राजा सुप्रतीककृता रामस्तुतिः
सुप्रतीक उवाच ।
नमामि रामं नरनाथमच्युतं कविं पुराणं त्रिदशारिनाशनम् ।
शिवस्वरूपं प्रभवं महेश्वरं सदा प्रपन्नार्तिहरं धृतश्रियम् ॥ ३॥
भवान् सदा देव समस्ततेजसां करोषि तेजांसि समस्तरूपधृक् ।
क्षितौ भवान् पञ्चगुणस्तथा जले चतुःप्रकारस्त्रिविधोऽथ तेजसि ।
द्विधाऽथ वायौ वियति प्रतिष्ठितो भवान् हरे शब्दवपुः पुमानसि ॥ ४॥
भवान् शशी सूर्यहुताशनोऽसि त्वयि प्रलीनं जगदेतदुच्यते ।
भवत्प्रतिष्ठं रमते जगद्यतः स्तुतोऽसि रामेति जगत् प्रतिष्ठितम् ॥ ५॥
भवार्णवे दुःखतरोर्मिसङ्कुले तथाक्षमानग्रहणेऽतिभीषणे ।
न मज्जति त्वत्स्मरणप्लवो नरः स्मृतोऽसि रामेति तथा तपोवने ॥ ६॥
वेदेषु नष्टेषु भवांस्तथा हरे करोषि मात्स्यं वपुरात्मनः सदा ।
युगक्षये रञ्जितसर्वदिङ्मुखो भवांस्तथाग्निर्बहुरूपधृग् विभो ॥ ७॥
कौर्मं तथा ते वपुरास्थितः सदा युगे युगे माधव तोयमन्थने ।
न चान्यदस्तीति भवत्समं क्वचिज्जनार्दनाद्यः स्वयं भूतमुत्तमम् ॥ ८॥
त्वया ततं विश्वमिदं महात्मन् स्वकाखिलान् वेद दिशश्च सर्वाः ।
कथं त्वमाद्यं परमं तु धाम विहाय चान्यं शरणं व्रजामि ॥ ९॥
भवानेकः पूर्वमासीत् ततश्च त्वत्तो मही सलिलं वह्निरुच्चैः ।
वायुस्तथा खं च मनोऽपि बुद्धिश्चेतोगुणास्तत्प्रभवं च सर्वम् ॥ १०॥
त्वया ततं विश्वमिदं समस्तं सनातनस्त्वं पुरुषो मतो मे ।
समस्तविश्वेश्वर विश्वमूर्ते सहस्रबाहो जय देव देव ।
नमोऽस्तु रामाय महानुभाव ॥ ११॥
इति स्तुतो देववरः प्रसन्नः तदा राज्ञः सुप्रतीकस्य मूर्तिम् ।
सन्दर्शयामास ततोऽभ्युवाच वरं वृणीष्वेति च सुप्रतीकम् ॥ १२॥
एवं श्रुत्वा वचनं तस्य राजा ससम्भ्रमं देवदेवं प्रणम्य ।
उवाच देवेश्वर मे प्रयच्छ लयं यदास्ते परमं वपुस्ते ॥ १३॥
इतीरिते राजवरः क्षणेन लयं तथाऽगादसुरघ्नमूर्तौ ।
स्थितस्तस्मिन्नात्मभूतो विमुक्तः स भूमिपः कर्मकाण्डैरनेकैः ॥ १४॥
इति वराहपुराणे द्वादशाध्यायान्तर्गता राजा सुप्रतीककृता
श्रीरामस्तुतिः समाप्ता ।
वराहपुराण । अध्याय १२/३-१४॥
varAhapurANa . adhyAya 12/3-14..
Proofread by PSA Easwaran