भुशुण्डिरामायणम् पूर्वखण्ड ०२१-०३०
०२१. रामवत्सचारणलीलानुकथनं नाम एकविंशोध्यायः ।
ब्रह्मोवाच ।
माङ्गल्या चैव कौशल्या गोप्यो गोपाश्च मातरः ।
राजा दशरथश्चैव लक्ष्मणाद्यास्तथा सुताः ॥ १॥
सुखितश्चैव गोपालः सानुगस्तूर्णमाययुः ।
द्रुमपातरवं श्रुत्वा सर्वे सम्भ्रान्तचेतसः ॥ २॥
अकस्मात् कुत आराव इति चिन्तासमाकुलाः ।
त आगत्य गुणैर्बद्धं रामं तादृशमेव तम् ॥ ३॥
वृक्षस्तम्भस्थितं वीक्ष्य विस्मयं परमं ययुः ।
तत्रस्थाः बालकाः सर्वे मुहुरुच्चैर्बभाषिरे ॥ ४॥
अनेन कर्षता सूत्रं द्रुम उन्मीलितो जवात् ।
तच्छ्रुत्वा बालवचनं नैव श्रद्दधिरे जनाः ॥ ५॥
तद्दिनावधि रामोऽसौ विख्यातो द्रुमभञ्जनः ।
तं तथा विटपिस्तम्भबद्धं दृष्ट्वा तदाहसत् ॥ ६॥
उन्मोच्य रामं नृपतिश्चुचुम्ब प्रणयान्मुखम् ।
मैवं कुरुष्व राम त्वं कोमलाङ्गो महाश्रमम् ॥ ७॥
अनेन तव खेदेन भृशं खिद्यामहे वयम् ।
नवनीतस्तेयकरो मा भ्रमस्व गृहे गृहे ॥ ८॥
यत्तवेष्टं क्रीडनकं तत्तदत्रैव कल्पये ।
भ्रातृभिर्बन्धुलोकैश्च तथा परिजनैर्भृशम् ॥ ९॥
बाललीलारसं चक्रे रामो रमणकोविदः ।
एवं केलीरसासक्तो विस्मरन् पानभोजने ॥ १०॥
बालैः सह स चिक्रीडे भातॄणां वर्द्धयन् मुदम् ।
हठेन माता माङ्गल्या क्रीडन्तं राममानयत् ॥ ११॥
शृङ्गारयामास हठात् तथैवापाययद्धठात् ।
एवं ते गोपसदने वर्द्धमानाः कुमारकाः ॥ १२॥
वत्सान् सञ्चारयामासुः सह गोपालबालकैः ।
सरयूतीरमासाद्य रत्नाद्रिमभितस्तथा ॥ १३॥
प्रमोदवनमासाद्य विचेरुरधिगोकुले ।
क्वचिद्वेणून् वादयन्तो गायन्तश्च तथा क्वचित् ॥ १४॥
क्वचिन्मुहुः कूर्दमानाः क्वचिन्नृत्यन्त एव च ।
क्वचिद् गोपालबालाभिः खेलन्तश्च परस्परम् ॥ १५॥
फलक्षेपैस्तथा केलीमाचरन्तं क्वचिच्च ते ।
बर्हिधातुविचित्राङ्गाः शुशुभुर्बालरूपिणः ॥ १६॥
कदाचित् सरयूतीरे वत्सान् चारयतामुना ।
ददृशे रावणहितो वत्सरूपो महासुरः ॥ १७॥
तं दर्शयन् लक्ष्मणाय हसन् रामो महाबलः ।
धृत्वापराभ्यां पादाभ्यां भ्रामयित्वा च भूरिशः ॥ १८॥
फलिनां बहुवृक्षाणामग्रेषु समपातयत् ।
तस्य निष्पततः कायो दशयोजनतोऽभवत् ॥ १९॥
सरय्वाः पुरतो मध्ये प्रत्यङ्गविततो महान् ।
वृक्षेभ्यः कम्पमानेभ्यः फलानि बहुशोऽपतन् ॥ २०॥
तान्यदुर्बालकाः सर्वे सुरमारणनिर्वृताः ।
एवं वत्सान् पाययितुं नद्यः पुलिन आगतः ॥
तत्रापश्यत् स्थितं रामो बकरूपं महासुरम् ॥ २१॥
तावत् स जग्रास जवेन रामं
तीक्ष्णेन तुण्डेन कठोरचित्तः ।
तस्याननेऽसौ ववृधे यथासौ
विदीर्णतुण्डो व्यसुतामुपाययौ ॥ २२॥
राममासाद्य ते प्राणसदृशं लक्ष्मणादयः ।
बालका मुमुदुः स्वाङ्गैः परिष्वज्य विसाध्वसाः ॥ २३॥
सुराश्च ते परमिकया मुदान्विताः
सुरद्रुमस्तबकभरैर्ववर्षिरे ।
अहो अहो रघुवररूपसागरो
हितप्रदो वत भुवि नः समागतः ॥ २४॥
इत्याश्चर्यचरित्राणि कुर्वन् रामः सहानुजः ।
विरेजे नितरां तत्र कल्याणगुणभाजनः ॥ २५॥
कदाचिद्वनवीथीषु खेलन्तो बालकैः सह ।
रामादयो विददृशुर्महासर्पं स्थितं पथि ॥ २६॥
कन्दराव्याप्तवदनं शैलकायं भुजङ्गमम् ।
दृष्ट्वा तस्यानने सर्वे विविशुः कन्दराधियः ॥ २७॥
रामो ज्ञात्वा महासर्पं व्यवर्द्धत तदोदरे ।
बालाश्च ते निर्गमिताः पाटयित्वोदरं बलात् ॥ २८॥
यावत् पापच्यमानास्ते न म्रियेरन् विषानलैः ।
कदाचिद्रामचन्द्रस्य जिज्ञासुर्विभुतां विधिः ॥ २९॥
हृत्वा निन्ये निजं लोकं वत्सान् बालांश्च लीलया ।
ऋते लक्ष्मणशत्रुघ्नभरतान् सर्वबालकान् ॥ ३०॥
रामोगवेषयाणस्तान् सरयूतीरमागतः ।
यदा चिरेण नापश्यन्मेने विधिकृतं तदा ॥ ३१॥
यथासौ वत्सपालानां वत्सानां च विशेषतः ।
रूपाणि स्वयमास्थाय जगाम व्रजमन्दिरे ॥ ३२॥
बन्धवो मातरस्तेषां विशेषात् स्नेहपुष्कलाः ।
रामवत्प्रीयमाणास्ते प्रमोदं परमं ययुः ॥ ३३॥
गावो वत्सान् विजिघ्रन्त्यो बालकांश्चैव मातरः ।
बभूवुस्तृप्तहृदया रामं दृष्ट्वा यथा तथा ॥ ३४॥
अन्येद्युरपि तान् वेधा जहार जनितस्मयः ।
रामश्चक्रे तथैवान्यान् स्वयन्तावत्स्वरूपधृक् ॥ ३५॥
एवं यावद्दशदिनमुभौ कर्माणि चक्रतुः ।
एको जहार गर्वेण ससृजेऽन्यो निजेच्छया ॥ ३६॥
ततोऽतिविस्मयं प्राप्य वेधाः सञ्जातसम्भ्रमः ।
एकादशेऽह्नि पदयोरपतज्जातकौतुकः ॥ ३७॥
स दण्डवत्प्रणिपतितस्तदग्रतो
ज्ञात्वा रामं जातमुदग्रविक्रमम् ।
अस्तौत् स्तवैः सञ्जनितातिहर्षो
भक्त्या युक्तो भूरिभाग्यं च जानन् ॥ ३८॥
ब्रह्मोवाच ।
नमामि ते राम पदारविन्दं
भक्त्या लभ्यं भक्तिहीनैरचिन्त्यम् ।
स्वरूपशक्त्यैव मुदं वितन्वन्
विक्रीडमानो जयसे सुरान् रणे ॥ ३९॥
किं वर्णनीयो महिमा तवेश्वर श्री
र्यत्पदाम्भोजयुगेऽस्ति किङ्करी ।
यतो गिरः सह मनसा सन्निवृत्ता
यं न स्पृशेद् भूरिसिद्धोऽपि योगः ॥ ४०॥
तस्मै नमस्ते त्रिदशप्रियार्थं
कृतावताराय निरीहणाय ।
स्वमायया मोहितविष्टपाय
स्वसाक्षिणे सेवकवत्सलाय ॥ ४१॥
ममापराधस्तव वत्सहर्तुः
क्षन्तव्य एषोऽतितरां रमेश ।
अजानतो बालकस्यापराधं
यथैव माता क्षमते मिट्पुरीषम् ॥ ४२॥
न ज्ञायते महिमा बालकस्य
ब्रह्मस्वरूपस्य हरेर्भयापि ।
अगोचरो वेद वेदाङ्गिरा सः
स्वयं त्वपायः परिदर्शनीयः ॥ ४३॥
त्वं प्रार्थितः सुरनरैर्दशवक्त्रविग्नै
स्तन्निग्रहाय जनिमाप नरेन्द्रगेहे ।
जातोऽधुना विहरसीति मया प्रतीतं
स्वेच्छाविलासभवनाविनयं क्षमस्व ॥ ४४॥
यत्त्वं पुराणमुनिभिर्बहुधारणाद्यैः
स्वात्मैकयोगनिपुणैर्नितरां दुरापः ।
तत्के वयं निजगृहार्तिधरा वराकाः
श्रीराघवेन्द्र भवतो महिमानमाप्तुम् ॥ ४५॥
यन्नो मनोरथभराय भवावतीर्णो
प्रमुद्वनाद् भुवननाथ समूहनाथ ।
तत्ते रमा विहरणे क्वचिदन्तरायो
माभूत् कदाचिदिति सन्ततमर्थये त्वाम् ॥ ४६॥
लोकमातापि भवतोऽनुकूलानि करोतु सा ।
यथा त्वमत्र भुवने चिराय विहरिष्यसि ॥ ४७॥
निजैः पदैस्तीर्थमयानि कुर्वन्
स्थलानि गङ्गाजलसम्मितानि ।
स्ववीर्यगुप्तो विचरन् धरण्यां
धनुर्द्धरः क्षपयन् दुष्टसङ्घान् ॥ ४८॥
चिरमेध चिरं वर्द्ध चिरमास्व महीतले ।
चिरं कुरु चरित्राणि पालयन् धर्मगोद्विजान् ॥ ४९॥
नमः पुरुषवर्याय पूर्णाय परमात्मने ।
अदृश्यायाप्रमेयाय निर्गुणाय गुणात्मने ॥ ५०॥
नमः श्यामाय रामाय रामाय वनमालिने ।
परमानन्दरूपाय गोविन्दाय नमो नमः ॥ ५१॥
नमोजगद्विधरणविष्टिसेतवे
प्रकाशिने श्रुतिगणगोचरात्मने ।
स्वमायया विरचितलोकसाक्षिणे
अमायिने स्वचितिसुखात्मने नमः ॥ ५२॥
इत्यभिष्टूय तं देवं पुरुषाकृतिमच्युतम् ।
विधिः पदोः पतित्वास तं प्रोवाच सतां पतिः ॥ ५३॥
श्रीराम उवाच ।
गच्छ ब्रह्मन् निजं लोकं स्वकार्यं प्रतिपादय ।
एवं मूढधिया कर्म कुर्वन् मूढयते बुधः ॥ ५४॥
मा कुरुष्वात्र सन्देहं नित्यो मम परिच्छदः ।
अर्वाग्भिः कालमायाद्यैरुपहन्तुं न शक्यते ॥ ५५॥
अस्योपघातो न भवेत् कदाचित्
समूढरूपस्य परात्मकस्य ।
सतस्त्रिलोकीविभवातिगस्य
मदीयलोकस्य चिदात्मकस्य ॥ ५६॥
अहं च यत्रैव निजस्वरूपतः
करोमि दिव्यं रमणं स्वसाधुभिः ।
न तत्र माया न च कालविक्रमो
न लोकपालस्य तव प्रवेशः ॥ ५७॥
विभवोऽस्य ह्यनाद्यन्तः सच्चिदानन्दलक्षणः ।
तत्राप्ययोध्यासम्बन्धी प्रकरस्तु मदात्मकः ॥ ५८॥
त्रैलोक्यनाशेऽपि न नश्यति क्वचित्
तदुद्गमेनोद्गमनं दधाति न ।
नित्योऽयमानन्दपुरोपरिच्छदः
प्रमोदवल्लीवनकेलिनो मम ॥ ५९॥
अस्यैव साकेतपुरस्य नित्यशः
समन्ततः पञ्चमुखास्त्रिलोचनाः ।
ब्रह्माहरिश्चात्र गदासिचक्रभृत्
प्रत्यन्तभूरक्षणकारिणोऽभवन् ॥ ६०॥
कोटिब्रह्माण्डविधयः कोटिब्रह्माण्डशङ्कराः ।
कुर्वन्ति रक्षणं चास्य कोटिब्रह्माण्डविष्णवः ॥ ६१॥
यत्राहं क्रीडनं कुर्वे साकेतपरितो वने ।
तस्यैव रक्षकाः सर्वे त्रिदशाः सेवका मम ॥ ६२॥
इत्युक्त्वा स्वस्य लोकस्य महिमानं रघूत्तमः ।
विसृज्य वेधसं सायं स्वगृहान् समुपाययौ ॥ ६३॥
अग्रे कृत्वा तार्णकं चक्रवालं
सलक्ष्मणः सहभरतः सशत्रुजित् ।
सायं गोकुलमनयद्रघूत्तमो
बभौतरां पशुपतिबालसङ्गतः ॥ ६४॥
तमायान्तमनुश्रुत्य वेणुवादनलक्षितम् ।
द्रष्टुं गोकुलनार्यस्ताः प्रेमपूर्णाः समुद्ययुः ॥ ६५॥
माङ्गल्या चैव कौशल्या दायिनी राजभाजनम् ।
अग्रे समुपतस्थुस्तान् सुमित्राकेकयीयुता ॥ ६६॥
कृत्वा नीराजनं तेषां कुमाराणां मुहुर्मुहुः ।
स्वं स्वं निर्मञ्छयाञ्चक्रुः प्रेमसन्दोहविह्वलाः ॥ ६७॥
भुशुण्ड उवाच ।
कथं स राजेन्द्र सुतोऽत्युदार
श्चकार रामः पशुपालकृत्यम् ।
एतन्मनः संशयमात्र (मत्र ?)जातं
सञ्छेत्तुमर्हस्यमराधिनाथ ॥ ६८॥
ब्रह्मोवाच ।
न गावस्ताः श्रुतयः सर्वरूपाः
न ते वत्साः एकदेशः श्रुतीनाम् ।
न ते गोपा गुरवस्ते किलार्या
न ता नार्यो भक्तयस्तास्तु मूर्ताः ॥ ६९॥
तेषां मध्ये परब्रह्म रामश्चित्सुखविग्रहः ।
रमते स्वानुभावेन कृतार्थानां विशेषतः ॥ ७०॥
