भुशुण्डिरामायणम् पूर्वखण्ड ०३१-०४०
०३१. रामरासो नाम एकत्रिंशोऽध्यायः ।
रामो हि वीक्ष्य शरदागमफुल्लमल्ली
वल्लीवनावृतमहीरुह शोभिकुञ्जाः ।
ता यामिनीः समदकामिजनावकीर्णा
रन्तुं चिदेकरमणो हि मनश्चकार ॥ १॥
स्वां योगशक्तिमवलम्ब्य कृतप्रयत्न
स्तत्तत्पदार्थविभवं सफलं चिकीर्षुः ।
सच्चित्सुखानुभवरूप रसात्मकोऽपि
चिल्लोकवासिसुखदोऽनुचकार लीलाः ॥ २॥
पूर्णस्तदा परिदृढोऽभ्युदगादुडूनां
नाथः स तन्मनस इत्यवदंश्च वेदाः ।
प्राचीदिशो मुखविलिप्तसकुङ्कुमश्री
दीर्घाः शुचोऽपि विमृजन् भुवि वर्षणीनाम् ॥ ३॥
दृष्ट्वा प्रभुः कुमुदबन्धुमखण्डबिम्बं
लक्ष्मीमुखाकृतिधरं नवकुङ्कुमाक्तम् ।
भूयः प्रमोदवनमस्य कलानुरक्तं
रामो जगौ कलपदं सुदृशां मनोज्ञम् ॥ ४॥
आकर्ण्य तन्मुरलिकानुरवं मनोऽभूत्
प्रोत्साहवर्द्धनकरं व्रजवामनेत्राः ।
श्रीरामचन्द्रकरमुष्टिनिबद्धचित्ता
दोयुः प्रमोदवनमस्ति स यत्र कामी ॥ ५॥
कामोद्धता जवविलोलकबर्युदार
केयूरहारमणिकुण्डलमास्यभूषाः
नद्यो यथा बलविदारितदीर्घशैला
स्ता लोकवेदपथलङ्घनपूरिताशाः ॥ ६॥
काश्चिद् दुहन्त्य उदिताः परिमुक्तदोहाः
काश्चित् पचन्त्य इनतोऽनवतीर्य पाकम् ।
काश्चित् पतिप्रियसुतान् परिवेषयन्त्यः
काश्चिच्छिशूनथ मुदा परिपालयन्त्यः ॥ ७॥
शुश्रूषयन्त्य इतरा पतिनामभाजोऽ
श्नन्त्यश्च काश्चन जवेन विहाय तत्तत् ।
काश्चित्तनौ घुसृणलेपनमाचरन्त्यः
काश्चिन्मृजन्त्य इतरा दृशमञ्जयन्त्यः ॥ ८॥
व्यत्यस्तक्लृप्तवसनाभरणाश्च काश्चिद्
रामान्तिकं ययुरनङ्गशरौघविद्धाः ।
ता वार्यमाणवपुषः पतिभिः सुहृद्भि
र्मित्रैः सहोदरजनैः खलु बन्धुभिश्च ॥ ९॥
श्रीरामवेणुनिनदापहृतान्तरास्ताः
प्रेमैकमोहिहृदया नितरां निवृत्ताः ।
काश्चिद् गृहान्तरगता अनवाप्तयाना
रामं निदध्युरुरुभावनिमीलिताक्षाः ॥ १०॥
भूयः सुदुःसहवियोगजतापतप्ता
ध्यानावक्लृप्तपरिरम्भसुखाब्धिमग्नाः ।
साक्षात् तमेव परमात्मसुखानुभूतिं
जारेतिभावनजुषोऽपि निवृत्तबन्धाः ॥ ११॥
हित्वा गुणव्यतिकरात्मकमर्त्यदेहं
प्रापुः प्रमेयबलतो यतिनामलभ्यम् ।
ताः कामिनीर्निशि वने विजने समीप
मभ्यागताः स्मरशरार्तहृदोऽपि वीक्ष्यः ॥ १२॥
ईशः पराशयविदप्यमलेन वाचां
वृन्देन मोहमतुलं जनयन्नुवाच ॥
श्रीराम उवाच ।
सुस्वागतं व इह दारशिरोमणीनां मत्तः
किमीप्सितमिति ब्रुवतानुरक्ताः ॥ १३॥
कश्चिद्व्रजेषु पशुपालनिकेतनेषु
वर्वर्त्ति वार्त्तमभितो सदुपाश्रयेषु ।
तद्व्रूत यद्विसमये यदिहाभ्युपेता
मत्सन्निधौ कुलवधूजनशङ्कनीये ॥ १४॥
सौन्दर्यवांश्च तरुणश्च सुविग्रहोऽहं
किं वः प्रभूतवनविश्वसनक्रियार्हः ।
एषा निशा भयकरा भयदातिसङ्ख्य
सत्त्वाङ्किता शशिकरैर्विशदीकृतात्मा ॥ १५॥
गोष्ठं प्रति व्रजत नेह च वर्तितव्यं
स्त्रीभिः परिस्फुरदुरोजभरालसाभिः ।
युष्माकमाप्तसुहृदाः पितृमातृपुत्र
भ्रातृप्रियप्रमुखबन्धुगणा विमृग्याः ॥ १६॥
अप्राप्य वश्च कुलिता भवितार एव
तन्मा कुरुध्वमियतोमतिवृत्तिमुच्चैः ।
दृष्टं प्रमोदवनमृत्वधिराजजुष्टं पूर्णं
निशाकरकरप्रकरावकीर्णम् ॥ १७॥
नित्योत्तरङ्गसरयूसलिलानिलौघ
व्यालोलकुञ्जतरुपल्लवराजिशोभि ।
तस्माद् व्रजं व्रजत मा चिरमत्र साध्व्यः
शुश्रूषत प्रियतमान् बहुमानपूर्णम् ॥ १८॥
क्रन्दन्ति वत्सनिवहाः शिशवश्च वस्तान्
स्तन्यान्निदध्वमनुदुह्यत धैनुकानि ।
मत्स्नेहपाशविनिबद्धहृदो भवत्यः
प्राप्तास्तदेतदुपपन्नतरं समन्तात् ॥ १९॥
प्रीयन्त एवमपि केऽपि जना विशेषा
येषामहं स्वजनबन्धुधनादिभूमा ।
यद्भर्त्तृसेवनमकैतवतः स्वधर्मः
स्त्रीणामिति प्रसभमाह च वैदिकीर्गीः ॥ २०॥
तत्किं प्रबोध्यमितराननुवृत्ति साध्यं
युष्मासु साहजिकधर्मधिया सतीषु ।
शीलोर्ज्जितोऽपि भगलेशविवर्जितोऽपि
वृद्धोऽपि जातजडिमोऽपि सदामयोऽपि ॥ २१॥
श्रीनिर्गतोऽपि पतिरेव परायणं स्यात्
स्त्रीणामिति प्रकथनं भवतीषु किं स्यात् ।
स्वर्गापवर्गकुशलप्रतिकूलभूतं
पूर्वप्रभूतयशसोऽपि विलोपकं च ॥ २२॥
दुःसाध्यमस्थिरमतीव भयावहं च
निन्द्यं च जारसुरतं कुलकामिनीनाम् ।
भावो मयि श्रवणकीर्तनचिन्तनाद्यै
रन्यत्र दर्शनमपि प्रकटं भवेन्नः ॥ २३॥
किं सन्निकर्षमितरे भुवने लभेयुः
पूर्वार्जितैः सुकृतकोटिभिरभ्युपेताः ।
तद्यूयमक्षिभिरिदं मम रूपमुच्चै
र्दृष्ट्वार्पितप्रणयपर्वतभारखिन्नाः ॥ २४॥
मोहात् प्रयात मदनुस्मरणेन तृप्ता
स्तत्रैव वः सुफलमेष्यति गेहधर्मः ।
इत्यप्रियं निजमनोरथविघ्नभूत
माकर्ण्य भूपतिकुमारवचोऽप्रमेयम् ॥ २५॥
खिन्नप्रभावमनसोऽतिवियोगतप्ता
श्चिन्तामवापुरुपजात महार्तिमोहाः ।
वक्त्राण्यवाञ्चि बहुदुःखभरानुविद्ध
श्वासानुशुष्यदधराणि विधाय बध्वः ॥ २६॥
अङ्गुष्ठसाग्रचरणेन भुवं लिखन्त्यो
वाष्पैः सकज्जलकणैः कुचलेपमार्गाः ।
तूष्णीं बभूवुरथ तन्नयने विमृज्य
भूयिष्ठरोचनभरोपहते मृगाक्ष्यः ॥ २७॥
रामं तदर्थविनिवर्त्तितलोकवेदाः
प्रोचुः सगद्गदगिरः प्रसभं प्रवीणाः ।
गोप्य ऊचुः ।
नैवं प्रियो वदति कश्चन सुन्दरेन्दो
त्वं यद्ब्रवीषि वचनं त्वभिलाषशून्यम् ॥ २८॥
जानीमहे ननु कयापि सपत्नभावा
दस्मद्विषद्धृदयया परिशिक्षितोऽसि ।
क्रूरं वचः कथयता भवता हरिण्यो
व्याधोत्तमेन च यथा किममूर्न विद्धाः ॥ २९॥
किं कुर्महे वयमनन्यगतिं प्रपन्ना
स्तत्त्वं न चार्हसि नृशंसतयेति वक्तुम् ।
श्रीरामचन्द्र चरणाम्बुजमूलमाप्तान्
भक्तान् भजस्यविरतं कृपया समेतः ॥ ३०॥
त्वं नस्तितिक्षसि तदेतदतीव नार्ह
देवोत्तमस्य भवतः पुरुषोत्तमस्य ।
प्रेयांस्त्वमेव जगतां निजबन्धुरूपः
स्वात्मा परायणमतः प्रणयं विदध्मः ॥ ३१॥
किं पत्यपत्यसुतबन्धुसुहृद्भिरन्यै
स्त्वय्यात्मनि प्रणयिनि प्रियतास्पदैस्तैः ।
किं देहगेहविभवैः परमार्त्तिभूतै
स्त्त्वां ये विना निरयशोकभरं जुषन्ति ॥ ३२॥
त्वं चेत् समग्रमभवः सुखवारिराशेः
सर्वस्वमेव यदिदं नखतः शिखाग्रम् ।
पूर्वं जहार हृदयं हरिणेक्षणानां
हासावलोकनसुधारसलेशदानैः ॥ ३३॥
श्रीपूर्णचन्द्ररचनावचनैरिदानीं
यन्नो निवारयसि तत्तव नैव युक्तम् ।
बिम्बाधराश्रयसुधारससेचनेन
नो जीवयस्यतनुतापभरेण तृप्ताः ॥ ४३॥
अस्मान् निजाङ्घ्रिसरसीरुहमध्ययाना
भूयोऽप्यनन्यगतिकाः कतिचिन्मृगाक्षीः ।
नो चेद्वयं विरहपावकमध्यभूरि
ज्वालावलीवलितविग्रहभस्मभूताः ॥ ३५॥
ध्यानेन ते चरणयोः प्रतिविष्टचित्ता
भूयास्म योगिन इवात्मनि संविलीनाः ।
सीतापते यदि भवन्तमृतेऽन्यसङ्गं
स्वप्नेऽपि वाञ्छति मनोजवशं मनो नः ॥ ३६॥
तर्हि त्वदङ्घ्रितलमब्धिसुतासमेतं
सद्यः स्पृहाम निजसत्त्वविशोधनाय ।
यत्ते प्रमोदवननाथ वृतं तुलस्या
योगीन्द्रमानसविभूषितराजहंसम् ॥ ३७॥
तन्नस्त्रिलोकशरणं चरणारविन्दं
तापत्रयार्त्तिहरणार्थमुपार्थयामः ।
तस्माद्वयं जनकजारमण त्वयाद्य
कार्या अनन्यगतयस्तु निजानुचर्यः ।
त्याज्या न कर्हिचिदनङ्गखलावसन्ना
स्त्वादृक्कथं न शरणं शरणागतानाम् ॥ ३८॥
एतत्तवास्यमलकभ्रमरालिजुष्टं
मध्यस्फुरन्मकरकुण्डलगण्डशोभम् ।
बिम्बाधरं हसितवल्गु विलोकयन्त्यः
कृष्टाःस्म कामकरमुष्टिनिविष्टचित्ताः ॥ ३९॥
सीताकठोरकुचकुम्भविलिप्तभूयः
काश्मीरकल्करुचिरञ्जनमञ्जु वक्षः ।
भूयो भुजौ च भुजगाधिपभोगभाजौ
बिभ्राण एव हृदयं मदयस्यमन्दम् ॥ ४०॥
आकर्ण्य ते भुवनभूषण वेणुनादं
नित्यावरुद्धमकरध्वजमूलमन्त्रम् ।
का स्त्री विहाय कठिनानि कुलव्रतानि
दासीभविष्णुहृदया न चलेत् त्रिलोक्याम् ॥ ४१॥
गावो मृगाश्च विहगाश्च महीरुहाश्च
वल्लीवनानि च निजैर्नयनैर्निरीक्ष्य ।
स्पृष्ट्वा च तावकवपुर्भुवनाद्वितीयं त्वं
हर्षोत्करेण विसरत्पुलका बभूवुः ॥ ४२॥
त्वं सर्वतस्त्रिभुवनार्त्तिसमूहहारी
जातोऽसि सम्प्रति महापुरुषाङ्कजुष्टः ।
तन्नो निजैकशरणाः करुणां विहाय
विक्रीय मन्मथकरे किमु निर्वृतोऽसि ॥ ४३॥
इत्याकलय्य करुणानि वचांसि तासां
योगेश्वरेश्वरकिरीटनिघृष्टपादः ।
रामः प्रहृष्य सकलाः व्रजवामनेत्राः
स्वात्माश्रयोऽपि निभृतं रमयाञ्चकार ॥ ४४॥
ताभिर्युतः स भगवान् कमनीयमूर्त्तिः
पारेपरार्द्धशतपञ्चशरावतारी ।
रेजे परस्परितकान्तिविशेषजुष्टो मध्ये
तमाल इव काञ्चनवल्लरीणाम् ॥ ४५॥
शरत्समयचन्द्रमसं तदंशु
व्याप्तान्तरं कुमुदकाननमध्यमस्थम् ।
तां कौमुदीं च स जगौ ललनाजनस्तु
श्रीरामनाम विविधस्वरयुक्तमेकम् ॥ ४६॥
गोपीजनैः स्वरभृतैरुपगीयमान
उद्गायमान उदितस्वरभृत्स्वयं च ।
गोपाङ्गनाशतकयूथपतिः स्रजा च
श्रीवैजयन्त्यभिधया परिशोभमानः ॥ ४७॥
श्रीमत्प्रमोदवनमण्डलयोग्यलक्ष्मी
कान्तो व्यरोचत चिरं विचरन् समन्तात् ॥ ४८॥
ज्योत्स्नामृतप्रविशदं पुलिनं सरय्वा
आविश्य गोकुलनिकेतवराङ्गनाभिः ।
अक्षुब्धधीररमणप्रवराभिकः स
निःशेषकोकजकलाकुशलो रमेशः ॥ ४९॥
उत्सङ्गसङ्गपरिरम्भणचुम्बनास्य
हासावलोकननिघर्षणमर्शनाद्यैः ।
नर्मप्रहाससविलासविकर्षणाभिः
संस्तभ्य वीर्यमबला रमयाञ्चकार ॥ ५०॥
क्वचित् कुञ्ज शय्याशतमवकरोद्भोगकृतये
क्वचिद् भूमौ विश्वाधिकरमणमासैककलयन् ।
क्वचित् कुञ्जावासाङ्गणलसितकौशल्यकलितो
मनोजस्योत्साहं यदि रुचददौ राघववरः ॥ ५१॥
एवं तास्तेन लोकोत्तरमदनचमत्कारभूम्ना सुखेन
