जप्यात्मक रहस्यत्रयनिरूपणम्

जप्यात्मक रहस्यत्रयनिरूपणम्

सञ्जप्यस्तारकाख्यो मनुवर इह तैर्वह्निबीजं यदादौ रामोङेप्रत्ययान्तो रसमितशुभदस्वक्षरः स्यान्नमोऽन्तः । मन्त्रो रामद्वयाख्यः सकृदितिचरमप्रान्वितो गुह्यगुह्यो भूताक्ष्यु- त्सङ्ख्यवर्णः सुकृतिभिरनिशं मोक्षकामैर्निषेव्यः ॥ १॥

अथ मन्त्रराजरहस्यम्

मन्त्राणां व्यापकानां भगवत इह चाव्यापकानान्तु मध्ये- तिश्रेष्ठो व्यापकः स श्रुतिमुनिसुमतः शिष्टमुख्यैर्गृहीतः । नित्यानामाश्रयोऽयं परित उरुशुभो राममन्त्रः प्रधानः प्राप्योऽथ प्रापकश्च प्रचुरतरगुणज्ञानशक्त्यादिकानाम् ॥ २॥ यावद्वेदार्थगर्भं प्रणवि जगदुदाधारभूतं सबिन्दु प्रव्यक्तं रामबीजं श्रुतिमुनिगदितोत्कृष्टषड्व्याप्तिभेदम् । रेफारूढत्रिमूर्ति प्रचुरतरमहाशक्ति विश्वोन्निदानं शश्वत्संराजते यद्विविधसकलसम्भासमानप्रपञ्चम् ॥ ३॥ तत्राद्येन पदेन रेण भगवान् सीतापतिः प्रोच्यते श्रीराम जगतां गुणैकनिलयो हेतुश्च संरक्षकः । तच्छेषी पदतोऽप्यतो भगवतोऽनन्यहशेषत्वकं व्यावृत्तिस्तु सुरान्तरादिगतसत्तच्छेषताया मुहुः ॥ ४॥ पितापुत्रत्वसम्बन्धो जगत्कारणवाचिना । रक्ष्यरक्षकभावश्च रेण रक्षकवाचिना ॥ ५॥ शेषशेषित्वसम्बन्धश्चतुर्थ्या लुप्तयोच्यते । भार्या भर्तृत्वसम्बन्धोऽप्यनन्यहत्ववाचिना ॥ ६॥ अकारेणापि विज्ञेयो मध्यस्थेन महामते । स्वस्वामिभावसम्बन्धो मकारेणाथ कथ्यते ॥ ७॥ आधाराधेयभावोऽपि ज्ञेयो रामपदेन तु । सेव्यसेवकभावस्तु चतुर्थ्यां विनिगद्यते ॥ ८॥ नमः पदेनाखण्डेन त्वात्मात्मीयत्वमुच्यते । षष्ठ्यन्तेन मकारेण भोग्यभोक्तृत्वमप्युत ॥ ९॥ ज्ञानानन्दस्वरूपोऽवगतिसुखगुणे मेन वेद्योऽणुमानो देहादेरप्यपूर्वो विविदितविविधस्तत्प्रियस्तत्सहायः । नित्यो जीवस्तृतीयेन तु खलु पदतः प्रोच्यते स्वप्रकाशो जिज्ञासूनां सदेत्थं शुभनतिसुमते शास्त्रवित्सज्जनानाम् ॥ १०॥ मवाच्योऽहं वाच्याय शेषभूतोऽस्मि सर्वदा । इतीत्थमेव बोध्यो ज्ञैर्वाक्यार्थस्तद्विवित्सया ॥ ११॥ रामायेति चतुर्थेन श्रिया देव्यास्तु सर्वदा । चेतनाऽचेतनानाञ्च रमणाश्रयतेर्यते ॥ १२॥ स सर्वविधबन्धुत्वं सर्वप्राप्यत्वमेव च । सर्वप्रापकता तेन तथा चोभयलिङ्गता ॥ १३॥ उच्यते तत्पदेनैव सच्चिदानन्दरूपता । यावद्विभूतिनेतृत्वं श्रीरामब्रह्मणो मतम् ॥ १४॥ रागादिकारणे बन्धौ तेनैव विनिवर्त्यते । बन्धुत्वप्रतिपत्तिश्च भासमाना विचारतः ॥ १५॥ तच्चतुर्थ्या स्वानुरूपकैङ्कर्यप्रार्थनोच्यते । विषयान्तरसेवाऽपि प्राप्ता सा विनिवर्त्त्यते ॥ १६॥ पदेन नेनात्र तु पञ्चमेन प्रकथ्यतेऽथो तदनन्यशेषता । हेयं तदन्यार्थमपि स्वतन्त्रता निवर्त्यतेऽतः सततं स्वकीया ॥ १७॥ पदेन षष्ठेन म इत्यनेन स्वस्वाम्यनर्न्याहकशेषताऽपि । समुच्यते चेतनवाचिना तु तत्किङ्करत्वैकफलत्वमेव ॥ १८॥ उपायार्थपरेणासावखण्डनमसोच्यते । उपायो हि मवाच्यस्य रवाच्यो राम एव सः ॥ १९॥ बीजेनैवाथ जीवस्य स्वरूपं प्रतिपाद्यते । रामायेति परस्यापि चतुर्थ्या तत्फलस्य च ॥ २०॥ उपायस्य त्वखण्डेन नमः खण्डेन चोच्यते । सखण्डेन मकारेण षष्ठ्यन्तेन विरोधिनः ॥ २१॥ तात्पर्यार्थो शेषवेदशास्त्राभिरुचिसंश्रयः । वाक्यार्थः प्राप्यसम्बन्धिस्वरूपाभिनिरूपणम् ॥ २२॥ तारकस्य प्राधानार्थस्वस्वरूपनिरूपणम् । सम्बन्धस्यानुसन्धानमनुसन्ध्यर्थ इष्यते ॥ २३॥

