भुशुण्डिरामायणम् पूर्वखण्ड ०११-०२०

भुशुण्डिरामायणम् पूर्वखण्ड ०११-०२०

०११. श्रुतिस्तवो नाम एकादशोऽध्यायः ।

श्रुतय ऊचुः । जय जय भुवनत्रयसन्तापहरण नवाम्बुदाकृते ! सकलकल्याणगुण निधान निरुपमसौन्दर्य विजितकन्दर्पकोटिदर्प मन्दस्मितमाधुरीसुधारसधारापराभूतशरच्चन्द्रचन्द्रिकावलेप कमलाकुचकुङ्कुमपिञ्जरीकृतवक्षस्थलविराजित- महाकौस्तुभमणिमरीचिमालानिराकृतत्रिभुवनतिमिर निरुपम नित्य निरीह निराभास निरञ्जन निर्विकार नित्याकार निर्गुण नित्यानन्दमयविग्रह निःकिञ्चनजनप्रिय ब्रह्माण्डकोटिकमलासंसेव्यमानचरणकमलरजःपरागपवित्रितवसुधातल नवीनवनमालाधर राम श्रीराम राघव मुकुन्द रामचन्द्र जनार्दन जगदीश पुरुषोत्तम द्विभुज धनुर्वाणादिधर श्रीवत्सधर महापुरुष महाकारुणिक महाजिष्णो महेश्वर महाजनाचार परिपालक सूर्यकुलोत्तम रघुकुलोत्तम समर्यादावतारिन् जगद्विधरणदहरवेश्मान्तःस्थ व्यापक परमात्मन्ननिर्द्देश्याप्रमेयातर्क्य कोमलापाङ्गनिर्मुक्तकटाक्षसङ्क्षोभितास्मन्मानसमहामदनसंवर्द्धन नमस्ते नमस्ते ॥ १॥ त्रिपृष्ठपुरस्थाभिरस्माभिरालोकितुं प्रार्थितो यद्दर्शनसुखमुखं किन्नु त्वदीयं प्रियं करवाम त्रिभुवनसुन्दरमिदं ते रूपमवलोकितवत्यो न वयं क्षणमपीतो विचलितुं शक्ताः अद्यावधि तव चरणधावनीर्दास्य एव भविष्यामः ॥ २॥ नमः सुन्दरवर भवतेऽनर्घ्यगुण ब्रह्मादीनामपि वाङ्मनसागोचरा कृतये निजानन्दरसनिमग्नाय कैशोरवेशशुद्धमूर्त्तये निजलीलावशीकृतलक्ष्मी सहस्रमहाकेलिमहारसिकाय ब्रह्मण्याय वदान्याय साधुवादनिकेतनाय करिष्यमाणभुवनत्रयमङ्गलपरिणामसूचकमधुरस्मितमण्डित- मुखचन्द्राय श्रीरामचन्द्राय ॥ ३॥ इत्थं संस्तूय तं नाथं श्रुतयो जातमङ्गलाः । सरय्वा अपरे पारेऽवतेरुर्गोपवेश्मषु ॥ ४॥ तास्तेषां घोषनाथानामाभीराणां कुले कुले । सहस्रशो जनिं कृत्वा रामसेवार्थमुत्सुकाः ॥ ५॥ रामो वै भगवान् साक्षात् पूर्णः श्रीपुरुषोत्तमः । तत्क्षणात् पश्यतोरेव कौशल्यारघुनाथयोः ॥ ६॥ शैशवं रूपमास्थाय व्यरुचज्जातको यथा । तं दृष्ट्वा पितरौ तस्य ययतुर्विस्मयं परम् ॥ ७॥ अहो ! अस्य महेशस्य लीलाक्रीडनकं वपुः । अयं हि नः सुखं दास्यत्युत्तरे वयसिस्थयोः ॥ ८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे श्रुतिस्तवो नाम एकादशोऽध्यायः ॥ ११॥ ८/२७०

०१२. जन्मोत्सवर्णनं नाम द्वादशोऽध्यायः ।

अथाहनन् दुन्दुभिवादिनो भुवि प्रमोदिताः संसदि देवदुन्दुभीन् । जगुश्च विद्याधरकिन्नरीगणाः प्रबन्धजन्मोत्सवगायनोद्धुराः ॥ १॥ सुराश्च तूर्यत्रिकनादमोदिताः सुरद्रुमाणां कुसुमैरवाकिरन् । कृताङ्गभूषा ननृतुश्च सम्भ्रमात् सुराङ्गनाभिर्गगनाङ्गणस्थिताः ॥ २॥ दिशां प्रसादः सहसा तदाभवद् ययुः सुखस्पर्शकराः समीरणाः । सुरोचिषा रोचित उद्गतो रवि र्नभस्तलं दर्पणनिर्मलं बभौ ॥ ३॥ प्रदर्शयामास तथैव कालो निजान् गुणान् सन्ततमाधिदैविकान् । विज्ञाय सर्वेश्वरमत्र जातं रमा निजांशैरवतारमाचरत् ॥ ४॥ ततोऽधिकूलौ मधुरौ सरय्वा रत्नोप्तहेमप्रभवौ बभूवतुः । सरिच्च चान्द्री विमला विरेजे समुल्लसत्काञ्चनबालुकाढ्या ॥ ५॥ सर्वे द्रुमास्तत्र सुरद्रुमोपमाः सर्वे निधीनां निवहा इहासुः । सर्वे च ते दिव्यसमृद्ध योगा ये प्रादुरासुः कमलानिकेतने ॥ ६॥ राजा दशरथः स्नात्वा कृत्तश्मश्रुरलङ्कृतः । जातकर्म कुमाराणां चकार विधिवद्द्विजैः ॥ ७॥ जातकर्मोत्सवे धेनूः कोटिशः समलङ्कृताः । ब्राह्मणेभ्यो ददौ राजा युक्तः परमया मुदा ॥ ८॥ नृत्यतां गायकानां च वाद्यतां पुरयोषिताम् । मनोरथाधिकं प्रादात् पटभूषणधोरणम् ॥ ९॥ वन्धुभ्यो ज्ञातिजेभ्यश्च महाराजेभ्य एव च । सम्माननं चकारोच्चैर्वासोऽलङ्कारसम्पदा ॥ १०॥ तत्राशिषः प्रयुञ्जानाः प्रेमपूर्णा द्विजातयः । कुमाराणां सुभव्याय जन्मस्वस्त्ययनं जगुः ॥ ११॥ अथास्थाने स्थितं भूपं सदूर्वादलपाणयः । पौरा जनाः समाजग्मुरन्योन्यकृतमङ्गलाः ॥ १२॥ मण्डिता मण्डमानाश्च जातकौतुकवृद्धयः । सुहृदः साधवश्चैव भक्ता देवर्षयस्तथा ॥ १३॥ कोटिब्रह्माण्डनाथाश्च देवा ब्रह्मादयोऽखिलाः । कोटयश्च महेन्द्राणां यमानां कोटयस्तथा ॥ १४॥ कोटयो वरुणानां च कुबेराणां च कोटयः । रुद्राणां कोटयश्चैव तस्मिन् जन्ममहोत्सवे ॥ १५॥ अनृत्यन्त प्रमोदेन सिद्ध गन्धर्वलोकवत् । अन्ये खदिग्भूमिचराः प्रमोदरसरञ्जिताः ॥ १६॥ ग्रहाश्च सर्वे शुभवेषधारिणः स्वरूपतः स्वस्वगृहेषु तस्थिरे । ब्रह्माण्डकोटिष्वपि याश्च सम्पद स्ता मूर्तिमत्यः सहसाऽऽविरासुः ॥ १७॥ राजानश्च महामोदा नानोपायनपाणयः । समाजग्मुः शुभं वक्तुं तस्मिन्रामजनोत्सवे ॥ १८॥ दूर्वादलसनाथेभ्यस्तेभ्यो राजा भृशं ददौ । दिव्यभूषणवासांसि वस्तूनि बहुलानि च ॥ १९॥ तोषेण पूर्णचित्तास्ते स्पृहयन्ति परस्परम् । नरेन्द्रस्य कुमाराणां भूय आभ्युदयं शुभम् ॥ २०॥ प्रजा ऊचुः । अहो दशरथो राजा भाग्यवान् मङ्गलालयः । यस्योत्तरं वयः सम्यक् सुतजन्मोत्सवैर्युतम् ॥ २१॥ अहो अस्य कुमाराणां दीर्घमायुर्भवत्विति । अस्मदीयैर्महाभाग्यैरेते जीयासुरीश्वराः ॥ २२॥ अहो विधे धन्यतमोऽसि यत्स्वयं मनोरथं पूरितवान् नृपस्य नः । जातोऽधुना भव्यकरो नृलोकः समस्तसौभाग्यकलाधिवासितः ॥ २३॥ ब्रह्मादयः सुराः सर्वे वसिष्ठाद्याः सुरर्षयः । प्रायुञ्जन्नाशिषो याभिर्वृद्धिमन्तः कुमारकाः ॥ २४॥ कुमाराः विधिसुस्नाता धात्रीभिः समलङ्कृताः । विरेजुः सहसोद्भूता मणयो वारिधेर्यथा ॥ २५॥ ते मातृभिः कृतसुमङ्गलसूतिकायां नीराजितास्तपनबिम्बमहौजसोऽपि । नेत्रान्तलग्नकलकज्जलविन्दुजात दृष्टिप्रदोषविषया प्रणयं पुपोषुः ॥ २६॥ दिने दिनेऽङ्गलावण्यवृद्ध्या रोचन्ति बालकाः । अजातदर्शदशना जननीनेत्रसौख्यदाः ॥ २७॥ आशीभिः पौरलोकानां जनानां च मनोरथैः । वर्द्धमानाः प्रतिदिनं व्यूहात्मानो व्यरोचयन् ॥ २८॥ तेषां मध्ये महारूपलावण्यवपुषा युतः । चिदानन्दमयो रामो व्यरोचत विशेषतः ॥ २९॥ द्वितीयश्च सुमित्रायाः सूनुः कञ्जदलेक्षणः । व्यराजत विशेषेण रामवत् परमद्युतिः ॥ ३०॥ अन्यौ भरतशत्रुघ्नौ प्रभामण्डलमण्डितौ । विरेजतुः सुवयसौ सम्पन्नौ परया श्रिया ॥ ३१॥ दशरथभवनं सदा समृद्धं सुविततमूर्जितमिन्दिरानिवासम् । रामजनुषि सुमङ्गले च जाते व्यरुचदतीव मनोज्ञयैव लक्ष्म्या ॥ ३२॥ तथैवाविर्बभूवुस्ते बाला वै लक्ष्मणादयः । बभौ राजा समासाद्य निखिलांश्च मनोरथान् ॥ ३३॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे जन्मोत्सवर्णनं नाम द्वादशोऽध्यायः ॥ १२॥ ३३/३०३

