अध्यात्मरामायाणाधिष्ठिता श्रीरामनामावलिः
ॐ
हरिः ॐ ।
श्रीगणपतये नमः अविघ्नमस्तु ।
नमः शिवायै च नमः शिवाय ।
ॐ नमो नारायणाय ।
ॐ सरस्वत्यै नमः ।
ॐ श्री गुरुभ्यो नमः ।
ॐ नमो भगवते श्रीरामचन्द्राय ।
सीतायाः पतये नमः ।
सीताभरतलक्ष्मणशत्रुघ्नहनुमत्समेतश्रीरामचन्द्राय नमः ।
अप्रमेयत्रयातीताय निर्मलज्ञानमूर्तये ।
मनोगिरां विदूराय दक्षिणामूर्तये नमः ॥
पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता ।
अद्ध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ॥
क्रमसङ्ख्या. नामः । (काण्डः.सर्गः.श्लोकः)
सूर्यनामानि
१. ॐ रवये नमः । (बाल.१.१)
२. ॐ सवित्रे नमः । (बाल.१.२३)
३. ॐ सूर्याय नमः । (बाल.१.२८)
४. ॐ सहस्रांशवे नमः । (बाल.२.८)
५. ॐ पूष्णे नमः । (बाल.३.१५)
६. ॐ अर्काय नमः । (बाल.३.१७)
७. ॐ अरुणाय नमः । (बाल.३.३६)
८. ॐ आदित्याय नमः । (अयोध्या.४.२६)
९. ॐ भास्कराय नमः । (अयोध्या.६.८५)
१०. ॐ इनाय नमः । (उत्तर.१.६३)
११. ॐ प्रभाकराय नमः । (उत्तर.९.६३)
ब्रह्मदेवनामानि
१. ॐ मूर्तिमद्भिश्छन्दोभिः परिवेष्टिताय नमः । (माहात्म्यम्.०.३)
२. ॐ बालार्कप्रभया सभागृहं सम्यक् भासयते नमः । (माहात्म्यम्.०.३)
३. ॐ मार्कण्डेयादिमुनिभिः मुहुर्मुहुः स्तूयमानाय नमः । (माहात्म्यम्.०.४)
४. ॐ सर्वार्थगोचरज्ञानाय नमः । (माहात्म्यम्.०.४)
५. ॐ सरस्वत्या समन्विताय नमः । (माहात्म्यम्.०.४)
६. ॐ चतुर्मुखाय नमः । (माहात्म्यम्.०.५)
७. ॐ जगन्नाथाय नमः । (माहात्म्यम्.०.५)
८. ॐ भक्ताभीष्टफलप्रदाय नमः । (माहात्म्यम्.०.५)
९. ॐ मुनिपुङ्गवेन श्रीनारदेन भक्त्या तोषिताय नमस्कृताय
च नमः । (माहात्म्यम्.०.५)
१०. ॐ स्वयम्भुवे नमः । (माहात्म्यम्.०.६)
११. ॐ ब्रह्मणे नमः । (माहात्म्यम्.०.७)
१२. ॐ अम्बुजासनाय नमः । (माहात्म्यम्.०.१७)
१३. ॐ कमलासनाय नमः । (माहात्म्यम्.०.६०)
१४. ॐ अब्जासनाय नमः । (बाल.२.६)
१५. ॐ रामपादतीर्थहताशुभाय नमः । (अयोध्या.२.२२)
१६. ॐ प्रजाध्यक्षाय नमः । (उत्तर.२.१५)
१७. ॐ भक्तवत्सलाय नमः । (उत्तर.२.१६)
१८. ॐ प्रजापतये नमः । (उत्तर.२.१६)
१९. ॐ लोकपितामहाय नमः । (उत्तर.२.५८)
२०. ॐ देवेशाय नमः । (उत्तर.३.९)
२१. ॐ विश्वसृजां पतये नमः । (उत्तर.३.३३)
२२. ॐ पितामहाय नमः । (उत्तर.९.५४)
२३. ॐ द्रुहिणाय नमः । (उत्तर.९.५८)
शैवनामानि
१. ॐ अप्रमेयत्रयातीताय नमः । (माहात्म्यम्.०.१)
२. ॐ निर्मलज्ञानमूर्तये नमः । (माहात्म्यम्.०.१)
३. ॐ मनोगिरां विदूराय नमः । (माहात्म्यम्.०.१)
४. ॐ दक्षिणामूर्तये नमः । (माहात्म्यम्.०.१)
५. ॐ त्रिपुरहन्त्रे नमः । (माहात्म्यम्.०.१८)
६. ॐ गिरिशाय नमः । (माहात्म्यम्.०.१९)
७. ॐ कैलासाग्रे रविशतविमले रत्नपीठे संविष्टाय नमः । (बाल.१.६)
८. ॐ ध्याननिष्ठाय नमः । (बाल.१.६)
९. ॐ त्रिनयनाय नमः । (बाल.१.६)
१०. ॐ अभयदात्रे नमः । (बाल.१.६)
११. ॐ सिद्धसङ्घैः सेविताय नमः । (बाल.१.६)
१२. ॐ महेश्वराय नमः । (बाल.१.६)
१३. ॐ सकलमलहराय देवाय नमः । (बाल.१.६)
१४. ॐ ईशाय नमः । (बाल.१.६)
१५. ॐ महादेवाय नमः । (बाल.१.६)
१६. ॐ जगन्निवासाय नमः । (बाल.१.७)
१७. ॐ सर्वात्मदृशे नमः । (बाल.१.७)
१८. ॐ परमेश्वराय नमः । (बाल.१.७)
१९. ॐ पुरुषोत्तमाय नमः । (बाल.१.७)
२०. ॐ वारिजाक्षाय नमः । (बाल.१.१०)
२१. ॐ उमामहेश्वराभ्यां नमः । (बाल.१.१०)
२२. ॐ जगत्प्रभवे नमः । (बाल.२.१)
२३. ॐ महेश्वराय नमः । (बाल.५.१३)
२४. ॐ पिनाकिने नमः । (बाल.५.१३)
२५. ॐ पुरारिणे नमः । (बाल.५.४७)
२६. ॐ गिरिजापतये नमः । (अयोध्या.२.२२)
२७. ॐ स्मरारये नमः । (आरण्य .१०.४४)
२८. ॐ महेशाय नमः । (किष्किन्धा.६.५१)
२९. ॐ रामेश्वराय नमः । (युद्ध.४.१)
३०. ॐ शिवाय नमः । (युद्ध.४.१)
३१. ॐ हराय नमः । (युद्ध.४.३)
३२. ॐ रामेशाय नमः । (युद्ध.४.४)
३३. ॐ नभःस्थलविमानस्थाय नमः । (युद्ध.१३.३३)
३४. ॐ भवानीसमेताय भवाय नमः । (युद्ध.१३.३३)
३५. ॐ रामेण प्रतिष्ठिताय रामेश्वराय नमः । (युद्ध.१४.७)
३६. ॐ शम्भवे नमः । (युद्ध.१४.७)
३७. ॐ भूतेश्वराय नमः । (युद्ध.१६.४५)
३८. ॐ पुरहारिणे नमः । (उत्तर.६.२६)
३९. ॐ श्रीशङ्कराय नमः । (उत्तर.९.६८)
देवीनामानि
१. ॐ सरस्वतीदेव्यै नमः । (माहात्म्यम्.०.४)
२. ॐ पार्वतीदेव्यै नमः । (माहात्म्यम्.०.१८)
३. ॐ भक्तवत्सलायै नमः । (माहात्म्यम्.०.१८)
४. ॐ शिवप्रियायै नमः । (माहात्म्यम्.०.१९)
५. ॐ जगद्धात्र्यै नमः । (माहात्म्यम्.०.२०)
६. ॐ स्वानन्दमग्नायै नमः । (माहात्म्यम्.०.२१)
७. ॐ गिरिजादेव्यै नमः । (माहात्म्यम्.०.४६)
८. ॐ त्रिनयनवामाङ्कसंस्थायै नमः । (बाल.१.६)
९. ॐ गिरिवरतनयायै नमः । (बाल.१.६)
१०. ॐ श्रीपार्वतीदेव्यै नमः । (बाल.१.६)
११. ॐ लोकविमोहिन्यै नमः । (बाल.१.३१)
१२. ॐ मूलप्रकृत्यै नमः । (बाल.१.३४)
१३. ॐ सर्गस्थित्यन्तकारिण्यै नमः । (बाल.१.३४)
१४. ॐ योगमायायै नमः । (बाल.२.२८)
१५. ॐ जनकनन्दिन्यै नमः । (बाल.४.१८)
१६. ॐ गङ्गायै नमः । (बाल.५.१४)
१७. ॐ स्वर्णवर्णायै नमः । (बाल.६.२९)
१८. ॐ सर्वाभरणभूषितायै नमः । (बाल.६.२९)
१९. ॐ स्मितवक्त्रायै नमः । (बाल.६.२९)
२०. ॐ दक्षिणे करे स्वर्णमयीं मालां गृहीतवत्यै नमः । (बाल.६.२९)
२१. ॐ क्वणच्चरणनूपुरायै नमः । (बाल.६.३०)
२२. ॐ दुकूलपरिसंवीतायै नमः । (बाल.६.३०)
२३. ॐ वस्त्रान्तर्व्यञ्जितस्तन्यैः नमः । (बाल.६.३०)
२४. ॐ श्रीरामवल्लभायै नमः । (बाल.६.३०)
२५. ॐ नानारत्नविभूषितायै नमः । (बाल.६.५०)
२६. ॐ शोभाढ्यायै नमः । (बाल.६.५०)
२७. ॐ कमलपत्राक्ष्यै नमः । (बाल.६.५३)
२८. ॐ स्वर्णमुक्तादिभूषितायै नमः । (बाल.६.५३)
२९. ॐ जानक्यै नमः । (बाल.६.५३)
३०. ॐ शुभलक्षणायै कन्यकायै नमः । (बाल.६.५९)
३१. ॐ विष्णोर्लक्ष्म्यै नमः । (बाल.६.६७)
३२. ॐ सर्वलोकैकमोहिन्यै नमः । (अयोध्या.२.३१)
३३. ॐ रामाधीनायै सीतायै नमः । (अयोध्या.२.३१)
३४. ॐ लक्ष्म्यै नमः । (अयोध्या.२.४२)
३५. ॐ दुर्गादेव्यै नमः । (अयोध्या.२.४३)
३६. ॐ वाणीदेव्यै नमः । (अयोध्या.२.४४)
३७. ॐ ससुस्मितभाषिण्यै नमः । (अयोध्या.४.५३)
३८. ॐ अनघायै नमः । (अयोध्या.४.६०)
३९. ॐ रामप्रियायै नमः । (अयोध्या.४.६४)
४०. ॐ प्रियवादिन्यै नमः । (अयोध्या.४.६४)
४१. ॐ सुमद्ध्यमायै नमः । (अयोध्या.४.६६)
४२. ॐ सुन्दर्यै नमः । (अयोध्या.४.६७)
४३. ॐ भद्रायै नमः । (अयोध्या.४.७०)
४४. ॐ रामस्य धर्मपत्न्यै नमः । (अयोध्या.४.७१)
४५. ॐ पतिव्रतायै नमः । (अयोध्या.४.७१)
४६. ॐ श्रीरामधर्मपत्न्यै नमः । (अयोध्या.४.७१)
४७. ॐ लोकसुन्दर्यै नमः । (अयोध्या.५.६)
४९. ॐ सृष्टिस्थित्यन्तकारिण्यै नमः । (अयोध्या.५.२३)
५०. ॐ हरेर्मायायै नमः । (अयोध्या.५.२३)
५१. ॐ दिव्याम्बरधरायै नमः । (अयोध्या.५.४०)
५२. ॐ रामस्य वनदुःखनिवारिण्यै नमः । (अयोध्या.५.४१)
५३. ॐ वैदेह्यै नमः । (अयोध्या.५.७२)
५४. ॐ कमलाननायै नमः । (अयोध्या.९.८९)
५५. ॐ रामस्य प्राणवल्लभायै नमः । (आरण्य.१.२६)
५६. ॐ मेघस्य तटिल्लतैव सदा राघवस्य वामाङ्के स्थितायै
नमः । (आरण्य.२.१०)
५७. ॐ विद्याविद्येति द्विधा सदा भाते रामस्य मायादेव्यै नमः । (आरण्य.३.३२)
५८. ॐ जनककन्यायै नमः । (आरण्य.४.६)
५९. ॐ विशालाक्ष्यै नमः । (आरण्य.५.४८)
६०. ॐ श्रीरिवापरारूपिण्यै नमः । (आरण्य.५.४८)
६१. ॐ रामस्य भार्यायै नमः । (आरण्य.५.४८)
६२. ॐ राजीवपत्राक्ष्यै नमः । (आरण्य.५.५५)
६३. ॐ सर्वलोकैकसुन्दर्यै नमः । (आरण्य.५.५५)
६४. ॐ रामप्राणवल्लभायै नमः । (आरण्य.७.८)
६५. ॐ अनिन्दितायै नमः । (आरण्य.७.९)
६६. ॐ साध्व्यै नमः । (आरण्य.७.९)
६७. ॐ वारिजाननायै नमः । (आरण्य.७.६३)
६८. ॐ जनकजायै नमः । (आरण्य.८.१५)
६९. ॐ शुभदर्शनायै नमः । (आरण्य.८.२५)
७०. ॐ त्रैलोक्यसुन्दर्यै नमः । (आरण्य.९.१३)
७१. ॐ कमललोचनायै नमः । (आरण्य.१०.३२)
७२. ॐ प्रियदर्शनायै नमः । (आरण्य.१०.३३)
७३. ॐ श्रियै जानक्यै नमः । (किष्किन्धा.२.६८)
७४. ॐ शुभायै नमः । (किष्किन्धा.२.६८)
७५. ॐ चन्द्रवदनायै नमः । (किष्किन्धा.५.५)
७६. ॐ चन्द्राननायै नमः । (किष्किन्धा.५.६)
७७. ॐ भगवत्यै नमः । (किष्किन्धा.७.१७)
७८. ॐ मायायै नमः । (किष्किन्धा.७.१७)
७९. ॐ जनसम्मोहकारिण्यै नमः । (किष्किन्धा.७.१७)
८०. ॐ विदेहकन्यकायै नमः । (किष्किन्धा.७.५६)
८१. ॐ रामस्य पत्न्यै नमः । (सुन्दर.१.३)
८३. ॐ महामायायै नमः । (सुन्दर.१.५०)
८४. ॐ धरासुतायै नमः । (सुन्दर.१.५८)
८५. ॐ एकवेण्यै कृशायै नमः । (सुन्दर.२.९)
८६. ॐ दीनायै मलिनाम्बरधारिण्यै नमः । (सुन्दर.२.९)
८७. ॐ शोचन्त्यै भूमौ शयानायै नमः । (सुन्दर.२.१०)
८८. ॐ रामरामेति भाषन्त्यै नमः । (सुन्दर.२.१०)
८९. ॐ उपवासकृशायै नमः । (सुन्दर.२.१०)
९०. ॐ अधोमुख्यै अश्रुनयनायै नमः । (सुन्दर.२.२१)
९१. ॐ रामार्पितान्तरायै नमः । (सुन्दर.२.२१)
९२. ॐ सुभ्रुवे नमः । (सुन्दर.२.२२)
९३. ॐ भामिन्यै नमः । (सुन्दर.२.२९)
९४. ॐ जनकराजस्य तनयायै नमः । (सुन्दर.२.३७)
९५. ॐ शुभाननायै नमः । (सुन्दर.२.५४)
९६. ॐ शोचन्त्यै दुःखसम्प्ळुतायै देव्यै नमः । (सुन्दर.३.१४)
९७. ॐ रामस्य महिष्यै देव्यै नमः । (सुन्दर.३.१५)
९८. ॐ कमललोचनायै नमः । (सुन्दर.३.५२)
९९. ॐ पद्मपलाशलोचनायै नमः । (सुन्दर.४.१२)
१००. ॐ अवनीसुतायै नमः । (सुन्दर.५.२९)
१०१. ॐ यशस्विन्यै नमः । (युद्ध.२.१६)
१०२. ॐ रामपत्न्यै नमः । (युद्ध.२.१६)
१०३. ॐ सीताभिधानेन जातायै नमः । (युद्ध.२.३५)
१०४. ॐ काळ्यै नमः । (युद्ध.२.३५)
१०५. ॐ साक्षात्जगत्'हेतवे नमः । (युद्ध.४.३८)
१०६. ॐ चिच्छक्त्यै नमः । (युद्ध.४.३८)
१०७. ॐ जगदात्मिकायै नमः । (युद्ध.४.३८)
१०८. ॐ जगन्मात्रे नमः । (युद्ध.४.४०)
१०९. ॐ रामवल्लभायै नमः । (युद्ध.५.२७)
११०. ॐ लक्ष्मीविष्णुभ्यां जानकीराघवाभ्यां नमः । (युद्ध.१०.५७)
१११. ॐ शिंशपामूलमाश्रितायै नमः । (युद्ध.१२.५५)
११२. ॐ अनिन्दितायै नमः । (युद्ध.१२.५५)
११३. ॐ राक्षसीभिः परिवृतायै नमः । (युद्ध.१२.५६)
११४. ॐ राममेव ध्यायन्त्यै नमः । (युद्ध.१२.५६)
११५. ॐ शोकसन्तप्तायै नमः । (युद्ध.१२.६८)
११६. ॐ मैथिल्यै नमः । (युद्ध.१२.६८)
११७. ॐ विमलारुणद्युत्यै नमः । (युद्ध.१३.१९)
११८. ॐ रक्ताम्बरायै नमः । (युद्ध.१३.१९)
११९. ॐ दिव्यविभूषणान्वितायै नमः । (युद्ध.१३.१९)
१२०. ॐ विदेहपुत्रिकायै नमः । (युद्ध.१३.१९)
१२१. ॐ रघुनाथेन गृहीतायै जानक्यै नमः । (युद्ध.१३.२०)
१२२. ॐ सदानपायिन्यै नमः । (युद्ध.१३.२२)
१२३. ॐ त्रिलोकजनन्यै नमः । (युद्ध.१३.२२)
१२४. ॐ स्फुरधेमवर्णायै नमः । (युद्ध.१३.३२)
१२५. ॐ तडित्पुञ्जभासायै नमः । (युद्ध.१३.३२)
१२६. ॐ लज्जमानायै रामेणाङ्के निधायै नमः । (युद्ध.१३.४७)
१२७. ॐ शशिनिभाननायै नमः । (युद्ध.१४.१)
१२८. ॐ श्रीरामवामभागे समासीनायै नमः । (युद्ध.१५.४८)
१२९. ॐ काञ्चनसन्निभायै नमः । (युद्ध.१५.४८)
१३०. ॐ श्रीरामवामाङ्के समुपस्थितायै नमः । (युद्ध.१५.४९)
१३१. ॐ रक्तोत्पलकराम्भोजायै नमः । (युद्ध.१५.४९)
१३२. ॐ श्रिरामेण वामकरेणालिङ्ग्यायै नमः । (युद्ध.१५.४९)
१३३. ॐ सर्वाभरणसम्पन्नायै नमः । (युद्ध.१५.४९)
१३४. ॐ शुद्धजाम्बूनदप्रख्यायै श्रियै नमः । (उत्तर.३.४७)
१३५. ॐ सदानपायिन्यै देव्यै श्रियै नमः । (उत्तर.३.४७)
१३६. ॐ भर्तुर्मनोहरायै नमः । (उत्तर.४.२८)
१३७. ॐ भावज्ञायै नमः । (उत्तर.४.२८)
१३८. ॐ जगद्धात्र्यै नमः । (उत्तर.४.३५)
१३९. ॐ परमात्मनः लक्ष्म्यै नमः । (उत्तर.४.५६)
१४०. ॐ धरणीदेव्यै नमः । (उत्तर.७.३४)
१४१. ॐ भूदेव्यै नमः । (उत्तर.७.३६)
१४२. ॐ पुरैवलक्ष्मीभूतायै सीतायै नमः । (उत्तर.९.५६)
१४३. ॐ भवान्यै नमः । (उत्तर.९.६८)
वैष्णवनामानि
१. ॐ श्रीरामाय नमः । (माहात्म्यम्.०.१९)
२. ॐ रामाय नमः । (माहात्म्यम्.०.२०)
३. ॐ नारायणाय नमः । (माहात्म्यम्.०.५१)
४. ॐ विष्णवे नमः । (माहात्म्यम्.०.५६)
५. ॐ राघवाय नमः । (माहात्म्यम्.०.५७)
६. ॐ पृथिवीभरवारणाय दिविजैः सम्प्रार्थिताय नमः । (बाल.१.१)
७. ॐ चिन्मयाय नमः । (बाल.१.१)
८. ॐ पृथिवीतले रविकुले सञ्जाताय नमः । (बाल.१.१)
९. ॐ मायामनुष्याय नमः । (बाल.१.१)
१०. ॐ अव्ययाय नमः । (बाल.१.१)
