श्रीरामनवरत्नसारसङ्ग्रहः
अध्याय १
मङ्गलाचरणम् ।
मत्स्यः कूर्मो वराहो नरहरिरतुलो वामनो यामदग्निः
सभ्राता कंसशत्रुः करुणमयवपुः म्लेच्छविध्वंसनैकः ।
एते चान्येऽपि सर्वे तरणिकलभुवो यस्य जाताः कलांशैः
तं व्याप्तं ब्रह्मतेजो विमलसुखमयं रामचन्द्रं नमामि ॥ १॥
सर्वे लोकाः सशोभास्तदुपरि सुखमामूलरूपा त्वयोध्या
तस्यां रामः ससीतो विहरति सततं भृत्यसंवेष्टितश्च ।
अद्वैताखण्डरूपो विमलगुणमयो ब्रह्महर्षप्रयुक्तो
यं ध्यायन्त्येव नित्यं विधिहरिगिरिशाश्चापि सर्वे तथान्ये ॥ २॥
नित्यं नौमि गुरुं गणेश्वरमजं देवीं तथा भारतीं
शेषं चैव तथा शिवं कपिवरं व्यासं च कुम्भोद्भवम् ।
वाल्मीकिं च सुरर्षिमेव स शुकं तीर्थं सरय्वादिकं
साकेतादि पुराणिरामचरणः स्वान्तः पुरानन्ददम् ॥ ३॥
श्रीरामायणवेदशास्त्रगदितं तत्त्वं परं नाटके
यत्तन्त्रस्मृतिसंहितासु मुनिभिः सारं पुराणेष्वपि ।
श्रीरामस्य रसं विरिञ्चिहनुमद्व्यासादिभिः शम्भुना
नाम्ना गुम्फति भक्त रामचरणाख्यो मालिकां तन्मयीम् ॥ ४॥
भवाव्धि सन्तारकं रामनामं श्रीरामरूपं परतः परञ्च ।
श्रीरामधामं प्रकृतेः परं च सर्वान् परान् विद्धितदस्त्र सङ्घान् ॥ ५॥
अनेकशास्त्रं बहुवेदितव्यं स्वल्पश्च कालो बहुविघ्नयुक्तः ।
यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ ६॥
तत्र प्रमाणं महासारस्वते (एवं चन्द्रकीर्ति टीका)-
सामान्यशास्त्रतो नूनं विशेषो बलवान्भवेत् ।
परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ।
बहुव्यापकश्च सामान्यं अल्पव्यापकः विशेषः ॥ ७॥
बृहत् श्रीहनुमन्नाटके वाक्यं-
इदं शरीरं शतसन्धिजर्जरं पतत्यवश्यं परिणामदुर्वहम् ।
किमौषधं पृच्छसि मूढ्! दुर्मत्ते! निरामयं रामरसायनं पिब ॥ ८॥
महाशम्भुसंहितायां शिववाक्यं रामभक्तान् प्रति-
मुक्तिस्त्रीकर्णपूरौ मुनिहृदयवयः पक्षतीतीरभूमौ
संसारापारसिन्धोः कलिकलुषतमस्तोमसोमार्कबिम्बौ ।
उन्मीलत्पुण्यपुञ्जद्रुमललितदले लोचने च श्रुतीनां
कामं रामेति वर्णौ शमि हि कलयतां सन्ततं सज्जनानाम् ॥ ९॥
श्रीहनुमन्नाटके वाक्यं-
कल्याणानां निधानं कलिमलमथनं पावनं पावनानां
पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ १०॥
वाराहपुराणे शङ्कर वाक्यं पार्वतीं प्रति-
दैवाच्छूकरशावकेन निहतो म्लेच्छो जराजर्जरो
हारामेण हतोऽस्मि भूमि पतितो जल्पंस्तनुं त्यक्तवान् ।
तीर्णो गोष्पदवद्भवार्णवमहो नाम्नः प्रभावादहो
किं चित्रं यदि रामनाम रसिकास्ते यान्ति रामास्पदम् ॥ ११॥
पद्ममहापुराणे श्रीशिववाक्यं पार्वतीं प्रति-
ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् ।
तत्सर्वं सिद्ध्यति क्षिप्रं रामनामेति कीर्तनात् ॥ १२॥
भूतप्रेतपिशाचाश्च वेतालाश्चेटकादयः ।
कूष्माण्डाः राक्षसाः घोराः भैरवाः ब्रह्मराक्षसाः ।
श्रीरामनामग्रहणात् पलायन्ते दिशो दश ॥ १३॥
ब्रह्माण्डपुराण उत्तरखण्डे अध्यात्मरामायणे वालि वाक्यं श्रीरामं प्रति-
यन्नाम विवशो गृणन् म्रियमाण परं पदम् ।
याति साक्षात् त्वमेवासि मुमूर्षो मे पुरःस्थितम् ॥ १४॥
नृसिंहपुराणे श्रीप्रहलाद वाक्यं-
रामनाम जपतां कुतो भयं सर्वतापशमनैकभेषजम् ।
पश्य तात मम गात्रसन्निधौ पावकोऽपि सलिलायतेऽधुना ॥ १५॥
ब्रह्मयामलतन्त्रे ब्रह्मणो वाक्यं नारदं प्रति-
राम नाम सदा नन्दो राम नाम सदा गतिः ।
राम नाम सदा तुष्टो राम नाम स्वरूपकः ॥ १६॥
राम नाम परो वेदो राम नाम सदा शुचिः ।
राम नाम परो योगा राम नाम परो ध्वनिः ॥ १७॥
राम नाम परं बीजं राम नाम परं जगत् ।
राम नाम परो मन्त्रो राम नाम परा क्रिया ॥ १८॥
राम नाम परो यज्ञो राम नाम परो जपः ।
राम नाम परं सारं रामो लक्ष्मी समावृतः ॥ १९॥
स्कन्दपुराणे काशीखण्डे-
पेयं पेयं श्रवण पुटकै राम नामाभि रामं
ध्येयं ध्येयं मनसि सततं तारकं ब्रह्म रूपम् ।
जल्पन जल्पन प्रकृति विकृतौ प्राणिनां कर्णमूले ।
वीथ्यां वीथ्यामटति जटिलः कोपि काशी निवासी ॥ २०॥
सनत्कुमार संहितायां वेदव्यास वाक्यं युधिष्ठिरं प्रति-
श्रीरामेति परं जाप्यं तारकं ब्रह्म संज्ञकम् ।
ब्रह्महत्यादि पापघ्न मिति वेद विदो विदुः ॥ २१॥
श्रीराम रामेति जना ये जपति च सर्वदा ।
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥ २२॥
हिरण्यगर्भ संहितायां अगस्त्य वाक्यं सुतीक्ष्णं प्रति-
अभिरामेति यन्नाम कीर्तितं विवशैश्च यैः ।
तेपि ध्वस्ताखिलाघौघा यान्ति विष्णोः परम्पदम् ॥ २३॥
श्रीरामेति परं मन्त्रं तदेव परमं पदम् ।
तदेवतारकं विद्धि जन्म मृत्यु भयापह ॥ २४॥
श्रीरामेति वदन्ब्रह्म भावमाप्नोत्य संशयम् ।
तत्वविद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि ॥ २५॥
इति रामपदेनासौ परब्रह्माभिधीयते ॥ २६॥
अथर्ववेदे श्रीरामतापनीयोपनिषद-
रमन्ते योगिनोनन्ते सत्यानन्दे चिदात्मनि ।
इतिराम पदे नासौ परब्रह्माभिधीयते ॥ २७॥
ब्रह्माण्डपुराण उत्तरखण्डे वर्णित अध्यात्मरामायणे वसिष्ठ वाक्यं श्रीदशरथं प्रति-
यस्मिन् रमन्ते मुनयो विद्यया ज्ञान विप्लवे ।
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि ॥ २८॥
महाशम्भुसंहितायां श्रीरामचन्द्रं प्रति श्रीजानकी वाक्यम्-
प्रणवं केचिदाहुर्वै बीजं श्रेष्ठं तथा परे ।
तत्तु ते नाम वर्णाभ्यां सिद्धिमाप्नोति मे मतम् ॥ २९॥
रामेति नाममात्रस्य प्रभावमतिदुर्गमम् ।
मृगयन्ति तु तद्वेदाः कुतो मन्त्रस्य ते प्रभो ॥ ३०॥
श्रीमन्महारामायणे शिव वाक्यं पार्वतीं प्रति-
अंशांशै रामनाम्नश्च त्रयः सिद्धा भवन्ति हि ।
बीजमोङ्कारसोऽहं च सूत्रमुक्तमिति श्रुतिः ॥ ३१॥
परमेश्वरनामानि सन्त्यनेकानि पार्वति ।
परन्तु रामनामेदं सर्वेषामुत्तमोत्तमम् ॥ ३२॥
रामस्यैवरमुक्रीड़ा नाम्नोनान्यस्य जायते ।
जीवोत एव रामस्य स्मरणेनगतिं व्रजेत् ॥ ३३॥
वृहत्मनुस्मृतौ उत्तरार्धे-
सप्तकोटिमहामन्त्राश्चित्तविभ्रमकारकाः ।
एक एव परो मन्त्रः रामेत्यक्षरद्वयम् ॥ ३४॥
यन्नाम संसर्ग वशाद्दिवर्णो नष्ट स्वरौ मूनर्द्धि गतौ स्वाराणाम् ।
तद्राम पादौ हृदि सन्निधाय देहि कथं नोद्धर्व गतिं प्रयाति ॥ ३५॥
पद्ममहापुराणे शिव वाक्यं पार्वतीं प्रति-
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३६॥
श्रीवाल्मीकीय रामायणे रामाभिरामीय टीकायां ब्रह्मसंहिता (एवं श्रीरामकर्णामृतं श्लोक ९४)-
रामेति वर्णद्वयमादरेण सदा स्मरन्मुक्तिमुपैति जन्तुः ।
कलौ युगे कल्मषमानसानामन्यत्र धर्मे खलुनाधिकारः ॥ ३७॥
बृहद्धर्मपुराण वेदव्यास वचनं-
नाम्नोस्ति यावती शक्तिः पापनिर्हरणे हरेः ।
तावत्कर्तुं न शक्नोति पातकं पातकी जनः ॥ ३८॥
अथर्वणश्रुति-
यश्चाण्डालोऽपि रामेति वाचं वदेत् तेन सह ।
संवदेत् तेन सह संवसेत् तेन सह सम्भुञ्जीयात् ॥ ३९॥
श्रीमन्नरामचरितमानसे आरण्यकाण्डे नारद वाक्यं श्रीरामं प्रति-
राका रजनी भगति तव राम नाम सोइ सोम ।
अपर नाम उडगन बिमल बसहुँ भगत उर ब्योम ॥ ४०॥
इति श्रीरामनवरत्नसारसङ्ग्रहे श्रीरामनामसूक्ष्मवर्णनं नाम प्रथमं रत्नम् ॥ १॥
अध्याय २
नारदपाञ्चरात्रे सुदर्शनसंहितायाम्-
राघवस्य गुणो दिव्यो महाविष्णुः स्वरूपवान् ।
वासुदेवो घनीभूतस्तनुतेजः सदाशिवः ॥ १॥
मत्स्यश्च रामहृदयं तपो गुरुजनार्दनः ।
कूर्मश्चाधारशक्तिश्च वाराहो भुजयोर्बलम् ॥ २॥
नरसिंहो महाकोपो वामनः कटिमेखला ।
भार्गवो जङ्घयो जातो बलरामश्च पृष्ठतः ॥ ३॥
बौद्धश्च करुणा साक्षात् कल्किः चित्तस्य हर्षतः ।
कृष्णः शृङ्गाररूपश्च वृन्दावनविभूषणः ।
एतांश्चांशं कलाश्चैव रामस्तु भगवान् स्वयम् ॥ ४॥
नारदपाञ्चरात्रे भरद्वाजसंहितायाम्-
अवतारा बहवः सन्ति कस्याश्चांश विभूतयः ।
राम एव परं ब्रह्म सच्चिदानन्दमव्ययम् ॥ ५॥
सर्वेषामवताराणामवतारी रघूत्तमः ।
सरितां सर्व मध्येतु सरयू पावनी यथा ॥ ६॥
नारदपाञ्चरात्रे हनुमत्संहितायां हनुमद्वाक्यं महर्षि अगस्त्यं प्रति-
तुरीया जानकी प्रोक्ता तुरीयो रघुनन्दनः ।
उभयोरंशजा सर्वे चावताराह्यसङ्ख्यकाः ॥ ७॥
सर्वेषामवताराणामवतारी रघूत्तमः ।
श्रुतं दृष्टं मया सर्वं चिरायजीवानन्मुने ॥ ८॥
नारदपाञ्चरात्रे सनकसनातन संहितायां (एवं रामार्चनचन्द्रिकायाम्)-
चैत्रे मासि नवम्यां तु शुक्लपक्षे रघूत्तमः ।
प्रादुरासीत् पुरा ब्रह्मन् परब्रह्मैव केवलम् ॥ ९॥
अगस्त्यसंहितायां अगस्त्य वाक्यं सुतीक्ष्णं प्रति-
यथाह्यादिप्रदीपेन सर्वदीपप्रबोधनम् ।
तथा सर्वावताराणामवतारी रघूत्तमः ॥ १०॥
यथा सर्वावताराणामवतारी रघूत्तमः ।
तथा सर्वेषु तीर्थेषु पावनी सरयू सरित् ॥ ११॥
यावन्न जायते तस्याः स्नानपाननिषेवणम् ।
तावन्न जानकीनाथे प्राप्यते भक्तिरुत्तमा ॥ १२॥
अयोध्या च परं ब्रह्म सरयू सगुणः पुमान् ।
तन्निवासी जगन्नाथः सत्यं सत्यं वदाम्यहम् ॥ १३॥
सदाशिवसंहितायां सौमित्रि वाक्यं वेदान्प्रति-
सर्वसौभाग्यनिलयं सर्वानन्दैकनायकम् ।
कौशल्यानन्दनं रामं केवलं भवखण्डनम् ॥ १४॥
विश्वावसुचित्रकेतुचित्रसेनाद्युलूककैः ।
तुम्बुरैर्नरदाद्यैश्च शुकपिकसुकण्ठकैः ॥ १५॥
गीयमानं परं तत्त्वं श्रुतिजातिविशारदैः ।
अनन्तांशसमुद्भूतं मुनिनाक्षररूपिणा ॥ १६॥
सङ्गीयमानं विनयाद् वाल्मीकिनान्तरात्मना ।
मत्स्यकूर्मवराहैश्च नृसिंहहरिवामनैः ॥ १७॥
भार्गवहलिकंसारिबुद्धकल्किभिरुद्यतैः ।
उपास्यमानं देवेशं देवानां प्रवरं विभुम् ॥ १८॥
तत्र वागीश्वरी देवी माधवी प्रियवल्लभा ।
असिता च सिता चैव प्रकृतिर्गुणसम्भवा ॥ १९॥
उमादेवी महामाया श्रुतिजातिविशारदा ।
पद्महस्ता विशालाक्षी कमला हरिवल्लभा ॥ २०॥
सुरभी प्रेमदा नित्या वृन्दादेवी मनोरमा ।
चिदात्मकं सदाभासं नयनानन्ददायकम् ॥ २१॥
स्वकान्तं हृदयारामं रामं राजीवलोचनम् ।
निर्विकारं पृथुश्रोण्यो राघवं पर्युपासते ॥ २२॥
उर्वशी मेनका रम्भा राधा चन्द्रावली तथा ।
हेमा क्षेमावरारोहा पद्मगन्धाः सुलोचनाः ॥ २३॥
हंसिनी मालिनी पद्मा हरिणी मृगलोचनाः ।
रामस्य परिनृत्यन्ति गीतवादित्रमोहिताः ॥ २४॥
कर्पूराङ्गी विशालाक्षी शक्तिप्रियारसोत्सवा ।
