भुशुण्डिरामायणम् पूर्वखण्ड ०४१-०५०
०४१. रामप्रवासो नाम एकचत्वारिंशोऽध्यायः ।
ततो रामेति विश्लेषकातरं सुखिताभिधम् ।
गवेन्द्रं चैव माङ्गल्या पुत्रविश्लेषकातराम् ॥ १॥
गोपान् सुदर्शनानन्दसुनन्दादीन् महात्मनः ।
गोपीश्च शृण्वतीः सर्वाः सद्य एवेदमूचिवान् ॥ २॥
अयि तात गवेन्द्र त्वं मातर्माङ्गल्यके शृणु ।
सुदर्शनाद्याश्च गोपाः शृणुतेदं वचो मम ॥ ३॥
कच्चित्क्षणं न सोढ़व्यो भवतां विरहो मया ।
मद्वियोगप्रभूतार्त्तिः युष्माकं किन्तु बाधते ॥ ४॥
भवद्वियोगजैवार्त्तिमर्म तावत्ततोऽधिका ।
तथापि न क्वचित्तात सञ्जाता सञ्जनिष्यते ॥ ५॥
नाहं वसामि वैकुण्ठे न वै गोलोकसंज्ञके ।
मथुरायां द्वारकायां श्वेतद्वीपालये न वा ॥ ६॥
अहं वसामि सततं सुखितस्यैव मन्दिरे ।
माङ्गल्यकाकरानीतं मृदु हैयङ्गवीनकम् ॥ ७॥
अशानो भ्रातृभिः सार्धं नान्यथा तृप्तिरस्ति मे ।
एवं विज्ञाय वै नित्यं मम चारित्र्यमद्भुतम् ॥ ८॥
युवाभ्यां शोचितव्यं न कदाचित्क्वचिदप्युत ।
न चैव मन्मनः क्वापि प्रमोदविपिनं विना ॥ ९॥
रमते बहुधा क्लृप्तत्रैलोक्यश्रीभरेष्वपि ।
रासाख्यलीलया मह्यमन्या लीला न रोचते ॥ १०॥
गोपालबालकेभ्योऽन्यो न मे प्रणयभाजनम् ।
इयं हि से नित्यलीला भवतां सदनेषु या ॥ ११॥
अन्यावतारसमये भवन्नैमित्तिकी हि सा ।
नित्यं वसामि युष्माकं सदने सरयूतटे ।
रासाख्यलीलाभिर्नित्यं विहरामि सखीगणैः ॥ १२॥
कदाचिन्मत्स्यरूपेण लोके प्रादुर्भवाम्यहम् ।
वेदोद्धरार्थमुदधौ कुर्वञ्चरितमद्भुतम् ॥ १३॥
कदाचित्कूर्मरूपेण प्रादुर्भूय करोम्यहम् ।
देवासुरेषु श्रान्तेषु मन्दराचलधारणम् ॥ १४॥
कदाचिद्दैत्यराजे तु धरणीनाशनोद्यते ।
दिव्यवाराहरूपेण तदा प्रादुर्भावाभ्यहम् ॥ १५॥
कदाचिद्भक्तराजस्य प्रह्लादस्य सुखाकृते ।
नारसिंहस्वरूपेण दैत्यराजं निहन्म्यहम् ॥ १६॥
कदाचित्सर्वदेवानां स्थानेषु स्थापनाकृता ।
दिव्यवामनरूपेण दैत्येन्द्रं छलयाम्यहम् ॥ १७॥
कदाचित् परशुं धृत्वा धर्मस्य प्रतिपालकः ।
दुष्टक्षत्रविनाशाय भुवि प्रादुर्भवाम्यहम् ॥ १८॥
कदाचिद्राघवे वंशे प्रादुर्भूय स्वविक्रमैः ।
धर्मं संस्थाप्य धरणीभारं बहु हराम्यहम् ॥ १९॥
कदाचिन्ममांशकलया कृष्णो वै सम्भविष्यति ।
द्वापरान्ते यदुकुले देवक्यां वसुदेवतः ॥ २०॥
कदाचिन्मृत्युदुःखेन यज्ञजन्तून् विशोचतः ।
अनुग्रहामि सञ्जातो बुद्ध रूपेण भूतले ॥ २१॥
कदाचिन्म्लेछवृन्देषु धर्मविप्लवकारिषु ।
नीलं हयं समारुह्य कल्किः प्रादुर्भवाम्यहम् ॥ २२॥
अन्यैरपि स्वरूपैश्च तत्र तत्र स्फुटीभवन् ।
अधर्मं नाशयित्वाहं स्वधर्मं स्थापयाम्यहम् ॥ २३॥
एवं यदा यदा धर्मः क्षीयते सर्वभूतजः ।
स्वात्मानं कल्पयित्वा तु तदा प्रादुर्भवाम्यहम् ॥ २४॥
नित्यं वसामि भवतां सदने दिव्यगोकुले ।
माणिक्यरत्नसन्नद्धमुक्तामणिविभूषितः ।
माङ्गल्यायाः करानीतं नवनीतमशन्नथ ॥ २५॥
मद्वियोगजदुःखं तु भवतां नैव बाधते ।
यदि बाधेत सैषा तु मन्मायैव रसात्मिका ॥ २६॥
संयोगो विप्रयोगश्च रसस्तु द्विविधः स्मृतः ।
आद्योऽनुभूत एवान्तो द्वितीयस्तु भविष्यति ॥ २७॥
पित्रोः सन्तोषणं कृत्वा कृत्वोद्वाहं च तत्सुखम् ।
राज्यकार्यं विधायाथ पुनरेष्यामि वो गृहे ॥ २८॥
न कार्यो भवता शोकस्तात मद्विरहोद्भवः ।
एष तु स्वप्नवद्भूत्वा क्षणाद्यास्यति दुःखदः ॥ २९॥
अहं निजप्रियान् गोपान् नीत्वा यास्यामि तां पुरीम् ।
एतैर्विना क्षणं स्थातुं हेतात क्वापि नोत्सहे ॥ ३०॥
त्वं च तावद् गवां तात पालनं कारय प्रभो ।
अस्मिन् प्रमोदविपिने नव्यनव्यैस्तृणाङ्कुरैः ॥ ३१॥
माङ्गल्यके मातरिह मा शुचो मद्वियोगतः ।
न त्वां विना क्षणमपि स्थातुं भो सुखसंयुतः ॥ ३२॥
गोपा यूयं सखायो मे आयान्तु मम सार्थगाः ।
प्रमोदवनविश्लेषो गतो वो मुखदर्शनात् ॥ ३३॥
भवद्भिः सहितः सर्वं राज्यकार्यं विधाय च ।
हत्वा चासुरसन्दोहानेष्यामि पुनरत्र वै ॥ ३४॥
अन्ये च मत्प्रेमपराः सकलव्रजवासिनः ।
न शोकेनाभितप्यध्वं मद्वियोगैकजन्मना ॥ ३५॥
एष वः स्वप्नवद्भूत्वा क्षणाद्यास्यति निश्चयः ।
इति तेषां समस्तानां प्रमोदवनवासिनाम् ॥ ३६॥
व्रजौकसां सदाराणां कृत्वा सान्त्वनमच्युतः ।
यियासुः पितुरागारं तां रात्रिं तत्र चावसत् ॥ ३७॥
तमीयुः सकला गोप्यः प्रियविश्लेषकातराः ।
रुदन्त्यो भूरिशोकेन प्रवासभयविह्वलाः ॥ ३८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामप्रवासो नाम एकचत्वारिंशोऽध्यायः ॥ ४१॥
३८/१८७२
०४२. रामयात्रानाम द्विचत्वारिंशोऽध्यायः ।
गोप्य ऊचुः ।
पित्राहूतः स्वनगरं राज्यकार्यावगुप्तये ।
प्रभात एव स्वैः साकं यास्यसीत्यनुशुश्रुम ॥ १॥
नैवं त्वं कर्तुमर्होऽसि हत्वा नो हरिणीरिव ।
निजदृष्टिशराविद्धाः प्रेमस्वरविमोहिताः ॥ २॥
त्वं तु विस्मृतवान् प्रायः प्रमोदवनखेलनम् ।
विस्मर्तव्यं न चास्माभिस्तत्सुखं क्षणमप्यहो ॥ ३॥
ता यामिन्यस्तद्रहस्यं केलयस्ताश्च वेलयः ।
ते ते रासविलासाद्याः स्मर्यमाणा हरन्ति नः ॥ ४॥
प्रमोदवनपर्यन्तं भूरिकुञ्जनिकुञ्जभूः ।
प्रमोदे स्थापयत्यन्तः स्मरन्तीनां पुनः पुनः ॥ ५॥
कदाचिद्भवता साकं रामसम्पूर्णचन्द्रमाः ।
खेलन्तीनां वनेऽस्माकं सन्ध्याभूत्कृष्णपक्षगा ॥ ६॥
ततः प्रववृते ध्वान्तं गाढं नवघनोपमम् ।
यस्मिन्प्रत्येकमादाय भुक्तवान् नो रघूद्वह ॥ ७॥
कदाचित्पुष्पावचये याताः प्रमुदकानने ।
सन्ध्यायामभवद्घोषो घनसङ्घट्टजोऽम्बरे ॥ ८॥
तदा प्रववृते दिव्या कामकेलिर्मनोहरा ।
यां विलोक्य मुदं भव्यां प्रापुर्गीर्विशिखा अपि ॥ ९॥
कदाचित्सरयूवारिगम्भीरावर्तदुर्धरम् ।
वयं च दधि विक्रेतुं यातुकामाः पुरं प्रति ॥ १०॥
तदा त्वं कामसौन्दर्यगम्भीरेऽस्मिन्नदीजले ।
सौवर्णीं नावमारोप्य क्रमात्तरितवानसि ॥ ११॥
कदाचिद् घट्टरक्षायै नियुक्ते गोपभूभृता ।
गच्छतीर्दधिविक्रेतुं मध्ये मार्गं निरुद्धवान् ॥ १२॥
कदाचिद्रथमारोप्य सौवर्णमणिकिङ्किणीम् ।
वनाद्वनान्तरं नीत्वा शोभां दर्शितवानसि ॥ १३॥
कदाचिन्माधवे मासि कुसुमाकरशोभिनि ।
दिवानिशमविज्ञाय नित्यं विहृतवानसि ॥ १४॥
कदाचिन्निष्ठुरे ग्रीष्ममासे दिव्ये तु पाथसि ।
जलकेलीः सहास्माभिः कृतवानसि सुन्दर ॥ १५॥
कदाचिद् भूरिवर्षायां रत्नाद्रेरधिकन्दरम् ।
वार्भृतो जवनीकृत्य रतवान् श्रीगणैः सह ॥ १६॥
कदाचिद्धेमने काले कुञ्जाभ्यन्तरवेश्मसु ।
हसन्तीसाम्यमानेतुं तूलैः सेवितवानसि ॥ १७॥
कदाचिच्छैशिरे काले लतिका इव पुष्पिणीः ।
मरुत्वानिव धीरस्त्वं प्रिय कम्पितवाँश्च नः ॥ १८॥
इत्थं तत्तत्कालदेशे तत्तत्तारूण्यवेशिता ।
