राघवशिखरिणीरत्नमालास्तोत्रम्
पिता माता भ्राता गुरुरधिपतिर्बन्धुरपि वा
धनं मित्रं विद्याभरणमसवोदैवतमपि ।
त्वमेवाशेषं मे रघुकुलमणे ? त्वामिह विना
न जाने श्रीजाने शरणमिहमन्यत्त्रिभुवने ॥ १॥
अयोध्याधीशश्रीदयितदशकण्ठद्विपहरे
हरे मारीचारे दशरथमनोनन्दनविभो !
इति क्रोशन्तं मां कलय कलया राघव यया-
कयाचिद्वातन्व्या झटिति करुणायाः शिशिरया ॥ २॥
न युक्तं त्यक्तुं श्रीरघुवरपुराणीं तवसकृ-
न्नमद्रक्षादीक्षां निखिलनिगमान्तप्रकटिताम् ।
ममैकस्येदानीं कलुषमयमूर्तेरापेकृते
विचार्य्यैवं दीर्घं कुरुमयि कटाक्षाङ्कुरलवम् ॥ ३॥
भजन्तं त्वत्पादाम्बुरुहयुगलं मामशरणं
कटाक्षैः किं राम ? न सुखयसि कारुण्यशिशिरैः ।
सकृन्नम्रत्राणव्रतमवसिति नीतमथवा
त्वया किं मद्वृत्तं त्वरितमनुचिन्त्यागतभिया ॥ ४॥
भ्रमन्तं मज्जन्तं भवजलनिधौ पाररहिते
नितान्तं सीदन्तंविषयझषपादकवलितम् ।
भवन्तं क्रोशन्तं रघुकुलमणे हा इति कृपा
रसं तं काङ्क्षन्तं तव झटितिमामुद्धरहरे ॥ ५॥
असे ते मत्पापस्मृतिजनितनिश्वासनिकरैरलं
पश्चात्तापैर्नमदवन आवाह्यविरदम् ।
अलं साकेताधीश्वर मयि धनेर्ष्या प्रकटनै-
रलं कुर्वन्नेहि स्मितलवरुचाः साधुवदनम् ॥ ६॥
कठोरं पापानां गणमगणितं मा गणमये-
मयीर्ष्यां मुञ्चत्वं मनसि धृतिमङ्गीकुरु दृढम् ।
बलादेवाकर्षन् मदवनचरामाशु करुणां
प्रसादं वैदेहीरमण मयि दीने प्रकटय ॥ ७॥
अघानामुग्राणां जननभवनं भाविनममुं
जनं जानन् पूर्वं जलनिधितटे सर्वविदपि ।
नतानांसर्वेषामहमभयदोऽस्मि व्रतमिदं
ममेतित्वं धैर्य्यात् कथमुदितवान् राम गतभीः ॥ ८॥
मदन्यः पापीयान् त्रिजगति जनो नैव सुलभः
सदिष्ट्या लब्धोऽहं तव सदनुकम्पैकविषयः ।
इदानीमौदास्यं भजसि यदि हंसान्वयमणे !
गतिर्मेकावास्यात्कथय भवतः कीर्तिरपिका ॥ ९॥
क्व मे बुद्धिर्गच्छेत् रघुवर न जाने परमितः
तमेतं मात्रातुं तव समय एषोऽञ्जलिरिमम् ।
परं व्याजीकृत्य खरितमघजालान्यगणयन्
प्रसीद त्रैलोक्ये प्रतिभटमलभ्यं भज यशः ॥ १०॥
गजेन्द्रः प्रह्लादो दशमुखसगर्भ्यश्च विजय-
स्तथैवान्ये त्राता इति च भगवता ये सुकृतिनः ।
किमाश्चर्य तत्र त्रिभुवनपते ? मां रघुपते?