चारुनेत्रा चारुगात्रा चार्वङ्गी चारुलोचना ॥ २५॥
गोपकन्यासहस्रैस्तु गोपवालैश्च तादृशैः ।
गोकुलैरावृतं सम्यक् पद्मशङ्खादिभिः सदा ॥ २६॥
अङ्गादिपरिसङ्कीर्णं आत्मादिशक्तिरञ्जितम् ।
वेष्टितं वासुदेवाद्यैः सेवितं हनुमदादिभिः ॥ २७॥
महासुन्दरीतन्त्रे श्रीजानकी वाक्यं जनकं प्रति-
मत्तो नारायणो विष्णुरात्मानं कतिधा सृजत् ।
तेषु तात विशिष्टा ये अवताराः हरेर्दश ॥ २८॥
द्वयं वनचरं ज्ञेयं द्वयं जलचरं तथा ।
क्षोणिपाश्च त्रयो ज्ञेया विप्रवंशोद्भवास्त्रयः ॥ २९॥
म्लेच्छादीनां निहन्तारो हरेरंशाः क्रमाद्दश ।
सात्त्विकीं राजसीमुग्रान्तामसीं योनिमाश्रिताः ॥ ३०॥
एते तु प्रभवः शौर्यवीर्यशक्तिसमन्विताः ।
सृष्टिस्थितिलयानां च कर्तारः प्रथिताः किल ॥ ३१॥
एतेभ्यः परतो नित्यः रामः सदसदात्मकः ।
रहस्यमेतद्गुह्यं ते कथितं प्रियकाम्यया ॥ ३२॥
श्रीजनक उवाच -
मत्स्याद्याः ईश्वराः प्रोक्तास्तेभ्यो रामः परः पुमान् ।
कथमेतद्विजानामि तव पुत्रि प्रसादतः ॥ ३३॥
जानकी उवाच-
विष्णोरद्भुत वीर्यस्य मत्स्य कूर्म कुलादिषु ।
अंशावतारास्ते सर्वे विना रामं रघूद्दहम् ॥ ३४॥
मच्छक्त्याप्रतिरुद्धानां मत्स्यादीनांहि पार्थिव ।
जन्म कार्यन्तरप्राप्ति स्वरूपं तेषु जायते ॥ ३५॥
सारभो योगिनी नक्रः नर्यो व्याधस्तथा बलः ।
कालः कलयतां तेषां तनभुक् प्रभुरव्ययः ॥ ३६॥
रामः कालात्मकः श्रीमान् सर्व भूत शरीर भुक् ।
इति विज्ञापितं तात यथायोग्यं तथा कुरु ॥ ३७॥
ब्रह्मणस्तुतिर्देव देवानामभयोह्यपि ।
न जीवकर्म वैषम्यं निमित्तं तात बुद्धयते ॥ ३८॥
राघवस्याप्रमेयस्य दृष्टा दृष्टं विजानतः ।
गतिं प्रद नरेन्द्रस्य सुप्रकाशस्य धीमतः ॥ ३९॥
अहन्तु वशगायस्य जगदानन्द कारिणी ।
पालयामिसृजाम्यद्य सर्व भूतानि हन्मिच ॥ ४०॥
लीलया मे जगत्सर्वं मनुग्रहाय हरस्य च ।
अन्ताय रक्षसां तात सोवतीर्णः स्वयं विभुः ॥ ४१॥
श्रीजनक उवाच-
पूर्वमुक्ता त्वयादेविविभूतिर्दिव्य रूपिणी ।
ज्ञातं ज्ञेयं मयायिस्यात् प्रसादात्तव सुव्रते ॥ ४२॥
श्रीजानकी उवाच-
महाशम्भुर्महाविष्णुर्महामाया जलेशया ।
महानहं कृतिर्विश्वं कारणानि च सर्वशः ॥ ४३॥
गुणत्रयं च प्रकृतिः सूर्येन्दु हव्य वाहनाः ।
ब्रह्माविष्णुश्च रुद्रश्च देवेन्द्रा ऋषयस्तथा ॥ ४४॥
स्थावरां जङ्गमाश्चैव ये चान्येभूत भावनाः ।
एतावत् कलायोगिन् मम रामः स्वयंहरिः ॥ ४५॥
हरेरंशावताराणां कृत्यमेतत् सुनिश्चितम् ।
न प्रवृत्ति निवृत्यत्वं पद्म पत्र मिवाम्भसा ॥ ४६॥
महाशम्भु संहितायां अगस्त्य वाक्यं सुतीक्ष्णं प्रति-
श्रीरामस्य कलांशाद्वै अवतारा भवन्तिहि ।
कोटिकोटिश्च कार्य्यार्थे सिन्धौ विचीव वै मुने ॥ ४७॥
सीता कलांशात्सख्यश्च शक्तयः सम्भवन्तिताः ।
यासां कलाकलांशेन जाता नार्य्यश्चश्र्यादयः ॥ ४८॥
श्रीराम मन्त्रस्यांशाश्च मन्त्राश्चान्ये भवन्तिहि ।
सनत्कुमार संहितायां वेद व्यास वाक्यं युधिष्ठिरं प्रति-
विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम् ।
श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि ॥ ५०॥
परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम् ।
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ५१॥
अशेषवेदात्मकमादिसंज्ञमजं हरिं विष्णुमनन्तमाद्यम् ।
अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥ ५२॥
रामं सत्यं परं ब्रह्म रामात्किञ्चिन्न विद्यते ।
तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥ ५३॥
नारदपाञ्चरात्र ब्रह्मसंहियायाम्-
पूर्णः पूर्णावतारश्च श्यामो रामो रघूद्वहः ।
अंशा नृसिंह कृष्णाद्या राघवो भगवान्स्वयम् ॥ ५४॥
श्रीमद् आदिरामायणे ब्रह्मणो वाक्यं नारदं प्रति-
हर्षिता राधिका तत्र जानक्यंश समुद्भवा ।
रामस्यांश समुद्भूतः कृष्णो भवति द्वापरे ॥ ५५॥
श्रीमन्नरामचरितमानसे मनुवाक्यम्-
सम्भु बिरञ्चि बिष्नु भगवाना ।
उपजहिं जासु अंस तें नाना ॥
सुनु सेवक सुरतरु सुरधेनू ।
बिधि हरि हर बन्दित पद रेनू ॥
जासु अंस उपजहिं गुनखानी ।
अगनित उमा रमा ब्रह्मानी ॥
भृकुटि बिलास जासु जग होई ।
राम बाम दिसि सीता सोई ॥
तत्रैव कुम्भकरण वाक्यं रावणं प्रति-
कीन्हेहु प्रभु बिरोध तेहि देवक ।
सिव बिरञ्चि हरि जाके सेवक ॥ ५६॥
इति श्रीरामनवरत्नसारसङ्ग्रहे श्रीरामरूपगुण-प्रताप सूक्ष्मवर्णनं नाम द्वितीय रत्नम् ॥ २॥
अध्याय ३
सोरठा
सब बैकुण्ठ सचेत, गोपुर बिच साकेत सुभ ।
ताके पर साकेत उभय अवध सान्तःपुरी ॥ १॥
सदाशिवसंहितायां सौमित्रि वाक्यं श्रुतिप्रति-
महर्लोकः क्षितेरूर्ध्वमेक कोटि प्रमाणतः ।
कोटि द्वयेन विख्यातो जनलोको व्यवस्थितः ॥ २॥
चतुष्कोटि प्रमाणस्तु तपो लोको विराजते ।
उपरिष्ठात्ततः सत्यमष्ट काटि प्रमाणतः ॥ ३॥
अतः प्रख्यातकौमारः कोटि षोड़श सम्भवः ।
तदूर्ध्वोपरि सङ्ख्यात उमालोकः सुनिष्ठितः ॥ ४॥
शिवलोकस्तदूर्ध्वन्तु प्रकृत्या च समागतः ।
विश्वस्य पुरतोवृत्तिः शिवस्य पुरतोवहिः ॥ ५॥
एतस्माद्वहिरावृत्तिः सप्तावरण संज्ञकः ।
सदाशिवसंहितायां अन्यच्च-
तदूर्ध्वं कोटि पञ्चाशत् क्रमाद्दश गुणात्परम् ॥ ६॥
भूमिरापोनलो वायुः खमहं च त्रिधापरम् ।
प्रकृतेर्महाञ्श्च मूलेन सप्तावरण संज्ञकाः ॥ ७॥
सदाशिवसंहितायां च-
तदूर्ध्वं सर्व सत्त्वानां कार्य कारण मानिनाम् ।
निलयं परमं दिव्यं महावैष्णव संज्ञकम् ॥ ८॥
सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात् ।
यन्निमेषा जगत्सर्वं लयीभूतं व्यवस्थितम् ॥ ९॥
उद्भवन्ति विनश्यन्ति कालज्ञान विडम्वनैः ।
यदंशेन समुद्भूता ब्रह्म विष्णु महेश्वराः ॥ १०॥
एतद्गुह्यं समास्थानं ददातु वाञ्छितहिनः ।
तदूर्ध्वन्तु परन्दिव्यं सत्य मन्यद्विवस्थितम् ॥ ११॥
न्यासिनां योगिनां स्थानं भगवद्भावनात्मनाम् ।
महाशम्भुर्मोदतेत्र सर्व शक्ति समन्वितः ॥ १२॥
तदूर्ध्वं तु परङ्कान्तं महा वैकुण्ठ संज्ञकम् ।
वासुदेवादयस्तत्र विहरन्ति स्वमायया ॥ १३॥
तदूर्ध्वन्तु स्वयम्भाति गोलोकः प्रकृते परः ।
वाङ्मनोगोचरातीतो ज्योतिरूपः सनातनः ॥ १४॥
तस्यमध्ये पुरं दिव्यम साकेतमिति संज्ञकम् ।
योषिद्रत्न मणिस्तम्भ प्रासादगण सेवितम् ॥ १५॥
तन्मध्ये परमोदारः कल्पवृक्षो वरप्रदः ।
तस्याधः परमन्दिव्यं रत्नमण्डप मुत्तमम् ॥ १६॥
तन्मध्ये वेदिकारम्या स्वर्णरत्न विनिर्मिता ।
तन्मध्ये च परं शुभ्रं रत्नं सिंहासनं शुभम् ॥ १७॥
सहस्त्रारं महापद्मं कर्णिकायुक्तमुत्तमम् ।
तन्मध्ये मुद्रिकाभिन्न मुद्राद्वाभ्यांविभिन्नकम् ॥॥ १८॥
वह्नीन्दुमण्डले चापि वेष्टितं विन्दु भूषितम् ।
चन्द्रकोटि प्रतीकाशं छत्रकं च सचामरम् ॥ १९॥
सदामृत घनश्रावि मुक्तादाम वितानकम् ।
तन्मध्ये जानकी देवी सर्वशक्ति नमस्कृता ॥ २०॥
तत्रास्ते भगवान् रामः सर्वदेवशिरोमणिः ।
तत्रादौ चिन्तयेत्तेजो वह्निरूपं सुशक्तिकम् ॥ २१॥
तेजसामहाताश्लिष्ट मानन्दैकाग्रमन्दिरम् ।
एकाग्रमनसा पश्येत्तत्रदेवं सुविग्रहम् ॥ २२॥
स्निग्ध मिन्दीवरश्यामं कोटीन्दु ललित द्युतिम् ।
चिद्रूपं परमोदारं वीरभद्रं रघूद्वहम् ॥ २३॥
द्विभुजं मधुरंशान्तं जानकी प्रेम विह्वलम् ।
दोर्दण्डचण्डकोदण्डं शरच्चन्द्रं महाभुजम् ॥ २४॥
सीतालिङ्गितबामाङ्कं कामरूपं रसोत्सुकम् ।
तरुणारुण सङ्काशं विकचाम्म्बुज पादकम् ॥ २५॥
नखचन्द्रं पदद्वन्द्वं प्रिय तेजः समावृतम् ।
कूर्मपृष्ठ पदाभासं रणन्मञ्जीर पादकम् ॥ २६॥
कटिसूत्राङ्कितं श्रीशं यज्ञ सूत्रै रलङ्कृतम् ।
रत्नकङ्कण केयूर शोभिताय भुज द्वयम् ॥ २७॥
चन्द्रकोटि प्रतीकाश कौस्तुभेन विराजितम् ।
दिव्यरत्न समायुक्त मुद्रिकाभिरलं कृतम् ॥ २८॥
नासिकांशक भागे न मुक्ताफल स्फुरन्मुखम् ।
सूर्यकोटिप्रतीकाश कुण्डलाढ्य श्रुतिद्वयम् ॥ २९॥
प्रवृत्तारुण सङ्काश किरीटेन विराजितम् ।
गोविन्दं गोविदां श्रेष्ठं चिन्मयानन्द विग्रहम् ॥ ३०॥
दिव्यायुध सुसम्पन्नं दिव्याभरणभूषितम् ।
अक्षरं केवलं ब्रह्म पीतकौशेय वाससम् ॥ ३१॥
शङ्ख चक्र गदापद्म चर्मासि हल मूसलैः ।
तद्रूपैर्विविधाकारैः सेव्यमानं परात्परम् ॥ ३२॥
वसिष्ठवामदेवादि मुनिभिः परिसेवितम् ।
लक्ष्मणं पश्चिमे भागे धृत छत्रं स चामरम् ॥ ३३॥
उभौ भरत शत्रुघ्नौ ताल वृन्त कराम्बुजौ ।
अग्रेऽव्यग्रं हनुमन्तं वाचयन्तं सुपुस्तकम् ॥ ३४॥
भानु कोटि प्रतीकाशं चन्द्रकोटि प्रमोदकम् ।
इन्द्र कोटि सदा मोदं वसु कोटि वसुप्रदम् ॥ ३५॥
विष्णुकोटि प्रतीपालं ब्रह्मकोटि विसर्जनम् ।
रुद्र कोटि प्रमन्द वै मातृ कोटि विनाशनम् ॥ ३६॥
कोटि भैरव संहारं मृत्यु कोटि विभक्षकम् ।
यमकोटि दुराधर्षं काल कोटि प्रधावकम् ॥ ३७॥
गन्धर्व कोटि सङ्गीतं गण कोटि गणेश्वरम् ।
कामकोटि कलानाथं दुर्गाकोटि विमोहनम् ॥ ३८॥
सर्व सौभाग्य निलयं सर्वानन्दैक दायकम् ।
कौशल्यानन्दनं रामं केवलं भव खण्डनम् ॥ ३९॥
सदाशिवसंहितायां सौमित्रि वाक्यं वेदान्प्रति-
सगुणं निर्गुणं चैव परमात्मा तथैव च ।
एतेचांशाहि रामस्य पूर्वे चान्ते च मध्यतः ॥ ४०॥
आदि ज्योतिर्महाशम्भुरात्मा पूर्णेन चाक्षरम् ।
तत्परो वासुदेवः स्यात् स्वयं ब्रह्म निरक्षरम् ॥ ४१॥
राघवस्य गुणोदिव्यो महाविष्णुः स्वरूपवान् ।
वासुदेवो घनीभूतस्तनु तेजो महाशिवः ॥ ४२॥
अन्यच्च सौमित्रि वाक्यं-
ब्रह्मैवात्मामनश्चैव देहश्च प्रकृतिस्तथा ।
घनीभूतं हरेस्तेजो ब्रह्मेति परि कथ्यते ॥ ४३॥
महासुन्दरी तन्त्रे द्वितीयाध्याये-
सृष्टिरग्रे परे धाम्नि संवादः समभूत किल ।
महाशम्भुर्महाविष्णुर्महामायेरिता पुनः ॥ ४४॥
महाशम्भुर्महामाया महाविष्णुश्च सक्रियः ।
कालेन समनुप्राप्त राघवम्परि चिन्तयन् ॥ ४५॥
तत्रैव महाशम्भु वाक्यं महाविष्णुं प्रति-
शृणु तात प्रवक्ष्यामि रामादद्भुत कर्मणः ।
अखण्ड ब्रह्मणो नित्याद्राघवान्नित्यविग्रहात् ॥ ४६॥
चिदानन्दात्परानन्दात्साकेत नगराधिपात् ।
सीतायाः परदेव्याश्चलीलामात्रमिदं जगत् ॥ ४७॥
इन्द्रनील मणि स्निग्धोरुचिराकृतिरव्ययः ।
द्विभुजावयवोदक्षः शरकोदण्ड मण्डितः ॥ ४८॥
इतिरामस्तु विग्रहवान् परं ब्रह्माभिधीयते ।