११. ॐ निश्चक्रं राक्षसान् हत्वा पुनः ब्रह्मत्वं गताय नमः । (बाल.१.१)
१२. ॐ आद्याय नमः । (बाल.१.१)
१३. ॐ जगतां स्थिरां पापहरां कीर्तिं विधाय नमः । (बाल.१.१)
१४. ॐ जानकीशाय नमः । (बाल.१.१)
१५. ॐ विश्वोद्भवस्थितिलयादिषु एकहेतवे नमः । (बाल.१.२)
१६. ॐ मायाश्रयाय नमः । (बाल.१.२)
१७. ॐ विगतमायाय नमः । (बाल.१.२)
१८. ॐ अचिन्त्यमूर्तये नमः । (बाल.१.२)
१९. ॐ अमलाय नमः । (बाल.१.२)
२०. ॐ आनन्दसान्द्राय नमः । (बाल.१.२)
२१. ॐ निजबोधरूपाय नमः । (बाल.१.२)
२२. ॐ सीतापतये नमः । (बाल.१.२)
२३. ॐ विदिततत्त्वाय नमः । (बाल.१.२)
२४. ॐ हरये नमः । (बाल.१.३)
२५. ॐ पुरुषोत्तमाय नमः । (बाल.१.७)
२६. ॐ सनातनाय नमः । (बाल.१.७)
२७. ॐ श्रीरामचन्द्राय नमः । (बाल.१.१०)
२८. ॐ अखिललोकसाराय नमः । (बाल.१.१०)
२९. ॐ परमाय नमः । (बाल.१.१२)
३०. ॐ निरस्तमायागुणसम्प्रवाहाय नमः । (बाल.१.१२)
३१. ॐ परात्मने नमः । (बाल.१.१७)
३२. ॐ रघूत्तमाय नमः । (बाल.१.१७)
३३. ॐ प्रकृतेरनादये नमः । (बाल.१.१७)
३४. ॐ एकस्मै नमः । (बाल.१.१७)
३५. ॐ आनन्दाय नमः । (बाल.१.१७)
३६. ॐ स्वमायया कृत्स्नमिदं सृष्ट्वा नभोवदन्तर्बहिरास्थिताय
नमः । (बाल.१.१८)
३७. ॐ सर्वान्तरस्थोऽपि निगूढाय नमः । (बाल.१.१८)
३८. ॐ आत्मने नमः । (बाल.१.१८)
३९. ॐ यत् सन्निधौ चुम्बकलोहवत् जगन्ति नित्यं परितः भ्रमन्ति
तस्मै नमः । (बाल.१.१९)
४०. ॐ शुद्धबुद्धये नमः । (बाल.१.२०)
४१. ॐ निरस्तमायाय नमः । (बाल.१.२०)
४२. ॐ हृदये स्थिताय रामाय नमः । (बाल.१.२०)
४३. ॐ विशुद्धविज्ञानघनाय नमः । (बाल.१.२१)
४४. ॐ शुद्धचिद्घनाय नमः । (बाल.१.२३)
४५. ॐ परानन्दमयाय नमः । (बाल.१.२४)
४६. ॐ विज्ञानरूपाय नमः । (बाल.१.२४)
४७. ॐ अज्ञानसाक्षिणे नमः । (बाल.१.२४)
४८. ॐ अरविन्दलोचनाय नमः । (बाल.१.२४)
४९. ॐ सीतायै रामाय मरुत्सूनवे च नमः । (बाल.१.२५)
५०. ॐ रावणहन्त्रे नमः । (बाल.१.२६)
५१. ॐ सुग्रीवलक्ष्मणाभ्यां समन्विताय हनूमत्प्रमुखैर्वृताय
सीतासमेताय रामाय नमः । (बाल.१.२७)
५२. ॐ वसिष्ठाद्यैर् महात्मभिः परिवृतायाभिषिक्ताय सिंहासने
समासीनाय रामाय नमः । (बाल.१.२८)
५३. ॐ कोटिसूर्यसमप्रभाय नमः । (बाल.१.२८)
५४. ॐ अद्वयाय नमः । (बाल.१.३२)
५५. ॐ सच्चिदानन्दाय नमः । (बाल.१.३२)
५६. ॐ परब्रह्मणे नमः । (बाल.१.३२)
५७. ॐ सर्वोपाधिविनिर्मुक्ताय नमः । (बाल.१.३२)
५८. ॐ सत्तामात्राय नमः । (बाल.१.३२)
५९. ॐ अगोचराय नमः । (बाल.१.३२)
६०. ॐ निर्मलाय नमः । (बाल.१.३३)
६१. ॐ शान्ताय नमः । (बाल.१.३३)
६२. ॐ निर्विकाराय नमः । (बाल.१.३३)
६३. ॐ निरञ्जनाय नमः । (बाल.१.३३)
६४. ॐ सर्वव्यापिने नमः । (बाल.१.३३)
६५. ॐ स्वप्रकाशाय नमः । (बाल.१.३३)
६६. ॐ अकल्मषाय नमः । (बाल.१.३३)
६७. ॐ विश्वामित्रमखसंरक्षकाय नमः । (बाल.१.३६)
६८. ॐ महेशितुः चापभञ्जकाय नमः । (बाल.१.३६)
६९. ॐ सीतापाणिग्राहकाय नमः । (बाल.१.३७)
७०. ॐ भार्गवमदक्षयकारकाय नमः । (बाल.१.३७)
७१. ॐ विराधघ्नाय नमः । (बाल.१.३८)
७२. ॐ मायामारीचमारकाय नमः । (बाल.१.३८)
७३. ॐ रावणेन हृतसीतामार्गणव्यग्राय नमः । (बाल.१.३८)
७४. ॐ जटायुषोः मोक्षदायकाय नमः । (बाल.१.३९)
७५. ॐ कबन्धहर्त्रे नमः । (बाल.१.३९)
७६. ॐ शबर्या पूजिताय नमः । (बाल.१.३९)
७७. ॐ सुग्रीवमित्राय नमः । (बाल.१.३९)
७८. ॐ बालीनिग्रहकाय नमः । (बाल.१.४०)
७९. ॐ जलधौ सेतुनिर्माणकाय नमः । (बाल.१.४०)
८०. ॐ युद्धे सपुत्रं दुरात्मानं सीताहारिणं रावणं हतवते
रामाय नमः । (बाल.१.४१)
८१. ॐ विभीषणाय लङ्काराज्यदानं कृतवते रामाय नमः । (बाल.१.४१)
८२. ॐ अयोध्यायां राज्ये अभिषिक्ताय रामाय नमः । (बाल.१.४२)
८३. ॐ अखिलात्मने नमः । (बाल.१.४२)
८४. ॐ आनन्दमूर्तये नमः । (बाल.१.४३)
८५. ॐ परिणामहीनाय नमः । (बाल.१.४३)
८६. ॐ मायागुणानुगताय नमः । (बाल.१.४३)
८७. ॐ अखिललोकहृद्स्थाय नमः । (बाल.२.७)
८८. ॐ अजराय नमः । (बाल.२.७)
८९. ॐ ईशाय नमः । (बाल.२.७)
९०. ॐ सर्वज्ञाय नमः । (बाल.२.७)
९१. ॐ सहस्रांशुसहस्रसदृशप्रभाय नमः । (बाल.२.८)
९२. ॐ अकृतात्मनां दुर्दर्शाय नमः । (बाल.२.९)
९३. ॐ इन्द्रनीलप्रतीकाशाय नमः । (बाल.२.९)
९४. ॐ स्मितास्याय नमः । (बाल.२.९)
९५. ॐ पद्मलोचनाय नमः । (बाल.२.९)
९६. ॐ किरीटहारकेयूरकुण्डलैः कटकादिभिः विभ्राजमानाय नमः । (बाल.२.१०)
९७. ॐ श्रीवत्सकौस्तुभप्रभयान्विताय नमः । (बाल.२.१०)
९८. ॐ शङ्खचक्रगदापद्मवनमालया विराजिताय नमः । (बाल.२.११)
९९. ॐ परिवेष्टितैः सनकाद्यैः पार्षदैश्च स्तूयमानाय नमः । (बाल.२.११)
१००. ॐ स्वर्णयज्ञोपवीताय नमः । (बाल.२.१२)
१०१. ॐ सुवर्णवर्णाम्बराय नमः । (बाल.२.१२)
१०२. ॐ श्रिया भूम्या सह गरुडोपरि संस्थिताय हरये नमः । (बाल.२.१२)
१०३. ॐ नित्यं मुमुक्षुभिः हृदि चिन्त्याय नमः । (बाल.२.१४)
१०४. ॐ आनन्दानुभवात्मने नमः । (बाल.२.१५)
१०५. ॐ नित्यं मुनिभिः वृताय सात्वतैरन्तर्हृदये दृष्टाय
नमः । (बाल.२.१७)
१०६. ॐ ब्रह्माद्यैः स्वार्थसिद्ध्यर्थं पूर्वसेविताय नमः । (बाल.२.१८)
१०७. ॐ अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदि भाविताय नमः । (बाल.२.१८)
१०८. ॐ रघोः कुले मानुषरूपेण भूताय नमः । (बाल.२.२९)
१०९. ॐ जगन्नाथाय नमः । (बाल.३.१५)
११०. ॐ परमात्मने नमः । (बाल.३.१५)
१११. ॐ नीलोत्पलदळश्यामाय नमः । (बाल.३.१६)
११२. ॐ पीतवाससे नमः । (बाल.३.१६)
११३. ॐ चतुर्भुजाय नमः । (बाल.३.१६)
११४. ॐ जलजारुणनेत्रान्ताय नमः । (बाल.३.१६)
११५. ॐ स्फुरत्कुण्डलमण्डिताय नमः । (बाल.३.१६)
११६. ॐ सहस्रार्कप्रतीकाशाय नमः । (बाल.३.१७)
११७. ॐ किरीटिने नमः । (बाल.३.१७)
११८. ॐ कुञ्चिताळकाय नमः । (बाल.३.१७)
११९. ॐ शङ्खचक्रगदापद्मवनमालाविराजिताय नमः । (बाल.३.१७)
१२०. ॐ अनुग्रहाख्यहृत्स्थेन्दुसूचकस्मितचन्द्रिकाय नमः । (बाल.३.१८)
१२१. ॐ करुणारससम्पूर्णविशालोत्पललोचनाय नमः । (बाल.३.१८)
१२२. ॐ श्रीवत्सहारकेयूरनूपुरादिविभूषणाय नमः । (बाल.३.१८)
१२३. ॐ मात्रा कौसल्यया स्तुताय नमः । (बाल.३.१९)
१२४. ॐ शङ्खचक्रगदाधराय नमः । (बाल.३.२०)
१२५. ॐ अच्युताय नमः । (बाल.३.२०)
१२६. ॐ अनन्ताय नमः । (बाल.३.२०)
१२७. ॐ पूर्णाय नमः । (बाल.३.२०)
१२८. ॐ बुद्ध्यादीनां अगोचराय नमः । (बाल.३.२१)
१२९. ॐ अतीन्द्रियाय नमः । (बाल.३.२१)
१३०. ॐ ज्ञानैकविग्रहाय नमः । (बाल.३.२१)
१३१. ॐ सत्त्वादिगुणसंयुक्ताय नमः । (बाल.३.२२)
१३२. ॐ तुर्याय नमः । (बाल.३.२२)
१३३. ॐ सदा अमलाय नमः । (बाल.३.२२)
१३४. ॐ विश्वस्य स्रष्ट्रे पालकाय हन्त्रे नमः । (बाल.३.२२)
१३५. ॐ विश्वात्मने नमः । (बाल.३.२९)
१३६. ॐ अलौकिकरूपाय नमः । (बाल.३.२९)
१३७. ॐ महानन्दाय नमः । (बाल.३.२९)
१३८. ॐ रावणं हन्तुं मानुषत्वमुपागताय नमः । (बाल.३.३१)
१३९. ॐ इन्द्रनीलाभाय नमः । (बाल.३.३५)
१४०. ॐ विशालाक्षाय नमः । (बाल.३.३५)
१४१. ॐ अतिसुन्दराय नमः । (बाल.३.३५)
१४२. ॐ बालारुणप्रतीकाशाय नमः । (बाल.३.३६)
१४३. ॐ लाळिताखिललोकपाय नमः । (बाल.३.३६)
१४४. ॐ राजीवपत्राक्षाय नमः । (बाल.३.३७)
१४५. ॐ फाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभाय नमः । (बाल.३.४४)
१४६. ॐ कण्ठे रत्नमणिव्रातमद्ध्यद्वीपिनखाञ्चिताय नमः । (बाल.३.४४)
१४७. ॐ कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकाय नमः । (बाल.३.४५)
१४८. ॐ शिञ्जानमणिमञ्जीरकटिसूत्राङ्गदैर्वृताय नमः । (बाल.३.४५)
१४९. ॐ स्मितवक्त्राल्पदशनाय नमः । (बाल.३.४६)
१५०. ॐ इन्द्रनीलमणिप्रभाय नमः । (बाल.३.४६)
१५१. ॐ तर्णकाननु सर्वतः अङ्गणे रिङ्गमाणाय नमः । (बाल.३.४६)
१५२. ॐ बालभावं समाश्रिताय नमः । (बाल.३.५७)
१५३. ॐ रघुनाथाय नमः । (बाल.३.५७)
१५४. ॐ आनन्दसन्दोहाय नमः । (बाल.३.५८)
१५५. ॐ जगदानन्दकारकाय नमः । (बाल.३.५८)
१५६. ॐ मातरं पितरं च रमयते नमः । (बाल.३.५९)
१५७. ॐ मायाबालवपुषे नमः । (बाल.३.५९)
१५८. ॐ सर्वशास्त्रार्थवेदिने नमः । (बाल.३.६०)
१५९. ॐ सर्वविद्याविशारदाय नमः । (बाल.३.६०)
१६०. ॐ लीलया नररूपं धृतवते नमः । (बाल.३.६१)
१६१. ॐ जगतां नाथाय नमः । (बाल.३.६१)
१६२. ॐ मनुजावताराय नमः । (बाल.३.६६)
१६३. ॐ परिणामहीनाय नमः । (बाल.३.६६)
१६४. ॐ स्वमायया जाताय नमः । (बाल.४.१)
१६५. ॐ अमरतुल्याय नमः । (बाल.४.१०)
१६६. ॐ अतिवल्लभाय नमः । (बाल.४.१०)
१६७. ॐ भूमेः भारावताराय ब्रह्मणा पुरा प्रार्थिताय नमः । (बाल.४.१३)
१६८. ॐ भक्तवत्सलाय नमः । (बाल.४.१५)
१६९. ॐ वरदाय नमः । (बाल.४.१५)
१७०. ॐ भगवते नमः । (बाल.४.१५)
१७१. ॐ भूतभावनाय नमः । (बाल.४.१६)
१७२. ॐ रमानाथाय नमः । (बाल.४.२०)
१७३. ॐ राघवाय नमः । (बाल.४.२०)
१७४. ॐ सत्यपराक्रमाङ्गाय नमः । (बाल.४.२६)
१७५. ॐ ताटकायाः मुक्तिदायकाय नमः । (बाल.४.३१)
१७६. ॐ विश्वामित्रात् सर्वास्त्रजालं सरहस्यमन्त्रं स्वीकृताय
नमः । (बाल.४.३३)
१७७. ॐ विश्वामित्रेण मुनिभिः च पूजिताय नमः । (बाल.५.२)
१७८. ॐ मारीचं भ्रामयञ्छतयोजनं जलधौ पातयितवते नमः । (बाल.५.७)
१७९. ॐ सुबाहुं जितवते नमः । (बाल.५.८)
१८०. ॐ देवैः सिद्धचारणैश्च स्तुताय पुष्पैः वर्षिताय नमः । (बाल.५.९)
१८१. ॐ विश्वामित्रेण सम्पूजिताय पूजार्हाय नमः । (बाल.५.१०)
१८२. ॐ रघुनन्दनाय नमः । (बाल.५.१०)
१८३. ॐ राजीवलोचनाय नमः । (बाल.५.१६)
१८४. ॐ परमेश्वराय नमः । (बाल.५.२८)
१८५. ॐ अहल्यायाः हृदि संस्थिताय नमः । (बाल.५.२९)
१८६. ॐ दाशरथये नमः । (बाल.५.३०)
१८७. ॐ पीतकौशेयवाससे नमः । (बाल.५.३७)
१८८. ॐ रघुश्रेष्ठाय नमः । (बाल.५.३७)
१८९. ॐ शङ्खचक्रगदापङ्कजधारिणे नमः । (बाल.५.३८)
१९०. ॐ धनुर्बाणधराय नमः । (बाल.५.३८)
१९१. ॐ लक्ष्मणसमन्विताय नमः । (बाल.५.३८)
१९२. ॐ स्मितवक्त्राय नमः । (बाल.५.३९)
१९३. ॐ पद्मनेत्राय नमः । (बाल.५.३९)
१९४. ॐ श्रीवत्साङ्कितवक्षसे नमः । (बाल.५.३९)
१९५. ॐ नीलमाणिक्यसङ्काशाय नमः । (बाल.५.३९)
१९६. ॐ दशदिशः द्योतयते नमः । (बाल.५.३९)
१९७. ॐ परस्मै नमः । (बाल.५.४०)
१९८. ॐ पद्मजशङ्करादिभिः रन्धितमानसैः सदा विमृग्यमाणाय
नमः । (बाल.५.४३)
१९९. ॐ जगन्निवासाय नमः । (बाल.५.४३)
२००. ॐ जगच्चालकाय नमः । (बाल.५.४४)
२०१. ॐ सम्पूर्णाय नमः । (बाल.५.४४)
२०२. ॐ आनन्दमयाय नमः । (बाल.५.४४)
२०३. ॐ अतिमायिकाय नमः । (बाल.५.४४)
२०४. ॐ मनुजाकृतये नमः । (बाल.५.४६)
२०५. ॐ रामाभिधेयाय नमः । (बाल.५.४६)
२०६. ॐ रमणीयदेहिने नमः । (बाल.५.४६)
२०७. ॐ धनुर्धराय नमः । (बाल.५.४६)
२०८. ॐ पद्मविशाललोचनाय नमः । (बाल.५.४६)
२०९. ॐ यस्य पादपङ्कजरजः श्रुतिभिः विमृग्यते तस्मै नमः । (बाल.५.४७)
२१०. ॐ यस्य नाभिपङ्कजभवः कमलासनः तस्मै नमः । (बाल.५.४७)
२११. ॐ यस्य नामरसिको भगवान् पुरारिस्तस्मै नमः । (बाल.५.४७)
२१२. ॐ रामचन्द्राय नमः । (बाल.५.४७)
२१३. ॐ यस्यावतारचरितानि विरिञ्चिलोके नारदमुखाः भवपद्मजाद्याः
गायन्ति तस्मै नमः । (बाल.५.४८)
२१४. ॐ यस्यावतारचरितानि आनन्दाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी
च गायति तस्मै नमः । (बाल.५.४८)
२१५. ॐ पुराणपुरुषाय नमः । (बाल.५.४९)
२१६. ॐ स्वयञ्ज्योतिषे नमः । (बाल.५.४९)
२१७. ॐ लोकविमोहनीयमायातनवे नमः । (बाल.५.४९)
२१८. ॐ स्वमायागुणबिम्बिताय नमः । (बाल.५.५०)
२१९. ॐ विश्वोद्भवस्थितिसंयमकारकाय नमः । (बाल.५.५०)
२२०. ॐ विरिञ्चिविष्ण्वीश्वरनामभेदाय नमः । (बाल.५.५०)
२२१. ॐ स्वतन्त्राय नमः । (बाल.५.५०)
२२२. ॐ परिपूर्णाय नमः । (बाल.५.५०)
२२३. ॐ श्रिया वक्षसि धृतलाळिताङ्घ्रिपङ्कजाय नमः । (बाल.५.५१)
२२४. ॐ पुरा जगत्रयमेकेनाक्रान्ताङ्घ्रिपङ्कजाय नमः । (बाल.५.५१)
२२५. ॐ अभिमानवर्जितैः मुनीन्द्रैः ध्येयायाङ्घ्रिपङ्कजाय नमः । (बाल.५.५१)
२२६. ॐ जगतामादिभूताय नमः । (बाल.५.५२)
२२७. ॐ जगद्रूपाय नमः । (बाल.५.५२)
२२८. ॐ जगदाश्रयाय नमः । (बाल.५.५२)
२२९. ॐ सर्वभूतेष्वसंयुक्ताय नमः । (बाल.५.५२)
२३०. ॐ ओङ्कारवाच्याय नमः । (बाल.५.५३)
२३१. ॐ वाचामविषयाय नमः । (बाल.५.५३)
२३२. ॐ पुंसे नमः । (बाल.५.५३)
२३३. ॐ वाच्यवाचकभेदेन जगन्मयाय नमः । (बाल.५.५३)
२३४. ॐ कार्यकारणकर्त्तृत्वफलसाधनभेदतः मायया बहुरूपया
विभासमानाय नमः । (बाल.५.५४)