दुरात्मानं रक्षन् प्रकटयकृपामद्भुततमाम् ॥ ११॥
मदंहः सन्दोहं न लिखितुमलं लेखकशतैः
शतैः कल्पानां मां दमयितुमलं नान्तकशतम् ।
भवेयुर्मे मञ्चाः किशलयमयाः सर्वनरकाः
कटाक्षात्ते नान्या रघुतनय मन्निष्कृतिरतः ॥ १२॥
न गायत्री जप्ता विधिरपि च सन्ध्या न रचिता
नवातृप्तिन्नीता सुरवरपितृणां समुदया ।
गुरुणां शुश्रूषावहितमनसा जातु न कृता-
कुतः काकुत्स्थ त्वच्चरणकमलाराधनकथा ॥ १३॥
न दत्तं पात्रेभ्यो किमपिखरहन्तस्तवमुद्-
नजप्तं त्वन्नामक्षणमपि कदाचित्स्थिरधिया ।
भवद्दासानां वा पदनलिन सेवापि न कृता-
मया मोहावेशाद् भव विपिनमेवैवमटता ॥ १४॥
किमन्यद्वा ब्रूयां मदकृतमघं नास्ति भुवने-
ष्विदानीमप्येषो न विरमति पापाद्धतमतिः ।
अतः सर्वेश? त्वं मयि रघुपते यद्यकरुणो-
ममावसो भूयान्निरयचयमाचन्द्रमिहिरम् ॥ १५॥
प्रलापैरेतैः किं बहुभिरिह मे निश्चितमिदं
शृणुष्वैकं सत्यं शुभकरकटाक्षेण भवता ।
गृहीतो नाहं चेद्रघुकुलपते ? नूनमसृजे-
द्विधाता मां शङ्के नरकनिकरैकोत्सवकृते ॥ १६॥
क्षणाल्लोकाएॅन्न् स्रष्टुं प्रभवति भवान् दग्धुमपिवा
कृतर्माभुक्तं यदि भुवि न नश्येद्ध्रुवमिति ।
रघुश्रेष्ठस्वामिन् जनमिममहो मोहयसि किं-
क्वमोक्षे त्वां त्वं वा त्रिभुवनमयो यास्यासि कुत ॥ १७॥
स्व सङ्कल्पायत्तस्त्रिजगदुदयोल्लासशमनः
समस्तैकाधारस्त्वमसि सकलाम्नायपठितः ।
कियत्ते मत् त्राणं दिनमणिकुलैकाभरण ? किं
बलीयान् वा तस्मात्त्वदपि मम दुष्कर्ममहिमा ॥ १८॥
ददौ प्राणान् ग्राव्णे तवचरणपङ्केरुहरजः
कृतः सेतुः सिन्धावहह भवता ब्राह्मणशिशोः ।
मृतस्यासीस्त्वं श्रीरमण नवसञ्जीवनसुधा
न मामेकं त्रातुं कथमिह भवान् कोबलमलम् ॥ १९॥
शिलायाम्प्राणस्थापनन उदधौ सेतुकरणात्
सुरक्षाभृत्सारप्रमथपतिकोदण्डदलनात् ।
सभीके तत्तादृक् दशमुखमुखारातिदलनात्
तवायोध्यास्वामिन् मदवनमिदं किं गुरुतरम् ॥ २०॥
ध्रुवं दुःखोदर्काद्विषयसुखसेवा निरतमा-
भवत्येदं साक्षादपि हतमनो मुह्यति मुहुः ।
अवन्मायायैवं व्रतबलवती नर्तयति मां
खरारे सा हेला बत भवति हाला मम पुनः ॥ २१॥
भ्रमन्तः श्रूयन्ते घनविषयगम्भीरजलधौ
यया यादोरूपा विधिशिवमुखा मोहित धियः ।
अहं तां त्वन्मायां कथमिव तरिष्यामि कृपया
विना ते मूढात्मा नलिनदलशङ्काशनयन ॥ २२॥
हठादाकृष्यैवेन्द्रियकुलमिदं मानसमना-
रतं गाहं गाहं विषयगहनानिश्ववदहो ।
भ्रमत्येवं स्वैरं प्रबलतरमोहोत्कटतया
करिष्ये किं वाहं दशरथमहीपालतनय ? ॥ २३॥
दुरालापान् वक्तुं स्फुरति रसना नाम नहि ते
असारेसंसारे शुभममृतदानैकनिपुणम् ।
श्रुती दुष्टोदन्तश्रवणचपले तावककथा-
सुधासारैर्हर्तुं प्रचुरभवतापं न भवतः ॥ २४॥
दृशोर्द्वन्दं दुष्टं विषयमपि द्रष्टुं मृगयते-
नमूर्तिं भद्रान्ते रुचिरशरचापाङ्कितकराम् ।
वपुस्तावच्छीघ्रं परिचलति दुष्कर्म करणे
न ते कैङ्कर्य्येहा रघुरमण ? मज्जामि निरये ॥ २५॥
पतित्वा कामाग्नौ ज्वलतिमनएतच्छलभव-
द्विधत्तेत्वद्ध्यानामृतसरसिलीलां न झषवत् ।
स सीतस्यैवं ते भवति परिहासाय महते-
ममेदन्त्वन्मायामवुमहिममक्षस्यनटनम् ॥ २६॥
मनः कामक्रोधाद्यरिगणपराभूतमभवद्
हृषीकालीबद्धा विषयमयकारानिवसने ।
अहं मग्नोगाधप्रतिभयभवाधान्धुकहरे ?