०१३. वसिष्ठकृतसहस्रकथनं नाम त्रयोदशोऽध्यायः ।

ब्रह्मोवाच । अथ त्रयोदशतमे दिने नामविघित्सया । कुमाराणां सुजनुषां परमायुश्चिकीर्षया ॥ १॥ वसिष्ठो वंशपौरौधाः मुदायुक्तः समाययौ । राज्ञो दशरथस्यान्तःपुरे सर्वसमर्द्धने ॥ २॥ (समृद्धने) समायातं मुनिधेष्ठं राजा दशरथोऽग्रहीत् । अहो मे भाग्यसम्पत्या सङ्गतोऽद्य पुरोहितः ॥ ३॥ प्राजापत्यो मुनिश्रेष्ठः परमानन्ददर्शनः । नमस्ते मुनिशार्दूल प्राजापत्य महाप्रभ ॥ ४॥ (महाप्रभो) वसिष्ठ उवाच । नरेन्द्र वत ते भाग्यं जातोऽसि तनु पुत्रवान् ॥ ५॥ तेषामहं कुमाराणां नामकृत्यं सुखप्रदम् । तवाज्ञया विधास्यामि यद्गोप्यममरैरपि ॥ ६॥ अहो अमी प्रभोरंशा रामस्यामिततेजसः । योऽसौ तव कुमाराणामग्रणी राम एव सः ॥ ७॥ अस्य चत्वार एवांशाः ब्रह्मरूपाः सनातनाः । वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ८॥ चत्वार एते पुरुषाः स्वस्वकार्यविधायकाः । धर्मरूपास्तु रामस्य पुरुषोत्तमरूपिणः ॥ ९॥ ततः संस्तातसंस्कारान् मन्त्रितान् विधिवर्त्मना । नामानि चक्रे व्रह्मर्षिः कोटिकल्पविदुत्तमः ॥ १०॥ वसिष्ठ उवाच । रामः श्यामो हरिर्विष्णुः केशवः केशिनाशनः । नारायणो माधवश्च श्रीधरो मधुसूदनः ॥ ११॥ रावणारिः कंसनिहा वकीप्राणनिवर्त्तनः । ताडकाहननोद्युक्तो विश्वामित्रप्रियः कृती ॥ १२॥ वेदाङ्गो यज्ञवाराहो धर्मज्ञो मेदिनीपतिः । वासुदेवोऽरविन्दाक्षो गोविन्दो गोपतिः प्रभुः ॥ १३॥ पद्माकान्तो विकुण्ठाभूः कीर्तिकन्यासुखप्रदः । जानकीप्राणनाथश्च सीताविश्लेषनाशनः ॥ १४॥ मुकुन्दो मुक्तिदाता च कौस्तुभी करुणाकरः । खरदूषणनाशी च मारीचप्राणनाशकः ॥ १५॥ सुबाहुमारणोत्साही पक्षिश्राद्धविधायकः । विहङ्गपितृसम्बन्धी क्षणतुष्टो गतिप्रदः ॥ १६॥ पूतनामातृगतिदो विनिवृत्ततृणानिलः । पावनः परमानन्दः कालिन्दीजलकेलिकृत् ॥ १७॥ सरयूजलकेलिश्च साकेतपुरदैवतः । मथुरास्थाननिलयो विश्रुतात्मा त्रयीस्तुतः ॥ १८॥ कौन्तेयविजयोद्युक्तः सेतुकृत् सिन्धुगर्भवित् । सप्ततालप्रभेदी च महास्थिक्षेपणोद्धुरः ॥ १९॥ कौशल्यानन्दनः कृष्णः किशोरीजनवल्लभः । आभीरीवल्लभो वीरः कोटिकन्दर्पविग्रहः ॥ २०॥ गोवर्द्धनगिरिप्राशी गोवर्द्धनगिरीश्वरः । गोकुलेशो न्नजेशश्च सहजाप्राणवल्लभः ॥ २१॥ भूलीलाकेलिसन्तोषी वामाकोटिप्रसादनः । भिल्लपत्नीकृपासिन्धुः कैवर्त्तकरुणाकरः ॥ २२॥ जाम्बवद्भक्तिदो भोक्ता जाम्बवत्यङ्गनापतिः । सीताप्रियो रुक्मिणीशः कल्याणगुणसागरः ॥ २३॥ भक्तप्रियो दाशरथिः कैटभारिः कृतोत्सवः । कदम्बवनमध्यस्थः शिलासन्तारदायकः ॥ २४॥ राघवो रघुवीरश्च हनुमत्सख्यवर्द्धनः । पीताम्बरोऽच्युतः श्रीमान् श्रीगोपीजनवल्लभः ॥ २५॥ भक्तेष्टो भक्तिदाता च भार्गवद्विजगर्वजित् । कोदण्डरामः क्रोधात्मा लङ्काविजयपण्डितः ॥ २६॥ कुम्भकर्णनिहन्ता च युवा कैशोरसुन्दरः । वनमाली घनश्यामो गोचारणपराक्रमी ॥ २७॥ काकपक्षधरो वेषो विटो धृष्टः शठः पतिः । अनुकूलो दक्षिणश्च तारः कपटकोविदः ॥ २८॥ अश्वमेधप्रणेता च राजा दशरथात्मजः । राघवेन्द्रो महाराजः श्रीरामानन्दविग्रहः ॥ २९॥ क्षत्त्रः क्षत्त्रकुलोत्तसो महातेजाः प्रतापवान् । महासैन्यो महाचापो लक्ष्मणैकान्तसुप्रियः ॥ ३०॥ कैकेयीप्रणनिर्माता वीतराज्यो वनालयः । चित्रकूटप्रियस्थानो मृगयाचारतत्परः ॥ ३१॥ किरातवेषः क्रूरात्मा पशुमांसैकभोजनः । फलपुष्पकृताहारः कन्दमूलनिषेवणः ॥ ३२॥ पयोव्रतो विधानज्ञः सद्धर्मप्रतिपालकः । गदाधरो यज्ञकर्त्ता श्राद्धकर्ता द्विजार्चकः ॥ ३३॥ पितृभक्तो मातृभक्तो बन्धुः स्वजनतोषकृत् । मत्स्यः कूर्मो नृसिंहश्च वराहो वामनस्तथा ॥ ३४॥ रघुरामः परशुरामो बलरामो रमापतिः । रामलिङ्गस्थापयिता शिवभक्तिपरायणः ॥ ३५॥ (रुद्रमाहात्म्यवर्धनः) चण्डिकार्चनकृत्यज्ञश्चण्डीपाठविधानवित् । अष्टमीव्रतकर्मज्ञो विजयादशमीप्रियः ॥ ३६॥ कपिसैन्यसमारम्भी सुग्रीवप्राणदः परः । सूर्यवंशध्वजो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ३७॥ ब्रह्मार्पणी ब्रह्महोता ब्रह्मकर्मविदुत्तमः । ब्रह्मज्ञो ब्राह्मणाचारः कृतकृत्यः सनातनः ॥ ३८॥ सच्चिदानन्दरूपश्च निरीहो निर्विकारकः । नित्याकारो निराधारो रामो रमयतां वरः ॥ ३९॥ रकारादिर्मकारादिः रामः कैवल्यमङ्गलः । सन्दर्भो संशयच्छेत्ता शेषशायी सतां गतिः ॥ ४०॥ पुरुषः पुरुषाकारः प्रमेयः पुरुषोत्तमः । वशीधरो विहारज्ञो रसानन्दीजितस्मरः ॥ ४१॥ पूर्णातिथिविनोदी च वृन्दावनविलासकृत् । रत्नकटकधरो वीरो मुक्ताहारविभूषणः ॥ ४२॥ नृत्यप्रियो नृत्यकरो नित्यसीताविहारवान् । महालक्ष्मीदृढानन्दो प्रमोदवननायकः ॥ ४३॥ परप्रेमा परानन्दः परभक्तिस्वरूपकः । अग्निरूपः कालरूपः प्रलयान्तमहानलः ॥ ४४॥ (महाबलः) सुप्रसन्नः प्रसादात्मा प्रसन्नास्यः परः प्रभुः । प्रीतिः प्रीति मनाः प्रीतिः शकटासुरभञ्जनः ॥ ४५॥ (प्रीतः प्रीत मनाः) खट्वासुरवधोद्युक्तः कालरूपो दुरन्तकः । हंसः स्मरसहस्रात्मा स्मरणीयो रुचिप्रदः ॥ ४६॥ पण्डा पण्डितमानी च वेदरूपः सरस्वती । गुह्यार्थदो गुरुर्देवो मन्त्रज्ञो मन्त्रदीक्षितः ॥ ४७॥ योगज्ञो योगविन्नाथः स्वात्मयोगविशारदः । अध्यात्मशास्त्रसारज्ञो रसरूपो रसात्मकः ॥ ४८॥ श‍ृङ्गारवेशो मदनो मानिनीमानवर्द्धनः । चन्दनद्रवसशीतश्चन्दनद्रवलेपनः ॥ ४९॥ श्रीवत्सलाञ्छनः श्रीमान् मानी मानुषविग्रहः । करणं कारणं कर्ताऽऽधारो विधरणो धरः ॥ ५०॥ धरित्रीधरणो धीरः स्त्र्यधीशः सत्यवाक् प्रियः । सत्यकृत् सत्रकर्ता च कर्मी कर्मविवर्द्धनः ॥ ५१॥ कार्मुकी विशिखी शक्तिधरो विजयदायकः ऊर्ज्जस्वलो बली जिष्णुर्लङ्केशप्राणनाशकः ॥ ५२॥ शिशुपालप्रहन्ता च दन्तवक्त्रविनाशनः । परमोत्साहनोऽसह्यः कलिदोषविनाशनः ॥ ५३॥ (परमोत्साहनो सत्त्व) जरासन्धमहायुद्धो निःकिञ्चनजनप्रियः । (योद्धा) द्वारकास्थाननिर्माता मथुरावासशून्यकृत् ॥ ५४॥ काकुत्स्थो विनयी वाग्मी मनस्वी दक्षिणाप्रदः । प्राच्यवाचीप्रतीच्युक्तदक्षिणो भूरिदक्षिणः ॥ ५५॥ दक्षयज्ञसमानेता विश्वकेलिः सुरार्चितः । देवाधिपो दिवोदासो दिवास्वापी दिवाकरः ॥ ५६॥ कमलाक्षः कृपावासो द्विजपत्नीमनोहरः । विभीषणशरण्यश्च शरणं परमा गतिः ॥ ५७॥ चाणूरबलनिर्माथी महामातङ्गनाशनः । बद्धकक्षो महामल्ली मल्लयुद्धविशारदः ॥ ५८॥ अप्रमेयः प्रमेयात्मा प्रमाणात्मा सनातनः । मर्यादावतरो विज्ञो मर्यादापुरुषोत्तमः ॥ ५९॥ महाक्रतुविधानज्ञः क्रतुकर्मा क्रतुप्रियः । वृषस्कन्धो वृषस्कन्दो वृषध्वजमहासखः ॥ ६०॥ चक्री शार्ङ्गी गदापाणिः शङ्खभृत् सुस्मिताननः । योगध्यानी योगगम्यो योगाचार्यो दृढासनः ॥ ६१॥ जिताहारो मिताहारः परहा दिग्जयोद्धुरः । सुपर्णासनसंस्थाता गजाभो गजमोक्षणः ॥ ६२॥ गजगामी ज्ञानगम्यो भक्तिगम्यो भयापहः । भगवान् सुमहैश्वर्यः परमः परमामृतः ॥ ६३॥ स्वानन्दी सच्चिदानन्दी नन्दिग्रामनिकेतनः । वर्होत्तंसः कलाकान्तः कालरूपः कलाकरः ॥ ६४॥ कमनीयः कुमाराभो मुचुकुन्दगतिप्रदः । मुक्तिभूरिफलाकारः कारुण्यधृतविग्रहः ॥ ६५॥ भूलीलारमणोद्युक्तः शतधाकृतविग्रहः । रसास्वादी रसानन्दी रसातलविनोदकृत् ॥ ६६॥ अप्रतर्क्यः पुनीतात्मा विनीतात्मा विधानवित् । भुज्युः सभाजनः सभ्यः पण्डः पण्डुर्विपण्यजः ॥ ६७॥ चर्षणी उत्कटो वीतो वित्तदः सविताऽविता । विभवो विविधाकारो रामः कल्याणसागरः ॥ ६८॥ सीतास्वयवरोद्युक्तो हरकार्मुकभञ्जनः । रावणोन्मादशमनः सीताविरहकातरः ॥ ६९॥ कुमारकुशलः कामः कामदः कोतिवर्द्धनः । दुर्योधनमहावैरी युधिष्ठिरहितप्रदः ॥ ७०॥ द्रौपदीचीरविस्तारी कुन्तीशोकनिवारणः । गान्धारीशोकसन्तानः कृपाकोमलमानसः ॥ ७१॥ चित्रकूटकृतावासो गङ्गासलिलपावनः । ब्रह्मचारी सदाचारः कमलाकेलिभाजनः ॥ ७२॥ दुरासदः कलहकृत् कलिः कलिविनाशनः । चारी दण्डाजिनी छत्री पुस्तकी कृष्णमेखलः ॥ ७३॥ (ब्रह्मचारी दण्डछत्री) दण्डकारण्यमध्यस्थः पञ्चवट्यालयस्थितः । परिणामजयानन्दी नन्दिग्रामसुखप्रदः ॥ ७४॥ इन्द्रारिमानमथनो बद्धदक्षिणसागरः । शैलसेतुविनिर्माता कपिसैन्यमहीपतिः ॥ ७५॥ रथारूढो गजारूढो हयारूढो महाबली । निषङ्गी कवची खड्गी खलगर्वनिवहणः ॥ ७६॥ वेदान्तविज्ञो विज्ञानी जानकीब्रह्मदर्शनः । लङ्काजेता विमानस्थो नागपाशविमोचकः ॥ ७७॥ अनन्तकोटिगणभूः कल्याणः केलिनीपतिः । दुर्वासापूजनपरो वनवासी महाजवः ॥ ७८॥ सुस्मयः सुस्मितमुखः कालियाहिफणानटः । विभुर्विषहरो वत्सो वत्सासुरविनाशनः ॥ ७९॥ वृषप्रमथनो वेत्ता मरीचिर्मुनिरङ्गिराः । वसिष्ठो द्रोणपुत्रश्च द्रोणाचार्यो रघूत्तमः ॥ ८०॥ रघुवर्यो दुःखहन्ता वनधावनसश्रमः । भिल्लग्रामनिवासी च भिल्लभिल्लिहितप्रदः ॥ ८१॥ रामो रविकुलोत्तंसः वृष्णिगर्भो महामणिः । (पृश्निगर्भो) यशोदाबन्धनप्राप्तो यमलार्जुनभञ्जनः ॥ ८२॥ दामोदरो दुराराध्यो दूरगः प्रियदर्शनः । मृत्तिकाभक्षणक्रीडो ब्रह्माण्डावलिविग्रहः ॥ ८३॥ बाललीलाविनोदी च रतिलीलाविशारदः । वसुदेवसुतः श्रीमान् भव्यो दशरथात्मजः ॥ ८४॥ वलिप्रियो वालिहन्ता विक्रमी केसरी करी । सनिग्रहफलानन्दी सनिग्रहनिवारणः ॥ ८५॥ सीतावामाङ्गसंलिष्टः कमलापाङ्गवीक्षितः । स्यमन्तपञ्चकस्थायी भृगुवंशमहायशाः ॥ ८६॥ अनन्तोऽनन्तमाता च रामो राजीवलोचनः । इत्येवं नामसाहस्रं राजेन्द्र तनयस्य ते ॥ ८७॥ यः पठेत्प्रातरुत्थाय धौतपादः शुचिव्रत्रः । स याति रामसायुज्यं भुक्त्वान्ते केवलं पदम् ॥ ८८॥ न यत्र त्रिगुणग्रासो न माया न स्मयो मदः । तद्याति विरजं स्थानं रामनामानुकीर्तयन् ॥ ८९॥ न ते पुत्रस्य नामानि सङ्ख्यातुमहमीश्वरः । सङ्क्षेपेण तु यत्प्रोक्तं तन्मात्रमवधारय ॥ ९०॥ यावन्ति सन्ति रूपाणि विष्णोरमिततेजसः । तावन्ति तव पुत्रस्य परब्रह्मस्वरूपिणः ॥ ९१॥ पाज्वभौतिकमेतद्धि विश्वं समुपधारय । ततः परं परब्रह्म विद्धि रामं सनातनम् ॥ ९२॥ नश्वरं सकलं दृश्यं रामं ब्रूमः सनातनम् । एतद्धि तव पुत्रत्वं प्राप्तो रामः परात्परः ॥ ९३॥ सद्वेदैरपि वेदान्तैर्नेति नेतीति गीयते । (वेदान्ते) तमेव जलदश्यामं रामं भावय भावय ॥ ९४॥ य एतत् पठते नित्यं रामसाहस्रकं विभो । स याति परमां मुक्तिं रामकैवल्यरूपिणीम् ॥ ९५॥ मा शङ्किष्ठा नराधीशः श्रीरामरसिकस्य च । अनन्तकोटिरूपाणि रामस्तेषां विभावकः ॥ ९५॥ त्रैलोक्यमेतदखिलं रामवीर्ये प्रतिष्ठितम् । विजानन्ति नराः सर्वे नास्य रूपं च नाम च ॥ ९७॥ य एतस्मिन् महाप्रीतिं कलयिष्यन्ति मानवाः । त एव धन्या राजेन्द्र नान्ये स्वजनदूषकाः ॥ ९८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसवादे वसिष्ठकृतसहस्रकथनं नाम त्रयोदशोऽध्यायः ॥ १३॥ ९८/४०१