तत्तद्वल्ली वीथी पथः पीत्वा प्रेमामृतं रसम् ॥ १९॥
तत्तत् कामक्रीडा यस्य सञ्चितस्वर्निविडाकारः ।
श्रीरामेन्दोर्जितवानसि कन्दर्पाणां किमपि परार्धम् ॥ २०॥
एवं त्वं रमयास्मान् स्वानन्दरससागरे ।
प्रत्येकं बहुलीकृत्य रामेन्दो रतवानसि ॥ २१॥
अधुना तानि तानीह सुखानि विमुखे त्वयि ।
पर्णवत्कण्टकानीव भेत्स्यन्ति हृदयानि नः ॥ २२॥
मैवं कार्षीः कदापि त्वं वनितावधपातकम् ।
विक्रमी पुँस्वभावत्वादयि त्वं निष्ठुरोऽप्यसि ॥ २३॥
प्रमोदवनचन्द्रस्य तव प्रिय चकोरिकाः ।
न खेदय मनाङ् मानिन् मनोज्ञाचरितो भव ॥ २४॥
विस्मृत्य निखिलां चेष्टां महामाधुर्यवार्निधिम् ।
शुष्ककाष्ठस्वभावं च कथमुत्सोढवानसि ॥ २५॥
कोऽयं क्रमो रसिकपुङ्गव सार्वभौम
यद्भूरिशः सुखसुधोदधिनिर्वृतानाम् ।
आर्त्तिप्रवेकमनुभावयसि स्वभावात्
स्वानन्दसारसमुदायमयोऽपि सन् नः ॥ २६॥
ईशोऽपि सर्वभुवनस्य निजे वशोऽसि
प्रेमैकवश्यहृदयोऽसि सुसाधनोऽसि ।
निर्वाञ्छनोऽसि स कथं रघुनन्दन त्वं
कर्मातिघोरमिह कर्तुमथोद्यतोऽसि ॥ २७॥
मैवं कार्षीः प्रभो तस्मात् प्रमोदवनदुःसहम् ।
विरहं कर्तुमर्होऽसि रसिकेन्दुमहामणे ॥ २८॥
अथ चेत्त्वमिमं नाथ सङ्कल्पं कृतवानसि ।
तदा नः प्राणनिर्वृत्त्याद्युपायं शिक्षयाधिहन् ॥ २९॥
असमक्षे त्वयि स्वामिन् किं कार्यं सेवकैः जनैः ।
स्वर्भोगं वापि संन्यासमरण्यं वा विरक्तितः ॥ ३०॥
यैः कालदिङ्निमिषभित्तिपदान्तरेऽपि
सोढः कदाचिदपि नैव भवद्वियोगः ।
ते जीवनं समधिगम्य कथं सहन्तां
श्रीमन् महाविरहदावजपापकीर्तिम् ॥ ३१॥
तस्मात्त्वयि दृशोर्द्वन्द्वाद् दूरं याते प्रियोत्तम ।
किं कार्यं भक्तवर्गेण तदस्मास्वनुशिक्षय ॥ ३२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामयात्रानाम द्विचत्वारिंशोध्यायः ॥ ४२॥
३२/१९०४
०४३. रामयात्रायां पुरप्रवेशोनाम रामगीतायां त्रिचत्वारिंशोऽध्यायः ।
ब्रह्मोवाच ।
इति तासां वचः श्रुत्वा रामः कारुणिकोत्तमः ।
ददौ प्रतिवचस्तासां स्मित्वा सम्मोहयन्निव ॥ १॥
श्रीराम उवाच ।
अहो प्रिया मत्स्वरूपा मत्केति सुखसंश्रयाः ।
नैवं विलपितुं योग्या भवन्त्यो नित्यसङ्गताः ॥ २॥
व्यापिवैकुण्ठलोकेऽस्मिन् प्रमोदविपिनाभिधे ।
मदीये चिन्मये दिव्ये भवन्त्यो ह्यपि देवताः ॥ ३॥
श्रीमती जानकी सीता मदीया परमप्रिया ।
तदंशाः सकला यूयं नित्यं सन्निहिता मयि ॥ ४॥
चन्द्रस्य चन्द्रिका यद्वत्तपनस्य प्रभा यथा ।
पृथिव्या इव सम्बन्धो घटस्येव घटत्वकम् ॥ ५॥
असाधारणमेवैषा मदीयं लक्षणं प्रिया ।
तदंशत्वाद्भवत्योऽपि मदीयं लक्षणं परम् ॥ ६॥
विश्लेषो न कदाप्यस्ति भवतीभिः समं मम ।
नाभून्न भविता वापि चिन्मयेऽस्मिन् महापुरे ॥ ७॥
यथाहं सच्चिदानन्दरूपः श्रीविग्रहं दधत् ।
तथैव मत्प्रिया यूयं सच्चिदानन्दविग्रहाः ॥ ८॥
लीलेक्षया यथैवाहं निर्गुणोऽपि गुणात्मकः ।
तथा प्रिया भवन्त्योपि नानुशोचितुमर्हथ ॥ ९॥
लीला गुणमयी ह्येषा मदीया निर्गुणापि च ।
नैते गुणाः प्राकृतत्वं कदाचित् कलयन्ति च ॥ १०॥
प्रमोदवनकुञ्जाश्च प्रमोदवनमेदिनी ।
प्रमोदवनगावश्च प्रमोदवनभूरियम् ॥ ११॥
माङ्गल्या च गवेन्द्रश्च गोपा गोप्यः खगा मृगाः ।
सर्वं ब्रह्ममयं नित्यं सच्चिदानन्दविग्रहम् ॥ १२॥
अपि स्मरथ यद्दृष्टं दिव्ये प्रासादवेश्मनि ।
द्वारकां मथुरां चैव श्रीमद्वृन्दावनं तथा ॥ १३॥
प्रमोदविपिनस्थेऽस्मिन् प्रमोदवनमुत्तमम् ।
तत्र मां नित्यलीलास्थं स्वात्मनि चैव सुव्रताः ॥ १४॥
रुक्मिणीं जानकीं चैव सहजां प्रियमीश्वरीम् ।
अपरा से प्रिया भक्ता भक्तिरूपा तथापरा ॥ १५॥
मत्तोऽपि मम भक्तानां मम भक्तिर्विशिष्यते ।
यथाहं वश्यतां यामि सा मत्तोऽप्यधिकैव हि ॥ १६॥
प्रेमनेत्रा भावमुखी रसगात्री रतिस्तनी ।
रागाधारा महाभावहृदया मे प्रिया परा ॥ १७॥
सैषा मद्वामतनुगा सुन्दरी मधुरस्मिता ।
सीतेतिसाधिकेत्याख्या सहजेति च कीर्तिता ॥ १८॥
मोदिनीति सदाख्याता मन्मनोमोददायिनी ।
शय्यासनाटनस्थाने यां भवन्त्योऽभ्यसूयथ ॥ १९॥
इयं हि सर्वलीलानामेकैवास्ति प्रवर्त्तिका ।
नानया रहितः क्वापि भविष्यामि मृगेक्षणाः ॥ २०॥
यूयं तदंशभूतत्वान्नित्यं सन्निहिता मयि ।
मद्गात्रकिरणाकाराः किमर्थमनुशोचथ ॥ २१॥
गोप्य ऊचुः ।
एवं चेत्तर्हि श्रीराम प्रवादः कोऽयमुत्थितः ।
अयोध्यां यास्यति श्रीमान् पित्रोराज्ञावशंवदः ॥ २२॥
तच्छ्रुत्वा सहजो लोके महान् खेदोऽभ्यजायत ।
अकाण्डताण्डवप्रायं किमिदं रघुपुङ्गव ॥ २३॥
लोकः किं वितथं व्रते त्वं वा किं वञ्चयस्युत ।
निर्हेतुको न चैवायमुदितः सुमहान् ज्वरः ॥ २४॥
एवं नः संशयं छिन्धि सत्यं ब्रूहि च राघव ।
नानृतं हि वदेल्लोको भवतीत्यास्तिकं वचः ॥ २५॥
श्रीभगवानुवाच ।
न लोको वितथं ब्रूते मल्लीलादर्शको ह्यसौ ।
किन्त्वस्मिन् विषये यूयं नानुशोचितुमर्हथ ॥ २६॥
पुरा खलु भवे यूयं देवं पशुपतिं प्रभुम् ।
कोपयित्वा लब्धशापाः किञ्चिद् दुःखमवाप्स्यथ ॥ २७॥
ददौ स भगवान् शापं युष्मभ्यं मद्वियोजनम् ।
तेनेदं रूपमन्तर्धाः किञ्चित्कालं भविष्यति ॥ २८॥
तत्तद्देहांशरूपेण तदा यूयं भविष्यथ ।
अन्तरङ्गतया सर्वां लीलामनुभविष्यथ ॥ २९॥
लोके वियोग इत्याख्या तस्यैव च भविष्यति ।
भविष्यति तु योऽन्तर्धिः साक्षाद्दर्शीतु किञ्चन ॥ ३०॥
तत्राप्यनवधिं तावदानन्दं समवाप्स्यथ ।
मद्भूयत्वान्मदंशानां नैवं यूयं भिदायुजः ॥ ३१॥
गोप्य ऊचुः ।
कदा स भगवान् रुद्रः शशापास्मान् भवत्प्रियाः ।
किंवा तत्कारणं राम कुत्र देशेऽथवा प्रभो ॥ ३२॥
श्रीभगवानुवाच ।
एकदा चैव विषये श्रीप्रमोदवनान्तरे ।
भवन्त्यः सहजायुक्ताश्चक्रुः क्रीडां मया सह ॥ ३३॥
ततश्च सुरतश्रान्ता उपेक्ष्य भवतीरहम् ।
मध्ये निकुञ्जभवनं रतवान् रमया सह ॥ ३४॥
यूयं निकुञ्जभवनस्याङ्गणे बद्धमण्डलाः ।
मद्गुणानेव गायन्त्यस्तस्थुः सुस्थिरमानसाः ॥ ३५॥
तत्राजगाम भगवान् रुद्रः पशुपतिः प्रभुः ।
कृत्वा वन्दनमेताभ्यः क्व राम इति सोऽब्रवीत् ॥ ३६॥
नोचुस्ताः सम्प्रगायन्त्यो रामचारित्रमद्भुतम् ।
पुलकैः समुपेताङ्ग्यः कलिताश्रुविलोचनाः ॥ ३७॥
रुद्रः प्रतिवचोऽश्रुत्वा कृतावज्ञा उवाच ताः ।
भवत्यो रामविश्लेषं लभन्तामचिरात्स्त्रियः ॥ ३८॥
इत्युक्त्वा प्रययौ रामकुञ्जाभिमुखमीश्वरः ।
दृष्ट्वा तु समुपायान्त मुदतिष्ठमहं प्रियाः ॥ ३९॥
ईषद्विवसनीभूतवपुषा रमया सह ।
आदिद्रिये तमीशानं समस्तैरुपचारकैः ॥ ४०॥
अपृच्छं चैव कैलाशाद् भव्यागमनकारणम् ।
रुद्र उवाच ।
तव लीलादर्शनार्थं कैलाशादहमागमम् ॥ ४१॥
अहो रसमयी लीला श्रेयोगुणमयी तव ।
सच्चिदानन्दैकमपि न वाङ्मनसगोचरा ॥ ४२॥
