श्रीअलखरामाचार्यकृता मानवसमीक्षा
सीतारामौ दयामूर्ती मारुतिं च महामतिम् ।
नमाम्याचार्यवर्यांश्च स्वस्य धर्मोपदेशकान् ॥ १॥
रामानन्दं नमस्कृत्य योगानन्दं गुरुं तथा ।
मानवानां समीक्षां हि कुर्वे सन्मार्गदर्शिनीम् ॥ २॥
परोपकरणं धर्मं सन्तः शंसन्ति सर्वदा ।
सुखमूलं तदेवास्ति विधातुश्चोपकारकम् ॥ ३॥
अधर्मश्चापकारो हि सदा सद्भिर्विगहितः ।
दुःखमूलं नरस्यात्र विधातुश्चापकारकः ॥ ४॥
अहम्भावं परित्यज्य स्वस्याहितान् जनानपि ।
सन्तः सदोपकुर्वन्ति विस्मृत्य स्वहिताहिते ॥ ५॥
विरक्तो हि गृही भूत्वा त्वारूढपतितो भवेत् ।
प्रायश्चित्तं निकृष्टस्य तस्य शास्त्रे न दृश्यते ॥ ६॥
उत्तमाः -
उत्तमाः स्वपरस्यापि चाहितस्य न कारकाः ।
स्वस्य तथा परस्येह मानवा हितकारकाः ॥ ७॥
अहिते सत्यपि स्वस्य पराहिताविधायकाः ।
जातेऽपि स्वाहिते तद्वत् परहितस्य कारकाः ॥ ८॥
मध्यमाः -
मध्यमाः स्वहितायेह परहितस्य कारकाः ।
स्वस्याहिताविधानाय परहितविधायकाः ॥ ९॥
तस्मै प्रयोजनायैव पराहिताविधायकाः ।
ये तेऽपि मध्यमा बोध्याः पुरुषाः पुरुषैरिह ॥ १०॥
अधमाः -
पराहितं तु कुयुर्ये स्वहिताय हि तेऽधमाः ।
स्वस्याहितं न चेत्तर्हि पराहितविधायकाः ॥ ११॥
अधमतमाः -
स्वस्याहितेऽपि ये लोकाः परस्याहितविधायकाः ।
सर्वेभ्यस्तेऽधमा बोध्याश्चैष साधुर्विनिर्णयः ॥ १२॥
श्रीअलखरामाचार्य द्वारपीठार्यनिर्मिता ।
मानवानां समीक्षेयं भूयात् सन्मार्गदर्शिका ॥ १३॥
इति श्रीअलखरामाचार्यकृता मानव-समीक्षा सम्पूर्णा ।
Encoded and proofread by Mrityunjay Pandey