०१४. सीतानामसाहस्रकं नाम चतुर्दशोऽध्यायः ।

वसिष्ठ उवाच । या श्रीरेतस्य सहजा सीता नित्याङ्गसङ्गिनी । भवित्री जनकस्यैव कुले सर्वाङ्गसुन्दरी ॥ १॥ तस्याश्च नामसाहस्रं कथयिष्यामि भूपते । यथा रामस्तथैवेयं महालक्ष्मीः सनातनी ॥ २॥ नानयोः सम्मतो भेदः शास्त्रकोटिशतैरपि । अस्यैव नित्यरमणी बहुनामस्वरूपतः ॥ ३॥ तस्यास्तु नामसाहस्रं यथावदुपधारय । ॐ सहजानन्दिनी सीता जानकी राधिका रतिः ॥ ४॥ रुक्मिणी कमला कान्ता कान्तिः कमललोचना । किशोरी रामललना कामुकी करुणानिधिः ॥ ५॥ कन्दर्पवर्द्धिनी वीरा वरुणालयवासिनी । अशोकवनमध्यस्था महाशोकविनाशिनी ॥ ६॥ चम्पकाङ्गी तडित्कान्तिर्जाह्नवी जनकात्मजा । जानकी जयदा जप्या जयिनी जैत्रपालिका ॥ ७॥ परमा परमानन्दा पूर्णिमामृतसागरा । सूधासूतिः सुधारश्मिः सुधादीपितविग्रहा ॥ ८॥ सुस्मिता सुस्मितमुखी तारका सुखदेक्षणा । रक्षणी चित्रकूटस्था वृन्दावनमहेश्वरी ॥ ९॥ कन्दर्पकोटिजननी कोटिब्रह्माण्डनायिका । शरण्या शारदा श्रीश्च शरत्कालविनोदिनी ॥ १०॥ हंसी क्षीराब्धिवसतिर्वासुकी स्थावराङ्गना । वराङ्गासनसंस्थाना प्रियभोगविशारदा ॥ ११॥ वसिष्ठविश्ववसिनी विश्वपत्नी गुणोदया । गौरी चम्पकगात्रा च दीपद्योता प्रभावती ॥ १२॥ रत्नमालाविभूषा च दिव्यगोपालकन्यका । सत्यभामारतिः प्रीता मित्रा चित्तविनोदिनी ॥ १३॥ सुमित्रा चैव कौशल्या कैकेयीकुलवर्द्धिनी । कुलीना केलिनी दक्षा दक्षकन्या दयावती ॥ १४॥ पार्वती शैलकुलजा वंशध्वजपटीरुचिः । रुचिरा रुचिरापाङ्गा पूर्णरूपा कलावती ॥ १५॥ कोटिब्रह्माण्डलक्ष्मीशा स्थानदात्री स्थितिः सती । अमृता मोदिनी मोदा रत्नाचलविहारिणी ॥ १६॥ नन्दभानुसुता धीरा वंशीरवविनोदिनी । विजया वीजिनी विद्या विद्यादानपरायणा ॥ १७॥ मन्दस्मिता मन्दगतिर्मदना मदनातुरा । वृंहिणी वृंहती वर्या वरणीया वराङ्गना ॥ १८॥ रामप्रिया रमारूपा रासनृत्यविशारदा । गान्धर्विका गीतरम्या सङ्गीतरसवर्द्धिनी ॥ १९॥ तालदा तालवक्षोजा तालभेदनसुन्दरी । सरयूतीरसन्तुष्टा यमुनातटसंस्थिता ॥ २०॥ स्वामिनी स्वामिनिरता कौसुम्भवसनावृता । मालिनी तुङ्गवक्षोजा फलिनी फलमालिनी ॥ २१॥ वैडूर्यहारसुभगा मुक्ताहारमनोहरा । किरातीवेशसंस्थाना गुञ्जामणिविभूषणा ॥ २२॥ विभूतिदा विभा वीणा वीणानादविनोदिनी । प्रियङ्गुकलिकापाङ्गा कटाक्षा गतितोषिता ॥ २३॥ रामानुरागनिलया रत्नपङ्कजमालिनी । विभावा विनयस्था च मधुरा पतिसेविता ॥ २४॥ शत्रुघ्नवरदात्री च रावणप्राणमोचिनी । दण्डकावनमध्यस्था बहुलीला विलासिनी ॥ २५॥ शुक्लपक्षप्रिया शुक्ला शुक्लापाङ्गस्वरोन्मुखी । कोकिलस्वरकण्ठी च कोकिलस्वरगायिनी ॥ २६॥ पञ्चमस्वरसन्तुष्टा पञ्चवक्त्रप्रपूजिता । आद्या गुणमयी लक्ष्मीः पद्महस्ता हरिप्रिया ॥ २७॥ हरिणी हरिणाक्षी च चकोराक्षी किशोरिका । गुणहृष्टा शरज्ज्योत्स्ना स्मितस्नपितविग्रहा ॥ २८॥ विरजा सिन्धुगमनी गङ्गासागरयोगिनी । कपिलाश्रमसंस्थाना योगिनी परमाकला ॥ २९॥ खेचरी भूचरी सिद्धा वैष्णवी वैष्णवप्रिया । ब्राह्मी माहेश्वरी तिग्मा दुर्वारबलविभ्रमा ॥ ३०॥ रक्तांशुकप्रिया रक्ता नवविद्रुमहारिणी । हरिप्रिया ह्रीस्वरूपा हीनभक्तविवर्द्धिनी ॥ ३१॥ हिताहितगतिज्ञा च माधवी माधवप्रिया । मनोज्ञा मदनोन्मत्ता मदमात्सर्यनाशिनी ॥ ३२॥ निःसपत्नी निरुपमा स्वाधीनपतिका परा । प्रेमपूर्णा सप्रणया जनकोत्सवदायिनी ॥ ३३॥ वेदिमध्या वेदिजाता त्रिवेदी वेदभारती । गीर्वाण गुरुपत्नी च नक्षत्रकुलमालिनी ॥ ३४॥ मन्दारपुष्पस्तवका मन्दाक्षनयवर्द्धिनी । सुभगा शुभरूपा च सुभाग्या भाग्यवर्द्धिनी ॥ ३५॥ सिन्दूराङ्कितमाला च मल्लिकादामभूषिता । तुङ्गस्तनी तुङ्गनासा विशालाक्षी विशल्यका ॥ ३६॥ कल्याणिनी कल्मषहा कृपापूर्णा कृपानदी । क्रियावती वेधवती मन्त्रणी मन्त्रनायिका ॥ ३७॥ कैशोरवेशसुभगा रघुवंशविवर्द्धिनी । राघवेन्द्रप्रणयिनी राघवेन्द्रविलासिनी ॥ ३८॥ तरुणी तिग्मदा तन्वी त्राणा तारुण्यवर्द्धिनी । मनस्विनी महामोदा मीनाक्षी मानिनी मनुः ॥ ३९॥ आग्नेयीन्द्राणिका रौद्री वारुणी वशवर्तिनी । वीतरागा वीतरतिर्वीतशोका वरोरुका ॥ ४०॥ वरदा वरसंसेव्या वरज्ञा वरकाङ्क्षिणी । फुल्लेन्दीवरदामा च वृन्दा वृन्दावती प्रिया ॥ ४१॥ तुलसीपुष्पसङ्काशा तुलसीमाल्यभूषिता । तुलसीवनसंस्थाना तुलसीवनमन्दिरा ॥ ४२॥ सर्वाकारा निराकारा रूपलावण्यवर्द्धिनी । रूपिणी रूपिका रम्या रमणीया रमात्मिका ॥ ४३॥ वैकुण्ठपतिपत्नी च वैकुण्ठप्रियवासिनी । वद्रिकाश्रमसंस्था च सर्वसौभाग्यमण्डिता ॥ ४४॥ सर्ववेदान्तगम्या च निष्कला परमाकला । कलाभासा तुरीया च तुरीयाश्रममण्डिता ॥ ४५॥ रक्तोष्ठी च प्रिया रामा रागिनी रागवर्द्धिनी । नीलांशुकपरीधाना सुवर्णकलिकाकृतिः ॥ ४६॥ कामकेलिविनोदा च सुरतानन्दवर्द्धिनी । सावित्री व्रतधर्त्री च करामलकनायका ॥ ४७॥ मराला मोदिनी प्राज्ञा प्रभा प्राणप्रिया परा । पुनाना पुण्यरूपा च पुण्यदा पूर्णिमात्मिका ॥ ४८॥ पूर्णाकारा व्रजानन्दा व्रजवासा व्रजेश्वरी । व्रजराजसुताधारा धारापीयूषवर्षिणी ॥ ४९॥ राकापतिमुखी मग्ना मधुसूदनवल्लभा । वीरिणी वीरपत्नी च वीरचारित्रवर्द्धिनी ॥ ५०॥ धम्मिल्लमल्लिकापुष्पा माधुरी ललितालया । वासन्ती वर्हभूषा च वर्होत्तंसा विलासिनी ॥ ५१॥ बर्हिणी बहुदा बह्वी बाहुवल्ली मृणालिका । शुकनासा शुद्ध रूपा गिरीशवरवर्द्धिता ॥ ५१॥ नन्दिनी च सुदन्ता च वसुधा चित्तनन्दिनी । हेमसिंहासनस्थाना चामरद्वयवीजिता ॥ ५२॥ छत्रिणी छत्ररम्या च महासाम्राज्यसर्वदा । सम्पन्नदा भवानी च भवभीतिविनाशिनी ॥ ५४॥ द्राविडी द्रविडस्थाना आन्ध्री कार्णाटनागरी । महाराष्ट्रैकविषया उदग्देशनिवासिनी ॥ ५५॥ सुजङ्घा पङ्कजपदा गुप्तगुल्फा गुरुप्रिया । रक्तकाञ्चीगुणकटिः सुरूपा बहुरूपिणी ॥ ५६॥ सुमध्या तरुणश्रीश्च वलित्रयविभूषिता । गर्विणी गुर्विणी सीता सीतापाङ्गविमोचनी ॥ ५७॥ ताटङ्किनी कुन्तलिनी हारिणी हीरकान्विता । शैवालमञ्जरीहस्ता मञ्जुला मञ्जुलापिनी ॥ ५८॥ कवरीकेशविन्यासा मन्दहासमनोरथा । मधुरालापसन्तोषा कौबेरी दुर्गमालिका ॥ ५९॥ इन्दिरा परमश्रीका सुश्रीः शैशवशोभिता । शमीवृक्षाश्रया श्रेणी शमिनी शान्तिदा शमा ॥ ६०॥ कुञ्जेश्वरी कुञ्जगेहा कुञ्जगा कुञ्जदेवता । कलविङ्ककुलप्रीता पादाङ्गुलिविभूषिता ॥ ६१॥ वसुदा वसुपत्नी च वीरसूर्वीरवर्द्धिनी । सप्तश‍ृङ्गकृतस्थाना कृष्णा कृष्णप्रिया प्रिया ॥ ६२॥ गोपीजनगणोत्साहा गोपगोपालमण्डिता । गोवर्द्धनधरा गोपी गोधनप्रणयाश्रया ॥ ६३॥ दधिविक्रयकर्त्री च दानलीलाविशारदा । विजना विजनप्रीता विधिजा विधुजा विधा ॥ ६४॥ अद्वैता द्वैतविच्छिन्ना रामतादाम्यरूपिणी । कृपारूपा निष्कलङ्का काञ्चनासनसंस्थिता ॥ ६५॥ महार्हरत्नपीठस्था राज्यलक्ष्मी रजोगुणा । रक्तिका रक्तपुष्पा च ताम्बूलीदलचर्विणी ॥ ६६॥ विम्बोष्ठी व्रीडिता व्रीडा वनमालाविभूषणा । वनमालैकमध्यस्था रामदोर्दण्डसङ्गिनी ॥ ६७॥ खण्डिता विजितक्रोधा विप्रलब्धा समुत्सुका । अशोकवाटिकादेवी कुञ्जकान्तिविहारिणी ॥ ६८॥ मैथिली मिथिलाकारा मैथिलैकहितप्रदा । वाग्वती शैलजा शिप्रा महाकालवनप्रिया ॥ ६९॥ रेवा कल्लोलसुरता सत्यरूपा सदार्चिता । सभ्या सभावती सुभ्रूः कुरङ्गाक्षी शुभानना ॥ ७०॥ मायापुरी तथायोध्या रङ्गधामनिवासिनी । मुग्धा मुग्धगतिर्मोदा प्रमोदा परमोन्नता ॥ ७१॥ कामधेनुः कल्पवल्ली चिन्तामणिगृहाङ्गणा । हिन्दोलिनी महाकेलिः सखीगणविभूषिता ॥ ७२॥ सुन्दरी परमोदारा रामसान्निध्यकारिणी । रामार्द्धाङ्गा महालक्ष्मीः प्रमोदवनवासिनी ॥ ७३॥ विकुण्ठापत्यमुदिता परदारप्रियाप्रिया । रामकैङ्कर्यनिरता जम्भजित्करवीजिता ॥ ७४॥ कदम्बकाननस्था च कादम्बकुलवासिनी । कलहंसकुलारावा राजहंसगतिप्रिया ॥ ७५॥ कारण्डवकुलोत्साहा ब्रह्मादिसुरसंस्थिता । सरसी सरसीकेलिः पम्पाजलविनोदिनी ॥ ७६॥ करिणीयूथमध्यस्था महाकेलिविधायिनी । जनस्थानकृतोत्साहा काञ्चनन्यङ्कुवञ्चिता ॥ ७७॥ कावेरीजलसुस्नाता तीर्थस्नानकृताश्रया । गुप्तमन्त्रा गुप्तगतिर्गोप्या गोपतिगोपिता ॥ ७८॥ गम्भीरावर्तनाभिश्च नानारसबिलम्बिनी ॥ ७९॥ श‍ृङ्गाररससालम्बा कादम्बामोदमादिनी । कादम्बिनी पानमत्ता घूर्णिताक्षी स्खलद्गतिः ॥ ८०॥ सुसाध्या दुःखसाध्या च दम्भिनी दम्भवर्जिता । गुणाश्रया गुणाकारा कल्याणगुणयोगिनी ॥ ८१॥ सर्वमाङ्गल्यसम्पन्ना माङ्गल्या मतवल्लभा । सुखितात्मजनिप्राणा प्राणेशी सर्वचेतना ॥ ८२॥ चैतन्यरूपिणी ब्रह्मरूपिणी मोदवर्द्धिनी । एकान्तभक्त सुलभा जयदुर्गा जयप्रिया ॥ ८३॥ हरचापकृतक्रोधा भङ्गुरोक्षणदायिनी । स्थिरा स्थिरगतिः स्थात्री स्थावरस्था वराश्रया ॥ ८४॥ स्थावरेन्द्रसुता धन्या धनिनी धनदार्चिता । महालक्ष्मीर्लोकमाता लोकेशी लोकनायिका ॥ ८५॥ प्रपञ्चातीतगुणनी प्रपञ्चातीतविग्रहा । परब्रह्मस्वरूपा च नित्या भक्तिस्वरूपिणी ॥ ८६॥ ज्ञानभक्तिस्वरूपा च ज्ञानभक्तिविवर्द्धिनी । ब्रह्म सायुज्यसाधुश्च रामसायुज्यसाधना ॥ ८७॥ ब्रह्माकारा ब्रह्ममयी ब्रह्मविष्णुस्वरूपिणी । महाधम्मिल्लशोभा च कवरीकेशपाशिनी ॥ ८८॥ चिन्मयानन्दरूपा च चिन्मयानन्दविग्रहा । कैवर्तकुलसम्पत्तिः शवरीपरिवारिणी ॥ ८९॥ कनकाचलसंस्थाना गङ्गा त्रिपथगामिनी । त्रिपुटा त्रिवृता विद्या प्रणवाक्षररूपिणी ॥ ९०॥ गायत्री मुनिविद्या च सन्ध्या पातकनाशिनी । सर्वदोषप्रशमनी सर्वकल्याणदायिनी ॥ ९१॥ रामरामा मनोरम्या स्वयंलक्ष्म्या (क्ष्या ?)स्वसाक्षिणी । अनन्तकोटिनामा च अनन्तकोटिरूपिणी ॥ ९२॥ भूलीला रुक्मिणी राधा रामकेलिविबोधिनी । वीरा वृन्दा पौर्णमासी विशाखा ललिता लता ॥ ९३॥ लावण्यदा लयाकारा लक्ष्मीर्लोकानुबन्धिनी । सृष्टिस्थितिलयाकारा तुर्यातुर्यातिगावधिः ॥ ९४॥ दुर्वासावरलभ्या च विचित्र बलवर्द्धिनी । रमणी रामरमणी सारात्सारा परात्परा ॥ ९५॥ इति श्रीजानकीदेव्याः नामसाहस्त्रकं स्तवम् । नामकर्मप्रसङ्गेन मया तुभ्यं प्रकाशितम् ॥ ९६॥ गोपनीयं प्रयत्नेन त्रैलोक्येऽप्यतिदुर्लभम् । सीतायाः श्रीमहालक्ष्म्याः सद्यः सन्तोषदायकम् ॥ ९७॥ यः पठेत्प्रयतो नित्यं स साक्षाद्वैष्णवोत्तमः । नित्यं गुरुमुखाल्लब्ध्वा पठनीयं प्रयत्नतः ॥ ९८॥ सर्वसम्पत्करं पुण्यं वैष्णवानां सुखप्रदम् । कीर्तिदं कान्तिदं चैव धनदं सौभगप्रदम् ॥ ९९॥ प्रमुद्वनविहारिण्याः सीतायाः सुखवर्द्धनम् । रामप्रियाया जानक्या नामसाहस्रकं परम् ॥ १००॥ इति श्रीमदादिरामायणे ब्रह्म भुशुण्डसंवादे सीतानामसाहस्रकं नाम चतुर्दशोऽध्यायः ॥ १४॥ १००/५०१

