भुशुण्डिरामायणम् पूर्वखण्ड ००१-०१०
००१. ब्रह्मस्तुतिर्नाम प्रथमोऽध्यायः ।
ॐ आदिरामायणं नाम श्रीरामचरितं शुभम् ।
किञ्चित्समाधावालोच्य प्रवक्ष्यामि प्रयत्नतः ॥
ॐ नमः परमहंसास्वादितचिन्मयमकरन्दाय
रुचिरनखशिखान्त रत्नप्ररोहपल्लवितसिंहासनप्रान्तपीठप्रदेशाय
मुनिमानसमधुकरप्रमोदाय श्रीरामचन्द्रचरणयुगलाय ।
ब्रह्मोवाच ।
रामं लोकाभिरामं रघुवरतनयं कोशलामुक्तिपुर्यां
खेलन्तं कामकेलिं सुविमलसरयूतीरकुञ्ज नटन्तम् ।
जानक्या चारुहासच्छविविशदशरच्चन्द्रिकाकान्तिमत्या
संयुक्तं राजवेषं ललितरसमयं ब्रह्म पूर्णं नमामि ॥ १॥
भक्तानां प्राणनाथं वरदपरिवृढं वंशवर्यं वरेण्यं शुद्धं
श्यामावदातं हरितमणिरुचिं सच्चिदानन्ददेहम् ।
आभीरीनेत्रपद्मप्रकरदिनकरं पूर्णचन्द्राभिरामं
रामं श्यामं प्रकामं निजहृदि कलये कोटिकामावतारम् ॥ २॥
मुक्ताहाराभिरामं मणिमुकुटसमाबद्धसद्रत्नगुच्छं
मन्दस्वच्छामृताब्धि प्रतिमविहसितं चारुबिम्बोष्ठकान्तिम् ।
शृङ्गारे कान्तवेषं परमतमरसानन्दसाक्षात्कृताङ्गं
गम्भीरावर्तनाभिं त्रिवलिमदुदरं नौमि रामं रमेशम् ॥ ३॥
एकं नित्यं स्वसाक्षि स्वमहिमनि सदा संस्थितं स्वानुभावं
स्वाधारं ब्रह्मणोऽप्याश्रयममितगुणं भूरि कल्याणवेषम् ।
महांसेशं (तं रासेशं ?)निरंशं निरवधिमवधिं वस्तुमात्रस्य तत्त्वं
निस्त्रैगुण्यं महस्तत् स्मरसि न हृदये पूर्णरामाभिधानम् ॥ ४॥
मत्स्यं कूर्मं वराहं नृहरिमथ हरिं वामनं हंसरूपं
यज्ञं नारायणाख्यं त्रिभुवनललितं भार्गवं वै हयास्यम् ।
प्रद्युम्नं वासुदेवं कंसारिकृष्णं रेवतीप्राणनाथं
प्रसिद्धमेतेंऽशा रामस्य श्रीरामं परात्परं स्मर ॥ ५॥
अत्र पञ्चमश्लोकार्धे पाठभेदः
रामं कृष्णं च बुद्धं यवनवधकरं चक्षते वेदवेदो
यस्यांशं तं परेशं स्मर यदि सततं सन्निधिं वाच्छसे चेत् ।
या ते नित्यैव लीला प्रमुदवनमहारण्यवृन्दावनादौ
वेदानां गोचरत्वं व्रजति न कथं स्वात्मभाषा स्फुरन्ती ।
सा मे सर्वस्वमास्तां रतिमयसहजानन्दकेलीनिधानं
नान्या प्रेम्णार्थता त्वय्यतिशय वरदेश प्रभो रामभद्र ॥ ६॥
रक्ताशोकद्रुमालीविरचित सुमहामण्डपान्तर्निषण्णां
सीतासङ्केतकेलीप्रियमत उरसाक्रान्तगोपीकदम्बम् ।
नीलाभ्रश्यामलं तज्जयतु हृदि सदा पूर्णशृङ्गारतत्त्वं
धाम श्रीरामनाम त्रिभुवनसुखदं कोटिकामावतारम् ॥ ७॥
पद्भ्यां मञ्जीरवद्भ्यां सुललितमवली पल्लवश्रीमुखाभ्यां
क्रीडन् केलीनिकुञ्जे विहसितसहजानन्दिनीशक्तियुक्तः ।
शुष्कं दावाग्निदग्धं द्रुमविटपमहा (हो ?)वंशिकानादवृष्ट्या
पीयूषौघैर्नयन्तं पुनरपि हरित (तां ?)रामचन्द्रं भजेऽहम् ॥ ८॥
हंहो माधुर्य लक्ष्मीस्तव नयनसुखं वर्धयत्वस्मदीयं
पूर्णा ते राम दृष्टिर्भवतु सकरुणा नित्यमेव प्रसन्ना ।
त्वत्कीर्तिः कण्ठदेशे निवसतु नितरामादिविद्वत्प्रगीता
चित्तेऽन्तर्भातु नित्यं तव पदयुगलं विश्वतापापहन्तृ ॥ ९॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे ब्रह्मस्तुतिर्नाम प्रथमोऽध्यायः ॥ १॥
९/९
००२. प्रश्नरूपं नाम द्वितीयोऽध्यायः ।
ब्रह्मणो विपुले सत्रे सङ्गता देवतागणाः ।
यजमानं पर्यपृच्छन् वृद्धं विश्वपितामहम् ॥ १॥
देवा ऊचुः ।
भगवन् देवदेवेश ब्रह्मन् लोकपितामह ।
त्वमेव जगतः कर्ता वेदस्य च समाश्रयः ॥ २॥
त्वत्तो नान्योऽस्य जगतः प्रवर्तनविधिक्षमः ।
आदिमूर्तिः स्वयम्भूस्त्वं स्वराट् चैव विराट् प्रभुः ॥ ३॥
वेत्सि भूतं भवद् भाव्यं दिव्येन ज्ञानचक्षुषा ।
क आश्रयोऽस्य जगतः किं निमित्तं तथा प्रभो ॥ ४॥
किं सारमत्र वेद्यं च बहुवल्गिनि चागमे ।
भवतः सम्मतं किं च लोकेशस्य विधेर्वद ॥ ५॥
क आदौ विनियोक्ता च कः स्वभावोऽस्य सन्ततम् ।
किं स्वरूपं क आकारो ब्रह्मापि वद कीदृशम् ॥ ६॥
कीदृशं तस्य संस्थानं किं स्थानं परमं पदम् ।
सगुणं निर्गुणं चापि ध्येयं ज्ञेयं च कीदृशम् ॥ ७॥
एतदुद्देशतः पृष्टं विरिञ्चे वद विस्तरात् ।
त्वत्तोऽन्यो नास्य प्रश्नस्य प्रतीकर्ता जगत्त्रये ॥ ८॥
तस्माद्वद विधे सर्व दीर्घसत्रेऽत्र तावके ।
श्रोतुं च सक्षणान्विद्धि सभ्यान् नो वेदवेदिनः ॥ ९॥
भवांश्च दीक्षितो यज्ञे कं देवं यजसे पुनः ।
एतच्च नो वद ब्रह्मन् परात्परविदुत्तम ॥ १०॥
सर्ववेदारविन्दानां मकरन्दरसं परम् ।
नित्यं श्रावय नो ब्रह्मन् सदस्यत्र हविर्भुजाम् ॥ ११॥
हवींषि भुञ्जते देवाः क एकः फलदायकः ।
मखेषु वापि यज्ञेषु तदिदं च वद प्रभो ॥ १२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे प्रश्नरूपं नाम द्वितीयोऽध्यायः ॥ २॥
