श्रीशिवमहापुराणं माहात्म्यम्
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
०.१ प्रथमोऽध्यायः तन्महिमवर्णनम्
शौनक उवाच ।
हे हे सूत महाप्राज्ञ सर्वसिद्धान्तवित् प्रभो ।
आख्याहि मे कथासारं पुराणानां विशेषतः ॥ १॥
सदाचारश्च सद्भक्तिर्विवेको वर्धते कथम् ।
स्वविकारनिरासश्च सज्जनैः क्रियते कथम् ॥ २॥
जीवाश्चासुरतां प्राप्ताः प्रायो घोरे कलाविह ।
तस्य संशोधने किं हि विद्यते परमायनम् ॥ ३॥
यदस्ति वस्तु परमं श्रेयसां श्रेय उत्तमम् ।
पावनं पावनानां च साधनं तद्वदाधुना ॥ ४॥
येन तत्साधनेनाशु शुध्यत्यात्मा विशेषतः ।
शिवप्राप्तिर्भवेत्तात सदा निर्मलचेतसः ॥ ५॥
सूत उवाच ।
धन्यस्त्वं मुनिशार्दूल श्रवणप्रीतिलालसः ।
अतो विचार्य सुधिया वच्मि शास्त्रं महोत्तमम् ॥ ६॥
सर्वसिद्धान्तनिष्पन्नं भक्त्यादिकविवर्धनम् ।
शिवतोषकरं दिव्यं शृणु वत्स रसायनम् ॥ ७॥
कालव्यालमहात्रासविध्वंसकरमुत्तमम् ।
शैवं पुराणं परमं शिवेनोक्तं पुरा मुने ॥ ८॥
सनत्कुमारस्य मुनेरुपदेशात् परादरात् ।
व्यासेनोक्तं तु सङ्क्षेपात् कलिजानां हिताय च ॥ ९॥
एतस्मादपरं किञ्चित्पुराणाच्छैवतो मुने ।
न विद्यते मनःशुद्ध्यै कलिजानां विशेषतः ॥ १०॥
जन्मान्तरे भवेत् पुण्यं महद्यस्य सुधीमतः ।
तस्य प्रीतिर्भवेत्तत्र महाभाग्यवतो मुने ॥ ११॥
एतच्छिवपुराणं हि परमं शास्त्रमुत्तमम् ।
शिवरूपं क्षितौ ज्ञेयं सेवनीयं च सर्वथा ॥ १२॥
पठनाच्छ्रवणादस्य भक्तिमान्नरसत्तमः ।
सद्यः शिवपदप्राप्तिं लभते सर्वसाधनात् ॥ १३॥
तस्मात् सर्वप्रयत्नेन काङ्क्षितं पठनं नृभिः ।
तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ॥ १४॥
पुराणश्रवणाच्छम्भोर्निष्पापो जायते नरः ।
भुक्त्वा भोगान् सुविपुलान् शिवलोकमवाप्नुयात् ॥ १५॥
राजसूयेन यत्पुण्यमग्निष्टोमशतेन च ।
तत् पुण्यं लभते शम्भोः कथाश्रवणमात्रतः ॥ १६॥
ये शृण्वन्ति मुने शैवं पुराणं शास्त्रमुत्तमम् ।
ते मनुष्या न मन्तव्या रुद्रा एव न संशयः ॥ १७॥
शृण्वतां तत् पुराणं हि तथा कीर्तयतां च तत् ।
पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ १८॥
गन्तुं निःश्रेयसं स्थानं येऽभिवाञ्छन्ति देहिनः ।
शैवं पुराणममलं भक्त्या शृण्वन्तु ते सदा ॥ १९॥
सदा श्रोतुं यद्यशक्तो भवेत् स मुनिसत्तम ।
नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम् ॥ २०॥
यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् ।
पुण्यमासादिषु मुने शृणुयाच्छिवपुराणकम् ॥ २१॥
मुहूर्तं वा तदर्धं वा तदर्धं वा क्षणं च वा ।
ये शृण्वन्ति पुराणं तन्न तेषां दुर्गर्तिर्भवेत् ॥ २२॥
तत्पुराणं च शृण्वानः पुरुषो यो मुनीश्वर ।
स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥ २३॥
यत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने ।
शम्भोः पुराणश्रवणात्तत्फलं निश्चलं भवेत् ॥ २४॥
विशेषतः कलौ शैवपुराणश्रवणादृते ।
परो धर्मो न पुंसां हि मुक्तिसाधनकृन्मुने ॥ २५॥
पुराणश्रवणं शम्भोर्नामसङ्कीर्तनं तथा ।
कल्पद्रुमफलं सम्यङ् मनुष्याणां न संशयः ॥ २६॥
कलौ दुर्मेधसां पुंसां धर्माचारोज्झितात्मनाम् ।
हिताय विदधे शम्भुः पुराणाख्यं सुधारसम् ॥ २७॥
एकोऽजरामरः स्याद्वै पिबन्नेवामृतं पुमान् ।
शम्भोः कथामृतं कुर्यात् कुलमेवाजरामरम् ॥ २८॥
सदा सेव्या सदा सेव्या सदा सेव्या विशेषतः ।
एतच्छिवपुराणस्य कथा परमपावनि ॥ २९॥
एतच्छिवपुराणस्य कथाश्रवणमात्रतः ।
किं ब्रवीमि फलं तस्य शिवश्चित्तं समाश्रयेत् ॥ ३०॥
चतुर्विंशतिसाहस्रो ग्रन्थोऽयं सप्तसंहितः ।
भक्तित्रिकसुसम्पूर्णः शृणुयात्तं परादरात् ॥ ३१॥
विद्येश्वरसंहिताद्या द्वितीया रुद्रसंहिता ।
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ३२॥
पञ्चम्युमासंहितोक्ता षष्ठी कैलाससंहिता ।
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ३३॥
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ।
वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ ३४॥
एतच्छिवपुराणं हि सप्तसंहितमादरात् ।
परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ३५॥
पुमानज्ञानतस्तावद् भ्रमतेऽस्मिन्भवे मुने ।
यावत्कर्णगतं नास्ति पुराणं शैवमुत्तमम् ॥ ३६॥
किं श्रुतैर्बहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः ।
शैवं पुराणमेकं हि मुक्तिदानेन गर्जति ॥ ३७॥
एतच्छिवपुराणस्य कथा भवति यद्गृहे ।
तीर्थभूतं हि तद् गेहं वसतां पापनाशनम् ॥ ३८॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
कलां शिवपुराणस्य नार्हन्ति खलु षोडशीम् ॥ ३९॥
तावत् स प्रोच्यते पापी पापकृन्मुनिसत्तम ।
यावच्छिवपुराणं हि न शृणोति सुभक्तितः ॥ ४०॥
गङ्गाद्याः पुण्यनद्यश्च सप्तपुर्यो गया तथा ।
एतच्छिवपुराणस्य समतां यान्ति न क्वचित् ॥ ४१॥
नित्यं शिवपुराणस्य श्लोकंश्लोकार्धमेव च ।
स्वमुखेन पठेद्भक्त्या यदीच्छेत् परमां गतिम् ॥ ४२॥
एतच्छिवपुराणं यो वाचयेदर्थतोऽनिशम् ।
पठेद्वा प्रीतितो नित्यं स पुण्यात्मा न संशयः ॥ ४३॥
अन्तकाले हि यश्चैनं शृणुयाद्भक्तितः सुधीः ।
सुप्रसन्नो महेशानस्तस्मै यच्छति स्वं पदम् ॥ ४४॥
एतच्छिवपुराणं यः पूजयेन्नित्यमादरात् ।
स भुक्त्वेहाखिलान् कामानन्ते शिवपदं लभेत् ॥ ४५॥
एतच्छिवपुराणस्य कुर्वन्नित्यमतन्द्रितः ।
पट्टवस्त्रादिना सम्यक् सत्कारं स सुखी सदा ॥ ४६॥
शैवं पुराणममलं शैवसर्वस्वमादरात् ।
सेवनीयं प्रयत्नेन परत्रेह सुखेप्सुना ॥ ४७॥