रामेण क्रीड्यमाना व्रजहरिणदृशो भूरिलीलामनोज्ञाः ।
अन्योन्यं लब्धमानाः कलितरतिकला दर्शयन्त्यः स्वकीयं
प्रावीण्यं भूरि चक्रुः किमपि रघुपतौ कामुके दर्पभावम् ॥ ५२॥
काचिन्माने रघुपतिं पातयामास पादयोः ।
काचित्प्रणामयामासं मुखमध्यकृताञ्जलिम् ॥ ५३॥
काचित्संस्कारयामास दासीवन्निजविग्रहम् ।
काचिदुद्वर्तयामास लेपयामास काचन ॥ ५४॥
काचित्प्रसादयामास केशान् कङ्कतिकाकरा ।
काचिच्च विततां वेणीं ग्रन्थयामास राघवम् ॥ ५५॥
काचिच्च गुम्फयामास कटिभूषणमालिकाम् ।
काचिन्नियोजयामास प्रसूनावचये प्रियम् ॥ ५६॥
काचिद्भूषणसन्दोहं देहेष्वर्पयितुं हरिम् ।
काचिच्च कथयामास भां नयस्व वनाद्वनम् ॥ ५७॥
सर्वासां वचनं चक्रे जानकीव रघूद्वहः ।
ताश्च सर्वा ववृतिरे जानकीवत् प्रियोत्तमे ॥ ५८॥
अन्योन्यं सुदृढः प्रेमा ववृधे प्रतिवासरम् ।
ततस्ता मेनिरे दृप्ताः स्वात्मानमधिकं प्रियाः ॥ ५९॥
कदाचिद्राम एकान्ते सीताया रमणेच्छया ।
तासां सञ्जातदर्पाणां मध्ये चान्तरधीयत ॥ ६०॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम एकत्रिंशोऽध्यायः ॥ ३१॥
६०/१३४९
०३२. रामरासो नाम त्रयंस्त्रिंशोऽध्यायः ।
अर्नाहते रसिकनायकशीर्षरत्ने
रामे रमारमणमात्ररसाभिरामे ।
रामाः प्रभूतविरहार्त्तिभरे निमग्नाः
स्वाङ्गानि वोढुमशकन्नहि तास्तदानीम् ॥ १॥
अन्योन्यमीक्षणपराः श्वसितानिलौघ
चिन्तान्तरस्थविरहानलकीलदग्धाः ।
नो किञ्चनाभिलपितुं स्मरवाणविद्धाः
शक्या बभूवुरपमृत्युभयात्त्रसन्त्यः ॥ २॥
रामस्य मन्मथकलारसिकस्य तास्ता
लीलाः स्मरन्त्य उरुजातवियोगतापाः ।
आभीरिकाः सपदि तन्मयतामवापु
र्येन प्रियोऽहमिति चेतसि मेनिरेऽमूः ॥ ३॥
याश्चावलोकहसितेक्षणभाषणादि
ष्वैकात्म्यमेत्य रघुवंशविभूषणेन ।
उन्मत्तवत् प्रतिदिनं वनिता विचेरुः
प्रेमोदयेन विपिनाद्विपिनं विशन्त्यः ॥ ४॥
क्वचिद्धसन्त्यो गायन्त्यो धावन्त्यः क्वापि संहताः ।
क्वचिदाकाशमालिङ्ग्य भवन्त्यः प्रेमविह्वलाः ॥ ५॥
क्वचिदुच्चैः क्रीडमानाः अन्योन्याबद्धबाहवः ।
केचित्परस्परोन्मन्दैर्विशन्त्यः कुञ्जमन्दिरम् ॥ ६॥
इत्येवं सुफलारम्भैर्भ्रमन्त्यो विरहातुराः ।
प्रमोदविपिनान्तःस्थान् प्रपच्छुस्ता वनस्पतीन् ॥ ७॥
भो अश्वत्थ महाबाहो वनस्पतिपते त्वया ।
क्वचिद् दृष्टो रघुपतिरस्माकं चित्ततस्करः ॥ ८॥
क्वचिद्वटतरो देव बहुपादविराजित ।
क्वचिद् दृष्टो न वा रामो हृत्वा नो हृदयं व्रजन् ॥ ९॥
भो भो अशोकविटपिन् बहुभद्रकारिन्
किंस्विद्व्यलोकि भवता रसिकोत्तमः सः ।
यस्याङ्घ्रिपाणिमधुराधरकोमलानि
जानाति सम्प्रति परं तव पल्लवानि ॥ १०॥
भो चम्पकद्रुम किमप्यथ पृच्छमान
स्त्वं किं धुनोषि करपल्लवसङ्घमेव ।
पुष्पाणि ते रसिकराघवपुङ्गवस्य
पीताम्बरेण सदृशानि विलोकयामः ॥ ११॥
भो नागकेशर महीरुहनागभूत
पुन्नाग किन्नु युवयोर्योवदितो न वाभूत् ।
व्रीडा मनांसि खलु नः प्रणयेन रामो
विक्रीतवान् मनसिजस्य खलस्य हस्ते ॥ १२॥
आम्रातक त्वमपि रक्तदलोऽसि नूनं
मन्ये क्वचिद् रघुवरेण करे गृहीतः ।
कच्चित् परोपकरणेऽपि विचक्षणोऽसि
यन्नाम ते कुरवकेति भुवि प्रसिद्धम् ॥ १३॥
योऽन्तः प्रमोदवनवासिनि सेवकानां
कल्याणकारिणि तुलस्यमरेन्द्रवन्द्ये ।
अस्मान्निहत्य तव देवि पतिः स रामो
यातः क्वचिन्न विदितो विपिनान्तरेऽस्मिन् ॥ १४॥
हे आलि मालति महासखि मल्लिकेऽस्म
च्चित्तप्रसादनपरे नवजातिवल्लि ।
अस्मानिव प्रियतरो वत राघवेन्द्रो
युष्मानपि व्यथितवान् विरहं प्रदाय ॥ १५॥
भो भो तमालविटपिन् बहुधासि दृष्टः
किं पृच्छनीयमसकृद्भवते वतेदम् ।
यद्राघवेन्द्रजलदोत्तमसङ्गमेन
जातोऽसि मेचकवपुः कपटैः प्रवृद्धः ॥ १६॥
पनसद्रुम कस्मात्त्वमस्थाने फलितोऽसि भोः ।
जानीमहे राघवेन्द्रसङ्गात् सञ्जातसम्भ्रमः ॥ १७॥
रसाल भवतो रम्या मञ्जरीः शिरसा दधत् ।
कौशल्यानन्दनः कान्तः क्व यातस्तद्वदस्व नः ॥ १८॥
पीलुप्रियालमधुकासननागरङ्ग
श्रीरामपूगतरुतालकदम्बसालाः ।
कच्चिद्वनेऽत्र विचरन् जनकात्मजेशो
दृष्टो न वा हृदयहारकतस्करो नः ॥ १९॥
धन्ये प्रमोदवनसन्ततशोभमाने
हे नर्मदे सरयु हे सखि सूर्यकन्ये ।
कामोद्धतस्तव तटान्तनिरीक्षणोत्कः
श्रीरामचन्द्ररसिकोऽत्र किमभ्युपेतः ॥ २०॥
मातः प्रमोदवनशोभिनिकुञ्जभूमे
किन्नु त्वदीयसुकृतं वयमीरयामः ।
रोमाञ्चितासि नवशाद्वलकैतवेन
रामाङ्गसङ्गसुखिता प्रणयोत्करेण ॥ २१॥
हे कृष्णसार ललना न भवादृशीना
मस्मत्सखी समुचिता ननु वृत्तिरेषा ।
एकान्ततो यदसकृद्विपुलैः कटाक्षैः
कान्तं प्रपश्यथ वधूजनवञ्चिशीलम् ॥ २२॥
सख्यो लता न भवतोषु कृतः स्वबुद्ध्या
शाखाशतैर्विटपिभिः परिरम्भ एषः ।
उद्वीक्ष्य किन्नु विकसत्कुसुमाक्षिरन्ध्रैः
कान्ताकुचग्रहपरं रसिकेन्द्ररत्नम् ॥ २३॥
जानीमहे बहुलसौरभसारिलिङ्गा
देतास्युपायपदवीं खलु राघवेन्द्रे ।
तस्य प्रियाकुचविलिप्तसचन्द्रसार
कालागुरुद्रवगुणैरिह वाति वायुः ॥ २४॥
एताः प्रमोदवनवल्लय एव धन्या या
दूतिकाभिरलिनीभिरुपात्तमन्त्राः ।
श्रीराघवेन्द्रविलसत्तनुसङ्गिनीभि
र्वाञ्छन्ति भोगमतुलं वयमेव यद्वत् ॥ २५॥
रे भूरुहाः कथयत क्व गतः स चौरः
श्यामः सुतीक्ष्णनयनेषुधिपूर्णबाणः ।
प्राप्येत चेत्प्रणयरज्जुशतेन बद्ध्वा
स्थाप्योऽधुना निजनिकेतन मध्य एव ॥ २६॥
एवं प्रियं विचिन्वन्त्यो गोप्यो विश्लेषभीरवः ।
अपश्यन् भूरिशः पत्युः पदानि विपिनान्तरे ॥ २७॥
ता रेखयोर्ध्वगामिन्या उच्चैर्वज्ज्राङ्कुशादिभिः ।
विज्ञाय वल्लभस्यैव प्रोचुर्वचनमादरात् ॥ २८॥
तस्यैव तस्करेन्द्रस्य पदान्येतानि कानने ।
शङ्खचक्राम्बुजाद्यङ्कैरङ्कितानि प्रपश्यत ॥ २९॥
दक्षिणस्य पदोऽङ्गुष्ठमूले चक्रं विराजते ।
अस्मादृशीनां नम्राणामङ्गोच्छेदन हेतवे ॥ ३०॥
मध्यमाङ्गुलिमूलेतु भाति कमललाञ्छनम् ।
अस्मच्चित्तद्विरेफाणां लोभनायातिशोभनम् ॥ ३१॥
पद्मस्याधो ध्वजं भाति सर्वानर्थजयध्वजम् ।
कनिष्ठामूलतो वज्रं भाति पापाद्रिभेदनम् ॥ ३२॥
पार्ष्णिमध्येऽङ्कुशो भक्तचित्तेभवशकारकः ।
भोगसम्पन्नयं धत्ते यवमङ्गुष्ठपर्वणि ॥ ३३॥
अथ वामपदाङ्गुष्ठमूलभक्तोन्मुखं दरम् ।
सर्वविद्याप्रकाशाय दधाति भगवानसौ ॥ ३४॥
पद्मादीन्यपि चिह्नानि दृश्यन्ते दक्षपादवत् ।
एतत्पदानुसारेण गवेष्यो रघुनन्दनः ॥ ३५॥
अत्रैव कानने क्वापि प्रियया सह वर्तते ।
इत्युक्त्वा गोपवद्ध्वस्तास्तत्पदानुसृतिं क्रमात् ॥ ३६॥
अन्वयुः सान्द्रविपिने समस्ता विरहातुराः ।
प्रियापदैः सुपृक्तानि तत्रैक्षन्त व्रजाङ्गनाः ॥ ३७॥
मध्य एवाविरभवत् कासौ धन्यतमा वधूः ।
अंसे विन्यस्य दोर्वल्लीं सह गच्छति यामुना ॥ ३८॥
इयं हि सहजानन्दकेलीनिर्वृतमानसा ।
अस्मान् हित्वा यदासक्तः क्रीडते व्रजवल्लभः ॥ ३९॥
सहजानन्दिनी नाम शक्तिरेषैव कामिनी ।
सा वल्लभमनाश्रान्तं रमयत्यनुरागिणी ॥ ४०॥
परस्परासक्तबाहुदण्डाभ्यां विधिपूर्वकम् ।
अत्र विक्रीडितं ताभ्यां भ्रमणाक्रीडनाभिधम् ॥ ४०॥
अत्र भूषासमारोपः प्रियायाः प्रेयसा कृतः ।
परस्परं सम्मुखस्थौ दृश्येते ललितैः पदैः ॥ ४२॥
अत्राभ्यां रचिता केलिः पुष्पावचयनाभिधा ।
विना पार्ष्णितलन्यासं पदान्येतानि पश्यत ॥ ४३॥
अत्र स्थित्वा कृतास्ताभ्यां विचित्राः कुसुमस्रजः ।
स्वं स्वं चातुर्यविभवं दर्शयद्भ्यां परस्परम् ॥ ४४॥
अत्र प्रियेण प्रेयस्याश्चक्षुषो रज्जनं कृतम् ।
स्पष्टं पङ्केरुहां पत्रं प्रोञ्छनैर्मलिनीकृतम् ॥ ४५॥
अत्र प्रियः स्वप्रियायै प्रादात्ताम्बूलवीटिकाम् ।
चूर्णं खदिरसारं च दृश्यतां पतितं भुवि ॥ ४६॥
अत्राभ्यां रचितं सौख्यं मन्मथोत्सवदायकम् ।
पद्मपत्रमयी शय्या व्यत्यस्ता दृश्यते स्त्रियः ॥ ४७॥
अत्र प्रियाभिरुच्यैव प्रेयस्या पुरुषायितम् ।
दृश्यतेऽन्तः प्रियवपुः परितः प्रेयसीपदे ॥ ४८॥
स्त्रस्तानि नवपुष्पाणि विग्रन्थिकबरान्तरात् ।
अहो हारलता भग्ना विकीर्णा मणयोऽमलाः ॥ ४९॥
तां कोमलाङ्घ्रिकमलामिह खिद्यमाना
मंसे निधाय दयितामिह नीतवान् सः ।
नातः परं परिलसन्ति पदानि यस्याः
स्वाधीनतागुणवशीकृतवल्लभायाः ॥ ५०॥
धन्याः परं युवतयो रघुनन्दनस्य
भर्त्तुः पदाम्बुरुहसम्भवरेणवोऽमी ।
यां पद्मयोनिरघहन्यव ईश्वरश्च मूर्द्ध्ना
दधाति कमला च नितान्तभक्ता ॥ ५१॥
यां कामुको रसितवानितरां विहाय
भूयो वियोगभरकालदवाग्नितप्ताः ।
सात्मानमभ्यधिकमानममंस्त सम्यक्
स्त्रीणां निजायनजुषां प्रमदेतरासाम् ॥ ५२॥
भूयोऽब्रवीच्च खलु सा प्रिय पारयामि
नो गन्तुमध्वनि निकुञ्जविशीर्णपर्णे ।
आरोप्य सम्प्रति निजांसमितो नयेश्चे
त्युक्तः प्रियश्च सहसा विदधौ तथैव ॥ ५३॥
ततोऽन्तरितवान् रामः सहजानन्दविग्रहः ।
तस्यै निजवियोगोत्थां वेदनामनुभावयन् ॥ ५४॥
ततस्तु ताः पद्मदृशः समस्ता
यावद्रहस्यं दयितस्य मत्वा ।
नाग्रे प्रवृत्ताश्चलितुं साऽपि तावत्
प्रियोत्तमाभिर्ददृशे प्रेयसीभिः ॥ ५५॥
प्रियस्य विश्लेषभरेण खिन्ना
शून्यादिशश्चकितं वीक्ष्यमाणा ।
पुनः पुनः स्वल्पदुरात्मभावं
दर्पं च सञ्चिन्त्य विलज्जमाना ॥ ५६॥
हा नाथ हे रमण सुन्दरवर्यधुर्य !