२३५. ॐ मायिने नमः । (बाल.५.५५)
२३६. ॐ आकाशवत् सर्वत्र बहिरन्तर्गताय नमः । (बाल.५.५६)
२३७. ॐ असङ्गाय नमः । (बाल.५.५६)
२३८. ॐ अचलाय नमः । (बाल.५.५६)
२३९. ॐ नित्याय नमः । (बाल.५.५६)
२४०. ॐ बुद्धाय नमः । (बाल.५.५६)
२४१. ॐ शुद्धाय नमः । (बाल.५.५६)
२४२. ॐ सदव्ययाय नमः । (बाल.५.५६)
२४३. ॐ पुरुषाध्यक्षाय नमः । (बाल.५.५९)
२४४. ॐ हृषीकेशाय नमः । (बाल.५.५९)
२४५. ॐ भवभयहराय नमः । (बाल.५.६०)
२४६. ॐ भानुकोटिप्रकाशाय नमः । (बाल.५.६०)
२४७. ॐ करधृतशरचापाय नमः । (बाल.५.६०)
२४८. ॐ काळमेघावभासाय नमः । (बाल.५.६०)
२४९. ॐ कनकरुचिरवस्त्राय नमः । (बाल.५.६०)
२५०. ॐ रत्नवत्कुण्डलाढ्याय नमः । (बाल.५.६०)
२५१. ॐ गौतमशापात् मोचिताहल्यया स्तुताय नमः । (बाल.५.६१)
२५२. ॐ रघुपतये नमः । (बाल.५.६५)
२५३. ॐ कौशिकेन सह मिथिलां प्राप्तवते नमः । (बाल.६.५)
२५४. ॐ नरशार्दूलाय नमः । (बाल.६.९)
२५५. ॐ देवसुतोपमाय नमः । (बाल.६.९)
२५६. ॐ धर्मज्ञेन जनकराज्ञा पूजिताय नमः । (बाल.६.१७)
२५७. ॐ अमिततेजसे नमः । (बाल.६.२१)
२५८. ॐ अखिलहृत्साराय नमः । (बाल.६.२५)
२५९. ॐ शैवचापभञ्जकाय नमः । (बाल.६.२५)
२६०. ॐ सीतया स्वर्णमयीं मालां उपरि निक्षिप्य वृताय नमः । (बाल.६.३१)
२६१. ॐ दिव्यरत्नाञ्चिते स्वर्णपीठे निवेशिताय नमः । (बाल.६.४८)
२६२. ॐ जनकार्पितां सीतां पाणिग्रहणविधानतः स्वीकृतवते नमः । (बाल.६.५३)
२६३. ॐ विभवे नमः । (बाल.६.६१)
२६४. ॐ मायामानुषवेषधृचे नमः । (बाल.६.६४)
२६५. ॐ रविवत् भ्राजमानाय नमः । (बाल.६.७१)
२६६. ॐ एकासनस्थाय सीतासमेताय नमः । (बाल.६.७१)
२६७. ॐ महात्मने नमः । (बाल.६.७६)
२६८. ॐ रघुवंशजाय नमः । (बाल.७.१३)
२६९. ॐ भार्गवदत्तवैष्णवधनुषि गुणं आरोपितवते नमः । (बाल.७.१६)
२७०. ॐ भार्गवदर्पघ्नाय नमः । (बाल.७.१९)
२७१. ॐ महाबाहवे नमः । (बाल.७.२०)
२७२. ॐ जगत्सर्गलयोद्भवाय नमः । (बाल.७.२१)
२७३. ॐ शङ्खचक्रगदाधराय नमः । (बाल.७.२३)
२७४. ॐ प्रसन्नमुखपङ्कजाय नमः । (बाल.७.२३)
२७५. ॐ देवेशाय नमः । (बाल.७.२३)
२७६. ॐ ब्रह्मणार्थितो जाताय नमः । (बाल.७.२९)
२७७. ॐ अज्ञानसम्भवजन्मादिषड्भावरहिताय नमः । (बाल.७.३१)
२७८. ॐ गमनादिविवर्जिताय नमः । (बाल.७.३१)
२७९. ॐ भक्तिभावनाय नमः । (बाल.७.४४)
२८०. ॐ कारुणिकाय नमः । (बाल.७.४४)
२८१. ॐ प्रसन्नाय नमः । (बाल.७.४६)
२८२. ॐ करुणामयाय नमः । (बाल.७.४६)
२८३. ॐ मधुसूदनाय नमः । (बाल.७.४८)
२८४. ॐ भार्गवरामेण पूजिताय नमः । (बाल.७.५०)
२८५. ॐ अखिलजननिकरानन्दसन्दोहमूर्तये नमः । (बाल.७.५७)
२८६. ॐ नित्यश्रिये नमः । (बाल.७.५७)
२८७. ॐ निरवधिविभवाय नमः । (बाल.७.५७)
२८८. ॐ नित्यमायानिरासाय नमः । (बाल.७.५७)
२८९. ॐ मायाकार्यानुसारिणे नमः । (बाल.७.५७)
२९०. ॐ मनुज इव सदा भासमानाय नमः । (बाल.७.५७)
२९१. ॐ अखिलेशाय नमः । (बाल.७.५७)
२९२. ॐ सर्वाभरणसम्पन्नाय नमः । (अयोध्या.१.१)
२९३. ॐ रत्नसिंहासने स्थिताय नमः । (अयोध्या.१.१)
२९४. ॐ कौस्तुभामुक्तकन्धराय नमः । (अयोध्या.१.२)
२९५. ॐ सीतया रत्नदण्डचामरेण वीजिताय नमः । (अयोध्या.१.२)
२९६. ॐ जगतामादिभूताय नमः । (अयोध्या.१.१०)
२९७. ॐ यस्य गृहिणी माया तस्मै नमः । (अयोध्या.१.१०)
२९८. ॐ लोकत्रयमहागेहगृहस्थाय नमः । (अयोध्या.१.१२)
२९९. ॐ लक्ष्मीविष्णुरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१३)
३००. ॐ शिवाशिवरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१३)
३०१. ॐ वाणीब्रह्मरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१३)
३०२. ॐ प्रभासूर्यरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१३)
३०३. ॐ रोहिणीशशाङ्करूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१४)
३०४. ॐ पौलोमीशक्ररूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१४)
३०५. ॐ स्वाहानलरूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१४)
३०६. ॐ संयमनीयमरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१५)
३०७. ॐ तामसीनिरृतिरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१५)
३०८. ॐ कालरूपाय नमः । (अयोध्या.१.१५)
३०९. ॐ भार्गवीवरुणरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१६)
३१०. ॐ सदागतिवायुरूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१६)
३११. ॐ सर्वसम्पत्कुबेररूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१७)
३१२. ॐ रुद्राणीरुद्ररूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१७)
३१३. ॐ सर्वपुन्नामवाचकरूपाय रामाय सर्वस्त्रीवाचकरूपायै सीतायै
च नमः । (अयोध्या.१.१८)
३१४. ॐ लोकत्रये सर्वरूपाभ्यां देवीदेवाभ्यां सीतारामाभ्यां
नमः । (अयोध्या.१.१९)
३१५. ॐ जगन्मयाय नमः । (अयोध्या.१.२२)
३१६. ॐ स्थूलसूक्ष्मकारणाख्योपाधित्रयविमुक्ताय नमः । (अयोध्या.१.२३)
३१७. ॐ जाग्रत्स्वप्नसुषुप्तिविलक्षणाय नमः । (अयोध्या.१.२४)
३१८. ॐ साक्षिणे नमः । (अयोध्या.१.२४)
३१९. ॐ चिन्मात्राय नमः । (अयोध्या.१.२४)
३२०. ॐ यतः जगज्जातं यस्मिन् सर्वं प्रतिष्ठितं यस्मिन् कृत्स्नं
लीयते तस्मै नमः । (अयोध्या.१.२५)
३२१. ॐ सर्वकारणाय नमः । (अयोध्या.१.२५)
३२२. ॐ सर्वप्रकाशकाय नमः । (अयोध्या.१.२७)
३२३. ॐ सर्वस्यात्मने नमः । (अयोध्या.१.२७)
३२४. ॐ रावणस्य वधार्थं जाताय नमः । (अयोध्या.१.३३)
३२५. ॐ रघुसत्तमाय नमः । (अयोध्या.१.३३)
३२६. ॐ सर्वगुणोपेताय नमः । (अयोध्या.२.३)
३२७. ॐ लक्ष्म्या सह सञ्जाताय नमः । (अयोध्या.२.२३)
३२८. ॐ देवकार्यार्थसिद्ध्यर्थं जाताय नमः । (अयोध्या.२.२४)
३२९. ॐ भक्तानां भक्तिसिद्ध्यर्थं जाताय नमः । (अयोध्या.२.२४)
३३०. ॐ गुरूणां गुरवे नमः । (अयोध्या.२.२६)
३३१. ॐ पितॄणां पितामहाय नमः । (अयोध्या.२.२६)
३३२. ॐ अन्तर्यामिणे नमः । (अयोध्या.२.२७)
३३३. ॐ जगद्यात्रावाहकाय नमः । (अयोध्या.२.२७)
३३४. ॐ शुद्धसत्वमयाय नमः । (अयोध्या.२.२७)
३३५. ॐ स्वाधीनसम्भवदेहधारिणे नमः । (अयोध्या.२.२७)
३३६. ॐ योगमायया लोके मनुष्य इव भासते नमः । (अयोध्या.२.२८)
३३७. ॐ कमलेक्षणाय नमः । (अयोध्या.३.२६)
३३८. ॐ ईक्ष्वाकुकुलजाताय नमः । (अयोध्या.२.२९)
३३९. ॐ सर्वाभरणसम्पन्नाय नमः । (अयोध्या.३.३८)
३४०. ॐ किरीटकटकोज्ज्वलाय नमः । (अयोध्या.३.३८)
३४१. ॐ कौस्तुभाभरणभूषिताय नमः । (अयोध्या.३.३८)
३४२. ॐ श्यामाय नमः । (अयोध्या.३.३८)
३४३. ॐ कन्दर्पशतसुन्दराय नमः । (अयोध्या.३.३८)
३४४. ॐ गजारूढाय नमः । (अयोध्या.३.४०)
३४५. ॐ स्मिताननाय नमः । (अयोध्या.३.४०)
३४६. ॐ श्वेतच्छत्रधराय नमः । (अयोध्या.३.४०)
३४७. ॐ सुन्दराय नमः । (अयोध्या.३.४७)
३४८. ॐ दशरथप्राणवल्लभाय नमः । (अयोध्या.३.४७)
३४९. ॐ अन्तःस्थाय नमः । (अयोध्या.३.८०)
३५०. ॐ घनचित्प्रकाशाय नमः । (अयोध्या.३.८०)
३५१. ॐ निरस्तसर्वातिशयस्वरूपाय नमः । (अयोध्या.३.८०)
३५२. ॐ सदानन्दमयाय नमः । (अयोध्या.३.८०)
३५३. ॐ नीलोत्पलच्छविगात्राय नमः । (अयोध्या.४.३)
३५४. ॐ अरिन्दमाय नमः । (अयोध्या.४.१६)
३५५. ॐ लक्ष्मणरोषशान्त्यर्थं आत्मोपदेशं कृतवते
नमः । (अयोध्या.४.१८)
३५६. ॐ देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणाय
नमः । (अयोध्या.४.३८)
३५७. ॐ अविकारिणे नमः । (अयोध्या.४.३९)
३५८. ॐ निराकृतये नमः । (अयोध्या.४.३९)
३५९. ॐ कामसहस्रसुन्दरवपुषे नमः । (अयोध्या.४.८७)
३६०. ॐ कान्त्या दिशो भासयते नमः । (अयोध्या.४.८७)
३६१. ॐ पादन्यासादखिलजगत् पवित्रीकुर्वते नमः । (अयोध्या.४.८७)
३६२. ॐ जानकीलक्ष्मणसमेताय नमः । (अयोध्या.५.१)
३६३. ॐ सत्यस्वरूपाय नमः । (अयोध्या.५.३)
३६४. ॐ प्रियङ्कराय नमः । (अयोध्या.५.३)
३६५. ॐ सर्वलोकैकसुन्दराय नमः । (अयोध्या.५.७)
३६६. ॐ आदिनारायणाय नमः । (अयोध्या.५.११)
३६७. ॐ रजोयुक्ताय विश्वभावनाय ब्रह्मरूपाय नमः । (अयोध्या.५.१३)
३६८. ॐ सत्वाविष्टाय त्रिजगत्पालकाय विष्णुरूपाय नमः । (अयोध्या.५.१३)
३६९. ॐ अन्ते जगत्प्रळयकारणाय तामसाय रुद्ररूपाय नमः । (अयोध्या.५.१३)
३७०. ॐ वैवस्वतमनुपालकाय मत्स्यरूपाय नमः । (अयोध्या.५.१४)
३७१. ॐ मन्दराद्रिं स्वपृष्ठे धृतवते कूर्मरूपिणे नमः । (अयोध्या.५.१६)
३७२. ॐ रसातलात् दंष्ट्राग्रे क्षोणीं उद्धृतवते सूकररूपिणे
नमः । (अयोध्या.५.१७)
३७३. ॐ प्रह्ळादवरदाय नारसिंहवपुषे नमः । (अयोध्या.५.१७)
३७४. ॐ अदित्या याचितो बलिनाहृतं पुत्रराज्यं छलेन हर्तुं
वामनत्वमुपागताय नमः । (अयोध्या.५.१८)
३७५. ॐ दुष्टक्षत्रियभारनिवृत्यै भार्गवरूपं धृतवते
नमः । (अयोध्या.५.१९)
३७६. ॐ रावणादिवधाय मानुषरूपं धृतवते नमः । (अयोध्या.५.२२)
३७७. ॐ विज्ञानपूर्विकादृढभक्तिसिद्ध्यर्थं सीतारामाभ्यां
नमः । (अयोध्या.५.३१)
३७८. ॐ गङ्गातीरं समागताय सीतासमन्विताय नमः । (अयोध्या.५.५९)
३७९. ॐ गुहसख्ये नमः । (अयोध्या.५.६८)
३८०. ॐ लक्ष्मणेन कुशपर्णाद्यैः आस्तृतं शयनं सीतया सह
उवासितवते नमः । (अयोध्या.५.७१)
३८१. ॐ सभार्याय सानुजाय नमः । (अयोध्या.६.३२)
३८२. ॐ देवसन्निभाय नमः । (अयोध्या.६.३२)
३८३. ॐ कार्यमानुषाय नमः । (अयोध्या.६.३७)
३८४. ॐ ब्रह्मणा प्रार्थितोऽवतीर्णाय नमः । (अयोध्या.६.३८)
३८५. ॐ लोकसुन्दराय नमः । (अयोध्या.६.४५)
३८६. ॐ जटामकुटमण्डिताय नमः । (अयोध्या.६.४६)
३८७. ॐ कन्दर्पसदृशाकाराय नमः । (अयोध्या.६.४६)
३८८. ॐ कमनीयाम्बुजेक्षणाय नमः । (अयोध्या.६.४६)
३८९. ॐ जानकीलक्ष्मणोपेताय नमः । (अयोध्या.६.४६)
३९०. ॐ सर्वगुहाशयस्थाय नमः । (अयोध्या.६.६२)
३९१. ॐ चिद्घनाय नमः । (अयोध्या.६.६२)
३९२. ॐ अलेपकाय नमः । (अयोध्या.६.६२)
३९३. ॐ सर्वगताय नमः । (अयोध्या.६.६२)
३९४. ॐ वरेण्याय नमः । (अयोध्या.६.६२)
३९५. ॐ रघुकुलोत्तमाय नमः । (अयोध्या.६.८६)
३९६. ॐ राजीवपत्राक्षाय नमः । (अयोध्या.६.८८)
३९७. ॐ वाल्मीकिना सुपूजिताय सीतालक्ष्मणसमेताय नमः । (अयोध्या.६.९२)
३९८. ॐ गुणनिधये नमः । (अयोध्या.७.५)
३९९. ॐ रघुरामचन्द्राय नमः । (अयोध्या.७.८५)
४००. ॐ चीराम्बराय नमः । (अयोध्या.७.८५)
४०१. ॐ बद्धजटाकलापाय नमः । (अयोध्या.७.८५)
४०२. ॐ रघुवंशनाथाय नमः । (अयोध्या.७.८६)
४०३. ॐ षड्भावरहिताय नमः । (अयोध्या.७.१०६)
४०४. ॐ सत्यप्रज्ञानविग्रहाय नमः । (अयोध्या.७.१०६)
४०५. ॐ आनन्दरूपाय नमः । (अयोध्या.७.१०६)
४०६. ॐ बुद्ध्यादिसाक्षिणे नमः । (अयोध्या.७.१०६)
४०७. ॐ लयविवर्जिताय नमः । (अयोध्या.७.१०६)
४०८. ॐ अद्वितीयाय नमः । (अयोध्या.७.१०७)
४०९. ॐ समस्थितायात्मने नमः । (अयोध्या.७.१०७)
४१०. ॐ स्मितरुचिरमुखाय नमः । (अयोध्या.७.११४)
४११. ॐ राजाधिराजाय नमः । (अयोध्या.८.६)
४१२. ॐ दूर्वादळश्यामळाय नमः । (अयोध्या.९.५)
४१३. ॐ आयतेक्षणाय नमः । (अयोध्या.९.५)
४१४. ॐ जटाकिरीटाय नमः । (अयोध्या.९.५)
४१५. ॐ नववल्कलाम्बराय नमः । (अयोध्या.९.५)
४१६. ॐ तरुणारुणद्युतये नमः । (अयोध्या.९.५)
४१७. ॐ प्रसन्नवक्त्राय नमः । (अयोध्या.९.५)
४१८. ॐ शुभां जनकात्मजां विलोकयते नमः । (अयोध्या.९.६)
४१९. ॐ सौमित्रिणा सेवितपादपङ्कजाय नमः । (अयोध्या.९.६)
४२०. ॐ ब्रह्मणा याचितो रावणस्य वधार्थं जाताय नमः । (अयोध्या.९.४३)
४२१. ॐ दशरथात्मजाय नमः । (अयोध्या.९.४३)
४२२. ॐ अव्यक्ताय नमः । (अयोध्या.९.५७)
४२३. ॐ मायामानुषरूपेण जगत् मोहयते नमः । (अयोध्या.९.५७)
४२४. ॐ देवानामप्यगोचराय नमः । (अयोध्या.९.६०)
४२५. ॐ विश्वेशराय नमः । (अयोध्या.९.६१)
४२६. ॐ सर्वत्र समदृशे नमः । (अयोध्या.९.६५)
४२७. ॐ द्वेष्यप्रियरहिताय नमः । (अयोध्या.९.६५)
४२८. ॐ भरतेन नन्दिग्रामे पादुके स्थाप्य भक्तितः पूजिताय
नमः । (अयोध्या.९.७१)
४२९. ॐ अरिनिषूदनाय नमः । (अयोध्या.९.८५)
४३०. ॐ सुराश्रयाय नमः । (आरण्य.१.३)
४३१. ॐ सर्वस्य मार्गद्रष्ट्रे नमः । (आरण्य.१.४)
४३२. ॐ सीताराघवलक्ष्मणेभ्यो नमः । (आरण्य.१.८)
४३३. ॐ विराधशिरःछेदकाय नमः । (आरण्य.१.३३)
४३४. ॐ विद्याधररूपविराधेन स्तुताय नमः । (आरण्य.१.३३)
४३५. ॐ प्रणतार्तिहारिणे नमः । (आरण्य.१.३७)
४३६. ॐ भवप्रवाहोपरमाय नमः । (आरण्य.१.३७)
४३७. ॐ घृणाकराय नमः । (आरण्य.१.३७)