१२/२१
००३. उपदेशकथनं नाम तृतीयोऽध्यायः ।
ब्रह्मोवाच ।
साधु पृष्टं महाभागा लोकस्योत्पत्ति कारणम् ।
भक्ताः परमहंसाश्च कृतार्थाः स्युर्यतोऽखिलाः ॥ १॥
राम एवास्य जगतश्चाश्रयः सर्वभूतभृत् ।
राम एव निमित्तं च निजलीलारसात्मकः ॥ २॥
राम एव परं सारं वेद्यं निगममूर्द्धसु ।
ममापि सम्मतं (तत्त्वं ?)राम एव न संशयः ॥ ३॥
मामादौ सर्वजगतो राम एव नियुक्तवान् ।
रामस्य च स्वभावोऽस्ति वेदानामप्यगोचरः ॥ ४॥
नीलरूपं चिदाकारः सच्चिदानन्दविग्रहः ।
प्रतिष्ठा ब्रह्मणोऽप्येतत् परं ब्रह्म च तादृशम् ॥ ५॥
सगुणं निर्गुणं चापि भेदाभेदविवर्जितम् ।
एकरूपं सदा ध्येयं पूर्णं मायाविवर्जितम् ॥ ६॥
चिदानन्दोऽस्य संस्थानं स्थानमस्य सनातनम् ।
सीतालोकं परं स्थानं चिन्मयानन्दलक्षणम् ॥ ७॥
कोशलाख्यं पुरं नित्यं चिल्लोक इति कीर्तितम् ।
अहं च विविधैर्यज्ञैः कोशलाधिपतिं यजे ॥ ८॥
हविर्भुजां च सर्वेषां राम एव परायणम् ।
हविर्भुजामधिष्ठानं राम एव फलप्रदः ॥ ९॥
क्रतुयज्ञमये सत्रे सारभुग् राम एव हि ।
आदिरामायणं नाम श्रीरामचरितं शुभम् ॥ १०॥
किञ्चिन्मूलचरित्रं च पवित्रं मङ्गलालयम् ।
जन्म कर्म च रामस्य वक्ष्ये त्रिभुवनेशितुः ॥ ११॥
एकैकं विमलं गीतं वर्णितं चैव सूरिभिः ॥ १२॥
देवा ऊचुः ।
को वा भुशुण्डनामासौ वैष्णवप्रवरो मतः ।
तस्मै च कथमाख्यातमादिरामायणं शुभम् ॥ १३॥
का च तत्र कथा दिव्या श्रीरामचरितात्मिका ।
अवतारचरित्रं किं किं वा मूलचरित्रकम् ॥ १४॥
एतन्नो वद भो ब्रह्मन् सन्दिहानान् सभासदः ।
रामचन्द्रामृतकथाप्रश्नस्योत्त रमद्भुतम् ॥ १५॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उपदेशकथनं नाम तृतीयोऽध्यायः ॥ ३॥
१५/३६
००४. भुशुण्डोपशमो नाम चतुर्थोऽध्यायः ।
ब्रह्मोवाच ।
कालस्य भगिनी घोरा नाम्ना या कालकण्टका ।
तस्यां जातः सूर्ययोगाद् भुशण्डो नाम वै द्विजः ॥ १॥
काकवेषधरः शूरो लोहतुण्डोऽशनिच्छदः ।
विद्युद्गात्रो मेघरावो प्रलयन्तानलेक्षणः ॥ २॥
महासत्त्वो महावीरो महाबलपराक्रमः ।
नीलमेघसमाकारः कालकण्टकिकासुतः ॥ ३॥
त्रैलोक्यं स विनिर्जित्य ववृधे बलसंवृतः ।
तुण्डाघातेन नितरामुत्क्षिपन् कुलपर्वतान् ॥ ४॥
करालदशनः शूरो नखोदीर्णमहोदधिः ।
पक्षतिद्वयशब्देन ब्रह्माण्डमपि भेदयन् ॥ ५॥
गरुडं बलदुर्धर्षं विष्णुवाहनमद्भुतम् ।
बलाद्रणे विनिर्जित्य भुशुण्डो ववृधेतराम् ॥ ६॥
ततः सकोपनः कोपात् कृत्वा शब्दं भयानकम् ।
उत्पत्य प्रगतो व्योम्नि चालयन् सर्वखेचरान् ॥ ७॥
पक्षवाताहतास्तस्य विमानावलयो पतन् ।
ताराः प्रवेशयामास निजपक्षादिरोमसु ॥ ८॥
सूर्यं प्रकम्पयामास भगवन्तं दिवाकरम् ।
चन्द्रं च खण्डयामास तुण्डघातैर्मुहुर्मुहुः ॥ ९॥
अत्रासयद् देवगणान् महाबलपराक्रमः ।
पक्षानिलहताम्भोधिः समन्तादुदतिष्ठत ॥ १०॥
ततो जवात् समुत्पत्य पद्भ्यां भूमिमकम्पयन् ।
सुमेरुस्तद्बलेनोच्चैरकम्पत सुरालयः ॥ ११॥
विचेलुर्भूरिवेगेन सप्तपातालभूमयः ।
इत्थं त्रिभुवने भीतिं कुर्वन् परमदर्शनः ॥ १२॥
स्वर्गं मर्त्य च पातालमत्रासयत भीषणः ।
ब्रह्मलब्धवरो वीरः काकरूपी दुरासदः ॥ १३॥
देवा ऊचुः ।
त्वया दत्तवरो घोरः काकरूपधरः खरः ॥ १४॥
त्रैलोक्यं त्रासयत्येष भुशुण्डो नाम वै द्विजः ।
तत्प्रतीकारकरणे भवानेकः क्षमो विधे ॥ १५॥
नो चेदसौ त्रिभुवनं निजपक्षमूले
सम्पूर्णयिष्यति बली वरलाभदृप्तः ।
न ह्यस्य वीर्यबलदर्प्पनिवारणाय
कोऽपि क्षमस्त्रिभुवने नरदेवमध्ये ॥ १६॥
इत्युक्तस्त्रिदशैर्ब्रह्मा भुशुण्डस्यालयं ययौ ।
मध्ये मधु समुद्रस्य द्वीपवर्ये महागिरौ ॥ १७॥
महाघोरे वने यत्र न देवा नापि मानवाः ।
ब्रह्माणमागतं ज्ञात्वा वृद्धं लोकपितामहम् ॥ १८॥
सद्य एवासनात्तूर्णमुदतिष्ठद् द्विजोत्तमः ।
दिव्यासने तं संस्थाप्य कृत्वा पूजां महीयसीम् ॥ १९॥
उवाच प्रहसन् प्रीत्या पक्षिराजो विचक्षणः ।
भुशुण्ड उवाच ।
भगवन् भवतो दृष्ट्वा सम्पूर्णा मे मनोरथाः ॥ २०॥
गृहाश्रमे पवित्रत्वं (त्वमागतं ?)भवदागमात् ।
महतामागमो लोके केवलं भूतये नृणाम् ॥ २१॥
ब्रह्मोवाच ।
भवता वत्स वीर्येण त्रासितं भुवनत्रयम् ।
नैतत्तवोचितं धीमन् यस्मात्त्वं वैष्णवाग्रणीः ॥ २२॥
रामेण रचितं विश्वं भक्तानां सुखहेतवे ।
साधवो यदिदुःस्थाः स्युस्तदा रामः प्रकुप्यति ॥ २३॥
रामे प्रकुपिते देवे कुतः क्षेमं चराचरे ।