प्रेष्ठ प्रिय प्रियतम प्रणयामृताब्धे ।
दासीं विहाय ननु मां निविडे निकुञ्जे
क्वासीति दीनवचनैरनुनाथमाना ॥ ५७॥
सा तान् व्रजाभीरवधूसमूहाना
पृच्छमानान् स्वपतेरुदन्तम् ।
सर्वस्वहेतुं कथयाञ्चकार
श्रीः स्वस्य मानं च तथावमानम् ॥ ५८॥
तयोक्तमाकर्ण्य मृगीदृशस्ता
जग्मुः परं विस्मयमात्रहासाः ।
तया समेताश्च पुनस्तथैव
वियोगभारव्यथिता बभूवुः ॥ ५९॥
उन्मत्तवत्तत्र वनाद्वनान्तरं
गवेषयन्त्यो रघुनन्दनं प्रियम् ।
तद्ध्यानतस्तन्मयतामवाप्य
तास्तस्यैव लीलां व्यदधुः परात्मनः ॥ ६०॥
कस्याश्चिद्राक्षसीयन्त्या रामायन्त्यपिबत्स्तनम् ।
खट्वायन्तीं परामन्या तोकायित्वा पदाहनत् ॥ ६१॥
दैत्यायन्ती परा काचित् कृत्वारामार्भभावनाम् ।
जहार जानुसम्मर्दैरिङ्गन्तीं नूपुरस्वनैः ॥ ६२॥
रामायन्ती बभूवान्या गोपायन्त्यश्च काश्चन ।
सर्पायन्तीं खगायन्ती जघान निजविक्रमैः ॥ ६३॥
वेणं क्वणन्तीमन्या तु काचिच्चानुजगौ स्वरैः ।
रामायन्त्याजुहावान्या नाम्नान्यां धेनुकायतीम् ॥ ६४॥
तत्रैका लक्ष्मणायन्ती भरतायन्ती तथा परा ।
शत्रुघ्नायन्त्यथो काचिद्रामेन्दुं परिववृरे ॥ ६५॥
अन्या माङ्गल्यकायन्ती गवेन्द्रायन्त्यथोऽपराः ।
रामायन्त्यभिशुशुभे व्रजे तं मातरौ यथा ॥ ६६॥
माभैसुरिन्द्रकोपेन त्राताहं ननु राघवः ।
वर्षर्तुः प्रलयासारा इत्युक्त्वा निदधेऽम्बरम् ॥ ६७॥
शुचौ पश्यत गोपाला दावाग्निं विश्वतोमुखम् ।
चक्षूंष्यपि दधध्वं चेत् क्षेममाप्तुमिहेच्छथ ॥ ६८॥
इत्युक्त्वा राममात्मानं मत्वा कोरकितानना ।
पपौ निमेषमात्रेण सर्वानाश्वास्य पावकम् ॥ ६९॥
काचिद् भुजङ्गमायन्त्याः कस्याश्चिन्मस्तकेऽनटत् ।
समुद्रं गच्छ दुष्टाहे भाषमाणा रुषारुणा ॥ ७०॥
काचिद्दाम्ना बबन्धान्यां द्रुमायन्त्याश्च मूलतः ।
सा च तां पातयामास स्तुवन्तं विविधैः स्तवैः ॥ ७१॥
एवं तन्मयतामेत्य तल्लीला व्यदधुः क्रमात् ।
गवेषयन्त्यो विपिनाद्विपिनान्तरमाययुः ॥ ७२॥
यावद्वनलताकुञ्जे चन्द्रज्योत्स्ना न दृश्यते
ततोऽन्धकारगहनं वनं वीक्ष्यातिगह्वरम् ।
सर्वा निववृतुस्तस्मात्पृच्छ्यमाना लताद्रुमान् ॥ ७३॥
तमेव कान्तं मनसि स्मरन्त्य
स्तमालपन्त्यश्च बहिः समक्षम् ।
तस्यैव चेष्टा विदधन्त्य उच्चै
स्तदात्मिका नात्मगृहाणि सस्मरुः ॥ ७४॥
पुनर्निवृत्ताः पुलिने सरय्वा
यत्र प्रियेणाभिरता पुराभूः ।
समेत्य सर्वाः स्वरमूर्च्छनाभि
र्जगुर्यथा किन्नरवर्यवध्वः ॥ ७५॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम द्वात्रिंशोऽध्यायः ॥ ३२॥
७५/१४२४
०३३. रामरासो नाम त्रयंस्त्रिंशोऽध्यायः ।
गोप्य ऊचुः
जयति प्रिय जन्मभृता भवता
सरयूतटभूमिरुदञ्चशुभा ।
त्वदुदारमुखेन्दुविलोकनजं
परिदीव्यति यत्र मुदां प्रसरः ॥ १॥
अथ चेद्बहुलार्तिरिहास्ति पते
भवदेकपरास्वबलासु भृशम् ।
रघुनन्दन सापि परं भवता
परिहार्यतमा स्मितपूर्वदृशा ॥ २॥
अथ याध्वसहस्र वियोगभवा
प्रिय नार्त्तिरसौ ह्रियते भवता ।
तदिहैष्यति सन्ततमुज्वलतः
करुणारस एव कठोरतरम् ॥ ३॥
प्रलयाभ्रगणाद्दववह्निभरात्
पवनप्रचयाद्विविधारिभयात् ।
परिरक्षितवानसि नः प्रणयिन्
विरहार्तिमहाभयभोगकृतः ॥ ४॥
अपि पद्मभवादिभिरर्थित
इत्युदयत्वमितोऽसि ककुत्स्थकुले ।
धरणीभरसंहरणाय तथा
निजभक्तजनामितदुःखकृते ॥ ५॥
तदिदं स्वजनाभयदानदृढं
सकलेप्सितपूरणकल्पतरुम् ।
निजपाणिमिमं पुरुषोत्तम नः
शिरसि प्रणयेन निधेहितमाम् ॥ ६॥
अयि वीरवर व्रजवल्लभ हे
रघुवंशविभूषण चारुमते ।
निजदास्यकरीर्भज सुन्दर नः
प्रियदर्शनचारुमुखाम्बुरुहम् ॥ ७॥
भुवनत्रयसन्तततापहरं
जनपापहरं कमलासदनम् ।
चरणाब्जयुगं कुरु वक्षसि नः
शमय स्मरदुर्जयवाणरुजम् ॥ ८॥
तव दर्शनसङ्गमसंस्पृहिता
सुमहार्त्तिकरा विरहादधुना ।
हृदि सम्मथिताः रघुनन्दन नः
कृपयाधरसिन्धुसुधाभिद्रवैः ॥ ९॥
रुचिरस्मरण प्रिय सम्प्रति न
स्तव दिव्यकथामृतमेव गतिः ।
विबुधेश न चेद्विरहाग्निभरो
भसितोत्तरकं कलयेन्न किमु ॥ १०॥
रघुनाथ भवत्परिरम्भभुवः
प्रमुदः स्मृतिमात्रमिता अधुना ।
व्यथयन्तितमां हृदयानि न नः
प्रतिकूलतया खलु चित्रमिदम् ॥ ११॥
मृदुलेन पदाब्जयुगेन भवान्
यदि नाथ निकुञ्जवनेष्वटसि ।
तदिहेहि कठोरतृणाङ्कुरकै
र्भृशमर्द्द्यत एव मनः खलु नः ॥ १२॥
विलुलत् कुटिलालकजालवृतं
भ्रमरीगणसेवितमब्जमिव ।
स्मृतिमेति यथा तव नाथ मुखं
भवतीव तथा व्यथितं हृदयम् ॥ १३॥
कमलाकरसेवनभाजनकं
तव चारु पदाब्जयुगं जयति ।
स्तनकोरकयोः कृतमात्रमथो
खलु यत् स्मरदुःखहरं भवति ॥ १४॥
विरहज्वरसम्भवतापहरं
विषमेषुभवव्यथनाशमनम् ।
अधरामृतसीधुरसं रुचिरं
रघुदेव वितीर्य सुखं वितर ॥ १५॥
यदुदारमनर्घ्यभवद्वदनं
प्रविलोक्य रसोढतमो निमिषः ।
अधुना तदनेकदिनान्तरितं
स्तवगम्य धिगस्तु दृशौ सुदृशौ ॥ १६॥
पतिपुत्रसहोदरबन्धुसुखं
स्वजनं परिहृत्य जवात् स्वमितः ।
अबलाः प्रबलात्मभुवा ग्रथिताः
क उदार जहातु भवन्तमृते ॥ १७॥
तदनेकरहस्यकथावसरे
परिरम्भरसाकुलमात्तमुरः ।
तव कान्त तमालसमप्रतिमं
स्मरतीः किमु मूर्छयसे वत नः ॥ १८॥
मृदुलोपलवत् कठिमानमिमं
कुत एव भवानसि शिक्षितवान् ।
यदिमाः स्वगतीरिह नाक्षिकला
कलनादवसि व्रजवामदृशः ॥ १९॥
भवतो वपुरङ्गशिरीषमृदु
स्पृहया कठिनेषु कुचेषु यथा ।
कलयाम तथा भयमेति मनः
पुलकाङ्कुरकण्ठरुगञ्चतु मा ॥ २०॥
स भवान् विजने विपिने निशि नः
प्रविधाय खलु स्मरहस्तगताः ।
अवधिं गतवानसि किं नितरा
मितरां भजमान उदारमनाः ॥ २१॥
अथ धन्यतमा खलु सा रमणी
रमणीनिवहादपकृष्य वने ।
विजनेऽत्र भवन्तमतिप्रणयं
प्रिय नीतवती बहुसाहसिका ॥ २२॥
अयि धूर्त्तधुरन्धर धीरमते
विलपन्तमिमं रमणीनिवहम् ।
नयनेन निभालयले न कथं
कलयन्नपि सन्तमघे रमणम् ॥ २३॥
प्रणयेन पुरा खलु यामनयो
विलपत्यति सापि सहैव चिरम् ।
प्रणयिन्यबलेयमितोप्यपरा
प्रिय कास्ति भवत्सविधे रमणी ॥ २४॥
नहि तत्र भवान् विजनेऽस्ति परं
स्वयमेव नरेन्द्रकुमारमणे ।
न खलु क्षणमप्यसि केलिकला
रहितोऽखिलकोककलैकपटुः ॥ २५॥
अथ या भवदङ्गसुसङ्गकरी
त्वितरैव विभाति रमा खलु सा ।
नहि नाथ तया रहितोऽस्ति भवान्
नहि सा सहते विरहं क्वचन ॥ २६॥
वयमीश तथा तव सङ्गमने
प्रिय विघ्नलवं कलयाम कदा ।
युगलं खलु तद्भवतोः सुचिरं
व्यतिभातु विशेषविलासकरम् ॥ २७॥
तनुकान्तिरिव प्रथिता भवतः
प्रियसङ्गम एव सदा वसतु ।
इत एव भवत्वनिशं भवते
ह्यबलाजनदुःखभरो विदितः ॥ २८॥
अपि नोदय तं स्पृहणीयुगणे
भवती परिवेत्तु दशां खलु नः ।
अथवा विदितेदृशदुःखदशा
किमु वेत्स्यति नित्यविलासपरा ॥ २९॥
स्वजनेषु तथापि परां करुणां
परिपालय लोकपतेर्महिषी ।
निजनित्यविलासयुतं दयितं
परिदर्शय नो नयनोत्सवदम् ॥ ३०॥
जनकस्य जगत्प्रणयैकजुषः
करुणारसकोमलितात्महृदः ।
तनया भवतीति मनांसि च नः
खलु विश्वसितं भवति त्वधुना ॥ ३१॥
इह वां सुरतान्तधृतश्रमयो
र्मनुवारिकणाञ्चितविग्रहयोः ।
सुखदायि पटुः परिरम्भकरः
परिवाति मरुद्वहुभाग्यभृतः ॥ ३२॥
असकौ ननु सौरभसारभरः
परिवाति मुहुर्मरुताकलितः ।
यदिहोदयते कलकल्पलता
युतमल्पतरोरधिकः पटिमा ॥ ३३॥
अयि वामविधे व्रजवामदृशां
कलयिष्यति भूरि कदा नु भवान् ।
सहजं सहजेन मनोत्सवदं
युगलं खलु दम्पतिभावयुतम् ॥ ३४॥
रघुनन्दन दर्शनदानकृते
मुनयेऽत्रिसुताय नमोऽस्तु च नः ।
पुनरेव नमोऽस्तु रघूद्वह ते
वरदाय निजात्मवरोत्तम हे ॥ ३५॥
पुनरेव नमोऽस्तु वधूमणये
निमिवंशमहोत्सवदायिदृशे ।
इतराभ्य इदं खलु दत्तवती
प्रणयेन धनं स्वरहस्यमपि ॥ ३६॥
त्रिजगल्ललनौघशिखामणये
पुनरेव नमोऽस्तु नमोस्तु च नः ।
सहजात्मसुखाकृतये सहजा
सहजात्मचिदाकृतये हृतये ॥ ३७॥
सहजामहिषीरतिरात्मसुखा
प्रमदा पुरुषां जगेदकजनिः ।
अथ चिल्लतिकापि च चिन्निधिरि
त्यवगच्छ नवात्मकनाम मनः ॥ ३८॥
श्रीर्माया मदना सरस्वतिपरा तारात्रया पद्मजा
त्रैलोक्येश्वरवृंहिताङ्कसदनस्था सच्चिदानन्दिनी ।
पञ्चात्मा निखिलप्रपञ्चरचनाचातुर्यगा तुर्यगा
तुर्यातीतकला परावरतरा सीता सिता चासिता ॥ ३९॥
इतिबहुविक्लवातुरहृदो व्रजवामदृशः
प्रसभतरं विलप्य करुणास्मरवाणरुजा ।
वत वत सम्भ्रमेण बहुवीक्षितशून्यदृशः
सुभगतरस्वरेण रुरुदुर्विजने विपिने ॥ ४०॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम त्रयंस्त्रिंशोऽध्यायः ॥ ३३॥
४०/१४६४
०३४. रामरासो नाम चतुस्त्रिंशोऽध्यायः ।
ब्रह्मोवाच ।
तत आविरभूद्रामस्तासां विरहकातरः ।
वामभागसमासक्तसीतालिङ्गितविग्रहः ॥ १॥
मधुराननसंशोभिकोटिचन्द्रोज्ज्वलस्मितः ।
तडित्कान्तिचमत्कारिपीताम्बरसमावृतः ॥ २॥
नवीनपुष्पग्रथितां पञ्चवर्णस्त्रजं दधत्
अनेकरत्नसञ्जुष्टहेमचन्द्रावतंसकः ॥ ३॥
सम्भ्रान्तपद्महस्ताभिस्तडिदुज्ज्वलकान्तिभिः ।
सम्पन्ननिष्ककण्ठीभिः श्यामाभिः शुभदृष्टिभिः ॥ ४॥
रत्नाकल्पमनोज्ञाभिः कान्तपीयूषवृष्टिभिः ।
सहस्राधिकरामाभिः संसेवितशुभाननाम् ॥ ५॥
कल्याणकारिणीं दिव्यां दिव्यकेलिविभूषिताम् ।
निजवामांससंसक्तां सहजानन्दरूपिणीम् ॥ ६॥
वामभागे प्रियां रामो जुषमाणः सुलोचनः ।
कस्तूरीतिलकोपेतपूर्णभालस्थलप्रभः ॥ ७॥
प्रेमासवरसास्वादपूर्णमान हृदुन्मदः ।
वामाक्षिहृदयोल्लासकारिवीक्षणकारकः ॥ ८॥
महामारकतोद्योतिमयूराकृतिकुण्डलः ।
दिव्यचूडासमावद्धमल्लीमाल्यमनोहरः ॥ ९॥
रत्नकेयूरसुभगबाहुद्वयविराजितः ।
रत्नहारमनोहारिविशालसदुरस्थलः ॥ १०॥
रत्नकाञ्चीगुणाबद्ध कटिवस्त्रविभूषितः ।
निम्ननाभिहृदोदग्रवलित्रयविराजितः ॥ ११॥
वामपादसमाक्रान्तदक्षपादप्रियाकृतिः ।
त्रिभङ्गीललिताश्यामवामकामदविग्रहः ॥ १२॥
लसन्नूपुरमञ्जीरकिङ्किणीपादपङ्कजः ।
नासाग्रमिहितोत्तुङ्गनवमौक्तिकमञ्जुलः ॥ १३॥
ताम्बूलीदलसंस्निग्धरञ्जिताधरपल्लवः ।
पुरुषायितकामिन्या क्रीडोचितलसद्वपुः ॥ १४॥
अश्मश्रुचिबुकोन्नद्धतिलबिन्दुविराजितः ।
महिलाजनदृग्भङ्गपीयमानमुखासवः ॥ १५॥
भूयः षोडशवर्षेण वयोमाधुर्यमञ्जिमा ।
नित्यलीलाचमत्कारि श्रीविग्रहविराजितः ॥ १६॥