इति श्रीमदादिरामायणे ब्रह्म भुशुण्डसंवादे रामवत्सचारणलीलानुकथनं नाम एकविंशोध्यायः ॥ २१॥
७०/८४४
०२२. इन्द्रमानभञ्जनं नाम द्वाविंशोऽध्यायः ।
ब्रह्मोवाच ।
कदाचिदिन्द्रयजनं कर्तुं नृपतिरुद्यतः ।
तथैव चान्वमोदन्त प्राप्ताः सर्वे द्विजातयः ॥ १॥
रामस्तदेव यजनं कर्तुमुद्यतमीश्वरम् ।
उवाच वदतां श्रेष्ठो निजमाहात्म्यवर्द्धनः ॥ २॥
राम उवाच ।
तात त्वया मखाः सर्वे कृताः सर्वेऽपि वैदिकाः ।
अश्वमेधादयो मेध्याः सत्रान्ता दीर्घसत्रकाः ॥ ३॥
विधिना च सुसम्पन्ना सुहुता बहुदक्षिणाः ।
वह्वृत्त्विजो बहुगुणा बहुगोद्विजभोजनाः ॥ ४॥
बहूत्सृष्टा लब्धपशुका ब्रह्मणापि सुदुष्कराः ।
ते त्वया रचिता यज्ञा पालिताश्च विशेषतः ॥ ५॥
अधुना वैष्णवं कर्म कुरु प्रियसुखावहम् ।
येनानुष्ठीयमानेन परो धर्मो विवर्द्धते ॥ ६॥
यस्य क्रियाखिला श्रौती कलां नार्हति षोडशीम् ।
कुरु गोविप्रवर्याणां वैष्णवानां विशेषतः ॥ ७॥
पूजां सुमहतीं राजन् वासोलङ्कारभोजनैः ।
इयं च सरयू तोरे दीप्यतां दिव्यदीपकैः ॥ ८॥
रत्नाद्रिश्च पुरस्यास्य पूजनीयोऽखिलेष्टदः ।
यत्र गावश्च गोपाश्च सततं सुखमासते ॥ ९॥
हरित्तृणमयः शैलो गुल्मवीरुल्लताकुलः ।
अर्चनीयोऽयमतुलैर्वासोभिर्भोजनैस्तथा ॥ १०॥
वलिभिर्दीपदानैश्च संविधाभिश्च भूरिशः ।
अर्चनीया द्विजा गावो गोपा गोप्यश्च वैष्णवाः ।
दीना आढ्या नरा नार्यो देवता सकला इमाः ॥ ११॥
इत्युक्तो दशरथभूपतिः सुतेन
सन्तुष्टोऽधिकतरधर्मविष्णुगीत्या ।
ओमुक्त्वा सुरपतियागसंविधास्ता
विष्ण्वर्थं व्ययमुपचक्रमे विधातुम् ॥ १२॥
बह्वीभिः संविधाभिः स ब्राह्मणान् समपूजयत् ।
सुरभीर्वैष्णवांश्चैव गोपान् गोपीश्च गोकुले ॥
महान्तमुत्सवं चक्रे वलिपूजादिनाद्भुतम् ॥ १३॥
सरयूदीपराजीभिः परिवार्य व्यरोचयत् ।
द्रुमान्नीराजयामास प्रमोदवनवासिनः ॥ १४॥
अलङ्कारैश्च वासोभिर्मण्डितान् फलपादपान् ।
पटहैर्दुन्दुभीभिश्च भेरीभिश्च मृदङ्गकैः ॥ १५॥
अनादयन् दिशः सर्वास्तस्मिन् विष्णुमहोत्सवे ।
स्वयं चाभूषितो राजा परमोत्सवनिर्वृतः ॥ १६॥
माङ्गल्या चैव कौशल्या गोपगोपीजनैर्वृता ।
आत्मानं भूषयाञ्चक्रे सुखिता वैष्णवे मखे ॥ १७॥
रामश्च लक्ष्मणश्चैव भरतश्चैव शत्रुहा ।
मातृभिर्भूषिता भूरि द्विजेभ्योऽदुर्महाधनम् ॥ १८॥
एवं समापयाञ्चक्रे महता सम्भ्रमेण सः ।
राजा दशरथो यागं वैष्णवं धर्ममुत्तमम् ॥ १९॥
श्रुत्वा यागस्य विहतिं शक्रो रोषसमावृतः ।
गोपोपजनपीडार्थं मूढभावान्मनो दधौ ॥ २०॥
परब्रह्मस्वरूपं तं रामं कारणमानुषम् ।
अवतीर्णमविज्ञाय पीडयामास गोकुलम् ॥ २१॥
साकेतं च वनं चैव गोकुलं च निकेतनम् ।
समाच्छाद्य स्थिता मेघाः शक्रेण प्रेषितास्तदा ॥ २२॥
कालजीमूतसङ्घाताः साडम्बरमुपस्थितम् ।
आकालिकं च विज्ञायाज्ञासीद्राजा हरे रुषम् ॥ २३॥
ततस्तेऽकालजलदा मुशलासारवर्षिणः ।
रुरुधुर्गोकुलं सर्वं चण्डवातप्रचोदिताः ॥ २४॥
प्रचण्डवातप्रकरानुपातिता
महाघनाऽऽसारभराः सविद्युताः ।
वर्षोपलैः पीडितसर्वगोधना
बभूवुरुद्वेगकरा महीपतेः ॥ २५॥
एवं यावत्त्रिदिनमपतद् गोकुले भूरिवृष्टि
र्विद्युत्पातैः खरजवमरुत्सन्ततं वर्षपातैः ।
अत्यार्तं तद्व्रजपुरमभूत् कं व्रजामः शरण्यम् ।
क्रुद्धे चेन्द्रे दशरथनृपोऽप्यास पीडासचिन्तः ॥ २६॥
एवं प्रजानां सङ्क्लेशं ज्ञात्वा रामोऽखिलप्रभुः ।
मेघावरोधकं नाम निजछत्रमथाग्रहीत् ॥ २७॥
छत्रं ततं विंशतियोजनात्मकं
सुरक्षकं तोयमुचां समूहतः ।
दृढं न चाभज्यत विद्युदादि
महाश्मसम्पातजवैः सुरेरितैः ॥ २८॥
एवं यावत्पक्षसमाप्तिरासीत्
तावत्तस्थौ छत्रमासाद्य लोकान् ।
पक्षस्यान्ते व्यर्थरोषोऽधमोऽभू
दिन्द्रो ज्ञात्वा देवदेवस्य शक्तिम् ॥ २९॥
ततः स वारिदव्यूहं वारयामास वासवः ।
रामचन्द्रानुभावेन संहत्याखिलवैभवैः ॥ ३०॥
अथाभ्ययाद्राघवेन्द्र शरण्यं
स्वर्गस्येशो भूरिजातापराधः ।
सस्वर्धेनुः सामरः सेभराजो
रामक्रोधे स्वाशुभं शङ्कमानः ॥ ३१॥
स प्रमोदवने गत्वा रामं कमललोचनम् ।
अग्रहीत् पादयोस्तूष्णीं शरणार्थी शरण्ययोः ॥ ३२॥
रामो ज्ञात्वा मघवासौ विशक्ति
र्मामभ्येत्य स्वाच्च माधावयिष्यन् ।
उत्तिष्ठेन्द्रेत्येवमाज्ञां चकार
प्रोत्थायासौ भूरि तुष्टाव रामम् ॥ ३३॥
देव क्षमस्व मम पातकमेतदेव
ज्ञातो भवान् न परमो यदिहावतीर्णः ।
रामः स्वयं स भगवान् अखिलांशमूल
भूतः पुराणपुरुषः पुरुषोत्तमस्त्वम् ॥ ३४॥
तस्मै नमोऽस्तु भवते पुरुषोत्तमाय
विद्यापि यं स्पृशति नैव महामुनीनाम् ।
स त्वं क्षमस्व भुवनेश ममापराध
मज्ञस्य तावकमहिम्नि महात्पबुद्धेः ॥ ३५॥
भक्तिं निजां वितर नाथ यथाविशुद्ध
स्त्वत्पादमूलमधुना शरणं व्रजामि ॥ ३६॥
नमस्ते ब्रह्मरूपाय पुरुषाय महात्मने
त्वामाश्रितानामशुचस्त्वया संरक्षितात्मनाम् ॥ ३७॥
जानाति यस्ते महिमानमीश
गुरुप्रसादेन विशुद्धचित्तः ।
तस्मै त्वमादर्शयसि स्वरूपं
सच्चिन्मुखं स्वानुभवैकगम्यम् ॥ ३८॥
इत्थं संस्तूय देवेन्द्रे सुरभिर्जातसम्भ्रमा ।
अस्तौषीज्जातमहिमा राममीशं परात्परम् ॥ ३९॥
सुरभिरुवाच ।
वत तव महिमानं गोचरीकर्तुमीशा
न खलु विधिशिवाद्याः कोऽयमिन्द्रो वराकः ।
कृतमिममपराधं मार्ष्टुमभ्यागताहं
तव चरणसरोजे राम निर्मञ्छनं स्याम् ॥ ४०॥
तव पद मनवद्यं भाति गोलोकतोऽर्द्धं
सुविमलमतिमृत्यु ब्रह्मरूपं पुराणम् ।
जनकनृपतिपुत्र्या सन्ततं सेव्यमानः
शुभगुणनिलयस्त्वं भ्राजसे यत्र नित्यम् ॥ ४१॥
दशरथनृपसूनो श्रीपते श्यामवर्ण
प्रणयरसपयोधे राम हे राघवेन्द्र ।
सपदि चरणयोस्ते पातितात्मानमेनां
कृपय कृपय शश्वन्मां निजैकान्तदासीम् ॥ ४२॥
श्रवणयुगनिपेयं तावकं राम नाम
क्षितितलमवतीर्यानन्तचारित्रजुष्टम् ।
सततमनुगृहाण स्वाङ्घ्रिसेवाभिलाषं
निजपदमतिमायं देहि मे राजसूनो ॥ ४३॥
नमस्ते ब्रह्मरूपाय नित्यानन्दमयाय च ।
स्वानामभयदानार्थमवतीर्णाय राघव ॥ ४४॥
इति स्तुत्वा परं देवं स्नेहस्नुतपयोधरा ।
तूष्णीं बभूव सा धेनुस्तवकं कर्तुमक्षमा ॥ ४५॥
इन्द्रस्तस्यास्तनोद्भूतैः पीयूषैः शीतलामलैः ।
स्नापयित्वा प्रभुं रामं प्रणम्य च मुहुर्मुहुः ॥ ४६॥
निरुद्धवाष्पनयनः प्रणयोद्रेककातरः ।
कृतभक्तिरनुज्ञातः सधेनुः स्वपदं ययौ ॥ ४७॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे इन्द्रमानभञ्जनं नाम द्वाविंशोऽध्यायः ॥ २२॥
४७/८९१
०२३. गोपीवरदानं नाम त्रयोविंशोऽध्यायः ।
ब्रह्मोवाच ।
ततस्ते प्रौढवयसः कुमारा मधुरत्विषः ।
धेनुपालनसोत्कण्ठा आसन् रामपुरोगमाः ॥ १॥
रामः परमधर्मात्मा गवेन्द्रसदने वसन् ।
धेनूः सम्पालयामास जनयन् गोकुले मुदम् ॥ २॥
गावस्तु ताः पाल्यमाना रामेण नयनोत्सवाः ।
बभूवुः प्रीतमनसस्तदेककृततुष्टयः ॥ ३॥
तासां चित्तं समभवद्रामैकाश्रयसंश्रयम् ।
चारणे दोहने ह्वाने बोधने सान्त्वने तथा ॥ ४॥
रामहस्ताम्बुजस्पर्शमुधासन्तोषनिर्वृताः ।
नान्यं प्रतीयुस्ता गावो गोपराजस्य गोकुले ॥ ५॥
रामः पालयमानस्ता नवत्यर्बुदकोटिगाः ।
शुशुभे राज्य (ज ?)वेषेण त्रैलोक्यस्यापि मोहनः ॥ ६॥
अथ प्रातः समुत्थाय मातृभिः कृतमण्डनः ।
आश्रितः सानुजो रामश्चचाल व्रजतो वनम् ॥ ७॥
गावः पुरस्कृत्य स जातदोहनाः
शृङ्गारवेशी मधुराकृतिं दधत् ।
गोपैस्तथा भ्रातृभिरात्तवेणुको
ययौ वनस्याभिमुखं वनप्रियः ॥ ८॥
स दिव्ये सरयूतीरे प्रसार्य निजगोधनम् ।
हरित्तृणं चारयाणः शुशुभे राज्य (ज ?)वेषभूत् ॥ ९॥
स कुर्वन् विविधा लीला गोपालैः समनुव्रतैः ।
वनाद्वनान्तरे गच्छन् मुमुदे केलिपण्डितः ॥ १०॥
जलक्रीडां क्वचित्कुर्वन् स्थलक्रीडां तथा क्वचित् ।
क्वचिद्धसन् क्वचिद् गायन् क्वचिद् वेणुरवं दधत् ॥ ११॥
क्वचिदन्योन्यकं कुर्वन् वयस्यैर्मल्लकर्म च ।
क्वचिद् द्रुमच्छायतले शयानः पुरुषोत्तमः ॥ १२॥
वीज्यमानः सेव्यमानः पादसंवाहनादिभिः ।
एवं स्वानां मुदं तन्वन् रेमे प्रमुदकानने ॥ १३॥
कदाचित् सरयूतीरे दिव्यमाम्रवनं महत् ।
श्रुत्वा जगाम तत्रैव लोलास्वच्छन्दमानसः ॥ १४॥
तत्र कश्चित् खरो नाम राक्षसेन्द्रो हि गर्वितः ।
महाबलो महाकायश्चुक्षुभे श्रुतकाहलः ॥ १५॥
प्रगायतां चालयतां च नृत्यतां
श्रीराघवेन्द्रानुगबालकानाम् ।
श्रुत्वा महान्तं रवमुत्पफाला
सुरः खराकारधरः सुदारुणः ॥ १६॥
स आगत्यामिलद्वेगाल्लक्ष्मणेनामितौजसा ।
मल्लकेलिं वितन्वानो युयुधे बलगर्वितः ॥ १७॥
लक्ष्मणस्तमुपादाय पश्चात्पादद्वयेन च ।
शिलायां पातयामास विगतासुरभूत्ततः ॥ १८॥
लक्ष्मणेन हते तस्मिन् रासभाकारराक्षसे ।
पुष्पवृष्टिं ददुर्देवा जयेति च गिरं मुदा ॥ १९॥
ततो रामः प्रसन्नात्मा सर्वा धेनूः कृताशनाः ।
पानार्थं सरयूं निन्ये प्रमोदवनपार्श्वतः ॥ २०॥
तस्याः सरय्वाः सुरसं महाकृष्णाहिदूषितम् ।