०१५. लक्ष्मणसहस्रनामकथनं नाम पञ्चदशोऽध्यायः ।

वसिष्ठ उवाच । इदानीं तव पुत्रस्य द्वितीयस्य महात्मनः । नामसाहस्रकं वक्ष्ये सुगोप्यं दैवतैरपि ॥ १॥ एष साक्षाद्धरेरंशो देवदेवस्य शार्ङ्गिणः । (देवरामस्य) यः शेष इति विख्यातः सहस्रवदनो विभुः ॥ २॥ तस्यैतन्नामसाहस्रं वक्ष्यामि प्रयतः श‍ृणु । लक्ष्मणः शेषगः शेषः सहस्रवदनोऽनलः ॥ ३॥ सङ्कर्षणः कालरूपः सहस्रार्चिर्महानलः । कालरूपो दुराधर्षो बलभद्रः प्रलम्बहा ॥ ४॥ कृतान्तः कालवदनो विद्युज्जिह्वो विभावसुः । कालात्मा कलनात्मा च कलात्मा सकलोऽकलः ॥ ५॥ कुमारब्रह्यचारी च रामभक्तः शुचिव्रतः । निराहारो जिताहारो जितनिद्रो जितासनः ॥ ६॥ महारुद्रो महाक्रोधो इन्द्रजित्प्राणनाशकः । सीताहितप्रदाता च रामसौख्यप्रदायकः ॥ ७॥ यतिवेशो वीतभयः सुकेशः केशवः कृशः । कृष्णांशो विमलाचारः सदाचारः सदाव्रतः ॥ ८॥ (कृशांशो) बर्हावतंसो विरतिर्गुञ्जाभूषणभूषितः । शेषाचलनिवासो च शेषाद्रिः शेषरूपधृक् ॥ ९॥ अधोहस्तः प्रशान्तात्मा साधूनां गतिदर्शनः । सुदर्शनः सुरूपाङ्गो यज्ञदोषनिवर्तनः ॥ १०॥ अनन्तो वासुकिर्नागो महीभारो महीधरः । (वासुकीनागो) कृतान्तः शमनत्राता धनुर्ज्याकर्षणोद्भटः ॥ ११॥ महाबलो महावीरो महाकर्मा महाजवः । जटिलस्तापसः प्रह्वः सत्यसन्धः सदात्मकः ॥ १२॥ शुभकर्मा च विजयी नरो नारायणाश्रयः । वनचारी वनाधारो वायुभक्षो महातपाः ॥ १३॥ सुमन्त्रो मन्त्रतत्त्वज्ञः कोविदो राममन्त्रदः । सौमित्रेयः प्रसन्नात्मा रामानुव्रत ईश्वरः ॥ १४॥ रामातपत्रभृद् गौरः सुमुखः सुखवर्द्धनः । रामकेलिविनोदी च रामानुग्रहभाजनः ॥ १५॥ दान्तात्मा दमनो दम्यो दासो दान्तो दयानिधिः । आदिकालो महाकालः क्रूरात्मा क्रूरनिग्रहः ॥ १६॥ वनलीलाविनोदज्ञो विछेत्ता विरहापहः । भस्माङ्गरागधवलो यती कल्याणमन्दिरः ॥ १७॥ अमन्दो मदनोन्मादी महायोगी महासनः । खेचरीसिद्धिदाता च योगविद्योगपारगः ॥ १८॥ विषानलो विषह्यश्च कोटिब्रह्माण्डदाहकृत् । (विषयश्च) अयोध्याजनसङ्गीतो रामैकानुचरः सुधीः ॥ १९॥ रामाज्ञापालको रामो रामभद्रः पुनीतपात् । अक्षरात्मा भुवनकृद् विष्णुतुल्यः फणाधरः ॥ २०॥ प्रतापी द्विसहस्राक्षो ज्वलद्रूपो विभाकरः । दिव्यो दाशरथिर्बालो बालानां प्रीतिवर्द्धनः ॥ २१॥ वाणप्रहरणो योद्धा युद्धकर्मविशारदः । निषङ्गी कवची दृप्तो दृढवर्मा दृढव्रतः ॥ २२॥ दृढप्रतिज्ञः प्रणयी जागरूको दिवाप्रियः । तामसी तपनस्तापी गुडाकेशो धनुर्द्धरः ॥ २३॥ शिलाकोटिप्रहरणो नागपाशविमोचकः । त्रैलोक्यहिंसकर्त्ता च कामरूपः किशोरकः ॥ २४॥ कैवर्तकुलविस्तारः कृतप्रीतिः कृतार्थनः । (कुलनिस्तारः) कौपीनधारी कुशलः श्रद्धावान् वेदवित्तमः ॥ २५॥ व्रजेश्वरोमहासख्यः कुञ्जालयमहासखः । भरतस्याग्रणीर्नेता सेवामुख्यो महामहः ॥ २६॥ मतिमान् प्रीतिमान् दक्षो लक्ष्मणो लक्ष्मणान्वितः । हनुमत्प्रियमित्रश्च सुमित्रासुखवर्द्धनः ॥ २७॥ रामरूपो राममुखो रामश्यामो रमाप्रियः । रमारमणसङ्केती लक्ष्मीवाँल्लक्ष्मणाभिधः ॥ २८॥ जानकीवल्लभो वर्यः सहायः शरणप्रदः । वनवासप्रकथनो दक्षिणापथवीतभीः ॥ २९॥ विनीतो विनयी विष्णुवैष्णवो वीतभीः पुमान् । पुराणपुरुषो जैत्रो महापुरुषलक्ष्मणः ॥ ३०॥ (लक्षणः) महाकारुणिको वर्मी राक्षसौघविनाशनः । आर्तिहा ब्रह्मचर्यस्थः परपीडानिवर्त्तनः ॥ ३१॥ पराशयज्ञः सुतपाः सुवीर्यः सुभगाकृतिः । वन्यभूषणनिर्माता सीतासन्तोषवर्द्धनः ॥ ३२॥ राधवेन्द्रो रामरतिर्गुप्त सर्वपराक्रमः । (रतिर्युक्त) दुर्द्धर्षणो दुर्विषहः प्रणेता विधिवत्तमः ॥ ३३॥ त्रयीमयोऽग्निमयः त्रेतायुगविलासकृत् । दीर्घदंष्ट्रो महादंष्ट्रो विशालाक्षो विषोल्वणः ॥ ३४॥ सहस्रजिह्वाललनः सुधापानपरायणः । गोदासरित्तरङ्गार्च्यो नर्मदातीर्थपावनः ॥ ३५॥ श्रीरामचरणसेवी सीतारामसुखप्रदः । रामभ्राता रामसमो मार्त्तण्डकुलमण्डितः ॥ ३६॥ गुप्तगात्रो गिराचार्यो मौनव्रतधरः शुचिः । शौचाचारैकनिलयो विश्वगोप्ता विराड् वसुः ॥ ३७॥ क्रुद्धः सन्निहितो हन्ता रामार्चापरिपालकः । जनकप्रेमजामाता सर्वाधिकगुणाकृतिः ॥ ३८॥ सुग्रीवराज्यकाङ्क्षी च सुखरूपी सुखप्रदः । आकाशगामी शक्तीशोऽनन्तशक्तिप्रदेर्शनः ॥ ३९॥ (शक्तिष्टो) द्रोणाद्रिमुक्तिदोऽचिन्त्यः सोपकारजनप्रियः । कृतोपकारः सुकृती सुसारः सारविग्रहः ॥ ४०॥ सुवंशो वंशहस्तश्च दण्डी चाजिनमेखली । कुण्डो कुन्तलभृत् काण्डः प्रकाण्डः पुरुषोत्तमः ॥ ४१॥ सुबाहुः सुमुखः स्वङ्गः सुनेत्रः सम्भ्रमो क्षमी । वीतभीर्वीतसङ्कल्पो रामप्रणयवारणः ॥ ४२॥ वद्धवर्मा महेश्वासो विरूढः सत्यवाक्तमः । समर्पणी विधेयात्मा विनेतात्मा क्रतुप्रियः ॥ ४३॥ अजिनी ब्रह्मपात्री च कमण्डलुकरो विधिः । नानाकल्पलताकल्पो नानाफलविभूषणः ॥ ४४॥ काकपक्षपरिक्षेपी चन्द्रवक्त्रः स्मिताननः । सुवर्णवेत्रहस्तश्च अजिह्मो जिह्मगापहः ॥ ४५॥ कल्पान्तवारिधिस्थानो बीजरूपो महाङ्कुरः । रेवतीरमणो दक्षो वाभ्रवी प्राणवल्लभः ॥ ४६॥ कामपालः सुगौराङ्गो हलभृत् परमोल्वणः । कृत्स्नदुःखप्रशमनो विरञ्जिप्रियदर्शनः ॥ ४७॥ दर्शनीयो महादर्शो जानकीपरिहासदः । जानकोनर्मसचिवो रामचारित्रवर्द्धनः ॥ ४८॥ लक्ष्मीसहोदरोदारो दारुणः प्रभुरूर्जितः । ऊर्जस्वलो महाकायः कम्पनो दण्डकाश्रयः ॥ ४९॥ द्वीपिचर्मपरीधानो दुष्टकुञ्जरनाशनः । पुरग्राममहारण्यवटीद्रुमविहारवान् ॥ ५०॥ निशाचरो गुप्तचरो दुष्टराक्षसमारणः । रात्रिञ्जरकुलच्छेत्ता धर्ममार्गप्रवर्तकः ॥ ५१॥ शेषावतारो भगवान् छन्दोमूतिर्महोज्ज्वलः । अहृष्टो हृष्टवेदाङ्गो भाष्यकारः प्रभाषणः ॥ ५२॥ भाष्यो भाषणकर्ता च भाषणीयः सुभाषणः । शब्दशास्त्रमयो देवः शब्दशास्त्रप्रवर्त्तकः ॥ ५३॥ शब्दशास्त्रार्थवादी च शब्दज्ञः शब्दसागरः । शब्दपारायणज्ञानः शब्दपारायणप्रियः ॥ ५४॥ प्रातिशाख्यो प्रहरणो गुप्तवेदार्थसूचकः । दृप्तवित्तो दाशरथिः स्वाधीनः केलिसागरः ॥ ५५॥ गैरिकादिमहाधातुमण्डितश्चित्रविग्रहः । चित्रकूटालयस्थायी मायी विपुलविग्रहः ॥ ५६॥ जरातिगो जराहन्ता ऊर्ध्वरेता उदारधीः । मायूरमित्रो मायूरो मनोज्ञः प्रियदर्शनः ॥ ५७॥ मथुरापुरनिर्माता कावेरीतटवासकृत् । कृष्णातीराश्रमस्थानो मुनिवेशो मुनीश्वरः ॥ ५८॥ मुनिगम्यो मुनीशानो भुवनत्रयभूषणेः । आत्मध्यानकरो ध्याता प्रत्यक्सन्ध्याविशारदः ॥ ५९॥ वानप्रस्थाश्रमासेव्यः संहितेषु प्रतापधृक । उष्णीषवान् कञ्चुकी च कटिबन्धविशारदः ॥ ६०॥ मुष्टिकप्राणदहनो द्विविदप्राणशोषणः । (प्रानहननो) उमापतिरुमानाथ उमासेवनतत्परः ॥ ६१॥ वानरव्रातमध्यस्थो जाम्बुवद्गणसस्तुतः । जाम्बुवद्भक्तसुखदो जाम्बुर्जाम्बुमतीसखः ॥ ६२॥ जाम्बुवद्भक्तिवश्यश्च जाम्बूनदपरिष्कृतः । कोटिकल्पस्मृतिव्यग्रो वरिष्ठो वरणीयभाः ॥ ६३॥ श्रीरामचरणोत्सङ्गमध्यलालितमस्तकः । सीताचरणसंस्पर्शविनीताध्वमहाश्रमः ॥ ६४॥ समुद्रद्वीपचारी च रामकैङ्कर्यसाधकः । केशप्रसाधनामर्षी महाव्रतपरायणः ॥ ६५॥ रजस्वलोऽतिमलिनोऽवधूतो धूतपातकः । पूतनामा पवित्राङ्गो गङ्गाजलसुपावनः ॥ ६६॥ हयशीर्षमहामन्त्रविपश्चिन्मन्त्रिकोत्तमः । विषज्वरनिहन्ता च कालकृत्याविनाशनः ॥ ६७॥ मदोद्धतो महायानो कालिन्दीपातभेदनः । कालिन्दीभयदाता च खट्वाङ्गी मुखरोऽनलः ॥ ६८॥ तालाङ्कः कर्मविख्यातिर्धरित्रीभरधारकः । मणिमान् कृतिमान् दीप्तो बद्धकक्षो महातनुः ॥ ६९॥ उत्तुङ्गो गिरिसंस्थानो राममाहात्म्यवर्द्धनः । कीर्तिमान् श्रुतिकीर्तिश्च लङ्काविजयमन्त्रदः ॥ ७०॥ लङ्काधिनाथविषहो विभीषणगतिप्रदः । मन्दोदरीकृताश्चर्यो राक्षसीशतघातकः ॥ ७१॥ कदलीवननिर्माता दक्षिणापथपावनः । कृतप्रतिज्ञो बलवान् सुश्रीः सन्तोषसागरः ॥ ७२॥ कपर्दी रुद्रदुर्दर्शो विरूपवदनाकृतिः । रणोद्धुरो रणप्रश्नी रणघण्टावलम्बनः ॥ ७३॥ क्षुद्रघण्टानादकटिः कठिनाङ्गो विकस्वरः । वज्रसारः सारधरः शार्ङ्गी वरुणसंस्तुतः ॥ ७४॥ समुद्रलङ्घनोद्योगी रामनामानुभाववित् । धर्मजुष्टो घृणिस्पृष्टो वर्मी वर्मभराकुलः ॥ ७५॥ धर्मयाजो धर्मदक्षो धर्मपाठविधानवित् । रत्नवस्त्रो रत्नधौत्रो रत्नकौपीनधारकः ॥ ७६॥ लक्ष्मणो रामसर्वस्वं रामप्रणयविह्वलः । सबलोऽपि सुदामापि सुसखा मधुमङ्गलः ॥ ७७॥ रामरासविनोदज्ञो रामरासविधानवित् । रामरासकृतोत्साहो रामराससहायान् ॥ ७८॥ वसन्तोत्सवनिर्माता शरत्कालविधायकः । रामकेलीभरानन्दी दूरोत्सारितकण्टकः ॥ ७९॥ इतीदं तव पुत्रस्य द्वितीयस्य महात्मनः । यः पठेन्नामसाहस्रं स याति परमं पदम् ॥ ८०॥ पीडायां वापि सङ्ग्रामे महाभय उपस्थिते । यः पठेन्नामसाहस्रं लक्ष्मणस्य महौ मेधय । स सद्यः शुभमाप्नोति लक्ष्मणस्य प्रसादतः ॥ ८१॥ सर्वान् दुर्गान् तरत्याशु लक्ष्मणेत्येकनामतः । द्वितीयनामोज्वारेण देवं वशयति ध्रुवम् ॥ ८२॥ पठित्वा नामसाहस्रं शतावृत्या समाहितः । प्रतिनामाहुतिं दत्वा कुमारान् भोजयेद्दश ॥ ८३॥ सर्वान् कामानवाप्नोति रामानुजकृपावशात् । लक्ष्मणेति त्रिवर्गस्य महिमा केन वर्ण्यते ॥ ८४॥ यच्छ्रुत्वा जानकीजानेर्हदि मोदो विवर्द्धते । यथा रामस्तथा लक्ष्मीर्यथा श्रीर्लक्ष्मणस्तथा ॥ ८५॥ (लक्ष्म्या यथा) रामद्वयोर्न भेदोऽस्ति रामलक्ष्मणयोः क्वचित् । एष ते तनयः साक्षाद्वामेण सह सङ्गतः ॥ ८६॥ हरिष्यति भुवो भारं स्थाने स्थाने वने वने । द्रष्टव्यो निधिरेवासौ महाकीर्तिप्रतापयोः ॥ ८७॥ रामेण सहितः क्रीडां बह्वीं विस्तारयिष्यति । (बाह्वीं) रामस्य कृत्वा साहाय्यं प्रणयं चार्चयिष्यति ॥ ८८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे लक्ष्मणसहस्रनामकथनं नाम पञ्चदशोऽध्यायः ॥ १५॥ ८८/५८९