तं वीक्ष्यं गतिमात्मानं प्रणयोल्लासिलोचनाः ।
सर्वास्ताः सहसा तत्र समुत्तस्थुर्मृगीदृशः ॥ १७॥
देवतास्तत्त्वरूपिण्यो यथापूर्वमचेतनाः ।
चैतन्यमुपलभ्याथ प्रविष्टे तु परात्मनि ॥ १८॥
काचित् तदीयकरपङ्कजमञ्जुलस्थे
कृत्वा सुखेन निदधाति निजे कपोले ।
काचिच्च सङ्गमयते नयनद्वयेन
काचिच्च वक्षसि च नाभिहृदे च काचित् ॥ १९॥
काचिच्च तस्य भुजदण्डमहीन्द्रभोग
श्रीखण्डवृक्षविटपप्रतिमं गृहीत्वा ।
अंसे दधाति च कापि च मूर्द्ध्नि कापि
काचित् सहर्षमुपगृह्य जहाति पापम् ॥ २०॥
ताम्बूलचर्वितकमञ्जलिना च काचिद्
गृह्णाति तन्निपतदर्द्धपथे निरुध्य ।
काचित् तदङ्घ्रिकमलं विरहज्वरेण
सन्तापिनि स्तनयुगे निदधाति तन्वी ॥ २१॥
अन्या च काचन निमेषविवर्जिताभ्यां
दृग्भ्यां प्रियस्य वदनाम्बुरुहं पिबन्ती ।
नैवाद्य तृप्तिमबला सुखसिन्धुमग्ना
चित्रार्पितेव विटपाश्रयिणी बभूव ॥ २२॥
काचित् तमोक्षणपथेन हृदि प्रविश्य
नेत्रे निमील्य पुलकौघविसंस्थुलाङ्गी ।
दोर्भ्यां दृढं समवगृह्य निबद्धमौना
योगीव चित्सुखमहोदधिनिर्वृतास्ते ॥ २३॥
काचिन्मनोजधनुषा भृकुटिद्वयेन
संयोज्य तीक्ष्णविशिखान् कुटिलान् कटाक्षान् ।
दृष्ट्वा रुषेव दशनैर्दशनच्छदं स्व
मैक्षिष्ट कान्तमतुलप्रणयाघ्नतीव ॥ २४॥
अन्ये सुवर्णलतिकेव रुचा स्फुरन्त्यौ
तस्यांसयुग्ममवलम्ब्य विरोचमाने ।
तत्र प्रमोदवनदिव्यतमालकान्ति
मत्यद्भुतां पुपुषतुः प्रभयानुरूपे ॥ २५॥
काचित् तदीयममलं मुकुरायमानं
स्वच्छं कपोलतलमुत्प्रणया चुचुम्ब ।
अन्या तदक्षियुगलं रदनच्छदाभ्यां
ताम्बूलिकादलरसैरनुरज्यमानम् ॥ २६॥
एका तदीयमधरं मधुरं सुधायाः
संस्थानमन्दिरमिवापिवदाननेन ।
अन्या मदेन परिरभ्य निवृत्तलज्जा
स्वानन्दसिन्धुरसवीचिषु निर्ममज्ज ॥ २७॥
इत्थं रमण्यस्ताः सर्वाः प्रियदर्शननिर्वृताः ।
सन्तापं विजहुर्यद्वत्प्राप्यानन्दमयं जनाः ॥ २८॥
भूयस्तदङ्गसङ्गिन्यै सच्चिदानन्दशक्तये ।
पश्यन्त्यस्तदभेदेन नाभ्यसूयन् मृगीदृशः ॥ २९॥
एषास्य सहजानन्दशक्तिर्लीलाविनोदिनी ।
नानारसासवावासा प्रमोदविपिनेश्वरी ॥ ३०॥
एषा श्रीः सततं चास्य पुरुषस्य महात्मनः ।
यामाद्यां सहजां शक्तिं मुनयः सम्प्रचक्षते ॥ ३१॥
प्राप्स्यामो भूरिदौर्भाग्यमनया रहिता वयम् ।
प्रियोऽपि नास्मत्सविधे संस्थास्यत्यनया विना ॥ ३२॥
अहो चन्द्रमसः सेयं चन्द्रिकेव विराजिता ।
कोर्थोऽनया विनास्माकं दासीनां प्रभुतुल्यया ॥ ३३॥
वयमेनां समाराध्य कामदां कामयामहे ।
पुत्रीं जनकराजस्य प्रमोदविपिनेश्वरीम् ॥ ३४॥
जय देवि महाराज्ञि यासि त्वन्नः परानिधिः ।
नित्यं परिचरिष्यामस्त्वां वयं दासिका इव ॥ ३५॥
ततोऽनयाभ्यनुज्ञाताः समस्तास्ता मृगीदृशः ।
व्यरुचन् परितस्तस्य चन्द्रस्योडुगणा इव ॥ ३६॥
सोऽपि ताभिर्भावनिर्द्धूतविरहामलकान्तिभिः ।
स्वशक्तिभिः समग्राभिः शुशुभे पुरुषोत्तमः ॥ ३७॥
यूथव्यूहं समादाय वामदक्षिणयोर्विभुः ।
सरय्वाः पुलिनं रामः प्राविशत् केलिकाम्यया ॥ ३८॥
नित्यं विकसितानन्तदिव्यानेकसुरद्रुमम् ।
गुञ्जद्भ्रमरसङ्घुष्टनिकुञ्जललिताङ्गणम् ॥ ३९॥
वीचीभुजसमास्तीर्णकोमलस्वच्छवालुकम् ।
उपर्यास्तीर्णवनितावेषचन्द्राच्छचन्द्रिकम् ॥ ४०॥
मन्दारविपिनान्दोलसुरभ्यनिलसेवितम् ।
रत्नवेदीसमुत्थांशुसंव्याप्त गगनान्तरम् ॥ ४१॥
उदञ्चत्पञ्चमालापविकस्वरपिकस्वरम् ।
राजहंसवधूवृन्दानुकृतप्रमदागणम् ॥ ४२॥
नानारतिरहस्योत्थशब्दचाटुशुकीरवम् ।
उद्गतानन्दकन्दर्पसपर्यायोग्यसंविधम् ॥ ४३॥
प्रियेण तास्तत्र समेत्य निर्वृता
स्तदाननालोकसुधात्तभोजनाः ।
विधूतविश्लेषरुजो मृगीदृशो
निकाममापुः सकलान् मनोरथान् ॥ ४४॥
निजोत्तरीयैः कुचकुम्भलेपित
श्रीखण्डचन्द्रागुरुकुङ्कुमाङ्कितैः ।
अरीरचन्नद्भुत लीलनोत्सुका
प्राणेश्वरायातिमहार्हमासनम् ॥ ४५॥
तत्रास्थितोऽसौ शुशुभे रघूद्वहः
प्राणेश्वरो लोचनलास्यलालितः ।
पारेपरार्द्धस्मररूपदर्पहा
गोपाङ्गनामण्डलमण्डनाकृतिः ॥ ४६॥
परस्परालापनिरीक्षणस्मित
भ्रूविभ्रमाश्लेषकरग्रहादिभिः ।
सम्पूज्य संस्तुत्य तथात्मनः प्रियं
प्रियाः समेताः किमपीदमूचिरे ॥ ४७॥
गोप्य ऊचुः
ये सेवमाना ननु सेवमाना
असेवमानानपि सेवमानाः ।
ये सेवमानान् परितो सेवमाना
न सेवमानास्त इमे के वदस्व ॥ ४८॥
मातॄः पितॄन् स्निग्धतमानपत्य
भ्रात्रादिकान् सुहृदश्चात्मबन्धून् ।
हित्वा च पादाब्जतलं प्रपद्य
त्वं सेवमानान् परिपासि कच्चित् ॥ ४९॥
किंवा भवैकान्तरतानभव्यान्
निन्दापरान् लम्पटान् नीचसत्त्वान् ।
कन्दर्पानुध्यानपथे प्रवृत्तां
स्त्वसेव्यमानान् भजसे नाथ कच्चित् ॥ ५०॥
किंवोभयभ्रष्टहृदः शिलामयान्
कुयोगिनो नासि पापेषु निष्ठान् ।
ईदृग्विधान् मानुषाख्यान् पशूंस्त्वं
प्रपूर्णरङ्गं भजसे नाथ कच्चित् ॥ ५१॥
इत्येवमुक्तो भृशमाभीरदारैः
परात्परो भगवान् रामचन्द्रः ।
श्रियायुतः कोटिकन्दर्पकान्तिः
स्मित्वा रेभे प्रतिवक्तुं महात्मा ॥ ५२॥
श्रीराम उवाच ।
विहाय संसारमपारसान्तरं
भवादृशान् भजतः प्राकृतौघान् ।
भजामि नित्यं निजवामाङ्गभागं
रमामपि प्रेयसीं संविहाय ॥ ५३॥
संसारिणो विषयैकान्तलुब्धान्
न मां परं भजतो नो भजामि ।
कामानुरूपां गतिमेषां ददामि
कुर्वे सुरानासुरीष्वेव भूषु ॥ ५४॥
नान्यानहं सेवमानान् भजामि
जनान् प्रसिद्धोभयधर्महीनान् ।
प्रपद्यन्ते ये यथा मां मनुष्याः
प्रपद्येऽहं तांस्तथा भावयुक्तः ॥ ५५॥
न वस्तुतोऽहं भजतो भजामि
कुतश्चैवाभजतो भूमिजन्तून् ।
आत्मारामः सन्निजैकान्तकेलि
र्लोकातीतः क्रीडमानश्च नित्यम् ॥ ५६॥
भजाम्यहं क्वापि भजतोऽपि जन्तून्
कृपावशस्तत्कृतमीक्ष्यमाणः ।
स्नेहातुरान् दैवदृष्ट्यावरार्थान्
तथातुरान् मानहीनानशक्तान् ॥ ५७॥
यत्सङ्गता मद्वपुषोंऽशवः प्रिया
यथेयं श्रीर्भाति वामाङ्गसंस्था ।
इतोपि सख्योऽभ्यधिका रासकाले
यदेवमन्तर्मयिमानसं वः ॥ ५८॥
मदङ्गसङ्गोपचिता शिखावद् यूयं
प्राणेभ्योऽपि मे प्रेयसीः स्थः ।
नपारयेऽहं भवतीप्रेमबन्धं
निष्कारणं मित्रभावं जुषाणाः ॥ ५९॥
भवतीनां वै विप्रलम्भानुभूत्यै
तिरोहितो भवतीस्थो मयात्मा ।
आविर्भावं प्रापितस्तत्क्षणेन
मा मा हिंसीज्जातवेदाः स्मरोत्थः ॥ ६०॥
तन्मेऽसूया नैव कार्या कदाचित्
प्रेम्णौदार्यं वीक्ष्यमाणाय शश्वत् ।
लोके प्रेम्णः पदवीं शिक्षयाणः
किं किं चित्रं नैव कुर्वे रमण्यः ॥ ६१॥
लीलावैचित्र्यात् सहजानन्दरूपा
प्यन्तर्द्धानं यावदेषा जगाम ।
नैवामुष्यां मद्वियोगः कदाचिद्
दृष्टो भूतः स्वप्नभावे सुषुप्तौ ॥ ६२॥
सम्पूर्णाः शरदो भजमानाः प्रियं
मां धन्या धन्या धन्यधन्याश्च धन्याः ।
प्राप्तं मनागीदृशं प्रेम दिव्यं
युष्मास्वेवं प्रियमेकान्तवत्यः ॥ ६३॥
संसेवनीयः किमुतान्यैर्मयापि
पुण्यस्तीर्थो भवतीपादरेणुः ।
स्त्रियो भूत्वा पौरुषं दिव्यमेवं
यूयं प्राप्ताः शङ्कराद्यैरलभ्यम् ॥ ६४॥
प्रेम्णामलेनान्तरात्मप्रसादात्
प्रीतः क्रीतो भवतीभिः सदाहम् ।
अविप्रयुक्तः सततं चैव रंस्ये
वश्यां वृत्तिं दर्शयानः समग्राम् ॥ ६५॥
नित्ये धाम्नि दिव्यसाकेतसंज्ञे
सरयपुलिने परे नित्यरम्ये ।
सीतालोके भूरि प्रमुदवने यत्र
क्रीडेऽहं तत्र तत्र स्थ यूयम् ॥ ६६॥
यूयं नित्याः कीर्तिता वेदमूर्ध्नि,
नित्यानन्दा नित्यगा नित्यसिद्धाः ।
लोकोऽयं वो नित्यसच्चित्सुखात्मा
किञ्चिज्ज्ञात्वा कामितो ब्रह्मविद्भिः ॥ ६७॥
तेऽमी स्थिताः पुरतोऽग्नेः कुमारा
ब्रह्म विन्दन्तः षष्टिसाहस्रसङ्ख्याः ।
तद्वत् स्थिताः श्रुतयोऽमूः पुरो वो
ब्रह्म विन्दन्तीः सततं कामयानाः ॥ ६८॥
अन्ये च सिद्धा ऋषयो ब्रह्मनिष्ठाः
ब्रह्मर्षयो वन्दिता नारदाद्यैः ।
नेमे लोकं प्राप्तुमर्हन्ति सख्यो
यद्यप्येते कामतत्त्वेन विद्धाः ॥ ६९॥
सर्वस्योर्ध्वं भाति वैकुण्ठधाम
ऊर्ध्वं वैकुण्ठाद्या (दा)दिवैकुण्ठधाम ।
राधालोकं तस्य चोर्ध्वं विभाति
सीतालोकस्तस्यचाप्यूर्ध्व एषः ॥ ७०॥
नातः परं लोकसंस्थागमेषु
दृष्ट्वा क्वचित् सरहस्येषु तेषु ।
चिल्लोकोऽयं मामकीनो मदात्मा
पूर्णः सदा पूर्णपूर्णः सुपूर्णः ॥ ७१॥
आनन्दात्मा स्वे महिम्नि प्रतिष्ठः
सत्याकारः सत्यधर्मा सुसत्यः ।
चिद्रूपोऽयं चित्प्रतिष्ठाप्रतिष्ठः
कालातीतो मायया चाप्यधृष्यः ॥ ७२॥
यस्माज्जातः पूरुषः कोऽपि कालः
श्रीमान् विष्णुर्लोकलोकेशनाथः ।
जिष्णुर्विष्णुः कृष्ण इत्याद्यनेकैर्नाम्नां
वृन्दैः कीर्तितः सोऽपि चांशः ॥ ७३॥
यल्लोकोऽसौ कीर्तितो रामलोकः
सीतालोकस्तत्र चानन्दलोकः ।
ईदृक्प्रेम्णा तमिमं प्राप्य यूयं
जाताः सख्यः कृतकृत्या पुरैव ॥ ७४॥
न यत्र दुःखं न जरा न मृत्यु
र्न कालबाधा प्रकृतेर्न प्रभावः ।
नित्ये सत्ये तत्र यूयं रमध्वं
रसेन संयुग्विप्रयोगात्मकेन ॥ ७५॥
संयोगाद्विप्रयोगो मे प्रियो नित्याभिभाषितः ।
रामात्मनाहं संयोगी रामात्मा विप्रयोगवान् ॥ ७६॥
संयोगरसभोगाय रामोऽहं वै वसे वने ।
विप्रयोगानुभूत्यै तु रामः साकेतपत्तने ॥ ७७॥
रसनामा तु रामोऽहं रामोहं रासनायकः ।
उभयोर्नित्यभोगाय प्रमोदवनमास्थितः ॥ ७८॥
गावो गोपास्तथा गोप्यो नित्यलीलापरिच्छदाः ।
राजन्ति स्वस्वभावेन प्रमोदविपिने मम ॥ ७९॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डिसंवादे रामरासो नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
७९/१५४३
०३५. रामरासो नाम पञ्चत्रिंशोऽध्यायः ।
ब्रह्मोवाच
एवं श्रुत्वा रसिकेन्द्रस्य दिव्य
रसात्मनो राघवेन्द्रस्य वाचः ।
गोपाङ्गनास्तुष्टुवुस्ताः समस्ता
स्त्यक्त्वा वियोगप्रसवं चित्ततापम् ॥ १॥
अथेप्सितानां व्रजसुन्दरीणां
परस्पराबद्धकराम्बुजानाम् ।
मध्ये स्थितो रामचन्द्रो विरेजे
तत्कण्ठयोविलसद्वाहुयुग्मः ॥ २॥
इत्थं शतं सहस्रं च मूर्तीः कृत्वा निजात्मनः ।
रेमे रामो रमोन्मादचलच्चरणतालवृक् ॥ ३॥
तासां प्रेयो नाभिमध्योदरान्त
र्लोलान्योन्याबद्ध हस्ताम्बुजानाम् ।