पीत्वा ता मूर्छिता भूत्वा गावः पेतुर्महीतले ॥ २१॥
हस्तस्पर्शेन रामोऽपि कृत्वा तासां गवां सुखम् ।
महता घोरयुद्धेन कृष्णाहिं निरवारयत् ॥ २२॥
ततः प्रभृति स व्यालमर्द्दनः कीर्तितो बुधैः ।
कदाचित् प्रातरशनमकृत्वैव रघूद्वहः ॥ २३॥
गतो गोचारणार्थाय भ्रातृभिर्बान्धवैः सह ।
तत्र सङ्क्षुधितो रामः प्रेषयामास बालकान् ॥ २४॥
अन्नार्थं सरयूतीरे यजमान द्विजाश्रमे ।
यजन्ते यत्र मुनयो ज्योतिष्टोमादिभिर्मखैः ॥ २५॥
ब्राह्मणाः कर्मनिपुणाः प्रमोदवनवासिनः ।
गत्वा तेषां यज्ञवाटं बालकाः रामचोदिताः ॥ २६॥
अन्नमभ्यर्थयाञ्चक्रुः स्वयं च क्षुधिता भृशम् ।
नोत्तरं ते ददुस्तेभ्यो यज्ञकाण्डक्रियाकुलाः ॥ २७॥
न वा ते नेति चैवोचुर्ब्राह्मणा जातमन्यवः ।
ततो निराशा भूत्वा ते रामस्य सविधे गताः ॥ २८॥
न नो ददति विप्रास्ते याचिता अपि भोजनम् ।
रामः स्मित्वाऽभवत्तूष्णीं तावत्तेषां द्विजन्मनाम् ॥ २९॥
पत्न्यो बह्वन्नमादाय रामसन्दर्शनोत्सुकाः ।
आययुः परमाह्लादाद् वार्यमाणा अपि प्रियैः ॥ ३०॥
तासां रामो दृष्टिसुखं महद्विश्लेषतापहम् ।
कालेन चात्मसायुज्यं सम्बन्धात् प्रेयसामपि ॥ ३१॥
कदाचित् कानने रामो ज्वलन्तं दावपावकम् ।
ययौ संरक्षणार्थाय स्वानां व्रजजनौकसाम् ॥ ३२॥
कदाचिद् गोपतिं रामो माङ्गल्यायाः पतिं विभुः ।
नीतं यमेन संस्नेहादानयत् सकलेश्वरः ॥ ३३॥
यमस्तं पूजयामास तुष्टाव विविधैस्तवैः ।
गृहीत्वा गोकुलेन्द्रं तं रामो गोकुलमाविशत् ॥ ३४॥
एवं स लोकपालानामैश्वर्याभिमतिं हरन् ।
विजह्रे भूरिविभवः प्रमोदविपिनान्तरे ॥ ३५॥
तत्प्रमोदवनं रेजे सर्वर्तुसुखसंयुतम् ।
तत्प्रमोदवनं रेजे सर्वर्तुसुखसंयुतम् ।
रामप्रभावतो नित्यं साक्षाल्लक्ष्मीनिकेतनम् ॥ ३६॥
तत्रत्या गोपनार्यस्ता रामप्रेमपरायणाः ।
आसन्निरुद्धहृदया वश्यमन्त्रावृता इव ॥ ३७॥
रामस्य सौन्दर्यमनङ्गकोटिभि
र्दुरापमाभीरवधूमनः सुखम् ।
विलोक्य रामास्त्रिषु लोकेषु
मुग्धा बभूवुरुचैवरहाकुलान्तराः ॥ ३८॥
आभीरवनिताः सर्वा रामदर्शनविह्वलाः ।
तमेव चैवं गायन्त्यो बभूवुः कामपीडिताः ॥ ३९॥
काश्चित्तु विलपन्त्योऽन्या धावन्त्यः काममोहिताः ।
पश्यन्त्यो विहसन्त्योऽन्या बभूवुर्मत्तमत्तवत् ॥ ४०॥
तासां विरहदुःखं तन्निवर्तयितुमुत्सुकः ।
रामसम्प्राप्तिसिद्ध्यर्थं दुर्वासामन्त्रमादिशत् ॥ ४१॥
मन्मथादिं राममन्त्रमात्रेयात् प्राप्य गोपिकाः ।
साधयामासुरत्युग्रव्रतबन्धेन पीडिताः ॥ ४२॥
शीतवातातपक्लेशं सहमाना व्रजाङ्गनाः ।
मन्त्रमाराधयाञ्चक्रुः प्रियसम्प्राप्तिहेतवे ॥ ४३॥
व्रतदुःखं विलोक्यासां फलरूपो रघूद्वहः ।
स्नातानां सरयूतीरे वरदानार्थमाययौ ॥ ४४॥
ता मन्त्रसाधनरतास्तपस्नानादिकर्शिताः ।
उवाच रघुशार्दूलः स्मरबाणैर्विमोहयन् ॥ ४५॥
श्रीराम उवाच ।
किमर्थं दुश्चरं घोरं तपः कुरुथ कन्यकाः ।
नोचितं कोमलाङ्गीनां भवतीनां सुमध्यमाः ॥ ४६॥
एषा वृत्तिर्मुनीनां हि कार्मिकाणां द्विजन्मनाम् ।
भवन्त्यः कमलातुल्याः किमिच्छथ मृगेक्षणाः ॥ ४७॥
यत् त्रैलोक्ये स्थितं वस्तु तदहं दातुमागतः ।
भवतीनां ततः कष्टं दृष्ट्वा प्रक्षुभितान्तरः ॥ ४८॥
गोपकन्या ऊचुः ।
त्वं नः परं प्रार्थनीयः कोटिकन्दर्पसुन्दरः ।
स्मितमाधुर्यमात्रेण मोहयन् हृदयानि नः ॥ ४९॥
त्वत्तोधिकं फलं राम त्रैलोक्येऽपि न दृश्यते ।
त्वमेव सर्वकल्याणमूलभूतो रघूद्वहः ॥ ५०॥
दासीनां किङ्करीणां नः पूरयस्व मनोरथम् ।
त्वमेव वरदश्चैव वरश्चैव प्रियोत्तम ॥ ५१॥
रामोवाच ।
भवतीनां न सुखाय वरोऽयं प्रतिभाति मे ।
नाहमन्याङ्गनासक्तः प्रतिज्ञा विदिता मम ॥ ५२॥
स्वात्मानन्दैकनिरतः सर्वस्याहं सुदुर्लभः ।
मदङ्गसङ्गिनी या श्रीः सा मां जानाति नित्यशः ॥ ५३॥
तस्याः संराधनं कृत्वा मामवाप्स्यथ कालतः ।
इत्युक्त्वा जानकीमन्त्रं तासामाचष्ट राघवः ॥ ५४॥
दुर्वाससं सुतं लब्ध्वाऽऽराधयाञ्चक्रुरङ्गनाः ।
त्वरितं सा ततः सीता प्रसादमकरोन्निजम् ॥ ५५॥
निजस्येष्टं वरं रामं ताभ्योऽदाद् व्रततोषिता ।
एवमाराध्य सीताया वरं लब्ध्वा व्रजाङ्गनाः ॥ ५६॥
सीतावेशधराः सर्वा राममासाद्य निर्वृताः ।
ताभिः सह ततो रामश्चक्रे केलीं मनोहराम् ॥ ५७॥
निजप्रियाया वशगः सर्वासां प्रीतिमावहत् ।
एकोऽपि बहुधा कृत्वा रूपाणि रसपोषकः ॥ ५८॥
प्रमोदकानने रेमे कामीव प्रणयाकुलः ॥ ५९॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे गोपीवरदानं नाम त्रयोविंशोऽध्यायः ॥ २३॥
५९/९५०
०२४. केलिवर्णनं नाम चतुर्विंशोऽध्यायः ।
ब्रह्मोवाच ।
परार्द्धस्मरलावण्यं बिभ्रत् सुन्दरविग्रहः ।
कामिनीनां कामरसं पोषयन् राघवो बभौ ॥ १॥
सीतयार्द्धाङ्गसङ्गिन्या सह केलिरसं दधत् ।
ज्योत्स्नया चन्द्रवद्रामो रेजे नक्षत्रमण्डले ॥ २॥
मुग्धानां गोकुलस्त्रीणां जानक्याविष्टचेतसाम् ।
समूहं रसयन् रामो बभाराकृतिसौष्ठवम् ॥ ३॥
यन्नेति नेतीति वदन्ति वेदाः
ब्रह्मादयो यन्न लेभुस्तपोभिः ।
तत्त्वं परं तच्छ्रुतिमूर्ध्वमृग्यं
व्रजाङ्गनाभिः करयोर्गृहीतम् ॥ ४॥
गुञ्जाहारं दधदुरसिलसच्छीर्षमायूरचन्द्रो
वेणुं बिम्बोष्ठदलकलितं बिभ्रदापूर्णनादम् ।
स्निग्धा च श्रीर्नट इव लसद्वेश सौन्दर्यसारो
बिभद्रामः प्रमुदविपिनं वल्लवीर्मोदयानः ॥ ५॥
द्विपरार्द्धावसानेऽपि नित्यं क्रीडति राघवः ।
नान्तोऽस्य नित्यलीलानां स्वानन्दरसरूपिणः ॥ ६॥
राघवो मोदयन् गोपीस्ता एव सपरिच्छदाः ।
एवं योगी वै रमते रामो रमयतां वरः ॥ ७॥
निर्विकारो ब्रह्मणोऽपि प्रतिष्ठा परमास्पदम् ।
नास्य कामेन कोपेन लोभेन च महात्मनः ॥ ८॥
मनोविकारः समभूद्यथा संसिद्धियोगिनः ।
इत्येवं रामदेवस्य बाललीलां शृणोति यः ॥ ९॥
अथाहमभिधास्यामि रामरासं मनोहरम् ॥ १०॥
अदृश्यं यत् सुरेन्द्राद्यैश्चकार रघुपुङ्गवः ।
कोटिकन्दर्पलावण्यविजयी रघुपुङ्गवः ॥ ११॥
रामकण्टकरूपांश्च महादैत्यानजीहनत् ।
तेषां वधेषु संविघ्नं सहसा विनिवारयन् ।
महावीरो रामचन्द्रश्चकारातीव विक्रमम् ॥ १२॥
रमणमनुदिनं यो रामचन्द्रस्य पूर्णं
प्रणतमतिरधीते मानवो रामभक्तः ।
स भवति शिवतुल्यो रामभक्त्या प्रपूर्णः
परमसुखनिमग्नश्चिन्मयानन्दरूपः ॥ १३॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे केलिवर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४॥
१३/९६३
०२५. रामरासो नाम पञ्चविंशोऽध्यायः ।
भुशुण्ड उवाच ।
श्रुत्वेदं रामचन्द्रस्य कौमारचरितं मम ।
मनः शीतलतामेति यद्वत् पीयूषधारया ॥ १॥
दत्त्वा वरं गोपिकानां नित्यमात्मप्रदं विधे ।
यच्चकार रघुश्रेष्ठस्तन्नः शंसितुमर्हसि ॥ २॥
चीर्णव्रतानां विप्राणां दण्डकारण्यवासिनाम् ।
यथा वरं ददौ रामस्तथा मे वद विस्तरात् ॥ ३॥
द्विपरार्धान्तेऽपि नित्यं सहजानन्दलोकगः ।
रासं चकार रामाभिः परमैश्वर्यभावितः ॥ ४॥
तत्रापि दिव्यरासे तु यानि यानि शुभानि च ।
चक्रे रासचरित्राणि तानि मे कथय प्रभो ॥ ५॥
एकपत्नीव्रते स्थित्वा सत्यं लोपितवान्न च ।
बहुकान्तारतिं दृष्ट्वा तथा न द्वेष्टि जानकी ॥ ६॥
तदेतत् कथयास्माकं रामचारित्रमद्भुतम् ।
शृण्वतो मे महान् हर्षो रोमभेदश्च जायते ॥ ७॥
गद्गदश्च तथा कण्ठे चित्तस्यैव च निर्वृतिः ।
अहो धन्या अमी देवा मदङ्गविनिवासिनः ॥ ८॥
ये पिबन्ति शुभं नित्यं रामचन्द्रकथामृतम् ।
धन्योऽहं कृतकृत्यश्च तिर्यग्योनिगतोऽपि सन् ॥ ९॥
यत्पिबाम्यमृतं ब्रह्मन् भवद्वदनविच्युतम् ।
ब्रह्मोवाच ।
अहो परिणता बुद्धिस्तव सम्यग्विभाति मे ॥ १०॥
पुनः पुनः प्रश्नयसि यद्राराघवपतेः कथाम् ।
वक्षाम्यहं तु वक्तव्यमवक्तव्यं कदाचन ॥ ११॥
गोपनीयं शुकेनापि यद् योगीन्द्रेण धीमता ।
कथामृतैककुण्डस्य चत्वारो रक्षका वयम् ॥ १२॥
अहं शुकश्च शेषश्च तथा देवी तु जानकी ।
न ब्रूमः सकलं तत्तु गोपनीयं प्रयत्नतः ॥ १३॥
वाचकान् घातयिष्यामि मातृजारप्रसङ्गवत् ।
अधिकारिणमालोक्य कथञ्चित् कथयामहे ॥ १४॥
पञ्चाधिकारिणोऽप्यत्र षष्ठो नैवोपलभ्यते ।
त्वमण्डजौत्तरेयश्च धरणी च पतिव्रता ॥ १५॥
सौमित्रेयश्चोर्ध्वरेता तथा मारुतनन्दनः ।
तुभ्यं मया समाख्याता कल्पेकल्पे युगे युगे ॥ १६॥
राममायाप्रभावेण पुनर्विस्मृतवानसि ।
शुकेन चौत्तरेयाय रामचारित्रमीर्यते ॥ १७॥
इहैव शुद्धसत्त्वाय गोलोके प्रेमभागिने ।
पुनश्च भगवान् शेषो व्याचष्टे धरणीं प्रति ॥ १८॥
लक्ष्मणाय तथा देवी जानकी प्रत्युवाच ह ।
तच्छ्रुत्वा सकलं प्रोक्तं लक्ष्मणेन हनूमते ॥ १९॥
पञ्चेमाः संहितास्तत्र सङ्क्षेपेण शृणु द्विज ।
भौशुण्डी परमेयं षट्त्रिंशत्साहस्रमीरिता ॥ २०॥
चत्वारिंशत्सहस्रं तु लक्षमात्र मुदीरितम् ।
हनुमत्संहितालक्षं वायुलोके विराजते ॥ २१॥
समुच्चयस्तु पञ्चानां मयोक्ता ब्रह्मसंहिता ।
इत्येवं रामचरितं शतकोटिप्रविस्तरम् ॥ २२॥
