हंससन्देशः
श्रीमद्वेदान्तदेशिकाविरचितः हंससन्देशः ॥
॥ श्रीरस्तु ॥
॥ श्रीरामचन्द्राय नमः ॥
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
॥ प्रथमाश्वासः ॥
वंशे जातस्सवितुरनघे मानयन्मानुषत्वं
देवश्श्रीमाञ्जनकतनयान्वेषणे जागरूकः ।
प्रत्यायाते पवनतनये निश्चितार्थस्स कामी
कल्पाकारां कथमपि निशामाविभातं विषेहे ॥ १.१॥
काल्ये सेनां कपिकुलपतेस्तूर्णमुद्योजयिष्यन्
दूरीभावाज्जनकदुहितुर्दूयमानान्तरात्मा ।
क्रीडाखेलं कमलसरसि क्वापि कालोपयातं
राकाचन्द्रद्युतिसहचरं राजहंसं ददर्श ॥ १.२॥
तस्मिन्सीतागतिमनुगते तद्दुकूलाङ्कमूर्तौ
तन्मञ्जीरप्रतिमनिनदे न्यस्तनिस्पन्ददृष्टिः ।
वीरश्चेतोविलयमगमत्तन्मयात्मा मुहूर्तं
शङ्के तीव्रं भवति समये शासनं मीनकेतोः ॥ १.३॥
लब्धाश्वासः कथमपि तदा लक्ष्मणस्याग्रजन्मा
सन्देशेन प्रणयमहता मैथिलीं जीवयिष्यन् ।
चक्रे तस्मै सरसिजदळैस्सोपचारां सपर्यां
कान्ताश्लेषादधिकसुभगः कामिनां दूतलाभः ॥ १.४॥
कृत्वा तस्मिन्बहुमतिमसौ भूयसीमाञ्जनेयात्
गाढोन्मादः प्रणयपदवीं प्राप वार्तानभिज्ञे ।
विश्लेषेण क्षुभितमनसां मेघशैलद्रुमादौ
याच्ञादैन्यं भवति किमुत क्वापि संवेदनार्हे ॥ १.५॥
वेदोदन्वद्विभजनविदो वंशजं विश्वमूर्तेः
आहुस्सिद्धाः कमलवसतेरौपवाह्यं भवन्तम् ।
लब्धं येन प्रगुणगतिना तत्प्रियायास्सकाशात्
तत्सावर्ण्यं श्रवणरसनास्वादयोग्या सुधा च ॥ १.६॥
मध्ये केचिद्वयमिह सखे केवलं मानुषाणां
व्यक्तोत्कर्षो महति भुवने व्योमगानां पतिस्त्वम् ।
स्थाने दूत्यं तदपि भवतस्संश्रितत्राणहेतोः
विश्वस्रष्टा विधिरपि यतस्सारथित्वेन तस्थौ ॥ १.७॥
इच्छामात्राज्जगदपरथा संविधातुं क्षमाणां
इक्ष्वाकूणां प्रकृतिमहतामीदृशीं प्रेक्ष्य वेळाम् ।
लक्ष्यालक्ष्ये जलधिपयसा लब्धसंस्थां त्रिकूटे
लङ्कां गन्तुं तवसमुचितं राक्षसीं राजधानीम् ॥ १.८॥
स्थानैर्दिव्यैरुपचितगुणां चन्दनारण्यरम्यां
मुक्तासूतिं मलयमरुतां मातरं दक्षिणाशाम् ।
अस्मत्प्रीत्यै जनकतनया-जीवितार्थं च गच्छन्
एकं रक्षःपदमिति सखे दोषलेशं सहेथाः ॥ १.९॥
वाचालानामिव जडधियां सत्कवौ दूरयाते
कैलासाय त्वयि गतवति क्षीबतामाश्रितानाम् ।
सम्मोदस्ते पथि परिणमेच्चन्द्रकैरुज्झितानां
मेघापाये विपिनशिखिनां वीक्ष्य वाचंयमत्वम् ॥ १.१०॥
आरक्तानां नवमधु शनैरापिबन्पद्मिनीनां
कालोन्निद्रे कुवलयवने घूर्णमानस्सलीलम् ।
स्विन्नो दानैर्विपिनकरिणां सौम्य सेविष्यते त्वां
आमोदानामहमहमिकामादिशन्गन्धवाहः ॥ १.११॥
पर्याप्तं ते पवनचलितैरङ्गरागं परागैः
स्थाने कुर्युस्समसमुदयाद्बन्धवो बन्धुजीवाः ।
येनान्वेष्यस्यचलतनया-पादलाक्षानुषक्तं
चूडाचन्द्रं पुरविजयिनस्स्वर्णदीफेनपूर्णम् ॥ १.१२॥
शारोपान्ताश्शतमखधनुश्शेषचित्रांशुकेन
सूक्ष्माकारैर्दिनकरकरैः कल्पितान्तश्शलाकाः ।
ऊढाः पश्चादुचितगतिना वायुना राजहंस
छत्रायेरन्नभसि भवतश्शारदा वारिवाहाः ॥ १.१३॥
द्रक्ष्यस्येवं प्रियसख सुखं लङ्घिताध्वा सखीं ते
सीतां क्षेत्रे जनकनृपतेरुत्थितां सीरकृष्टे ।