भुक्ति मुक्ति प्रसादार्थं साधकानां पुनः पुनः ॥ ४९॥
एवं ज्ञेया परानित्या सीता ब्रह्म सुविग्रहा ।
सर्व शक्तिमयी धात्री सर्वशक्ति परा तथा ॥ ५०॥
अनेकावयवैर्भिन्ना नित्य लीला सुविग्रहा ।
अनुग्रहार्थ मस्माकमेकं ब्रह्म द्विधागतम् ॥ ५१॥
रामः सीता जानकी रामचन्द्रो नाहुर्भेदंह्येतयोरस्तिकश्चित् ।
सन्तोमत्वा तत्वमेतद्विबुध्वापारं याताः संसृतेर्मृत्युकालात् ॥ ५२॥
ब्रह्माण्डानामसङ्ख्यानां ब्रह्म विष्णु हरात्मनाम् ।
उद्भवे प्रलये हेतुः राम एव इति श्रुतिः ॥ ५३॥
सृष्टिस्थित्यन्त करणे ब्रह्म विष्णु महेश्वरः ।
यस्यायुतायुतांशांशास् तदब्रह्मेत्यभिधीयते ॥ ५४॥
सहस्र-कोटयः सन्ति ब्रह्मण्डास्तिर्यगूर्ध्वगा ।
ब्रह्माणो हरयो रुद्रास्तत्र तत्र व्यवस्थिताः ॥ ५५॥
अजादि देव देवस्य श्रीरामस्य महात्मनः ।
अवतारा बहवः सन्ति कलाश्चांश विभूतयः ॥ ५६॥
अवतारैरसङ्ख्यातैः प्रधानैरभितस्तथा
सेव्यमानः परे रम्ये गुणावासे परं पदे ॥ ५७॥
महासुन्दरीतन्त्रे श्रीजनकौवाच-
कस्मिन्पीठे महादेवी नित्यं रामः प्रतिष्ठितः ।
पूर्णानन्दो घनश्यामो माया गुण विडम्बकः ॥ ५८॥
तत्रैव श्रीजानकीउवाच-
गोलोक संज्ञके नित्यसाकेत भवनोत्तमे ।
भ्रातृभिरनुजैर्भाति देव देवः सनातनः ॥ ५६॥
स्वप्रकाशते नित्यरूपो रामो माया दयात्मवान् ।
इन्द्रनीलमणि स्निग्धः श्यामसुन्दर विग्रहः ॥ ६०॥
भार्गवपुराणे नारायण वाक्ये नरं प्रति-
इममेव पुरा प्रश्नं वैकुण्ठनगरे हरिम् ।
सर्वेश्वरी जगन्माता पप्रच्छ कमलालया ॥ ६१॥।
त्रिपाद्विभूतौ वैकुण्ठे विरजायाः परे तटे ।
या देवानां पूरयोध्या ह्यमृतेनावृता पुरी ॥ ६२॥
श्रीमन्महारामायणे शङ्कर वाक्यं पार्वतीं प्रति-
गोलोकाच्च परं ज्ञेयं साकेतान्तः पुरं प्रिये ।
गोप्याद्गोप्य तरागोप्यासायोध्यातीव दुर्लभा ॥ ६३॥
पुंसामगोचरं स्थानं सखादास विवर्जितम् ।
महापुरुष रूपेण श्रीरामोहि विराजिते ॥ ६४॥
अनन्ताभिः सखीभिश्च सार्द्धंरामः स सीतया
स्वेच्छया कुरुतेरासं ताः कुजागात्र सम्भवाः ॥ ६५॥
सर्वाभरण सम्पन्नो रत्नौघैर्विविधैर्वरैः ।
मध्योवयः किशोरश्चानन्त रूपो रघूत्तमः ॥ ६६॥
किशोर्य्यः सकलासख्यो भूषिताश्चन्द्रिकादिभिः ।
जानकीरामरूपास्ता महाहूलादाभि संयुताः ॥ ६७॥
शृणष्वशुभगेमत्तो विस्तरेण कथाम्पराम् ।
राम रास समाविष्टां प्रवक्ष्ये त्वद्धितायवै ॥ ६८॥
हनुमत्संहितायां श्रीहनुद्वाक्यं अगस्त्यं प्रति-
पुंसामगोचरं स्थानं केवलं प्रेमदायकम् ।
नारी भावसंयुक्ता तेषां दृश्यं भवेद् ध्रुवम् ॥ ६९॥
गोलोकसाकेतसमावुभौ मुने कदापि भेदो नहि राघवस्य च ।
उभौ तु विश्रामनिवासधाम्नी परस्परावसदृशे विलासतः ॥ ७०॥
हिरण्यगर्भ संहितायां अगस्त्य वाक्यं सुतीक्ष्णं प्रति-
अद्वैतानन्द चैतन्यं शुद्धसत्वैक लक्षणम् ।
वहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ७१॥
श्रीराम गीतायां श्रीरामचन्द्र वाक्यं वसिष्ठं प्रति-
यथा सर्वेषु कुम्भेषु रबिरे कोपिदृश्यते ।
तथासर्वेषु भूतेषु चिन्तनीयोस्म्यहं सदा ॥ ७२॥
कश्यपस्मृतौ कश्यप वाक्यं श्रीरामं प्रति-
अवताराश्च ये तात त्वत्तः सर्वे भवन्ति ते ।
उदयाद्रेरिव प्राच्या मादित्यानां युगे युगे ॥ ७३॥
अथर्ववेद रामरहस्योपनिषद् उत्तरार्द्धे-
याऽयोध्या सा सर्ववैकुण्ठानामेव मूलाधारा प्रकृतेः परा तत्सद् ब्रह्ममयी ।
विरजोत्तरा दिव्यरत्नकोशाढ्या तस्या नित्यमेव श्रीसीतारामयोर्विहारस्थलमस्ति ॥ ७४॥
कृष्ण यजुर्वेदीय तैत्तिरीयारण्यक
दे॒वानां॒ पूर॑यो॒ध्या । तस्याꣳ'' हिरण्म॑यः को॒शः ।
स्व॒र्गो लो॒को ज्योति॒षाऽऽवृ॑तः । यो वै तां᳚ ब्रह्म॑णो वे॒द ।
अ॒मृते॑नाऽऽवृ॒तां पु॑रीम् । तस्मै᳚ ब्रह्म च'' ब्रह्मा॒ च ।
आ॒युः कीर्तिं'' प्र॒जान्द॑दुः । वि॒भ्राज॑माना॒ꣳ॒ हरि॑णीम् ।
य॒शसा'' सम्प॒रीवृ॑ताम् । पुरꣳ'' हिरण्म॑यीं ब्र॒ह्मा ॥ ७५॥
श्रीमन्नरामचरितमानसे श्रीरामचन्द्र वाक्यं-
जद्यपि सब बैकुण्ठ बखाना । वेद पुरान बिदित जगु जाना ।
अवधपुरी सम प्रिय नहिं सोऊ । यह प्रसङ्ग जानै कोउ कोऊ ॥ ७६॥
इति श्रीरामनवरत्नसारसङ्ग्रह पर रूप-धाम सूक्ष्म वर्णनं तृतीयं रत्नम् ॥ ३॥
अध्याय ४
धनुप बान असि चक्र दर गदा पद्म हल आदि ।
धनुप बान बर मोक्ष प्रद आयुध सकल अनादि ॥ १॥
यजुर्वेदे उत्तरार्द्ध एकोनत्रिंशत्तमेऽध्याये एकोन चत्वारिंशत्तमो मन्त्रः-
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो'' जयेम ।
धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो'' जयेम ॥ २॥
भाष्यः अस्य मन्त्रस्यार्थः । धन्वना, धनुषाङ्किता इति शेषः । अतस्तीव्राः पटवः परब्रह्मप्राप्तिप्रतिबन्धकीभूतपापनिरसने समर्थावयं समदः कामादिभिरनुष्ठितान् सङ्ग्रामान् जयेम ।
नन्विन्द्रियाणां विषयौन्मुख्ये कथं कामादिजयः इत्याकाङ्क्षामुच्यते । धन्वना धनुषा तदङ्कनप्रभावेणैवगाः इन्द्रियाणि जयेम ।
इन्द्रियजये न च प्रसङ्ख्यानाख्यावस्थालाभे धन्वना आजिं अजन्ति गच्छन्ति परब्रह्मगन्तारोऽस्मिन्निति आजिमार्गः तं जयेम । धनुरङ्कनप्रसन्नेश्वरप्रदर्शितया सुषुम्नया नाड्या बहिर्निष्क्रम्य अर्चिरादिमार्गेण परब्रह्म गच्छेमेत्यर्थः । नन्वनिर्लीनमायान्वयस्य कथमीश्वर प्रसत्तिरित्या शङ्कयाह । धनुः कर्तृ शत्रुभूतमनादिमायासम्बधस्य संसारपातनौन्मुख्यं अपकृणोति अपनयति नाशयति यद्वा तस्य मनोरथाभावं सम्पादयति ननु सत्सुसञ्चितादिकर्मसु कथं मायासम्बधस्य संसारपातनौर्मुख्य विनाश इत्याह । धन्वना धनुषा सर्वाः प्रदिशः सर्वदिग्वर्ति नानायोनिजन्मप्रदानसमर्थानि सर्वाणि कर्माणि जयेम नाशयाम इत्यर्थः ।
श्रीमद्वाल्मीकीये रामायणे किष्किन्धाकाण्डे-
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।
रामबाणासनक्षिप्तमावहत् परमां गतिम् ॥ ३॥
यो वै नित्यं धनुर्बाणाङ्कितो भवति । स पाप्मानं तरति । स संसारं तरति ।
स भगवदाश्रितो भवति । स भगवद्रूपो भवतीत्यथर्वणीया श्रुतिः ॥ ४॥
अगस्त्य संहितायां अगस्त्य वाक्यं सुतीक्ष्णं प्रति-
वामे करे धनुः कुर्याद्दक्षिणे बाणमेव च ।
सबिन्दुन्तिलकं कुर्यान् मुक्ति भागी मवेन्नरः ॥ ५॥
उभाभ्यामपिरेखाभ्यान्तिलकः परिकथ्यते ।
हरिपादस्थितं बिन्दुं पीतं च परिधार्यते ॥ ६॥
तिलकं रामरूपेण बिन्दुरूपेण भूमिजाम् ।
धृत्वा च राम भक्ताना मग्रगण्यो गुणाग्रणीः ॥ ७॥
भ्रुवोन्तादपि चारभ्य ललाटान्ते च धारयेत् ।
मनोहरं तथा मध्ये अन्तरं युग्ममङ्गुलम् ॥ ८॥
रामायुधाङ्कितं दृष्ट्वाशिरसाप्रणमेनुयः ।
षष्ठिवर्ष सहस्त्राणि ब्रह्मलोके महीयते ॥ ९॥
या गतियोर्गयुक्तानां मुनीनां बीतरागिनाम् ।
धनुर्बाणाङ्किते नैव सा गतिर्लभ्यते क्षणात् ॥ १०॥
बाहुमूले धनुर्बाणे नाङ्कितो राम किङ्करः ।
शतिलेनाथ तप्ते न तस्य मुक्तिर्न संशयः ॥ ११॥
शीतलाच्छतगुणम्प्रोक्तं तप्तस्य परिधारणे ।
अङ्कितास्सर्व कालेस्युश्चतुर्वणाश्रमादयः ॥ १२॥
चक्राच्छत गुणम्प्रोक्तं फलं बाणादि धारणे ।
सर्वेषां रामभक्तानां राम मुद्राभिधारणम् ॥ १३॥
नाङ्कितो चापबाणाभ्यां न मन्त्रोस्तिषडक्षरः ।
न नाम राम सम्बन्धि न रामोपासको भवेत् ॥ १४॥
मयावै प्रोच्यते पुत्र मुद्रामाहात्म्य मेव च ।
स्वगात्रे धारयेद्योपि स रामोपासको महान् ॥ १५॥
महाशिव संहितायां अगस्त्य वाक्यं सुतीक्ष्णं प्रति-
रामायुधाम्यां तप्ताभ्यां सीतायाः मुद्रयासह ।
अङ्किता ये महाप्राज्ञा नित्यमुक्ताश्च मुक्तिदाः ॥ १६॥
मुनेस्मिन्भारते वर्षे चाप बाणाङ्किता नराः ।
स्वपरं कुल साहस्रं तारयन्ति सुखेन वै ॥ १७॥
येषां कुलेतु एकोपि रामायुधयुतः सुधीः ।
तेपियान्ति परंलोकं यत्र योग मखादिभिः ॥ १८॥
चिरं गताहि नरके पूर्वजा यस्य कस्य वै ।
रामायुधाङ्किते वंशे तेपि यान्ति पराङ्गतिम् ॥ १९॥
या गतिर्योग युक्तानां नैष्ठिकानां च न्यासिनाम् ।
दुर्लभान्तां गतिं चैव प्राप्नोति धनुषाङ्कितः ॥ २०॥
धनुषाङ्कित बाहुभ्या मर्चनं देव पितृणाम् ।
तस्य ते पितृदेवाश्च गच्छन्ति परमं पदम् ॥ २१॥
धनुः शराङ्कितोमत्र्यो यद्यत्कुर्याच्छभम्मुने ।
तत्तच्छतगुणं याति विपरीततुनिष्फलम् ॥ २२॥
यस्य श्राद्धे च होमे च होतारो धनुषाङ्किताः ।
तस्यतेपितृदेवाश्च सुधां प्राश्नन्ति मोदिताः ॥ २३॥
येषु श्राद्धेषु होमेषु न कोपि धनुषाङ्कितः ।
तत्रपिण्डाहुतिर्याति निष्फलत्वं न संशयः ॥ २४॥
सीतायाः तप्तमुद्राञ्च श्रीरामस्यायुधेउभे ।
धारयन्भुवनं सद्यः पुनात्येव सुनिश्चितम् ॥ २५॥
ब्रह्माण्डपुराणे कौशलखण्डे श्रीराम गीतायाम्-
श्रीरामचन्द्र वाक्यं वसिष्ठ प्रति-
धनुर्वाणादि चिन्हानां धारिणं तिलकान्वितम् ।
तुलसीकाष्ठ मालाढ्यं तं जानीतु सु वैष्णवम् ॥ २६॥
पद्मपुराण सदाचार सङ्ग्रहे-
आद्यस्तु वैष्णवः प्रोक्तः शङ्ख चक्राङ्कितोहरेः ।
धारणं चोर्ध्वपुण्ड्रणां तन्मन्त्राणां परिग्रहः ॥ २७॥
अचर्नं जप ध्यानं च तत्पादोदकमेव च ।
तन्निवेदित भोज्यं च द्वादशी व्रत निष्ठितम् ॥ २८॥
तुलसीरोपणंविष्णोर्देव देवस्य शार्ङ्गिणः ।
भक्तिः षोड्शधाप्रोक्ताभवबन्ध विमुक्तये ॥ २९॥
सर्वेषामेव देवानां नमामि पुरुषोत्तमम् ।
पूजनीयोहरिर्नित्यं ब्राह्मणानां विशेषतः ॥ ३०॥
तस्माद्वै ब्राह्मणोनित्यं विधिवत्पूजयेद्धरिम् ।
तच्चिन्है रेकितः श्रीशपदं प्राप्नोत्य संशयः ॥ ३१॥
चक्रं वा शङ्ख चक्रं वा शार्ङ्ग चापं शरं तथा ।
हुताग्नि नैव सन्तप्तं सबै पाप विमुक्तये ॥ ३२॥
धारयित्वाच्च विधिवद्ब्रह्म कर्म समाचरेत् ॥ ३३
श्रीमन्महारामायणे शिव वाक्यं पार्वतीं प्रति-
ये जापकाभगवतश्च तपस्विनोये
पूजारताः श्रुतिरताश्च विरागयुक्ताः ।
ज्ञानार्णवास्तिलकदामधरा यशस्वि-
नस्तीर्थाटना शुभगुणाः शुभकर्मयुक्ताः ॥ ३४॥
सर्वैर्गुणैर्नियम संयमनित्ययुक्तो
निष्कल्मषः सकलसिद्धिकरश्चनित्यम् ।
योनाङ्कितो धनुश्शरैर्न च मन्त्र राज-
स्योपासको न सजनो रघुनन्दनस्य ॥ ३५॥
श्रीरामसंस्कारविवर्जिताये निष्पुच्छ शृङ्गापशवोनरास्ते ।
शक्तान वेदाअभिवर्णितं यन्त्वत्तोमयाख्यात मविस्तरेण ॥ ३६॥
अहं विधाता गरुड्ध्वजश्च रामस्यवाले समुपासकानाम् ।