प्रतिकल्पं प्रतियुगं अन्यदन्यद् विभाव्यताम् ।
नान्तस्तस्य चरित्राणां कल्पकोटिशतैरपि ॥ २३॥
किञ्चित् समाधावालोक्य शृणु पुत्र निगद्यते ।
यत्पृष्टं तु त्वया गोपीरामयोः क्रीडनं परम् ॥ २४॥
तत्सुगोप्यं कथं वाच्यं वक्तास्यान्नारकी ध्रुवम् ।
अथापि शुद्धसत्त्वाय भक्ताय विमलात्मने ॥ २५॥
वाच्यमाचार्यवर्यैस्तु तच्छ्रुत्वा तत्परो भवेत् ।
सत्यं सत्यं मया नित्यं चिन्त्यते मूलमन्त्रवत् ॥ २६॥
तद्ध्यानामृतयोगेन तिष्ठाम्याकल्पमण्डज ।
तपस्तप्तं मया पूर्व तीव्रात्तीव्रतरं द्विज ॥ २७॥
तेन प्रसन्नः सीतेशः सदा मां दर्शनं ददौ ।
स्वलोकं दर्शयामास गोलोकात् परतस्तु यत् ॥ २८॥
तत्र रासविलासादि दृष्टवानहमद्भुतम् ।
प्रमोदविपिने पूर्वं रामश्चक्रे सुक्रीडनम् ॥ २९॥
तस्याप्यनुकृतिं कृष्णश्चक्रे वृन्दावने वने ।
श्रीरामो भगवान् पूर्णः कलाभिः पुरुषोत्तमः ॥ ३०॥
कोटिलक्ष्मीसहस्राणामंशिनी जनकात्मजा ।
एतयोरेव दिव्यांशौ राधाकृष्णात्मकौ व्रजे ॥ ३१॥
कालेकाले समुद्भय कुरुतः शाश्वतीं रतिम् ।
रामांशो भगवान् कृष्णः सीतांशो राधिकेश्वरी ॥ ३२॥
अन्याश्च सकला गोप्यस्तदंशांशा उदीरिताः ।
द्वारिकायां रुक्मिणीयं महालक्ष्मी महेश्वरी ॥ ३३॥
अन्याश्च सत्यभामाद्यास्तदंशाः सहजात्मिकाः ।
क्वचिदावेशरूपेण क्वचिदंशस्वरूपतः ॥ ३४॥
क्वचित् साक्षात् स्वयं सीता रमते प्रभुणा सह ।
सैव रासेश्वरी तेन रमते रासमण्डले ॥ ३५॥
एकधा शतधा चैव कृत्वा रूपाणि सन्ततम् ।
तच्चरित्रं महागोप्यं मया ज्ञातुं न शक्यते ॥ ३६॥
कुरु कल्पशतं तीव्रां तपश्चर्यां स्वशोधिकाम् ।
तदा ते तादृशी भक्तिर्भविष्यत्यनपायिनी ॥ ३७॥
तदा श्रीरामचारित्रं श्रोतुमर्हस्यशेषतः ।
नोचेन्मामेव शप्स्यन्ति योगीन्द्रास्ते शुकादयः ॥ ३८॥
अनधिकारिणे मा ब्रूयादित्युक्तं प्रभुणापि मे ।
इति ब्रह्मवचः श्रुत्वा भुशुण्डो नाम वै द्विजः ॥ ३९॥
महतीमार्त्तिमन्वार्च्छत् प्राणान्तेऽपि गरीयसीम् ।
आकाशवाक् समुद्भूता तदा संशृण्वतोस्तयोः ॥ ४०॥
ब्रूहि ब्रह्मन्नशेषेण मम चारित्रमद्भुतम् ।
रासलीलाविनोदाख्यं भक्तायाण्डजरूपिणे ॥ ४१॥
अयं हि सुमहान् योगी ममैकान्तरतिप्रियः ।
शान्तो दान्तस्तितिक्षश्च कोटिकल्पकृतश्रमः ॥ ४२॥
मद्भक्तो मत्परः शान्तो मदर्थत्यक्तसंस्मृतिः ।
एकान्तचारी विनयी भक्तानां प्रीतिवर्द्धनः ॥ ४३॥
ज्ञापयास्मै विशेषेण रामचारित्रमद्भुतम् ।
पीत्वा पीयूषवत् सर्वं नान्यस्मै कथयिष्यति ॥ ४४॥
इति दैवीं गिरं श्रुत्वा ब्रह्मा सञ्जातसम्भ्रमः ।
सम्पूज्य द्विजमाचष्टे रामलीलां मनोहराम् ॥ ४५॥
एतामैकान्तिकीं लीलां यो ब्रूयादनधिकारिणे ।
स पच्येत महाघोरे नरके दैवचोदितः ॥ ४६॥
(यः)कृष्णैकान्ततरो भक्तो रामभक्तिविवर्जितः ।
तस्मै न कथयेदेतां लीलां विश्वस्य पावनीम् ॥ ४७॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम पञ्चविंशोऽध्यायः ॥ २५॥
४७/१०१०
०२६. रामरासो नाम षड्विंशोऽध्यायः ।
ब्रह्मोवाच
शृणु द्विज प्रमाणज्ञ रामलीलां मनोहराम् ।
दिव्यराससमायुक्तां सीताकौतुकवर्द्धिनीम् ॥ १॥
सर्वेऽप्यग्निकुमारास्ते षष्टिसाहस्रसङ्ख्यकाः ।
रामलीलारसाभिज्ञाः प्रापुर्निजतपः फलम् ॥ २॥
कल्पं सारस्वतं प्राप्य दण्डकारण्यवासिनः ।
श्रुतयश्चैव सञ्जाता गोपीरूपेण गोकुले ॥ ३॥
रामरूपमनुप्रापुः सरय्वास्तटयोर्द्वयोः ।
प्रमोदवनवासिन्यो जानक्याश्च महाप्रियाः ॥ ४॥
रामतत्त्वमनुप्राप्य मुमुहुः कामभाविताः ।
अन्याश्च दिव्यललना दिव्यरूपसमन्विताः ॥ ५॥
कृत्वा तपो वरं लब्ध्वा दिव्यमापुर्मनोरथम् ।
ततो निजवरं सत्यं कत्तु रामो महामनाः ॥ ६॥
कामतत्त्वेन ताः सर्वा रमयामास गोपिकाः ।
अथ प्रादुरभूत् कामः सहजानन्दलक्षणः ॥ ७॥
जानकीं वेपयामास सहजानन्दरूपिणीम् ।
सा वेपिता कामशरैः प्रादुर्भूय रघूद्वहात् ॥ ८॥
दिव्यवेशधरा भूत्वा क्षोभयामास राघवम् ।
सङ्क्षुब्धः कामबाणेन तामालिङ्गितुमीयिवान् ॥ ९॥
तमायान्तं समालोक्य स्वयमन्तर्बभूव सा ।
अथ खिन्नो राजसूनुर्विरहेण मृगीदृशः ॥ १०॥
इतस्ततो भ्राम्यमाणो दिशः शून्या विलोकयन् ।
पाण्डुक्षामवपुः साश्रुस्तब्धः पुलकपूरितः ॥ ११॥
दिने दिने व्यथापूर्णः प्रलीनसकलेन्द्रियः ।
पद्मपत्रविशालाक्षीं तामेव निजवल्लभाम् ॥ १२॥
ध्यायमानोऽन्तरा दृष्ट्या बहिः शून्याखिलक्रियः ।
अशुष्यद्राजतनयो दीर्यमाणः स्ववक्षसि ॥ १३॥
क्वचिच्चन्द्रमुपालेभे पूर्णबिम्बं सुधामयम् ।
क्वचित् पद्मवनं दृष्ट्वा दुःखी नेत्रे न्यमीलयत् ॥ १४॥
क्वचित् कैरविणीं वीक्ष्य बभूव च पराङ्मुखः ।
क्वचिद् रम्भावनं दृष्ट्वा स्पृष्ट्वा प्राद्रवदातुरः ॥ १५॥
क्वचित् कुञ्जलतां दृष्ट्वा वक्तुं समुपचक्रमे ।
क्वचिद् वसन्तमालोक्य मेने दावानलं विभुः ॥ १६॥
क्वचिदेकान्तसदने तामुपालभत प्रियाम् ।
अये ! कठोरहृदये दृप्ते जनकनन्दिनि ॥ १७॥
व्यथमानहृदं दृष्ट्वा नाद्यापि करुणा तव ।
सकृन्मे दर्शनं दत्त्वा महाविरहवर्धनम् ॥ १८॥
अन्तर्हिता त्वं किं ब्रूमः प्रेमशून्यकठोरताम् ।
क्वचिदाकाशमालिङ्ग्य प्रियाबुद्ध्या मुमोद सः ॥ १९॥
क्वचिन्नवदलं दृष्ट्वा चक्रे चुम्बनगां धियम् ।
क्वचित् खिन्नमनाः श्रान्तो शय्यामालिङ्ग्य संश्रितः ॥ २०॥
क्वचिद्धसन् क्वचिद्धावन् क्वचित् क्रीडारसं दधत् ।
क्वचिदुन्मत्तवज्जल्पन् क्वचित् कुर्वन् मनोरथान् ॥ २१॥
नैव लेभे रतिं क्वापि प्रियाध्यानपरायणः ।
सरयूघोष वासिन्यो दिव्याश्च ललनागणाः ॥ २२॥
रामनायकमालोक्य बभूवुः कामपीडिताः ।
काश्चित्तद्गुणमाकर्ण्य बभूवुः काममोहिताः ॥ २३॥
काश्चित् साक्षादमुं दृष्ट्वा निपेतुर्भृशमूर्छिताः ।
काश्चिच्चित्रगतं दृष्ट्वा जाताः कामशरार्दिताः ॥ २४॥
काश्चित् स्वप्ने समालोक्य पीडामापुः सुदुःसहाम् ।
एवं रामगुणाकृष्टाः समस्ता वामलोचनाः ॥ २५॥
विरहार्त्ताः श्रितैकान्ता दूतीभिः संन्यवेदयन् ।
तासां दूत्यो राममेत्य प्रोचुर्विरहजां व्यथाम् ॥ २६॥
दूत्य ऊचुः ।
अयि सुन्दर राघवोत्तम
त्वमसि प्रेमभरैकभाजनम् ।
वनिताः स्मरबाणवेपिताः
सदय त्वं परिपालय प्रभो ॥ २७॥
तव रूपविमोहिताः स्त्रियः
कलिताः कामकरे कृताशयाः ।
कुलशीलविलज्जयातुराः
पथि रुद्धाः सरितो यथाभवन् ॥ २८॥
अयि राजकुमार सम्प्रति
व्यथितप्राणविमोचनोद्धुराः ।
न निभालयसे किमीदृशीः
करुणावारिनिधिः स्वयं भवान् ॥ २९॥
अथ ते कठिनं यदा मनो
व्रजरामाननवीक्षणाक्षमम् ।
मरणं तदिमा मृगीदृशः
कलयिष्यन्ति विगर्हितं भुवि ॥ ३०॥
अयि कामपरार्द्धसुन्दर
त्रिजगन्मोहनमञ्जुलाकृते ।
मृत एष मृगीदृशीगणः
प्रणयश्रीपरिपालकस्तव ॥ ३१॥
अयि मन्मथमोहनाकृते
किमियं ते प्रकृतिर्दुरत्यया ।
यदमूर्ललना निजाधरा
मृतपानेन न जीवयस्युत ॥ ३२॥
वनितावधपातकोद्भवं भय
मास्ते भवतोऽथवा न वा ।
रघुवंशविभूषणो भवान्
कथमत्युग्रमधर्ममाश्रितः ॥ ३३॥
चरणाम्बुजनिर्गलन्मधुद्रव
धारासुखितान्तराश्रयाः ।
मुनयोऽपि भवद्गुणामृतं
ननु गायन्ति रजस्तमोलयाः ॥ ३४॥
अयि राघववर्यधुर्य ते
चरणाम्भोजपरागकाङ्क्षिणीः ।
अबला मदनेन घातयन्
हृदि चिन्तां महतीमवाप्स्यसि ॥ ३५॥
शिशुनैव विमोहितान्तरा
वनितास्ता व्रतबन्धकर्शिताः ।
भवता वरदाननिर्वृता
वचनेनैव न वञ्चिताः किमु ॥ ३६॥
इदमीदृशबालभाषितं
धरणौ सम्प्रति विश्वसेत कः ।
अथ विश्वसनीयभाषितो
दयितो यद्यसि तत् प्रसीद भोः ॥ ३७॥
निजशैशवकर्मविस्मरन्
वरदानं यदि विस्मृतोऽसि भोः ।
तदिमा युवराज सम्प्रति
प्रणयेनैव सुनिर्वृताः कुरु ॥ ३८॥
यदिचेच्छरणागता अमूः
परिपातुं क्षमते न ते मनः ।
भवतः सुचिरस्थिरं व्रतं
गतमेव प्रतिभाति मेऽधुना ॥ ३९॥
शरणागतपालनव्रतं
यदि ते सुस्थिरमस्ति राघव ।
तदिमा रघुराज कन्यका
विरहाम्भोनिधितः समुद्धर ॥ ४०॥
प्रभुणा करुणावता त्वया
न विलम्बः करणीय एव चेत् ।
परिपालय घोषसुन्दरी
र्निजनाथाः स्मरबाणपीडिताः ॥ ४१॥
रघुनाथ भवान् भवार्णवे
प्रकटोऽभूर्निजसौख्यहेतवे ।
स कथं निजनाथसुन्दरी
निवहं संव्यथयन् न लज्जते ॥ ४२॥
इति शुश्रुम देवकार्यकृत्
कृतवेशः पुरुषोत्तमो भवान् ।
तदिमाः सुरलोकसुन्दरीः
विरहार्ताः परिपालय प्रभो ॥ ४३॥
परिपालय नाथ सेवकान्
निजलावण्यसुधैकसंश्रयात् ।
इति ते विरुदावली यथा
न विशीर्येत् करुणारसाम्बुधे ॥ ४४॥
स्मरसुन्दर कापि मूर्च्छिता
प्रमदं कापि तनोति मन्त्रवित् ।
मुहुरेव च कापि धावति
त्रपया कापि निरोधिताभवत् ॥ ४५॥
प्रलपत्यपि कापि भूरिशः
करुणां कापि निभालते तनुम् ।
जडवत् प्रणयेन काप्यभूद्
बहुशः खिद्यति राम काचन ॥ ४६॥
पुलकानि बिभर्ति काचन
स्वरभङ्गं कुरुते च काचन ।
प्रणयेन च कापि कम्पते
मलिनाङ्गी खलु राम काप्यभूत् ॥ ४७॥
अथ कापि करोति रोदनं
पृथुमुक्ताफललोचनाश्रुभिः ।
प्रिय कापि विलीनवृत्तिका
भुवनं शून्यमिवैव वीक्ष्यते ॥ ४८॥