गोपायन्ती तनुमपि निजां या कथञ्चिन्मदर्थं
भूमौ लोके वहति महतीमेकपत्नी-समाख्याम् ॥ १.१४॥
प्रक्षीणां त्वद्विरहसमये जातहर्षामिदानीं
प्रत्यायास्यन्ननुनय शनैः पद्मिनीं स्वादुवाचा ।
सा ते तन्त्रीस्वनसुभगया स्यादितीहाभ्यनुज्ञां
मन्ये कुर्यान्मधुकरगिरा मैथिलीसौहृदेन ॥ १.१५॥
सार्धं कान्तैश्शबरसुदृशामद्रिकुञ्जेषु रागात्
आसीनानां क्षणमसमये दृश्यचन्द्रोदयश्रीः ।
उड्डीयेथास्सरसिजवनाद्दक्षिणाशानुसारी
पश्यन्दूरात्प्रबलगरुतां पक्षिणां दत्तवर्त्मा ॥ १.१६॥
अङ्गीकुर्वन्नमृतरुचिरामुत्पतिष्णोस्सलीलं
छायामन्तस्तव मणिमयो माल्यवानेष शैलः ।
शोभां वक्ष्यत्यधिकललितां शोभमानामतीन्दोः
देवस्यादेरुपजनयतो मानसादिन्दुबिम्बम् ॥ १.१७॥
मार्गौ सम्यङ्मम हनुमता वर्णितौ द्वौ तयोस्ते
सह्यासन्नोऽप्यनतिसुभगः पश्चिमो नित्यवर्षः ।
प्राचीने तु प्रतिजनपदं संहतावद्भुतानां
मग्ना दृष्टिः कथमपि सखे मत्कृते ते निवार्या ॥ १.१८॥
प्रत्यासन्नात्सपदि भवनात्सादरं निर्गतानां
श्रुत्वा शब्दं श्रवणमधुरं तावकं पामरीणाम् ।
अभ्रूभङ्गेऽप्यधिकसुभगैर्निश्चिताङ्गः कटाक्षैः
देशानेतान्वनगिरिनदी-संविभक्तान् व्यतीयाः ॥ १.१९॥
इक्षुच्छाये किसलयमयं तल्पमातस्थुषीणां
सल्लापैस्तैर्मुदितमनसां शालिसंरक्षिकाणाम् ।
कर्णाटान्ध्रव्यतिकरवशात्कर्बुरे गीतिभेदे
मुह्यन्तीनां मदनकलुषं मौग्ध्यमास्वादयेथाः ॥ १.२०॥
विष्णोर्वासादवनिवहनाद्बद्धरत्नैश्शिरोभिः
शेषस्साक्षादयमिति जनैस्सम्यगुन्नीयमानः ।
अभ्रैर्युक्तो लघुभिरचिरोन्मुक्त-निर्मोककल्पैः
अग्रेभावी तदनु नयने रञ्जयन्नञ्जनाद्रिः ॥ १.२१॥
तत्रारूढैर्महति मनुजैस्स्वर्गिभिश्चावतीर्णैः
सत्त्वोन्मेषाद्व्यपगतमिथस्तारतम्यादिभेदैः ।
साधारण्यात्फलपरिणतेस्सङ्घशो बध्यमानां
शक्त्या कामं मधुविजयिनस्त्वं च कुर्यास्सपर्याम् ॥ १.२२॥
स्तोकोन्मग्नस्फुरितपुलिनां त्वन्निवासेच्छयेव
द्रक्ष्यस्यारात्कनकमुखरीं दक्षिणामञ्जनाद्रेः ।
आसन्नानां वनविटपिनां वीचिहस्तैः प्रसूना -
न्यर्चाहेतोरुपहरति या नूनमर्धेन्दुमौळेः ॥ १.२३॥
निर्विश्यैनां निभृतमनभिव्यक्तमञ्जुप्रणादो
मन्दाधूतः पुळिनपवनैर्वञ्जुळामोदगर्भैः ।
अव्यासङ्गस्सपदि पदवीं संश्रयान्यैरलङ्घ्यो
बन्दीकुर्युस्तटवसतयो मा भवन्तं किराताः ॥ १.२४॥
तुण्डीराख्यं तदनु महितं मण्डलं वीक्षमाणः
क्षेत्रं यायाः क्षपितदुरितं तत्र सत्यव्रताख्यम् ।
पत्यौ रोषात्सलिलवपुषो यत्र वाग्देवतायाः
सेतुर्जज्ञे सकलजगतामेकसेतुस्स देवः ॥ १.२५॥
नानारत्नैरुपचितगुणां नित्यसङ्गीतनादां
भूमेर्द्रक्ष्यस्युचितविभवं भूषणं तत्र काञ्चीम् ।
यस्यां नित्यं निहितनयनो हस्तिशैलाधिवासी
द्वन्द्वातीतस्स खलु पुरुषो दृश्यते सत्यकामः ॥ १.२६॥
तामासीदन्प्रणम नगरीं भक्तिनम्रेण मूर्ध्ना
जातामादौ कृतयुगमुखे धातुरिच्छावशेन ।
यद्वीथीनां करिगिरिपतेर्वाहवेगावधूतान्
धन्यान् रेणूंस्त्रिदशपतयो धारयन्त्युत्तमाङ्गैः ॥ १.२७॥
मन्दाधूतात्तदनु महितो निस्सृतश्चूतषण्डात्
पार्श्वे तस्याः पशुपतिशिरश्चन्द्रनीहारवाही ।