एको हस्तः खे चलन् भावरीत्या
कामाम्भोजे भ्राजिनालो विरेजे ॥ ४॥
ताः प्रेयसो नूपुरकिङ्किणीनां
नादैः स्वाङ्घ्रिस्थायिनां नूपुराणाम् ।
नादान् मुहुर्मेलयित्वा नटन्त्यः
स्वारस्यमापुर्ललितं सामरस्यम् ॥ ५॥
तस्मिंश्च रासे तालशङ्खा मृदङ्गाः
सझर्झरा पटहाः झल्लरीश्च ।
भेरीवीणावेणुवाद्यप्रभेदाः
सम्मूर्त्तिकाश्चिन्मयाः प्रादुरासुः ॥ ६॥
दृष्ट्वा रासोत्सुकं रामं प्रेयसीश्चापि तस्य ताः ।
वाद्यवादनकारिण्यः प्रादुरासुर्वरस्त्रियः ॥ ७॥
ततानां विततानां च छादितानां समन्ततः ।
घनानां सुषिराणां च प्रादुरासीन्महान् ध्वनिः ॥ ८॥
तं ध्वानमनुकृत्याभूद्दिवि दुन्दुभिजो ध्वनिः ।
अवाकिरंश्च मन्दारमाल्यानि त्रिदिवौकसः ॥ ९॥
चलच्चरणनूपुरैर्ललितकिङ्किणीनां
गणै रनेकवलयैस्तथा विधुत बाहुवल्लीस्थितैः ।
अभूत् सततकाहलः किमपि तत्र कोलाहलः
सुवर्णमणिभूषणप्रकरसिञ्जितैर्मिश्रितः ॥ १०॥
प्रेयसीरनुचकार वल्लभो वल्लभं च ललना अनुचक्रुः ।
ते परस्परविधेयचातुरीवेधसः शुशुभिरे रसरासे ॥ ११॥
प्रेयसीमधुरकण्ठसुस्वरैः प्रेयसो जयति कण्ठसुस्वरः ।
यत्प्रमोदवनवासिकोकिला मौनमापुरनुसर्तुमक्षमाः ॥ १२॥
मध्ये मध्ये कनकलतिकाजातमालैस्तमालै
र्मध्ये मध्ये विलुलिततडिन्मोदमानैः पयोदैः ।
मध्ये मध्ये कनकमणिभा सङ्गशीलैश्च नीलैः
प्राप्तुं शक्या नखलु रमणं राममासां विलासाः ॥ १३॥
एवं स ताभिः शुशुभे रमाभिः
कामप्यपूर्वां परमां दधानः ।
वेणं क्वणन्मध्यगतो दामिनीनां
मध्ये तडित्वानिव जातगर्जः ॥ १४॥
मुग्धाङ्घ्रीणां विलासै रणरणकरणत्किङ्किणीनूपुराद्यै
र्दोर्वल्लीनामुञ्चद्वलयकलकलैः सस्मितैर्भ्रूविजृम्भैः ।
सानङ्गैर्मध्यभङ्गैः कुचपटचलनैः कुण्डलैर्गण्डलोलैः
काञ्चीवेणीकलापैः श्लथलसदलकग्रन्थिभिस्ता विरेजुः ॥ १५॥
स्वेदाञ्चितानि वदनानि विभावतीनां
स्वेदाञ्चितानि च वपूंषि विलासलासैः ।
रासोन्मदप्रणयपाणिविकर्षितानां
रेजुर्नितान्तसुरतान्तगतानि यद्वत् ॥ १६॥
सीता शीतांशुसीता च सुधा श्रीः कमला कला ।
कामिनी कामदा कामा कमनीया कलावती ॥ १७॥
राधा कृष्णानुराधा च सुधाधारा मणीरमा ।
ललनाकोटियूथेषु षोडशैव सुमध्यमाः ॥ १८॥
एता मुख्यतमाः प्रोक्ता यथा कान्तस्तथैव ताः ।
स्वामिनीशब्दभाजश्च दामिनीतुल्यकान्तयः ॥ १९॥
रामेण सह नृत्यन्त्यो रेजिरे रासमण्डले ।
स्वस्वमण्डलमुख्याश्च प्रेयसा प्रतिलालिताः ॥ २०॥
जगुरुच्चैः स्वरेणैताः प्रियकण्ठस्वरोर्जिताः
शुद्धमिश्रप्रभेदाश्च स्वरजातीः सलक्षणाः ।
प्रियेण सह गायन्त्यः पुपुषुः परमां श्रियम् ॥ २१॥
काश्चित् परं वेणुरवानुमोहिता
प्रमत्तपुँस्कोकिलकण्ठजित्वरैः ।
स्वरैरगायन् वनिता वनान्तरे
प्रियेण साकं बहुजातसम्भ्रमाः ॥ २२॥
काश्चित्स्वयूथमवलम्व्य सह प्रियेण
गायन्त्य उच्चतरकण्ठरवाप्तमानाः ।
अन्याः सुनृत्यकलया दधतीः पटुत्व
मौत्सुक्यसङ्गतहृदो नदयाम्बभूवुः ॥ २३॥
कदाचिद् वनिता एव सर्वाः सञ्जगुरुच्चकैः ।
अनृत्यत् प्रिय एकाकी कलाचातुर्यदर्शनैः ॥ २४॥
कदाचिद् गायतोऽत्युच्चैः प्रेयसस्तुष्टिहेतवे ।
अनृत्यन् वनिताः सर्वाश्चातुर्याञ्चितविग्रहाः ॥ २५॥
काचिच्च रामपरिवर्तनजश्रमेण
श्रान्ता गुरुस्तननितम्बभरालसाङ्गी ।
स्विद्यन्मुखी श्लथलसद्रसना प्रियांसे
प्रादाद् भुजं तरलकूजितकङ्कणाढ्या ॥ २६॥
काचिद् भुजौ दृढतरस्मरपाणिपाशौ
कण्ठे निधाय दयितस्य च लम्बमाना ।
शम्पामयी स्रगिव मेचकमेघ लग्ना
रेजेतरां तरुणिरग्रिमधर्मकान्तिः ॥ २७॥
काचिन्मुखेन रमणस्य निजाङ्कसंस्थं
काश्मीरचन्दनकुरङ्गमदानुलिप्तम् ।
आघ्राय जातपुलका प्रणयोत्करेण
गोपी सुगुप्तगतिरेव मुहुश्चुचुम्ब ॥ २८॥
कस्यैचिदाकलितरासविलासनृत्य
विक्षिप्तकुण्डलमणीगणमण्डिते स्वे ।
गण्डे स्वगण्डफलकं श्रमतो दधत्यै
प्रादात् प्रियो हि लतिकादलचर्वितं स्वम् ॥ २९॥
अन्या च रासरसितैर्वलयैर्नदन्ती
कूजन्महार्हमणिनूपुरमेखलाद्या ।
पार्श्र्वस्थितस्य रुचिरं रमणस्य हस्तं
श्रान्ता स्तनोपरि निधाय सुखान्यवाप ॥ ३०॥
काचिज्जवेन दयितं परिरभ्य तुङ्ङ्ग
वक्षोजविक्षुभितमक्षि चुचुम्ब तस्य ।
इष्टं पृथक् पृथगनङ्गरसं निगूढ
रासान्तरे पुपुषुरद्भुतकेलिदक्षाः ॥ ३१॥
गोपाङ्गना रुचिरराजकुमारवर्य
हस्तद्वयाकलितगाढगृहीतकण्ठ्यः ।
रासक्रियाललितमण्डितमण्डलीषु
स्वच्छन्दमेव बहुधा विदधुर्विहारम् ॥ ३२॥
कदाचिद् गोपतरुणीमण्डलान्तरमण्डनः ।
रामः सीतासमं रेजे क्वणद्वेणुयुताधरः ॥ ३३॥
कदाचित् स्वाङ्गकान्त्यैव प्रियामन्तर्हितां दधत् ।
चकार कौतुकं स्त्रीणां क्व गता महिषीत्यहो ॥ ३४॥
तासु सम्भ्रान्तचित्तासु स्थित्वा मण्डलमध्यतः ।
दर्शयन् सहजां लक्ष्मीं जयेति मुहुरीडितः ॥ ३५॥
साखिलव्रजकान्ताभिर्दीप्ताभिरपि मण्डले ।
अप्रधृष्यैव शुशुभे लोकसौन्दर्यजीवनी ॥ ३६॥
कदाचित्तस्या हस्तेन हस्तमादाय वल्लभः ।
जगाम कुञ्जभवने दासीवत्तास्तु तस्थिरे ॥ ३७॥
आज्ञापयिष्यति प्रभ्वी प्रभुर्वा किं न दूत्यमूः ।
सावधानतया तस्थुः कुञ्जद्वारलसदृशः ॥ ३८॥
कुञ्जालयं सुखं गम्य कृत्वा पूर्ण मनोरथम् ।
एताभ्यां पुनरेताभ्यां जयेत्युच्चैस्तरां जगुः ॥ ३९॥
सम्भुक्तिपानपरिधानविभूगणानि
लेपाग्ञ्जनालभनमार्जनव्यञ्जनाद्यैः ।
तौ ता विशेषधिषणा परिचेरुरुच्चै
र्दासीवदप्यनुपदं कलितावधानाः ॥ ४०॥
कान्तेन भूरितरकेलिषु कोविदेन
ताः संसदि प्रतिपदं बहुदत्तमानाः ।
नैतां प्रियां समनुलङ्घितुमीशिरेऽपि
पूर्वं विसोढविरहस्मृतिकातराक्ष्यः ॥ ४१॥
नैवापि तासु वनितासु कुमारकेण
सार्द्धं प्रभूतरमणोत्सवसम्भ्रमेषु ।
प्रत्यूहलेशमकरोद्यदमुष्य साक्षा
न्नित्याङ्गसङ्गमवतो सहजैव लक्ष्मीः ॥ ४२॥
अश्रान्तरासरसिको रमणः स इत्थं
गुप्तस्फुटं प्रकट केलिविधानदक्षः ।
रेमे रमैकरमितो रमणो रमाभि
राभीरराजकुलभूषणसुन्दरीभिः ॥ ४३॥
कदाचिन्नृत्यमानानां वनितानां प्रियैः सह ।
भ्रमरालिरभूद्वीणा कोकिलामुरजध्वनिः ॥ ४४॥
रामरासरसं वीक्ष्य देवा ब्रह्मशिवादयः ।
विचिन्त्यमाना मनसि बभूवुः प्रेमघूर्णिताः ॥ ४५॥
अस्तमाममरनागनगीनां रूपसारभरजोऽप्यभिमानः ।
किङ्करीवदिह दर्शनमापुरतो रसिकरासरसेषु ॥ ४६॥
आदित्या विश्वेदेवाश्च वसवस्तुषितास्तथा ।
भास्कराश्चानिलाश्चैव महाराजिकसाध्यकाः ॥ ४७॥
रुद्राः समुद्रा गिरयो नदा नद्योऽप्सरोगणाः ।
विद्याधराश्च यक्षाश्च गन्धर्वाश्चैव किन्नराः ॥ ४८॥
ग्रहनक्षत्रताराद्याः प्रह्लादश्च विभीषणः ।
ब्रह्मर्षयो वसिष्ठाद्यास्तथा देवर्षयोऽखिलाः ॥ ४९॥
लक्ष्मीनारायणौ चैव पार्वतीशङ्करौ तथा ।
गायत्री चापि सावित्री सरस्वत्यप्सरः शची ॥ ५०॥
सर्वे देवगणाश्चैव हर्षिताः स्वस्वचेतसि ।
योषारूपं समास्थाय रामरासे समाययुः ॥ ५१॥
तेषां विमानसन्दोहैरभवत् सङ्कुलं नभः ।
रामो नवघनश्यामो महारत्नविभूषितः ॥ ५२॥
लक्ष्मीं दधद् गोपिकाभिः संस्थितो रासमण्डले ।
स्वस्वभावानुसारेण सर्वेषां दर्शनं ददौ ॥ ५३॥
गोपीं गोपीमन्तरा रामचन्द्रो
रामं रामं चान्तरा गोपनार्यः ।
इत्थं जाते मण्डले मञ्जुलाभो
रेमे रामो रामया राजमानः ॥ ५४॥
श्रीहस्ताब्जबद्धसम्बद्धकण्ठ्यो
रन्योन्यं वा बद्धबाह्वोर्युवत्यः ।
वामं हस्तं चोर्द्धयित्वानयोश्च
मध्ये रेमे रामचन्द्रः कदाचित् ॥ ५५॥
इत्थं द्वेधा मण्डलं कल्पयित्वा
पर्यायेण क्रीडमानो वधूभिः ।
योगाधीशस्तत्र योगीव रामो
रेमे स्वानां सम्मुदं वर्धयानः ॥ ५६॥
रासक्रीडावेषविस्त्रस्तबन्धै
र्धम्मिलैः स्वैर्मल्लिकाः संवमन्त्यः ।
विद्युद्वल्लीजैत्रविद्योतिताङ्ग्यो
गोप्यो रासे नाटकं चक्रुरुच्चैः ॥ ५७॥
रासे समुद्भूतरमाविलासे श्रीरामचन्द्रेण समं नटन्त्यः ।
धम्मिलवल्ल्युप्तनितम्बभारं वोढुं न शक्ता वनिता बभूवुः ॥ ५८॥
नितम्बौ त्रस्तकाञ्चीको कुचौ विगतकञ्चुकौ ।
धम्मिलान् बन्धनोन्मुक्तान् वहन्त्यो रेजिरे स्त्रियः ॥ ५९॥
खेचरौघाः सह स्त्रीभिश्चन्द्रश्चोडुगणैः सह ।
रामरासं समालोक्य विस्मितोऽभून्निरन्तरम् ॥ ६०॥
यावद्विजहार भगवान् ताव
त्कालं रजनीशः संस्थितोऽभूत् ।
चन्द्रेण स्वस्यां गतौ विस्मृतायां
स्वस्वस्थाने खेचराश्चापि तस्थुः ॥ ६१॥
यावन्तस्ता मण्डले गोपनार्य
स्तावद्रूपो राघवेन्द्रो बभूव ।
अन्योन्यं चालक्ष्य लीलाविनोदं
रेमे ताभिर्भूरि दाक्षिण्यशाली ॥ ६२॥
तासां प्रभूतश्रमकर्षितगोपिकानां
वक्त्राणि वारिकणसंवलितालककानि ।
हस्ताम्बुजेन स ममर्षतरां ततोऽमूः
पीयूषपातसुखिता इव सम्बभूवुः ॥ ६३॥
इत्थं हरेर्भगवतः पुरुषोत्तमस्य
रामस्य राघवकुलामलकीर्तनस्य ।
यः संशृणोति रतिरासविलासलीलां सः
रामसम्पदमुपैति विमुक्तकामः ॥ ६४॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥
६४/१६०७
०३६. रामरासो नाम षट्त्रिंशोऽध्यायः ।
ब्रह्मोवाच ।
रामस्य रासं नयनैर्निपीय
ते दण्डकारण्यजुषोऽग्निपुत्राः ।
कामेन सङ्क्षुब्धहृदः समन्ता
त्तन्मण्डलं तुष्टुवुः कल्पिताशाः ॥ १॥
सुनय ऊचुः
प्रावृट्समुन्नतनवीनघनाभिरामं
योषासमूहपरिकल्पितमण्डलस्थम् ।
पीताम्बरद्युतितडित्प्रकराभिरामं
रासस्थितं रघुपतिं सततं भजामः ॥ २॥
श्रीमत्प्रमोदवनमञ्जुलकुञ्जवीथी
विद्योतमानपरिपूर्णकलाहिमांशुम् ।
सामस्वरक्वणितवेणुसनाथपाणिं
रासस्थितं रघुपतिं सततं भजामः ॥ ३॥
रत्नावलीयुतसुवर्णसुदिव्यमौलि
मुक्तास्त्रगद्भुतसुलक्ष्यविशालवक्षः ।
श्रीवत्सलक्ष्मसुभगोत्तमदिव्यगात्रं
रासस्थितं रघुपतिं सततं भजामः ॥ ४॥
उद्यद्विशालमणिमञ्जुलतुङ्गनासं
गण्डस्थलप्रतिफलत्कलकुण्डलाग्रम् ।
कस्तूरिकातिलकभूषितभालदेशं
रासस्थितं रघुपतिं सततं भजामः ॥ ५॥
केयूरलम्बनललामभुजद्व याग्र
बन्धोद्गृहीततरकौस्तुभशोभि कण्ठम् ।
पादाम्बुजक्वणितनूपुरकिङ्किणीकं
रासस्थितं रघुपतिं सततं भजामः ॥ ६॥
एकद्वयत्रिचतुरादिभृतक्रमात्त
तालप्रबन्धरचनानयनाभिरा मम् ।
सङ्गीतशास्त्रवितताछलका गुरुं तं
रासस्थितं रघुपतिं सततं भजामः ॥ ७॥
नृत्यन्तमद्भुतकलानिकरप्रवीण