मुक्ता अभिभजन्ते यां दिव्यमास्थाय विग्रहम् ।
निर्गुणापि भवातीतैर्गुणैः सत्त्वादिभिभिर्युता ॥ ४३॥
तद्दर्शनार्थं सङ्क्षुभ्य तपो विस्मृतवानहम् ।
दिव्यवेणुरवं श्रुत्वा स्थानं त्त्यक्त्वेह सङ्गतः ॥ ४४॥
वाञ्छामि त्वन्मुखाम्भोजदर्शनामृतपानकम् ।
अहो धन्ये दृशौ मत्के याभ्यां दृष्टोऽसि राघव ॥ ४५॥
लीलापरिकरोपेतः स्निग्धश्यामलविग्रहः ।
सहजाशक्तिसहितः सहजानन्दनन्दितः ॥ ४६॥
नमस्तेस्तु नमस्तेस्तु नमस्तेस्तु रघूद्वह ।
नमस्ते नित्यलीलायै नमस्ते केलिसम्पदे ॥ ४७॥
नमः प्रमोदकुञ्जाय नमोऽस्यै रत्नभूमये ।
नमः साकेतदुर्गाय नमः सरयुरोधसे ॥ ४८॥
नमस्ते गोपिगोपेभ्यो धेनुकाय नमोनमः ।
गवेन्द्राय नमो नित्यं सुखिताय नमोनमः ॥ ४९॥
नमो गवेन्द्रसुन्दर्यै माङ्गल्यायै नमोनमः ।
नमो गवेन्द्रघोषाय सर्वसम्पदमीयुषे ॥ ५०॥
नमः प्रमुदवनस्थाय रामाय परमात्मने ।
सदानन्दाय रामाय सदा सीतारमाजुषे ॥ ५१॥
पीताम्बराय नवनीरदनीलभाय
वंशीविशालरसिने मधुराधराय ।
गोगोपगोपरमणीकमनीभासे
भाषान्विताय च नमोऽस्तु रघूत्तमाय ॥ ५२॥
राम त्वदीयमुखपङ्कजमक्षिभृङ्गैः
पीत्वा त्वदन्यविषयग्रहसन्निवृत्ततैः ।
संसत्कृतार्थमिव सम्प्रति मन्यमानो
भ्राम्यामि भूतलमशेषपदार्थसिद्धः ॥ ५३॥
सरयूसरसं शश्वच्चुलुकीकृत्य निर्वृतः ।
कदा रासविलासादि पश्येयं स्वाधिकारतः ॥ ५४॥
नित्यलीलापरिकरे कदा मे गणना भवेत् ।
कदा वीक्षेय रामेन्दो भवद्वदनचन्द्रिकाम् ॥ ५५॥
साक्षात्कृतिस्ते लीलाया एष मेऽनुग्रहः प्रभो ।
श्मशानचारिणोऽत्यर्थमभद्र पथसेविनः ॥ ५६॥
अहो मे रामचन्द्रस्य दर्शनार्थमिहागमः ।
तेन पृष्टा इमा देव्यो न मे प्रतिवचो ददुः ॥ ५७॥
तमोरूपप्रकाशार्थमिह क्रोधान्धता मम ।
नोचेदिह गुणातीते स्थाने क्रोधः कथं भवेत् ॥ ५८॥
अघं ममैतत् क्षन्तव्यमपराधनमीश्वर ।
यत्त्वत्परिकरस्यापि शापो दत्तो मया प्रभो ॥ ५९॥
तदाहमुक्तवान् रुद्रं भगवन्नेवमेव तत् ।
तथापि मे चिकीर्षायाः साधनायैव कल्पताम् ॥ ६०॥
गवेन्द्रस्य महाधाम्नि नित्यं निवसतो मम ।
अवतारार्थसंसिद्ध्यै शापोऽयं ते भविष्यति ॥ ६१॥
कौशल्यायास्तदा मातुः पितुर्दशरथस्य च ।
सन्तोषणं तथा ज्ञातिस्वजनानां सुखोद्भवः ॥ ६२॥
वधश्च रावणादीनां समुद्धारस्तथा शिव ।
पशुपक्ष्यन्त्यजादीनां कष्मलाक्रान्तचेतसाम् ॥ ६३॥
अवतारकृत्यमेतावत्करिष्यामि महेश्वर ।
तदर्थं तव शापोऽयमुद्भूतोऽस्त्यत्र मा शुचः ॥ ६४॥
मच्चिकीर्षानुकूलत्वान्न ते शापो रुषावहः ।
स्वैरं विहर संसिद्धो मद्भक्तान् मृडयन् प्रभो ॥ ६५॥
एवमुक्तो मया शम्भुरभिवन्द्य पुनः पुनः ।
निर्जगाम निजं स्थानं कैलासाख्यं मनोहरम् ॥ ६६॥
युष्माकमेवं सञ्जातो रुद्रशापोऽतिदुर्धरः ।
यूयं तस्य प्रभावेण मद्वियोगमवाप्स्यथ ॥ ६७॥
परन्त्वत्रापि विश्लेषे सन्निलीय मदं शृणु (१)॥ ६८॥
मत्सायुज्यं परिप्राप्य मत्तादात्म्यमवाप्स्यथ ।
मदानन्दोदधौ मग्नाः क्षणवद्यापयिष्यथ ॥ ६९॥
मद्वियोगं सुदुर्धर्षं नैव ज्ञास्यथ मत्प्रियाः ।
तावत्कृत्वावतारार्थमागमिष्यामि वः पुनः ॥ ७०॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामयात्रायां पुरप्रवेशोनाम रामगीतायां त्रिचत्वारिंशोऽध्यायः ॥ ४३॥
७०/१९७४
०४४. रामगीतायां चतुश्चत्वारिंशोऽध्यायः ।
ब्रह्मोवाच ।
एवं प्रबोधिता गोप्यो रुद्रशापस्य कारणम् ।
विश्वस्य दुःखभूयिष्ठाः समवोचन् रघूद्वहम् ॥ १॥
गोप्य ऊचुः ।
स्वामिन् भाविपदार्थानां प्रतीकारो न विद्यते ।
तथापि त्वां प्रपन्नानां नार्तिः स्यात् कर्हिचित् प्रभो ॥ २॥
अयमेव प्रतीकारो भवदुःखनिवर्हणे ।
यत्त्वच्चरणपाथोजतरणिद्वन्द्व सेवनम् ॥ ३॥
निवृत्ताखिलतर्षास्ते हंसाः परमभावुकाः ।
पारङ्गता भवाम्भोधेः स्थितास्त्वत्समुपाश्रयात् ॥ ४॥
कथं भक्ताः प्रपद्यन्ते केन भावेन राघव ।
तदस्मानुपदेशेन बोधयस्व कृपावशात् ॥ ५॥
त्वद्वियोगभवा प्रायः परमार्तिर्भविष्यति ।
कथं नु तां तरिष्यामो नित्यं त्वत्सङ्गसंश्रयाः ॥ ६॥
कथं त्वद्विरहे काले व्यूहो लीनो भविष्यति ।
व्रजस्त्रीणां समूहोऽसौ भवल्लीलैकसंश्रयः ॥ ७॥
राम उवाच ।
यथा भक्ताः प्रपद्यन्ते येन भावेन वा प्रियाः ।
तद्वः समुपदेशेन बोधयामि विशेषतः ॥ ८॥
एकान्ते विमले क्षेत्रे योगक्षेमं विधाय च ।
मन्निष्ठां भावनां कुर्याद् यथा शीघ्रं भवं तरेत् ॥ ९॥
वैदिकैस्तान्त्रिकैः कर्मव्यूहैः सुविमले हृदि ।
प्रवृत्तौ भावनां यातां तां कुर्यान्मदुपाश्रयाम् ॥ १०॥
हृत्पुण्डरीकमध्ये तु साकेतं भावयेन्मुहुः ।
तत्र मां भावयेत् पूर्णं लीलाभिः पुरुषं परम् ॥ ११॥
यद्धि किञ्चिद्वस्तुजातं भावयेत्तन्मदात्मकम् ।
मत्तः परं नैव किञ्चिन्मयीदं सर्वमेव तु ॥ १२॥
भूर्जलं पावको वायुः खं मनोमण्डलं दिशः ।
प्रकृतिः पुरुषो ब्रह्म ज्ञेयं सर्वं मदात्मकम् ॥ १३॥
मत्तः प्रवर्तते सर्वं प्रपञ्चोऽयं मदात्मकः ।
मत्कार्यः सन्ततो नित्यं मय्येव व्यपदिश्यते ॥ १४॥
मय्यात्मरतिमायाते लीयन्ते भशिता यथा ।
स्वरूपानव बोधश्च मनो देहेन्द्रियादिषु ॥ १५॥
स्वतादात्म्या वभासश्च सा विद्या परिकीर्तिता ।
व्योमवद्व्यापकं ब्रह्म किञ्चिन्मायांशचेष्टितम् ॥ १६॥
सर्वतः पाणिपादं च सर्वतोदृक्शिरोमुखम् ।
सर्वतो नासिकाश्रोत्रे सर्वमाविश्य तिष्ठति ॥ १७॥
अनन्ता मूर्त्तयस्तस्य भिन्नाभिन्नस्वरूपिणः ।
एकोऽहं बहु भवेयेतीच्छा तस्याभवत् कदा ॥ १८॥
ततोऽवर्तत लोकोऽसौ जडजीवान्तरात्मभिः ।
सन्मात्रं भाति सर्वत्र न भाति च चिदन्तरा ॥ १९॥
सन्मात्रं जड़वर्गोऽयं चिन्मात्रो जीव ईरितः ।
सच्चिदानन्दरूपो वाप्यन्तरात्मा महेश्वरः ॥ २०॥
जडः स्फुरति जाग्रत्सु स्वप्ने भाति चिदन्तरा ।
सुषुप्तौ सच्चिदानन्दो ह्यन्तरात्मा प्रकाशते ॥ २१॥
यल्लीना अवतिष्ठन्ते स्वरूपानन्दभोगिनः ।
आनन्दमय आनन्दभुगित्युपनिषत्सु सः ॥ २२॥
तुरीयस्त्वहमेतेभ्यः समः सर्वत्र सर्वगः ।
विद्यया तु यदा विद्या नश्यति ध्वान्तवद्रुचा ॥ २३॥
तदा स परमानन्दः प्रकाशात्मा प्रकाशते ।
सर्वाध्यासनिवृत्तौ तु शुद्धा देहेन्द्रियादयः ॥ २४॥
मल्लोकानन्दभोगार्हा जायन्ते ते मदात्मकाः ।
नित्यलीलां तदा पश्येन्मद्भक्तो मत्स्वरूपिणीम् ॥ २५॥
न यत्र शोको न जरा न मृत्युर्न मदादयः ।
तन्मदीयं परं स्थानं मद्भक्तः सम्प्रपद्यते ॥ २६॥
यस्मान्न पुनरावृत्तिः सर्गादावपि जायते ॥ २७॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामगीतायां चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥
२७/२००१
०४५. रामगीतायां पञ्चचत्वारिंशोऽध्यायः ।
श्रीभगवानुवाच ।