चतुर्वर्गप्रदं शैवं पुराणममलं परम् ।
श्रोतव्यं सर्वदा प्रीत्या पठितव्यं विशेषतः ॥ ४८॥
वेदेतिहासशास्त्रेषु परं श्रेयस्करं महत् ।
शैवं पुराणं विज्ञेयं सर्वथा हि मुमुक्षुभिः ॥ ४९॥
शैवं पुराणमिदमात्मविदां वरिष्ठं
सेव्यं सदा परमवस्तु सता समर्च्यम् ।
तापत्रयाभिशमनं सुखदं सदैव
प्राणप्रियं विधिहरीशमुखामराणाम् ॥ ५०॥
वन्दे शिवपुराणं हि सर्वदाहं प्रसन्नधीः ।
शिवः प्रसन्नतां यायाद् दद्यात्स्वपदयो रतिम् ॥ ५१॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये तन्महिमवर्णनं नाम प्रथमोऽध्यायः ॥ १॥
०.२ द्वितीयोऽध्यायः देवराजमुक्तिवर्णनम्
शौनक उवाच ।
सूत सूत महाभाग धन्यस्त्वं परमार्थवित् ।
अद्भुतेयं कथा दिव्या श्राविता कृपया हि नः ॥ १॥
अघौघविध्वंसकरी मनःशुद्धिविधायिनि ।
शिवसन्तोषजननी कथेयं नः श्रुताद्भुता ॥ २॥
एतत्कथासमानं न भुवि किञ्चित् परात्परम् ।
निश्चयेनेति विज्ञातमस्माभिः कृपया तव ॥ ३॥
के के विशुध्यन्त्यनया कथया पापिनः कलौ ।
वद तान् कृपया सूत कृतार्थं भुवनं कुरु ॥ ४॥
सूत उवाच ।
ये मानवाः पापकृतो दुराचाररताः खलाः ।
कामादिनिरता नित्यं तेऽपि शुध्यन्त्यनेन वै ॥ ५॥
ज्ञानयज्ञ: परोऽयं वै भुक्तिमुक्तिप्रदः सदा ।
शोधनः सर्वपापानां शिवसन्तोषकारकः ॥ ६॥
तृष्णाकुलाः सत्यहीनाः पितृमातृविदूषकाः ।
दाम्भिका हिंसका ये च तेऽपि शुध्यन्त्यनेन वै ॥ ७॥
स्ववर्णाश्रमधर्मेभ्यो वर्जिता मत्सरान्विताः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ८॥
छलच्छद्मकरा ये च ये च क्रूराः सुनिर्दयाः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ९॥
ब्रह्मस्वपुष्टा: सततं व्यभिचाररताश्च ये ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १०॥
सदा पापरता ये च ये शठाश्च दुराशयाः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ११॥
मलिना दुर्धियोऽशान्ता देवताद्रव्यभोजिनः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १२॥
पुराणस्यास्य पुण्यं सन्महापातकनाशनम् ।
भुक्तिमुक्तिप्रदं चैव शिवसन्तोषहेतुकम् ॥ १३॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिर्भवत्यलम् ॥ १४॥
आसीत् किरातनगरे ब्राह्मणो ज्ञानदुर्बलः ।
दरिद्रो रसविक्रेता वेदधर्मपराङ्मुखः ॥ १५॥
सन्ध्यास्नानपरिभ्रष्टो वैश्यवृतिपरायणः ।
देवराज इति ख्यातो विश्र्वस्तजनवञ्चकः ॥ १६॥
स विप्रान् क्षत्रियान् वैश्यान् शूद्रांश्चापि तथापरान् ।
हत्वा नानामिषेणैव तत्तद्धनमपाहरत् ॥ १७॥
अधर्माद् बहुवित्तानि पश्चात्तेनार्जितानि वै ।
न धर्माय धनं तस्य स्वल्पञ्चापीह पापिनः ॥ १८॥
एकदैकतडागे स स्नातुं यातो महीसुरः ।
वेश्यां शोभावतीं नाम दृष्ट्वा तत्रातिविह्वलः ॥ १९॥
स्ववशं धनिनं विप्रं ज्ञात्वा हृष्टाथ सुन्दरी ।
वार्तालापेन तच्चित्तं प्रीतिमत्समजायत ॥ २०॥
स्त्रियं कर्तुं स तां मेने पतिं कर्तुं च सा तथा ।
एवं कामवशौ भूत्वा बहुकालं विजह्रतुः ॥ २१॥
आसने शयने पाने भोजने क्रीडने तथा ।
दम्पतीव सदा द्वौ तु ववृताते परस्परम् ॥ २२॥
मात्रा पित्रा तथा पत्न्या वारितोऽपि पुनः पुनः ।
नामन्यत वचस्तेषां पापवृत्तिपरायणः ॥ २३॥
एकदेर्ष्यावशाद् रात्रौ मातरं पितरं वधूम् ।
प्रसुप्तान् न्यवधीद् दुष्टो धनं तेषां तथाहरत् ॥ २४॥
आत्मनीनं धनं यच्च पित्रादीनां तथा धनम् ।
वेश्यायै दत्तवान् सर्वं कामी तद्गतमानसः ॥ २५॥
सोऽभक्ष्यभक्षकः पापी मदिरापानलालसः ।
एकपात्रे सदाभौक्षीत् सवेश्यो ब्राह्मणाधमः ॥ २६॥
कदाचिद्दैवयोगेन प्रतिष्ठानमुपागतः ।
शिवालयं ददर्शासौ तत्र साधुजनावृतम् ॥ २७॥
स्थित्वा तत्र च विप्रोऽसौ ज्वरेणातिप्रपीडितः ।
शुश्राव सततं शैवीं कथां विप्रमुखोद्गताम् ॥ २८॥
देवराजश्च मासान्ते ज्वरेणापीडितो मृतः ।
बद्धो यमभटैः पाशैर्नीतो यमपुरं बलात् ॥ २९॥
तावच्छिवगणाः शुभ्रास्त्रिशूलाञ्चितपाणयः ।
भस्मभासितसर्वाङ्गा रुद्राक्षाञ्चितविग्रहाः ॥ ३०॥
शिवलोकात् समागत्य क्रुद्धा यमपुरीं ययुः ।
ताडयित्वा तु तद्दूतांस्तर्जयित्वा पुनः पुनः ॥ ३१॥
देवराजं समामोच्य विमाने परमाद्भुते ।
उपवेश्य यदा दूताः कैलासं गन्तुमुत्सुकाः ॥ ३२॥
तदा यमपुरीमध्ये महाकोलाहलोऽभवत् ।
धर्मराजस्तु तं श्रुत्वा स्वालयाद् बहिरागमत् ॥ ३३॥
दृष्ट्वाथा चतुरो दूतान् साक्षाद् रुद्रानिवापरान् ।
पूजयामास धर्मज्ञो धर्मराजो यथाविधि ॥ ३४॥
ज्ञानेन चक्षुषा सर्वं वृत्तान्तं ज्ञातवान् यमः ।
न भयात् पृष्टवान् किञ्चिच्छम्भोर्दूतान् महात्मनः ॥ ३५॥
पूजिताः प्रार्थितास्ते वै कैलासमगमंस्तदा ।
ददुः शिवाय साम्बाय तं दयावारिराशये ॥ ३६॥
धन्या शिवपुराणस्य कथा परमपावानी ।
यस्याः श्रवणमात्रेण पापीयानपि मुक्तिभाक् ॥ ३७॥
सदाशिवमहास्थानं परं धाम परं पदम् ।
यदाहुर्वेदविद्वांसः सर्वलोकोपरि स्थितम् ॥ ३८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा अन्येऽपि प्राणिनः ।
हिंसिता धनलोभेन बहवो येन पापिना ॥ ३९॥
मातृपितृवधूहन्ता वेश्यागामी च मद्यपः ।
देवराजो द्विजस्तत्र गत्वा मुक्तोऽभवत् क्षणात् ॥ ४०॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये देवराजमुक्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २॥
०.३ तृतीयोऽध्यायः चञ्चुलावैराग्यवर्णनम्
शौनक उवाच ।
सूत सूत महाभाग सर्वज्ञोऽसि महामते ।
त्वत्प्रसादात् कृतार्थोऽहं कृतार्थोऽहं पुनः पुनः ॥ १॥
इतिहासमिमं श्रुत्वा मनो मेऽतीव मोदते ।