हरे सीतानाथ ? त्रिजगदधिनाथावकृपया ॥ २७॥
भवल्लीलोद्यानं हृदयमभितो दह्यत इदं
ज्वलत्कामक्रोधात्मकदवशिखज्वालपटलैः ।
सुधाधारावारोस्तवनयनपद्माञ्चलपलात्
दयालोकाकारैः सभय समयेऽस्मिन्रघुपते ॥ २८॥
भवत्केलीयोग्या हृदयनलिनी क्षुभ्यत इयं
प्रकामं कामाद्याह्वयधनमदोन्मत्तकलभैः ।
स्वसानिध्यादेतान् प्रसभमभिनिर्भूयसहसा
तवेदं स्पष्टार्थं घटय रघुसिंह ? त्वमधुना ॥ २९॥
मदीया प्राचीना परिगणितर्कौमघजनितां
भवद्ज्ञानानन्दात्मकविमलमूर्ते जवनिकाम् ।
शरीराक्षार्थत्वेनच परिणतान्तां गुणमयीं
त्वदीयां माया मां रघुकुलपते तारय विभो ॥ ३०॥
कदर्य्यः कामात्मा कठिनहृदयकातरमतिः
मदासत्यास्त्रयाङ्कपटदुरहङ्कारजनिभूः ।
शठः क्रूरः पापी भवजलधिमेतं कटुरहम्-
कथं तीर्त्त्वा प्राप्स्ये तत्रचरणसेवां रघुपते ॥ ३१॥
मनः सूत्राङ्गृह्णन् भवसदसि तुल्य प्रतिमया
चिरादेवं मायामयजवनिकान्तिर्हततनुः ।
भवान् लीलाशीलो रघुकुलपते नाटयतिमां
कदा वा नाट्यान्ते मम तव पदाब्जाभ्युपगमः ॥ ३२॥
अरक्षन् रक्षन् वा दशवदनवैरिन्! मम गतिः
तवैवान्यान् देवान्हृदि न गणये जातु चिदपि ।
असौख्यं सौख्यं वा मम भवतु सर्वं त्वनुभवा-
भ्यकीर्तिः कीर्तिर्वा तव खलु न तस्मिन् वद प्रभो ॥ ३३॥
मुहुःक्रोशन् श्रान्तो दशमुखरिपो त्वामहमणु-
प्रमाण्यं कारुण्यं विलपति मयि त्वं न कुरुषे ।
अपारो घोरोऽयं पुनरहहसंसारजलधि-
र्विमूढः किङ्कुर्य्यां विषय निचयास्कन्दितमतिः ॥ ३४॥
ज्वलज् ज्वालामाले प्रविशतु जनोऽयं किमनले,
गिरेः शृङ्गातुङ्गात्पततुकिमधश्चूर्णिततनुः ।
शिरो वै तद्भित्वा किमिह शिलया सृञ्जि करतु
क्षमाकन्याप्राणेश्वर न कुरुषे हन्त करुणाम् ॥ ३५॥
समूलां किं वोत्पाटयतु जन एषोऽद्य रसनां,
शिलां कण्ठे बध्वा पततु किमगाधे जलनिधौ ।
मुहुःसोरस्ताडं तव किमथवा कन्दतु पुरो-
न मे शान्तिः सीतारमण तव कारुण्यविलयात् ॥ ३६॥
न जेतुं शक्नोमीन्द्रियसमुदयन्नापिमनसा,
स्थिरेण त्वां ध्यातुं मरकतमणीं मञ्जुलतनुम् ।
न कर्मानुष्ठातुं विधिवदपि भास्वत् कुलमणे
भवत्पादाम्भोजं शरणमभजं केवलमहम् ॥ ३७॥
न धर्मे नोकामे नव धनवये नैव जगती-
पतित्वे काङ्क्षामे भवतु भवितव्यं विधिवशात् ।
तथापि श्रीराम प्रतिजननमङ्गीकृत कृपः,
तत्र श्रीपादाब्जे दृढपरमभक्तिं वितर मे ॥ ३८॥
पशुत्वं पक्षित्वं तृणतरुलताश्मत्वमपिवा,