०१६. बाल्यवर्णनं नाम षोडशोऽध्यायः ।

वसिष्ठ उवाच । अथास्य ते तृतीयस्य कुमारस्याग्निवर्चसः । श‍ृणु नामानि भूमीश पावनानि युगे युगे ॥ १॥ भरणो भरणात्मा च भूभारहरणोत्कटः । अयोध्यापुरभर्ता च भरणीयो भरावहः ॥ २॥ प्रद्युम्नो मन्मथोऽनङ्गो वीरकर्मा निराकुलः । पुष्पधन्वा त्रिलोकीजिच्छम्बरारिर्मनोभवः ॥ ३॥ परप्रतापनो वंशः सर्वाश्चर्यनिकेतनः । मीनकेतुर्महामारः कामिनीजनरोषणः ॥ ४॥ पोषणस्तोषणः क्रोशी द्वारकापुरपालकः । रामविश्लेषसहनो रामविश्लेषकातरः ॥ ५॥ कन्दर्पो दर्पहा दर्पो दर्पणो दर्पनाशनः । अयोध्याजनसंस्नेहो रामविश्लेषवारकः ॥ ६॥ श्रीराम गमनाकाङ्क्षी प्रजादुर्भिक्षपोषकः । प्रजादुःखहरो वीरो धार्मिकः प्रतिपालकः ॥ ७॥ वाभ्रवीप्राणदयितो माण्डवीप्राणवल्लभः । रामतुल्यो रामबलो रामवत्प्रियसाधकः ॥ ८॥ कैकेयीनेत्रसुखदो महासाम्राज्यभाजनः । रुक्मिणीनेत्रसुखदो रुक्मिणीप्रीतिवर्द्धनः ॥ ९॥ त्यक्तराज्यो रामगतिर्विष्णुर्भरतरूपधृक् । अथोच्यन्ते चतुर्थस्य नामानि तनयस्य ते ॥ १०॥ शत्रुघ्नः शत्रुहन्ता च मथुरापुरपालकः । श्रीमान् मधुवनानन्दी मधुजिज्जयवर्द्धनः ॥ ११॥ चापहस्तः कुशलधीरनिरुद्धोऽप्युषापतिः । श्रुतकीर्तिप्रियाकान्तः कामिनीजनवल्लभः ॥ १२॥ चित्र लेखाकृतोत्साह उषावरणकामुकः । परसद्मप्रवेशी च परपत्तनदाहकृत् ॥ १३॥ परदारप्रभोगी च वाणासुरविरोधकृत् । वाणजिद् वाणदहनो धर्ममूर्तिः सनातनः ॥ १४॥ एतान्यन्यानि च तथा नामानि तनयस्य ते । चत्वार एते सदृशा नाम्ना कीर्त्या च मेधया ॥ १५॥ अहमेतद्विजानामि भवान् ज्ञास्यसि कालतः । एते रविकुलोत्तंसा रघुवंशविभूषणाः ॥ १६॥ धर्मसंस्थापनार्थायावतरन्ति युगे युगे । एषां प्रभावं ब्रह्मापि न जानाति कुतोऽपरे ॥ १७॥ रामस्यैवाखिला देहास्तत्तत्कार्यविधित्सया । अवतीर्णस्य पूर्णस्य पूर्णब्रह्मस्वरूपिणः ॥ १८॥ रामऽचन्द्रस्य सर्वेऽपि अवताराः सनातनाः । एवं नामविधिं कृत्वा तूष्णीम्भूते महामुनौ ॥ १९॥ राजा दशरथः प्रादाद् द्विजेभ्यः सुमहद्धनम् । रामनाममहाकर्मण्यमराः सकला अपि ॥ २०॥ श‍ृङ्गारितस्त्रीसहिताः समाजग्मुर्मुदा युताः । तेभ्यो दशरथः प्रादादलङ्काराननेकधा ॥ २१॥ ते प्रोणिता वहुवसनान्नभूषणैः कृताशिषो दशरथभूपसूनुषु । यथागतं प्रतिययुरात्मनो गृहान् मनोरथैर्बहुपरिपूरितान्तराः ॥ २२॥ ते जातनामान उदाररोचिषो वर्द्धिष्णवस्तुल्यवयोविभाविताः । धनुर्द्धरा बालककेलिकारिणो बभुर्यथा कुञ्जरराजशावकाः ॥ २३॥ दिने दिने पूर्णकलस्तु रामः प्रभावभृद् दशरथनेत्रनन्दनः । व्यरोचत त्रिभुवनशोकनाशनः शनैः शनैः क्षितितलरिङ्ङ्गणादिभिः ॥ २४॥ कौशल्या रहसि तमिन्दुशोभिवक्रं क्रीडन्तं क्षितितलरिङ्गणादिरीत्या । मायूरीः स्वशिरसि चन्द्रिका वहन्तं सम्प्रेक्ष्य प्रसभमवाप दृष्टिसौख्यम् ॥ २५॥ राजापि प्रणयवशीकृतान्तरोऽभूद् रामस्य स्मितसुभगं मुखं विलोक्य । रिङ्गन्तं शिशुकमजातचूडकृत्तं नो शेकुः स्वमुप विलोक्य संविभर्तुम् ॥ २६॥ सुन्दर्यो नरनगनागदेवकन्या दृग्दोषं शमयितुमात्तराजिकास्ताः । चुम्बन्त्यो रहसि मुखं रघूद्वहस्य श्लिष्यन्त्यो नवघनसुन्दरं वपुश्च ॥ २७॥ भूयस्योऽन्तः पुरमुषिताश्चिराय नार्यो रामेन्द्रं प्रणयवशाद्विलोकयन्त्यः । आत्मानं सपदि न सस्मरुः स्वरूपं सौन्दर्यामृतरससारमापिबन्त्यः ॥ २८॥ कौशल्या कैकेयी चैव सुमित्रा च हरेर्मुखम् । वीक्ष्य तृप्तिं न चैवाप विधुं कुमुदिनी यथा ॥ २९॥ सोऽव्यक्तकलया वाण्या बन्धूनां नाम सङ्गिरन् । विततान मुदं भूरि राज्ञो दशरथस्य च ॥ ३०॥ बालोऽपि रामचन्द्रोऽभूत् स्वानां मोदाय पुष्टिवान् । भ्रातृभिर्वयसा तुल्यैर्भूयसीं कान्तिमावहन् ॥ ३१॥ कमनीयं किशोरस्य श्यामलं कोमलं वपुः । विलोक्य मुदमाजग्मुस्त्रैलोक्यस्थानवासिनः ॥ ३२॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे बाल्यवर्णनं नाम षोडशोऽध्यायः ॥ १६॥ ३२/६२१

०१७. पूतनावधो नाम सप्तदशोऽध्यायः ।

ब्रह्मोवाच । एतस्मिन्नेव काले तु देवर्षिर्नारदो मुनिः । रावणालयमभ्येत्य शशंसामरगोपितम् ॥ १॥ देवगुप्तं परं तत्त्वं रहस्यं नारदो मुनिः । शशंसाभ्येत्य दैत्याय दशवक्त्राय साध्वसम् ॥ २॥ नारद उवाच । लङ्केश विदितं तेऽस्ति जातस्तव निषूदनः । देवानां प्रार्थनेनैव जायमानो युगे पुरा ॥ ३॥ पुरा हिरण्यकशिपुस्त्वं येन विनिपातितः । हिरण्याक्षस्तव भ्राता स जातः कुम्भकर्णकः ॥ ४॥ स इदानीमपि तथा रामस्तव शिरोहरः । क्वचिज्जातोऽस्ति धरणौ त्रिदशैः प्रार्थितो भृशम् ॥ ५॥ तत्प्रतीकारमतुलमधुनैव विचिन्तय । नोचेद्रिपौ गते वृद्धिं पश्चात्समनुतप्स्यसि ॥ ६॥ एवमुक्त्वा तु देवर्षौ नारदे निर्गते गृहात् । चकम्पे वीरवर्योऽपि राक्षसेन्द्रो महाबलः ॥ ७॥ अहो मम बलं देवैर्मर्शितुं नैव शक्यते । स्वयं बलविहीनास्ते बलवन्तं गवेषिणः ॥ ८॥ सोऽहं शिवस्य चरणे स्वशिरांसि धृत्वा तत्प्रीतिलब्धबलवीर्य महाविभूतिः । देवान् नयामि सहसा त्रिदिवादधोऽद्य विस्त्रंसयन् स्वपदतो वितथप्रभावान् ॥ ९॥ धर्मं च हन्मि शिवपूजनतोऽतिरिक्तं सोऽपि स्वमात्रकृत एव सुखाय मेऽस्तु । नोचेच्छिवो यदरिषु प्रणयं विदध्यात् तेन क्वचिन्मम भवेद्विभवस्य पातः ॥ १०॥ विष्णुस्तु धर्मसदनो मम किं करिष्य त्यज्ञात एव निगमागमधर्मभेत्तुः । ये वैष्णवास्त्रिजगति द्विष एव ते मे तेषामहं शिवनिषेवणतोऽस्मि जेता ॥ ११॥ दाम्भिका मोघकर्माणो वृथालापनपण्डिताः । वैष्णवास्तु मया क्षेप्यास्त्रयीधर्मवहिर्मुखाः ॥ १२॥ ब्रह्मलोकाद् बहिः कार्यो ब्रह्मा चेन्द्रः स्वलोकतः । एवमन्येऽपि सूर्याद्या निराकार्या मयाधुना ॥ १३॥ तेषां स्थानानि दासेभ्यो दास्यामि स्वाधिकारतः । ते तत्र विचरिष्यन्ति राक्षसा मे महाबलाः ॥ १४॥ यत्रामी संस्थिता यद्वन्मन्दिरे ग्रामसूकराः । मदाज्ञापालनपरान् करिष्यामि भृशं सुरान् ॥ १५॥ न मे भुजबलं सोढुं विष्णुः सम्प्रभविष्यति । इतिकृत्वा मतिं क्रूरां पौलस्त्यः कालचोदितः ॥ १६॥ चकार भगवद्द्वेषं तदुपाश्रयपीडनः । देवाश्च विद्रुतास्तेन प्राप्ता दशरथं नृपम् ॥ १५॥ गुप्तभावेन तिष्ठन्ति प्रमोदवनमध्यगाः । केचित्तमेव शरणं राक्षसेन्द्रमुपाययुः ॥ १८॥ परे गिरिदरीष्वेव निलीय क्वचिदाश्रिताः । एवं श्रुत्वा महाकष्टं रावणाल्लोकरावणात् ॥ १९॥ राजा दशरथोऽप्यासीत् पुत्ररक्षापरायणः । रावणेन विसृष्टाश्च राक्षसा ब्रह्मराक्षसाः ॥ २०॥ डाकिन्यः पूतनाद्याश्च कूष्माण्डकुणपास्तथा । इतस्ततो घातयन्तो विचेरुर्धरणीतले ॥ २१॥ राजापि भयसन्त्रस्तः पुत्रप्रणयकातरः । धात्रीगृहे कुमाराणां सन्निवेशं चकार सः ॥ २२॥ कौशल्यां च सुमित्रां च कैकेयीं च स्ववेश्मतः । सरय्वा अपरे पारे गोपराजस्य वेश्मनि । सन्निवेश्य द्विजातिभ्यो बालस्वस्त्ययनं व्यधात् ॥ २३॥ ते बालकास्तत्र गवेन्द्रधाम न्यलङ्कृता हेममयैर्विभूषणैः । विचेरुरानन्दितबन्धुलोचनाः स्वरूपसौन्दर्यलसत्प्रतीकाः ॥ २४॥ कदाचिदेका खलु राक्षसी छलाद् विधाय रूपं किल लोकवञ्चकम् । साक्षादिव श्रीरगमन्निहन्तुं यत्रास्ति रामः खलु तत्र वेश्मनि ॥ २५॥ स गोपवध्वा पयसा प्रपायितः शंशायितो मृदुशयनेऽति बालकः । तूर्णं तयागत्य जनैरदृष्टया गृहीत एव स्तनदानवाञ्छया ॥ २६॥ तस्याः स्तनोत्थं विषहं विषं हरि र्गृहणन् प्राणैः साकमह्नाय देवः । प्राणान् पपौ येन तदा तथा व्यसुः प्रकाशयामास निजं कलेवरम् ॥ २७॥ गव्यूतिपञ्चकपदं युगयोजनान्त र्विक्षिप्तमध्यमिनयोजन वज्ज्रहस्तम् । सञ्चूर्णयन् गिरिनगालयगोव्रजौघान् दीर्घारवेण निपपात सुघोररूपम् ॥ २८॥ तस्याः पतन्त्याः श्वसितानलो मुखा न्नियन् सुघोरेण रवेण निर्ययौ । वपुश्च सञ्चूर्णितगोव्रजाङ्गणं पपात लोकैस्तददृष्टपूर्वम् ॥ २९॥ रवं तमाकर्ण्य जना दधाविरे खेलन्तमस्या उरसि व्यपश्यन् । रामं नवेन्दीवरदामकोमलं बालं भयावेगविवर्जितं तदा ॥ ३०॥ सहसादाय कौशल्या माङ्गल्या गोपसुन्दरी । सविकम्पा परिष्वज्य प्राप्तप्राणमिवाग्रहीत् ॥ ३१॥ अथाभ्यधावद्दशरथभूपतिर्जवात् स्वमन्दिराद् भयमाकर्ण्यावरोधे । रामं समादाय करेण वक्षसि जघ्नौ शिरः किमिदमिति व्यशोचयत् ॥ ३२॥ या राक्षसी शैलदरीविलोचना शुष्कान्धु नाभिर्द्रुमचरणाङ्गुलीगणा । विदीर्णवक्रातिभयं चकार कथं शिशुर्वक्षसि नानया धृतः ॥ ३३॥ राजोवाच । अहो इयं बहुभयदायिविग्रहा क्व वा अयं क्व च खलु मामकः शिशुः । दिष्ट्या विमुक्तो विधिनैव मोचितः प्राणो यथा दीनदीनस्य दीनः ॥ ३४॥ ततः स ब्राह्मणैः साकमकरोत् स्वस्तिवाचनम् । देवान् सम्पूज्य विधिवद्युत्वाग्नौ स्वाशिषोऽवदन् ॥ ३५॥ यन्मे व्रतं च दत्तं च यन्मे देवाः कृतार्चनाः । यन्मे प्रसादिता विप्रास्तेनायं जीवताच्छिशुः ॥ ३६॥ यन्मे भाग्यं तथायुश्च यन्मे पुण्यं सनातनम् । यन्मे तमः परं किञ्चित्तेनायं जीवि (व?)ताच्छिशुः ॥ ३७॥ यन्मे शुभाशिषः प्रादात् प्राजापत्यो महामुनिः । याज्ञवल्क्यश्च भगवाँस्तेनासौ जीवि (व?)ताच्छिशुः ॥ ३८॥ चिरं जीवतु मे बालो बन्धुभिर्भ्रातृभिः सह । देवतानां प्रसादेन मुनीनां च विशेषतः ॥ ३९॥ माङ्गल्याद्या महागोप्यः कौशल्याद्याश्च मातरः । पितुर्हस्तात् समादाय प्रायुञ्जन् सत्यमाशिषः ॥ ४०॥ गोविन्दः पातु ते शीर्षं दृशौ पातु चतुर्भुजः । कर्णौ दामोदरः पातु नासिके पुरुषोत्तमः ॥ ४१॥ ओष्ठौ च पातु गोविन्दश्चिबुके देवकीसुतः । करौ च पातु वैकुण्ठो वक्षः पातु गदाग्रजः ॥ ४२॥ कुक्षि पातु सदा विष्णुर्नाभिं पातु सदा हरिः । पादौ सहस्त्रपात् पातु पातु पादाङ्गुलीर्विभुः ॥ ४३॥ श्रीशः पादतलं पातु सर्वतः पातु कंसहा । इति रामकुमारस्य प्रयुञ्जानाः शुभाशिषः ॥ मुहुः सम्भावयामासुर्गोपा गोप्यश्च मातरः ॥ ४४॥ अहो इयं क्रूरमतिर्निजैनसा मृता विधात्रैव परापकारिणी । अस्मद्भगैरेव चिरं रघुप्रियो रामः सदा मोदमानः स्वलीके ॥ ४५॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पूतनावधो नाम सप्तदशोऽध्यायः ॥ १७॥ ४५/६६६