दूरात्प्राप्तं प्रियसखमिव त्वामुपैष्यत्यवश्यं
कम्पापाथः-कमलवनिका-कामुको गन्धवाहः ॥ १.२८॥
वर्णस्तोमैरिव परिणता सप्तभेदैर्महौघैः
मान्या मध्येनगरमभितस्सेविता देवताभिः ।
स्वच्छस्वादुप्रसरसुभगा स्वामिनी वः कवीनां
वेगासंज्ञां वहति महतीं वल्लभा पद्मयोनेः ॥ १.२९॥
तीर्थे पुंसां शमितकलुषे तत्र सारस्वताख्ये
स्नात्वा सार्धं मुनिभिरनघैस्सम्यगुल्लासिताङ्गः ।
विश्वं चित्ते विगतरजसि व्यञ्जयन्तीमशेषं
वक्ष्यस्यन्तर्बहिरपि परां शुद्धिमक्षेपणीयाम् ॥ १.३०॥
तस्यास्तीरे सरसिजभुवस्सौम्य वैतानवेदिः
दिव्यं कुर्वन् द्रमिडविषयं दृश्यते हस्तिशैलः ।
यस्योपान्ते कृतवसतयो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ १.३१॥
सञ्चिन्वाना तरुणतुळसी-दामभिस्स्वामभिख्यां
तस्यां वेद्यामनुविदधती श्यामळं हव्यवाहम् ।
भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः
भूयश्श्यामा भुवनजननी देवता सन्निधत्ते ॥ १.३२॥
लक्ष्मीविद्युल्ललितवपुषं तत्र कारुण्यपूर्णं
मा भैषीस्त्वं मरकतशिलामेचकं वीक्ष्य मेघम् ।
शुद्धैर्नित्यं परिचितपदस्त्वादृशैर्देवहंसैः
हंसीभूतस्स खलु भवतामन्ववायाग्रजन्मा ॥ १.३३॥
सारास्वादी सवनहविषां स्वामिनस्ते स देवः
शुद्धं चक्षुश्श्रुतिपरिषदां चक्षुषां भागधेयम् ।
अङ्गीकुर्याद्विनतममृतासारसंवादिभिस्त्वां
आविर्मोदैरभिमतवरस्थूललक्षैः कटाक्षैः ॥ १.३४॥
मध्वासक्तं सरसिजमिव स्विन्नमालम्बमानो
देव्या हस्तं तदितरकरन्यस्तलीलारविन्दः ।
देवश्श्रीमान् स यदि विहरेत्स्वैरमारामभूमौ
व्यक्तो वालव्यजनवपुषा वीजयेस्तं त्वमेव ॥ १.३५॥
जातप्रीतिर्जनपदमथो मध्यमं लङ्घयित्वा
दूराल्लक्ष्यक्रमुक-निवह-श्यामळान्याहि चोळान् ।
प्रत्युद्गच्छन्मकरवलन-स्तम्भितैस्सह्यजायाः
स्रोतोभेदैर्विविध-गतिभिस्संविभक्तावकाशान् ॥ १.३६॥
केशैर्ज्योत्स्नाकलहि तिमिरं पाळिकापीडगर्भैः
सन्ध्यारागं सुरभिरजनी-सम्भवैरङ्गरागैः ।
आबिभ्राणास्सरसिजदृशो हंस दोलाधिरोहात्
आधास्यन्ते मदकलगिरस्तेषु नेत्रोत्सवं ते ॥ १.३७॥
पृथ्वीलीलातिलकसुभगं पश्चिमं भागमेषां
नाम्ना वर्षं जलचर नदीमातृकं गाहमानः ।
द्रक्ष्यस्यारात्परिमिततया मग्नकैलासदृश्यं
श्वेतं शैलं फणिपतिमिव क्ष्मातलादुज्जिहानम् ॥ १.३८॥
स्फारालोकप्रशमिततमस्सञ्चयं तत्र पुंसां
प्रत्यग्रूपं प्रगुणविभवं प्रार्थनीयं बुधानाम् ।
नेदीयांसं कुशलनिवहं नन्तुराधास्यते ते
दिव्यं तेजो जलधितनया स्नेहनित्यानुषक्तम् ॥ १.३९॥
स्निग्धच्छायं तदनु विततं तस्य धामेव नीलं
नीलीरक्षानियतललितं काननं संविचीयाः ।
दृष्टे तस्मिन्ननिमिषवधू-नित्यनिर्वेश-योग्ये
स्वर्गोद्यानश्रियमपि लघुं मंस्यते मानसं ते ॥ १.४०॥
कुर्वन्नानाकुसुमरजसा यत्र चित्रं वितानं
पूगारण्ये मृदुविचलयन्पालिकाचामराणि ।
पादन्यासक्षममवकिरन् क्ष्मातलं पुष्पजालैः
प्रायो वायुः परिजनविधिं पञ्चबाणस्य धत्ते ॥ १.४१॥
स्रोतोवेगादथ जनपदं सौम्य सीमन्तयन्ती
प्रत्यादेशो विबुधसरितस्स्यन्दते सह्यकन्या ।
काले काले परिणतिवशात्पर्वभेदावकीर्णैः
