श्रीशिवमहापुराणम् ६ कैलाससंहिता
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ षष्ठी कैलाससंहिता
६.१. प्रथमोऽध्यायः । व्यासशौनकादिसंवादः ।
अथ षष्ठी कैलाससंहिता प्रारभ्यते ॥
नमः शिवाय साम्बाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थितत्यन्तहेतवे ॥ १॥
ऋषय ऊचुः ।
श्रुतोमासंहिता रम्या नानाख्यानसमन्विता ।
कैलाससंहितां ब्रूहि शिवतत्त्वविवर्धिनीम् ॥ २॥
व्यास उवाच ।
शृणुत प्रीतितो वत्साः कैलासाख्यां हि संहिताम् ।
शिवतत्त्वपरां दिव्यां वक्ष्ये वः स्नेहतः पराम् ॥ ३॥
हिमवच्छिखरे पूर्वं तपस्यन्तो महौजसः ।
वाराणसीं गन्तुकामा मुनयः कृतसंविदः ॥ ४॥
निर्गत्य तस्मात्सम्प्राप्य गिरेः काशीं समाहिताः ।
स्नातव्यमेवेति तदा ददृशुर्मणिकर्णिकाम् ॥ ५॥
तत्र स्नात्वा सुसन्तर्प्य देवादीनथ जाह्नवीम् ।
दृष्ट्वा स्नात्वा मुनीशास्ते विश्वेशं त्रिदशेश्वरम् ॥ ६॥
नमस्कृत्याथ सम्पूज्य भक्त्या परमयान्विताः ।
शतरुद्रादिभिः स्तुत्वा स्तुतिभिर्वेदपारगाः ॥ ७॥
आत्मानं मेनिरे सर्वे कृतार्था वयमित्युत ।
शिवप्रीत्या सुपूर्णार्थाः शिवभक्तिरताः सदा ॥ ८॥
तस्मिन्नवसरे सूतं पञ्चक्रोशदिदृक्षया ।
गत्वा समागतं वीक्ष्य मुदा ते तं ववन्दिरे ॥ ९॥
सोऽपि विश्वेश्वरं साक्षाद्देवदेवमुमापतिम् ।
नमस्कृत्याथ तैः साकं मुक्तिमण्डपमाविशत् ॥ १०॥
तत्रासीनं महात्मानं सूतं पौराणिकोत्तमम् ।
अर्घ्यादिभिस्तदा सर्वे मुनयः समुपाचरन् ॥ ११॥
ततः सूतः प्रसन्नात्मा मुनीनालोक्य सुव्रतान् ।
पप्रच्छ कुशलं तेऽपि प्रोचुः कुशलमात्मनः ॥ १२॥
ते तु संहृष्टहृदयं ज्ञात्वा तं वै मुनीश्वराः ।
प्रणवार्थावगत्यर्थमूचुः प्रास्ताविकं वचः ॥ १३॥
मुनय ऊचुः ।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम ।
धन्यस्त्वं शिवभक्तो हि सर्वविज्ञानसागरः ॥ १४॥
भवन्तमेव भगवान्व्यासः सर्वजगद्गुरुः ।
अभिषिच्य पुराणानां गुरुत्वे समयोजयत् ॥ १५॥
तस्मात्पौराणिकी विद्या भवतो हृदि संस्थिता ।
पुराणानि च सर्वाणि वेदार्थं प्रवदन्ति हि ॥ १६॥
वेदाः प्रणवसम्भूताः प्रणवार्थो महेश्वरः ।
अतो महेश्वरस्थानं त्वयि धिष्ण्यं प्रतिष्ठितम् ॥ १७॥
त्वन्मुखाब्जपरिस्यन्दन्मकरन्देमनोहरम् ।
प्रणवार्थामृतं पीत्वा भविष्यामो गतज्वराः ॥ १८॥
विशेषतो गुरुस्त्वं हि नान्योऽस्माकं महामते ।
परं भावं महेशस्य परया कृपया वद ॥ १९॥
इति तेषां वचः श्रुत्वा सूतो व्यासप्रियः सुधीः ।
गणेशं षण्मुखं साक्षान्महेशानं महेश्वरीम् ॥ २०॥
शिलादतनयं देवं नन्दीशं सुयशापतिम् ।
सनत्कुमारं व्यासं च प्रणिपत्येदमब्रवीत् ॥ २१॥
सूत उवाच ।
साधु साधु महाभागा मुनयः क्षीणकल्मषाः ।
मतिर्दृढतरा जाता दुर्लभा सापि दुष्कृताम् ॥ २२॥
पाराशर्येण गुरुणा नैमिषारण्यवासिनाम् ।
मुनीनामुपदिष्टं यद् वक्ष्ये तन्मुनिपुङ्गवाः ॥ २३॥
यस्य श्रवणमात्रेण शिवभक्तिर्भवेन्नृणाम् ।
सावधाना भवन्तोऽद्य शृण्वन्तु परया मुदा ॥ २४॥
स्वारोचिषेऽन्तरे पूर्वं तपस्यन्तो दृढव्रताः ।
ऋषयो नैमिषारण्ये सर्वसिद्धनिषेविते ॥ २५॥
दीर्घसत्रं वितन्वन्तो रुद्रमध्वरनायकम् ।
प्रीणयन्तः परं भावमैश्वर्यं ज्ञातुमिच्छवः ॥ २६॥
निवसन्ति स्म ते सर्वे व्यासदर्शनकाङ्क्षिणः ।
शिवभक्तिरता नित्यं भस्मरुद्राक्षधारिणः ॥ २७॥
तेषां भावं समालोक्य भगवान्बादरायणः ।
प्रादुर्बभूव सर्वात्मा पराशरतपःफलम् ॥ २८॥
तं दृष्ट्वा मुनयः सर्वे प्रहृष्टवदनेक्षणाः ।
अभ्युत्थानादिभिः सर्वैरुपचारैरुपाचरन् ॥ २९॥
सत्कृत्य प्रददुस्तस्मै सौवर्णं विष्टरं शुभम् ।
सुखोपविष्टः स तदा तस्मिन्सौवर्णविष्टरे ।
प्राह गम्भीरया वाचा पाराशर्यो महामुनिः ॥ ३०॥
व्यास उवाच ।
कुशलं किं नु युष्माकं प्रब्रूतास्मिन्महामखे ।
अर्चितः किं नु युष्माभिः सम्यगध्वरनायकः ॥ ३१॥
किमर्थमत्र युष्माभिरध्वरे परमेश्वरः ।
स्वर्चितो भक्तिभावेन साम्बः संसारमोचकः ॥ ३२॥
युष्मत्प्रवृत्तिर्मे भाति शुश्रूषापूर्वमेव हि ।
परभावे महेशस्य मुक्तिहेतोः शिवस्य च ॥ ३३॥
एवमुक्ता मुनीन्द्रेण व्यासेनामिततेजसा ।
मुनयो नैमिषारण्यवासिनः परमौजसः ॥ ३४॥
प्रणिपत्य महात्मानं पाराशशर्यं महामुनिम् ।
शिवानुरागसंहृष्टमानसं च तमब्रुवन् ॥ ३५॥
मुनय ऊचुः ।
भगवन्मुनिशार्दूल साक्षान्नारायणांशज ।
कृपानिधे महाप्राज्ञ सर्वविद्याधिप प्रभो ॥ ३६॥
त्वं हि सर्वजगद्भर्तुर्महादेवस्य वेधसः ।
साम्बस्य सगणस्यास्य प्रसादानां निधिः स्वयम् ॥ ३७॥
त्वत्पादाब्जरसास्वादमधुपायितमानसाः ।
कृतार्था वयमद्यैव भवत्पादाब्जदर्शनात् ॥ ३८॥
त्वदीयचरणाम्भोजदर्शनं खलु पापिनाम् ।
दुर्लभं लब्धमस्माभिस्तस्मात्सुकृतिनो वयम् ॥ ३९॥
अस्मिन्देशे महाभाग नैमिषारण्यसंज्ञके ।
दीर्घसत्रान्विताः सर्वे प्रणवार्थप्रकाशकाः ॥ ४०॥
श्रोतव्यः परमेशान इति कृत्वा विनिश्चिताः ।
परस्परं चिन्तयन्तः परं भावं महेशितुः ॥ ४१॥
अज्ञातवन्त एवैते वयं तस्माद्भवान्प्रभो ।
छेत्तुमर्हति तान्सर्वान् संशयानल्पचेतसाम् ॥ ४२॥
त्वदन्यः संशयस्यास्य छेता न हि जगत्त्रये ।
तस्मादपारगम्भीरव्यामोहाब्धौ निमज्जतः ॥ ४३॥
तारयस्व शिवज्ञानपोतेनास्मान्दयानिधे ।
शिवसद्भक्तितत्त्वार्थं ज्ञातुं श्रद्धालवो वयम् ॥ ४४॥
एवमभ्यर्थितस्तत्र मुनिभिर्वेदपारगैः ।
सर्ववेदार्थविन्मुख्यः शुकतातो महामुनिः ।
वेदान्तसारसर्वस्वं प्रणवं परमेश्वरम् ॥ ४५॥
ध्यात्वा हृत्कर्णिकामध्ये साम्बं संसारमोचकम् ।
प्रहृष्टमानसो भूत्वा व्याजहार महामुनिः ॥ ४६॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां व्यासशौनकादिसंवादो नाम प्रथमोऽध्यायः ॥ ६.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.२. द्वितीयोऽध्यायः । देवीदेवसंवादे देवीकृतप्रश्नवर्णनम् ।
व्यास उवाच ।
साधु पृष्टमिदं विप्रा भवद्भिर्भाग्यवत्तमैः ।
दुर्लभं हि शिवज्ञानं प्रणवार्थप्रकाशकम् ॥ १॥
येषां प्रसन्नो भगवान्साक्षाच्छूलवरायुधः ।
तेषामेव शिवज्ञानं प्रणवार्थप्रकाशकम् ॥ २॥
जायते न हि सन्देहो नेतरेषामिति श्रुतिः ।
शिवभक्तिविहीनानामिति तत्त्वार्थनिश्चयः ॥ ३॥
दीर्घसत्रेण युष्माभिर्भगवानम्बिकापतिः ।
उपासित इतीदं मे दृष्टमद्य विनिश्चितम् ॥ ४॥
तस्माद्वक्ष्यामि युष्माकमितिहासं पुरातनम् ।
उमामहेशसंवादरूपमद्भुतमास्तिकाः ॥ ५॥
पुराखिलजगन्माता सती दाक्षायणी तनुम् ।
शिवनिन्दाप्रसङ्गेन त्यक्त्वा च जनकाध्वरे ॥ ६॥
ततः प्रभावात्सा देवी सुताभूद्धिमवद्गिरेः ।
शिवार्थमतपत्सा वै नारदस्योपदेशतः ॥ ७॥
तस्मिन्भूधरवर्ये तु स्वयंवरविधानतः ।
देवेशे च कृतोद्वाहे पार्वती सुखमाप सा ॥ ८॥
तथैकस्मिन्महादेवी समये पतिना सह ।
सूपविष्टा महाशैले गौरी देवमभाषत ॥ ९॥
महादेव्युवाच ।
भगवन्परमेशान पञ्चकृत्यविधायक ।
सर्वज्ञ भक्तिसुलभ परमामृतविग्रह ॥ १०॥
दाक्षायणीं तनुं त्यक्त्वा तव निन्दाप्रसङ्गतः ।
आसमद्य महेशान पुत्री हिमवतो गिरेः ॥ ११॥
कृपया परमेशान मन्त्रदीक्षाविधानतः ।
मां विशुद्धात्मतत्त्वस्थां कुरु नित्यं महेश्वर ॥ १२॥
इति सम्प्रार्थितो देव्या देवः शीतांशुभूषणः ।
प्रत्युवाच ततो देवीं प्रहृष्टेनान्तरात्मना ॥ १३॥
महादेव उवाच ।
धन्या त्वं देवदेवशि यदि जातेदृशी मतिः ।
कैलासशिखरं गत्वा करिष्ये त्वां च तादृशीम् ॥ १४॥
ततो हिमवतो गत्वा कैलासं भूधरेश्वरम् ।
जगौ दीक्षाविधानेन प्रणवादीन्मनून् क्रमात् ॥ १५॥
उक्त्वा मन्त्रांश्च तान्देवीं कृत्वा शुद्धात्मनि स्थिताम् ।
सार्धं देव्या महादेवो देवोद्यानं गतोऽभवत् ॥ १६॥
ततः सुमालिनीमुख्यैर्देव्याः प्रियसखीजनैः ।
समाहृतैः प्रफुल्लैस्तैः पुष्पैः कल्पतरूद्भवैः ॥ १७॥
अलङ्कृत्य महादेवीं स्वाङ्कमारोप्य शङ्करः ।
प्रहृष्टवदनस्तस्थौ विलोक्य च तदाननम् ॥ १८॥
ततः प्रियकथा जाताः पार्वतीपरमेशयोः ।
हिताय सर्वलोकानां साक्षाच्छ्रुत्यर्थसम्मिताः ॥ १९॥
तदा सर्वजगन्माता भर्तुरङ्कं समाश्रिता ।
विलोक्य वदनं भर्तुरिदमाहः तपोधनाः ॥ २०॥
श्रीदेव्युवाच ।
उपदिष्टास्त्वया देव मन्त्राः सप्रणवा मताः ।
तत्रादौ श्रोतुमिच्छामि प्रणवार्थं विनिश्चितम् ॥ २३॥
कथं प्रणव उत्पन्नः कथं प्रणव उच्यते ।
मात्राः कति समाख्याताः कथं वेदादिरुच्यते ॥ २२॥
देवताः कति च प्रोक्ताः कथं देवादिभावना ।
क्रियाः कतिविधाः प्रोक्ता व्याप्यव्यापकता कथम् ॥ २३॥
ब्रह्माणि पञ्च मन्त्रेऽस्मिन्कथं तिष्ठन्त्यनुक्रमात् ।
कलाः कति समाख्याताः प्रपञ्चात्मकता कथम् ॥ २४॥
वाच्यवाचकसम्बन्धस्थानानि च कथं शिव ।
कोऽत्राधिकारी विज्ञेयो विषयः क उदाहृतः ॥ २५॥
सम्बन्धः कोऽत्र विज्ञेयः किं प्रयोजनमुच्यते ।
उपासकस्तु किंरूपः किं वा स्थानमुपासनम् ॥ २६॥
उपास्यं वस्तु किंरूपं किं वा फलमुपासितुः ।
अनुष्ठानविधिः कोवा पूजास्थानं च किं प्रभो ॥ २७॥
पूजायां मण्डलं किं वा किं वा ऋष्यादिकं हर ।
न्यासजापविधिः को वा को वा पूजाविधिक्रमः ॥ २८॥
एतत्सर्वं महेशान समाचक्ष्व विशेषतः ।
श्रोतुमिच्छामि तत्त्वेन यद्यस्ति मयि ते कृपा ॥ २९॥
इति देव्या समापृष्टो भगवानिन्दुभूषणः ।
सम्प्रशस्य महेशानीं वक्तुं समुपचक्रमे ॥ ३०॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां देवीदेवसंवादे देवीकृतप्रश्नवर्णनं नाम द्वितीयोऽध्यायः ॥ ६.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.३. तृतीयोऽध्यायः । संन्यासपद्धतिवर्णनम् ।
ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण जीवः साक्षाच्छिवो भवेत् ॥ १॥
प्रणवार्थपरिज्ञानमेव ज्ञानं मदात्मकम् ।
बीजं तत्सर्वविद्यानां मन्त्रं प्रणवनामकम् ॥ २॥
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ।
वेदादि वेदसारं च मद्रूपं च विशेषतः ॥ ३॥
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ।
ओमित्येकाक्षरे मन्त्रे स्थितोऽहं सर्वगः शिवः ॥ ४॥
यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः ।
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ ५॥
सर्वार्थसाधकं तस्मादेकं ब्रह्मैतदक्षरम् ।
तेनोमिति जगत्कृस्नं कुरुते प्रथमं शिवः ॥ ६॥
शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ।
वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ॥ ७॥
तस्मादेकाक्षरं देवं मां च ब्रह्मर्षयो विदुः ।
वाच्यवाचकयोरैक्यं मन्यमाना विपश्चितः ॥ ८॥
अतस्तदेव जानीयात्प्रणवं सर्वकारणम् ।
निर्विकारी मुमुक्षुर्मां निर्गुणं परमेश्वरम् ॥ ९॥
एनमेव हि देवेशि सर्वमन्त्रशिरोमणिम् ।
काश्यामहं प्रदास्यामि जीवानां मुक्तिहेतवे ॥ १०॥
तत्रादौ सम्प्रवक्ष्यामि प्रणवोद्धारमम्बिके ।
यस्य विज्ञानमात्रेण सिद्धिश्च परमा भवेत् ॥ ११॥
निवृत्तिमुद्धरेत्पूर्वमिन्धनं च ततः परम् ।
कालं समुद्धरेत्पश्चाद्दण्डमीश्वरमेव च ॥ १२॥
वर्णपञ्चकरूपोऽयमेवं प्रणव उद्धृतः ।
त्रिमात्रबिन्दुनादात्मा मुक्तिदो जपतां सदा ॥ १३॥
ब्रह्मादिस्थावरान्तानां सर्वेषां प्राणिनां खलु ।
प्राणः प्रणव एवायं तस्मात्प्रणव ईरितः ॥ १४॥
आद्यं वर्णमकारं च उकारमुत्तरे ततः ।
मकारं मध्यतश्चैव नादान्तं तस्य चोमिति ॥ १५॥
जलवद्वर्णमाद्यं तु दक्षिणे चोत्तरे तथा ।
मध्ये मकारं शुचिवदोङ्कारे मुनिसत्तम ॥ १६॥
अकारश्चाप्युकारोऽयं मकारश्च त्रयं क्रमात् ।
तिस्रो मात्राः समाख्याता अर्धमात्रा ततः परम् ॥ १७॥
अर्धमात्रा महेशानि बिन्दुनादस्वरूपिणी ।
वर्णनीया न वै चाद्धा ज्ञेया ज्ञानिभिरेव सा ॥ १८॥
ईशानः सर्वविद्यानामित्यद्याः श्रुतयः प्रिये ।
मत्त एव भवन्तीति वेदाः सत्यं वदन्ति हि ॥ १९॥
तस्माद् वेदादिरेवाहं प्रणवो मम वाचकः ।
वाचकत्वान्ममैषोऽपि वेदादिरिति कथ्यते ॥ २०॥
अकारस्तु महद् बीजं रजः स्रष्टा चतुर्मुखः ।
उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ २१॥
मकारः पुरुषो बीजी तमः संहारको हरः ।
बिन्दुर्महेश्वरो देवस्तिरोभाव उदाहृतः ॥ २२॥
नादः सदाशिवः प्रोक्तः सर्वानुग्रहकारकः ।
नादमूर्द्धनि सञ्चिन्त्यः परात्परतरः शिवः ॥ २३॥
स सर्वज्ञः सर्वकर्त्ता सर्वेशो निर्मलोऽव्ययः ।
अनिर्देश्यः परब्रह्म साक्षात्सदसतः परः ॥ २४॥
अकारादिषु वर्णेषु व्यापकं चोत्तरोत्तरम् ।
व्याप्यं त्वधस्तनं वर्णमेवं सर्वत्र भावयेत् ॥ २५॥
सद्यादीशानपर्यन्तान्यकारादिषु पञ्चसु ।
स्थितानि पञ्च ब्रह्माणि तानि मन्मूर्त्तयः क्रमात् ॥ २६॥
अष्टौ कलाः समाख्याता अकारे सद्यजाः शिवे ।
उकारे वामरूपिण्यस्त्रयोदश समीरिताः ॥ २७॥
अष्टावघोररूपिण्यो मकारे संस्थिताः कलाः ।
बिन्दौ चतस्रः सम्भूताः कलाः पुरुषगोचराः ॥ २८॥
नादे पञ्च समाख्याताः कला ईशानसम्भवाः ।
षड्विधैक्यानुसन्धानात्प्रपञ्चात्मकतोच्यते ॥ २९॥
मन्त्रो यन्त्रं देवता च प्रपञ्चो गुरुरेव च ।
शिष्यश्च षट्पदार्थानामेषामर्थं शृणु प्रिये ॥ ३०॥
पञ्चवर्णसमष्टिः स्यान्मन्त्रः पूर्वमुदाहृतः ।
स एव यन्त्रतां प्राप्तो वक्ष्ये तन्मण्डलक्रमम् ॥ ३१॥
यन्त्रं तु देवतारूपं देवता विश्वरूपिणी ।
विश्वरूपो गुरुः प्रोक्तः शिष्यो गुरुवपुः स्मृतः ॥ ३२॥
ओमितीदं सर्वमिति सर्वं ब्रह्मेति च श्रुतेः ।
वाच्यवाचकसम्बन्धोऽप्ययमेवार्थ ईरितः ॥ ३३॥
आधारो मणिपूरश्च हृदयं तु ततः परम् ।
विशुद्धिराज्ञा च ततः शक्तिः शान्तिरिति क्रमात् ॥ ३४॥
स्थानान्येतानि देवेशि शान्त्यतीतं परात्परम् ।
अधिकारी भवेद्यस्य वैराग्यं जायते दृढम् ॥ ३५॥
विषयः स्यामहं देवि जीवब्रह्मैक्यभावनात् ।
सम्बन्धं शृणु देवेशि विषयः सम्यगीरितः ॥ ३६॥
जीवात्मनो मया सार्धमैक्यस्य प्रणवस्य च ।
वाच्यवाचकभावोऽत्र संवन्धः समुदीरितः ॥ ३७॥
व्रतादिनिरतः शान्तस्तपस्वी विजितेन्द्रियः ।
शौचाचारसमायुक्तो भूदेवो वेदनिष्ठितः ॥ ३८॥
विषयेषु विरक्तः सन्नैहिकामुष्मिकेषु च ।
देवानां ब्राह्मणानां च सद्भक्तश्च शिवव्रती ॥ ३९॥
सर्वशास्त्रार्थतत्त्वज्ञं वेदान्तज्ञानपारगम् ।
आचार्यमुपसङ्गम्य यतिं मतिमतां वरम् ॥ ४०॥
दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतः सुधीः ।
शान्त्यादिगुणसंयुक्तः शिष्यः सौशील्यवान्वरः ॥ ४१॥
यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
इति निश्चित्य मनसा स्वविचारं निवेदयेत् ॥ ४२॥
लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोव्रती ।
समुद्रतीरे नद्यां च पर्वते वा शिवालये ॥ ४३॥
शुक्लपक्षे तु पञ्चम्यामेकादश्यां तथापि वा ।
प्रातः स्नात्वा तु शुद्धात्मा कृतनित्यक्रियः सुधीः ॥ ४४॥
गुरुमाहूय विधिना नान्दीश्राद्धं विधाय च ।
क्षौरं च कारयित्वाथ कक्षोपस्थविवर्जितम् ॥ ४५॥
केशश्मश्रुनखानां वै स्नात्वा नियतमानसः ।
सक्तुं प्राश्याथ सायाह्ने स्नात्वा सन्ध्यामुपास्य च ॥ ४६॥
सायमौपासनं कृत्वा गुरुणा सहितो द्विजः ।
शास्त्रोक्तदक्षिणां दत्त्वा शिवाय गुरुरूपिणे ॥ ४७॥
होमद्रव्याणि सम्पाद्य स्वसूत्रोक्तविधानतः ।
अग्निमाधाय विधिवल्लौकिकादिविभेदतः ॥ ४८॥
आहिताग्निस्तु यः कुर्यात्प्राजापत्येष्टिनाहिते ।
श्रौते वैश्वानरे सम्यक् सर्ववेदसदक्षिणम् ॥ ४९॥
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ।
श्रपयित्वा चरुं तस्मिन्समिदन्नाज्यभेदतः ॥ ५०॥
पौरुषेणैव सूक्तेन हुत्वा प्रत्यृचमात्मवान् ।
हुत्वा च सौविष्टकृतीं स्वसूत्रोक्तविधानतः ॥ ५१॥
हुत्वोपरिष्टात्तन्त्रं च तेनाग्नेरुत्तरे बुधः ।
स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ।
यावद् ब्राह्ममुहूर्त्तं तु गायत्रीं दृढमानसः ॥ ५२॥
ततः स्नात्वा यथापूर्वं श्रपयित्वा चरुं ततः ।
पौरुषं सूक्तमारभ्य विरजान्तं हुनेद् बुधः ॥ ५३॥
वामदेवमतेनापि शौनकादिमतेन वा ।
तत्र मुख्यं वामदेव्यं गर्भयुक्तो यतो मुनिः ॥ ५४॥
होमशेषं समाप्याथ प्रातरौपासनं हुनेत् ।
ततोऽग्निमात्मन्यारोप्य प्रातः सन्ध्यमुपास्य च ॥ ५५॥
सवितर्युदिते पश्चात्सावित्रीं प्राविशेत्क्रमात् ।
एषणानां त्रयं त्यक्त्वा प्रेषमुच्चार्य च क्रमात् ॥ ५६॥
शिखोपवीते सन्त्यज्य कटिसूत्रादिकं ततः ।
विसृज्य प्राङ्मुखो गच्छेदुत्तराशामुखोऽपि वा ॥ ५७॥
गृह्णीयाद्दण्डकौपीनाद्युचितं लोकवर्तने ।
विरक्तश्चेन गृह्णीयाल्लोकवृत्तिविचारणे ॥ ५८॥
गुरोः समीपं गत्वाथ दण्डवत्प्रणमेत्त्रयम् ।
समुत्थाय ततस्तिष्ठेद् गुरुपादसमीपतः ॥ ५९॥
ततो गुरुः समादाय विरजानलजं सितम् ।
भस्म तेनैव तं शिष्यं समुद्धूत्य यथाविधि ॥ ६०॥
अग्निरित्यादिभिर्मन्त्रैस्त्रिपुण्ड्रं धारयेत्ततः ।
हृत्पङ्कजे समासीनं मां त्वया सह चिन्तयेत् ॥ ६१॥
हस्तं निधाय शिरसि शिष्यस्य प्रीतमानसः ।
ऋष्यादिसहितं तस्य दक्षकर्णे समुच्चरेत् ॥ ६२॥
प्रणवं त्रिःप्रकारं तु ततस्तस्यार्थमादिशेत् ।
षड्विधार्थं परिज्ञानसहितं गुरुसत्तमः ॥ ६३॥
द्विषट्प्रकारं स गुरुं प्रणम्य भुवि दण्डवत् ।
तदधीनो भवेन्नित्यं वेदान्तं सम्यगभ्यसेत् ॥ ६४॥
मामेव चिन्तयेन्नित्यं परमात्मानमात्मनि ।
विशुद्धे निर्विकारे वै ब्रह्मसाक्षिणमव्ययम् ॥ ६५॥
शमादिधर्मनिरतो वेदान्तज्ञानपारगः ।
अत्राधिकारी स प्रोक्तो यतिर्विगतमत्सरः ॥ ६६॥
हृत्पुण्डरीकं विरजं विशोकं विशदं परम् ।
अष्टपत्रं केशराढ्यं कर्णिकोपरि शोभितम् ॥ ६७॥
आधारशक्तिमारभ्य त्रितत्वान्तमयं पदम् ।
विचिन्त्य मध्यतस्तस्य दहरं व्योम भावयेत् ॥ ६८॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मां त्वया सह ।
चिन्तयेन्मध्यतस्तस्य नित्यमुद्युक्तमानसः ॥ ६९॥
एवंविधोपासकस्य मल्लोकगतिमेव च ।
मत्तो विज्ञानमासाद्य मत्सायुज्यफलं प्रिये ॥ ७०॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतिवर्णनं नाम तृतीयोऽध्यायः ॥ ६.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.४. चतुर्थोऽध्यायः । संन्यासाचारवर्णनम् ।
ईश्वर उवाच ।
अतः परं प्रवक्ष्यामि संन्यासाह्निककर्म च ।
तव स्नेहान्महादेवि सम्प्रदायानुरोधतः ॥ १॥
ब्राह्मे मुहूर्त्त उत्थाय शिरसि श्वेतपङ्कजे ।
सहस्रारे समासीनं गुरुं सञ्चिन्तयेद्यतिः ॥ २॥
शुद्धस्फटिकसङ्काशं द्विनेत्रं वरदाभये ।
दधानं शिवसद्भावमेवात्मनि मनोहरम् ॥ ३॥
भावोपनीतैः सम्पूज्य गन्धादिभिरनुक्रमात् ।
बद्धाञ्जलिपुटो भूत्वा नमस्कुर्याद् गुरुं ततः ॥ ४॥
प्रातःप्रभृति सायान्ते सायादि प्रातरन्ततः ।
यत्करोमि महादेव तदस्तु तव पूजनम् ॥ ५॥
प्रतिविज्ञाप्य गुरवे लब्धानुज्ञस्ततो गुरोः ।
निरुद्धप्राण आसीनो विजितात्मा जितेन्द्रियः ॥ ६॥
मूलादिब्रह्मरन्ध्रान्तं षट्चक्रं परिचिन्तयेत् ।
विद्युत्कोटिसमप्रख्यं सर्वतेजोमयं परम् ॥ ७॥
तन्मध्ये चिन्तयेन्मां च सच्चिदानन्दविग्रहम् ।
निर्गुणं परमं ब्रह्म सदाशिवमनामयम् ॥ ८॥
सोऽहमस्मीति मतिमान्मदैक्यमनुभूय च ।
बहिर्निर्गत्य च ततो दूरं गच्छेद्यथासुखम् ॥ ९॥
वस्त्रेणाच्छाद्य मतिमाञ्छिरो नासिकया सह ।
विशोध्य देहं विधिवत्तृणमाधाय भूतले ॥ १०॥
गृहीतशिश्न उत्थाय ततो गच्छेज्जलाशयम् ।
उद्धृत्य वार्यथान्यायं शौचं कुर्यादतन्द्रितः ॥ ११॥
हस्तौ पादौ च संशोध्य द्विराचम्योमिति स्मरन् ।
उत्तराभिमुखो मौनी दन्तधावनमाचरेत् ॥ १२॥
तृणपर्णैः सदा कुर्यादमामेकादशीं विना ।
अपां द्वादशगण्डूषैर्मुखं संशोधयेत्ततः ॥ १३॥
द्विराचम्य मृदा तोयैः कटिशौचं विधाय च ।
अरुणोदयकाले तु स्नानं कुर्यान्मृदा सह ॥ १४॥
गुरुं संस्मृत्य मां चैव स्नानसन्ध्याद्यमाचरेत् ।
विस्तारभयतो नोक्तमत्र द्रष्टव्यमन्यतः ॥ १५॥
आबध्य शङ्खमुद्रां च प्रणवेनाभिषेचयेत् ।
शिरसि द्वादशावृत्त्या तदर्धं वा तदर्धकम् ॥ १६॥
तीरमागत्य कौपीनं प्रक्षाल्याचम्य च द्विधा ।
प्रोक्षयेत्प्रणवेनैव वस्त्रमङ्गोपमार्जनम् ॥ १७॥