०१८. रामबालचरित्रवर्णनं नामाष्टादशोऽध्यायः ।

ब्रह्मोवाच । अपरेद्युश्च माङ्गल्या यापयित्वा स्तनोद्भवम् । निधाय दन्तखट्वायां राममस्वापयच्छिशुम् ॥ १॥ तत्र कश्चिन्महाघोरो विकटाख्यो महासुरः । इयाय खट्वामाविश्य स्थितो रामजयाशया ॥ २॥ तं प्रभुः सहसा ज्ञात्वा कामरूपं महासुरम् । चूर्णयामास स्वाङ्गस्य भारेण भगवान् प्रभुः ॥ ३॥ सञ्चूर्णिते रामशरीरभारै र्व्व्यभज्यतासौ खलु खट्वाङ्गसङ्घैः । स आरवो व्याप्य दिशो नभश्च प्रभूतवांस्तत्र यथा ययुर्जनाः ॥ ४॥ खट्वाङ्गसङ्गं (ङ्घं ?)प्रविलोक्य चूर्णितं जनाः परं विस्मयमाययुर्हृदि । तत्राभवन् साक्षिणः केऽपि बाला अनेन खट्वेयमहो विचूर्णिता ॥ ५॥ तद्बालभाषितं मत्वा नैव श्रद्दधिरे जनाः । इत्येवं विकटो नाम चूर्णितः स महासुरः । रामेण बालरूपेण रिङ्गता गोकुलाङ्ङ्गणे ॥ ६॥ अथान्येद्युरुपायातो वात्यारूपो महासुरः । भूतलं स्वस्तलं चैव कुर्वन् तिमिरसङ्कुलम् ॥ ७॥ प्रचण्डवेगारवचूर्णितान्त स्तृणोच्चयं भूरि समुत्क्षिपन्नितः । अतीव वात्यामयकामविग्रहः कठोररावः प्रसभं समाययौ ॥ ८॥ सुदुःसहापूरितशर्कराभरो विलोपिताशेषजनेक्षणक्रियः । दुरन्तपांशुप्रकरप्रवर्षणो गवेन्द्रधामाकुलमातनोत्तराम् ॥ ९॥ तस्मिन् क्षणे तु माङ्गल्या कौशल्या चाङ्कसंस्थितम् । रामं कृतमहाभारं न्यवेशयदिलातलम् ॥ १०॥ तं दानवो बहुतर वेगवत्तया रामं समादाय नभः समास्थितः । तावत् प्रसूर्बालमपश्यती स्थले चकार हा क्रन्दमलब्धजीविता ॥ ११॥ रामोऽपि नभसा यान्तं वात्यासुरमकारणम् । आत्मापहारिणं मत्वा दृढं दध्रे कृकाटिकाम् ॥ १२॥ स रामहस्ताग्रनिबद्धघाटा निर्मुक्तजीवो भृशपीडयाहतः । तत्याज देहं विकटं महीतले महाशिलापातविशेषचूर्णितम् ॥ १३॥ तस्मिन् रिपोरुरसि पपात राघवः सञ्चूर्णयन्निजवपुषो भरेण तम् । आगत्य व्रजसुदृशो ग्रहीषुरेनं भाग्येन द्युतलगतं व्युपागतं च ॥ १४॥ कौशल्यया भूरि सकम्पया मुहुः स्वाङ्के समारोप्य भृशं स लालितः । माङ्गल्ययागत्य चिरं गृहीतः शिरस्युपाघ्राय मुखेन चुम्बितः ॥ १५॥ एवं बहव उत्पाता आसन् गोपीन्द्रगोकुले । रावणस्याज्ञया नित्यं चरद्भिर्घोरराक्षसैः ॥ १६॥ ततस्ते मन्त्रणां चक्रुर्गोपालाः सुखितादयः । राज्ञो दशरथस्याग्रे निबद्धाञ्जलयोऽखिलाः ॥ १७॥ गोपा ऊचुः । राजन्नत्र महोत्पाता दृश्यन्ते प्रतिवासरम् । भाग्येन जीविता बालाः प्राणादप्यधिका अमी ॥ १८॥ सा राक्षसी मानुषघोरदर्शना समागता बालकानां जिघांसया । दिष्ट्या मृता सा रविवंशजानां पुण्यप्रभावेन महीयसैव ॥ १९॥ ततः परं सातिकठोरखट्वा स्वयं व्यशीर्यत् पापरूपा परेषाम् । तस्यांशया नो नृप रामचन्द्रो भाग्येन लब्धो व्रजवासिनां नः ॥ २०॥ ततः स वात्यासुर उज्जहार रामं धरण्यां निहितं जनन्या । स एव यातो यमसादनं खलो बालस्तावत् क्लेशभराद् विमुक्तः ॥ २१॥ एकदास्य पदस्पृष्टौ शाखिनौ गगनस्पृशौ । स्वयं निपतितौ भूम्यां किञ्चिद्दूरेऽयमत्यगात् ॥ २२॥ इत्येवमस्मद्भाग्येन त्वत्पूर्वसुकृतेन च । चिरं जीवति रामोऽसौ परं चिन्ताकुला वयम् ॥ २३॥ जानीमहेऽमी रमणा निजांश विनिर्मितकोटिब्रह्माण्डनाथाः । तथापि भूपाल सुरक्षणीयाः सर्वस्वभूता भवतो नो विशेषात् ॥ २४॥ पश्यन्त्य एतान् वनिता व्रजौकसां जीवन्ति मीनाः सलिलान्तरे यथा । गायन्त्य एतान् मधुरस्वनेन दिवानिशं बिभ्रति मानसे मुदम् ॥ २५॥ राजोवाच । जानीमहे महोत्पातान् तदत्रैव विधीयताम् । सरय्वाः पुरतः पारे विशालं कामिकावनम् ॥ २६॥ तत्र निश्चीयतां गोपा भवद्भिर्वसतिर्निजा । नीयतां गोधनान्यग्रे पश्चान्निर्गम्यतां जवात् ॥ २७॥ स्वान् स्वान् दारान् समादाय शकटैरनुडुद्युतैः । एवं बुद्ध्वा मतं राज्ञो गोपा गोप्यः सगोधनाः ॥ २८॥ गोकुलेन्द्रं पुरस्कृत्य प्रययुः कामिकावनम् । यत्र सन्दीपनं नाम वनानामुत्तमं वनम् ॥ २९॥ सौगन्धिको नाम गिरिर्महारत्नविभूषितः । यत्रासने महारम्याः कतिशो रत्नवापिकाः ॥ ३०॥ सरयूजलकल्लोलतलस्त्रोतविभाविताः । कदम्बकाननं यत्र सर्वर्तुकुसुमान्वितम् ॥ ३१॥ यत्र वृक्षाः सदानम्राः पक्वामृतफलान्विताः । तत्रावासं चकारोच्चै राजापि स्वयमादरात् ॥ धात्रीगृहे कुमाराणां वर्द्धतां सुखकाम्यया ॥ ३२॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामबालचरित्रवर्णनं नाम अष्टादशोऽध्यायः ॥ १८॥ ३२/६९८

०१९. विश्वरूपदर्शनं नाम एकोनविंशोऽध्यायः ।

ते तत्र नित्यं परिवर्द्धमानाः स्वगात्रलक्ष्मीं पुपुषुः कुमाराः । सञ्जातदन्ताः स्मितवक्त्रचन्द्राः श्रिया जनानां हृदयं हरन्तः ॥ १॥ धात्रीकराङ्गुलिभरेण वितिष्ठमाना भूयो रणच्चरणनूपुरजातहर्षाः । मध्याङ्गकिङ्किणिकया कृतभूरिनृत्याः स्वानां मुदं व्यधुरुदारगुणाभिरामाः ॥ २॥ गोपालबालनिवहेषु विराजमानाः सद्रत्नदण्डभररम्यकटाश्चरन्तः । गोपाङ्गणेषु नवनीतकराढ्यहस्ताः श्रीरामलक्ष्मणमुखाः शिशवो विरेजुः ॥ ३॥ रामः सलक्ष्मणस्तत्र विचरन् व्रजवीथिषु । गोपालबालकैः साकं चिक्रीडे बहुधा प्रभुः ॥ ४॥ क्वचिद् वत्सान् समादाय धावमानो व्रजाङ्गणे । क्वचिन्मयूरशिशुभिः परिवारितविग्रहः ॥ ५॥ क्वचिद्धंसैश्च कादम्बैः कारण्डवकुलैस्तथा । चटकैश्च कपोतैश्च चिक्रीडे गोकुले चरन् ॥ ६॥ स गोकुलवरस्त्रीणां हृदयानि प्रमोदयन् । बालकेलिं चकारोच्चैर्मोहयन् गोपकन्यकाः ॥ ७॥ कस्तूरीतिलकविराजिभालदेशो मुक्तास्त्रङ्मणिगल चारुकण्ठहारः । नासाग्रे पृथुगजमौक्तिकं दधानो बिभ्राणः करकमलेन मञ्जुवेणुम् ॥ ८॥ चूडालः करयुगहेमकङ्कणश्रीः श्रीखण्डद्रवमकरीविरोचिगात्रः । गोपाली मनसि विवर्द्धयन् मनोजं कुर्वाणो दधिनवनीतचौर्यलीलाम् ॥ ९॥ गृहे गृहे विशन् रामो विचरन् बालकैः सह । माङ्गल्यां चैव कौशल्यां समुपालम्भयज्जनैः ॥ १०॥ ता गोपकन्याः स्मरबाणविद्धा रामेण विस्त्रंसयता मनांसि । समाययुः कान्तविलोकनार्थ गृहानुपालम्भमिषेण लुब्धाः ॥ ११॥ गोप्य ऊचुः । हे माङ्गल्ये गवेन्द्रगेहिनि हे कौशल्ये दशरथमहिषि । तव तनया अनयाश्चत्वारस्तेषामेष सुधूर्तो रामः ॥ १२॥ कृत्वा बहु नवनीतस्तेयं भोजयति कपीन् शिशूंश्च शश्वत् । दृष्टः सपदि पलायति बालैः पुनरायाति च गालीं दत्ते ॥ १३॥ व्याकुलयति कुलवनिता शश्व त्मुखमवगुण्ठनपिहितं पश्यन् । आकर्षत्यधुनैव विलज्जो गोकुलकन्यातरुवसनानि ॥ १४॥ उक्तः किमपि पलायति दूरे साक्षात् काम इवातिजिघांसुः । खेदयति मुहुरति विपुलश्रोणीः कुर्वन् सन्ततमलमपराधम् ॥ १५॥ हसति च हासयते च शिशुभ्यः कुरुते विग्नाः गोकुलरामाः । किमपि च वक्तुं न पारयामः शिक्षय मातर्ननु निजबालम् ॥ १६॥ एष स लक्ष्मणमपि शिक्षयति साधुमिमं स्वसमं च चिकीर्षुः । बहिरन्तश्च विजित्य समस्तं यथार्थनामा राजति रामः ॥ १७॥ स्फोटयति प्रसभं दधिभाण्डं विगुणीभवति निवारित एषः । एवमादि वचनानि वदन्त्यः कान्तविलोकनपूरितकामाः । जग्मुरात्मसदनानि तरुण्य स्तमेव सततं भावयमानाः ॥ १८॥ कदाचिद् बालकैः साकं क्रीडन् रामो व्रजाङ्गणे । वर्जितोऽपि जनन्या ऽऽद कुपथ्यं बदरीफलम् ॥ १९॥ बालैर्निवेदिता माता तर्जयामास तं शिशुम् । स तर्जितो जनन्या च प्रहसंस्तामुवाच ह ॥ २०॥ राम उवाच । मातर्नाहं जघासाद्य कुपथ्यं बदरीफलम् । नोचेदुद्घाट्य वदनं मदीयं प्रविलोकय ॥ २१॥ ब्रह्मोवाच । एवमुक्त्वा व्यात्तमुखस्तु रामः प्रदर्शयामास मुखे समस्तम् । सजङ्गमं स्थावरमेतदुच्चै र्यद्दृश्यजातं वरिवर्ति लोके ॥ २२॥ अद्रयः सागरा नद्यो द्वीपाः ग्रामाः पुराणि च । नरा देवाश्च गन्धर्वा वनानि भुवनानि च ॥ २३॥ सर्वं राममुखेऽपश्यन्माता माङ्गल्यया सह । अदृष्टमश्रुतं चैव सर्वाश्चर्यमयं जगत् ॥ २४॥ कौशल्योवाच । किमेष जातो मतिविभ्रमो मे स्वप्नोऽथवा देववरस्य माया । किं वाद्य किञ्चित् कुतुकं प्रदर्शितं रामेण वोचे स यथा नो वसिष्ठः ॥ २५॥ इत्थं मुहुर्भ्रान्तमतिः प्रसूस्त मपार्यमाणा वदने विलोकितुम् । न्यमीलयन्नेत्रयुगं निजं सा पुनः समुन्मील्य मुखं ददर्श ॥ २६॥ सा रामचन्द्रस्य मुखेन्दुमन्द हासावलोकेन पुनः समोहा । पुत्रेति मत्वा समपाययत् स्तनं स्तनन्धयं राममानन्दरूपम् ॥ २७॥ एवं स आद्यः पुरुषः पुराणः स्वमायया बालभावं प्रपद्य । अरञ्जयद् गोकुलयोषितस्ता यथा तदात्मान इमा बभूवुः ॥ २८॥ तन्मग्नमनसो नित्यं तदालापनतत्पराः । तद्गीतगानमुदिता बभूवुस्तन्मयान्तराः ॥ २९॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे विश्वरूपदर्शनं नाम एकोनविंशोऽध्यायः ॥ १९॥ २९/७२७