नवधा भक्तिरुद्दिष्टा श्रुतिसङ्कीर्तनादिभिः ।
कर्मज्ञानोपासनाभिः प्रत्येकं त्रिविधैव सा ॥ १॥
सप्तविंशतिधा भिन्ना गुणैः सत्त्वादिभिः पुनः ।
एकाशीतिप्रकारेण भक्तियोगः प्रकीर्तितः ॥ २॥
निर्गुणा त्वेकरूपैव मन्निष्ठा मत्फलोदया ।
मत्स्वरूपात्मिका नित्यं भूयो मत्प्रेमलक्षणा ॥ ३॥
न तां ददामि कर्मिभ्यो न ज्ञानिभ्यः कदाचन ।
नोपासकेभ्यो नाज्ञेभ्यो नचान्येभ्यो मृगेक्षणाः ॥ ४॥
मन्निष्ठेभ्यो ददाम्येनां यथा युष्मभ्यमङ्गनाः ।
कर्माणि ज्ञानयोगाश्च संन्यासाश्च पृथग्विधाः ॥ ५॥
ते मत्स्वरूपनिष्ठायाः कलां नार्हन्ति षोडशीम् ।
तस्मात् स्वरूपनिष्ठो यः स सर्वेभ्यो विशिष्यते ॥ ६॥
कर्मोपास्तिस्तथा ज्ञानं विहितादितरत्र तु ।
मत्स्वरूपैकनिष्ठस्य सर्वं प्रेमैकलक्षणम् ॥ ७॥
अहमेव फलं येषां न स्वर्गादि कथञ्चन ।
स्वर्गादिफलकं काम्यं केवलं ह्याधिभौतिकम् ॥ ८॥
आध्यात्मिकं चित्तशुद्ध्या ज्ञानैकफलकं प्रियाः ।
केवलं कर्म मन्निष्ठमाधिदैविकमुत्तमम् ॥ ९॥
अथाधिभौतिकं ज्ञानं जीवप्रत्यक्षसाधनम् ।
अक्षरं ब्रह्म साक्षात्त्वहेतुराध्यात्मिकं स्मृतम् ॥ १०॥
परब्रह्मानन्दपददायकं ह्याधिदैविकम् ।
मत्स्वरूपानन्दभोगहेतुस्तुर्यं तदुच्यते ॥ ११॥
उपासनापि त्रिविधा पूर्ववत्समुदीरिता ।
जीवब्रह्मपरब्रह्मसाक्षात्कारविधायिनी ॥ १२॥
अहमेव फलं यस्याः सा तुर्या परिकीर्तिता ।
निर्गुणं भावमापन्ना सर्वतोऽपि विशिष्यते ॥ १३॥
गोप्य ऊचुः ।
सर्वैरपि ब्रह्मविद्भिस्त्वं लभ्योऽसि नरोत्तम ।
उत कश्चिद्विशेषोऽस्ति तन्नो ब्रूहि रघूत्तम ॥ १४॥
केचित्तु वामदेवाद्याः संलीनास्त्वयि केवलम् ।
केचित्पुनर्महाभागास्त्वया भोगान्नु भुञ्जते ॥ १५॥
वरिष्टाः केऽभवन् तेषां तव वेदस्य वा मताः ।
एतद्वेदितुमिच्छामस्त्वत्तः कमललोचन ॥ १६॥
श्रीभगवानुवाच ।
अक्षरं कथ्यते ब्रह्म सर्ववेदान्तगोचरम् ।
पुच्छभूतं प्रतिष्ठा से तद्गेयं योगवित्तमैः ॥ १७॥
ममैव सम्प्रकाशोऽसावुद्योत इव भास्वतः ।
पुरुषाकृतेर्मे देहोऽसौ गृहिण्यश्च गृहं मम ॥ १८॥
भास्वतश्च प्रभा दिव्या यथावदवधार्यताम् ।
स एव चिन्मयो लोको यद्गत्वा न निवर्तते ॥ १६॥
तस्य विज्ञानमात्रेण तन्मयो जायते नरः ।
तत्रैवाप्येति यत्रास्य भेददृष्टिर्निवर्त्तते ॥ २०॥
जन्तोर्मदिच्छया चेत्तु भक्तिः समुपजायते ।
तदा मया सर्वकामभोगान् प्राप्नोति मत्परः ॥ २१॥
अन्यथा त्वक्षरे धाम्नि लीनस्तिष्ठेदकम्पनः ।
किं त्वस्यापि भवेद्भावि भक्ति स्वरूपयोग्यता ॥ २२॥
न ह्यब्रह्मज्ञे कदापि भक्तिः समुपजायते ।
मयि सद्धारणा हेतुर्यदाह श्रुतिरूर्जिता ॥ २३॥
भक्तिं वैधीमुपाश्रित्य मन्निष्ठो मयि लीयते ।
प्रेममात्रस्फुरद्भावो भुङ्क्ते भोगान् मया सह ॥ २४॥
प्रमोदवनकुञ्जस्थो नित्यलीलानुभावकः ।
सख्यवात्सल्यदास्यादिमहाभावैर्विभावितः ॥ २५॥
इति श्रीमदादिरामायणे ब्रह्म भुशुण्डसंवादे रामगीतायां पञ्चचत्त्वारिंशोऽध्यायः ॥ ४५॥
२५/२०२६
०४६. रामगीतारहस्योपाख्याने षट्चत्वारिंशोऽध्यायः ।
गोप्य ऊचुः ।
किंस्वरूपो मतो जीवः सम्बन्धो ब्रह्मणा च कः ।
कीदृङ्मतं परं ब्रह्म अक्षरं वापि कीदृशम् ॥ १॥
श्रीभगवानुवाच ।
सावयवो ह्यसौ जीवः स्वचैतन्यगुणेन तु ।
सर्वं पुरमभिव्याप्य वर्त्तते दीपवद् गृहे ॥ २॥
योगेन मत्प्रसादाद्वा तत्स्वरूपं प्रकाशते ।
निर्धूमानलसङ्काशं निरभ्रविधुसन्निभम् ॥ ३॥
तदा ब्रह्माण्डकोटीनामाश्रयत्वमियादयम् ।
अंश्यंशभावः सम्बन्धो ब्रह्मणा सह तस्य तु ॥ ४॥
अग्निना महता यद्वद्विस्फुलिङ्गस्य कीर्तितः ।
नहि ज्ञाते विस्फुलिङ्गे वह्निर्न ज्ञायते महान् ॥ ५॥
प्रेमाख्यश्चैव सम्बन्धो येन प्राप्नोति मानवः ।
अक्रिये कर्मसम्बन्धो न घटेत कदाचन ॥ ६॥
अज्ञेये ज्ञानसम्बन्धो न भवेच्च कथञ्चन ।
प्रेमाख्यस्तु महान् योगो नित्यं मम रसाभिधः ॥ ७॥
जीवनिष्ठोऽपि स परब्रह्मण्येव तु सम्भवेत् ।
सङ्ख्यापदार्था द्वित्वाद्याः संयोगश्च यथा प्रियाः ॥ ८॥
व्यासज्यैव तु वर्त्तन्ते यथा प्रेमापि बुध्यताम् ।
सर्वाधिकश्च सुदृढो विषयेभ्यः पराङ्मुखः ॥ ९॥
माहात्म्यज्ञानसंस्कारो विनिर्धूतरजस्तमः ।
परमानन्दपाथोधिः प्रेमा निरतिशायितः ॥ १०॥
तेनापि जीवनिष्ठेन ब्रह्म सम्बध्यते परम् ।
येनैव द्वारभूतेन नित्येन तदवाप्नुयात् ॥ ११॥
तत्साधनमहं पूर्णो निरुपाधिः कृपाश्रयः ।
कृपयामि परं यस्मै तस्मै प्रेम परं ददे ॥ १२॥
गोप्य ऊचुः ।
त्वं सर्वेषां समः प्रेयान् सर्वेषां साधनः प्रभो ।
कस्मै ददासि नो कस्मै वेत्तुमिच्छामहे त्वदः ॥ ३१॥
सर्वेषां मुक्तिरेव स्यात् सर्वे स्युः प्रेमभागिनः ।
साधारण्यात्तव श्रीमन् प्रेमदस्य प्रियस्य च ॥ १४॥
श्रीभगवानुवाच ।
अनेकजन्मसंसिद्धकर्मज्ञानादिभागिने ।
ददामि परमं प्रेम परितुष्टो मुहुः प्रियाः ॥ १५॥
न सर्वस्मै ददाम्येतत् परमानन्दलक्षणम् ।
कर्मभिश्चित्तसंशुद्धो ज्ञानेन च्छिन्नसंशयः ॥ १६॥
श्रवणादिमुहुर्भक्तिसाधनैः साधिताकृतिः ।
जनो यो मां प्रपद्येत ज्ञात्वा परमपूरुषम् ॥ १७॥
तस्मै ददामि तां भक्तिं प्रेमाख्यां मदुपाश्रयाम् ।
तां लब्ध्वा चापरं लाभं मन्यते न जगत्त्रये ॥ १८॥
श्रद्धावान् ब्रह्मनिष्ठश्च परब्रह्मरसोत्सुकः ।
वीतरागो विषयतो मत्प्रेम लभते नरः ॥ १९॥
नित्यलीलारसाभिज्ञः श्रुतमत्प्रेमलक्षणः ।
ज्ञात पारमहंस्यश्च मत्प्रेम लभते नरः ॥ २०॥
क्वचिन्नृत्येत् क्वचिद्गायेत् क्वचिद्धावेत मत्तवत् ।
क्वचिद्धसेत् क्वचिज्जल्पेत् क्वचित्क्रीडेत् क्वचिद्वदेत् ॥ २१॥
मत्प्रेममदिरामत्तस्तृणवन्मन्यते जगत् ।
मत्प्रेमभागिनो दृष्ट्वा प्रहृष्येत् प्राप्तबन्धुवत् ॥ २२॥
रमते तैः समं नित्यं सर्वस्वैरिव बन्धुभिः ।
भक्तः परमहंसैश्च भ्रातरस्तस्य ते जनाः ॥ २३॥
सखायः सुहृदश्चैव प्रियाश्च हितकारिणः ।
तेषामर्थे यतेन्नित्यं प्राणांस्त्यक्त्वापि दुस्त्यजान् ॥ २४॥
ते ह्यस्य परलोकस्य सङ्गिनः सुहृदो जनाः ।
एष भावः समुद्दिष्टो येनाऽसौ मां प्रपद्यते ॥ २५॥
तेषामहं स्वस्वरूपं दर्शयिष्यामि वै मुहुः ।
तत्सन्निधौ सदा स्थास्याम्यहमद्भुतभाववान् ॥ २६॥
भावितो भावसन्दोहैर्भविष्यामि च तद्वशे ।
स्वस्वरूपं दुर्लभमप्येभ्यो दास्याम्यहं प्रियाः ॥ २७॥
मद्वियोगभवं दुःखं यथा तेषां निवर्तन्ते ।
तथा वो बोधयिष्यामि विशिष्टं शृणुत प्रियाः ॥ २८॥
इति श्रीमदादिरामायणे ब्रह्म भुशुण्डसंवादे रामगीतारहस्योपाख्यानं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६॥
२८/२०५४
०४७. रामगीतारहस्योपाख्याने सप्तचत्वारिंशोऽध्यायः ।
श्रीभगवानुवाच ।