कृमित्वं वा रक्षोनरसुरपिशाचत्वमथवा ।
यदि स्याद्यद्यन्मे जननमपि सर्वत्र भवतु
त्वदीये पादाब्जे रघुकुलपते भक्तिरचला ॥ ३९॥
पृथिव्यां पाताले नभसि नरकेऽन्धे तमसिवा
वसामि स्वामिन् श्रीरघुरमणकर्मानुगुणतः ।
तदास्तां मत्प्राणोत्क्रमणसमये त्वत्करुणया,
त्वदङ्घ्य्रब्जद्वन्दस्मरणमनिरोधं भवतु मे ॥ ४०॥
कदा वा त्वां ध्यायन् नवजलधरश्यामलतनुं
शरद्राकाचन्द्रप्रतिभटमुखाम्भोरुहरुचिम् ।
वसानं कल्याणम्वरमचलविद्युच्छतनिभं
विमोक्षेऽहं देहं भुवनमुपरामेत्वनुलयम् ॥ ४१॥
असूनां चेतेषां गमनसमये राघव वदन्
मुहुर्मा भैरित्येष्यसि सरभसं मे परिसरम् ।
धनुर्घण्टाघोषः श्रवणपरिभूतान्तकभटाः
किरीटी क्वचित्त्वं कटिघटितजाम्बूनदपटः ॥ ४२॥
स्मरेयं क्वच्चित्त्वां दृढमहमिहेदं तनुलये
जपेयं क्वचित्ते कुशलवगुरोर्नाम शुभधीः ।
भजेयं क्वचित्ते जगदघपुनर्जन्मरहितो
भवेयं क्वचित्त्वत्पदकमलकैङ्कर्यशरणः ॥ ४३॥
स्वसन्नास्ते क्रोधात्स्फुरडशनदंष्ट्राधरपुटः
कठोरः कीनाशः स्मृतमदघकोटिर्यमभटाः ।
प्रतिक्षन्ते कालं धृतविविधघोरप्रहरणाः
मया धन्यस्तेऽहं तव पदसरोजे रघुपते ? ॥ ४४॥
मणिर्जीवश्चिह्नं प्रकृतिरसिको शावकगतिः
तमश्चाहङ्कारौ जलजधनुषी हृद्रथपदम् ।
गदा बुद्धिर्भूतानपि च वनमाला विषयिणः
शरस्त्वत्स्थं सर्वं त्वयि किमुथवास्त्वर्पणपदम् ॥ ४५॥
अवस्टभ्येष्वासं त्रिणतमहिराट् भोगसुभगं
दधानं संवर्तज्वलनशिखिमध्येन्दु विशिखम् ।
परं ज्योतिः पीताम्बरधरमपारोदितकृपं
पुरः प्रादुर्भूयान्मम किमपि देहान्तसमये ॥ ४६॥
सवामश्चापाङ्कः स च धृतशरःपाणिरितरो
मुखं तद्राजीवायतविपुलरक्तान्तनयनम् ।
स्मितः श्रीः सातन्वी चरणयुगलं तच्च मृदुलं
वपुस्तत्कल्याणं स्फुरतु मदसूड्डीनसमये ॥ ४७॥
असाकेताधीशैरदशरथभूभृद्रतिकरै-
रकौशल्यावत्सैरमरकतसङ्काशतनुभिः ।
अधानुष्कैरक्ष्मादुहितृवदनाम्भोजमिहिरै-
ररामाख्यैर्नस्तैरलमलमलं दैवतगणैः ॥ ४८॥
मदाभ्यां मत्तैतं मम कुलगुरुं मत्कुलधनं
मदिष्टं मद्भाग्यं मम परमविद्याँ मम गतिम् ।
मदीशं मच्चिन्तामणिमपि मदानन्दलहरीं
प्रपद्ये मज्जीवं रघुपतिपदाम्भोजयुगलम् ॥ ४९॥
त्वदेकं प्राप्यं मां त्वदितरनिहत्कण्ठहृदयं
त्वदन्यं त्वय्येवासितनिखिलाशापरिकरम् ।
त्वयि न्यस्तप्राणं तवचरणपद्मैकशरणं
तवस्वं त्वद्वासं रघुकुलपते मा त्यज विभो ? ॥ ५०॥