४३८. ॐ प्रपन्नसर्वार्तिहराय नमः । (आरण्य.१.३७)
४३९. ॐ प्रसन्नधिये नमः । (आरण्य.१.३७)
४४०. ॐ राजीवदळायताक्षाय नमः । (आरण्य.१.३८)
४४१. ॐ विशुद्धज्ञानमूर्तये नमः । (आरण्य.१.४१)
४४२. ॐ आत्मारामाय नमः । (आरण्य.१.४१)
४४३. ॐ वेधसे नमः । (आरण्य.१.४१)
४४४. ॐ विराधमोक्षदायकाय रामाय नमः । (आरण्य.१.४४)
४४५. ॐ भक्तपरायणाय नमः । (आरण्य.२.४)
४४६. ॐ अशेषहृद्स्थाय नमः । (आरण्य.२.७)
४४७. ॐ अम्बुजाक्षाय नमः । (आरण्य.२.७)
४४८. ॐ स्निग्द्धजटाकलापाय नमः । (आरण्य.२.७)
४४९. ॐ दयालवे नमः । (आरण्य.२.८)
४५०. ॐ स्मृतकामधेनवे नमः । (आरण्य.२.८)
४५१. ॐ रघुनायकाय नमः । (आरण्य.२.८)
४५२. ॐ प्रभवे नमः । (आरण्य.२.९)
४५३. ॐ अयोध्याधिपतये नमः । (आरण्य.२.१०)
४५४. ॐ यं ध्यात्वा शरभङ्गो वपुरत्यजत् तस्मै नमः । (आरण्य.२.११)
४५५. ॐ लोकपतये नमः । (आरण्य.२.१२)
४५६. ॐ जानकीरामलक्ष्मणेभ्यो नमः । (आरण्य.२.१३)
४५७. ॐ मायामानुषरूपिणे नमः । (आरण्य.२.१३)
४५८. ॐ सर्वहृदिस्थिताय नमः । (आरण्य.२.१४)
४५९. ॐ भूमेर्भारावतारायावतीर्णाय नमः । (आरण्य.२.१५)
४६०. ॐ वधायाशेषरक्षसां प्रतिज्ञाकारिणे नमः । (आरण्य.२.२२)
४६१. ॐ मुनिभिर्वनवासिभिः सदा पूज्यमानाय नमः । (आरण्य.२.२३)
४६२. ॐ अगस्त्यशिष्येण सुतीक्ष्णेन पूजिताय नमः । (आरण्य.२.२६)
४६३. ॐ अनन्तगुणायाप्रमेयाय नमः । (आरण्य.२.२७)
४६४. ॐ शिवविरिञ्चिसमाश्रिताङ्घ्रये नमः । (आरण्य.२.२७)
४६५. ॐ संसारसिन्धुतरणामलपोतपादाय रामाभिरामाय नमः । (आरण्य.२.२७)
४६६. ॐ सर्वजगतामविगोचराय नमः । (आरण्य.२.२८)
४६७. ॐ सर्वभूतहृदयेषु कृतालयाय नमः । (आरण्य.२.२९)
४६८. ॐ विश्वसृष्टिलयसंस्थितिहेतवे नमः । (आरण्य.२.३०)
४६९. ॐ त्रिगुणया मायया विधिरीशविष्णुरूपधारिणे नमः । (आरण्य.२.३०)
४७०. ॐ तमसः परतः स्थिताय नमः । (आरण्य.२.३१)
४७१. ॐ असतामविगोचराय नमः । (आरण्य.२.३१)
४७२. ॐ राममन्त्रपूतहृदयेषु सदा प्रसन्नाय नमः । (आरण्य.२.३१)
४७३. ॐ मायाविडम्बनकृतसुमनुष्यवेषाय नमः । (आरण्य.२.३२)
४७४. ॐ कन्दर्पकोटिसुभगाय नमः । (आरण्य.२.३२)
४७५. ॐ कमनीयाय नमः । (आरण्य.२.३२)
४७६. ॐ चापबाणधराय नमः । (आरण्य.२.३२)
४७७. ॐ दयार्द्रहृदयाय नमः । (आरण्य.२.३२)
४७८. ॐ स्मितचारुवक्त्राय नमः । (आरण्य.२.३२)
४७९. ॐ अजिनाम्बराय नमः । (आरण्य.२.३३)
४८०. ॐ अप्रधृष्याय नमः । (आरण्य.२.३३)
४८१. ॐ सौमित्रिणा नियतसेवितपादपद्माय नमः । (आरण्य.२.३३)
४८२. ॐ नीलोत्पलद्युतये नमः । (आरण्य.२.३३)
४८३. ॐ अनन्तगुणाय नमः । (आरण्य.२.३३)
४८४. ॐ प्रशान्ताय नमः । (आरण्य.२.३३)
४८५. ॐ अशेषदेशकालाद्युपाधिरहितरूपाय नमः । (आरण्य.२.३४)
४८६. ॐ घनचित्प्रकाशाय नमः । (आरण्य.२.३४)
४८७. ॐ अगस्त्यानुजेन सम्पूजिताय नमः । (आरण्य.३.२)
४८८. ॐ अगस्त्यहृदिस्थाय नमः । (आरण्य.३.१०)
४८९. ॐ अगस्त्येन बहुविस्तरपूजया सम्पूजिताय नमः । (आरण्य.३.१६)
४९०. ॐ शशिनिभाननाय रामाय नमः । (आरण्य.३.१७)
४९१. ॐ सृष्टेः प्रागेव योऽऽसीत् तस्मै नमः । (आरण्य.३.२०)
४९२. ॐ निर्विकल्पाय नमः । (आरण्य.३.२०)
४९३. ॐ अनुपाधिकाय नमः । (आरण्य.३.२०)
४९४. ॐ निर्गुणोऽपि शक्त्यावृताय नमः । (आरण्य.३.२१)
४९५. ॐ अव्याकृताह्वयाय नमः । (आरण्य.३.२१)
४९६. ॐ रजोगुणतः जगतः सर्वकारणाय ब्रह्मणे नमः । (आरण्य.३.२८)
४९७. ॐ सत्वात् पालकाय विष्णुरूपाय नमः । (आरण्य.३.२९)
४९८. ॐ लये रुद्ररूपाय नमः । (आरण्य.३.२९)
४९९. ॐ जाग्रत्स्वप्नसुषुप्तिवृत्तिविलक्षणाय नमः । (आरण्य.३.३०)
५००. ॐ अगस्त्येन संस्तुताय नमः । (आरण्य.३.४६)
५०१. ॐ रघुकुलोद्वहाय नमः । (आरण्य.३.४८)
५०२. ॐ अशेषविद्धरये नमः । (आरण्य.३.५०)
५०३. ॐ लक्ष्मणस्य मोक्षोपदेशं कृतवते नमः । (आरण्य.४.१७)
५०४. ॐ कमलपत्राक्षाय नमः । (आरण्य.४.१७)
५०५. ॐ निरामयाय नमः । (आरण्य.४.३०)
५०६. ॐ बुद्धिप्राणमनोदेहाहङ्कृतिभ्यो विलक्षणाय नमः । (आरण्य.४.३८)
५०७. ॐ नित्यशुद्धबुद्धाय नमः । (आरण्य.४.३८)
५०८. ॐ चिदात्मने नमः । (आरण्य.४.३८)
५०९. ॐ सर्वत्रपूर्णाय नमः । (आरण्य.४.४०)
५१०. ॐ चिदानन्दात्मकाय नमः । (आरण्य.४.४०)
५११. ॐ स्वप्रकाशेन देहादीन् भासयते नमः । (आरण्य.४.४१)
५१२. ॐ अनपावृताय नमः । (आरण्य.४.४१)
५१३. ॐ सत्यज्ञानादिलक्षणाय नमः । (आरण्य.४.४१)
५१४. ॐ जगतीपतये नमः । (आरण्य.५.२)
५१५. ॐ अयोद्ध्याधिपतेः सुताय रामनाम्ने नमः । (आरण्य.५.८)
५१६. ॐ राज्ञे नमः । (आरण्य.५.१७)
५१७. ॐ अखिलेश्वराय नमः । (आरण्य.५.१७)
५१८. ॐ शूर्पणखानासाकर्णछेदकारकाय नमः । (आरण्य.५.२०)
५१९. ॐ खरत्रिशिरःदूषणहन्त्रे नमः । (आरण्य.५.३५)
५२०. ॐ असुरशत्रवे नमः । (आरण्य.५.४४)
५२१. ॐ जटावल्कलमण्डिताय नमः । (आरण्य.५.४७)
५२२. ॐ श्रीमते नमः । (आरण्य.५.४७)
५२३. ॐ बलशालिने नमः । (आरण्य.५.५२)
५२४. ॐ त्रैलोक्यं निमिषार्द्धेन भस्मीकर्तुं क्षमाय नमः । (आरण्य.५.५३)
५२५. ॐ द्रुहिणेन सम्प्रार्थिताय रघुकुलोत्भूताय मनुष्यरूपधारिणे
नमः । (आरण्य.५.५९)
५२६. ॐ साकेताधिपतेः दशरथस्य ज्येष्ठसुताय रामनाम्ने
नमः । (आरण्य.६.७)
५२७. ॐ सत्यपराक्रमाय नमः । (आरण्य.६.७)
५२८. ॐ परमकारुणिकाय नमः । (आरण्य.६.२५)
५२९. ॐ दशकन्धरवधार्थं ब्रह्मणार्थितो दशरथात्मजवपुर्धृतवते
नमः । (आरण्य.६.२७)
५३०. ॐ अरविन्दलोचनाय नमः । (आरण्य.६.२७)
५३१. ॐ साक्षान्नारायणाय नमः । (आरण्य.६.२८)
५३२. ॐ सत्यसङ्कल्पाय नमः । (आरण्य.६.३१)
५३३. ॐ भक्तानुकम्पिने नमः । (आरण्य.७.१३)
५३४. ॐ पूर्णकामाय नमः । (आरण्य.७.१४)
५३५. ॐ विदितात्मने नमः । (आरण्य.७.१४)
५३६. ॐ मायामारीचहन्त्रे नमः । (आरण्य.७.१८)
५३७. ॐ अमरपूजिताय नमः । (आरण्य.७.३१)
५३८. ॐ सर्वलक्षणलक्षिताय नमः । (आरण्य.७.४२)
५३९. ॐ लोकनाथाय नमः । (आरण्य.७.५५)
५४०. ॐ सर्वज्ञाय नमः । (आरण्य.८.१९)
५४१. ॐ निर्ममाय नमः । (आरण्य.८.२०)
५४२. ॐ निरहङ्काराय नमः । (आरण्य.८.२०)
५४३. ॐ अखण्डानन्दरूपवते नमः । (आरण्य.८.२०)
५४४. ॐ असक्ताय नमः । (आरण्य.८.२१)
५४५. ॐ अरिविमर्दनाय नमः । (आरण्य.८.२८)
५४६. ॐ मायामनुजरूपधृचे नमः । (आरण्य.८.३४)
५४७. ॐ जटायोः विष्णुपदं दत्तवते नमः । (आरण्य.८.४०)
५४८. ॐ अगणितगुणायाप्रमेयाय नमः । (आरण्य.८.४४)
५४९. ॐ सकलजगत्स्थितिसंयमादिहेतवे नमः । (आरण्य.८.४४)
५५०. ॐ उपरमपरमाय नमः । (आरण्य.८.४४)
५५१. ॐ परात्मभूताय नमः । (आरण्य.८.४४)
५५२. ॐ निरवधिसुखाय नमः । (आरण्य.८.४५)
५५३. ॐ इन्दिराकटाक्षाय नमः । (आरण्य.८.४५)
५५४. ॐ सुरेन्द्रचतुर्मुखादिदुःखं क्षपिताय नमः । (आरण्य.८.४५)
५५५. ॐ नरवराय नमः । (आरण्य.८.४५)
५५६. ॐ वरचापबाणहस्ताय नमः । (आरण्य.८.४५)
५५७. ॐ ईड्याय नमः । (आरण्य.८.४६)
५५८. ॐ त्रिभुवनकमनीयरूपाय नमः । (आरण्य.८.४६)
५५९. ॐ रविशतभासुराय नमः । (आरण्य.८.४६)
५६०. ॐ ईहितप्रदानाय नमः । (आरण्य.८.४६)
५६१. ॐ शरणदाय नमः । (आरण्य.८.४६)
५६२. ॐ सुरागमूले कृतनिलयाय नमः । (आरण्य.८.४६)
५६३. ॐ भवविपिनदवाग्निनामधेयाय नमः । (आरण्य.८.४७)
५६४. ॐ भवमुखदैवतदैवताय नमः । (आरण्य.८.४७)
५६५. ॐ दनुजपतिसहस्रकोटिनाशकाय नमः । (आरण्य.८.४७)
५६६. ॐ रवितनयासदृशाय नमः । (आरण्य.८.४७)
५६७. ॐ अविरतभवभावनातिदूराय नमः । (आरण्य.८.४८)
५६८. ॐ भवविमुखैर्मुनिभिः सदा दृश्याय नमः । (आरण्य.८.४८)
५६९. ॐ भवजलधिसुतारणाङ्घ्रिपोताय नमः । (आरण्य.८.४८)
५७०. ॐ गिरिशगिरिसुतामनोनिवासाय नमः । (आरण्य.८.४९)
५७१. ॐ गिरिवरधारिणे नमः । (आरण्य.८.४९)
५७२. ॐ ईहिताभिरामाय नमः । (आरण्य.८.४९)
५७३. ॐ सुरवरदनुजेन्द्रसेविताङ्घ्रये नमः । (आरण्य.८.४९)
५७४. ॐ सुरवरदाय नमः । (आरण्य.८.४९)
५७५. ॐ परधनपरदारवर्जितानां सुसेव्याय नमः । (आरण्य.८.५०)
५७६. ॐ परगुणभूतिषु तुष्टमानसानां सुसेव्याय नमः । (आरण्य.८.५०)
५७७. ॐ परहितनिरतात्मनां सुसेव्याय नमः । (आरण्य.८.५०)
५७८. ॐ अम्बुजलोचनाय नमः । (आरण्य.८.५०)
५७९. ॐ रघुवराय नमः । (आरण्य.८.५०)
५८०. ॐ स्मितरुचिरविकासिताननाब्जाय नमः । (आरण्य.८.५१)
५८१. ॐ सुरराजनीलनीलाय नमः । (आरण्य.८.५१)
५८२. ॐ स्मृतिसुलभाय नमः । (आरण्य.८.५१)
५८३. ॐ सितजलरुहचारुनेत्रशोभाय नमः । (आरण्य.८.५१)
५८४. ॐ ईशगुरोः गुरवे नमः । (आरण्य.८.५१)
५८५. ॐ हरिकमलजशम्भुरूपभेदात् गुणत्रयानुवृत्ताय नमः । (आरण्य.८.५२)
५८६. ॐ जलपूरितोदपात्रेषु रविरिव विभासते नमः । (आरण्य.८.५२)
५८७. ॐ अमरपतिस्तुतिपात्राय नमः । (आरण्य.८.५२)
५८८. ॐ रतिपतिशतकोटिसुन्दराङ्गाय नमः । (आरण्य.८.५३)
५८९. ॐ शतपथगोचरभावनाविदूराय नमः । (आरण्य.८.५३)
५९०. ॐ यतिपतिहृदये सदा विभासते नमः । (आरण्य.८.५३)
५९१. ॐ आर्तिहराय नमः । (आरण्य.८.५३)
५९२. ॐ जटायुस्तुत्या प्रसन्नाय नमः । (आरण्य.८.५४)
५९३. ॐ कबन्धबाहुछेदकाय नमः । (आरण्य.९.९)
५९४. ॐ स्वयं नारायणाय नमः । (आरण्य.९.१९)
५९५. ॐ शापमुक्तकबन्धेन स्तुताय नमः । (आरण्य.९.२९)
५९६. ॐ अनाद्यन्ताय नमः । (आरण्य.९.३०)
५९७. ॐ मनोवाचामगोचराय नमः । (आरण्य.९.३०)
५९८. ॐ सूक्ष्मरूपाय नमः । (आरण्य.९.३१)
५९९. ॐ अव्यक्ताय नमः । (आरण्य.९.३१)
६००. ॐ देहद्वयविलक्षणाय नमः । (आरण्य.९.३१)
६०१. ॐ यस्य सूक्ष्मदेहो हिरण्यगर्भः स्थूलं विराट् च तस्मै
नमः । (आरण्य.९.३३)
६०२. ॐ ध्यातृमङ्गळाय भावनाविषयाय नमः । (आरण्य.९.३४)
६०३. ॐ यस्य उत्तरगुणैः महदादिभिः सप्तभिरावृते स्थूले अण्डकोशे देहे
धारणाश्रयः वैराजः पुरुषः विद्यते तस्मै नमः । (आरण्य.९.३५)
६०४. ॐ यस्य अवयवाः लोकाः स्मृताः तस्मै सर्वकैवल्याय विराजे
नमः । (आरण्य.९.३६)
६०५. ॐ यस्य पादमूलं पाताळं तस्मै विराजे नमः । (आरण्य.९.३६)
६०६. ॐ यस्य पार्ष्णिः महातलं तस्मै विराजे नमः । (आरण्य.९.३६)
६०७. ॐ यस्य गुल्फौ रसातलतलातलौ तस्मै विराजे नमः । (आरण्य.९.३७)
६०८. ॐ यस्य जानुनी सुतलं तस्मै विराजे नमः । (आरण्य.९.३७)
६०९. ॐ यस्य ऊरू वितलातलौ तस्मै विराजे नमः । (आरण्य.९.३७)
६१०. ॐ यस्य जघनं मही तस्मै विराजे नमः । (आरण्य.९.३८)
६११. ॐ यस्य नाभिगं नभस्तस्मै विराजे नमः । (आरण्य.९.३८)
६१२. ॐ यस्योरःस्थलं ज्योतींषि तस्मै विराजे नमः । (आरण्य.९.३८)
६१३. ॐ यस्य ग्रीवाः महस्तस्मै विराजे नमः । (आरण्य.९.३८)
६१४. ॐ यस्य वदनं जनलोकस्तस्मै विराजे नमः । (आरण्य.९.३९)
६१५. ॐ यस्य शङ्खदेशगं तपोलोकस्तस्मै विराजे नमः । (आरण्य.९.३९)
६१६. ॐ यस्य शीर्षणि सत्यलोकस्तस्मै विराजे नमः । (आरण्य.९.३९)
६१७. ॐ यस्य बाहवः इन्द्रादयो लोकपालास्तस्मै नमः । (आरण्य.९.४०)
६१८. ॐ यस्य श्रुतीः दिशस्तस्मै नमः । (आरण्य.९.४०)
६१९. ॐ यस्य नासिके अश्विनौ तस्मै नमः । (आरण्य.९.४०)
६२०. ॐ यस्य वक्त्रं अग्निस्तस्मै नमः । (आरण्य.९.४०)
६२१. ॐ यस्य चक्षुः सविता तस्मै नमः । (आरण्य.९.४१)
६२२. ॐ यस्य मनश्चन्द्रस्तस्मै नमः । (आरण्य.९.४१)
६२३. ॐ यस्य भ्रूभङ्गः कालस्तस्मै नमः । (आरण्य.९.४१)
६२४. ॐ यस्य बुद्धिः वाक्पतिस्तस्मै नमः । (आरण्य.९.४१)
६२५. ॐ यस्याहङ्काररूपः रुद्रस्तस्मै नमः । (आरण्य.९.४२)
६२६. ॐ यस्य वाचः छन्दांसि तस्मै अव्ययाय नमः । (आरण्य.९.४२)
६२७. ॐ यस्य दंष्ट्रदेशस्थो यमस्तस्मै नमः । (आरण्य.९.४२)
६२८. ॐ यस्य द्विजालयो नक्षत्राणि तस्मै नमः । (आरण्य.९.४२)
६२९. ॐ यस्य हासो मोहकरी माया तस्मै नमः । (आरण्य.९.४३)
६३०. ॐ यस्यापाङ्गमोक्षणं सृष्टिस्तस्मै नमः । (आरण्य.९.४३)
६३१. ॐ यस्य पुरस्धर्मः पृष्टोऽधर्मस्तस्मै नमः । (आरण्य.९.४३)
६३२. ॐ यस्य निमिषोन्मिषेण रात्रिर्दिवा भवति तस्मै नमः । (आरण्य.९.४४)
६३३. ॐ यस्य कुक्षिः सप्तसमुद्रास्तस्मै नमः । (आरण्य.९.४४)
६३४. ॐ यस्य नाड्यः नद्यस्तस्मै नमः । (आरण्य.९.४४)
६३५. ॐ यस्य रोमाणि वृक्षौषधयो तस्मै नमः । (आरण्य.९.४५)
६३६. ॐ यस्य रेतो वृष्टिस्तस्मै नमः । (आरण्य.९.४५)
६३७. ॐ यस्य महिमा ज्ञानशक्तिस्तस्मै नमः । (आरण्य.९.४५)
६३८. ॐ धनुर्बाणधरायनमः । (आरण्य.९.४९)
६३९. ॐ जटावल्कलभूषिताय नमः । (आरण्य.९.४९)
६४०. ॐ अपीच्यवयसे सीतां विचिन्वते सलक्ष्मणाय नमः । (आरण्य.९.४९)
६४१. ॐ जानकीनाथाय नमः । (आरण्य.९.५२)
६४२. ॐ रामभद्राय नमः । (आरण्य.९.५३)
६४३. ॐ अयोद्ध्याधिपतये नमः । (आरण्य.९.५४)