गुणाननन्तां कथितुं न शक्ताः सर्वेषु भूतेष्वपि पावनास्ते ॥ ३७॥
इति श्रीरामनवरत्नसारसङ्ग्रहे श्रीरामायुध प्रभाव सूक्ष्मवर्णनं नाम चतुर्थं रत्नम् ॥ ४॥
अध्याय ५
जीव ब्रह्म सबमें रम्यों, रमु क्रीडा सो राम ।
राम उपासक बिनु न मिलु, निज स्वरूप परधाम ॥ १॥
तत्र प्रमाण माहवसिष्ठ संहितायाम्-
न श्रीराम व्रतादन्यद्व्रतं सर्वार्थ साधनम् ।
न रामाराधनादन्यो यज्ञो वेदोपि दृश्यते ॥ २॥
रामदास्यात्परो धर्मो यस्मिन्नन्यो निरूप्यते ।
शास्त्रं तन्म्लेक्ष बौद्धानां विश्वसेन्नविचक्षणः ॥ ३॥
महाशम्भु संहितायां अगस्त्य वाक्यं सुतीक्ष्णं प्रति-
कृपा च साधनं सिद्धिर्भक्ति श्रीमैथिली पतेः ।
अन्यत्व केवल श्रमं साधितं मत वादिभिः ॥ ४॥
शुद्धं द्वैत मत विद्धि सेव्य सेवक भावदम् ।
सामीप्यं च सुमुक्तिं च नित्यं गोलोक धामकम् ॥ ५॥
ज्ञान वैराग्य सन्तोषा क्षमाशीलादि कानि वै ।
तुलसी काष्ठ संयुक्ता विरेजू राम भावकाः ॥ ६॥
यज्ञोपवीतं धौतं च कौपीनाच्छादनं परम् ।
गृंह्णति धातु पात्रं वा तुंविकां राम सेवकाः ॥ ७॥
शृङ्गारं मैथिली कृत्यं श्रियं बिन्दुं च चन्द्रिकाम् ।
करोति रसिको नित्यं तिलकं तन्तु मन्यते ॥ ८॥
शील सन्तोष सत्यादि निष्कामार्जव लक्षणम् ।
भोज्यं महाप्रसादं च पानं पादोदकं सदा ॥ ९॥
दण्डवत्प्रोक्तमुभयं वन्दनं स्वामि दक्षिणे ।
गुरुं हरि समं मन्येत् सेव्यं चैव परिक्रमम् ॥ १०॥
अन्यच्च-
तुलसी माल तिलकं धनुर्वाणाङ्कितौ भुजौ ।
राममन्त्रश्च तन्नाम संस्काराः रामसेवके ॥ ११॥
अक्रोध वैराग्य जितेन्द्रियत्वं क्षमादया सर्वजन प्रियत्वम् ।
निर्लोभदाता भयशोकहर्ता भक्तस्यचिन्हानि दान्तराणि ॥ १२॥
एवं सर्व गुणैर्युक्तः हरिभक्तिपरायणः ।
बाह्याभ्यन्तर संशुद्धस्ततोयाति पराङ्गतिम् ॥ १३॥
पुनरपि महासदाशिव संहितायाम-
श्रीमन्नारायणस्यैव शिष्या ये कथिताः शुभाः ।
पूर्वोक्ता राममन्त्रस्य ये भूंवस्ते तथा भवन् ॥ १४॥
भविष्यन्ति कलौह्यन्ते प्राकृता मतवादिनः ।
मन्त्र नामानुचिन्हानि कल्पयिष्यन्ति मानिनः ॥ १५॥
यथा रात्रौ नार्क भासोदीप तेजः प्रशस्यते ।
आदिमूलाद्गतं भ्राष्ट्यमधोमूलं समाश्रिताः ॥ १६॥
स्पर्द्धयिष्यन्ति चान्योन्यं यथा मोहं गताबुधाः ।
यथा मतिस्तथागम्यं गमिष्यन्ति विधार्मिकाः ॥ १७॥
श्रीराम मन्त्रस्यांशानि मन्त्राण्यन्यानि विद्धि च ।
हनुमताचार्येणाहो रामधामसतां पदम् ॥ १८॥
श्रीजानक्याः पतिं सर्वे भजध्वं मङ्गलायनम् ।
राममन्त्रेणायुधाभ्यां युक्ताः शुशुभिरे भुवि ॥ १९॥
सुरगुर्वादि गुरवो राम मन्त्रस्य सेवकाः ।
श्रीगुरोर्मारुतेः शिष्यो सुग्रीवश्च कपीश्वरः ॥ २०॥
श्रीरामस्या युधौ तप्तौ राममन्त्रं व्यधारयत् ।
पद्माष्टा दश सङ्ख्याता स्वसैन्याश्च हनुमतः ॥ २१॥
दीक्षितास्तेन मन्त्रेण धनुर्वाणेन चाङ्किताः ।
हनुमच्छिष्यतां प्राप्तो महाराजो विभीषणः ॥ २२॥
रामायुधाभ्यां तप्ताभ्यामङ्कितश्च समुद्रया ।
तथा तस्य प्रजाः सर्वा चिन्हिता राम लाञ्छनैः ॥ २३॥
राजमार्ग मिमं बिद्धि रामोक्तं जानकी कृतम् ।
यदृते चान्य मार्गास्तु चौराणां बीथिका यथा ॥ २४॥
आद्याचार्यं हनुमन्तं त्यक्त्वाह्यन्य मुपासते ।
क्लिदयन्ति चैवते मुग्धा मूलहा पल्लवाश्रिताः ॥ २५॥
श्रीमैथिल्याश्च मन्त्रंहि श्रीगुरुं मारुतं महत् ।
सखी भावं दम्पतीष्टं भुक्ति मुक्ति प्रदं सदा ॥ २६॥
श्रीजानकी सम्प्रदायं राम रास मनन्यताम् ।
ऋते केपि न यास्यन्ति वाञ्छितं फल मेव च ॥ २७॥
श्रीरामस्यायुधौ तप्तौ जानकी मुद्रिकां विना ।
पारमेष्ठचं न प्राप्नोति ज्ञानादि साधनै रपि ॥ २८॥
रामायुधाङ्कितश्चैव तनुं त्यजति यः पुमान् ।
याम्याश्चपार्षदास्तत्र नमन्तिशिरसाहितम् ॥ २९॥
युग्म मन्त्रं च यो नित्यं धनुर्वाणौ च धारयेत् ।
स जानकीवल्लभस्य सामीप्यं सुखमृच्छति ॥ ३०॥
युग्म मन्त्रं विनानास्ति मन्त्रः कोपि सुखप्रदः ।
जानकीवल्लभोपास्तिं विनोपास्तिर्नवल्लभा ॥ ३१॥
हनुमत्परमाचार्यं विनाचार्यो न कोपि च ।
इति पद्धति निर्णीतं पूर्वोक्तं च मयोदितम् ॥ ३२॥
सदाशिव संहितायां सौमित्रि वाक्यं वेदान्प्रति-
सीताङ्कितो धनुर्वाणात् प्रथमं च महा शिवः ।
सीतयाचाङ्कितः पश्चाद्धनूमान्श्च हरि प्रियः ॥ ३३॥
महाशम्भुः शिवं प्राह स शिवो नारदं तथा ।
नारदश्चाह वाल्मीकिं वाल्मीकिश्च कुशीलवौ ॥ ३४॥
हनूमान्स्तु अगस्त्याय अगस्त्यश्च सुतीक्ष्णकम् ।
सुतीक्ष्णेन महाभागा चाङ्किता वहवो मुने ॥ ३५॥
भविष्यन्ति कलौ घोरे जीवाहरि वहिर्मुखाः ।
तेषामुद्धर्णार्थाय स्वरूपज्ञान हेतवे ॥ ३६॥
रामाज्ञया हनूमांश्च माध्वाचार्य प्रभाकरः ।
रामानन्दः स्वयं रामः प्रादुर्भूतो महीतले ॥ ३७॥
विनाचिन्हं धनुर्वाणं बिना मन्त्र षडक्षरम् ।
पूजांयश्च प्रकृर्वीत राघवो न प्रसीदति ॥ ३८॥
धर्मं दद्यात् धनं दद्यात् प्राणं दद्यात् यशस्तथा ।
ध्यान मन्त्रो न दातव्य ऋतेरामस्य संस्कृतिम् ॥ ३९॥
कल्पकोटि सहस्त्राणि कल्प कोटि शतानि च ।
पञ्चाङ्गोपासनेनैव रामे भक्तिः प्रजायते ॥ ४०॥
श्रीगोस्वामि वाक्यं दोहावली ग्रन्थे-
तुलसी रामहि छाडि के, करै और को जाप ।
ताके मुख में दीजिये, नवसादर को बाप ॥ ४१॥
श्रीअग्रदास कुण्डलिया छन्द-
भुस ऊपर को लेपनो अरु बारू की भीति ।
अरु बारू की भीति भूत की मनहु मिठाई ।
बाजीगर को बाग स्वप्न में नव निधि पाई ॥
अजयाअस्तन कण्ठ तुच्छ बादर की छाया ।
पूरब बस्तु बिसारि पछिम दिसि टूढ़न धाया ॥
आन उपासक राम बिनु अग्र सु वैसी रीति ।
भुस ऊपर को लेपनो अरु बारू की भीति ॥ ४२॥
इति श्रीरामनवरत्नसारसङ्ग्रहे उपासनालक्षणवर्णनं नाम पञ्चमं रत्नम् ॥ ५॥
अध्याय ५
परम पुरुष दशरथ सुवन चरित अमित श्रुतिसार ।
रामायण यक अक्षरौ कहत नास संसार ॥ १॥
कर्म योग वैराग्य दृढ ब्रह्म ज्ञान जप ध्यान ।
रामचरण नहिं राम मिल बिनु उपासना ज्ञान ॥ २॥
तत्र प्रमाणमाह वाल्मीकीये लव कुश वाक्ये-
वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।
वेदः प्राचेतसादासीत् साक्षात् रामायणात्मना ॥ ३॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥ ४॥
वाल्मीकीये अयोध्याकाण्डे-
सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः ।
श्रियः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा ॥ ५॥
दैवतं देवतानां च भूतानां भूतसत्तमः ।
तस्य के ह्यगुणा देवि देशे वाप्यथवावने ॥ ६॥
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ।
क्षिप्रं तिसृभिरेताभि सह रामोऽभिषेक्ष्यते ॥ ७॥
सुन्दरकाण्डे हनुमद्वाक्यं रावणं प्रति-
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिणेत्रस्त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥ ८॥
सुन्दरकाण्डे त्रिजटा वाक्यं (दक्षिणात्य पाठ)-
परं ब्रह्म परं तत्वं परं ज्ञानं परं तपः ।
परं बीजं परं क्षेत्रं परं कारण कारणम् ॥ ९॥
युद्धकाण्डेपि-
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।
योऽहं यस्य यतश्चाहं भगवान्स्तद्ब्रवीतु मे ॥ १०॥
स्कन्दपुराणे शिव वाक्यम्-
सकृदुच्चरितं ये न रामायण मनुत्तमम् ।
भस्मी भवन्ति पापौघा हृदिरामस्तु तद्रवात् ॥ ११॥
श्रीमद्रामायणस्यैव श्रवणात्कीर्तनाच्छिवे ।
सद्यः पुनन्ति वै सर्वे चिरकालं तथान्यतः ॥ १२॥
श्रीमन्महारामायणे शङ्कर वाक्यं पार्वतीं प्रति-
गुरु मन्त्रानुसारेण लयं ध्यानं जपं तथा ।
पाठं तीर्थं च संस्कार मिष्टं सर्वं परात्परम् ॥ १३॥
इष्ट पूजां प्रकुर्या द्वै तत्कथां शृणुयात्पठेत् ।
तन्देश व्यापकं विश्वं मन्येतसाप्युपासना ॥ १४॥
न विधिर्ननिषेधश्च प्रेमकुर्याद्रघूत्तमे ।
इन्द्रियाणामभावः स्यात्सोऽनन्योपासकः स्मृतः ॥ १५॥
ध्याने पाठे जपे होमे ज्ञाने योगे समाधिभिः ।
विनोपासनयामुक्तिर्नास्तिसत्यं ब्रवीमिते ॥ १६॥
यैः कृतं भक्तिविज्ञानमनन्योपासनंविना ।
न प्राप्तिर्भगवद्रूपे सत्यं सत्यं वदामिते ॥ १७॥
पद्मपुराणे शङ्कर वाक्यं पार्वतीं प्रति-
न तत्पुराणं नहि यत्र रामो यस्यां न रामो न व संहितासा ।
सनेतिहासो नहि यत्र रामः काव्यं न तत्स्यान्नहि यत्र रामः ॥ १८॥
शास्त्रं न तत्स्यान्नहि यत्र रामः तीर्थं न तद्यत्र न रामचन्द्रः ।
यागः सागो नहि यत्र रामो योगस्सरोगो नहि यत्र रामः ॥ १९॥
न सा सभा यत्र न रामचन्द्रः कालोप्यकालो कलिरेवसोस्ति ।
सङ्कीर्तते यत्र न रामदेवो विद्याप्यविद्या रहितात्वनेन ॥ २०॥
स्थानं न तद्यत्र न रामकीर्तिः श्रीरामनामा मृतशून्यमास्यम् ।
सर्पालयं प्रेत गृहं गृहं तद्यत्राच्र्यते नैव महेन्द्र पूज्यः ॥ २१॥
उक्ते न किं स्याद्दद्दनात विश्वं सर्वं मुधास्याद्यदि राम शून्यम् ।
तदेव सत्यं विहितं तदेव तदेव योग्यं रघुनाथ युक्तम् ॥ २२॥
सर्वेषां वेदसाराणां रहस्यन्ते प्रकाशितम् ।
एकोदेवो रामचन्द्रो व्रतमन्यं न तत्समम् ॥ २३॥
मन्त्रस्त्वेकरचतन्नाम शास्त्रं तद्धेवतत्स्तुतिः ।
तस्मात्सर्वात्मना रामचन्द्रं भज मनोहरम् ॥ २४॥
येषान्तु मानसं रामे लग्ने नेह मनोरमे ।
बञ्चिता बिधिनापापास्तेवै क्रूरतराश्चहि ॥ २५॥
रामं शृण्वन्ति सद्भक्तचा सम्भूताः कथयन्ति ये ।
श्रयन्ते च सुकथ्यन्ते देवैरिन्द्रादि भिस्तु ते ॥ २६॥
येषां रामः प्रियो नैव रामेन्यूनत्व दशिनाम् ।
द्रष्टव्यं न मुख तेषां सङ्गतिस्तु कुतस्तराम् ॥ २७॥
तत्र प्रमाण वाल्मीकीये अयोध्याकाण्डे-
यश्चरामं न पश्येत्तु यञ्च रामो न पश्यति ।
निन्दितस्सर्व लोकेषु स्वात्माप्येनं विगर्हते ॥ २८॥
अथ श्रीराम एश्वर्य प्रतापादि परिपूर्णं तत्र प्रमाण श्रुतिः-
ॐ भृगुर्वै वारुणिर्वरुणं पितरमुपससार अधीहि भो भगवो ब्रह्मेति सो व्रवीद्राम एव परब्रह्म रामादन्यं न किञ्चन यत्त एते रामादेवोत्पद्यन्ते राम एव विलीयन्ते राम एव स्थितिं लभन्ते तस्माद्राम एव विभुरिति ॥ २९॥
अथ् श्रीरामतापनीयोपनिषत्-
प्रकृत्या सहित श्यामः पतिवासा प्रभाकरः ।
द्विभुजः कुण्डलीरत्नमाली धीरो धनुर्धरः ॥ ३०॥
अथ वेदसारोपनिषद् उत्तरार्ध-
यस्यांशे नैव ब्रह्मविष्णु महेश्वरा अपिजाता महाविष्णुर्यस्य दिव्यगुणाश्च स एव कार्य कारणयोः परः परमपुरुषो रामो दाशरथिर्वभूव ॥ ३१॥