तस्मादुपशमं गच्छ शान्तिरेव सतां मता ॥ २४॥
शान्ति विना हरेर्भक्तिर्विफलैव भविष्यति ।
यस्मान्नोद्विजते विश्वं स वै भागवतोत्तमः ॥ २५॥
त्वं रामसेवकवरो विद्वान् विदितवेद्यकः ।
जगतो हितमन्विच्छन् सृष्टिरेषा हरेर्यतः ॥ २६॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे भुशुण्डोपशमो नाम चतुर्थोऽध्यायः ॥ ४॥
२६/६२
००५. गरुडाय दर्शनदानं नाम पञ्चमोध्यायः ।
भुशुण्ड उवाच ।
बलकृष्णादिरूपाणि रामस्य स्युः सहस्रशः ।
तेषां मुख्यतमं किञ्चिद् ब्रूहि मह्यं पितामह ॥ १॥
ब्रह्मोवाच ।
सर्वाण्येव स्वरूपाणि श्रीरामस्य श्रियः पतेः ।
ध्येयानि चैव ज्ञेयानि शान्तानि प्रयतात्मभिः ॥ २॥
पुरा खलु खगेन्द्रेण गरुडेन मनीषिणा ।
धावन् गच्छन् वायुपुत्रो हनुमानिदमीरितः ॥ ३॥
गरुड उवाच ।
हनुमन् कुत्र वेगेन यासि त्वं धावनोद्धतः ।
अत्याहितमिदं कार्यं कथमेवं भविष्यति ॥ ४॥
हनुमानुवाच ।
नागान्तक खगाधीश याम्यहं कोशलापुरे ।
अतिकालो भवत्येष त्वं न जानासि किं सखे ॥ ५॥
रामदर्शनवेलेयं मध्याह्ने कोशलापुरे ।
तत्र गच्छाम्यहं तूर्णं तेन धावनवेगतः ॥ ६॥
गरुड उवाच ।
कोऽसौ रामस्त्वया प्रोक्तश्चातुर्वर्ण्येऽस्ति कश्चन ।
आहोस्वित् कोप्यसौ देवो दैत्यो गन्धर्व एव वा ॥ ७॥
हनुमानुवाच ।
त्रैलोक्याधिपतिः श्यामो नीलनीरदविग्रहः ।
रामो दाशरथिर्देवो भवतो विदितो न किम् ॥ ८॥
आत्मैव वञ्चितस्तेन येन रामो न वीक्षितः ।
न श्रुतो नैव च ध्यातो न प्रेम्णा परिकीर्तितः ॥ ९॥
रामोऽस्य जगतो हेतुः सच्चिदानन्दविग्रहः ।
परमात्मा प्रभुः साक्षी स एव च गतिर्नृणाम् ॥ १०॥
न तं विना मुक्तिदोऽन्यो नामृतस्याश्रयोऽपि च ।
स एव च परं ब्रह्म वेदमूर्द्धसु गीयते ॥ ११॥
एको रामः सर्वभूतान्तरात्मा सर्वावासः सर्वकल्याणभूमा ।
सर्वांशाद्यो प्रमोदवनधामा यस्यांशांशा भान्ति सर्वेऽवताराः ॥ १२॥
गरुड उवाच ।
एवं चेत्तर्हि हनुमन् प्रसादाद् भवतो मम ।
तद्दर्शनं किं न भवेत् सर्वकल्याणदं सखे ॥ १३॥
हनुमानुवाच ।
आगच्छ खगराज त्वं कोशलाधिपतेः पुरम् ।
तत्र श्रीरामचन्द्रस्य दर्शनं ते भविष्यति ॥ १४॥
मत्सार्थे ते न निर्वाहस्त्वमागच्छ दिनान्तरे ।
अहमद्य गमिष्यामि शीघ्रदर्शनलालसः ॥ १५॥
इत्युक्त्वा हनुमांस्तूर्णं कोशलां नगरीं ययौ ।
दिनान्तरे च गरुडस्तत्र यातः सकौतुकम् ॥ १६॥
गत्वा ददर्श रघुपुङ्गवमभ्रनीलं
सीतायुतं कटिनिषङ्गधनुःशराद्यम् ।
केयूरकङ्कणकिरीट सुकुण्डलाढ्यं
पीताम्बरं मधुरहासमुखारविन्दम् ॥ १७॥
एवं विलोक्य गरुडः सुमग्नो रूपसागरे ।
ततो हनुमता प्रोक्तो राम एषोऽभिवन्द्यताम् ॥ १८॥
गरुड उवाच ।
गुञ्जास्त्रजः केकिपिच्छावतंसः
करे रसाला मुरली यदा स्यात् ।
गोपाङ्गनाश्चेद्विलसन्ति पार्श्र्वे
सीतापते त्वां प्रणमामि नित्यम् ॥ १९॥
हनुमानुवाच ।
सर्वस्वरूपो भगवानयमेव रघूत्तमः ।
यादृशी भावना यस्य तादृशस्तस्य भासते ॥ २०॥
एष एव पुनर्देवः परिवृत्यावलोक्यताम् ।
ततः स गरुडो भूयः परिवृत्य व्यलोकयत् ॥ २१॥
ददर्श रामस्य गुञ्जाकलापं
मयूरपिच्छस्फुरितावतंसम् ।
वंशीकरं गोपदारैः परीतं
कृष्णं त्रिभङ्गीललितं खगेन्द्रः ॥ २२॥
वृन्दावनस्थं स्मितपीयूषवर्षेः
सिञ्चन्तमङ्गानि मृगीदृशां च ।
राधान्वितं पीतदुकूलयुग्मं
दृष्ट्वा स तुष्टाव हृदि प्रसन्नः ॥ २३॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे गरुडाय दर्शनदानं नाम
पञ्चमोऽध्यायः ॥ ५॥
२३/८५
००६. हनुमद्दर्शनं नाम षष्ठोऽध्यायः ।
गरुड उवाच ।
षष्ठोऽध्यायः
तव स्वरूपं भगवन्नप्रमेयं वेदानामप्यादिसर्गोद्भवानाम् ।
न च भ्रमेन्मादृश एष जन्तुः किमद्भुतं नाथ दयासमुद्र ! ॥ १॥
तथापि ते भक्तवर्यो हनूमान् ज्ञात्वा समुद्धार्यतमं शठं माम् ।
प्रदर्शयामास भवन्तमद्भुतं सर्वावतारांश समूहमूलम् ॥ २॥
दृष्ट्वैव ते नाथ पदाम्बुजद्वयं मायादिदोषातिगमद्वितीयम् ।
जातोऽस्मि भाग्येन विमुक्तमोहः समुद्धृतोऽज्ञानरयात्ततोऽहम् ॥ ३॥
अथापि भूयः करुणामृतं मयि प्रवर्षतस्ते दीनवात्सल्यमेतत् ।
विज्ञातमेव व्यापि वैकुण्ठलोकात् परं पदं तेऽस्ति विमुक्तभेदम् ॥ ४॥
सर्वेऽपि ते बलकृष्णादिसंज्ञा अनेक कार्यप्रभवोऽवताराः ।
तवांशांशा एव ते त्वं च पूर्ण श्चिल्लोकेशः सहजानन्दिनीशः ॥ ५॥
या ते शक्तिः सहजानन्दिनीयं सीतेतिनाम्नी जगतां शोकहन्त्री ।
तस्या अंशा एव ते सत्यभामा राधा रुक्मिण्यादयः कृष्णदाराः ॥ ६॥
सर्वेऽशास्ते पूर्णशक्त्या समेताः पूर्णानन्दाः पूर्णचिच्छक्तिभाजः ।
