आदिनारायणकृता श्रीरामस्तुतिः
आदिनारायण उवाच ।
वन्दे त्वां रामचन्द्रं सकलगुणनिधिं निर्गुणं ब्रह्म पूर्णं
सत्यारामं चिदेकं स्वविमलमहसा द्योतमानं समन्तात् ।
यस्यांशा एव सर्वे वयमिह भुवने ब्रह्मविष्ण्वीशमुख्याः
सृष्टिस्थित्यन्तलीलाविरचनचतुरा वर्तयन्तीह चक्रम् ॥ १॥
योऽहं विष्णुः स राम त्वयि परमतमे सच्चिदानन्दसिन्धौ
वर्तेयं विन्दुमात्रं विधिरपि च भवो भास्करो वासवश्च ।
एतावानेव विष्वग् विलसति महिमा तावकः कोऽपि नित्यं
नाभूत्तेन स्मयस्ते विहरसि पशुवत् भूय आभीरदारैः ॥ २॥
एतत्ते रूपमस्मन्नयनविषयतां सच्चिदानन्दमात्रं
यातं यातं स्वभाग्यैर्निगमशतशिरो वेदितं नैव किञ्चित् ।
को जानीते यदेतद्विहरति सरयूतीरभूमीनिकुञ्जे
मुग्धैराभीरदारैः पशुगणविभवैर्दुर्लभं वै मुनीनाम् ॥ ३॥
लोकालङ्कारसीमानिगमनिगदितो राघवः कौशलेयः
कल्याणैकान्तलोकोत्तरविमलगुणः कामकेलीनिधानम् ।
साक्षाच्चिल्लोकनाथो रसमयविलसद्दिव्यलीलाविलासः
प्रेयान् प्राणाधिकस्त्वं मम किमपि परं राम सर्वस्वमेव ॥ ४॥
यथैव तेजसां लोके सर्वेषां प्राणदो रविः ।
तथा चैतन्यमात्रस्य भवानेकधनं प्रभो ॥ ५॥
शब्दात्मकं ब्रह्म तवैव घोषः श्वासोच्छ्वासो नित्य आकाशरूपः ।
तेन ब्रह्मा विसृजत्यादिसर्गे लब्ध्वा पूर्णां संविदं सृज्य वर्गे ॥ ६॥
इदं च ते रूपमखण्डसौभगं नेत्रोत्सवानन्दकरं जनानाम् ।
सद्यो निजेच्छाप्रकटं सत्कृपाढ्यं लोकातीतं कालमायाद्यतीतम् ॥ ७॥
नादिर्न मध्यं तव नावसानमस्माकमाद्यन्तमथापि मध्यम् ।
त्वमेव भूमन् पुरुषोत्तमेश न वाङ्मनोगोचरतां प्रयासि ॥ ८॥
त्वं वै विधिर्विष्णुरथापि रुद्रस्त्व कालपालो निधयस्त्वमेव ।
त्वं वै दिगीशो विदिगीशस्त्वमेवमारोपमात्रं वितथोऽस्मासु शब्दः ॥ ९॥
यद्वाच्यवाचकमयं जगदेतदीश
पादस्तवैष सकलो भुवनानि विश्वा
ऊर्ध्वं त्रिपात् पुनरुदैदमृतं तवैव
रूपं परं परमहंस गुहायनस्थम् ॥ १०॥
नमस्ते राम रमणीसहस्रसुविलासिने ।
नीलवैदूर्यवर्णाय सच्चिदानन्दवर्चसे ॥ ११॥
नमस्ते सहजालक्ष्मीपरमानन्दमन्दिर ।
अशोकवनकुञ्जान्तः शय्यामन्दिरकेलिने ॥ १२॥
नमस्ते रामचन्द्राय चिच्चकोरीसुखात्मने ।
निःश्रेयसामृतौघाय ब्रह्मणे परमात्मने ॥ १३॥
किमर्थमीशेन यत्नो विधेयः स्मृतो न तत्रैव सुकोशलायाम् ।
अनुग्रहो वा मयि कश्चित् स्वकीये विनिर्मितो नाथ यदागतं मुदा ॥ १४॥
पुनर्नमोऽस्मै मुहुरेव नाथ तवामुष्मै सच्चिदानन्दधाम्ने ।
सीताविनोदैकनिकेतनाय श्रीविग्रहायामृतवर्षणाय ॥ १५॥
श्रीराम उवाच ।
तातेनोपासिता यज्ञा अग्नयश्च त्रयीमयाः ।