पुण्ड्रेक्षूणां पुलिनविशदैर्गद्गदा मौक्तिकौघैः ॥ १.४२॥
भद्रालापैर्विहितकुशलां त्वादृशानां द्विजानां
सह्योत्सङ्गात्सपदि मरुता सागरं नीयमानाम् ।
यामस्कन्नास्सरसकुहली-पत्रपातैर्निशान्ते
मन्दस्मेरां मधुपरिमळैर्वासयन्तीव पूगाः ॥ १.४३॥
तस्मिन् द्रक्ष्यस्यमर-महिळा-मौळि-गन्धैरवन्ध्यां
आतन्वानां व्यपगतरसं मानसे मानसं वः ।
तीर्थैरन्यैरपि परिगतां शुद्धिहेतोस्समन्तात्
चन्द्रोल्लास-प्रथितयशसस्सम्पदं पुष्करिण्याः ॥ १.४४॥
तीरे तस्या विरचितपदं साधुभिस्सेव्यमानं
श्रद्धायोगाद्विनमिततनुश्शेषपीठं भजेथाः ।
यस्मिन्नस्मत्कुलधनतया सौम्य साकेतभाजः
स्थानं भाव्यं मुनिभिरुदितं श्रीमतो रङ्गधाम्नः ॥ १.४५॥
सत्त्वे दिव्ये स्वयमुदयतस्तस्य धाम्नः प्रसङ्गात्
मञ्जूषायां मरकतमिव भ्राजमानं तदन्तः ।
चेतो धावत्युपहितभुजं शेषभोगे शयानं
दीर्घापाङ्गं जलधितनयाजीवितं देवमाद्यम् ॥ १.४६॥
चोराक्रान्तं तदनु विपिनं चोळ-पाण्ड्यान्तरस्थं
झिल्लीनादश्रवणपरुषं शीघ्रमेव व्यतीयाः ।
तीर्णे तस्मिन्प्रकटय सखे शीतलांस्ते निनादान्
शब्दायन्ते न खलु कवयस्सन्निधौ दुर्जनानाम् ॥ १.४७॥
स्रस्तापीडं प्रचलदलकं व्यक्तताटङ्करत्नं
मुक्ताचूर्णस्फुरिततिलकं वक्त्रमुत्तानयन्त्यः ।
देशे तस्मिन् कुवलयदृशो जातकौतूहलास्त्वां
मालादीर्घैर्मधुरविरुतं मानयिष्यन्त्यपाङ्गैः ॥ १.४८॥
नित्यावासं वृषभमचलं सुन्दराख्यस्य विष्णोः
प्रत्यासीदन्सपदि विनमद्भागधेयं नतस्स्याः ।
यस्योत्सङ्गे बलिविजयिनस्तस्य मञ्जीरवान्तं
पाथो दिव्यं पशुपतिजटास्पर्शशून्यं विभाति ॥ १.४९॥
ईशादस्त्राण्यधिगतवतां क्षत्रियाणां प्रभावात्
कारावास-स्मरणचकितैस्सिक्त-सस्यां पयोदैः ।
पश्यन्यायाः परमलकया स्पर्धमानैरजस्रं
पुण्यावासैः पुरजनपदैर्मण्डितान्पाण्ड्यदेशान् ॥ १.५०॥
मुक्ताजालैर्जनितपुळिनां शुक्तिसन्तानमुक्तैः
तारापूर्णां दिवमिव ततस्ताम्रपर्णीं भजेथाः ।
प्रत्यासत्त्या नियतविशदं पीतसिन्धोर्महर्षेः
पानीयं ते परिणमयिता तत्र मुक्तामयत्वम् ॥ १.५१॥
तस्यास्स्वैरं सरसिजमुखास्वादसम्प्रीतचेताः
शीतीभूतस्तरळ-लहरीबाहु-संश्लेषणेन ।
अध्यासीनः पुलिनमनिलैर्वीजितश्चन्दनाद्रेः
श्रान्तिं शान्तिं गमयतु भवान् सागरं लङ्घयिष्यन् ॥ १.५२॥
सव्यं तस्याः कियदिव गतश्श्यामताळीतमालां
त्वत्प्रायाणां तरुणवयसां चेतसो नन्दयित्रीम् ।
वेलामब्धेर्विविध-लहरीदत्त-मुक्ताभिरामां
द्रक्ष्यस्याराद्द्विगुणपुलिनां केतकीनां परागैः ॥ १.५३॥
स्थित्वा तत्र क्षणमुभयतश्शैलशृङ्गावतीर्णैः
स्रोतोभेदैरधिगतगुणं चारुविस्फारघोषैः ।
लक्षीकुर्वन् दशमुखपुरीं सौम्य पत्रप्रकृष्टो
वेलाचापं शर इव सखे वेगतस्त्वं व्यतीयाः ॥ १.५४॥
दावासक्तं वनमिव नभस्सन्ध्ययेवानुविद्धं
सिन्दूराङ्कं द्विपमिव हरिं स्वाम्बरेणेव जुष्टम् ।
विद्युद्भिन्नं घनमिव सखे विद्रुमारण्ययोगात्
देहेनैकं मिथुनमिव च द्रक्ष्यसि त्वं पयोधिम् ॥ १.५५॥
अस्मत्पूर्वैस्सुरपतिहृतं द्रष्टुकामैस्तुरङ्गं
भित्वा क्षोणीमगणितबलैस्सागरो वर्धितात्मा ।