०२०. सुनीथमोक्षणं नाम विंशोऽध्यायः ।

एकदा गोपराजस्य पत्नी माङ्गल्यकाभिधा । नवनीतप्रियस्यास्य स्वपुत्रस्य प्रियार्थिनी ॥ दधिनिर्मन्थने काले प्रसक्ता शुशुभेतराम् ॥ १॥ पट्टाम्बरं कटिविलग्नमिदं दधाना हस्ताम्बुजद्वयगृहीतसुमन्थनेत्रा । आन्दोलनादिरसना गुणकिङ्किणीका भूयो रणत्कनककङ्कणशोभमाना ॥ २॥ धम्मिल्लमोचनचलत्वगलत्प्रसून निर्मन्थनश्रमजतोयकणावकीर्णम् । सम्बिभ्रती वदनमिन्दुमिवामृतोत्थं माङ्गल्यका मणिघटे दधि निर्ममन्थ ॥ ३॥ तस्याः स्तन्यं कामयानो रामो मन्थानमग्रहीत् । तमङ्के स्थापयित्वा सा ततः स्तन्यमपाययत् ॥ ४॥ निरीक्ष्यती तद्वदनेन्दुमादरा द्द्दृष्ट्वा तु वात्सल्यरसानुविद्धा । मुहुः परिष्वज्य च चुम्बितानना गोपी परानन्दपदं समभ्यगात् ॥ ५॥ विलोक्य पय उत्सेकं कीलया कृष्णवर्त्मनः । पिबन्तमेव तं त्यक्त्वा प्रययौ रक्षितुं पयः ॥ ६॥ तावत्सुसञ्जातरुषो जनन्या बभञ्ज दध्नो दृषदा स भाजनम् । गृहान्तरे चाहततक्रभाजनो जगाम शिक्योपरि पातितुं दधि ॥ ७॥ भूमौ घटं निधायाधस्तदुपर्यर्पिताङ्घ्रिणा । कृत्वा सूक्ष्मं तु विवरं शिक्यभाण्डस्थितं दधि ॥ ८॥ पपे तत्तेन स्तेनेन शेषं बालैश्च वानरैः । तस्मिन् स्थाने समागत्य माङ्गल्या दधिभाजनम् ॥ ९॥ रामेण स्फोटितं वीक्ष्य न तमोक्ष्य च बालकम् । गृहान्तरमगात्तूर्णं तत्रापि न विलोकितः ॥ १०॥ ततो गृहान्तरं गत्वा दृष्ट्वा (ष्टः)तादृश एव सः । नवनीतकरो यातः पलाय्य सदनान्तरम् ॥ ११॥ नितान्तमनुमृग्यती दधिकणाङ्किते तत्पदे निरस्य लकुटीं गताऽस्य भयमीक्ष्य माङ्गल्यका । तया स सदनान्तरे सपदि वीक्षितः संरुदन् मृजन्नुभयपाणिना लुलितकज्जले लोचने ॥ १२॥ तस्यापराधान् विविधान् विजानती बद्धुं समारब्धवती तमीश्वरम् । तत्पाणियुग्मं स्वकरे गृहीत्वा नेत्रेण यावत् प्रकरोति बन्धम् ॥ तावत्तदासीच्चतुरङ्गुलोनकं ततोऽन्यदादाय बबन्ध नो ममौ ॥ १३॥ अन्यदन्यदुपादाय सूत्रं बद्धवती सुतम् । तत्तन्न्यूनं समभवच्चतुरङ्गुलतोऽधिकम् ॥ १४॥ ततो गृहस्थान्यखिलानि नेत्रा ण्यानीय खिन्नां जननीं विलोक्य । स्वेदावकीर्णां पृथुजघनां भरार्ता मेकेनैव स्वमबन्धयद्गुणेन ॥ १५॥ सुवर्णनेत्रसूत्रेण स बद्ध्वा करयोस्तथा । विबद्धः स्वाङ्गणस्थस्य स्तम्भतः कल्पशाखिनः ॥ १६॥ रामो जनन्यां यातायां कर्षयामास नेत्रकम् । तत्कृष्टं तेन वृक्षेण साकमेव करेऽवहत् ॥ १७॥ वृक्ष उन्मूलने जाते डोरकाकर्षणक्षणे । स्वयं स बद्ध एवास पतितेऽपि महीरुहे ॥ १८॥ तस्मिन्निपतमाने तु तरौ शब्दो महानभूत् । तत एको महाकायः पुरुषः पद्मलोचनः ॥ १९॥ सुन्दरः सुमुखः स्वच्छो ददृशे देववद्द्युतिः । स साष्टाङ्गं प्रणम्यादौ रामं राजीवलोचनम् ॥ २०॥ तुष्टाव हसितो भूत्वा मुक्तः स्थावरभावतः । पुरुष उवाच । नमो रामाय रामाय गोविन्दाय नमोनमः ॥ २१॥ नमः सत्त्वाय शान्ताय नमः कारुणिकाय ते । नमः श्रीरामचन्द्राय दशाकृतिविधायिने ॥ २२॥ नमो गोपालवेषाय नमो गोपीविलासिने । नमोऽनुग्रहरूपाय नमोऽनुग्रहकारिणे ॥ २३॥ नमो रामावतरिणे नमो भक्तिविधायिने । नमस्ते फलरूपाय नमस्ते साधनात्मने ॥ २४॥ सत्त्वाव्यवहितं रूपं दधते ते नमोनमः । सात्त्विकी मुक्तिमत्येत्य परभक्तिप्रदायिने ॥ २५॥ शान्ताय शान्तातीताय गुणलीलाकराय च । चिदानन्दस्वरूपाय तस्मै रामाय ते नमः ॥ २६॥ मेघश्यामाय रामाय पीतकौशेयवाससे । बालरूपाय पद्मायाः कन्यायै तन्नमोनमः ॥ २७॥ नमः शुक्लाय रक्ताय पीताय सितिवर्चसे । युगलीलाविनोदाय श्रीरामाय नमोममः ॥ २८॥ कलात्मने पूर्णकलाय राघव अंशात्मनेऽशांशकलाश्रयाय । नमो नमस्ते पुरुषोत्तमाय रामाय रामाय च राघवाय ॥ २९॥ नमस्ते रूपसम्पत्त्या त्रैलोक्यमदनाय च । हैयङ्गवीनचौराय रसभोक्त्रे रसात्मने ॥ ३०॥ नमो रसाय रस्याय नित्यलीलामयाय च । अथेदं दर्शितं रूपं त्वयानुग्रहकारिणा ॥ ३१॥ अद्य मे सफलं ज्ञानं विशेषादर्पितं त्वयि । नाहं किञ्चिद्विजानामि स्वात्मानं परमेव वा ॥ ३२॥ त्वामेकमेव शरणं प्रपद्ये भक्तिभावतः । इदं ते कोमलं राम सुन्दरं चरणद्वयम् ॥ ३३॥ त्वद्भक्तिसंसिद्धिकरं मस्तके मे निधीयताम् । इति स्तुत्वा गोपबालैः परिवीतं रघूद्वहम् ॥ ३४॥ परिक्रम्य त्रिरानम्य कृतकार्यो दिवं ययौ । भुशुण्ड उवाच । ब्रह्मन् को नाम पुरुषः समदृश्यत वृक्षतः ॥ ३५॥ कथं वा स्थावरो जातो यातः कुत्र च तादृशः । एतन्मे वद साश्चर्यं चरित्रं श्रीरमापतेः ॥ ३६॥ ब्रह्मोवाच । विरजायाः परे पारे सुनीथो नाम वै द्विजः । ब्रह्मदर्शी सदाचारो न तु भक्तिपरायणः ॥ ३७॥ तत्रस्थैरुपदिष्टोऽपि भक्तिमार्गं न मन्यते । आत्ममानी स्तम्भगतिर्मुक्तमानी मुनीश्वरः ॥ ३८॥ ज्ञानेऽस्य योग्यतां दृष्ट्वा नारदो ब्रह्मदर्शनः । भक्तिं प्रोवाच सपुनर्ज्ञानमेवाभ्यमन्यत ॥ ३९॥ का भक्तिर्भजनीयः क एकं ब्रह्मैव केवलम् । तत्सत्यमपरं तुच्छं कस्य भक्तिं करिष्यसि ॥ ४०॥ ज्ञानेन ज्ञातुमन्विच्छ स्वात्मानममृतात्मकम् । प्रमेयं सर्वदेवानां कस्तत्र हरिरीश्वरः ॥ ४१॥ इत्यादिमोहवचनैर्दूषयन् स मुनेर्मतिम् । तेनैव मुनिना शप्तो व्रजे जातो महोरुहः ॥ ४२॥ रामपादस्पर्शमात्राद् द्विजः सञ्जातभक्तिकः । प्राग्ज्ञानं समनुप्राप्य भक्तराजो भवत्तराम् ॥ ४३॥ तस्माद्रामं परित्यज्य येऽन्यानपि भजन्ति ते । विहाय सरसः स्रोतः कूपं कुर्वन्ति बालिशाः ॥ ४४॥ तस्मादेको रामचन्द्रोऽत्र सेव्यः सर्वैर्लोकैः सर्वभावेन नित्यम् । सर्वस्येशः सर्वदेवैकभाव्यः सर्वाकारः सर्वसर्वश्च सर्वः ॥ ४५॥ रामो रामो रामरामोऽभिरामो रामो रामो रामरामश्च रामः । रामो रम्यो रामचन्द्रो रमेशः इत्थं चोक्त्वा मुच्यते चैव बन्धात् ॥ ४६॥ यो राममूर्तिं भजते न मानवो रामेति वर्णौ कुरुते न कर्णौ । स नावमासाद्य महानदीजले निमज्जनं वाञ्छति मूढमानसः ॥ ४७॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे सुनीथमोक्षणं नाम विंशोऽध्यायः ॥ २०॥ ४७/७७४ Encoded and proofread by Vishal Pandey
% Text title            : Bhushundi Ramayanam Purvakhanda 011-020
% File name             : bhushuNDirAmAyaNam_pUrva_011-020.itx
% itxtitle              : bhushuNDirAmAyaNam pUrvakhaNDa 011\-020
% engtitle              : bhushuNDirAmAyaNam pUrvakhaNDa 011-020
% Category              : raama, bhushuNDirAmAyaNam
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishal Pandey
% Proofread by          : Vishal Pandey
% Description/comments  : bhushuNDirAmAyaNam | pUrvakhaNDa | adhyAya 011-20||
% Indexextra            : (Scan)
% Latest update         : September 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org