६४४. ॐ सौमित्रिसेविताय नमः । (आरण्य.९.५४)
६४५. ॐ योगिगम्याय नमः । (आरण्य.९.५५)
६४६. ॐ परमस्थानदायकाय नमः । (आरण्य.९.५५)
६४७. ॐ कबन्धस्तुत्या तुष्टाय नमः । (आरण्य.९.५५)
६४८. ॐ भक्तानां नित्यानुभवानुमेयाय नमः । (आरण्य.९.५६)
६४९. ॐ शबर्या प्रक्षाळितपादरामलक्ष्मणाभ्यां नमः । (आरण्य.१०.७)
६५०. ॐ अप्रमेयात्मने नमः । (आरण्य.१०.१७)
६५१. ॐ मनोवागगोचराय नमः । (आरण्य.१०.१९)
६५२. ॐ विश्वभावनाय नमः । (आरण्य.१०.३४)
६५३. ॐ शबरीमोक्षदायकाय नमः । (आरण्य.१०.४१)
६५४. ॐ कामदुघाङ्घ्रिपद्मयुगळाय नमः । (आरण्य.१०.४४)
६५५. ॐ श्यामतनवे नमः । (आरण्य.१०.४४)
६५६. ॐ स्मरारिहृदये भासते नमः । (आरण्य.१०.४४)
६५७. ॐ धनुर्बाणकराय नमः । (किष्किन्धा.१.६)
६५८. ॐ जटावल्क्कलमण्डिताय नमः । (किष्किन्धा.१.६)
६५९. ॐ दान्ताय नमः । (किष्किन्धा.१.६)
६६०. ॐ सुविक्रमाय नमः । (किष्किन्धा.१.६)
६६१. ॐ पुरुषव्याघ्राय नमः । (किष्किन्धा.१.१२)
६६२. ॐ वीरसम्मताभ्यां नमः । (किष्किन्धा.१.१२)
६६३. ॐ भास्कर इव सर्वाः दिशः द्योतयते नमः । (किष्किन्धा.१.१२)
६६४. ॐ भूभारहरणार्थं मायया मानुषाकारलीलया चरते
नमः । (किष्किन्धा.१.१४)
६६५. ॐ भक्तानां पालनाय मायया मानुषाकारलीलया चरते
नमः । (किष्किन्धा.१.१४)
६६६. ॐ जगत्स्थितिलयौ सर्गं च लीलया कर्तुमुद्यते
नमः । (किष्किन्धा.१.१५)
६६७. ॐ क्षत्रियाकृती चरद्भ्यां रामलक्ष्मणाभ्यां
नमः । (किष्किन्धा.१.१५)
६६८. ॐ इहावतीर्णाय परस्मै नमः । (किष्किन्धा.१.१५)
६६९. ॐ प्रेरकाय नमः । (किष्किन्धा.१.१६)
६७०. ॐ हृदयस्थाय नमः । (किष्किन्धा.१.१६)
६७१. ॐ ईश्वराभ्यां रामलक्ष्मणाभ्यां नमः । (किष्किन्धा.१.१६)
६७२. ॐ नरनारायणौ इव लोके चरद्भ्यां रामलक्ष्मणाभ्यां
नमः । (किष्किन्धा.१.१६)
६७३. ॐ ज्ञानविग्रहाय नमः । (किष्किन्धा.१.१८)
६७४. ॐ महामतये नमः । (किष्किन्धा.१.२३)
६७५. ॐ अग्नौ साक्षिणि सुग्रीवं मित्रं कृत्वा सख्यं कृतवते
नमः । (किष्किन्धा.१.४४)
६७६. ॐ दुन्दुभेः पर्वतोपमं शिरः पादाङ्गुष्ठेन दशयोजनपर्यन्तं
क्षिप्तवते नमः । (किष्किन्धा.१.७०)
६७७. ॐ बाणेनेकेन सप्ततालभञ्जकाय नमः । (किष्किन्धा.१.७१)
६७८. ॐ सत्पतये नमः । (किष्किन्धा.१.७९)
६७९. ॐ अहिशत्रुकेतवे नमः । (किष्किन्धा.१.९३)
६८०. ॐ भवपद्मजाद्यैर्जुष्टाय नमः । (किष्किन्धा.१.९३)
६८१. ॐ सत्यवादिने नमः । (किष्किन्धा.२.१२)
६८२. ॐ शरणागतवत्सलाय नमः । (किष्किन्धा.२.१२)
६८३. ॐ साक्षादवतीर्णाय नारायणाय नमः । (किष्किन्धा.२.३५)
६८४. ॐ अखिलप्रभवे नमः । (किष्किन्धा.२.३५)
६८५. ॐ भक्तिगम्याय नमः । (किष्किन्धा.२.३७)
६८६. ॐ सुरेश्वराय नमः । (किष्किन्धा.२.३७)
६८७. ॐ धनुरालम्ब्य वामेन हस्तेनान्येन सायकं धृत्वा स्थिताय
नमः । (किष्किन्धा.२.४९)
६८८. ॐ चीरवसनं बिभ्रते नमः । (किष्किन्धा.२.४९)
६८९. ॐ जटामकुटधारिणे नमः । (किष्किन्धा.२.४९)
६९०. ॐ वनमालाविभूषिताय नमः । (किष्किन्धा.२.५०)
६९१. ॐ नवदूर्वादळच्छवये नमः । (किष्किन्धा.२.५०)
६९२. ॐ पीनचार्वायतभुजाय नमः । (किष्किन्धा.२.५०)
६९३. ॐ सुग्रीवलक्ष्मणाभ्यां परिसेविताय नमः । (किष्किन्धा.२.५०)
६९४. ॐ अधर्मकारिहन्त्रे नमः । (किष्किन्धा.२.६०)
६९५. ॐ सद्धर्मपालकाय नमः । (किष्किन्धा.२.६०)
६९६. ॐ धर्मविदे नमः । (किष्किन्धा.२.६२)
६९७. ॐ रमापतये नमः । (किष्किन्धा.२.६४)
६९८. ॐ महाभागाय नमः । (किष्किन्धा.२.६५)
६९९. ॐ बालिनः परमहंसगणैर्दुरापं पदं दत्तवते नमः । (किष्किन्धा.२.७१)
७००. ॐ महामनसे नमः । (किष्किन्धा.३.१२)
७०१. ॐ तत्त्वज्ञानोपदेशकाय नमः । (किष्किन्धा.३.१२)
७०२. ॐ आकाशवदलेपकाय नमः । (किष्किन्धा.३.१६)
७०३. ॐ ज्ञानमयाय नमः । (किष्किन्धा.३.१६)
७०४. ॐ चिदात्मकाय नमः । (किष्किन्धा.३.१७)
७०५. ॐ सत्यायानन्दाय नमः । (किष्किन्धा.३.३१)
७०६. ॐ अद्वयायात्मने नमः । (किष्किन्धा.३.३१)
७०७. ॐ तारायै आत्मोपदेशेन जीवन्मुक्तिपदं प्रदत्तवते
नमः । (किष्किन्धा.३.३७)
७०८. ॐ प्रवर्षणगिरेरूर्द्ध्वशिखरे उषितवते नमः । (किष्किन्धा.३.५३)
७०९. ॐ मृगपक्षिगणेनानुसेविताय नमः । (किष्किन्धा.४.५)
७१०. ॐ श्रद्धाभुजे ईश्वराय नमः । (किष्किन्धा.४.३०)
७११. ॐ शेषांशाय स्वभक्ताय भ्रात्रे लक्ष्मणाय क्रियायोगोपदेशं
प्रदत्तवते नमः । (किष्किन्धा.४.४१)
७१२. ॐ नित्यलक्ष्मीकाय नमः । (किष्किन्धा.५.१६)
७१३. ॐ विज्ञानात्मने नमः । (किष्किन्धा.५.१६)
७१४. ॐ बुद्ध्यादिसाक्षिणे नमः । (किष्किन्धा.५.१७)
७१५. ॐ मायाकार्यातिवर्तिने नमः । (किष्किन्धा.५.१७)
७१६. ॐ रागादिरहिताय नमः । (किष्किन्धा.५.१८)
७१७. ॐ ब्रह्मणोक्तमृतं कर्तुं जाताय मानुषवेषधृचे
नमः । (किष्किन्धा.५.१८)
७१८. ॐ तत्तत्कालोचितं कामं, क्रोधं, मोहं गृह्णन् अशेषगुणेषु अनुरक्तः
इव अवशाः प्रजाः मोहयते गुणवर्जिताय नमः । (किष्किन्धा.५.२२)
७१९. ॐ विज्ञानमूर्तये नमः । (किष्किन्धा.५.२३)
७२०. ॐ विज्ञानशक्तये नमः । (किष्किन्धा.५.२३)
७२१. ॐ अगुणान्विताय नमः । (किष्किन्धा.५.२३)
७२२. ॐ गुणवर्जिताय नमः । (किष्किन्धा.५.२२)
७२३. ॐ कामादिभिर्नित्यमविलिप्ताय नमः । (किष्किन्धा.५.२३)
७२४. ॐ अजाय नमः । (किष्किन्धा.५.२५)
७२५. ॐ भक्तचित्तानुसारेण जायते नमः । (किष्किन्धा.५.२५)
७२६. ॐ रौद्रमूर्तये नमः । (किष्किन्धा.५.३१)
७२७. ॐ सुग्रीवभीतिदायकाय नमः । (किष्किन्धा.५.३१)
७२८. ॐ चैलाजिनधराय नमः । (किष्किन्धा.६.१)
७२९. ॐ जटामौलिविराजिताय नमः । (किष्किन्धा.६.१)
७३०. ॐ विशालनयनाय नमः । (किष्किन्धा.६.२)
७३१. ॐ स्मितचारुमुखाम्बुजाय नमः । (किष्किन्धा.६.२)
७३२. ॐ सीताविरहसन्तप्त नमः । (किष्किन्धा.६.२)
७३३. ॐ सर्वभूतेष्वलक्ष्याय नमः । (किष्किन्धा.६.६२)
७३४. ॐ बहिरन्तरवस्थिताय नमः । (किष्किन्धा.६.६२)
७३५. ॐ मायाजवनिकाच्छन्नाय नमः । (किष्किन्धा.६.६२)
७३६. ॐ मानुषविग्रहाय नमः । (किष्किन्धा.६.६२)
७३७. ॐ निवृत्तगुणमार्गाय नमः । (किष्किन्धा.६.६७)
७३८. ॐ निष्किञ्चनधनाय नमः । (किष्किन्धा.६.६७)
७३९. ॐ स्वात्माभिरामाय नमः । (किष्किन्धा.६.६८)
७४०. ॐ निर्गुणाय नमः । (किष्किन्धा.६.६८)
७४१. ॐ गुणात्मने नमः । (किष्किन्धा.६.६८)
७४२. ॐ कालरूपिणे नमः । (किष्किन्धा.६.६८)
७४३. ॐ ईशानाय नमः । (किष्किन्धा.६.६८)
७४४. ॐ आदिमद्ध्यान्तवर्जिताय नमः । (किष्किन्धा.६.६८)
७४५. ॐ सर्वत्र समं चरते नमः । (किष्किन्धा.६.६९)
७४६. ॐ परस्मै पुरुषाय नमः । (किष्किन्धा.६.६९)
७४७. ॐ अकर्त्रे नमः । (किष्किन्धा.६.७१)
७४८. ॐ कोसलराजस्य तपसः फलसिद्धये जाताय नमः । (किष्किन्धा.६.७२)
७४९. ॐ अक्षराय कथाश्रवणसिद्धये जाताय नमः । (किष्किन्धा.६.७२)
७५०. ॐ कौसल्या प्रार्थनया जाताय नमः । (किष्किन्धा.६.७३)
७५१. ॐ दुष्टराक्षसभूभारहरणाय ब्रह्मणार्थितो नररुपेण जाताय
नमः । (किष्किन्धा.६.७३)
७५२. ॐ भवार्णवसुतारणपादाब्जाय नमः । (किष्किन्धा.६.७५)
७५३. ॐ बाणासनशरान्विताय नमः । (किष्किन्धा.६.७६)
७५४. ॐ भ्रात्रा लक्ष्मणेन सह सुग्रीवादिभिरन्विताय नमः । (किष्किन्धा.६.७६)
७५५. ॐ स्वयम्प्रभया स्तुताय नमः । (किष्किन्धा.६.७७)
७५६. ॐ प्रणताघहारिणे नमः । (किष्किन्धा.६.७७)
७५७. ॐ श्यामळरूपाय नमः । (किष्किन्धा.६.८०)
७५८. ॐ मुकुटोज्ज्वलाय नमः । (किष्किन्धा.६.८०)
७५९. ॐ अङ्गदैर्नूपुरैर्मुक्ताहारैः भाते नमः । (किष्किन्धा.६.८१)
७६०. ॐ कौस्तुभकुण्डलैः भाते नमः । (किष्किन्धा.६.८१)
७६१. ॐ ब्रह्मणा प्रार्थितो सर्वरक्षोगणविनाशनार्थं मायामानुषभावेन
जाताय नमः । (किष्किन्धा.७.१८)
७६२. ॐ लोकैकरक्षकाय नमः । (किष्किन्धा.७.१८)
७६३. ॐ जगतां पतये नमः । (किष्किन्धा.७.२०)
७६४. ॐ जाग्रदादि विनिर्मुक्ताय नमः । (किष्किन्धा.८.४४)
७६५. ॐ सत्यज्ञानादिलक्षणाय नमः । (किष्किन्धा.८.४४)
७६६. ॐ सदा शान्तायात्मने नमः । (किष्किन्धा.८.४४)
७६७. ॐ विष्णोः परमशाश्वतपदाय नमः । (किष्किन्धा.८.५५)
७६८. ॐ त्रिजगतां स्थितिकारिणे नमः । (किष्किन्धा.८.५५)
७६९. ॐ अपरिमितसंसारवारान्निधितारकाय नमः । (किष्किन्धा.८.५५)
७७०. ॐ भवपाशमोचकाय नमः । (सुन्दर.१.५७)
७७१. ॐ कोसलेन्द्राय नमः । (सुन्दर.२.२३)
७७२. ॐ कमललोचनाय नमः । (सुन्दर.२.४९)
७७३. ॐ अमेयात्मने नमः । (सुन्दर.३.४७)
७७४. ॐ ऐन्द्रस्यैकाक्षिभिदे नमः । (सुन्दर.३.६०)
७७५. ॐ अशेषहृद्स्थिताय नमः । (सुन्दर.४.८)
७७६. ॐ चिदानन्दमयायाविकारवते नमः । (सुन्दर.४.२१)
७७७. ॐ देहादिसङ्घव्यतिरिक्ताय नमः । (सुन्दर.४.२१)
७७८. ॐ सदा उपाधितः मुक्ताय नमः । (सुन्दर.४.२१)
७७९. ॐ भक्तानां निर्मलज्ञानप्रदायकाय नमः । (सुन्दर.४.२२)
७८०. ॐ आत्यन्तिकमोक्षदायकाय नमः । (सुन्दर.४.२३)
७८१. ॐ प्रकृतेः परस्मै नमः । (सुन्दर.४.२३)
७८२. ॐ पुराणाय नमः । (सुन्दर.४.२३)
७८३. ॐ शरणागतप्रियाय नमः । (सुन्दर.४.२४)
७८४. ॐ सुखरूपाय नमः । (सुन्दर.४.२५)
७८५. ॐ भक्तहृदिस्थाय नमः । (सुन्दर.४.२५)
७८६. ॐ हनुमतः सीतादर्शनवार्ताश्रवणेन अत्यन्तप्रहृष्टधीये
नमः । (सुन्दर.५.५९)
७८७. ॐ हरिभ्यां उह्यमानाभ्यां रामलक्ष्मणाभ्यां नमः । (युद्ध.१.३६)
७८८. ॐ अस्पृष्टदुःखहर्षभयक्रोधलोभमोहमदादिदुःखाय
नमः । (युद्ध.१.५१)
७८९. ॐ नित्योदिताय नमः । (युद्ध.१.५४)
७९०. ॐ नित्यसुखाय नमः । (युद्ध.१.५४)
७९१. ॐ निरीहाय नमः । (युद्ध.१.५४)
७९२. ॐ राघवरूपेण दशरथालये जाताय नमः । (युद्ध.२.३५)
७९३. ॐ प्रकृतेः परस्तात् सर्वदा स्थिताय नमः । (युद्ध.२.३७)
७९४. ॐ भूतानां बहिरन्तश्च समः सर्वत्र संस्थिताय नमः । (युद्ध.२.३७)
७९५. ॐ नित्यमुक्तोऽपि स्वमायागुणबिम्बिताय नमः । (युद्ध.२.४०)
७९६. ॐ कालाय नमः । (युद्ध.२.४१)
७९७. ॐ प्रधानाय नमः । (युद्ध.२.४१)
७९८. ॐ पुरुषाय नमः । (युद्ध.२.४१)
७९९. ॐ कालरूपेण जगतां कलनां कुर्वते मायया रामरूपाय नमः । (युद्ध.२.४२)
८००. ॐ रामस्य पदारविन्दाभ्यां नमः । (युद्ध.२.४६)
८०१. ॐ विभीषणशरणदायकाय नमः । (युद्ध.३.११)
८०२. ॐ सर्वभूतेभ्योऽभयदायिने नमः । (युद्ध.३.११)
८०३. ॐ प्रसन्नमुखपङ्कजाय नमः । (युद्ध.३.१४)
८०४. ॐ राजेन्द्राय नमः । (युद्ध.३.१५)
८०५. ॐ सीतामनोरमाय नमः । (युद्ध.३.१५)
८०६. ॐ चण्डकोदण्डाय नमः । (युद्ध.३.१५)
८०७. ॐ अमिततेजसे नमः । (युद्ध.३.१६)
८०८. ॐ सुग्रीवमित्राय नमः । (युद्ध.३.१६)
८०९. ॐ रघूणां पतये नमः । (युद्ध.३.१६)
८१०. ॐ जगदुत्पत्तिनाशानां कारणाय नमः । (युद्ध.३.१७)
८११. ॐ त्रैलोक्यगुरवे नमः । (युद्ध.३.१७)
८१२. ॐ अनादिगृहस्थाय नमः । (युद्ध.३.१७)
८१३. ॐ जगतां आदिस्थितिकारणाय नमः । (युद्ध.३.१८)
८१४. ॐ अन्ते निधनस्थानाय नमः । (युद्ध.३.१८)
८१५. ॐ स्वेच्छाचाराय नमः । (युद्ध.३.१८)
८१६. ॐ चराचराणां बहिरन्तश्च व्याप्यव्यापकरूपेण भाते
नमः । (युद्ध.३.१९)
८१७. ॐ अणोरप्यणीयाय नमः । (युद्ध.३.२४)
८१८. ॐ स्थूलात् स्थूलतराय नमः । (युद्ध.३.२४)
८१९. ॐ सर्वलोकानं पित्रे मात्रे धात्रे नमः । (युद्ध.३.२४)
८२०. ॐ आदिमद्ध्यान्तरहिताय नमः । (युद्ध.३.२५)
८२१. ॐ पाणिपादरहिताय चक्षुःश्रोत्रविवर्जिताय नमः । (युद्ध.३.२५)
८२२. ॐ श्रोत्रे द्रष्ट्रे गृहीत्रे जवनाय नमः । (युद्ध.३.२६)
८२३. ॐ खरान्तकाय नमः । (युद्ध.३.२६)
८२४. ॐ कोशेभ्यो व्यतिरिक्ताय नमः । (युद्ध.३.२६)
८२५. ॐ निरुपाश्रयाय नमः । (युद्ध.३.२६)
८२६. ॐ निराकाराय नमः । (युद्ध.३.२७)
८२७. ॐ निरीश्वराय नमः । (युद्ध.३.२७)
८२८. ॐ षड्भावरहिताय नमः । (युद्ध.३.२७)
८२९. ॐ अनादये नमः । (युद्ध.३.२७)
८३०. ॐ कारुणिकोत्तमाय नमः । (युद्ध.३.३०)
८३१. ॐ रावणारये नमः । (युद्ध.३.३०)
८३२. ॐ विभीषणेन संस्तुताय नमः । (युद्ध.३.३७)
८३३. ॐ विभीषणं लङ्काराज्याधिपत्यर्थं अभिषेकं कारयितवते
नमः । (युद्ध.३.४३)
८३४. ॐ दिव्यरूपधृचा सागरेण स्तुताय नमः । (युद्ध.३.६७)
८३५. ॐ त्रैलोक्यरक्षकाय नमः । (युद्ध.३.६९)
८३६. ॐ वैराजनामवते नमः । (युद्ध.३.७३)
८३७. ॐ माययाच्छन्नाय लीलामानुषाकृतये नमः । (युद्ध.३.७५)
८३८. ॐ सन्मार्गप्रापकाय नमः । (युद्ध.३.७६)
८३९. ॐ अमरश्रेष्ठाय नमः । (युद्ध.३.७६)
८४०. ॐ शरण्याय नमः । (युद्ध.३.७७)
८४१. ॐ समुद्रेण दत्तं लङ्कामार्गं प्राप्तवते नमः । (युद्ध.३.७७)
