ब्रह्मकृतं श्रीराममाहात्म्यवर्णनम्
ब्रह्मोवाच ।
अथ रामस्य माहात्म्यं कीर्तयामि खगेश्वर ।
शृणु त्वं सावधानेन मनसा रामसेवक ॥ १॥
कदाचिद् भगवान् शेषो राममाराद्धमीश्वरम् ।
साकेते समगात्तत्र प्रापश्यद्भान्ति तेजसा ॥ २॥
सिंहासनानि भूरोणि रत्नहेममयानि च ।
स्वे स्वे धिष्ण्येऽधिष्ठितानि प्रज्वलन्तीव वर्चसा ॥ ३॥
पूर्वसिंहासनेऽपश्यद् देवं वाराहरूपिणम् ।
दंष्ट्राकोट्युद्धृतधरं स्तूयमानं सुरर्षिभिः ॥ ४॥
वेदैश्च मूर्तिसंयुक्तस्त्रयीरूपं मखात्मकम् ।
भगवन्तं यज्ञरूपं भिन्नाञ्जनवनप्रभम् ॥ ५॥
तद्वामे धरणीं देवीं स्तुवन्तीं चारुलोचनाम् ।
प्रसन्नवदनां कान्तां भुवं त्रैलोक्यधारिणीम् ॥ ६॥
दक्षसिंहासनोदीर्णहिरण्यकशिपूदरम् ।
भगवन्तं नारसिहं प्रापश्यल्लोलजिह्वकम् ॥ ७॥
प्रह्लादेन स्तूयमानं भक्तराजेन धीमता ।
वामे कमलया युक्तं ज्वलद्वज्ज्रनखप्रभम् ॥ ८॥
कोटिराकाविधुप्रख्यं कनकाङ्गविराजितम् ।
स्तुवद्भिर्निगमैर्देवैर्गन्धर्वैः समुपासितम् ॥ ९॥
सिंहासने पश्चिमे तु वामनं खर्वमात्रकम् ।
भगवन्तं द्योतमानं यज्ञसूत्रधरं विभुम् ॥ १०॥
अदितिं मातरं पार्श्र्वे कश्यपं च प्रजापतिम् ।
एताभ्यां स्तूयमानं तं देवकार्यहितैषिणम् ॥ ११॥
सिंहासने चोत्तरगे मत्स्यनाथं चतुर्भुजम् ।
भगवन्तं विधुस्वच्छं प्रापश्यन्निगमैः स्तुतम् ॥ १२॥
पूर्वोत्तरदिशो कोणे कूर्मदेवस्य शार्ङ्गिणः ।
सिहासनं पर्यपश्यज्जलधिं च सविस्तरम् ॥ १३॥
पूर्वदक्षिणयोर्मध्ये बुद्धरूपं जनार्दनम् ।
पर्यपश्यद्देवदेवं सिंहासनवरस्थितम् ॥ १४॥
यज्ञजन्तुकृपावेश गृहीतावतरं विभुम् ।
प्रद्योतमानं महसा भगवन्तमधोक्षजम् ॥ १५॥
दक्षपश्चिमयोर्मध्ये रामं क्षत्रकुलान्तकम् ।
पर्य्यपश्यज्जामदग्न्यं हेमसिंहासनस्थितम् ॥ १६॥
भगवन्तं पर्शुहस्तं ज्वलन्तं ब्रह्मवर्चसा ।
दण्डकुण्डिकया युक्तं यज्ञसूत्रविभूषितम् ॥ १७॥
पश्चिमोत्तरयोर्मध्ये कल्किनं कमलापतिम् ।
नीलाश्वगं पर्यपश्यद्रत्नसिंहासनोपरि ॥ १८॥
मध्यसिंहासने कान्ते कोटिसूर्याग्निवर्चसम् ।
रघुनाथं पर्यपश्यद्देवं जनकजापतिम् ॥ १९॥
स्मयन्तमरविन्दाक्षं वामे स्वप्रिययान्वितम् ।
कोटिसूर्यनखद्योतं शृङ्गाररससागरम् ॥ २०॥
रूपसारसुधौघार्द्र साक्षात् कन्दर्पसुन्दरम् ।
परार्द्धरतिसौन्दर्या तद्वामे तस्य सुन्दरीम् ॥ २१॥
तद्दक्षे हयमूर्धानं भगवन्तं त्रयीमयम् ।
पूर्णब्रह्ममयाकारं सच्चिदानन्दविग्रहम् ॥ २२॥
चिन्मुद्रापुस्तकधरं मालाशङ्खविभूषितम् ।
चन्द्रमण्डलमध्यस्थं स्वर्णसिंहासनोपरि ॥ २३॥
रामस्य वामपार्श्वे तु सिंहासनवरस्थितम् ।
श्रीकृष्णं गोपिकाकान्तं राधिकाप्रेयसीयुतम् ॥ २४॥
वृन्दावनस्थितं देवं नीलतोयदसुन्दरम् ।
रुक्मिणीसत्यभामादिमहिषीगणसेवितम् ॥ २५॥
अपश्यद्रत्नखचितस्वर्णालङ्कारभूषितम् ।
मयूरपक्षमुकुटं गुञ्जाहारविभूषितम् ॥ २५॥
मुरलीभूषितकरं त्रिभङ्गललिताकृतिम् ।
स्निग्धश्यामलव्यालम्बिलोलालकयुताननम् ॥ २६॥
पीतकौशेयवसनं वनमालाविभूषितम् ।
सुनसं'' सुदृशं चारु मन्दहासप्रभाधरम् ॥ २७॥
कृष्णस्य दक्षिणे पार्श्र्वे रौहिणेयं बलोत्तरम् ।
हलिनं मुशलेनाढ्यं भगवन्तं त्रयीस्तुतम् ॥ २८॥
नन्दं चैव यशोदां च रोहिणीं गोपिकास्तथा ।
अपश्यद्विस्मितः शेषः सिंहासनकदम्बके ॥ २९॥
अन्यांश्चैव तु रामस्य अवतारान् सहस्त्रशः ।
अंशरूपान् कलारूपान् साक्षादावेशिनस्तथा ॥ ३०॥
सर्वान् श्रीरामवदने दत्तदृष्टीन् गतस्मयान् ।
वशंवदानिवाज्ञायाः स्वतन्त्रानपि चेश्वरान् ॥ ३१॥
अचिन्तयत् तदाशेषः संशयाकुलमानसः ।
अहो एषां भगवतामीश्वराणां स्ववर्चसाम् ॥ ३२॥
कतरं च प्रथमतो वन्देयं समवर्चसाम्'' ।
याम्ये सम्प्रति सर्वेषां कमहं संस्तुयां पुरा ॥ ३३॥
इति सन्देहमापन्ने शेषे वैष्णवसत्तमे ।
राम एव व्यलीयन्त सर्वे दशरथात्मजे ॥ ३४॥
येऽन्ये रामस्य परितो व्यराजन्त महौजसः ।
अंशरूपाः कलारूपाः विभूत्यावेशिनस्तथा ॥ ३५॥
राम एव लयं जग्मुस्ते सर्वे तस्य पश्यतः ।
ततः स विस्मितो भूत्वा रामं तुष्टाव भूरिशः ॥ ३६॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे श्रीराममाहात्म्ये
सप्ताशीतितमोऽध्यायः ॥ ८७॥
भुशुण्डिरामायणम् । पूर्वखण्ड । अध्याय ८७/१-३६॥
bhushuNDirAmAyaNam . pUrvakhaNDa . adhyAya 87/1-36..
Encoded and proofread by Mrityunjay Rajkumar Pandey