अथ मन्त्ररत्नरहस्यम्

उक्त्वेत्थं तारकार्थं तु द्वयार्थः प्रतिपाद्यते । विमत्सराः प्रपश्यन्तु प्रगृह्णन्त्ववयन्तु च ॥ २४॥ श्रीरामद्वयमन्त्रमद्भुततमं वाक्यद्वयं षट्पदम् । बाणाक्षिप्रमिताक्षरन्तु खलु विद्धि त्वं दशार्थान्वितम् ॥ २५॥ युक्तं तत्त्रिपदैस्तु तत्र सुमते पूर्वं शुभस्यास्पदम् । वाक्यं पञ्चदशाक्षरं तदनु दिग्वर्णात्मकं तूत्तरम् ॥ २६॥ सर्वाधीशेश्वरस्याप्तेहेतुरत्राभिधीयते । सीता पुरुषकारार्था श्रीत्यनेन पदेन तु ॥ २७॥ मता मुरुषकारस्य नित्यसम्बन्ध उच्यते । रामचन्द्रेति पदतो वात्सल्यादिगुणस्य च ॥ २८॥ चरणावित्यनेनैव वात्सल्यादिकसीतयोः । विलक्षणस्य दिव्यस्य विग्रहस्याश्रयस्य च ॥ २९॥ शरणेतिपदेनैवोपायस्तद्विग्रहो बुधैः । उपायाध्यवसायस्तु प्रपद्य इति वर्ण्यते ॥ ३१॥ प्राप्यं मिथुनमेवेति श्रीमते पदतो मतम् । रामचन्द्रेति पदतः स्वामित्वं प्रतिपाद्यते ॥ ३१॥ विभक्तयायेतिपदतः शेषवृत्तिर्महात्मभिः । विरोधिनो निरासस्तु नमः पदेन वर्ण्यते ॥ ३२॥ तात्पर्यार्थोऽस्य विज्ञेय आचार्यरुचिसंश्रयः । वाक्यार्थो मन्त्ररत्नस्य त्वथ निर्णीयते बुधैः ॥ ३३॥ प्राप्यप्रापकसम्बन्धस्वरूपाभिनिरूपणम् । प्रधानार्थस्तु तद्युग्मकैङ्कर्यस्य प्रधानता ॥ ३४॥ स्वदोषाभ्यनुसन्धानमनुसन्ध्यर्थ उच्यते । एवमेवानुसन्धेयं मोक्षकामैरहर्दिवम् ॥ ३५॥

