॥
यः पठेत्पाठयेद्वापि शृणुयाच्छ्रावयेत्तथा ।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ ४०॥
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धस्स्याच्छूद्रस्सत्तमतामियात् ॥ ४१॥
रोगी रोगात्प्रमुच्येत भयान्मुच्येत भीतियुक् ।
भूतप्रेतादिबाधाभ्यः पीडितो न भवेन्नरः ॥ ४२॥
एतदाख्यानमनघं यशस्यं सुखवर्द्धनम् ।
आयुष्यं स्वर्ग्यमतुलं पुत्रपौत्रादिकारकम् ॥ ४३॥
अपवर्गप्रदं चापि शिवज्ञानप्रदं परम् ।
शिवाशिवप्रीतिकरं शिवभक्तिविवर्द्धनम् ॥ ४४॥
श्रवणीयं सदा भक्तैर्निष्कामैश्च मुमुक्षुभिः ।
शिवाद्वैतप्रदं चैतत्सदाशिवमयं शिवम् ॥ ४५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहवर्णनं नाम विंशोऽध्यायः ॥ २.४.२०॥
॥ इति श्रीशिवमहापुराणे द्वितीयरुद्रसंहितायां चतुर्थः कुमारखण्डः समाप्तः ॥ २.४॥
Proofread by H Revathy Rajaraman/Uma Mahesh