मुखं प्रथमतो मृज्य शिर आरभ्य सर्वतः ।
तेनैव मार्जयेद्देहं स्थित्वा च गुरुसन्निधौ ॥ १८॥
आबध्याद् वामतः शुद्धं कौपीनं च सडोरकम् ।
ततः सन्धारयेद्भस्म तद्विधिः प्रोच्यतेऽद्रिजे ॥ १९॥
द्विराचम्य समादाय भस्म सद्यादिमन्त्रतः ।
अग्निरित्यादिभिर्मन्त्रैरभिमन्त्र्य स्पृशेत्तनुम् ॥ २०॥
आपोवेत्यभिमन्त्र्याथ जलं तेनैव सेचयेत् ।
ओमापोज्योतिरित्युक्त्वा मानस्तोकेति मन्त्रतः ॥ २१॥
सम्मर्द्य कवलद्वन्द्वं कुर्यादेकं तु पञ्चधा ।
शिरोवदनहृद्गुह्यपादेषु परमेश्वरि ॥ २२॥
ईशानादि समारभ्य सद्यान्तं पञ्चभिः क्रमात् ।
उद्धूल्य कवलं पश्चात्प्रणवेनाभिषेचयेत् ॥ २३॥
सर्वाङ्गं च ततो हस्तौ प्रक्षाल्यान्यत्समाहरेत्
सम्मर्द्य पूर्ववत्तत्तु त्रिपुण्ड्रांस्तेन धारयेत् ॥ २४॥
त्रियायुषैस्त्र्यम्बकैश्च प्रणवेन शिवेन च ।
शिरस्यथ ललाटे च वक्षसि स्कन्ध एव च ॥ २९॥
नाभौ बाह्वोः सन्धिषु च पृष्ठे चैव यथाक्रमम् ।
प्रक्षाल्य हस्तौ च ततो द्विराचम्य यथाविधि ॥ २६॥
पञ्चीकरणमुच्चार्य भावयेत्स्वगुरुं बुधः ।
वक्ष्यमाणप्रकारेण प्राणायामान्षडाचरेत् ॥ २७॥
दक्षहस्तेन सङ्गृह्य जलं वामेन पाणिना ।
समाच्छाद्य द्विषड्वारं प्रणवेनाभिमन्त्रयेत् ॥ २८॥
एवं त्रिवारं सम्प्रोक्ष्य शिरसि त्रिः पिबेत्ततः ।
समाहितेन मनसा ध्यायन्नोङ्कारमीश्वरम् ॥ २९॥
सौरमण्डलमध्यस्थं सर्वतेजोमयं परम् ।
अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम् ॥ ३०॥
सर्वाश्चर्यगुणोपेतं सर्वालङ्कारशोभितम् ।
एवं ध्यात्वाथ विधिवद्दद्यादर्घ्यत्रयं ततः ॥ ३१॥
अष्टोत्तरशतं जप्त्वा द्विषड्वारं तु तर्पयेत् ।
पुनराचम्य विधिवत्प्राणायामत्रयं चरेत् ॥ ३२॥
पूजासदनमागच्छेन्मनसा संस्मरन् शिवम् ।
द्वारमासाद्य प्रक्षाल्य पादौ मौनी द्विराचमेत् ॥ ३३॥
प्रविशेद्विधिना तत्र दक्षपादपुरःसरम् ।
मण्डपान्तः सुधीस्तत्र मण्डलं रचयेत्क्रमात् ॥ ३४॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासाचारवर्णनं नाम चतुर्थोऽध्यायः ॥ ६.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.५. पञ्चमोऽध्यायः । संन्यासमण्डलविधिवर्णनम् ।
ईश्वर उवाच ।
परीक्ष्य विधिवद्भूमिं गन्धवर्णरसादिभिः ।
मनोभिलषिते तत्र वितानवितताम्बरे ॥ १॥
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ।
अरत्नियुग्ममानेन चतुरस्रं प्रकल्पयेत् ॥ २॥
तालपत्रं समादाय तत्समायामविस्तरम् ।
तस्मिन्भागान्प्रकुर्वीत त्रयोदशसमां कलाम् ॥ ३॥
तत्पत्रं तत्र निःक्षिप्य पश्चिमाभिमुखः स्थितः ।
तत्पूर्वभागे सुदृढं सूत्रमादाय रञ्जितम् ॥ ४॥
प्राक् प्रत्यग् दक्षिणोदक् च चतुर्दिशि निपातयेत् ।
सूत्राणि देवदेवेशि नवषष्ट्युत्तरं शतम् ॥ ५॥
कोष्ठानि स्युस्ततस्तस्य मध्यकोष्ठं तु कर्णिका ।
कोष्ठाष्टकं बहिस्तस्य दलाष्टकमिहोच्यते ॥ ६॥
दलानि श्वेतवर्णात्रि समग्राणि प्रकल्पयेत् ।
पीतरूपां कर्णिकां च कृत्वारक्तं च वृत्तकम् ॥ ७॥
वनभिद्दलदक्षं तु समारभ्य सुरेश्वरि ।
रक्तकृष्णाः क्रमेणैव दलसन्धीन्विचित्रयेत् ॥ ८॥
कर्णिकायां लिखेद् यन्त्रं प्रणवार्थप्रकाशकम् ।
अधः पीठं समालिख्य श्रीकण्ठं च तदूर्ध्वतः ॥ ९॥
तदुपर्यमरेशं च महाकालं च मध्यतः ।
तन्मस्तकस्थं दण्डं च तत ईश्वरमालिखेत् ॥ १०॥
श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् ।
अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात् ॥ ११॥
कुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः ।
एवं यन्त्रं समालिख्य रक्तं सद्येन वेष्टयेत् ॥ १२॥
तदुत्थेनैव नादेन भिन्द्यादीशानमीश्वरि ।
तद्बाह्यपङ्क्तीर्गृह्णीयादाग्नेयादिक्रमेण वै ॥ १३॥
कोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि ।
शुक्लेनापूर्य वर्णादि चतुष्कं रक्तधातुभिः ॥ १४॥
आपूर्य तानि चत्वारि द्वाराणि परिकल्पयेत् ।
ततस्तत्पार्श्वयोर्द्वन्द्वं पीतेनैव प्रपूरयेत् ॥ १५॥
आग्नेयकोष्ठमध्ये तु पीताभे चतुरस्रके ।
अष्टपत्रं लिखेत्पद्मं रक्ताभं पीतकर्णिकम् ॥ १६॥
हकारं विलिखेन्मध्ये बिन्दुयुक्तं समाहितः ।
पद्मस्य नैरृते कोष्ठे चतुरस्रं तदा लिखेत् ॥ १७॥
पद्ममष्टदलं रक्तं पीतकिञ्जल्ककर्णिकम् ।
शवर्गस्य तृतीयं तु षष्ठस्वरसमन्वितम् ॥ १८॥
चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।
एतद् बीजवरं भद्रे पद्ममध्ये समालिखेत् ॥ १९॥
पद्मस्येशानकोष्ठे तु तथा पद्मं समालिखेत् ।
कवर्गस्य तृतीयं तु पञ्चमस्वरसंयुतम् ॥ २०॥
विलिखेन्मध्यतस्तस्य बिन्दुं कण्ठे स्वलङ्कृतम् ।
तद्बाह्यपङ्क्तित्रितये पूर्वादिपरितः क्रमात् ॥ २१॥
कोष्ठानि पञ्च गृह्णीयाद्गिरिराजसुते शिवे ।
मध्ये तु कर्णिकां कुर्यात्पीतां रक्तं च वृत्तकम् ॥ २२॥
दलानि रक्तवर्णानि कल्पयेत्कल्पवित्तमः ।
दलबाह्ये तु कृष्णेन रन्ध्राणि परिपूरयेत् ॥ २३॥
आग्नेयादीनि चत्वारि शुक्लेनैव प्रपूरयेत् ।
पूर्वे षड्बिन्दुसहितं षट्कोणं कृष्णमालिखेत् ॥ २४॥
रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः ।
श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे ॥ २५॥
चतुरस्रं क्रमात्तेषु लिखेद्बीजं चतुष्टयम् ।
पूर्वे बिन्दुं समालिख्य शुभ्रं कृष्णं तु दक्षिणे ॥ २६॥
उकारमुत्तरे रक्तं मकारं पश्चिमे ततः ।
अकारं पीतमेवं तु कृत्वा वर्णचतुष्टयम् ॥ २७॥
सर्वोर्ध्वपङ्क्त्यधः पङ्क्तौ समारभ्य च सुन्दरि ।
पीतं श्वेतं च रक्तं च कृष्णं चेति चतुष्टयम् ॥ २८॥
तदधो धवलं श्यामं पीतं रक्तं चतुष्टयम् ।
अधस्त्रिकोणके रक्तं शुक्लं पीतं वरानने ॥ २९॥
एवं दक्षिणमारभ्य कुर्यात्सोमान्तमीश्वरि ।
तद्बाह्यपङ्क्तौ पूर्वादिमध्यमान्तं विचित्रयेत् ॥ ३०॥
पीतं रक्तं च कृष्णं च श्यामं श्वेतं च पीतकम् ।
आग्रेयादि समारभ्य रक्तं श्यामं सितं प्रिये ॥ ३१॥
रक्तं कृष्णं च रक्तं च षट्कमेव प्रकीर्तितम् ।
दक्षिणाद्यं महेशानि पूर्वावधि समीरितम् ॥ ३२॥
नैरृताद्यं तु विज्ञेयमाग्नेयावधि चेश्वरि ।
वारुणं तु समारभ्य दक्षिणावधि चेरितम् ॥ ३३॥
वायव्याद्यं महादेवि नैरृतावधि चेरितम् ।
सोमाद्यं परमेशानि वारुणावधि चेरितम् ॥ ३४॥
ईशानाद्यं तु विज्ञेयं वायव्यावधि चाम्बिके ।
इत्युक्तो मण्डलविधिर्मया तुभ्यं च पार्वति ॥ ३५॥
एवं मण्डलमालिख्य नियतात्मा यतिः स्वतः ।
सौरपूजां प्रकुर्वीत स हि तद्वस्तुतत्परः ॥ ३६॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासमण्डलविधिवर्णनं नाम पञ्चमोऽध्यायः ॥ ६.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.६. षष्ठोऽध्यायः । अन्न्यासपद्धतौ न्यासवर्णनम् ।
ईश्वर उवाच ।
दक्षिणे मण्डलस्याथ वैयाघ्रं चर्म शोभनम् ।
आस्तीर्य शुद्धतोयेन प्रोक्षयेदस्त्रमन्त्रतः ॥ १॥
प्रणवं पूर्वमुद्धृत्य पश्चादाधारमुद्धरेत् ।
तत्पश्चाच्छक्तिकमलं चतुर्थ्यन्तं नमोऽन्तकम् ॥ २॥
मनुमेवं समुच्चार्य स्थित्वा तस्मिन्नुदङ्मुखः ।
प्राणानायम्य विधिवत्प्रणवोच्चारपूर्वकम् ॥ ३॥
अग्निरित्यादिभिर्मन्त्रैर्भस्म सन्धारयेत्ततः ।
शिरसि श्रीगुरुं नत्वा मण्डलं रचयेत्पुनः ॥ ४॥
त्रिकोणवृत्तं बाह्ये तु चतुरस्रात्मकं क्रमात् ।
अभ्यर्च्योमिति साधारं स्थाप्य शङ्खं समर्चयेत् ॥ ५॥
आपूर्य शुद्धतोयेन प्रणवेन सुगन्धिना ।
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा ॥ ६॥
अभिमन्त्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ।
शङ्खमुद्रां च तेनैव प्रोक्षयेदस्त्रमन्त्रतः ॥ ७॥
आत्मानं गन्धपुष्पादिपूजोपकरणानि च ।
प्राणायामत्रयं कृत्वा ऋष्यादिकमथाचरेत् ॥ ८॥
अस्य श्रीसौरमन्त्रस्य देवभाग ऋषिस्ततः ।
छन्दो गायत्रमित्युक्तं देवः सूर्यो महेश्वरः ॥ ९॥
देवता स्यात्षडङ्गानि ह्रामित्यादीनि विन्यसेत् ।
ततः सम्प्रोक्षयेत्पद्ममस्त्रेणाग्नेरगोचरम् ॥ १०॥
तस्मिन्समर्चयेद्विद्वान् प्रभूतां विमलामपि ।
सारां चाथ समाराध्य पूर्वादिपरतः क्रमात् ॥ ११॥
अथ कालाग्निरुद्रं च शक्तिमाधारसंज्ञिताम् ।
अनन्तं पृथिवीं चैव रत्नद्वीपं तथैव च ॥ १२॥
सङ्कल्य वृक्षोद्यानं च गृहं मणिमयं ततः ।
रक्तपीठं च सम्पूज्य पादेषु प्रागुपक्रमात् ॥ १३॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् ।
अधर्माद्यग्निकोणादिकोणेषु च समर्चयेत् ॥ १४॥
मायाधश्छदनं पश्चाद्विद्योर्ध्वच्छदनं ततः ।
सत्त्वं रजस्तमश्चैव समभ्यर्च्य यथाक्रमम् ॥ १५॥
पूर्वादिदिक्षु मध्ये च दीप्तां सूक्ष्मां जयामपि ।
भद्रां विभूतिं विमलाममोघां वैद्युतामपि ॥ १६॥
सर्वतोमुखसंज्ञां च कन्दनालं तथैव च ।
सुषिरं च ततस्तं तु कण्टकांस्तदनन्तरम् ॥ १७॥
मूलच्छदनकिञ्जल्कप्रकाशसकलात्मनः ।
पञ्चग्रन्थिकर्णिकां च दलानि तदनन्तरम् ॥ १८॥
केशरान् ब्रह्मविष्णू च रुद्रमात्मानमेव च ।
अन्तरात्मानमपि च ज्ञानात्मपरमात्मनि ॥ १९॥
सम्पूज्य पश्चात्सौराख्यं योगपीठं समर्चयेत् ।
पीठोपरि समाकल्प्य मूर्त्तिं मूलेन मूलवित् ॥ २०॥
निरुद्धप्राण आसीनो मूलेनैव स्वमूलतः ।
शक्तिमुत्थाप्य तत्तेन प्रभावात्पिङ्गलाध्वना ॥ २१॥
पुष्पाञ्जलौ निर्गमय्य मण्डलस्थस्य भास्वतः ।
सिन्दूरारुणदेहस्य वामार्धदयितस्य च ॥ २२॥
अक्षस्रक्पाशखट्वाङ्गकपालाङ्कुशपङ्कजम् ।
शङ्खं चक्रं दधानस्य चतुर्वक्त्रस्य लोचनैः ॥ २३॥
राजितस्य द्वादशभिस्तस्य हृत्पङ्कजोदरे ।
प्रणवं पूर्वमुद्धृत्य ह्रां ह्रीं सस्तदनन्तरम् ॥ २४॥
प्रकाशशक्तिसहितं मार्तण्डं च ततः परम् ।
आवाहयामि नम इत्यावाह्यावाहनाख्यया ॥ २५॥
मुद्रया स्थापनाद्याश्च मुद्राः सन्दर्शयेत्ततः ।
विन्यस्याङ्गानि ह्रां ह्रीं ह्रूं अन्तेन मनुना ततः ॥ २६॥
पञ्चोपचारान्सङ्कल्प्य मूलेनाभ्यर्चयेत् त्रिधा ।
केशरेषु च पद्मस्य षडङ्गानि महेश्वरि ॥ २७॥
वह्नीशरक्षोवायूनां परितः क्रमतः सुधीः ।
द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ २८॥
पूर्वाद्युत्तरपर्यन्तं दलमूलेषु पार्वति ।
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ २९॥
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चेति पुनः प्रिये ।
ईशानादिषु सम्पूज्यास्तृतीयावरणे पुनः ॥ ३०॥
सोमं कुजं बुधं जीवं कविं मन्दं तमस्तमः ।
समन्ततो यजेदेतान्पूर्वादिदलमध्यतः ॥ ३१॥
अथवा द्वादशादित्यान्द्वितीयावरणे यजेत् ।
तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ ३२॥
सप्तसागरगङ्गाश्च बहिरस्य समन्ततः ।
ऋषीन्देवांश्च गन्धर्वान्पन्नगानप्सरोगणान् ॥ ३३॥
ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ।
सप्तच्छन्दोमयांश्चैव बालखिल्यांश्च पूजयेत् ॥ ३४॥
एवं त्र्यावरणं देवं समभ्यर्च्य दिवाकरम् ।
विरच्य मण्डलं पश्चाच्चतुरस्रं समाहितः ॥ ३५॥
स्थाप्य साधारकं ताम्रपात्रं प्रस्थोदविस्तृतम् ।
पूरयित्वा जलैः शुद्धैर्वासितैः कुसुमादिभिः ॥ ३६॥
अभ्यर्च्य गन्धपुष्पाद्यैर्जानुभ्यामवनिं गतः ।
अर्घ्यपात्रं समादाय भ्रूमध्यान्तं समुद्धरेत् ॥ ३७॥
ततो ब्रूयादिमं मन्त्रं सावित्रं सर्वसिद्धिदम् ।
शृणु तच्च महादेवि भुक्तिमुक्तिप्रदं सदा ॥ ३८॥
सिन्दूरवर्णाय सुमण्डलाय
नमोऽस्तु वज्राभरणाय तुभ्यम् ।
पद्माभनेत्राय सपङ्कजाय
ब्रह्मेन्द्रनारायणकारणाय ॥ ३९॥
सरक्तचूर्णं ससुवर्णतोयं
स्रक्कुङ्कुमाढ्यं सकुशं सपुष्पम् ।
प्रदत्तमादाय सहेमपात्रं
प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ ४०॥
एवमुक्त्वा ततो दत्त्वा तदर्घ्यं सूर्यमूर्तये ।
नमस्कुर्यादिमं मन्त्रं पठित्वा सुसमाहितः ॥ ४१॥
नमः शिवाय साम्बाय सगणायादिहेतवे ।
रुद्राय विष्णवे तुभ्यं ब्रह्मणे च त्रिमूर्तये ॥ ४२॥
एवमुक्त्वा नमस्कृत्य स्वासने समवस्थितः ।
ऋष्यादिकं पुनः कृत्वा करं संशोध्य वारिणा ॥ ४३॥
पुनश्च भस्म सन्धार्य पूर्वोक्तेनैव वर्त्मना ।
न्यासजातं प्रकुर्वीत शिवभावविवृद्धये ॥ ४४॥
पञ्चोपचारैः सम्पूज्य शिरसा श्रीगुरुं बुधः ।
प्रणवं श्रीचतुर्थ्यन्तं नमोऽन्तं प्रणमेत्ततः ॥ ४५॥
पञ्चात्मकं बिन्दुयुतं पञ्चमस्वरसंयुतम् ।
तदेवं बिन्दुसहितं पञ्चमस्वरवर्जितम् ॥ ४६॥
पञ्चमस्वरसंयुक्तं मन्त्रीशं च सबिन्दुकम् ।
उद्धृत्य बिन्दुसहितं संवर्तकमथोद्धरेत् ॥ ४७॥
एतैरेवं क्रमाद्बीजैरुद्धृतैः प्रणमेद् बुधः ।
भुजयोरूरुयुग्मे च गुरुं गणपतिं तथा ॥ ४८॥
दुर्गां च क्षेत्रपालं च बद्धाञ्जलिपुटः स्थितः ।
ओमस्त्राय फडित्युक्त्वा करौ संशोध्य षट् क्रमात् ॥ ४९॥
अपसर्पन्त्विति प्रोच्य प्रणवं तदनन्तरम् ।
अस्त्राय फडिति प्रोच्य पार्ष्णिघातत्रयेण तु ॥ ५०॥
उद्धृत्य विघ्नान्भूयिष्ठान्करतालत्रयेण तु ।
अन्तरिक्षगतान्दृष्ट्वा विलोक्य दिवि संस्थितान् ॥ ५१॥
निरुद्धप्राण आसीनो हंसमन्त्रमनुस्मरन् ।
हृदिस्थं जीवचैतन्यं ब्रह्मनाड्या समानयेत् ॥ ५२॥
द्वादशान्तः स्थविशदे सहस्रारमहाम्बुजे ।
चिच्चन्द्रमण्डलान्तःस्थं चिद्रूपं परमेश्वरम् ॥ ५३॥
शोषदाहप्लवान्कुर्याद्रेचकादि क्रमेण तु ।
सषोडशचतुष्षष्टिद्वात्रिंशद्गणनायुतैः ॥ ५४॥
वाय्वग्निसलिलार्णैस्तैः स्ववेदाद्यैरनुक्रमात् ।
प्राणानायम्य मूलस्थां कुण्डलीं ब्रह्मरन्ध्रगाम् ॥ ५५॥
आनीय द्वादशान्तःस्थसहस्राराम्बुजोदरे ।
चिच्चन्द्रमण्डलोद्भूतपरमामृतधारया ॥ ५६॥
संसिक्तायां तनौ भूयः शुद्धदेहः सुभावनः ।
सोऽहमित्यवतीर्याथ स्वात्मानं हृदयाम्बुजे ॥ ५७॥
आत्मन्यावेश्य चात्मानममृतं सृतिधारया ।
प्राणप्रतिष्ठां विधिवत्कुर्यादत्र समाहितः ॥ ५८॥
एकाग्रमानसो योगी विमृश्यात्तां च मातृकाम् ।
पुटितां प्रणवेनाथ न्यसेद्बाह्ये च मातृकाम् ॥ ५९॥
पुनश्च संयतप्राणः कुर्याद् दृष्ट्यादिकं बुधः ।
शङ्करं संस्मरंश्चित्ते संन्यसेच्च विमत्सरः ॥ ६०॥
प्रणवस्य ऋषिर्ब्रह्मा देवि गायत्रमीरितम् ।
छन्दोऽत्र देवताहं वै परमात्मा सदाशिवः ॥ ६१॥
अकारो बीजमाख्यातमुकारः शक्तिरुच्यते ।
मकारः कीलकं प्रोक्तं मोक्षार्थे विनियुज्यते ॥ ६२॥
अङ्गुष्ठद्वयमारभ्य तलान्तं परिमार्जयेत् ।
ओमित्युक्त्वाथ देवेशि करन्यासं समारभेत् ॥ ६३॥
दक्षहस्तस्थिताङ्गुष्ठं समारभ्य यथाक्रमम् ।
वामहस्तकनिष्ठान्तं विन्यसेत्पूर्ववत्क्रमात् ॥ ६४॥
अकारमप्युकारं च मकारं बिन्दुसंयुतम् ।
नमोऽन्तं प्रोच्य सर्वत्र हृदयादौ न्यसेदथ ॥ ६५॥
अकारं पूर्वमुद्धृत्य ब्रह्मात्मानमथाचरेत् ।
ङेऽन्तं नमोऽन्तं हृदये विनियुज्यात्तथा पुनः ॥ ६६॥
उकारं विष्णुसहितं शिरोदेशे प्रविन्यसेत् ।
मकारं रुद्रसहितं शिखायां तु प्रविन्यसेत् ॥ ६७॥
एवमुक्त्वा मुनिर्मन्त्री कवचं नेत्रमस्तके ।
विन्यसेद्देवदेवेशि सावधानेन चेतसा ॥ ६८॥
अङ्गवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ।
शिरोवदनहृद्गुह्यपादेष्वेतानि विन्यसेत् ॥ ६९॥
ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ।
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ ७०॥
चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ।
हृत्कण्ठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ ७१॥
अघोरस्य कलाश्चाष्टौ पूजनीया यथाक्रमम् ।
पश्चात् त्रयोदशकलाः पायुमेढ्रोरुजानुषु ॥ ७२॥
जङ्घास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ।
सद्यस्यापि कलाश्चाष्टौ नेत्रेषु च यथाक्रमम् ॥ ७३॥
कीर्तितास्ताः कलाश्चैवं पादयोरपि हस्तयोः ।
प्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥ ७४॥
अष्टत्रिंशत्कलान्यासमेवं कृत्वा तु सर्वशः ।
पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥ ७५॥
बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ।
पार्श्वतोदरजङ्घेषु पादयोः पृष्ठतस्तथा ॥ ७६॥
इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ।
हंसन्यासं प्रकुर्वीत परमात्मविबोधिनि ॥ ७७॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ न्यासवर्णनं नाम षष्ठोऽध्यायः ॥ ६.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.७. सप्तमोऽध्यायः । शिवध्यानपूजनवर्णनम् ।
ईश्वर उवाच ।
स्ववामे चतुरस्रं तु मण्डलं परिकल्पयेत् ।
ओमित्यभ्यर्च्य तस्मिंस्तु शङ्खमस्त्रोपशोधितम् ॥ १॥
स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ।
आपूर्य शुद्धतोयेन चन्दनादिसुगन्धिना ॥ २॥
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा ।
अभिमन्त्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ॥ ३॥
शङ्खमुद्रां च पुरतश्चतुरस्रं प्रकल्पयेत् ।
तदन्तरेऽर्धचन्द्रं च त्रिकोणं च तदन्तरे ॥ ४॥
षट्कोणं वृत्तमेवेदं मण्डलं परिकल्पयेत् ।
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेनाथ मध्यतः ॥ ५॥
साधारमर्घ्यपात्रं च स्थाप्य गन्धादिनार्चयेत् ।
आपूर्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत् ॥ ६॥
कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ।
आज्यसिद्धार्थपुष्पाणि भसितं च वरानने ॥ ७॥
सद्योजातादिभिर्मन्त्रैः षडङ्गैः प्रणवेन च ।
अभ्यर्च्य गन्धपुष्पाद्यैरभिमन्त्र्य च वर्मणा ॥ ८॥
अवगुण्ठ्यास्त्रमन्त्रेण संरक्षार्थं प्रदर्शयेत् ।
धेनुमुद्रां च तेनैव प्रोक्षयेदस्त्रमन्त्रतः ॥ ९॥
स्वात्मानं गन्धपुष्पादिपूजोपकरणान्यपि ।
पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम् ॥ १०॥
गुर्वासनाय नम इत्यासनं परिकल्पयेत् ।
गुरोर्मूर्तिं च तत्रैव कल्पयेदुपदेशतः ॥ ११॥
प्रणवं गुं गुरुभ्योऽन्ते नमः प्रोच्यापि देशिकम् ।
समावाह्य ततो ध्यायेद्दक्षिणाभिमुखं स्थितम् ॥ १२॥
सुप्रसन्नमुखं सौम्यं शुद्धस्फटिकनिर्मलम् ।
वरदाभयहस्तं च द्विनेत्रं शिवविग्रहम् ॥ १३॥
एवं ध्यात्वा यजेद्गन्धपुष्पादिभिरनुक्रमात् ।
पद्मस्य नैरृते पद्मे गणपत्यासनोपरि ॥ १४॥
मूर्तिं प्रकल्प्य तत्रैव गणानां त्वेति मन्त्रतः ।
समावाह्य ततो देवं ध्यायेदेकाग्रमानसः ॥ १५॥
रक्तवर्णं महाकायं सर्वाभरणभूषितम् ।
पाशाङ्कुशाक्षाभीष्टं च दधानं करपङ्कजैः ॥ १६॥
गजाननं प्रभुं सर्वविघ्नौघघ्नमुपासितुः ।
एवं ध्यात्वा यजेद्गन्धपुष्पाद्यैरुपचारकैः ॥ १७॥
कदलीनारिकेलाम्रफललड्डुकपूर्वकम् ।
नैवेद्यं च समर्प्याथ नमस्कुर्याद्गजाननम् ॥ १८॥
पद्मस्य वायुदिक्पद्मे सङ्कल्प्य स्कान्दमासनम् ।
स्कन्दमूर्तिं प्रकल्प्याथ स्कन्दमावाहयेद् बुधः ॥ १९॥
उच्चार्य स्कन्दगायत्रीं ध्यायेदथ कुमारकम् ।
उद्यदादित्यसङ्काशं मयूरवरवाहनम् ॥ २०॥
चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम् ।
वरदाभयहस्तं च शक्तिकुक्कुटधारिणम् ॥ २१॥
एवं ध्यात्वाथ गन्धाद्यैरुपचारैरनुक्रमात् ।
सम्पूज्य पूर्वद्वारस्य दक्षशाखामुपाश्रितम् ॥ २२॥
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ।
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ २३॥
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ।
दीप्तशूलमृगीटङ्कं हेमवेत्रधरं विभुम् ॥ २४॥
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ।
उत्तरस्यां तथा तस्य भार्यां च मरुतां सुताम् ॥ २५॥
सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ।
सम्पूज्य विधिवद्गन्धपुष्पाद्यैरुपचारकैः ॥ २६॥
ततः सम्प्रोक्षयेत्पद्मं सास्त्रशङ्खोदबिन्दुभिः ।
कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ २७॥
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ।
तस्याः पुरस्तादुत्कण्ठमनन्तं कुण्डलाकृतिम् ॥ २८॥
धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ।
तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ २९॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ।
