हनुमत्कृतं १ रामस्तोत्रम् १२
हनुमानुवाच ।
नमो रामाय हरये विष्णवे प्रभविष्णवे ।
आदिदेवाय देवाय पुराणाय गदाभृते ॥ ३१॥
विष्टरे पुष्पकं नित्यं निविष्टाय महात्मने ।
प्रहृष्टवानरानीकजुष्टपादाम्बुजाय ते ॥ ३२॥
निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिने ।
नमः सहस्रशिरसे सहस्रचरणाय च ॥ ३३॥
सहस्राक्षाय शुद्धाय राघवाय च विष्णवे ।
भक्तार्तिहारिणे तुभ्यं सीतायाः पतये नमः ॥ ३४॥
हरये नारसिंहाय दैत्यराजविदारिणे ।
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृतवसुन्धर ॥ ३५॥
त्रिविक्रमाय भवते बलियज्ञविभेदिने ।
नमो वामनरूपाय नमो मन्दरधारिणे ॥ ३६॥
नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे ।
नमः परशुरामाय क्षत्रियान्तकराय ते ॥ ३७॥
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ।
महादेव महाभीम महाकोदण्डभेदिने ॥ ३८॥
क्षत्रियान्तकरक्रूरभार्गवत्रासकारिणे ।
नमोऽस्त्वहिल्या सन्तापहारिणे चापहारिणे ॥ ३९॥
नागायुतवलोपेतताटकादेहहारिणे ।
शिलाकठिनविस्तारवालिवक्षोविभेदिने ॥ १.४६.४०॥
नमो माया मृगोन्माथकारिणेऽज्ञानहारिणे ।
दशस्यन्दनदुःखाब्धिशोषणागस्त्यरूपिणे ॥ ४१॥
अनेकोर्मिसमाधूतसमुद्रमदहारिणे ।
मैथिलीमानसाम्भोजभानवे लोकसाक्षिणे ॥ ४२॥
राजेन्द्राय नमस्तुभ्यं जानकीपतये हरे ।
तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ॥ ४३॥
रामाय रामचन्द्राय वरेण्याय सुखात्मने ।
विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥ ४४॥
प्रसीद देवदेवेश भक्तानामभयप्रद ।
रक्ष मां करुणासिन्धो रामचन्द्र नमोऽस्तु ते ॥ ४५॥
रक्ष मां वेदवचसामप्यगोचर राघव ।
पाहि मां कृपया राम शरणं त्वामुपैम्यहम् ॥ ४६॥
रघुवीर महामोहमपाकुरु ममाधुना ।
स्नाने चाचमने भुक्तो जाग्रत्स्वप्नसुषुप्तिषु ॥ ४७॥
सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ।
महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ॥ ४८॥
त्वमेव त्वन्महत्त्वं वै जानासि रघुनन्दन ॥
इति श्रीस्कन्दपुराणे ब्रह्मखण्डे सेतुखण्डे षट्चत्वारिंशा- ध्यायान्तर्गतं
हनुमत्कृतं श्रीरामस्तोत्रं समाप्तम् ।
स्कन्दपुराण । ब्राह्मखण्ड । सेतुखण्ड । अध्याय ४६/३१-४८॥
skandapurANa . brAhmakhaNDa . setukhaNDa . adhyAya 46/31-48..
Proofread by PSA Easwaran