तथापि दृष्टे त्वयि मूलैकमूले महोदधौ पत्वलवत् स्फूरन्ति ॥ ७॥
प्रमुद्वने त्वं सहजाकेलिरक्तो नित्यं विभासि प्रभुराभीरिकाभिः ।
सम्प्रत्यभिज्ञाय निजं स्वरूपं सर्वां लीलां कृतवानत्र भूताम् ॥ ८॥
अतः परं नाथ न मेऽस्ति मोहो भवत्स्वरूपे सहजानन्दिनीश ।
त्वमेव सीतापतिरद्भुतक्रियः सहजापतिर्वापि प्रमोदधाम्नि ॥ ९॥
सदास्तु मे राम रतिर्हि वै त्वयि स्वसच्चिदानन्दरसैकसिन्धौ ।
तत्त्वं तव श्रीहयशीर्ष एव जानाति वागीश उदारचित्तः ॥ १०॥
नान्यस्य सामर्थ्यमिहास्ति राम मनोवचोभ्यामपरिच्छेद्यमूर्तौ ॥ ११॥
नमस्ते रसिकेन्द्राय शृङ्गाररसमूर्त्तये ।
सीताकटाक्षसन्दोहविजिताय परात्मने ॥ १२॥
गोसङ्घ गोप गोपीश गोकुलेश रसालय ।
करुणामृतपाथोधे रामचन्द्र नमोस्तु ते ॥ १३॥
न ते परिच्छित्तिरनन्तवेदैर्न योगदृष्टिप्रसरैस्तपोभिः ।
स्वेच्छैकमात्रेण चिदेकरूपो भवान्परिच्छेद्यतमः स्वभक्तैः ॥ १४॥
अक्रियस्यापिते गोष्ठे रिङ्गणं बाललीलया ।
जानुभ्यां भूतलस्थायि दैत्यमर्द्दनहेतवे ॥ १५॥
तव गोदोहनं राम न वै गोपोचितं भवेत् ।
एता हि सद्गिरस्तासां सारं भक्तिः समुद्धृता ॥ १६॥
यद्यत्करोषि नटवेषधरो विलासी तत्तत्तवैव परमार्थत एव कार्यम् ।
नान्यस्य राम रमणीशतकामरूप गीतं सदैव निगमत्रितयेन नूनम् ॥ १७॥
एवं कृत्वा गरुडो राघवस्य स्तोत्रं मुहुस्तच्चरणारविन्दे ।
अपीपतत् पुलकितविग्रहोऽय मानन्दजाश्रूणि दृग्भ्यां विमुञ्चन् ॥ १८॥
श्रीराम उवाच ।
उत्तिष्ठ वत्स खगराज परं शुभं ते मद्दर्शनेन गत एव स मोहभावः ।
मद्भक्तिमांस्त्रिभुवने विचर प्रसन्नो नह्यस्ति तेऽभिलषिताचरणेऽन्तरायः ॥ १९॥
ब्रह्मोवाच ।
इत्थं श्रीरघुनाथस्य प्रसादमुपलभ्य सः ।
कृतबुद्धिः कृतार्थात्मा बभूव बहुनिर्वृतः ॥ २०॥
तस्माद् भुशण्ड पक्षीन्द्र रामं भजितुमर्हसि ।
श्री रामचन्द्रं प्रेम्णा वै न पश्यति स वञ्चितः ॥ २१॥
तस्यैव सर्वरूपाणि रामस्य परमात्मनः ।
आदिनारायणेशस्य सेव्यानि कृतनिश्चयैः ॥ २२॥
एवं स गरुडो दृष्ट्वा राघवेन्द्रं परात्परम् ।
महापुर्य्यां हनुमता सेव्यमानमहर्निशम् ॥ २३॥
हनुमानुवाच ।
पक्षीन्द्र त्वं हि धन्योऽसि राघवेन्द्रस्य दर्शनात् ।
अत्याहितं हि देवानां भवतो वै भविष्यसि ॥ २४॥
गरुड उवाच ।
श्रीमतो राघवेशस्य देवदेवस्य शार्ङ्गिणः ।
दर्शनार्थमागतोऽहमयोध्यां मुक्तिदां पुरीम् ॥ २५॥
अद्यैव सफलं जन्म साकेतदर्शनेन मे ।
अद्यैव सफलं ध्यानं प्रमोदवनदर्शनात् ॥ २६॥
धिग् धिग् जन्म च तेषां वै ये न पश्यन्ति सादरम् ।
प्रमोदवनमध्यस्थां कोसलां सरयूं तथा ॥ २७॥
कोटयो ब्रह्मणामत्र रुद्राणां च मरुत्वताम् ।
वसूनां वरुणानां च स्तुवन्तः पुरतः स्थिताः ॥ २८॥
हनुमानुवाच ।
धन्योऽसि कृतकृत्योऽसि गरुड त्वं हि सम्प्रति ।
सकुलस्त्वं पुनीतोऽसि राघवेन्द्रस्य दर्शनात् ॥ २९॥
श्रीरामे देवदेवेशे कोशलायां विराजति ।
अंशावताराः कृष्णाद्याः प्रणमन्ति ह्यसङ्ख्यकाः ॥ ३०॥
न ततोऽन्यमहं जाने देवदेवं खगेश्वर ।
सर्वावतारनिधेश्च रघुवीराद् गुणाकरात् ॥ ३१॥
गरुड उवाच ।
रामस्य बलकृष्णाद्याः सर्वेऽप्यंशाः सनातनाः ।
न ततोऽन्यत्किमप्यस्ति स्थूलं सूक्ष्मं जगत्त्रये ॥ ३२॥
इत्युक्त्वा तार्क्ष्यः कपीशं गच्छन् कर्त्तुं परिक्रमाम् ।
महावैकुण्ठसेव्याया अयोध्यायाश्च सर्वतः ॥ ३३॥
अयोध्यादक्षिणे भागे श्रीकृष्णं रुक्मिणीयुतम् ।
ददर्श गरुडस्तं च ननाम विधृताञ्जलिः ॥ ३४॥
नमन्तं गरुडं दृष्ट्वा रुक्मिणीवल्लभो हि सः ।
उवाच मधुरं वाक्यं प्रहसन् गरुडं तदा ॥ ३५॥
कृष्णोवाच ।
अद्य ते सफलं जन्म जीवितं सफलं सखे ।
गरुड त्वं हि धन्योऽसि अयोध्यापुरिदर्शनात् ॥ ३६॥
अयोध्यां परितो देशे कोटिविष्ण्वादयो वयम् ।
वसामः सततं वत्स रघुवराज्ञाप्रपालकाः ॥ ३७॥
इदमेव विजानन्ति ते वै रघुवरप्रियाः ।
तदितरेऽधमा जीवाः नित्यं स्वजनिदूषकाः ॥ ३८॥
एवं साकेतमहिमानं रहस्यं परमं सदा ।
स्तुत्वातिहर्षितस्तार्क्ष्यो मुमोद च पुनः पुनः ॥ ३९॥
उवास परया भक्त्या मणिपर्वतसन्निधौ
गायन् श्रीराघवेन्द्रस्य चरितं भुक्तिमुक्तिदम् ॥ ४०॥
विष्ण्वादिभिः सदा सेव्यं श्रुतिस्मृति रसं सुखम् ॥ ४१॥
दृष्ट्वा प्रभावमतुलं श्रीराघवस्य तथैव साकेतपुरस्य नित्यम् ।
नमामि (ननाम ?)रोमाञ्चितप्रेमविह्वलः स मारुती राघवरत्नमद्भुतम् ॥ ४२॥
सीतापतिं कटिनिषङ्गिणमात्तचापं रामं पयोदपटलाधिकमेचकाङ्गम् ।
केयूरिणं कनकरत्नकिरीटजुष्टं श्रीलक्ष्मणेन युतमद्भुतकोशलेशम् ॥ ४३॥