देही देह विभागो नस्यात् सच्चिदानन्द विग्रह इति श्रुतिः ॥ ३२॥
रामात् सञ्जायते कामः कामाद्विश्वं प्रजायते ।
तस्माद्धनुर्धरात्सर्वे द्विभुजामूलरूपिणः इति श्रुतिः ॥ ३३॥
नित्यो नित्यानां चेतनश्चेतनानामेकोबहूनांयो विदधाति कामान् इति श्रुतिः ॥ ३४॥
तत्र प्रमाणमाह आनन्दाख्य संहितायां -
स्थूलमष्ट भुजं प्रोक्तं सूक्ष्मं चैव चतुर्भुजम् ।
परन्तुद्विभुजं रूपं तस्मादेतत् त्रयंयजेत् ॥ ३५॥
अन्यच्च-
आनन्दो द्विविधः प्रोक्तोमूर्तश्चामूर्त एव च ।
अमूर्तस्याश्रयो मूर्तः परमात्मा नराकृतिः ॥ ३६॥
हरेस्तनुभाः ब्रह्मेति श्रुतिः ।
ब्रह्माण्डपुराणेपि-
सीतायाश्च त्रयोप्यंशाः श्रीभूलीलादि भेदतः ॥ ३७॥
श्री भवेद् रुक्मिणी भूः स्यात् सत्यभामा दृढ्व्रता ।
नीलास्याद् राधिका देवी सर्वलोकैक पूजिता ॥ ३८॥
जनकस्य राज्ञः सद्मानि सीतोत्पन्ना सा सर्वपरानन्दमूर्तिर्गायन्ति मुनयोऽपि देवाश्च कार्यकारणाभ्यामेव परा तथैव कार्यकारणार्थे शक्तिर्यस्याः विधात्रीश्रीगौरीणां सैवकर्त्री, रामानन्दस्वरूपिणी सैव जनकस्य योगफलमिव विभाति इत्यथर्वणे उत्तरार्द्धै श्रुतिः ॥ ३९॥
अथ श्रीराम नाम वर्णनम्-
तत्र प्रमाणमाह अगस्त्य संहितायाम्-
बहुधाराम मन्त्रोयं संस्कारान्नैव वाञ्छति ।
रसनास्प्टक्फलत्येव अग्निरसंस्कृतो यथा ॥ ४०॥
गुरुवक्तत्राद्राममन्त्रो यस्य कर्णे प्रवेशकृत् ।
शुद्धः स वैष्णवो ज्ञेयः वेदास्सर्वे वदन्तिहि ॥ ४१॥
अगस्त्य संहितायाम्-
सर्वेषु मन्त्र वर्गेषु श्रेष्ठं वैष्णवमुच्यते ।
गाणपत्येषु शैवेषु शाक्त सौरेष्वभीष्टदम् ॥ ४२॥
वैष्णवेष्वपि मन्त्रेषु राममन्त्राः फलाधिकाः ।
विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैवहि ॥ ४३॥
विनैवन्यास विधिना जपमात्रेण सिद्धिदाः ।
मन्त्रराजैतिप्रोक्तः सर्वेषामुत्तमोत्तमः ॥ ४४॥
दैन्यं दिनन्तु दुरितं पक्ष मासर्तुवर्षजम् ।
सर्वन्दहति निश्शेषं तूलाचल मिवानलः ॥ ४५॥
ब्रह्महत्या सहस्त्राणि ज्ञानाज्ञान कृतानि च ।
स्वर्णस्तेय सुरापान गुरुतल्यायुतानि च ॥ ४६॥
कोटि कोटि सहस्त्राणिद्युपापानि यान्यपि ।
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ४७॥
श्रीरामतापनीये-
य एतत् तारकं ब्राह्मणोनित्यमधीते सपाप्मानं तरति स मृत्युं तरति सभ्रूणहत्यां तरति स सर्व हत्यां तरति स संसारन्तरति स विमुक्ताश्रितोभवति सो मृतत्वञ्च गच्छतीति श्रुतिः ॥ ४८॥
प्रणवं केवलमाकारो काराकार मर्द्ध मात्रा सहितं तस्मात्प्रणवस्य चाकारस्य चोकारस्य च मकारस्य चार्द्ध मात्रस्य च इति श्रुतिः ॥ ४९॥
आकारः प्रथमाक्षरोभवति उकारो द्वितीयाक्षरोभवति मकारस्तृतीयाक्षरोभवति अर्द्धमात्रा चतुर्थाक्षरोभवति विन्दुः पञ्चमाक्षरोभवति नादः षष्ठाक्षरो भवति तारकत्वात्तारको भवति तदेवतारकं ब्रह्मत्वं विद्धातिश्रुतिः ॥ ५०॥
अकाराक्षरसम्भूतः सौमित्रिर्विश्वभावनः ।
उकाराक्षर सम्भूतः शत्रुघ्न्नस्तैजसात्मकः ॥ ५१॥
प्राज्ञात्मकस्तु भरतो मकाराक्षर सम्भवः ।
अर्द्धमात्रात्कोरामो ब्रह्मानन्दैक विग्रहः ॥ ५२॥
तत्र प्रमाण श्रीमन्महारामायणे शिव वाक्यं पार्वतीं प्रति-
निश्चलं मानसं कृत्वा सावधानाश्शृणुप्रिये ।
गुह्याद्गुह्म तरं तत्त्वं वक्ष्येमृतमयं मुदा ॥ ५३॥
रामनाम महा विद्ये षडभिर्वस्तुभिरावृतम् ।
ब्रह्मजीव महानादै स्तृभिरन्यद्वद्यामिते ॥ ५४॥
स्वरेणविन्दुना चैव दिव्यया माययापि च ।
प्रथकृत्वेना विभोगन साम्प्रतं शृणु पार्वति ॥ ५५॥
परब्रह्म मयो रेफो जीवोकारश्च मस्ययः ।
रस्याकारमयोनादः रायादीर्घास्वरामता ॥ ५६॥
मकारंव्यञ्जनंविन्दु र्हेतुः प्रणवमाययोः ।
अर्द्धभागादुकारस्या दकारान्नाद रूपिणः ॥ ५७॥
रकार गुरु राकारस्तथा वर्ण विपर्जयः ।
मकारं व्यञ्जनं चैव प्रणवञ्चाभिधीयते ॥ ५८॥
मस्या सवर्णिन्तमत्वा प्रणवे नाद रूप धृक ।
अन्तर्भूतोभवेद्रेफः प्रणवे सिद्धि रूपिणी ॥ ५९॥
रामनाम्नः समुत्पन्नः प्रणवामोक्ष दायकः ।
रूपं तत्वमसेश्चासौ वेदतत्वाधिकारिणः ॥ ६०॥
रकारस्तद पदो ज्ञेयस्त्वं पदोकारौच्यते ।
मकारो सिपदं खञ्जं तत्वमसि सुलोचने ॥ ६१॥
ब्रह्मेति तत्पदं विद्धित्वम्पदं जीव निर्मलः ।
ईश्वरोसिपदम्प्रोक्तं ततो माया प्रवर्तते ॥ ६२॥
वेद सारं महावाक्यं यत्तत्वमसि कथ्यते ।
रामनाम्नश्चतत्सर्वं रमुक्रीडा प्रवर्तते ॥ ६३॥
विज्ञानस्थो रकारस्यादकारो रामरूपकः ।
मकारः परमाभक्ती रमुक्रीडोच्यतेततः ॥ ६४॥
चिद्वाचकोरकास्यात्सद्वाच्याकार उच्यते ।
मकारानन्दकं वाच्यं सच्चिदानन्द मव्ययम् ॥ ६५॥
व्यजनाच्चक्षरोत्पत्ती रकाराद्ब्रह्म चाक्षरम् ।
रेफो निरक्षरं ब्रह्म सर्व व्यापी निरञ्जनः ॥ ६६॥
इच्छाभूतोक्षरस्तस्य चाक्षरस्तेज उच्यते ।
निरक्षरो घनस्तेजो वर्तते जानकीपतेः ॥ ६७॥
स्वयं निरक्षरातीतो राम एव इति श्रुतिः ।
ब्रह्मज्ञान निमग्ना ये भजन्ति सनकादयः ॥ ६८॥
रकारोनलवीजंस्यात् ये सर्वे वाड्वादयः ।
कृत्वामनोमलंसर्वं भस्म कर्म शुभाशुभम् ॥ ६९॥
अकारो भानुवीजंस्यात् वेद शास्त्र प्रकाशकः ।
नाशयत्येव सद्दीप्त्या या विद्याहृदये तमः ॥ ७०॥
मकारश्चन्द्र वीजं च सद्दीप्ति परि पूरणम् ।
त्रितापंहरते नित्यं शीतलत्वं करोति च ॥ ७१॥
रकरोमूद्धि सञ्चारस्त्रिकुट्याकार उच्यते ।
मकारोधर्रयोर्मध्ये लोमेलोमे प्रतिष्ठितः ॥ ७२॥
रकारो योगिनां ध्येयो गच्छन्ति परमं पदम् ।
अकारो ज्ञानिनां ध्येयस्तेसर्वे मोक्षरूपिणः ॥ ७३॥
पूर्णनाम मुदादासा ध्यायन्त्यचल मानसाः ।
प्राप्नुवन्ति परां भक्तिं श्रीरामस्य समीपकम् ॥ ७४॥
नारायणादि नामानि कीर्तितानि बहून्यपि ।
सम्यग्भ गवतस्तेषु रामनाम प्रकाशकम् ॥ ७५॥
अन्यच्च -
पठित सकल वेदः शास्त्रपारङ्गतोवा
यमनियमपरोवा धर्म शास्त्रार्थकृद्वा ।
अपितु सकलतीर्थ व्राजको वाहिताग्नि-
र्नहि हृदियदि रामः सर्वमेतद्दृथास्यात् ॥ ७६॥
नाराधितो यदिहरिस्तपसा ततः किम्
आराधितो यदिहरिस्तपसा ततः किम् ।
नान्तर्वहिर्यादि हरिस्तपसा ततः किम्
अन्तर्वहिर्यादि हरिस्तपसा ततः किम् ॥ ७७॥
सत्योपाख्याने सूत वाक्यं-
लोकेभवतुचाश्चर्यं जलाज्जन्म घृतस्य च ।
सिकतायाश्चतैलं तु यत्नैर्यातु कथञ्चन ॥ ७८॥
विनाभक्तिं न मुक्तिश्च भुजमुत्थाय चोच्यते ।
यूयन्धन्या महाभागा येषां प्रीतिस्तु राघवे ॥ ७९॥
अथ ब्रह्मणो वाक्यम्-
अहोयक्षत सत्रं परिदधासि वसिष्ठत्वं पुरोधासि त्वामेव ब्रह्मोद्धवं परि पश्यन्तुधीराः अनन्यमनसा चिन्तयन्तुदेवाः स्वर्गेषुयज्ञाया प्यायतां धियः कौशिके न समग्रं प्रविलीयतां देवाः विरसि चारुरसि तूर्यं मङ्गलायतां एष ब्राह्मणोवसिष्ठः अस्य प्रयोजनाय यज्ञाय भानुवंश्य कृतोद्भवः आचरणाय कर्मणोस्य अप्रमेयानि कर्माणि नाहं वभूव एषस्तु ज्ञेयः सनीचैस्तन्नोगृह्णातिकाले काले मङ्गलाय परिपूर्णाद्ब्रह्मलोकादिहागतः पूज्यमानाः सन्तु आपः सुमनस्य मनोभवः देवर्षयः गच्छन्तु पुरे मङ्गलमास्तात् चिन्मयोः सम्मेलनं विधिः सङ्गीयताम् ॥ ८०॥
दे॒वानां॒ पूर॑यो॒ध्या । तस्याꣳ'' हिरण्म॑यः को॒शः ।
स्व॒र्गो लो॒को ज्योति॒षाऽऽवृ॑तः । यो वै तां᳚ ब्रह्म॑णो वे॒द ।
अ॒मृते॑नाऽऽवृ॒तां पु॑रीम् । तस्मै᳚ ब्रह्म च'' ब्रह्मा॒ च ।
आ॒युः कीर्तिं'' प्र॒जान्द॑दुः इति सामवेदे तैत्तरीया श्रुतिः ॥ ८१॥
पद्मपुराणे शिव वाक्यम्-
विष्णोः पादमवन्तिकां गुणवतीं मध्ये च काञ्चीम्पुरीं
नाभौ द्वारवतीं तथा च हृदये मायापुरीं पुण्यदाम् ।
ग्रीवामूल मुदाहरन्ति मथुरां नासाग्र वाराणसी
मेतद्ब्रह्मपदंवदन्ति मुनयोऽयोध्यापुरीं मस्तके ॥ ८२॥
मथुराद्याः सर्व पुर्योद्ययोध्यापुर दासिकाः ।
अयोध्यामेव सेवन्ते प्रलये प्रलयेपि च ॥ ८३॥
अयोध्यावासिनस्सर्वे जगन्नाथस्यमूर्तयः ।
ईश्वरेणपुरा प्रोक्तं पार्वत्यै च कदाचन ॥ ८४॥
सरयू तमसयोर्मध्ये धवलग्राममन्तरे ।
अमरामरणमिच्छन्ति का कथा इतरेजनाः ॥ ८५॥
मन्वन्तरसहस्त्रेषु काशी वासे न यत्फलम् ।
तत्फलं समवाप्नोति सरयू दर्शने कृते ॥ ८६॥
प्रयागेयो नरोगत्वा माघानां द्वादशं वसेत् ।
तत्फलादधिकं प्रोक्तं सरयू दर्शने कृते ॥ ८७॥
मथुरायां कल्पमेकं वसते मानवो यदि ।
तत्फलादधिकं प्रोक्तं सरयू दर्शने कृते ॥ ८८॥
गयाश्राद्धे न यत्पुण्यं पुरुषोत्तम दर्शने ।
तत्फलादधिकं प्रोक्तं सरयू दर्शने कृते ॥ ८९॥
पुष्करेषु नरो याति कार्तिक्यां कृत्तिकायुते ।
तत्फलादधिकं प्रोक्तं सरयू दर्शने कृते ॥ ९०॥
वस्तव्यं सरयू तीरे नीरेणोदर पूरणम् ।
कदाचित्प्राप्यते शाकं का कथा पाकशासने ॥ ९१॥
तत्र प्रमाणमाह श्रुतिः-
प्रवाह रूपेण भवतिनाम्ना सरयू अहमेवात्र मनसा ।
जलरूपेण चतर्युगे च सरयू कलौगङ्गा वसिष्ठजा ॥ ९२॥
पाद्मे-
षष्ठिवर्ष सहस्त्राणि काशी वाले न यत्फलम् ।
तत्फलं निमिषार्द्धण कलौ दाशरथेः पुरी ॥ ९३॥
अन्यच्च-
यस्यां भाति प्रमोदकाननवरं रामस्यलालीस्पदम्
यत्र श्रीसरितांवरा च सरयू रत्नाचलः शोभते ।
ध्येया ब्रह्म महेश विष्णुमुनिभिर्यानन्ददा सर्वदा
सायोध्यापरमात्मनो विजयतेधाम्नां परामुक्तिदा ॥ ९४॥
पद -
तब तजि अवधपुरी रहिये ॥ टेक ॥
रामरूप हिय राम नाम मुख कर सेवा गहिये
मज्जन पान सदा सरय को समदुख सुख सहिये ।
जहँ तहँ रामचरित सुनिये नितसहज सुखहिं लहिये
श्रीरामचरण रघुबीर कृपाते कछु फलनहिं चहिये ॥ ९५॥
इति श्रीरामनवरत्नसारसङ्ग्रहे श्रीरामलीलारूपनामधाम सर्वोपरि वर्णन्ननाम षष्ठंरत्नम् ॥ ६॥
अध्याय ७
दोहा-
सुत कलत्र धन धाम तन, मान सुजस जगबन्ध ।
रामचरन यह सात में, नेह करहिं ते अन्ध ॥ १॥
तत्र प्रमाण माह अध्यात्म्ये-
यथामेघ वितानस्था विद्युल्लेखाति चञ्चला ।
आयुरप्यग्नि सन्तप्त लोहस्थ जल विन्दुवत् ॥ २॥
आरण्य काण्डे सुतीक्ष्ण वाक्यम्-
मामद्य सर्व जगता मविगोचरस्त्वम्
त्वन्मायया सुत कलत्र गृहान्ध कूपे ।
मग्नं निरीक्ष्य मल मुदगल पिण्ड मोह
पाशानुवद्ध हृदयं स्वयमागतोसि ॥ ३॥
किष्किन्धाकाण्डे श्रीरामचन्द्र वाक्यं तारां प्रति-
मिथ्यारोपितसंसारो न स्वयं विनिवर्तते ।
विषयान्ध्यायमानस्य स्वप्नेमिथ्यागमोयथा ॥ ४॥
स्वयम्प्रभोवाच-