आग्नेयादिश्वेतपीतरक्तश्यामानि वर्णतः ॥ ३०॥
अधर्मादीनि पूर्वादीन्युत्तरान्तान्यनुक्रमात् ।
राजावर्तमणिप्रख्यान्यस्य गात्राणि भावयेत् ॥ ३१॥
अधोर्ध्वच्छदनं पश्चात्कन्दं नालं च कण्टकान् ।
दलादिकं कर्णिकां च विभाव्य क्रमशोऽर्चयेत् ॥ ३२॥
दलेषु सिद्धयश्चाष्टौ केसरेषु च शक्तिकाः ।
रुद्रा वामादयस्त्वष्टौ पूर्वादिपरितः क्रमात् ॥ ३३॥
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ।
वामाद्या एव पूर्वादि तदन्ते च मनोन्मनी ॥ ३४॥
कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ।
कर्णिकोपरि वाह्नेयं मण्डलं सौरमैन्दवम् ॥ ३५॥
आत्मविद्या शिवाख्यं च तत्त्वत्रयमतः परम् ।
सर्वासनोपरि सुखं विचित्रकुसुमोज्ज्वलम् ॥ ३६॥
परव्योमावकाशाख्यविद्ययातीव भास्वरम् ।
परिकल्प्यासनं मूर्त्तेः पुष्पविन्यासपूर्वकम् ॥ ३७॥
आधारशक्तिमारभ्य शुद्धविद्यासनावधि ।
ॐकारादिचतुर्थ्यन्तं नाममन्त्रं नमोऽन्तकम् ॥ ३८॥
उच्चार्य पूजयेद्विद्वान्सर्वत्रैवं विधिक्रमः ।
अङ्गवक्त्रकलाभेदात्पञ्च ब्रह्माणि पूर्ववत् ॥ ३९॥
विन्यसेत्क्रमशो मूर्त्तौ तत्तन्मुद्राविचक्षणः ।
आवाहयेत्ततो देवं पुष्पाञ्जलिपुटः स्थितः ॥ ४०॥
सद्योजातं प्रपद्यामीत्यारभ्योमन्तमुच्चरन् ।
आधारोत्थितनादं तु द्वादशग्रन्थिभेदतः ॥ ४१॥
ब्रह्मरन्ध्रान्तमुच्चार्य ध्यायेदोङ्कारगोचरम् ।
शुद्धस्फटिकसङ्काशं देवं निष्कलमक्षरम् ॥ ४२॥
कारणं सर्वलोकानां सर्वलोकमयं परम् ।
अन्तर्बहिः स्थितं व्याप्य ह्यणोरल्पं महत्तमम् ॥ ४३॥
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ।
ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ४४॥
वेदसारं च विद्वद्भिरगोचरमिति श्रुतम् ।
आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ४५॥
समाहितेन मनसा ध्यात्वैवं परमेश्वरम् ।
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ ४६॥
नमस्कारं च कुर्वीत बद्ध्वा मुद्राः पृथक्पृथक् ।
ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम् ॥ ४७॥
शुद्धस्फटिकसङ्काशं प्रसन्नं शीतलद्युतिम् ।
विद्युद्वलयसङ्काशं जटामुकुटभूषितम् ॥ ४८॥
शार्दूलचर्मवसनं किञ्चित्स्मितमुखाम्बुजम् ।
रक्तपद्मदलप्रख्यपाणिपादतलाधरम् ॥ ४९॥
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ।
दिव्यायुधकरैर्युक्तं दिव्यगन्धानुलेपनम् ॥ ५०॥
पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ।
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ ५१॥
त्रिलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम् ।
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ ५२॥
भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम् ।
दंष्ट्राकरालं दुष्प्रेक्ष्यं स्फुरिताधरपल्लवम् ॥ ५३॥
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ।
सद्विलासं त्रिनयनं चन्द्रार्धकृतशेखरम् ॥ ५४॥
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ।
चन्द्रलेखाधरं सौम्यं मन्दस्मितमनोहरम् ॥ ५५॥
पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम् ।
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ ५६॥
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ५७॥
वामे पिनाकनाराचघण्टापाशाङ्कुशोज्ज्वलम् ।
निवृत्त्या जानुपर्यन्तमानाभि च प्रतिष्ठया ॥ ५८॥
आकण्ठं विद्यया तद्वदाललाटं तु शान्तया ।
तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ॥ ५९॥
पञ्चाध्वव्यापिनं तस्मात्कलापञ्चकविग्रहम् ।
ईशानमुकुटं देवं पुरुषास्यं पुरातनम् ॥ ६०॥
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ।
सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ६१॥
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ।
ॐकाराख्यमयं चैव हंसन्यासमयं तथा ॥ ६२॥
पञ्चाक्षरमयं देवं षडक्षरमयं तथा ।
अङ्गषट्कमयं चैव जातिषट्कसमन्वितम् ॥ ६३॥
एवं ध्यात्वाथ मद्वामभागे त्वां च मनोन्मनीम् ।
गौरीमिमाय मन्त्रेण प्रणवाद्येन भक्तितः ॥ ६४॥
आवाह्य पूर्ववत्कुर्यान्नमस्कारान्तमीश्वरि ।
ध्यायेत्ततस्त्वां देवेशि समाहितमना मुनिः ॥ ६५॥
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ।
पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ॥ ६६॥
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ।
अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधराम् ॥ ६७॥
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मतराम्बराम् ।
सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ॥ ६८॥
विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभिताम् ।
सर्वतोऽनुगुणाकारां किञ्चिल्लज्जानताननाम् ॥ ६९॥
हेमारविन्दं विलसद्दधानां दक्षिणे करे ।
चण्डवच्चामरं हस्तं न्यस्यासीनां सुखासने ॥ ७०॥
एवं मां त्वां च देवेशि ध्यात्वा नियतमानसः ।
स्नापयेच्छङ्खतोयेन प्रणवप्रोक्षणक्रमात् ॥ ७१॥
भवे भवे नातिभव इति पाद्यं प्रकल्पयेत् ।
वामाय नम इत्युक्त्वा दद्यादाचमनीयकम् ॥ ७२॥
ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रं प्रकल्पयेत् ।
श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम् ॥ ७३॥
रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ।
कालाय नम इत्युक्त्वा गन्धं दद्यात्सुसंस्कृतम् ॥ ७४॥
कलविकरणाय नमोऽक्षतं च परिकल्पयेत् ।
बलविकरणाय नम इति पुष्पाणि दापयेत् ॥ ७५॥
बलाय नम इत्युक्त्वा धूपं दद्यात्प्रयत्नतः ।
बलप्रमथनायेति सुदीपं चैव दापयेत् ॥ ७६॥
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ।
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७७॥
मुद्राः प्रदर्शयेन्मह्यं तुभ्यं च वरवर्णिनि ।
मयि प्रकल्पयेत्पूर्वमुपचारांस्ततस्त्वयि ॥ ७८॥
यदा त्वयि प्रकुर्वीत स्त्रीलिङ्गं योजयेत्तदा ।
इयानेव हि भेदोऽस्ति नान्यः पार्वति कश्चन ॥ ७९॥
एवं ध्यानं पूजनं च कृत्वा सम्यग्विधानतः ।
ममावरणपूजां च प्रारभेत विचक्षणः ॥ ८०॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाशसंहितायां शिवध्यानपूजनवर्णनं नाम सप्तमोऽध्यायः ॥ ६.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.८. अष्टमोऽध्यायः । आवरणपूजावर्णनम् ।
ईश्वर उवाच ।
अत्रास्ति च महादेवि खल्वावरणपञ्चकम् ।
पञ्चावरणपूजां तु प्रारभेत यथाक्रमम् ॥ १॥
प्रथमं पूजितौ यत्र तत्रैव क्रमशः सुधीः ।
गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरम्बषण्मुखौ ॥ २॥
पञ्च ब्रह्माणि परितो वृत्तं सम्पूजयेत्क्रमात् ।
ईशानदेशे पूर्वे च दक्षिणे चोत्तरे तथा ॥ ३॥
पश्चिमे च ततस्तस्मिन्षडङ्गानि समर्चयेत् ।
आग्नेये च तथैशाने नैरृते वायुदेशके ॥ ४॥
मध्ये नेत्रं तद्वदस्त्रं पूर्वादिपरितः क्रमात् ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ ५॥
अनन्तं पूर्वदिक्पत्रे सूक्ष्मं दक्षिणतस्तथा ।
शिवोत्तमं पश्चिमत एकनेत्रं तथोत्तरे ॥ ६॥
एकरुद्रं तथैशाने त्रिमूर्तिं वह्निदिग्दले ।
श्रीकण्ठं नैरृते वायौ शिखण्डीशं समर्चयेत् ॥ ७॥
द्वितीयावरणे चैव पूज्यास्ते चक्रवर्तिनः ।
पूर्वद्वारस्य मध्ये तु वृषेशानं प्रपूजयेत् ॥ ८॥
तद्दक्षिणे नन्दिनं च महाकालं तदुत्तरे ।
भृङ्गीशं दक्षिणद्वारपश्चिमे सम्प्रपूजयेत् ॥ ९॥
तत्पूर्वकोष्ठे गन्धाद्यैः सम्प्रपूज्य विनायकम् ।
पश्चिमोत्तरकोष्ठे च वृषभं दक्षिणे गुहम् ॥ १०॥
उत्तरद्वारपूर्वे तु प्रदक्षिणविधानतः ।
नामाष्टकविधानेन पूजयेदुच्यते हि तत् ॥ ११॥
भवं शर्वं तथेशानं रुद्रं पशुपतिं पुनः ।
उग्रं भीमं महादेवं तृतीयावरणं त्विदम् ॥ १२॥
यो वेदादौ स्वर इति समावाह्य महेश्वरम् ।
पूजयेत्पूर्वदिग्भागे कमले कर्णिकोपरि ॥ १३॥
ईश्वरं पूर्वदिक्पत्रे विश्वेशं दक्षिणे ततः ।
उत्तरे परमेशानं सर्वेशं पश्चिमे यजेत् ॥ १४॥
दक्षिणे तु यजेद् रुद्रमावोराजानमित्यृचा ।
आवाह्य गन्धपुष्पाद्यैः कर्णिकायां दलेषु च ॥ १५॥
शिवः पूर्वे दक्षिणतो हर उत्तरतो मृडः ।
भवः पश्चिमदिक्पत्रे पूज्या एते यथाक्रमम् ॥ १६॥
उत्तरे विष्णुमावाह्य गन्धपुष्पादिभिर्यजेत् ।
प्रतद्विष्णुरिति प्रोच्य कर्णिकायां दलेषु च ॥ १७॥
वासुदेवं पूर्वभागे दक्षिणे चानिरुद्धकम् ।
सौम्ये सङ्कर्षणं चैव प्रद्युम्नं पश्चिमे यजेत् ॥ १८॥
ब्रह्माणं पश्चिमे पद्मे समावाह्य समर्चयेत् ।
हिरण्यगर्भः समवर्तत इति मन्त्रेण मन्त्रवित् ॥ १९॥
हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ।
उत्तरे पुष्करञ्चैव कालं पश्चिमतो यजेत् ॥ २०॥
सर्वोर्ध्वपङ्क्तौ पूर्वादिप्रदक्षिणविधानतः ।
तत्तत्स्थानेषु सम्पूज्य लोकपालाननुक्रमात् ॥ २१॥
रान्तं मान्तं तथा क्षान्तं लान्तं वान्तमपूर्वकम् ।
सान्तं हान्तं च वेदाद्यं श्रीबीजं च दश क्रमात् ॥ २२॥
बीजानि लोकपालानामेतैरेतान्समर्चयेत् ।
नैरृत्ये चोत्तरे तद्वदीशानस्य च दक्षिणे ॥ २३॥
ब्रह्मविष्णू च विधिना पूजयेदुपचारकैः ।
बाह्यरेखासु देवेशि पञ्चमावरणे यजेत् ॥ २४॥
श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ।
परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ २५॥
नैरृते तु यजेत्खड्गं पाशं वरुणगोचरे ।
अङ्कुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ २६॥
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ।
यथाविधि विधानज्ञः शिवप्रीत्यर्थमेव च ॥ २७॥
कृताञ्जलिपुटाः सर्वे चिन्त्याः स्मितमुखाम्बुजाः ।
सादरं प्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ २८॥
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ।
पुनरभ्यर्च्य देवेशं प्रणवं च शिवं वदेत् ॥ २९॥
एवमभ्यर्च्य विधिवद् गन्धाद्यैरुपचारकैः ।
उपचर्य ततो दद्यान्नैवेद्यं विधिसाधितम् ॥ ३०॥
पुनराचमनीयं च दद्यादर्घ्यं यथा पुरा ।
ततो निवेद्य पानीयं ताम्बूलं चोपदेशतः ॥ ३१॥
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ।
ध्यात्वा देवं च देवीं च मनुमष्टोत्तरं जपेत् ॥ ३२॥
तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः ।
जपेद् ध्यात्वा महादेवं यो देवानामिति क्रमात् ॥ ३३॥
यो वेदादौ स्वरः प्रोक्त इत्यन्तं परमेश्वरि ।
पुष्पाञ्जलिं ततो दत्त्वा त्रिःप्रदक्षिणमाचरेत् ॥ ३४॥
साष्टाङ्गं प्रणमेत्तं स भक्त्या परमयान्वितः ।
पुनः प्रदक्षिणां कृत्वा प्रणमेत्पुनरेकधा ॥ ३५॥
स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ।
साधु वासाधु वा कर्म यद्यदाचरितं मया ॥ ३६॥
तत्सर्वं भगवञ्छम्भो भवदाराधनं परम् ।
इति शङ्खोदकेनैव सपुष्पेण समर्पयेत् ॥ ३७॥
पूज्यं पुनः समभ्यर्च्य सार्थं नामाष्टकं जपेत् ।
तदेव शृणु देवेशि सम्ब्रुवे तव भक्तितः ॥ ३८॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामावरणपूजावर्णनं नामाष्टमोऽध्यायः ॥ ६.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.९. नवमोऽध्यायः । प्रणवार्थपद्धतिवर्णनम् ।
ईश्वर उवाच ।
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ।
संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥ १॥
नामाष्टकमिदं नित्यं शिवस्य प्रतिपादकम् ।
आद्यन्तपञ्चकं तत्र शान्त्यतीताद्यनुक्रमात् ॥ २॥
संज्ञा सदाशिवादीनां पञ्चोपाधिपरिग्रहात् ।
उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते ॥ ३॥
पदमेव हि तं नित्यमनित्याः पदिनः स्मृताः ।
पदानां परिवृत्तिः स्यान्मुच्यन्ते पदिनो यतः ॥ ४॥
परिवृत्त्यन्तरे त्वेवं भूयस्तस्याप्युपाधिना ।
आत्मान्तराभिधानं स्यात्यादाद्यं नामपञ्चकम् ॥ ५॥
अन्यत्तु त्रितयं नाम्नामुपादानादिभेदतः ।
त्रिविधोपाधिरचनाच्छिव एव तु वर्तते ॥ ६॥
अनादिमलसंश्लेषप्रागभावात्स्वभावतः ।
अत्यन्तपरिशुद्धात्मेत्यतोऽयं शिव उच्यते ॥ ७॥
अथवाशेषकल्याणगुणैकघन ईश्वरः ।
शिव इत्युच्यते सद्भिः शिवतत्त्वार्थवेदिभिः ॥ ८॥
त्रयोविंशतितत्वेभ्यः परा प्रकृतिरुच्यते ।
प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् ॥ ९॥
यद्वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः ।
वेदैकवेद्यं याथात्म्याद्वेदान्ते च प्रतिष्ठितम् ॥ १०॥
स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेर्यतः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ ११॥
तदधीनप्रवृत्तित्त्वात्प्रकृतेः पुरुषस्य च ।
अथवा त्रिगुणं तत्त्वं मायेयमिदमव्ययम् ॥ १२॥
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
मायाविमोचकोऽनन्तो महेश्वरसमन्वयात् ॥ १३॥
रुद्दुःखं दुःखहेतुर्वा तद् द्रावयति यः प्रभुः ।
रुद्र इत्युच्यते तस्माच्छिवः परमकारणम् ॥ १४॥
शिवतत्त्वादिभूम्यन्तं शरीरादि घटादि च ।
व्याप्याधितिष्ठति शिवस्तमाद्विष्णुरुदाहृतः ॥ १५॥
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ।
पितृभावेन सर्वेषां पितामह उदीरितः ॥ १६॥
निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ।
उपायैर्भेषजैस्तद्वल्लयभोगाधिकारकः ॥ १७॥
संसारस्येश्वरो नित्यं स्थूलस्य विनिवर्तकः ।
संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ १८॥
दशार्द्धज्ञानसिद्ध्यर्थमिन्द्रियेषु च सत्स्वपि ।
त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥ १९॥
अणवो नैव जानन्ति मायार्णवमलावृताः ।
असत्स्वपि च सर्वेषु सिद्धसर्वार्थवेदिषु ॥ २०॥
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ।
अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ २१॥
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ।
स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम् ॥ २२॥
इति स्तुत्वा महादेवं प्रणवात्मानमव्ययम् ।
अर्घ्यं पाद्यं पुरो दत्त्वा पश्चादीशानमस्तके ॥ २३॥
पुनरभ्यर्च्य देवेशं प्रणवेन समाहितः ।
हस्तेन बद्धाञ्जलिना पूजापुष्पं प्रगृह्य च ॥ २४॥
उन्मन्यन्तं शिवं नीत्वा वामनासापुटाध्वना ।
देवीमुद्वास्य च ततो दक्षनासापुटाध्वना ॥ २५॥
शिव एवाहमस्मीति तदैक्यमनुभूय च ।
सर्वावरणदेवांश्च पुनरुद्वासयेद् हृदि ॥ २६॥
विद्यापूजां गुरोःपूजां कृत्वा पश्चाद्यथाक्रमम् ।
शङ्खार्घपात्रमन्त्रांश्च हृदये विन्यसेत्क्रमात् ॥ २७॥
निर्माल्यं च समर्प्याथ चण्डीशायेशगोचरे ।
पुनश्च संयतप्राण ऋष्यादिकमथोच्चरेत् ॥ २८॥
कैलासप्रस्तरो नाम मण्डलं परिभाषितम् ।
अर्चयेन्नित्यमेवैतत्पक्षे वा मासि मासि वा ॥ २९॥
षण्मासे वत्सरे वापि चातुर्मास्यादिपर्वणि ।
अवश्यं च समभ्यर्चेन्नित्यं मल्लिङ्गमास्तिकः ॥ ३०॥
तस्मिन्क्रमे महादेवि विशेषः कोऽपि कथ्यते ।
उपदेशदिने लिङ्गं पूजितं गुरुणा सह ॥ ३१॥
गृह्णीयादर्चयिष्यामि शिवमाप्राणसङ्क्षयम् ।
एवं त्रिवारमुच्चार्य शपथं गुरुसन्निधौ ॥ ३२॥
ततः समर्चयेन्नित्यं पूर्वोक्तविधिना प्रिये ।
अर्घं समर्पयेल्लिङ्गमूर्द्धन्यर्घ्योदकेन च ॥ ३३॥
प्रणवेन समभ्यर्च्य धूपदीपौ समर्पयेत् ।
ऐशान्यां चण्डमाराध्य निर्माल्यं च निवेदयेत् ॥ ३४॥
प्रक्षाल्य लिङ्गं वेदीं च वस्त्रपूतैर्जलैस्ततः ।
निःक्षिप्य पुष्पं शिरसि लिङ्गस्य प्रणवेन तु ॥ ३५॥
आधारशक्तिमारभ्य शुद्धविद्यासनावधि ।
विभाव्य सर्वं मनसा स्थापयेत्परमेश्वरम् ॥ ३६॥
पञ्चगव्यादिभिर्द्रव्यैर्यथाविभवसम्भृतैः ।
केवलैर्वा जलैः शुद्धैः सुरभिद्रव्यवासितैः ॥ ३७॥
पावमानेन रुद्रेण नीलेन त्वरितेन च ।
ऋग्भिश्च सामभिर्वापि ब्रह्मभिश्चैव पञ्चभिः ॥ ३८॥
स्नापयेद्देवदेवेशं प्रणवेन शिवेन च ।
विशेषार्घ्योदकेनापि प्रणवेनाभिषेचयेत् ॥ ३९॥
विशोध्य वाससा पुष्पं लिङ्गमूर्धनि विन्यसेत् ।
पीठे लिङ्गं समारोप्य सूर्याद्यर्चां समाचरेत् ॥ ४०॥
आधारशक्त्यनन्तौ द्वौ पीठाधस्तात्समर्चयेत् ।
सिंहासनं तदूर्ध्वं तु समभ्यर्च्य यथाक्रमम् ॥ ४१॥
अथोर्ध्वच्छदनम्पीठपादे स्कन्दं समर्चयेत् ।
लिङ्गे मूर्तिं समाकल्प्य मां त्वया सह पूजयेत् ॥ ४२॥
सम्यग् भक्त्या विधानेन यतिर्मद्ध्यानतत्परः ।
एवं मया ते कथितमतिगुह्यमिदं प्रिये ॥ ४३॥
गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् ।
मम भक्ताय दातव्यं यतये वीतरागिणे ॥ ४४॥
गुरुभक्ताय शान्ताय मदर्थे योगभागिने ।
ममाज्ञामतिलङ्घ्यैतद्यो ददाति विमूढधीः ॥ ४५॥
स नारकी मम द्रोही भविष्यति न संशयः ।
मद्भक्तदानाद्देवेशि मत्प्रियश्च भवेद् ध्रुवम् ।
इह भुक्त्वाखिलान्भोगान्मत्सान्निध्यमवाप्नुयात् ॥ ४६॥
व्यास उवाच ।
एतच्छ्रुत्वा महादेवी महादेवेन भाषितम् ।
स्तुत्वा तु विविधैः स्तोत्रैर्देवं वेदार्थगर्भितैः ॥ ४७॥
श्रीमत्पादाब्जयोः पत्युः प्रणामं परमेश्वरी ।
अतिप्रहृष्टहृदया मुमोद मुनिसत्तमाः ॥ ४८॥
अतिगुह्यमिदं विप्राः प्रणवार्थप्रकाशकम् ।
शिवज्ञानपरं ह्येतद्भवतामार्तिनाशनम् ॥ ४९॥
सूत उवाच ।
इत्युक्त्वा मुनिशार्दूलः पाराशर्यो महातपाः ।
पूजितः परया भक्त्या मुनिभिर्वेदवादिभिः ॥ ५०॥
कैलासाद्रिमनुस्मृत्य ययौ तस्मात्तपोवनात् ।
तेऽपि प्रहृष्टहृदयाः सत्रान्ते परमेश्वरम् ॥ ५१॥
सम्पूज्य परया भक्त्या सोमं सोमार्धशेखरम् ।
यमादियोगनिरताः शिवध्यानपराभवन् ॥ ५२॥
गुहाय कथितं ह्येतद्देव्या तेनापि नन्दिने ।
सनत्कुमारमुनये प्रोवाच भगवान् हि सः ॥ ५३॥
तस्माल्लब्धं मद्गुरुणा व्यासेनामिततेजसा ।
तस्माल्लब्धमिदं पुण्यं मयापि मुनिपुङ्गवाः ॥ ५४॥
मया वः श्रावितं ह्येतद् गुह्याद् गुह्यतरं परम् ।
ज्ञात्वा शिवप्रियान्भक्त्या भवतो गिरिशप्रियम् ॥ ५५॥
भवद्भिरपि दातव्यमेतद् गुह्यं शिवप्रियम् ।
यतिभ्यः शान्तचित्तेभ्यो भक्तेभ्यः शिवपादयोः ॥ ५६॥
एतदुक्त्वा महाभागः सूतः पौराणिकोत्तमः ।
तीर्थयात्राप्रसङ्गेन चचार पृथिवीमिमाम् ॥ ५७॥
एतद्रहस्यं परमं लब्ध्वा सूतान्मुनीश्वराः ।
काश्यामेव समासीना मुक्ताः शिवपदं ययुः ॥ ५८॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां प्रणवार्थपद्धतिवर्णनं नाम नवमोऽध्यायः ॥ ६.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.१०. दशमोऽध्यायः । सूतोपदेशः ।
व्यास उवाच ।
गतेऽथ सूते मुनयः सुविस्मिता
विचिन्त्य चान्योऽन्यमिदं तु विस्मृतम् ।
यद्वामदेवस्य मतं मुनीश्वर
प्रसूचितं तत्खलु कष्टमद्य नः ॥ १॥
कदानुभूयान्मुनिवर्यदर्शनं
भवाब्धिदुःखौघहरं परं हि तत् ।
महेश्वराराधनपुण्यतोऽधुना
मुनीश्वरः सत्वरमाविरस्तु नः ॥ २॥
इति चिन्तासमाविष्टा मुनयो मुनिपुङ्गवम् ।
व्यासं सम्पूज्य हृत्पद्मे तस्थुस्तद्दर्शनोत्सुकाः ॥ ३॥
संवत्सरान्ते स पुनः काशीं प्राप महामुनिः ।
शिवभक्तिरतो ज्ञानी पुराणार्थप्रकाशकः ॥ ४॥
तं दृष्ट्वा सूतमायान्तं मुनयो हृष्टचेतसः ।
अभ्युत्थानासनार्घ्यादिपूजया समपूजयन् ॥ ५॥
सोऽपि तान्मुनिशार्दूलानभिनन्द्य स्मितोदरम् ।
प्रीत्या स्नात्वा जाह्नवीये जले परमपावने ॥ ६॥
ऋषीन्सन्तर्प्य च सुरान् पितॄंश्च तिलतण्डुलैः ।
तीरमागत्य सम्प्रोक्ष्य वाससी परिधाय च ॥ ७॥
द्विराचम्य समादाय भस्म सद्यादिमन्त्रतः ।
उद्धूलनादिक्रमतो विधार्याथ मुनीश्वरः ॥ ८॥
रुद्राक्षमालाभरणः कृतनित्यक्रियः सुधी ।
यथोक्ताङ्गेषु विधिना त्रिपुण्ड्रं रचति स्म ह ॥ ९॥
विश्वेश्वरमुमाकान्तं ससुतं सगणाधिपम् ।
पूजयामास सद्भक्त्या ह्यस्तौ नत्वा मुहुर्मुहुः ॥ १०॥
कालभैरवनाथं च सम्पूज्याथ विधानतः ।
प्रदक्षिणीकृत्य पुनस्त्रेधा नत्वा च पञ्चधा ॥ ११॥
पुनः प्रदक्षिणीकृत्य प्रणम्य भुवि दण्डवत् ।
तुष्टाव परया स्तुत्या संस्मरंस्तत्पदाम्बुजम् ॥ १२॥
श्रीमत्पञ्चाक्षरीं विद्यामष्टोत्तरसहस्रकम् ।