तुष्टाव हनुमान् प्रीत्या साष्टाङ्गनतविग्रहः ।
सकुर्वन् मुहुरत्यन्तं प्रेम रामे प्रतिक्षणम् ॥ ४४॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे हनुमद्दर्शनं नाम षष्ठोऽध्यायः ॥ ६॥
४४/१२९
००७. कथावतारो नाम सप्तमोऽध्यायः ।
श्री हनुमानुवाच ।
नमामि ते नाथ पदारविन्दं विष्ण्वादिसेव्यं च सुखैकहेतुम् ।
न यत्र सद्यः प्रमितिः श्रुतीनां तत्रामिते वानरः कोऽस्मि एषः ॥ १॥
तव प्रसादो मयि नाथ जातस्तथैव धामेश्वरिप्रेमदायाः ।
प्रमुद्वने नित्यतिकुञ्जकेली लसन्महामञ्जुलविग्रहायाः ॥ २॥
यदंशमात्रेण भवन्ति नित्यशो लक्ष्म्यादयः शक्तिवराश्च सर्वाः ।
लीलेश्वरी नन्दननन्दिनी सा मां पातु पादाम्बुजनित्यभक्तम् ॥ ३॥
नहि प्रभावाभ्युदिते रुचीनां तमोभवे दृष्टिपथं प्रयाति ।
तथा त्वयीशे कोटिसूर्यप्रकाशे श्रीराघवेन्द्र भक्तञ्जनैकलभ्ये ॥ ४॥
यदि त्वमेतत्तिमिरं मोहरूपं न संहरेदीश निजाश्रितेषु ।
कथं तदैषां गोचरत्वं प्रयाति रूपं तथैतत् सच्चिदानन्द सान्द्रम् ॥ ५॥
गोपालराजस्य च नन्दनस्य गेहे पुरा वसन् सह लक्ष्मणेन च ।
अरीरमद्राम भवान् व्रजाङ्गना उद्धारार्थं श्रुतिऋष्यादिरूपाः ॥ ६॥
तवैव लीला भुवने रसाला सुधाब्धिवत् पालयत्येव भक्तान् ।
नो चेत् कदाचित् त्वयि सन्तिरोहिते विशुष्येयुः पारमहंस्यभाजः ॥ ७॥
एवं विचिन्त्य भगवान् व्यतनोद्भवांस्तं लीलामृतोदधिमुदारमनन्तसारम् ।
यस्यान्तरे परमहंसवराः सदैव क्रीडन्ति कालशिरसि स्वपदं निधाय ॥ ८॥
त्वं भक्तिलभ्योऽसि हरे जनानां न ज्ञानयोगादितपोभिरुग्रैः ।
कथं तवेदृक् प्रसादोऽपि लभ्यः कुतस्तरां सन्निधौ दर्शनं ते ॥ ९॥
त्वं रामचन्द्रो नृपतेः कुमारो नित्यं विलासो सरयूतीरवासी ।
तवांश एषः श्रीकृष्णो यशोदा गर्भे भविष्यति वै द्वापरान्ते ॥ १०॥
अतो ह्यनन्तः शाश्वतस्त्वं पुराणः पूर्णो नित्यः सच्चिदानन्द एकः ।
व्योमाकारस्त्वं स्वलीलाभिरुच्चैः विश्वानन्दं जनयन् भासि रामः ॥ ११॥
नमस्ते रामचन्द्राय मुक्ताहारावतंसिने ।
पञ्चरत्नावतंसाय सीतानेत्रविनोदिने ॥ १२॥
नमो गोपीदृगाराम रामनाम शुभावह ।
वंशीधर घनश्याम वनमालिन् व्रजेन्द्र ते ॥ १३॥
केलिनीकेलिकान्ताय श्रीकान्ताय सुखाब्धये ।
गुणग्रामसमुद्राय सीताकान्ताय ते नमः ॥ १४॥
अपराधसहस्त्रेऽपि सद्य एव प्रसादिने ।
रामाय चैव रामाय नित्यमेव नमोनमः ॥ १५॥
एवं स्तुत्वा पदाम्भोजमग्रहीत् रसिकेशितुः ।
प्रेमविह्वलितो भूत्वा हनूमान् रामसेवकः ॥ १६॥
श्रीरघुनन्दनोवाच ।
उत्तिष्ठ वत्स हनूमन् लीलोपासनयानया ।
दृढया ते प्रसन्नोऽस्मि भक्तोऽसि मम सर्वदा ॥ १७॥
रामो लीलाविशिष्टोऽहं त्वामानन्दयितुं क्षमः ।
बालक्रीडानुचरितैः पितरौ नन्दयामि च ॥ १८॥
दृढलीलोपासनायां मारुते मतिरस्तु ते ।
मम सर्वस्वरूपेण भक्तानां प्रकटत्वतः ॥ १९॥
लीलामाधुर्यमात्रं तु स्वमास्वाद्यं रसोत्तरैः ।
भक्तैः परमहंसैश्च साधुभिर्हृदयालुभिः ॥ २०॥
रसास्वादाय साधूनां लीला या राघवस्य च ।
आस्वाद्यमाना सा वुद्ध्वा मुक्तिमेव प्रयच्छति ॥ २१॥
सामीप्यं तिष्ठ हनुमन् भक्तोऽसि मम सर्वदा ।
भज रामं राघवेन्द्रं पराभक्तिमवाप्नुहि ॥ २२॥
गरुड त्वं च देवानां कार्यं साधय गच्छ भोः ।
साकेतस्योत्तरे कूले सरयूतीरयोर्द्वयोः ॥ २३॥
नृणां सञ्चरतां मृत्यौ पशुपक्ष्यन्त्यजात्मनाम् ।
भृङ्गकीटपतङ्गानां वत्स त्वं वाहनो भव ॥ २४॥
चतुर्भुजांस्तान् मद्रूपानानयस्वेह यत्नतः
इत्थं विसृज्य भगवान् गरुडं रघुनन्दनः ।
रराम परमैश्वर्यभाविते सरयूतटे ॥ २५॥
एतद् भुशुण्ड ते प्रोक्तमाख्यानं परमाद्भुतम् ।
रामस्य चापि सीतायाः मिथस्तादात्म्यसूचकम् ॥ २६॥
तस्माद् विप्रतिपत्तव्यं न कदाचिन्मनीषिणा ।
यथा रामस्तथा सीता तथा श्रीसहजा मता ॥ २७॥
अथाहि ते प्रवक्ष्यामि राममाहात्म्यमुत्तमम् ॥ २८॥
यस्मात्त्वं रामभक्तोऽसि वैष्णवानां तथाग्रणीः ।
आदिरामायणं नाम श्रीरामचरितं शुभम् ॥ २९॥
किञ्चित्समाधावालोक्य प्रवक्ष्यामि प्रयत्नतः ।
अवतारचरित्रं च मूलं चरितमेव च ॥ ३०॥
एकीकृत्य लभेद्यत्र प्रवक्ष्यते मया द्विज ।
एवं मया भुशुण्डाय प्रोक्तं तत्संहितामयम् ॥ ३१॥
आदिरामायणं दिव्यं ब्राह्मे कल्पे विनिर्मितम् ।
तच्छ्रूयतां सुराः सर्वे श्रीरामचरितं शुभम् ॥ ३२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे कथावतारो नाम सप्तमोऽध्यायः ॥ ७॥
३२/१६१
००८. कथावतरणं नाम अष्टमोऽध्यायः ।
