श्रीमद्रामायणपठनोपक्रमोपसंहारक्रमः माध्व

श्रीमद्रामायणपठनोपक्रमोपसंहारक्रमः माध्व

॥ श्रीः॥

ध्यानमङ्गलश्लोकाः ।

(Dhyana Shloka to be recited before the commencement of Parayanam) ॥ माध्वसम्प्रदायः ॥ माध्वानां श्रीमद्रामायणपठनोपक्रमे अनुसन्धेयाः ध्यानश्लोकाः शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्ननोप शान्तये ॥ १॥ लक्ष्मीनारायणं वन्दे तद्भक्तप्रवरो हि यः । श्रीमदानन्दतीर्थाख्यो गुरुस्तं च नमाम्यहम् ॥ २॥ वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥ ३॥ सर्वविघ्नप्रणेमनं सर्वसिद्धिकरं परम् । सर्वजीवप्रणैतारं वन्दे विजयदं हरिम् ॥ ४॥ सर्वाभीष्टप्रदं रामं सर्वारिष्टनिवारकम् । जानकीजानिमनिशं वन्दे मद्गुरुवन्दितम् ॥ ५॥ अभ्रमं भङ्गरहितमजडं विमलं सदा । आनन्दतीर्थमतुलं भजे तापत्रयापहम् ॥ ६॥ भवति यदनुभावादेडमूकोऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः । सकलवचनचेतोदेवता भारती सा मम वचसि निधत्तां सन्निधिं मानसे च ॥ ७॥ मिथ्यासिद्धान्तदुर्ध्वान्तविध्वंसनविचक्षणः । जयतीर्थाख्यतरणिर्भासतां नो हृदम्बरे ॥ ८॥ चित्रैः पदैश्च गम्भीरैर्वाक्यैर्मानैरखण्डितैः । गुरुभावं व्यञ्जयन्ती भाति श्रीजयतीर्थवाक् ॥ ९॥ कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ १०॥ वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः । श‍ृण्वन् रामकथानादं को न याति परां गतिम् ॥ ११॥ यः पिबन् सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥ १२॥ गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ १३॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ १४॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ १५॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ १६॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ १७॥ यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ १८॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ॥ १९॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ २०॥ तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्घम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ २१॥ वैदेही सहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ २२॥ वन्दे वन्द्यं विधिभवमहेन्द्रादिवृन्दारकेन्द्रैः व्यक्तं व्याप्तं स्वगुणगणतो देशतः कालतश्च । धूतावद्यं सुखचितिमवैर्मङ्गलैर्युक्तमङ्गैः सानाथ्यं नो विदधदधिकं ब्रह्म नारायणाख्यम् ॥ २३॥ भूषारत्नं भुवनवलयस्याखिलाश्चर्यरत्नं लीलारत्नं जलधिदुहितुर्देवतामौलिरत्नम् । चिन्तारत्नं जगति भजतां सत्सरोजद्युरत्नं कौसल्याया लसतु मम हृन्मण्डले पुत्ररत्नम् ॥ २४॥ महाव्याकरणाम्भोधिमन्थमानसमन्दरम् । कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ॥ २५॥ मुख्यप्राणाय भीमाय नमो यस्य भुजान्तरम् । नानावीरसुवर्णानां निकषाश्मायितं बभौ ॥ २६॥ स्वान्तस्थानन्तशय्याय पूर्णज्ञानमहार्णवे । उत्तुङ्गवाक्तरङ्गाय मध्वदुग्धाब्धये नमः ॥ २७॥ वाल्मीकेगौः पुनीयान्नो महीधरपदाश्रया । यद्दुग्धमुपजीवन्ति कवयस्तर्णका इव ॥ २८॥ सूक्तिरत्नाकरे रम्ये मूलरामायणार्णवे । विहरन्तो महीयांसः प्रीयन्तां गुरवो मम ॥ २९॥ हयग्रीव हयग्रीव हयग्रीवेति यो वदेत् । तस्य निःसरते वाणी जह्नुकन्याप्रवाहवत् ॥ ३०॥ ॥ इति श्रीमद्रामायणपठनोपक्रमे अनुसन्धेयाः श्लोकाः समाप्ताः ॥

श्रीमद्रामायणपारायणसमापनक्रमः

॥ श्रीमद्रामायणपारायणसमापने अनुसन्धेयाः मङ्गलश्लोकाः ॥ स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ १॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥ २॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥ ३॥ मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥ ४॥ वेदवेदान्तवेद्याय मेघश्यामलमूर्तये । पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् ॥ ५॥ विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः । भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ ६॥ पितृभक्ताय सततं भ्रातृभिः सह सीतया । नन्दिताखिललोकाय रामभद्राय मङ्गलम् ॥ ७॥ त्यक्तसाकेतवासाय चित्रकूटविहारिणे । सेव्याय सर्वयमिनां धीरोदाराय मङ्गलम् ॥ ८॥ सौमित्रिणा च जानक्या चापबाणासिधारिणे । संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ ९॥ दण्डकारण्यवासाय खण्डितामरशत्रवे । गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥ १०॥ सादरं शबरीदत्तफलमूलाभिलाषिणे । सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मङ्गलम् ॥ ११॥ हनुमत्समवेताय हरीशाभीष्टदायिने । वालिप्रमथनायास्तु महाधीराय मङ्गलम् ॥ १२॥ श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे । जितराक्षसराजाय रणधीराय मङ्गलम् ॥ १३॥ आसाद्य नगरीं दिव्यां अभिषिक्ताय सीतया । राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ १४॥ मङ्गलाशासनपरैः मदाचार्यपुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १५॥ इति श्रीमद्रामायणपारायणसमापने अनुसन्धेयाः मङ्गलश्लोकाः समाप्ताः ॥ Encoded and proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Shlokas to be Recited (mAdhva sampradAya) during Study of Shrimad Ramayanam
% File name             : rAmAyaNapaThanopakramopasaMhArakramaHmAdhva.itx
% itxtitle              : rAmAyaNapaThanopakrame 3 mAdhvasampradAyasya anusandheyAH dhyAnamaNgalashlokAH 
% engtitle              : rAmAyaNapaThanopakramopasaMhArakramaH 3 mAdhvasampradAya
% Category              : raama, dhyAnam, mangala
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan
% Latest update         : January 21, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org