सत्कारार्थं तव यदि गिरीनादिशेद्गुप्तपक्षान्
अश्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः ॥ १.५६॥
तत्रासीनः क्वचन सरसि स्मेरहेमारविन्दे
लब्धास्वादो मधुभिरमितैस्संविनीताध्वखेदः ।
द्रक्ष्यस्यग्रे लघुतरगतिश्शेषमुल्लङ्घ्य सिन्धोः
तोयाघातान्मसृणितशिलारम्यवेलं सुवेलम् ॥ १.५७॥
यस्यासन्ने पयसि जलधेस्त्वत्प्रतिच्छन्दचन्द्राः
पक्षच्छेद-क्षरितरुधिर-स्तोमसन्दर्शनीयाः ।
वीचिप्राप्तैर्विषमितरुचो मौक्तिकैस्तारकाभैः
सन्ध्यामन्यां नियतमवनौ दर्शयन्ति प्रवाळाः ॥ १.५८॥
यत्रारण्यं वरुणवसतेर्वीचिवेगापनीतैः
मुक्तारत्नस्तबक-शबलैर्विद्रुमैरुत्प्रवाळम् ।
रक्षोभीतैस्स्वयमनिमिषैराहृतस्थापितानां
मन्दाराणां मधुपरिमळैर्वासितं मौळिदघ्नैः ॥ १.५९॥
लङ्का सिन्धोर्महति पुलिने राजहंसीव लीना
तस्मिन्दृश्या तदनु भवतश्चारुसौधावदाता ।
त्वामायान्तं पवनतरळैर्या पताकापदेशैः
पक्षैरभ्युज्जिगमिषुरिव स्थास्यति श्राव्यनादा ॥ १.६०॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचर्यस्य कृतिषु
हंससन्देशे प्रथमाश्वासः समाप्तः ।
श्रीः
॥ द्वितीयाश्वासः ॥
लीलाखेलं ललितगमनाश्चारुनादं सशिञ्जाः
भल्लाक्षं त्वां स्मरशरदृशो गौरमापाण्डुराङ्ग्यः ।
मुग्धालापं मधुरवचसो मानसार्हं मनोज्ञाः
यत्रानीतास्सुर-युवतयो रञ्जयेयुस्समक्षम् ॥ २.१॥
उग्रैश्शापैरुपहतिभिया रक्षसा दूरमुक्ताः
दग्धुं योग्या हुतवहमपि त्वत्प्रियावर्णशुद्धाः ।
उत्पश्यन्तो जनकतनयातेजसैव स्वरक्षां
रोधं यस्यामनुविदधते लोकपालावरोधाः ॥ २.२॥
अध्यासीना बहुमणिमयं तुङ्गशृङ्गं त्रिकूटं
दिक्पालेषु प्रथितयशसा रक्षसा रक्ष्यमाणा ।
अग्रे मेरोरमरनगरीं या परिष्कारभूम्ना
त्वाहूयेव ध्वजपटमयानग्रहस्तान् धुनोति ॥ २.३॥
काले यस्यां व्यपगतघने त्वद्विहारोचितेऽस्मिन्
चन्द्रालोकैर्विलुलितधियां शर्वरीगर्वहासैः ।
स्वर्गस्त्रीणां विरहजनितं बाष्पमुद्वेलयन्त्यो
निष्यन्दन्ते सलिलकणिकाश्चन्द्रकान्त-स्थलीनाम् ॥ २.४॥
भासा तादृक्परिणतिजुषा मैथिलीशोकवह्नेः
भस्मीभूतां पवनतनयस्नेहिना पावकेन ।
अन्तस्त्रासादवहितधियस्संविधास्यन्त्यवश्यं
प्रत्यादिष्टप्रथमरचनं विश्वकर्मादयस्ताम् ॥ २.५॥
मध्ये तस्या निशिचरपतेस्सद्म रुद्धान्तरिक्षं
युग्मं नेयैर्दिवि सुमनसां सेव्यमानं विमानैः ।
कारागारं विबुधसुदृशां वीक्षमाणो विचित्रं
शोकप्रीतिव्यतिकरवतीं वक्ष्यसे चित्तवृत्तिम् ॥ २.६॥
नित्योदारामृतुभिरखिलैर्निष्कुटे वृक्षवाटीं
ईषत्कोपाच्चकित-पवनामिन्दु-सन्दिग्धसूर्याम् ।
सीताशोकज्वलनसहजैस्तत्र दीप्तामशोकैः
आपद्येथाः प्रथमलुलितामाञ्जनेय-प्रचारैः ॥ २.७॥
तस्यामन्यैर्वियति विहगैस्सार्धमानन्दनिघ्नैः
स्थाने स्थाने निहितनयनो वर्तयन्मण्डलानि ।
द्रक्ष्यस्येकां जनकदुहितुस्सौम्य दुर्जातबन्धुं
न्यस्ताकल्पां क्वचन विटपे शिंशुपां सान्द्रशाखाम् ॥ २.८॥
मूले तस्याः किमपि सवनक्षेत्रसंस्कारजातं
यत्र क्वापि स्थितमपि सखे त्रासहीनं महिम्ना ।
काले तस्मिन्कथमपि मया वीर्यशुल्केन लब्धं