भुशुण्ड उवाच ।
जन्म कर्म च मे दिव्यं वद रामस्य विस्तरात् ।
तत्कथामृतपानेन मम चित्तं प्रसीदति ॥ १॥
ब्रह्मोवाच ।
पुरा दशास्यमुख्येषु राक्षसेषु जगत्त्रयम् ।
व्याकुलीकृतमत्यर्थं तदा विधिरचिन्तयत् ॥ २॥
अहो मया कृतं विश्वं विष्णुना प्रतिपाल्यते ।
ईशेन ह्रियते भूयः सम्प्राप्ते भुवनक्षये ॥ ३॥
भुवनस्य क्षयश्चापि नाधुनैव भविष्यति ।
कल्पं सारस्वतं नाम युगं त्रेताभिधं तथा ॥ ४॥
प्रायेणैषां विनाशाय द्विजधर्मत्रयीद्रुहाम् ।
भविष्यति स्वयं रामः प्रादुर्भूतः क्वचिद्भवि ॥ ५॥
ततः समाधौ प्रबभूव वाणी स्वयं भविष्यामि कलाभिरन्वितः ।
धर्मस्य संस्थापनहेतवे पुनः स्वभक्त पक्षप्रतिपालनाय च ॥ ६॥
सरयू पुलिने रम्ये कोशला नाम मे पुरी ।
सच्चिदानन्दनवनी शाश्वतं यत्परं पदम् ॥ ७॥
पृथिव्यां भारते वर्षे प्रकटं तन्मदाज्ञया ।
अत्रैवाहं स्वरूपेण विहरामि परिच्छदैः ॥ ८॥
लीलोपकरणैर्युक्तो नित्यैरप्राकृतैस्तथा ।
सुरा अपि भविष्यन्ति स्वांशेन प्रकटा इह ॥ ९॥
इति श्रुत्वा गिरं सूक्ष्मां वेधाः प्रोवाच विस्मितः ।
सर्वान् देवगणान् भूयो रावणाद्यैरुपद्रुतान् ॥ १०॥
इति श्रीमदादिरामायणे ब्रह्म भुशुण्डसंवादे कथावतरणं नाम अष्टमोऽध्यायः ॥ ८॥
१०/१७१
००९. महिमवर्णनं नाम नवमोऽध्यायः ।
ब्रह्मोवाच ।
तत्र काकुत्स्थवंशे तु जनिता वो हितप्रदः ।
तस्य सेवार्थममरा अग्रतो यूयमासथ ॥ १॥
कोटिब्रह्माण्डलक्ष्मीनामंशिनी ब्रह्मरूपिणी ।
आद्या श्रीर्भविता तस्य तोषणार्थं तु जानकी ॥ २॥
स जातो भगवान् रामो राघवेन्द्रो परात्परः ।
हरिष्यति भुवो भारं धर्मं च स्थापयिष्यति ॥ ३॥
आदिदेव्याश्च पद्मायाः करिष्यति सुखं महत् ।
देवीनां मानुषीणां च किन्नरोणां तथैव च ॥ ४॥
नागीनां च नगीनां च दृङ्मोदं जनयिष्यति ।
प्रमोदविपिने स्थित्वा सम्प्रयुक्तस्तदाज्ञया ॥ ५॥
तदंशभूताः अन्याश्च रामाः सम्मोदयिष्यति ।
परमा सा स्वयं लक्ष्मीः सीता साकेतपत्तने ।
प्रमोदने तथा राज्ञी सहजानन्दरूपिणी ॥ ६॥
भुशुण्ड उवाच ।
श्रीरामचरितं ब्रूहि ब्रह्मन् संशृण्वतो मम ।
जायते परमानन्दो रोमहर्षश्च गद्गदः ॥ ७॥
यस्यांशा मत्स्यकूर्माद्याः बलकृष्णादयस्तथा ।
तं राममपहायान्यं श्रोतुमिच्छामहे कथम् ॥ ८॥
यः पश्यतो मे धृतचापहस्तो भ्रूभङ्गमात्रे जलधिं निवध्य ।
चकार लङ्कां निजदासनाथां निहत्य वेगेन च राक्षसेन्द्रम् ॥ ९॥
लङ्काधिपः संयति जिष्णुजैत्रो वरोर्जितो भूरितेजा दशास्यः ।
यद्वाणवह्नेः सहसा पतङ्गतां जगाम साकं परिवारवगैः ॥ १०॥
तस्य श्रीरघुवीरस्य चरितं मे निशामय ।
कल्पे कल्पे तु यज्जातं विदितं चैव यत्तव ॥ ११॥
ब्रह्मोवाच ।
अनन्तं चरितं तस्य वक्तुं नो पारये द्विज ।
समाधौ तु सकृदृष्ट्वा वाल्मीकिः कथयिष्यति ॥ १२॥
मयापि भवते वाच्यं समाधावुपलभ्य हि ।
विना समाधिसंयोगं कथं वक्तुं क्षमोऽस्म्यहम् ॥ १३॥
वाल्मीकिनोदितं दिव्यं रामायणमुदाहृतम् ।
अन्यत्तु रामानुक्रीडं तद्रामायणमेव हि ॥ १४॥
मत्स्योऽस्य हृदयं विष्णुर्योगरूपी जनार्दनः ।
कूर्मोऽस्य धारणाशक्तिर्वराहो भुजयोर्बलम् ॥ १५॥
नारसिंहो महान् रोषो वामनः कटिमेखला ।
भार्गवोऽस्य परो धर्मो बलरामश्च सम्मदः ॥ १६॥
बुद्धस्तु करुणा साक्षात् कल्की चैतस्य संस्मृतिः ।
कृष्णोंऽशांशो ह एवास्य वृन्दावनविभूषणः ॥ १७॥
एते चांशकलाश्चैव रामस्तु भगवान् स्वयम् ।
ब्रह्मा विष्णुश्च रुद्रश्च महेन्द्रः श्रीस्तथैव च ॥ १८॥
सनातनस्तथा धर्मो राम एव स्वयं द्विज ।
न रामात् परतस्तत्त्वं वेदैरपि निचीयते ॥ १९॥
वेदान्ता ब्रह्मसूत्राणि चत्वारो निगमास्तथा ।
सेतिहासानि सर्वाणि पुराणानि तथा द्विज ॥ २०॥
धर्मः सांङ्ख्यं तथा योगः सर्वं रामस्य सूचकम् ।
तत्सङ्कोचविकाशाभ्यां राम एव प्रतिष्ठितम् ॥ २१॥
रकारेण विकाशः स्यात्सङ्कोचस्तु मकारतः ।
वेदशास्त्रपुराणौघैरेकं तत्त्वं विनिश्चितम् ॥ २२॥
परं ब्रह्म स्वयं रामः सच्चिदानन्दविग्रहः ।
अहो रामस्य चरितं महानारायणेशितुः ॥ २३॥
जिह्वाकोटिशतेनापि मया वक्तुं न शक्यते ।
यस्य लोकः सदा भाति गोलोकात्परतस्तु सः ॥ २४॥
महावैकुण्ठमेतद्धि व्यापि वैकुण्ठसंज्ञकम् ।
तत्र तस्य पदाम्भोजद्वयं सम्यक् प्रतिष्ठितम् ॥ २५॥
तत्परस्तस्य वै रूपं सोतावैकुण्ठसंज्ञकम् ।
रामवैकुण्ठसंज्ञं तु प्रमोदवनमुदाहृतम् ॥ २६॥
यतो विनिर्गताश्चांशा विस्फुलिङ्गा इवारणेः ।
बलकृष्णादयः सर्वेऽप्यवतारपदं मताः ॥ २७॥