इति नित्यमुपस्थितं महत्
कदनं घोषपुरीमृगीदृशाम् ।
कृपया क्षपयातिकोमल
प्रकृते राम धनुर्धराग्रणीः ॥ ४९॥
अयि राम धनुर्धराग्रणीः
प्रसभं राजकुमार पालय ।
नहि चेन्निहनिष्यते स्मरो
निजनाथाः खलु घोषसुन्दरीः ॥ ५०॥
महतीं श्रियमाप्तवानसि
स्मरसि त्वं किमु धेनुधोरणीः ।
अधुनापि तवैव गोपते हृदि
वाञ्छन्ति गवेन्द्रतां प्रभो ॥ ५१॥
सततोत्सवभूरिभाग्यवा
नसि साकेतपुरीपतेः सुतः ।
न भवन्तमिह त्यजन्त्यमी
स्वसखायः खलु गोपपुत्रकाः ॥ ५२॥
महती खलु राम वर्तते
भवतः श्रीर्गुरुगोपवेश्मसु ।
न तथा हृदयं धिनोत्यसौ
नृप सम्पत्तिरपारकुञ्जरा ॥ ५३॥
पितृतो भवते प्रदर्शिता
कमला कोटिगतौघसेविता ।
किमु विस्मरणे भविष्यति
प्रणयावद्धगवेन्द्रवेश्मनः ॥ ५४॥
जननी तव गोपसुन्दरी
रघुवर्य त्वयि पुत्रवत्सला ।
त्वमपि स्फुटराज्यसम्पदं
प्रणयेनैव विधूय संस्थितः ॥ ५५॥
इति राम विगर्हणं तव
प्रकटं प्रेमवशेन कथ्यते ।
नृपपुत्र न चेत् त्वमीश्वरः
किमु लोके सुलभोऽसि मृग्यताम् ॥ ५६॥
नवनीतसमूहतस्करो
व्रजरामापरिरम्भपेशलः ।
सुलभोऽप्यसि घोषभूषण
स्वकलीलारसमात्रकौतुकी ॥ ५७॥
इति दूत्यपरायणाशयै
र्व्रजदूतीनिवहैरुदीरितम् ।
वचनं सुनिशम्य राघवः
प्रहसन् प्राह मनोज्ञया गिरा ॥ ५८॥
श्रीराम उवाच ।
सात्यन्तं मे प्रिया सीता हृद्गता बहिरुद्गता ।
मोहयित्वा सहृदयं हाहा कुत्र गता जवात् ॥ ५९॥
न तां विना क्षणं स्थास्याम्यहमीशोऽपि सम्पदाम् ।
सा मे विगर्हणं कुर्याद्यदि क्रीडेयमन्यतः ॥ ६०॥
तद्भ्रूविजृम्भवशगो बिभेमि व्रजदूतिकाः ।
तत्स्वीकृतिमहं कृत्वा श्रोष्याम्यन्याभिवाञ्छितम् ॥ ६१॥
जनकस्य गृहे जाता सा मे स्वप्नगताऽब्रवीत् ।
तां त्यक्त्वा कथमन्यासु कुर्वीय प्रणयोत्सवम् ॥ ६२॥
सा मे यदि प्रकुप्येत तदा किं मे भवेदिति ।
मुहुः सञ्चिन्त्य नान्यासां प्रणयं पालितुं क्षमः ॥ ६३॥
तद् व्रूत मद्वचस्तत्र गत्वा यूयं सुदूतिकाः ।
आश्वासयत ताः कान्ता भूयो मद्विरहातुराः ॥ ६४॥
भवतीभ्यो वरं दत्तं स्मरामि व्रजयोषितः ।
तत्र कालं प्रतीक्षध्वं यावत् सीतासमागमः ॥ ६५॥
तथाहं विधिवत् कृत्वा भूयः परिणयोत्सवम् ।
तस्यै महापदं दत्त्वा महिषीत्वेन भावितम् ॥ ६६॥
भवतीभिस्ततः सङ्गं करिष्यामि व्रजाङ्गनाः ।
इत्येवं भाषमाणे तु तस्मिन् राघवपुङ्गवे ॥ ६७॥
आययुर्मुनयः सर्वे दूतीनां पुरतः स्थिताः ।
स्थूलाक्षः शर्कराक्षश्च कम्बुर्मेधातिथिः शुकः ॥ ६८॥
नारदः पर्वतश्चैव सुधर्मा चैकलो द्विजः ।
मित्रभवनोऽप्यथो धौम्यः शतानन्दो विशारदः ॥ ६९॥
जमदग्निस्तथा रामो वशिष्ठो वामदेवकः ।
अन्ये चैव तपोवीराः प्रादुरासुर्मुनीश्वराः ॥ ७०॥
जाबालिः पिप्पलादश्च शाण्डिल्यो लोहितस्तथा ।
उद्दालको देवलश्च लोमशश्च महामुनिः ।
ते तत्र बोधयामासुर्धर्मज्ञं रघुपुङ्गवम् ॥ ७१॥
सुनय ऊचुः ।
शृणु राम महाबाहो नैव वक्तुमिहार्हसि ।
त्वदङ्गसङ्गिनी सीता नोद्वाहं समुपेक्षते ॥ ७२॥
शैशवे शिशुरूपा सा तारुण्ये तरुणाकृतिः ।
तिरोभावे तिरोभूताविर्भावे प्रकटाकृतिः ॥ ७३॥
चन्द्रेण चन्द्रिकेवासौ त्वयैव सह वर्तते ।
गच्छ राम मनोज्ञं तत् प्रमोदवनमुत्तमम् ॥ ७४॥
तत्रस्था व्रजदेवीश्च रमयस्व चिरं प्रभो ।
ता एव प्रथमं तस्याः करिष्यन्ति विकैतवम् ॥ ७५॥
दूत्यं तया भवत्सङ्गं कारयिष्यन्ति योषितः ।
तास्वाविष्टा ततः सीता रंस्यते भवता समम् ॥ ७६॥
स्वयं च रंस्यते साक्षात् सीता सहजसुन्दरी ।
नात्र त्वया क्वचित् कार्यो विकल्पो रघुनन्दन ॥ ७७॥
तासामेव हितार्थाय भक्तानां व्रजयोषिताम् ।
त्वत्तः प्रादुरभूदेवा भेदेन दर्शनं गता ॥ ७८॥
पुनश्चान्तर्हिता भूत्वा प्रमोदवनमागता ।
तत्र सा शोभते नित्यं सरयूतीरवासिनी ॥ ७९॥
प्रमोदवनमध्यस्था तद्देवीभिश्च पूजिता ।
तासां मध्येऽनिशं भाति प्रमोदवनदेवता ॥ ८०॥
रक्ताशोकलताकुञ्जं सीतासौ तत्र कानने ।
त्वं तात गच्छ तत्रैव पूरयस्व मनोरथान् ॥ ८१॥
नेत्रोत्सवं तथास्माकं देहि राघवपुङ्गव ।
त्रैलोक्ये च महामोदं वर्द्धयस्व महामते ॥ ८२॥
नातो विलम्बनं कार्यं वयं दूत्यमुपागताः ।
तत्रैव सीतया सार्द्धं शोभन्ते व्रजयोषितः ॥ ८३॥
श्रुतिरूपा नित्यसिद्धा अग्निपुत्राश्च योगिनः ।
अन्ये च दिव्यमुनयो वाञ्छन्ति भवदागमम् ॥ ८४॥
योषिद्रूपं विधायैते कामेन क्षुभिताशयाः ।
त्वामेव नित्यं वाञ्छन्ति तत्र गच्छाधुना प्रभो ॥ ८५॥
इति तेषां वचः श्रुत्वा रामः प्रहसिताननः ।
महान्तमुत्सवं कृत्वा सर्वांस्तान् विससर्ज ह ॥ ८६॥
ओमित्युक्त्वा दूतिकाश्च विससर्ज नृपात्मजः ।
दूत्योऽपि तेन वाग्वन्धं कृत्वा प्रमुदिताशयाः ॥ ८७॥
आयाति भवतीनां वै नाथः सञ्जातकौतुकः ।
इति ताभ्यो व्रजस्त्रीभ्यः पृथक् सत्यं न्यवेदयन् ॥ ८८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम षड्विंशोऽध्यायः ॥ २६॥
८८/१०९८
०२७. रामरासो नाम सप्तविंशोऽध्यायः ।
अथागमच्छरत्कालः प्रमोदवनमध्यतः ।
उत्फुल्लपङ्कजवनः परागोद्धूलिताम्बरः ॥ १॥
सप्तच्छदोग्र सौगन्ध्यसमूहोन्मत्तदिग्गजः ।
मृदुचन्द्रकरस्पर्शसहजोत्फुल्लकैरवः ॥ २॥
उत्फुल्लमल्लिकावल्लीकुसुमस्तवकान्वितः ।
खेलत्खञ्जनदाम्पत्यसम्भ्रमोद्भूतमन्मथः ॥ ३॥
चकोरीवदनान्तःस्थ निशाकरकरामृतः
हंसकारण्डवाक्रीडसलिलोद्धरणोद्धुरः ॥ ४॥
कञ्जकिञ्जल्कपुञ्जान्तर्लीनप्रचुरषट्पदः
काशपुष्पप्रतीकाशचमरीपुच्छमण्डलः ॥ ५॥
प्रमोदवनसम्फुल्लमालतीसौरभान्वितः ।
सन्ततस्वच्छसरयूसलिलाचितबालुकः ॥ ६॥
गोपगोपीहृदुत्साहवर्द्धनः पुष्टिकारकः ।
दृष्ट्वेदृशं तु समयं रामो रमणकोविदः ॥ ७॥
गोधोरणीं पुरस्कृत्य प्रमोदवनमागमत् ।
तत्र गत्वा कृताकल्पः सहजोत्सवसुन्दरः ॥ ८॥
अङ्गलावण्यसन्दोहप्रकाशितदिगन्तरः ।
गोपानुवाच सकलान् भ्रातॄंश्च लक्ष्मणादिकान् ॥ ९॥
हे लक्ष्मण गवां गोष्ठं रच्यतां परितोऽत्र वै ।
गोपैः सार्द्धं शाद्वलानि चार्य्यतां मम धेनवः ॥ १०॥
अहमत्र करिष्यामि प्रमोदविपिनान्तरे ।
पूजां कामेश्वरस्याङ्ग देवदेवस्य सन्ततम् ॥ ११॥
भरतेन च शत्रुघ्न सार्धं त्वं गाश्च चारय ।
अत्र स्यात् कोऽपि चेद्विघ्नः प्रतीकार्यस्तथैव सः ॥ १२॥
प्रमोदवनकुञ्जेषु करिष्यामि मनोरथम् ।
ओमित्युक्तवन्तमथो विसृज्य लक्ष्मणं च तान् ॥ १३॥
अन्तः प्रमोदविपिनमियाय रघुनन्दनः ।
तत्र गत्वा शशिज्योत्स्ना विसतन्तुपटोज्ज्वलाः ॥ १४॥
सुधामयीः शरत्पूर्णा रजनीराजुहाव सः ।
द्विपरार्धान्तेऽपि नित्यास्तास्तस्य पुरतोऽभवन् ॥ १५॥
तासु क्रीडनमारेभे दिव्यकेलीविशारदः ।
तत्र स्थित्वा महाकुञ्ज जुगुञ्ज कलवेणुना ॥ १६॥
तत्र वेणुरवे गानमकरोदिदमादरात् ।
इत्येहि जनकनन्दिनि मदन्तः
सन्तापहरणचन्द्रिकावतारविग्रहे
मदङ्गसञ्जातप्रमोदवनलहरीलीलायितगते
सहजचिदानन्दमयतारुण्य
विलासवैभवाधिवासिते ॥ १७॥
चिल्लोकस्वामिनि कामिनीजनगर्वापहार
मकरध्वजपताके वेदिमध्ये महामत्तमातङ्गगामिनि
राकेशप्रभावलेपनिर्वहणवदनकान्ते
कैशोरलीलामतिलङ्घ्यवर्तमाने ॥ १८॥
प्रमोदवनवृन्दावन-मन्दारवन-कदम्बवन-पारिजातवनेश्वरि
कुञ्जभुवनेश्वरि रक्ताशोकलतामण्डपमध्यस्थे स्मरमन्त्रमहाविद्ये
श्रीमन्त्रविद्ये महामन्त्रविद्ये महाश्रीयन्त्रनायिके महाचक्रनायिके
मातङ्गकुलपूजनीयचिन्तामणिचरणनखचन्द्रिके ॥ १९॥
चञ्चलापाङ्गसङ्क्षोभितकोटिकन्दर्पकामिनीहृदये
कोटिब्रह्माण्डकमलासमुच्चयरूपविग्रहे
मन्दस्मितमात्रनिरस्तविरहशोके हा भामिनि
हा चण्डि हात्यन्तकोपने हातिशयदुराराध्यशीले
भूलीलादिविविधाकारावान्तरावतारातिनिमग्नमानसे क्वासि क्वासीति
ॐ ॐ ओं ॐ आनन्दवल्लिके क्वासि क्वासीति जगौ ॥ २०॥
ततस्तदाकर्ण्य सुवेणुनिःस्वनं
प्रियोदितं मन्मथवेग वर्द्धनम् ।
स्मरोन्मदप्रोद्धतमानसा बहि
र्हृदन्तरादाविरभून्नितम्बिनी ॥ २१॥
अशोकवल्लीवनमण्डपान्तराद्
विनिःसरन्ती सहजारुणांशुका ।
घटस्तनी सन्मणिहारभूषणा
स्फुरत्पदन्यासविरञ्चितावनिः ॥ २२॥
मरालगत्यञ्चितमञ्जुविग्रहा
नितम्बभारोद्वहनाक्षमा रमा ।
मृदुस्मितदद्योतविभासितानना
मनोहरापाङ्गविभूषितेक्षणा ॥ २३॥
अनर्घ्यकाञ्चीगुणनादिघण्टिका
मनोज्ञकेयूरविलम्बिदोर्लता ।
त्रपानिमग्ना कलितावगुण्ठना
सुवृत्तदीव्यज्जघनप्रभाम्बरा ॥ २४॥
सुकण्ठकण्ठी शुभसूत्रशोभिता
सभागसौभाग्यसमूहसङ्गता ।
समानशीलैः प्रचुरैः सखीजनैः
सनाथपर्यन्तपुरस्थलस्थिता ॥ २५॥
परिस्फुरच्चारुकपोलमण्डन
प्रतिष्ठताटङ्कमणिप्रभाभरा ।
प्रसूनचित्रीकृतचारुवेणिका
सुनासिकाशोभिमहामणित्रया ॥ २६॥
सुमञ्जुसिन्दूरसमूहसुन्दर
प्रसर्पिसीमन्तितरत्नपट्टिका ।
ललाटपर्यन्तविराजिभूषण
प्रभासमूहैः परिवेपितानना ॥ २७॥
सा राघवेन्द्रस्य जवेन सन्निधौ
समेत्य कण्ठे मणिमालिकामधात् ।
तयोर्विनिर्वृत्य विवाहमङ्गलं
सखीजनः कुञ्जगृहे विधानवित् ॥ २८॥
प्रवर्तयामास मिथो रतिक्रियां