सञ्जप्य पुरतः स्थित्वा क्षमापय्य महेश्वरम् ॥ १३॥
चण्डीशं सम्प्रपूज्याऽथ मुक्तिमण्डपमध्यतः ।
निर्दिष्टमासनं भेजे मुनिभिर्वेदपारगैः ॥ १४॥
एवं स्थितेषु सर्वेषु नमस्कृत्य समन्त्रकम् ।
अथ प्राह मुनीन्द्राणां भाववृद्धिकरं वच ॥ १५॥
सूत उवाच ।
धन्या यूयं महाप्राज्ञा मुनयः शंसितव्रताः ।
भवदर्थमिह प्राप्तोऽहं तद्वृत्तमिदं शृणु ॥ १६॥
यदाहमुपदिश्याथ भवतः प्रणवार्थकम् ।
गतस्तीर्थाटनार्थाय तद्वृत्तान्तं ब्रवीमि वः ॥ १७॥
इतो निर्गत्य सम्प्राप्य तीरं दक्षपयोनिधेः ।
स्नात्वा सम्पूज्य विधिवद्देवीं कन्यामयीं शिवाम् ।
पुनरागत्य विप्रेन्द्राः सुवर्णमुखरीतटम् ॥ १८॥
श्रीकालहस्तिशैलाख्यनगरे परमाद्भुते ।
सुवर्णमुखरीतोये स्नात्वा देवानृषीनपि ॥ १९॥
सन्तर्प्य विधिवद्भक्त्या समुद्रं गिरिशं स्मरन् ।
समर्च्य कालहस्तीशं चन्द्रकान्तसमप्रभम् ॥ २०॥
पश्चिमाभिमुखं पञ्चशिरसं परमाद्भुतम् ।
सकृद्दर्शनमात्रेण सर्वाघक्षयकारणम् ॥ २१॥
सर्वसिद्धिप्रदं भुक्तिमुक्तिदं त्रिगुणेश्वरम् ।
ततश्च परया भक्त्या तस्य दक्षिणगां शिवाम् ॥ २२॥
ज्ञानप्रसूनकलिकां समर्च्य हि जगत्प्रसूम् ।
श्रीमत्पञ्चाक्षरीं विद्यामष्टोत्तरसहस्रकम् ॥ २३॥
जप्त्वा प्रदक्षिणीकृत्य स्तुत्वा नत्वा मुहुर्मुहुः ॥ २४॥
ततः प्रदक्षिणीकृत्य गिरिं प्रत्यहमादरात् ।
आमोदतीव मनसि प्रत्यहं नियमास्थितः ॥ २५॥
अनयन् चतुरो मासानेवं तत्र मुनीश्वराः ।
ज्ञानप्रसूनकलिकामहादेव्याः प्रसादतः ॥ २६॥
एकदा तु समास्तीर्य चैलाजिनकुशोत्तरम् ।
आसनं परमं तस्मिन् स्थित्वा रुद्धेन्द्रियो मुनिः ॥ २७॥
समाधिमास्थाय सदा परमानन्दचिद्घनः ।
परिपूर्णः शिवोऽस्मीति निर्व्यग्रहृदयोऽभवम् ॥ २८॥
एतस्मिन्नेव समये मद्गुरुः करुणानिधिः ।
नीलजीमूतसङ्काशो विद्युत्पिङ्गजटाधरः ॥ २९॥
प्रांशुः कमण्डलूदण्डकृष्णाजिनधरः स्वयम् ।
भस्मावदातसर्वाङ्गः सर्वलक्षणलक्षितः ॥ ३०॥
त्रिपुण्ड्रविलसद्भालो रुद्राक्षालङ्कृताकृतिः ।
पद्मपत्रारुणायामविस्तीर्णनयनद्वयः ॥ ३१॥
प्रादुर्भूय हृदम्भोजे तदानीमेव सत्वरम् ।
विमोहितस्तदैवासमेतदद् भुतमास्तिकाः ॥ ३२॥
तत उन्मील्य नयने विलापं कृतवानहम् ।
आसीन्ममाश्रुपातश्च गिरिनिर्झरसन्निभः ॥ ३३॥
एतस्मिन्नेव समये श्रुता वागशरीरिणी ।
व्योम्नो महाद्भुता विप्रास्तामेव शृणुतादरात् ॥ ३४॥
सूतपुत्र महाभाग गच्छ वाराणसीं पुरीम् ।
तत्रासन्मुनयः पूर्वमुपदिष्टास्त्वयाधुना ॥ ३५॥
त्वदुपागमकल्याणं काङ्क्षन्ते विवशा भृशम् ।
तिष्ठन्ति ते निराहारा इत्युक्त्वा विरराम सा ॥ ३६॥
तत उत्थाय तरसा देवं देवीं च भक्तितः ।
प्रदक्षिणीकृत्य पुनः प्रणम्य भुवि दण्डवत् ॥ ३७॥
द्विषड्वारं गुरोराज्ञां विज्ञाय शिवयोरथ ।
क्षेत्रान्निर्गत्य तरसा चत्वारिंशद्दिनान्तरे ॥ ३८॥
आगतोऽस्मि मुनिश्रेष्ठा अनुगृह्णन्तु मामिह ।
मया किमद्य वक्तव्यं भवन्तस्तद् ब्रुवन्तु मे ॥ ३९॥
इति सूतवचः श्रुत्वा ऋषयो हृष्टमानसाः ।
अवोचन्मुनिशार्दूलं व्यासं नत्वा मुहुर्मुहुः ॥ ४०॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां सूतोपदेशो नाम दशमोऽध्यायः ॥ ६.१०॥
६.११
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
६.११. एकादशोऽयायः । वामदेवब्रह्मवर्णनम् ।
ऋषय ऊचुः ॥
सूत सूत महाभागः त्वमस्मद्गुरुरुत्तमः ।
अतस्त्वां परिपृच्छामो भवतोऽनुग्रहो यदि ॥ १॥
श्रद्धालुषु च शिष्येषु त्वादृशा गुरवः सदा ।
स्निग्धभावा इतीदं नो दर्शितं भवताधुना ॥ २॥
विरजाहोमसमये वामदेवमतं पुरा ।
सूचितं भवतास्माभिर्न श्रुतं विस्तरान्मुने ॥ ३॥
तदिदानीं श्रोतुकामाः श्रद्धया परमादरात् ।
वयं सर्वे कृपासिन्धो प्रीत्या तद्वक्तुमर्हसि ॥ ४॥
इति तेषां वचः श्रुत्वा सूतो हृष्टतनूरुहः ।
नमस्कृत्य महादेवं गुरोः परतरं गुरुम् ॥ ५॥
महादेवीं त्रिजननीं गुरुं व्यासं च भक्तितः ।
प्राह गम्भीरया वाचा मुनीनाह्लादयन्निदम् ॥ ६॥
सूत उवाच ।
स्वस्त्यस्तु मुनयः सर्वे सुखिनः सन्तु सर्वदा ।
शिवभक्ताः स्थिरात्मानः शिवभक्तिप्रवर्तकाः ॥ ७॥
तदतीव विचित्रं हि श्रुतं गुरुमुखाम्बुजात् ।
इतः पूर्वं मया नोक्तं गुह्यप्राकट्यशङ्कया ॥ ८॥
यूयं खलु महाभागाः शिवभक्ता दृढव्रताः ।
इति निश्चित्य युष्माकं वक्ष्यामि श्रूयतां मुदा ॥ ९॥
पुरा रथन्तरे कल्पे वामदेवो महामुनिः ।
गर्भमुक्तः शिवज्ञानविदां गुरुतमः स्वयम् ॥ ६.११.१०॥
वेदागमपुराणादिसर्वशास्त्रार्थतत्त्ववित् ।
देवासुरमनुष्यादिजीवानां जन्मकर्मवित् ॥ ११॥
भस्मावदातसर्वाङ्गो जटामण्डलमण्डितः ।
निराश्रयो निःस्पृहश्च निर्द्वन्द्वो निरहङ्कृतिः ॥ १२॥
दिगम्बरो महाज्ञानी महेश्वर इवापरः ।
शिष्यभूतैर्मुनीन्द्रैश्च तादृशैः परिवारितः ॥ १३॥
पर्यटन्पृथिवीमेतां स्वपादस्पर्शपुण्यतः ।
पवित्रयन्परे धाम्नि निमग्नहृदयोऽन्वहम् ॥ १४॥
कुमारशिखरं मेरोर्दक्षिणं प्राविशन्मुदा ।
यत्रास्ते भगवानीशतनयः शिखिवाहनः ॥ १५॥
ज्ञानशक्तिधरो वीरः सर्वासुरविमर्दनः ।
गजावल्लीसमायुक्तः सर्वैर्देवैर्नमस्कृतः ॥ १६॥
तत्र स्कन्दसरो नाम सरः सागरसन्निभम् ।
शिशिरस्वादुपानीयं स्वच्छागाधबहूदकम् ॥ १७॥
सर्वाश्चर्यगुणोपेतं विद्यते स्वामिसन्निधौ ।
तत्र स्नात्वा वामदेवः सहशिष्यैर्महामुनिः ॥ १८॥
कुमारं शिखरासीनं मुनिवृन्दनिषेवितम् ।
उद्यदादित्यसङ्काशं मयूरवरवाहनम् ॥ १९॥
चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम् ।
शक्तिरत्नद्वयोपास्यं शक्तिकुक्कुटधारिणम् ॥ ६.११.२०॥
वरदाभयहस्तं च दृष्ट्वा स्कन्दं मुनीश्वरः ।
सम्पूज्य परया भक्त्या स्तोतुं समुपचक्रमे ॥ २१॥
वामदेव उवाच ।
ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने ।
प्रणवाक्षरबीजाय प्रण वाय नमो नमः ॥ २२॥
वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।
वेदान्तार्थविदे नित्यं विदिताय नमो नमः ॥ २३॥
नमो गुहाय भूतानां गुहासु निहिताय च ।
गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥ २४॥
अणोरणीयसे तुभ्यं महतोऽपि महीयसे ।
नमः परावरज्ञाय परमात्मस्वरूपिणे ॥ २५॥
स्कन्दाय स्कन्दरूपाय मिहिरारुणतेजसे ।
नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ॥ २६॥
शिवशिष्याय पुत्राय शिवस्य शिवदायिने ।
शिवप्रियाय शिवयोरानन्दनिधये नमः ॥ २७॥
गाङ्गेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ।
उमापुत्राय महते शरकाननशायिने ॥ २८॥
षडक्षरशरीराय षड्विधार्थविधायिने ।
षडध्वातीतरूपाय षण्मुखाय नमो नमः ॥ २९॥
द्वादशायतनेत्राय द्वादशोद्यतबाहवे ।
द्वादशायुधधाराय द्वादशात्मन्नमोऽस्तु ते ॥ ६.११.३०॥
चतुर्भुजाय शान्ताय शक्तिकुक्कुटधारिणे ।
वरदाभयहस्ताय नमोऽसुरविदारिणे ॥ ३१॥
गजावल्लीकुचालिप्तकुङ्कुमाङ्कितवक्षसे ।
नमो गजाननानन्दमहिमानन्दितात्मने ॥ ३२॥
ब्रह्मादिदेवमुनिकिन्नरगीयमान-गाथाविशेषशुचिचिन्तितकीर्त्तिधाम्ने ।
वृन्दारकामलकिरीटविभूषणस्रक्-पूज्याभिरामपदपङ्कज ते नमोऽस्तु ॥ ३३॥
इति स्कन्दस्तवं दिव्यं वामदेवेन भाषितम् ।
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ ३४॥
महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्द्धनम् ।
आयुरारोग्यधनकृत्सर्व्वकामप्रदं सदा ॥ ३५॥
इति स्तुत्वा वामदेवो देवं सेनापतिं प्रभुम् ।
प्रदक्षिणात्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥ ३६॥
साष्टाङ्गं च पुनः कृत्वा प्रदक्षिणनमस्कृतम् ।
अभवत्पार्श्वतस्तस्य विनयावनतो द्विजाः ॥ ३७॥
वामदेवकृतं स्तोत्रं परमार्थविजृम्भितम् ।
श्रुत्वाभवत्प्रसन्नो हि महेश्वरसुतः प्रभुः ॥ ३८॥
तमुवाच महासेनः प्रीतोऽस्मि तव पूजया ।
भक्त्या स्तुत्या च भद्रं ते किमद्य करवाण्यहम् ॥ ३९॥
मुने त्वं योगिनां मुख्यः परिपूर्णश्च निःस्पृहः ।
भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ॥ ६.११.४०॥
तथापि धर्मरक्षायै लोकानुग्रहकाङ्क्षया ।
त्वादृशाः साधवः सन्तो विचरन्ति महीतले ॥ ४१॥
श्रोतव्यमस्ति चेद् ब्रह्मन् वक्तुमर्हसि साम्प्रतम् ।
तदिदानीमहं वक्ष्ये लोकानुग्रहहेतवे ॥ ४२॥
इति स्कन्दवचः श्रुत्वा वामदेवो महामुनिः ।
प्रश्रयावनतः प्राह मेघगम्भीरया गिरा ॥ ४३॥
वामदेव उवाच ।
भगवन्परमेशस्त्वं परापरविभूतिदः ।
सर्वज्ञः सर्वकर्त्ता च सर्वशक्तिधरः प्रभुः ॥ ४४॥
जीवा वयं तु ते वक्तुं सन्निधौ परमेशितुः ।
तथाप्यनुग्रहोऽयं ते यत्त्वं वदसि मां प्रति ॥ ४५॥
कृतार्थोऽहं महाप्राज्ञ विज्ञानकणमात्रतः ।
प्रेरितः परिपृच्छामि क्षन्तव्योऽतिक्रमो मम ॥ ४६॥
प्रणवो हि परः साक्षात्परमेश्वरवाचकः ।
वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः ॥ ४७॥
वाचकेन समाहूतः पशून्मोचयते क्षणात् ।
तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति ॥ ४८॥
ओमितीदं सर्वमिति श्रुतिराह सनातनी ।
ओमिति ब्रह्म सर्वं हि ब्रह्मेति च समब्रवीत् ॥ ४९॥
देवसेनापते तुभ्यं देवानाम्पतये नमः ।
नमो यतीनां पतये परिपूर्णाय ते नमः ॥ ६.११.५०॥
एवं स्थिते जगत्यस्मिन् शिवादन्यन्न विद्यते ।
सर्वरूपधरः स्वामी शिवो व्यापी महेश्वरः ॥ ५१॥
समष्टिव्यष्टिभावेन प्रणवार्थः श्रुतो मया ।
न जातुचिन्महासेन सम्प्राप्तस्त्वादृशो गुरुः ॥ ५२॥
अतः कृत्वानुकम्पां वै तमर्थं वक्तुमर्हसि ।
उपदेशविधानेन सदाचारक्रमेण च ॥ ५३॥
स्वाम्येकः सर्वजन्तूनां पाशच्छेदकरो गुरुः ।
अतस्त्वत्कृपया सोऽर्थः श्रोतव्यो हि मया गुरो ॥ ५४॥
इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं-प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम् ।
सहितमुमया शश्वत्पार्श्वे मुनिप्रवरान्वितं-गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम् ॥ ५५॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां वामदेवब्रह्मवर्णनन्नामैकादशोऽध्यायः ॥ ६.११॥
६.१२
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
६.१२. द्वादशोऽध्यायः । संन्यासविधिवर्णनम् ।
श्रीब्रह्मण्य उवाच ।
साधुसाधु महाभाग वामदेव मुनीश्वर ।
त्वमतीव शिवे भक्तः शिवज्ञानवतां वरः ॥ १॥
त्वया त्वविदितं किञ्चिन्नास्ति लोकेषु कुत्रचित् ।
तथापि तव वक्ष्यामि लोकानुग्रहकारिणः ॥ २॥
लोकेऽस्मिन्पशवः सर्वे नानाशास्त्रविमोहिताः ।
वञ्चिताः परमेशस्य माययातिविचित्रया ॥ ३॥
न जानति परं साक्षात्प्रणवार्थं महेश्वरम् ।
सगुणं निर्गुणं ब्रह्म त्रिदेवजनकं परम् ॥ ४॥
दक्षिणं बाहुमुद्धृत्य शपथं प्रब्रवीमि ते ।
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ॥ ५॥
प्रणवार्थः शिवः साक्षात्प्राधान्येन प्रकीर्तितः ।
श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च ॥ ६॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ ७॥
यस्माज्जगदिदं सर्वं विधिविष्ण्विन्द्रपूर्वकम् ।
सह भूतेन्द्रियग्रामैः प्रथमं सम्प्रसूयते ॥ ८॥
न सम्प्रसूयते यो वै कुतश्चन कदाचन ।
यस्मिन्न भासते विद्युन्न च सूर्यो न चन्द्रमाः ॥ ९॥
यस्य भासा विभातीदं जगत्सर्वं समन्ततः ।
सर्वैश्वर्येण सम्पन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ ६.१२.१०॥
यो वै मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ।
सर्वव्यापी प्रकाशात्मा भासरूपो हि चिन्मयः ॥ ११॥
यस्य पुंसः परा शक्तिर्भावगम्या मनोहरा ।
निर्गुणा स्वगुणैरेव निगूढा निष्कला शिवा ॥ १२॥
तदीयं त्रिविधं रूपं स्थूलं सूक्ष्मं परं ततः ।
ध्येयं मुमुक्षुभिर्नित्यं क्रमतो योगिभिर्मुने ॥ १३॥
निष्कलः सर्वदेवानामादिदेवः सनातनः ।
ज्ञानक्रियास्वभावो यः परमात्मेति गीयते ॥ १४॥
तस्य देवाधिदेवस्य मूर्त्तिः साक्षात्सदाशिवः ।
पञ्चमन्त्रतनुर्देवः कलापञ्चकविग्रहः ॥ १५॥
शुद्धस्फटिकसङ्काशः प्रसन्नः शीतलद्युतिः ।
पञ्चवक्त्रो दशभुजस्त्रिपञ्चनयनः प्रभुः ॥ १६॥
ईशानमुकुटोपेतः पुरुषास्यः पुरातनः ।
अघोरहृदयो वामदेवगुह्यप्रदेशवान् ॥ १७॥
सद्यपादश्च तन्मूर्त्तिः साक्षात्सकलनिष्कलः ।
सर्व्वज्ञत्वादिषट्शक्तिषडङ्गीकृतविग्रहः ॥ १८॥
शब्दादिशक्तिस्फुरितहृत्पङ्कजविराजितः ।
स्वशक्त्या वामभागे तु मनोन्मन्या विभूषितः ॥ १९॥
मन्त्रादिषड्विधार्थानामर्थोपन्यासमार्गतः । सा - मा
समष्टिव्यष्टिभावार्थं वक्ष्यामि प्रणवात्मकम् ॥ ६.१२.२०॥
उपदेशक्रमो ह्यादौ वक्तव्यः श्रूयतामयम् ।
चातुर्व्वर्ण्यं हि लोकेस्मिन्प्रसिद्धम्मानुषे मुने ॥ २१॥
त्रैवर्णिकानामेवात्र श्रुत्याचारसमन्वयः ।
शुश्रूषामात्रसारा हि शूद्राः श्रुतिबहिष्कृताः ॥ २२॥
त्रैवर्णिकानां सर्वेषां स्वस्वाश्रमरतात्मनाम् ।
श्रुतिस्मृत्युदितो धर्मोऽनुष्ठेयो नापरः क्वचित् ॥ २३॥
श्रुतिस्मृत्युदितं कर्म कुर्वन्सिद्धिमवाप्स्यति ।
इत्युक्तं परमेशेन वेदमार्गप्रदर्शिना ॥ २४॥
वर्णाश्रमाचारपुण्यैरभ्यर्च्य परमेश्वरम् ।
तत्सायुज्यं गताः सर्वे बहवो मुनिसत्तमाः ॥ २५॥
ब्रह्मचर्येण मुनयो देवा यज्ञक्रियाध्वना ।
पितरः प्रजया तृप्ता इति हि श्रुतिरब्रवीत् ॥ २६॥
एवं ऋणत्रयान्मुक्तो वानप्रस्थाश्रमं गतः ।
शीतोष्णसुखदुःखादिसहिष्णुर्विजितेन्द्रियः ॥ २७॥
तपस्वी विजिताहारो यमाद्यं योगमभ्यसेत् ।
यथा दृढतरा बुद्धिरविचाल्या भवेत्तथा ॥ २८॥
एवं क्रमेण शुद्धात्मा सर्वकर्म्माणि विन्यसेत् ।
संन्यस्य सर्वकर्म्माणि ज्ञानपूजापरो भवेत् ॥ २९॥
सा हि साक्षाच्छिवैक्येन जीवन्मुक्तिफलप्रदा ।
सर्वोत्तमा हि विज्ञेया निर्विकारा यतात्मनाम् ॥ ६.१२.३०॥
तत्प्रकारमहं वक्ष्ये लोकानुग्रहकाम्यया ।
तव स्तेहान्महाप्राज्ञ सावधानतया शृणु ॥ ३१॥
सर्वशास्त्रार्थतत्त्वज्ञं वेदान्तज्ञानपारगम् ।
आचार्यमुपगच्छेत्स यतिर्मतिमतां वरम् ॥ ३२॥
तत्समीपमुपव्रज्य यथाविधि विचक्षणः ।
दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतः सुधीः ॥ ३३॥
यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
इति निश्चित्य मनसा स्वविचारं निवेदयेत् ॥ ३४॥
लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोव्रती ।
शुक्लपक्षे चतुर्थ्यां वा दशम्यां वा विधानतः ॥ ३५॥
प्रातः स्नात्वा विशुद्धात्मा कृतनित्यक्रियः सुधीः ।
गुरुमाहूय विधिना नान्दीश्राद्धं समारभेत् ॥ ३६॥
विश्वेदेवाः सत्यवसुसंज्ञावन्तः प्रकीर्तिताः ।
देवश्राद्धे ब्रह्मविष्णुमहेशाः कथितास्त्रयः ॥ ३७॥
ऋषिश्राद्धे तु सम्प्रोक्ता देवक्षेत्रमनुष्यजाः ।
देवश्राद्धे तु वसुरुद्रादित्याः सम्प्रकीर्तिताः ॥ ३८॥
चत्वारो मानुषश्राद्धे सनकाद्या मुनीश्वराः ।
भूतश्राद्धे पञ्च महाभूतानि च ततः परम् ॥ ३९॥
चक्षुरादीन्द्रियग्रामो भूतग्रामश्चतुर्विधः ।
पितृश्राद्धे पिता तस्य पिता तस्य पिता त्रयः ॥ ६.१२.४०॥
मातृश्राद्धे मातृपितामह्यौ च प्रपितामही ।
आत्मश्राद्धे तु चत्वार आत्मा पितृपितामहौ ॥ ४१॥
प्रपितामहनामा च सपत्नीकाः प्रकीर्तिताः ।
मातामहात्मकश्राद्धे त्रयो मातामहादयः ॥ ४२॥
प्रतिश्राद्धं ब्राह्मणानां युग्मं कृत्वोपकल्पितान् ।
आहूय पादौ प्रक्षाल्य स्वयमाचम्य यत्नतः ॥ ४३॥
समस्तसम्पत्समवाप्तिहेतवः, समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः, पुनन्तु मां ब्राह्मणपादरेणवः ॥ ४४॥
आपद्धनध्वान्तसहस्रभानवः, समीहितार्थार्पणकामधेनवः ।
समस्ततीर्थाम्बुपवित्रमूर्त्तयो, रक्षन्तु मां ब्राह्मणपादपांसवः ॥ ४५॥
इति जप्त्वा नमस्कृत्य साष्टाङ्गं भुवि दण्डवत् ।
स्थित्वा तु प्राङ्मुखः शम्भोः पादाब्जयुगलं स्मरन् ॥ ४६॥
सपवित्रकरः शुद्ध उपवीती दृढासनः ।
प्राणायामत्रयं कुर्याच्छ्रुत्वा तिथ्यादिकं पुनः ॥ ४७॥
मत्संन्यासाङ्गभूतं यद्विश्वेदेवादिकं तथा ।
श्राद्धमष्टविधं मातामहान्तं पार्वणेन वै ॥ ४८॥
विधानेन करिष्यामि युष्मदाज्ञापुरःसरम् ।
एवं विधाय सङ्कल्पं दर्भानुत्तरतस्त्यजेत् ॥ ४९॥
उपस्पृश्याप उत्थाय वरणक्रममारभेत् ।
पवित्रपाणिः संस्पृश्य पाणी ब्राह्मणयोर्वदेत् ॥ ६.१२.५०॥
विश्वेदेवार्थ इत्यादि भवद्भ्यां क्षण इत्यपि ॥ ५१॥
प्रसादनीय इत्यन्तं सर्वत्रैवं विधिक्रमः ।
एवं समाप्य वरणं मण्डलानि प्रकल्पयेत् ॥ ५२॥
उदगारभ्य दश च कृत्वाभ्यर्चनमक्षतैः ।
तेषु क्रमेण संस्थाप्य ब्राह्मणान् पादयोः पुनः ॥ ५३॥
विश्वेदेवादिनामानि ससंवबोधनमुच्चरेत् ।
इदं वः पाद्यमिति सकुशपुष्पाक्षतोदकैः ॥ ५४॥
पाद्यं दत्त्वा स्वयमपि क्षालिताङ्घ्रिरुदङ्मुखः ।
आचम्य युग्मक्लृप्तांस्तानासनेषूपवेश्य च ॥ ५५॥
विश्वेदेवस्वरूपस्य ब्राह्मणस्येदमासनम् ।
इति दर्भासनं दत्त्वा दर्भपाणिः स्वयं स्थितः ॥ ५६॥
अस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ।
भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ॥ ५७॥
प्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ।
वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुङ्गवौ ॥ ५८॥
सम्पूर्णमस्तु सङ्कल्पसिद्धिरस्त्विति तान् प्रति ।
भवन्तोऽनुगृह्णन्त्विति प्रार्थयेद् द्विजपुङ्गवान् ॥ ५९॥
ततः शुद्धकदल्यादिपात्रेषु क्षालितेषु च ।
अन्नादिभोज्यद्रव्याणि दत्त्वा दर्भैः पृथक् पृथक् ॥ ६.१२.६०॥
परिस्तीर्य स्वयं तत्र परिषिच्योदकेन च ।
हस्ताभ्यामवलम्ब्याथ पात्रं प्रत्येकमादरात् ॥ ६१॥
पृथिवी ते पात्रमित्यादि कृत्वा तत्र व्यवस्थितान् ।
देवादींश्च चतुर्थ्यन्ताननूद्याक्षतसंयुतान् ॥ ६२॥
उदग्गृहीत्वा स्वाहेति देवार्थेऽन्नं यजेत्पुनः ।
न ममेति वदेदन्ते सर्वत्रायं विधिक्रमः ॥ ६३॥
यत्पादपद्मस्मरणाद्यस्य नामजपादपि ।
न्यूनं कर्म भवेत्पूर्णं तं वन्दे साम्बमीश्वरम् ॥ ६४॥
इति जप्त्वा ततो ब्रूयान्मया कृतमिदं पुनः ।
नान्दीमुखश्राद्धमिति यथोक्तं च वदेत्ततः ॥ ६५॥
अस्त्विति ब्रूतेति च तान्प्रसाद्य द्विजपुङ्गवान् ।
विसृज्य स्वकरस्थोदं प्रणम्य भुवि दण्डवत् ॥ ६६॥
उत्थाय च ततो ब्रूयादमृतं भवतु द्विजान् ।
प्रार्थयेच्च परं प्रीत्या कृताञ्जलिरुदारधीः ॥ ६७॥
श्रीरुद्रं चमकं सूक्तं पौरुषं च यथाविधि ।
चित्ते सदाशिवं ध्यात्वा जपेद् ब्रह्माणि पञ्च च ॥ ६८॥
भोजनान्ते रुद्रसूक्तं क्षमापय द्विजान् पुनः ।
तन्मन्त्रेण ततो दद्यादुत्तरापोशणं पुरः ॥ ६९॥
प्रक्षालिताङ्घ्रिराचम्य पिण्डस्थानं व्रजेत्ततः ।
आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ॥ ६.१२.७०॥
नान्दीमुखोक्तश्राद्धाङ्गं करिष्ये पिण्डदानकम् ।
इति सङ्कल्प्य दक्षादि समारभ्योदकान्तिकम् ॥ ७१॥
नव रेखाः समालिख्य प्रागग्रान्द्वादश क्रमात् ।
संस्तीर्य दर्भान्दक्षादिदेवादिस्थानपञ्चकम् ॥ ७२॥
तूष्णीं दद्यात्साक्षतोदं त्रिषु स्थानेषु च क्रमात् ।
स्थानेष्वन्येषु मातृषु मार्ज्जयन्तास्ततः परम् ॥ ७३॥
अत्रेति पितरः पश्चात्साक्षतोदं समर्च्य च ।
दद्यात्ततः क्रमेणैव देवादिस्थानपञ्चके ॥ ७४॥
तत्तद्देवादिनामानि चतुर्थ्यन्तान्युदीर्य च ।
पिण्डत्रयं ततो दद्यात्प्रत्येकं स्थानपञ्चके ॥ ७५॥
स्वगृह्योक्तेन मार्गेण दद्यात्पिण्डान्पृथक्पृथक् ।
दद्यादिदं साक्षतं च पितृसाद्गुण्यहेतवे ॥ ७६॥
ध्यायेत्सदाशिवं देवं हृदयाम्भोजमध्यतः ।
तत्पादपद्मस्मरणादिति श्लोकं पठन् पुनः ॥ ७७॥
नमस्कृत्य ब्राह्मणेभ्यो दक्षिणां च स्वशक्तितः ।
दत्त्वा क्षमापय च तान् विसृज्य च ततः क्रमात् ॥ ७८॥
पिण्डानुत्सृज्य गोग्रासं दद्यान्नो चेज्जले क्षिपेत् ।
पुण्याहवाचनं कृत्वा भुञ्जीत स्वजनैः सह ॥ ७९॥
अन्येद्युः प्रातरुत्थाय कृतनित्यक्रियः सुधीः ।
उपोष्य क्षौरकर्मादि कक्षोपस्थविवर्जितम् ॥ ६.१२.८०॥
केशश्मश्रुनखानेव कर्मावधि विसृज्य च ।
समाष्टिकेशान्विधिवत्कारयित्वा विधानतः ॥ ८१॥