मानापलापरचनैकविधानदक्षम् ।
वंशीधरं नटवरं वरदोत्तमाङ्गं
रासस्थितं रघुपतिं सततं भजामः ॥ ८॥
अङ्गोन्मिलन्मलयजद्रवजातभक्तिं
रङ्गत्त्रिभङ्गकलितातिललामकामम् ।
कैशोरवेशमतिवर्त्य परिस्फुटन्तं
रासस्थितं रघुपतिं सततं भजामः ॥ ९॥
मन्दारमूलमधिगम्य विराजमानं
गोपाङ्गनाविरचितोत्तममण्डलास्यम् ।
पोतांशुकच्छविनिबद्धकटिप्रदेशं
रासस्थितं रघुपतिं सततं भजामः ॥ १०॥
मन्दस्मिताधरसुधारसरञ्जितोष्ठं
लोलालकावलितमुग्धकपोलदेशम् ।
पादाम्बुजप्रथिततालविधाननृत्यं
रासस्थितं रघुपतिं सततं भजामः ॥ ११॥
ताम्बूलिकादलसुचर्वणचारुराग
संवर्धगोपरमणीक्षणचुम्बनोग्रम् ।
तत्तुङ्गवक्षसिजमर्दनलग्नहस्तं
रासस्थितं रघुपतिं सततं भजामः ॥ १२॥
सीतानिरन्तरविभूषितवामभागं
मध्यस्थलच्छविविनिर्जितसिंहमध्यम् ।
मन्दस्मितप्रसर मण्डितमण्डलास्यं
रासस्थितं रघुपतिं सततं भजामः ॥ १३॥
श्रीरत्नवेदिविपुलीकृतमण्डलान्तः
कोटिप्रकारपरिक्लृप्तनिजप्रकाशम् ।
वामाङ्गसङ्गिसहजास्पृहणीय केलिं
रासस्थितं रघुपतिं सततं भजामः ॥ १४॥
श्रीमत्प्रमोदवनकल्पितमण्डलाब्ज
सत्कर्णिकार्पितरमारमणैक मूर्तिम् ।
स्वस्वामिनीसमनुवाञ्छितदिव्यरासं
रासस्थितं रघुपतिं सततं भजामः ॥ १५॥
ब्रह्मेन्द्रशङ्करमुखत्रिदिवालयौघ
हस्ताम्बुजच्युतसुरद्रुमपुष्पवृष्टिम् ।
कोटीन्दुजित्वरकिरीटमणिप्रभाढ्यं
रासस्थितं रघुपतिं सततं भजामः ॥ १६॥
जय जय जय सहजानन्दरसनिर्भरनिजविलासमोहितब्रह्मादिसुरसंस्तूयमान
कुटिल गोपाङ्गनाजनकटाक्षसमुद्भूतनूतनकन्दर्पशरलक्ष्यीकृतचित्त
कुन्दवनेश्वरिमनोरथपूर्तिप्रभावप्रेमपरिपालक सच्चिदानन्दमयपरब्रह्म
रस स्वानन्दैककन्द सहजकल्याणगुणनिधान नमस्ते नमस्ते ॥ १७॥
किं त्वामशेषमतिसाक्षिणमर्थयामो
जानासि सर्वमपि नः स्पृहणीयमर्थम् ।
अस्यैव तावकविलासरसस्य नित्यं
पात्राणि किं नहि भवाम वयं स्मरार्ताः ॥ १८॥
किं वा सहस्त्र जनुरर्जितकोटिपुण्य
नैष्कर्म्यसिद्धिसुहितेन ननु त्वयैव ।
दत्तामलभ्यवरभाजनतामुपेत्य नित्यं
भजाम निजवाञ्छितलाभतृप्ताः ॥ १९॥
नो चेद् वयं विरहपावकदग्धदेहाः
स्नेहानुबन्धमहिमोद्धृतमोक्षसौख्याः ।
त्वत्पादपद्मपदवीं समुपेत्य भूयो
जन्मान्तरेऽपि कलयाम न किञ्चिदिष्टम् ॥ २०॥
इति तेषां द्विजेन्द्राणां दण्डकारण्यवासिनाम् ।
श्रुत्वा विक्लवितं रामः प्रहसन्निदमुक्तवान् ॥ २१॥
श्रीराम उवाच ।
सुविहिततपसो मुनीन्द्रवर्या
दहनसुताः खलु दुर्लभोऽयमर्थः ।
श्रुतिभिरपि मदेककामुकीभिः
शतशतकल्पजनुस्तपस्विनीभिः ॥ २२॥
तदपि मयि निवेद्य वाञ्छितार्थे
यदि न भवन्त उपेतवान्छिताः स्युः ।
इदमपि न ददेत तद्भवद्भ्यो
दुरधिगमोऽपि मयोपकल्पितोऽर्थः ॥ २३॥
कृष्णावताररूपेण समनुक्रीडता मया ।
आगामिनि भवे यूयं कृतकृत्या भविष्यथ ॥ २४॥
कृष्णो नाम ममैवांशो जनिता नन्दगोकुले ।
तद्द्वारा मां समासाद्य फलितार्था भविष्यथ ॥ २५॥
इयं च सहजाशक्तिः सच्चिदानन्दलक्षणा ।
तत्रैवांशेन भविता राधानाम्नी मम प्रिया ॥ २६॥
तयाविष्टासु सर्वासु सुन्दरीषु रतिं भजन् ।
विहरिष्याम्यहं तत्र दिव्ये वृन्दावने वने ॥ २७॥
सीता लोकस्य सामग्री समस्ता खलु तत्र माम् ।
उपस्थास्यति विप्रेन्द्राः स्वस्वांशेन विनोदकृत् ॥ २८॥
तावद्यूयं जातवेदःकुमाराः
शुद्धप्रेमाणः सततं मां भजध्वम् ।
ईदृग् लीलाकारमीदृक् स्वरूप
मीदृग्भावं प्राप्स्यथोच्चैः प्रसादात् ॥ २९॥
इति तस्माद्वरं लब्ध्वा दण्डकारण्यवासिनः ।
मुनयस्तत्र सिद्धार्थास्तस्थुर्थ्यानपरायणाः ॥ ३०॥
एवं स रसिकेन्द्रस्य विलासो राससंज्ञितः ।
त्रैलोक्यं शोभयामास कामतत्त्वेन जृम्भितः ॥ ३१॥
नद्यः स्तब्धतया तस्थुर्लतावृक्षाश्चकम्पिरे ।
दद्रुवुश्चैव पाषाणाः साध्यसत्त्वानि तत्यजुः ॥ ३२॥
जहौ शम्भुः समाधिं च विश्वकृद्विश्वकल्पनाम् ।
भ्रमणं शिशुमारान्तस्तत्याज ग्रहमण्डलम् ॥ ३३॥
सर्वे बभूवुः सहसा परमानन्दनिर्वृताः ।
रामरासरसोन्मादवासिताखिलवृत्तयः ॥ ३४॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम षट्त्रिंशोऽध्यायः ॥ ३६॥
३४/१६४१
०३७. जलविहारवर्णनं नाम सप्तत्रिंशोऽध्यायः ।
ब्रह्मोवाच ।
सप्तत्रिंशोऽध्यायः
ततः सनृत्यश्रमजातभूयः
स्वेदाम्बुलग्नाङ्गदुकूल ईशः ।
निषेव्य शीतं सुरभि समीरं
लीलावगाहाय सरो जगाम ॥ १॥
तत्पृष्टतः पङ्कजलोचनानां तडित्त्विषां
स्वेदकणास्रुतीनाम् ।
जगाम पङ्क्तिः खलु कामिनीनां
सञ्चारिणीनामिव वल्लरीणाम् ॥ २॥
तासामनु व्रजन्तीनां किङ्किणीनूपुरध्वनिः ।
उद्बुद्धराजहंसौघश्चक्रे कोलाहलं निशि ॥ ३॥
स्वच्छाय कुञ्जवनवृक्षलतातलेषु
तासां तनुद्युतिभरेण महोद्धतेन ।
आच्छाद्य ताः समजनि प्रकटं निगूढ
शृङ्गारकेलिसरसोगमनाध्वमध्ये ॥ ४॥
धम्मिलकूटकुचकुम्भनितम्बबिम्ब
भूयो भरोद्वहनजश्रमखिन्नगात्राः ।
एणीदृशो रसिकराजनिपीतसाराः
कष्टेन केलिसरसीषु प्रजग्मुरेताः ॥ ५॥
हेमत्विषां पुलिनभूमिषु संस्थितानां
तासां मुखेन्दुनिवहेन पयोगतेन ।
सा रामकेलिसरसी सहसैव रेजे
सम्पूर्णकोटिविधुमण्डलमण्डितेव ॥ ६॥
दिव्यावतंसमणिदीधितिवासिताभिः
श्रीरामचन्द्रचरणाब्जनखप्रभाभिः ।
तद्दिव्यकेलिसरसीसरसीरुहाणि
तत्कालमेव सविलासविकासमापुः ॥ ७॥
तासां मुखेन्दुशतशारदचन्द्रिकाभिः
प्रोद्भासितानि किल कैरविणां कुलानि ।
मञ्जीरमञ्जुलनिनादभरेण भूयो
निद्रायिता बुबुधिरेऽखिलराजहंसाः ॥ ८॥
उत्तार्य भूषणभरं वसनानि चामूः
स्नानक्रियासमुचितां तनुमुद्वहन्त्यः ।
कान्त्यैव संशुशुभिरे व्रजवामनेत्रा
हैम्यो लता इव विधूतदला वसन्ते ॥ ९॥
निश्रेणिका पथझणझ्झणितातिमञ्जु
मञ्जीरशिञ्जितविमोहितराजहंसाः ।
तास्तत्र केलिसरसीमवगाहनाय
श्रीराघवेन्द्ररसिकेन सहावतेरुः ॥ १०॥
गम्भीरनाभिषु डुमड्डुमितानुनाद
लीलाविधायितजलोर्मिषु लोलमानाः ।
सद्योभवाः श्रिय इवाम्बुनिधौ लसन्त्य
उक्षाम्बभूवुरभितो रघुवंशरत्नम् ॥ ११॥
रामोऽपि ताः करसरोरुहपत्रबद्ध
वाराम्भरैः सरसिजानुनिपातधारैः ।
अभ्युक्ष्यतिस्म रतिकेलिनितान्ततान्ति
श्रान्तान्मनः कमलवृन्दपरागगर्भैः ॥ १२॥
गोपाङ्गनाकुचतटीपरिलिप्तभूरि
काश्मीरचन्दनकुरङ्गमदप्रवाहैः ।
व्यामिश्रितं सपदि सारवमम्बुतत्
त्रिवेणीप्रवाहपदवीमवहत् तदानीम् ॥ १३॥
वक्रत्विषा सरसिजानि दृशा द्विरेफान्
गत्या मरालकुलमूर्मिकुलं त्रिवल्या ।
शैवालिकाः स्फुरदनुत्तमरोमपङ्क्त्या
प्रापुः पराभवमनः स्खलनं सुसाम्यम् ॥ १४॥
आलोडितं रघुवरेण सरो विलोल
वीचीविचालितसरोजपरागपूर्णम् ।
रेजे तमालकलिकानुकृते निजाङ्गे
पीताम्बरद्युतिमवाप तदञ्जसैव ॥ १५॥
नीचैरतुल्यमधरीयमथोत्तरीय
मुच्चैः कुचेषु च सकञ्चुकभावमञ्चत् ।
आन्दोलितं प्रियकरैर्व्रजकामिनीनां
केलीसरोजलमनेकरुचा विरेजे ॥ १६॥
गोपी नितान्तमवगाह्य सरोजलेऽस्मिन्
रामाङ्कसङ्गमवशादमृतादपीड्ये ।
सम्भोगसङ्गमसमुद्भवमङ्गसङ्गं
व्याप्य स्थितं श्रमभरं मुमुचुः सलीलम् ॥ १७॥
मन्दानिलप्रचलतीरमहीरुहेभ्यः
सम्पातिनी विविधसौरभिपुष्पवृष्टिः ।
स्नान्तीषु गोपतरुणीषु चिरं बभासे
संसूच्यमानपुरुषायितविक्रमेव ॥ १८॥
सर्वाः समं प्रियतमं करयन्त्रिकाभि
राबध्य वारिपटलं परिषेचयन्त्यः ।
अम्भोधरं स्वकिरणैरभितः किरन्त्य
स्तारा इव द्युतिभृतो गगने विरेजुः ॥ १९॥
कान्तोऽपि तासु बहुधा करयन्त्रबन्ध
धारायितानि सलिलानि नितान्तमुक्षन् ।
प्रावृट्पयोद इव काञ्चनवल्लरीषु
धाराजलानि कलयन् नितरां रराज ॥ २०॥
काश्चित्परस्परमुदीर्णरसाः सयूथं
चक्रुः करोत्करबलैर्जलकेलियुद्धम् ।
याश्चैव बिभ्रति पराभवमत्र तासां
पक्षे स्वयं भवति राघवसार्वभौमः ॥ २१॥
बिम्बाधरामृतनिपापरिरम्भचुम्ब
मुख्यैः करैर्विरचिताम्बुनियुद्ध खेलः ।
निर्जित्य ताः सरसि सङ्कुचतीर्मृगाक्षी
र्जग्राह धावनकरी रसिकेन्द्र उच्चैः ॥ २२॥
ता एकसार्थमिलिता वनिता विजित्य
शैवालिकानलिननालगुणैर्निबद्ध्य ।
रामं त्रिलोकजनकं नयनाभिरामं
चुम्बन्ति लान्ति बहुशः परिरम्भयन्ति ॥ २३॥
इत्थं परस्परमनेकविधां जलान्तः
केलीं विधाय वनिताः सह वल्लभेन ।
पद्मैरनेकविधवर्णविराजिपत्रै
र्भूषाविधानमतुलं रचयाम्बभूवुः ॥ २४॥
श्रुत्योर्विभूषणमकुर्वत कर्णिकाभिः
पद्मच्छदैर्विरचयन् कुचकञ्चुकानि ।
केयूरहारवलयादिमृणालिकाभिः
स्वच्छन्दमेव विदधुर्वनिताः प्रवीणाः ॥ २५॥
प्रत्यङ्गमेवमभिभूष्य सरोजहस्ता
उत्तेरुरम्बुजदृशः सरसीजलेभ्यः ।
कान्तं निषेवितुमिताः पुरुषोत्तमं तं
नेत्रोत्सवाः प्रियसुखा मितरूपसाराः ॥ २६॥
तासां पुरः कमलहारधरः समन्तात्
किञ्जल्ककल्पितमनोहर मालिकाद्यः ।
रामो मृणाललतिकारसनाभिरामो
रेजे मतङ्गज इवानुसृतो गजीभिः ॥ २७॥
इति श्रीमदादिरामायणे ब्रह्म भुशुण्डसंवादे जलविहारवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥
२७/१६६८
०३८. वनविहारो नाम अष्टत्रिंशोध्यायः ।
ब्रह्मोवाच ।
एवं कृत्वा जलक्रीडा रामो रमणपण्डितः ।
वनक्रीडां समारेभे सह व्रजवधूजनैः ॥ १॥
पुष्पस्तवकरम्येषु लताविटपवेश्मसु ।
उच्चावचेषु गुल्मेषु भूरुहेषु च भूरिषु ॥ २॥
काचिद्रघुपतेरंसमवलम्ब्य व्रजाङ्गना ।
पुष्पाण्यवचिनोतिस्म तुङ्गवृक्षगतान्यपि ॥ ३॥
एकाधिमालतीकुञ्जेऽहसत् केनापि हेतुना ।
अपराञ्जलिमुन्नीय तस्थौ पुष्पावलिप्सया ॥ ४॥
चन्द्रिकानिचयस्थानैर्व्रजस्त्रीणां मुखेन्दुभिः ।
दधुः सुमनसां केलिं भूरि व्याकोशपुष्पताम् ॥ ५॥
चम्पकानामभूद् ग्लानिस्तासां भूरितनुत्विषाम् ।
दूरात्प्रमत्तमधुपस्तोमैराद्रियमाणया ॥ ६॥
कण्टकप्रकराकीर्णस्वर्णकेतककाननम् ।
विहाय तासामङ्गानि भेजे भ्रमरमण्डली ॥ ७॥
कर्णेषु रोचयामासुः कार्तस्वरगणानतः ।
अलयो व्रजकान्तानामङ्गसौरभ्यनिर्वृताः ॥ ८॥
भूषयामासुरङ्गेषु रसालतरुमञ्जरीः ।
ताः सौरभ्यविशेषेण बभूवुः पूरितान्तराः ॥ ९॥
स्थूलैः फलैः सवक्षोजा व्याकोशकुसुमान्विताः ।
स्त्रीभिः समाबभुःकाश्चित्प्रमोदवनवल्लयः ॥ १०॥
अवलम्ब्य प्रियस्यांसं चिन्वन्त्यः पुष्पधोरणीम् ।