नवीनसङ्गोद्यदनङ्गकौतुकाम् ।
ततस्तयोस्तत्र दिने दिनेऽभव
न्महोत्सवः पूर्णसखीमनोरथः ॥ २९॥
शृङ्गारयामास रघूद्वहः प्रियां
प्रियापि तं दिव्ययुवानमादरात् ।
एवं तदन्योन्यमभूत् कुतूहलं
दाम्पत्यभावप्रणयेन सञ्चितम् ॥ ३०॥
परस्परालापनिरीक्षणादिषु
प्रवृद्ध उच्चैः प्रणयस्य वारिधिः ।
अभूदमर्यादतरः समन्ततो
यथान्यवार्ता धरणीं समाक्रमत् ॥ ३१॥
साकेतनगरद्वारा रासभूः सहवेश्मसु ।
सरयूतटकुञ्जेषु रत्नपर्वतसानुषु ॥ ३२॥
क्रीडास्थानेषु दिव्येषु महासाम्राज्यभूतिषु ।
वाटिकातटवापीषु प्रमोदवनमध्यतः ॥ ३३॥
दधौ केलिरसं रामो रामया सह सन्ततम् ।
क्वचिद् गुञ्जाविभूषाढ्यो वनमालाविभूषणः ॥ ३४॥
मयूरचन्द्रिकोत्तंसी वितेने नयनोत्सवम् ।
क्वचिच्चन्दनकाश्मीरमकरीपत्रचित्रितः ॥ ३५॥
रत्नाकल्पमनोहारी चकारातीव सम्पदम् ।
क्वचिच्च कनकोष्णीषरत्नस्तवकशोभितः ॥ ३६॥
हेमकञ्चुकलिप्ताङ्गो रेजे राजोत्तमो यथा ।
क्वचित् पीताम्बरधरः शुभ्रधौत्रविराजितः ॥ ३७॥
आबद्धचूडाचिकुरश्चकार प्रियया मुदम् ।
क्वचिच्च मल्लकच्छाढ्यः सुवर्णधृतकुण्डलः ॥ ३८॥
करस्थवलयोल्लासी रराज रघुनन्दनः ।
क्वचिन्नासामणिभ्राजी श्रीमदाननमण्डलः ॥ ३९॥
प्रियाकल्पितपुंवेशो रेजे श्रीरामचन्द्रमाः ।
क्वचित् किरातवेशेन सन्नद्धललनासखः ।
मृगयाभिरतिर्वीरो व्यरोचत वनान्तरे ॥ ४०॥
एवं विचित्ररचनान्वितकेलिकारः
कन्दर्पकोटिकमनीयकलाकलापः ।
दासीजनप्रतिविभूषितदिव्यरामा
तारुण्यमोदमदिरारसपानमत्तः ॥ ४१॥
अन्योन्यमुज्ज्वलरसोदधिहावभाव
रिङ्गत्तरङ्गशतसान्द्रतरार्द्रमूर्त्तिः ।
चक्रे विलासरसिको विविधान् विलासान्
श्रीमत्प्रमोदवनकुञ्जगृहे सुरम्ये ॥ ४२॥
इत्यं विहरतस्तस्य रामया सीतया सह ।
द्विपरार्द्धन्तिमभवद् ब्रह्मणो रजनी हि सा ॥ ४३॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम सप्तविंशोऽध्यायः ॥ २७॥
४३/११४१
०२८. रामरासो नाम अष्टाविंशोऽध्यायः ।
ततः प्रवर्तते घोरं तमो भावपिधायकम् ।
रवेरस्तमभूत्तेजः शशुभे ज्योतिषां गणः ॥ १॥
तारकौघाः प्रादुरासन्नुलूकाः सम्प्रपेदिरे ।
पद्मकोशान्तरे बद्धाः जुगुञ्जर्न मधुव्रताः ॥ २॥
मधुरोल्लाससंशोभि बभौ कैरविणीवनं
विटपेषु च निद्राणाः पतङ्गा न च भाषिरे ।
संवीक्ष्य तामसीं वेलां रामः प्रोवाच जानकीम् ॥ ३॥
जनकनन्दिनि सम्प्रति वर्तते
रजनिरुत्सुककोकगणार्तिदा ।
स्फुरदुलूककदम्बकमोद
कृत्तिमिरघोरपटावृतकानना ॥ ४॥
कटु रटन्ति च सम्प्रति फेरवाः
सुकलहंसरवश्च तिरोहितः ।
श्रवणयोः कुरुते कटुतामसौ
किमपि चक्रवधू निवहारवः ॥ ५॥
न खलु सम्प्रति वञ्जुलकाननं
विकसितं वितनोति दृगुत्सवम् ।
कुमुदिनी प्रविभर्त्ति विकासितां
वितथसौरभसम्पदुपेक्षिता ॥ ६॥
किमपि गायति च भ्रमरावली
विकटकुञ्जलतावनवेश्मसु ।
दधति रत्नगिरेस्तटभूमय
स्तिमिरसङ्घकृतं स्वपराभवम् ॥ ७॥
इति निशम्य निशागमवर्णनं
जनकजा समभाषत वल्लभम् ।
इयमहो रजनी न निवर्तते
प्रलय एष विधेरपि नाशकः ॥ ८॥
भजति भूतगणः प्रकृतिं परां
प्रकृतिरेति परे पुरुषे लयम् ।
पुरुष एति भवन्तममुं परं
निजविलासरतं पुरुषोत्तमम् ॥ ९॥
त्वमधुनापि रतेर्न निवर्तसे
सहजचित्सुखकेलिकलानिधिः ।
यदपि नाथ गता लयमीदृशाः
शतश एव विरञ्चिहरीश्वराः ॥ १०॥
त्वमवधिः परमं पुरुषोत्तमः
सततकालकलाकलनात्मकः ।
प्रिय भवन्तमुपेत्य गतोऽ
प्यसावगत एव विवात्यत इत्यहो ॥ ११॥
अहमपि प्रभुणा भवता सह
प्रमुदकाननकुञ्जविलासिनी ।
न कलये प्रणयेन च सम्भवं
न विरतिं सुखकेलिमहोत्सवे ॥ १२॥
अथ यदि स्वपनस्पृहया प्रभो
किमपि ते नयनेऽलसपक्ष्मणी ।
तदहमप्यधुना स्वपिमि क्षणं
भवदुदारभुजान्तरवर्त्तिनी ॥ १३॥
भवदुरोनयनानननासिका
हृदयपाणिपदावयवाश्रिता ।
विरचयामि सुषुप्तिरिवोछ्वस
न्निगमशब्दमयीं विरतिं न किम् ॥ १४॥
निधुवनान्तमिता श्लथविग्रहा
स्वपिमि नाथ कदा भवता समम् ।
स्वदयितस्य सुषुप्तिदशाजुष
स्तव मुखेन्दुनिरीक्षणं मक्षमा ॥ १५॥
नहि निमीलितलोचनपङ्कजो
ऽप्यथ भवानपि मां परिमुञ्चसि ।
सुखसुयन्त्रितदोःपरिरम्भण
प्रणयकेलिकलाकुलविग्रहः ॥ १६॥
अलसलोचन एष सखीजनो
ऽप्यलमिह स्वपितीति विभाव्यते ।
इह न सोऽपि जनोऽस्ति य एत्य
नो दिशति नागलतादलवीटिकाम् ॥ १७॥
कथयतो रतिवल्लभयोर्मिथः
सपदि कापि सखी सुसमाययौ ।
न युवयोरधुनापि दिनात्यये
भवति सुप्तिरतीवविलासिनोः ॥ १८॥
नवनिकुञ्जलतावनमण्डपे
कुसुमक्लृप्ततले कुरुथो न किम् ।
निधुवनक्रियया सहजं सुखं
स्मरविलासकलाकुशलौ युवाम् ॥ १९॥
निधुवनश्रमसङ्गतनिद्रयो
श्चरणवाहनमेत्य करोति या ।
किमु न साप्यहमद्भुतदासिका
रहसि दम्पतिसुप्तिरहस्यगा ॥ २०॥
इत्थं सखीगिरं श्रुत्वा स्मृत्वा सीतारघूद्वहौ ।
शय्यामन्दिरमत्युच्चैराजग्मतुरनुत्तमम् ॥ २१॥
चन्दनागुरुधूपाढ्यं कर्पूरोज्ज्वलदीपकम् ।
शय्यान्तावनिविन्यस्त दिव्यास्तरणगैन्दुकम् ॥ २२॥
नानारङ्गसृतानेक दिव्यचित्रविचित्रितम् ।
कुञ्जवल्लीवनान्तःस्थमन्दारद्रुममूलगम् ॥ २३॥
रक्तपीतप्रभाशोभिरत्नवेद्पयुरि स्थितम् ।
सुवर्णसम्पुटन्यस्तताम्बूलोदलवीटिकम् ॥ २४॥
कल्पद्रुमप्रसूनस्त्रग्वासोलङ्कारभूषितम् ।
सम्भोगमल्लयुद्धान्त सुखदव्यजनाञ्चितम् ॥ २५॥
सुगन्धिमिष्टमधुरपक्वान्नादिसमायुतम् ।
प्रोद्भासिरत्नचषकोपेतमैरेयभाजनम् ॥ २६॥
द्यूतकेलिक्रियोपायचतुष्पद्यादि संयुतम् ।
हेमरत्नचतुष्कस्थपानीयकलशीयुतम् ॥ २७॥
रत्नज्योतिसमुद्भासिपृथुदर्पणमण्डलम् ।
वेश्माभ्यन्तरवेश्मान्तज्वलत्सुस्थिरदीपकम् ।
सखीजनकृतान्वीक्षा गवाक्षशतसङ्कुलम् ॥ २८॥
तत्र गत्वा निजालीभिः कृताकल्पां निजां श्रियम् ।
रमयामास रामेन्दुर्नवस्मररतोत्सवे ॥ २९॥
सख्यो जाम्बूनदीं मालां दत्त्वा सीताकराम्बुजे ।
रामस्य रोषयामासुः कण्ठे पुलकसुन्दरे ॥ ३०॥
तस्याः काञ्चीगुणग्रन्थिस्पर्शोत्कम्पिकरे प्रिये ।
सख्यस्तूर्णं विनिर्याताः शय्यामन्दिरतो बहिः ॥ ३१॥
तत्रैतयोः काकुवचःशताकुलं
प्रभूतकन्दर्पशरोद्धुरं रतम् ।
बभूव भूयो न न नेति कान्तया
निवार्यमाणोद्धुरकान्तखेलितम् ॥ ३२॥
प्रियः परीरभ्य मनोरमां प्रियां
स्तनद्वयामर्दनजातसम्भ्रमाम् ।
चुचुम्ब बिम्बीफलकोमलेऽधरे
रदव्रणारोपणजातवेदनाम् ॥ ३३॥
बलेन सा तस्य सुबाहुयन्त्रणां
निवार्य नीवीं प्रददौ करं हि सा ।
द्वितीयकेन प्रसभं च पाणिना
सुदूरयामास युवानमद्भुतम् ॥ ३४॥
बली स तस्याश्चरणद्वयं जवा
न्निजांसमारोप्य मुखेन्दुमण्डलम् ।
चुचुम्ब सुस्निग्धकपोलभास्वरं
वृतालकालीअमरीशताकुलम् ॥ ३५॥
हठात् समाकृष्य पदद्वयेन सा
विव्याध वक्षस्थलमस्य कामिनः ।
ततोऽभवन्नूपुरकिङ्किणीरवः
प्रसुप्तहंसौघवितीर्णसम्भ्रमः ॥ ३६॥
रामश्च तन्नूपुरयुग्मशिञ्जितैः
मनः प्रभूतद्विगुणस्मरार्दितः ।
रदैर्विनिष्पिष्य रदच्छदं पुनः
संरम्भतस्तत्परिरम्भमाचरत् ॥ ३७॥
सा रामचन्द्रस्य भुजद्वयान्तर
स्थितार्दिता वक्षसि तेन वक्षसा ।
चचाल नालिङ्गनसङ्गमोद्भव
प्रमोदसम्बन्धनिमीलितेक्षणा ॥ ३८॥
चुचुम्ब तस्याः स्फुटकोरकाकृती
दृशोः (शौ ?)सकासी वदनं निभालयन् ।
तस्थौ पुनर्नीविगुणं पिधाय सा
करद्वयेनोत्पुलकावलीतनुः ॥ ३९॥
स तत्करौ पङ्कजकोरकाकृती
हठात् समुत्क्षिप्य बभञ्जनीविकाम् ।
तावत्तु सा चोरुयुगं सुवेष्टितं
कृत्वा कराभ्यां च वराङ्गमप्यधात् ॥ ४०॥
स तन्नितम्बद्वितयं मनोरमं
लिलेख सूक्ष्मैः करजैः स्मरोद्धतः ।
समालभच्च स्तनकुड्मलद्वयं
स्ववक्षसा दीर्यदुदारकञ्चुकम् ॥ ४१॥
विदीर्यमाणा कुचकञ्चुकी च सा
चकार तत्र द्विगुणं श्रियं रतेः ।
स्तनौ सुवेशेन यथा विरासतुः
प्रमत्त चक्राविव पद्मिनीदलात् ॥ ४२॥
उदीर्णभासोः स तयोरुरोजयो
र्नखावलीं सन्निचखान नायकः ।
स्फुटेन्द्रगोपापयवैः समाचितौ
यथा लतायास्तवकौ विरेजतुः ॥ ४३॥
साप्यस्य वक्षस्थलमुद्धृतैर्नखैः
पस्पर्श किञ्चित्स्मयदुर्मदेक्षणा ।
आवर्जयामास च दुर्लभत्वतः
स्मरातुरस्यास्य हठेन वेगिताम् ॥ ४४॥
स उत्पतन्मन्मथवाणवेपितो
मदोद्धतो बाहुबलेन यन्त्रयन् ।
चकार बालां मधुरांशुकच्युतां
विस्पष्टदीव्यज्जघनद्वयप्रभाम् ॥ ४५॥
विलोड्यमाना सुरते प्रियेण सा
बभूव सुस्वेदकणान्तविग्रहा ।
तथाप्यमुञ्चत्त्रपया न कर्हिचि
न्नितान्तसंशोभिमुखावकुण्ठनम् ॥ ४६॥
पिधाय योनिं करपद्मसम्पुटे
परस्परासक्तिसुसङ्गतोरुकाः ।
अधःस्थिताप्युच्छलतिस्म तस्य सा
समानलज्जामदनद्वयाकुला ॥ ४७॥
तां केनचिद्वन्धबलेन कामुको
निबद्ध्य निर्मुच्य तदोरुबन्धनम् ।
आरोपयामास निजोरुयुग्मके
वराङ्गसौलभ्यसुनिर्वृतेन्द्रियः ॥ ४८॥
निजोरुसंस्थामबलां सुयन्त्रितां
ततो निबन्धाच्चलितुं च नो क्षमाम् ।
ददर्श वक्त्रे परिचुम्बिताधरे
पराङ्मुखी तावदभूज्जवेन सा ॥ ४९॥
तस्याः सुदीर्घामलकावलीं करे
निगृह्य तां सम्मुखमन्वकूलयन् ।
ततोऽपि सा सम्मुखवर्त्तिनी प्रिया