अन्यामपि कथां शम्भोर्वद प्रेमविवर्धिनीम् ॥ २॥
नामृतं पिबतां लोके मुक्तिः क्वापि सभाज्यते ।
शम्भोः कथासुधापानं प्रत्यक्षं मुक्तिदायकम् ॥ ३॥
धन्या धन्या कथा शम्भोस्त्वं धन्यो धन्य एव च ।
यदाकर्णनमात्रेण शिवलोकं व्रजेन्नरः ॥ ४॥
सूत उवाच ।
शृणु शौनक वक्ष्यामि त्वदग्रे गुह्यमप्युत ।
यतस्त्वं शिवभक्तानामग्रणीर्वेदवित्तमः ॥ ५॥
समुद्रनिकटे देशे ग्रामो बाष्कलसंज्ञकः ।
वसन्ति यत्र पापिष्ठा वेदधर्मोज्झिता जनाः ॥ ६॥
दुष्टा दुर्विषयात्मानो निर्दैवा जिह्मवृत्तयः ।
कृषीवलाः शस्त्रधराः परस्त्रीभोगिनः खलाः ॥ ७॥
ज्ञानवैराग्यसद्धर्मं न जानन्ति परं हि ते ।
कुकथाश्रवणाढ्येषु निरताः पशुबुद्धयः ॥ ८॥
अन्ये वर्णाश्च कुधियः स्वधर्मविमुखाः खलाः ।
कुकर्मनिरता नित्यं सदा विषयिणश्च ते ॥ ९॥
स्त्रियः सर्वाश्च कुटिलाः स्वैरिण्यः पापलालसाः ।
कुधियो व्यभिचारिण्यः सद्वृत्ताचारवर्जिताः ॥ १०॥
एवं कुजनसंवासे ग्रामे बाष्कलसंज्ञिते ।
तत्रैको बिन्दुगो नाम विप्र आसीन्महाधमः ॥ ११॥
स दुरात्मा महापापी सुदारोऽपि कुमार्गगः ।
वेश्यापतिर्बभूवाथ कामाकुलितमानसः ॥ १२॥
स्वपत्नीं चञ्चुलां नाम हित्वा नित्यं सुधर्मिणीम् ।
रेमे स वेश्यया दुष्टः स्मरबाणप्रपीडितः ॥ १३॥
एवं कालो व्यतीयाय महांस्तस्य कुकर्मिणः ।
सा स्वधर्मभयात् क्लेशात् स्मरार्तापि च चञ्चुला ॥ १४॥
अथ तस्याङ्गना सापि प्ररूढनवयौवना ।
अविषह्यस्मरावेशा स्वधर्माद्विरराम ह ॥ १५॥
जारेण सङ्गता रात्रौ रेमे पापेन गुप्ततः ।
पतिदृष्टिं वञ्चयित्वा भ्रष्टसत्त्वा कुमार्गगा ॥ १६॥
कदाचित्तां दुराचारां स्वपत्निं चञ्चुलां मुने ।
जारेण सङ्गतां रात्रौ ददर्श स्मरविह्वलाम् ॥ १७॥
दृष्ट्वा तां दूषितां पत्नीं कुकर्मासक्तमानसाम् ।
जारेण सङ्गतां रात्रौ क्रोधाद् दुद्राव वेगतः ॥ १८॥
तमागतं गृहे दुष्टमाज्ञाय बिन्दुगं खलः ।
पलायितो द्रुतं जारो वेगतश्छद्मवान् स वै ॥ १९॥
अथ स बिन्दुगः पत्नीं गृहीत्वा सुदुराशयः ।
मुष्टिबन्धेन सन्तर्ज्य पुनः पुनरताडयत् ॥ २०॥
सा नारी ताडिता भर्त्रा चञ्चुला स्वैरिणी खला ।
कुपिता निर्भया प्राह स्वपतिं बिन्दुगं खलम् ॥ २१॥
चञ्चुलोवाच ।
भवान् प्रतिदिनं कामं रमते वेश्यया कुधीः ।
मां विहाय स्वप्त्नीं च युवतीं पतिसेविनीम् ॥ २२॥
रूपवत्या युवत्याश्च कामाकुलितचेतसः ।
विना पतिविहारं स्यात् का गतिर्मे भवान् वदेत् ॥ २३॥
अहं महारूपवती नवयौवनविह्वला ।
कथं सहे कामदुःखं तव सङ्गं विनार्तधीः ॥ २४॥
सूत उवाच ।
इत्युक्तः स तया मूर्खो मूढधीर्ब्राह्मणोऽधमः ।
प्रोवाच बिन्दुगः पापी स्वधर्मविमुखः खलः ॥ २५॥
बिन्दुग उवाच ।
सत्यमेतत्त्वयोक्तं हि कामव्याकुलचेतसा ।
हितं वक्ष्यामि तस्मात्ते शृणु कान्ते भयं त्यज ॥ २६॥
जारैर्विहर नित्यं त्वं चेतसा निर्भयेन वै ।
धनमाकर्ष तेभ्यो हि दत्त्वा तेभ्यः परां रतिम् ॥ २७॥
तद्धनं देहि सर्वं मे वेश्यासंसक्तचेतसः ।
महत्स्वार्थं भवेन्नूनं तवापि च ममापि च ॥ २८॥
सूत उवाच ।
इति भर्तृवचः श्रुत्वा चञ्चुला तद्वधूश्च सा ।
तथेति भर्तृवचनं प्रतिजग्राह हृष्टधीः ॥ २९॥
कृत्वैवं समयं तौ वै दम्पती दुष्टमानसौ ।
कुकर्मनिरतौ जातौ निर्भयेन कुचेतसा ॥ ३०॥
एवं तयोस्तु दम्पत्योर्दुराचारप्रवृत्तयोः ।
महान् कालो व्यतीयाय निष्फलो मूढचेतसोः ॥ ३१॥
अथ विप्रः स कुमतिर्बिन्दुगो वृषलीपतिः ।
कालेन निधनं प्राप्तो जगाम नरकं खलः ॥ ३२॥
भुक्त्वा नरकदुःखानि बह्वहानि स मूढधीः ।
विन्ध्येऽभवत् पिशाचो हि गिरौ पापी भयङ्करः ॥ ३३॥
मृते भर्तरि तस्मिन्वै दुराचारेऽथ बिन्दुगे ।
उवास स्वगृहे पुत्रैश्चिरकालं विमूढधीः ॥ ३४॥
एवं विहरती जारैः सा नारी चञ्चुलाह्वया ।
आसीत् कामरता प्रीता किञ्चिदुत्क्रान्तयौवना ॥ ३५॥
एकदा दैवयोगेन सम्प्राप्ते पुण्यपर्वणि ।
सा नारी बन्धुभिः सार्धं गोकर्णं क्षेत्रमाययौ ॥ ३६॥
प्रसङ्गात् सा तदा गत्वा कस्मिंश्चित् तीर्थपाथसि ।
सस्नौ सामान्यतो यत्र तत्र बभ्राम बन्धुभि: ॥ ३७॥
देवालयेऽथ कस्मिंश्चिद्दैवज्ञमुखतः शुभाम् ।
शुश्राव सत्कथां शम्भो: पुण्यां पौराणिकीं च सा ॥ ३८॥
योषितां जारसक्तानां नरके यमकिङ्कराः ।
सन्तप्तलोहपरिघं क्षिपन्ति स्मरमन्दिरे ॥ ३९॥
इति पौराणिकेनोक्तां श्रुत्वा वैराग्यवर्धिनीम् ।
कथामासीद्भयोद्विग्ना चकम्पे तत्र सा च वै ॥ ४०॥
कथा समाप्तौ सा नारी निर्गतेषु जनेषु च ।
भीता रहसि तं प्राह शैवं संवाचकं द्विजम् ॥ ४१॥
चञ्चुलोवाच ।
ब्रह्मन् त्वं शृण्वसद्वृत्तमजानन्त्या स्वधर्मकम् ।
श्रुत्वा मामुद्धर स्वामिन् कृपां कृत्वातुलामपि ॥ ४२॥
चरितं सूल्बणं पापं मया मूढधिया प्रभो ।
नीतं पौंश्चल्यतः सर्वं यौवनं मदनान्धया ॥ ४३॥
श्रुत्वेदं वचनं तेऽद्य वैराग्यरसजृम्भितम् ।
जाता महाभया साहं सकम्पात्तवियोगिका ॥ ४४॥
धिङ् मां मूढधियं पापां काममोहितचेतसम् ।
निन्द्यां दुर्विषयासक्तां विमुखीं हि स्वधर्मतः ॥ ४५॥
यदल्पस्य सुखस्यार्थे स्वकार्यस्य विनाशिनम् ।
महापापं कृतं घोरमजानन्त्यातिकष्टदम् ॥ ४६॥
यास्यामि दुर्गतिं कां कां घोरां हा कष्टदायिनीम् ।
को ज्ञो यास्यति मां तत्र कुमार्गरतमानसाम् ॥ ४७॥
मरणे यमदूताँस्तान् कथं द्रक्ष्ये भयङ्करान् ।
कथं पाशैर्बलात् कण्ठे बध्यमाना धृतिं लभे ॥ ४८॥
कथं सहिष्ये नरके खण्डशो देहकृन्तनम् ।
यातनां तत्र महतीं दुःखदां च विशेषतः ॥ ४९॥
दिवा चेष्टामिन्द्रियाणां कथं प्राप्स्यामि शोचती ।
रात्रौ कथं लभिष्येऽहं निद्रां दुःखपरिप्लुता ॥ ५०॥
हा हतास्मि च दग्धास्मि विदीर्णहृदयास्मि च ।