अवतारी स्वयं रामः सर्वांशानां निधिः परः ।
कस्तस्य महिमानं च वक्तुं शक्नोति दैवतः ॥ २८॥
हयग्रीवेण यत्प्रोक्तं यच्च वल्मीकजेन च ।
मया त्वया च यत्प्रोक्तं वसिष्ठेन तथोदितम् ॥ २९॥
तदंशमात्रकं विद्धि रामायणमनन्तकम् ।
यदि वालुकरेणूनां गणना स्यान्महामते ॥ ३०॥
तदा श्रीरामवीर्याणां गणना भवति क्वचित् ।
अन्यदेवहि तद्वीर्यं कल्पे कल्पे युगे युगे ॥ ३१॥
अथाभवद्दशरथमन्दिरे परे पुमानसौ भुवनभरोद्धृतिक्षमः ।
मृगीदृशां नयनविमोहनाकृतिः स राघवः क्षपयतु वाक्यचापलम् ॥ ३२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे महिमवर्णनं नाम नवमोऽध्यायः ॥ ९॥
३२/२०३
०१०. जन्मस्तवो नाम दशमोऽध्यायः ।
भुशुण्ड उवाच ।
कीदृग्रूपधरो रामो जातो दशरथालये ।
किमाचारः कथम्भावः तद्वदस्व विधे मम ॥ १॥
ब्रह्मोवाच ।
चैत्रस्य शुक्लपक्षे तु नवम्यां श्रीपुनर्वसौ ।
अभिजिन्नामयोगेऽसौ कौसल्यानन्दनोऽभवत् ॥ २॥
स जातमात्रो निविडाम्बुदाकृतिः पीताम्बरः सुस्मितवक्रपङ्कजः ।
भुजद्वयो वाणवरादिचिह्नितः स्ववामभागे श्रियमुत्तमां दधत् ॥ ३॥
अनर्घ्यरत्नाभरणैर्विराजितः समुल्लसत्कुण्डलशोभिताननः ।
श्रीवत्सलक्ष्म्यार्पितकण्ठकौस्तुभ स्त्विषा स्वयं रोचितसूतिकागृहः ॥ ४॥
अनङ्गलावण्यपरार्धसम्पदा संस्पृष्टसर्वाङ्गमनोहरोज्ज्वलः ।
शृङ्गारभङ्गीरससूचकैर्दृशोः कटाक्षपातैः कमलां प्रमोदयन् ॥ ५॥
आसन्नगर्भोद्भवजातनिद्रया कौशल्यया लक्षितजन्मभूषणः ।
ततश्च सन्देशहरैर्निवेदितो नृपाय दूर्वादलशोभिपाणिभिः ॥ ६॥
स वासुदेवादिभिरात्मजोंऽशैश्चतुर्भिरासेवितदिव्यविग्रहः ।
जवात् समागत्य नृपेण वीक्षितो दृग्भ्यामदृष्टाश्रुतपूर्वलक्षणः ॥ ७॥
तमादिपुरुषं ज्ञात्वा परं ब्रह्म स्वरूपिणम् ।
तुष्टाव वैदिकैः शब्दैः स्वयं दशरथो नृपः ॥ ८॥
नमो नमस्ते रघुनन्दनाय रामाय रामाच्युतविक्रमाय ।
रामाय रामाय च राघवाय स्वयम्भुवे श्रीपतये पराय ॥ ९॥
नमो हृषीकेश शिवाय तुभ्यं समस्तदैत्यावलिनिग्रहाय ।
भूभारहर्त्रादिवराहमूर्तये नृसिहरूपाय च वामनात्मने ॥ १०॥
नमो महामन्दरशैलधारिणे त्रिविक्रमायातुलविक्रमाय ।
श्रीवत्सलक्ष्माय सकौस्तुभाय श्रीरामदेवाय रघूद्वहाय ॥ ११॥
त्वमादिमूर्तिर्भगवान् सनातन स्त्रयीमयः शान्तरजस्तमोमयः ।
भक्तेषु कृत्वा करुणां कदाचि दिहावतीर्य क्षपयस्यधर्मम् ॥ १२॥
न ते विदुस्तेज उदग्रमेतद् विश्वे भवाद्या अपि दैवत्तोत्तमाः ।
स्वरूपशक्त्यैव सदावदातया प्रकाशसे सन्ततसुप्रकाशः ॥ १३॥
त्वमादिदेवो विदितोऽसि सम्प्रति श्रिया युतः श्रीपुरुषोत्तमो हरिः ।
न चेदिदं विश्वविलक्षणं महः कथं प्रकाशेत मदक्षिगोचरम् ॥ १४॥
दासेषु साधुष्वमरेषु सत्क्रियां कृत्वावतीर्णोऽसि यदादिपूरुषः ।
तदेव दृश्योऽसि न चेत्तु मादृशै र्मर्त्यैः सुखाद् यो भगवान् स्वयम्प्रभुः ॥ १५॥
नमो नमस्ते भगवन् स्वसाक्षिणे स्वमायया संवृतविग्रहात्मने ।
त्रिवृत्स्वरूपाय परात्पराय स्व एव धामन्यनिशं विभास्वते ॥ १६॥
रूपं तवैतत् क्षयितोऽवनीभरं चिदात्मकं भक्तदृशां मनोहरम् ।
पश्यन्ति नैवासुरभावमास्थिताः कथं चिदेवाविषयीकृतं सुरैः ॥ १७॥
स्थानेऽस्मदानन्दकृते भवज्जनुर्न रावणाद्यासुरहन्तवे प्रभो ।
तवोद्भटा अक्षरकालधर्म स्वभावसंज्ञा कति सन्ति नो भटाः ॥ १८॥
यदक्षरं ब्रह्म सनातनं स्वराट् सहस्रनेत्राननपादबाहुकम् ।
निरञ्जनं निष्प्रतिमं निरीहं श्रीराम तत्त्वच्चरणं वदन्ति ॥ १९॥
यः कालसंज्ञः परमो नियन्ता समस्तकर्ता भगवान् महोग्रः ।
भूतं भविष्यदथ वर्तमानं विभ्रत्तदीशास्ति वपुस्त्वदीयम् ॥ २०॥
यत् कर्मरूपं प्रतिजीवमाततं यथोचितं यच्च यावच्च रूपम् ।
फलोन्मुखं स्वव्यतिरेकतोऽफलं तत्त्वं प्रभो इष्टपूर्त्तादिसाध्यम् ॥ २१॥
यत् स्वात्मभक्तेषु दयां विधत्से दुष्टेषु च क्रूरतया निरीक्षितम् ।
सृष्टिस्थितिक्षयलीलाश्च कुर्वन् जार्गष्यसौ ते परमः स्वभावः ॥ २२॥
तं जातमात्रं कौशल्या प्रसमीक्ष्य भुजद्वयम् ।
ज्ञात्वा सीतापतिं साक्षादब्रवीन्मधुरैः स्तवैः ॥ २३॥
अहो धन्ये दृष्टी पुरुषवर ते रूपममृतं
पिबन्त्यौ स्वानन्दोदधिरसनिमग्नेऽद्य भवतः ।
निमेषोऽसह्यो मे किमिति रचितः कैरवपते
पन्था ज्योत्स्नाया ते नयनकरसम्मर्शनमभूत् ॥ २४॥
अहो अहो धन्यतमं कुलद्वयं अहो अहो धन्यतमे उभे दृशौ ।
अहो अहो धन्यतमं महीतलं यत्रास्ति योगो भवता समं हरे ॥ २५॥
अहो इदं रूपमतीवसुन्दरं न दृष्टपूर्वं धरणीतलस्थैः ।
अनेन लिङ्गेन रमाङ्कितेन श्रीरामचन्द्रोऽसि मतो नरोत्तम ॥ २६॥