अथ चरममन्त्ररहस्यम्

प्रोक्ता वत्सक! मन्त्ररत्नविवृतिः सन्मानसाभीष्टदं सद्वेद्यं सकृदित्यवेहि चरमं निर्णीतवाक्यार्थकम् । रामीयं हि तदीयमन्त्रनिरतैरुद्बोधनीयं परं द्वात्रिंशत्प्रमिताक्षरं मनुपदं द्वयर्द्ध जगद्विश्रुतम् ॥ ३६॥ अत्रोपायान्तरस्याथो निवृत्तिः प्रतिपाद्यते । सकृदित्येवकारेण तूपायनिरपेक्षता ॥ ३७॥ प्रपन्नायेतिपदतस्तूपायस्थानमुच्यते । उपायत्वं भगवतस्तवेति पदतस्तथा ॥ ३८॥ अस्मीत्यनेन चोपायस्वीकारः प्रतिपाद्यते । समाप्त्यर्थेति शब्देन तूपायानन्यतोच्यते ॥ ३९॥ चकारतोऽनुक्तसमुच्ययार्थतो निगद्यते त्वन्य उपाय आत्मवित् । उपायसंसेव्यधिकारिलक्षणं पदेन वै याचत इत्यनेन तु ॥ ४०॥ अथाभयमितिप्राप्तिप्रतिबन्धकवारणम् । सर्वभूतेभ्य इत्येव प्राप्यस्य प्रतिबन्धकम् ॥ ४१॥ ददामीतिपदेनाथोपायस्य सर्वशक्तिता । एतदित्येबपदतोऽसंशयत्वमितीर्य्यते ॥ ४२॥ व्रतमेतत्पदेनाथो तद्दाढर्यमभिधीयते । निर्भरत्वानुसन्धानं ममेतिप्रतिपाद्यते ॥ ४३॥ तात्पर्यार्थोऽस्य विज्ञेयः शरण्यरुचिसंश्रयः । तत्प्रापकस्वरूपस्य वाक्यार्थोऽथ निरूपणम् ॥ ४४॥ प्रधानार्थः परेशस्य स्वरूपस्य निरूपणम् । निर्भरत्वानुसन्धानमनुसन्ध्यर्थ उच्यते ॥ ४५॥ इति जगद्गुरु श्रीरामानन्दाचार्ययतिराजप्रणीते श्रीवैष्णवमताब्जभास्करे जप्यात्मक रहस्यत्रयनिरूपणात्मको द्वितीयप्रश्नोत्तराख्यो द्वितीयः परिच्छेदः ॥ २॥ Encoded and proofread by Mrityunjay Rajkumar Pandey
% Text title            : Japyatmaka Rahasyatrayanirupanam 
% File name             : japyAtmakarahasyatrayanirUpaNam.itx
% itxtitle              : japyAtmaka rahasyatrayanirUpaNam (rAmAnandAchAryayatirAjapraNIte)
% engtitle              : rahasyatraya agradevAchArya
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : rAmAnandAchArya
% Language              : Sanskrit/Hindi
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mrityunjay Rajkumar Pandey
% Description/comments  : Rahasya Traya means the three main mantra of any lineage which is given by Acharyas
% Indexextra            : (Scan)
% Latest update         : June 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org