धनुर्वाणौ गृह्णन् करकिशलयाभ्यां तनुरुचा
तिरस्कुर्वन् सर्वं कुवलयवनीनां रुचिमिदम् ।
परिष्कुर्वन्वक्त्रं स्मितलवविलासेन मधुरं
कदा वा मत्स्वामी शरणिमनयोरेष्यसि दृशोः ॥ ५१॥
वहन्ती कोटीरं स्फुरदरुणकोटिप्रतिभरं
हसन्ती स्वाद्युत्या त्रिदशपतिनीलक्षितिधरम् ।
धरन्ती कोदण्डं करकमलयोर्बाणमपि ये
वसन्ती व्यक्तिः सा भवतु हृदये कापि मधुरा ॥ ५२॥
स्वभासामङ्कुरान्मृदुलनवदुर्वादलधिया
लिहद्भिर्गाधेयाध्वरभुविपरीतोमृगगणैः ।
शिखण्डी कोदण्डी धृतकनकदामैकवसनो
मनस्यस्मिन् भ्रात्रास्फुरतुरघुवंशार्भकमणिः ॥ ५३॥
शरज्ज्योत्स्नाश्लिटेस्फुटकुवलयालीसुरभिते
सिते गोदावर्य्या मृदुनि पुलिने सौम्यपवने ।
सुखासीनक्षोणीदुहितृतन शृङ्गारनिरतं
रघुश्रेष्ठं चेतः स्मरघनजटावल्कलधरम् ॥ ५४॥
मनश्च्चापल्येन भ्रमसि गगने दिक्ष्वटसित-
त्क्षणादुल्लङ्घ्याब्धीनपि विससि पातालकुहरम् ।
न जाने का सिद्धिमिह रघुपतेरङ्घ्रियुगलं
न किंस्वस्मिन्नेव स्मरसि परमानन्दनिलयम् ॥ ५५॥
त्यजत्वर्कोभानू निशितुहिनरोचिः परिहर-
त्वमुञ्ज्योत्स्नामुञ्चत्वमरशिखरीस्थैर्यमपि वा ।
क्षमावा क्ष्मादेवी विसृजतु मनस्ते दशमुख-
प्रहर्तुः पादाम्भोरुहविरहगन्धोऽप्यनुचितः ॥ ५६॥
वृथा कालो याति स्फुटितघटतो वारिविगल-
त्यनुश्वासं चायुर्गणयति कृतान्तो दिनगणम् ।
अये चेतः साधुस्वगतमखिलं कामपटलं
परित्यज्यायोध्यारमणचरणौ गच्छशरणम् ॥ ५७॥
प्रवालं प्रत्यग्रं श्रुतियुवतिसीमन्तपदवी-
लतायाः शान्तानां हृदयसरसीसारसमयम् ।
मुदालिङ्गत्सीताकुचकलशसङ्क्रान्तधुशृणं
कदा द्रक्ष्ये स्वामी तव रघुपतेः पादयुगलम् ॥ ५८॥
रसादालिङ्गत्यादरनलिनचक्रादिरुचिरा-
यदीयाजानक्या हरिणमदलिप्तेस्तनतटे ।
प्रकाशन्तेरेखा नवजलदलेखास्मरघना
तपस्याध्यब्जं तद्रघुकुलवरेण्यस्य मृगये ॥ ५९॥
जलक्रीडाचक्रे कमठपतिरब्धावहिपतिः
सुखं शिश्येशश्रान्ता शामतुलमवापुर्हरिदिभाः ।
धृते यत्पादाभ्यामखिलधरणीमण्डलभरे
मदक्षिद्वन्दं श्रीपदकिशलयं ते मृगयते ॥ ६०॥
न यज्ज्ञात्वा ज्ञेयं किमपि निगमे नो रसमयं
न यद्ध्यात्वाध्येयं किमपि हृदयेन्यत्सुखमयम् ।
न यत्प्राप्त्वा प्राप्यं किमपि परमं क्वापि मृगये
तदेवाहल्यादुष्कृतविदलनं पादनलिनम् ॥ ६१॥
अमूभ्यां नेत्राभ्यामपरिमितहर्षाश्रुतरलं
भुजाभ्यामप्याभ्यां बहुलकुतुकोत्कीर्णपुलकम् ।
परिरभ्योद्गाढं सफलयितुमेताजनिमहं