अलाभे मत्स्वरूपस्य मद्वियोगभवा रुजः ।
विनेया मत्प्रतिकृतिः समाराधनतत्परैः ॥ १॥
काञ्चनी रूप्यजा ताम्री शैली दारुमयी तथा ।
मदीया प्रतिमा कार्या यथारुचितविग्रहा ॥ २॥
साङ्गोपाङ्गां सायुधां च परिवारगणैर्युताम् ।
नित्यं परिचरेद्भक्त्या प्रान्तरारभ्य साधकः ॥ ३॥
पाद्यार्घ्याचमनैर्भूयो मधुपर्कैर्मनोहरैः ।
स्नानैर्विलेपनैर्गन्धैर्धूपैर्दीपैर्विभूषणैः ॥ ४॥
वस्त्रालङ्करणैः पुष्पैर्गीतवादित्रतोरणैः ।
पानीयभोजनैर्भूरि संविधाभिः प्रमार्जनैः ॥ ५॥
नानोपायनसन्दोहैर्यथाभिलषितैरपि ।
आरार्त्तिकैः पुष्पवर्षैः स्तौत्रैश्चापि परिक्रमैः ॥ ६॥
नमनैर्नवनैर्दास्यकरणैर्गृहधावनैः ।
आत्मार्पणैर्नामगणैर्गृणनैः प्रीणनैरपि ॥ ७॥
नानाभावपरीरम्भैर्नाना चोत्सवकल्पनैः ।
अवन्ध्यं तद्दिनं कुर्यात् कीर्तनश्रवणादिभिः ॥ ८॥
शृणुयात् सततं सख्यो रामायणमनन्यधीः ।
वेदवत्तद्विजानीयाद्यत्रास्ति चरितं मम ॥ ९॥
वाल्मीकं चैव वासिष्ठं शैवं पाराशरं तथा ।
भौशुण्डं पञ्चमं षष्ठं काप्यं रामायणं स्मृतम् ॥ १०॥
अन्येष्वपि पुराणेषु यत्रापि चरितं मम ।
तं तं भागमपेक्षेत विशेषेण मदाश्रयः ॥ ११॥
रां रामाय नम इति मम मन्त्रं षडक्षरम् ।
अशेषकामनापात्रं गृह्णीयात् सद्गुरोर्मुखात् ॥ १२॥
वैदिकैस्तान्त्रिकैर्वापि प्रकारैः परिसाधयेत् ।
ततस्तु चित्तसंशुद्ध्या जातः प्रेमविघूर्णितः ॥ १३॥
भजेन्मदविशेषेण मन्मूर्तिं प्रागुदाहृताम् ।
सच्चिदानन्दरूपां तां भावयेत विचक्षणः ॥ १४॥
जानक्या प्रियया युक्तं रात्रौ सञ्जातजागरम् ।
ईषन्मदविघूर्णाक्षं प्रभाते मां प्रबोधयेत् ॥ १५॥
मङ्गलारात्रिकं कुर्यात् सिंहासनगते मयि ।
ततो माङ्कल्यकैर्भावैः शिक्ये हिन्दोलयेत्तराम् ॥ १६॥
तत्र मां भोजयेद् दिव्यं नवनीतं सितोपलैः ।
ततोऽवतार्य सौगन्ध्यतैलेन परिलेपयेत् ॥ १७॥
उद्वर्तयेत् प्रेमभावात् स्नापयेत्तदनन्तरम् ।
प्रोञ्च्छ्य शृङ्गारयेद्भक्त्या नखादा शिखमद्भुतम् ॥ १८॥
नूपुरौ पादयोः कुर्यान्मध्ये च क्षुद्रघण्टिकाम् ।
अङ्गदौ बाहुयुगले नसि मुक्ताफलं न्यसेत् ॥ १९॥
पश्चाद्भागे न्यसेद्वेणीं ताटङ्कौ श्रवणद्वये ।
पुम्भूषणैः स्त्रीभूषाभिः प्रियं शृङ्गारयेच्च माम् ॥ २०॥
ततो मां भोजयित्वा तु कुर्यादारात्रिकं सुधीः ।
ततो गोपिजनैश्चापि भोज्यमानं विभावयेत् ॥ २१॥
ततो गोचारणार्थाय युक्तं गोपालबालकैः ।
तात्कालिकरसाविष्टं वने यान्तं विभावयेत् ॥ २२॥
तत्र शाद्वलसन्दोहस्थलीमुक्त सुगोधनम् ।
प्रमोदवनकुञ्जान्तर्भुञ्जानं मां विभावयेत् ॥ २३॥
ततः क्वापि महाकुञ्जे प्रियया केलिसंयुतम् ।
अत्यर्थं सुखविश्रान्तं शयानं मां विभावयेत् ॥ २४॥
ततः प्रहरमात्रावशेषे तु दिवसेश्वरे ।
गौडमालवरागेण गायन्तं कलितोत्सवम् ॥ २५॥
नयन्तं दिनशेषं तु धेनुसन्दोहरक्षणैः ।
पीताम्बरं समान्दोल्याह्वयन्तं दूरगाश्च गाः ॥ २६॥
सुखितस्य गवेन्द्रस्य गृहाभिमुखतः स्थितम् ।
धेनुयूथं पुरस्कृत्य वर्त्तमानं सुहृद्गणैः ॥ २७॥
तत्रैव भोजयेद्भक्त्या यथासम्पन्नभोजनैः ।
गवेन्द्रव्रजगोष्ठस्य सन्निधौ सदनोत्सुकम् ॥ २८॥
गोष्ठे विशन्तं गोपीनां समूहैः परिवेष्टितम् ।
कलितारात्रिकं भूयो रामचन्द्रं च मां स्मरेत् ॥ २९॥
आगतं सदने स्वस्य माङ्गल्याकलितोत्सवम् ।
लाल्यमानं चुम्ब्यमानं सन्ध्यायां मां विभावयेत् ॥ ३०॥
तेषु तेष्वथ गोष्ठेषु गोदोहनमिषेण माम् ।
मिलन्तं भवतीभिश्च हसन्तं मां विभावयेत् ॥ ३१॥
गोदोहस्यावसाने तु माङ्गल्यासदने स्थितम् ।
कुर्वाणं भोजनं दिव्यं सुखितेन सह स्मरेत् ॥ ३२॥
भोजनान्ते च माङ्गल्याकलितारात्रिकोत्सवम् ।
शयानं शयने गोष्ठे रामया सह मां स्मरेत् ॥ ३३॥
एवं प्रभातमारभ्य रात्रिपर्यन्तमादरात् ।
तैस्तै भार्वैर्भावयानो भजेन्मां राजरूपिणम् ॥ ३४॥
गोपा गोप्यश्च नो विज्ञाः स्वभावेनाज्ञबुद्धयः ।
तेष्वेवाहं सदा तुष्टो न प्राज्ञेषु कथञ्चन ॥ ३५॥
अज्ञाः स्नेहरसाक्रान्ता मदर्थे त्यक्तजीविताः ।
वेदवादविधेर्मुक्ता मामेवैकं विजानते ॥ ३६॥
एवं प्रमोदवने स्वां लीलां प्रकटयन् सदा ।
विहरामि वने वासं करोमि प्रकटः स्वयम् ॥ ३७॥
प्रमोदमण्डलं दिव्यं तथा साकेतमण्डलम् ।
मण्डले मत्प्रियतमे मणिमद्धरणीतले ॥ ३८॥
नित्या वै परमा लीला मयैव प्रकटीकृता ।
तथामुक्तमविश्रान्तं भावयेन्मामनन्यधीः ॥ ३९॥
रात्रौ च गोपिकावृन्दरासकेलि रसावृतम् ।
क्रीडमानं च नृत्यन्तं गायन्तं चैव मां स्मरेत् ॥ ४०॥
एवं प्रभजतो नित्यं भावसन्दोहभावितः ।
वृश्चाम्यहं विरहजां परमार्त्तिमुदारधीः ॥ ४१॥
स्वस्वरूपस्य साक्षात्त्वमचिरेणैव दुर्लभम् ।
ददामि तस्मै भक्ताय नित्यलीलाप्रवेशिने ॥ ४२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामगीतारहस्योपाख्याने सप्तचत्वारिंशोऽध्यायः ॥ ४७॥
४२/२०९६
०४८. रामगीतामहोपाख्याने अष्टचत्वारिंशोऽध्यायः ।
श्रीभगवानुवाच ।
कदाचिद् भूरिविश्लेषभावितात्मानमात्मना ।
ऐक्यं सञ्चिन्तयन् स्वस्य रश्मिवृन्दे प्रवेशये ॥ १॥
मदङ्गरश्मिसंलीनाः परमानन्दनिर्वृताः ।
जरामृत्युभयं त्यक्त्वा विहरन्ति सुखेन ते ॥ २॥
वात्सल्येन भजन्ते ये तदा विरहकातराः ।
तानहं मुखचन्द्रांशुसन्दोहेषु विलापये ॥ ३॥
तत्र ते भूरिमाङ्गल्याकौशल्याभावभाविताः ।
परमानन्दसन्दोहमग्नास्तिष्ठन्ति सेवकाः ॥ ४॥
सख्येन ये भजन्ते मां वदन्तः स्नेहजां रुजम् ।
तानहं बाहुयुग्मांसकिरणेषु विलापये ॥ ५॥
दास्येन तु भजन्ते मां याता विरहजां रुजम् ।
विलापयामि तानङ्घ्रिकिरणेषु सुनिर्वृतान् ॥ ६॥
माधुर्येण भजन्ते ये गोपीभावेन भाविताः ।
वक्षःस्थलांशुसन्दोहे तानेवाहं विलापये ॥ ७॥
ये च शान्ताः सुनिर्विण्णाः परां शान्तिमुपागताः ।
विलापयामि तान् रक्तान् निजायतनरश्मिषु ॥ ८॥
वैदिकैस्तान्त्रिकैर्वापि विधिभिर्वीतकल्मषाः ।
भजन्ते ये जनास्ते तु लीयन्ते मद्विभूतिषु ॥ ९॥
कर्ममार्गेण ये भक्ता भजन्ते भूरिनिष्ठया ।
ते वैधसं लोकमेत्य मुच्यन्ते तद्विमोक्षणे ॥ १०॥
ज्ञानमार्गेण ये चापि भजन्ते मां समाहिताः ।
तेऽक्षरं ब्रह्म सम्प्राप्य मामेव प्राप्नुवन्ति हि ॥ ११॥
तत्तद्देवोपासकानां वासनावासितात्मनाम् ।
तत्र देवेषु विलयो भवेदिति हि मे मतिः ॥ १२॥
गोप्य ऊचुः ।
अयमंशुक्रमो राम देहेन सह किं भवेत् ।
किंवा देहं परित्यज्य लीयेतात्मैव केवलम् ॥ १३॥
श्रीभगवानुवाच ।
द्विधेवांशुलयः सख्यो भावभेदेन भाव्यताम् ।
सदेहानां भवेदेकः परः केवलमात्मनाम् ॥ १४॥
भावो द्विधा भवेदेको भृङ्गीकोटवदीरितः ।
मणिस्पर्शादयः स्वर्णवद्वा तादात्म्यभाविताः ॥ १५॥
चक्षुरादित्यवच्चापि भावोऽन्यः समुदाहृतः ।