यतो निवृत्ताः खलु वैदिकीर्गिरो मनस्तथा यद्विषयानुधावनम् ।
अचिन्त्यशक्तिप्रभवमतर्क्यं तत्त्वं परं ब्रह्म कुलेऽवतीर्य नः ॥ २७॥
कर्ता महन्मङ्गलमीश गोद्विज धर्मश्रुतीनां स्वमुपाश्रितानाम् ।
कुलं तथा साधु सुविश्रुतं रवेः स्वपौरुषेणैव महायशो दधत् ॥ २८॥
एवमेव कदाचिद्वै द्वापरान्ते यदोः कुले ।
वसुदेवाच्च देवक्यां तवांशो वै भविष्यति ॥ २९॥
क्वचित् सुतपसो गेहे पृष्णिगर्भेऽप्यजीजनः ।
तेनैव पृष्णिगर्भेति तव नामानुशुश्रुम ॥ ३०॥
पुरा भूमेः सजीवाया नेताऽधो वारिधेर्बलात् ।
वराहवपुषा देव हिरण्याक्षस्त्वया हतः ॥ ३१॥
एवमेव स्वभक्तस्य प्रतिज्ञां रक्षता त्वया ।
निहन्ता श्रुतिधर्माणां हिरण्यकशिपुर्हतः ॥ ३२॥
प्रलयार्णवमग्नानां वेदानामुद्धृतौ क्षमम् ।
मात्स्यं वपुस्त्वयाऽऽस्थाय हृदयं प्रकटीकृतम् ॥ ३३॥
पुरा पीयूषमथने मन्थदण्डस्त्वया धृतः ।
मन्दराख्यो महाशैलः कौर्म वपुरुपाश्रितः ॥ ३४॥
पुरा वलिं छलयता महामानिनमीश्वरम् ।
मन्ये वपुर्वामनस्य त्वयैव प्रकटीकृतम् ॥ ३५॥
पुरा लङ्काधिपः कश्चिद्यथेदानीं महाबलः ।
आसीत् स भवता देव रावणाख्यो निराकृतः ॥ ३६॥
सम्प्रत्यपि बलैर्वृद्धो राक्षसेन्द्रो दशाननः ।
त्वयैव विनिहन्तव्यः स्तेनो देवपतिश्रियाम् ॥ ३७॥
पुरा त्वयैव भगवंश्चरता दुश्चरं तपः ।
निराकृताः परशुना सुपुष्टाः क्षत्रियाः प्रभो ॥ ३८॥
अथ वैदिकजीवेषु कृपां सन्तन्वता त्वया ।
बुद्धरूपेण भगवन् पूरणीयो महामखः ॥ ३९॥
जातुचिन्म्लेच्छबहुले जगति त्रिजगत्प्रभो ।
त्वया कल्किस्वरूपेण पालनीयाः श्रुतिद्विजाः ॥ ४०॥
यौ बलकृष्णाविति विश्रुतिं गतौ स्वमाययात्तात्मगुणौ नरोत्तमौ ।
वेदेषु शास्त्रेषु तथा पुराणे षूद्गीयमानौ खलु तौ त्वदंशौ ॥ ४१॥
एवं भवान् पूर्णकलाभिरात्मनः सङ्क्रीडमानोऽभयदो निजानाम् ।
इहावतीर्णोऽसि दिवाकरान्वये स्वरोचिषा रोचितसर्वविश्वः ॥ ४२॥
इदं स्वरूपं निजदर्शनोचित ममानुषं तावकमीश लिङ्गम् ।
आवां प्रपश्येव न चेतरे जना स्त्वया विधेयं भगवंस्तथैव ॥ ४३॥
इयं च ते श्रीः कमलालया रमा वामाङ्गसंस्था कमलानपायिनी ।
अम्भोजहस्ता नयनोत्सवप्रदा धिनोति नो नयनयुगे मृदुस्मितैः ॥ ४४॥
एवं स्तवं विदधतोः कौशल्याधिपयोर्द्विज ।
आययुः सकला देवा ब्रह्माद्याः सेन्द्रशङ्कराः ॥ ४५॥
ते दण्डवत् सपदि निपत्य सम्मुखे सगद्गदाः पुलकलसत्तनूरुहाः ।
हृष्यन्तो दशमुखवेपितान्तराः पथ्याभिः स्तुतिभिरथाभिरेभिरे ॥ ४६॥
ब्रह्मादय ऊचुः ।
नमो नमो भुवनभयार्तिहारिणे रिपुच्छिदे द्विजनिगमौघरक्षिणे ।
परात्परामलवपुषे रजस्तमः संस्पृष्टप्रबहलसत्त्वमूर्तये ॥ ४७॥
नमो नमो भवजनुषेऽभवाय च नमो नमो खिलवपुषेऽखिलाय च ।
नमो नमो गुणनिधयेऽगुणाय च नमो नमोऽखिलदृशेऽदृशाय च ॥ ४८॥
नमो नमो निजविभवाप्तमूर्त्तये नमो नमो निजजनचित्तपण्यवे ।
नमो नमो निगमपथातिगामिने नमो नमो विततभवापवर्गद ॥ ४९॥
नमो नमो नः कार्यार्थमवतीर्णाय विष्णवे ।
लक्ष्मीशायाखिलद्वेष्टृसंहराय नमो नमः ॥ ५०॥
नमो नमः पुष्करपुञ्जमालिने नमो नमः पुष्करलोचनाय ते ।
नमो नमः पुष्करवर्यपाणये नमो नमः पुष्करमध्यवाससे ॥ ५१॥
यत्प्रार्थितोऽस्माभिरजस्त्र दुःखितैर्दशास्यकारागृहवासवेपितैः ।
तत्त्वं स्वयाच्ञां सफलां विधातु मिहावतीर्णोऽसि नमो नमस्ते ॥ ५२॥
कस्ते जनो वेत्ति वत प्रवृत्तिं गुणानुषङ्गव्यतिकरवर्जितात्मनः ।
स्वमाययाखिलजनमोहनाकृते रमायिनः स्वर्गभवापवर्गद ॥ ५३॥
कुर्मः किमीश भवदेकपरायणात्मा नो वयं किमपरं समुपाश्रयामः ।
अभ्यर्थयाम उदितेऽनुयुगं विपक्षे गोविप्रवेदपथधर्मविवर्द्धनाय ॥ ५४॥
तयापि ते सख्यमिहाचरिष्यन्त्येते सुराः उभयतटान्तवासिनः ।
इहापि ते नाथ रमैव सङ्गिनी भूयान्महामोदकला विवर्द्धिनी ॥ ५५॥
एषा श्री भवतो नित्या स्वांशैः क्रीडिष्यति त्वया ॥ ५६॥
रासादिलीला भवतो परात्परा विभातु नो हृदये नाथ नित्यम् ।
अशोककुञ्जे भवतो रमेश रमासहस्रेण यथा विलासः ॥ ५७॥
इहापि ते देव तथैव भूयात्
साकेतवल्लीवनवल्लरीभिः ।
इमाः प्रभो सुरसरितोऽपरे तटे
वनाश्रयाः सुरवर गोपकन्यकाः ।
रमामयास्तव जनिमानमिच्छवः
ससन्ततस्तव भवितार ईश्वराः ॥ ५८॥
एवं स्तुवत्सु ब्रह्मादिष्वत्र सम्मोदसम्भ्रमाः ।
तुष्टुवुः श्रुतयोऽप्येनं समागत्य त्रिपृष्टतः ॥ ५९॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे जन्मस्तवो नाम दशमोऽध्यायः ॥ १०॥
५९/२६२
Encoded and proofread by Vishal Pandey