अविच्छेदेन यजनं देवानां प्रत्यपद्यत ॥ १६॥
तस्याग्नित्रितयं विष्णो कुण्डेभ्योऽपगता इति ।
भ्रान्त्वा त्रिभुवनं सर्वमत्रान्वेषितुमायवम् ॥ १७॥
अत्र दृष्टाः सभायां ते अग्नयः पितृसेविताः ।
नेष्यामः प्रणिपत्यैतान् पितुर्मोदाय कोशले ॥ १८॥
नारायण उवाच ।
एतेऽग्नयस्त्रयो नाथ त्वत्पित्रा समुपासिताः ।
मया हृताः परीक्षार्थं पूर्णस्य ब्रह्मणस्तव ॥ १९॥
नीयतां सम्प्रति गृहे राम श्रीकोशलापुरे ।
अग्नयोऽमी त्रयीरूपाः पितुस्तेऽभीष्टदायकाः ॥ २०॥
जानाति कस्ते माहात्म्यं वेदानामपि दुर्गमम् ।
तवैव कृपया नाथ विज्ञेयं शुभजन्मभिः ॥ २१॥
[ भगवान् पुरुषः पूर्णो राम एव न संशयः ।
बहूनां रञ्जनकरः कान्तानां भूरि शक्तिमान् ॥
गोपाङ्गनास्तव विभो ललनाः समग्रा
दिक्पालकाश्च भवते समदुः स्वकन्या ।
अन्याञ्च नागनरकिन्नर देववध्व
स्त्वय्येव नेत्रसुखदे हि रता बभूवुः ॥
तस्मादेताः किङ्करीस्त्वं महिष्यो
गान्धर्वेण प्रीतियुक्ता गृहाण ।
यस्मादेकस्त्वं स रामस्त्रिलोक्याः
स्वेच्छामात्रात् पूर्णचित्ताभिलाषः ॥
इत्याधिकः पाठः - रीवाँ
एवं प्रसादितो रामः पुरुषेणादिविष्णुना ।
नमन्तं तं विसृज्याग्नीन् पुरस्कृत्य त्रयीमयान् ॥ २२॥
रथोपस्थमुपाविश्य मुहुर्मुक्तात्मभिः स्तुतः ।
वैमानिकगणैर्भूयः स्तूयमानः पदे पदे ॥ २३॥
अक्षरस्यान्तमत्येत्य निस्तीर्य विरजां पुनः ।
कृत्वा च तमसः पारं चक्रज्योतिर्विभेदिनः ॥ २४॥
लोकालोकमतिक्रम्य रथवेगेन तत्क्षणात् ।
आजगाम जवाद् रामः साकेतनगरीं प्रति ॥ २५॥
अग्नित्रयं पुरोधाय सानुजो रथरंहसा ।
अयोध्यानयनानन्दवर्द्धनः पुनरागतः ॥ २६॥
आगते रथशार्दूले अग्नीनादाय भूपतिः ।
अतिप्रीतमना भूत्वा रामं भूयोऽभ्यनन्दयत् ॥ २७॥
अग्नीन् कुण्डेषु संस्थाप्य विधिवत् पुनराहितान् ।
सायं प्रातरुपासीनः पूर्णार्थो नृपतेरभूत् ॥ २८॥
इत्थं स्थितो यौवराज्ये नन्दयन् भुवनत्रयम् ।
कोशलाधिपतेश्चित्तं विशेषेण ननन्द सः ॥ २९॥
यौवराज्ये स्थिते रामे सहस्त्रं शरदो ययुः ।
श्रीमज्जनकजापूर्णतारुण्यमदपोषिकाः ॥ ३०॥
प्रजानेत्रोत्सवो भूयान् प्रबभूव दिने दिने ।
श्रीरामचन्द्रपूर्णेन्दुदर्शनामृतवर्षणात् ॥ ३१॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे आदिनारायणकृतरामस्तुतौ
वैकुण्ठाग्न्यानयनं नाम एकनवतितमोऽध्यायः ॥ ९१॥
भुशुण्डिरामायणम् । पूर्वखण्ड । अध्याय ९१/१-३१॥
bhushuNDirAmAyaNam . pUrvakhaNDa . adhyAya 91/1-31..
Encoded and proofread by Mrityunjay Rajkumar Pandey