ब्रह्मकृतं श्रीराममाहात्म्यवर्णनम्

ब्रह्मकृतं श्रीराममाहात्म्यवर्णनम्

ब्रह्मोवाच । अथ रामस्य माहात्म्यं कीर्तयामि खगेश्वर । श‍ृणु त्वं सावधानेन मनसा रामसेवक ॥ १॥ कदाचिद् भगवान् शेषो राममाराद्धमीश्वरम् । साकेते समगात्तत्र प्रापश्यद्भान्ति तेजसा ॥ २॥ सिंहासनानि भूरोणि रत्नहेममयानि च । स्वे स्वे धिष्ण्येऽधिष्ठितानि प्रज्वलन्तीव वर्चसा ॥ ३॥ पूर्वसिंहासनेऽपश्यद् देवं वाराहरूपिणम् । दंष्ट्राकोट्युद्धृतधरं स्तूयमानं सुरर्षिभिः ॥ ४॥ वेदैश्च मूर्तिसंयुक्तस्त्रयीरूपं मखात्मकम् । भगवन्तं यज्ञरूपं भिन्नाञ्जनवनप्रभम् ॥ ५॥ तद्वामे धरणीं देवीं स्तुवन्तीं चारुलोचनाम् । प्रसन्नवदनां कान्तां भुवं त्रैलोक्यधारिणीम् ॥ ६॥ दक्षसिंहासनोदीर्णहिरण्यकशिपूदरम् । भगवन्तं नारसिहं प्रापश्यल्लोलजिह्वकम् ॥ ७॥ प्रह्लादेन स्तूयमानं भक्तराजेन धीमता । वामे कमलया युक्तं ज्वलद्वज्ज्रनखप्रभम् ॥ ८॥ कोटिराकाविधुप्रख्यं कनकाङ्गविराजितम् । स्तुवद्भिर्निगमैर्देवैर्गन्धर्वैः समुपासितम् ॥ ९॥ सिंहासने पश्चिमे तु वामनं खर्वमात्रकम् । भगवन्तं द्योतमानं यज्ञसूत्रधरं विभुम् ॥ १०॥ अदितिं मातरं पार्श्र्वे कश्यपं च प्रजापतिम् । एताभ्यां स्तूयमानं तं देवकार्यहितैषिणम् ॥ ११॥ सिंहासने चोत्तरगे मत्स्यनाथं चतुर्भुजम् । भगवन्तं विधुस्वच्छं प्रापश्यन्निगमैः स्तुतम् ॥ १२॥ पूर्वोत्तरदिशो कोणे कूर्मदेवस्य शार्ङ्गिणः । सिहासनं पर्यपश्यज्जलधिं च सविस्तरम् ॥ १३॥ पूर्वदक्षिणयोर्मध्ये बुद्धरूपं जनार्दनम् । पर्यपश्यद्देवदेवं सिंहासनवरस्थितम् ॥ १४॥ यज्ञजन्तुकृपावेश गृहीतावतरं विभुम् । प्रद्योतमानं महसा भगवन्तमधोक्षजम् ॥ १५॥ दक्षपश्चिमयोर्मध्ये रामं क्षत्रकुलान्तकम् । पर्य्यपश्यज्जामदग्न्यं हेमसिंहासनस्थितम् ॥ १६॥ भगवन्तं पर्शुहस्तं ज्वलन्तं ब्रह्मवर्चसा । दण्डकुण्डिकया युक्तं यज्ञसूत्रविभूषितम् ॥ १७॥ पश्चिमोत्तरयोर्मध्ये कल्किनं कमलापतिम् । नीलाश्वगं पर्यपश्यद्रत्नसिंहासनोपरि ॥ १८॥ मध्यसिंहासने कान्ते कोटिसूर्याग्निवर्चसम् । रघुनाथं पर्यपश्यद्देवं जनकजापतिम् ॥ १९॥ स्मयन्तमरविन्दाक्षं वामे स्वप्रिययान्वितम् । कोटिसूर्यनखद्योतं श‍ृङ्गाररससागरम् ॥ २०॥ रूपसारसुधौघार्द्र साक्षात् कन्दर्पसुन्दरम् । परार्द्धरतिसौन्दर्या तद्वामे तस्य सुन्दरीम् ॥ २१॥ तद्दक्षे हयमूर्धानं भगवन्तं त्रयीमयम् । पूर्णब्रह्ममयाकारं सच्चिदानन्दविग्रहम् ॥ २२॥ चिन्मुद्रापुस्तकधरं मालाशङ्खविभूषितम् । चन्द्रमण्डलमध्यस्थं स्वर्णसिंहासनोपरि ॥ २३॥ रामस्य वामपार्श्वे तु सिंहासनवरस्थितम् । श्रीकृष्णं गोपिकाकान्तं राधिकाप्रेयसीयुतम् ॥ २४॥ वृन्दावनस्थितं देवं नीलतोयदसुन्दरम् । रुक्मिणीसत्यभामादिमहिषीगणसेवितम् ॥ २५॥ अपश्यद्रत्नखचितस्वर्णालङ्कारभूषितम् । मयूरपक्षमुकुटं गुञ्जाहारविभूषितम् ॥ २५॥ मुरलीभूषितकरं त्रिभङ्गललिताकृतिम् । स्निग्धश्यामलव्यालम्बिलोलालकयुताननम् ॥ २६॥ पीतकौशेयवसनं वनमालाविभूषितम् । सुनसं'' सुदृशं चारु मन्दहासप्रभाधरम् ॥ २७॥ कृष्णस्य दक्षिणे पार्श्र्वे रौहिणेयं बलोत्तरम् । हलिनं मुशलेनाढ्यं भगवन्तं त्रयीस्तुतम् ॥ २८॥ नन्दं चैव यशोदां च रोहिणीं गोपिकास्तथा । अपश्यद्विस्मितः शेषः सिंहासनकदम्बके ॥ २९॥ अन्यांश्चैव तु रामस्य अवतारान् सहस्त्रशः । अंशरूपान् कलारूपान् साक्षादावेशिनस्तथा ॥ ३०॥ सर्वान् श्रीरामवदने दत्तदृष्टीन् गतस्मयान् । वशंवदानिवाज्ञायाः स्वतन्त्रानपि चेश्वरान् ॥ ३१॥ अचिन्तयत् तदाशेषः संशयाकुलमानसः । अहो एषां भगवतामीश्वराणां स्ववर्चसाम् ॥ ३२॥ कतरं च प्रथमतो वन्देयं समवर्चसाम्'' । याम्ये सम्प्रति सर्वेषां कमहं संस्तुयां पुरा ॥ ३३॥ इति सन्देहमापन्ने शेषे वैष्णवसत्तमे । राम एव व्यलीयन्त सर्वे दशरथात्मजे ॥ ३४॥ येऽन्ये रामस्य परितो व्यराजन्त महौजसः । अंशरूपाः कलारूपाः विभूत्यावेशिनस्तथा ॥ ३५॥ राम एव लयं जग्मुस्ते सर्वे तस्य पश्यतः । ततः स विस्मितो भूत्वा रामं तुष्टाव भूरिशः ॥ ३६॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे श्रीराममाहात्म्ये सप्ताशीतितमोऽध्यायः ॥ ८७॥ भुशुण्डिरामायणम् । पूर्वखण्ड । अध्याय ८७/१-३६॥ bhushuNDirAmAyaNam . pUrvakhaNDa . adhyAya 87/1-36.. Encoded and proofread by Mrityunjay Rajkumar Pandey
% Text title            : BrahmakritaM Ramamahatmyavarnanam
% File name             : brahmakRitaMrAmamAhAtmyavarNanam.itx
% itxtitle              : rAmamAhAtmyavarNanam brahmakRitam (bhuShuNDirAmAyaNAntargatam)
% engtitle              : brahmakRitaM rAmamAhAtmyavarNanam
% Category              : raama, mAhAtmya
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : bhushuNDirAmAyaNam | pUrvakhaNDa | adhyAya 87/1-36||
% Indexextra            : (Scans Scan)
% Latest update         : August 26, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org