अदर्शनं भवार्णानां सन्मार्ग परिदर्शनम् ।
धन पुत्र कलत्रादि विभूति परिदर्पितः ॥ ५॥
अकिञ्चन धनन्त्वाद्य नाभि धातुं जनोर्हति ।
निवृत्ति गुण मार्गाय निःकिंष्चनधनायते ॥ ६॥
तत्र प्रमाण श्रीमद्भागवते-
रायः कलत्रं पशवः सुतादया गृहामही कुञ्जर कोश भूतधः ।
सर्वेर्थ कामाः क्षणभङ्गुरायुषः कुर्वन्ति मत्र्त्यस्यकियत् प्रियं चलाः ॥ ७॥
संसार कूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहि नात्मानं कोन्यस्त्रातुमिहेश्वरः ॥ ८॥
तत्र प्रमाण भर्तृहरौ-
धन्यानाङ्गिरि कन्दरेषुवसतां ज्योतिः परं ध्याव्रता-
मानन्दाश्रु कणान्पिवन्ति शकुनाः निश्शङ्कमङ्के शयाः ।
अस्माकन्तु मनोरथो परचिते प्रासादवापीतटे
क्रीडा कानन केलि कौतुक युषामायुः परङ्क्षीयते ॥ ९॥
भोगेरोग भयं कुलेच्युतिमयं वित्तेनृपालाद्भयं
माने दैन्यमयं वलेरिपु भयं रूपे जराया भयम् ।
शास्त्रवादि भयं गुणेनतिभयङ्काये कृतान्ताद्भयं
सर्ववस्तु भयावहं भुविनृणां वैराग्यमेवाभयम् ॥ १०॥
आसानामनदीमनोरथ जला तृष्णा तरङ्गाकुला
रागग्राहवती वितर्क विहगा धैर्य्यद्रुम ध्वंशिनी ।
मोहावर्त सुदुस्तराति गहनाप्रोतुगं चिन्तातटी
तस्याः पारगताविशुद्धमनसोनन्दन्तियोगीश्वराः ॥ ११॥
कौपीनं शतखण्ड जर्जरतरं कन्थापुनस्तादृशी
नैश्चित्यं निरपेक्ष भैक्षमसनं निद्रास्मशाने वने ।
स्वातन्त्रेन निरङ्कुशं विहरणं स्वान्तं प्रशान्तंसदा
स्थैर्यंयोगमिदम्भवेद्यदितदा त्रैलोक्यराज्येनकिम् ॥ १२॥
अन्यच्च-
आसायाश्चैव येदासास्ते दासाजगतामपि ।
आसान्दासीकृतायेन तस्यदासायते जगत् ॥ १३॥
प्रतिष्ठाशूकरीविष्ठा गौरवं शुद्ध रौरवम् ।
अतिमानं सुरापानं त्रयन्त्यक्त्वा सुखीनरः ॥ १४॥
पतङ्गमातङ्ग कुरङ्ग भृङ्गा मीनाहतापञ्चभिरेवपञ्च ।
एकः प्रमादसिकथन्नहन्यतेयः सेवितेपञ्चभिरेवपञ्च ॥ १५॥
इति वैराग्य वर्णनं
अथ साधु लक्षणं वर्ण्यते-
तत्र प्रमाणमाह महारामायणे शिव वाक्यं, पार्वतीं प्रति-
मुग्धे शृणुष्वमनुजोपि सहस्त्र मध्ये
धर्मव्रतीभवति सर्व समान शीलः ।
तेष्वेव कोटिषु भवेद्विषये विरक्तः
सद्ज्ञानको भवति कोटि विरक्तमध्ये ॥ १६॥
ज्ञानीषु कोटिषु नृजीवनकोपि मुक्तः
कश्चित्सहस्त्र नरजीवन मुक्तमध्ये ।
विज्ञानरूप विमलोत्पथधर्म लीन
स्तेष्वेव कोटिषुसकृत् खलुराम भक्तः ॥ १७॥
वाह्यान्तरं शृणु तथा गिरिराज कन्ये
त्वत्तोवदामिंरघुनाथ जनस्यमुख्यम् ।
अन्यद्विहायसकलं सदसच्चकार्य्यम्
श्रीरामपङ्कजपदं सततं स्मरन्ति ॥ १८॥
श्रीरामनाम रसनाग्रपठन्तिभक्त्या
प्रेम्नाच गदगदगिरोप्यथ हृष्टलोमाः ।
सीतायुतं रघुपतिं च किशोर मूर्तिम्
पश्यः त्यहर्निशि मुदा परमेणरम्यम् ॥ १९॥
भूमौजलेनभसि देवनरासुरेषु
भूतेषुदेविसकलेषु चराचरेषु ।
पश्यन्ति शुद्ध मनसा खलुरामरूपम्
रामस्यते मुवितले समुपासकाश्च ॥ २०॥
शान्तस्समान मनसा च सुशीलयुक्त
स्तोषक्षमा गुणदया रिजुबुद्धि युक्तः ।
विज्ञानज्ञान विरतिः परमार्थ वेत्ता
निर्द्धामकोभयमनाः स च रामभक्तः ॥ २१॥
भाले च रम्यतिलकं विवरेख दीप्तम्
रामाङ्घ्रिविन्दु सहितं स च पीतमध्ये ।
कण्ठे तथा तुलसिदाम लसद्भुजेवै
तप्तेन वाण धनुषाङ्कित रामभक्तः ॥ २२॥
अन्यच्च भगवद्वाक्यम्-
मद्भक्तः सरितां पति चुलकवत् खद्योतवद्भास्करम्
मेरुं पश्यति लोष्टवत् किं परम्भूमेः पतिं भृत्यवत् ।
चिन्ता रत्नचयं शिला सकलवत् कल्पद्रुम काष्ठवत्
संसारं तृणराशिवत्किपरं देहं निजं भारवत् ॥ २३॥
श्रीमद्भागवते भगवद्वाक्यम्-
कृपालु रकतद्रोह स्तितिक्षुः सर्व देहिनाम् ।
सत्यसारोनवद्यात्मा समः सर्वोपकारकः ॥ २४॥
कामैरहतीर्दान्तो मृदुश्शुचिरकिचनः ।
अनीहोमितभुक् शान्तस्थिरोमच्छरणोमुनिः ॥ २५॥
अप्रमत्तोगभीरात्मा धृतवान् जित षड्गुणः ।
अमानीमानदः कल्पोमैत्रः कारुणिकः कविः ॥ २६॥
आज्ञायैवं गुणान्दोषान्मयादिष्टानपिस्वकान् ।
धर्मान्सन्त्यज्ययः सर्वान् मामभजेत्ससत्तमः ॥ २७॥
ज्ञात्वाज्ञात्वाच य मांवै यावान् यश्चास्मियादृशः ।
भजन्त्यनन्यभावेन तेमे भक्त तमामताः ॥ २८॥
मल्लिङ्ग मद्भक्तजन दर्शनस्पर्शनाचनम् ।
परिचर्यास्तुतिप्रह्व गुणकर्मानुकीर्तनम् ॥ २९॥
हरिरुवाच जनकं प्रति-
सर्व भूतेषु यः पश्येत भगवद्भाव मात्मनः ।
भूतानिभगवत्यात्मन्येष भागवतोत्तमः ॥ ३०॥
ईश्वरे तदधीनेषु वालिशेषु द्विषत्सु च ।
प्रेममैत्री कृपोपेक्षा यः करोति स मध्यमः ॥ ३१॥
अर्चायामेव हरये पूजां यः श्रद्धयेहते ।
न तद्भक्तेषु चान्येषु सभक्तः प्राकृतः स्मृतः ॥ ३२॥
कवि वाक्यम्-
खंवायु मग्निंसलिलं महीं च ज्योतींषि सत्वानि दिशोद्रुमादीन ।
सरित्समुद्रांश्च हरेः शरीरं यत्किञ्च भूतं प्रणमेदनन्यः ॥ ३३॥
भक्तिः परेशान्भवोविरक्ति रन्यत्र चैषत्रिक एककालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्तुष्टिः पुष्ठिः क्षुदपायोनुघासम् ॥ ३४॥
इत्युच्युताघ्रिं भजतोनुवृत्या भक्तिविरक्तिर्भगवत् प्रवोधः ।
भवन्ति वै भागवतस्य राजन् ततः परांशान्तिमुपैति साक्षात् ॥ ३५॥
न काम कर्मवीजानां यस्यचेतसि सम्भवः ।
वासुदेवैकनिलयः सवै भागवतोत्तमः ॥ ३६॥
न यस्य जन्म कर्मभ्यां न वर्णाश्रम जातिभिः ।
सज्जतेस्मिन्नहं भावोदेहेवै सहरेः प्रियः ॥ ३७॥
न यस्य स्वपर इतिवित्तष्वात्मनिवाभिदा ।
सर्व भूत समः शान्तः सवै भागवतोत्तमः ॥ ३८॥
त्रिभुवनविभव हेतवेप्यकुण्ठस्मृतिरजितात्म ।
सुरादिभिर्विमृग्यात् न चलति भगवत्पदारविन्दा
लव निमेषार्द्धमपि यः स वैष्णवाग्र्यः ॥ ३९॥
तत्र प्रमाणमाह अध्यात्मे वाल्मीकि वाक्य, श्रीरामं प्रति-
त्वन्मन्त्र जापकोयस्तु त्वामेव शरणं गतः ।
निर्द्वन्दोनिस्ष्टहस्तस्य हृदयं तव मन्दिरम् ॥ ४०॥
निरहङ्कारिणः शान्ता रागद्वेष विवर्जिताः ।
समलोष्टास्म कनकास्तेषां ते हृदयं गृहम् ॥ ४१॥
त्वयिदत्तमनोबुद्धिर्यः सन्तुष्टः सदाभवेत् ।
त्वयि संशक्त कर्मायस्तन्मनस्ते शुभङ्गृहम् ॥ ४२॥
यो न द्वेष्ट्यप्रियम्प्राप्य प्रियं प्राप्य न हृष्यति ।
सर्वं मायेति निश्चित्य त्वां भजेतन्मनोगृहम् ॥ ४३॥
पड्भावादिविकारान् यो देहे पश्यति नात्मनि ।
क्षुत्तट्सुखम्भय दुःख प्रबुद्धा न निरीक्ष्यते ॥ ४४॥
संसार धमैनिमक्त स्तस्यते मानसं गृहम् ॥ ४५॥
पश्यन्ति ये सर्व गुहासयस्थं त्वां चिद्धनं सत्यमनन्तमेकम् ।
अलेपकं सर्वगतं वरेण्यं तेषां हृदब्जे सहसीतया बस ॥ ४६॥
निरन्तराभ्यास दृढीकृतात्मनां त्वत्पाद सेवा परि निष्ठितानाम् ।
त्वन्नाम कीर्त्या इतकल्मषाणां सीतासमेतस्यगृहं हृदव्जे ॥ ४७॥
रामत्वन्नाम महिमा वर्ण्यते के न वा कथम् ।
यत्प्रभावादहं राम ब्रह्मर्षित्व मवाप्तवान् ॥ ४८॥
पद-
कबहुँक यह गुन मन धरि है ॥ टेक ॥
काम धाम धन देह सनेही तँह न नेह करि है ।
जहँ लगि विषय विलास, राम बिनु विष सम लखि डरि है ॥
मान पमान मित्र अरि, सुख दुख सम करि आचरि है ।
क्रूर वचन सुनि विषम अग्नि सम, जलह्वै नहिं जरि है ॥
सर्व भूत हरि रूप कहत श्रुति, कबहुँ देखि परि है ।
सम सन्तोष ज्ञान भाजन करि, राम चरित भरि है ॥
परहित दया भक्ति रघुबर की, सकल काम टरि है ।
रामचरण, श्रीराम कृपा ते, भवसागर तरि है ॥ ४९॥
-इति श्रीरामनवरत्न सारसङ्ग्रहे साधुलक्षण वर्णननां सप्तम रत्नमम् ॥ ७॥
अध्याय ८
सन्त सभा सुखसिन्धु सम मथव ब्रह्मजिज्ञास ।
रामरूप गुण रत्न भव रामचरण अनयास ॥ १॥
वन्दे सन्त समाजमम्बुधिपतिं गाधन्तुनो पायकैः
रामोनाम रमारमेश इतियत्विज्ञानरूपः फणी ।
जातोराम कथेन्दुरेव किरणैस्तापत्रयोन्मूलनो
यत्र प्रेम पयोथ रामचरणस्तेभ्योपिसद्भयोनमः ॥ २॥
श्रीमद्राम स्वरूपतों जन वपुर्भिन्नन्नजातं क्वचित्
मीनाद्या रघुनाथ यादव पतिस्सर्वे वतारायथा ।
इत्थं ये प्रतिबोधयन्तिस्वजनान्रामः प्रसन्नः सदा
नित्यं चैवनमामि रामचरणस्तांवै सदा सेवकान् ॥ ३॥
जाड्यन्धियोहरति सिञ्चति सत्यवाक्यं मानोन्नति दिशति पापमपा करोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्सङ्गतिः कथयकिन्न करोति पुंसाम् ॥ ४॥
श्रीभागवते च-
तुलायाम लवे नापि न स्वर्गं ना पुनर्भवम् ।
भगवत्सङ्गि सङ्गस्य मर्त्यानां किमुताशिषः ॥ ५॥
एकादशे जनक वाक्यम्-
दुर्लभोमानुषोदेहो देहिनां क्षण भङ्गुरः ।
तत्रापि दुर्लभम्मन्ये वैकुण्ठ प्रियदर्शनम् ॥ ६॥
तत्रैव भगवद्दाक्यम्-
नरोधयति मां योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्याय तपस्त्यागो नेष्टा पूर्तं न दक्षिणा ॥ ७॥
व्रतानि यज्ञ छन्दांसि तीर्थानि नियमा यमाः ।
यथा वरुन्धे सत्सङ्गः सर्व सङ्गायहोहि माम् ॥ ८॥
सत्सङ्गे नहि दैतेया यातुधानाः खगा मृगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश्चारण गुह्यकाः ॥ ९॥
विद्याधरा मनुष्येषु वैश्याः शूद्रास्त्रियोन्त्यजाः ।
रजस्तमः प्रकृतयस्तस्मिं तस्मिं युगे नघ ॥ १०॥
वहवोमत्पदं प्राप्तास्त्वाष्ट्र काथाधवादयः ।
वृषपर्वा बलिर्वाणो मयश्चाथ विभीषणः ॥ ११॥
सुग्रीवो हनुमानृक्षोगजो गृद्धो बणिकपथः ।
व्याधः कुव्जाब्रजेगोप्यो यज्ञ पत्न्यस्तथापरे ॥ १२॥
तेनाधीत श्रुतिगणानोपासित महत्तमाः ।
अवृता तप्त तपसः सत्सङ्गान् मामुपागता ॥ १३॥
अध्यात्म रामायणे परशुराम वाक्यं श्रीरामं प्रति-
यावत्त्वत्पाद भक्तानां सङ्ग सौख्यं न विन्दति ।
तावत्संसार दुःखौघान्ननिवर्तेन्नरः सदा ॥ १४॥
सत्सङ्गलव्धयाभक्त्या यदा त्वां समुपासते ।
तदामाया शनैर्याति तानवं प्रति पद्यते ॥ १५॥
ततस्त्वद् ज्ञान सम्पन्नः सद्गुरुस्तस्य लभ्यते ।
वाक्यज्ञानं गुरोर्लब्ध्वात्वत्प्रसादाद्विमुच्यते ॥ १६॥
तस्मात्त्वद्भक्ति हीनानां कल्प कोटि शतैरपि ।
न भुक्तिर्न च विज्ञान शक्यं नैव सुखं तथा ॥ १७॥
अतस्त्वत्पाद युगले भक्तिर्मे जन्म जन्मनि ।
स्यात्त्वद्भक्तिमतां सङ्गो विद्यायाभ्यांविनश्यति ॥ १८॥
लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः ।
पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् ॥ १९॥
नमोस्तु जगतां नाथ नमस्ते भक्ति भावन ।
नमः कारुणिकानन्त रामचन्द्रनमोस्तुते ॥ २०॥
अध्यात्मे सुन्दरकाण्डे शुकसारण वाक्यं रावणं प्रति-
सत्सङ्गतिं कुरु भजस्व हरिं शरण्यं श्रीराघवं मरकतोपलकान्तिकान्तम् ।