सर्वथाहं विनष्टास्मि पापिनी सर्वथाप्यहम् ॥ ५१॥
हा विधे मां महापापे दत्त्वा दुश्शेमुषीं हठात् ।
अपैति यत् स्वधर्माद्वै सर्वसौख्यकरादहो ॥ ५२॥
शूलप्रोतस्य शैलाग्रात्पततस्तुङ्गतो द्विज ।
यद्दुःखं देहिनो घोरं तस्मात् कोटिगुणं मम ॥ ५३॥
अश्वमेधशतं कृत्वा गङ्गां स्नात्वा शतं समाः ।
न शुद्धिर्जायते प्रायो मत्पापस्य गरीयसः ॥ ५४॥
किं करोमि क्व गच्छामि कं वा शरणमाश्रये ।
कस्त्रायते मां लोकेऽस्मिन् पतन्तीं नरकार्णवे ॥ ५५॥
त्वमेव मे गुरुर्ब्रह्मंस्त्वं माता त्वं पितासि च ।
उद्धरोद्धर मां दीनां त्वामेव शरणं गताम् ॥ ५६॥
सूत उवाच ।
इति सञ्जातनिर्वेदां पतितां चरणद्वये ।
उत्थाप्य कृपया धीमान् बभाषे ब्राह्मणः स हि ॥ ५७॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये चञ्चुलावैराग्यवर्णनं नाम तृतीयोऽध्यायः ॥ ३॥
०.४ चतुर्थोऽध्यायः चञ्चुलासद्गतिवर्णनम्
ब्राह्मण उवाच ।
दिष्ट्या काले प्रबुद्धासि शिवानुग्रहतो वराम् ।
इमां शिवपुराणस्य श्रुत्वा वैराग्यवत्कथाम् ॥ १॥
मा भैषीर्द्विजपत्नि त्वं शिवस्य शरणं व्रज ।
शिवानुग्रहतः सर्वं पापं सद्यो विनश्यति ॥ २॥
वक्ष्यामि ते परं वस्तु शिवकीर्तिसमन्वितम् ।
भविष्यति गतिर्येन सर्वदा ते सुखावहा ॥ ३॥
सत्कथाश्रवणादेव जाता ते मतिरीदृशी ।
पश्चात्तापान्विता शुद्धा वैराग्यं विषयेषु च ॥ ४॥
पश्चात्तापः पापकृतां पापानां निष्कृतिः परा ।
सर्वेषां वर्णितं सद्भिः सर्वपापविशोधनम् ॥ ५॥
पश्चात्तापेनैव शुद्धिः प्रायश्चित्तं करोति सः ।
यथोपदिष्टं सद्भिर्हि सर्वपापविशोधनम् ॥ ६॥
प्रायश्चित्तमधीकृत्य विधिवन्निर्भयः पुमान् ।
न याति सुगतिं प्रायः पश्चात्तापी न संशयः ॥ ७॥
एतच्छिवपुराणस्य कथाश्रवणतो यथा ।
जायते चित्तशुद्धिर्हि न तथान्यैरुपायतः ॥ ८॥
शोध्यमानं दर्पणं हि यथा भवति निर्मलम् ।
तथैतत्कथया चेतो विशुद्धिं यात्यसंशयम् ॥ ९॥
विशुद्धे चेतसि शिवो नृणां तिष्ठति साम्बिकः ।
ततो याति विशुद्धात्मा साम्बशम्भोः परं पदम् ॥ १०॥
अतः सर्वस्य वर्गस्यैतत्कथासाधनं मतम् ।
एतदर्थं महादेवो निर्ममे त्वाग्रहादिमाम् ॥ ११॥
कथया सिध्यति ध्यानमनया गिरिजापतेः ।
ध्यानाज्ज्ञानं परं तस्मात् कैवल्यं भवति ध्रुवम् ॥ १२॥
असिद्धशङ्करध्यानः कथामेव शृणोति यः ।
स प्राप्यान्यभवे ध्यानं शम्भोर्याति परां गतिम् ॥ १३॥
एतत्कथाश्रवणतः कृत्वा ध्यानमुमापतेः ।
ते पश्चात्तापिनः पापा बहवः सिद्धिमागता: ॥ १४॥
सर्वेषां श्रेयसां बीजं सत्कथाश्रवणं नृणाम् ।
यथावर्त्म समाराध्यं भवबन्धगदापहम् ॥ १५॥
कथाश्रवणतः शम्भोर्मननाच्च ततो हृदा ।
निदिध्यासनतश्चैव चित्तशुद्धिर्भवत्यलम् ॥ १६॥
अतो भक्तिर्महेशस्य पुत्राभ्यां भवति ध्रुवम् ।
तदनुग्रहतो दिव्या ततो मुक्तिर्न संशयः ॥ १७॥
तद्विहीनः पशुर्ज्ञेयो मायाबन्धनसक्तधीः ।
संसारबन्धनान्नैव मुक्तो भवति स ध्रुवम् ॥ १८॥
अतो हि द्विजपत्नि त्वं विषयेभ्यो निवृत्तधीः ।
शृणु शम्भोः कथां चैतां भक्त्या परमपावनीम् ॥ १९॥
शृण्वन्त्याः सत्कथामेतां शङ्करस्य परात्मनः ।
शुद्धिमेष्यति चेतस्ते ततो मुक्तिमवाप्स्यसि ॥ २०॥
ध्यायतः शिवपादाब्जं चेतसा निर्मलेन वै ।
एकेन जन्मना मुक्तिः सत्यं सत्यं वदाम्यहम् ॥ २१॥
सूत उवाच ।
इत्युक्त्वा स द्विजवरो वरः शैवः कृपार्द्रधीः ।
तूष्णीं बभूव शुद्धात्मा शिवध्यानपरायणः ॥ २२॥
अथ बिन्दुगपत्नि सा चञ्चुलाह्वा प्रसन्नधीः ।
इत्युक्ता तेन विप्रेण समासीद्बाष्पलोचना ॥ २३॥
पपातारं द्विजेन्द्रस्य पादयोस्तस्य हृष्टधीः ।
चञ्चुला साञ्जलिः सा च कृतार्थास्मीत्यभाषत ॥ २४॥
अथ सोत्थाय सातङ्का साञ्जलिर्गद्गदाक्षरम् ।
तमुवाच महाशैवं द्विजं वैराग्ययुक् सुधीः ॥ २५॥
चञ्चुलोवाच ।
ब्रह्मन् शैववर स्वामिन् धन्यस्त्वं परमार्थदृक् ।
परोपकारनिरतो वर्णनीयः सुसाधुषु ॥ २६॥
उद्धरोद्धर मां साधो पतन्तीं नरकार्णवे ।
श्रुत्वा यां सुकथां शैवीं पुराणार्थविजृम्भिताम् ॥ २७॥
विरक्तधीरहं जाता विषयेभ्यश्च सर्वतः ।
सुश्रद्धा महती ह्येतत्पुराणश्रवणेऽधुना ॥ २८॥
सूत उवाच ।
इत्युक्त्वा साञ्जलिः सा वै सम्प्राप्य तदनुग्रहम् ।
तत्पुराणं श्रोतुकामातिष्ठत्तत्सेवने रता ॥ २९॥
अथ शैववरो विप्रस्तस्मिन्नेव स्थले सुधीः ।
सत्कथां श्रावयामास तत्पुराणस्य तां स्त्रियम् ॥ ३०॥
इत्थं तस्मिन् महाक्षेत्रे तस्मादेव द्विजोत्तमात् ।
कथां शिवपुराणस्य सा शुश्राव महोत्तमाम् ॥ ३१॥
भक्तिज्ञानविरागाणां वर्धिनीं मुक्तिदायिनीम् ।
बभूव सुकृतार्था सा श्रुत्वा तां सत्कथां पराम् ॥ ३२॥
सद्गुरोस्तस्य कृपया शुद्धचित्ता च सा द्रुतम् ।
शिवानुग्रहतः शम्भोः रूपध्यानमवाप ह ॥ ३३॥
इत्थं सद्गुरुमाश्रित्य सा प्राप्तशिवसन्मतिः ।
दध्यौ मुहुर्मुहुः शम्भोश्चिदानन्दमयं वपुः ॥ ३४॥
स्नात्वा तीर्थजले नित्यं जटावल्कलधारिणी ।
भस्मोद्धूलितसर्वाङ्गी रुद्राक्षकृतभूषणा ॥ ३५॥
शिवनामजपासक्ता वाग्यता मितभोजना ।
गुरूपदिष्टमार्गेण सा शिवं समतोषयत् ॥ ३६॥
एवं तस्याश्चञ्चुलायाः कुर्वन्त्या ध्यानमुत्तमम् ।
बहुकालो व्यतीयाय शम्भोस्तत्रैव शौनक ॥ ३७॥
अथ कालेन पूर्णेन भक्तित्रिकसमन्विता ।
समुत्ससर्ज देहं स्वमनायासेन चञ्चुला ॥ ३८॥
विमानं द्रुतमायान्तं प्रेषितं त्रिपुरारिणा ।
दिव्यं स्वगणसंयुक्तं नानाशोभासमन्वितम् ॥ ३९॥
अथ तत्र समारूढा महेशानुचरैर्वरैः ।
नीता शिवपुरीं सद्यो ध्वस्तसर्वमला च सा ॥ ४०॥
दिव्यरूपधरा दिव्या दिव्यावयवशालिनी ।
चन्द्रार्धशेखरा गौरी विलसद्दिव्यभूषणा ॥ ४१॥
गत्वा तत्र महादेवं सा ददर्श त्रिलोचनम् ।
विष्णुब्रह्मादिभिर्देवैः सेव्यमानं सनातनम् ॥ ४२॥
गणेशभृङ्गिनन्दीशवीरभद्रेश्वरादिभि: ।
उपास्यमानं सद्भक्त्या कोटिसूर्यसमप्रभम् ॥ ४३॥
नीलग्रीवं पञ्चवक्त्रं त्र्यम्बकं चन्द्रशेखरम् ।
वामाङ्गे बिभ्रतं गौरीं विद्युत्पुञ्जसमप्रभाम् ॥ ४४॥
कर्पूरगौरं गौरीशं सर्वालङ्कारधारिणम् ।
सितभस्मलसद्देहं सितवस्त्रं महोज्ज्वलम् ॥ ४५॥
दृष्ट्वैवं शङ्करं नारी सा मुमोदाति चञ्चुला ।
सुसम्भ्रमान्महाप्रीता प्रणनाम पुनः पुनः ॥ ४६॥
साञ्जलिः सा मुदा प्रेम्णा सन्तुष्टा च विनीतका ।
आनन्दाश्रुजलैर्युक्ता रोमहर्षसमन्विता ॥ ४७॥
अथ सा वै करुणया पार्वत्या शङ्करेण च ।
समानीतोपकण्ठं हि सुदृष्ट्या च विलोकिता ॥ ४८॥
पार्वत्या सा कृता प्रीत्या स्वसखी दिव्यरूपिणी ।
दिव्यसौख्यान्विता तत्र चञ्चुला बिन्दुगप्रिया ॥ ४९॥
तस्मिँल्लोके परानन्दघनज्योतिषि शाश्वते ।
लब्ध्वा निवासमचलं लेभे सुखमनाहतम् ॥ ५०॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये चञ्चुलासद्गतिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४॥
०.५ पञ्चम्ऽध्यायः बिन्दुगसद्गतिवर्णनम्
शौनक उवाच ।
सूत सूत महाभाग धन्यस्त्वं शिवसक्तधीः ।
श्रावितेयं कथास्माकमद्भुता भक्तिवर्धिनी ॥ १॥
तत्र गत्वा किं चकार चञ्चुला प्राप्तसद्गतिः ।
तत् त्वं वद विशेषेण तत्पतेश्च महामते ॥ २॥
सूत उवाच ।
सा कदाचिदुमां देवीमुपगम्य प्रणम्य च ।
सुतुष्टाव करौ बद्ध्वा परमानन्दसम्प्लुता ॥ ३॥
चञ्चुलोवाच ।
गिरिजे स्कन्दमातस्त्वं सेविता सर्वदा नरैः ।
सर्वासौख्यप्रदे शम्भुप्रिये ब्रह्मस्वरूपिणि ॥ ४॥
विष्णुब्रह्मादिभिस्सेव्या सगुणा निर्गुणापि च ।
त्वमाद्या प्रकृतिस्सूक्ष्मा सच्चिदानन्दरूपिणी ॥ ५॥
सृष्टिस्थितिलयकरी त्रिगुणा त्रिसुरालया ।
ब्रह्मविष्णुमहेशानां सुप्रतिष्ठाकरा परा ॥ ६॥
सूत उवाच ।
इति स्तुत्वा महेशीं तां चञ्चुला प्राप्तसद्गतिः ।
विरराम नतस्कन्धा प्रेमपूर्णाश्रुलोचना ॥ ७॥
ततः सा करुणाविष्टा पार्वती शङ्करप्रिया ।
तामुवाच महाप्रीत्या चञ्चुलां भक्तवत्सला ॥ ८॥
पार्वत्युवाच ।
चञ्चुले सखि सुप्रीतानया स्तुत्यास्मि सुन्दरि ।
किं याचसे वरं ब्रूहि नादेयं विद्यते तव ॥ ९॥
सूत उवाच ।
इत्युक्ता सा गिरिजया चञ्चुला सुप्रणम्य ताम् ।
पर्यपृच्छत सुप्रीत्या साञ्जलिर्नतमस्तका ॥ १०॥
चञ्चुलोवाच ।
मम भर्ताधुना क्वास्ते नैव जानामि तद्गतिम् ।
तेन युक्ता यथाहं वै भवामि गिरिजेऽनघे ॥ ११॥
तथैव कुरु कल्याणि कृपया दीनवत्सले ।
महादेवि महेशानि भर्ता मे वृषलीपतिः ।
मत्तः पूर्वं मृतः पापी न जाने कां गतिं गतः ॥ १२॥
सूत उवाच ।
इत्याकणर्य वचस्तस्याश्चञ्चुलाया हि पार्वती ।
प्रत्युवाच सुसम्प्रीत्या गिरिजा नयवत्सला ॥ १३॥
गिरिजोवाच ।
सूते भर्ता बिन्दुगाह्वो महापापी दुराशयः ।
वेश्याभोगी महामूढो मृत्वा स नरकं गतः ॥ १४॥
भुक्त्वा नरकदुःखानि विविधान्यमिताः समाः ।
पापशेषेण पापात्मा विन्ध्ये जातः पिशाचकः ॥ १५॥
इदानीं स पिशाचोऽस्ति नानाक्लेशसमन्वितः ।
तत्रैव वातभुग्दुष्टः सर्वकष्टवहः सदा ॥ १६॥
सूत उवाच ।
इति गौर्या वचः श्रुत्वा चञ्चुला सा शुभव्रता ।
पतिदुःखेन महता दुःखितासीत्तदा किल ॥ १७॥
समाधाय ततश्चित्तं सुप्रणम्य महेश्वरीम् ।
पुनः पप्रच्छ सा नारी हृदयेन विदूयता ॥ १८॥
चञ्चुलोवाच ।
महेश्वरि महादेवि कृपां कुरु ममोपरि ।
समुद्धर पतिं मेऽद्य दुष्टकर्मकरं खलम् ॥ १९॥
केनोपायेन मे भर्ता पापात्मा स कुबुद्धिमान् ।
सद्गतिं प्राप्नुयाद्देवि तद्वदाशु नमोऽस्तु ते ॥ २०॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्याः पार्वती भक्तवत्सला ।
प्रत्युवाच प्रसन्नात्मा चञ्चुलां स्वसखिं च ताम् ॥ २१॥
पार्वत्युवाच ।
शृणुयाद्यदि ते भर्ता पुण्यां शिवकथां पराम् ।
निस्तीर्य दुर्गतिं सर्वां सद्गतिं प्राप्नुयादिति ॥ २२॥
इति गौर्या वचः श्रुत्वामृताक्षरमथादरात् ।
कृताञ्जालिर्नतस्कन्धा प्रणनाम पुनः पुनः ॥ २३॥
तत्कथाश्रवणं भर्तुः सर्वपापविशुद्धये ।
सद्गतिप्राप्तये चैव प्रार्थयामास तां तदा ॥ २४॥
सूत उवाच ।
तया मुहुर्मुहुर्नार्या प्रार्थ्यमाना शिवप्रिया ।
गौरी कृपान्वितासीत् सा महेशी भक्तवत्सला ॥ २५॥
अथ तुम्बुरुमाहूय शिवसत्कीर्तिगायकम् ।
प्रीत्या गन्धर्वराजं हि गिरिकन्येदमब्रवीत् ॥ २६॥
गिरिजोवाच ।
हे तुम्बुरो शिवप्रीत मम मानसकारक ।
सहानया विन्ध्यशैलं भद्रं ते गच्छ सत्वरम् ॥ २७॥
आस्ते तत्र महाघोरः पिशाचोऽतिभयङ्करः ।
तद्वृत्तं शृणु सुप्रीत्यादितः सर्वं ब्रवीमि ते ॥ २८॥
पुराभवे पिशाचः स बिन्दुगाह्वोऽभवद् द्विजः ।
अस्या नार्याः पतिर्दुष्टो मत्सख्या वृषलीपतिः ॥ २९॥
स्नानसन्ध्याक्रियाहीनोऽशौचः क्रोधविमूढधीः ।
दुर्भक्षी सज्जनद्वेषी दुष्परिग्रहकारकः ॥ ३०॥
हिंसकः शस्त्रधारी च सव्यहस्तेन भोजनी ।
दीनानां पीडकः क्रूरः परवेश्मप्रदीपकः ॥ ३१॥
चाण्डालाभिरतो नित्यं वेश्याभोगी महाखलः ।
स्वपत्नित्यागकृत् पापी दुष्टसङ्गरतस्तदा ॥ ३२॥
तेन वेश्याकुसङ्गेन सुकृतं नाशितं महत् ।
वित्तलोभेन महिषी निर्भया जारिणी कृता ॥ ३३॥
आमृत्योः स दुराचारी कालेन निधनं गतः ।
ययौ यमपुरं घोरं भोगस्थानं हि पापिनाम् ॥ ३४॥
तत्र भुक्त्वा स दुष्टात्मा नरकानि बहूनि च ।
इदानीं स पिशाचोऽस्ति विन्ध्येऽद्रौ पापभुक् खलः ॥ ३५॥
तस्याग्रे परमां पुण्यां सर्वपापविनाशिनीम् ।
दिव्यां शिवपुराणस्य कथां कथय यत्नतः ॥ ३६॥