८४२. ॐ सर्वलोकमलापहकीर्तिमते नमः । (युद्ध.३.८४)
८४३. ॐ सेतुमारभमाणे शिवपूजां कृतवते नमः । (युद्ध.४.१)
८४४. ॐ रघुपुङ्गवाय नमः । (युद्ध.४.१७-१६)
८४५. ॐ याभ्यां समुत्पन्नं स्थावरजङ्गमं जगत् ताभ्यां सीतारामाभ्यां
नमः । (युद्ध.४.३९-४१)
८४६. ॐ जगतस्तस्थुषाभ्यां पितृभ्यां सीतारामाभ्यां नमः । (युद्ध.४.३९)
८४७. ॐ अतिनिर्मलाय नमः । (युद्ध.४.४६-४८)
८४८. ॐ मरकतोपलकान्तिकान्ताय नमः । (युद्ध.४.५६)
८४९. ॐ धृतचापबाणाय नमः । (युद्ध.४.५६)
८५०. ॐ सुग्रीवलक्ष्मणविभीषणसेविताङ्घ्रये नमः । (युद्ध.४.५६)
८५१. ॐ भवसागरतारकाय नमः । (युद्ध.५.३४)
८५२. ॐ सर्वहृदयालयाय नमः । (युद्ध.५.३५)
८५३. ॐ अस्त्रविदां वराय नमः । (युद्ध.५.६७)
८५४. ॐ सर्वेश्वराय नमः । (युद्ध.५.८६)
८५५. ॐ सर्वमयाय नमः । (युद्ध.५.८६)
८५६. ॐ विधात्रे नमः । (युद्ध.५.८६)
८५७. ॐ सदा चिदानन्दमयाय नमः । (युद्ध.५.८६)
८५८. ॐ युद्धादिलीलां मायां वितनुते नमः । (युद्ध.५.८६)
८५९. ॐ सर्वस्य जगतः साराय नमः । (युद्ध.६.११)
८६०. ॐ लोकाश्रयाय नमः । (युद्ध.६.१२)
८६१. ॐ कालरुद्राय नमः । (युद्ध.६.२५)
८६२. ॐ हृद्पद्मकर्णिके मणिगणान्विते मृदुश्लक्ष्णतरे स्वर्णपीठे
संस्थिताय नमः । (युद्ध.६.५८)
८६३. ॐ विद्युत्पुञ्जनिभाम्बराय नमः । (युद्ध.६.५९)
८६४. ॐ वीरासने स्थिताय नमः । (युद्ध.६.५९)
८६५. ॐ किरीटहारकेयूरकौस्तुभादिभिरन्विताय नमः । (युद्ध.६.५९)
८६६. ॐ नूपुरैर्कटकैः तथा वनमालया भासमानाय नमः । (युद्ध.६.६०)
८६७. ॐ धनुर्द्वन्द्वकरेण लक्ष्मणेन परिसेविताय नमः । (युद्ध.६.६०)
८६८. ॐ वैरं विहाय हृदा सदा भावितभावरूपाय नमः । (युद्ध.६.६३)
८६९. ॐ अनामरूपाय नमः । (युद्ध.६.६३)
८७०. ॐ महाविष्णवे नमः । (युद्ध.७.६४)
८७१. ॐ मायामानुषविग्रहाय नमः । (युद्ध.७.६६)
८७२. ॐ ज्ञानमयाय नमः । (युद्ध.७.६८)
८७३. ॐ शिवाय नमः । (युद्ध.७.६८)
८७४. ॐ साक्षाज्जनार्दनाय नमः । (युद्ध.८.१०)
८७५. ॐ कुम्भकर्णहन्त्रे नमः । (युद्ध.८.२८)
८७६. ॐ कुसुमासारैर्वर्षन्तैः देवर्षिगन्धर्वपन्नगखगसिद्धयक्ष-
गुह्यकाप्सरोभिरीडिताय नमः । (युद्ध.८.२९-३०)
८७७. ॐ इन्दीवरश्यामाय नमः । (युद्ध.८.३१)
८७८. ॐ उदाराङ्गाय नमः । (युद्ध.८.३१)
८७९. ॐ ईषत्ताम्रविशालाक्षाय नमः । (युद्ध.८.३२)
८८०. ॐ ऐन्द्रास्त्राञ्चितबाहुकाय नमः । (युद्ध.८.३१)
८८१. ॐ नारदमहर्षिणा स्तुताय नमः । (युद्ध.८.३३)
८८२. ॐ अखिलाधाराय नमः । (युद्ध.८.३४)
८८३. ॐ विश्वसाक्षिणे नमः । (युद्ध.८.३४)
८८४. ॐ विशुद्धज्ञानरूपाय नमः । (युद्ध.८.३५)
८८५. ॐ मायया मनुजाकाराय नमः । (युद्ध.८.३५)
८८६. ॐ मायया गुह्यमानाय सर्वेषां हृदिसंस्थिताय नमः । (युद्ध.८.३६)
८८७. ॐ स्वयं ज्योतिषे नमः । (युद्ध.८.३६)
८८८. ॐ यो नेत्रोन्मीलनेन एतत् जगत्त्रयं सृजति तस्मै नमः । (युद्ध.८.३७)
८८९. ॐ यस्य चक्षुर्निमीलनात् सर्वं उपसंह्रियते तस्मै नमः । (युद्ध.८.३७)
८९०. ॐ इदं सर्वं यस्मिन् भाति तस्मै ब्रह्मणे नमः । (युद्ध.८.३८)
८९१. ॐ एतत् चराचरं यतः तस्मै ब्रह्मणे नमः । (युद्ध.८.३८)
८९२. ॐ अस्मिन् लोके यस्मात् न किञ्चित् तस्मै ब्रह्मणे नमः । (युद्ध.८.३८)
८९३. ॐ व्यक्ताव्यक्तस्वरूपिणे नमः । (युद्ध.८.३९)
८९४. ॐ विकाररहिताय नमः । (युद्ध.८.४०)
८९५. ॐ ज्ञानरूपाय नमः । (युद्ध.८.४०)
८९६. ॐ सर्वजगदाकारमूर्तये नमः । (युद्ध.८.४०)
८९७. ॐ जगतामधीशाय नमः । (युद्ध.८.६८)
८९८. ॐ धराभारनिवारणार्थं जाताय नमः । (युद्ध.८.६८)
८९९. ॐ जगन्नाटकसूत्रधाराय नमः । (युद्ध.८.६८)
९००. ॐ ज्ञानवतां वराय नमः । (युद्ध.९.३)
९०१. ॐ धर्मात्मने नमः । (युद्ध.९.४५)
९०२. ॐ सत्यसन्धाय नमः । (युद्ध.९.४५)
९०३. ॐ त्रिलोक्यामप्रतिद्वन्द्वाय नमः । (युद्ध.९.४५)
९०४. ॐ अमानुषपौरुषाय नमः । (युद्ध.१०.४)
९०५. ॐ केवलाय नमः । (युद्ध.१०.३९)
९०६. ॐ व्यतिरिक्ताय नमः । (युद्ध.१०.३९)
९०७. ॐ ज्ञानात्मने नमः । (युद्ध.१०.४०)
९०८. ॐ सर्वभावविवर्जिताय नमः । (युद्ध.१०.४०)
९०९. ॐ देववराय नमः । (युद्ध.१०.४५)
९१०. ॐ साक्षात् प्रधानपुरुषेश्वराय नमः । (युद्ध.१०.४५)
९११. ॐ मत्स्यरूपिणे नमः । (युद्ध.१०.४६)
९१२. ॐ कनकाचलोद्धारिणे कूर्मरूपाय नमः । (युद्ध.१०.४७)
९१३. ॐ हिरण्याक्षहन्त्रे नमः । (युद्ध.१०.४८)
९१४. ॐ क्रोडरूपाय नमः । (युद्ध.१०.४८)
९१५. ॐ हिरण्यकशिपुघ्नाय नमः । (युद्ध.१०.४९)
९१६. ॐ नारसिंहवपुषे नमः । (युद्ध.१०.४९)
९१७. ॐ बलिबन्धनकृते नमः । (युद्ध.१०.५०)
९१८. ॐ त्रिविक्रमाय नमः । (युद्ध.१०.५०)
९१९. ॐ क्षत्रियाकारराक्षसवंशहर्त्रे नमः । (युद्ध.१०.५१)
९२०. ॐ रघुवंशे जाताय नमः । (युद्ध.१०.५२)
९२१. ॐ परात्पराय नमः । (युद्ध.१०.५२)
९२२. ॐ परमास्त्रविदे नमः । (युद्ध.११.२७)
९२३. ॐ अक्लिष्टकारिणे नमः । (युद्ध.११.३४)
९२४. ॐ सर्वास्त्रविदे नमः । (युद्ध.११.४९)
९२५. ॐ धीराय नमः । (युद्ध.११.४९)
९२६. ॐ कौसल्यानन्दवर्धनाय नमः । (युद्ध.११.४९)
९२७. ॐ शीघ्रपराक्रमाय नमः । (युद्ध.११.५४)
९२८. ॐ रावणं हत्वा तस्मै सायूज्यं दत्तवते नमः । (युद्ध.११.८३)
९२९. ॐ आरक्तोपान्तनेत्राय नमः । (युद्ध.११.८५)
९३०. ॐ शरदलितवपुषे नमः । (युद्ध.११.८५)
९३१. ॐ सूर्यकोटिप्रकाशाय नमः । (युद्ध.११.८५)
९३२. ॐ वीराय नमः । (युद्ध.११.८५)
९३३. ॐ वामहस्तेन चापं बिभ्रते इतरकरधृतं बाणं भ्रामयते
नमः । (युद्ध.११.८५)
९३४. ॐ वीरश्रिये नमः । (युद्ध.११.८५)
९३५. ॐ बन्धुराङ्गाय नमः । (युद्ध.११.८५)
९३६. ॐ त्रिदशपतिनुताय नमः । (युद्ध.११.८५)
९३७. ॐ सर्वभूतात्मने नमः । (युद्ध.१२.२१)
९३८. ॐ मायामानुषरूपिणे नमः । (युद्ध.१२.२१)
९३९. ॐ विभीषणस्य लङ्काधिपाभिषेकं कारयितवते नमः । (युद्ध.१२.४७)
९४०. ॐ हतशत्रवे नमः । (युद्ध.१२.६४)
९४१. ॐ विजयिने नमः । (युद्ध.१२.६४)
९४२. ॐ सर्वलोकानां कर्त्रे नमः । (युद्ध.१३.४)
९४३. ॐ विज्ञानविग्रहाय नमः । (युद्ध.१३.४)
९४४. ॐ वसूनामष्टमाय नमः । (युद्ध.१३.४)
९४५. ॐ रुद्राणां शङ्कराय नमः । (युद्ध.१३.४)
९४६. ॐ लोकानां आदिकर्त्रे ब्रह्मणे नमः । (युद्ध.१३.५)
९४७. ॐ चतुराननाय नमः । (युद्ध.१३.५)
९४८. ॐ यस्य घ्राणभूतौ अश्विनौ तस्मै नमः । (युद्ध.१३.५)
९४९. ॐ यस्य चक्षुषी चन्द्रभास्करौ तस्मै नमः । (युद्ध.१३.५)
९५०. ॐ लोकानां आदये अन्ताय नमः । (युद्ध.१३.६)
९५१. ॐ सदोदिताय नमः । (युद्ध.१३.६)
९५२. ॐ सदा शुद्धाय नमः । (युद्ध.१३.६)
९५३. ॐ सदा बुद्धाय नमः । (युद्ध.१३.६)
९५४. ॐ सदा मुक्ताय नमः । (युद्ध.१३.६)
९५५. ॐ गुणोदयाय नमः । (युद्ध.१३.६)
९५६. ॐ ब्रह्मणा पितामहेन स्तुताय नमः । (युद्ध.१३.९)
९५७. ॐ अशेषस्थितिहेतवे नमः । (युद्ध.१३.१०)
९५८. ॐ अध्यात्मज्ञानिभिरन्तर्हृदि भाव्याय नमः । (युद्ध.१३.१०)
९५९. ॐ हेयाहेयद्वन्द्वविहीनाय नमः । (युद्ध.१३.१०)
९६०. ॐ सर्वहृदिस्थाय नमः । (युद्ध.१३.१०)
९६१. ॐ दृशिरूपाय नमः । (युद्ध.१३.१०)
९६२. ॐ रत्नकिरीटाय नमः । (युद्ध.१३.११)
९६३. ॐ रविभासाय नमः । (युद्ध.१३.११)
९६४. ॐ मायातीताय नमः । (युद्ध.१३.१२)
९६५. ॐ जगदादये नमः । (युद्ध.१३.१२)
९६६. ॐ माधवाय नमः । (युद्ध.१३.१२)
९६७. ॐ मानातीताय नमः । (युद्ध.१३.१२)
९६८. ॐ मोहविनाशाय नमः । (युद्ध.१३.१२)
९६९. ॐ मुनिवन्द्याय नमः । (युद्ध.१३.१२)
९७०. ॐ योगिध्येयाय नमः । (युद्ध.१३.१२)
९७१. ॐ योगविधानाय नमः । (युद्ध.१३.१२)
९७२. ॐ रञ्जितलोकाय नमः । (युद्ध.१३.१२)
९७३. ॐ रमणीयाय नमः । (युद्ध.१३.१२)
९७४. ॐ भावाभावप्रत्ययहीनाय नमः । (युद्ध.१३.१३)
९७५. ॐ भवमुख्यैर्योगासक्तैरर्चितपादाम्बुजयुग्माय नमः । (युद्ध.१३.१३)
९७६. ॐ प्रणवाख्याय नमः । (युद्ध.१३.१३)
९७७. ॐ अशेषासुरदावाय नमः । (युद्ध.१३.१३)
९७८. ॐ नाथितकार्याखिलकारिणे नमः । (युद्ध.१३.१४)
९७९. ॐ नाथाय नमः । (युद्ध.१३.१४)
९८०. ॐ माधवरूपाय नमः । (युद्ध.१३.१४)
९८१. ॐ अखिलधारिणे नमः । (युद्ध.१३.१४)
९८२. ॐ भक्त्या गम्याय नमः । (युद्ध.१३.१४)
९८३. ॐ भावितरूपाय नमः । (युद्ध.१३.१४)
९८४. ॐ योगाभ्यासैर्भावितचेतसे सहचारिणे नमः । (युद्ध.१३.१४)
९८५. ॐ लोकततीनां आद्याय अन्ताय नमः । (युद्ध.१३.१५)
९८६. ॐ लोकानां लौकिकमानैरनधिगम्याय नमः । (युद्ध.१३.१५)
९८७. ॐ भक्तिश्रद्धाभावसमेतैर्भजनीयाय नमः । (युद्ध.१३.१५)
९८८. ॐ इन्दीवरनीलाय नमः । (युद्ध.१३.१५)
९८९. ॐ अतिमानाय नमः । (युद्ध.१३.१६)
९९०. ॐ गतमानाय नमः । (युद्ध.१३.१६)
९९१. ॐ मुनिमान्याय नमः । (युद्ध.१३.१६)
९९२. ॐ वृन्दारण्ये नन्दितवृन्दारकवृन्दाय नमः । (युद्ध.१३.१६)
९९३. ॐ भवमुखवन्द्याय नमः । (युद्ध.१३.१६)
९९४. ॐ सुखकन्दाय नमः । (युद्ध.१३.१६)
९९५. ॐ नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्याय नमः । (युद्ध.१३.१७)
९९६. ॐ नित्यानन्दाय नमः । (युद्ध.१३.१७)
९९७. ॐ निर्विषयज्ञानाय नमः । (युद्ध.१३.१७)
९९८. ॐ मरतकवर्णाय नमः । (युद्ध.१३.१७)
९९९. ॐ मथुरेशाय नमः । (युद्ध.१३.१७)
१०००. ॐ कामितकामप्रदाय नमः । (युद्ध.१३.१८)
१००१. ॐ जगतां साक्षिणे नमः । (युद्ध.१३.२०)
१००२. ॐ प्रपन्नसर्वार्तिहराय नमः । (युद्ध.१३.२०)
१००३. ॐ मायाजनकात्मजां विधाय दशाननप्राणविनाशं कृतवते
नमः । (युद्ध.१३.२१)
१००४. ॐ पावकं प्रतिपूज्य जानकीं परिगृह्य प्रहृष्टाय
नमः । (युद्ध.१३.२२)
१००५. ॐ श्रियःपतये नमः । (युद्ध.१३.२२)
१००६. ॐ सुरनायकेन स्तुताय नमः । (युद्ध.१३.२३)
१००७. ॐ सदा इन्दीवराभाय नमः । (युद्ध.१३.२४)
१००८. ॐ भवारण्यदावानलाभिधानाय नमः । (युद्ध.१३.२४)
१००९. ॐ भवानीहृदा भावितानन्दरूपाय नमः । (युद्ध.१३.२४)
१०१०. ॐ भवभावहेतवे नमः । (युद्ध.१३.२४)
१०११. ॐ भवादिप्रपन्नाय नमः । (युद्ध.१३.२४)
१०१२. ॐ सुरानीकदुःखौघनाशैकहेतवे नमः । (युद्ध.१३.२५)
१०१३. ॐ नराकारदेहाय नमः । (युद्ध.१३.२५)
१०१४. ॐ परेशाय नमः । (युद्ध.१३.२५)
१०१५. ॐ परानन्दरूपाय नमः । (युद्ध.१३.२५)
१०१६. ॐ भूभारनाशाय नमः । (युद्ध.१३.२५)
१०१७. ॐ प्रपन्नाखिलानन्ददोहाय नमः । (युद्ध.१३.२६)
१०१८. ॐ प्रपन्नार्तिनिश्शेषनाशाभिधानाय नमः । (युद्ध.१३.२६)
१०१९. ॐ तपोयोगयोगीशभावाविभाव्याय नमः । (युद्ध.१३.२६)
१०२०. ॐ कपीशमित्राय नमः । (युद्ध.१३.२६)
१०२१. ॐ सदा भोगभाजां सुदूरे विभाते नमः । (युद्ध.१३.२७)
१०२२. ॐ सदा योगभाजामदूरे विभाते नमः । (युद्ध.१३.२७)
१०२३. ॐ चिदानन्दकन्दाय नमः । (युद्ध.१३.२७)
१०२४. ॐ विदेहात्मजानन्दरूपाय नमः । (युद्ध.१३.२७)
१०२५. ॐ महायोगमायाविशेषानुयुक्ताय नमः । (युद्ध.१३.२८)
१०२६. ॐ लीलानराकारवृत्तये रामाय नमः । (युद्ध.१३.२८)
१०२७. ॐ सदानन्दरूपाय नमः । (युद्ध.१३.२८)
१०२८. ॐ स्फुरद्रत्नकेयूरहाराभिरामाय नमः । (युद्ध.१३.३०)
१०२९. ॐ धराभारभूतासुरानीकदावाय नमः । (युद्ध.१३.३०)
१०३०. ॐ शरच्चन्द्रवक्त्राय नमः । (युद्ध.१३.३०)
१०३१. ॐ लसत्पद्मनेत्राय नमः । (युद्ध.१३.३०)
१०३२. ॐ दुरापारपाराय नमः । (युद्ध.१३.३०)
१०३३. ॐ सुराधीशनीलाभनीलाब्जकान्तये नमः । (युद्ध.१३.३१)
१०३४. ॐ विराधादिरक्षोवधाल्लोकशान्तिप्रदाय नमः । (युद्ध.१३.३१)
१०३५. ॐ किरीटादिशोभाय नमः । (युद्ध.१३.३१)
१०३६. ॐ पुरारातिलाभाय नमः । (युद्ध.१३.३०)
१०३७. ॐ रघूणामधीशाय नमः । (युद्ध.१३.३१)
१०३८. ॐ लसच्चन्द्रकोटिप्रकाशादिपीठाय नमः । (युद्ध.१३.३२)
१०३९. ॐ अङ्के सीतां समाधाय समासीनाय नमः । (युद्ध.१३.३२)
१०४०. ॐ निवृत्तार्तितन्द्राय नमः । (युद्ध.१३.३२)
१०४१. ॐ आदिमद्ध्यान्तवर्जिताय नमः । (युद्ध.१४.२१)
१०४२. ॐ साक्षात्परब्रह्मणे नमः । (युद्ध.१४.२१)
१०४३. ॐ विश्वात्मने नमः । (युद्ध.१४.२२)
१०४४. ॐ नराणामन्तरात्मकाय नमः । (युद्ध.१४.२२)
१०४५. ॐ सर्वलोकनमस्कृताय नमः । (युद्ध.१४.२३)
१०४६. ॐ जगतामीशाय नमः । (युद्ध.१४.२३)
१०४७. ॐ मूढदृष्टीनां विच्छिन्न इव लक्ष्यतोऽपि पूर्णाय
नमः । (युद्ध.१४.२५)
१०४८. ॐ जगते नमः । (युद्ध.१४.२६)
१०४९. ॐ जगदाधाराय नमः । (युद्ध.१४.२६)
१०५०. ॐ सर्वभूतानां परिपालकाय नमः । (युद्ध.१४.२६)
१०५१. ॐ जगत्पतये नमः । (युद्ध.१४.२६)
१०५२. ॐ चीरकृष्णाजिनाम्बराय नमः । (युद्ध.१४.५२)