स्नात्वा धौतपटः शुद्धो द्विराचम्याथ वाग्यतः ।
भस्म सन्धार्य विधिना कृत्वा पुण्याहवाचनम् ॥ ८२॥
तेन सम्प्रोक्ष्य सम्प्राप्य शुद्धदेहस्वभावतः ।
होमद्रव्यार्थमाचार्यदक्षिणार्थं विहाय च ॥ ८३॥
द्रव्यजातं महेशाय द्विजेभ्यश्च विशेषतः ।
भक्तेभ्यश्च प्रदायाथ शिवाय गुरुरूपिणे ॥ ८४॥
वस्त्रादि दक्षिणां दत्त्वा प्रणम्य भुवि दण्डवत् ।
दोरकौपीनवसनं दण्डाद्यं क्षालितं भुवि ॥ ८५॥
आदाय होमद्रव्याणि समिधादीनि च क्रमात् ।
समुद्रतीरे नद्यां वा पर्वते वा शिवालये ॥ ८६॥
अरण्ये चापी गोष्ठे वा विचार्य स्थानमुत्तमम् ।
स्थित्वाचम्य ततः पूर्वं कृत्वा मानसमञ्जरीम् ॥ ८७॥
ब्राह्ममोङ्कारसहितं नमो ब्रह्मण इत्यपि ।
जपित्वा त्रिस्ततो ब्रूयादग्निमीले पुरोहितम् ॥ ८८॥
अथ महाव्रतमिति अग्निर्वै देवनामतः ।
तथैतस्य समाम्नायमिषे त्वोर्ज्जेत्वा वेति तत् ॥ ८९॥
अग्न आयाहि वीतये शन्नो देवीरभिष्टये ।
पश्चात्प्रोच्य मयरसतजभनलगैः सह ॥ ६.१२.९०॥
सम्मितं च ततः पञ्चसंवत्सरमयं ततः ।
समाम्नायः समाम्नातः अथ शिक्षां वदेत्पुनः ।
प्रवक्ष्यामीत्युदीर्याथ वृद्धिरादैच्च संवदेत् ॥ ९१॥
अथातो धर्मजिज्ञासेत्युच्चार्य पुनरञ्जसा ।
अथातो ब्रह्मजिज्ञासा वेदादीनपि सञ्जपेत् ॥ ९२॥
ब्रह्माणमिन्द्रं सूर्यं च सोमं चैव प्रजापतिम् ।
आत्मानमन्तरात्मानं ज्ञानात्मानमतः परम् ॥ ९३॥
परमात्मानमपि च प्रणवाद्यं नमोन्तकम् ।
चतुर्थ्यन्तं जपित्वाऽथ सक्तुमुष्टिं प्रगृह्य च ॥ ९४॥
प्राश्याथ प्रणवेनैव द्विराचम्याथ संस्पृशेत् ।
नाभिं मन्त्रान्वक्ष्यमाणं प्रणवाद्यान्नमोऽन्तकान् ॥ ९५॥
आत्मानमन्तरात्मानं ज्ञानात्मानं पुरं पुनः ।
आत्मानं च समुच्चार्य प्रजापतिमतः परम् ॥ ९६॥
स्वाहान्तान्प्रजपेत्पश्चात्पयोदधिघृतं पृथक् ।
त्रिवारं प्रणवेनैव प्राश्याचम्य द्विधा पुनः ॥ ९७॥
प्रागास्य उपविश्याथ दृढचित्तः स्थिरासनः ।
यथोक्तविधिना सम्यक्प्राणायामत्रयं चरेत् ॥ ९८॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासविधिवर्णनं नाम द्वादशोऽध्यायः ॥ ६.१२॥
६.१३
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
६.१३. त्रयोदशोऽध्यायः ।
सुब्रह्मण्य उवाच ।
अथ मध्याह्नसमये स्नात्वा नियतमानसः ॥
गन्धपुष्पाक्षतादीनि पूजाद्रव्याण्युपाहरेत ॥ १॥
नैरृत्ये पूजयेद्देवं विघ्नेशं देवपूजितम् ।
गणानां त्वेति मन्त्रेणावाहयेत्सुविधानतः ॥ २॥
रक्तवर्णं महाकायं सर्वाभरणभूषितम् ।
पाशाङ्कुशाक्षाभीष्टं च दधानं करपङ्कजैः ॥ ३॥
एवमावाह्य सन्ध्याय शम्भुपुत्रं गजाननम् ।
अभ्यर्च्य पायसापूपनालिकेरगुडादिभिः ॥ ४॥
नैवेद्यमुत्तमं दद्यात्ताम्बूलादिमथापरम् ।
परितोष्य नमस्कृत्य निर्विघ्नं प्रार्थयेत्ततः ॥ ५॥
औपासनाग्नौ कर्त्तव्यं स्वगृह्योक्तविधानतः ।
आज्यभागान्तमाग्नेयं मखतन्त्रमतः परम् ॥ ६॥
भूःस्वाहेति त्र्यृचा पूर्णाहुतिं हुत्वा समाप्य च ।
गायत्रीं प्रजपेद्यावदपराह्णमतन्द्रितः ॥ ७॥
अथ सायन्तनीं सन्ध्यामुपास्य स्नानपूर्वकम् ।
सायमौपासनं हुत्वा मौनी विज्ञापयेद् गुरुम् ॥ ८॥
श्रपयित्वा चरुं तस्मिन्समिदन्नाज्यभेदतः ।
जुहुयाद्रौद्रसूक्तेन सद्योजातादिपञ्चभिः ॥ ९॥
ब्रह्मभिश्च महादेवं साम्बं वह्नौ विभावयेत् ।
गौरीर्मिमाय मन्त्रेण हुत्वा गौरीमनुस्मरन् ॥ ६.१३.१०॥
ततोऽग्नये स्विष्टकृते स्वाहेति जुहुयात्सकृत् ।
हुत्वोपरिष्टात्तन्त्रं तु ततोऽग्नेरुत्तरे बुधः ॥ ११॥
स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ।
आब्राह्मं च मुहूर्ते तु गायत्री दृढमानसः ॥ १२॥
ततः स्नात्वा त्वशक्तश्चेद्भस्मना वा विधानतः ।
श्रपयित्वा चरुं तस्मिन्नग्नावेवाभिधारितम् ॥ १३॥
उदगुद्वास्य बर्हिष्यासाद्याज्येन चरुं ततः ।
अभिघार्य व्याहृतीश्च रौद्रसूक्तं च पञ्च च ॥ १४॥
जपेद् ब्रह्माणि सन्धार्य चित्तं शिवपदाम्बुजे ।
प्रजापतिमथेन्द्रं च विश्वेदेवास्ततः परम् ॥ १५॥
ब्रह्माणं सचतुर्थ्यन्तं स्वाहान्तान् प्रणवादिकान् ।
सञ्जप्य वाचयित्वाथ पुण्याहं च ततः परम् ॥ १६॥
परस्तात्तन्त्रमग्नये स्वाहेत्यग्निमुखावधि ।
निर्वर्त्य पश्चात्प्राणाय स्वाहेत्यारभ्य पञ्चभिः ॥ १७॥
साज्येन चरुणा पश्चादग्निं स्विष्टकृतं हुनेत् ।
पुनश्च प्रजपेत्सूक्तं रौद्रं ब्रह्माणि पञ्च च ॥ १८॥
महेशादि चतुर्व्यूहमन्त्रांश्च प्रजपेत्पुनः ।
हुत्वोपरिष्टात्तन्त्रं तु स्वशाखोक्तेन वर्त्मना ॥ १९॥
तत्तद्देवान्समुद्दिश्य साङ्गं कुर्याद्विचक्षणः ।
एवमग्निमुखाद्यं यत्कर्मतन्त्रं प्रवर्त्तितम् ॥ ६.१३.२०॥
अतः परं प्रजुहुयाद्विरजाहोममात्मनः ।
षड्विंशतत्त्वरूपेस्मिन्देहे लीनस्य शुद्धये ॥ २१॥
तत्त्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन् ।
तत्रात्मतत्त्वशुद्ध्यर्थं मन्त्रैरारुणकेतुकैः ॥ २२॥
पठ्यमानैः पृथिव्यादिपुरुषान्तं क्रमान्मुने ।
साज्येन चरुणा मौनी शिवपादाम्बुजं स्मरन् ॥ २३॥
पृथिव्यादि च शब्दादि वागाद्यं पञ्चकं पुनः ।
श्रोत्राद्यं च शिरः पार्श्वपृष्ठोदरचतुष्टयम् ॥ २४॥
जङ्घां च योजयेत्पश्चात्त्वगाद्यं धातुसप्तकम् ।
प्राणाद्यं पञ्चकं पश्चादन्नाद्यं कोशपञ्चकम् ॥ २५॥
मनश्चित्तं च बुद्धिश्चाहङ्कृतिः ख्यातिरेव च ।
सङ्कल्पं तु गुणाः पश्चात्प्रकृतिः पुरुषस्ततः ॥ २६॥
पुरुषस्य तु भोक्तृत्वं प्रतिपन्नस्य भोजने ।
अन्तरङ्गतया तत्त्वपञ्चकं परिकीर्तितम् ॥ २७॥
नियतिः कालरागश्च विद्या च तदनन्तरम् ।
कला च पञ्चकमिदं मयोत्पन्नं मुनीश्वर ॥ २८॥
मायां तु प्रकृतिं विद्यादिति माया श्रुतीरिता ।
तज्जान्येतानि तत्त्वानि श्रुत्युक्तानि न संशयः ॥ २९॥
कालस्वभावो नियतिरिति च श्रुतिरब्रवीत् ।
एतत्पञ्चकमेवास्य पञ्चकञ्चुकमुच्यते ॥ ६.१३.३०॥
अजानन्पञ्चतत्त्वानि विद्वानपि च मूढधीः ।
निपत्याधस्तात्प्रकृतेरुपरिष्टात्पुमानयम् ॥ ३१॥
काकाक्षिन्यायमाश्रित्य वर्तते पार्श्वतोऽन्वहम् ।
विद्यातत्त्वमिदं प्रोक्तं शुद्धविद्यामहेश्वरौ ॥ ३२॥
सदाशिवश्च शक्तिश्च शिवश्चेदं तु पञ्चकम् ।
शिवतत्त्वमिदं ब्रह्मन् प्रज्ञानं ब्रह्म वाग्यतः ॥ ३३॥
पृथिव्यादिशिवान्तं यत्तत्त्वजातं मुनीश्वर ।
स्वकारणलयद्वारा शुद्धिरस्य विधीयताम् ॥ ३४॥
एकादशानां मन्त्राणां परस्मैपदपूर्वकम् ।
शिवज्योतिश्चतुर्थ्यन्तमिदं पदमथोच्चरेत् ॥ ३५॥
न ममेति वदेत्पश्चादुद्देशत्याग ईरितः ।
अतः परं विविद्यैति कर्षोत्कायेति मन्त्रयोः ॥ ३६॥
व्यापकाय पदस्यान्ते परमात्मन इत्यपि ।
शिवज्योतिश्चतुर्थ्यन्तं विश्वभूतपदं पुनः ॥ ३७॥
घसनोत्सुकशब्दश्च चतुर्थ्यन्तमथो वदेत् ।
परस्मैपदमुच्चार्य देवाय पदमुच्चरेत् ॥ ३८॥
उत्तिष्ठस्वेति मन्त्रस्य विश्वरूपाय शब्दतः ।
पुरुषाय पदं ब्रूयादोंस्वाहेत्यस्य संवदेत् ॥ ३९॥
लोकत्रयपदस्यान्ते व्यापिने परमात्मने ।
शिवायेदं न मम च पदं ब्रूयादतः परम् ॥ ६.१३.४०॥
स्वशाखोक्तप्रकारेण पुरस्तात्तन्त्रकर्म च ।
निर्वर्त्य सर्पिषा मिश्रं चरुं प्राश्य पुरोधसे ॥ ४१॥
प्रदद्याद् दक्षिणां तस्मै हेमादिपरिबृंहिताम् ।
ब्रह्माणमुद्वास्य ततः प्रातरौपासनं हुनेत् ॥ ४२॥
सं मा सिञ्चन्तु मरुत इति मन्त्रं जपेन्नरः ।
याते अग्न इत्यनेन मन्त्रेणाग्नौ प्रताप्य च ॥ ४३॥
हस्तमग्नौ समारोप्य स्वात्मन्यद्वैतधामनि ।
प्राभातिकीं ततः सन्ध्यामुपास्यादित्यमप्यथ ॥ ४४॥
उपस्थाय प्रविश्याप्सु नाभिदघ्नं प्रवेशयन् ।
तन्मन्त्रां पेरजपेत्प्रीत्या निश्चलात्मा समुत्सुकः ॥ ४५॥
आहिताग्निस्तु यः कुर्यात्प्राजापत्येष्टिमाहिते ।
श्रौते वैश्वानरे सम्यक् सर्ववेदसदक्षिणाम् ॥ ४६॥
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद् गुहात् ।
सावित्रीप्रथमं पादं सावित्रीमित्युदीर्य च ॥ ४७॥
प्रवेशयामि शब्दान्ते भूरोमिति च संवदेत् ।
द्वितीयं पादमुच्चार्य सावित्रीमिति पूर्ववत् ॥ ४८॥
प्रवेशयामि शब्दान्ते भूरोमिति च संवदेत् ।
तृतीयं पादमुच्चार्य सावित्रीमित्यतः परम् ॥ ४९॥
प्रवेशयामि शब्दान्ते सुवरोमित्युदीरयेत् ।
त्रिपादमुच्चरेत्पूर्वं सावित्रीमित्यतः परम् ॥ ६.१३.५०॥
प्रवेशयामि शब्दान्ते भूर्भुवः सुवरोमिति ।
उदीरयेत्परं प्रीत्या निश्चलात्मा मुनीश्वर ॥ ५१॥
इयं भगवती साक्षाच्छङ्करार्द्धशरीरिणी ।
पञ्चवक्त्रा दशभुजा त्रिपञ्चनयनोज्ज्वला ॥ ५२॥
नवरत्नकिरीटोद्यच्चन्द्रलेखावतंसिनी ।
शुद्धस्फटिकसङ्काशा दशायुधधरा शुभा ॥ ५३॥
हारकेयूरकटककिङ्किणीनूपुरादिभिः ।
भूषितावयवा दिव्यवसना रत्नभूषणा ॥ ५४॥
विष्णुना विधिना देवऋषिगन्धर्वदानवैः ।
मानवैश्च सदा सेव्या सर्वात्मव्यापिनी शिवा ॥ ५५॥
सदाशिवस्य देवस्य धर्मपत्नी मनोहरा ।
जगदम्बा त्रिजननी त्रिगुणा निर्गुणाप्यजा ॥ ५६॥
इत्येवं संविचार्याथ गायत्रीं प्रजपेत्सुधीः ।
आदिदेवीं च त्रिपदां ब्राह्मणत्वादिदामजाम् ॥ ५७॥
यो ह्यन्यथा जपेत्पापो गायत्रीं शिवरूपिणीम् ।
स पच्यते महाघोरे नरके कल्पसङ्ख्यया ॥ ५८॥
सा व्याहृतिभ्यः सञ्जाता तास्वेव विलयं गता ।
ताश्च प्रणवसम्भूता प्रणवे विलयं गताः ॥ ५९॥
प्रणवः सर्ववेदादिः प्रणवः शिववाचकः ।
मन्त्राधिराजराजश्च महाबीजं मनुः परः ॥ ६.१३.६०॥
शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ।
वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ॥ ६१॥
एनमेव महामन्त्रं जीवानां च तनुत्यजाम् ।
काश्यां संश्राव्य मरणे दत्ते मुक्तिं परां शिवः ॥ ६२॥
तस्मादेकाक्षरं देवं शिवं परमकारणम् ।
उपासते यतिश्रेष्ठा हृदयाम्भोजमध्यगम् ॥ ६३॥
मुमुक्षवोऽपरे धीरा विरक्ता लौकिका नराः ।
विषयान्मनसा ज्ञात्वोपासते परमं शिवम् ॥ ६४॥
एवं विलाप्य गायत्रीं प्रणवे शिववाचके ।
अहं वृक्षस्य रेरिवेत्यनुवाकं जपेत्पुनः ॥ ६५॥
यश्छन्दसामामृषभ इत्यनुवाकमुपक्रमात् ।
गोपायान्तं जपन्पश्चादुत्थितोहमितीरयेत् ॥ ६६॥
वदेज्जपेत् त्रिधा मन्दमध्योच्छ्रायक्रमान्मुने ।
प्रणवं पूर्वमुद्धत्य सृष्टिस्थितिलयक्रमात् ॥ ६७॥
तेषामथ क्रमाद्भूयाद्भूः संन्यस्तम्भुवस्तथा ।
संन्यस्तं सुवरित्युक्त्वा सन्न्यस्तं पदमुच्चरम् ॥ ६८॥
सर्वमन्त्रान्त प्रदेशे मयेति च पदं वदेत् ।
प्रणवं पूर्वमुद्धृत्य समष्टिव्याहृतीर्वदेत् ॥ ६९॥
समस्तमित्यतो ब्रूयान्मयेति च समब्रवीत् ।
सदाशिवं हृदि ध्यात्वा मन्दादीति ततो मुने ॥ ६.१३.७०॥
प्रैषमन्त्रांस्तु जप्त्वैवं सावधानेन चेतसा ।
अभयं सर्वभूतेभ्यो मत्तः स्वाहेति सञ्जपन् ॥ ७१॥
प्राच्यां दिश्यप उद्धृत्य प्रक्षिपेदजलिं ततः ।
शिखां यज्ञोपवीतं च यत्रोत्पाट्य च पाणिना ॥ ७२॥
गृहीत्वा प्रणवं भूश्च समुद्रं गच्छ संवदेत् ।
वह्निजायां समुच्चार्य्य सोदकाञ्जलिना ततः ॥ ७३॥
अप्सु हूयादथ प्रेषैरभिमन्त्र्य त्रिधा त्वपः ।
प्राश्य तीरे समागत्य भूमौ वस्त्रादिकं त्यजेत् ॥ ७४॥
उदङ्मुखः प्राङ्मुखो वा गच्छेस्सप्तपदाधिकम् ।
किञ्चिद्दूरमथाचार्यस्तिष्ठ तिष्ठेति संवदेत् ॥ ७५॥
लोकस्य व्यवहारार्थं कौपीनं दण्डमेव च ।
भगवन्स्वीकुरुष्वेति दद्यात्स्वेनैव पाणिना ॥ ७६॥
दत्त्वा सुदोरं कौपीनं काषायवसनं ततः ।
आच्छाद्याचम्य च द्वेधा त शिष्यमिति संवदेत् ॥ ७७॥
इन्द्रस्य वज्रोऽसि तत इति मन्त्रमुदाहरेत् ।
सम्प्रार्थ्य दण्डं गृह्णीयात्सखाय इति सञ्जपन् ॥ ७८॥
अथ गत्वा गुरोः पार्श्वं शिवपादाम्बुजं स्मरन् ।
प्रणमेद्दण्डवद्भूमौ त्रिवारं संयतात्मवान् ॥ ७९॥
पुनरुत्थाय च शनैः प्रेम्णा पश्यन्गुरुं निजम् ।
कृताञ्जलिपुटस्तिष्ठेद्गुरुपाद समीपतः ॥ ६.१३.८०॥
कर्म्मारम्भात्पूर्वमेव गृहीत्वा गोमयं शुभम् ।
स्थूलामलकमात्रेण कृत्वा पिण्डान्विशोषयेत ॥ ८१॥
सौरैस्तु किरणैरेव होमारम्भाग्निमध्यगान् ।
निक्षिप्य होमसम्पूर्त्तौ भस्म सङ्गृह्य गोपयेत् ॥ ८२॥
ततो गुरुस्समादाय विरजानलजं सितम् ।
भस्म तेनैव तं शिष्यमग्निरित्यादिभिः क्रमात् ॥ ८३॥
मन्त्रैरङ्गानि संस्पृश्य मूर्द्धादिचरणान्ततः ।
ईशानाद्यैः पञ्चमन्त्रै शिर आरभ्य सर्वतः ॥ ८४॥
समुद्धृत्य विधानेन त्रिपुण्ड्रं धारयेत्ततः ।
त्रियायुषैस्त्र्यम्बकैश्च मूर्ध्न आरभ्य च क्रमात् ॥ ८५॥
ततस्सद्भक्तियुक्तेन चेतसा शिष्यसत्तमः ।
हृत्पङ्कजे समासीनं ध्यायेच्छिवमुमासखम् ॥ ८६॥
हस्तं निधाय शिरसि शिष्यस्य स गुरुर्वदेत् ।
त्रिवारं प्रणवं दक्षकर्णे ऋष्यादिसंयुतम् ॥ ८७॥
ततः कृत्वा च करुणां प्रणवस्यार्थ मादिशेत् ।
षड्विधार्त्थपरि ज्ञानसहितं गुरुसत्तमः ॥ ८८॥
द्विषट्प्रकारं स गुरुं प्रणमेद्भुवि दण्डवत् ।
तदधीनो भवेन्नित्यं नान्यत्कर्म्म समाचरेत् ॥ ८९॥
तदाज्ञया ततः शिष्यो वेदान्तार्थानुसारतः ।
शिवज्ञानपरो भूयात्सगुणागुणभेदतः ॥ ६.१३.९०॥
ततस्तेनैव शिष्येण श्रवणाद्यङ्गपूर्व्वकम् ।
प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद्गुरुः ॥ ९१॥
पूजां च मण्डले तस्मिन्कैलासप्रस्तराह्वये ।
शिवोदितेन मार्गेण शिष्यस्तत्रैव पूजयेत् ॥ ९२॥
देवन्नित्यमशक्तश्चेत्पूजितुं गुरुणा शुभम् ।
स्फाटिकं पीठिकोपेतं गृह्णीयाल्लिङ्गमैश्वरम् ॥ ९३॥
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि मे ।
न त्वनभ्यर्च्य भुञ्जीयां भगवन्तं त्रिलोचनम् ॥ ९४॥
एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ।
कुर्य्याद्दृढमनाश्शिष्यः शिवभक्तिसमुद्वहन् ॥ ९५॥
तत एव महादेवं नित्यमुद्युक्तमानसः ।
पूजयेत्परया भक्त्या पञ्चावरणमार्गतः ॥ ९६॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां त्रयोदशोऽध्यायः ॥ ६.१३॥
६.१४
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
६.१४. चतुर्दशोऽध्यायः । शिवरूपप्रणववर्णनम् ।
वामदेव उवाच ।
भगवन्षण्मुखाशेषविज्ञानामृतवारिधे ।
विश्वामरेश्वरसुत प्रणतार्त्तिप्रभञ्जन ॥ १॥
षड्विधार्त्थपरिज्ञानमिष्टदं किमुदाहृतम् ।
के तत्र षड्विधा अर्थाः परिज्ञानं च किं प्रभो ॥ २॥
प्रतिपाद्यश्च कस्तस्य परिज्ञाने च किं फलम् ।
एतत्सर्वं समाचक्ष्व यद्यत्पृष्टं मया गुह ॥ ३॥
एतमर्त्थमविज्ञाय पशुशास्त्रविमोहितः ।
अद्याप्यहं महासेन भ्रान्तश्च शिवमायया ॥ ४॥
अहं शिवपदद्वन्द्वज्ञानामृतरसायनम् ।
पीत्त्वा विगतसम्मोहो भविष्यामि यथा तथा ॥ ५॥
कृपामृतार्द्रया दृष्ट्या विलोक्य सुचिरं मयि ।
कर्त्तव्योऽनुग्रहः श्रीमत्पादाब्जशरणागते ॥ ६॥
इति श्रुत्वा मुनीन्द्रोक्तं ज्ञानशक्तिधरो विभुः ।
प्राहान्यदर्शनमहासन्त्रासजनकं वचः ॥ ७॥
सुब्रह्मण्य उवाच ।
श्रूयतां मुनिशार्दूल त्वया यत्पृष्टमादरात् ।
समष्टिव्यष्टिभावेन परिज्ञानम्महेशितुः ॥ ८॥
प्रणवार्त्थपरिज्ञानरूपं तद्विस्तरादहम् ।
वदामि षड्विधार्थैक्यपरिज्ञानेन सुव्रत ॥ ९॥
प्रथमो मन्त्ररूपः स्याद् द्वितीयो मन्त्रभावितः ।
देवतार्त्थस्तृतीयोऽर्थः प्रपञ्चार्थस्ततः परम् ॥ ६.१४.१०॥
चतुर्थः पञ्चमार्थः स्याद् गुरुरूपप्रदर्शकः ।
षष्ठः शिष्यात्मरूपोऽर्थः षड्विधार्थाः प्रकीर्तिताः ॥ ११॥
तत्र मन्त्रस्वरूपं ते वदामि मुनिसत्तम ।
येन विज्ञातमात्रेण महाज्ञानी भवेन्नरः ॥ १२॥
आद्यः स्वरः पञ्चमश्च पञ्चमान्तस्ततः परः ।
बिन्दुनादौ च पञ्चार्णाः प्रोक्ता वेदैर्न चान्यथा ॥ १३॥
एतत्समष्टिरूपो हि वेदादिः समुदाहृतः ।
नादः सर्वसमष्टिः स्याद् बिन्द्वाढ्यं यच्चतुष्टयम् ॥ १४॥
व्यष्टिरूपेण संसिद्धं प्रणवे शिववाचके ।
यन्त्ररूपं शृणु प्राज्ञ शिवलिङ्गं तदेव हि ॥ १५॥
सर्वाधस्ताल्लिखेत्पीठं तदूर्ध्वं प्रथमं स्वरम् ।
उवर्णं च तदूर्ध्वस्थं पवर्गान्तं तदूर्ध्वगम् ॥ १६॥
तन्मस्तकस्थं बिन्दुं च तदूर्ध्वं नादमालिखेत् ।
यन्त्रे सम्पूर्णतां याते सर्वकामः प्रसिध्यति ॥ १७॥
एवं यन्त्रं समालिख्य प्रणवे नव वेष्टयेत् । त-व
तदुत्थेनैव नादेन विद्यन्नादावसानकम् ॥ १८॥
देवतार्त्थं प्रवक्ष्यामि गूढं सर्वत्र यन्मुने ।
तव स्नेहाद् वामदेव यथा शङ्करभाषितम् ॥ १९॥
सद्योजातं प्रपद्यामीत्युपक्रम्य सदाशिवोम् ।
इति प्राह श्रुतिस्तारं ब्रह्मपञ्चकवाचकम् ॥ ६.१४.२०॥
विज्ञेया ब्रह्मरूपिण्यः सूक्ष्माः पञ्चैव देवताः ।
एता एव शिवस्यापि मूर्तित्वेनोपबृंहिताः ॥ २१॥
शिवस्य वाचको मन्त्रः शिवमूर्त्तेश्च वाचकः ।
मूर्त्तिमूर्तिमतोर्भेदो नात्यन्तं विद्यते यतः ॥ २२॥
ईशानमुकुटोपेत इत्यारभ्य पुरोदितः ।
शिवस्य विग्रहः पञ्चवक्त्राणि शृणु साम्प्रतम् ॥ २३॥
पञ्चमादि समारभ्य सद्योजाताद्यनुक्रमात् ।
ऊर्ध्वान्तमीशानान्तं च मुखपञ्चकमीरितम् ॥ २४॥
ईशानस्यैव देवस्य चतुर्व्यूहपदे स्थितम् ।
पुरुषाद्यं च सद्यान्तं ब्रह्मरूपं चतुष्टयम् ॥ २५॥
पञ्च ब्रह्मसमष्टिः स्यादीशानं ब्रह्म विश्रुतम् ।
पुरुषाद्यं तु तद्व्यष्टिः सद्योजातान्तिकं मुने ॥ २६॥
अनुग्रहमयं चक्रमिदं पञ्चार्थकारणम् ।
परब्रह्मात्मकं सूक्ष्मं निर्विकारमनामयम् ॥ २७॥
अनुग्रहोऽपि द्विविधस्तिरोभावादिगोचरः ।
प्रभुश्चान्यस्तु जीवानां परावरविमुक्तिदः ॥ २८॥
एतत्सदाशिवस्यैव कृत्यद्वयमुदाहृतम् ।
अनुग्रहेऽपि सृष्ट्यादिकृत्यानां पञ्चकं विभोः ॥ २९॥
मुने तत्रापि सद्याद्या देवताः परिकीर्तिताः ।
परब्रह्मस्वरूपास्ताः पञ्च कल्याणदाः सदा ॥ ६.१४.३०॥
अनुग्रहमयं चक्रं शान्त्यतीतकलामयम् ।
सदाशिवाधिष्ठितं च परमं पदमुच्यते ॥ ३१॥
एतदेव पदं प्राप्य यतीनां भवितात्मनाम् ।
सदाशिवोपासकानां प्रणवासक्तचेतसाम् ॥ ३२॥
एतदेव पदं प्राप्य तेन साकं मुनीश्वराः ।
भुक्त्वा सुविपुलान्भोगान्देवेन ब्रह्मरूपिणा ॥ ३३॥
महाप्रलयसम्भूतौ शिवसाम्यं भजन्ति हि ।
न पतन्ति पुनः क्वापि संसाराब्धौ जनाश्च ते ॥ ३४॥
ते ब्रह्मलोक इति च श्रुतिराह सनातनी ।
ऐश्वर्यं तु शिवस्यापि समष्टिरिदमेव हि ॥ ३५॥
सर्वैश्वर्येण सम्पन्न इत्याहाथर्वणी शिखा ।
सर्वैश्वर्यप्रदातृत्वमस्यैव प्रवदन्ति हि ॥ ३६॥
चमकस्य पदान्नान्यदधिकं विद्यते पदम् ।
ब्रह्मपञ्चकविस्तारप्रपञ्चः खलु दृश्यते ॥ ३७॥
ब्रह्मभ्य एवं सञ्जाता निवृत्त्याद्याः कला मताः ।
सूक्ष्मभूतस्वरूपिण्यः कारणत्वेन विश्रुताः ॥ ३८॥
स्थूलरूपस्वरूपस्य प्रपञ्चस्यास्य सुव्रत ।
पञ्चधावस्थितं यत्तद् ब्रह्मपञ्चकमिष्यते ॥ ३९॥
पुरुषः श्रोत्रवाण्यौ च शब्दकाशौ च पञ्चकम् ।
व्याप्तमीशानरूपेण ब्रह्मणा मुनिसत्तम ॥ ६.१४.४०॥
प्रकृतिस्त्वक्च पाणिश्च स्पर्शो वायुश्च पञ्चकम् ।
व्याप्तं पुरुषरूपेण ब्रह्मणैव मुनीश्वर ॥ ४१॥
अहङ्कारस्तथा चक्षुः पादो रूपं च पावकः ।
अघोरब्रह्मणा व्याप्तमेतत्पञ्चकमञ्चितम् ॥ ४२॥
बुद्धिश्च रसना पायू रस आपश्च पञ्चकम् ।
ब्रह्मणा वामदेवेन व्याप्तं भवति नित्यशः ॥ ४३॥
मनो नासा तथोपस्थो गन्धो भूमिश्च पञ्चकम् ।
सद्येन ब्रह्मणा व्याप्तं पञ्चब्रह्ममयं जगत् ॥ ४४॥
यन्त्ररूपेणोपदिष्टः प्रणवः शिववाचकः ।
समष्टिः पञ्चवर्णानां बिन्द्वाद्यं यच्चतुष्टयम् ॥ ४५॥
शिवोपदिष्टमार्गेण यन्त्ररूपं विभावयेत् ।
प्रणवं परमं मन्त्राधिराजं शिवरूपिणम् ॥ ४६॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवरूपप्रणववर्णनं नाम चतुर्दशोऽध्यायः ॥ ६.१४॥
६.१५
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
६.१५. पञ्चदशोऽध्यायः । उपासनामूर्त्तिवर्णनम् ।
ईश्वर उवाच ।
ततः परं प्रवक्ष्यामि सृष्टिपद्धतिमुत्तमाम् ।
सदाशिवान्महेशादिचतुष्कस्य वरानने ॥ १॥
सदाशिवः समष्टिः स्यादाकाशधिपतिः प्रभुः ।
अस्यैव व्यष्टितापन्नं महेशादिचतुष्टयम् ॥ २॥
सदाशिवसहस्रांशान्महेशस्य समुद्भवः ।
पुरुषानन्तरूपत्वाद्वायोरधिपतिश्च सः ॥ ३॥
मायाशक्तियुतो वामे सकलश्च क्रियाधिकः ।
अस्यैव व्यष्टिरूपं स्यादीश्वरादिचतुष्टयम् ॥ ४॥
ईशो विश्वेश्वरः पश्चात्परमेशस्ततः परम् ।
सर्वेश्वर इतीदं तु तिरोधाचक्रमुत्तमम् ॥ ५॥
तिरोभावो द्विधा भिन्न एको रुद्रादिगोचरः ।