दृश्यं तत्ते दिनकरकुलद्योतकं दिव्यरत्नम् ॥ २.९॥
सा मे दृष्टिश्शफरनयना सन्नतभ्रूस्सुकेशी
तन्वी तुङ्गस्तनभरनता तप्तजाम्बूनदाभा ।
बाला युष्मत्प्रतिमगमना वेदिमध्या वराङ्गी
शृङ्गाराख्यं निधिमधिगता श्रेयसी देवतेव ॥ २.१०॥
सा ते यावन्नयनपदवीं याति मोहालसा वा
सन्देशं वा मदुपगतये श्रावयन्ती शकुन्तान् ।
अत्यासन्नप्रियवचनतां सूचयद्भिर्निमित्तैः
एतामश्रुस्थगितनयनं वीक्षमाणा दिशं वा ॥ २.११॥
आकल्पान्वा सविधनिहितानालपन्ती विमोहात्
अङ्गस्पर्शो रघुकुलपतेः स्मर्यते वा न वेति ।
ध्यायन्ती वा चिरविरहितानेकशय्याविहारान्
तस्या नूनं नियतिजनिता तादृशी कालयात्रा ॥ २.१२॥
शुद्धामिन्दोश्श्वपचभवने कौमुदीं विष्फुरन्तीं
आनीतां वा विषतरुवने पारिजातस्य शाखाम् ।
सूक्तिं रम्यां खलपरिसरे सत्कवेः कीर्त्यमानां
मन्ये दीनां निशिचरगृहे मैथिलस्यात्मजाताम् ॥ २.१३॥
वर्षाकीर्णामिव कमलिनीं व्याहतार्थामिवोक्तिं
पङ्काश्लिष्टामिव बिसलतां पत्यपेतामिवेभीम् ।
मेघच्छन्नामिव शशिकलां विघ्नरुद्धामिवाशां
व्याघ्रोपेतामिव मृगवधूं भूतले ज्यामिवास्ताम् ॥ २.१४॥
स्मृत्वा पूर्वं स्मरशरभये मत्परिष्वङ्गरक्षां
आश्लिष्यन्तीमलस-वलितैरङ्गकैर्मातरं स्वाम् ।
आकल्पेऽपि श्रममधिगतैरङ्गरागेऽपि खिन्नैः
अक्षाम्यद्भिः स्मृतिमपि मुहुस्सौकुमार्यातिरेकात् ॥ २.१५॥
भूयो भूयः करसरसिजे न्यस्य रोमाञ्चिताङ्गीं
मौळौ चूडामणिविरहिते निर्विशन्तीं निधाय ।
अन्तस्तापादधिगतरुजोरादरादर्पयन्तीं
पर्यायेण स्तनकलशयोरङ्गुलीयं मदीयम् ॥ २.१६॥
अम्बातुल्या सुचरितफलं दिव्यमालेपनं प्राक्
अङ्गेष्वस्याः स्थिरमनुगुणं यद्वितेनेऽनसूया ।
धाराकारैः स्तनकलशयोरापतद्भिस्समन्तात्
सन्तापोष्णैस्तदपि बहुलैरश्रुभिः क्षालयन्तीम् ॥ २.१७॥
अग्राह्यत्वाद्विषमयमितं केशहस्तं मया प्राक्
आबिभ्राणां तनुपरिमळ-श्रद्धयेवावकीर्णम् ।
अर्चाहेतोर्भुवि रतिपतेरप्सरोभिर्विमुक्तां
अन्वग्यातामिव सुरतरोर्मञ्जरीं चञ्चरीकैः ॥ २.१८॥
अस्याकारैस्सदृशमभितस्त्वत्प्रियारूपचिह्नं
आनीतं यत्त्वरितमचलादुत्तरीयं प्लवङ्गैः ।
बालादित्यद्युतिसहचरं चारु वासो वसानां
सन्ध्यारागव्यतिकरवतीं चन्द्रलेखामिवान्याम् ॥ २.१९॥
वक्तुं मार्गं किल वसुमतीं जग्मुषस्तत्पदाब्जात्
मञ्जीरस्य त्वदुपमरुतेर्दक्षिणस्यास्य तुल्यम् ।
अङ्कारूढे चरणकमले मत्करेणोपधेयं
वामं शाखाशिखरनिहितं वीक्ष्य गाढं विषण्णाम् ॥ २.२०॥
अङ्गैर्म्लायत्किसलयसमैरुज्झिताकल्पपुष्पैः
गाढाश्लिष्टां वपुषि विमले बिम्बिताभिर्लताभिः ।
सन्तापोष्णश्वसनपरुषच्छायया किञ्चिदूनां
बन्दीभूतां निशिचरगृहे नन्दनस्येव लक्ष्मीम् ॥ २.२१॥
चेतोवृत्तिं शमयति बहिस्सार्वभौमे निरोधे
मय्येकस्मिन्प्रणिहितधियं मान्मथेनागमेन ।
अभ्यस्यन्तीमनितरजुषो भावनायाः प्रकर्षात्
स्वान्तेनान्तर्विलयमृदुना निर्विकल्पं समाधिम् ॥ २.२२॥
शून्या दृष्टिश्श्वसितमधिकं मीलितं वक्त्रपद्मं
धाराकारं नयनसलिलं सानुबन्धो विलापः ।
इत्थं दैन्यं किमपि विधिना दुर्निवारेण नीता