रजः पूताहल्ये चरणकमले एव मृगणे ॥ ६२॥
त्रयी राजीवाक्षी चिकुरनिकराकारजलधिः
स्फुरत्सीमान्ताकृत्युपमितमहासेतुजलधिः ।
अहल्यादेहालङ्करणपटवासद्युतिधराः
परागां यान्त्वास्मान् भवतिमिरकूपक्षयकृतः ॥ ६३॥
कदा वा कोटीन्दुद्युतिभरनिरासोद्यमधराः
अहल्याघं मिल्लस्थलललितमल्लीसुमनसः ।
नखद्युत्याधूताऽपरिमितमनोध्वान्तनिचयः
समग्रावग्राहं मम कवलयेयुर्नयनयोः ॥ ६४॥
विसृज्यायोध्यायद्वनभुवि चचारोपलचयैः
कुशैः कासैर्विध्यदधिकतरदारुण्यमभवत् ।
द्रवन्तं यन्मायाहरिणमनुदुद्राव मृगये
तदङ्घ्रिद्वन्दं श्रीकुचयुगपरिष्वक्तमसकृत् ॥ ६५॥
गजाः सिंहा व्याघ्रा मृगशशवराहा वनचरा
मयूराः कादम्बापिककवलखक्रौञ्चकुरराः ।
तथान्ये धन्या यैः शमितनयनावग्रहमहो@
महानीलश्यामं खररिपुः सदासेवितमभूत् ॥ ६६॥
तृणत्वं नासीन्मे किमपि सरयूरोधसि मनो-
रमारामे धिग् धिग् धिगिदमधमं मानववपुः ।
यदेवं कौशल्या तनयचरणाम्भोजयुगली-
परिरम्भानन्दप्रभवभवनं नेह भवति ॥ ६७॥
प्रणामं साष्टाङ्गं तृणतरुलताभ्योहि निरुतं
प्रभावेभ्यः कुर्यां विनयसरलं भक्तिबहुलम् ।
अरण्या भोगे यत् किशलयमयीं लक्ष्मणकृता-
मलञ्चक्रे शय्यां सहमहिलया रामशयनम् ॥ ६८॥
वनानां वन्यानामपितनुभृतां वा नदनदीं
गिरीन्द्राणां यादृक्छिकजननसाफल्यमभवत् ।
कटाक्षैः कल्याणैर्दुहिणहर मृग्यैर्धनकृपा-
रसासारैः पूताः अहह रघुनाथस्य यदि मे ॥ ६९॥
अहो भाग्यं तेषां निशिचरभटा ये जहुरसून्
रणाग्रे पश्यन्तः शरसुकलिताङ्गा रघुपतेः ।
ज्वलत्संवर्ताग्निप्रतिभटकटुक्रोधमपितत्
मुखं लोकैकासेचनमृदुलहासं प्रकृतितः ॥ ७२॥
अयोध्यायाः पत्युः सुरुचिरजगन्मोहनप्रिय
स्मृतः श्रीप्रासादं वदननलिनं चारुनयनम् ।
मुहुश्चुम्बत् धात्री दुहित्रीमुखवीटीरसलसत्
कपालं दृष्टं मे विधिरहहसाह्यं न कुरुते ॥ ७१॥
किमाभ्यां नेत्राभ्यां फलमिह रघूणामधिपते-
र्न पीता याभ्यां तद्वदनशशिसौन्दर्यलहरी ।
इमौ दोषौ दोषौ कमलदरचक्राङ्कलसितं
न याभ्यामाश्लिष्टं तव चरणराजीवयुगलम् ॥ ७२॥
दुराशं दुर्बुद्धिं दुरितकुनदीप्राविशमिमं
सुनिर्लज्जं धिङ्मां सकलजनहासोचितकृतिम ।
तितीर्षुर्बाहूभ्यामिव जलनिधिं हे रघुपते !
दिदृक्षे योऽहन्त्वां विधिशिवमुखध्यानविषयम् ॥ ७३॥
स्ववक्त्रेन्दूद्भूतं श्रवणविवरं ते तनुभृतां
शिवोवर्षन् काश्यां वसति सहगौर्य्या रघुपते !