अन्यश्च देहभावेन पशुवर्गस्य सन्ततेः ॥ ६॥
भोगानुरञ्जनपरः कर्मसाम्यक्षणावधि ।
कर्मसाम्ये स एकः स्यादनुग्रहमयो विभुः ॥ ७॥
तत्र सर्वेश्वरा यास्ते देवताः परिकीर्तिताः ।
परब्रह्मात्मकाः साक्षान्निर्विकल्पा निरामयाः ॥ ८॥
तिरोभावात्मकं चक्रं भवेच्छान्तिकलामयम् ।
महेश्वराधिष्ठितं च पदमेतदनुत्तमम् ॥ ९॥
एतदेव पदं प्राप्यं महेशपदसेविनाम् ।
माहेश्वराणां सालोक्यक्रमादेव विमुक्तिदम् ॥ ६.१५.१०॥
महेश्वरसहस्रांशाद् रुद्रमूर्तिरजायत ।
अघोरवदनाकारस्तेजस्तत्त्वाधिपश्च सः ॥ ११॥
गौरीशक्तियुतो वामे सर्वसंहारकृत्प्रभुः ।
अस्यैव व्यष्टिरूपं स्याच्छिवाद्यथ चतुष्टयम् ॥ १२॥
शिवो हरो मृडभवौ विदितं चक्रमद्भुतम् ।
संहाराख्यं महादिव्यं परमं हि मुनीश्वर ॥ १३॥
स संहारस्त्रिधा प्रोक्तो बुधैर्नित्यादिभेदतः ।
नित्यो जीवसुषुप्त्याख्यो विधेर्नैमित्तिकः स्मृतः ॥ १४॥
विलयस्तस्य तु महानिति वेदनिदर्शितः ।
जीवानां जन्मदुःखादिशान्तानामुषितात्मनाम् ॥ १५॥
विश्रान्त्यर्थं मुनिश्रेष्ठ कर्मणां पाकहेतवे ।
संहारः कल्पितस्त्रेधा रुद्रेणामिततेजसा ॥ १६॥
रुद्रस्यैव तु कृत्यानां त्रयमेतदुदाहृतम् ।
संहृतवपि सृष्ट्यादिकृत्यानां पञ्चकं विभोः ॥ १७॥
मुने तत्र भवाद्यास्ते देवताः परिकीर्तिताः ।
परब्रह्मस्वरूपाश्च लोकानुग्रहकारकाः ॥ १८॥
संहाराख्यमिदं चक्रं विद्यारूपकलामयम् ।
अधिष्ठितं च रुद्रेण पदमेतन्निरामयम् ॥ १९॥
एतदेव पदं प्राप्यं रुद्राराधनकाङ्क्षिणाम् ।
रुद्राणां तद्धि सालोक्यक्रमात्सायुज्यदं मुने ॥ ६.१५.२०॥
रुद्रमूर्तेः सहस्रांशाद्विष्णोश्चैवाभवज्जनिः ।
स वामदेवचक्रात्मा वारितत्त्वैकनायकः ॥ २१॥
रमाशक्तियुतो वामे सर्व्वरक्षाकरो महान् ।
चतुर्भुजोऽरविन्दाक्षः श्यामः शङ्खादिचिह्नभृत् ॥ २२॥
अस्यैव वासुदेवादिचतुष्कं व्यष्टितां गतम् ।
उपासनरतानां वै वैष्णवानां विमुक्तिदम् ॥ २३॥
वासुदेवोऽनिरुद्धश्च ततः सङ्कर्षणः परः ।
प्रद्युम्नश्चेति विख्यातं स्थितिचक्रमनुत्तमम् ॥ २४॥
स्थितिः सृष्टस्य जगतस्तत्कर्त्रा सह पालनम् ।
आरब्धकर्मभोगान्तं जीवानां फलभोगिनाम् ॥ २५॥
विष्णोरेवेदमाख्यातं कृत्यं रक्षाविधायिनः ।
स्थितावपि तु सृष्ट्यादिकृत्यानां पञ्चकं विभोः ॥ २६॥
तत्र प्रद्युम्नमुख्यास्ते देवताः परिकीर्तिताः ।
निर्विकल्पा निरातङ्का मुक्तानन्दकराः सदा ॥ २७॥
स्थितिचक्रमिदं ब्रह्मन् प्रतिष्ठारूपमुत्तमम् ।
जनार्दनाधिष्ठितं च परमं पदमुच्यते ॥ २८॥
एवदेव पदं प्राप्यं विष्णुपादाब्जसेविनाम् ।
वैष्णवानां चक्रमिदं सालोक्यादिपदप्रदम् ॥ २९॥
विष्णोरेव सहस्रांशात्सम्बभूव पितामहः ।
सद्योजातमुखात्मा यः पृथिवीतत्त्वनायकः ॥ ६.१५.३०॥
वाग्देवीसहितो वामे सृष्टिकर्त्ता जगत्प्रभुः ।
चतुर्मुखो रक्तवर्णो रजोरूपस्वरूपवान् ॥ ३१॥
हिण्यगर्भाद्यस्यैव व्यष्टिरूपं चतुष्टयम् ।
हिरण्यगर्भोऽथ विराट् पुरुषः काल एव च ॥ ३२॥
सृष्टिचक्रमिदं ब्रह्म पुत्रादिऋषिसेवितम् ।
सर्वकामार्थदं ब्रह्मन्परिवारसुखप्रदम् ॥ ३३॥
सृष्टिस्तु संहृतस्यास्य जीवस्य प्रकृतौ बहिः ।
आनीय कर्मभोगार्थं साधनाङ्गफलैस्सह ॥ ३४॥
संयोजनमितीदं तु कृत्यं पैतामहं विदुः ।
जगत्सृष्टिक्रियाविज्ञा यावद् व्यूहं सुखावहम् ॥ ३५॥
जगत्सृष्टावपि मुने कृत्यानां च पञ्चकं विभोः ।
अस्ति कालोदयस्तत्र देवताः परिकीर्तिताः ॥ ३६॥
निवृत्तिरूपमाख्यातं सृष्टिचक्रमिदं बुधैः ।
पितामहाधिष्ठितं च पदमेतद्धि शोभनम् ॥ ३७॥
एतदेव प्रदं प्राप्यं ब्रह्मार्पितधियां नृणाम् ।
पैतामहानामेतद्धि सालोक्यादिविमुक्तिदम् ॥ ३८॥
अस्मिन्नपि चतुष्के तु चक्राणां प्रणवो भवेत् ।
महेशादिक्रमादेव गौण्या वृत्त्या स वाचकः ॥ ३९॥
इदं खलु जगच्चक्रं श्रुतिविश्रुतवैभवम् ।
पञ्चारं चक्रमिति ह स्तौति श्रुतिरिदं मुने ॥ ६.१५.४०॥
एकमेव जगच्चक्रं शम्भोः शक्तिविजृम्भितम् ।
सृष्ट्यादिपञ्चावयवं पञ्चारमिति कथ्यते ॥ ४१॥
अलातचक्रभ्रमिवदविच्छिन्नलयोदयम् ।
परितो वर्तते यस्मात्तस्माच्चक्रमितीरितम् ॥ ४२॥
सृष्ट्यादिपृथुसृष्टित्वात्पृथुत्वेनोपदृश्यते ।
हिरण्मयस्य देवस्य शम्भोरमिततेजसः ॥ ४३॥
शक्तिकार्यमिदं चक्रं हिरण्यज्योतिराश्रितम् ।
सलिलेनावृतमिदं सलिलं वह्निनावृतम् ॥ ४४॥
आवृतो वायुना वह्निराकाशेनावृतं महत् ।
भूतादिना तथाकाशो भूतादिर्महतावृतः ॥ ४५॥
अव्यक्तेनावृतस्तद्वन्महानित्येवमास्तिकैः ।
ब्रह्माण्डमिति सम्प्रोक्तमाचार्यैर्मुनिसत्तम ॥ ४६॥
उक्तानि सप्तावरणान्यस्य विश्वस्य गुप्तये ।
चक्राद्दशगुणाधिक्यं सलिलस्य विधीयते ॥ ४७॥
उपर्युपरि चान्योऽन्यमेवं दशगुणाधिकम् ।
ब्रह्माण्डमिति विज्ञेयं तद् विजैर्मुनिनायक ॥ ४८॥
इममर्थमुरीकृत्य चक्रसामीप्यवर्त्तनात् ।
सलिलस्य च तन्मध्ये इति प्राह श्रुतिः स्वयम् ॥ ४९॥
अनुग्रहतिरोभावसंहृतिस्थितिसृष्टिभिः ।
करोत्यविरतं लीलामेकः शक्तियुतः शिवः ॥ ६.१५.५०॥
बहुनेह किमुक्तेन मुने सारं वदामि ते ।
शिव एवेदमखिलं शक्तिमानिति निश्चितम् ॥ ५१॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामुपासनामूर्त्तिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ६.१५॥
६।१६
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.१६. षोडशोऽध्यायः । शिवतत्त्ववर्णनम् ।
सूत उवाच ।
श्रुत्वोपदिष्टं गुरुणा वेदार्थं मुनिपुङ्गवः ।
परमात्मनि सन्दिग्धं परिपप्रच्छ सादरम् ॥ १॥
वामदेव उवाच ।
ज्ञानशक्तिधर स्वामिन्परमानन्दविग्रह ।
प्रणवार्थामृतं पीतं श्रीमुखाब्जात्परिस्रुतम् ॥ २॥
दृढप्रज्ञश्च जातोऽस्मि सन्देहो विगतो मम ।
किञ्चिदन्यन्महासेन पृच्छामि त्वां शृणु प्रभो ॥ ३॥
सदाशिवादिकीटान्तरूपस्य जगतः स्थितिः ।
स्त्रीपुंरूपेण सर्वत्र दृश्यते न हि संशयः ॥ ४॥
एवं रूपस्य जगतः कारणं यत्सनातनम् ।
स्त्रीरूपं तत्किमाहोस्वित्पुरुषो वा नपुंसकम् ॥ ५॥
उत मिश्रं किमन्यद्वा न जातस्तत्र निर्णयः ।
बहुधा विवदन्तीह विद्वांसः शास्त्रमोहिताः ॥ ६॥
जगत्सृष्टिविधायिन्यः श्रुतयो जगता सह ।
विष्णुब्रह्मादयो देवाः सिद्धाश्च न विदन्ति हि ॥ ७॥
यथैक्यभावं गच्छेयुरेतदन्यच्च वेदय ।
जानामीति करोमीति व्यवहारः प्रदृश्यते ॥ ८॥
स हि सर्वात्मसंसिद्धो विवादो नात्र कस्यचित् ।
सर्वदेहेन्द्रियमनोबुद्ध्यहङ्कारसम्भवः ॥ ९॥
आहोस्विदात्मनो रूपं महानत्रापि संशयः ।
द्वयमेतद्धि सर्वेषां विवादास्पदमद्भुतम् ॥ ६।१६।१०॥
उत्पाट्याज्ञानसम्भूतं संशयाख्यं विषद्रुमम् ।
शिवाद्वैतमहाकल्पवृक्षभूमिर्यथा भवेत् ॥ ११॥
चित्तं मम यथा देव बोध्योऽस्मि कृपया तव ।
कृपातस्तव देवेश दृढज्ञानी भवाम्यहम् ॥ १२॥
सूत उवाच ।
श्रुत्वैवं मुनिना पृष्टं वचो वेदान्तनिर्वृतम् ।
रहस्यं प्रभुराहेदं किञ्चित्प्रहसिताननः ॥ ९३॥
सुब्रह्मण्य उवाच ।
एतदेव मुने गुह्यं शिवेन परिभाषितम् ।
अम्बायाः शृण्वतो देव्या वामदेव ममापि हि ॥ १४॥
तस्याः स्तन्यं तदा पीत्वा सन्तृप्तोऽस्मि मुहुर्मुहुः ।
श्रुतवान्निश्चलं तद्वै निश्चितं मे विचारितम् ॥ १५॥
तत्ते वदामि दयया वामदेव महामुने ।
महद्गुह्यं च परमं सुत त्वं शृणु साम्प्रतम् ॥ १६॥
कर्मास्ति तत्त्वादारभ्य शास्त्रवादः सुविस्तरः ।
यथाविवेकं श्रोतव्यो ज्ञानिना ज्ञानदो मुने ॥ १७॥
त्वयोपदिष्टा ये शिष्यास्तत्र को वा भवत्समः ।
कपिलादिषु शास्त्रेषु भ्रमन्त्यद्यापि तेऽधमाः ॥ १८॥
ते शप्ता मुनिभिः षड्भिः शिवनिन्दापराः पुरा ।
न श्रोतव्या हि तद्वार्त्ता तेऽन्यथावादिनो यतः ॥ १९॥
अनुमानप्रयोगस्याप्यवकाशोऽत्रन विद्यते ।
पञ्चावयवयुक्तस्य स तु धूमस्य दर्शनात् ॥ ६।१६।२०॥
पर्वतस्याग्निमद्भावं वदन्त्यत्रापि सुव्रत ।
प्रत्यक्षस्य प्रपञ्चस्य दर्शनालम्बनं त्वतः ॥ २१॥
ज्ञातव्यः परमेशानः परमात्मा न संशयः ।
स्त्रीपुंरूपमयं विश्वं प्रत्यक्षेणैव दृश्यते ॥ २२॥
षट्कोशरूपः पिण्डो हि तत्र चाद्यत्रयं भवेत् ।
मात्रंशजं पुनश्चान्यत्पित्रंशजमिति श्रुतिः ॥ २३॥
एवं सर्वशरीरेषु स्त्रीपुम्भावविदो जनाः ।
परमात्मन्यपि मुने स्त्रीपुम्भावं विदुर्बुधाः ॥ २४॥
सच्चिदानदरूपत्वं वदति ब्रह्मणः श्रुतिः ।
असन्निवर्तकः शब्दः सदात्मेति निगद्यते ॥ २५॥
निवर्तनं जडत्वस्य चिच्छब्देन विधीयते ।
त्रिलिङ्गवर्ती सच्छब्दः पुरुषोऽत्र विधीयताम् ॥ २६॥
प्रकाशवाची स भवेत्सत्प्रकाश इति स्फुटम् ।
ज्ञानशब्दस्य पर्यायश्चिच्छब्दः स्त्रीत्वमागतः ॥ २७॥
प्रकाशश्चिच्च मिथुनं जगत्कारणतां गतम् ।
सच्चिदात्मन्यपि तथा जगत्कारणतां गते ॥ २८॥
एकत्रैव शिवः शक्तिरिति भावो विधीयते ।
तैलवर्त्त्यादिमालिन्यात्प्रकाशस्यापि वर्तते ॥ २९॥
मालिन्यमशिवत्वं च चिताग्न्यादिषु दृश्यते ।
एवं निवर्तकत्वेन शिवत्वं श्रुतिचोदितम् ॥ ६।१६।३०॥
जीवाश्रितायाश्चिच्छक्तेर्दौर्बल्यं विद्यते सदा ।
तन्निवृत्त्यर्थमेवात्र शक्तित्वं सार्वकालिकम् ॥ ३१॥
बलवान् शक्तिमांश्चेति व्यवहारः प्रदृश्यते ।
लोके वेदे च सततं वामदेव महामुने ॥ ३२॥
एवं शिवत्वं शक्तित्वं परमात्मनि दर्शितम् ।
शिवशक्त्योस्तु संयोगादानन्दः सततोदितः ॥ ३३॥
अतो मुने तमुद्दिश्य मुनयः क्षीणकल्मषाः ।
शिवे मनः समाधाय प्राप्ताः शिवमनामयम् ॥ ३४॥
सर्वात्मत्वं तयोरेवं ब्रह्मेत्युपनिषत्सु च ।
गीयते ब्रह्मशब्देन बृंहिधात्वर्थगोचरम् ॥ ३५॥
बृंहणत्वं बृहत्वं च शम्भ्वाख्यविग्रहे ।
पञ्चब्रह्ममये विश्वप्रतीतिर्ब्रह्मशब्दिता ॥ ३६॥
प्रतिलोमात्मकं हंसे वक्ष्यामि प्रणवोद्भवम् ।
तव स्नेहाद्वामदेव सावधानतया शृणु ॥ ३७॥
व्यञ्जनस्य सकारस्य हकारस्य च वर्जनात् ।
ओमित्येव भवेत्स्थूलो वाचकः परमात्मनः ॥ ३८॥
महामन्त्रः स विज्ञेयो मुनिभिस्तत्त्वदर्शिभिः ।
तत्र सूक्ष्मो महामन्त्रस्तदुद्धारं वदामि ते ॥ ३९॥
आद्ये त्रिपञ्चरूपे च स्वरे षोडशके त्रिषु ।
महामन्त्रो भवेदादौ ससकारो भवेद्यदा ॥ ६।१६।४०॥
हंसस्य प्रतिलोमः स्यात्सकारार्थः शिवः स्मृतः ।
शक्त्यात्मको महामन्त्रवाच्यः स्यादिति निर्णयः ॥ ४१॥
गुरूपदेशकाले तु सोऽहंशक्त्यात्मकः शिवः ।
इति जीवपरो भूयान्महामन्त्रस्तदा पशुः ॥ ४२॥
शक्त्यात्मकः शिवांशश्च शिवैक्याच्छिवसाम्यभाक् ।
प्रज्ञानं ब्रह्मवाक्ये तु प्रज्ञानार्थः प्रदृश्यते ॥ ४३॥
प्रज्ञानशब्दश्चैतन्यपर्यायः स्यान्न संशयः ।
चैतन्यमात्मेति मुने शिवसूत्रं प्रवर्तितम् ॥ ४४॥
चैतन्यमिति विश्वस्य सर्वज्ञानक्रियात्मकम् ।
स्वातन्त्र्यं तत्स्वभावो यः स आत्मा परिकीर्तितः ॥ ४५॥
इत्यादिशिवसूत्राणां वार्तिकं कथितं मया ।
ज्ञानं बन्ध इतीदं तु द्वितीयं सूत्रमीशितुः ॥ ४६॥
ज्ञानमित्यात्मनस्तस्य किञ्चिज्ज्ञानक्रियात्मकम् ।
इत्याहाद्यपदेनेशः पशुवर्गस्य लक्षणम् ॥ ४७॥
एतद् द्वयं पराशक्तेः प्रथमं स्पन्दतां गतम् ।
एतामेव परां शक्तिं श्वेताश्वतरशाखिनः ॥ ४८॥
स्वाभाविकी ज्ञानबलक्रिया चेत्यस्तुवन्मुदा ।
ज्ञानक्रियेच्छारूपं हि शम्भोर्दृष्टित्रयं विदुः ॥ ४९॥
एतन्मनोमध्यगं सदिन्द्रियज्ञानगोचरम् ।
अनुप्रविश्य जानाति करोति च पशुः सदा ॥ ६।१६।५०॥
तस्मादात्मन एवेदं रूपमित्येव निश्चितम् ।
प्रपञ्चार्थं प्रवक्ष्यामि प्रणवैक्यप्रदर्शनम् ॥ ५१॥
ओमितीदं सर्वमिति श्रुतिराह सनातनी ।
तस्माद्वेतीत्युपक्रम्य जगत्सृष्टिः प्रकीर्तिता ॥ ५२॥
तस्याः श्रुतेस्तु तात्पर्यं वक्ष्यामि श्रूयतामिदम् ।
तव स्नेहाद्वामदेव विवेकार्थविजृम्भितम् ॥ ५३॥
शिवशक्तिसमायोगः परमात्मेति निश्चितम् ।
पराशक्तेस्तु सञ्जाता चिच्छक्तिस्तु तदुद्भवा ॥ ५४॥
आनन्दशक्तिस्तज्जा स्यादिच्छाशक्तिस्तदुद्भवा ।
ज्ञानशक्तिस्ततो जाता क्रियाशक्तिस्तु पञ्चमी ।
एताभ्य एव सञ्जाता निवृत्त्याद्याः कला मुने ॥ ५५॥
चिदानन्दसमुत्पन्नौ नादबिन्दू प्रकीर्तितौ ।
इच्छाशक्तेर्मकारस्तु ज्ञानशक्तेस्तु पञ्चमः ॥ ५६॥
स्वरः क्रियाशक्तिजातो ह्यकारस्तु मुनीश्वर ।
इत्युक्ता प्रणवोत्पत्तिः पञ्चब्रह्मोद्भवं शृणु ॥ ५७॥
शिवादीशान उत्पन्नस्ततस्तत्पुरुषोद्भवः ।
ततोऽघोरस्ततो वामः सद्योजातोद्भवस्ततः ॥ ५८॥
एतस्मान्मातृकादष्टत्रिंशन्मातृसमुद्भवः ।
ईशानाच्छान्त्यतीताख्या कला जाताथ पूरुषात् ।
उत्पद्यते शान्तिकला विद्याघोरसमुद्भवा ॥ ५९॥
प्रतिष्ठा च निवृत्तिश्च वामसद्योद्भवे मते ।
ईशाच्चिच्छक्तिमुखतो विभोर्मिथुनपञ्चकम् ॥ ६।१६।६०॥
अनुग्रहादिकृत्यानां हेतुः पञ्चकमिष्यते ।
तद्विद्भिर्मुनिभिः प्राज्ञैर्वरतत्त्वप्रदर्शिभिः ॥ ६१॥
वाच्यवाचकसम्बन्धान्मिथुनत्वमुपेयुषि ।
कलावर्णस्वरूपेऽस्मिन्पञ्चके भूतपञ्चकम् ॥ ६२॥
वियदादिक्रमादासीदुत्पन्नं मुनिपुङ्गव ।
आद्यं मिथुनमारभ्य पञ्चमं यन्मयं विदुः ॥ ६३॥
शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत् ।
शब्दस्पर्शरूपगुणप्रधानो वह्निरुच्यते ॥ ६४॥
शब्दस्पर्शरूपरसगुणकं सलिलं स्मृतम् ।
शब्दस्पर्शरूपरसगन्धाढ्या पृथिवी स्मृता ॥ ६५॥
व्यापकत्वञ्च भूतानामिदमेव प्रकीर्तितम् ।
व्याप्यत्वं वैपरीत्येन गन्धादिक्रमतो भवेत् ॥ ६६॥
भूतपञ्चकरूपोऽयं प्रपञ्चः परिकीर्त्यते ।
विराट् सर्वसमष्ट्यात्मा ब्रह्माण्डमिति च स्फुटम् ॥ ६७॥
पृथिवीतत्त्वमारभ्य शिवतत्त्वावधिं क्रमात् ।
निलीय तत्त्वसन्दोहे जीव एव विलीयते ॥ ६८॥
संशक्तिकः पुनः सृष्टौ शक्तिद्वारा विनिर्गतः ।
स्थूलप्रपञ्चरूपेण तिष्ठत्याप्रलयं सुखम् ॥ ६९॥
निजेच्छया जगत्सृष्टमुद्युक्तस्य महेशितुः ।
प्रथमो यः परिस्पन्दः शिवतत्त्वं तदुच्यते ॥ ६।१६।७०॥
एषैवेच्छा शक्तितत्त्वं सर्वकृत्यानुवर्तनात् ।
ज्ञानक्रियाशक्तियुग्मे ज्ञानाधिक्ये सदाशिवः ॥ ७१॥
महेश्वरं क्रियोद्रेके तत्त्वं विद्धि मुनीश्वर ।
ज्ञानक्रियाशक्तिसाम्यं शुद्धं विद्यात्मकं मतम् ॥ ७२॥
स्वाङ्गरूपेषु भावेषु मायातत्त्वविभेदधीः ।
शिवो यदा निजं रूपं परमैश्वर्यपूर्वकम् ॥ ७३॥
निगृह्य माययाऽशेषपदार्थग्राहको भवेत् ।
तदा पुरुष इत्याख्या तत्सृष्ट्वेत्यभवच्छ्रुतिः ॥ ७४॥
अयमेव हि संसारी मायया मोहितः पशुः ।
शिवज्ञानविहीनो हि नानाकर्मविमूढधीः ॥ ७५॥
शिवादभिन्नं न जगदात्मानं भिन्नमित्यपि ।
जानतोऽस्य पशोरेव मोहो भवति न प्रभो ॥ ७६॥
यथैन्द्रजालिकस्यापि योगिनो न भवेद् भ्रमः ।
गुरुणा ज्ञापितैश्वर्यः शिवो भवति चिद्घनः ॥ ७७॥
सर्वकर्तृत्वरूपा च सर्वज्ञत्वस्वरूपिणी ।
पूर्णत्वरूपा नित्यत्वव्यापकत्वस्वरूपिणी ॥ ७८॥
शिवस्य शक्तयः पञ्च सङ्कुचद्रूपभास्कराः ॥ ७९॥
अपि सङ्कोचरूपेण विभान्त्य इति नित्यशः ।
पशोः कलाख्यविद्येति रागकालौ नियत्यपि ।
तत्त्वपञ्चकरूपेण भवत्यत्र कलेति सा ॥ ६।१६।८०॥
किञ्चित्कर्तृत्वहेतुः स्यात् किञ्चित्तत्त्वैकसाधनम् ।
सा तु विद्या भवेद्रागो विषयेष्वनुरञ्जकः ॥ ८१॥
कालो हि भावभावानां भासानां भासनात्मकः ।
क्रमावच्छेदको भूत्वा भूतादिरिति कथ्यते ॥ ८२॥
इदं तु मम कर्तव्यमिदं नेति नियामिका ।
नियतिः स्याद्विभोः शक्तिस्तदाक्षेपात्पतेत् पशुः ॥ ८३॥
एतत्पञ्चकमेवास्य स्वरूपावारकत्वतः ।
पञ्चकञ्चुकमाख्यातमन्तरङ्गं च साधनम् ॥ ८४॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवतत्त्ववर्णनं नाम षोडशोऽध्यायः ॥ ६.१६॥
६।१७
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.१७. सप्तदशोऽध्यायः । शिवाद्वैतज्ञानकथनादि सृष्टिकथनम् ।
वामदेव उवाच ।
नियत्यधस्तात्प्रकृतेरुपरिस्थः पुमानिति ।
पूर्वत्र भवता प्रोक्तमिदानीं कथमन्यथा ॥ १॥
मायया सङ्कुचद्रूपस्तदाधस्तादिति प्रभो ।
इति मे संशयं नाथ छेत्तुमर्हसि तत्त्वतः ॥ २॥
श्रीसुब्रह्मण्य उवाच ।
अद्वैतशैववादोऽयं द्वैतं न सहते क्वचित् ।
द्वैतं च नश्वरं ब्रह्माद्वैतं परमनश्वरम् ॥ ३॥
सर्वज्ञः सर्वकर्ता च शिवः सर्वेश्वरोऽगुणः ।
त्रिदेवजनको ब्रह्मा सच्चिदानन्दविग्रहः ॥ ४॥
स एव शङ्करो देवः स्वेच्छया च स्वमायया ।
सङ्कुचद्रूप इव सन्पुरुषः सम्बभूव ह ॥ ५॥
कलादिपञ्चकेनैव भोक्तृत्वेन प्रकल्पितः ।
प्रकृतिस्थः पुमानेष भुङ्क्ते प्रकृतिजान्गुणान् ॥ ६॥
इति स्थानद्वयान्तःस्थः पुरुषो न विरोधकः ।
सङ्कुचन्निजरूपाणां ज्ञानादीनां समष्टिमान् ॥ ७॥
सत्त्वादिगुणसाध्यं च बुद्ध्यादि त्रितयात्मकम् ।
चित्तम्प्रकृतितत्त्वं तदासीत्सत्त्वादिकारणात् ॥ ८॥
सात्त्विकादिविभेदेन गुणाः प्रकृतिसम्भवाः ।
गुणेभ्यो बुद्धिरुत्पन्ना वस्तुनिश्चयकारिणी ॥ ९॥
ततो महानहङ्कारस्ततो बुद्धीन्द्रियाणि च ।
जातानि मनसो रूपं स्यात्सङ्कल्पविकल्पकम् ॥ ६।१७।१०॥
बुद्धीन्द्रियाणि श्रोत्रत्वक् चक्षुर्जिह्वा च नासिका ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च गोचरः ॥ ११॥
बुद्धीन्द्रियाणां कथितः श्रोत्रादिक्रमतस्ततः ।
वैकारिकादहङ्कारात्तन्मात्राण्यभवन्क्रमात् ॥ १२॥
तानि प्रोक्तानि सूक्ष्माणि मुनिभिस्तत्त्वदर्शिभिः ।
कर्मेन्द्रियाणि ज्ञेयानि स्वकार्यसहितानि च ॥ १३॥
विप्रर्षे वाक्करौ पादौ पायूपस्थौ च तत्क्रियाः ।
वचनादानगमनविसर्ग्गानन्दसंज्ञिताः ॥ १४॥
भूतादिकादहङ्कारात्तन्मात्राण्यभवन्क्रमात् ।
तानि सूक्ष्माणि रूपाणी शब्दादीनामिति स्थितिः ॥ १५॥
तेभ्यश्चाकाशवाय्वग्निजलभूमिजनिः क्रमात् ।
विज्ञेया मुनिशार्दूल पञ्चभूतमितीष्यते ॥ १६॥
अवकाशप्रदानं च वाहकत्वं च पाचनम् ।
संरम्भो धारणं तेषां व्यापाराः परिकीर्तिताः ॥ १७॥
वामदेव उवाच ।
भूतसृष्टिः पुरा प्रोक्ता कलादिभ्यः कथं पुनः ।
अन्यथा प्रोच्यते स्कन्द सन्देहोऽत्र महान्मम ॥ १८॥
आत्मतत्त्वमकारः स्याद्विद्या स्यादुस्ततः परम् ।
शिवतत्त्वं मकारः स्याद्वामदेवेति चिन्त्यताम् ॥ १९॥
बिन्दुनादौ तु विज्ञेयौ सर्वतत्त्वार्थकावुभौ ।
तत्रत्या देवता याश्च ता मुने शृणु साम्प्रतम् ॥ ६।१७।२०॥
ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ ।
ते हि साक्षाच्छिवस्यैव मूर्तयः श्रुतिविश्रुताः ॥ २१॥
इत्युक्तं भवता पूर्वमिदानीमुच्यतेऽन्यथा ।
तन्मात्रेभ्यो भवन्तीति सन्देहोऽत्र महान्मम ॥ २२॥
कृत्वा तत्करुणां स्कन्द संशयं छेत्तुमर्हसि ।
इत्याकर्ण्य मुनेर्वाक्यं कुमारः प्रत्यभाषत ॥ २३॥
श्रीसुब्रह्मण्य उवाच ।
तस्माद्वेति समारभ्य भूतसृष्टिक्रमे मुने ।
ताञ्छृणुष्व महाप्राज्ञ सावधानतयादरात् ॥ २४॥
जातानि पञ्च भूतानि कलाभ्य इति निश्चितम् ।
स्थूलप्रपञ्चरूपाणि तानि भूतपतेर्वपुः ॥ २५॥
शिवतत्त्वादिपृथ्व्यन्तं तत्त्वानामुदयक्रमे ।
तन्मात्रेभ्यो भवन्तीति वक्तव्यानि क्रमान्मुने ॥ २६॥
तन्मात्राणां कलानामप्यैक्यं स्याद् भूतकारणम् ।
अविरुद्धत्वमेवात्र विद्धि ब्रह्माविदां वर ॥ २७॥
स्थूलसूक्ष्मात्मके विश्वे चन्द्रसूर्यादयो ग्रहाः ।
सनक्षत्राश्च सञ्जातास्तथान्ये ज्योतिषां गणाः ॥ २८॥
ब्रह्मविष्णुमहेशादिदेवता भूतजातयः ।
इन्द्रादयोऽपि दिक्पाला देवाश्च पितरोऽसुराः ॥ २९॥
राक्षसा मानुषाश्चान्ये जङ्गमत्वविभागिनः ।
पशवः पक्षिणः कीटाः पन्नगादिप्रभेदिनः ॥ ६।१७।३०॥
तरुगुल्मलतौषध्यः पर्वताश्चाष्ट विश्रुताः ।
गङ्गाद्याः सरितः सप्त सागराश्च महर्द्धयः ॥ ३१॥
यत्किञ्चिद्वस्तुजातं तत्सर्वमत्र प्रतिष्ठितम् ।
विचारणीयं सद्बुध्या न बहिर्मुनिसत्तम ॥ ३२॥
स्त्रीपुंरूपमिदं विश्वं शिवशक्त्यात्मकं बुधैः ।
भवादृशैरुपास्यं स्याच्छिवज्ञानविशारदैः ॥ ३३॥
सर्वं ब्रह्मेत्युपासीत सर्वं वै रुद्र इत्यपि ।
श्रुतिराह मुने तस्मात्प्रपञ्चात्मा सदाशिवः ॥ ३४॥
अष्टत्रिंशत्कलान्याससामर्थ्या द्वैतभावनात् ।
सदाशिवोऽहमेवेति भावितात्मा गुरुः शिवः ॥ ३५॥
एवंविचारी सच्छिष्यो गुरुः स्यात्स शिवः स्वयम् ।
प्रपञ्चदेवतायन्त्रमन्त्रात्मा न हि संशयः ॥ ३६॥
आचार्यकृपया विप्र सञ्छिन्नाखिलबन्धनः ।
शिष्यः शिवपदासक्तो गुर्वात्मा भवति ध्रुवम् ॥ ३७॥
यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः ।
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ ३८॥
रागादिदोषरहितं वेदसारः शिवोदितम् ।
तुभ्यं मे कथितं प्रीत्याद्वैतज्ञानं शिवप्रियम् ॥ ३९॥
यो ह्यन्यथैतन्मनुते मद्वचो मदगर्वितः ।
देवो वा दानवः सिद्धो गन्धर्वो मनुजोऽपि वा ॥ ६।१७।४०॥
दुरात्मनस्तस्य शिरः छिन्द्यसमतया ध्रुवम् ।
सच्छक्त्या रिपुकालाग्निकल्पया न हि संशयः ॥ ४१॥
भवानेव मुने साक्षाच्छिवाद्वैतविदां वरः ।
शिवज्ञानोपदेशे हि शिवाचारप्रदर्शकः ॥ ४२॥
यद्देहभस्मसम्पर्कात्सञ्छिन्नाघव्रजोऽशुचिः ।
महापिशाचः सम्प्राप त्वत्कृपातः सतां गतिम् ॥ ४३॥
शिवयोगीति सङ्ख्यातत्रिलोकविभवो भवान् ।
भवत्कटाक्षसम्पर्कात्पशुः पशुपतिर्भवेत् ॥ ४४॥
तव तस्य मयि पृच्छा लोकाशिक्षार्थमादरात् ।
लोकोपकारकरणे विचरन्तीह साधवः ॥ ४५॥
इदं रहस्यं परमं प्रतिष्ठितमतस्त्वयि ।
त्वमपि श्रद्धया भक्त्या प्रणवेष्वेव सादरम् ॥ ४६॥
उपविश्य च तान्सर्वान्संयोज्य परमेश्वरे ।
शिवाचारं ग्राहयस्व भूतिरुद्राक्षमिश्रितम् ॥ ४७॥
त्वं शिवो हि शिवाचारी सम्प्राप्ताद्वैतभावतः ।
विचरँल्लोकरक्षायै सुखमक्षयमाप्नुहि ॥ ४८॥
सूत उवाच ।
श्रुत्वेदमद्भुतमतं हि षडाननोक्तं
वेदान्तनिष्ठितमृषिस्तु विनम्रमूर्तिः ।
भूत्वा प्रणम्य बहुशो भुवि दण्डवत्त-
त्पादारविन्दविहरन्मधुपत्वमाप ॥ ४९॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवाद्वैतज्ञानकथनादि सृष्टिकथनं नाम सप्तदशोऽध्यायः ॥ ६.१७॥
६।१८
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.१८. अष्टादशोऽध्यायः । संन्यासपद्धतौ शिष्यकरणविधिः ।
शौनक उवाच ।
श्रुत्वा वेदान्तसारं तद्रहस्यं परमाद्भुतम् ।
किं पृष्टवान् वामदेवो महेश्वरसुतं तदा ॥ १॥
धन्यो योगी वामदेवः शिवज्ञानरतः सदा ।
यत्सम्बन्धात्कथोत्पन्ना दिव्या परमपावनी ॥ २॥
इति श्रुत्वा मुनीनां तद्वचनं प्रेमगर्भितम् ।
सूतः प्राह प्रसन्नस्तान् शिवासक्तमना बुधः ॥ ३॥
सूत उवाच ।
धन्या यूयं महादेवभक्ता लोकोपकारकाः ।
शृणुध्वं मुनयः सर्वे संवादं च तयोः पुनः ॥ ४॥
श्रुत्वा महेशतनयवचनं द्वैतनाशकम् ।
अद्वैतज्ञानजनकं सन्तुष्टोऽभून्महान्मुनिः ॥ ५॥
नत्वा स्तुत्वा च विविधं कार्तिकेयं शिवात्मजम् ।
पुनः पप्रच्छ तत्त्वं हि विनयेन महामुनिः ॥ ६॥
वामदेव उवाच ।
भगवन्सर्वतत्त्वज्ञ षण्मुखामृतवारिधे ।
गुरुत्वं कथमेतेषां यतीनां भावितात्मनाम् ॥ ७॥
जीवानां भोगमोक्षादिसिद्धिः सिध्यति यद्वशात् ।
पारम्पर्यं विना नैषामुपदेशाधिकारिता ॥ ८॥
एवं च क्षौरकर्माङ्गं स्नानं च कथमीदृशम् ।
इति विज्ञापय स्वामिन् संशयं छेत्तुमर्हसि ॥ ९॥
इति श्रुत्वा कार्तिकेयो वामदेववचः स्मरन् ।
शिवं शिवां च मनसा व्याचष्टुमुपचक्रमे ॥ ६।१८।१०॥
श्रीसुब्रह्मण्य उवाच ।
योगपट्टं प्रवक्ष्यामि गुरुत्वं येन जायते ।
तव स्नेहाद्वामदेव महद्गोप्यं विमुक्तिदम् ॥ ११॥
वैशाखे श्रावणे मासि तथाश्वयुजि कार्तिके ।
मार्गशीर्षे च माघे वा शुक्लपक्षे शुभे दिने ॥ १२॥
पञ्चम्यां पौर्णमास्यां वा कृतप्राभातिकक्रियः ।
लब्धानुज्ञस्तु गुरुणा स्नात्वा नियतमानसः ॥ १३॥
पर्यङ्कशौचं कृत्वा तद्वाससाङ्गं प्रमृज्य च ।
द्विगुणं दोरमाबध्य वाससी परिधाय च ॥ १४॥
क्षालिताङ्घ्रिर्द्विराचम्य भस्म सद्यादिमन्त्रतः ।
धारयेद्धि समादाय समुद्धूलनमार्गतः ॥ १५॥
गृहीतहस्तो गुरुणा सानुकूलेन वै मुने ।
स शिष्यः साञ्जलिः स्वाभ्यां हस्ताभ्यां प्राङ्मुखो यथा ॥ १६॥
तथोपवेष्टितस्तिष्ठेन्मण्डपे समलङ्कृते ।
गुर्वासनवरे शुद्धे चैलाजिनकुशोत्तरे ॥ १७॥
अथ देशिक आदाय शङ्खं साधारमस्त्रतः ।
विशोध्य तस्य पुरतः स्थापयेत्सानुकूलतः ॥ १८॥
साधारं शङ्खमपि च सम्पूज्य कुसुमादिभिः ।
निःक्षिपेदस्त्रवर्मभ्यां शोधितं तत्र सज्जलम् ॥ १९॥
आपूर्य पूर्ववत्पूज्य षडङ्गोक्तक्रमेण च ।
प्रणवेन पुनस्तद्वै सप्तधैवाभिमन्त्रयेत् ॥ २०॥
अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपौ प्रदर्श्य च ।
संरक्ष्यास्त्रेण तं शङ्खं वर्मणाथावगुण्ठयेत् ॥ २१॥
धेनुशङ्खाख्यमुद्रे च दर्शयेदथ देशिकः ।
पुनः स्वपुरतः शङ्खं दक्षिणे देश उत्तमे ॥ २२॥
पूज्यार्घ्योक्तविधानेन सुन्दरं मण्डलं शुभम् ।
कुर्यात्सम्पूजयेत्तं च सुगन्धकुसुमादिभिः ॥ २३॥
साधारं शोधितं शुद्धं घटं तन्तुपरिष्कृतम् ।
धूपितं स्थापितं शुद्धवासितोदप्रपूरितम् ॥ २४॥
पञ्चत्वक्पञ्चपत्रैश्च मृत्तिकाभिश्च पञ्चभिः ।
मिलितं च सुगन्धेन लेपयेत्तं मुनीश्वर ॥ २५॥
वस्त्राम्रदलदूर्वाग्रनारिकेलसुमैस्ततः ।
तं घटं वस्तुभिश्चान्यैः सङ्कुर्यात्समलङ्कृतम् ॥ २६॥
विन्यसेत्पञ्चरत्नानि घटे तत्र मुनीश्वर ।
हिरण्यं चापि तेषां वाभावे भक्त्या प्रविन्यसेत् ॥ २७॥
नीलाख्यरत्नं च तथा रत्ने माणिक्यहेमनी ।
प्रवालगोमेदके च पञ्चरत्नमिदं स्मृतम् ॥ २८॥
नृम्लुस्कमिति सम्प्रोच्य ग्लूमित्यन्तेऽथ देशिकः ।
सम्यग्विधानतः प्रीत्या सानुकूलः समर्चयेत् ॥ २९॥
आधारशक्तिमारभ्य यजनोक्तविधानतः ।
पञ्चावरणमार्गेण देवमावाह्य पूजयेत् ॥ ६।१८।३०॥
निवेद्य पायसान्नं च ताम्बूलादि यथा पुरा ।
नामाष्टकार्चनान्तं च कृत्वा तमभिमन्त्रयेत् ॥ ३१॥
प्रणवाष्टोत्तरशतं ब्रह्मभिः पञ्चभिः क्रमात् ।
सद्यादीशान्तमप्यस्त्रं रक्षितं वर्मणा पुनः ॥ ३२॥
अवगुण्ठ्य प्रदर्श्याथ धूपदीपौ च भक्तितः ।
धेनुयोन्याख्यमुद्रे च सम्यक् तत्र प्रदर्शयेत् ॥ ३३॥
ततश्च देशिकस्तस्य दर्भैराच्छाद्य मस्तकम् ।
मण्डलस्थेशदिग्भागे चतुरस्रं प्रकल्पयेत् ॥ ३४॥
तदुपर्यासनं रम्यं कल्पयित्वा विधानतः ।
तत्र संस्थापयेच्छिष्यं तं शिशुं सानुकूलतः ॥ ३५॥
ततः कुम्भं समुत्थाप्य स्वस्तिवाचनपूर्वकम् ।
अभिषिञ्चेद् गुरुः शिष्यं प्रादक्षिण्येन मस्तके ॥ ३६॥
प्रणवं पूर्वमुच्चार्य सप्तधा ब्रह्मभिस्ततः ।
पञ्चभिश्चाभिषेकान्ते शङ्खोदेनाभिवेष्टयेत् ॥ ३७॥
चारुदीपं प्रदर्श्याथ वाससा परिमृज्य च ।
नूतनं दोरकौपीनं वाससी परिधापयेत् ॥ ३८॥
क्षालिताङ्घ्रिर्द्विराचम्य धृतभस्मगुरुः शिशुम् ।
हस्ताभ्यामवलम्ब्याथ हस्तौ मण्डपमध्यतः ॥ ३९॥
तदङ्गेषु समालिप्य तद्भस्म विधिना गुरुः ।
आसने सम्प्रवेश्याथ कल्पिते स्थापयेत्सुखम् ॥ ६।१८।४०॥
पूर्वाभिमुखमात्मीयतत्त्वज्ञानाभिलाषिणम् ।
स्वासनस्थो गुरुर्ब्रूयादमलात्मा भवेति तम् ॥ ४१॥
गुरुश्च परिपूर्णोऽस्मि शिव इत्यचलस्थितिः ।
समाधिमाचरेत्सम्यङ् मुहूर्त्तं गूढमानसः ॥ ४२॥
पश्चादुन्मील्य नयने सानुकूलेन चेतसा ।
साञ्जलिं संस्थितं शुद्धं पश्येच्छिष्यमनाकुलः ॥ ४३॥
स्वहस्तं भसितालिप्तं विन्यस्य शिशुमस्तके ।
दक्षश्रुतावुपदिशेद्धंसः सोऽहमिति स्फुटम् ॥ ४४॥
तत्राद्यहम्पदस्यार्थः शक्त्यात्मा स शिवः स्वयम् ।
स एवाहं शिवोऽस्मीति स्वात्मानं संविभावय ॥ ४५॥
य इत्यणोरर्थतत्त्वमुपदिश्य ततो वदेत् ।
अवान्तराणां वाक्यानामर्थतात्पर्यमादरात् ॥ ४६॥
वाक्यानि वच्मि ते ब्रह्मन्सावधानमतिः शृणु ।
तानि धारय चित्ते हि स ब्रूयादिति संस्फुटम् ॥ ४७॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ शिष्यकरणविधिर्नामाष्टादशोऽध्यायः ॥ ६.१८॥
६।१९
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.१९. एकोनविंशोऽध्यायः । योगपट्टविधिवर्णनम् ।
सुब्रह्मण्य उवाच ।
``अथ महावाक्यानि''
(१) प्रज्ञानं ब्रह्म
(२) अहं ब्रह्मास्मि
(३) तत्त्वमसि
(४) अयामात्मा ब्रह्म
(५) ईशा वास्यमिदं सर्वं
(६) प्राणोऽस्मि
(७) प्रज्ञानात्मा
(८) यदेवेह तदमुत्र यदमुत्र तदन्विह
(९) अन्यदेव तद्विदितादथो अविदितादधि
(१०) एष न आत्मान्तर्याम्यमृतः
(११) स यश्चायं पुरुषे यश्चासावादित्ये स एकः
(१२) अहमस्मि परं ब्रह्म परापरपरात्परम्
(१३) वेदशास्त्रगुरुत्वात्तु स्वयमानन्दलक्षणम्
(१४) सर्वभूतस्थितं ब्रह्म तदेवाहं न संशयः
(१५) तत्त्वस्य प्राणोऽहमस्मि पृथिव्याः प्राणोऽहमस्मि
(१६) अपां च प्राणोऽहमस्मि तेजसश्च प्राणोऽहमस्मि
(१७) वायोश्च प्राणोऽहमस्मि आकाशस्य प्राणोऽहमस्मि
(१८) त्रिगुणस्य प्राणोऽहमस्मि
(१९) सर्वोऽहं सर्वात्मकोऽहं संसारी यद्भूतं यच्च भव्यं यद्वर्तमानं सर्वात्मकत्वादद्वितीयोऽहम्
(२०) सर्वं खल्विदं ब्रह्म
(२१) सर्वोऽहं विमुक्तोऽहम्
(२२) योऽसौ सोऽहं हंसः सोऽहमस्मि ॥
``इत्येवं सर्वत्र सदा ध्यायेदिति''
॥ अथ महावाक्यानामर्थमाह ॥
प्रज्ञानं ब्रह्मवाक्यार्थः पूर्वमेव प्रबोधितः ।
अहम्पदस्यार्थभूतः शक्त्यात्मा परमेश्वरः ॥ १॥
अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः ।
हकारो व्योमरूपः स्याच्छक्त्यात्मा सम्प्रकीर्तितः ॥ २॥
शिवशक्त्योस्तु संयोगादानन्दः सततोदितः ।
ब्रह्मेति शिवशक्त्योस्तु सर्वात्मत्वमिति स्फुटम् ॥ ३॥
पूर्वमेवोपदिष्टं तत्सोऽहमस्मीति भावयेत् ।
तत्त्वमित्यत्र तदिति तच्छब्दार्थः प्रबोधितः ॥ ४॥
अन्यथा सोऽहमित्यत्र विपरीतार्थभावना ।
अहंशब्दस्तु पुरुषस्तदिति स्यान्नपुंसकम् ।
एवमन्योऽन्यवैरुध्यादन्वयो न भवेत्तयोः ॥ ५॥
स्त्रीपुंरूपस्य जगतः कारणं चान्यथा भवेत् ।
स तत्त्वमसि इत्येवमुपदेशार्थभावना ॥ ६॥
अयमात्मेति वाक्ये च पुंरूपं पदयुग्मकम् ।
ईशेन रक्षणीयत्वादीशावास्यमिदं जगत् ॥ ७॥
प्रज्ञानात्मा यदेवेह तदमुत्रेति चिन्तयेत् ।
यः स एवेति विद्वद्भिः सिद्धान्तिभिरिहोच्यते ॥ ८॥
उपरिस्थितवाक्ये च योऽमुत्र स इह स्थितः ।
इति पूर्ववदेवार्थः पुरुषो विदुषां मतः ॥ ९॥
अन्यदेव तद्विदितादथो अविदितादपि ।
अस्मिन्वाक्ये फलस्यापि वैपरीत्यविभावना ॥ ६।१९।१०॥
यथा स्यात्तद्वदेवात्र वक्ष्यामि श्रूयतां मुने ।
अयथाविदिताशब्दो पूर्ववद्विदितादिति ॥ ११॥
प्रवृत्तः स्यात्तद्विदितात्तथैवाविदितात्परम् ।
अन्यदेव हि संसिद्ध्यै न भवेदिति निश्चितम् ॥ १२॥
एष त आत्मान्तर्यामी योऽमृतश्च शिवः स्वयम् ।
यश्चायं पुरुषे शम्भुर्यश्चादित्ये व्यवस्थितः ॥ १३॥
स चाऽसौ सेति पार्थक्यं नैकं सर्वं स ईरितः ।
सोपाधिद्वयमस्यार्थ उपचारात्तथोच्यते ॥ १४॥
तं शम्भुनाथं श्रुतयो वदन्ति हि हिरण्मयम् ।
हिरण्यबाहव इति सर्वाङ्गस्योपलक्षलम् ॥ १५॥
अन्यथा तत्पतित्वं तु न भवेदिति यत्नतः ।
य एषोऽन्तरिति शम्भुश्छान्दोग्ये श्रूयते शिवः ॥ १६॥
हिरण्यश्मश्रुवांस्तद्वद्धिरण्यमयकेशवान् ।
नखमारभ्य केशान्तं सर्वत्रापि हिरण्मयः ॥ १७॥
अहमस्मि परं ब्रह्म परापरपरात्परम् ।
इति वाक्यस्य तात्पर्यं वदामि श्रूयतामिदम् ॥ १८॥
अहम्पदस्यार्थभूतः शक्त्यात्मा शिव ईरितः ।
स एवास्मीति वाक्यार्थ योजना भवति ध्रुवम् ॥ १९॥
सर्वोत्कृष्टश्च सर्वात्मा परब्रह्म स ईरितः ।
परश्चाथापरश्चेति परात्परमिति त्रिधा ॥ ६।१९।२०॥
रुद्रो ब्रह्मा च विष्णुश्च प्रोक्ताः श्रुत्यैव नान्यथा ।
तेभ्यश्च परमो देवः परशब्देन बोधितः ॥ २१॥
वेदशास्त्रगुरूणां च वाक्याभ्यासवशाच्छिशोः ।
पूर्णानन्दमयः शम्भुः प्रादुर्भूतो भवेद्धृदि ॥ २२॥
सर्वभूतस्थितः शम्भुः स एवाहं न संशयः ।
तत्त्वजातस्य सर्वस्य प्राणोऽस्म्यहमहं शिवः ॥ २३॥
इत्युक्त्वा पुनरप्याह शिवस्तत्त्वत्रयस्य च ।
प्राणोऽस्मीत्यत्र पृथ्व्यादिगुणान्तग्रहणान्मुने ॥ २४॥
आत्मतत्त्वानि सर्वाणि गृहीतानीति भावय ।
पुनश्च सर्वग्रहणं विद्यातत्त्वे शिवात्मनोः ॥ २५॥
तत्त्वयोश्चास्म्यहं प्राणाः सर्वः सर्वात्मको ह्यहम् ।
जीवस्य चान्तर्यामित्वाज्जीवोऽहं तस्य सर्वदा ॥ २६॥
यद्भूतं यच्च भव्यं यद्भविष्यत्सर्वमेव च ।
मन्मयत्वादहं सर्वः सर्वो वै रुद्र इत्यपि ॥ २७॥
श्रुतिराह मुने सा हि साक्षाच्छिवमुखोद्गता ।
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ॥ २८॥
स्वस्मात्परात्मविरहादद्वितीयोऽहमेव हि ।
सर्वं खल्विदं ब्रह्मेति वाक्यार्थः पूर्वमीरितः ॥ २९॥
पूर्णोऽहं भावरूपत्वान्नित्यमुक्तोऽहमेव हि ।
पशवो मत्प्रसादेन मुक्ता मद्भावमाश्रिताः ॥ ६।१९।३०॥
योऽसौ सर्वात्मकः शम्भुः सोऽहं हंस शिवोऽस्म्यहम् ।
इति वै सर्ववाक्यार्थो वामदेव शिवोदितः ॥ ३१॥
इतीशश्रुतिवाक्याभ्वामुपदिष्टार्थमादरात् ।
साक्षाच्छिवैक्यदं पुंसां शिशोर्गुरुरुपादिशेत् ॥ ३२॥
आदाय शङ्खं साधारमस्त्रमन्त्रेण भस्मना ।
शोध्य तत्पुरतः स्थाप्य चतुरस्रे समर्चिते ॥ ३३॥
ओमित्यभ्यर्च्य गन्धाद्यैरस्त्रं वस्त्रोपशोभितम् ।
वासितं जलमापूर्य सम्पूज्योमिति मन्त्रतः ॥ ३४॥
सप्तधैवाभिमन्त्र्याथ प्रणवेन पुनश्च तम् ।
यस्त्वन्तरं किञ्चिदपि कुरुते सोऽतिभीतिभाक् ॥ ३५॥
इत्याह श्रुतिसत्तत्त्वं दृढात्मा गतभीर्भव ।
इत्याभाष्य स्वयं शिष्यं देवं ध्यायन् समर्चयेत् ॥ ३६॥
शिष्यासनं सम्प्रपूज्य षडुत्थापनमार्गतः ।
शिवासनं च सङ्कल्प्य शिवमूर्तिं प्रकल्पयेत् ॥ ३७॥
पञ्च ब्रह्माणि विन्यस्य शिरः पादावसानकम् ।
मुण्डवक्त्रकलाभेदैः प्रणवस्य कला अपि ॥ ३८॥
अष्टत्रिंशन्मन्त्ररूपाः शिष्यदेहेऽथ मस्तके ।
समावाह्य शिवं मुद्राः स्थापनीयाः प्रदर्शयेत् ॥ ३९॥
ततश्चाङ्गानि विन्यस्य सर्वज्ञानीत्यनुक्रमात् ।
कल्पयेदुपचारांश्च षोडशासनपूर्वकाम् ॥ ६।१९।४०॥
पायसान्नं च नैवेद्यं समर्प्योमग्निजायया ।
गण्डूषाचमनार्घ्यादि धूपदीपादिकं क्रमात् ॥ ४१॥
नामाष्टकेन सम्पूज्य ब्राह्मणैर्वेदपारगैः ।
जपेद् ब्रह्मविदाप्नोति भृगुर्वै वारुणिस्ततः ॥ ४२॥
यो देवानामुपक्रम्य यः परः स महेश्वरः ।
इत्यन्तं तस्य पुरतः कह्लारादिविनिर्मिताम् ॥ ४३॥
आदाय मालामुत्थाय श्रीविरूपाक्षनिर्मिते ।
शास्त्रे पञ्चास्यके रूपे सिद्धिस्कन्धं जपेच्छनैः ॥ ४४॥
ख्यातिः पूर्णोऽहमित्यन्तं सानुकूलेन चेतसा ।
देशिकस्तस्य शिष्यस्य कण्ठदेशे समर्पयेत् ॥ ४५॥
तिलकं चन्दनेनाथ सर्वाङ्गालेपनं पुनः ।
स्वसम्प्रदायानुगुणं कारयेच्च यथाविधि ॥ ४६॥
ततश्च देशिकः प्रीत्या नाम श्रीपादसंज्ञितम् ।
छत्रं च पादुकां दद्याद् दूर्वाकल्पविकल्पनम् ॥ ४७॥
व्याख्यातृत्वं च कर्मादि गुर्वासनपरिग्रहम् ।
अनुगृह्य गुरुस्तस्मै शिष्याय शिवरूपिणे ॥ ४८॥
शिवोऽहमस्मीति सदा समाधिस्थो भवेति तम् ।
सम्प्रोच्याथ स्वयं तस्मै नमस्कारं समाचरेत् ॥ ४९॥
सम्प्रदायानुगुण्येन नमस्कुर्युस्तथापरे ।
शिष्यस्तदा समुत्थाय नमस्कुर्याद् गुरुं तथा ।
गुरोरपि गुरुं तस्य शिष्यांश्च स्वगुरोरपि ॥ ६.१९.५०॥
एवं कृतनमस्कारं शिष्यं दद्याद् गुरुः स्वयम् ।
सुशीलं यतवाचं तं विनयावनतं स्थितम् ॥ ५१॥
अद्य प्रभृति लोकानामनुग्रहपरो भव ।
परीक्ष्य वत्सरं शिष्यमङ्गीकुरु विधानतः ॥ ५२॥
रागादिदोषान्सन्त्यज्य शिवध्यानपरो भव ।
सत्सम्प्रदायसंसिद्धैः सङ्गं कुरु न चेतरैः ॥ ५३॥
अनभ्यर्च्य शिवं जातु मा भुङ्क्ष्वाप्राण सङ्क्षयम् ।
गुरुभक्तिं समास्थाय सुखी भव सुखी भव ॥ ५४॥
इति क्रमाद् गुरुवरो दयालुर्ज्ञानसागरः ।
सानुकूलेन चित्तेन समं शिष्यं समाचरेत् ॥ ५५॥
तव स्नेहान्मयायं वै वामदेव मुनीश्वर ।
योगपट्टप्रकारस्ते प्रोक्तो गुह्यतरोऽपि हि ॥ ५६॥
इत्युक्त्वा षण्मुखस्तस्मै क्षौरस्नानविधिक्रमम् ।
वक्तुमारभते प्रीत्या यतीनां कृपया शुभम् ॥ ५७॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां योगपट्टविधिवर्णनं नामैकोनविंशोऽध्यायः ॥ ६.१९॥
६.२०
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.२०. विंशोऽध्यायः । क्षौरस्नानविधिवर्णनम् ।
सुब्रह्मण्य उवाच ।
क्षौरस्नानविधिं वक्ष्ये वामदेव महामुने ।
यस्य सद्यो विधानेन शुद्धिः स्याद्यतिनः परा ॥ १॥
योगपट्टप्रकारस्य विधिं प्राप्य मुनीश्वर ।
स शिष्यः स्याद् व्रती पूर्णः क्षौरकर्मोद्यतो भवेत् ॥ २॥
गुरुं नत्वा विशेषेण लब्धानुज्ञस्ततो गुरोः ।
शिरः सङ्क्षाल्य चाचम्य सवासाः क्षौरमाचरेत् ॥ ३॥
क्षालयेद्वसनं पश्चान्मृदम्भोभिः क्षुरादिकम् ।
तद्धस्तौ च मृदालिप्य क्षालयेति मृदं ददेत् ॥ ४॥
स्थापितं प्रोक्षितं तोयैः शिवं शिवमितीरयन् ।
स्वनेत्रे पिहिते चैवानामाङ्गुष्ठाभिमन्त्रिते ॥ ५॥
अस्त्रेणोन्मील्य सन्दृश्य क्षुरादिक्षौरसाधनम् ।
अभिमन्त्र्य द्वादशाथ प्रोक्षयेदस्त्रमन्त्रतः ॥ ६॥
क्षुरं गृहीत्वा तारेण दक्षभागे निकृन्तयेत् ।
केशांश्च कांश्चिदग्रेषु वप्त्वा सर्वं च वापयेत् ॥ ७॥
पृथिव्यां पर्णमादाय विक्षिपेन्न भुवः स्थले ।
श्मश्रूणि हस्तपादस्थनखानि च निकृन्तयेत् ॥ ८॥
बिल्वाश्वत्थतुलस्यादिस्थाने सङ्गृह्य मृत्तिकाम् ।
द्विषड्वारं निमज्याप्सु तीरं गत्वोपविश्य च ॥ ९॥
शुद्धे देशे तु संस्थाप्य मृदं त्रेधा विभज्य च ।
एवं पुनस्त्रिधा कृत्वा प्रोक्ष्यास्त्रेणाभिमन्त्रयेत् ॥ ६.२०.१०॥
तत्रैकां मृदमादाय दापयित्वान्यपाणिना ।
करौ द्वादशधालिप्य प्रत्येकं केन क्षालयेत् ॥ ११॥
पुनरेकां पादयोश्च मुखे चान्यां करे क्रमात् ।
संलिप्याक्षाल्य चाम्भोभिः पुनश्च जलमाविशेत् ॥ १२॥
अन्यां मृदं भागयित्वा शिरसि द्वादश क्रमात् ।
आलिप्य मृदमास्यान्तं निमज्य च पुनः पुनः ॥ १३॥
तीरं गत्वा तु गण्डूषान् षोडशाचमनं द्विधा ।
प्राणानायम्य च पुनः प्रणवं द्व्यष्टसङ्ख्यया ॥ १४॥
मृदमन्यां पुनस्त्रेधा विभज्य च तदेकया ।
कटिशौचं पादशौचं विधायाचम्य च द्विधा ॥ १५॥
प्रणवेनाथ षोडश प्राणानायम्य वाग्यतः ।
पुनरन्यां स्वोरुदेशे त्रिधा विन्यस्य चोमिति ॥ १६॥
प्रोक्ष्याभिमन्त्रयेत्सप्त स्वपाण्योस्तलमेकधा ।
त्रिधालिप्याथ सम्पश्येत्सूर्यमूर्तिं च पावनीम् ॥ १७॥
स्वकक्षयोः समालिप्य व्यत्यस्ताभ्यामथान्यया ।
पाणिभ्यां च मृदा शिष्यः सुमतिर्दृढमानसः ॥ १८॥
गृहीत्वान्यां मृदं शुद्धां तथासौ गुरुभक्तिमान् ।
शिर आरभ्य पादान्तं विलिप्यादित्यदृष्टया ॥ १९॥
समुत्थाय ततोऽसौ वै दण्डमादाय भूतले ।
स्वगुरुं मन्त्रदं भक्त्या संस्मरेज्ज्ञाननिष्ठया ॥ ६.२०.२०॥
ततः साम्बं महेशानं शङ्करं चन्द्रशेखरम् ।
संस्मरेद्भक्तितः शिष्य सर्वैश्वर्यपतिं शिवम् ॥ २१॥
त्रिवारं प्रणमेत्प्रीत्या साष्टाङ्गं च गुरुं शिवम् ।
पञ्चाङ्गेनैकवारं च समुत्थाय च वन्दयेत् ॥ २२॥
तीर्थं प्रविश्य तन्मध्ये निमज्योन्मज्य तां मृदम् ।
स्कन्धे संस्थाप्य पूर्वोक्तप्रकारेण विलेपयेत् ॥ २३॥
तत्रावशिष्टं सङ्गृह्य जलमध्ये प्रविश्य च ।
विलोड्य सम्यक् तां तत्र सर्वाङ्गेषु विलिप्य च ॥ २४॥
त्रिवारमोमिति प्रोच्य शिवपादाम्बुजं स्मरन् ।
संसाराम्बुधिसन्तारं सदा यद्विधितो हि सः ॥ २५॥
अभिषिच्योमिति जलं विरजाभस्मलोलितम् ।
अङ्गोपमार्ज्जनं कृत्वा सुस्नायाद्भस्मना ततः ॥ २६॥
त्रिपुण्ड्रं च विधायाथ यथोक्तविधिना शुभम् ।
यथोक्ताङ्गेषु सर्वेषु सावधानतया मुने ॥ २७॥
ततः शुद्धमना भूत्वा कुर्यान्मध्यदिनक्रियाः ।
महेश्वरं नमस्कृत्य गुरूंस्तीर्थादिकानि च ॥ २८॥
सम्पूजयेन्महेशानं भक्त्या परमया मुने ।
साम्बिकं ज्ञानदातारं पातारं त्रिभवस्य वै ॥ २९॥
ततोऽसौ दृढचेतस्को यतिः स्ववृषसंस्थितः ।
भिक्षार्थं प्रव्रजेच्छुद्धो विप्रवर्गेषु साधुषु ॥ ६.२०.३०॥
ततस्तत्र च शुद्धात्मा पञ्चधा परिकल्पितम् ।
भैक्ष्यं यथोचितं कुर्याद् दूषितान्नं विवर्जयेत् ॥ ३१॥
शौचं स्नानं तथा भिक्षां नित्यमेकान्तसेवनम् ।
भिक्षौश्चत्वारि कर्माणि पञ्चमं नैव विद्यते ॥ ३२॥
अलाबुं वेणुपात्रं च दारवं मृण्मयं तथा ।
भिक्षोश्चत्वारि पात्राणि पञ्चमं नैव विद्यते ॥ ३३॥
ताम्बूलं तैजसं पात्रं रेतस्सेकं सिताम्बरम् ।
दिवास्वापो हिनक्तान्नं यतीनां षड्विवर्जिताः ॥ ३४॥
साक्षरा विपरीताश्च राक्षसास्त इति स्मृताः ।
तस्माद्वै विपरीतं च कर्म नैवाचरेद् यतिः ॥ ३५॥
यतिः प्रयत्नतः कुर्यात्क्षौरस्नानं च शुद्धये ।
संस्मरन्मनसा शुद्धं परं ब्रह्म सदाशिवम् ॥ ३६॥
इत्यैव मुनिशार्दूल तव स्नेहान्मयाखिलः ।