द्रुतं शिवपुराणस्य कथाश्रवणतः परात् ।
सर्वपापविशुद्धात्मा हास्यति प्रेततां च सः ॥ ३७॥
मुक्तं च दुर्गतेस्तं वै बिन्दुगं त्वं पिशाचकम् ।
मदाज्ञया विमानेन समानय शिवान्तिकम् ॥ ३८॥
सूत उवाच ।
इत्यादिष्टो महेशान्या गन्धर्वेन्द्रश्च तुम्बुरुः ।
मुमुदेऽतीव मनसि भाग्यं निजमवर्णयत् ॥ ३९॥
आरुह्य सुविमानं स सत्या तत्प्रियया सह ।
ययौ विन्ध्याचले सोऽरं यत्रास्ते नारदप्रियः ॥ ४०॥
तत्रापश्यत् पिशाचं तं महाकायं महाहनुम् ।
प्रहसन्तं रुदन्तं च वल्गन्तं विकटाकृतिम् ॥ ४१॥
बलाज्जग्राह तं पाशैः पिशाचं चातिभीकरम् ।
तुम्बुरुश्शिवसत्कीर्तिगायकश्च महाबली ॥ ४२॥
अथो शिवपुराणस्य वाचनार्थं स तुम्बुरुः ।
निश्चित्य रचनां चक्रे महोत्सवसमन्विताम् ॥ ४३॥
पिशाचं तारितुं देव्याः शासनात्तुम्बुरुर्गतः ।
विन्ध्यं शिवपुराणं स ह्यद्रिं श्रावयितुं परम् ॥ ४४॥
इति कोलाहलो जातः सर्वलोकेषु वै महान् ।
तत्र तच्छ्रवणार्थाय ययुर्देवर्षयो द्रुतम् ॥ ४५॥
समाजस्तत्र परमोऽद्भुतश्चासीच्छुभावहः ।
तेषां शिवपुराणस्यागतानां श्रोतुमादरात् ॥ ४६॥
पिशाचमथ तं पाशैर्बद्ध्वा समुपवेश्य च ।
तुम्बुरुर्वल्लकीहस्तो जगौ गौरीपतेः कथाम् ॥ ४७॥
आरभ्य संहितामाद्यां सप्तमीसंहितावधि ।
स्पष्टं शिवपुराणं हि समाहात्म्यं समावदत् ॥ ४८॥
श्रुत्वा शिवपुराणं तु सप्तसंहितमादरात् ।
बभूवुः सुकृतार्थास्ते सर्वे श्रोतार एव हि ॥ ४९॥
स पिशाचो महापुण्यं श्रुत्वा शिवपुराणकम् ।
विधूय कलुषं सर्वं जहौ पैशाचिकं वपुः ॥ ५०॥
दिव्यरूपो बभूवाशु गौरवर्णः सितांशुकः ।
सर्वालङ्कारदीप्ताङ्गस्त्रिनेत्रश्चन्द्रशेखरः ॥ ५१॥
दिव्यं दिव्यवपुर्भूत्वा तया स निजकान्तया ।
जगौ स्वयमपि श्रीमांश्चरितं पार्वतीपतेः ॥ ५२॥
तद्वधूमिति सन्दृष्ट्वा सर्वे देवर्षयश्च ते ।
बभूवुर्विस्मिताश्चित्ते परमानन्दसम्युताः ॥ ५३॥
सुकृतार्था महेशस्य श्रुत्वा चरितमद्भुतम् ।
स्वं स्वं धाम ययुः प्रीत्या शंसन्तः शाङ्करं यशः ॥ ५४॥
बिन्दुग: सोऽपि दिव्यात्मा सुविमानस्थितः सुखी ।
स्वकान्तापार्श्वग: श्रीमाञ्छुशुभेऽतीव खस्थितः ॥ ५५॥
अथ गायन् महेशस्य सुगुणान् सुमनोहरान् ।
सतुम्बुरुर्जगामाशु सकान्तः शाङ्करं पदम् ॥ ५६॥
सुसत्कृतो महेशेन पार्वत्या च स बिन्दुग: ।
स्वगणश्च कृतः प्रीत्या साभवद्गिरिजासखी ॥ ५७॥
तस्मिँल्लोके परानन्दे घनज्योतिषि शाश्वते ।
लब्ध्वा निवासमचलं लभेते परमं सुखम् ॥ ५८॥
इत्येतत् कथितं पुण्यमितिहासमघापहम् ।
शिवाशिवपरानन्दं निर्मलं भक्तिवर्धनम् ॥ ५९॥
य इदं शृणुयाद्भक्त्या कीर्तयेद्वा समाहितः ।
स भुक्त्वा विपुलान् भोगानन्ते मुक्तिमवाप्नुयात् ॥ ६०॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये बिन्दुगसद्गतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५॥
०.६ षष्ठोऽध्यायः श्रवणविधिवर्णनम्
शौनक उवाच ।
सूत सूत महाप्राज्ञ व्यासशिष्य नमोऽस्तु ते ।
धन्यस्त्वं शैववर्योऽसि वर्णनीयमहद्गुणः ॥ १॥
श्रीमच्छिवपुराणस्य श्रवणस्य विधिं वद ।
येन सर्वं लभेच्छ्रोता सम्पूर्णं फलमुत्तमम् ॥ २॥
सूत उवाच ।
अथ ते सम्प्रवक्ष्यामि सम्पूर्णफलहेतवे ।
विधिं शिवपुराणस्य शौनक श्रवणे मुने ॥ ३॥
दैवज्ञं च समाहूय सन्तोष्य च जनान्वितः ।
मुहूर्तं शोधयेच्छुद्धं निर्विघ्नेन समाप्तये ॥ ४॥
वार्ता प्रेष्या प्रयत्नेन देशे देशे च सा शुभा ।
भविष्यति कथा शैवी आगन्तव्यं शुभार्थिभिः ॥ ५॥
दुरे हरिकथाः केचिद् दुरे शङ्करकीर्तनाः ।
स्त्रियः शूद्रादयो ये च बोधस्तेषां भवेद्यतः ॥ ६॥
देशे देशे शाम्भवा ये कीर्तनश्रवणोत्सुकाः ।
तेषामानयनं कार्यं तत्प्रकारार्थमादरात् ॥ ७॥
भविष्यति समाजोऽत्र साधूनां परमोत्सवः ।
पारायणे पुराणस्य शैवस्य परमाद्भुतः ॥ ८॥
श्रीमच्छिवपुराणाह्वरसपानाय चादरात् ।
आयान्त्वरं भवन्तश्च कृपया प्रेमतत्पराः ॥ ९॥
नावकाशो यदि प्रेम्णागन्तव्यं दिनमेककम् ।
सर्वथागमनं कार्यं दुर्लभा च क्षणस्थितिः ॥ १०॥
तेषामाह्वानमेवं हि कार्यं सविनयं मुदा ।
आगतानां च तेषां हि सर्वथा कार्य आदरः ॥ ११॥
शिवालये च तीर्थे वा वने वापि गृहेऽथवा ।
कार्यं शिवपुराणस्य श्रवणस्थलमुत्तमम् ॥ १२॥
कार्यं संशोधनं भूमेर्लेपनं धातुमण्डनम् ।
विचित्रा रचना दिव्या महोत्सवपुरस्सरम् ॥ १३॥
गृहोपस्करमुद्धृत्य निखिलं तदयोग्यकम् ।
एकान्ते गृहकोणे चादृश्ये यत्नान्निवेशयेत् ॥ १४॥
कर्तव्यो मण्डपोऽत्युच्चैः कदलीस्तम्भमण्डितः ।
फलपुष्पादिभिस्सम्यग्विष्वग्वैतानराजितः ॥ १५॥
चतुर्द्दिक्षु ध्वजारोपस्सपताकः सुशोभनः ।
सुभक्तिः सर्वथा कार्या सर्वानन्दविधायिनी ॥ १६॥
सङ्कल्प्यमासनं दिव्यं शङ्करस्य परात्मनः ।
वक्तुश्चापि तथा दिव्यमासनं सुखसाधनम् ॥ १७॥
श्रोतॄणां कल्पनीयानि सुस्थलानि यथार्हतः ।
अन्येषां च स्थलान्येव साधारणतया मुने ॥ १८॥
विवाहे यादृशं चित्तं तादृशं कार्यमेव हि ।
अन्या चिन्ता विनिर्वार्या सर्वा शौनक लौकिकी ॥ १९॥
उदङ्मुखो भवेद्वक्ता श्रोता प्राग्वदनस्तथा ।
व्युत्क्रमः पादयोर्ज्ञेयो विरोधो नास्ति कश्चनः ॥ २०॥
अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः ।
अथवा सम्मुखे वक्तुः श्रोतॄणामाननं स्मृतम् ॥ २१॥
व्यासासनसमारूढो यदा पौराणिको द्विजः ।
असमाप्तौ प्रसङ्गस्य नमस्कुर्यान्न कस्यचित् ॥ २२॥
बालो युवाथ वृद्धो वा दरिद्रो वापि दुर्बलः ।
पुराणज्ञः सदा वन्द्य: पूज्यश्च सुकृतार्थिभिः ॥ २३॥
नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ।