विजिग्युर्लतिकाः कान्ता विटपान्तरसङ्गताः ॥ ११॥
नानाविधानि पुष्पाणि स्मरचापशराकृतीः ।
अवचिक्युर्भूरुहेभ्यो लताभ्यश्च व्रजस्त्रियः ॥ १२॥
कदम्बगोलकग्राममवचीय व्रजस्त्रियः ।
वेणीर्विभूषयामासुः प्रान्तस्तवकशालिनीः ॥ १३॥
सन्नाह मञ्जुलाकारा वञ्जुलद्रुममञ्जरीः ।
गण्डयोर्मण्डयामासुर्निबध्यालकरज्जुभिः ॥ १४॥
रसालमञ्जरीरन्यालकपाशैर्निवध्य च ।
चक्रे कपोलयोर्भूषां स्मरदर्पणदीप्तयोः ॥ १५॥
अन्याश्च कर्णिकारौघैश्चक्रुः कर्णेषु कर्णिकाः ।
मोहनं प्रियचित्तस्य तदुन्मानैव सेहिरे ॥ १६॥
अतसीकुसुमैः काश्चिज्जुगुफुः कटिमेखलाः ।
गजमुक्ताफलस्थूलकिङ्किणीजालशालिनीः ॥ १७॥
काञ्चीः प्रकल्पयामासुः काश्चिद्वकुलदामभिः ।
वलयानि प्रकोष्ठेषु भुजयोरङ्गदानि च ॥ १८॥
अन्याश्च गुम्फनाभिज्ञाः कान्तस्वान्तनिवेशिनः ।
आकल्पान्कल्पयामासुः नागपुन्नागकेसरैः ॥ १९॥
काश्चित्प्रियङ्गुकलिकाः कदम्बकुसुमैः सह ।
सम्मेल्य मालिकां चक्रुस्तुङ्गवक्षोजयोः स्रजः ॥ २०॥
क्रीडापराजिताः काश्चिच्चाम्पेयकुसुमैः सह ।
सम्मेल्य मालिकां चक्रुः प्रियप्रेमविवर्द्धिनीम् ॥ २१॥
मालतीकुसुमैरेव काश्चिद्भूषागणान्यधुः ।
काश्चिज्जपाभिरेवान्याश्चम्पकैरेव केवलम् ॥ २२॥
काश्चिदाकल्पमातेनुः पञ्चवर्णैः प्रसूनकैः ।
प्रेयांसं मोहयामासुरिन्द्रचापलता इव ॥ २३॥
तासामाकल्पसामग्रीकल्पनाय समन्ततः ।
प्रमोदविपिने तत्राविरासीत् कुसुमाकरः ॥ २४॥
अनेकवर्णकुसुमजातिभिः समलङ्कृतः ।
कूजत्कोकिलभृङ्गौघहृदुत्कण्ठाविवर्द्धनः ॥ २५॥
साद्य (सद्यः ?)सम्फुल्लविविधपद्मजातिसुखप्रदः ।
मधूकपल्लवस्तोमरञ्जिताष्टदिगन्तरः ॥ २६॥
स्मरप्रतापसङ्काशश्चलत्किंशुकराजिकः ।
निशातकरपत्राभविस्फुरत्केतकच्छदः ॥ २७॥
सुवर्णमालतीजालसञ्चरन्मत्तषट्पदः ।
केतकीकाननोद्भूतपरागापूरिताम्बरः ॥ २८॥
रक्ताशोकलतासद्म सङ्गीतशुकसारिकः ।
प्रियालमञ्जरीधूलीधूसरीकृतदिक्तटः ॥ २९॥
समन्ततः सम्प्रवृत्ते वनान्तः कुसुमाकरे ।
आस्फालयामास धनुरुन्मदो मनसः सुतः ॥ ३०॥
रामारामा हृताकल्या रामेण सह सङ्गताः ।
वसन्ते रेमिरे रम्यं रतिरङ्गरसात्मकम् ॥ ३१॥
रसालमञ्जरीवृन्दकल्पितोत्तंससुन्दरः ।
रेमे चात्म विहारेण रामो रमयतांवरः ॥ ३२॥
वनराजीः परिस्पृष्टा नीतमन्दसुगन्धयः ।
अलिझङ्कारभवनाः पवनास्तं सिषेविरे ॥ ३३॥
प्रमोदवनकुञ्जेषु कुसुमाकल्पमालिनीः ।
लता इव सिषेवेऽसौ कामिनीः कान्तभूरुहः ॥ ३४॥
सान्धकारेषु कुञ्जेषु दृङ्निमीलनलीलया ।
चौरो भूत्वा स्वयं रेमे रामो रामासुखप्रदः ॥ ३५॥
कदाचित्कामिनीवृन्दैर्दृङ्निमीलनकृत्प्रियः ।
अन्योन्यं रमयामास रमणीः कृतकौतुकाः ॥ ३६॥
इत्थं जलस्थलवनेषु विहारशाली
व्यालीढकोटिललनासमुदायचित्तः ।
क्रीडां चकार रघुवंशविभूषणोऽसौ
श्रीमान् प्रमोदवनकुञ्जलतातलेषु ॥ ३७॥
इत्येतद्व्रजरमणीगणेन सार्धं
यो विक्रीडितमनिशं शृणोति मर्त्यः ।
पूतात्मा स निजजनिं कृतार्थयित्वा
चिल्लोके वसति सदा समुपैति रामभक्तिम् ॥ ३८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे वनविहारो नाम अष्टत्रिंशोध्यायः ॥ ३८॥
३८/१७०६
०३९. रासचचरितवर्णनं नाम एकोनचत्वारिंशोऽध्यायः ।
ब्रह्मोवाच ।
इत्थं प्रियेण प्रतिलाल्यमाना
व्रजस्त्रियस्ताः प्रणयेनैव बद्धाः ।
अलौकिकं भोगमवाप्य निर्वृता
न किञ्चिदप्राप्तमितो मेनिरे ताः ॥ १॥
त्रैलोक्यमध्येऽथाधिक्यं यत्किं
चिद्भोगवस्तु प्राप्यमथाप्यवाप्यम् ।
तत्प्राप्तं रामरामाभिरङ्गे
यावत्तत्रोदेति चित्तस्य वाञ्छा ॥ २॥
प्रतिक्षणं पाल्यमानाः प्रियेण
क्रीतेनेव तेन पुंसांवरेण ।
आत्मानं लोकाधिकं मन्यमानाः
समाचकाङ्क्षुः सह जायाः पदं याः ॥ ३॥
तद्वत्त्रिवेदीशिरसां रहस्यं
चिल्लोकस्थं परमैश्वर्यपात्रम् ।
रूपं पूर्णं ब्रह्मणस्तत्परं
यन्निर्णीयते नेतिनेतीतिविद्भिः ॥ ४॥
ता एकदा प्रमुदकाननमध्यदीव्यत्
सौवर्णसौधशिखरेऽमलरत्नदीप्ते ।
अन्वासितं सहजयैव तया रमण्यः
प्रेयांसमेव ददृशुः खलु शुक्लवर्णम् ॥ ५॥
एभिश्चतुर्भिरपि शङ्खगदादिभिस्तै
रश्रान्तमायुधवरैः समुपास्यमानम् ।
मूर्तैः स्फुरद्भिरणिमादिक सिद्धिसङ्घै
स्तद्वद्भगैश्च सकलैरनुमृग्यमानम् ॥ ६॥
त्रैलोक्यरचनातीतैः पदार्थैः सकलैर्युतम् ।
तावन्मात्रे सौधतले कोटियोजनविस्तरे ॥ ७॥
तदप्यस्यैव सामर्थ्याद् दृश्यमानं चिदात्मकम् ।
यद्रामपरमं स्थानं धिया पश्यन्ति सूरयः ॥ ८॥
दृष्टं तु सर्वगोपीभिस्तमसः परमद्भुतम् ।
शुद्धसत्त्वाव्यवहितं यद्रूपं ब्रह्मणः परम् ॥ ९॥
तत्रैकदेशे ददृशुः साकेतपुरकल्पनाम् ।
मधुरां द्वारकां चैव श्रीमद्वृन्दावनं तथा ॥ १०॥
तस्मिन् सौधतले दृष्ट्वा विस्मयं परमं ययुः ।
साकेतनगरे तत्र नृपं दशरथं तथा ॥ ११॥
चतुरस्तस्य रामादीन् कुमारान् दीप्तवर्चसः ।
ज्येष्ठस्य च कुमारस्य रावणाद्यसुरद्विषः ॥ १२॥
स्वप्रेयसो रामनाम्नः सविधे स्वात्मसंस्थितः ।
प्रमोदवनसंयुक्तं दृष्ट्वाश्चर्यं परं ययुः ॥ १३॥
मथुरायां च कंसारिं केशवं लोकसुन्दरम् ।
अंशं श्रीरामचन्द्रस्य वीक्ष्य विस्मयमागताः ॥ १४॥
श्रीमद्वृन्दावने दिव्ये प्रमोदवनस्यांशके ।
ईदृग्विधाभिर्लीलाभिः खेलन्तं नन्दनन्दनम् ॥ १५॥
ईदृग्रूपगुणाकारं ईदृग्भूषाविभूषितम् ।
ईदृक्चेष्टावयोऽवस्थासन्निवेशविशेषितम् ॥ १६॥
ईदृक्परिकरोपेतं वीक्ष्य ता विस्मयं ययुः ।
अहो अयं स्वप्न उतेशमाया
किंवास्मदीयो मतिविभ्रमः स्यात् ।
किंवा कैश्चित्कृत्रिमं सम्प्रयुक्तं
येनास्मदीयं भ्रमतीवेक्ष्य चित्तम् ॥ १७॥
अथो अयं (मुं ?)त्रिगुणातीतलोकं
चिल्लोकाख्यं तस्य भर्तुः प्रासादात् ।
सच्चित्सुखैकनिधिमग्रगण्यं वरेण्यं
वयं प्रपन्नाः शरणं तस्य तेन ॥ १८॥
एतत्साकेतनगरे पूर्वसिद्धे नवांशकम् ।
तत्किन्नु पश्याम एवं साकेताख्यं मथुरायां
किं वा विमृष्यामो मथुरां साकेतधाम्नि ।
किं जानीमो द्वारकायामयोध्या
मयोध्यायां द्वारकां वापि किंस्वित् ॥ १९॥
वृन्दावने किं प्रमोदारण्यमेतत्
प्रमोदारण्ये किन्नु वृन्दावनं तत् ।
चित्रं हि सौधस्य विशालतेयं
यत्रानन्तो भात्यसौ कोऽपि देशः ॥ २०॥
अयं प्रमोदविपिने किं विभाति
किं वैतस्मिन् प्रमुदवनं चकास्ति ।
दिव्यं स्वानन्दौघं चिन्मयमप्रतर्क्यं
सत्त्वातीतं शुद्धसत्त्वात्मकं च ॥ २१॥
अस्माकं वै पुरत इदं चकास्ति
किं वै स्फीतं धाम विष्वक्प्रवाहम् ।
पश्यामोऽत्र प्रेयसा सार्धमेतत्
स्वीयानां वै वृन्दमानन्दयुक्तम् ॥ २२॥
पश्यन्त्यस्ता इत्थमग्रे चलित्वा
श्यामं रामं ददृशुः पूर्ववच्च ।
तत्राप्येनं परिकरमात्मना समेतं
गोप्यो वीक्षाञ्चक्रिरे साभ्यसूयम् ॥ २३॥
सहजा (जे ?)यं तथा स्वामी रूपान्तरविधानतः ।
प्रेयसोऽत्यन्तवैषम्यं दृष्ट्वा गोप्योऽवदन्निति ॥ २४॥
दृष्टं क्वचिदहो आल्यः प्रेयसोऽस्य छलात्मनः ।
अतिधूर्तस्य मूर्तस्य कैतवस्यैव कैतवम् ॥ २५॥
तथास्त्ययमसावत्र कृत्वा रूपान्तरग्रहम् ।
प्रेयसीं रमयत्येनां विजातीयसुखात्मना ॥ २६॥
प्रियो विश्वसनीयोऽसौ नैव सख्यः कथञ्चन ।
गुणक्रियायां व्यक्तौ वा यत्प्रामाण्यं न विद्यते ॥ २७॥
आराध्योऽसौ पुनर्वृत्ते सहजानन्दलब्धये ।
नो चेत्प्राणपरित्यागं कुरुध्वं मानवर्जिताः ॥ २८॥
को विशेषो मतस्त्वस्यामस्मत्सौभाग्यधर्षणः ।
यद्वशीभावितो धूर्तो रमत्येकान्तसङ्गतः ॥ २९॥
इत्यन्योन्यं समामन्त्र्य दुरात्मानो दृढव्रताः ।
प्रमोदवनवीथीषु देहान् सन्त्यज्य गोपिकाः ॥ ३०॥
सहजामाविशन् सर्वाः सत्त्वांशेन मृगीदृशः ।
प्रियेणैकान्तभोगाय चक्रिरे कर्म दुष्करम् ॥ ३१॥
तावत्तासां शरीराणि कालशक्तिर्जुगोप च ।
न म्लानिर्न च विक्लेदो बभूव तत्प्रसादतः ॥ ३२॥
ततः स सहजानन्दशक्त्या रेमे च पूर्ववत् ।
सम्भोगविप्रलम्भाभ्यां स्वस्वकालोचितक्रियः ॥ ३३॥
साप्याचकाङ्क्षे कान्तस्य स्वरूपानन्दलब्धये ।
ततः साप्यविशद्रामं तद्रूपानन्दलब्धिहृत् ॥ ३४॥
परमानन्दपाथोधिस्वभावचिद्वपुर्द्धरम् ।
स्वरूपमात्रनिरतं विरतं विषयग्रहात् ॥ ३५॥
सममित्रार्युदासीनमध्यस्थद्वेष्यबान्धवम् ।
तं प्राप्य सहजालक्ष्मीः परब्रह्मस्वरूपिणम् ॥ ३६॥
न प्रापातिशयानन्दं प्राप्ता न रतिजां मुदम् ।
यत्र सर्वे महानन्दा एकीभूता भवन्ति वै ॥ ३७॥
परस्परा न लक्ष्यन्ते गुणाः स्वार्थविवर्जिताः ।
मोक्षेति नाम्ना विख्याताः केवलं शून्यरूपिणः ॥ ३८॥
तामवस्थां गतो रामः केवलं ब्रह्मशब्दभाक् ।
संयोगं नैव जानाति केवलानन्दरूपधृक् ॥ ३९॥
स्मृत्वा पूर्वविलासौघं विप्रलम्भरसोऽभवत् ।
तदा प्राणप्रियां स्मृत्वा जजागार महारुजः ॥ ४०॥
क्व याता मे प्रिया सीता चन्द्रवक्त्रा चकोरदृक् ।
अहो प्राणप्रिया सा मे हाहा प्राणप्रिया मम ॥ ४१॥
क्व गता क्व गता देवी वञ्चयित्वेव मामपि ।
स्वरूपं विस्मृतं भाति तां विना मृगलोचनाम् ॥ ४२॥
ततो हृदयदेशात्तु रामस्यानन्दरूपिणः ।
एकदूती समुद्भूता या पुरा दृष्टविग्रहा ॥ ४३॥
विलपन्तं तदा दृष्ट्वा प्राह सत्वरमेव सा ।
दूत्युवाच ।
सर्वास्ता व्रजसुन्दर्यो सीतामर्षवशङ्गताः ॥ ४४॥
अस्याः सुखं परिप्राप्तुं लिल्युरस्यां चिदाकृतौ ।
इयं त्वयि विलीनाभूत्तत्त्वं किमनुशोचसि ॥ ४५॥
शृङ्गारस्यैव संहारकालोऽयं समुपस्थितः ।
एतासु लीनरूपासु शून्यं विश्वं विभाति मे ॥ ४६॥
शून्यं प्रमोदविपिनं शून्यं साकेतपत्तनम् ।
शून्यं ब्रह्मसुखं चैव त्वं शून्यमिव लक्ष्यसे ॥ ४७॥
तस्मात्त्वमधुना राम प्रादुर्भावय भामिनीम् ।
यदा शृङ्गाररूपस्य जन्म जायेत पूर्ववत् ॥ ४८॥
ततो रामो रतिं कर्तुमिच्छां चक्रे सनातनीम् ।
इच्छां चक्रे स्वरूपं च सच्चिदानन्दविग्रहे ॥ ४९॥
एकोऽहं बहुरूपेण रंस्ये स्वानन्दशक्तिभिः ।
ततः प्राणप्रिया सीता श्रीमज्जनकनन्दिनी ॥ ५०॥
हृद्देशात् रामचन्द्रस्य प्रादुरासीत् सुलोचना ।
प्रकाशयन्ती हरितः स्वरुचा दीप्यमानया ॥ ५१॥
साब्रवीत्तु पतिं प्रेम्णा प्रणयालोकतत्परा ।
अहो त्वयि विलीनापि विरहं लब्धवत्यहम् ॥ ५२॥