आद्यः सुदुर्लभो लोके मत्कृपातिशयं विना ॥ १६॥
परोऽपि दुर्लभः किन्तु ज्ञानिनामपि जायते ।
कीटो भृङ्गीभयात्तेन वपुषा तन्मयो भवेत् ॥ १७॥
अयस्तेनैव रूपेण स्वर्णतां प्रतिपद्यते ।
चक्षुस्तु गोलकं त्यक्त्वा सूर्यतां प्रतिपद्यते ॥ १८॥
एवं स्वेनैव वपुषा मद्भक्तोऽभून्मदात्मकः ।
ज्ञानी स्वं वपुरुत्सृज्य सर्वथा मन्मयो भवेत् ॥ १९॥
एतद्वः कथितं सर्वं मामपृच्छन् यदङ्गनाः ।
भयः शृणुत मत्प्राप्तेरुपायान्तरमुच्यते ॥ २०॥
अष्टोत्तरशतं नाम्नां मत्प्रियायाः प्रकीर्तयेत् ।
सन्तुष्टा तेन सहजा मामेव भावयेत् प्रियाः ॥ २१॥
सहजा जानकी सीता मोदिनी राधिका रमा ।
आनन्दिनी परालोला ललना लास्यकारिणी ॥ २२॥
सीरध्वजसुता साध्वी गान्धर्वी पद्मगन्धिनी ।
गोपराजसुता गोपी गोपिता नन्दनात्मजा ॥ २३॥
सुखितोत्साहिनी सौम्या रत्नाचलविलासिनी ।
प्रमोदवनमध्यस्था कुञ्जस्था कुञ्जगेहिनी ॥ २४॥
राघवेन्द्रप्रिया रामा लोलुपा जारसङ्गिनी ।
रत्नाचलदरीस्थाना भाविनी भावभूषिता ॥ २५॥
रामप्रिया रामरता रामकाम्या कृपावली ।
किशोरी कन्दुकक्रीडा चित्रकूटकृतालया ॥ २६॥
रासकेलीरतिः स्निग्धा मन्दारवनवासिनी ।
अशोकवनगावल्ली हृल्लासकविधायिनी ॥ २७॥
गोपवंशध्वजपटी रघुवंशविलासिनी ।
विनोदिनी चिरवधूर्वावदूका वराङ्गना ॥ २८॥
अक्षक्रीडाहृतजया जयदा जयवर्धिनी ।
उच्चैःस्वररता वीणा दिव्यगानमनोहरा ॥ २९॥
देवीजन कृतस्तोत्रा स्तुता सामगसेविता ।
सावित्री शेवधिः सेव्या भक्तिः प्रेमस्वरूपिणी ॥ ३०॥
प्रेमदा प्रेमघूर्णाक्षी लावण्यवनवाटिका ।
साकेतपुरलक्ष्मीश्च महामण्डपमध्यगा ॥ ३१॥
खण्डिता विप्रलब्धा च स्वाधीनपतिका प्रिया ।
कलहान्तरिता चैव तथा वासकसज्जिका ॥ ३२॥
अभिसारी प्रोषितोक्ता राघवी चाष्टनायका ।
सुदती सुमुखी सुभ्रूः सुनासा सुकपोलिनी ॥ ३३॥
दूती दूतीजनप्रीता रक्ताम्बरधरालिनी ।
लोलाक्षी लास्यललिता वने यौवनशालिनी ॥ ३४॥
सुधावर्षा सुधाधारा सुधाकरमुखी सुधा ।
गर्विणी दुर्जया दुर्गा सपत्नीगर्वहारिता ॥ ३५॥
कोमलालापिनी काम्या कुमारी रामवल्लभा ।
इत्येतत्कथितं सीता नाम्नामष्टोत्तरं शतम् ॥ ३६॥
सायं प्रातः कीर्तयेद्यो रामस्तस्मै प्रसीदति ।
स्वं लोकं दर्शयित्वा सा प्रदद्याद्रामसन्निधिम् ॥ ३७॥
यद्यत् कामयते चित्ते तत्तत् फलमवाप्नुयात् ।
भावयेत् सततं देवीं रत्नसिंहासनस्थिताम् ॥ ३८॥
रमणीरामणीभ्यां तु सखीभ्यां परिपार्श्वयोः ।
दिव्यचामरयुग्मेन वीज्यमानां मनस्विनीम् ॥ ३९॥
अशोकलतिकादिव्यमण्डपान्तरचारिणीम् ।
सुवर्णसंशोभिशीर्षं रक्ताम्बरवराकृताम् ॥ ४०॥
क्वचिन्निलीय कुञ्जान्तर्दृष्टं (ष्टां ?)सपुलकं (कां ?)मया ।
ईषच्छैशवतारुण्यकेलीभिः परिशालिताम् ॥ ४१॥
सहजां नन्दिनीं दिव्यां राघवेन्द्रप्रियां च ताम् ।
विविधैर्भावनिवहैर्भावितात्मातिभक्तिमान् ॥ ४२॥
सरय्वा अपरे पारे नन्दनो नाम धेनुपः ।
तत्प्रिया राजनीनाम तस्यां जाता नु जानकी ॥ ४३॥
सहजा नाम सा प्रोक्ता कुशलेन विवाहिता ।
गोपेन मम भक्तेन सा मह्यं विनिवेदिता ॥ ४४॥
प्रमोदवनवीथीषु मयैव रमिता मुहुः ।
दिव्यवेणुरवाहूता दिव्याशोकवनाश्रया ॥ ४५॥
तस्यां कुर्यात् सदा भक्तिं नित्यं मत्प्रेम चार्थयेत् ।
हे देवि सहजे नित्ये गोपिके नन्दनात्मजे ॥ ४६॥
रामे यथा तव प्रेम तथा मह्यं प्रदेहि भोः ।
यथा त्वयि रतः स्वामी तथा मप्यपि चास्तु सः ॥ ४७॥
इत्येवं प्रार्थिता देवी ददात्येव रतिं पराम् ।
यथा तुष्टो राघवोऽहं हृदि सद्यः प्रकाशये ॥ ४८॥
अयमेव महोपायो मद्वशीकरणे प्रियाः ।
नान्य ईदृग्विधः कश्चिदुपायोऽस्ति मदाप्तिकृत् ॥ ४९॥
तां सेवमानाय सदाहमेवं सद्यः प्रसीदामि सुरैरलभ्यः ।
स्वात्मानमप्यमुमेवार्पयित्वा स्वां नित्यलीलां प्रददामि नित्यम् ॥ ५०॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामगीतामहोपाख्याने अष्टचत्वारिंशोऽध्यायः ॥ ४८॥
५०/२१४६
०४९. रामयात्रायां रामगीतामहोपाख्याने एकोनपञ्चाशत्तमोऽध्यायः ।
गोप्य ऊचुः ।
केषु केषु च भावेषु भाव्योऽसि त्वं रघूद्वह ।
केन केन स्वरूपेण स्थितोऽसि च निजेच्छया ॥ १॥
त्वमेव साक्षात्पुरुषोत्तमोऽसि विश्वं समुद्धर्तुमुरुप्रयत्नः ।
जातोऽसि सद्वृत्तककुत्स्थवंशे ज्ञातोऽधुनात्वत्कृतया दिव्यदृष्ट्या ॥ २॥
विभाव्यं यत्र यत्रास्ति त्वत्स्वरूपं सुखावहम् ।
तत्तन्न आचक्ष्व पते बोधनाय निजाकृतेः ॥ ३॥
श्रीराम उवाच ।
अन्तरङ्ग स्वरूपं मे बहिरङ्ग तथैव च ।
अप्राकृतं ह्यन्तरङ्गं प्राकृतं बहिरङ्गकम् ॥ ४॥
मद्वपुश्चैव मल्लोको नित्यः परिकरो मम ।
मद्गुणा मम कार्याणि मद्रूपाश्चायुधादयः ॥ ५॥
मद्गृहं मम पीठं च मच्छत्रं चामरं मम ।
चिदानन्दमयं सर्वं मदात्मकमिदं स्मरेत् ॥ ६॥
प्राकृतेष्वपि चार्थेषु यत् सद्रूपं ममैव तत् ।
भूतानां चैव सर्वेषामधिदेवोऽस्मि सर्वगः ॥ ७॥
सृष्टिस्थित्यन्तकृच्चास्मि जगतां पापदाहकः ।
कर्मणां फलरूपोऽस्मि लोके सदसदात्मनाम् ॥ ८॥
अव्याकृतगुणानामस्म्यहमव्याकृतः स्वराट् ।
धर्मिणां त्रिषु लोकेषु स्वाभाविकगुणोऽस्म्यहम् ॥ ९॥
कार्याणां सूत्ररूपोऽस्मि जीवोऽणूनां सनातनः ।
वेदानां ब्रह्मरूपोऽस्मि बीजानां त्रिवृदस्म्यहम् ॥ १०॥
त्रिपदा छन्दसामस्मि सुराणां सुरराडहम् ।
वसूनामग्निनामास्मि विष्णुश्चापि विवस्वताम् ॥ ११॥
नीललोहितनामास्मि रुद्राणां पिङ्गलोचनः ।
ब्रह्मर्षीणां भृगुश्चास्मि राजर्षीणां मनुस्तथा ॥ १२॥
देवर्षीणां नारदोऽस्मि कामधेनुश्च गोष्वहम् ।
प्रह्लादश्चास्मि दैत्यानां सोमश्चौषधिवीरुधाम् ॥ १३॥
शेषो भुजङ्गराजानां पाथसां वरुणालयः ।
प्रतापिनां दिनकरो जनानां च जनाधिपः ॥ १४॥
ज्ञानिनां वाक्पतिश्चास्मि समुद्रः सरितामहम् ।
केसरी दंष्ट्रिणास्मि हयानां च वृहच्छ्रवा ॥ १५॥
वर्णानामस्मि विप्रोऽहं संन्यासश्चाश्रमस्थितौ ।
तीर्थानां कोटितीर्थोऽस्मि घर्घरसरयूसङ्गमः ॥ १६॥
वीराणामस्त्रविद्यास्मि शम्भुश्चाप्यस्त्रिणामहम् ।
स्थानानां मेरुरूपोऽस्मि गिरीणां च हिमाचलः ॥ १७॥
यज्ञानां ज्ञानयज्ञोऽस्मि ज्ञानिनां ज्ञानमस्म्यहम् ।
ध्यानानां धारणा चास्मि सोमपीथश्च कर्मिणाम् ॥ १८॥
अहिंसास्मि च धर्माणामश्वत्थश्चास्मि भूरुहाम् ।
अन्नानां पायसश्चास्मि पवित्राणामहं कुशः ॥ १९॥
योगानां भक्तियोगोऽस्मि शतरूपास्मि योषिताम् ।
भाषाणां शेमुषी चास्मि बुद्धीनां चाप्यभेददृक् ॥ २०॥
उपांशुश्चास्मि गुह्यानां युगानां कृतमस्म्यहम् ।
संवत्सरो प्रमादाना मृतूनामस्म्यहं मधुः ॥ २१॥
अभिजिच्चास्मि ताराणां मासानामाग्रहायणः ।
वेदव्याख्यानकर्तॄणां कृष्णद्वैपायनोऽस्म्यहम् ॥ २२॥