पुनर्जन्मष्याधिप्रभवजननीगर्भशमनं
प्रचण्डप्रत्यूहं तव मधुरनामामृतरसम् ॥ ७४॥
क्व माधुर्य्याधिक्यं दधिघृतसितापायसमुधा-
मधुष्वाग्रद्राक्षापनसकदलीनां फलरसे ।
क्व काङ्क्षा कौशल्याहृदयजलधीन्दो मनसिचे-
दजस्त्रन्त्वनामस्मरणनवपीयूषलहरी ॥ ७५॥
तुरीयं षष्टं वा सरिधिपतिपञ्चममपि
द्वितीयं मन्यन्ते प्रथममिव सन्तो रघुपते ? ।
लिहन्तस्तन्नामामृतरसमजस्रं रसनया
पवित्रीकुर्वन्तः सुचरणरजोभिः क्षितितलम् ॥ ७६॥
अहल्या वेत्तित्वच्चरणरजसः शक्तिमतुलां
भवद्दास्यानन्दं निरवधिरुचिं लक्ष्मणमनः ।
शिवो वा वाल्मीकिर्भवदसमनामामृतरसं
धरित्रीकन्यैव त्वदधरमधूनां मधुरताम् ॥ ७७॥
हनुमान् वेत्तित्वच्छुभगणकथास्वादनरसं
भवत्पादत्राणाप्रतिममहिमानं च भरतः ।
गिरिर्भूमिशाला अपिभवदमोघां शुभगतिं
त्वदीयस्त्वन्माया सलिलनिधिपारंरघुपते ॥ ७८॥
त्वदंशो वेत्ति त्वत्पृथुलभुजसारं भृगुपति-
र्भवत्क्रोधाटोपं प्रलयशिखिरूपं जलनिधिः ।
जयन्तस्त्वत्क्षान्तिं परममपराधी जगति को
महात्मामाहात्म्यं ननु तवमनोवाक्सुविषयम् ॥ ७९॥
व्रतैः किं दानैः किमखिलनदस्नानादिकरणै-
र्जपैः किं होमैः किं किमथविविधाम्नायपठनैः ।
किमन्यैर्वाधर्माचरणघन मोहैर्हृदि न चेत्
परिष्वक्तं पादाम्बुरुहयुगलं ते रघुपते ? ॥ ८०॥
समन्विष्यज्ञानाञ्जनविषयदृष्ट्या श्रुतिखनीं
पुमर्थानां दाता मरकतमणिराघवमयः ।
स एको लब्धोमे गुरुभिरूपदिष्टः करुणया
मनः पेट्यामास्ते कथमथभवेद्दुर्गतिकथा ॥ ८१॥
पयोभिः प्रत्यग्रैर्दधिघृतसितादिव्यसुमनो-
रसैकस्तूरीभिः शुभपरिमलैश्चन्दनरसैः ।
सरय्वाःनीरेण सुशुचिरभिःसिञ्चामि मनसा
हृदाम्भोजानैकाभरणरघुवीराङ्घ्रिनलिनम् ॥ ८२॥
तडित् कोटीभासं तव कटितटे हाटकपटं
किरीटं केयूरं शिरसि भुजयोः कौस्तुभमणिम् ।
उरस्यर्काकारं श्रवणयुगले कुण्डलयुगं
विभो ! चेतः सिंहासनसमधिरूढस्य कलये ॥ ८३॥
गलेमुक्ताहारान् शशिकिरणसङ्काशमहसो-
नवोद्यद्वौरत्नद्युतितरलमाणिक्यतरलान् ।
कराम्भोजद्वन्दे कनकवलये राम कलये
त्वदीयाख्यामुद्रां नवमणिमपीरङ्गुलिषु ते ॥ ८४॥
मणिं मन्ये भानुं हिमकिरणमास्यं तनुमपि
श्रियः शम्पां वृष्टिं किमलमधुचिन्हं नवघनम् ।
उडन्मुक्तामालास्त्वदुर उरगारिध्वजनभो
विभान्त्यस्मिन्नेते युगपदिति चित्रं महदिदम् ॥ ८५॥
तडिद्वल्यानीलो घन इव तमालक्षितिरुहो
यथारूढः स्कन्धः कनकलतया नीलशिखरी ।
मयूखेनार्कस्योद्यत इव रघूणां परिवृढ़ो
हिरण्याकारेणोल्लसित उपनीतेन जयति ॥ ८६॥
अयं येन व्याप्तस्त्रिभुवनतटाको बलिमुखे
यतो जाता गङ्गा मधुहरशिरोभूषणमयम् ।
परागाणुर्यः कोप्यवरमनयद्यस्य चरतां
विमोसद् पादाब्जं कनककटकोद्भासिकलये ॥ ८७॥
दशाशामध्योज्जृम्भितपरिमलोदारमधुरः
स्रवन्माध्वीधारा प्रचुरतुलसीदामरुचिरः ।
नवारण्यावल्याभरण इव गारुत्मतगिरि-
र्मनोऽयोध्यामध्ये दशरथकुमारो विजयते ॥ ८८॥
दरोन्मीलन्मुग्धैः स्रवदतुलमाधुर्यमधुभिः
स्वसौरभ्याहूतभ्रमरनिनदाकान्तभुवनैः ।