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ॥ २४॥
गुरवः सन्ति बहवो जन्मतो गुणतश्च वै ।
परो गुरुः पुराणज्ञस्तेषां मध्ये विशेषतः ॥ २५॥
भवकोटिसहस्रेषु भूत्वा भूत्वावसीदताम् ।
यो ददाति परां मुक्तिं कोऽन्यस्तस्मात् परो गुरुः ॥ २६॥
पुराणज्ञः शुचिर्दक्षः शान्तो विजितमत्सरः ।
साधुः कारुण्यवान् वाग्मी वदेत् पुण्यकथामिमाम् ॥ २७॥
आसूर्योदयमारभ्य सार्धत्रिप्रहरान्तकम् ।
कथा शिवपुराणस्य वाच्या सम्यक् सुधीमता ॥ २८॥
ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः ।
तेषां कुटिलवृत्तीनामग्रे नैव वदेत् कथाम् ॥ २९॥
न दुर्जनसमाकीर्णे न तु दस्युसमावृते ।
देशे न धूर्तसदने वदेत् पुण्यकथामिमाम् ॥ ३०॥
कथाविरामः कर्तव्यो मध्यान्हे हि मुहूर्तकम् ।
मलमूत्रोत्सर्जनार्थं तत्कथाकीर्तनान्नरैः ॥ ३१॥
वक्त्रा क्षौरं हि सङ्कार्यं दिनादर्वाग्व्रताप्तये ।
कार्यं सङ्क्षेपतो नित्यकर्म सर्वं प्रयत्नतः ॥ ३२॥
वक्तुः पार्श्वे सहायार्थमन्यः स्थाप्यस्तथाविधः ।
पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥ ३३॥
कथाविघ्नविनाशार्थं गणनाथं प्रपूजयेत् ।
कथाधीशं शिवं भक्त्या पुस्तकं च विशेषतः ॥ ३४॥
कथां शिवपुराणस्य शृणुयादादरात्सुधीः ।
श्रोता सुविधिना शुद्धः शुद्धचित्तः प्रसन्नधीः ॥ ३५॥
अनेककर्मविभ्रान्तः कामादिषड्विकारवान् ।
स्त्रैण: पाखण्डवादी च वक्ता श्रोता न पुण्यभाक् ॥ ३६॥
लोकचिन्तां धनागारपुत्रचिन्तां व्युदस्य च ।
कथाचित्तः शुद्धमतिः स लभेत् फलमुत्तमम् ॥ ३७॥
श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसाः ।
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ॥ ३८॥
अभक्ता ये कथां पुण्यां शृण्वन्तीमां नराधमाः ।
तेषां श्रवणजं नास्ति फलं दुःखं भवे भवे ॥ ३९॥
असम्पूज्य पुराणं ये यथाशक्त्या ह्युपायनैः ।
शृण्वन्तीमां कथां मूढाः स्युर्दरिद्रा न पावनाः ॥ ४०॥
कथायां कथ्यमानायां गच्छन्त्यन्यत्र ये नराः ।
भोगान्तरे प्रणश्यन्ति तेषां दारादिसम्पदः ॥ ४१॥
सोष्णीषमस्तका ये च शृण्वन्तीमां कथां नराः ।
तत्पुत्राश्च प्रजायन्ते पापिनः कुलदूषकाः ॥ ४२॥
ताम्बूलं भक्षयन्तो ये शृण्वन्तीमां कथां नराः ।
स्वविष्ठां खादयन्त्येतान्नरके यमकिङ्कराः ॥ ४३॥
ये च तुङ्गासनारूढाः शृण्वन्तीमां कथां नराः ।
भुक्त्वा ते नरकान् सर्वांस्ततः काका भवन्ति हि ॥ ४४॥
ये वीराद्यासनारूढाः शृण्वन्तीमां कथां शुभाम् ।
भुक्तवा ते नरकान् सर्वान्विषवृक्षा भवन्ति वै ॥ ४५॥
असम्प्रणम्य वक्तारं कथां शृण्वन्ति ये नराः ।
भुक्त्वा ते नरकान् सर्वान् भवन्त्यर्जुनपादपाः ॥ ४६॥
अनातुराः शयाना ये शृण्वन्तीमां कथां नराः ।
भुक्त्वा ते नरकान् सर्वान् भवन्त्यजगरादयः ॥ ४७॥
वक्तुः समासनारूढा ये शृण्वन्ति कथामिमाम् ।
गुरुतल्पसमं पापं प्राप्यते नारकैः सदा ॥ ४८॥
ये निन्दन्ति च वक्तारं कथां चेमां सुपावनीम् ।
भवन्ति शुनका भुक्त्वा दुःखं जन्मशतं हि ते ॥ ४९॥
कथायां वर्तमानायां दुर्वादं ये वदन्ति हि ।
भुक्त्वा ते नरकान् घोरान् भवन्ति गर्दभास्ततः ॥ ५०॥
कदाचिन्नापि शृण्वन्ति कथामेतां सुपावनीम् ।
भुक्त्वा ते नरकान् घोरान् भवन्ति वनसूकराः ॥ ५१॥
कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये खलाः ।
कोट्यब्दं नरकान् भुक्त्वा भवन्ति ग्रामसूकराः ॥ ५२॥
एवं विचार्य शुद्धात्मा श्रोता वक्तृसुभक्तिमान् ।
कथाश्रवणहेतोर्हि भवेत् प्रीत्योद्यतः सुधीः ॥ ५३॥
कथाविघ्नविनाशार्थं गणेशं पूजयेत् पुरा ।
नित्यं सम्पाद्य सङ्क्षेपात् प्रायश्चित्तं समाचरेत् ॥ ५४॥
नवग्रहांश्च सम्पूज्य सर्वतोभद्रदैवतम् ।
शिवपूजोक्तविधिना पुस्तकं तत्समर्चयेत् ॥ ५५॥
पूजनान्ते महाभक्त्या करौ बद्ध्वा विनीतकः ।
साक्षाच्छिवस्वरूपस्य पुस्तकस्य स्तुतिं चरेत् ॥ ५६॥
श्रीमच्छिवपुराणाख्यः प्रत्यक्षस्त्वं महेश्वरः ।
श्रवणार्थं स्वीकृतोऽसि सन्तुष्टो भव वै मयि ॥ ५७॥
मनोरथो मदीयोऽयं कर्तव्य: सफलस्त्वया ।
निर्विघ्नेन सुसम्पूर्णं कथाश्रवणमस्तु मे ॥ ५८॥
भवाब्धिमग्नं दीनं मां समुद्धर भवार्णवात् ।
कर्मग्राहगृहीताङ्गं दासोऽहं तव शङ्कर ॥ ५९॥
एवं शिवपुराणं हि साक्षाच्छिवस्वरूपकम् ।
स्तुत्वा दीनवचः प्रोच्य वक्तुः पूजां समारभेत् ॥ ६०॥
शिवपूजोक्तविधिना वक्तारं च समर्चयेत् ।
सपुष्पवस्त्रभूषाभिर्धूपदीपादिनार्चयेत् ॥ ६१॥
तदग्रे शुद्धचित्तेन कर्तव्यो नियमस्तदा ।
आसमाप्ति यथाशक्त्या धारणीयः सुयत्नतः ॥ ६२॥
व्यासरूप प्रबोधाग्रय शिवशास्त्रविशारद ।
एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ ६३॥
वरणं पञ्चविप्राणां कार्यं वैकस्य भक्तितः ।
शिवपञ्चार्णमन्त्रस्य जपः कार्यश्च तैः सदा ॥ ६४॥
इत्युक्तस्ते मुने भक्त्या कथाश्रवणसद्विधिः ।
श्रोतॄणां चैव भक्तानां किमन्यच्छ्रोतुमिच्छसि ॥ ६५॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये श्रवणविधिवर्णनं नाम षष्ठोऽध्यायः ॥ ६॥
०.७ सप्तमोऽध्यायः विधिनिषेधपुस्तकवक्तृपूजनवर्णनम्
शौनक उवाच ।
सूत सूत महाप्राज्ञ धन्यस्त्वं शैवपुङ्गव ।
श्रावितेयं कथास्माकमद्भुतेयं शुभावहा ॥ १॥
पुंसां शिवपुराणस्य श्रवणव्रतिनां मुने ।
सर्वलोकहितार्थाय दयया नियमं वद ॥ २॥
सूत उवाच ।
नियमं शृणु सद्भक्त्या पुंसां तेषां च शौनक ।
नियमात् सत्कथां श्रुत्वा निर्विघ्नफलमुत्तमम् ॥ ३॥
पुंसां दीक्षाविहीनानां नाधिकारः कथाश्रवे ।
श्रोतुकामैरतो वक्तुर्दीक्षा ग्राह्या च तैर्मुने ॥ ४॥