विवेकिनामहं शुक्रो भार्गवाणां श्रीधरोऽस्म्यहम् ।
कृष्णश्चाप्यवताराणां वैष्णवेषु च नारदः ॥ २३॥
पूर्णानां रामचन्द्रोऽस्मि वंशानां च रघोः कुलम् ।
राजीवश्चास्मि पुष्पाणां हविःष्वाज्यमहं पुनः ॥ २४॥
द्रव्याणां सम्पदश्चास्मि मणीनामस्मि कौस्तुभः ।
इन्द्रनीलश्च रत्नानां वीराणां वज्ज्रमस्म्यहम् ॥ २५॥
द्यूतानां छलरूपोऽस्मि त्यागो वैराग्यशर्मणाम् ।
ऊर्जस्वलानामोजोऽस्मि लिङ्गं मूर्तिमतामहम् ॥ २६॥
अम्बूनां रसरूपोऽस्मि शब्दानामस्म्यहं च गाः ।
धर्मिष्ठानां वलिरहं वीराणामस्मि कार्तिकः ॥ २७॥
इन्द्रियाणां मनश्चास्मि प्राणिनामस्मि चेतना ।
भूतानां नभ एवास्मि कर्तॄणां प्रकृतिः परा ॥ २८॥
योगिनां कपिलश्चास्मि सांशिनां जानकीपतिः ।
जम्बुद्वीपोऽस्मि द्वीपानां पुरीणां कोशलास्म्यहम् ॥ २९॥
नरो नारायणश्चास्मि पुण्यसेतुस्तपस्विनाम् ।
अयं मे बहिरङ्गात्मा विभूतीनां प्रविस्तरः ॥ ३०॥
आब्रह्मभुवनव्याप्तकार्यो वाङ्मनसाकृतिः ।
ज्ञानवैराग्यधर्मैश्च तद्विरुद्धं च मद्वपुः ॥ ३१॥
न यत्र वाङ् नैव मनः प्रवृत्ति
र्न यत्र साक्षी न च साक्षिभास्यहम् ।
नित्यश्चिदानन्दमयश्च लोकः
स मे सर्गः शाश्वतश्चान्तरङ्गः ॥ ३२॥
यत्रास्ति साकेतपुरी सुधन्या
पुण्या नदी सरयूरुत्तरङ्गा ।
श्रीरत्नाद्रिर्गोपराजस्य गोष्ठं
प्रमोदकान्तारभुवः सुपेशलाः ॥ ३३॥
यत्राप्यशोकलतिकावनकुञ्जवीथी
रम्या कुटी रमे यत्र रामः किशोरः ।
सोऽहं प्रिया दशरथस्य सुतः सुपूर्ण
स्वानन्दसिन्धुरसकृद्भवतीश्च नन्दन् ॥ ३४॥
सोऽहं सर्वगतश्चास्मि पुरुषश्चाक्षरः परः ।
कदाचिन्नैव लीला मे प्राकृतत्वाय कल्पते ॥ ३५॥
न नाशाय न दृष्ट्यै च न विकृत्यै चिदाकृतीः ।
एष मे शाश्वतो धर्मो रमणं शक्तिभिः सह ॥ ३६॥
स्वानन्दरसरूपाभिः पूर्णाभिः पूर्णशक्तिभिः ।
एषा मे सहजा लक्ष्मीः सर्वलीलाधिदेवता ॥ ३७॥
मां भूषयति सङ्गच्छत्युन्मार्जयति राति च ।
तथैव निर्मितो लोकः स्वशक्त्या मत्स्वरूपया ॥ ३८॥
तयाहं नित्यसंयुक्तो रमामि कुशलैर्गुणैः ।
तदंशाः सकला यूयं नित्यं सन्निहिता मयि ॥ ३९॥
न कदाचिद्वियोगार्हाः स्वरूपं पश्यत प्रियाः ।
यूयं चिदानन्दमयाः सनातनाः
स शक्तिभिर्निर्जितभूर्भुवः स्वः ।
पश्यन्तु दिव्येन दृशोदयेन
न लब्धध्वं क्लेशलेशं कदापि ॥ ४०॥
मां सेवयन् यो भवतीरुपासते
मद्भक्तिरूपाः सहजाभावरूपाः ।
तेनापि विश्लेषमहं न कुर्वे
कथं स तावद्भवतीनां करिष्ये ॥ ४१॥
दास्यामि वो दिव्यदृष्टिं प्रियाणां
यया युक्ता द्रक्षथ स्वं स्वरूपम् ।
सच्चिद्रूपं सच्चिदानन्दरूपे
मयि ब्रह्मण्यादिदेवे तु प्रतिष्ठम् ॥ ४२॥
इत्युक्त्वा श्रीपतिस्ताभ्यो दिव्यं चक्षुरदात् प्रभुः ।
ततस्ता ददृशुः कृत्स्नं रूपं स्वं विश्वतो हरिः ॥ ४३॥
यत्रास्ति धाम विपुलं मणिजुष्टहेम
प्राकारगोपुरगृहापणसौधगन्धम् ।
आरामपुष्पितलतातरुसौरभाढ्यं
गुञ्जद्विरेफमदरावपिकीसमूहम् ॥ ४४॥
यत्रावसन्ति पुरुषाः शतपत्रनेत्राः
श्यामावदातवपुषः सुपिशङ्गवस्त्राः ।
सर्वे चतुर्भुजविराजितशङ्खचक्र
कौमोदकीकमलशार्ङ्गधराः सवेषाः ॥ ४५॥
माया न यत्र गुणकर्मकलाविलासा
यद्वासिनो हरितनोर्नितरामभिन्नाः ।
श्रीमद्रमारमणजुष्टतुलस्यमोघ
सौरभ्यसङ्ग्रहसमुद्भवभूरिमत्ताः ॥ ४६॥
यत्राङ्गणं विविधरत्नविनिर्मितं यन्
मन्दारमूलमणिभृत् क्रमिकालवालम् ।
दिव्याङ्गनागतिविमोहित राजहंस
पेपीयमानपरिपूर्णसुधावसेकम् ॥ ४७॥
चाम्पेयकुन्दवकुलोत्पलनागताल
हिन्तालकेसरकदम्बतमालजुष्टैः ।
यत्राद्भुतैरुपवनैः कमलेक्षणानां
चेतो न याति विकृतिं भगवत्पराणाम् ॥ ४८॥
यस्मिन् रमारमणसौधमहार्हतुङ्ग
द्वारोभयस्थलनिषण्णसुवेत्रहस्तौ ।
दिव्यौ जयश्च विजयश्च सुरेश्वरादीन्
काले प्रवेशयति (तः ?)दूरनमत्किरीटान् ॥ ४९॥
यस्मिन् विभाति विपुलाश्च विमानकोट्यो
वैदूर्यरत्नकनकोत्तमनिर्मिताङ्गाः ।
तत्र स्थिता हरिमयाः पुरुषाः स्फुरन्ति
रामैकलीनमनसोऽद्भुतकेलिमन्त्राः ॥ ५०॥
यत्र प्रयान्ति विधिभिर्विपुलैर्यजन्तो
ये वा विचित्रविषयोद्भवसौख्यमत्ताः ।
यत्कोटिशास्त्रवचनैर्विनिरूपितं किं
त्वद्यापि वाङ्मनसगोचरतां न यातम् ॥ ५१॥
तत्रास्थिताः स्वरूपं मे प्रत्येकं ददृशुः स्वयम् ।
श्रीराम (रमा?)रमणस्यान्तं नारायणवराङ्गकम् ॥ ५२॥
नारायणः सत्त्वनिधिः सताम्पतिः
सहस्रनामा श्रुतिवागगोचरः ।
त्रयीमयः शेषमये शयानो
भुजङ्गतल्पे चिद्धनो ब्रह्मपूर्णः ॥ ५३॥
तस्याङ्कसंस्थं ददृशुः स्वरूपं
स चापि रामः सहजास्ताः स्वयं च ।
निःशोकनिर्व्याकुलपूर्णरूपः
सच्चित्सुखाम्भोनिधिसद्ममग्नाः ॥ ५४॥
एवं ताश्चिन्मये लोके रामेण श्रीचिदात्मना ।
साकं भोगांश्च भुञ्जानाः सहजारूपमभ्ययुः ॥ ५५॥
स्वप्नवत्तदवस्थातः समुत्थाय विचित्रिताः ।
ददृशुः स्वपुरे रामं स्वात्मानं तत्पुरोगतम् ॥ ५६॥
तामवस्थां संस्मरन्त्यः श्रीराममहिषीपदम् ।
सद्यश्च मिलिताः सर्वा इदमूचुः सुविस्मिताः ॥ ५७॥
अहो अयं कान्त किमेतदन्तरा
चक्ष्महि ब्रह्म सुखातिगं यत् ।
सुखं परं वीतविश्वप्रवाहं
रजस्तमःसत्त्वगुणातिगं च ॥ ५८॥
अहो लोकस्य माधुर्यं अहो विपुलतापि च ।
अहो प्रासादसौधादिरचनाश्रयभूः परा ॥ ५९॥
अहो ईश तवामुष्य प्रभावः श्यामसुन्दर ।
अहो वयं धन्यतमा महिष्यस्त्वन्महाङ्कगाः ॥ ६०॥
सर्वाश्च सहजारूपाः सच्चिदानन्दविग्रहाः ।
न कुतश्चित् क्वापि चोनाः साम्राज्यपदवीजुषः ॥ ६१॥
तदेव दर्शयास्माकं स्वं धाम प्रकृतेः परम् ।
न यत्र तव विश्लेषो क्षणमप्यस्ति राघव ॥ ६२॥
श्रीराम उवाच ।
स एवैष महालोकश्चिल्लोकोऽयं प्रपश्यथ ।
यत्र प्रमोदवनभूश्चेतो मोदयते भृशम् ॥ ६३॥
ततोऽस्य नैव भेदोऽस्ति गोपवध्वो मनागपि ।
पुनः पश्यत सद्दृष्ट्या लोकदृष्टिं व्यपोह्य च ॥ ६४॥
मत्स्वरूपमिदं सर्वं कोटिब्रह्माण्डमूर्धगम् ।
ममांशैश्च कलाभिश्च बहुरूपेण सन्ततम् ॥ ६५॥
तत्र तत्र भवत्योऽपि महिषीपदमागताः ।
यत्र यत्रास्मि श्रीरामो मम धाम चिदात्मकम् ॥ ६६॥
सर्वाः सम्मिलिता यूयं प्रमोदविपिने मया ।
सर्वेऽप्यंशा मम पुनरिहैव मयि सङ्गताः ॥ ६७॥
इत्येवं भावयित्वा स्वं रूपं सदसतः परम् ।
मया नित्यं सुसम्बद्धं नैव शोचितुमर्हथ ॥ ६८॥
वैकुण्ठे चिन्मये लोके श्वेतद्वीपे मनोहरे ।
सूर्यमण्डलमध्ये च भ्रुवोरन्तश्च योगिनाम् ॥ ६९॥
व्यापिवैकुण्ठमध्ये च यूयं सर्वत्र सङ्गताः ।
भवतीभिर्विना क्वापि नाहं तिष्ठामि निर्वृताः ॥ ७०॥
अंशरूपा कलारूपा युष्माकं सकलाः श्रियः ।
सर्वासामंशिनी श्रीणां सहजा सहजाकृतिः ॥ ७१॥
एवं विज्ञाय चात्मानं स्वरूपं च व्रजाङ्गनाः ।
रमध्वं मयका साकं परमानन्दनिर्वृताः ॥ ७२॥