सा मे सक्ता तनुतरतनुस्तप्यते नूनमन्तः ॥ २.२३॥
दृष्ट्वा तस्यास्त्वमपि करुणां तादृशीं तामवस्थां
शक्ष्यस्यन्तस्स्वयमुपनतं शोकवेगं न सोढुम् ।
क्रव्यादानां दशवदनवत् क्वापि जातावजाताः
नालम्बन्ते कथमिव दयां निर्मलत्वोपपन्नाः ॥ २.२४॥।
नेदीयस्यामधिगतरसो दीर्घिकायां निकामं
संवेशेन श्रममपनयन् शर्वरीं यापयेथाः ।
इत्थं निद्रासमयमुचितं वीक्ष्य नक्तञ्चरीणां
प्रत्यूषे त्वं प्रणयमधुरां श्रावयिष्यन् मदुक्तिम् ॥ २.२५॥
शीतैरध्वश्रमविनयनैस्सेवितो गन्धवाहैः
सुप्तस्स्वैरं पुळिनशयने स्वन्तरे चन्द्रपादैः ।
क्रीडागीतैः कमलमुकुळे लीयतां षट्पदानां
कार्याकाङ्क्षी कलयतु भवान् राजहंस प्रबोधम् ॥ २.२६॥
तामारूढश्चलकिसलयां शिंशुपां स्वैकलक्ष्यो
मन्दीकुर्वन्मनसिजधनुर्घोषतीव्रं निनादम् ।
मोहादीषन्मुषितमनसं बोधय प्रेयसीं मे
रम्यामादौ रघुजनकयोर्वर्णयन् वंशकीर्तिम् ॥ २.२७॥
पत्युर्देवि प्रणयसचिवं विद्धि दीर्घायुषो मां
जीवातुं ते दधतमनघं तस्य सन्देशमन्तः ।
शूराणां यश्शरदुपगमे वीरपत्नीवराणां
सम्मानार्हं समयमुचितं सूचयेत्कूजितैस्स्वैः ॥ २.२८॥
मत्प्रस्तावप्रवणमथ सा मैथिली मानयेत्त्वां
म्लानं शोकाद्वदनकमलं किञ्चिदुन्नम्य भीरुः ।
अन्तस्तोषादमृतलहरीलब्धसब्रह्मचर्यैः
अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ॥ २.२९॥
पश्यन्ती सा रघुपतिवधूस्त्वामशेषावदातं
प्रत्याश्वासादधिगतरुचिः प्राक्तनीवेन्दुलेखा ।
मत्सन्देशे तदनु सुमुखी सावधाना भवित्री
किं न स्त्रीणां जनयति मुदं कान्तवार्ताऽऽगमोऽपि ॥ २.३०॥
पश्चादेवं कथय भवतीभागधेयेन जीवन्
कल्याणीं त्वां कुशलमनघः कोसलेन्द्रोऽनुयुङ्क्ते ।
येषु श्रेयो भवति नियतं तानि सर्वाणि सन्तः
लक्ष्म्या देव्यास्तव च भुवने लक्षणान्यामनन्ति ॥ २.३१॥
यस्या यस्मिन् व्यवधिरभवद्भूषणालेपनादिः
नीतामेनां नियतिविभवादन्तरीपं दवीयः ।
प्रत्यासीदन्निव नयनयोर्वर्त्मनि स्थापयित्वा
स त्वामेवं वदति कुशली देवि सख्या मुखेन ॥ २.३२॥
वेलातीतप्रणयविवशं भावमासेदुषोर्नौ
भोगारम्भे क्षणमिव गता पूर्वमालिङ्गनाद्यैः ।
सम्प्रत्येषा सुतनु शतशः कल्पना-सङ्गमैस्तैः
चिन्तादीर्घैरपि शकलिता शर्वरी नापयाति ॥ २.३३॥
उद्दामैस्ते कुचकलशयोरूष्मभिर्निर्जितेन
छिद्रं लब्ध्वा विरहसमये तत्क्षणादुन्नतेन ।
कुन्दामोदैस्सुरभितदिशा गन्धवाहेन दैन्यं
सम्प्राप्तोऽहं सह सरसिजैस्त्वन्मुखाम्भोजमित्रैः ॥ २.३४॥
माध्वीदिग्धैर्विरहि-वनितास्वाद-लुब्धैरमोघैः
आवृण्वन्तं कुसुमधनुषश्चित्रपुङ्खैर्दिगन्तान् ।
सीतापार्श्वे न भवतु भवानित्यवोचद्वसन्तं
रामस्त्रासादनमित-धनुर्मौळिना सन्नतेन ॥ २.३५॥।
पार्श्वे लोलैः परभृतकुलैर्मुक्तकोलाहलानाम् ।
मल्लीरेणुस्थगितवपुषां मन्दरं निर्गतानाम् ।
भीतेनाहं भ्रमरपटली-शृङ्खलासङ्कुलानां
मार्गे तिष्ठन्मलयमरुतां वारितो लक्ष्मणेन ॥ २.३६॥
मन्दो वक्ष्ये किमिव जनकं किं नु योगीश्वरो मां
इत्येवं मे सुतनु मनसो वर्तयन्ति स्म खेदम् ।
रक्ताशोके ज्वलति सविधे लाजवर्षाभिरामैः