सीतासमेतमनिशं धृतचापबाणं सुग्रीवलक्ष्मणविभीषणसेविताङ्घ्रिम् ॥ २१॥
मोहमुद्गरे-
नलिनीदलगतजलवत्तरलं तद्वज्जीवनमतिशयचपलम् ।
क्षणमपि सज्जन सङ्गतिरेका भवति भवार्णवतरणे नौका ॥ २२॥
आदिपुराणे-
गगा पापं शशी तापं दैन्यं कल्पतरुस्तथा ।
पापं तापं तथा दैन्यं हन्ति साधु समागमः ॥ २३॥
श्रीभागवत कपिल वाक्यं देवहुतीं प्रति-
प्रसङ्गमजरम्पाश मात्मनः कवयो विदुः ।
स एव साधु सुकृतो मोक्ष द्वारमपावृतः ॥ २४॥
तितिक्षवः कारुणिकाः सुहृदस्सर्वदेहिनाम् ।
अजातशत्रवः शान्ताः साधवः साधु भूषणः ॥ २५॥
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
मत्कृतेत्यक्त कर्माणस्त्यक्त स्वजनबान्धवाः ॥ २६॥
इति सत्सङ्ग वर्णनं
ब्रह्माण्डपुराणे-
दुर्लभोवैष्णवो लोके दुर्लभं वैष्णवं ब्रतम् ।
दुर्लभावैष्णवीभक्तिः सधन्यो यत्रवर्तते ॥ २७॥
नरस्तस्योपदेशेन नीचोपि गुरुताम्ब्रजेत् ।
पारदेन यथाताचे काञ्चनत्वं प्रजायते ॥ २८॥
श्रीभागवते-
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनत्युरुकालेन दर्शनादेव साधवः ॥ २९॥
अन्यच्च भगवद्वाक्यं ब्रह्माणं प्रति-
नैवेद्यं पुरतोमह्यं चक्षुषा गृह्यतेमया ।
रसन्दासस्य जिह्वाया दश्नामि कमलोद्भव ॥ ३०॥
पद्मपुराणे-
नैवेद्यं जगदीशस्य अन्नपानादिकं च यत् ।
भक्ष्याभक्ष्य विचारस्तुनास्तितद्भक्षणेक्वचित् ॥ ३१॥
विष्णानैवेद्यं भोक्तव्यं कोटि जन्माघ नाशनम् ।
तदेवाष्ट गुणं पापं सिक्थं भूमि निपातनात् ॥ ३२॥
श्रीभागवते-
महद्दिचलनं नृणां गृहीणां दीन चेतसाम् ।
निःश्रेयसाय भगवन् कल्पते नान्यथा कचित् ॥ ३३॥
रघूगणैतत् तपसा न याति न चेज्या निर्वपणाद् गृहाद्वा ।
न छन्दसा नैव जलाग्नि सूय्यैर्विना महत्पादरजोभिषेकम् ॥ ३४॥
भगवद्वाक्यम्-
अहं भक्त पराधीनो अस्वतन्त्र इव द्विज ।
साधुभिर्ग्रस्त हृदयोभक्तैर्भक्तजनप्रियः ॥ ३५॥
साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।
मदन्यत्तेनजानन्ति नाहं तेभ्यो मनागपि ॥ ३६॥
स्कान्दे-
गीतादिस्तव पाठेन गोविन्दस्य च कीर्तनात् ।
साधुर्दर्शन मात्रेण कोटि तीर्थ फलंलभेत् ॥ ३७॥
पाद्मे-
कुलं पवित्रं जननीकृतार्था वसुन्धराभागवती च धन्या ।
स्वर्गेस्थिता ते पितरश्च धन्या येषां कुले वैष्णवनामध्येयम् ॥ ३८॥
शुद्धं भागवतस्यान्नं शुद्धं भागीरथी जलम् ।
शुद्धंविष्णुपदं तीर्थं शुद्धं वैष्णव दर्शनम् ॥ ३६॥
तिस्रः कोट्यर्द्ध कोटीश्च तीर्थानि भुवनत्रये ।
वैष्णवान्धिजलात् पुण्यङ्कोटि भागेननोसमम् ॥ ४०॥
नातः परतरं तीर्थ वैष्णवान्धि जलात् शुभात् ।
तेषां पादोदकं नित्यं गङ्गामपि पुनातिहि ॥ ४१॥
रामभक्तानुशेषन्तु योहि भुङ्क्ते दिने दिने ।
सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥ ४२॥
कोटि जन्मार्जितं पापं ज्ञानतो ज्ञानतो पि वा ।
सद्यः प्रणश्यते नृणां वैष्णवोच्छिष्ट भोजनात् ॥ ४३॥
आगमेपि-
आस्फोटयन्ति पितरो नृत्यन्ति च मुहुर्मुहुः ।
महंशे वैष्णवो जातः सनो त्राता भविष्यति ॥ ४४॥
तावद्रमन्ति संसारे पितरो पिण्ड तत्पराः ।
यावद्वंशे सुतोराम भक्ति युक्तो न जायते ॥ ४५॥
सदातिष्ठन्ति तत्रैव सर्व तीर्थानि देवताः ।
निमिषं निमिषार्हेण यत्रतिष्ठन्ति वैष्णवाः ॥ ४६॥
श्रीभागवते-
विप्राद्दिषड्गुणयुता दरविन्द नाभ पादार्विन्द विमुखात्स्वपचं वरिष्ठम् ।
मन्येतदर्पित मनो वचने हितार्थ प्राणं पुनाति सकुलं नतु भूरिमानः ॥ ४७॥
अन्यच्च भगवद्वाक्यम्-
यथाखरश्चन्दन भारवाही भारस्यवेत्ता न तु चन्दनस्य ।
तथाहिविप्रा षट् शास्त्र युक्ता मद्भक्तहीनाः खरवहन्ति ॥ ४८॥
चाण्डालमपि मद्भक्तं नावमन्येत् बुद्धिमान् ।
अवमन्येद्वि मूढात्मा रौरवं नरकं व्रजेत् ॥ ४९॥
पद्मपुराणे शिव वाक्यम्-
तुलसी काष्ठ सम्भूतां मालिकां यमकिङ्कराः ।
दृष्ट्वा नश्यन्ति दूरेण वातोद्धृतं यथाधनम् ॥ ५०॥
धारयति न ये मालां हैतुकाः पाप बुद्धयः ।
नरकान्ननिवर्तन्ते दग्धाः कोपाग्निनाहरेः ॥ ५१॥
तुलसी मालिकां धृत्वायोभुक्तो गिरिनन्दिनि ।
सिक्थे सिक्थे स लभते वाजिपेय शताधिकम् ॥ ५२॥
स्नानकालेपियस्याङ्गे दृश्यते तुलसी शुभा । ११०
गङ्गादि सर्व तीर्थेषु स्नातं ते न न संशयः ॥ ५३॥
अन्तकालेपि यस्याङ्गं तुलसी मालिकास्टृशेत् ।
तस्यदेहोद्भवं पापं तत्क्षणादेव नश्यति ॥ ५४॥
कण्ठेशिरसि वाहूभ्यां कर्णयोः करयोस्तथा ।
विभ्रियात्तुलसीयस्तु स ज्ञेयो विष्णुना समः ॥ ५५॥
यज्ञसूत्रं विनाविप्राः वेद हीना क्रिया यथा ।
सत्यहीनं यथा वाक्यं मालाहीना न वैष्णवाः ॥ ५६॥
ब्राह्मणानांयथा सन्ध्या गृहीणां पितृ तर्पणम् ।
अदक्षिणो यथा यज्ञो मालाहीना न वैष्णवाः ॥ ५७॥
ततः सर्वेषु कालेषु धार्या तुलसि मालिका ।
क्षणार्द्धं तद्वि हीनोपि विष्णुद्रोही भवेन्नरः ॥ ५८॥
तत्र प्रमाणम्-
अच्रये विष्णौशिलाधीगुरुषु नरमतिर्वैष्णवे जाति बुद्धि विष्णोर्वा वैष्णवानां कलिमल मथने पाद तीर्थेम्बुबुद्धिः सिद्धे तन्नाम्नि मन्त्रे सकल कलुषहे शब्दसामान्य बुद्धिः श्रीशेसर्वेश्वरेशे तदितर समधीर्यस्यवै नारकीसः ॥ ५९॥
नारद पञ्चरात्रे भगवद्वाक्यम्-
ब्रह्मचारी गृहस्थश्च वाणप्रस्थो यतिस्तथा ।
चत्वाराश्रमाद्येते पञ्चमो मद्विपाश्रयः ॥ ६०॥
वर्णाश्रमाभिमानेन श्रुतेर्दासो भवेन्नरः ।
वर्णाश्रमविहीनाश्च तिष्ठन्ति श्रुतिमूर्द्धनि ॥ ६१॥
जातिर्विद्यामहत्वं च रूप यौवन मेव च ।
यत्नेन वर्जनीयावै पञ्चैतेभक्ति कण्टकाः ॥ ६२॥
यदावातादि दोषेण मद्भक्तोमाञ्च न स्मरेत् ।
तदास्मराम्यहं भक्तं ददामि परमां गतिम् ॥ ६३॥
एकादशे भगवद्वाक्यम्-
सत्येप्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः ।
तमोलयाइत्तु निरयं यान्तिमामेव निर्गुणाः ॥ ६४॥
मदर्पणं निःफलं वा सात्विकं निज कर्मतत् ।
राजसम्फल सङ्कल्प हिंसाप्रायादि तामसम् ॥ ६५॥
कैवल्यं सात्विकं ज्ञानं रजो वैकल्पिकन्तुयत् ।
प्राकृतं तामसं ज्ञानं मन्निष्टं निर्गुणं स्मृतम् ॥ ६६॥
बनेतु साविको वासो ग्रामेराजस उच्यते ।
तामसं द्यूत सदनं मन्निकेतन्तु निर्गुणम् ॥ ६७॥
सात्विकः कारकांसङ्गी रागान्धों राजसः स्मृतः ।
तामसः स्मृतिः विभ्रष्टोनिर्गुणोमद्विपाश्रयः ॥ ६८॥
सात्विक्या ध्यात्मकीश्रद्धा कर्म श्रद्धातु राजसी ।
तामस्यधर्मे या श्रद्धामत्सेवायान्तु निर्गुणाः ॥ ६९॥
पथ्यं पूत मनायस्तमाहायै सात्विकंस्मृतम् ।
राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ॥ ७०॥
सात्विकं सुखमात्मोत्थं विषयोत्थतुं राजसम् ।
तामसं मोह दैन्योत्थं निर्गुणं महिपाश्रयम् ॥ ७१॥
श्रीभगवद्गीतायाम्-
जन्म कर्म च मेदिव्य मेवं यो वेत्ति तत्वतः ।
त्यक्त्वादेहं पुनर्जन्म नैति मामेति सोर्जुज ॥ ७२॥
ब्रह्मः भूत प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ ७३॥
देवी ह्येषा गुणमयीम ममाया दुरत्तया ।
मामेव ये प्रपद्यन्ते माया मे तां तरन्ति ते ॥ ७४॥
अन्यच्च-
हरेर्द्धर्म परित्यागी सक्य मानो नराधमः ।
असक्तस्य परित्यागे न दोषा चिन्त्ययेघदि ॥ ७५॥
श्रीभागवते-
गृहेषु वसतां वापि पुंसां कुशल कर्मणाम् ।
मद्दार्ता यात यामानां न बन्धाय गृहामताः ॥ ७६॥
प्रह्लाद वाक्यम्-
तत्साधुमन्ये सुरवर्यदेहिनां सदा समुद्दिनधिपा मसद् गृहात् ।
हित्वात्मपातं गृह मन्ध कूपं वनं गतोश्रीराम-नवरत ।
यद्धरि माश्रयेत् ॥ ७७॥
क्षणार्हेणापि तुलये न स्वर्गे न पुनर्भवम् ।
भगवत्सङ्गि सङ्गस्य मर्त्यानां किमुताशिषः ॥ ७८॥
एतेसत्पुरुषाः परार्थ घटकाः स्वार्थान्परित्यज्यये
सामान्यं परस्वार्थमुद्यमभृतः स्वार्था विरोधे न येम् ।
ते मी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
पेतुघ्नन्ति निरर्थकम्परहितं ते के न जानीमहे ॥ ७९॥
आगमसारे-
शास्त्रदृष्टं गुरोर्वाक्यं तृतीयं चात्म निश्चयम् ।
त्रिविधं योभि जानाति स मुक्तो जन्मबन्धनात् ॥ ८०॥
श्रुतिः ।
दशहस्ताङ्गुलयो दशपाद्या द्वाबुरू हौ बाहौ आत्मैव पञ्चविंशकः ॥ ८१॥
पद-
मन कहँ जो सत सङ्गति भावे ॥ टेक ॥
तौ सब विषय विलास छोड़ के सहज परम सुख पावेम् ।
तीरथ जप तप नेम दान व्रत वहु जन्मनि करि आवै ॥
शुद्ध होय ततकाल सन्तके दरस परस कर तावै ।
योग विरति विज्ञान काल वहु शुद्ध समाधि लगावै ॥
परमतत्व सोइ एकै छिनमें सत सङ्गति दरसावै ।
ब्रह्मलोक दिकपाल लोक सुख पर सुख मोक्ष कहावै ।
तुलैनछिन सतसङ्गसुखहि कोरामचरणश्रुतिगावै ॥ ८२॥
इति श्रीरामनवरत्नसारसङ्ग्रहे सत्सङ्गदर्श परस सम्भाषण सर्वोपरिपावनप्राप्तिवर्णनं नाम अष्टमं रत्नम् ॥ ८॥
अध्याय ९
दोहा
नष सिष सीताराम छबि, जब लगि हृदय न बास ।
रामचरण सब साधना, तव लगि लखव निरास ॥ १॥
रामं नौमि किरीट कुण्डलयुतं चण्डांशु कोटि प्रभम्
विद्युत्कोटि विनिन्दकं सुतिलकं राजीवनेत्रं परम् ।
रम्यं कोटि समुद्रसूनुवदनं नाशास्फुरन्मौक्तिकम्
सर्वालङ्कृतभूषितं कर धनुवमाङ्क सीतास्थितम् ॥ २॥
यस्यांशेन जगद्दभूव सकलं ब्रह्माहरिः शङ्करो
यं ध्यायन्ति महर्षयः सुमनसा सर्वेवतारा यतः ।
कीर्तिर्यस्य पुराण वेद भणितापारं न ते वैगताः
नित्यस्थं परधाम रामचरणोभक्त्या भजेराशिकम् ॥ ३॥
सनत्कुमार संहितायां वेदव्यास वाक्यम्-
श्रीरामचन्द्र रघुपुङ्गव राजवर्य राजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रघुनन्दन रामचन्द्र दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ ४॥
वसिष्ठ संहितायाम्-
रामस्य नाम रूपं च लीला धाम परात्परम् ।
एतच्चतुष्टयं नित्यं सच्चिदानन्दविग्रहम् ॥ ५॥
श्रीमद्भागवते श्रीहनुमद्दाक्यम्-
सुरोऽसुरो वाप्यथ वानरो नरः सर्वात्मना यः सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान्दिवमिति ॥ ६॥
न जन्म नूनं महतो न सौभगं न वाङ्न बुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रजः ॥ ७॥
नवमे शुक वाक्यम्-
यस्यामलं नृपसदःसु यशोऽधुनापि गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् ।
तं नाकपालवसुपालकिरीटजुष्टपादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ ८॥
एकादशे योगेश्वर वाक्यम्-
निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो रामस्तु हैहयकुलाप्ययभार्गवाग्निः ।
सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं सीतापतिर्जयति लोकमलघ्नकीर्तिः ॥ ९॥
श्रीधर वाक्यम्-
ॐ नमः परमहंसास्वादितचरणकमलचिन्मकरन्दाय
भक्तजनमानसनिवासाय श्रीरामचन्द्राय ॥ १०॥
भगवद्गीतायां श्रीमद्भगवद्दाक्यम्-
सर्व धर्मान्परित्यज्य मामेकं शरणं व्रजः ।
हत्वा सर्व पापेभ्यो मोक्षयिष्यामिमाशुचः ॥ ११॥
अपिचेत् सु दुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग् व्यवसितोहिसः ॥ १२॥
श्रीमद्दाल्मीकीय रामायणे श्रीरामचन्द्र वाक्यं, सुग्रीवं प्रति-
आनयेनं हरिश्रेष्ठ दत्तमस्या भयं मया ।
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ॥ १३॥
सकदेवप्रपन्नाय तवास्मीति च याचते ।
अभयं सर्व भूतेभ्यो ददाम्येतद्व्रतमम ॥ १४॥
अयोध्या काण्डे पुरजन वाक्यम्-
कथं चिदुपकारेण कृते नैके न तुष्यति ।
नस्मरत्यप काराणां शतमप्यात्मवत्तया ॥ १५॥
इति शरणागति वर्णनम् ।
अध्यात्म्ये किष्किन्धा काण्डे सुग्रीव वाक्यं, श्रीरामं प्रति-
त्वत्पादपद्मार्पितचित्त वृत्तिस्त्वन्नाम सङ्गीत कथासुवाणी ।
त्वद्भक्त सेवा नियतौ करौ मे त्वदङ्गसङ्गं लभतां मदङ्गम् ॥ १६॥
त्वन्मूर्तिभक्तान् च गुरुं च चक्षुः पश्यत्वजस्त्रं स शृणोतु कर्णः ।
त्वजन्म कर्माणि च पादयुग्मं व्रजत्वजस्त्रं तवमन्दिराणि ॥ १७॥
अङ्गानि ते पाद रजो विमिश्र तीर्थानि विभ्रत्वहि शत्रुकेतो ।
शिरस्त्वदीयं भवपद्मजा द्यैर्युष्ठपदं राम व्रजविजस्त्रम् ॥ १८॥
दाराः पुत्रं धनं राज्यं सर्वेत्वन्मायया कृतम् ।
अतोहन्देव देवेश न काङ्क्ष्येन्यत् प्रसीदमे ॥ १९॥
न जीर्यतेपुनर्दीर्घं भजते संसृतिः प्रभो ।
त्वत्पाद दर्शनात् सद्यो नाशमेति न संशयः ॥ २०॥
क्षणार्द्धमपियच्चित्तं त्वयितिष्ठ त्यचञ्चलम् ।
तस्य ज्ञान मनर्थाणां मूलं नश्यति तत्क्षणात् ॥ २१॥
आरण्य काण्डे श्रीरामचन्द्र वाक्यं शवरीं प्रति-
यज्ञ दान तपोभिर्वा वेदाध्ययन कर्मभिः ।
नैवं द्रष्टुमहं शक्यो मद्भक्ति विमुखैः सदा ॥ २२॥
ब्रह्माण्ड पुराणे श्रीरामगीतायां श्रीरामवाक्यम्-
मद्भक्त मादरेद्यस्तु मनः स्पर्शन भाषणैः ।
तिमपि पश्यामि वसिष्ठ महतामिव ॥ २३॥
मद्भक्तेभ्यः प्रयच्छन्ति सुवस्तूनि धनान्यपि ।
आतिथेयं करिष्यामि तस्याहं सीतया सह ॥ २४॥
श्रीमद्भागवते भगवद्वाक्यम्-
भक्त्याहमेकयाग्राह्यः श्रद्धयात्मा प्रियः सताम् ।
भक्तिः पुनातिमन्निष्टान् स्वपाकानपि सम्भवात् ॥ २५॥
ततो दुस्सङ्गमुत्सृज्य सत्सुसज्जेत बुद्धिमान् ।
सन्त एतस्यछिन्दति मनोव्यासङ्ग मुक्तिभिः ॥ २६॥
सन्तोदिशन्ति चक्षूंषि वहिरर्कः समुत्थितः ।
देवतावान्धवाः सन्तः सन्त आत्माहमेव च ॥ २७॥
द्वादशे शिव वाक्यम्-
अथापि संवदिष्यामो भवान्येतेन साधुना ।
यहि परमो लाभोनृणां साधु समागमः ॥ २८॥
भागवते-
तिरस्कृता विप्रलब्धा सप्ताः क्षिप्ता हताश्रपि ।
नास्यतत्प्रति कुर्वन्ति तद्भक्ताः प्रभवोपिह ॥ २९॥
प्रायसः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।
नव्यथन्ति न हृष्यन्ति यत आत्मा गुणाश्रयः ॥ ३०॥
एकादशे-
देवर्षिभूतानृणान्पितॄणां न किङ्करो नायमृण च राजन् ।
सर्वात्मनायः शरणं शरण्यं गतो मुकुन्द परिहृत्य कृत्यम् ॥ ३१॥
पृथु प्रकरणे-
सर्वत्रास्खलितादेशः सप्तद्दीपैक दण्ड धृक् ।
अन्यत्र ब्राह्मण कुलादन्यत्राच्युत गोत्रतः ॥ ३२॥
प्रथमस्कन्धेपि-
नैष्कर्ममप्यच्युत भाववर्जितं न शोभते ज्ञानमलं निरजनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ ३३॥
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥ ३४॥
दशमे ब्रह्मणो वाक्यम्-
श्रेयस्रुतिं भक्ति मुदस्यते विभोक्कियन्ति ये केवल वोधलव्धये ।
तेषामसौ क्लेशहि एव शिष्यते नान्ययथास्थूल तुषाव घातिनाम् ॥ ३५॥
येन्येरविन्दाक्ष विमुक्तमानिनस्त्वय्यस्तभावा दवि
शुद्ध बुद्धयः आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधो
नादृत युष्मदम्प्रयः ॥ ३६॥
श्रीमन्महारामायणे शिव वाक्यं-
श्रीरामं ये चहित्वा खलमतिनिरता ब्रह्मजीवंवदन्ति
ते मूढानास्तिकास्ते शुभगुण रहिताः सर्व बुद्ध्यातिरिक्ताः ।
पापिष्ठा धर्महीनाः गुरुजनविमुखा वेदशास्त्रैर्विरुद्धा
तेहित्वागाङ्गमम्भो रविकिरण जलं पातुमिच्छन्त्यतृप्ताः ॥ ३७॥
मर्त्या रामपादौ क्षितिसुतविमला संविहाय बन्धो
ते मढा वोधहेतोः घृतपरि घटने वारि मन्धान युक्ताः ।
य ब्रह्मास्मीति नित्यं वदति हृदि विना रामचन्द्राङ्घ्रि पद्मं
ते बुद्धास्त्यक्त पोतास्तृण परि निचये सिन्धु मुयं तरन्ति ॥ ३८॥
ये केवलाद्वैतमतानुरक्ता श्रीराममूर्ति विमलां विहाय ।
ते पामदृश्या हरिदश्वमूर्त्तिः पश्यन्तिमूढाः प्रतिविंव कुम्भे ॥ ३९॥
ये रामभक्तिममलांशु विहाय रम्यां
ज्ञानेरताः प्रतिदिनं परिक्कष्टमार्गे ।
आरान्महेन्द्रसुरभिपरिहृत्य मूर्खा
अर्के भजन्ति सुभगे सुख दुग्ध हेतोः ॥ ४०॥
त्यक्त्वा श्रीरघुनन्दनं पर तरं नाम स्वरूपं तथा
ब्रह्मण्येववदन्ति ये सद सतः पूर्ण यथा काशवत् ।
ते वै तन्दुल हेतवे तुषमहोनिघ्नन्ति दुर्बुद्धयः
छित्वामूल मथाश्रयन्ति च दलन्तैः सद्गुरुनां कृतः ॥ ४१॥
किं वर्णयामि विमले वहुभि प्रकारैः सीतापते ।
विगत ज्ञान विशेष सर्वं ज्ञानं तदेव कुसुमं च यथा ।
नभोगं सत्यं वदामिह यथा न सुखं च स्वप्ने ॥ ४२॥
श्रीभागवते प्रथम नारद वाक्यम् ।
न यचचित्र पदहरेर्यशो जगत् पवित्रप्रग्रणीत
कर्हिचित् तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा-
विरमन्त्युशकक्षया ॥ ४३॥
तद्दागविसर्गोजनताघ विप्लवोयस्मिं प्रतिश्लोक
मवध्यवत्यपि नामान्यनन्तस्ययशोकितानि यच्छृ-
ण्वन्ति गायन्ति गृणन्ति साधवः ॥ ४४॥
नूनं देवेन निहता येप्यच्युत कथासुधां शृण्वन्त्यसद्गाथां पुरीषमिवविड्भुजः ॥ ४५॥
एकादशे-
तस्माद्गुरुं प्रपद्येतजिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्युप समाश्रयम् ॥ ४६॥
तत्र भागवतान्धर्मी शिक्षेद्गुर्वात्म दैवतः ।
श्रमायया नु वृत्या च यैस्तुष्ये दात्मदोहरिः ॥ ४७॥
नृदेहमाद्यं सुलभं सुदुर्लभम्प्लवं सुकल्पं गुरुकर्ण धारम् ।
मयानुकूलेन नभस्वतेरितम्पुमान् भवान्धिं न तरेत्सचात्महा ॥ ४८॥
श्रीगुरु गीतायाम्-
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः ।
गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः ॥ ४६॥
अखण्ड मण्डलाकारं व्याप्तं ये न चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५०॥
पञ्चमे ऋषभदेव वाक्यम्-
गुरुर्नसस्यात्स्वजनो न सः स्यात्पिता न सस्याजननी न सास्यात् ।
दैवं न तत्स्यान्नपतिश्च सस्यानमोचयेद्यः समुपेतमृत्युम् ॥ ५१॥
महोदधौ-
तदेव लग्नं सुदिनं तदेव तारा वलं चन्द्र वलं तदेव ।
विद्या बलं देव बलं तदेव सीतापतेर्नाम यदास्मरामि ॥ ५२॥
इति गुरु लक्षणं गुरु शरणागति वर्णनम् ।
श्रीहनुमन्नाटके-
रामत्वत्तरुणप्रताप तपनत्रासादिव त्र्यम्बको
नोगङ्गां विजहातिनिस्सरति न क्षीराम्बुधर्माधवः ।
ताम्यत्ताम रसान्तराल वसतिर्देवः स्वयम्भूरभूत्
पातालावधिपङ्क मग्न वपुषस्तिष्ठन्ति कूर्मादयः ॥ ५३॥
महाराज श्रीमन जगति यशसा ते धवलिते ।
पयः पारावारं परम पुरुषोयं मृगयते ।
कपर्दी कैलाशं कुलिश भृद्भौमं कश्विरम् ।
कलानाथ राहुः कमलभवनहंस मधुना ॥ ५४॥
शत चक्र समो विष्णोः हर शूल शतः समः ।
शत वज्र समश्चासो रामवाणः प्रतापवान् ॥ ५५॥
तूणे नैक शरं करेण दशधा सन्धानकालेशतम् ।
चापेभूत सहस्र लक्षगमने कोटीच कोटिर्वधे ।
अन्तेर्व निखर्ववाण विविधैः सीतापतीशोभितः ।
एतद्दाण पराक्रमस्य महिमा सत्पात्र दानयथा ॥ ५६॥
नागानामयुतं तुरङ्ग नियुतं सार्द्धं रथीनां शतं
पत्तीनां दश कोटि सन्निपतिने नृत्यत्कम्बन्धोरणे ।
एवं कोटि कबन्ध नर्तन विधौ नृत्ये तथाखेचर-
स्तेषां कोटिक नर्तने रघुपतेः कोदण्डघण्टारवः ॥ ५७॥
वाल्मीकीये-
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।
कर्माणि तानिश्रूयन्ते यानि युद्धे हनूमतः ॥ ५८॥
वाल्मीकीये उत्तर काण्डे-
उपनृत्यन्ति काकुत्स्थं नृत्यगीत विशारदाः ।
दक्षिण्योरूपवत्यश्च स्त्रियः सर्व गुणान्विताः ॥ ५९॥
तथातयोर्विहरतोः सीताराघवयोश्चिरम् ।
दश वर्षसहस्राणि गतानि सु महात्मनोः ॥ ६०॥
श्रीमन्महारामायणे शङ्कर वाक्यम् ।
मुनिवेष धरं रामं नील जीमूत सन्निभम् ।
रमन्तेयोषिती भूता रूपं दृष्ट्वा महर्षयः ॥ ६१॥
ईपद्वास्य कृतो रामो दृष्ट्वा तेषामिमां गतिम् ।
यूयं धर्मतरा ज्ञानं मत्प्रसन्नेहि साम्प्रतम् ॥ ६२॥
रमिताराममूर्तीते स्त्रियोरूपास्तपश्चरन् ।
अतो देवि रमुक्रीड़ा रामनाम्नैव वर्तते ॥ ६३॥
श्लोकौयाभ्यां निजेष्टध्यायेत्-
रामंसान्द्र घन स्वरूपममलं सच्चिद्घनानन्दकम्
विद्युद्दिव्य दुकूल पीत युगलं श्रीदाम वक्षस्थलम् ।
मञ्जीराङ्गद रत्न कङ्कण रणत्काञ्चीलसन्मुद्रिकम्
मुक्ताहार किरीट कुण्डलधनुः सञ्चित्रवाणोज्वलम् ॥ ६४॥
काश्मीरी तिलकालकावृतमुखं साचीक्षणंसस्मितम्
ताम्बूलाधर पल्लवं रसमयं नासाग्र मुक्ताफलम् ।
ध्यायेच्छत्र सुदिव्य चामर युतं साकेत रत्नासने
जानक्यशम्भुजंसखीगण वृतं नित्यं निकुञ्जेस्थितम् ॥ ६५॥
जी मन राम सुधा रस पावै ॥ टेक ॥
तौकत सकल विषय मृग जल लखि तृषित वृथा उठि धावै ।
अभय करौं सब विधि श्रीमुख कहि सकृत शरण कोउ आवै ॥
तौकत विषय विवस सुर नर मुनि तिन कहँ वादि मनावै ।
श्रीरघुबीर भक्ति चिन्तामणि संसृत बेगि मिटावै ॥
तेहि तजि ज्ञान जोग तप साधै श्रम फल सब श्रुति गावे ।
अमित मदन छवि रामरूप रुचि हृदय नैन लखि आवै ॥
तौकत त्रिभुवन रूप जहां लौ लखि शठ जन्म नसावै ।
जो श्रीराम कृपा प्रताप गुन श्रीगुरु शरण लखावै ॥
तौकत डरे लोक जम कालहि सकल राम दरसावै ।
यह सियवर नवरत्न मनोहर द्वादश रसहि जनावै ।
श्रीरामचरण नित सुनत पढ़त जो सो रघुबर मन भावै ॥ ६६॥
इति श्रीरामनवरत्नसारसङ्ग्रहे श्रीरामरूपगुणप्रताप शरणागत भेदवर्णनं नाम नवमं रत्नम् ॥ ९॥
Proofread by Mrityunjay Pandey