क्वायं तव मुखाम्भोजदर्शनप्रोद्भवो रसः ।
क्व च स्वरूपानन्दान्तर्लयजाः परमा मुदः ॥ ५३॥
उत्कृष्टोऽपि ममात्यन्तं ब्रह्मानन्दो न रोचते ।
यथा त्वद्भजनानन्दो नित्यमास्वादिमद्रसः ॥ ५४॥
विप्रलम्भो मया जातस्त्वयि कान्त विलीनया ।
मयि लीनास्तु ताःसर्वाः किं जानासि व्रजाङ्गनाः ॥ ५५॥
मय्यमर्षपरा भूत्वा मत्पदं सङ्गतास्तु ताः ।
इत्युक्त्वा निजहृद्देशात् प्रादुर्भावितवत्यसौ ॥ ५६॥
ततः समस्तास्ता गोप्यो यथापूर्वं बभाषिरे ।
स्वानि स्वानि शरीराणि जगृहुः पूर्ववत्तु ताः ॥ ५७॥
प्रणम्य कान्तं कान्तां च इदं वचनमब्रुवन् ।
वयं त्वया स्पर्द्धमाना गतास्त्वत्पदवीं सखि ॥ ५८॥
त्वदीयानन्दभोगाय किमर्थं त्वं लयं गता ।
पृथग्भूततया स्थित्वा सम्भोगं नाचरः कुतः ॥ ५९॥
सीतोवाच ।
प्रियस्वरूपावाप्त्यै च लीना प्रागभवं प्रियाः ।
ततः शून्यतयातिष्ठं नान्वभूवं किमप्यहम् ॥ ६०॥
ततो विक्लविता भूत्वा प्रादुर्भूता पृथक्तया ।
युष्माभिर्मयि लीनाभिः किं कृतं वामलोचनाः ॥ ६१॥
युष्माकमेव भोगार्थमहं जाता पृथक् प्रभोः ।
नानेनैक्येऽपि वर्तेयं स्वरूपानन्दरूपिणी ॥ ६२॥
अतः परं तु मां यूयं नानुसूयितुमर्हथ ।
संहारः स्यात्तदा सख्यः शृङ्गारस्य रसेशितुः ॥ ६३॥
तस्मात्स्वस्वात्ममर्यादां न विलम्बितुमर्हथ ।
अहं प्रिया भवत्यश्च सततं शर्म बिभ्रतु ॥ ६४॥
अशक्यं न प्रभोरस्य सर्वासां भोगभोजने ।
यथा चन्द्रस्य सर्वेषां कुमुदानां प्रकाशने ॥ ६५॥
एनं हि सर्वभावेन सर्वा एव भजन्त्विति ।
ओमित्युक्त्वा तु ताः सर्वाः पूर्ववन्मुदमाप्नुवन् ॥ ६६॥
नित्यरासविलासादींश्चक्रुः स्वप्रेयसा सह ।
एवं विहरतस्तस्य प्रमोदविपिनान्तरे ॥ ६७॥
बहु संवत्सरा जग्मुर्दिव्यतारुण्यशालिनः ।
प्रमोदविपिनद्वारे कदाचिल्लक्ष्मणादिभिः ॥ ६८॥
भ्रातृभिः सह सञ्जातः सङ्ग्रामोऽसुरयूथपैः ।
तेषां प्रयुद्ध्यतां तत्र उदतिष्ठन्महान् ध्वनिः ॥ ६९॥
तं श्रुत्वा रघुशार्दूलो गोपिकाः प्रत्युवाच ह ।
कोऽसौ ध्वनिः श्रूयतेऽद्य प्रमोदविपिनाद्बहिः ॥ ७०॥
प्रायो मे भ्रातरः केनाप्याक्रान्ता सुरवैरिणा ।
नियुद्धस्येव संरावः श्रूयते व्रजयोषितः ॥ ७१॥
तत्र गछाम्यहं शीघ्रं पुनरेष्यामि वोऽन्तिकम् ।
ततस्ताभिरनुज्ञातो लक्ष्मणस्यान्तिकं ययौ ॥ ७२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रासचचरितवर्णनं नाम एकोनचत्वारिंशोऽध्यायः ॥ ३९॥
७२/१७७८
०४०. रामप्रयाणो नाम चत्वारिंशोऽध्यायः ।
ब्रह्मोवाच ।
तत्र गत्वा दर्दशासौ युद्ध्यन्तं लक्ष्मणं परि ।
भरतं चैव शत्रुघ्नं दानवैर्बलसंवृतैः ॥ १॥
आगतं राममालोक्य अभियुक्ताः परैस्तु ते ।
लक्ष्मणो भरतोऽरिघ्नो हर्षमापुरनुत्तमम् ॥ २॥
ततो रामसहायास्ते परान् जिग्युश्च तत्क्षणात् ।
स्वस्था भूत्वा ततो ज्येष्ठमूचिरे वचनं त्विदम् ॥ ३॥
लक्ष्मण उवाच ।
स्वागतं ते गुणाधीश कार्यं सम्पादितं प्रभो ।
सेवनात् कामराजस्य कच्चित् सम्पूरिता स्पृहा ॥ ४॥
त्वदाज्ञातत्पराः सर्वे वयं गोपगणैः सह ।
धेनुरक्षापरा नानातीतवन्तः स्म वासरान् ॥ ५॥
प्रत्यूहाश्चेह सञ्जाता बहवोऽप्यसुरैः कृताः ।
तेऽपि नीताः क्षयं राम त्वत्प्रसादजुषा मया ॥ ६॥
एतौ च भ्रातरौ सम्यगवर्तेतां त्वदाज्ञया ।
अधुना यत्तु कर्तव्यं तदपि श्रूयतां परम् ॥ ७॥
राज्ञा दशरथेन त्वमस्माभिः सेवकैः सह ।
आकारितोऽसि नीतिज्ञ विवाहार्थं वयोयुतः ॥ ८॥
धात्रीगृहे वयं सर्वे जाताः स्म धृतपुष्टयः ।
अधुना पितुरादेशादयोध्यां याम राघव ॥ ९॥
गजाश्वरथसन्दोहः पित्रा नः प्रेषितोऽनघ ।
गजा ध्वजपरिप्रौढाः स्वर्णालङ्कारशालिनः ॥ १०॥
हेमपल्याणिनश्चैव रथाश्वाः सपरिच्छदाः ।
सेवकाश्चापि बहवो नीता दिग्देशभूमिपाः ॥ ११॥
अस्मदानयनार्थाय प्रेषिताः सर्वभूभृता ।
श्रीमद्दशरथेनास्मत्तातेन प्रवयोजुषा ॥ १२॥
आर्य त्वां च कृतोद्वाहं राज्यकार्ये नियोज्य सः ।
प्रियोऽस्माकं पितृवृत्तिं वानप्रस्थं श्रयिष्यति ॥ १३॥
तदार्य तत्र सङ्गम्य पितरौ नन्दयामहे ।
धात्रीगृहे निवसतां बहवो वत्सरा ययुः ॥ १४॥
इदानीं पितृगेहस्य कुर्मोऽलङ्करणं वयम् ।
किं तैः सुतैर्ये न कुर्युः पितृसन्तोषणक्रियाम् ॥ १५॥
जीवतो गेहसन्तोषो मृते वा पारलौकिकः ।
एवमुक्तस्तु तै राम ओमित्यूचे वचः प्रभुः ॥ १६॥
अयोध्यां प्रतिगच्छामो नन्दयामः पितॄनथ ।
ततस्ते कृतसङ्कल्पाः प्रयाणाय पितुर्गुहे ॥ १७॥
सुखिताख्येन गोपेन गवेन्द्रेणेदमीरिताः ॥
हे राम हे लक्ष्मण भूरिकर्मन्
हे शत्रुहन् भरत पितुर्गृहं प्रति ।
किं प्रस्थिता यूयमितोऽधुना व्रजे
कः पालयिष्यत्यखिला अमूर्गाः ॥ १८॥
एताः खलु प्रेमभरेण युष्म
त्सम्पालिताः कञ्चन विश्वसन्ति न ।
अहो धर्मजा तत्क्षणादेव चामू
र्विनाशमेष्यन्ति च त्वद्वियोगात् ॥ १९॥
अस्माकं वा कागतिस्तात युष्म
त्प्रेमामृतैकाश्रयिणां गोपकानाम् ।
अयं व्रजो वा मुखदर्शने क्वचि
त्पलार्द्धमप्यन्तरायं न सोढा ॥ २०॥
क्रीतः प्रेम्णा राजपुत्रैर्भवद्भि
र्लोकोऽत्रत्यः कां गतिं लभ्यतेऽसौ ।
क्व युष्माकं मन्दिरे नः प्रवेशो
भूमेरेकश्छत्रछायास्पदानाम् ॥ २१॥
यूयं तदेवं कर्तुमर्हन्ति नैव
धर्मज्ञातारः सत्कृपासिन्धुचित्ताः ।
अनन्यभाजां खलु नो यूयमेव
चित्रं वित्तं चेह चामुत्रपूर्णम् ॥ २२॥
नान्यं भजामो न च संस्मरामो
न चाश्रयामो न च वीक्षयामः ।
भवत्पदाम्भोरुहमत्र नः परं
परं शरण्यं शरणागतानाम् ॥ २३॥
माङ्गल्योवाच ।
वत्स राम भवतः प्रणयेन
प्रायशो व्रजजनोऽस्ति निबद्धः ।
अद्य का गतिरमुष्य भवित्री
प्रेषिते त्वयि चिरात्कृतसङ्गे ॥ २४॥
जीवतां खलु जनो भवतासौ
चापदां समुदयानपनीय ।
अद्य किं स न मरिष्यति
युष्मद्वक्त्रपूर्णविधुदर्शनहीनः ॥ २५॥
यः खलु प्रतिदिनं त्वया विना
वर्तितुं क्षणमपि क्षमते न ।
स त्वदाननविलोकनं विना
कीदृशीं गतिमवाप्स्यति लोकः ॥ २६॥
तत्पुरीं प्रति न याहि साम्प्रतं
रामचन्द्र पितराविहैव ते ।
आगमिष्यत इदं वचनं नः
पालयस्व वरदेश्वरेश्वर ॥ २७॥
एष गोपनृपतिस्त्वया परं
पुत्रितां समुपगम्य निर्वृतः ।
वत्स राम तदमुष्य वियोगं
दातुमर्हति भवान्न कदापि ॥ २८॥
गोपा ऊचुः ।
अयि मित्राणि निबोधत रामसुमित्रातनयभरतशत्रुघ्नाः
युष्मद्विरह भयार्त्तिः कदाचिदपि नानुभूतपूर्वा नः ।
सम्प्रति भवतां नगरे प्रस्थानं श्रूयतेऽस्माभिः
दीर्घमजनिष्ट दुःखं प्राणान्तादप्यतीव गरीयः ॥ २९॥
अथ भविता किमतोऽग्रे मित्रवियोगेन मरणमस्माक
मथवा पूर्वं मरणं तदनु वियोगो भवतु भवाय ॥ ३०॥
सार्द्धन्तदस्माभिरा बाल्याद्बहुलं सुखं लसितम् ।
तेषां क्षणवियोगेऽपि कथं स्थास्यामहे वयम् ॥ ३१॥
एषां विलोकनेऽस्माभिर्निमेषोऽपि विगर्हितः ।
वहन्तो विरहं तेषां कथं स्थास्यामहे वयम् ॥ ३२॥
पानभोजनशय्यादौ यैर्विना न च संस्थिताः ।
विप्रयोगे चिरं तेषां कथं स्थास्यामहेऽधुना ॥ ३३॥
एषां राजकुमाराणां तिष्ठतां रत्नवेश्मसु ।
दौवारिकैर्वयं रुद्धा प्राप्स्यामः किं प्रवेशनम् ॥ ३४॥
यौवराज्ये स्थितो रामः किन्त्वस्मान् संस्मरिष्यसि (ति ?)।
इन्द्रादिदिविषद्वन्द्यो वन्दनीयपदाम्बुजः ॥ ३५॥
एवमालपतां तेषां वचांस्याकर्ण्य गोपिकाः ।
अमी वदन्ति किं तावदिति प्रोचुः परस्परम् ॥ ३६॥
तत्रैकापि च लोकेभ्यो रामयानं विजानती ।
प्रोवाच गाढधैर्येण नस्फुटद्धृदया सती ॥ ३७॥
अयि गोपा अहो आल्यः सर्वेऽपि नगरं प्रति ।
प्रस्थानं रामचन्द्रस्य समाचक्षत आर्त्तिदम् ॥ ३८॥
अयं खलु पितृभ्यां वै धात्रीगेहे चिरोषितः ।
यौवराज्याभिषेकार्थमाहूत इति शुश्रुमः ॥ ३९॥
एते खलु नरेन्द्रस्य कुमारा अग्निवर्चसः ।
राक्षसानां भयेनात्र गोपगेहे निवेशिताः ॥ ४०॥
इह तिष्ठद्भिरेतैस्तु कति दैत्या विनाशिताः ।
राक्षसाः पूतनाद्यास्तु विकटाद्याश्च राक्षसाः ॥ ४१॥
रामेण क्रीडता सख्यः सद्य एव विनाशिताः ॥
त्रिलोकमध्ये नरदैत्यदैवतात्
कुतोऽप्यमीषां हि भयं न विद्यते ।
एते खलु क्ष्मातलसाधुपालकाः
कृतावताराः पुरुषोत्तमाः स्वयम् ॥ ४२॥
यथा रामस्तथा लक्ष्मा यथा स भरतस्तथा ।
यथैव भरतो वीरः तथा शत्रुघ्न उच्चकैः ॥ ४३॥
एते स्वयं रुचा पूर्णा भगवन्तो नरोत्तमाः ।
पितृभ्यामिति विज्ञाय समाहूताः स्वपत्तने ॥ ४४॥
जीवने चापि सन्देहः किन्त्वस्माकमतः परम् ।
येषां क्षणेऽपि विच्छेदो नानुभूतः कदाचन ॥ ४५॥
तेऽमी प्रयाताः स्वपुरं द्रष्टव्याः कथमक्षिभिः ।
इति श्रुत्वा सखीवाक्यं सर्वास्ता व्रजयोषितः ॥ ४६॥
मूर्छिताः सहसा तत्र निपेतुर्धरणीतले ।
पतितास्वासु धरणौ महान् कोलाहलोऽभवत् ॥ ४७॥
ता एवोपचरन्तीनां गछन्तीनामितस्ततः ।
दूतीनां च सखीनां च सद्य एव व्रजाङ्गणे ॥ ४८॥
तालवृन्तानि कुरुत नाडी पश्यत पश्यत ।
मुखेषु सलिलं दत्त किञ्चित्पृच्छत पृच्छत ॥ ४९॥
अहो हि निमिषत्येषा श्वसित्येषा तु किञ्चन ।
अहो किञ्चिद्वदत्येषा ईषद्विस्फुरिताधरा ॥ ५०॥
इत्येवं वदतां तत्र जनानां च परस्परम् ।
ततश्चिराय प्रतिलब्धचेतना
गवेन्द्रघोषस्य कुरङ्गलोचनाः ।
प्रिय प्रयाणश्रवणेन कातरा
परं वचः प्रोचुरिदं परस्परम् ॥ ५१॥
अहो वयस्याः प्रतिकूलदेवाः
क्वचित्समाकर्णितमीदृशं वचः ।
अयं खलु श्वो नगरं प्रयाता
हूतः पितृभ्यां युवराजयोग्यः ॥ ५२॥
ततः कथं जीवनमाप्नुयामः
कदाप्यनभ्यस्तवियोगवेदनाः ।
गतिस्मिताप्रेक्षणभाषणादिभिः
सख्योऽमुनाकृष्टवशीकृतान्तराः ॥ ५३॥
ईदृग्विपत् क्वापि कदापि जन्मनि
प्राप्ता नचास्मासु यतः सुसंशयः ।
अहोऽमुना वर्षदवानलादिना
प्राणान्तकेभ्यः किमु रक्षिता वयम् ॥ ५४॥
इत्युक्त्वा सहसा गोप्यो गलत्कज्जलकैश्चलैः ।
कदम्बकुसुमस्थूलैर्बहुलैरश्रुविन्दुभिः ॥ ५५॥
ममृजुः कुचकाश्मीरं दीर्घनिःश्वासकम्पिताः ।
यथा कथञ्चिद्धैर्येण प्राणान् संरुध्य तस्थिरे ॥ ५६॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामप्रयाणो नाम चत्वारिंशोऽध्यायः ॥ ४०॥
५६/१८३४
Encoded and proofread by Vishal Pandey