१०५३. ॐ सुखज्ञानैकरूपिणे नमः । (युद्ध.१५.५)
१०५४. ॐ निरस्तातिशयानन्दरूपिणे नमः । (युद्ध.१५.५)
१०५५. ॐ जगदीशाय नमः । (युद्ध.१५.६)
१०५६. ॐ लीलासृष्टमहास्रष्ट्रे नमः । (युद्ध.१५.७)
१०५७. ॐ सत्यधर्मपरायणाय नमः । (युद्ध.१५.१६)
१०५८. ॐ दूर्वादळश्यामतनवे नमः । (युद्ध.१५.२४)
१०५९. ॐ महार्हकिरीटरत्नाभरणाञ्चिताङ्गाय नमः । (युद्ध.१५.२४)
१०६०. ॐ आरक्तकञ्जायतलोचनान्ताय नमः । (युद्ध.१५.२४)
१०६१. ॐ विचित्ररत्नाञ्चितसूत्रनद्धपीताम्बराय नमः । (युद्ध.१५.२५)
१०६२. ॐ पीनभुजान्तराळाय नमः । (युद्ध.१५.२५)
१०६३. ॐ अनर्घ्यमुक्ताफलदिव्यहारैर्विरोचमानाय नमः । (युद्ध.१५.२५)
१०६४. ॐ सुग्रीवमुख्यैर्हरिभिः प्रशस्तैर्निषेव्यमाणाय नमः । (युद्ध.१५.२६)
१०६५. ॐ कस्तूरिकाचन्दनलिप्तगात्राय नमः । (युद्ध.१५.२६)
१०६६. ॐ रवितुल्यभासाय नमः । (युद्ध.१५.२६)
१०६७. ॐ निवीतकल्पद्रुमपुष्पमालाय नमः । (युद्ध.१५.२६)
१०६८. ॐ सर्वदृगुत्सवाकृतये नमः । (युद्ध.१५.२८)
१०६९. ॐ नेत्रमनोरसायनाय नमः । (युद्ध.१५.२८)
१०७०. ॐ स्वानन्दमूर्तये नमः । (युद्ध.१५.२८)
१०७१. ॐ रघुवंशकेतवे नमः । (युद्ध.१५.३०)
१०७२. ॐ वसिष्ठेन वामदेवेन जाबालिना गौतमेन वाल्मिकिना च
कुशाग्रतुळसीयुक्तपुण्यगन्धजलैरभिषिक्ताय नमः । (युद्ध.१५.३९)
१०७३. ॐ नभसिस्थितैर्देवतैः चतुर्भिर्लोकपालैश्च सगणैः स्तुताय
नमः । (युद्ध.१५.४१)
१०७४. ॐ नवदूर्वादळश्यामाय नमः । (युद्ध.१५.४६)
१०७५. ॐ पद्मपत्रायतेक्षणाय नमः । (युद्ध.१५.४६)
१०७६. ॐ रविकोटिप्रभायुक्तकिरीटेन विराजिताय नमः । (युद्ध.१५.४६)
१०७७. ॐ कोटिकन्दर्पलावण्याय नमः । (युद्ध.१५.४७)
१०७८. ॐ पीताम्बरसमावृताय नमः । (युद्ध.१५.४७)
१०७९. ॐ दिव्याभरणसम्पन्नाय नमः । (युद्ध.१५.४७)
१०८०. ॐ दिव्यचन्दनलेपनाय नमः । (युद्ध.१५.४७)
१०८१. ॐ अयुतादित्यसङ्काशाय नमः । (युद्ध.१५.४८)
१०८२. ॐ द्विभुजाय नमः । (युद्ध.१५.४८)
१०८३. ॐ वामभागे समासीनां सीतां वामेनालिङ्ग्य संस्थिताय नमः । (युद्ध.१५.४९)
१०८४. ॐ सर्वदेवगणैर्युक्ताय उमयासहितदेवेन शङ्करेण स्तुताय
नमः । (युद्ध.१५.५०)
१०८५. ॐ सशक्तिकाय नमः । (युद्ध.१५.५१)
१०८६. ॐ नीलोत्पलदळश्यामळकोमळाय नमः । (युद्ध.१५.५१)
१०८७. ॐ किरीटहाराङ्गदभूषणाय नमः । (युद्ध.१५.५१)
१०८८. ॐ सिंहासनस्थाय महाप्रभाय नमः । (युद्ध.१५.५१)
१०८९. ॐ आदिमद्ध्यान्तविहीनाय नमः । (युद्ध.१५.५२)
१०९०. ॐ स्वे सुखेऽजस्ररतायानवद्याय नमः । (युद्ध.१५.५२)
१०९१. ॐ प्रपन्नभक्तानुविधानहेतोः सुरमानुषाद्यैः नानावतारैः
विधत्समानाय नमः । (युद्ध.१५.५३)
१०९२. ॐ गुणसंवृताय नमः । (युद्ध.१५.५३)
१०९३. ॐ ज्ञानिभिरेव नित्यं प्रतीयमानाय नमः । (युद्ध.१५.५३)
१०९४. ॐ स्वांशेन लोकं सकलं विधाय तदधः फणीश्वररूपेण
भासमानाय नमः । (युद्ध.१५.५४)
१०९५. ॐ लोकभर्त्रे नमः । (युद्ध.१५.५४)
१०९६. ॐ देहभृतां देहे शिखिरूपेण पवनपञ्चकरूपसहायेन
भुक्तमशेषमजस्रं पचते नमः । (युद्ध.१५.५५)
१०९७. ॐ अखण्डजगत्भर्त्रे नमः । (युद्ध.१५.५५)
१०९८. ॐ चन्द्रसूर्यशिखिमध्यगतं तेजः यस्य सत्वं तस्मै
नमः । (युद्ध.१५.५६)
१०९९. ॐ अशेषतनूनां चित् यस्य सत्वं तस्मै नमः । (युद्ध.१५.५६)
११००. ॐ तनुभृतां धैर्यं शौर्यं आयुरित्याद्याखिलं यस्य सत्वं
तस्मै नमः । (युद्ध.१५.५६)
११०१. ॐ यो विरिञ्चिशिवविष्णुविभेदात् कालकर्मशशिसूर्यविभागात्
वादिनां पृथगिव भाति तस्मै नमः । (युद्ध.१५.५७)
११०२. ॐ अनन्यत् एकस्मै ब्रह्मेति निश्चिताय नमः । (युद्ध.१५.५७)
११०३. ॐ मत्स्यादिरूपेण श्रुतौ पुराणेषु लोकसिद्धाय नमः । (युद्ध.१५.५८)
११०४. ॐ सदसद्विभागः सर्वं य एव, यस्यान्यत् न विभाति तस्मै
नमः । (युद्ध.१५.५८)
११०५. ॐ अनन्तसृष्टौ यत् यत् समुत्पन्नं, यत् उत्पत्स्यते, यत् भवत्
च तस्मै नमः । (युद्ध.१५.५९)
११०६. ॐ स्थावरजङ्गमादौ यया विना न दृश्यते तस्मै नमः । (युद्ध.१५.५९)
११०७. ॐ यस्य भक्तसेवामलमानसानां एव परमेकमैशं तत्त्वं विभाति
तस्मै नमः । (युद्ध.१५.६०)
११०८. ॐ ब्रह्माद्यैरविदितचिदात्मतत्त्वस्वरूपाय नमः । (युद्ध.१५.६१)
११०९. ॐ यस्य रूपं भक्त्या भजन् अदुःखो बुधो मुक्तिमुपैति तस्मै
नमः । (युद्ध.१५.६१)
१११०. ॐ यस्य नाममन्त्रं भवो, भवान्या सह काश्यां वसन्, मुमूर्षमाणस्य
विमुक्तये अनिशं दिशति तस्मै नमः । (युद्ध.१५.६२)
११११. ॐ राक्षसदुष्टशत्रुहन्त्रे नमः । (युद्ध.१५.६४)
१११२. ॐ मुरारये नमः । (युद्ध.१५.६५)
१११३. ॐ नेत्रमहोत्सवाय नमः । (युद्ध.१५.७२)
१११४. ॐ अभिषेकार्द्राय सीतालक्ष्मणसंयुताय सिंहासनस्थाय
नमः । (युद्ध.१५.७४)
१११५. ॐ देववृन्दैः स्तुताय नमः । (युद्ध.१५.७५)
१११६. ॐ मुनिनिकरैरीड्यमानाय नमः । (युद्ध.१५.७५)
१११७. ॐ देववृन्दैः पुष्पैर्वर्षद्भिः स्तुताय नमः । (युद्ध.१५.७५)
१११८. ॐ प्रसन्नस्मितरुचिरमुखाय नमः । (युद्ध.१५.७५)
१११९. ॐ सीतासौमित्रिवातात्मजमुनिहरिभिः सेव्यमानाय नमः । (युद्ध.१५.७५)
११२०. ॐ अखिलवत्सलाय नमः । (युद्ध.१६.२४)
११२१. ॐ कर्माध्यक्षोऽपि निर्मलाय नमः । (युद्ध.१६.२५)
११२२. ॐ कर्तृत्वादिविहीनाय नमः । (युद्ध.१६.२५)
११२३. ॐ सदा निर्विकाराय नमः । (युद्ध.१६.२५)
११२४. ॐ स्वानन्देन तुष्टोऽपि लोकानामुपदेशकृते नमः । (युद्ध.१६.२६)
११२५. ॐ परमानन्दाय नमः । (युद्ध.१६.२६)
११२६. ॐ मानुषवपुराश्रिताय नमः । (युद्ध.१६.२६)
११२७. ॐ विष्णोः परं पददायकाय नमः । (युद्ध.१६.३९)
११२८. ॐ तारकब्रह्मणे नमः । (युद्ध.१६.४५)
११२९. ॐ विष्णुरहस्यमूर्तये नमः । (युद्ध.१६.४५)
११३०. ॐ भूतेश्वराय नमः । (युद्ध.१६.४५)
११३१. ॐ रघुवंशतिलकाय नमः । (उत्तर.१.१)
११३२. ॐ कौसल्याहृदयनन्दनाय नमः । (उत्तर.१.१)
११३३. ॐ दशवदननिधनकारिणे नमः । (उत्तर.१.१)
११३४. ॐ पुण्डरीकाक्षाय नमः । (उत्तर.१.१)
११३५. ॐ कौसल्यानन्दवर्धनाय नमः । (उत्तर.१.२)
११३६. ॐ भीमविक्रमाय नमः । (उत्तर.१.२)
११३७. ॐ अयोद्ध्यायां अभिषिक्ताय नमः । (उत्तर.१.३)
११३८. ॐ सकलान्तरस्थाय नमः । (उत्तर.१.६१)
११३९. ॐ विज्ञानदृशे नमः । (उत्तर.१.६१)
११४०. ॐ अचिन्त्यशक्तये नमः । (उत्तर.१.६२)
११४१. ॐ अक्षराय नमः । (उत्तर.१.६२)
११४२. ॐ विदितात्मतत्त्वाय नमः । (उत्तर.१.६२)
११४३. ॐ गूढनिजरूपायानुप्रवृत्ताय नमः । (उत्तर.१.६२)
११४४. ॐ इनवंशपवित्रकीर्तये नमः । (उत्तर.१.६३)
११४५. ॐ जगदादिकृते नमः । (उत्तर.२.५७)
११४६. ॐ साक्षात्नारायणाय नमः । (उत्तर.२.५७)
११४७. ॐ लोकपितामहः ब्रह्मा यस्य नाभिकमलोत्पन्नस्तस्मै नमः । (उत्तर.२.५८)
११४८. ॐ अग्निर्यस्य मुखतो जातस्तस्मै नमः । (उत्तर.२.५८)
११४९. ॐ लोकपालौघा यस्य बाहुभ्यां समुत्थितास्तस्मै नमः । (उत्तर.२.५९)
११५०. ॐ चन्द्रभास्करौ यस्य चक्षुर्भ्यां समुत्थितास्तस्मै
नमः । (उत्तर.२.५९)
११५१. ॐ दिशश्चविदिशश्चैव यस्य कर्णाभ्यां समुत्थितास्तस्मै
नमः । (उत्तर.२.५९)
११५२. ॐ देवसत्तमौ अश्विनौ प्राणाश्च यस्य घ्राणात् समुत्पन्नास्तस्मै
नमः । (उत्तर.२.६०)
११५३. ॐ भुवर्लोकादयो यस्य जङ्घाजानूरुजघनादभवन् तस्मै
नमः । (उत्तर.२.६०)
११५४. ॐ चत्वारः सागराः यस्य कुक्षिदेशात् समुत्पन्नास्तस्मै
नमः । (उत्तर.२.६१)
११५५. ॐ इन्द्रवरुणौ यस्य स्तनाभ्यां समुत्पन्नास्तस्मै नमः । (उत्तर.२.६१)
११५६. ॐ बालखिल्यो यस्य रेतसः समुत्पन्नास्तस्मै नमः । (उत्तर.२.६१)
११५७. ॐ यमो यस्य मेढ्राद् जातस्तस्मै नमः । (उत्तर.२.६२)
११५८. ॐ मृत्युर्यस्य गुदाद् जातस्तस्मै नमः । (उत्तर.२.६२)
११५९. ॐ रुद्रो यस्य मन्योः जातस्तस्मै नमः । (उत्तर.२.६२)
११६०. ॐ पर्वताः यस्य अस्थिभ्यो जातास्तस्मै नमः । (उत्तर.२.६२)
११६१. ॐ मेघसंहतिः यस्य केशेभ्यो जातास्तस्मै नमः । (उत्तर.२.६२)
११६२. ॐ औषध्यः यस्य रोमेभ्यस्समुत्पन्नास्तस्मै नमः । (उत्तर.२.६३)
११६३. ॐ खरादयः यस्य नखेभ्यस्समुत्पन्नास्तस्मै नमः । (उत्तर.२.६३)
११६४. ॐ विश्वरूपाय नमः । (उत्तर.२.६३)
११६५. ॐ मायाशक्तिसमन्विताय नमः । (उत्तर.२.६३)
११६६. ॐ सर्वविश्वस्थावरजङ्गमस्रष्ट्रे नमः । (उत्तर.२.६४)
११६७. ॐ यमाश्रित्य सर्वे स्थावरजङ्गमाः जीवन्ति व्यवहरन्ति च
तस्मै नमः । (उत्तर.२.६५)
११६८. ॐ यस्य भासा अर्कादिर्भास्यते तेन यो नाभिभास्यते तस्मै
नमः । (उत्तर.२.६५)
११६९. ॐ सर्वगाय नमः । (उत्तर.२.६७)
११७०. ॐ अज्ञानचक्षुषा अदृश्याय नमः । (उत्तर.२.६७)
११७१. ॐ ज्ञानचक्षुषा विलोक्यमानाय नमः । (उत्तर.२.६५)
११७२. ॐ यं योगिनः अहर्निशं अतन्निरसनमुखैर्वेदशीर्षैः स्वदेहे
विचिन्वन्ते तस्मै नमः । (उत्तर.२.६८)
११७३. ॐ यं विचिन्वन्तो योगिनः चिन्मात्रं परमेश्वरं भगवत्पादभक्तिलेशेन
गृहीता यदि एव पश्यन्ति तस्मै नमः । (उत्तर.२.६९)
११७४. ॐ दिग्देशकालपरिहीनाय नमः । (उत्तर.२.७१)
११७५. ॐ अनन्याय नमः । (उत्तर.२.७१)
११७६. ॐ चलनादिहीनाय नमः । (उत्तर.२.७१)
११७७. ॐ व्युदस्तमायाय नमः । (उत्तर.२.७१)
११७८. ॐ लीलानृदेहिने नमः । (उत्तर.३.२३)
११७९. ॐ सर्वभूतान्तरस्थाय नमः । (उत्तर.३.२४)
११८०. ॐ नित्यमुक्तचिदात्मने नमः । (उत्तर.३.२४)
११८१. ॐ अखण्डानन्दरूपाय नमः । (उत्तर.३.२४)
११८२. ॐ लीलामानुषरूपिणे नमः । (उत्तर.३.२५)
११८३. ॐ जगतां भर्त्रे नमः । (उत्तर.३.३२)
११८४. ॐ जन्मादिरहिताय नमः । (उत्तर.३.३२)
११८५. ॐ सुरासुरैर्नुताय नमः । (उत्तर.३.३२)
११८६. ॐ हरिर्नारायणाय नमः । (उत्तर.३.३२)
११८७. ॐ ओङ्काराय नमः । (उत्तर.३.४२)
११८८. ॐ सत्याय नमः । (उत्तर.३.४२)
११८९. ॐ समस्तजगदाधाराय नमः । (उत्तर.३.४२)
११९०. ॐ शेषरूपधराय नमः । (उत्तर.३.४२)
११९१. ॐ अव्ययात्मने नमः । (उत्तर.३.४५)
११९२. ॐ निलोत्पलदळश्यामाय नमः । (उत्तर.३.४६)
११९३. ॐ विद्युद्वर्णाम्बरावृताय नमः । (उत्तर.३.४६)
११९४. ॐ हरिभक्तैः धूतकल्मषैः वेदान्तामलदृष्टिभिः द्रष्टुं
शक्यमानाय नमः । (उत्तर.३.५०)
११९५. ॐ नृपविग्रहाय नमः । (उत्तर.३.५१)
११९६. ॐ महासत्वपराक्रमाय नमः । (उत्तर.३.५२)
११९७. ॐ श्रिया युताय नमः । (उत्तर.३.५४)
११९८. ॐ विज्ञानदृशे नमः । (उत्तर.४.११)
११९९. ॐ त्रिकालकलनासाक्षिणे नमः । (उत्तर.४.११)
१२००. ॐ विकल्पोज्झिताय नमः । (उत्तर.४.११)
१२०१. ॐ भक्तानामनुवर्तनाय सकलां क्रियासंहतिं कुर्वते नमः । (उत्तर.४.११)
१२०२. ॐ लोकार्चिताय नमः । (उत्तर.४.११)
१२०३. ॐ हनूमद्प्रमुखैः सद्भिर्वानरैः परिवेष्टिताय नमः । (उत्तर.४.१४)
१२०४. ॐ परमधर्मविदे नमः । (उत्तर.४.२५)
१२०५. ॐ मायामानुषविग्रहाय नमः । (उत्तर.४.२६)
१२०६. ॐ लोकवन्द्यपदाम्बुजाय नमः । (उत्तर.४.२६)
१२०७. ॐ एकपत्नीव्रताय नमः । (उत्तर.४.२७)
१२०८. ॐ राजर्षये नमः । (उत्तर.४.२७)
१२०९. ॐ सर्वदा शुचये नमः । (उत्तर.४.२७)
१२१०. ॐ नीलमाणिक्यसङ्काशाय नमः । (उत्तर.४.३०)
१२११. ॐ दिव्याभरणभूषिताय नमः । (उत्तर.४.३०)
१२१२. ॐ प्रसन्नवदनाय नमः । (उत्तर.४.३०)
१२१३. ॐ विद्युत्पुञ्जनिभाम्बराय नमः । (उत्तर.४.३०)
१२१४. ॐ देवदेवाय नमः । (उत्तर.४.३२)
१२१५. ॐ चिदानन्दाय नमः । (उत्तर.४.३२)
१२१६. ॐ आदिमध्यान्तरहिताय नमः । (उत्तर.४.३२)
१२१७. ॐ अशेषकारणाय नमः । (उत्तर.४.३२)
१२१८. ॐ ज्ञानैकलक्षणाय नमः । (उत्तर.४.४१)
१२१९. ॐ विज्ञानदृशे नमः । (उत्तर.४.५७)
१२२०. ॐ आदिदेवाय नमः । (उत्तर.४.५७)
१२२१. ॐ मुनिसेविताङ्घ्रये नमः । (उत्तर.४.५७)
१२२२. ॐ जगन्मङ्गळमङ्गळात्मने नमः । (उत्तर.५.१)
१२२३. ॐ राजर्षिवर्यैरभिसेविताय नमः । (उत्तर.५.१)
१२२४. ॐ रमालाळितपादपङ्कजाय नमः । (उत्तर.५.३)
१२२५. ॐ प्रपन्नार्तिहराय नमः । (उत्तर.५.६)
१२२६. ॐ प्रसन्नधिये नमः । (उत्तर.५.६)
१२२७. ॐ क्षितिपालभूषणाय नमः । (उत्तर.५.६)
१२२८. ॐ असङ्गरूपाय नमः । (उत्तर.५.३१)
१२२९. ॐ निरस्तसर्वातिशयाय नमः । (उत्तर.५.३५)
१२३०. ॐ सुखात्मकाय नमः । (उत्तर.५.३५)
१२३१. ॐ स्वयम्प्रभाय नमः । (उत्तर.५.३५)
१२३२. ॐ विकल्पमायारहिताय नमः । (उत्तर.५.३८)
१२३३. ॐ चिदात्मकाय नमः । (उत्तर.५.३८)
१२३४. ॐ सर्वकारणाय नमः । (उत्तर.५.३८)
१२३५. ॐ निरामयाय नमः । (उत्तर.५.३८)
१२३६. ॐ प्रकाशरूपाय नमः । (उत्तर.५.४३)
१२३७. ॐ विशुद्धविज्ञानघनाय नमः । (उत्तर.५.४३)
१२३८. ॐ सम्पूर्णानन्दमयाय नमः । (उत्तर.५.४३)