निमीलिताक्षी न बभाण किञ्चन ॥ ५०॥
सामर्षसक्रोधसहर्षसत्रप
सहाससोन्मादनसाश्रुलोचना ।
बभूव तूष्णीमवशा सुयन्त्रिता
कृताधरस्पन्दलवानुमेयगीः ॥ ५१॥
ततोऽस्य वक्त्रं शनकैः प्रपश्यती
बभाण बाला मृदुवल्गुभाषिता ।
अलं जवेन प्रिय मुञ्च मुञ्च मां
न नेति सम्मर्द्दविलोलविग्रहा ॥ ५२॥
स भाष्यमाणोऽपि जवेन योनिं
बभञ्ज तस्याः खलु दीनयाचितम् ।
हाहेति वक्त्रे करकुड्मलद्वयं
प्रकुर्वती काकुशताकुला च सा ॥ ५३॥
हठेन तेन व्यथितेव कामिना
ररज्ज्ञ शय्यापि यथार्द्रयावकैः ।
कृतोद्धतां निर्दयसौरतक्रियां
तत्याज मूर्च्छायितविग्रहां तु ताम् ॥ ५४॥
सखीजनस्तां प्रथमे रतोत्सवे
बालां कथञ्चित्प्रतिलब्धचेतनाम् ।
संस्नापयामास सुमङ्गलोदकैः
विधानविद्भिर्निगमैः प्रबोधिताम् ॥ ५५॥
इत्थं निशायामतिलङ्घ्य चेतनां
चकार रामः प्रियया रतोत्सवान् ।
यावत्स शेते पुरुषो महोदधौ
भुजङ्गराजे शयने सुषुप्तिभाक् ॥ ५६॥
गावश्च तस्य प्रसरन्ति सर्वतो
निश्वासरूपा भुजगेन्द्रपालिताः ।
तौ कामिनौ निर्भरकामकेलिभिः
संश्रान्तचित्तौ दधतुः स्वलीलाम् ॥ ५७॥
तदोल्वणा नाम जवेन राक्षसा उत्पेतुरुग्रा बलवत्सहिस्राः ॥ ५८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम अष्टाविंशोऽध्यायः ॥ २८॥
५८/११९९
०२९. रामरासोनाम एकोनत्रिंशोऽध्यायः ।
अथोत्पेतुः परितः प्रमोदवनमुल्वणा नाम राक्षसाः ।
सोदरकाः सायुधाः सकवचाः सुतीव्रमतयो
मदोद्धतास्तामसास्तामसीन्त्रपराक्रमा उल्मुकहस्ता
अमङ्गलास्तालशतसमुच्छ्रायवपुषो दुर्दर्शनाः
प्रज्वलद्द्वाग्निदृशो गिरिगण्डसमानांसाः
पृथुतरनासाविनिः सरच्छ्वाससमुत्कम्पितद्रुमान्
समुन्मूलयन्तः पादविन्यासप्रचालितधरणीभागाः
सरागाननाः करालजटालकेशाः कृत्तिवाससो गणा
इव विकटाटोपताण्डवप्रचण्डाः ॥ १॥
तान् लक्ष्मणोऽभिवीक्ष्य श्रीरामाज्ञापरायण
स्तदाखिलकार्य प्रसाधनचतुरोऽक्षरब्रह्माकृतिः
पुरुषोत्तमस्य द्वितीया मूर्त्तिश्चतुर्मूर्त्तेर्भगवतः
सज्जीकृतधनुः सुतीक्ष्णविशिखधारासारै
र्निवारितवांस्ते दृष्ट्वा शाद्वले चरन्तं
रामधेनुकं सङ्क्षोभयाञ्चक्रुस्ततोवीरः सधेनुकं
प्रमोदवनाभ्यन्तरे प्रवेश्य तानापततः
प्रचण्डैः काण्डैर्विव्याध ॥ २॥
ते विद्धा द्विगुणसञ्जातरुषो लक्ष्मणं
विषममुशलसमूहैरवाकिरन् ।
स निजकाण्डवर्षेण मुशलान् द्विधाकरोत् ।
तेन द्विधाकृता मुशला दूरादेव परावृत्ताः बभूवुः ।
कथञ्चन रविरिव पांसुप्रचयावकीर्णमारुताण्ड
वरान्मुशलदुर्दिनात् स्वरूपं प्रकाशयामास ।
ते पुनरपि तं राजकुमारमाच्छादयन् शक्तिवृन्दैः,
सञ्छिन्नः शक्तिवर्षेण मूर्छितो धरण्यां निपपात ॥ ३॥
ततो हाहाकृतं दिवि देवसैन्यं
बभ्रामोवाच चाहो प्रभो लक्ष्मण कथं
निर्विराज (ण्ण ?)इवासि संवृत्तः ।
सम्प्रति खलु त्वमेव गोधोरणीनायको
नान्यमुपलभामहे । प्रभुस्तु योगनिद्रा
वशंवदोऽधुना शेते क्षीरोदार्णवे प्राण
प्रदस्त्त्वमेवास्य सहजकेलीनां लीलोपधानी
कृतसमुद्रतनयैकबाहोः सान्द्रतराश्लेषज
परस्परसुखानुभवरसिकस्य आदेशोऽसौ
त्वां प्रमोदवनरक्षायै गवां पालनाय च
महाविक्रमोर्जितमेकवीरं
स्वानन्दविलाससाधनोपायम् ॥ ४॥
सखलु त्वं मैवं कार्षीः । भरतशत्रुघ्नावपि
सम्प्रति क्वगताविति न प्रतीमो यतस्त्वमेकाकी
महोल्वणैरमीभिर्युद्ध्यसे । संस्मर संस्मर
स्वात्मानं समुत्तिष्ठ सज्जीकृतधनुः
कोटिराक्षसकुलहन्यवे सौमित्रेयेति ॥ ५॥
लक्ष्मणस्तत्क्षणे प्रविधूयाङ्ङ्गव्यथां
निजमहिमसंस्मृतिसुधाधाराभिस्तूर्णमुत्थाय
घोरतरनाराचधाराभिर्दुर्दिनैः समाच्छादितवान्
राक्षसमहोदरान् । ते च प्रबलतरभुजगेन्द्र
भोगोपमभुजदण्डकुण्डलीकृतकोदण्ड
निर्गलत्काण्डाग्रसञ्छिन्न शिरसो निपेतुः परितः
प्रमोदवनम् । तेषां पततां शरीराणिधरणीं
कामयामासुस्समभूच्चारवोज्रनिर्घातघोरः ।
केचिच्च पलायमानाः क्ष्मां समाकम्पयन्,
तेषां पलायमानानां चरणविन्यास संरम्भेण
व्यशीर्यन्त भूमिभागाः । एवं निर्दलिताखिल
विपक्षसैन्यो महावीरो धनुः प्रतिसंहृत्य गवां
धोरणीमपालयत् । तावत् सुखं शेते जानकी
कण्ठपाणिः सकललोकेश्वरः श्रीरामः ॥ ६॥
अथ यामार्धावशिष्टायां रजन्यां
प्रभोः प्रबोधनाय वैतालिकवरवेशधारिणो
वेदा विद्याधरीवेशधारिण्यश्च
महोपनिषद उत्थानकमगायन् ॥ ७॥
वेदा ऊचुः ।
जय जय निजजनकरुणां कुरु कञ्जदलनयन
स्वयमेवोज्जृम्भमाणाखिलसौभाग्यसदन
जड़जीवात्मनां परिणममानस्य तेन तदीयैर्धर्मैः
सम्बन्धः सपदि तदात्मनैव दृश्योऽसि ॥ ८॥
वयुनं नामैव ते येन परमहंसोऽपि त्वामखिलगुणातीत
महिमानं वेद स्वे महिमनि प्रतिष्ठिततमम् ॥ ६॥
न खलु त्वमाधेयो निरपेक्षवृत्तेस्तवैतत्परं
पदं यत् सूरयो धिया पश्यन्ति, यत्र काञ्चनी
रत्नोपलघटिता भूर्यत्रैरम्मदीयं नाम सरो यत्र
स्वानन्दं संविदेव वापी यत्र स्वात्मानन्दप्रसाद
एव प्रासादः सबहुविधभोगसमुचितशिखराग्र
निषण्णसत्त्वात्मकचित्तसमाक्रान्तो
यत्र त्वमेवाधिराजो विजयसे ॥ १०॥
अथ दुस्तर्ककलितकलुषीकृतान्तःकरणानामेष
लोको दुर्विभावनोऽन्तःसाधनशतं
प्रयुञ्जानैरेव ते भवितव्यं मनोमयः प्राणवपुः
प्रभारूपः सर्वकामः सर्वगन्धः सर्वरसः स
एषोऽणुरात्मा चेतसा वेदितव्योऽयं तव लोकः
सच्चिदानन्दघनो बाह्याभ्यन्तरो न तं
कश्चन वेद तव चरणपरागपूतात्मानमृते ॥ ११॥
जय जय सदेकस्वरूप कलात्मक कालकलनातिग
चिदेकप्रतिष्ठितनिखिलप्रपञ्चरचनैकाश्रय
वाङ्मनसागोचर स्वानन्दसिन्धुलहरीगणसन्निमग्न
निजान्तरानन्दिनीसहजालक्ष्मीपराम्बासंवलित
नित्यनिकेतन निरवधिक्रीडार्थं विकल्पमानमिदं
विश्वं तद्विशेषमेव विकृतिरपि त्वत्प्रकृतिरेवेति
भेदेनापि मनोवाक् त्वामेवावलम्बते यथा नद्यः
स्यन्दमानाः समुद्रसेवाभिसंविशन्ति तथैतानि
नामानि सर्वाणि पुरुषं त्वामभिसंविशन्ति ॥ १२॥
अथेमे विद्वांसः कायवाक्चित्तमलनिर्वर्हणी
त्वत्कथामृतधारान्तः कृतावभृथाः काय
क्लेशकराणि तपांसि समापयन्ति ।
ये पुनः सतत एव सुखानुभवनिकेतनं
त्वत्पदद्वयं भजमानाः शुद्धात्मस्वरूप
स्फुरणेनान्तःकरणं कालप्रभावं
सत्वादींश्च निर्जितवन्तः कुतः क्लेशकर्माण्यवरज्येयुः ॥ १३॥
यदेतदानन्दमयं यदेतदन्नमयादि च तस्यापि
पुच्छप्रतिष्ठा च त्वं तव पृथिवी शरीरमात्मा
शरीरमव्यक्तं शरीरमक्षरं शरीरं त्वं सर्वान्तरात्मा
पहतपाप्मा दिव्यो देव एको रामचन्द्रः ॥ १४॥
अथेमे शार्कराक्षा मणिपूरकस्थं ब्रह्मोपासते
सदेकशतनाडीस्थानं ते तदनेनैव वर्त्मना ।
त्वामेत्य न पुनर्दुःखालयमभिसंविशन्ति सोऽसि
त्वमेको देवः सर्वभूतेषु स्थानेषु गूढः ॥ १५॥
अथामूष्वभिव्यक्तिस्थानेषु संश्चकास्ति सोऽसि
त्वं प्रतिहतरजस्तमोविसरः शुद्धसत्त्वैकवपुः
स्वकर्मोपार्जितनानापुरेशः कार्यकारणासंवृत्त
निखिलांशाखिलशक्तिपरिवृढः कपीनां
नैगमोक्तीनामावपनमसि ॥ १६॥
अथातिदुर्लभतरस्वतत्त्वप्रकाशनैकान्ततनौ
विचित्रलीलारसामृता कूपारे त्वयि मग्ना मत्तासो
जनासः किमिति मुक्तिं लवणोदरसदनेश
तुल्यां स्पृहयेयुर्यत इमे पारमहंस्यव्रते स्थिताः
पदपङ्कजपरागविचित्रितवपुषस्तन्निर्गलन्मकरन्द
धारास्वादनिर्वृताः सततमेव विजयन्ते ॥ १७॥
अथास्मिस्त्वत्सेवौपयिके कुलाये
परमात्मैकसखायो वत ये न ।
भजन्ति त उरुतरभीतिमहा
वर्त्ते भवे भ्रमन्त एव तिष्ठन्ति ॥ १८॥
अथ ये मनोऽक्षगणं संयम्य दृढभूमिना
योगेन हृदि निरुध्य परं तत्त्वं समुपासते ।
त्वद्भावमचिरेणापि यन्ति द्विषन्तोऽपि ते चरणयोः
सायुज्यमीयुः प्रमेयबलमदः कतमः स्तोतुं क्षमो भवति ॥ १९॥
अथ भगवन् को नु त्वां जानी
यादर्वाक् समस्तदैवतप्रसरं यतो
साधुधियामखिलजगदादिभूतमृषि
मनुजज्ञिरे आध्यात्मिका आधिदैविकाश्च ॥ २०॥
अथ त्वय्यखिलसाम्राज्यसुखाधिकसुखे
रसात्मकविग्रहे समधिगते किममीभिः
पुत्रापत्यकलत्रादिभिः कुतर्कैः सुदुर्भगैरिति
व्यवस्य प्राचीना महाश्लोका महाश्रोत्रा
महाशीलाः सर्वं परिहृतवन्तस्त्वयि च रतिं
कृतवन्तस्त एवेदं भवात्मकं व्यसनं तीर्णवन्तः ॥ २१॥
अथेदं विश्वं सदेव सदुपादानकत्वादि
तिहेतूपन्यासहतधियां दहनादिभ्य उत्पन्ना
प्रभापि दाहिका किं न भवेदिति रघुकुलो
त्तंसस्त्वमेव सत्त्वमेव सदिति मन्महे ॥ २२॥
अथ यथा भुजगः स्वगतमपि कञ्चुकं
गुणबुद्ध्या नाभिमन्यते तथा त्वमजां
नहि निरन्तराह्लादिसंवित्कामधेनुवृन्द
पतेरजया तव किञ्चित् कृत्यमस्ति प्रभोः ॥ २३॥
अथ यदि भवान् स्वलिङ्गमुप
संहृत्य कार्यं प्रति दृष्टिं मीलयति
तदानुशायिनां ज्ञानसाधनं नास्ति
न वा स्थूलं न सूक्ष्म न चोभयम् ॥ २४॥
अथास्यासतः प्रपञ्चस्य न जन्म घटते सतो वा
दुःखादेर्न नाश आत्मनि भिदावकल्पते कर्म च न
सम्भवति सेयं च नाम तव दृष्टिस्त्वय्येव बोधैकस्वभावे
योऽयमबोधनिबन्धनो जीवः सोऽपि भिदया नैव
वक्तुमर्हत् सद्विषयत्वाश्रयत्वयोरभावात्त्वयि ॥ २५॥
अथत्वय्यवर्तमानमपि मनो वर्त (मान ?)