अवतारार्थमेतं नु करिष्यामि धृतव्रताः ।
न तत्र शोचितुं योग्या भवत्यः प्रकृतेः परः ॥ ७३॥
एतद्वो दर्शितं रूपं मोहव्यपगमाय च ।
विश्लेषार्त्तिभवायासव्यवच्छेदाय च प्रियाः ॥ ७४॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामयात्रायां रामगीतामहोपाख्याने एकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥
७४/२२२०
०५०. रामयात्रायां रामगीतामहोपाख्यानं नाम पञ्चाशत्तमोऽध्यायः ।
श्रीभगवानुवाच ।
पुनश्च वो दिव्यदृशं ददामि व्रजयोषितः ।
तेन द्रक्ष्यथ मद्रूपमिहैव प्रकृतेः परम् ॥ १॥
इत्युक्त्वा दर्शयामास स्वं रूपं रामचन्द्रमाः ।
कोटिब्रह्माण्डसंस्थानामाश्रमं दिव्यविग्रहम् ॥ २॥
सहस्रमूर्द्धाननकर्णचक्षु
र्नासौष्ठगण्डादिकपाणिपादम् ।
सहस्ररोचिः प्रकरप्रकाश
प्रत्यस्तदिग्भूमिनभस्तमिश्रम् ॥ ३॥
सहस्रदिव्याभरणप्रकाशं
सहस्रदिव्यायुधतेजसां निधिम् ।
सहस्रबाहूदरनाभिवक्षः
सहस्त्रदिव्यं मणिकुण्डलश्रियम् ॥ ४॥
यत्राश्विनौ वसवश्चैव साध्या
विश्वेदेवाः सूर्यगणाश्चैव रुद्राः ।
एकोनपञ्चाशदपि प्रभञ्जना
श्चतुर्द्दशेन्द्रा लोकपालाश्च सर्वे ॥ ५॥
गन्धर्वविद्याधरसिद्धकिन्नरा
नागा नगाश्चैव नदाश्च नद्यः ।
समुद्र आपः प्रदिशो दिशो भू
र्द्वीपाः पुरग्रामवनाद्रिसङ्घाः ॥ ६॥
एकैकस्मिन् रोम्णि रामस्य कोटि
ब्रह्माण्डसंस्थां ददृशुर्गोपवध्वः ।
जम्बूद्वीपं तत्र साकेतसंस्थां
प्रमोदकान्तारमथात्र रामम् ॥ ७॥
तत्सन्निधौ स्वस्वरूपं च गोप्यो
नित्योल्लसद्रामविलासपुष्टम् ।
दृष्ट्वा विचित्राश्च विचेतसस्ताः
सन्तुष्टुवुः प्राञ्जलयो गृणन्त्यः ॥ ८॥
गोप्य ऊचुः ।
सत्यं त्वमूचेऽहमनादिरव्ययः
प्रकाशमानः पुरुषः पुराणः ।
त्वद्दर्शनात् साधु सम्यक् प्रतीतं
परावराणां परमस्त्वं महेशः ॥ ९॥
त्वामेव गायन्ति समस्त वेदा
स्त्वामेव पश्यन्ति सुयोगदृष्ट्या ।
त्वामेव भावन्त इमे प्रपन्नाः
कालत्रासात् पाहि पाहीति राम ॥ १०॥
त्वमादिसृष्टौ भगवान् विरञ्चि
र्भूत्वा त्रयीमध्यगीष्टाः स्वभासा ।
त्वमेव विश्वस्य निधानमुत्तमं
त्वमेव वीजं स्थिरजङ्गमानाम् ॥ ११॥
अमी लोका लोकपालाश्च सर्वे
त्वय्येव सूत्रे मणिवत्सम्प्रयुक्ता ।
त्वं कालशक्त्या निजया विश्वमेतत्
सृजस्यवस्यत्सि च भूरिवीर्य ॥ १२॥
न च त्वदीयं महिमानमेते
जानन्ति लोकास्त्वयि नित्यप्रतिष्ठाः ।
अहो अनन्तस्य तवेदृशं परं
मरुत्त्वमुज्जासितवाङ्मनः पदम् ॥ १३॥
न ते वीर्यं वेत्तुममी समर्थाः
सब्रह्मलोकाश्च सलोकपाला ।
स्वानुग्रहेणैव वेद्योऽसि किञ्चि
न्नमोस्तु ते ब्रह्मणेऽस्मै परस्मै ॥ १४॥
दृष्ट्वा तवेदं वपुरुग्रवीर्यं
स्वलङ्कृतं भूरि विष्वप्रकाशम् ।
कोटीन्दुसूर्यानलबिम्बनेत्रं
वित्रस्तचित्ताः स्म वयं स्त्रियः प्रभो ॥ १५॥
ग्राम्यस्वभावाः क्व वयं व्रजस्था
क्व ते रूपं दुर्वितर्क्यं सुराणाम् ।
ज्वालासहस्रप्रकरैर्दुर्निरीक्ष्यं
तदेवास्मान् दर्शय स्वस्वरूपम् ॥ १६॥
अस्मिन् स्वरूपे तव रामचन्द्र
स्वात्मानमप्येवमुदीक्षयामः ।
त्वां चैव साकेतपुरीसमीप
प्रमोदकान्तारनिकुञ्जसंस्थम् ॥ १७॥
तथापि नो हृदयं वेपतेऽद्य
दृष्ट्वेदमुग्रं तव नामरूपम् ।
कालोऽसि वा कालकालोऽसि वा त्वं
रुद्रोऽसि वा कोऽपि कालाग्निरुद्रः ॥ १८॥
इदं रूपं द्रष्टुमर्हा वयं नः
स्वतेजसा व्याप्तदिगम्बरावनि ।
तदेव नो दर्शय रूपमाधिहन्
कन्दर्पकोटिद्युतिहारि हृद्यम् ॥ १९॥
नमोस्तु तुभ्यं पुरुषाय शाश्वते
पूर्णात्मने कारुणिकाय वेधसे ।
स्वरूपशक्त्या सकलं च बिभ्रते
परावराणां परमाय राघव ॥ २०॥
प्रमोदवनमध्यस्थकुञ्जान्तरविलासिने ।
नित्यलीलाभ्युपेताय रामचन्द्राय ते नमः ॥ २१॥
साकेतनगरोपान्ते अशोकवनवासिने ।
सहजाशक्तियुक्ताय रघुवर्याय ते नमः ॥ २२॥
नमो मुक्ताविभूषाय नमोरत्नावतंसिने ।
नटाय दिव्यवेशाय राघवाय च ते नमः ॥ २३॥
कञ्जकिञ्जल्कवस्त्राय नीलसुन्दरकान्तये ।
अरविन्दनिभेक्षाय नमो नृपतिसूनवे ॥ २४॥
यदृष्टमेतद्भवतः स्वरूपं
सहस्त्रमार्तण्डकरालरोचिः ।
आद्यस्तदेवाद्य वरेण्य नाथ
स्वविग्रहं दर्शय दोर्द्वयेन ॥ २५॥
नारायणस्तवैवांशः सहजांशस्तथा रमा ।
स त्वं राम वरः साक्षाद्वयं चापि रमात्मिकाः ॥ २६॥
तथाप्यनेनैव सुखग्रहेण
सदात्वमस्मान् रमयाधिहन्तः ।
किं वा वियोगानलबिभ्यतीर्नः
प्रवेशय स्वांशसमूह एव ॥ २७॥
यत्र प्रमोदवनमञ्जलमाधुरीयं
यत्रोत्तरङ्गसरयूपुलिनद्वयश्रीः ।
यत्राप्यशोकवनमद्भुतवल्लिजुष्टं
देशः स एव हृदि नः सततं चकास्तु ॥ २८॥
श्रीरामचन्द्र वरदेश्वर नित्यलील
श्रीमन् प्रभो कलय नः करुणार्द्रदृष्ट्या ।
येन त्वदङ्घ्रिसरसीरुहसौरभान्त
र्भृङ्गीवदुन्मदहृदः सततं वसामः ॥ २९॥
इत्याभाष्याखिला गोप्यः प्रेमविह्वलिताशयाः ।
निपेतुश्चरणाम्भोजे स्वात्मार्पणधिया प्रभोः ॥ ३०॥
श्रीराम उवाच ।
अहो धन्यतमा यूयमहं याभिर्वशीकृतः ।
मल्लीलामाधुरीं नित्यं पश्यन्त्यः सुखमासताम् ॥ ३१॥
युष्माकं मोहनाशाय स्वरूपं दर्शितं मया ।
माभूद्वःक्लेशनाशोऽपि सङ्गतानां मयि प्रियाः ॥ ३२॥
मदीया कालशक्तिश्च नैव स्पृक्ष्यति वः प्रियाः ।
कालमायातिगे लोके सुखमेधध्वमङ्गनाः ॥ ३३॥
नित्यः सङ्गो भवतीभिर्ममायं
चन्द्रस्येवानिशं चन्द्रिकाभिः ।
इत्थं ज्ञात्वा नानुतप्यध्वमन्त
र्दृष्ट्वाप्यन्यं मेऽवतारस्य कार्यम् ॥ ३४॥
अत्र नित्यस्थितश्चाहं स्वांशेन नृपतेर्गृहे ।
अवतीर्य करिष्यामि धर्मरक्षां सनातनीम् ॥ ३५॥
दैत्यांश्चैव हनिष्यामि रावणादीन् सुरद्रुहः ।
जानकीमुद्वहिष्यामि सहजांशत्वधारिणीम् ॥ ३६॥
भक्तान् समुद्धरिष्यामि पशुपक्ष्यन्त्य जानपि ।
धर्मं संस्थापयिष्यामि तोषयिष्यामि निर्जरान् ॥ ३७॥
रघुवंशं करिष्यामि यशोभिः सुरभिर्मुहुः ।
साधूंश्च मानयिष्यामि मान्यान् देवद्विजादिकान् ॥ ३८॥
करिष्यामि महायज्ञानश्वमेधादिकानहम् ।
लीलाः सन्तानयिष्यामि क्रियाशक्त्या स्वकीयया ॥ ३९॥
कृत्वावतारकार्याणि बहूनि विपुलानि च ।
प्रमोदवनमेष्यामि भवतीसौख्यहेतवे ॥ ४०॥
तावद्यूयं मया साकं प्रमोदवनवीथिषु ।
अंशुरूपं समासाद्य मदभेदेन रंस्यथ ॥ ४१॥
अत्रस्तोऽप्यहमीशानशापपालनकाम्यया ।
अन्तर्हितो भविष्यामि मदंशून् यूयमेष्यथ ॥ ४२॥
यदा सुमहती पीडा देहे वाधिष्यते च वः ।
तदा यूयं वियोगेन मत्तादात्म्यमवाप्स्यथ ॥ ४३॥
इत्येतत् कथितं गोप्यो रहस्यं मम यत् स्थितम् ।
भूयः किमिच्छथ श्रोतुं तद्वो गोप्यतमं ब्रुवे ॥ ४४॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामयात्रायां रामगीतामहोपाख्यानं नाम पञ्चाशत्तमोऽध्यायः ॥ ५०॥
४४/२२६४
Encoded and proofread by Vishal Pandey