१२३९. ॐ अक्रियाय नमः । (उत्तर.५.४३)
१२४०. ॐ सदा मुक्ताय नमः । (उत्तर.५.४४)
१२४१. ॐ अचिन्त्यशक्तिमते नमः । (उत्तर.५.४४)
१२४२. ॐ अतीन्द्रियज्ञानिने नमः । (उत्तर.५.४४)
१२४३. ॐ अविक्रियात्मकाय नमः । (उत्तर.५.४४)
१२४४. ॐ अनन्तपाराय नमः । (उत्तर.५.४४)
१२४५. ॐ चिदानन्दमयाय नमः । (उत्तर.५.४७)
१२४६. ॐ उपाधितो मुक्ताय नमः । (उत्तर.५.५१)
१२४७. ॐ अगुणाय नमः । (उत्तर.५.६१)
१२४८. ॐ गुणात्मकाय नमः । (उत्तर.५.६१)
१२४९. ॐ गुणात्पराय नमः । (उत्तर.५.६१)
१२५०. ॐ जगतामादये आदिमद्ध्यान्तवर्जिताय नमः । (उत्तर.७.४७)
१२५१. ॐ परानन्दाय नमः । (उत्तर.७.४७)
१२५२. ॐ मातृवत्सलाय नमः । (उत्तर.७.५०)
१२५३. ॐ अनन्तगुणालयाय नमः । (उत्तर.७.५६)
१२५४. ॐ जीवरूपेण संस्थिताय नमः । (उत्तर.७.७१)
१२५५. ॐ रघुकुलतिलकाय नमः । (उत्तर.७.७५)
१२५६. ॐ सदा धर्मपथे स्थिताय नमः । (उत्तर.८.८)
१२५७. ॐ स्वतेजसा दीप्यमानाय नमः । (उत्तर.८.१३)
१२५८. ॐ परन्तपाय नमः । (उत्तर.८.२२)
१२५९. ॐ मधुकैटभहन्त्रे नमः । (उत्तर.८.२६)
१२६०. ॐ कश्यपाज्जाताय वामनरूपधृचे नमः । (उत्तर.८.२९)
१२६१. ॐ रक्षोगणस्यवधात् भूभारं हृतवते नमः । (उत्तर.८.३०)
१२६२. ॐ धरणीधराय नमः । (उत्तर.८.३०)
१२६३. ॐ रघूद्वहाय नमः । (उत्तर.८.५३)
१२६४. ॐ भूभारहारिणे नमः । (उत्तर.८.६१)
१२६५. ॐ वासुदेवाख्याय नमः । (उत्तर.८.६८)
१२६६. ॐ अक्षयैः ऋषिभिर्वृताय नमः । (उत्तर.९.२२)
१२६७. ॐ तेजसा ज्वलनप्रभाय नमः । (उत्तर.९.२२)
१२६८. ॐ दुकूलयुगसंवीताय नमः । (उत्तर.९.२२)
१२६९. ॐ सितकञ्जनेत्राय नमः । (उत्तर.९.३५)
१२७०. ॐ क्षौमाम्बराय नमः । (उत्तर.९.३६)
१२७१. ॐ दर्भपवित्रपाणये नमः । (उत्तर.९.३६)
१२७२. ॐ महाप्रयाणाय गृहीतबूद्धये नमः । (उत्तर.९.३६)
१२७३. ॐ पद्मविशालनेत्राय नमः । (उत्तर.९.३७)
१२७४. ॐ शशिकोटिकान्तये नमः । (उत्तर.९.३७)
१२७५. ॐ सितपद्महस्तया पद्मया सव्ये समेताय नमः । (उत्तर.९.३७)
१२७६. ॐ दीप्यमानाय श्यामाय नमः । (उत्तर.९.३८)
१२७७. ॐ अरुणकञ्जहस्तया भुवा दक्षे समेताय नमः । (उत्तर.९.३८)
१२७८. ॐ रमासमेताय नमः । (उत्तर.९.४१)
१२७९. ॐ साक्षात् परात्मने नमः । (उत्तर.९.४४)
१२८०. ॐ अनन्तशक्तये नमः । (उत्तर.९.५०)
१२८१. ॐ विदुषे नमः । (उत्तर.९.५१)
१२८२. ॐ भक्तपराय नमः । (उत्तर.९.५१)
१२८३. ॐ देवाधिपतये नमः । (उत्तर.९.५३)
१२८४. ॐ चक्रादियुताय नमः । (उत्तर.९.५४)
१२८५. ॐ दिवौकसां चक्षूंषि मुष्णते महाप्रकाशाय नमः । (उत्तर.९.५४)
१२८६. ॐ तेजोमयदिव्यमूर्तये नमः । (उत्तर.९.५६)
१२८७. ॐ सुरेन्द्रमुख्यैः मुनिभिः च परितः स्तुताय परिपूजिताय
नमः । (उत्तर.९.५७)
१२८८. ॐ पितामहादिभिः परितः स्तुताय परिपूजिताय नमः । (उत्तर.९.५७)
१२८९. ॐ लोकगुरवे नमः । (उत्तर.९.६५)
भरतलक्ष्मणशत्रुघ्ननामानि
१. ॐ लक्ष्मणाय नमः । (माहात्म्यम्.०.४९)
२. ॐ भरताय लक्ष्मणाय शत्रुघ्नाय च नमः । (बाल.३.४०)
३. ॐ विश्वामित्रेण मुनिभिः पूजिताय लक्ष्मणाय नमः । (बाल.५.२)
४. ॐ नरशार्दूलाय लक्ष्मणाय नमः । (बाल.६.९)
५. ॐ देवसुतोपमाय लक्ष्मणाय नमः । (बाल.६.९)
६. ॐ धर्मज्ञेन जनकराज्ञा पूजिताय लक्ष्मणाय नमः । (बाल.६.१७)
७. ॐ कबन्धबाहुछेदकाय लक्ष्मणाय नमः । (आरण्य.९.९)
८. ॐ धनुर्बाणकराय लक्ष्मणाय नमः । (किष्किन्धा.१.६)
९. ॐ जटावल्क्कलमण्डिताय लक्ष्मणाय नमः । (किष्किन्धा.१.६)
१०. ॐ दान्ताय लक्ष्मणाय नमः । (किष्किन्धा.१.६)
११. ॐ सुविक्रमाय लक्ष्मणाय नमः । (किष्किन्धा.१.६)
१२. ॐ पुरुषव्याघ्राय लक्ष्मणाय नमः । (किष्किन्धा.१.१२)
१३. ॐ वीरसम्मताभ्यां लक्ष्मणाय नमः । (किष्किन्धा.१.१२)
१४. ॐ भास्कर इव सर्वाः दिशः द्योतयते लक्ष्मणाय नमः । (किष्किन्धा.१.१२)
१५. ॐ भूभारहरणार्थं मायया मानुषाकारलीलया चरते लक्ष्मणाय
नमः । (किष्किन्धा.१.१४)
१६. ॐ भक्तानां पालनाय मायया मानुषाकारलीलया चरते लक्ष्मणाय
नमः । (किष्किन्धा.१.१४)
१७. ॐ जगत्स्थितिलयौ सर्गं च लीलया कर्तुमुद्यते लक्ष्मणाय
नमः । (किष्किन्धा.१.१५)
१८. ॐ क्षत्रियाकृति चरते लक्ष्मणाय नमः । (किष्किन्धा.१.१५)
१९. ॐ इहावतीर्णाय परस्मै लक्ष्मणाय नमः । (किष्किन्धा.१.१५)
२०. ॐ स्वतन्त्राय लक्ष्मणाय नमः । (किष्किन्धा.१.१६)
२१. ॐ प्रेरकाय लक्ष्मणाय नमः । (किष्किन्धा.१.१६)
२२. ॐ हृदयस्थाय लक्ष्मणाय नमः । (किष्किन्धा.१.१६)
२३. ॐ साक्षाद्धराधराय शेषाय लक्ष्मणाय नमः । (युद्ध.८.६७)
२४. ॐ धराभारनिवारणार्थं जाताय लक्ष्मणाय नमः । (युद्ध.८.६८)
२५. ॐ जगन्नाटकसूत्रधाराय लक्ष्मणाय नमः । (युद्ध.८.६८)
२६. ॐ भूरिविक्रमाय सौमित्रये लक्ष्मणाय नमः । (युद्ध.९.१२)
२७. ॐ भीमविक्रमाय लक्ष्मणाय नमः । (युद्ध.९.३५)
२८. ॐ इन्द्रजितं हतवते लक्ष्मणाय नमः । (युद्ध.९.४७)
२९. ॐ मानदाय लक्ष्मणाय नमः । (युद्ध.१२.७)
३०. ॐ शब्दब्रह्मसमाहिताय भरताय नमः । (युद्ध.१३.४२)
३१. ॐ जटावल्कलधारिणे भरताय नमः । (युद्ध.१३.४२)
३२. ॐ महामनसे भरताय नमः । (युद्ध.१४.१८)
३३. ॐ फलमूलाकृताहाराय भरताय नमः । (युद्ध.१४.१८)
३४. ॐ शेषाय लक्ष्मणाभिधाय नमः । (युद्ध.१४.२३)
३५. ॐ रामचिन्तापरायणाय भरताय नमः । (युद्ध.१४.५३)
३६. ॐ कैकेयिप्रियनन्दनाय भरताय नमः । (युद्ध.१४.५९)
३७. ॐ शत्रुहणाय शत्रुघ्नाय नमः । (युद्ध.१४.६८)
३८. ॐ शत्रुसूदनाय शत्रुघ्नाय नमः । (उत्तर.६.१५)
३९. ॐ महाहिरूपकाय लक्ष्मणाय नमः । (उत्तर.८.७२)
४०. ॐ ईश्वरतल्पभूताय अत्यद्भुतभोगधारिणे शेषाय
लक्ष्मणाय नमः । (उत्तर.९.५५)
४१. ॐ दिव्याभ्यां चक्रदराभ्यां कैकेयिसूनुलवणान्तकाभ्यां
भरतशत्रुघ्नाभ्यां नमः । (उत्तर.९.५५)
परशुरामनामानि
१. ॐ जमदग्निसुताय नमः । (माहात्म्यम्.०.४९)
२. ॐ कोटिसूर्यप्रतीकाशाय नमः । (बाल.७.६)
३. ॐ विद्युत्पुञ्जसमप्रभाय नमः । (बाल.७.६)
४. ॐ तेजोराशये नमः । (बाल.७.६)
५. ॐ प्रतापवते नमः । (बाल.७.६)
६. ॐ जामदग्नये नमः । (बाल.७.६)
७. ॐ नीलमेघनिभाय नमः । (बाल.७.७)
८. ॐ प्रांशवे नमः । (बाल.७.७)
९. ॐ जटामण्डलमण्डिताय नमः । (बाल.७.७)
१०. ॐ धनुःपरशुपाणये नमः । (बाल.७.७)
११. ॐ भार्गवरामाय नमः । (बाल.७.७)
१२. ॐ कार्तवीर्यान्तकाय नमः । (बाल.७.८)
१३. ॐ दृप्तक्षत्रियमर्दकाय नमः । (बाल.७.८)
हनूमन्नामानि
१. ॐ हनूमते नमः । (माहात्म्यम्.०.४४)
२. ॐ कृतकार्याय नमः । (बाल.१.२९)
३. ॐ निराकाङ्क्षाय नमः । (बाल.१.२९)
४. ॐ ज्ञानापेक्षाय नमः । (बाल.१.२९)
५. ॐ महामतये नमः । (बाल.१.२९)
६. ॐ निष्कल्मषाय नमः । (बाल.१.३०)
७. ॐ ज्ञानस्य पात्राय नमः । (बाल.१.३०)
८. ॐ नित्यभक्तिमते नमः । (बाल.१.३०)
९. ॐ वटुरूपाय नमः । (किष्किन्धा.१.८)
१०. ॐ द्विजाकृतये नमः । (किष्किन्धा.१.८)
११. ॐ सुग्रीवसचिवाय नमः । (किष्किन्धा.१.२३)
१२. ॐ वायुपुत्राय नमः । (किष्किन्धा.१.२३)
१३. ॐ अञ्जनागर्भसम्भवाय नमः । (किष्किन्धा.१.२४)
१४. ॐ हनूमन्नामविख्याताय नमः । (किष्किन्धा.१.२४)
१५. ॐ सुबुद्धिमते नमः । (किष्किन्धा.४.४३)
१६. ॐ पवनहितकुमाराय नमः । (किष्किन्धा.४.५४)
१७. ॐ मारुतये नमः । (किष्किन्धा.४.५४)
१८. ॐ सुग्रीवमन्त्रिणां श्रेष्ठाय नमः । (किष्किन्धा.६.१२)
१९. ॐ कोटिभल्लूकवृन्दपाय नमः । (किष्किन्धा.६.१२)
२०. ॐ महासत्वपराक्रमाय नमः । (किष्किन्धा.६.१२)
२१. ॐ वायुपुत्राय नमः । (किष्किन्धा.६.१३)
२२. ॐ अतितेजस्विने नमः । (किष्किन्धा.६.१३)
२३. ॐ बुद्धिमतां वराय नमः । (किष्किन्धा.६.१३)
२४. ॐ केसरीपुत्राय नमः । (किष्किन्धा.६.१५)
२५. ॐ महाबलाय नमः । (किष्किन्धा.६.२३)
२६. ॐ मारुतात्मजाय नमः । (किष्किन्धा.७.१०)
२७. ॐ वायुतुल्यपराक्रमाय नमः । (किष्किन्धा.९.१७)
२८. ॐ साक्षाद्वायुतनयाय नमः । (किष्किन्धा.९.१७)
२९. ॐ महानगेन्द्रप्रतीकाय नमः । (किष्किन्धा.९.२९)
३०. ॐ सुवर्णवर्णायारुणचारुवक्त्राय नमः । (किष्किन्धा.९.२९)
३१. ॐ महाफणीन्द्राभसुदीर्घबाहवे नमः । (किष्किन्धा.९.२९)
३२. ॐ वातात्मजाय नमः । (किष्किन्धा.९.२९)
३३. ॐ आनन्दसन्दोहाय नमः । (सुन्दर.१.१)
३४. ॐ अमोघं रामनिर्मुक्तं महाबाणमिव विहायसा गच्छते
नमः । (सुन्दर.१.३)
३५. ॐ ऋजुग्रीवोर्द्ध्वदृष्टये नमः । (सुन्दर.१.७)
३६. ॐ आकुञ्चितपदद्वयाय नमः । (सुन्दर.१.७)
३७. ॐ दक्षिणाभिमुखाय नमः । (सुन्दर.१.७)
३८. ॐ अनिलविक्रमाय नमः । (सुन्दर.१.७)
३९. ॐ देवैर्वीक्षमाणाय आकाशात्त्वरितं वायुवेगतः गच्छते
नमः । (सुन्दर.१.८)
४०. ॐ अनिलसुताय नमः । (सुन्दर.१.८)
४१. ॐ महासत्वाय नमः । (सुन्दर.१.९)
४२. ॐ वायुविक्रमाय नमः । (सुन्दर.१.९)
४३. ॐ सिंहिकाहन्त्रे नमः । (सुन्दर.१.३८)
४४. ॐ पवनात्मजाय नमः । (सुन्दर.१.५८)
४५. ॐ सीतान्वेषणकारिणे नमः । (सुन्दर.२.२)
४६. ॐ बुद्धिमत्तराय नमः । (सुन्दर.३.१५)
४७. ॐ रक्तास्याय नमः । (सुन्दर.३.२०)
४८. ॐ पीतवानराय नमः । (सुन्दर.३.२०)
४९. ॐ कोसलेन्द्रस्य रामस्य परमात्मनः दासाय नमः । (सुन्दर.३.२३)
५०. ॐ हरीन्द्रस्य सुग्रीवस्य सचिवाय नमः । (सुन्दर.३.२४)
५१. ॐ रामचन्द्रस्य दासाय नमः । (सुन्दर.३.२६)
५२. ॐ मारुतनन्दनाय नमः । (सुन्दर.३.३३)
५३. ॐ कपीन्द्राय नमः । (सुन्दर.३.५२)
५४. ॐ मेरुमन्दरसङ्काशाय नमः । (सुन्दर.३.६५)
५५. ॐ रक्षोगणविभीषणाय नमः । (सुन्दर.३.६५)
५६. ॐ महापर्वतसन्निभाय नमः । (सुन्दर.३.६५)
५७. ॐ कपिकुञ्जराय नमः । (सुन्दर.३.६६)
५८. ॐ समर्थाय नमः । (सुन्दर.३.६६)
५९. ॐ रावणोद्यानभञ्जकाय नमः । (सुन्दर.३.७१)
६०. ॐ अमितविक्रमाय नमः । (सुन्दर.३.७६)
६१. ॐ पर्वताकाराय नमः । (सुन्दर.३.७९)
६२. ॐ लोहस्तम्भकृतायुधाय नमः । (सुन्दर.३.७९)
६३. ॐ भीषणाकृतये नमः । (सुन्दर.३.७९)
६४. ॐ अक्षकुमारहन्त्रे नमः । (सुन्दर.३.८८)
६५. ॐ पवनात्मजाय नमः । (सुन्दर.४.७)
६६. ॐ अशेषहृद्स्थितस्य रामस्य दूताय नमः । (सुन्दर.४.८)
६७. ॐ करुणारसार्द्रधिये नमः । (सुन्दर.४.१४)
६८. ॐ रावणहितोपदेशकारिणे नमः । (सुन्दर.४.१५)
६९. ॐ वायुसूनवे नमः । (सुन्दर.४.२७)
७०. ॐ कपीश्वराय नमः । (सुन्दर.४.२७)
७१. ॐ अपारविक्रमाय नमः । (सुन्दर.४.३०)
७२. ॐ रामस्य दूताय नमः । (सुन्दर.४.३०)
७३. ॐ लङ्कादाहकाय नमः । (सुन्दर.४.४३)
७४. ॐ रघुवरस्य विशिष्टदूताय नमः । (सुन्दर.४.४८)
७५. ॐ वानरर्षभाय नमः । (सुन्दर.५.१३)
७६. ॐ पवननन्दनाय नमः । (सुन्दर.५.२६)
७७. ॐ परमात्मना परिरम्भिताय नमः । (सुन्दर.५.६३)
७८. ॐ हरिपुङ्गवाय नमः । (सुन्दर.५.६३)
७९. ॐ रामेण परिरब्धमूर्तये नमः । (सुन्दर.५.६४)
८०. ॐ कृतपूण्यपुञ्जाय नमः । (सुन्दर.५.६४)
८१. ॐ वायुतनयाय नमः । (सुन्दर.५.६४)
८२. ॐ अनिलनन्दनाय नमः । (युद्ध.५.७३)
८३. ॐ महाकपये नमः । (युद्ध.६.२४)
८४. ॐ महात्मने नमः । (युद्ध.७.६)
८५. ॐ श्रीमते नमः । (युद्ध.७.७)
८६. ॐ पवननन्दनाय नमः । (युद्ध.७.७)
८७. ॐ रामदूताय नमः । (युद्ध.७.१३)
८८. ॐ धान्यमाल्यायाः शापमोक्षदायकाय नमः । (युद्ध.७.२४)
८९. ॐ मायिनां रिपवे नमः । (युद्ध.७.३२)
९०. ॐ कालनेमिहन्त्रे नमः । (युद्ध.७.३३)
९१. ॐ लक्ष्मणप्राणसञ्जीवकाय नमः । (युद्ध.७.३९)
९२. ॐ प्रियवादिने नमः । (युद्ध.१४.६०)
इति श्रीरामनामावलिः सम्पूर्णा ।
श्रीरामार्पणमस्तु ।
ॐ श्रीरामचन्द्राय नमः ।
ॐ आञ्जनेयाय नमः ।
ॐ सीताभरतलक्ष्मणशत्रुघ्नहनूमत्समेतश्रीरामचन्द्राय नमः ।
ॐ नमः पार्वतीपतये हर हर महादेव ।
श्रीरामकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन्
कृतज्ञता - सम्पूज्य स्वामि शिवानन्द सरस्वति (सिद्धाश्रमं, आलत्तूर्,
पालक्काट्), सम्पूज्य स्वरूपानन्द सरस्वति (शिवानन्दाश्रमं, पालक्काट्),
श्री मोहन् चेट्टूर्
Compiler contact details
M. Narendran,
``Nama Sivaya,'' Near Siva Temple,
Kallekulangara, Palakkad-6778009
Email madathilnarendran at gmail.com. Phone (91) 9495035516.
Note: Shloka numbers differ from book to book.
The numbers shown herein are based on a July 2001
MalayalaM edition by the Ethos publishers
and are indicative only.
The nAmAvalI is constructed from The
Adhyatmaramayana with efforts by Narendran Madathil
(madathilnarendran at gmail.com).