मिव भातु ये तु त्वद्वेदितारस्ते
इदमशेषं त्वद्रूपतयेवाभिमृषन्ति नहि
कनकमात्रदृशां कुण्डलादिकमवभासते ॥ २६॥
अथ त्वं स्वत एव व्यावृत्तकार्य
कारणाद्युपाधिः सकलकारकशक्त्युपेतः
स्वरूपशक्त्यैव राजसे मायया
सह तदधीनैरपीड्यमानः ॥ २७॥
अथ यदि नित्यलीलस्य ते मायया
सह विकृतिर्भवेत् ततः स्थावरा
जङ्गमाश्च नानाकृतयो जीवा भवेयुः ।
सेयमीक्षैव तव परमकारुणिकस्य
व्योम्न इव स्वपरभिदा शून्यस्य ॥ २८॥
अथ त्वं व्यापको नियन्ता सेव्य एवा
मी त्वणवो व्याप्या नियम्याः सेवका एव
त्वदुपलब्धाखिलवैभवभाजो नान्यथा
प्रतिपत्तव्या क्षुद्रविस्फुलिङ्गा
इव नाग्निकूटस्य तुलामधिरोहसि ॥ २९॥
अथ प्रकृतिपुरुषयोरुभयोरप्यजत्वान्न
सम्बन्धो घटनामेति येनाध्यात्मिकरूपाः
सोपाधयो जीवा जायन्ते ततः प्रकृतिविकार
प्रलयेन सुप्तवासनत्वाच्छुद्धास्ताः
परमात्मनि जीवाख्या शक्तयः सृष्टिसमये
विकारिणीं प्रकृतिमासज्य क्षुभितवासनाः
सत्यः सोपाधिकावस्थां प्राप्नुवन्त्येत्युच्चरन्ति
सोऽयमचिन्त्यस्तवैव महिमा विजयतेतरां रघुवरशार्दूलस्य ॥ ३०॥
अथासौ हेतिरपि त्वद्भ्रूभङ्गमात्र
नियुक्तः सर्वाण्येव वशयितुं शक्तो
विहाय त्वद्भजनामृतधाराशीतल
मनसो भक्ताख्यान् परमहंसान् ॥ ३१॥
अथ कोटिसमीररोधव्यग्रात्मानो
न मनोरोद्धुं शक्ताः बहुभिः
प्रत्यूहैर्हन्यन्त एव विना
भवच्चरणनिदेशकदेशिकम् ॥ ओम् ॥ ३२॥
इत्यभिष्टूयोपरतेषु वेदपुरुषेषु स्तम्भ
स्वेदादिविविधभावाकुलिताः स्खलद्गिरः
सगद्गदाः पुलकविसरकदम्बायिततनवो
बहुतरप्रेमाधौतकुचकुम्भकुङ्कुमाः
खिद्यमाना इव भूयसा विप्रलम्भेन महोपनिषदो
निर्भरसुरतश्रमशयानयोर्दम्पत्योर्युगलमस्तौषुः ॥ ३३॥
महोपनिषद ऊचुः ।
जय जय कान्तकेलीरसनिमग्नमनसोः
कोटिरतिकन्दर्परूपलावण्य मुखयोः
स्वाराज्यसुखसाम्राज्यसम्पदाविष्करणवतोरवहेलित
वृन्दावनेश्वरीश्रीमद्वृषभानुजाश्रीमद्व्रजेन्द्रनन्दन
रसयोर्गोलोकादुपरितनसहजचिल्लोकविलासस्वामिनोः
स्वरूपशक्तिमात्राविर्भावितसखिसखीदूतिदूत
विटचेटकादिसहायबललब्धकोककलालावण्ययोः
श्रीमज्जनकनन्दिनीरघुकुलयोर्युगलाय नमः ॥ ३४॥
अथ युवाभ्यां दम्पतीभ्यां क्षन्तव्यो
नो वैयात्यमदो यत् सुरतान्त विवसनयोः
पुरुषायितविपर्यस्तभूषणवसननयनाञ्जनादि
विविधाकल्पयोः परस्परकण्ठाश्लेषप्रभूत
द्विगुणितसङ्क्षुब्धमनोभूपरवशयोः
परस्परोन्मर्द्दक्षुभितवक्षसोः पुलकाञ्चितयो
रधरबिम्बस्य सुधापानपरायणयोरीदृश
निस्त्रपयोर्युवयोः समीपं भजामहे नर्मसख्य इव
निकुञ्जकेलीभवनद्वारोद्धाटनलब्धानन्दकदम्बाः ॥ ३५॥
अहो क्व वयं बहुतरकर्मठकुलवञ्चितचित्ता
अनेकयोगिज्ञानिगुरुजनकृतप्रत्यूहाः
कुलाङ्गना इव गुरुलज्जावरुद्धप्रिय
दर्शनस्पर्शनमुखामृतविधुरा लज्जयैव
व्यतीततारुण्याः क्व च तव चेदं
महोच्छृङ्खलममेयदिव्यरूपलावण्य
वारिधिप्रसरणं सतत प्रियाभ्यामेव
समासादिता प्रेम्णः पुरुषस्येव सीमा ॥ ३६॥
अहो अलौकिकत्वं केलीनां य
द्विरञ्चिवसकस्य प्रावीण्यमतिवर्तन्ते ॥ ३७॥
अहो विचित्रता शोभातिशयस्य
यन्निर्भररजनीरङ्गरसिकाभ्यां
पूर्णीकृत्य निपीतोऽप्यनुक्षणं
वर्धमान एवाविर्भविष्णुः ॥ ३८॥
अहो युवाभ्यामेव पूजितः
परस्परालापपरिरम्भणचुम्बन
नखरददानमन्दस्मितोन्मर्दनादि
भिर्मन्दारकल्पद्रुमकुसुमसमूहैः
केलीमनोरथकामतरुः कामदेवः ।
वत वत कथमप्यसुलभाय मनोमोहैककन्दाय
सहजानन्दाय नमो युवयोः सुरताय ॥ ३९॥
अहो वयं त्रिगुणप्रवाहमार्गपतिताः
कि प्राप्स्याम इमां गुणातीतां सच्चिदानन्दैकरसमयीं
सहजानन्दिनीरघूत्तमयोः केलिकलामवलोकि
तुमपि किं नाधिक्रियामहे दैववञ्चिताः ॥ ४०॥
अथ यद्यमुयोश्चिल्लोकस्वामिनोः
सच्चिदानन्दरसदम्पत्योस्तल्पान्तभूमिकाभाजोः
बहुकोटिजन्मार्जितसुकृतोद्भूतभाग्या एव वयं
तर्हि नातिचिरादेवाभ्यां नित्यनिजविहारस्य
भाजनतां प्राप्स्यामहे श्यामा रामा ललिता
विशाखा रङ्गविद्या पूर्णमासी चम्पकलता
दया नित्यसिद्धा इव वयमपि कोटिजन्मसाधनसिद्धाः ॥ ४१॥
इत्यभिलाषपूर्वकमभिलष्य ताः
सर्वमहोपनिषदोऽतिशयित
गुणवर्णनप्राप्तजडिमानस्तूष्णीं बभूवुः ॥ ४२॥
अथाविरासीच्च निकुञ्जमन्दिरे
जालान्तरप्राप्तनिजावकाशः ।
सूर्यांशुदण्डप्रकरोऽतिकोमलः
प्रोत्फुल्लशोणाम्बुजगर्भबन्धुः ॥ ४३॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासोनाम एकोनत्रिंशोऽध्यायः ॥ २९॥
४३/१२४२
०३०. रामरासो नाम त्रिंशोऽध्यायः ।
ब्रह्मोवाच ।
प्रातरौत्थानिकं गीतमिदमाकर्ण्य दम्पती ।
प्रबोधमीयतुस्तूर्णं सुरतोत्थश्र मालसौ ॥ १॥
ताम्बूलवीटिकास्वादरञ्जिताधरसुन्दरौ ।
क्वचित्क्वचिन्नखाङ्कालिलिखितोल्लासि विग्रहौ ॥ २॥
निर्भरस्मरसम्मर्दमृदितावयवोद्धुरौ ।
लम्बमानालकस्तोमभ्रमरीमुखपङ्कजौ ॥ ३॥
निद्राव शेषसंवीतपतत्पक्ष्मणलोचनौ ।
रजनीसुखसंस्मारस्मयमानमुखाम्बुजौ ॥ ४॥
परार्द्धरतिकन्दर्पशोभानिर्मन्थनोचितौ ।
अन्योन्यगण्डफलकप्रतिबिम्बायताननौ ॥ ५॥
प्रातरारक्तसूर्यांशुभेदसङ्कुचदीक्षणौ ।
अन्योन्यविस्फुरद्भूषाङ्कितकण्ठादिविग्रहौ ॥ ६॥
स्मरसम्मर्दसङ्क्षोभविपर्यस्तधृताम्बरौ ।
अन्योन्यप्रतिबिम्बाङ्कस्फुरद्दर्पणमन्दिरौ ॥ ७॥
कामपूजालब्धरसप्रमादप्रसराविव ।
सहजानन्दिनीसीताश्रीमद्रघुवराभिधौ ॥ ८॥
ततो विधाय माङ्गल्यमारात्रिकमनुत्तमम् ।
सखीभिः कृतसंस्कारौ रेजतुर्दम्पती मिथः ॥ ९॥
प्रातराशादिकानेकसपर्यासाधनोत्सुकौ ।
सखीगणैः सेव्यमानौ सीतारामौ विरेजतुः ॥ १०॥
एवं विहरतोः कोटिकल्पान् प्राप्य क्षणानिव ।
बलकृष्णादयस्तत्रावताराः कोटिशो ययुः ॥ ११॥
एकदा सुखमासीनौ सीतारामौ कृतोत्सवौ ।
ता एव दूतिका एत्य प्रोचुर्वचनमादरात् ॥ १२॥
दूत्य ऊचुः ।
अहो प्रियौ वां स्वसुखैकनिर्वृतौ
कच्चित् परस्यापि सुखानि जानथः ।
योऽयं जनः क्लिश्यति कोटिकल्पतो
धृतव्रतो वा कृत आतुरान्तरः ॥ १३॥
उदारपाणिस्तु स एव गण्यते
योऽन्यस्य दत्ते स्वयमापदं दधत् ।
अथो विभज्यैव वनक्ति यो जनो
न सोऽपि मर्त्यः कृपणान्तरात्मवत् ॥ १४॥
इमां समासाद्य निजार्थकोविदां
कथं नु जातो रघुसत्तमाधुना ।
सर्वं पुनर्विस्मृतवानसि प्रभो
कमाश्रयिव्यन्त्यबलाजनास्तव ॥ १॥
अद्य स्मरस्यद्भुतदानमात्मनः
प्रमोदवल्लीविपिने वर्तितुं यत् ।
तर्हि कृतस्त्रीनिवहोऽयमीदृशो
विपत्तिमासादयतीति गर्हितः ॥ १६॥
इयं तु सद्वंशभवा भवन्मुखे
लग्नेति लोकस्य महोत्सवोऽभवत् ।
अथान्तराछिन्न गणे विलोक्य स
व्यमुञ्चदासां निजसौख्यहेतवे ॥ १७॥
तथापि ते राघववर्य नोचितं
मनो निजानां विषये यदीदृशम् ।
समस्य सर्वोद्धरणक्षमस्य च
प्रपत्तिमात्रेण वरोद्धुरस्य ते ॥ १८॥
तासां वताभीरमृगीदृशां कृते
कियन्न पूर्वं विनिवेदितोऽसि भोः ।
तथापि किं ते करणीयमस्ति
तन्न विद्महे स्वैरगतं रघूद्वह ॥ १९॥
अमूः समाराध्य भृशं सहस्रशः
सदैवताग्र्यं भवतोर्युगं प्रियौ ।
अद्यापि न प्राप्तमनोरथाः कथं
पुरा चिरं दत्तवरा वराङ्गनाः ॥ २०॥
इति तासां वदन्तीनां दूतिकानां पुरःस्थिता ।
शनैः श्रीरामरमणी तत्रैवान्तरधीयत ॥ २१॥
अयं खलु मदन्यासु संसक्तो धूर्तपुङ्गवः ।
यासां दूत्यमुपानिन्युः सहस्रं दूतिकाजनाः ॥ २२॥
इति मानापदेशेन तासामाराधनक्रियाम् ।
जानकी सफलीकर्त्तुं भक्तिरूपा व्यवर्तत ॥ २३॥
यदि मर्यादया रामो भक्तानुद्धर्त्तुमिच्छति ।
ज्ञानभक्तिस्वरूपेण तदा सीता विवर्धते ॥ २४॥
यदा सन्त्यज्य मर्यादां स भक्तानुद्दिधीर्षति ।
प्रेमभक्तिस्वरूपेण तदा सीतापि दृश्यते ॥ २५॥
अन्यदेवमतं ज्ञानमन्यच्च प्रेमलक्षणम् ।
द्वयोरैक्यमिहैवास्ति श्रीरामे फलरूपिणि ॥ २६॥
साङ्ख्यस्य योगतपसोर्ज्ञानविज्ञानयोस्तथा ।
परेण ब्रह्मणा कोऽपि सम्बन्धो घटते नहि ॥ २७॥
अयमेव च सम्बन्धो यः प्रेमाख्य उदाहृतः ।
स एव भक्तिशब्दार्थोऽन्यः स्यादौपचारिकः ॥ २८॥
भजन्ते यन्निमित्तेन लक्ष्मीनां कोटयः प्रियम् ।
सा सीता किं भवेल्लक्ष्मीर्नित्यश्रीविग्रहात्मिका ॥ २९॥
नित्या तदंशरूपैव राधा वृन्दावनेश्वरी ।
नो चेत् कथं श्रीकृष्णस्य लुठेच्चरणपद्मयोः ॥ ३०॥
एवं भक्तिस्वरूपेयं सीता राधादिरूपिणी ।
श्रीस्तदाराधनायुक्ता कथं तत्त्वेन गम्यताम् ॥ ३१॥
प्रिया सत्त्वेऽप्यसत्त्वे च नित्यं सा सुस्थिता प्रभौ ।
ऐकान्तिकी सा विज्ञेया छायेवावयवाश्रया ॥ ३२॥
न तां विना क्वचिद्रामो दृश्यते भक्तिसंयुतैः ।
दृश्यते चेत् स एवैषा सा सुरोभावहारिता ॥ ३३॥
अथवा विप्रलम्भस्य रसस्यातिभवाय सः ।
तादृशो भाव्यते भक्तैः स्वेच्छाकृतवियोजनः ॥ ३४॥
अधुना तु व्रजस्त्रीणामाराधनफलात्मिका ।
तास्वाविश्य प्रसन्नात्मा रंस्यते स्वामिना सह ॥ ३५॥
आविश्य च तथा स्वामिन्यानन्दमयविग्रहम् ।
रंस्यते व्रजवामाभिर्भूत्वा श्रीरामविग्रहा ॥ ३६॥
द्वात्रिंशच्च सहस्त्राणि मुख्या व्रजमृगीदृशः ।
तासां षोडशसाहस्रं स्त्रियो मुख्यतराः स्मृताः ॥ ३७॥
षोडशैव स्युराभीर्यो यासां वै मुख्यसंज्ञिताः ।
दश तासां मुख्यतमा यथावदवधारय ॥ ३८॥
रासचन्द्रा प्रभा श्यामा कला चन्द्रकला तथा ।
रङ्गविद्या चम्पलता चपला माधवी रमा ॥ ३९॥
तासां मध्ये मुख्यतमं द्वितयं परिकीर्तितम् ।
यत्राविश्य स्वयं सीता मोदिनोशक्तिरीर्यते ॥ ४०॥
वृन्दावने ययोरंशौ राधाकृष्णेतिकीर्तितौ ।
अभूदथान्तराविष्टा सहजानन्दिनी प्रिया ॥ ४१॥
ततो द्विगुणया कान्त्या रेजे श्रीरामचन्द्रमाः ।
अन्तर्हितायां सीतायां द्विगुणो द्योतवानपि ॥ ४२॥
तां कामयानोऽतिशयाद्बभूव स्मरपीडितः ।
स्मरमार्गणजां पीडां बिभ्रद् दूतीरुवाच सः ॥ ४३॥
व्रजत स्वामिनीः स्वाः स्वाः सम्पन्नो वो मनोरथः ।
ता आनयत रात्रीषु ज्योत्स्नोपेतासु दूतिकाः ॥ ४४॥
रंस्यामि ताभिः कान्ताभिः समेताभिः सहस्रशः ।
मत्तः कश्चिन्न भविता तासां वै विफलोचकः ॥ ४५॥
सहजानन्दिनीं शक्तिं तास्वारोप्य रमाम्यहम् ।
इत्युक्त्वा भगवान् रामः सच्चिदानन्दविग्रहः ॥ ४६॥
दूतीर्विसर्जयामास सर्वाः प्राप्तमनोरथाः ॥ ४७॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे त्रिंशोऽध्यायः ॥ ३०॥
४७/१२८९
Encoded and proofread by Vishal Pandey