ब्रह्मचर्यमधस्सुप्तिः पत्रावल्यां च भोजनम् ।
कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती ॥ ५॥
आसमाप्तपुराणं हि समुपोष्य सुशक्तिमान् ।
शृणुयाद्भक्तितः शुद्धः पुराणं शैवमुत्तमम् ॥ ६॥
घृतपानं पयःपानं कृत्वा वा शृणुयात् सुखम् ।
फलाहारेण वा श्राव्यमेकभुक्तं न वा हि तत् ॥ ७॥
एकवारं हविष्यान्नं भुञ्ज्यादेतत्कथाव्रती ।
सुखसाध्यं यथा स्यात्तच्छ्रवणं कार्यमेव च ॥ ८॥
भोजनं सुकरं मन्ये कथासु श्रवणप्रदम् ।
नोपवासो वरश्चेत् स्यात् कथाश्रवणविघ्नकृत् ॥ ९॥
गरिष्ठं द्विदलं दग्धं निष्पावांश्च मसूरिकाम् ।
भावदुष्टं पर्युषितं जग्ध्वा नित्यं कथाव्रती ॥ १०॥
वार्ताकं च कलिन्दं च चिचिण्डं मूलकं तथा ।
कूष्माण्डं नालिकेरं च मूलं जग्ध्वा कथाव्रती ॥ ११॥
पलाण्डुं लशुनं हिङ्गुं गृञ्जं मादकं हि तत् ।
वस्तून्यामिषसङ्ज्ञानि वर्जयेद्यः कथाव्रती ॥ १२॥
कामादिषड्विकारं च द्विजानां च विनिन्दनम् ।
पतिव्रतासतां निन्दां वर्जयेद्यः कथाव्रती ॥ १३॥
रजस्वलां न पश्येच्च पतितान्न वदेत् कथाम् ।
द्विजद्विषो वेदवर्ज्यान्न वदेद्यः कथाव्रती ॥ १४॥
सत्यं शौचं दयां मौनमार्जवं विनयं तथा ।
औदार्यं मनसश्चैव कुर्यान्नित्यं कथाव्रती ॥ १५॥
निष्कामश्च सकामश्च नियमाच्छृणुयात् कथाम् ।
सकामः काममाप्नोति निष्कामो मोक्षमाप्नुयात् ॥ १६॥
दरिद्रश्च क्षयी रोगी पापी निर्भाग्य एव च ।
अनपत्योऽपि पुरुषः शृणुयात् सत्कथामिमाम् ॥ १७॥
काकवन्ध्यादयः सप्तविधा अपि खलस्त्रियः ।
स्रवद्गर्भा च या नारी ताभ्यां श्राव्या कथा परा ॥ १८॥
सर्वेषां श्रवणं कार्यं स्त्रीभिः पुम्भिश्च यत्नतः ।
एतच्छिवपुराणस्य विधिना च कथां मुने ॥ १९॥
एतच्छिवपुराणस्य पारायणदिनानि वै ।
अत्युत्तमानि बोध्यानि कोटियज्ञसमानि च ॥ २०॥
एतेषु विधिना दत्तं यदल्पमपि वस्तु हि ।
दिवसेषु वरिष्ठेषु तदक्षय्यफलं लभेत् ॥ २१॥
एवं कृत्वा व्रतविधिं श्रुत्वेमां परमां कथाम् ।
परानन्दयुतः श्रीमानुद्यापनमथाचरेत् ॥ २२॥
एतदुद्यापनविधिश्चतुर्दश्याः समो मतः ।
कार्यस्तद्वद्धनाढ्यैश्च तदुक्तफलकाङ्क्षिभिः ॥ २३॥
अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनग्रहः ।
श्रवणेनैव पूतास्ते निष्कामाः शाम्भवा मताः ॥ २४॥
एवं शिवपुराणस्य पारायणमखोत्सवे ।
समाप्ते श्रोतृभिर्भक्त्या पूजा कार्या प्रयत्नतः ॥ २५॥
शिवपूजनवत् सम्यक् पुस्तकस्य पुरो मुने ।
पूजा कार्या सुविधिना वक्तुश्च तदनन्तरम् ॥ २६॥
पुस्तकाच्छादनार्थं हि नवीनं चासनं शुभम् ।
समर्चयेद् दृढं दिव्यं बन्धनार्थं च सूत्रकम् ॥ २७॥
पुराणार्थं प्रयच्छन्ति ये सूत्रं वसनं नवम् ।
भोगिनो ज्ञानसम्पन्नास्ते भवन्ति भवे भवे ॥ २८॥
वक्त्रे दद्यान्महार्हाणि वस्तूनि विविधानि च ।
वस्त्रभूषणपात्राणि दिव्यं बहु विशेषतः ॥ २९॥
आसनार्थं प्रयच्छन्ति पुराणस्य च ये नराः ।
कम्बलाजिनवासांसि मञ्चं फलकमेव च ॥ ३०॥
स्वर्गलोकं समासाद्य भुक्त्वा भोगान् यथेप्सितान् ।
स्थित्वा ब्रह्मपदे कल्पं यान्ति शैवपदं ततः ॥ ३१॥
एवं कृत्वा विधानेन पुस्तकस्य प्रपूजनम् ।
वक्तुश्च मुनिशार्दूल महोत्सवपुरस्सरम् ॥ ३२॥
सहायार्थं स्थापितस्य पण्डितस्य प्रपूजनम् ।
कुर्यात्तदनुसारेण किञ्चिदूनं धनादिभि: ॥ ३३॥
समागतेभ्यो विप्रेभ्यो दद्यादन्नं धनादिकम् ।
महोत्सवः प्रकर्तव्यो गीतैर्वाद्यैश्च नर्तनैः ॥ ३४॥
विरक्तश्च भवेच्छ्रोता परेऽहनि विशेषतः ।
गीता वाच्या शिवेनोक्ता रामचन्द्राय या मुने ॥ ३५॥
गृहस्थश्चेद्भवेच्छ्रोता कर्तव्यस्तेन धीमता ।
होमः शुद्धेन हविषा कर्मणस्तस्य शान्तये ॥ ३६॥
रुद्रसंहितया होमः प्रतिश्लोकेन वा मुने ।
गायत्र्यास्तन्मयत्वाच्च पुराणस्यास्य तत्त्वतः ॥ ३७॥
अथवा मूलमन्त्रेण पञ्चवर्णेन शैवतः ।
होमाशक्तौ बुधो हौम्यं हविर्दद्याद् द्विजाय तत् ॥ ३८॥
दोषयोः प्रशमार्थं च न्यूनताधिकताख्ययोः ।
पठेच्च शृणुयाद्भक्त्या शिवनामसहस्रकम् ॥ ३९॥
तेन स्यात् सफलं सर्वं सफलं नात्र संशयः ।
यतो नास्त्यधिकं त्वस्मात् त्रैलोक्ये वस्तु किञ्चन ॥ ४०॥
एकादशमितान् विप्रान् भोजयेन्मधुपायसैः ।
दद्यात् तेभ्यो दक्षिणां च व्रतपूर्णत्वसिद्धये ॥ ४१॥
शक्तौ पलत्रयमितस्वर्णेन सुन्दरं मुने ।
सिंहं विधाय तत्रास्य पुराणस्य शुभाक्षरम् ॥ ४२॥
लेखितं लिखितं वापि संस्थाप्य विधिना पुमान् ।
सम्पूज्यावाहनाद्यैश्च ह्युपचारैः सदक्षिणम् ॥ ४३॥
वस्त्रभूषणगन्धाद्यैः पूजिताय यतात्मने ।
आचार्याय सुधीर्दद्याच्छिवसन्तोषहेतवे ॥ ४४॥
तेन दानप्रभावेण पुराणस्यास्य शौनक ।
सम्प्राप्यानुग्रहं शैवं मुक्तः स्याद्भवबन्धनात् ॥ ४५॥
एवं कृते विधाने च श्रीमच्छिवपुराणकम् ।
सम्पूर्णफलदं स्याद्वै भुक्तिमुक्तिप्रदायकम् ॥ ४६॥
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
श्रीमच्छिवपुराणस्य माहात्म्यं सर्वकामदम् ॥ ४७॥
श्रीमच्छिवपुराणं तु पुराणतिलकं स्मृतम् ।
महच्छिवप्रियं रम्यं भवरोगनिवारणम् ॥ ४८॥
ते जन्मभाजः खलु जीवलोके
ये वै सदा ध्यायन्ति विश्वनाथम् ।
वाणी गुणान् स्तौति कथां शृणोति
श्रोत्रद्वयं ते भवमुत्तरन्ति ॥ ४९॥
सकलगुणविभेदैर्नित्यमस्पष्टरूपं
जगति च बहिरन्तर्भासमानं महिम्ना ।
मनसि च बहिरन्तर्वाङ्मनोवृत्तिरूपं
परमशिवमनन्तानन्दसान्द्रं प्रपद्ये ॥ ५०॥
इति श्रीस्कान्दे महापुराणे सनत्कुमारसंहितायां श्रीशिवपुराणश्रवणव्रतिनां
विधिनिषेधपुस्तकवक्तृपूजनवर्णनं नाम सप्तमोऽध्यायः ॥ ७॥
॥ श्रीशिवमहापुराणमाहात्म्य सम्पूर्णम् ॥