॥ अध्यात्मरामायणे सुन्दरकाण्डम् ॥

॥ प्रथमः सर्गः ॥

श्रीमहादेव उवाच । शतयोजनविस्तीर्णं समुद्रं मकरालयम् । लिलङ्घयिषुरानन्दसन्दोहो मारुतात्मजः ॥ १॥ ध्यात्वा रामं परात्मानमिदं वचनमब्रवीत् । पश्यन्तु वानराः सर्वे गच्छन्तं मां विहायसा ॥ २॥ अमोघं रामनिर्मुक्तं महाबाणमिवाखिलाः । पश्याम्यद्यैव रामस्य पत्नीं जनकनन्दिनीम् ॥ ३॥ कृतार्थोऽहं कृतार्थोऽहं पुनः पश्यामि राघवम् । प्राणप्रयाणसमये यस्य नाम सकृत्स्मरन् ॥ ४॥ नरस्तीर्त्वा भवाम्भोधिमपारं याति तत्पदम् । किं पुनस्तस्य दूतोऽहं तदङ्गाङ्गुलिमुद्रिकः ॥ ५॥ तमेव हृदये ध्यात्वा लङ्घयाम्यल्पवारिधिम् । इत्युक्त्वा हनुमान् बाहू प्रसार्यायतवालधिः ॥ ६॥ ऋजुग्रीवोर्ध्वदृष्टिः सन्नाकुञ्चितपदद्वयः । दक्षिणाभिमुखस्तूर्णं पुप्लुवेऽनिलविक्रमः ॥ ७॥ आकशात्त्वरितं देवैर्वीक्ष्यमाणो जगाम सः । दृष्ट्वानिलसुतं देवा गच्छन्तं वायुवेगतः ॥ ८॥ परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन् । गच्छत्येष महासत्त्वो वानरो वायुविक्रमः ॥ ९॥ लङ्कां प्रवेष्टुं शक्तो वा न वा जानीमहे बलम् । एवं विचार्य नागानां मातरं सुरसाभिधाम् ॥ १०॥ अब्रवीद्देवतावृन्दः कौतूहलसमन्वितः । गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर ॥ ११॥ ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता । इत्युक्ता सा ययौ शिघ्रं हनुमद्विघ्नकारणात् ॥ १२॥ आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत् । एहि मे वदनं शीघ्रं प्रविशस्व महामते ॥ १३॥ देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः । तामाह हनुमान् मातरहं रामस्य शासनात् ॥ १४॥ गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः । रामाय कुशलं तस्याः कथयित्वा त्वदाननम् ॥ १५॥ निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते । इत्युक्ता पुनरेवाह सुरसा क्षुधितास्म्यहम् ॥ १६॥ प्रविश्य गच्छ मे वक्त्रं नो चेत्त्वां भक्षयाम्यहम् । इत्युक्तो हनुमानाह मुखं शीघ्रं विदारय ॥ १७॥ प्रविश्य वदनं तेऽद्य गच्छामि त्वरयान्वितः । इत्युक्त्वा योजनायामदेहो भूत्वा पुरः स्थितः ॥ १८॥ दृष्ट्वा हनूमतो रूपं सुरसा पञ्चयोजनम् । मुखं चकार हनुमान् द्विगुणं रूपमादधत् ॥ १९॥ ततश्चकार सुरसा योजनानां च विंशतिम् । वक्त्रं चकार हनुमांस्त्रिंशद्योजनसम्मितम् ॥ २०॥ ततश्चकार सुरसा पञ्चाशद्योजनायतम् । वक्त्रं तदा हनूमांस्तु बभूवाङ्गुष्ठसन्निभः ॥ २१॥ प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः । प्रविष्टो निर्गतोऽहं ते वदनं देवि ते नमः ॥ २२॥ एवं वदन्तं दृष्ट्वा सा हनूमन्तमथाब्रवीत् । गच्छ साधय रामस्य कार्यं बुद्धिमतां वर ॥ २३॥ देवैः सम्प्रेषिताहं ते बलं जिज्ञासुभिः कपे । दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यसि गच्छ भोः ॥ २४॥ इत्युक्त्वा सा ययौ देवलोकं वायुसुतः पुनः । जगाम वायुमार्गेण गरुत्मानिव पक्षिराट् ॥ २५॥ समुद्रोऽप्याह मैनाकं मणिकाञ्चनपर्वतम् । गच्छत्येष महासत्त्वो हनूमान्मारुतात्मजः ॥ २६॥ रामस्य कार्यसिद्ध्यर्थं तस्य त्वं सचिवो भव । सगरैर्वर्द्धितो यस्मात्पुराहं सागरोऽभवम् ॥ २७॥ तस्यान्वये बभूवासौ रामो दाशरथिः प्रभुः । तस्य कार्यार्थसिद्ध्यर्थं गच्छत्येष महाकपिः ॥ २८॥ त्वमुत्तिष्ठ जलात्तूर्णं त्वयि विश्रम्य गच्छतु । स तथेति प्रादुरभूज्जलमध्यान्महोन्नतः ॥ २९॥ नानामणिमयैः शृङ्गैस्तस्योपरि नराकृतिः । प्राह यान्तं हनूमन्तं मैनाकोऽहं महाकपे ॥ ३०॥ समुद्रेण समादिष्टस्त्वद्विश्रामाय मारुते । आगच्छामृतकल्पानि जग्ध्वा पक्वफलानि मे ॥ ३१॥ विश्रम्यात्र क्षणं पश्चाद्गमिष्यसि यथासुखम् । एवमुक्तोऽथ तं प्राह हनूमान्मारुतात्मजः ॥ ३२॥ गच्छतो रामकार्यार्थं भक्षणं मे कथं भवेत् । विश्रामो वा कथं मे स्याद्गन्तव्यं त्वरितं मया ॥ ३३॥ इत्युक्त्वा स्पृष्टशिखरः कराग्रेण ययौ कपिः । किञ्चिद्दूरं गतस्यास्य छायां छायाग्रहोऽग्रहीत् ॥ ३४॥ सिंहिका नाम सा घोरा जलमध्ये स्थिता सदा । आकाशगामिनां छायामाक्रम्याकृष्य भक्षयेत् ॥ ३५॥ तया गृहीतो हनुमांश्चिन्तयामास वीर्यवान् । केनेदं मे कृतं वेगरोधनं विघ्नकारिणा ॥ ३६॥ दृश्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते । एवं विचिन्त्य हनुमानधो दृष्टिं प्रसारयत् ॥ ३७॥ तत्र दृष्ट्वा महाकायां सिंहिकां घोररूपिणीम् । पपात सलिले तूर्णं पद्भ्यामेवाहनद्रुषा ॥ ३८॥ पुनरुत्प्लुत्य हनूमान् दक्षिणाभिमुखो ययौ । ततो दक्षिणमासाद्य कूलं नानाफलद्रुमम् ॥ ३९॥ नानापक्षिमृगाकीर्णं नानापुष्पलतावृतम् । ततो ददर्श नगरं त्रिकूटाचलमूर्धनि ॥ ४०॥ प्राकारैर्बहुभिर्युक्तं परिखाभिश्च सर्वतः । प्रवेक्ष्यामि कथं लङ्कामिति चिन्तापरोऽभवत् ॥ ४१॥ रात्रौ वेक्ष्यामि सूक्ष्मोऽहं लङ्कां रावणपालिताम् । एवं विचिन्त्य तत्रैव स्थित्वा लङ्कां जगाम सः ॥ ४२॥ धृत्वा सूक्ष्मं वपुर्द्वारं प्रविवेश प्रतापवान् । तत्र लङ्कापुरी साक्षाद्राक्षसीवेषधारिणी ॥ ४३॥ प्रविशन्तं हनूमन्तं दृष्ट्वा लङ्का व्यतर्जयत् । कस्त्वं वानररूपेण मामनादृत्य लङ्किनीम् ॥ ४४॥ प्रविश्य चोरवद्रात्रौ किं भवान् कर्तुमिच्छति । इत्युक्त्वा रोषताम्राक्षी पादेनाभिजघान तम् ॥ ४५॥ हनुमानपि तां वाममुष्टिनावज्ञयाहनत् । तदैव पतिता भूमौ रक्तमुद्वमती भृशम् ॥ ४६॥ उत्थाय प्राह सा लङ्का हनूमन्तं महाबलम् । हनूमन् गच्छ भद्रं ते जिता लङ्का त्वयानघ ॥ ४७॥ पुराहं ब्रह्मणा प्रोक्ता ह्यष्टाविंशतिपर्यये । त्रेतायुगे दाशरथी रामो नारायणोऽव्ययः ॥ ४८॥ जनिष्यते योगमाया सीता जनकवेश्मनि । भूभारहरणार्थाय प्रार्थितोऽयं मया क्वचित् ॥ ४९॥ सभार्यो राघवो भ्रात्रा गमिष्यति महावनम् । तत्र सीतां महामायां रावणोऽपहरिष्यति ॥ ५०॥ पश्चादरामेण साचिव्यं सुग्रीवस्य भविष्यति । सुग्रीवो जानकीं द्रष्टुं वानरान् प्रेषयिष्यति ॥ ५१॥ तत्रैको वानरो रात्रावागमिष्यति तेऽन्तिकम् । त्वया च भर्त्सितः सोऽपि त्वां हनिष्यति मुष्टिना ॥ ५२॥ तेनाहता त्वं व्यथिता भविष्यसि यदानघे । तदैव रावणस्यान्तो भविष्यति न संशयः ॥ ५३॥ तस्मात् त्वया जिता लङ्का जितं सर्वं त्वयानघ । रावणान्तःपुरवरे क्रीडाकाननमुत्तमम् ॥ ५४॥ तन्मध्येऽशोकवनिका दिव्यपादपसङ्कुला । अस्ति तस्यां महावृक्षः शिंशपा नाम मध्यगः ॥ ५५॥ तत्रास्ते जानकी घोरराक्षसीभिः सुरक्षिता । दृष्ट्वैव गच्छ त्वरितं राघवाय निवेदय ॥ ५६॥ धन्याहमप्यद्य चिराय राघव- स्मृतिर्ममासीद्भवपाशमोचिनी । तद्भक्तसङ्गोऽप्यतिदुर्लभो मम प्रसीदतां दाशरथिः सदा हृदि ॥ ५७॥ उल्लङ्घितेऽब्धौ पवनात्मजेन धरासुतायाश्च दशाननस्य । पुस्फोर वामाक्षि भुजश्च तीव्रं रामस्य दक्षाङ्गमतीन्द्रियस्य ॥ ५८॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे प्रथमः सर्गः ॥ १॥

॥ द्वितीयः सर्गः ॥

श्रीमहादेव उवाच । ततो जगाम हनुमान् लङ्कां परमशोभनाम् । रात्रौ सूक्ष्मतनुर्भूत्वा बभ्राम परितः पुरीम् ॥ १॥ सीतान्वेषणकार्यार्थी प्रविवेश नृपालयम् । तत्र सर्वप्रदेशेषु विविच्य हनुमान् कपिः ॥ २॥ नापश्यज्जानकीं स्मृत्वा ततो लङ्काभिभाषितम् । जगाम हनुमान् शीघ्रमशोकवनिकां शुभाम् ॥ ३॥ सुरपादपसम्बाधां रत्नसोपानवापिकाम् । नानापक्षिमृगाकीर्णां स्वर्णप्रासादशोभिताम् ॥ ४॥ फलैरानम्रशाखाग्रपादपैः परिवारिताम् । विचिन्वन् जानकीं तत्र प्रतिवृक्षं मरुत्सुतः ॥ ५॥ ददर्शाभ्रंलिहं तत्र चैत्यप्रासादमुत्तमम् । दृष्ट्वा विस्मयमापन्नो मणिस्तम्भशतान्वितम् ॥ ६॥ समतीत्य पुनर्गत्वा किञ्चिद्दूरं स मारुतिः । ददर्श शिंशपावृक्षमत्यन्तनिबिडच्छदम् ॥ ७॥ अदृष्टातपमाकीर्णं स्वर्णवर्णविहङ्गमम् । तन्मूले राक्षसीमध्ये स्थितां जनकनन्दिनीम् ॥ ८॥ ददर्श हनुमान् वीरो देवतामिव भूतले । एकवेणीं कृशां दीनां मलिनाम्बरधारिणीम् ॥ ९॥ भुमौ शयानां शोचन्तीं रामरामेति भाषिणीम् । त्रातारं नाधिगच्छन्तीमुपवासकृशां शुभाम् ॥ १०॥ शाखान्तच्छदमध्यस्थो ददर्श कपिकुञ्जरः । कृतार्थोऽहं कृतार्थोऽहं दृष्ट्वा जनकनन्दिनीम् ॥ ११॥ मयैव साधितं कार्यं रामस्य परमात्मनः । ततः किलकिलाशब्दो बभूवान्तःपुराद्बहिः ॥ १२॥ किमेतदिति सँल्लीनो वृक्षपत्रेषु मारुतिः । आयान्तं रावणं तत्र स्त्रीजनैः परिवारितम् ॥ १३॥ दशास्यं विंशतिभुजं नीलाञ्जनचयोपमम् । दृष्ट्वा विस्मयमापन्नः पत्रखण्डेष्वलीयत ॥ १४॥ रावणो राघवेणाशु मरणं मे कथं भवेत् । सीतार्थमपि नायाति रामः किं कारणं भवेत् ॥ १५॥ इत्येवं चिन्तयन्नित्यं राममेव सदा हृदि । तस्मिन् दिनेऽपररात्रौ रावणो राक्षसाधिपः ॥ १६॥ स्वप्ने रामेण सन्दिष्टः कश्चिदागत्य वानरः । कामरूपधरः सूक्ष्मो वृक्षग्रस्थोऽनुपश्यति ॥ १७॥ इति दृष्ट्वाद्भुतं स्वप्नं स्वात्मन्येवानुचिन्त्य सः । स्वप्नः कदाचित्सत्यः स्यादेवं तत्र करोम्यहम् ॥ १८॥ जानकीं वाक्शरैर्विद्ध्वा दुःखितां नितरामहम् । करोमि दृष्ट्वा रामाय निवेदयतु वानरः ॥ १९॥ इत्येवं चिन्तयन् सीतासमीपमगमद्द्रुतम् । नूपुराणां किङ्किणीनां श्रुत्वा शिञ्जितमङ्गना ॥ २०॥ सीता भीता लीयमाना स्वात्मन्येव सुमध्यमा । अधोमुख्यश्रुनयना स्थिता रामार्पितान्तरा ॥ २१॥ रावणोऽपि तदा सीतामालोक्याह सुमध्यमे । मां दृष्ट्वा किं वृथा सुभ्रु स्वात्मन्येव विलीयसे ॥ २२॥ रामो वनचराणां हि मध्ये तिष्ठति सानुजः । कदाचिद्दृश्यते कैश्चित्कदाचिन्नैव दृश्यते ॥ २३॥ मया तु बहुधा लोकाः प्रेषितास्तस्य दर्शने । न पश्यन्ति प्रयत्नेन वीक्षमाणाः समन्ततः ॥ २४॥ किं करिष्यसि रामेण निःस्पृहेण सदा त्वयि । त्वया सदालिङ्गितोऽपि समीपस्थोऽपि सर्वदा ॥ २५॥ हृदयेऽस्य न च स्नेहस्त्वयि रामस्य जायते । त्वत्कृतान् सर्वभोगांश्च त्वद्गुणानपि राघवः ॥ २६॥ भुञ्जानोऽपि न जानाति कृतघ्नो निर्गुणोऽधमः । त्वमानीता मया साध्वी दुःखशोकसमाकुला ॥ २७॥ इदानीमपि नायाति भक्तिहीनः कथं व्रजेत् । निःसत्त्वो निर्ममो मानी मूढः पण्डितमानवान् ॥ २८॥ नराधमं त्वद्विमुखं किं करिष्यसि भामिनि । त्वय्यतीव समासक्तं मां भजस्वासुरोत्तमम् ॥ २९॥ देवगन्धर्वनागानां यक्षकिन्नरयोषिताम् । भविष्यसि नियोक्त्री त्वं यदि मां प्रतिपद्यसे ॥ ३०॥ रावणस्य वचः श्रुत्वा सीताऽमर्षसमन्विता । उवाचाधोमुखी भूत्वा निधाय तृणमन्तरे ॥ ३१॥ राघवाद्बिभ्यता नूनं भिक्षुरूपं त्वया धृतम् । रहिते राघवाभ्यां त्वं शुनीव हविरध्वरे ॥ ३२॥ हृतवानसि मां नीच तत्फलं प्राप्स्यसेऽचिरात् । यदा रामशराघातविदारितवपुर्भवान् ॥ ३३॥ ज्ञास्यसेऽमानुषं रामं गमिष्यसि यमान्तिकम् । समुद्रं शोषयित्वा वा शरैर्बद्ध्वाथ वारिधिम् ॥ ३४॥ हन्तुं त्वां समरे रामो लक्ष्मणेन समन्वितः । आगमिष्यत्यसन्देहो द्रक्ष्यसे राक्षसाधम ॥ ३५॥ त्वां सपुत्रं सहबलं हत्वा नेष्यति मां पुरम् ॥ श्रुत्वा रक्षःपतिः क्रुद्धो जानक्याः परुषाक्षरम् ॥ ३६॥ वाक्यं क्रोधसमाविष्टः खड्गमुद्यम्य सत्वरः । हन्तुं जनकराजस्य तनयां ताम्रलोचनः ॥ ३७॥ मन्दोदरी निवार्याह पतिं पतिहिते रता । त्यजैनां मानुषीं दीनां दुःखितां कृपणां कृशाम् ॥ ३८॥ देवगन्धर्वनागानां बह्व्यः सन्ति वराङ्गनाः । त्वामेव वरयन्त्युच्चैर्मदमत्तविलोचनाः ॥ ३९॥ ततोऽब्रवीद्दशग्रीवो राक्षसीर्विकृताननाः । यथा मे वशगा सीता भविष्यति सकामना । तथा यतध्वं त्वरितं तर्जनादरणादिभिः ॥ ४०॥ द्विमासाभ्यन्तरे सीता यदि मे वशगा भवेत् । तदा सर्वसुखोपेता राज्यं भोक्ष्यति सा मया ॥ ४१॥ यदि मासद्वयादूर्ध्वं मच्छय्यां नाभिनन्दति । तदा मे प्रातराशाय हत्वा कुरुत मानुषीम् ॥ ४२॥ इत्युक्त्वा प्रययौ स्त्रीभी रावणोऽन्तःपुरालयम् । राक्षस्यो जानकीमेत्य भीषयन्त्यः स्वतर्जनैः ॥ ४३॥ तत्रैका जानकीमाह यौवनं ते वृथा गतम् । रावणेन समासाद्य सफलं तु भविष्यति ॥ ४४॥ अपरा चाह कोपेन किं विलम्बेन जानकि । इदानीं छेद्यतामङ्गं विभज्य च पृथक् पृथक् ॥ ४५॥ अन्या तु खड्गमुद्यम्य जानकीं हन्तुमुद्यता । अन्या करालवदना विदार्यास्यमभीषयत् ॥ ४६॥ एवं तां भीषयन्तीस्ता राक्षसीर्विकृताननाः । निवार्य त्रिजटा वृद्धा राक्षसी वाक्यमब्रवीत् ॥ ४७॥ शृणुध्वं दुष्टराक्षस्यो मद्वाक्यं वो हितं भवेत् ॥ ४८॥ न भीषयध्वं रुदतीं नमस्कुरुत जानकीम् । इदानीमेव मे स्वप्ने रामः कमललोचनः ॥ ४९॥ आरुह्यैरावतं शुभ्रं लक्ष्मणेन समागतः । दग्ध्वा लङ्कापुरीं सर्वां हत्वा रावणमाहवे ॥ ५०॥ आरोप्य जानकीं स्वाङ्के स्थितो दृष्टोऽगमूर्धनि । रावणो गोमयह्रदे तैलाभ्यक्तो दिगम्बरः ॥ ५१॥ अगाहत्पुत्रपौत्रैश्च कृत्वा वदनमालिकाम् । विभीषणस्तु रामस्य सन्निधौ हृष्टमानसः ॥ ५२॥ सेवां करोति रामस्य पादयोर्भक्तिसंयुतः । सर्वथा रावणं रामो हत्वा सकुलमञ्जसा ॥ ५३॥ विभीषणायाधिपत्यं दत्त्वा सीतां शुभाननाम् । अङ्के निधाय स्वपुरीं गमिष्यति न संशयः ॥ ५४॥ त्रिजटाया वचः श्रुत्वा भीतास्ता राक्षसस्त्रियः । तूष्णीमासंस्तत्र तत्र निद्रावशमुपागताः ॥ ५५॥ तर्जिता राक्षसीभिः सा सीता भीतातिविह्वला । त्रातारं नाधिगच्छन्ती दुःखेन परिमूर्च्छिता ॥ ५६॥ अश्रुभिः पूर्णनयना चिन्तयन्तीदमब्रवीत् । प्रभाते भक्षयिष्यन्ति राक्षस्यो मां न संशयः । इदानीमेव मरणं केनोपायेन मे भवेत् ॥ ५७॥ एवं सुदुःखेन परिप्लुता सा विमुक्तकण्ठं रुदती चिराय । आलम्ब्य शाखां कृतनिश्चया मृतौ न जानती कश्चिदुपायमङ्गना ॥ ५८॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे द्वितीयः सर्गः ॥ २॥

॥ तृतीयः सर्गः ॥

श्रीमहादेव उवाच । उद्बन्धनेन वा मोक्ष्ये शरीरं राघवं विना । जीवितेन फलं किं स्यान्मम रक्षोऽधिमध्यतः ॥ १॥ दीर्घा वेणी ममात्यर्थमुद्बन्धाय भविष्यति । एवं निश्चितबुद्धिं तां मरणायाथ जानकीम् ॥ २॥ विलोक्य हनुमान् किञ्चिद्विचार्यैतदभाषत । शनैः शनैः सूक्ष्मरूपो जानक्याः श्रोत्रगं वचः ॥ ३॥ इक्ष्वाकुवंशसम्भूतो राजा दशरथो महान् । अयोध्याधिपतिस्तस्य चत्वारो लोकविश्रुताः ॥ ४॥ पुत्रा देवसमाः सर्वे लक्षणैरुपलक्षिताः । रामश्चलक्ष्मणश्चैव भरतश्चैव शत्रुहा ॥ ५॥ ज्येष्ठो रामः पितुर्वाक्याद्दण्डकारण्यमागतः । लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह ॥ ६॥ उवास गौतमीतीरे पञ्चवट्यां महामनाः । तत्र नीता महाभागा सीता जनकनन्दिनी ॥ ७॥ रहिते रामचन्द्रेण रावणेन दुरात्मना । ततो रामोऽतिदुःखार्तो मार्गमाणोऽथ जानकीम् ॥ ८॥ जटायुषं पक्षिराजमपश्यत्पतितं भुवि । तस्मै दत्त्वा दिवं शीघ्रमृष्यमूकमुपागमत् ॥ ९॥ सुग्रीवेण कृता मैत्री रामस्य विदितात्मनः । तद्भार्याहारिणं हत्वा वालिनं रघुनन्दनः ॥ १०॥ राज्येऽभिषिच्य सुग्रीवं मित्रकार्यं चकार सः । सुग्रीवस्तु समानाय्य वानरान् वानरप्रभुः ॥ ११॥ प्रेषयामास परितो वानरान् परिमार्गणे । सीतायास्तत्र चैकोऽहं सुग्रीवसचिवो हरिः ॥ १२॥ सम्पातिवचनाच्छीघ्रमुल्लङ्घ्य शतयोजनम् । समुद्रं नगरीं लङ्कां विचिन्वन् जानकीं शुभाम् ॥ १३॥ शनैरशोकवनिकां विचिन्वन् शिंशपातरुम् । अद्राक्षं जानकीमत्र शोचन्तीं दुःखसम्प्लुताम् ॥ १४॥ रामस्य महिषीं देवीं कृतकृत्योऽहमागतः । इत्युक्त्वोपररामाथ मारुतिर्बुद्धिमत्तरः ॥ १५॥ सीता क्रमेण तत्सर्वं श्रुत्वा विस्मयमाययौ । किमिदं मे श्रुतं व्योम्नि वायुना समुदीरितम् ॥ १६॥ स्वप्नो वा मे मनोभ्रान्तिर्यदि वा सत्यमेव तत् । निद्रा मे नास्ति दुःखेन जानाम्येतत्कुतो भ्रमः ॥ १७॥ येन मे कर्णपीयुषं वचनं समुदीरितम् । स दृश्यतां महाभागः प्रियवादी ममाग्रतः ॥ १८॥ श्रुत्वा तज्जानकीवाक्यं हनुमान् पत्रखण्डतः । अवतीर्य शनैः सीतापुरतः समवस्थितः ॥ १९॥ कलविङ्कप्रमाणाङ्गो रक्तास्यः पीतवानरः । ननाम शनकैः सीतां प्राञ्जलिः पुरतः स्थितः ॥ २०॥ दृष्ट्वा तं जानकी भीता रावणोऽयमुपागतः । मां मोहयितुमायातो मायया वानराकृतिः ॥ २१॥ इत्येवं चिन्तयित्वा सा तूष्णिमासीदधोमुखी । पुनरप्याह तां सीतां देवि यत्त्वं विशङ्कसे ॥ २२॥ नाहं तथाविधो मातस्त्यज शङ्कां मयि स्थिताम् । दासोऽहं कोसलेन्द्रस्य रामस्य परमात्मनः ॥ २३॥ सचिवोऽहं हरीन्द्रस्य सुग्रीवस्य शुभप्रदे । वायोः पुत्रोऽहमखिलप्राणभूतस्य शोभने ॥ २४॥ तच्छ्रुत्वा जानकी प्राह हनूमन्तं कृताञ्जलिम् । वानराणां मनुष्याणां सङ्गतिर्घटते कथम् ॥ २५॥ यथा त्वं रामचन्द्रस्य दासोऽहमिति भाषसे । तामाह मारुतिः प्रीतो जानकीं पुरतः स्थितः ॥ २६॥ ऋष्यमूकमगाद्रामः शबर्या नोदितः सुधीः । सुग्रीवो ऋष्यमूकस्थो दृष्टवान् रामलक्ष्मणौ ॥ २७॥ भीतो मां प्रेषयामास ज्ञातुं रामस्य हृद्गतम् । ब्रह्मचारिवपुर्धृत्वा गतोऽहं रामसन्निधिम् ॥ २८॥ ज्ञात्वा रामस्य सद्भावं स्कन्धोपरि निधाय तौ । नीत्वा सुग्रीवसामीप्यं सख्यं चाकरवं तयोः ॥ २९॥ सुग्रीवस्य हृता भार्या वालिना तं रघूत्तमः । जघानैकेन बाणेन ततो राज्येऽभ्यषेचयत् ॥ ३०॥ सुग्रीवं वानराणां स प्रेषयामास वानरान् । दिग्भ्यो महाबलान् वीरान् भवत्याः परिमार्गणे ॥ ३१॥ गच्छन्तं राघवो दृष्ट्वा मामभाषत सादरम् ॥ ३२॥ त्वयि कार्यमशेषं मे स्थितं मारुतनन्दन । ब्रूहि मे कुशलं सर्वं सीतायै लक्ष्मणस्य च ॥ ३३॥ अङ्गुलीयकमेतन्मे परिज्ञानार्थमुत्तमम् । सीतायै दीयतां साधु मन्नामाक्षरमुद्रितम् ॥ ३४॥ इत्युक्त्वा प्रददौ मह्यं कराग्रादङ्गुलीयकम् । प्रयत्नेन मयानीतं देवि पश्याङ्गुलीयकम् ॥ ३५॥ इत्युक्त्वा प्रददौ देव्यै मुद्रिकां मारुतात्मजः । नमस्कृत्य स्थितो दूराद्बद्धाञ्जलिपुटो हरिः ॥ ३६॥ दृष्ट्वा सीता प्रमुदिता रामनामाङ्कितां तदा । मुद्रिकां शिरसा धृत्वा स्रवदानन्दनेत्रजा ॥ ३७॥ कपे मे प्राणदाता त्वं बुद्धिमानसि राघवे । भक्तोऽसि प्रियकारी त्वं विश्वासोऽस्ति तवैव हि ॥ ३८॥ नो चेन्मत्सन्निधिं चान्यं पुरुषं प्रेषयेत्कथम् । हनूमन् दृष्टमखिलं मम दुःखादिकं त्वया ॥ ३९॥ सर्वं कथय रामाय यथा मे जायते दया । मासद्वयावधि प्राणाः स्थास्यन्ति मम सत्तम ॥ ४०॥ नागमिष्यति चेद्रामो भक्षयिष्यति मां खलः । अतः शीघ्रं कपीन्द्रेण सुग्रीवेण समन्वितः ॥ ४१॥ वानरानीकपैः सार्धं हत्वा रावणमाहवे । सपुत्रं सबलं रामो यदि मां मोचयेत्प्रभुः ॥ ४२॥ तत्तस्य सदृशं वीर्यं वीर वर्णय वर्णितम् । यथा मां तारयेद्रामो हत्वा शीघ्रं दशाननम् ॥ ४३॥ तथा यतस्व हनुमन् वाचा धर्ममवाप्नुहि । हनुमानपि तामाह देवि दृष्टो यथा मया ॥ ४४॥ रामः सलक्ष्मणः शीघ्रमागमिष्यति सायुधः । सुग्रीवेण ससैन्येन हत्वा दशमुखं बलात् ॥ ४५॥ समानेष्यति देवि त्वामयोध्यां नात्र संशयः । तमाह जानकी रामः कथं वारिधिमाततम् ॥ ४६॥ तीर्त्वायास्यत्यमेयात्मा वानरानीकपैः सह । हनूमानाह मे स्कन्धावारुह्य पुरुषर्षभौ ॥ ४७॥ आयास्यतः ससैन्यश्च सुग्रीवो वानरेश्वरः । विहायसा क्षणेनैव तीर्त्वा वारिधिमाततम् ॥ ४८॥ निर्दहिष्यति रक्षौघांस्त्वत्कृते नात्र संशयः । अनुज्ञां देहि मे देवि गच्छामि त्वरयान्वितः ॥ ४९॥ द्रष्टुं रामं सह भ्रात्रा त्वरयामि तवान्तिकम् । देवि किञ्चिदभिज्ञानं देहि मे येन राघवः ॥ ५०॥ विश्वसेन्मां प्रयत्नेन ततो गन्ता समुत्सुकः । ततः किञ्चिद्विचार्याथ सीता कमललोचना ॥ ५१॥ विमुच्य केशपाशान्ते स्थितं चूडामणिं ददौ । अनेन विश्वसेद्रामस्त्वां कपीन्द्र सलक्ष्मणः ॥ ५२॥ अभिज्ञानार्थमन्यच्च वदामि तव सुव्रत । चित्रकूटगिरौ पूर्वमेकदा रहसि स्थितः । मदङ्के शिर आधाय निद्राति रघुनन्दनः ॥ ५३॥ ऐन्द्रः काकस्तदागत्य नखैस्तुण्डेन चासकृत् । मत्पादाङ्गुष्ठमारक्तं विददारामिषाशया ॥ ५४॥ ततो रामः प्रबुद्ध्याथ दृष्ट्वा पादं कृतव्रणम् । केन भद्रे कृतं चैतद्विप्रियं मे दुरात्मना ॥ ५५॥ इत्युक्त्वा पुरतोऽपश्यद्वायसं मां पुनः पुनः । अभिद्रवन्तं रक्ताक्तनखतुण्डं चुकोप ह ॥ ५६॥ तृणमेकमुपादाय दिव्यास्त्रेणाभियोज्य तत् । चिक्षेप लीलया रामो वायसोपरि तज्ज्वलन् ॥ ५७॥ अभ्यद्रवद्वायसश्च भीतो लोकान् भ्रमन् पुनः । इन्द्रब्रह्मादिभिश्चापि न शक्यो रक्षितुं तदा ॥ ५८॥ रामस्य पादयोरग्रेऽपतद्भीत्या दयानिधेः । शरणागतमालोक्य रामस्तमिदमब्रवीत् ॥ ५९॥ अमोघमेतदस्त्रं मे दत्वैकाक्षिमितो व्रज । सव्यं दत्त्वा गतः काक एवं पौरुषवानपि ॥ ६०॥ उपेक्षते किमर्थं मामिदानीं सोऽपि राघवः । हनूमानपि तामाह श्रुत्वा सीतानुभाषितम् ॥ ६१॥ देवि त्वां यदि जानाति स्थितामत्र रघूत्तमः । करिष्यति क्षणाद्भस्म लङ्कां राक्षसमण्डिताम् ॥ ६२॥ जानकी प्राह तं वत्स कथं त्वं योत्स्यसेऽसुरैः । अतिसूक्ष्मवपुः सर्वे वानराश्च भवादृशाः ॥ ६३॥ श्रुत्वा तद्वचनं देव्यै पूर्वरूपमदर्शयत् । मेरुमन्दरसङ्काशं रक्षोगणविभीषणम् ॥ ६४॥ दृष्ट्वा सीता हनुमन्तं महापर्वतसन्निभम् । हर्षेण महताविष्टा प्राह तं कपिकुञ्जरम् ॥ ६५॥ समर्थोऽसि महासत्त्व द्रक्ष्यन्ति त्वां महाबलम् । राक्षस्यस्ते शुभः पन्था गच्छ रामान्तिकं द्रुतम् ॥ ६६॥ बुभुक्षितः कपिः प्राह दर्शनात्पारणं मम । भविष्यति फलैः सर्वैस्तव दृष्टौ स्थितैर्हि मे ॥ ६७॥ तथेत्युक्तः स जानक्या भक्षयित्वा फलं कपिः । ततः प्रस्थापितोऽगच्छज्जानकीं प्रणिपत्य सः । किञ्चिद्दूरमथो गत्वा स्वात्मन्येवान्वचिन्तयत् ॥ ६८॥ कार्यार्थमागतो दूतः स्वामिकार्याविरोधतः । अन्यत्किञ्चिदसम्पाद्य गच्छत्यधम एव सः ॥ ६९॥ अतोऽहं किञ्चिदन्यच्च कृत्वा दृष्ट्वाथ रावणम् । सम्भाष्य च ततो रामदर्शनार्थं व्रजाम्यहम् ॥ ७०॥ इति निश्चित्य मनसा वृक्षखण्डान् महाबलः । उत्पाट्याशोकवनिकां निर्वृक्षामकरोत्क्षणात् ॥ ७१॥ सीताऽऽश्रयनगं त्यक्त्वा वनं शून्यं चकार सः । उत्पाटयन्तं विपिनं दृष्ट्वा राक्षसयोषितः ॥ ७२॥ अपृच्छन् जानकीं कोऽसौ वानराकृतिरुद्भटः ॥७३॥ जानक्युवाच । भवत्य एव जानन्ति मायां राक्षसनिर्मिताम् । नाहमेनं विजानामि दुःखशोकसमाकुला ॥ ७४॥ इत्युक्तास्त्वरितं गत्वा राक्षस्यो भयपीडिताः । हनूमता कृतं सर्वं रावणाय न्यवेदयन् ॥ ७५॥ देव कश्चिन्महासत्त्वो वानराकृतिदेहभृत् । सीतया सह सम्भाष्य ह्यशोकवनिकां क्षणात् । उत्पाट्य चैत्यप्रासादं बभञ्जामितविक्रमः ॥ ७६॥ प्रासादरक्षिणः सर्वान् हत्वा तत्रैव तस्थिवान् । तच्छ्रुत्वा तूर्णमुत्थाय वनभङ्गं महाऽप्रियम् ॥ ७७॥ किङ्करान् प्रेषयामास नियुतं राक्षसाधिपः । निभग्नचैत्यप्रासादप्रथमान्तरसंस्थितः ॥ ७८॥ हनुमान् पर्वताकारो लोहस्तम्भकृतायुधः । किञ्चिल्लाङ्गूलचलनो रक्तास्यो भीषणाकृतिः ॥ ७९॥ आपतन्तं महासङ्घं राक्षसानां ददर्श सः । चकार सिंहनादं च श्रुत्वा ते मुमुहुर्भृशम् ॥ ८०॥ हनुमन्तमथो दृष्ट्वा राक्षसा भीषणाकृतिम् । निर्जघ्नुर्विविधास्त्रौघैः सर्वराक्षसघातिनम् ॥ ८१॥ तत उत्थाय हनुमान् मुद्गरेण समन्ततः । निष्पिपेष क्षणादेव मशकानिव यूथपः ॥ ८२॥ निहतान् किङ्करान् श्रुत्वा रावणः क्रोधमूर्च्छितः । पञ्च सेनापतींस्तत्र प्रेषयामास दुर्मदान् ॥ ८३॥ हनूमानपि तान् सर्वांल्लोहस्तम्भेन चाहनत् । ततः क्रुद्धो मन्त्रिसुतान् प्रेषयामास सप्त सः ॥ ८४॥ आगतानपि तान् सर्वान् पूर्ववद्वानरेश्वरः । क्षणान्निःशेषतो हत्वा लोहस्तम्भेन मारुतिः ॥ ८५॥ पूर्वस्थानमुपाश्रित्य प्रतीक्षन् राक्षसान् स्थितः । ततो जगाम बलवान् कुमारोऽक्षः प्रतापवान् ॥ ८६॥ तमुत्पपात हनुमान् दृष्ट्वाकाशे समुद्गरः । गगनात्त्वरितो मूर्ध्नि मुद्गरेण व्यताडयत् ॥ ८७॥ हत्वा तमक्षं निःशेषं बलं सर्वं चकार सः ॥ ८८॥ ततः श्रुत्वा कुमारस्य वधं राक्षसपुङ्गवः । क्रोधेन महताविष्ट इन्द्रजेतारमब्रवीत् ॥ ८९॥ पुत्र गच्छाम्यहं तत्र यत्रास्ते पुत्रहा रिपुः । हत्वा तमथवा बद्ध्वा आनयिष्यामि तेऽन्तिकम् ॥९०॥ इन्द्रजित्पितरं प्राह त्यज शोकं महामते । मयि स्थिते किमर्थं त्वं भाषसे दुःखितं वचः ॥ ९१॥ बद्ध्वाऽऽनेष्ये द्रुतं तात वानरं ब्रह्मपाशतः । इत्युक्त्वा रथमारुह्य राक्षसैर्बहुभिर्वृतः ॥ ९२॥ जगाम वायुपुत्रस्य समीपं वीरविक्रमः । ततोऽतिगर्जितं श्रुत्वा स्तम्भमुद्यस्य वीर्यवान् ॥ ९३॥ उत्पपात नभोदेशं गरुत्मानिव मारुतिः । ततो भ्रमन्तं नभसि हनूमन्तं शिलीमुखैः ॥ ९४॥ विद्ध्वा तस्य शिरोभागमिषुभिश्चाष्टभिः पुनः । हृदयं पादयुगलं षड्भिरेकेन वालधिम् ॥ ९५॥ भेदयित्वा ततो घोरं सिंहनादमथाकरोत् । ततोऽतिहर्षाद्धनुमान् स्तम्भमुद्यस्य वीर्यवान् ॥ ९६॥ जघान सारथिं साश्वं रथं चाचूर्णयत्क्षणात् । ततोऽन्यं रथमादाय मेघनादो महाबलः ॥ ९७॥ शीघ्रं ब्रह्मास्त्रमादाय बद्ध्वा वानरपुङ्गवम् । निनाय निकटं राज्ञो रावणस्य महाबलः ॥ ९८॥ यस्य नाम सततं जपन्ति ये- ऽज्ञानकर्मकृतबंधनं क्षणात् । सद्य एव परिमुच्य तत्पदं यान्ति कोटिरविभासुरं शिवम् ॥ ९९॥ तस्यैव रामस्य पदाम्बुजं सदा हृत्पद्ममध्ये सुनिधाय मारुतिः । सदैव निर्मुक्तसमस्तबन्धनः किं तस्य पाशैरितरैश्च बन्धनैः ॥ १००॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे तृतीयः सर्गः ॥ ३॥

॥ चतुर्थः सर्गः ॥