क्षौरस्नानविधिः प्रोक्तः किम्भूयः श्रोतुमिच्छसि ॥ ३७॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां क्षौरस्नानविधिवर्णनं नाम विंशोऽध्यायः ॥ ६.२०॥
६.२१
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
६.२१. एकविंशोऽध्यायः । यतीनां मरणानन्तरदशाहपर्यन्तकृत्यवर्णनम् ।
वामदेव उवाच ।
ये मुक्ता यतयस्तेषां दाहकर्म न विद्यते ।
मृते शरीरे खननं तद्देहस्य श्रुतं मया ॥ १॥
तत्कर्माचक्ष्व सुप्रीत्या कार्तिकेय गुरो मम ।
त्वत्तोऽन्यो न हि संवक्ता त्रिषु लोकेषु विद्यते ॥ २॥
पूर्णाहम्भावमाश्रित्य ये मुक्ता देहपञ्जरात् ।
ये तूपासनमार्गेण देहमुक्ताः परं गताः ॥ ३॥
तेषां गतिविशेषं च भगवन् शङ्करात्मज ।
वक्तुमर्हसि सुप्रीत्या मां विचार्य स्वशिष्यतः ॥ ४॥
सूत उवाच ।
मुनिविज्ञप्तिमाकर्ण्य शक्तिपुत्रः सुरारिहा ।
प्राहात्यन्तरहस्यं तद् भृगुणा श्रुतमीश्वरात् ॥ ५॥
सुब्रह्मण्य उवाच ।
इदमेव मुने गुह्यं भृगवे शिवयोगिने ।
उक्तं भगवता साक्षात्सर्वज्ञेन पिनाकिना ॥ ६॥
वक्ष्ये तदद्य ते ब्रह्मन्न देयं यस्य कस्यचित् ।
देयं शिष्याय शान्ताय शिवभक्तियुताय वै ॥ ७॥
समाधिस्थो यतिः कश्चिच्छिवभावेन देहमुक् ।
अस्ति चेत्स महाधीरः परिपूर्णः शिवो भवेत् ॥ ८॥
अधैर्यचित्तो यः कश्चित्समाधिं न च विन्दति ।
तदुपायं प्रवक्ष्यामि सावधानतया शृणु ॥ ९॥
त्रिपदार्थपरिज्ञानं वेदान्तागमवाक्यजम् ।
श्रुत्वा गुरोर्मुखाद्योगमभ्यसेत्स यमादिकम् ॥ ६.२१.१०॥
तत्कुर्वन्स यतिः सम्यक् शिवध्यानपरो भवेत् ।
नियमेन मुने नित्यं प्रणवासक्तमानसः ॥ ११॥
देहदौर्बल्यवशतो यद्यधैर्यधरो यतिः ।
अकामश्च शिवं स्मृत्वा स जीर्णां स्वां तनुं त्यजेत् ॥ १२॥
सदाशिवानुग्रहतो नन्दिना प्रेरिता मुने ।
आतिवाहिकरूपिण्यो देवताः पञ्च विश्रुताः ॥ १३॥
अग्न्यहन्ताकृतिः काचिज्ज्योत्तिःपुञ्जवपुष्मती ।
अह्नोऽभिमानिनी काचिच्छुक्लपक्षाभिमानिनी ॥ १४॥
उत्तरायणरूपा च पञ्चानुग्रहतत्परा ।
धूम्रा तमस्विनी रात्रिः कृष्णपक्षाभिमानिनी ॥ १५॥
दक्षिणायनरूपेति विश्रुताः पञ्च देवताः ।
तासां वृत्तिं शृणुष्वाद्य वामदेव महामुने ॥ १६॥
ताः पञ्च देवता जीवान् कर्मानुष्ठानतत्परान् ।
गृहीत्वा त्रिदिवं यान्ति तत्पुण्यवशतो मुने ॥ १७॥
भुक्त्वा भोगान्यथोक्तांश्च ते तत्पुण्यक्षये पुनः ।
मानुषं लोकमासाद्य भजते जन्म पूर्ववत् ॥ १८॥
ताः पुनः पञ्चधा मार्गं विभज्यारभ्य भूतलम् ।
अग्न्यादिक्रमतां गृह्य सदाशिवपदं यतिः ॥ १९॥
निनीय वन्द्यचरणौ देवदेवस्य पृष्ठतः ।
तिष्ठन्त्यनुग्रहाकाराः कर्मण्येव प्रयोजिताः ॥ ६.२१.२०॥
समागतमभिप्रेक्ष्य देवदेवः सदाशिवः ।
विरक्तश्चेन्महामन्त्रतात्पर्यमुपदिश्य च ॥ २१॥
स्वसाम्यं च वपुर्दत्ते गाणपत्येभिषिच्य च ।
अनुगृह्णाति सर्वेशः शङ्करः सर्वनायकः ॥ २२॥
मृगटङ्कत्रिशूलाग्र्यवरदानविभूषितम् ।
त्रिनेत्रं चन्द्रशकलं गङ्गोल्लासिजटाधरम् ॥ २३॥
अधिष्ठितविमानाग्र्यं सर्वगं सर्वकामदम् ।
इति शाखाविरक्तस्य रुद्रकन्यासमावृतम् ॥ २४॥
नृत्यगीतमृदङ्गादिवाद्यघोषमनोहरम् ।
दिव्याम्बरस्रगालेपभूषणैरपि भूषितम् ॥ २५॥
दिव्यामृतघटैः पूर्णं दिव्याम्भःपरिपूरितम् ।
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ २६॥
मनोवेगं सर्वगं च विमानमनुगृह्य च ।
भुक्तभोगस्य तस्यापि भोगकौतूहलक्षये ॥ २७॥
निपात्य शक्तिं तीव्रतरां प्रकृत्या ह्यतिदुर्गमाम् ।
कान्तारं दग्धुकामां तां प्रलयानलसुप्रभाम् ॥ २८॥
अनुगृह्य महामन्त्रतात्पर्यं परमेश्वरः ।
पूर्णोऽहं भावनारूपः शम्भुरस्मीति निश्चलम् ॥ २९॥
अनुगृह्य समाधिं च स्वदास्यस्पन्दरूपिणीः ।
रव्यादिकर्म्मसामर्थ्यरूपाः सिद्धीरनर्गलाः ॥ ६.२१.३०॥
आयुःक्षये पद्मयोनेः पुनरावृत्तिवर्जिताम् ।
मुक्तिं च परमां तस्मै प्रयच्छति जगद्गुरुः ॥ ३१॥
एतदेव पदं तस्मात्सर्वैश्वर्यं समष्टिमत् ।
मुक्तिघण्टापथं चेति वेदान्तानां विनिश्चयः ॥ ३२॥
मुमूर्षोस्तस्य मन्दस्य यतेः सत्सम्प्रदायिनः ।
यतयः सानुकूलत्वात्तिष्ठेयुः परितस्तदा ॥ ३३॥
ततः सर्वे च ते तत्र प्रणवादीन्यनुक्रमात् ।
उपदिश्य च वाक्यानि तात्पर्यं च समाहिताः ॥ ३४॥
वर्णयेयुः स्फुटं प्रीत्या शिवं संस्मारयन्सदा ।
निर्गुणं परमज्योतिः प्रणम्य विलयावधि ॥ ३५॥
एतेषां सममेवात्र संस्कारक्रम उच्यते ।
असंस्कृतशरीराणां दौर्गत्यं नैव जायते ॥ ३६॥
संन्यस्य सर्वकर्माणि शिवाश्रयपरा यतः ।
देहं दूषयतस्तेषां राज्ञो राष्ट्रं च नश्यति ॥ ३७॥
तद्ग्रामवासिनस्तेऽपि भवेयुर्भृशदुःखिनः ।
तद्दोषपरिहाराय विधानं चैवमुच्यते ॥ ३८॥
स तु नम इरिण्याय चेत्यारभ्य विनम्रधीः ।
नम आमीवत्केभ्यान्तं तत्काले प्रजपेन्मनुम् ॥ ३९॥
ओमित्यन्ते जपन् देवयजनं पूरयेत्ततः ।
ततः शान्तिर्भवेत्तस्य दोषस्य हि मुनीश्वर ॥ ६.२१.४०॥
पुत्रादयो यथान्यायं कुर्युः संस्कारमुत्तमम् ।
वच्मि तत्कृपया विप्र सावधानतया शृणु ॥ ४१॥
अभ्यर्च्य स्नाप्य शुद्धोदैरभ्यर्च्य कुसुमादिभिः ।
श्रीरुद्रचमकाभ्यां च रुद्रसूक्तेन च क्रमात् ॥ ४२॥
शङ्खं च पुरतः स्थाप्य तज्जलेनाभिषिच्य च ।
पुष्पं निधाय शिरसि प्रणवेन प्रमार्जयेत् ॥ ४३॥
कौपीनादीनि सन्त्यज्य पुनरन्यानि धारयेत् ।
भस्मनोद्धूलयेत्तस्य सर्वाङ्गं विधिना ततः ॥ ४४॥
त्रिपुण्ड्रं च विधानेन तिलकं चन्दनेन च ।
विरच्य पुष्पैर्मालाभिरलङ्कुर्यात्कलेवरम् ॥ ४५॥
उरःकण्ठशिरोबाहुप्रकोष्ठश्रुतिषु क्रमात् ।
रुद्राक्षमालाभरणैरलङ्कुर्याच्च मन्त्रतः ॥ ४६॥
सुधूपितं समुत्थाप्य शिक्योपरि निधाय च ।
पञ्चब्रह्ममये रम्ये रथे संस्थापयेत्तनुम् ॥ ४७॥
ओमद्यैः पञ्चभिर्ब्रह्ममन्त्रैः सद्यादिभिः क्र्मात् ।
सुगन्धकुसुमैर्माल्यैरलङ्कुर्याद्रथं च तम् ॥ ४८॥
नृत्यवाद्यैर्ब्राह्मणानां वेदघोषैश्च सर्वतः ।
ग्रामं प्रदक्षिणीकृत्य गच्छेत्प्रेतं तमुद्वहन् ॥ ४९॥
ततस्ते यतिनः सर्वे तथा प्राच्यामथापि वा ।
उदीच्यां पुण्यदेशे तु पुण्यवृक्षसमीपतः ॥ ६.२१.५०॥
खनित्वा देवयजनं दण्डमात्रप्रमाणतः ।
प्रणवव्याहृतिभ्यां च प्रोक्ष्य चास्तीर्य च क्रमात् ॥ ५१॥
शमीपत्रैश्च कुसुमैरुत्तराग्रं तदूर्ध्वतः ।
आस्तीर्य दर्भांस्तत्पीठं चैलाजिनकुशोत्तरम् ॥ ५२॥
प्रणवेन ब्रह्मभिश्च पञ्चगव्येन तां तनुम् ।
प्रोक्ष्याभिषिच्य रौद्रेण सूक्तेन प्रणवेन च ॥ ५३॥
शङ्खतोयेनाभिषिच्य मूर्ध्नि पुष्पं विनिःक्षिपेत् ।
तद्गतस्यानुकूलोऽसौ शिवस्मरणतत्परः ॥ ५४॥
ओमित्यथ समुद्धृत्य स्वस्तिवाचनपूर्वकम् ।
गर्ते योगासने स्थाप्य प्राङ्मुखं स्याद्यथा तथा ॥ ५५॥
गन्धपुष्पैरलङ्कृत्वा धूपगुग्गुलुना ततः ।
विष्णो हव्यमिति प्रोच्य रक्षस्वेति वदन् ददेत् ॥ ५६॥
दण्डं दक्षिणहस्ते तु वामे दद्यात्कमण्डलुम् ।
प्रजापते न त्वदेतान्यन्योमन्त्रेण सोदकम् ॥ ५७॥
ब्रह्मजज्ञानं प्रथममिति मन्त्रेण मस्तके ।
स्पृशञ्जप्त्वा रुद्रसूक्तं भ्रुवोर्मध्ये स्पृशञ्जपेत् ॥ ५८॥
मानोमहान्तमित्यादि चतुर्भिर्मस्तकं ततः ।
नालिकेरेण निर्भिद्यादवटं पूरयेत्ततः ॥ ५९॥
पञ्चभिर्ब्रह्मभिः स्पृष्ट्वा जपेत् स्थलमनन्यधीः ।
यो देवानामुपक्रम्य यः परः स महेश्वरः ॥ ६.२१.६०॥
इति जप्त्वा महादेवं साम्बं संसारभेषजम् ।
सर्वज्ञमपराधीनं सर्वानुग्रहकारकम् ॥ ६१॥
एकारत्निसमुत्सेधमरत्निद्वयविस्तृतम् ।
मृदा पीठं प्रकल्प्याथ गोमयेनोपलेपयेत् ॥ ६२॥
चतुरस्रं च तन्मध्ये गन्धाक्षतसमन्वितेः ।
सुगन्धकुसुमैर्बिल्वैस्तुलस्या च समर्चयेत् ॥ ६३॥
प्रणवेन ततो दद्याद् धूपदीपौ पयो हविः ।
दत्त्वा प्रदक्षिणीकृत्य नमस्कुर्याच्च पञ्चधा ॥ ६४॥
प्रणवं द्वादशावृत्त्वा सञ्जप्य प्रणमेत्ततः ।
दिग्विदिक्क्रमतो दद्याद् ब्रह्मार्घ्यं प्रणवेन च ॥ ६५॥
एवं दशाहपर्यन्तं विधिस्ते समुदाहृतः ।
यतीनां मुनिवर्याथैकादशाहविधिं शृणु ॥ ६६॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनां मरणानन्तरदशाहपर्यन्तकृत्यवर्णनं नामैकविंशोऽध्यायः ॥ ६.२१॥
६.२२
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ ॐ नमः शिवाय ॥
षष्ठी कैलाससंहिता
६.२२. द्वाविंशोऽध्यायः । यतीनामेकादशाहकृत्यवर्णनम् ।
सुब्रह्मण्य उवाच ।
एकादशेऽह्नि सम्प्राप्ते यो विधिः समुदाहृतः ।
तं वक्ष्ये मुनिशार्दूल यतीनां स्नेहतस्तव ॥ १॥
सम्मार्ज्य वेदीमालिप्य कृत्वा पुण्याहवाचनम् ।
प्रोक्ष्य पश्चिममारभ्य पूर्वान्तं पञ्च च क्रमात् ॥ २॥
मण्डलान्युत्तराशास्यः कुर्यात्स्वयमवस्थितः ।
प्रादेशमात्रं सङ्कल्प्य चतुरस्रं च मध्यतः ॥ ३॥
बिन्दुत्रिकोणषट्कोणवृत्ताकाराणि च क्रमात् ।
शङ्खं च पुरतः स्थाप्य पूजोक्तक्रममार्गतः ॥ ४॥
प्राणानायम्य सङ्कल्प्य पूजयित्वा सुरेश्वरीः ।
देवताः पञ्च पूर्वोक्ता अतिवाहिकरूपिणीः ॥ ५॥
सन्त्यज्योत्तरतो दर्भानयश्च संस्पृशेत् ततः ।
पश्चिमादि समारभ्य षडुत्थासनमार्गतः ॥ ६॥
मण्डलानि च तेष्वन्तः पुष्पाण्याधाय पीठवत् ।
ॐ ह्रीमित्युक्त्वाग्निरूपां तामतिवाहिकदेवताम् ॥ ७॥
आवाहयामि नम इत्यन्तं सर्वत्र भावयेत् ।
दर्शयेत्स्थापनाद्यास्तु मुद्राः प्रत्येकमादरात् ॥ ८॥
ह्रांह्रीमित्यादिना कुर्यादासामङ्गानि च क्रमात् ।
पाशाङ्कुशाभयाभीष्टपाणिचन्द्रोपलप्रभाः ॥ ९॥
रक्ताङ्गुलीयकच्छायरञ्जिताखिलदिङ्मुखाः ।
रक्ताम्बरधराः हस्तपदपङ्कजशोभिताः ॥ ६.२२.१०॥
त्रिनेत्रोल्लासिवदनपूर्णचन्द्रमनोहराः ।
माणिक्यमुकुटोद्भासिचन्द्रलेखावतंसिताः ॥ ११॥
कुण्डलामृष्टगण्डाश्च पीनोन्नतपयोधराः ।
हारकेयूरकटककाञ्चीदाममनोहराः ॥ १२॥
तनुमध्याः पृथुश्रोण्यो रक्तदिव्याम्बरावृताः ।
माणिक्यमयमञ्जीरसिञ्जत्पदसरोरुहाः ।
पादाङ्गुलीयकश्रोणीर्मञ्जुलातिमनोहराः ॥ १३॥
अनुग्रहेण मूर्तेन शिववत् किं नु साध्यते ।
तस्माच्छक्त्यात्ममूर्तेन सर्वं साध्यं महेशवत् ॥ १४॥
सर्वानुग्रहकर्त्रैव स्वीकृताः पञ्चमूर्तयः ।
सर्वकार्यकरा दिव्याः परानुग्रहतत्पराः ॥ १५॥
एवं ध्यात्वा तु ताः सर्वा अनुग्रहपराः शिवाः ।
पादयोः पाद्यमेतासां दद्याच्छङ्खोदबिन्दुभिः ॥ १६॥
हस्तेष्वाचमनीयं च मौलिष्वर्घ्यं प्रदापयेत् ।
शङ्खोदबिन्दुभिस्तासां स्नानकर्म च भावयेत् ॥ १७॥
रक्ताम्बराणि दिव्यानि सोत्तरीयाणि दापयेत् ।
मुकुटादीन्यनर्घ्याणि दद्यादाभरणानि च ॥ १८॥
सुवासितं च श्रीखण्डमक्षतांश्चातिशोभनान् ।
सुरभीणि मनोज्ञानि कुसुमानि च दापयेत् ॥ १९॥
धूपं च परमामोदं साज्यवर्तिं च दीपकम् ।
सर्वं समर्पयामीति प्रणवं ह्रीमुपक्रमात् ॥ ६.२२.२०॥
नमोऽन्तं च ततो दद्यात्पायसं मधुनाप्लुतम् ।
साज्यशर्करयापूपकदलीगुडपूरितम् ॥ २१॥
प्रत्येकं कदलीपत्रे भरितं च सुवासितम् ।
भूर्भुवः स्वरिति प्रोच्य प्रोक्ष्णादीनि कारयेत् ॥ २२॥
ॐ ह्रीमिति समुच्चार्य नैवेद्यं वह्निजायया ।
पानीयं नम इत्युक्त्वा परं प्रेम्णा समर्पयेत् ॥ २३॥
तत उद्वासयेत् प्रीत्या पूर्वतो मुनिसत्तम ।
स्थलं विशोध्य गण्डूषाचमनार्घ्याणि दापयेत् ॥ २४॥
ताम्बूलं धूपदीपौ च प्रदक्षिणनमस्कृती ।
विधाय प्रार्थयेदेताः शिरस्यञ्जलिमादधत् ॥ २५॥
श्रीमातरः सुप्रसन्ना यतिं शिवपदैषिणम् ।
रक्षणीयं प्रब्रुवन्तु परमेशपदाब्जयोः ॥ २६॥
इति सम्प्रार्थ्य ताः सर्वा विसृज्य च यथागतम् ।
तासां प्रसादमुद्धृत्य कन्यकाभ्यः प्रदापयेत् ॥ २७॥
गोभ्यो वा जलमध्ये वा निक्षिपेन्नान्यथा क्वचित् ।
अत्रैव पार्वणं कुर्यान्नैकोद्दिष्टं यतेः क्वचित् ॥ २८॥
अत्रायं पार्वणश्राद्धे नियमः प्रोच्यते मया ।
तं शृणुष्व मुनिश्रेष्ठ येन श्रेयो भवेत्ततः ॥ २९॥
कर्ता स्नात्वा धृतप्राण उपवीती समाहितः ।
सपवित्रकरस्त्वस्यां पुण्यतिथ्यामिति ब्रुवन् ॥ ६.२२.३०॥
करिष्ये पार्वणं श्राद्धमिति सङ्कल्प्य चोत्तरे ।
दद्याद्दर्भानुत्तमांश्च ह्यासनार्थं जलं स्पृशेत् ॥ ३१॥
तत्रोपवेशयेद्भक्त्या साभ्यङ्गं कृतमज्जनान् ।
आहूय चतुरो विप्रान् शिवभक्तान्दृढव्रतान् ॥ ३२॥
विश्वेदेवार्थं भवता प्रसादः क्रियतामिति ।
आत्मने भवता पश्चादन्तरात्मन इत्यपि ॥ ३३॥
परमात्मन इत्येवं प्रोच्य प्रार्थ्य च तान्यतिः ।
श्रद्धया वरणं तेषां कुर्याद्याथार्थ्यमादरात् ॥ ३४॥
पादौ प्रक्षाल्य तेषां तु प्राङ्मुखानुपवेश्य च ।
गन्धादिभिरलङ्कृत्य भोजयेच्च शिवाग्रतः ॥ ३५॥
गोमयेनोपलिप्यात्र दर्भान्प्रागग्रकल्पितान् ।
आस्तीर्य संयतप्राणः पिण्डानां च प्रदानकम् ॥ ३६॥
करिष्य इति सङ्कल्प्य मण्डलत्रयमर्च्य च ।
आत्मानमन्तरात्मानं परमात्मनमप्यतः ॥ ३७॥
चतुर्थ्यन्तं वदन् पश्चादिमं पिण्डमितीरयन् ।
ददामीति च सम्प्रोच्य दद्यात्पिण्डान् स्वभक्तितः ॥ ३८॥
कुशोदकं ततो दद्याद्यथाविधि विधानतः ।
तत उत्थाय वै कुर्यात् प्रदक्षिणनमस्कृती ॥ ३९॥
ततो दत्त्वा ब्राह्मणेभ्यो दक्षिणां च यथाविधि ।
नारायणबलिं कुर्यात् तस्मिन्नेव स्थले दिने ॥ ६.२२.४०॥
रक्षार्थमेव सर्वत्र विष्णोः पूजाविधिः स्मृतः ।
कुर्याद्विष्णोर्महापूजां पायसान्नं निवेदयेत् ॥ ४१॥
द्वादशाथ समाहूय ब्राह्मणान्वेदपारगान् ।
केशवादिभिरभ्यर्च्य गन्धपुष्पाक्षतादिभिः ॥ ४२॥
उपानच्छत्रवस्त्रादि दत्त्वा तेभ्यो यथाविधि ।
सन्तोषयेन्महाभक्त्या विविधैर्वचनैः शुभैः ॥ ४३॥
आस्तीर्य दर्भान्पूर्वाग्रान्भूः स्वाहा च भुवः भुवः ।
प्रणवादि प्रोच्य भूमौ पायसान्नं बलिं हरेत् ॥ ४४॥
एकादशाहसुविधिर्मया प्रोक्तो मुनीश्वर ।
द्वादशाहविधिं वक्ष्ये शृणुष्वादरतो द्विज ॥ ४५॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनामेकादशाहकृत्यवर्णनं नाम द्वाविंशोऽध्यायः ॥ ६.२२॥
६.२३
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
६.२३. त्रयोविंशोऽध्यायः । द्वादशाहकृत्यवर्णनपूर्वकव्यासादिशिष्यवर्गकथनम् ।
सुब्रह्मण्य उवाच ।
द्वादशाहे समुत्थाय प्रातः स्नात्वा कृताह्निकः ।
शिवभक्तान्यतीन्वापि ब्राह्मणान्वा शिवप्रियान् ॥ १॥
निमन्त्र्य तान्समाहूय मध्याह्ने चाप्लुताञ्छुचीन् ।
विधिवद्भोजयेद्भक्त्या स्वाद्वन्नैर्विविधैः शुभैः ॥ २॥
सन्निधौ परमेशस्य पञ्चावरणमार्गतः ।
पूजयेत्तत्र संस्थाप्य प्राणानायम्य वाग्यतः ॥ ३॥
महासङ्कल्पमार्गेण सङ्कल्प्यास्मद्गुरोरिह ।
पूजां करिष्य इत्युक्त्वा ततो दर्भानुपस्पृशेत् ॥ ४॥
पादौ प्रक्षाल्य चाचम्य स्वयं कर्ता च वाग्यतः ।
स्थापयेदासने तान्वै प्राङ्मुखान्भस्मभूषितान् ॥ ५॥
सदाशिवादिक्रमतो ध्यायेदष्टौ च तत्र तान् ।
परया सम्भावनयेतरानपि मुने द्विजान् ॥ ६॥
परमेष्ठिगुरुं ध्यायेत्साम्बबुद्ध्या स्वनामतः ।
गुरुं च परमं तस्मात्परापरगुरुं ततः ॥ ७॥
इदमासनमित्युक्त्वा चासनानि प्रकल्पयेत् ।
प्रणवादिद्वितीयान्ते स्वस्य नाम समुच्चरन् ॥ ८॥
आवाहयामि नम इत्यावाह्यार्घोदकेन तु ।
पाद्यमाचमनं चार्घ्यं वस्त्रगन्धाक्षतानपि ॥ ९॥
दत्त्वा पुष्पैरलङ्कृत्य प्रणवाद्यष्टनामभिः ।
सचतुर्थीनमोऽन्तैश्च सुगन्धकुसुमैस्ततः ॥ ६.२३.१०॥
धूपदीपौ हि दत्त्वा च सकलाराधनं कृतम् ।
सम्पूर्णमस्त्विति प्रोच्य नमस्कुर्यात्समुत्थितः ॥ ११॥
पात्राणि कदलीपत्राण्यास्तीर्याद्भिविशोध्य च ।
शुद्धान्नपायसापूपसूपव्यञ्जनपूर्वकम् ॥ १२॥
दत्त्वा पदार्थान् कदलीनालिकेरगुडान्वितान् ।
पात्रासनानि च पृथग्दद्यात्सम्प्रोच्य च क्रमात् ॥ १३॥
परिषिच्य च सम्प्रोक्ष्य विष्णोर्हव्यमिति ब्रुवन् ।
रक्षस्वेति करस्पर्शं कारयित्वा समुत्थितः ॥ १४॥
आपोशनं समर्प्याथ प्रार्थयेत्तानिदं प्रति ।
सदाशिवादयः प्रीता वरदाश्च भवन्तु मे ॥ १५॥
ये देवा इति च ततो जप्त्वेदं साक्षतं त्यजेत् ।
नमस्कृत्य समुत्थाय सर्वत्रामृतमस्त्विति ॥ १६॥
उक्त्वा प्रसाद्य च जपन् गणानां त्वेत्युपक्रमात् ।
वेदादीन् रुद्रचमकौ रुद्रसूक्तं च पञ्च च ॥ १७॥
विप्राणां भोजनान्ते तु यावन्मन्त्रांश्च साक्षतान् ।
दत्त्वोत्तरापोशनं च हस्ताङ्घ्रिमुखशोधनम् ॥ १८॥
कृत्वाचान्तान् स्वासनेषु स्थापयित्वा यथासुखम् ।
शुद्धोदकं प्रदायाथ कर्पूरादि यथोदितम् ॥ १९॥
मुखवासं दक्षिणां च पादुकासनपत्रकम् ।
व्यजनं फलकं दण्डं वैणवं च प्रदाय तान् ॥ ६.२३.२०॥
प्रदक्षिणनमस्कारैः सन्तोष्याशिषमा वहेत ।
पुनः प्रणम्य सम्प्रार्थ्य गुरुभक्तिमचञ्चलाम् ॥ २१॥
सदाशिवादयः प्रीता गच्छन्तु च यथासुखम् ।
इत्युद्वास्य द्वारदेशावधि सम्यगनुव्रजन् ॥ २२॥
निरुद्धस्तैः परावृत्य द्वाःस्थैर्विप्रैश्च बन्धुभिः ।
दीनानाथैश्च सहितो भुक्त्वा तिष्ठेद्यथासुखम् ॥ २३॥
विकृतं न भवेत्क्वापि सत्यं सत्यं पुनः पुनः ।
प्रत्यब्दमेवं कुर्वाणो गुर्वाराधनमुत्तमम् ।
इह भुक्त्वा महाभोगान् शिवलोकमवाप्नुयात् ॥ २४॥
सूत उवाच ।
एवं कृतानुग्रहमात्मशिष्यं, श्रीवामदेवं मुनिवर्यमुक्त्वा ।
प्रसन्नधीर्ज्ञानिवरो महात्मा, कृत्वा परानुग्रहमाशु देवः ॥ २५॥
यन्नैमिषारण्यमुनीश्वराणां, प्रोक्तं पुरा व्यासमुनीश्वरेण ।
तस्मादसावादिगुरुर्भवांस्तु, द्वितीय आर्यो भुवने प्रसिद्धः ॥ २६॥
श्रुत्वा मुनीन्द्रो भवतो मुखाज्जात्, सनत्कुमारः शिवभक्तिपूर्णः ।
व्यासाय वक्ता स च शैववर्यः शुकाय वक्ता भविता च पूर्णः ॥ २७॥
प्रत्येकं मुनिशार्दूल शिष्यवर्गचतुष्टयम् ।
वेदाध्ययनसंवृत्तं धर्मस्थापनपूर्वकम् ॥ २८॥
वैशम्पायन एव स्यात्पैलो जैमिनिरेव च ।
सुमन्तुश्चेति चत्वारो व्यासशिष्या महौजसः ॥ २९॥
अगस्त्यश्च पुलस्त्यश्च पुलहः क्रतुरेव च ।
तव शिष्या महात्मानो वामदेव महामुने ॥ ६.२३.३०॥
सनकश्च सनन्दश्च सनातनमुनिस्ततः ।
सनत्सुजात इत्येते योगिवर्याः शिवप्रियाः ॥ ३१॥
सनत्कुमारशिष्यास्ते सर्ववेदार्थवित्तमाः ।
गुरुश्च परमश्चैव परात्परगुरुस्ततः ।
परमेष्ठिगुरुश्चैते पूज्याः स्युः शुकयोगिनः ॥ ३२॥
इदं प्रणवविज्ञानं स्थितं वर्गचतुष्टये ।
सर्वोत्कृष्टनिदानं च काश्यां सन्मुक्तिकारणम् ॥ ३३॥
एतन्मण्डलमद्भुतं परशिवाधिष्ठान रूपं सदा, वेदान्तार्थविचारपूर्णमतिभिः पूज्यं यतीन्द्रैः परम् ।
वेदादिप्रविभागकल्पितमहाकाशादिनाप्यावृतं, त्वत्सन्तोषकरं तथास्तु जगतां श्रेयस्करं श्रीप्रदम् ॥ ३४॥
इदं रहस्यं परमं शिवोदितं, वेदान्तसिद्धान्तविनिश्चितं परम् ।
मत्तः श्रुतं यद्भवता ततो मुने, भवन्मतं प्राज्ञतमा वदन्ति ॥ ३५॥
तस्मादनेनैव पथा गतः शिवं, शिवोऽहमस्मीति शिवो भवेद्यतिः ।
पितामहादिप्रविभागमुक्तये, नद्यो यथा सिन्धुमिमाः प्रयान्ति ॥ ३६॥
सूत उवाच ।
एवं मुनीश्वरायैतदुपदिश्य सुरेश्वरः ।
संस्मृत्य चरणाम्भोजे पित्रोः सर्वसुरार्चिते ॥ ३७॥
कैलासशिखरं पराप कुमारः शिखरावृतम् ।
राजितं परमाश्चर्यं दिव्यज्ञानप्रदो गुरुः ॥ ३८॥
वामदेवोऽपि सच्छिष्यैः संवृतः शिखिवाहनम् ।
सम्प्रणम्य जगामाशु कैलासं परमाद्भुतम् ॥ ३९॥
गत्वा कैलासशिखरं प्राप्येशनिकटं मुनिः ।
ददर्श मोक्षदं मायानाशं चरणमीशयोः ॥ ६.२३.४०॥
भक्त्या चार्पितसर्वाङ्गो विस्मृत्य स्वकलेवरम् ।
पपात सन्निधौ भूयो भूयो नत्वा समुत्थितः ॥ ४१॥
ततो बहुविधैः स्तोत्रैर्वेदागमरसोत्कटैः ।
तुष्टाव परमेशानं साम्बिकं ससुतं मुनिः ॥ ४२॥
निधाय चरणाम्भोजं देवदेव्योः स्वमूर्द्धनि ।
पूर्णानुग्रहमासाद्य तत्रैव न्यवसत्सुखम् ॥ ४३॥
भवन्तोऽपि विदित्वैवं प्रपणवार्थं महेश्वरम् ।
वेदगुह्यं च सर्वस्वं तारकं ब्रह्म मुक्तिदम् ॥ ४४॥
अत्रैव सुखमासीनाः श्रीविश्वेश्वरपादयोः ।
सायुज्यरूपामतुलां भजध्वं मुक्तिमुत्तमाम् ॥ ४५॥
अहं गुरुपदाम्भोजसेवायै बादराश्रमम् ।
गमिष्ये भवतां भूयः सत्सम्भाषणमस्तु मे ॥ ४६॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां द्वादशाहकृत्यवर्णनपूर्वकव्यासादिशिष्यवर्गकथनं नाम त्रयोविंशोऽध्यायः ॥ ६.२३॥
इति कैलाससंहिता षष्ठी समाप्तिमगमत् ।
Proofreading by Revathy Rajaraman/KC Swaminathan