पुष्पौघैस्त्वत्परिणयदशां व्यञ्जयन्तः करञ्जाः ॥ २.३७॥
चेतो नैव त्यजति चपलाहेमकोणाभिघातात्
धीरोदात्तस्तनितजलदात्ताण्डवारम्भमिच्छन् ।
वातोन्मुक्तैः कुटजकुसुमैर्वासिते शैलशृङ्गे
रक्षःपीडारहित-दयिताश्लेषधन्यो मयूरः ॥ २.३८॥
शैलव्यक्तप्रतिविलपितां सान्द्रतापानुविद्धां
तन्वानानां नयनसलिलैर्मातरं ते सबाष्पाम् ।
पश्यन्तीनां प्रबलमदनोन्मादपर्याकुलं मां
प्रायो जातं किमपि रुदितं व्योम्नि कादम्बिनीनाम् ॥ २.३९॥
देहस्पर्शं मलयपवने दृष्टिसम्भेदमिन्दौ
धामैकत्वं जगति भुवि चाभिन्नपर्यङ्कयोगम् ।
ताराचित्रे वियति विततिं श्रीवितानस्य पश्यन्
दूरीभूतां सुतनु विधिना त्वामहं निर्विशामि ॥ २.४०॥
प्राप्तैस्सख्यं तव नयनयोः पद्मकोशैः प्रबुद्धैः
सन्नाहं नस्समयनियतं साधु सन्धुक्षयन्ती ।
सेनायोग्यां सरणिमधुना दर्शयन्ती शुभाशा
सीते नूनं त्वरयति शरत्त्वत्समीपं निनीषुः ॥ २.४१॥
तातादेशात्सपदि भरते न्यस्तराज्याभिषेकं
या मामेका वनमनुगता राजधानीं विहाय ।
तामेव त्वामुचितशयनां बाहुमध्ये मदीये
दूरे कर्तुर्गुणवति मुहुर्दूयते जीवितं मे ॥ २.४२॥
सेतुं बध्वा विपुलमचलैस्सायकैर्वा पयोधौ
कृत्वा लङ्कां स्रजमिव करे खेलतां वानराणाम् ।
अल्पीयोभिस्सुमुखि दिवसैर्योधयन् यातुधानान्
कर्णे शीधुं तव रचयिता लक्ष्मणश्चापघोषैः ॥ २.४३॥
रक्षोमौळि-स्तबकलवनाद्वैरबन्धे विमुक्ते
गत्वा चोर्वीं गगनपदवीस्वैरिणा पुष्पकेण ।
सिद्धारम्भौ सपदि भवतामाधिराज्याभिषेकात्
सम्प्राप्स्यावश्चिरविरहतस्सञ्चितान्देवि भोगान् ॥ २.४४॥
चित्ते कुर्यात्तदपि भवती यज्जनस्थानयुद्धात्
सम्प्राप्तं मां दशमुखसमान् पारयित्वा खरादीन् ।
शस्त्राघातं स्तनकलशयोरूष्मणा रोपयद्भिः
गाढाश्लेषैरपिहितवती गद्गदा हर्षबाष्पैः ॥ २.४५॥
शच्याः क्लेशं क्वचन समये तादृशं चिन्तयित्वा
स्मृत्वा देवीमचलतनयां विप्रयुक्तां शिवेन ।
रक्षात्मानं कथमपि शुभे जीवितालम्बनं मे
पत्युश्चन्दाद्-व्यसनमपि हि श्लाघनीयं वधूनाम् ॥ २.४६॥
अप्येतत्ते मनसि निहितं साह्यमव्याजबन्धोः
प्रत्याख्यातुं प्रभवति न खल्वानृशंस्यं त्वदीयम् ।
प्रागप्येवं परिणतगुणां नैषधे वीक्ष्य वार्तां
आर्तत्राणं व्रतमिति विदुर्हंस शुद्धात्मनां वः ॥ २.४७॥
इत्थं हृद्यैर्जनकतनयां जीवयित्वा वचोभिः
सख्यं पुष्यन्दिनकरकुले दीप्यमानैर्नरेन्द्रैः ।
स्वैरं लोकान् विचर निखिलान् सौम्य लक्ष्म्येव विष्णुः
सर्वाकारैस्त्वदनुगुणया सेवितो राजहंस्या ॥ २.४८॥
सन्दिश्यैवं सह कपिकुलैस्सेतुना लङ्घिताब्धिः
पङ्क्तिग्रीवे युधि विनिहते प्राप्य सीतां प्रतीतः ।
राज्यं भूयस्स्वयमनुभवन् रक्षितं पादुकाभ्यां
रामश्श्रीमानतनुत निजां राजधानीं सनाथाम् ॥ २.४९॥
विद्याशिल्पप्रगुणमतिना वेङ्कटेशेन कॢप्तं
चिन्ताशाणोल्लिखितमसकृच्छ्रेयसां प्राप्तिहेतुम् ।
सीताहंसव्यतिकरसखं रामसन्देशरत्नं
पश्यन्त्वन्तश्श्रवणमनघं चक्षुरुज्जीव्य सन्तः ॥ २.५०॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचर्यस्य कृतिषु
हंससन्देशे द्वितीयाश्वासः समाप्तः ।