वियद्रङ्गाजातैः कनककमलैभूषिततनु-
र्मनः श्रीवैकुण्ठे परमपुरुषोऽयं विजयते ॥ ८९॥
घनामोद्वयाप्त्या घुमघुमितविद्ध्यण्डकुहरे-
र्जपापुष्पच्छायैर्घसृणमसृणैश्चन्दनरसैः ।
यथा सिन्धुः सन्ध्याद्युतितिमिरलिप्तो रघुपतिः
पतिः ब्रह्माण्डानामधिवसतिहृत्पुष्पकमिदम् ॥ ९०॥
मुखं मुग्धस्निग्धाधरकिशलयोल्लासिमधुरं
स्मितां क्रूराकाराभिनवकलिकैकाभभरणम् ।
विभोर्धात्रीपुत्रीनयनकमलाह्लादजनकं
हृदेतत्कस्तूरीतिलकरुचिरचुम्बितमुहुः ॥ ९१॥
स्वतस्तेजोराशिहृदयपरमव्योम्नि यमिनां
वसन् सीताजानिः परिदलितहार्दान्धतमसः ।
यया विम्बत्रय्या भवति कृतिनीराजनविधिः
तयाप्राप्ताचण्डातपनिहितदीपप्रतिकृतिः ॥ ९२॥
प्रसूनान्याहृत्यार्चयितुमनिशं ? ते पदयुगे
सहस्त्रं हस्तानामभिलषति मे मानसमिदम् ।
सहस्रन्नेत्राणामपितवतनुं द्रष्टुममलां
सहसंवक्त्राणामपि रघुपते ? ते स्तुति विधौ ॥ ९३॥
अदन्कन्दं मूलं फलमपि चरन्पुण्यसरयू-
तटारण्याभोगे गतविषयरागो रघुपते ? ।
कदा वा त्वत्पादाम्बुरुहयुगली लीनहृदयः@
करिष्ये निःशेषं भुवनसमुदायं तृणमिव ॥ ९४॥
निरस्ते षड्वर्गे विषयिषुजितेष्वेषुसकले-
ष्वखण्डे वैराग्ये प्रबलतरभक्त्या कवलिते ।
प्रसन्ने हृद्यस्मिन् स्वयमुदितमूर्तौ रघुपते
कदास्यामश्रान्तं निरवधिकसन्तोषभरितः ॥ ९५॥
अकस्मादुन्मीलत्तरुणकरुणेनैवमनसा त्वया
व्यामोहन्तं द्रवितहृदयैः किं विलपितैः ।
प्रसादायोद्युक्ते भवति मम दोषैः किममितै-
रनुद्युक्ते किंवा मम गुणगणैर्हा रघुपते ॥ ९६॥
त्वमेवैकोपायो दशरथमुखाम्बोजतरणो
धरण्यामेज्ञातस्तरणिरिवदुःखाब्धितरणः ।
दवाग्न्युग्रज्वालावलयितनिकुञ्जालयमृगी-
शिरोरन्या का वा गतिरभिनवाभ्राद्वनभुवि ॥ ९७॥
रतिर्मे नो धर्मे विरतिरपि नाधर्मकरणात्
स्वभावोदुर्वारः खलु सकलसाधारणतया ।
नते ग्राह्यस्त्याज्यो न च चरपतित्वां व्यसनिनं
जनोऽयन्तद्विश्वम्भर रघुपते तेस्म्यतिभरः ॥ ९८॥
करे वामे चापं शरमपि दधानं तदितरे
मणीमौलिं मस्ते कनकमयवासः कटितटे ।
तडिच्छव्या देव्यां विकसदतसीसूनसदृशं
दृशोर्मेऽग्रेरूपं तव रघुपते भातु सततम् ॥ ९९॥
इति त्वत्प्रीत्यर्थं कपटनुति वाक्यं प्रलपितं
यथार्थत्वेनेदं प्रसभमुररीकृत्यकृपया ।
अनन्तागस्तोमं त्रिविधमपि मे त्वं परिहरन्
प्रसन्नश्रीसीतारमण भव गङ्गेव शरदि ॥ १००॥
कोदण्डकाण्डपरिमण्डितबाहुदण्डं
गारुत्मतादृकमनीयसुनीलकान्तिम् ।
कोटीरहारकनकाम्बरराजमानं
रूपं तवास्तु रघुवीर ? दृशोममाग्रे ॥ १०१॥
शोणाधरैः कमलगन्धिविशालनेत्रं
लोलालके कुटिलनीलमनोहरभ्रू ।
कुन्दप्रसूनरदनं मुखमुन्नसन्ते
मञ्जुस्मितं रघुकुलेन्द्र ? कदानु द्रक्ष्ये ॥ १०२॥
यः श्रीनिवास रघुनन्दनजानकीभ्यां
वाधूलगोत्र उद्भूत प्रणिधाय तेन ।
शेषार्य पादकमले हृदि राघवेण
श्रीशेर्पिता शिखरिणीमणिमालिकेयम् ॥ १०३॥
इति राघवशिखरिणीरत्नमालास्तोत्रं सम्पूर्णम् ।
श्रीसीतारामचन्द्रार्पणमस्तु ।
Encoded and proofread by Vishal Pandey