श्रीमहादेव उवाच । यान्तं कपीन्द्रं धृतपाशबन्धनं विलोकयन्तं नगरं विभीतवत् । अताडयन्मुष्टितलैः सुकोपनाः पौराः समन्तादनुयान्त ईक्षितुम् ॥ १॥ ब्रह्मास्त्रमेनं क्षणमात्रसङ्गमं कृत्वा गतं ब्रह्मवरेण सत्वरम् । ज्ञात्वा हनूमानपि फल्गुरज्जुभि- र्धृतो ययौ कार्यविशेषगौरवात् ॥ २॥ सभान्तरस्थस्य च रावणस्य तं पुरो निधायाह बलारिजित्तदा । बद्धो मया ब्रह्मवरेण वानरः समागतोऽनेन हता महासुराः ॥ ३॥ यदुक्तमत्रार्य विचार्य मन्त्रिभि- र्विधीयतामेष न लौकिको हरिः । ततो विलोक्याह स राक्षसेश्वरः प्रहस्तमग्रे स्थितमञ्जनाद्रिभम् ॥ ४॥ प्रहस्त पृच्छैनमसौ किमागतः किमत्र कार्यं कुत एव वानरः । वनं किमर्थं सकलं विनाशितं हताः किमर्थं मम राक्षसा बलात् ॥ ५॥ ततः प्रहस्तो हनुमन्तमादरात् पप्रच्छ केन प्रहितोऽसि वानर । भयं च ते मास्तु विमोक्ष्यसे मया सत्यं वदस्वाखिलराजसन्निधौ ॥ ६॥ ततोऽतिहर्षात्पवनात्मजो रिपुं निरीक्ष्य लोकत्रयकण्टकासुरम् । वक्तुं प्रचक्रे रघुनाथसत्कथां क्रमेण रामं मनसा स्मरन्मुहुः ॥ ७॥ शृणु स्फुटं देवगणाद्यमित्र हे रामस्य दूतोऽहमशेषहृत्स्थितेः । यस्याखिलेशस्य हृताधुना त्वया भार्या स्वनाशाय शुनेव सद्धविः ॥ ८॥ स राघवोऽभ्येत्य मतङ्गपर्वतं सुग्रीवमैत्रीमनलस्य सन्निधौ । कृत्वैकबाणेन निहत्य वालिनं सुग्रीवमेवाधिपतिं चकार तम् ॥ ९॥ स वानराणामधिपो महाबली महाबलैर्वानरयूथकोटिभिः । रामेण सार्धं सह लक्ष्मणेन भोः प्रवर्षणेऽमर्षयुतोऽवतिष्ठते ॥ १०॥ सञ्चोदितास्तेन महाहरीश्वरा धरासुतां मार्गयितुं दिशो दश । तत्राहमेकः पवनात्मजः कपिः सीतां विचिन्वन् शनकैः समागतः ॥ ११॥ दृष्टा मया पद्मपलाशलोचना सीता कपित्वाद्विपिनं विनाशितम् । दृष्ट्वा ततोऽहं रभसा समागतान् मां हन्तुकामान् धृतचापसायकान् ॥ १२॥ मया हतास्ते परिरक्षितं वपुः प्रियो हि देहोऽखिलदेहिनां प्रभो । ब्रह्मास्त्रपाशेन निबध्य मां ततः समागमन्मेघनिनादनामकः ॥ १३॥ स्पृष्ट्वैव मां ब्रह्मवरप्रभावतः त्यक्त्वा गतं सर्वमवैमि रावण । तथाप्यहं बद्ध इवागतो हितं प्रवक्तुकामः करुणारसार्द्रधीः ॥। १४॥ विचार्य लोकस्य विवेकतो गतिं न राक्षसीं बुद्धिमुपैहि रावण । दैवीं गतिं संसृतिमोक्षहैतुकीं समाश्रयात्यन्तहिताय देहिनः ॥ १५॥ त्वं ब्रह्मणो ह्युत्तमवंशसम्भवः । पौलस्त्यपुत्रोऽसि कुबेरबान्धवः । देहात्मबुद्ध्यापि च पश्य राक्षसो नास्यात्मबुद्ध्या किमु राक्षसो नहि ॥ १६॥ शरीरबुद्धीन्द्रियदुःखसन्ततिः न ते न च त्वं तव निर्विकारतः । अज्ञानहेतोश्च तथैव सन्ततेः असत्त्वमस्याः स्वपतो हि दृश्यवत् ॥ १७॥ इदं तु सत्यं तव नास्ति विक्रिया विकारहेतुर्न च तेऽद्वयत्वतः । यथा नभः सर्वगतं न लिप्यते तथा भवान् देहगतोऽपि सूक्ष्मकः । देहेन्द्रियप्राणशरीरसङ्गतः त्वात्मेति बद्ध्वाखिलबन्धभाग्भवेत् ॥ १८॥ चिन्मात्रमेवाहमजोऽहमक्षरो ह्यानन्दभावोऽहमिति प्रमुच्यते । देहोऽप्यनात्मा पृथिवीविकारजो न प्राण आत्माऽनिल एष एव सः ॥ १९॥ मनोऽप्यहङ्कारविकार एव नो न चापि बुद्धिः प्रकृतेर्विकारजा । आत्मा चिदानन्दमयोऽविकारवान् देहादिसङ्घाद्व्यतिरिक्त ईश्वरः ॥ २०॥ निरञ्जनो मुक्त उपाधितः सदा ज्ञात्वैवमात्मानमितो विमुच्यते । अतोऽहमात्यन्तिकमोक्षसाधनं वक्ष्ये शृणुष्वावहितो महामते ॥ २१॥ विष्णोर्हि भक्तिः सुविशोधनं धियः ततो भवेज्ज्ञानमतीव निर्मलम् । विशुद्धतत्त्वानुभवो भवेत्ततः सम्यग्विदित्वा परमं पदं व्रजेत् ॥ २२॥ अतो भजस्वाद्य हरिं रमापतिं रामं पुराणं प्रकृतेः परं विभुम् । विसृज्य मौर्ख्यं हृदि शत्रुभावनां भजस्व रामं शरणागतप्रियम् । सीतां पुरस्कृत्य सपुत्रबान्धवो रामं नमस्कृत्य विमुच्यसे भयात् ॥ २३॥ रामं परात्मानमभावयन् जनो भक्त्या हृदिस्थं सुखरूपमद्वयम् । कथं परं तीरमवाप्नुयाज्जनो भवाम्बुधेर्दुःखतरङ्गमालिनः ॥ २४॥ नो चेत्त्वमज्ञानमयेन वह्निना ज्वलन्तमात्मानमरक्षितारिवत् । नयस्यधोऽधः स्वकृतैश्च पातकैः विमोक्षशङ्का न च ते भविष्यति ॥ २५॥ श्रुत्वामृतास्वादसमानभाषितं तद्वायुसूनोर्दशकन्धरोऽसुरः । अमृष्यमाणोऽतिरुषा कपीश्वरं जगाद रक्तान्तविलोचनो ज्वलन् ॥२६॥ कथं ममाग्रे विलपस्यभीतवत् प्लवङ्गमानामधमोऽसि दुष्टधीः । क एष रामः कतमो वनेचरो निहन्मि सुग्रीवयुतं नराधमम् ॥ २७॥ त्वां चाद्य हत्वा जनकात्मजां ततो निहन्मि रामं सहलक्ष्मणं ततः । सुग्रीवमग्रे बलिनं कपीश्वरं सवानरं हन्म्यचिरेण वानर । श्रुत्वा दशग्रीववचः स मारुतिः विवृद्धकोपेन दहन्निवासुरम् ॥ २८॥ न मे समा रावणकोटयोऽधम रामस्य दासोऽहमपारविक्रमः । श्रुत्वातिकोपेन हनूमतो वचो दशाननो राक्षसमेवमब्रवीत् ॥ २९॥ पार्श्वे स्थितं मारय खण्डशः कपिं पश्यन्तु सर्वेऽसुरमित्रबान्धवाः । निवारयामास ततो विभीषणो महासुरं सायुधमुद्यतं वधे । राजन् वधार्हो न भवेत्कथञ्चन प्रतापयुक्तैः परराजवानरः ॥ ३०॥ हतेऽस्मिन् वानरे दूते वार्ता को वा निवेदयेत् रामाय त्वं यमुद्दिश्य वधाय समुपस्थितः ॥ ३१॥ अतो वधसमं किञ्चिदन्यच्चिन्तय वानरे । सचिह्नो गच्छतु हरिर्यं दृष्ट्वाऽऽयास्यति द्रुतम् ॥ ३२॥ रामः सुग्रीवसहितस्ततो युद्धं भवेत्तव । विभीषणवचः श्रुत्वा रावणोऽप्येतदब्रवीत् ॥ ३३॥ वानराणां हि लाङ्गूले महामानो भवेत्किल । अतो वस्त्रादिभिः पुच्छं वेष्टयित्वा प्रयत्नतः ॥३४॥ वह्निना योजयित्वैनं भ्रामयित्वा पुरेऽभितः । विसर्जयत पश्यन्तु सर्वे वानरयूथपाः ॥ ३५॥ तथेति शणपट्टैश्च वस्त्रैरन्यैरनेकशः । तैलाक्तैर्वेष्टयामासुर्लाङ्गूलं मारुतेर्दृढम् ॥ ३६॥ पुच्छाग्रे किञ्चिदनलं दीपयित्वाथ राक्षसाः । रज्जुभिः सुदृढं बद्ध्वा धृत्वा तं बलिनोऽसुराः ॥ ३७॥ समन्ताद्भ्रामयामासुश्चोरोऽयमिति वादिनः । तूर्यघोषैर्घोषयन्तस्ताडयन्तो मुहुर्मुहुः ॥ ३८॥ हनूमतापि तत्सर्वं सोढं किञ्चिच्चिकीर्षुणा । गत्वा तु पश्चिमद्वारसमीपं तत्र मारुतिः ॥ ३९॥ सूक्ष्मो बभूव बन्धेभ्यो निःसृतः पुनरप्यसौ । बभूव पर्वताकारस्तत उत्प्लुत्य गोपुरम् ॥ ४०॥ तत्रैकं स्तम्भमादाय हत्वा तान् रक्षिणः क्षणात् । विचार्य कार्यशेषं स प्रासादाग्राद्गृहाद्गृहम् ॥ ४१॥ उत्प्लुत्योप्लुत्य सन्दीप्तपुच्छेन महता कपिः । ददाह लङ्कामखिलां साट्टप्रासादतोरणाम् ॥ ४२॥ हा तात पुत्र नाथेति क्रन्दमानाः समन्ततः । व्याप्ताः प्रासादशिखरेऽप्यारूढा दैत्ययोषितः ॥ ४३॥ देवता इव दृश्यन्ते पतन्त्यः पावकेऽखिलाः । विभीषणगृहं त्यक्त्वा सर्वं भस्मीकृतं पुरम् ॥ ४४॥ तत उत्प्लुत्य जलधौ हनूमान्मारुतात्मजः । लाङ्गूलं मज्जयित्वान्तः स्वस्थचित्तो बभूव सः ॥ ४५॥ वायोः प्रियसखित्वाच्च सीतया प्रार्थितोऽनलः । न ददाह हरेः पुच्छं बभूवात्यन्तशीतलः ॥ ४६॥ यन्नामसंस्मरणधूतसमस्तपापाः तापत्रयानलमपीह तरन्ति सद्यः । तस्यैव किं रघुवरस्य विशिष्टदूतः सन्तप्यते कथमसौ प्रकृतानलेन ॥ ४७॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे चतुर्थः सर्गः ॥ ४॥

॥ पञ्चमः सर्गः ॥

श्रीमहादेव उवाच । ततः सीतां नमस्कृत्य हनूमानब्रवीद्वचः । आज्ञापयतु मां देवि भवती रामसन्निधिम् ॥ १॥ गच्छामि रामस्त्वां द्रष्टुमागमिष्यति सानुजः । इत्युक्त्वा त्रिःपरिक्रम्य जानकीं मारुतात्मजः ॥ २॥ प्रणम्य प्रस्थितो गन्तुमिदं वचनमब्रवीत् । देवि गच्छामि भद्रं ते तूर्णं द्रक्ष्यसि राघवम् ॥३॥ लक्ष्मणं च ससुग्रीवं वानरायुतकोटिभिः । ततः प्राह हनूमन्तं जानकी दुःखकर्शिता॥ ४॥ त्वां दृष्ट्वा विस्मृतं दुःखमिदानीं त्वं गमिष्यसि । इतः परं कथं वर्ते रामवार्ताश्रुतिं विना ॥ ५ ॥ मारुतिरुवाच । यद्येवं देवि मे स्कन्धमारोह क्षणमात्रतः रामेण योजयिष्यामि मन्यसे यदि जानकि ॥ ६॥ सीतोवाच । रामः सागरमाशोष्य बद्ध्वा वा शरपञ्जरैः । आगत्य वानरैः सार्धं हत्वा रावणमाहवे ॥ ७॥ मां नयेद्यदि रामस्य कीर्तिर्भवति शाश्वती । अतो गच्छ कथं चापि प्राणान् सन्धारयाम्यहम् ॥ ८॥ इति प्रस्थापितो वीरः सीतया प्रणिपत्य ताम् । जगाम पर्वतस्याग्रे गन्तुं पारं महोदधेः ॥ ९॥ तत्र गत्वा महासत्त्वः पादाभ्यां पीडयन् गिरिम् । जगाम वायुवेगेन पर्वतश्च महीतलम् ॥ १०॥ गतो महीसमानत्वं त्रिंशद्योजनमुच्छ्रितः । मारुतिर्गगनाअन्तःस्थो महाशब्दं चकार सः ॥ ११॥ तं श्रुत्वा वानराः सर्वे ज्ञात्वा मारुतिमागतम् । हर्षेण महताविष्टाः शब्दं चक्रुर्महास्वनम् ॥ १२॥ शब्देनैव विजानीमः कृतकार्यः समागतः । हनूमानेव पश्यध्वं वानरा वानरर्षभम् ॥ १३॥ एवं ब्रुवत्सु वीरेषु वानरेषु स मारुतिः । अवतीर्य गिरेर्मुर्ध्नि वानरानिदमब्रवीत् ॥ १४॥ दृष्टा सीता मया लङ्का धर्षिता च सकानना । सम्भाषितो दशग्रीवस्ततोऽहं पुनरागतः ॥ १५॥ इदानीमेव गच्छामो रामसुग्रीवसन्निधिम् । इत्युक्ता वानराः सर्वे हर्षेणालिङ्ग्य मारुतिम् ॥ १६॥ केचिच्चुचुम्बुर्लाङ्गूलं ननृतुः केचिदुत्सुकाः । हनूमता समेतास्ते जग्मुः प्रस्रवणं गिरिम् ॥ १७॥ गच्छन्तो ददृशुर्वीरा वनं सुग्रीवरक्षितम् । मधुसंज्ञं तदा प्राहुरङ्गदं वानरर्षभाः ॥ १८॥ क्षुधिताः स्मो वयं वीर देह्यनुज्ञां महामते । भक्षयामः फलान्यद्य पिबामोऽमृतवन्मधु ॥ १९॥ सन्तुष्टा राघवं द्रष्टुं गच्छामोऽद्यैव सानुजम् ॥ २०॥ अङ्गद उवाच । हनूमान् कृतकार्योऽयं पिबतैतत्प्रसादतः । जक्षध्वं फलमूलानि त्वरितं हरिसत्तमाः ॥ २१॥ ततः प्रविश्य हरयः पातुमारेभिरे मधु । रक्षिणस्ताननादृत्य दधिवक्त्रेण नोदितान् ॥ २२॥ पिबतस्ताडयामासुर्वानरान् वानरर्षभाः । ततस्तान् मुष्टिभिः पादैश्चूर्णयित्वा पपुर्मधु ॥ २३॥ ततो दधिमुखः क्रुद्धः सुग्रीवस्य स मातुलः । जगाम रक्षिभिः सार्धं यत्र राजा कपीश्वरः ॥ २४॥ गत्वा तमब्रवीद्देव चिरकालाभिरक्षितम् । नष्टं मधुवनं तेऽद्य कुमारेण हनूमता ॥ २५॥ श्रुत्वा दधिमुखेनोक्तं सुग्रीवो हृष्टमानसः । दृष्ट्वागतो न सन्देहः सीतां पवननन्दनः ॥ २६॥ नो चेन्मधुवनं द्रष्टुं समर्थः को भवेन्मम । तत्रापि वायुपुत्रेण कृतं कार्यं न संशयः ॥ २७॥ श्रुत्वा सुग्रीववचनं हृष्टो रामस्तमब्रवीत् । किमुच्यते त्वया राजन् वचः सीताकथान्वितम् ॥ २८॥ सुग्रीवस्त्वब्रवीद्वाक्यं देव दृष्टावनीसुता । हनुमत्प्रमुखाः सर्वे प्रविष्टा मधुकाननम् ॥ २९॥ भक्षयन्ति स्म सकलं ताडयन्ति स्म रक्षिणः । अकृत्वा देवकार्यं ते द्रष्टुं मधुवनं मम ॥ ३०॥ न समर्थास्ततो देवी दृष्टा सीतेति निश्चितम् । रक्षिणो वो भयं मास्तु गत्वा ब्रूत ममाज्ञया ॥ ३१॥ वानरानङ्गदमुखानानयध्वं ममान्तिकम् । श्रुत्वा सुग्रीववचनं गत्वा ते वायुवेगतः ॥ ३२॥ हनूमत्प्रमुखानूचुर्गच्छतेश्वरशासनात् । द्रष्टुमिच्छति सुग्रीवः सरामो लक्ष्मणान्वितः ॥ ३३॥ युष्मानतीव हृष्टास्ते त्वरयन्ति महाबलाः । तथेत्यम्बरमासाद्य ययुस्ते वानरोत्तमाः ॥ ३४॥ हनूमन्तं पुरस्कृत्य युवराजं तथाङ्गदम् । रामसुग्रीवयोरग्रे निपेतुर्भुवि सत्वरम् ॥ ३५॥ हनूमान् राघवं प्राह दृष्टा सीता निरामया । साष्टाङ्गं प्रणिपत्याग्रे रामं पश्चाद्धरीश्वरम् ॥ ३६॥ कुशलं प्राह राजेन्द्र जानकी त्वां शुचान्विता । अशोकवनिकामध्ये शिंशपामूलमाश्रिता ॥ ३७॥ राक्षसीभिः परिवृता निराहारा कृशा प्रभो । हा राम राम रामेति शोचन्ती मलिनाम्बरा ॥ ३८॥ एकवेणी मया दृष्टा शनैराश्वासिता शुभा । वृक्षशाखान्तरे स्थित्वा सूक्ष्मरूपेण ते कथाम् ॥ ३९॥ जन्मारभ्य तवात्यर्थं दण्डकागमनं तथा । दशाननेन हरणं जानक्या रहिते त्वयि ॥ ४०॥ सुग्रीवेण यथा मैत्री कृत्वा वालिनिबर्हणम् । मार्गणार्थं च वैदेह्या सुग्रीवेण विसर्जिताः ॥ ४१॥ महाबला महासत्त्वा हरयो जितकाशिनः । गताः सर्वत्र सर्वे वै तत्रैकोऽहमिहागतः ॥ ४२॥ अहं सुग्रीवसचिवो दासोऽहं राघवस्य हि । दृष्टा यज्जानकी भाग्यात्प्रयासः फलितोऽद्य मे ॥ ४३॥ इत्युदीरितमाकर्ण्य सीता विस्फारितेक्षणा । केन वा कर्णपीयुषं श्रावितं मे शुभाक्षरम् ॥ ४४॥ यदि सत्यं तदायातु मद्दर्शनपथं तु सः । ततोऽहं वानराकारः सूक्ष्मरूपेण जानकीम् ॥ ४५॥ प्रणम्य प्राञ्जलिर्भूत्वा दूरादेव स्थितः प्रभो । पृष्टोऽहं सीतया कस्त्वमित्यादि बहुविस्तरम् ॥ ४६॥ मया सर्वं क्रमेणैव विज्ञापितमरिन्दम । पश्चान्मयार्पितं देव्यै भवद्दत्ताङ्गुलीयकम् ॥ ४७॥ तेन मामतिविश्वस्ता वचनं चेदमब्रवीत् । यथा दृष्टास्मि हनुमन् पीड्यमाना दिवानिशम् ॥ ४८॥ राक्षसीनां तर्जनैस्तत्सर्वं कथय राघवे । मयोक्तं देवि रामोऽपि त्वच्चिन्तापरिनिष्ठितः ॥ ४९॥ परिशोचत्यहोरात्रं त्वद्वार्तां नाधिगम्य सः । इदानीमेव गत्वाहं स्थितिं रामाय ते ब्रुवे ॥ ५०॥ रामः श्रवणमात्रेण सुग्रीवेण सलक्ष्मणः । वानरानीकपैः सार्धमागमिष्यति तेऽन्तिकम् ॥ ५१॥ रावणं सकुलं हत्वा नेष्यति त्वां स्वकं पुरम् । अभिज्ञां देहि मे देवि यथा मां विश्वसेद्विभुः ॥ ५२॥ इत्युक्ता सा शिरोरत्नं चूडापाशे स्थितं प्रियम् । दत्त्वा काकेन यद्वृत्तं चित्रकूटगिरौ पुरा ॥ ५३॥ तदप्याहाश्रुपूर्णाक्षी कुशलं ब्रूहि राघवम् । लक्ष्मणं ब्रूहि मे किञ्चिद्दुरुक्तं भाषितं पुरा ॥ ५४॥ तत्क्षमस्वाज्ञभावेन भाषितं कुलनन्दन । तारयेन्मां यथा रामस्तथा कुरु कृपान्वितः ॥ ५५॥ इत्युक्त्वा रुदती सीता दुःखेन महतावृता । मयाप्याश्वासिता राम वदता सर्वमेव ते ॥ ५६॥ ततः प्रस्थापितो राम त्वत्समीपमिहागतः । तदागमनवेलायामशोकवनिकां प्रियाम् ॥ ५७॥ उत्पाट्य राक्षसांस्तत्र बहून् हत्वा क्षणादहम् । रावणस्य सुतं हत्वा रावणेनाभिभाष्य च ॥ ५८॥ लङ्कामशेषतो दग्ध्वा पुनरप्यागमं क्षणात् । श्रुत्वा हनूमतो वाक्यं रामोऽत्यन्तप्रहृष्टधीः ॥ ५९॥ हनूमंस्ते कृतं कार्यं देवैरपि सुदुष्करम् । उपकारं न पश्यामि तव प्रत्युपकारिणः ॥ ६०॥ इदानीं ते प्रयच्छामि सर्वस्वं मम मारुते । इत्यालिङ्ग्य समाकृष्य गाढं वानरपुङ्गवम् ॥ ६१॥ सार्द्रनेत्रो रघुश्रेष्ठः परां प्रीतिमवाप सः । हनूमन्तमुवाचेदं राघवो भक्तवत्सलः ॥ ६२॥ परिरम्भो हि मे लोके दुर्लभः परमात्मनः । अतस्त्वं मम भक्तोऽसि प्रियोऽसि हरिपुङ्गव ॥ ६३॥ यत्पादपद्मयुगलं तुलसीदलाद्यैः सम्पूज्य विष्णुपदवीमतुलां प्रयान्ति । तेनैव किं पुनरसौ परिरब्धमूर्ती रामेण वायुतनयः कृतपुण्यपुञ्जः ॥ ६४॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५॥ ॥ समाप्तमिदम् सुन्दरकाण्डम् ॥
Encoded and proofread by Vishwas Bhide vishwas underscore bhide at yahoo.com Revised by Agne Easwaran easwaranpsa at rediffmail.com and ahimsasoldier at gmail.com
% Text title            : adhyAtma rAmAyaNa sundara kANDa
% File name             : adhyaatmaRamsundara.itx
% itxtitle              : adhyAtmarAmAyaNe 5 sundarakANDam
% engtitle              : adhyAtmarAmAyaNa sundarakANDa
% Category              : adhyAtmarAmAyaNa, raama, vyAsa
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : pramukha
% Author                : Shri Veda Vyas
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vishwas underscore bhide at yahoo.com
% Proofread by          : Vishwas Bhide , PSA EASWARAN psaeaswaran at gmail.com
% Indexextra            : (Hindi)
% Latest update         : July 22, 2006, April 4, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP