रामरासवर्णनम्
२४
ब्रह्मोवाच ।
परार्द्धस्मरलावण्यं बिभ्रत् सुन्दरविग्रहः ।
कामिनीनां कामरसं पोषयन् राघवो बभौ ॥ १॥
सीतयार्द्धाङ्गसङ्गिन्या सह केलिरसं दधत् ।
ज्योत्स्नया चन्द्रवद्रामो रेजे नक्षत्रमण्डले ॥ २॥
मुग्धानां गोकुलस्त्रीणां जानक्याविष्टचेतसाम् ।
समूहं रसयन् रामो बभाराकृतिसौष्ठवम् ॥ ३॥
यन्नेति नेतीति वदन्ति वेदाः
ब्रह्मादयो यन्न लेभुस्तपोभिः ।
तत्त्वं परं तच्छ्रुतिमूर्ध्वमृग्यं
व्रजाङ्गनाभिः करयोर्गृहीतम् ॥ ४॥
गुञ्जाहारं दधदुरसिलसच्छीर्षमायूरचन्द्रो
वेणुं बिम्बोष्ठदलकलितं बिभ्रदापूर्णनादम् ।
स्निग्धा च श्रीर्नट इव लसद्वेश सौन्दर्यसारो
बिभद्रामः प्रमुदविपिनं वल्लवीर्मोदयानः ॥ ५॥
द्विपरार्द्धावसानेऽपि नित्यं क्रीडति राघवः ।
नान्तोऽस्य नित्यलीलानां स्वानन्दरसरूपिणः ॥ ६॥
राघवो मोदयन् गोपीस्ता एव सपरिच्छदाः ।
एवं योगी वै रमते रामो रमयतां वरः ॥ ७॥
निर्विकारो ब्रह्मणोऽपि प्रतिष्ठा परमास्पदम् ।
नास्य कामेन कोपेन लोभेन च महात्मनः ॥ ८॥
मनोविकारः समभूद्यथा संसिद्धियोगिनः ।
इत्येवं रामदेवस्य बाललीलां शृणोति यः ॥ ९॥
स याति रामसायुज्यं परमानन्दनिर्वृतिः (तिं ?)।
अथाहमभिधास्यामि रामरासं मनोहरम् ॥ १०॥
अदृश्यं यत् सुरेन्द्राद्यैश्चकार रघुपुङ्गवः ।
कोटिकन्दर्पलावण्यविजयी रघुपुङ्गवः ॥ ११॥
रामकण्टकरूपांश्च महादैत्यानजीहनत् ।
तेषां वधेषु संविघ्नं सहसा विनिवारयन् ।
महावीरो रामचन्द्रश्चकारातीव विक्रमम् ॥ १२॥
रमणमनुदिनं यो रामचन्द्रस्य पूर्णं
प्रणतमतिरधीते मानवो रामभक्तः ।
स भवति शिवतुल्यो रामभक्त्या प्रपूर्णः
परमसुखनिमग्नश्चिन्मयानन्दरूपः ॥ १३॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे केलिवर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४॥
२५
भुशुण्ड उवाच ।
श्रुत्वेदं रामचन्द्रस्य कौमारचरितं मम ।
मनः शीतलतामेति यद्वत् पीयूषधारया ॥ १॥
दत्त्वा वरं गोपिकानां नित्यमात्मप्रदं विधे ।
यच्चकार रघुश्रेष्ठस्तन्नः शंसितुमर्हसि ॥ २॥
चीर्णव्रतानां विप्राणां दण्डकारण्यवासिनाम् ।
यथा वरं ददौ रामस्तथा मे वद विस्तरात् ॥ ३॥
द्विपरार्धान्तेऽपि नित्यं सहजानन्दलोकगः ।
रासं चकार रामाभिः परमैश्वर्यभावितः ॥ ४॥
तत्रापि दिव्यरासे तु यानि यानि शुभानि च ।
चक्रे रासचरित्राणि तानि मे कथय प्रभो ॥ ५॥
एकपत्नीव्रते स्थित्वा सत्यं लोपितवान्न च ।
बहुकान्तारतिं दृष्ट्वा तथा न द्वेष्टि जानकी ॥ ६॥
तदेतत् कथयास्माकं रामचारित्रमद्भुतम् ।
शृण्वतो मे महान् हर्षो रोमभेदश्च जायते ॥ ७॥
गद्गदश्च तथा कण्ठे चित्तस्यैव च निर्वृतिः ।
अहो धन्या अमी देवा मदङ्गविनिवासिनः ॥ ८॥
ये पिबन्ति शुभं नित्यं रामचन्द्रकथामृतम् ।
धन्योऽहं कृतकृत्यश्च तिर्यग्योनिगतोऽपि सन् ॥ ९॥
यत्पिबाम्यमृतं ब्रह्मन् भवद्वदनविच्युतम् ।
ब्रह्मोवाच ।
अहो परिणता बुद्धिस्तव सम्यग्विभाति मे ॥ १०॥
पुनः पुनः प्रश्नयसि यद्राराघवपतेः कथाम् ।
वक्षाम्यहं तु वक्तव्यमवक्तव्यं कदाचन ॥ ११॥
गोपनीयं शुकेनापि यद् योगीन्द्रेण धीमता ।
कथामृतैककुण्डस्य चत्वारो रक्षका वयम् ॥ १२॥
अहं शुकश्च शेषश्च तथा देवी तु जानकी ।
न ब्रूमः सकलं तत्तु गोपनीयं प्रयत्नतः ॥ १३॥
वाचकान् घातयिष्यामि मातृजारप्रसङ्गवत् ।
अधिकारिणमालोक्य कथञ्चित् कथयामहे ॥ १४॥
पञ्चाधिकारिणोऽप्यत्र षष्ठो नैवोपलभ्यते ।
त्वमण्डजौत्तरेयश्च धरणी च पतिव्रता ॥ १५॥
सौमित्रेयश्चोर्ध्वरेता तथा मारुतनन्दनः ।
तुभ्यं मया समाख्याता कल्पे-कल्पे युगे युगे ॥ १६॥
राममायाप्रभावेण पुनर्विस्मृतवानसि ।
शुकेन चौत्तरेयाय रामचारित्रमीर्यते ॥ १७॥
इहैव शुद्धसत्त्वाय गोलोके प्रेमभागिने ।
पुनश्च भगवान् शेषो व्याचष्टे धरणीं प्रति ॥ १८॥
लक्ष्मणाय तथा देवी जानकी प्रत्युवाच ह ।
तच्छ्रुत्वा सकलं प्रोक्तं लक्ष्मणेन हनूमते ॥ १९॥
पञ्चेमाः संहितास्तत्र सङ्क्षेपेण शृणु द्विज ।
भौशुण्डी परमेयं षट्त्रिंशत्साहस्रमीरिता ॥ २०॥
चत्वारिंशत्सहस्रं तु लक्षमात्र मुदीरितम् ।
हनुमत्संहितालक्षं वायुलोके विराजते ॥ २१॥
समुच्चयस्तु पञ्चानां मयोक्ता ब्रह्मसंहिता ।
इत्येवं रामचरितं शतकोटिप्रविस्तरम् ॥ २२॥
प्रतिकल्पं प्रतियुगं अन्यदन्यद् विभाव्यताम् ।
नान्तस्तस्य चरित्राणां कल्पकोटिशतैरपि ॥ २३॥
किञ्चित् समाधावालोक्य शृणु पुत्र निगद्यते ।
यत्पृष्टं तु त्वया गोपीरामयोः क्रीडनं परम् ॥ २४॥
तत्सुगोप्यं कथं वाच्यं वक्तास्यान्नारकी ध्रुवम् ।
अथापि शुद्धसत्त्वाय भक्ताय विमलात्मने ॥ २५॥
वाच्यमाचार्यवर्यैस्तु तच्छ्रुत्वा तत्परो भवेत् ।
सत्यं सत्यं मया नित्यं चिन्त्यते मूलमन्त्रवत् ॥ २६॥
तद्ध्यानामृतयोगेन तिष्ठाम्याकल्पमण्डज ।
तपस्तप्तं मया पूर्व तीव्रात्तीव्रतरं द्विज ॥ २७॥
तेन प्रसन्नः सीतेशः सदा मां दर्शनं ददौ ।
स्वलोकं दर्शयामास गोलोकात् परतस्तु यत् ॥ २८॥
तत्र रासविलासादि दृष्टवानहमद्भुतम् ।
प्रमोदविपिने पूर्वं रामश्चक्रे सुक्रीडनम् ॥ २९॥
तस्याप्यनुकृतिं कृष्णश्चक्रे वृन्दावने वने ।
श्रीरामो भगवान् पूर्णः कलाभिः पुरुषोत्तमः ॥ ३०॥
कोटिलक्ष्मीसहस्राणामंशिनी जनकात्मजा ।
एतयोरेव दिव्यांशौ राधाकृष्णात्मकौ व्रजे ॥ ३१॥
काले-काले समुद्भय कुरुतः शाश्वतीं रतिम् ।
रामांशो भगवान् कृष्णः सीतांशो राधिकेश्वरी ॥ ३२॥
अन्याश्च सकला गोप्यस्तदंशांशा उदीरिताः ।
द्वारिकायां रुक्मिणीयं महालक्ष्मी महेश्वरी ॥ ३३॥
अन्याश्च सत्यभामाद्यास्तदंशाः सहजात्मिकाः ।
क्वचिदावेशरूपेण क्वचिदंशस्वरूपतः ॥ ३४॥
क्वचित् साक्षात् स्वयं सीता रमते प्रभुणा सह ।
सैव रासेश्वरी तेन रमते रासमण्डले ॥ ३५॥
एकधा शतधा चैव कृत्वा रूपाणि सन्ततम् ।
तच्चरित्रं महागोप्यं मया ज्ञातुं न शक्यते ॥ ३६॥
कुरु कल्पशतं तीव्रां तपश्चर्यां स्वशोधिकाम् ।
तदा ते तादृशी भक्तिर्भविष्यत्यनपायिनी ॥ ३७॥
तदा श्रीरामचारित्रं श्रोतुमर्हस्यशेषतः ।
नोचेन्मामेव शप्स्यन्ति योगीन्द्रास्ते शुकादयः ॥ ३८॥
अनधिकारिणे मा ब्रूयादित्युक्तं प्रभुणापि मे ।
इति ब्रह्मवचः श्रुत्वा भुशुण्डो नाम वै द्विजः ॥ ३९॥
महतीमार्त्तिमन्वार्च्छत् प्राणान्तेऽपि गरीयसीम् ।
आकाशवाक् समुद्भूता तदा संशृण्वतोस्तयोः ॥ ४०॥
ब्रूहि ब्रह्मन्नशेषेण मम चारित्रमद्भुतम् ।
रासलीलाविनोदाख्यं भक्तायाण्डजरूपिणे ॥ ४१॥
अयं हि सुमहान् योगी ममैकान्तरतिप्रियः ।
शान्तो दान्तस्तितिक्षश्च कोटिकल्पकृतश्रमः ॥ ४२॥
मद्भक्तो मत्परः शान्तो मदर्थत्यक्तसंस्मृतिः ।
एकान्तचारी विनयी भक्तानां प्रीतिवर्द्धनः ॥ ४३॥
ज्ञापयास्मै विशेषेण रामचारित्रमद्भुतम् ।
पीत्वा पीयूषवत् सर्वं नान्यस्मै कथयिष्यति ॥ ४४॥
इति दैवीं गिरं श्रुत्वा ब्रह्मा सञ्जातसम्भ्रमः ।
सम्पूज्य द्विजमाचष्टे रामलीलां मनोहराम् ॥ ४५॥
एतामैकान्तिकीं लीलां यो ब्रूयादनधिकारिणे ।
स पच्येत महाघोरे नरके दैवचोदितः ॥ ४६॥
(यः)कृष्णैकान्ततरो भक्तो रामभक्तिविवर्जितः ।
तस्मै न कथयेदेतां लीलां विश्वस्य पावनीम् ॥ ४७॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम पञ्चविंशोऽध्यायः ॥ २५॥
२६
ब्रह्मोवाच ।
शृणु द्विज प्रमाणज्ञ रामलीलां मनोहराम् ।
दिव्यराससमायुक्तां सीताकौतुकवर्द्धिनीम् ॥ १॥
सर्वेऽप्यग्निकुमारास्ते षष्टिसाहस्रसङ्ख्यकाः ।
रामलीलारसाभिज्ञाः प्रापुर्निजतपः फलम् ॥ २॥
कल्पं सारस्वतं प्राप्य दण्डकारण्यवासिनः ।
श्रुतयश्चैव सञ्जाता गोपीरूपेण गोकुले ॥ ३॥
रामरूपमनुप्रापुः सरय्वास्तटयोर्द्वयोः ।
प्रमोदवनवासिन्यो जानक्याश्च महाप्रियाः ॥ ४॥
रामतत्त्वमनुप्राप्य मुमुहुः कामभाविताः ।
अन्याश्च दिव्यललना दिव्यरूपसमन्विताः ॥ ५॥
कृत्वा तपो वरं लब्ध्वा दिव्यमापुर्मनोरथम् ।
ततो निजवरं सत्यं कत्तु रामो महामनाः ॥ ६॥
कामतत्त्वेन ताः सर्वा रमयामास गोपिकाः ।
अथ प्रादुरभूत् कामः सहजानन्दलक्षणः ॥ ७॥
जानकीं वेपयामास सहजानन्दरूपिणीम् ।
सा वेपिता कामशरैः प्रादुर्भूय रघूद्वहात् ॥ ८॥
दिव्यवेशधरा भूत्वा क्षोभयामास राघवम् ।
सङ्क्षुब्धः कामबाणेन तामालिङ्गितुमीयिवान् ॥ ९॥
तमायान्तं समालोक्य स्वयमन्तर्बभूव सा ।
अथ खिन्नो राजसूनुर्विरहेण मृगीदृशः ॥ १०॥
इतस्ततो भ्राम्यमाणो दिशः शून्या विलोकयन् ।
पाण्डुक्षामवपुः साश्रुस्तब्धः पुलकपूरितः ॥ ११॥
दिने दिने व्यथापूर्णः प्रलीनसकलेन्द्रियः ।
पद्मपत्रविशालाक्षीं तामेव निजवल्लभाम् ॥ १२॥
ध्यायमानोऽन्तरा दृष्ट्या बहिः शून्याखिलक्रियः ।
अशुष्यद्राजतनयो दीर्यमाणः स्ववक्षसि ॥ १३॥
क्वचिच्चन्द्रमुपालेभे पूर्णबिम्बं सुधामयम् ।
क्वचित् पद्मवनं दृष्ट्वा दुःखी नेत्रे न्यमीलयत् ॥ १४॥
क्वचित् कैरविणीं वीक्ष्य बभूव च पराङ्मुखः ।
क्वचिद् रम्भावनं दृष्ट्वा स्पृष्ट्वा प्राद्रवदातुरः ॥ १५॥
क्वचित् कुञ्जलतां दृष्ट्वा वक्तुं समुपचक्रमे ।
क्वचिद् वसन्तमालोक्य मेने दावानलं विभुः ॥ १६॥
क्वचिदेकान्तसदने तामुपालभत प्रियाम् ।
अये ! कठोरहृदये दृप्ते जनकनन्दिनि ॥ १७॥
व्यथमानहृदं दृष्ट्वा नाद्यापि करुणा तव ।
सकृन्मे दर्शनं दत्त्वा महाविरहवर्धनम् ॥ १८॥
अन्तर्हिता त्वं किं ब्रूमः प्रेमशून्यकठोरताम् ।
क्वचिदाकाशमालिङ्ग्य प्रियाबुद्ध्या मुमोद सः ॥ १९॥
क्वचिन्नवदलं दृष्ट्वा चक्रे चुम्बनगां धियम् ।
क्वचित् खिन्नमनाः श्रान्तो शय्यामालिङ्ग्य संश्रितः ॥ २०॥
क्वचिद्धसन् क्वचिद्धावन् क्वचित् क्रीडारसं दधत् ।
क्वचिदुन्मत्तवज्जल्पन् क्वचित् कुर्वन् मनोरथान् ॥ २१॥
नैव लेभे रतिं क्वापि प्रियाध्यानपरायणः ।
सरयूघोष वासिन्यो दिव्याश्च ललनागणाः ॥ २२॥
रामनायकमालोक्य बभूवुः कामपीडिताः ।
काश्चित्तद्गुणमाकर्ण्य बभूवुः काममोहिताः ॥ २३॥
काश्चित् साक्षादमुं दृष्ट्वा निपेतुर्भृशमूर्छिताः ।
काश्चिच्चित्रगतं दृष्ट्वा जाताः कामशरार्दिताः ॥ २४॥
काश्चित् स्वप्ने समालोक्य पीडामापुः सुदुःसहाम् ।
एवं रामगुणाकृष्टाः समस्ता वामलोचनाः ॥ २५॥
विरहार्त्ताः श्रितैकान्ता दूतीभिः संन्यवेदयन् ।
तासां दूत्यो राममेत्य प्रोचुर्विरहजां व्यथाम् ॥ २६॥
दूत्य ऊचुः ।
अयि सुन्दर राघवोत्तम
त्वमसि प्रेमभरैकभाजनम् ।
वनिताः स्मरबाणवेपिताः
सदय त्वं परिपालय प्रभो ॥ २७॥
तव रूपविमोहिताः स्त्रियः
कलिताः कामकरे कृताशयाः ।
कुलशीलविलज्जयातुराः
पथि रुद्धाः सरितो यथाभवन् ॥ २८॥
अयि राजकुमार सम्प्रति
व्यथितप्राणविमोचनोद्धुराः ।
न निभालयसे किमीदृशीः
करुणावारिनिधिः स्वयं भवान् ॥ २९॥
अथ ते कठिनं यदा मनो
व्रजरामाननवीक्षणाक्षमम् ।
मरणं तदिमा मृगीदृशः
कलयिष्यन्ति विगर्हितं भुवि ॥ ३०॥
अयि कामपरार्द्धसुन्दर
त्रिजगन्मोहनमञ्जुलाकृते ।
मृत एष मृगीदृशीगणः
प्रणयश्रीपरिपालकस्तव ॥ ३१॥
अयि मन्मथमोहनाकृते
किमियं ते प्रकृतिर्दुरत्यया ।
यदमूर्ललना निजाधरा
मृतपानेन न जीवयस्युत ॥ ३२॥
वनितावधपातकोद्भवं भय
मास्ते भवतोऽथवा न वा ।
रघुवंशविभूषणो भवान्
कथमत्युग्रमधर्ममाश्रितः ॥ ३३॥
चरणाम्बुजनिर्गलन्मधुद्रव
धारासुखितान्तराश्रयाः ।
मुनयोऽपि भवद्गुणामृतं
ननु गायन्ति रजस्तमोलयाः ॥ ३४॥
अयि राघववर्यधुर्य ते
चरणाम्भोजपरागकाङ्क्षिणीः ।
अबला मदनेन घातयन्
हृदि चिन्तां महतीमवाप्स्यसि ॥ ३५॥
शिशुनैव विमोहितान्तरा
वनितास्ता व्रतबन्धकर्शिताः ।
भवता वरदाननिर्वृता
वचनेनैव न वञ्चिताः किमु ॥ ३६॥
इदमीदृशबालभाषितं
धरणौ सम्प्रति विश्वसेत कः ।
अथ विश्वसनीयभाषितो
दयितो यद्यसि तत् प्रसीद भोः ॥ ३७॥
निजशैशवकर्मविस्मरन्
वरदानं यदि विस्मृतोऽसि भोः ।
तदिमा युवराज सम्प्रति
प्रणयेनैव सुनिर्वृताः कुरु ॥ ३८॥
यदिचेच्छरणागता अमूः
परिपातुं क्षमते न ते मनः ।
भवतः सुचिरस्थिरं व्रतं
गतमेव प्रतिभाति मेऽधुना ॥ ३९॥
शरणागतपालनव्रतं
यदि ते सुस्थिरमस्ति राघव ।
तदिमा रघुराज कन्यका
विरहाम्भोनिधितः समुद्धर ॥ ४०॥
प्रभुणा करुणावता त्वया
न विलम्बः करणीय एव चेत् ।
परिपालय घोषसुन्दरी
र्निजनाथाः स्मरबाणपीडिताः ॥ ४१॥
रघुनाथ भवान् भवार्णवे
प्रकटोऽभूर्निजसौख्यहेतवे ।
स कथं निजनाथसुन्दरी
निवहं संव्यथयन् न लज्जते ॥ ४२॥
इति शुश्रुम देवकार्यकृत्
कृतवेशः पुरुषोत्तमो भवान् ।
तदिमाः सुरलोकसुन्दरीः
विरहार्ताः परिपालय प्रभो ॥ ४३॥
परिपालय नाथ सेवकान्
निजलावण्यसुधैकसंश्रयात् ।
इति ते विरुदावली यथा
न विशीर्येत् करुणारसाम्बुधे ॥ ४४॥
स्मरसुन्दर कापि मूर्च्छिता
प्रमदं कापि तनोति मन्त्रवित् ।
मुहुरेव च कापि धावति
त्रपया कापि निरोधिताभवत् ॥ ४५॥
प्रलपत्यपि कापि भूरिशः
करुणां कापि निभालते तनुम् ।
जडवत् प्रणयेन काप्यभूद्
बहुशः खिद्यति राम काचन ॥ ४६॥
पुलकानि बिभर्ति काचन
स्वरभङ्गं कुरुते च काचन ।
प्रणयेन च कापि कम्पते
मलिनाङ्गी खलु राम काप्यभूत् ॥ ४७॥
अथ कापि करोति रोदनं
पृथुमुक्ताफललोचनाश्रुभिः ।
प्रिय कापि विलीनवृत्तिका
भुवनं शून्यमिवैव वीक्ष्यते ॥ ४८॥
इति नित्यमुपस्थितं महत्
कदनं घोषपुरीमृगीदृशाम् ।
कृपया क्षपयातिकोमल
प्रकृते राम धनुर्धराग्रणीः ॥ ४९॥
अयि राम धनुर्धराग्रणीः
प्रसभं राजकुमार पालय ।
नहि चेन्निहनिष्यते स्मरो
निजनाथाः खलु घोषसुन्दरीः ॥ ५०॥
महतीं श्रियमाप्तवानसि
स्मरसि त्वं किमु धेनुधोरणीः ।
अधुनापि तवैव गोपते हृदि
वाञ्छन्ति गवेन्द्रतां प्रभो ॥ ५१॥
सततोत्सवभूरिभाग्यवा
नसि साकेतपुरीपतेः सुतः ।
न भवन्तमिह त्यजन्त्यमी
स्वसखायः खलु गोपपुत्रकाः ॥ ५२॥
महती खलु राम वर्तते
भवतः श्रीर्गुरुगोपवेश्मसु ।
न तथा हृदयं धिनोत्यसौ
नृप सम्पत्तिरपारकुञ्जरा ॥ ५३॥
पितृतो भवते प्रदर्शिता
कमला कोटिगतौघसेविता ।
किमु विस्मरणे भविष्यति
प्रणयावद्धगवेन्द्रवेश्मनः ॥ ५४॥
जननी तव गोपसुन्दरी
रघुवर्य त्वयि पुत्रवत्सला ।
त्वमपि स्फुटराज्यसम्पदं
प्रणयेनैव विधूय संस्थितः ॥ ५५॥
इति राम विगर्हणं तव
प्रकटं प्रेमवशेन कथ्यते ।
नृपपुत्र न चेत् त्वमीश्वरः
किमु लोके सुलभोऽसि मृग्यताम् ॥ ५६॥
नवनीतसमूहतस्करो
व्रजरामापरिरम्भपेशलः ।
सुलभोऽप्यसि घोषभूषण
स्वकलीलारसमात्रकौतुकी ॥ ५७॥
इति दूत्यपरायणाशयै
र्व्रजदूतीनिवहैरुदीरितम् ।
वचनं सुनिशम्य राघवः
प्रहसन् प्राह मनोज्ञया गिरा ॥ ५८॥
श्रीराम उवाच ।
सात्यन्तं मे प्रिया सीता हृद्गता बहिरुद्गता ।
मोहयित्वा सहृदयं हाहा कुत्र गता जवात् ॥ ५९॥
न तां विना क्षणं स्थास्याम्यहमीशोऽपि सम्पदाम् ।
सा मे विगर्हणं कुर्याद्यदि क्रीडेयमन्यतः ॥ ६०॥
तद्भ्रूविजृम्भवशगो बिभेमि व्रजदूतिकाः ।
तत्स्वीकृतिमहं कृत्वा श्रोष्याम्यन्याभिवाञ्छितम् ॥ ६१॥
जनकस्य गृहे जाता सा मे स्वप्नगताऽब्रवीत् ।
तां त्यक्त्वा कथमन्यासु कुर्वीय प्रणयोत्सवम् ॥ ६२॥
सा मे यदि प्रकुप्येत तदा किं मे भवेदिति ।
मुहुः सञ्चिन्त्य नान्यासां प्रणयं पालितुं क्षमः ॥ ६३॥
तद् व्रूत मद्वचस्तत्र गत्वा यूयं सुदूतिकाः ।
आश्वासयत ताः कान्ता भूयो मद्विरहातुराः ॥ ६४॥
भवतीभ्यो वरं दत्तं स्मरामि व्रजयोषितः ।
तत्र कालं प्रतीक्षध्वं यावत् सीतासमागमः ॥ ६५॥
तथाहं विधिवत् कृत्वा भूयः परिणयोत्सवम् ।
तस्यै महापदं दत्त्वा महिषीत्वेन भावितम् ॥ ६६॥
भवतीभिस्ततः सङ्गं करिष्यामि व्रजाङ्गनाः ।
इत्येवं भाषमाणे तु तस्मिन् राघवपुङ्गवे ॥ ६७॥
आययुर्मुनयः सर्वे दूतीनां पुरतः स्थिताः ।
स्थूलाक्षः शर्कराक्षश्च कम्बुर्मेधातिथिः शुकः ॥ ६८॥
नारदः पर्वतश्चैव सुधर्मा चैकलो द्विजः ।
मित्रभवनोऽप्यथो धौम्यः शतानन्दो विशारदः ॥ ६९॥
जमदग्निस्तथा रामो वशिष्ठो वामदेवकः ।
अन्ये चैव तपोवीराः प्रादुरासुर्मुनीश्वराः ॥ ७०॥
जाबालिः पिप्पलादश्च शाण्डिल्यो लोहितस्तथा ।
उद्दालको देवलश्च लोमशश्च महामुनिः ।
ते तत्र बोधयामासुर्धर्मज्ञं रघुपुङ्गवम् ॥ ७१॥
सुनय ऊचुः ।
शृणु राम महाबाहो नैव वक्तुमिहार्हसि ।
त्वदङ्गसङ्गिनी सीता नोद्वाहं समुपेक्षते ॥ ७२॥
शैशवे शिशुरूपा सा तारुण्ये तरुणाकृतिः ।
तिरोभावे तिरोभूताविर्भावे प्रकटाकृतिः ॥ ७३॥
चन्द्रेण चन्द्रिकेवासौ त्वयैव सह वर्तते ।
गच्छ राम मनोज्ञं तत् प्रमोदवनमुत्तमम् ॥ ७४॥
तत्रस्था व्रजदेवीश्च रमयस्व चिरं प्रभो ।
ता एव प्रथमं तस्याः करिष्यन्ति विकैतवम् ॥ ७५॥
दूत्यं तया भवत्सङ्गं कारयिष्यन्ति योषितः ।
तास्वाविष्टा ततः सीता रंस्यते भवता समम् ॥ ७६॥
स्वयं च रंस्यते साक्षात् सीता सहजसुन्दरी ।
नात्र त्वया क्वचित् कार्यो विकल्पो रघुनन्दन ॥ ७७॥
तासामेव हितार्थाय भक्तानां व्रजयोषिताम् ।
त्वत्तः प्रादुरभूदेवा भेदेन दर्शनं गता ॥ ७८॥
पुनश्चान्तर्हिता भूत्वा प्रमोदवनमागता ।
तत्र सा शोभते नित्यं सरयूतीरवासिनी ॥ ७९॥
प्रमोदवनमध्यस्था तद्देवीभिश्च पूजिता ।
तासां मध्येऽनिशं भाति प्रमोदवनदेवता ॥ ८०॥
रक्ताशोकलताकुञ्जं सीतासौ तत्र कानने ।
त्वं तात गच्छ तत्रैव पूरयस्व मनोरथान् ॥ ८१॥
नेत्रोत्सवं तथास्माकं देहि राघवपुङ्गव ।
त्रैलोक्ये च महामोदं वर्द्धयस्व महामते ॥ ८२॥
नातो विलम्बनं कार्यं वयं दूत्यमुपागताः ।
तत्रैव सीतया सार्द्धं शोभन्ते व्रजयोषितः ॥ ८३॥
श्रुतिरूपा नित्यसिद्धा अग्निपुत्राश्च योगिनः ।
अन्ये च दिव्यमुनयो वाञ्छन्ति भवदागमम् ॥ ८४॥
योषिद्रूपं विधायैते कामेन क्षुभिताशयाः ।
त्वामेव नित्यं वाञ्छन्ति तत्र गच्छाधुना प्रभो ॥ ८५॥
इति तेषां वचः श्रुत्वा रामः प्रहसिताननः ।
महान्तमुत्सवं कृत्वा सर्वांस्तान् विससर्ज ह ॥ ८६॥
ओमित्युक्त्वा दूतिकाश्च विससर्ज नृपात्मजः ।
दूत्योऽपि तेन वाग्वन्धं कृत्वा प्रमुदिताशयाः ॥ ८७॥
आयाति भवतीनां वै नाथः सञ्जातकौतुकः ।
इति ताभ्यो व्रजस्त्रीभ्यः पृथक् सत्यं न्यवेदयन् ॥ ८८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम षड्विंशोऽध्यायः ॥ २६॥
२७
अथागमच्छरत्कालः प्रमोदवनमध्यतः ।
उत्फुल्लपङ्कजवनः परागोद्धूलिताम्बरः ॥ १॥
सप्तच्छदोग्र सौगन्ध्यसमूहोन्मत्तदिग्गजः ।
मृदुचन्द्रकरस्पर्शसहजोत्फुल्लकैरवः ॥ २॥
उत्फुल्लमल्लिकावल्लीकुसुमस्तवकान्वितः ।
खेलत्खञ्जनदाम्पत्यसम्भ्रमोद्भूतमन्मथः ॥ ३॥
चकोरीवदनान्तःस्थ निशाकरकरामृतः
हंसकारण्डवाक्रीडसलिलोद्धरणोद्धुरः ।
कञ्जकिञ्जल्कपुञ्जान्तर्लीनप्रचुरषट्पदः
काशपुष्पप्रतीकाशचमरीपुच्छमण्डलः ॥ ५॥
प्रमोदवनसम्फुल्लमालतीसौरभान्वितः ।
सन्ततस्वच्छसरयूसलिलाचितबालुकः ॥ ६॥
गोपगोपीहृदुत्साहवर्द्धनः पुष्टिकारकः ।
दृष्ट्वेदृशं तु समयं रामो रमणकोविदः ॥ ७॥
गोधोरणीं पुरस्कृत्य प्रमोदवनमागमत् ।
तत्र गत्वा कृताकल्पः सहजोत्सवसुन्दरः ॥ ८॥
अङ्गलावण्यसन्दोहप्रकाशितदिगन्तरः ।
गोपानुवाच सकलान् भ्रातॄंश्च लक्ष्मणादिकान् ॥ ९॥
हे लक्ष्मण गवां गोष्ठं रच्यतां परितोऽत्र वै ।
गोपैः सार्द्धं शाद्वलानि चार्य्यतां मम धेनवः ॥ १०॥
अहमत्र करिष्यामि प्रमोदविपिनान्तरे ।
पूजां कामेश्वरस्याङ्ग देवदेवस्य सन्ततम् ॥ ११॥
भरतेन च शत्रुघ्न सार्धं त्वं गाश्च चारय ।
अत्र स्यात् कोऽपि चेद्विघ्नः प्रतीकार्यस्तथैव सः ॥ १२॥
प्रमोदवनकुञ्जेषु करिष्यामि मनोरथम् ।
ओमित्युक्तवन्तमथो विसृज्य लक्ष्मणं च तान् ॥ १३॥
अन्तः प्रमोदविपिनमियाय रघुनन्दनः ।
तत्र गत्वा शशिज्योत्स्ना विसतन्तुपटोज्ज्वलाः ॥ १४॥
सुधामयीः शरत्पूर्णा रजनीराजुहाव सः ।
द्विपरार्धान्तेऽपि नित्यास्तास्तस्य पुरतोऽभवन् ॥ १५॥
तासु क्रीडनमारेभे दिव्यकेलीविशारदः ।
तत्र स्थित्वा महाकुञ्ज जुगुञ्ज कलवेणुना ॥ १६॥
तत्र वेणुरवे गानमकरोदिदमादरात् ।
इत्येहि जनकनन्दिनि मदन्तः
सन्तापहरणचन्द्रिकावतारविग्रहे
मदङ्गसञ्जातप्रमोदवनलहरीलीलायितगते
सहजचिदानन्दमयतारुण्य
विलासवैभवाधिवासिते ॥ १७॥
चिल्लोकस्वामिनि कामिनीजनगर्वापहार
मकरध्वजपताके वेदिमध्ये महामत्तमातङ्गगामिनि
राकेशप्रभावलेपनिर्वहणवदनकान्ते
कैशोरलीलामतिलङ्घ्यवर्तमाने ॥ १८॥
प्रमोदवन-वृन्दावन-मन्दारवन-कदम्बवन-पारिजातवनेश्वरि
कुञ्जभुवनेश्वरि रक्ताशोकलतामण्डपमध्यस्थे स्मरमन्त्र-महाविद्ये
श्रीमन्त्र-विद्ये महामन्त्रविद्ये महाश्रीयन्त्रनायिके महाचक्रनायिके
मातङ्गकुलपूजनीयचिन्तामणिचरणनखचन्द्रिके ॥ १९॥
चञ्चलापाङ्गसङ्क्षोभितकोटिकन्दर्पकामिनीहृदये
कोटिब्रह्माण्डकमलासमुच्चयरूपविग्रहे
मन्दस्मितमात्रनिरस्तविरहशोके हा भामिनि
हा चण्डि हात्यन्तकोपने हातिशयदुराराध्यशीले
भूलीलादिविविधाकारावान्तरावताराति-निमग्नमानसे क्वासि क्वासीति
ॐ ॐ ओं ॐ आनन्दवल्लिके क्वासि क्वासीति जगौ ॥ २०॥
ततस्तदाकर्ण्य सुवेणुनिःस्वनं
प्रियोदितं मन्मथवेग वर्द्धनम् ।
स्मरोन्मदप्रोद्धतमानसा बहि
र्हृदन्तरादाविरभून्नितम्बिनी ॥ २१॥
अशोकवल्लीवनमण्डपान्तराद्
विनिःसरन्ती सहजारुणांशुका ।
घटस्तनी सन्मणिहारभूषणा
स्फुरत्पदन्यासविरञ्चितावनिः ॥ २२॥
मरालगत्यञ्चितमञ्जुविग्रहा
नितम्बभारोद्वहनाक्षमा रमा ।
मृदुस्मितदद्योतविभासितानना
मनोहरापाङ्गविभूषितेक्षणा ॥ २३॥
अनर्घ्यकाञ्चीगुणनादिघण्टिका
मनोज्ञकेयूरविलम्बिदोर्लता ।
त्रपानिमग्ना कलितावगुण्ठना
सुवृत्तदीव्यज्जघनप्रभाम्बरा ॥ २४॥
सुकण्ठकण्ठी शुभसूत्रशोभिता
सभागसौभाग्यसमूहसङ्गता ।
समानशीलैः प्रचुरैः सखीजनैः
सनाथपर्यन्तपुरस्थलस्थिता ॥ २५॥
परिस्फुरच्चारुकपोलमण्डन
प्रतिष्ठताटङ्कमणिप्रभाभरा ।
प्रसूनचित्रीकृतचारुवेणिका
सुनासिकाशोभिमहामणित्रया ॥ २६॥
सुमञ्जुसिन्दूरसमूहसुन्दर
प्रसर्पिसीमन्तितरत्नपट्टिका ।
ललाटपर्यन्तविराजिभूषण
प्रभासमूहैः परिवेपितानना ॥ २७॥
सा राघवेन्द्रस्य जवेन सन्निधौ
समेत्य कण्ठे मणिमालिकामधात् ।
तयोर्विनिर्वृत्य विवाहमङ्गलं
सखीजनः कुञ्जगृहे विधानवित् ॥ २८॥
प्रवर्तयामास मिथो रतिक्रियां
नवीनसङ्गोद्यदनङ्गकौतुकाम् ।
ततस्तयोस्तत्र दिने दिनेऽभव
न्महोत्सवः पूर्णसखीमनोरथः ॥ २९॥
शृङ्गारयामास रघूद्वहः प्रियां
प्रियापि तं दिव्ययुवानमादरात् ।
एवं तदन्योन्यमभूत् कुतूहलं
दाम्पत्यभावप्रणयेन सञ्चितम् ॥ ३०॥
परस्परालापनिरीक्षणादिषु
प्रवृद्ध उच्चैः प्रणयस्य वारिधिः ।
अभूदमर्यादतरः समन्ततो
यथान्यवार्ता धरणीं समाक्रमत् ॥ ३१॥
साकेतनगरद्वारा रासभूः सहवेश्मसु ।
सरयूतटकुञ्जेषु रत्नपर्वतसानुषु ॥ ३२॥
क्रीडास्थानेषु दिव्येषु महासाम्राज्यभूतिषु ।
वाटिकातटवापीषु प्रमोदवनमध्यतः ॥ ३३॥
दधौ केलिरसं रामो रामया सह सन्ततम् ।
क्वचिद् गुञ्जाविभूषाढ्यो वनमालाविभूषणः ॥ ३३॥
मयूरचन्द्रिकोत्तंसी वितेने नयनोत्सवम् ।
क्वचिच्चन्दनकाश्मीरमकरीपत्रचित्रितः ॥ ३५॥
रत्नाकल्पमनोहारी चकारातीव सम्पदम् ।
क्वचिच्च कनकोष्णीषरत्नस्तवकशोभितः ॥ ३६॥
हेमकञ्चुकलिप्ताङ्गो रेजे राजोत्तमो यथा ।
क्वचित् पीताम्बरधरः शुभ्रधौत्रविराजितः ॥ ३७॥
आबद्धचूडाचिकुरश्चकार प्रियया मुदम् ।
क्वचिच्च मल्लकच्छाढ्यः सुवर्णधृतकुण्डलः ॥ ३८॥
करस्थवलयोल्लासी रराज रघुनन्दनः ।
क्वचिन्नासामणिभ्राजी श्रीमदाननमण्डलः ॥ ३९॥
प्रियाकल्पितपुंवेशो रेजे श्रीरामचन्द्रमाः ।
क्वचित् किरातवेशेन सन्नद्धललनासखः ।
मृगयाभिरतिर्वीरो व्यरोचत वनान्तरे ॥ ४०॥
एवं विचित्ररचनान्वितकेलिकारः
कन्दर्पकोटिकमनीयकलाकलापः ।
दासीजनप्रतिविभूषितदिव्यरामा
तारुण्यमोदमदिरारसपानमत्तः ॥ ४१॥
अन्योन्यमुज्ज्वलरसोदधिहावभाव
रिङ्गत्तरङ्गशतसान्द्रतरार्द्रमूर्त्तिः ।
चक्रे विलासरसिको विविधान् विलासान्
श्रीमत्प्रमोदवनकुञ्जगृहे सुरम्ये ॥ ४२॥
इत्यं विहरतस्तस्य रामया सीतया सह ।
द्विपरार्द्धन्तिमभवद् ब्रह्मणो रजनी हि सा ॥ ४३॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम सप्तविंशोऽध्यायः ॥ २७॥
२८
ततः प्रवर्तते घोरं तमो भावपिधायकम् ।
रवेरस्तमभूत्तेजः शशुभे ज्योतिषां गणः ॥ १॥
तारकौघाः प्रादुरासन्नुलूकाः सम्प्रपेदिरे ।
पद्मकोशान्तरे बद्धाः जुगुञ्जर्न मधुव्रताः ॥ २॥
मधुरोल्लाससंशोभि बभौ कैरविणीवनं
विटपेषु च निद्राणाः पतङ्गा न च भाषिरे ।
संवीक्ष्य तामसीं वेलां रामः प्रोवाच जानकीम् ॥ ३॥
जनकनन्दिनि सम्प्रति वर्तते
रजनिरुत्सुककोकगणार्तिदा ।
स्फुरदुलूककदम्बकमोद
कृत्तिमिरघोरपटावृतकानना ॥ ४॥
कटु रटन्ति च सम्प्रति फेरवाः
सुकलहंसरवश्च तिरोहितः ।
श्रवणयोः कुरुते कटुतामसौ
किमपि चक्रवधू निवहारवः ॥ ५॥
न खलु सम्प्रति वञ्जुलकाननं
विकसितं वितनोति दृगुत्सवम् ।
कुमुदिनी प्रविभर्त्ति विकासितां
वितथसौरभसम्पदुपेक्षिता ॥ ६॥
किमपि गायति च भ्रमरावली
विकटकुञ्जलतावनवेश्मसु ।
दधति रत्नगिरेस्तटभूमय
स्तिमिरसङ्घकृतं स्वपराभवम् ॥ ७॥
इति निशम्य निशागमवर्णनं
जनकजा समभाषत वल्लभम् ।
इयमहो रजनी न निवर्तते
प्रलय एष विधेरपि नाशकः ॥ ८॥
भजति भूतगणः प्रकृतिं परां
प्रकृतिरेति परे पुरुषे लयम् ।
पुरुष एति भवन्तममुं परं
निजविलासरतं पुरुषोत्तमम् ॥ ९॥
त्वमधुनापि रतेर्न निवर्तसे
सहजचित्सुखकेलिकलानिधिः ।
यदपि नाथ गता लयमीदृशाः
शतश एव विरञ्चिहरीश्वराः ॥ १०॥
त्वमवधिः परमं पुरुषोत्तमः
सततकालकलाकलनात्मकः ।
प्रिय भवन्तमुपेत्य गतोऽ
प्यसावगत एव विवात्यत इत्यहो ॥ ११॥
अहमपि प्रभुणा भवता सह
प्रमुदकाननकुञ्जविलासिनी ।
न कलये प्रणयेन च सम्भवं
न विरतिं सुखकेलिमहोत्सवे ॥ १२॥
अथ यदि स्वपनस्पृहया प्रभो
किमपि ते नयनेऽलसपक्ष्मणी ।
तदहमप्यधुना स्वपिमि क्षणं
भवदुदारभुजान्तरवर्त्तिनी ॥ १३॥
भवदुरोनयनानननासिका
हृदयपाणिपदावयवाश्रिता ।
विरचयामि सुषुप्तिरिवोछ्वस
न्निगमशब्दमयीं विरतिं न किम् ॥ १४॥
निधुवनान्तमिता श्लथविग्रहा
स्वपिमि नाथ कदा भवता समम् ।
स्वदयितस्य सुषुप्तिदशाजुष
स्तव मुखेन्दुनिरीक्षणं मक्षमा ॥ १५॥
नहि निमीलितलोचनपङ्कजो
ऽप्यथ भवानपि मां परिमुञ्चसि ।
सुखसुयन्त्रितदोःपरिरम्भण
प्रणयकेलिकलाकुलविग्रहः ॥ १६॥
अलसलोचन एष सखीजनो
ऽप्यलमिह स्वपितीति विभाव्यते ।
इह न सोऽपि जनोऽस्ति य एत्य
नो दिशति नागलतादलवीटिकाम् ॥ १७॥
कथयतो रतिवल्लभयोर्मिथः
सपदि कापि सखी सुसमाययौ ।
न युवयोरधुनापि दिनात्यये
भवति सुप्तिरतीवविलासिनोः ॥ १८॥
नवनिकुञ्जलतावनमण्डपे
कुसुमक्लृप्ततले कुरुथो न किम् ।
निधुवनक्रियया सहजं सुखं
स्मरविलासकलाकुशलौ युवाम् ॥ १९॥
निधुवनश्रमसङ्गतनिद्रयो
श्चरणवाहनमेत्य करोति या ।
किमु न साप्यहमद्भुतदासिका
रहसि दम्पतिसुप्तिरहस्यगा ॥ २०॥
इत्थं सखीगिरं श्रुत्वा स्मृत्वा सीतारघूद्वहौ ।
शय्यामन्दिरमत्युच्चैराजग्मतुरनुत्तमम् ॥ २१॥
चन्दनागुरुधूपाढ्यं कर्पूरोज्ज्वलदीपकम् ।
शय्यान्तावनिविन्यस्त दिव्यास्तरणगैन्दुकम् ॥ २२॥
नानारङ्गसृतानेक दिव्यचित्रविचित्रितम् ।
कुञ्जवल्लीवनान्तःस्थमन्दारद्रुममूलगम् ॥ २३॥
रक्तपीतप्रभाशोभिरत्नवेद्पयुरि स्थितम् ।
सुवर्णसम्पुटन्यस्तताम्बूलोदलवीटिकम् ॥ २४॥
कल्पद्रुमप्रसूनस्त्रग्वासोलङ्कारभूषितम् ।
सम्भोगमल्लयुद्धान्त सुखदव्यजनाञ्चितम् ॥ २५॥
सुगन्धिमिष्टमधुरपक्वान्नादिसमायुतम् ।
प्रोद्भासिरत्नचषकोपेतमैरेयभाजनम् ॥ २६॥
द्यूतकेलिक्रियोपायचतुष्पद्यादि संयुतम् ।
हेमरत्नचतुष्कस्थपानीयकलशीयुतम् ॥ २७॥
रत्नज्योतिसमुद्भासिपृथुदर्पणमण्डलम् ।
वेश्माभ्यन्तरवेश्मान्तज्वलत्सुस्थिरदीपकम् ।
सखीजनकृतान्वीक्षा गवाक्षशतसङ्कुलम् ॥ २८॥
तत्र गत्वा निजालीभिः कृताकल्पां निजां श्रियम् ।
रमयामास रामेन्दुर्नवस्मररतोत्सवे ॥ २९॥
सख्यो जाम्बूनदीं मालां दत्त्वा सीताकराम्बुजे ।
रामस्य रोषयामासुः कण्ठे पुलकसुन्दरे ॥ ३०॥
तस्याः काञ्चीगुणग्रन्थिस्पर्शोत्कम्पिकरे प्रिये ।
सख्यस्तूर्णं विनिर्याताः शय्यामन्दिरतो बहिः ॥ ३१॥
तत्रैतयोः काकुवचःशताकुलं
प्रभूतकन्दर्पशरोद्धुरं रतम् ।
बभूव भूयो न न नेति कान्तया
निवार्यमाणोद्धुरकान्तखेलितम् ॥ ३२॥
प्रियः परीरभ्य मनोरमां प्रियां
स्तनद्वयामर्दनजातसम्भ्रमाम् ।
चुचुम्ब बिम्बीफलकोमलेऽधरे
रदव्रणारोपणजातवेदनाम् ॥ ३३॥
बलेन सा तस्य सुबाहुयन्त्रणां
निवार्य नीवीं प्रददौ करं हि सा ।
द्वितीयकेन प्रसभं च पाणिना
सुदूरयामास युवानमद्भुतम् ॥ ३४॥
बली स तस्याश्चरणद्वयं जवा
न्निजांसमारोप्य मुखेन्दुमण्डलम् ।
चुचुम्ब सुस्निग्धकपोलभास्वरं
वृतालकालीअमरीशताकुलम् ॥ ३५॥
हठात् समाकृष्य पदद्वयेन सा
विव्याध वक्षस्थलमस्य कामिनः ।
ततोऽभवन्नूपुरकिङ्किणीरवः
प्रसुप्तहंसौघवितीर्णसम्भ्रमः ॥ ३६॥
रामश्च तन्नूपुरयुग्मशिञ्जितैः
मनः प्रभूतद्विगुणस्मरार्दितः ।
रदैर्विनिष्पिष्य रदच्छदं पुनः
संरम्भतस्तत्परिरम्भमाचरत् ॥ ३७॥
सा रामचन्द्रस्य भुजद्वयान्तर
स्थितार्दिता वक्षसि तेन वक्षसा ।
चचाल नालिङ्गनसङ्गमोद्भव
प्रमोदसम्बन्धनिमीलितेक्षणा ॥ ३८॥
चुचुम्ब तस्याः स्फुटकोरकाकृती
दृशोः [शौ ?] सकासी वदनं निभालयन् ।
तस्थौ पुनर्नीविगुणं पिधाय सा
करद्वयेनोत्पुलकावलीतनुः ॥ ३९॥
स तत्करौ पङ्कजकोरकाकृती
हठात् समुत्क्षिप्य बभञ्जनीविकाम् ।
तावत्तु सा चोरुयुगं सुवेष्टितं
कृत्वा कराभ्यां च वराङ्गमप्यधात् ॥ ४०॥
स तन्नितम्बद्वितयं मनोरमं
लिलेख सूक्ष्मैः करजैः स्मरोद्धतः ।
समालभच्च स्तनकुड्मलद्वयं
स्ववक्षसा दीर्यदुदारकञ्चुकम् ॥ ४१॥
विदीर्यमाणा कुचकञ्चुकी च सा
चकार तत्र द्विगुणं श्रियं रतेः ।
स्तनौ सुवेशेन यथा विरासतुः
प्रमत्त चक्राविव पद्मिनीदलात् ॥ ४२॥
उदीर्णभासोः स तयोरुरोजयो
र्नखावलीं सन्निचखान नायकः ।
स्फुटेन्द्रगोपापयवैः समाचितौ
यथा लतायास्तवकौ विरेजतुः ॥ ४३॥
साप्यस्य वक्षस्थलमुद्धृतैर्नखैः
पस्पर्श किञ्चित्स्मयदुर्मदेक्षणा ।
आवर्जयामास च दुर्लभत्वतः
स्मरातुरस्यास्य हठेन वेगिताम् ॥ ४४॥
स उत्पतन्मन्मथवाणवेपितो
मदोद्धतो बाहुबलेन यन्त्रयन् ।
चकार बालां मधुरांशुकच्युतां
विस्पष्टदीव्यज्जघनद्वयप्रभाम् ॥ ४५॥
विलोड्यमाना सुरते प्रियेण सा
बभूव सुस्वेदकणान्तविग्रहा ।
तथाप्यमुञ्चत्त्रपया न कर्हिचि
न्नितान्तसंशोभिमुखावकुण्ठनम् ॥ ४६॥
पिधाय योनिं करपद्मसम्पुटे
परस्परासक्तिसुसङ्गतोरुकाः ।
अधःस्थिताप्युच्छलतिस्म तस्य सा
समानलज्जामदनद्वयाकुला ॥ ४७॥
तां केनचिद्वन्धबलेन कामुको
निबद्ध्य निर्मुच्य तदोरुबन्धनम् ।
आरोपयामास निजोरुयुग्मके
वराङ्गसौलभ्यसुनिर्वृतेन्द्रियः ॥ ४८॥
निजोरुसंस्थामबलां सुयन्त्रितां
ततो निबन्धाच्चलितुं च नो क्षमाम् ।
ददर्श वक्त्रे परिचुम्बिताधरे
पराङ्मुखी तावदभूज्जवेन सा ॥ ४९॥
तस्याः सुदीर्घामलकावलीं करे
निगृह्य तां सम्मुखमन्वकूलयन् ।
ततोऽपि सा सम्मुखवर्त्तिनी प्रिया
निमीलिताक्षी न बभाण किञ्चन ॥ ५०॥
सामर्षसक्रोधसहर्षसत्रप
सहाससोन्मादनसाश्रुलोचना ।
बभूव तूष्णीमवशा सुयन्त्रिता
कृताधरस्पन्दलवानुमेयगीः ॥ ५१॥
ततोऽस्य वक्त्रं शनकैः प्रपश्यती
बभाण बाला मृदुवल्गुभाषिता ।
अलं जवेन प्रिय मुञ्च मुञ्च मां
न नेति सम्मर्द्दविलोलविग्रहा ॥ ५२॥
स भाष्यमाणोऽपि जवेन योनिं
बभञ्ज तस्याः खलु दीनयाचितम् ।
हाहेति वक्त्रे करकुड्मलद्वयं
प्रकुर्वती काकुशताकुला च सा ॥ ५३॥
हठेन तेन व्यथितेव कामिना
ररज्ज्ञ शय्यापि यथार्द्रयावकैः ।
कृतोद्धतां निर्दयसौरतक्रियां
तत्याज मूर्च्छायितविग्रहां तु ताम् ॥ ५४॥
सखीजनस्तां प्रथमे रतोत्सवे
बालां कथञ्चित्प्रतिलब्धचेतनाम् ।
संस्नापयामास सुमङ्गलोदकैः
विधानविद्भिर्निगमैः प्रबोधिताम् ॥ ५५॥
इत्थं निशायामतिलङ्घ्य चेतनां
चकार रामः प्रियया रतोत्सवान् ।
यावत्स शेते पुरुषो महोदधौ
भुजङ्गराजे शयने सुषुप्तिभाक् ॥ ५६॥
गावश्च तस्य प्रसरन्ति सर्वतो
निश्वासरूपा भुजगेन्द्रपालिताः ।
तौ कामिनौ निर्भरकामकेलिभिः
संश्रान्तचित्तौ दधतुः स्वलीलाम् ॥ ५७॥
तदोल्वणा नाम जवेन राक्षसा उत्पेतुरुग्रा बलवत्सहिस्राः ॥ ५८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम अष्टाविंशोऽध्यायः ॥ २८॥
२९
अथोत्पेतुः परितः प्रमोदवनमुल्वणा नाम राक्षसाः ।
सोदरकाः सायुधाः सकवचाः सुतीव्रमतयो
मदोद्धतास्तामसास्तामसीन्त्रपराक्रमा उल्मुकहस्ता
अमङ्गलास्तालशतसमुच्छ्रायवपुषो दुर्दर्शनाः
प्रज्वलद्द्वाग्निदृशो गिरिगण्डसमानांसाः
पृथुतरनासाविनिः सरच्छ्वाससमुत्कम्पितद्रुमान्
समुन्मूलयन्तः पादविन्यासप्रचालितधरणीभागाः
सरागाननाः करालजटालकेशाः कृत्तिवाससो गणा
इव विकटाटोपताण्डवप्रचण्डाः ॥ १॥
तान् लक्ष्मणोऽभिवीक्ष्य श्रीरामाज्ञापरायण
स्तदाखिलकार्य प्रसाधनचतुरोऽक्षरब्रह्माकृतिः
पुरुषोत्तमस्य द्वितीया मूर्त्तिश्चतुर्मूर्त्तेर्भगवतः
सज्जीकृतधनुः सुतीक्ष्णविशिखधारासारै
र्निवारितवांस्ते दृष्ट्वा शाद्वले चरन्तं
रामधेनुकं सङ्क्षोभयाञ्चक्रुस्ततोवीरः सधेनुकं
प्रमोदवनाभ्यन्तरे प्रवेश्य तानापततः
प्रचण्डैः काण्डैर्विव्याध ॥ २॥
ते विद्धा द्विगुणसञ्जातरुषो लक्ष्मणं
विषममुशलसमूहैरवाकिरन् ।
स निजकाण्डवर्षेण मुशलान् द्विधाकरोत् ।
तेन द्विधाकृता मुशला दूरादेव परावृत्ताः बभूवुः ।
कथञ्चन रविरिव पांसुप्रचयावकीर्णमारुताण्ड
वरान्मुशलदुर्दिनात् स्वरूपं प्रकाशयामास ।
ते पुनरपि तं राजकुमारमाच्छादयन् शक्तिवृन्दैः,
सञ्छिन्नः शक्तिवर्षेण मूर्छितो धरण्यां निपपात ॥ ३॥
ततो हाहाकृतं दिवि देवसैन्यं
बभ्रामोवाच चाहो प्रभो लक्ष्मण कथं
निर्विराज [ण्ण ?] इवासि संवृत्तः ।
सम्प्रति खलु त्वमेव गोधोरणीनायको
नान्यमुपलभामहे । प्रभुस्तु योगनिद्रा
वशंवदोऽधुना शेते क्षीरोदार्णवे प्राण
प्रदस्त्त्वमेवास्य सहजकेलीनां लीलोपधानी
कृतसमुद्रतनयैकबाहोः सान्द्रतराश्लेषज
परस्परसुखानुभवरसिकस्य आदेशोऽसौ
त्वां प्रमोदवनरक्षायै गवां पालनाय च
महाविक्रमोर्जितमेकवीरं
स्वानन्दविलाससाधनोपायम् ॥ ४॥
सखलु त्वं मैवं कार्षीः । भरतशत्रुघ्नावपि
सम्प्रति क्वगताविति न प्रतीमो यतस्त्वमेकाकी
महोल्वणैरमीभिर्युद्ध्यसे । संस्मर संस्मर
स्वात्मानं समुत्तिष्ठ सज्जीकृतधनुः
कोटिराक्षसकुलहन्यवे सौमित्रेयेति ॥ ५॥
लक्ष्मणस्तत्क्षणे प्रविधूयाङ्ङ्गव्यथां
निजमहिमसंस्मृतिसुधाधाराभिस्तूर्णमुत्थाय
घोरतरनाराचधाराभिर्दुर्दिनैः समाच्छादितवान्
राक्षसमहोदरान् । ते च प्रबलतरभुजगेन्द्र
भोगोपमभुजदण्डकुण्डलीकृतकोदण्ड
निर्गलत्काण्डाग्रसञ्छिन्न शिरसो निपेतुः परितः
प्रमोदवनं । तेषां पततां शरीराणिधरणीं
कामयामासुस्समभूच्चारवोज्रनिर्घातघोरः ।
केचिच्च पलायमानाः क्ष्मां समाकम्पयन्,
तेषां पलायमानानां चरणविन्यास संरम्भेण
व्यशीर्यन्त भूमिभागाः । एवं निर्दलिताखिल
विपक्षसैन्यो महावीरो धनुः प्रतिसंहृत्य गवां
धोरणीमपालयत् । तावत् सुखं शेते जानकी
कण्ठपाणिः सकललोकेश्वरः श्रीरामः ॥ ६॥
अथ यामार्धावशिष्टायां रजन्यां
प्रभोः प्रबोधनाय वैतालिकवरवेशधारिणो
वेदा विद्याधरीवेशधारिण्यश्च
महोपनिषद उत्थानकमगायन् ॥ ७॥
वेदा ऊचुः ।
जय जय निजजनकरुणां कुरु कञ्जदलनयन
स्वयमेवोज्जृम्भमाणाखिलसौभाग्यसदन
जड़जीवात्मनां परिणममानस्य तेन तदीयैर्धर्मैः
सम्बन्धः सपदि तदात्मनैव दृश्योऽसि ॥ ८॥
वयुनं नामैव ते येन परमहंसोऽपि त्वामखिलगुणातीत
महिमानं वेद स्वे महिमनि प्रतिष्ठिततमम् ॥ ६॥
न खलु त्वमाधेयो निरपेक्षवृत्तेस्तवैतत्परं
पदं यत् सूरयो धिया पश्यन्ति, यत्र काञ्चनी
रत्नोपलघटिता भूर्यत्रैरम्मदीयं नाम सरो यत्र
स्वानन्दं संविदेव वापी यत्र स्वात्मानन्दप्रसाद
एव प्रासादः सबहुविधभोगसमुचितशिखराग्र
निषण्णसत्त्वात्मकचित्तसमाक्रान्तो
यत्र त्वमेवाधिराजो विजयसे ॥ १०॥
अथ दुस्तर्ककलितकलुषीकृतान्तःकरणानामेष
लोको दुर्विभावनोऽन्तःसाधनशतं
प्रयुञ्जानैरेव ते भवितव्यं मनोमयः प्राणवपुः
प्रभारूपः सर्वकामः सर्वगन्धः सर्वरसः स
एषोऽणुरात्मा चेतसा वेदितव्योऽयं तव लोकः
सच्चिदानन्दघनो बाह्याभ्यन्तरो न तं
कश्चन वेद तव चरणपरागपूतात्मानमृते ॥ ११॥
जय जय सदेकस्वरूप कलात्मक कालकलनातिग
चिदेकप्रतिष्ठितनिखिलप्रपञ्चरचनैकाश्रय
वाङ्मनसागोचर स्वानन्दसिन्धुलहरीगणसन्निमग्न
निजान्तरानन्दिनीसहजालक्ष्मीपराम्बासंवलित
नित्यनिकेतन निरवधिक्रीडार्थं विकल्पमानमिदं
विश्वं तद्विशेषमेव विकृतिरपि त्वत्प्रकृतिरेवेति
भेदेनापि मनोवाक् त्वामेवावलम्बते यथा नद्यः
स्यन्दमानाः समुद्रसेवाभिसंविशन्ति तथैतानि
नामानि सर्वाणि पुरुषं त्वामभिसंविशन्ति ॥ १२॥
अथेमे विद्वांसः कायवाक्चित्तमलनिर्वर्हणी
त्वत्कथामृतधारान्तः कृतावभृथाः काय
क्लेशकराणि तपांसि समापयन्ति ।
ये पुनः सतत एव सुखानुभवनिकेतनं
त्वत्पदद्वयं भजमानाः शुद्धात्मस्वरूप
स्फुरणेनान्तःकरणं कालप्रभावं
सत्वादींश्च निर्जितवन्तः कुतः क्लेशकर्माण्यवरज्येयुः ॥ १३॥
यदेतदानन्दमयं यदेतदन्नमयादि च तस्यापि
पुच्छप्रतिष्ठा च त्वं तव पृथिवी शरीरमात्मा
शरीरमव्यक्तं शरीरमक्षरं शरीरं त्वं सर्वान्तरात्मा
पहतपाप्मा दिव्यो देव एको रामचन्द्रः ॥ १४॥
अथेमे शार्कराक्षा मणिपूरकस्थं ब्रह्मोपासते
सदेकशतनाडीस्थानं ते तदनेनैव वर्त्मना ।
त्वामेत्य न पुनर्दुःखालयमभिसंविशन्ति सोऽसि
त्वमेको देवः सर्वभूतेषु स्थानेषु गूढः ॥ १५॥
अथामूष्वभिव्यक्तिस्थानेषु संश्चकास्ति सोऽसि
त्वं प्रतिहतरजस्तमोविसरः शुद्धसत्त्वैकवपुः
स्वकर्मोपार्जितनानापुरेशः कार्यकारणासंवृत्त
निखिलांशाखिलशक्तिपरिवृढः कपीनां
नैगमोक्तीनामावपनमसि ॥ १६॥
अथातिदुर्लभतरस्वतत्त्वप्रकाशनैकान्ततनौ
विचित्रलीलारसामृता कूपारे त्वयि मग्ना मत्तासो
जनासः किमिति मुक्तिं लवणोदरसदनेश
तुल्यां स्पृहयेयुर्यत इमे पारमहंस्यव्रते स्थिताः
पदपङ्कजपरागविचित्रितवपुषस्तन्निर्गलन्मकरन्द
धारास्वादनिर्वृताः सततमेव विजयन्ते ॥ १७॥
अथास्मिस्त्वत्सेवौपयिके कुलाये
परमात्मैकसखायो वत ये न ।
भजन्ति त उरुतरभीतिमहा
वर्त्ते भवे भ्रमन्त एव तिष्ठन्ति ॥ १८॥
अथ ये मनोऽक्षगणं संयम्य दृढभूमिना
योगेन हृदि निरुध्य परं तत्त्वं समुपासते ।
त्वद्भावमचिरेणापि यन्ति द्विषन्तोऽपि ते चरणयोः
सायुज्यमीयुः प्रमेयबलमदः कतमः स्तोतुं क्षमो भवति ॥ १९॥
अथ भगवन् को नु त्वां जानी
यादर्वाक् समस्तदैवतप्रसरं यतो
साधुधियामखिलजगदादिभूतमृषि
मनुजज्ञिरे आध्यात्मिका आधिदैविकाश्च ॥ २०॥
अथ त्वय्यखिलसाम्राज्यसुखाधिकसुखे
रसात्मकविग्रहे समधिगते किममीभिः
पुत्रापत्यकलत्रादिभिः कुतर्कैः सुदुर्भगैरिति
व्यवस्य प्राचीना महाश्लोका महाश्रोत्रा
महाशीलाः सर्वं परिहृतवन्तस्त्वयि च रतिं
कृतवन्तस्त एवेदं भवात्मकं व्यसनं तीर्णवन्तः ॥ २१॥
अथेदं विश्वं सदेव सदुपादानकत्वादि
तिहेतूपन्यासहतधियां दहनादिभ्य उत्पन्ना
प्रभापि दाहिका किं न भवेदिति रघुकुलो
त्तंसस्त्वमेव सत्त्वमेव सदिति मन्महे ॥ २२॥
अथ यथा भुजगः स्वगतमपि कञ्चुकं
गुणबुद्ध्या नाभिमन्यते तथा त्वमजां
नहि निरन्तराह्लादिसंवित्कामधेनुवृन्द
पतेरजया तव किञ्चित् कृत्यमस्ति प्रभोः ॥ २३॥
अथ यदि भवान् स्वलिङ्गमुप
संहृत्य कार्यं प्रति दृष्टिं मीलयति
तदानुशायिनां ज्ञानसाधनं नास्ति
न वा स्थूलं न सूक्ष्म न चोभयम् ॥ २४॥
अथास्यासतः प्रपञ्चस्य न जन्म घटते सतो वा
दुःखादेर्न नाश आत्मनि भिदावकल्पते कर्म च न
सम्भवति सेयं च नाम तव दृष्टिस्त्वय्येव बोधैकस्वभावे
योऽयमबोधनिबन्धनो जीवः सोऽपि भिदया नैव
वक्तुमर्हत् सद्विषयत्वाश्रयत्वयोरभावात्त्वयि ॥ २५॥
अथत्वय्यवर्तमानमपि मनो वर्त [ मान ? ]
मिव भातु ये तु त्वद्वेदितारस्ते
इदमशेषं त्वद्रूपतयेवाभिमृषन्ति नहि
कनकमात्रदृशां कुण्डलादिकमवभासते ॥ २६॥
अथ त्वं स्वत एव व्यावृत्तकार्य
कारणाद्युपाधिः सकलकारकशक्त्युपेतः
स्वरूपशक्त्यैव राजसे मायया
सह तदधीनैरपीड्यमानः ॥ २७॥
अथ यदि नित्यलीलस्य ते मायया
सह विकृतिर्भवेत् ततः स्थावरा
जङ्गमाश्च नानाकृतयो जीवा भवेयुः ।
सेयमीक्षैव तव परमकारुणिकस्य
व्योम्न इव स्वपरभिदा शून्यस्य ॥ २८॥
अथ त्वं व्यापको नियन्ता सेव्य एवा
मी त्वणवो व्याप्या नियम्याः सेवका एव
त्वदुपलब्धाखिलवैभवभाजो नान्यथा
प्रतिपत्तव्या क्षुद्रविस्फुलिङ्गा
इव नाग्निकूटस्य तुलामधिरोहसि ॥ २९॥
अथ प्रकृतिपुरुषयोरुभयोरप्यजत्वान्न
सम्बन्धो घटनामेति येनाध्यात्मिकरूपाः
सोपाधयो जीवा जायन्ते ततः प्रकृतिविकार
प्रलयेन सुप्तवासनत्वाच्छुद्धास्ताः
परमात्मनि जीवाख्या शक्तयः सृष्टिसमये
विकारिणीं प्रकृतिमासज्य क्षुभितवासनाः
सत्यः सोपाधिकावस्थां प्राप्नुवन्त्येत्युच्चरन्ति
सोऽयमचिन्त्यस्तवैव महिमा विजयतेतरां रघुवरशार्दूलस्य ॥ ३०॥
अथासौ हेतिरपि त्वद्भ्रूभङ्गमात्र
नियुक्तः सर्वाण्येव वशयितुं शक्तो
विहाय त्वद्भजनामृतधाराशीतल
मनसो भक्ताख्यान् परमहंसान् ॥ ३१॥
अथ कोटिसमीररोधव्यग्रात्मानो
न मनोरोद्धुं शक्ताः बहुभिः
प्रत्यूहैर्हन्यन्त एव विना
भवच्चरणनिदेशकदेशिकम् ॥ ओम् ॥ ३२॥
इत्यभिष्टूयोपरतेषु वेदपुरुषेषु स्तम्भ
स्वेदादिविविधभावाकुलिताः स्खलद्गिरः
सगद्गदाः पुलकविसरकदम्बायिततनवो
बहुतरप्रेमाधौतकुचकुम्भकुङ्कुमाः
खिद्यमाना इव भूयसा विप्रलम्भेन महोपनिषदो
निर्भरसुरतश्रमशयानयोर्दम्पत्योर्युगलमस्तौषुः ॥ ३३॥
महोपनिषद ऊचुः ।
जय जय कान्तकेलीरसनिमग्नमनसोः
कोटिरतिकन्दर्परूपलावण्य मुखयोः
स्वाराज्यसुखसाम्राज्यसम्पदाविष्करणवतोरवहेलित
वृन्दावनेश्वरीश्रीमद्वृषभानुजाश्रीमद्व्रजेन्द्रनन्दन
रसयोर्गोलोकादुपरितनसहजचिल्लोकविलासस्वामिनोः
स्वरूपशक्तिमात्राविर्भावितसखिसखीदूतिदूत
विटचेटकादिसहायबललब्धकोककलालावण्ययोः
श्रीमज्जनकनन्दिनीरघुकुलयोर्युगलाय नमः ॥ ३४॥
अथ युवाभ्यां दम्पतीभ्यां क्षन्तव्यो
नो वैयात्यमदो यत् सुरतान्त विवसनयोः
पुरुषायितविपर्यस्तभूषणवसननयनाञ्जनादि
विविधाकल्पयोः परस्परकण्ठाश्लेषप्रभूत
द्विगुणितसङ्क्षुब्धमनोभूपरवशयोः
परस्परोन्मर्द्दक्षुभितवक्षसोः पुलकाञ्चितयो
रधरबिम्बस्य सुधापानपरायणयोरीदृश
निस्त्रपयोर्युवयोः समीपं भजामहे नर्मसख्य इव
निकुञ्जकेलीभवनद्वारोद्धाटनलब्धानन्दकदम्बाः ॥ ३५॥
अहो क्व वयं बहुतरकर्मठकुलवञ्चितचित्ता
अनेकयोगिज्ञानिगुरुजनकृतप्रत्यूहाः
कुलाङ्गना इव गुरुलज्जावरुद्धप्रिय
दर्शनस्पर्शनमुखामृतविधुरा लज्जयैव
व्यतीततारुण्याः क्व च तव चेदं
महोच्छृङ्खलममेयदिव्यरूपलावण्य
वारिधिप्रसरणं सतत प्रियाभ्यामेव
समासादिता प्रेम्णः पुरुषस्येव सीमा ॥ ३६॥
अहो अलौकिकत्वं केलीनां य
द्विरञ्चिवसकस्य प्रावीण्यमतिवर्तन्ते ॥ ३७॥
अहो विचित्रता शोभातिशयस्य
यन्निर्भररजनीरङ्गरसिकाभ्यां
पूर्णीकृत्य निपीतोऽप्यनुक्षणं
वर्धमान एवाविर्भविष्णुः ॥ ३८॥
अहो युवाभ्यामेव पूजितः
परस्परालापपरिरम्भणचुम्बन
नखरददानमन्दस्मितोन्मर्दनादि
भिर्मन्दारकल्पद्रुमकुसुमसमूहैः
केलीमनोरथकामतरुः कामदेवः ।
वत वत कथमप्यसुलभाय मनोमोहैककन्दाय
सहजानन्दाय नमो युवयोः सुरताय ॥ ३९॥
अहो वयं त्रिगुणप्रवाहमार्गपतिताः
कि प्राप्स्याम इमां गुणातीतां सच्चिदानन्दैकरसमयीं
सहजानन्दिनीरघूत्तमयोः केलिकलामवलोकि
तुमपि किं नाधिक्रियामहे दैववञ्चिताः ॥ ४०॥
अथ यद्यमुयोश्चिल्लोकस्वामिनोः
सच्चिदानन्दरसदम्पत्योस्तल्पान्तभूमिकाभाजोः
बहुकोटिजन्मार्जितसुकृतोद्भूतभाग्या एव वयं
तर्हि नातिचिरादेवाभ्यां नित्यनिजविहारस्य
भाजनतां प्राप्स्यामहे श्यामा रामा ललिता
विशाखा रङ्गविद्या पूर्णमासी चम्पकलता
दया नित्यसिद्धा इव वयमपि कोटिजन्मसाधनसिद्धाः ॥ ४१॥
इत्यभिलाषपूर्वकमभिलष्य ताः
सर्वमहोपनिषदोऽतिशयित
गुणवर्णनप्राप्तजडिमानस्तूष्णीं बभूवुः ॥ ४२॥
अथाविरासीच्च निकुञ्जमन्दिरे
जालान्तरप्राप्तनिजावकाशः ।
सूर्यांशुदण्डप्रकरोऽतिकोमलः
प्रोत्फुल्लशोणाम्बुजगर्भबन्धुः ॥ ४२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासोनाम एकोनत्रिंशोऽध्यायः ॥ २९॥
३०
ब्रह्मोवाच ।
प्रातरौत्थानिकं गीतमिदमाकर्ण्य दम्पती ।
प्रबोधमीयतुस्तूर्णं सुरतोत्थश्र मालसौ ॥ १॥
ताम्बूलवीटिकास्वादरञ्जिताधरसुन्दरौ ।
क्वचित्क्वचिन्नखाङ्कालिलिखितोल्लासि विग्रहौ ॥ २॥
निर्भरस्मरसम्मर्दमृदितावयवोद्धुरौ ।
लम्बमानालकस्तोमभ्रमरीमुखपङ्कजौ ॥ ३॥
निद्राव शेषसंवीतपतत्पक्ष्मणलोचनौ ।
रजनीसुखसंस्मारस्मयमानमुखाम्बुजौ ॥ ४॥
परार्द्धरतिकन्दर्पशोभानिर्मन्थनोचितौ ।
अन्योन्यगण्डफलकप्रतिबिम्बायताननौ ॥ ५॥
प्रातरारक्तसूर्यांशुभेदसङ्कुचदीक्षणौ ।
अन्योन्यविस्फुरद्भूषाङ्कितकण्ठादिविग्रहौ ॥ ६॥
स्मरसम्मर्दसङ्क्षोभविपर्यस्तधृताम्बरौ ।
अन्योन्यप्रतिबिम्बाङ्कस्फुरद्दर्पणमन्दिरौ ॥ ७॥
कामपूजालब्धरसप्रमादप्रसराविव ।
सहजानन्दिनीसीताश्रीमद्रघुवराभिधौ ॥ ८॥
ततो विधाय माङ्गल्यमारात्रिकमनुत्तमम् ।
सखीभिः कृतसंस्कारौ रेजतुर्दम्पती मिथः ॥ ९॥
प्रातराशादिकानेकसपर्यासाधनोत्सुकौ ।
सखीगणैः सेव्यमानौ सीतारामौ विरेजतुः ॥ १०॥
एवं विहरतोः कोटिकल्पान् प्राप्य क्षणानिव ।
बलकृष्णादयस्तत्रावताराः कोटिशो ययुः ॥ ११॥
एकदा सुखमासीनौ सीतारामौ कृतोत्सवौ ।
ता एव दूतिका एत्य प्रोचुर्वचनमादरात् ॥ १२॥
दूत्य ऊचुः ।
अहो प्रियौ वां स्वसुखैकनिर्वृतौ
कच्चित् परस्यापि सुखानि जानथः ।
योऽयं जनः क्लिश्यति कोटिकल्पतो
धृतव्रतो वा कृत आतुरान्तरः ॥ १३॥
उदारपाणिस्तु स एव गण्यते
योऽन्यस्य दत्ते स्वयमापदं दधत् ।
अथो विभज्यैव वनक्ति यो जनो
न सोऽपि मर्त्यः कृपणान्तरात्मवत् ॥ १४॥
इमां समासाद्य निजार्थकोविदां
कथं नु जातो रघुसत्तमाधुना ।
सर्वं पुनर्विस्मृतवानसि प्रभो
कमाश्रयिव्यन्त्यबलाजनास्तव ॥ १॥
अद्य स्मरस्यद्भुतदानमात्मनः
प्रमोदवल्लीविपिने वर्तितुं यत् ।
तर्हि कृतस्त्रीनिवहोऽयमीदृशो
विपत्तिमासादयतीति गर्हितः ॥ १६॥
इयं तु सद्वंशभवा भवन्मुखे
लग्नेति लोकस्य महोत्सवोऽभवत् ।
अथान्तराछिन्न गणे विलोक्य स
व्यमुञ्चदासां निजसौख्यहेतवे ॥ १७॥
तथापि ते राघववर्य नोचितं
मनो निजानां विषये यदीदृशम् ।
समस्य सर्वोद्धरणक्षमस्य च
प्रपत्तिमात्रेण वरोद्धुरस्य ते ॥ १८॥
तासां वताभीरमृगीदृशां कृते
कियन्न पूर्वं विनिवेदितोऽसि भोः ।
तथापि किं ते करणीयमस्ति
तन्न विद्महे स्वैरगतं रघूद्वह ॥ १९॥
अमूः समाराध्य भृशं सहस्रशः
सदैवताग्र्यं भवतोर्युगं प्रियौ ।
अद्यापि न प्राप्तमनोरथाः कथं
पुरा चिरं दत्तवरा वराङ्गनाः ॥ २०॥
इति तासां वदन्तीनां दूतिकानां पुरःस्थिता ।
शनैः श्रीरामरमणी तत्रैवान्तरधीयत ॥ २१॥
अयं खलु मदन्यासु संसक्तो धूर्तपुङ्गवः ।
यासां दूत्यमुपानिन्युः सहस्रं दूतिकाजनाः ॥ २२॥
इति मानापदेशेन तासामाराधनक्रियाम् ।
जानकी सफलीकर्त्तुं भक्तिरूपा व्यवर्तत ॥ २३॥
यदि मर्यादया रामो भक्तानुद्धर्त्तुमिच्छति ।
ज्ञानभक्तिस्वरूपेण तदा सीता विवर्धते ॥ २४॥
यदा सन्त्यज्य मर्यादां स भक्तानुद्दिधीर्षति ।
प्रेमभक्तिस्वरूपेण तदा सीतापि दृश्यते ॥ २५॥
अन्यदेवमतं ज्ञानमन्यच्च प्रेमलक्षणम् ।
द्वयोरैक्यमिहैवास्ति श्रीरामे फलरूपिणि ॥ २६॥
साङ्ख्यस्य योगतपसोर्ज्ञानविज्ञानयोस्तथा ।
परेण ब्रह्मणा कोऽपि सम्बन्धो घटते नहि ॥ २७॥
अयमेव च सम्बन्धो यः प्रेमाख्य उदाहृतः ।
स एव भक्तिशब्दार्थोऽन्यः स्यादौपचारिकः ॥ २८॥
भजन्ते यन्निमित्तेन लक्ष्मीनां कोटयः प्रियम् ।
सा सीता किं भवेल्लक्ष्मीर्नित्यश्रीविग्रहात्मिका ॥ २९॥
नित्या तदंशरूपैव राधा वृन्दावनेश्वरी ।
नो चेत् कथं श्रीकृष्णस्य लुठेच्चरणपद्मयोः ॥ ३०॥
एवं भक्तिस्वरूपेयं सीता राधादिरूपिणी ।
श्रीस्तदाराधनायुक्ता कथं तत्त्वेन गम्यताम् ॥ ३१॥
प्रिया सत्त्वेऽप्यसत्त्वे च नित्यं सा सुस्थिता प्रभौ ।
ऐकान्तिकी सा विज्ञेया छायेवावयवाश्रया ॥ ३२॥
न तां विना क्वचिद्रामो दृश्यते भक्तिसंयुतैः ।
दृश्यते चेत् स एवैषा सा सुरोभावहारिता ॥ ३३॥
अथवा विप्रलम्भस्य रसस्यातिभवाय सः ।
तादृशो भाव्यते भक्तैः स्वेच्छाकृतवियोजनः ॥ ३४॥
अधुना तु व्रजस्त्रीणामाराधनफलात्मिका ।
तास्वाविश्य प्रसन्नात्मा रंस्यते स्वामिना सह ॥ ३५॥
आविश्य च तथा स्वामिन्यानन्दमयविग्रहम् ।
रंस्यते व्रजवामाभिर्भूत्वा श्रीरामविग्रहा ॥ ३६॥
द्वात्रिंशच्च सहस्त्राणि मुख्या व्रजमृगीदृशः ।
तासां षोडशसाहस्रं स्त्रियो मुख्यतराः स्मृताः ॥ ३७॥
षोडशैव स्युराभीर्यो यासां वै मुख्यसंज्ञिताः ।
दश तासां मुख्यतमा यथावदवधारय ॥ ३८॥
रासचन्द्रा प्रभा श्यामा कला चन्द्रकला तथा ।
रङ्गविद्या चम्पलता चपला माधवी रमा ॥ ३९॥
तासां मध्ये मुख्यतमं द्वितयं परिकीर्तितम् ।
यत्राविश्य स्वयं सीता मोदिनोशक्तिरीर्यते ॥ ४०॥
वृन्दावने ययोरंशौ राधाकृष्णेतिकीर्तितौ ।
अभूदथान्तराविष्टा सहजानन्दिनी प्रिया ॥ ४१॥
ततो द्विगुणया कान्त्या रेजे श्रीरामचन्द्रमाः ।
अन्तर्हितायां सीतायां द्विगुणो द्योतवानपि ॥ ४२॥
तां कामयानोऽतिशयाद्बभूव स्मरपीडितः ।
स्मरमार्गणजां पीडां बिभ्रद् दूतीरुवाच सः ॥ ४३॥
व्रजत स्वामिनीः स्वाः स्वाः सम्पन्नो वो मनोरथः ।
ता आनयत रात्रीषु ज्योत्स्नोपेतासु दूतिकाः ॥ ४४॥
रंस्यामि ताभिः कान्ताभिः समेताभिः सहस्रशः ।
मत्तः कश्चिन्न भविता तासां वै विफलोचकः ॥ ४५॥
सहजानन्दिनीं शक्तिं तास्वारोप्य रमाम्यहम् ।
इत्युक्त्वा भगवान् रामः सच्चिदानन्दविग्रहः ॥ ४६॥
दूतीर्विसर्जयामास सर्वाः प्राप्तमनोरथाः ॥ ४७॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासोनाम त्रिंशोऽध्यायः ॥ ३०॥
३१
रामो हि वीक्ष्य शरदागमफुल्लमल्ली
वल्लीवनावृतमहीरुह शोभिकुञ्जाः ।
ता यामिनीः समदकामिजनावकीर्णा
रन्तुं चिदेकरमणो हि मनश्चकार ॥ १॥
स्वां योगशक्तिमवलम्ब्य कृतप्रयत्न
स्तत्तत्पदार्थविभवं सफलं चिकीर्षुः ।
सच्चित्सुखानुभवरूप रसात्मकोऽपि
चिल्लोकवासिसुखदोऽनुचकार लीलाः ॥ २॥
पूर्णस्तदा परिदृढोऽभ्युदगादुडूनां
नाथः स तन्मनस इत्यवदंश्च वेदाः ।
प्राचीदिशो मुखविलिप्तसकुङ्कुमश्री
दीर्घाः शुचोऽपि विमृजन् भुवि वर्षणीनाम् ॥ ३॥
दृष्ट्वा प्रभुः कुमुदबन्धुमखण्डबिम्बं
लक्ष्मीमुखाकृतिधरं नवकुङ्कुमाक्तम् ।
भूयः प्रमोदवनमस्य कलानुरक्तं
रामो जगौ कलपदं सुदृशां मनोज्ञम् ॥ ४॥
आकर्ण्य तन्मुरलिकानुरवं मनोऽभूत्
प्रोत्साहवर्द्धनकरं व्रजवामनेत्राः ।
श्रीरामचन्द्रकरमुष्टिनिबद्धचित्ता
दोयुः प्रमोदवनमस्ति स यत्र कामी ॥ ५॥
कामोद्धता जवविलोलकबर्युदार
केयूरहारमणिकुण्डलमास्यभूषाः
नद्यो यथा बलविदारितदीर्घशैला
स्ता लोकवेदपथलङ्घनपूरिताशाः ॥ ६॥
काश्चिद् दुहन्त्य उदिताः परिमुक्तदोहाः
काश्चित् पचन्त्य इनतोऽनवतीर्य पाकम् ।
काश्चित् पतिप्रियसुतान् परिवेषयन्त्यः
काश्चिच्छिशूनथ मुदा परिपालयन्त्यः ॥ ७॥
शुश्रूषयन्त्य इतरा पतिनामभाजोऽ
श्नन्त्यश्च काश्चन जवेन विहाय तत्तत् ।
काश्चित्तनौ घुसृणलेपनमाचरन्त्यः
काश्चिन्मृजन्त्य इतरा दृशमञ्जयन्त्यः ॥ ८॥
व्यत्यस्तक्लृप्तवसनाभरणाश्च काश्चिद्
रामान्तिकं ययुरनङ्गशरौघविद्धाः ।
ता वार्यमाणवपुषः पतिभिः सुहृद्भि
र्मित्रैः सहोदरजनैः खलु बन्धुभिश्च ॥ ९॥
श्रीरामवेणुनिनदापहृतान्तरास्ताः
प्रेमैकमोहिहृदया नितरां निवृत्ताः ।
काश्चिद् गृहान्तरगता अनवाप्तयाना
रामं निदध्युरुरुभावनिमीलिताक्षाः ॥ १०॥
भूयः सुदुःसहवियोगजतापतप्ता
ध्यानावक्लृप्तपरिरम्भसुखाब्धिमग्नाः ।
साक्षात् तमेव परमात्मसुखानुभूतिं
जारेतिभावनजुषोऽपि निवृत्तबन्धाः ॥ ११॥
हित्वा गुणव्यतिकरात्मकमर्त्यदेहं
प्रापुः प्रमेयबलतो यतिनामलभ्यम् ।
ताः कामिनीर्निशि वने विजने समीप
मभ्यागताः स्मरशरार्तहृदोऽपि वीक्ष्यः ॥ १२॥
ईशः पराशयविदप्यमलेन वाचां
वृन्देन मोहमतुलं जनयन्नुवाच ॥
श्रीराम उवाच ।
सुस्वागतं व इह दारशिरोमणीनां मत्तः
किमीप्सितमिति ब्रुवतानुरक्ताः ॥ १३॥
कश्चिद्व्रजेषु पशुपालनिकेतनेषु
वर्वर्त्ति वार्त्तमभितो सदुपाश्रयेषु ।
तद्व्रूत यद्विसमये यदिहाभ्युपेता
मत्सन्निधौ कुलवधूजनशङ्कनीये ॥ १४॥
सौन्दर्यवांश्च तरुणश्च सुविग्रहोऽहं
किं वः प्रभूतवनविश्वसनक्रियार्हः ।
एषा निशा भयकरा भयदातिसङ्ख्य
सत्त्वाङ्किता शशिकरैर्विशदीकृतात्मा ॥ १५॥
गोष्ठं प्रति व्रजत नेह च वर्तितव्यं
स्त्रीभिः परिस्फुरदुरोजभरालसाभिः ।
युष्माकमाप्तसुहृदाः पितृमातृपुत्र
भ्रातृप्रियप्रमुखबन्धुगणा विमृग्याः ॥ १६॥
अप्राप्य वश्च कुलिता भवितार एव
तन्मा कुरुध्वमियतोमतिवृत्तिमुच्चैः ।
दृष्टं प्रमोदवनमृत्वधिराजजुष्टं पूर्णं
निशाकरकरप्रकरावकीर्णम् ॥ १७॥
नित्योत्तरङ्गसरयूसलिलानिलौघ
व्यालोलकुञ्जतरुपल्लवराजिशोभि ।
तस्माद् व्रजं व्रजत मा चिरमत्र साध्व्यः
शुश्रूषत प्रियतमान् बहुमानपूर्णम् ॥ १८॥
क्रन्दन्ति वत्सनिवहाः शिशवश्च वस्तान्
स्तन्यान्निदध्वमनुदुह्यत धैनुकानि ।
मत्स्नेहपाशविनिबद्धहृदो भवत्यः
प्राप्तास्तदेतदुपपन्नतरं समन्तात् ॥ १९॥
प्रीयन्त एवमपि केऽपि जना विशेषा
येषामहं स्वजनबन्धुधनादिभूमा ।
यद्भर्त्तृसेवनमकैतवतः स्वधर्मः
स्त्रीणामिति प्रसभमाह च वैदिकीर्गीः ॥ २०॥
तत्किं प्रबोध्यमितराननुवृत्ति साध्यं
युष्मासु साहजिकधर्मधिया सतीषु ।
शीलोर्ज्जितोऽपि भगलेशविवर्जितोऽपि
वृद्धोऽपि जातजडिमोऽपि सदामयोऽपि ॥ २१॥
श्रीनिर्गतोऽपि पतिरेव परायणं स्यात्
स्त्रीणामिति प्रकथनं भवतीषु किं स्यात् ।
स्वर्गापवर्गकुशलप्रतिकूलभूतं
पूर्वप्रभूतयशसोऽपि विलोपकं च ॥ २२॥
दुःसाध्यमस्थिरमतीव भयावहं च
निन्द्यं च जारसुरतं कुलकामिनीनाम् ।
भावो मयि श्रवणकीर्तनचिन्तनाद्यै
रन्यत्र दर्शनमपि प्रकटं भवेन्नः ॥ २३॥
किं सन्निकर्षमितरे भुवने लभेयुः
पूर्वार्जितैः सुकृतकोटिभिरभ्युपेताः ।
तद्यूयमक्षिभिरिदं मम रूपमुच्चै
र्दृष्ट्वार्पितप्रणयपर्वतभारखिन्नाः ॥ २४॥
मोहात् प्रयात मदनुस्मरणेन तृप्ता
स्तत्रैव वः सुफलमेष्यति गेहधर्मः ।
इत्यप्रियं निजमनोरथविघ्नभूत
माकर्ण्य भूपतिकुमारवचोऽप्रमेयम् ॥ २५॥
खिन्नप्रभावमनसोऽतिवियोगतप्ता
श्चिन्तामवापुरुपजात महार्तिमोहाः ।
वक्त्राण्यवाञ्चि बहुदुःखभरानुविद्ध
श्वासानुशुष्यदधराणि विधाय बध्वः ॥ २६॥
अङ्गुष्ठसाग्रचरणेन भुवं लिखन्त्यो
वाष्पैः सकज्जलकणैः कुचलेपमार्गाः ।
तूष्णीं बभूवुरथ तन्नयने विमृज्य
भूयिष्ठरोचनभरोपहते मृगाक्ष्यः ॥ २७॥
रामं तदर्थविनिवर्त्तितलोकवेदाः
प्रोचुः सगद्गदगिरः प्रसभं प्रवीणाः ।
गोप्य ऊचुः ।
नैवं प्रियो वदति कश्चन सुन्दरेन्दो
त्वं यद्ब्रवीषि वचनं त्वभिलाषशून्यम् ॥ २८॥
जानीमहे ननु कयापि सपत्नभावा
दस्मद्विषद्धृदयया परिशिक्षितोऽसि ।
क्रूरं वचः कथयता भवता हरिण्यो
व्याधोत्तमेन च यथा किममूर्न विद्धाः ॥ २९॥
किं कुर्महे वयमनन्यगतिं प्रपन्ना
स्तत्त्वं न चार्हसि नृशंसतयेति वक्तुम् ।
श्रीरामचन्द्र चरणाम्बुजमूलमाप्तान्
भक्तान् भजस्यविरतं कृपया समेतः ॥ ३०॥
त्वं नस्तितिक्षसि तदेतदतीव नार्ह
देवोत्तमस्य भवतः पुरुषोत्तमस्य ।
प्रेयांस्त्वमेव जगतां निजबन्धुरूपः
स्वात्मा परायणमतः प्रणयं विदध्मः ॥ ३१॥
किं पत्यपत्यसुतबन्धुसुहृद्भिरन्यै
स्त्वय्यात्मनि प्रणयिनि प्रियतास्पदैस्तैः ।
किं देहगेहविभवैः परमार्त्तिभूतै
स्त्त्वां ये विना निरयशोकभरं जुषन्ति ॥ ३२॥
त्वं चेत् समग्रमभवः सुखवारिराशेः
सर्वस्वमेव यदिदं नखतः शिखाग्रम् ।
पूर्वं जहार हृदयं हरिणेक्षणानां
हासावलोकनसुधारसलेशदानैः ॥ ३३॥
श्रीपूर्णचन्द्ररचनावचनैरिदानीं
यन्नो निवारयसि तत्तव नैव युक्तम् ।
बिम्बाधराश्रयसुधारससेचनेन
नो जीवयस्यतनुतापभरेण तृप्ताः ॥ ४३॥
अस्मान् निजाङ्घ्रिसरसीरुहमध्ययाना
भूयोऽप्यनन्यगतिकाः कतिचिन्मृगाक्षीः ।
नो चेद्वयं विरहपावकमध्यभूरि
ज्वालावलीवलितविग्रहभस्मभूताः ॥ ३५॥
ध्यानेन ते चरणयोः प्रतिविष्टचित्ता
भूयास्म योगिन इवात्मनि संविलीनाः ।
सीतापते यदि भवन्तमृतेऽन्यसङ्गं
स्वप्नेऽपि वाञ्छति मनोजवशं मनो नः ॥ ३६॥
तर्हि त्वदङ्घ्रितलमब्धिसुतासमेतं
सद्यः स्पृहाम निजसत्त्वविशोधनाय ।
यत्ते प्रमोदवननाथ वृतं तुलस्या
योगीन्द्रमानसविभूषितराजहंसम् ॥ ३७॥
तन्नस्त्रिलोकशरणं चरणारविन्दं
तापत्रयार्त्तिहरणार्थमुपार्थयामः ।
तस्माद्वयं जनकजारमण त्वयाद्य
कार्या अनन्यगतयस्तु निजानुचर्यः ।
त्याज्या न कर्हिचिदनङ्गखलावसन्ना
स्त्वादृक्कथं न शरणं शरणागतानाम् ॥ ३८॥
एतत्तवास्यमलकभ्रमरालिजुष्टं
मध्यस्फुरन्मकरकुण्डलगण्डशोभम् ।
बिम्बाधरं हसितवल्गु विलोकयन्त्यः
कृष्टाःस्म कामकरमुष्टिनिविष्टचित्ताः ॥ ३९॥
सीताकठोरकुचकुम्भविलिप्तभूयः
काश्मीरकल्करुचिरञ्जनमञ्जु वक्षः ।
भूयो भुजौ च भुजगाधिपभोगभाजौ
बिभ्राण एव हृदयं मदयस्यमन्दम् ॥ ४०॥
आकर्ण्य ते भुवनभूषण वेणुनादं
नित्यावरुद्धमकरध्वजमूलमन्त्रम् ।
का स्त्री विहाय कठिनानि कुलव्रतानि
दासीभविष्णुहृदया न चलेत् त्रिलोक्याम् ॥ ४१॥
गावो मृगाश्च विहगाश्च महीरुहाश्च
वल्लीवनानि च निजैर्नयनैर्निरीक्ष्य ।
स्पृष्ट्वा च तावकवपुर्भुवनाद्वितीयं त्वं
हर्षोत्करेण विसरत्पुलका बभूवुः ॥ ४२॥
त्वं सर्वतस्त्रिभुवनार्त्तिसमूहहारी
जातोऽसि सम्प्रति महापुरुषाङ्कजुष्टः ।
तन्नो निजैकशरणाः करुणां विहाय
विक्रीय मन्मथकरे किमु निर्वृतोऽसि ॥ ४३॥
इत्याकलय्य करुणानि वचांसि तासां
योगेश्वरेश्वरकिरीटनिघृष्टपादः ।
रामः प्रहृष्य सकलाः व्रजवामनेत्राः
स्वात्माश्रयोऽपि निभृतं रमयाञ्चकार ॥ ४४॥
ताभिर्युतः स भगवान् कमनीयमूर्त्तिः
पारेपरार्द्धशतपञ्चशरावतारी ।
रेजे परस्परितकान्तिविशेषजुष्टो मध्ये
तमाल इव काञ्चनवल्लरीणाम् ॥ ४५॥
शरत्समयचन्द्रमसं तदंशु
व्याप्तान्तरं कुमुदकाननमध्यमस्थम् ।
तां कौमुदीं च स जगौ ललनाजनस्तु
श्रीरामनाम विविधस्वरयुक्तमेकम् ॥ ४६॥
गोपीजनैः स्वरभृतैरुपगीयमान
उद्गायमान उदितस्वरभृत्स्वयं च ।
गोपाङ्गनाशतकयूथपतिः स्रजा च
श्रीवैजयन्त्यभिधया परिशोभमानः ॥ ४७॥
श्रीमत्प्रमोदवनमण्डलयोग्यलक्ष्मी
कान्तो व्यरोचत चिरं विचरन् समन्तात् ॥ ४८॥
ज्योत्स्नामृतप्रविशदं पुलिनं सरय्वा
आविश्य गोकुलनिकेतवराङ्गनाभिः ।
अक्षुब्धधीररमणप्रवराभिकः स
निःशेषकोकजकलाकुशलो रमेशः ॥ ४९॥
उत्सङ्गसङ्गपरिरम्भणचुम्बनास्य
हासावलोकननिघर्षणमर्शनाद्यैः ।
नर्मप्रहाससविलासविकर्षणाभिः
संस्तभ्य वीर्यमबला रमयाञ्चकार ॥ ५०॥
क्वचित् कुञ्ज शय्याशतमवकरोद्भोगकृतये
क्वचिद् भूमौ विश्वाधिकरमणमासैककलयन् ।
क्वचित् कुञ्जावासाङ्गणलसितकौशल्यकलितो
मनोजस्योत्साहं यदि रुचददौ राघववरः ॥ ५१॥
एवं तास्तेन लोकोत्तरमदनचमत्कारभूम्ना सुखेन
रामेण क्रीड्यमाना व्रजहरिणदृशो भूरिलीलामनोज्ञाः ।
अन्योन्यं लब्धमानाः कलितरतिकला दर्शयन्त्यः स्वकीयं
प्रावीण्यं भूरि चक्रुः किमपि रघुपतौ कामुके दर्पभावम् ॥ ५२॥
काचिन्माने रघुपतिं पातयामास पादयोः ।
काचित्प्रणामयामासं मुखमध्यकृताञ्जलिम् ॥ ५३॥
काचित्संस्कारयामास दासीवन्निजविग्रहम् ।
काचिदुद्वर्तयामास लेपयामास काचन ॥ ५४॥
काचित्प्रसादयामास केशान् कङ्कतिकाकरा ।
काचिच्च विततां वेणीं ग्रन्थयामास राघवम् ॥ ५५॥
काचिच्च गुम्फयामास कटिभूषणमालिकाम् ।
काचिन्नियोजयामास प्रसूनावचये प्रियम् ॥ ५६॥
काचिद्भूषणसन्दोहं देहेष्वर्पयितुं हरिम् ।
काचिच्च कथयामास भां नयस्व वनाद्वनम् ॥ ५७॥
सर्वासां वचनं चक्रे जानकीव रघूद्वहः ।
ताश्च सर्वा ववृतिरे जानकीवत् प्रियोत्तमे ॥ ५८॥
अन्योन्यं सुदृढः प्रेमा ववृधे प्रतिवासरम् ।
ततस्ता मेनिरे दृप्ताः स्वात्मानमधिकं प्रियाः ॥ ५९॥
कदाचिद्राम एकान्ते सीताया रमणेच्छया ।
तासां सञ्जातदर्पाणां मध्ये चान्तरधीयत ॥ ६०॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम एकत्रिंशोऽध्यायः ॥ ३१॥
३२
अर्नाहते रसिकनायकशीर्षरत्ने
रामे रमारमणमात्ररसाभिरामे ।
रामाः प्रभूतविरहार्त्तिभरे निमग्नाः
स्वाङ्गानि वोढुमशकन्नहि तास्तदानीम् ॥ १॥
अन्योन्यमीक्षणपराः श्वसितानिलौघ
चिन्तान्तरस्थविरहानलकीलदग्धाः ।
नो किञ्चनाभिलपितुं स्मरवाणविद्धाः
शक्या बभूवुरपमृत्युभयात्त्रसन्त्यः ॥ २॥
रामस्य मन्मथकलारसिकस्य तास्ता
लीलाः स्मरन्त्य उरुजातवियोगतापाः ।
आभीरिकाः सपदि तन्मयतामवापु
र्येन प्रियोऽहमिति चेतसि मेनिरेऽमूः ॥ ३॥
याश्चावलोकहसितेक्षणभाषणादि
ष्वैकात्म्यमेत्य रघुवंशविभूषणेन ।
उन्मत्तवत् प्रतिदिनं वनिता विचेरुः
प्रेमोदयेन विपिनाद्विपिनं विशन्त्यः ॥ ४॥
क्वचिद्धसन्त्यो गायन्त्यो धावन्त्यः क्वापि संहताः ।
क्वचिदाकाशमालिङ्ग्य भवन्त्यः प्रेमविह्वलाः ॥ ५॥
क्वचिदुच्चैः क्रीडमानाः अन्योन्याबद्धबाहवः ।
केचित्परस्परोन्मन्दैर्विशन्त्यः कुञ्जमन्दिरम् ॥ ६॥
इत्येवं सुफलारम्भैर्भ्रमन्त्यो विरहातुराः ।
प्रमोदविपिनान्तःस्थान् प्रपच्छुस्ता वनस्पतीन् ॥ ७॥
भो अश्वत्थ महाबाहो वनस्पतिपते त्वया ।
क्वचिद् दृष्टो रघुपतिरस्माकं चित्ततस्करः ॥ ८॥
क्वचिद्वटतरो देव बहुपादविराजित ।
क्वचिद् दृष्टो न वा रामो हृत्वा नो हृदयं व्रजन् ॥ ९॥
भो भो अशोकविटपिन् बहुभद्रकारिन्
किंस्विद्व्यलोकि भवता रसिकोत्तमः सः ।
यस्याङ्घ्रिपाणिमधुराधरकोमलानि
जानाति सम्प्रति परं तव पल्लवानि ॥ १०॥
भो चम्पकद्रुम किमप्यथ पृच्छमान
स्त्वं किं धुनोषि करपल्लवसङ्घमेव ।
पुष्पाणि ते रसिकराघवपुङ्गवस्य
पीताम्बरेण सदृशानि विलोकयामः ॥ ११॥
भो नागकेशर महीरुहनागभूत
पुन्नाग किन्नु युवयोर्योवदितो न वाभूत् ।
व्रीडा मनांसि खलु नः प्रणयेन रामो
विक्रीतवान् मनसिजस्य खलस्य हस्ते ॥ १२॥
आम्रातक त्वमपि रक्तदलोऽसि नूनं
मन्ये क्वचिद् रघुवरेण करे गृहीतः ।
कच्चित् परोपकरणेऽपि विचक्षणोऽसि
यन्नाम ते कुरवकेति भुवि प्रसिद्धम् ॥ १३॥
योऽन्तः प्रमोदवनवासिनि सेवकानां
कल्याणकारिणि तुलस्यमरेन्द्रवन्द्ये ।
अस्मान्निहत्य तव देवि पतिः स रामो
यातः क्वचिन्न विदितो विपिनान्तरेऽस्मिन् ॥ १४॥
हे आलि मालति महासखि मल्लिकेऽस्म
च्चित्तप्रसादनपरे नवजातिवल्लि ।
अस्मानिव प्रियतरो वत राघवेन्द्रो
युष्मानपि व्यथितवान् विरहं प्रदाय ॥ १५॥
भो भो तमालविटपिन् बहुधासि दृष्टः
किं पृच्छनीयमसकृद्भवते वतेदम् ।
यद्राघवेन्द्रजलदोत्तमसङ्गमेन
जातोऽसि मेचकवपुः कपटैः प्रवृद्धः ॥ १६॥
पनसद्रुम कस्मात्त्वमस्थाने फलितोऽसि भोः ।
जानीमहे राघवेन्द्रसङ्गात् सञ्जातसम्भ्रमः ॥ १७॥
रसाल भवतो रम्या मञ्जरीः शिरसा दधत् ।
कौशल्यानन्दनः कान्तः क्व यातस्तद्वदस्व नः ॥ १८॥
पीलुप्रियालमधुकासननागरङ्ग
श्रीरामपूगतरुतालकदम्बसालाः ।
कच्चिद्वनेऽत्र विचरन् जनकात्मजेशो
दृष्टो न वा हृदयहारकतस्करो नः ॥ १९॥
धन्ये प्रमोदवनसन्ततशोभमाने
हे नर्मदे सरयु हे सखि सूर्यकन्ये ।
कामोद्धतस्तव तटान्तनिरीक्षणोत्कः
श्रीरामचन्द्ररसिकोऽत्र किमभ्युपेतः ॥ २०॥
मातः प्रमोदवनशोभिनिकुञ्जभूमे
किन्नु त्वदीयसुकृतं वयमीरयामः ।
रोमाञ्चितासि नवशाद्वलकैतवेन
रामाङ्गसङ्गसुखिता प्रणयोत्करेण ॥ २१॥
हे कृष्णसार ललना न भवादृशीना
मस्मत्सखी समुचिता ननु वृत्तिरेषा ।
एकान्ततो यदसकृद्विपुलैः कटाक्षैः
कान्तं प्रपश्यथ वधूजनवञ्चिशीलम् ॥ २२॥
सख्यो लता न भवतोषु कृतः स्वबुद्ध्या
शाखाशतैर्विटपिभिः परिरम्भ एषः ।
उद्वीक्ष्य किन्नु विकसत्कुसुमाक्षिरन्ध्रैः
कान्ताकुचग्रहपरं रसिकेन्द्ररत्नम् ॥ २३॥
जानीमहे बहुलसौरभसारिलिङ्गा
देतास्युपायपदवीं खलु राघवेन्द्रे ।
तस्य प्रियाकुचविलिप्तसचन्द्रसार
कालागुरुद्रवगुणैरिह वाति वायुः ॥ २४॥
एताः प्रमोदवनवल्लय एव धन्या या
दूतिकाभिरलिनीभिरुपात्तमन्त्राः ।
श्रीराघवेन्द्रविलसत्तनुसङ्गिनीभि
र्वाञ्छन्ति भोगमतुलं वयमेव यद्वत् ॥ २५॥
रे भूरुहाः कथयत क्व गतः स चौरः
श्यामः सुतीक्ष्णनयनेषुधिपूर्णबाणः ।
प्राप्येत चेत्प्रणयरज्जुशतेन बद्ध्वा
स्थाप्योऽधुना निजनिकेतन मध्य एव ॥ २६॥
एवं प्रियं विचिन्वन्त्यो गोप्यो विश्लेषभीरवः ।
अपश्यन् भूरिशः पत्युः पदानि विपिनान्तरे ॥ २७॥
ता रेखयोर्ध्वगामिन्या उच्चैर्वज्ज्राङ्कुशादिभिः ।
विज्ञाय वल्लभस्यैव प्रोचुर्वचनमादरात् ॥ २८॥
तस्यैव तस्करेन्द्रस्य पदान्येतानि कानने ।
शङ्खचक्राम्बुजाद्यङ्कैरङ्कितानि प्रपश्यत ॥ २९॥
दक्षिणस्य पदोऽङ्गुष्ठमूले चक्रं विराजते ।
अस्मादृशीनां नम्राणामङ्गोच्छेदन हेतवे ॥ ३०॥
मध्यमाङ्गुलिमूलेतु भाति कमललाञ्छनम् ।
अस्मच्चित्तद्विरेफाणां लोभनायातिशोभनम् ॥ ३१॥
पद्मस्याधो ध्वजं भाति सर्वानर्थजयध्वजम् ।
कनिष्ठामूलतो वज्रं भाति पापाद्रिभेदनम् ॥ ३२॥
पार्ष्णिमध्येऽङ्कुशो भक्तचित्तेभवशकारकः ।
भोगसम्पन्नयं धत्ते यवमङ्गुष्ठपर्वणि ॥ ३३॥
अथ वामपदाङ्गुष्ठमूलभक्तोन्मुखं दरम् ।
सर्वविद्याप्रकाशाय दधाति भगवानसौ ॥ ३४॥
पद्मादीन्यपि चिह्नानि दृश्यन्ते दक्षपादवत् ।
एतत्पदानुसारेण गवेष्यो रघुनन्दनः ॥ ३५॥
अत्रैव कानने क्वापि प्रियया सह वर्तते ।
इत्युक्त्वा गोपवद्ध्वस्तास्तत्पदानुसृतिं क्रमात् ॥ ३६॥
अन्वयुः सान्द्रविपिने समस्ता विरहातुराः ।
प्रियापदैः सुपृक्तानि तत्रैक्षन्त व्रजाङ्गनाः ॥ ३७॥
मध्य एवाविरभवत् कासौ धन्यतमा वधूः ।
अंसे विन्यस्य दोर्वल्लीं सह गच्छति यामुना ॥ ३८॥
इयं हि सहजानन्दकेलीनिर्वृतमानसा ।
अस्मान् हित्वा यदासक्तः क्रीडते व्रजवल्लभः ॥ ३९॥
सहजानन्दिनी नाम शक्तिरेषैव कामिनी ।
सा वल्लभमनाश्रान्तं रमयत्यनुरागिणी ॥ ४०॥
परस्परासक्तबाहुदण्डाभ्यां विधिपूर्वकम् ।
अत्र विक्रीडितं ताभ्यां भ्रमणाक्रीडनाभिधम् ॥ ४०॥
अत्र भूषासमारोपः प्रियायाः प्रेयसा कृतः ।
परस्परं सम्मुखस्थौ दृश्येते ललितैः पदैः ॥ ४२॥
अत्राभ्यां रचिता केलिः पुष्पावचयनाभिधा ।
विना पार्ष्णितलन्यासं पदान्येतानि पश्यत ॥ ४३॥
अत्र स्थित्वा कृतास्ताभ्यां विचित्राः कुसुमस्रजः ।
स्वं स्वं चातुर्यविभवं दर्शयद्भ्यां परस्परम् ॥ ४४॥
अत्र प्रियेण प्रेयस्याश्चक्षुषो रज्जनं कृतम् ।
स्पष्टं पङ्केरुहां पत्रं प्रोञ्छनैर्मलिनीकृतम् ॥ ४५॥
अत्र प्रियः स्वप्रियायै प्रादात्ताम्बूलवीटिकाम् ।
चूर्णं खदिरसारं च दृश्यतां पतितं भुवि ॥ ४६॥
अत्राभ्यां रचितं सौख्यं मन्मथोत्सवदायकम् ।
पद्मपत्रमयी शय्या व्यत्यस्ता दृश्यते स्त्रियः ॥ ४७॥
अत्र प्रियाभिरुच्यैव प्रेयस्या पुरुषायितम् ।
दृश्यतेऽन्तः प्रियवपुः परितः प्रेयसीपदे ॥ ४८॥
स्त्रस्तानि नवपुष्पाणि विग्रन्थिकबरान्तरात् ।
अहो हारलता भग्ना विकीर्णा मणयोऽमलाः ॥ ४९॥
तां कोमलाङ्घ्रिकमलामिह खिद्यमाना
मंसे निधाय दयितामिह नीतवान् सः ।
नातः परं परिलसन्ति पदानि यस्याः
स्वाधीनतागुणवशीकृतवल्लभायाः ॥ ५०॥
धन्याः परं युवतयो रघुनन्दनस्य
भर्त्तुः पदाम्बुरुहसम्भवरेणवोऽमी ।
यां पद्मयोनिरघहन्यव ईश्वरश्च मूर्द्ध्ना
दधाति कमला च नितान्तभक्ता ॥ ५१॥
यां कामुको रसितवानितरां विहाय
भूयो वियोगभरकालदवाग्नितप्ताः ।
सात्मानमभ्यधिकमानममंस्त सम्यक्
स्त्रीणां निजायनजुषां प्रमदेतरासाम् ॥ ५२॥
भूयोऽब्रवीच्च खलु सा प्रिय पारयामि
नो गन्तुमध्वनि निकुञ्जविशीर्णपर्णे ।
आरोप्य सम्प्रति निजांसमितो नयेश्चे
त्युक्तः प्रियश्च सहसा विदधौ तथैव ॥ ५३॥
ततोऽन्तरितवान् रामः सहजानन्दविग्रहः ।
तस्यै निजवियोगोत्थां वेदनामनुभावयन् ॥ ५४॥
ततस्तु ताः पद्मदृशः समस्ता
यावद्रहस्यं दयितस्य मत्वा ।
नाग्रे प्रवृत्ताश्चलितुं साऽपि तावत्
प्रियोत्तमाभिर्ददृशे प्रेयसीभिः ॥ ५५॥
प्रियस्य विश्लेषभरेण खिन्ना
शून्यादिशश्चकितं वीक्ष्यमाणा ।
पुनः पुनः स्वल्पदुरात्मभावं
दर्पं च सञ्चिन्त्य विलज्जमाना ॥ ५६॥
हा नाथ हे रमण सुन्दरवर्यधुर्य !
प्रेष्ठ प्रिय प्रियतम प्रणयामृताब्धे ।
दासीं विहाय ननु मां निविडे निकुञ्जे
क्वासीति दीनवचनैरनुनाथमाना ॥ ५७॥
सा तान् व्रजाभीरवधूसमूहाना
पृच्छमानान् स्वपतेरुदन्तम् ।
सर्वस्वहेतुं कथयाञ्चकार
श्रीः स्वस्य मानं च तथावमानम् ॥ ५८॥
तयोक्तमाकर्ण्य मृगीदृशस्ता
जग्मुः परं विस्मयमात्रहासाः ।
तया समेताश्च पुनस्तथैव
वियोगभारव्यथिता बभूवुः ॥ ५९॥
उन्मत्तवत्तत्र वनाद्वनान्तरं
गवेषयन्त्यो रघुनन्दनं प्रियम् ।
तद्ध्यानतस्तन्मयतामवाप्य
तास्तस्यैव लीलां व्यदधुः परात्मनः ॥ ६०॥
कस्याश्चिद्राक्षसीयन्त्या रामायन्त्यपिबत्स्तनम् ।
खट्वायन्तीं परामन्या तोकायित्वा पदाहनत् ॥ ६१॥
दैत्यायन्ती परा काचित् कृत्वारामार्भभावनाम् ।
जहार जानुसम्मर्दैरिङ्गन्तीं नूपुरस्वनैः ॥ ६२॥
रामायन्ती बभूवान्या गोपायन्त्यश्च काश्चन ।
सर्पायन्तीं खगायन्ती जघान निजविक्रमैः ॥ ६३॥
वेणं क्वणन्तीमन्या तु काचिच्चानुजगौ स्वरैः ।
रामायन्त्याजुहावान्या नाम्नान्यां धेनुकायतीम् ॥ ६४॥
तत्रैका लक्ष्मणायन्ती भरतायन्ती तथा परा ।
शत्रुघ्नायन्त्यथो काचिद्रामेन्दुं परिववृरे ॥ ६५॥
अन्या माङ्गल्यकायन्ती गवेन्द्रायन्त्यथोऽपराः ।
रामायन्त्यभिशुशुभे व्रजे तं मातरौ यथा ॥ ६६॥
माभैसुरिन्द्रकोपेन त्राताहं ननु राघवः ।
वर्षर्तुः प्रलयासारा इत्युक्त्वा निदधेऽम्बरम् ॥ ६७॥
शुचौ पश्यत गोपाला दावाग्निं विश्वतोमुखम् ।
चक्षूंष्यपि दधध्वं चेत् क्षेममाप्तुमिहेच्छथ ॥ ६८॥
इत्युक्त्वा राममात्मानं मत्वा कोरकितानना ।
पपौ निमेषमात्रेण सर्वानाश्वास्य पावकम् ॥ ६९॥
काचिद् भुजङ्गमायन्त्याः कस्याश्चिन्मस्तकेऽनटत् ।
समुद्रं गच्छ दुष्टाहे भाषमाणा रुषारुणा ॥ ७०॥
काचिद्दाम्ना बबन्धान्यां द्रुमायन्त्याश्च मूलतः ।
सा च तां पातयामास स्तुवन्तं विविधैः स्तवैः ॥ ७१॥
एवं तन्मयतामेत्य तल्लीला व्यदधुः क्रमात् ।
गवेषयन्त्यो विपिनाद्विपिनान्तरमाययुः ॥ ७२॥
यावद्वनलताकुञ्जे चन्द्रज्योत्स्ना न दृश्यते
ततोऽन्धकारगहनं वनं वीक्ष्यातिगह्वरम् ।
सर्वा निववृतुस्तस्मात्पृच्छ्यमाना लताद्रुमान् ॥ ७३॥
तमेव कान्तं मनसि स्मरन्त्य
स्तमालपन्त्यश्च बहिः समक्षम् ।
तस्यैव चेष्टा विदधन्त्य उच्चै
स्तदात्मिका नात्मगृहाणि सस्मरुः ॥ ७४॥
पुनर्निवृत्ताः पुलिने सरय्वा
यत्र प्रियेणाभिरता पुराभूः ।
समेत्य सर्वाः स्वरमूर्च्छनाभि
र्जगुर्यथा किन्नरवर्यवध्वः ॥ ७५॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम द्वात्रिंशोऽध्यायः ॥ ३२॥
३३
गोप्य ऊचुः ।
जयति प्रिय जन्मभृता भवता
सरयूतटभूमिरुदञ्चशुभा ।
त्वदुदारमुखेन्दुविलोकनजं
परिदीव्यति यत्र मुदां प्रसरः ॥ १॥
अथ चेद्बहुलार्तिरिहास्ति पते
भवदेकपरास्वबलासु भृशम् ।
रघुनन्दन सापि परं भवता
परिहार्यतमा स्मितपूर्वदृशा ॥ २॥
अथ याध्वसहस्र वियोगभवा
प्रिय नार्त्तिरसौ ह्रियते भवता ।
तदिहैष्यति सन्ततमुज्वलतः
करुणारस एव कठोरतरम् ॥ ३॥
प्रलयाभ्रगणाद्दववह्निभरात्
पवनप्रचयाद्विविधारिभयात् ।
परिरक्षितवानसि नः प्रणयिन्
विरहार्तिमहाभयभोगकृतः ॥ ४॥
अपि पद्मभवादिभिरर्थित
इत्युदयत्वमितोऽसि ककुत्स्थकुले ।
धरणीभरसंहरणाय तथा
निजभक्तजनामितदुःखकृते ॥ ५॥
तदिदं स्वजनाभयदानदृढं
सकलेप्सितपूरणकल्पतरुम् ।
निजपाणिमिमं पुरुषोत्तम नः
शिरसि प्रणयेन निधेहितमाम् ॥ ६॥
अयि वीरवर व्रजवल्लभ हे
रघुवंशविभूषण चारुमते ।
निजदास्यकरीर्भज सुन्दर नः
प्रियदर्शनचारुमुखाम्बुरुहम् ॥ ७॥
भुवनत्रयसन्तततापहरं
जनपापहरं कमलासदनम् ।
चरणाब्जयुगं कुरु वक्षसि नः
शमय स्मरदुर्जयवाणरुजम् ॥ ८॥
तव दर्शनसङ्गमसंस्पृहिता
सुमहार्त्तिकरा विरहादधुना ।
हृदि सम्मथिताः रघुनन्दन नः
कृपयाधरसिन्धुसुधाभिद्रवैः ॥ ९॥
रुचिरस्मरण प्रिय सम्प्रति न
स्तव दिव्यकथामृतमेव गतिः ।
विबुधेश न चेद्विरहाग्निभरो
भसितोत्तरकं कलयेन्न किमु ॥ १०॥
रघुनाथ भवत्परिरम्भभुवः
प्रमुदः स्मृतिमात्रमिता अधुना ।
व्यथयन्तितमां हृदयानि न नः
प्रतिकूलतया खलु चित्रमिदम् ॥ ११॥
मृदुलेन पदाब्जयुगेन भवान्
यदि नाथ निकुञ्जवनेष्वटसि ।
तदिहेहि कठोरतृणाङ्कुरकै
र्भृशमर्द्द्यत एव मनः खलु नः ॥ १२॥
विलुलत् कुटिलालकजालवृतं
भ्रमरीगणसेवितमब्जमिव ।
स्मृतिमेति यथा तव नाथ मुखं
भवतीव तथा व्यथितं हृदयम् ॥ १३॥
कमलाकरसेवनभाजनकं
तव चारु पदाब्जयुगं जयति ।
स्तनकोरकयोः कृतमात्रमथो
खलु यत् स्मरदुःखहरं भवति ॥ १४॥
विरहज्वरसम्भवतापहरं
विषमेषुभवव्यथनाशमनम् ।
अधरामृतसीधुरसं रुचिरं
रघुदेव वितीर्य सुखं वितर ॥ १५॥
यदुदारमनर्घ्यभवद्वदनं
प्रविलोक्य रसोढतमो निमिषः ।
अधुना तदनेकदिनान्तरितं
स्तवगम्य धिगस्तु दृशौ सुदृशौ ॥ १६॥
पतिपुत्रसहोदरबन्धुसुखं
स्वजनं परिहृत्य जवात् स्वमितः ।
अबलाः प्रबलात्मभुवा ग्रथिताः
क उदार जहातु भवन्तमृते ॥ १७॥
तदनेकरहस्यकथावसरे
परिरम्भरसाकुलमात्तमुरः ।
तव कान्त तमालसमप्रतिमं
स्मरतीः किमु मूर्छयसे वत नः ॥ १८॥
मृदुलोपलवत् कठिमानमिमं
कुत एव भवानसि शिक्षितवान् ।
यदिमाः स्वगतीरिह नाक्षिकला
कलनादवसि व्रजवामदृशः ॥ १९॥
भवतो वपुरङ्गशिरीषमृदु
स्पृहया कठिनेषु कुचेषु यथा ।
कलयाम तथा भयमेति मनः
पुलकाङ्कुरकण्ठरुगञ्चतु मा ॥ २०॥
स भवान् विजने विपिने निशि नः
प्रविधाय खलु स्मरहस्तगताः ।
अवधिं गतवानसि किं नितरा
मितरां भजमान उदारमनाः ॥ २१॥
अथ धन्यतमा खलु सा रमणी
रमणीनिवहादपकृष्य वने ।
विजनेऽत्र भवन्तमतिप्रणयं
प्रिय नीतवती बहुसाहसिका ॥ २२॥
अयि धूर्त्तधुरन्धर धीरमते
विलपन्तमिमं रमणीनिवहम् ।
नयनेन निभालयले न कथं
कलयन्नपि सन्तमघे रमणम् ॥ २३॥
प्रणयेन पुरा खलु यामनयो
विलपत्यति सापि सहैव चिरम् ।
प्रणयिन्यबलेयमितोप्यपरा
प्रिय कास्ति भवत्सविधे रमणी ॥ २४॥
नहि तत्र भवान् विजनेऽस्ति परं
स्वयमेव नरेन्द्रकुमारमणे ।
न खलु क्षणमप्यसि केलिकला
रहितोऽखिलकोककलैकपटुः ॥ २५॥
अथ या भवदङ्गसुसङ्गकरी
त्वितरैव विभाति रमा खलु सा ।
नहि नाथ तया रहितोऽस्ति भवान्
नहि सा सहते विरहं क्वचन ॥ २६॥
वयमीश तथा तव सङ्गमने
प्रिय विघ्नलवं कलयाम कदा ।
युगलं खलु तद्भवतोः सुचिरं
व्यतिभातु विशेषविलासकरम् ॥ २७॥
तनुकान्तिरिव प्रथिता भवतः
प्रियसङ्गम एव सदा वसतु ।
इत एव भवत्वनिशं भवते
ह्यबलाजनदुःखभरो विदितः ॥ २८॥
अपि नोदय तं स्पृहणीयुगणे
भवती परिवेत्तु दशां खलु नः ।
अथवा विदितेदृशदुःखदशा
किमु वेत्स्यति नित्यविलासपरा ॥ २९॥
स्वजनेषु तथापि परां करुणां
परिपालय लोकपतेर्महिषी ।
निजनित्यविलासयुतं दयितं
परिदर्शय नो नयनोत्सवदम् ॥ ३०॥
जनकस्य जगत्प्रणयैकजुषः
करुणारसकोमलितात्महृदः ।
तनया भवतीति मनांसि च नः
खलु विश्वसितं भवति त्वधुना ॥ ३१॥
इह वां सुरतान्तधृतश्रमयो
र्मनुवारिकणाञ्चितविग्रहयोः ।
सुखदायि पटुः परिरम्भकरः
परिवाति मरुद्वहुभाग्यभृतः ॥ ३२॥
असकौ ननु सौरभसारभरः
परिवाति मुहुर्मरुताकलितः ।
यदिहोदयते कलकल्पलता
युतमल्पतरोरधिकः पटिमा ॥ ३३॥
अयि वामविधे व्रजवामदृशां
कलयिष्यति भूरि कदा नु भवान् ।
सहजं सहजेन मनोत्सवदं
युगलं खलु दम्पतिभावयुतम् ॥ ३४॥
रघुनन्दन दर्शनदानकृते
मुनयेऽत्रिसुताय नमोऽस्तु च नः ।
पुनरेव नमोऽस्तु रघूद्वह ते
वरदाय निजात्मवरोत्तम हे ॥ ३५॥
पुनरेव नमोऽस्तु वधूमणये
निमिवंशमहोत्सवदायिदृशे ।
इतराभ्य इदं खलु दत्तवती
प्रणयेन धनं स्वरहस्यमपि ॥ ३६॥
त्रिजगल्ललनौघशिखामणये
पुनरेव नमोऽस्तु नमोस्तु च नः ।
सहजात्मसुखाकृतये सहजा
सहजात्मचिदाकृतये हृतये ॥ ३७॥
सहजामहिषीरतिरात्मसुखा
प्रमदा पुरुषां जगेदकजनिः ।
अथ चिल्लतिकापि च चिन्निधिरि
त्यवगच्छ नवात्मकनाम मनः ॥ ३८॥
श्रीर्माया मदना सरस्वतिपरा तारात्रया पद्मजा
त्रैलोक्येश्वरवृंहिताङ्कसदनस्था सच्चिदानन्दिनी ।
पञ्चात्मा निखिलप्रपञ्चरचनाचातुर्यगा तुर्यगा
तुर्यातीतकला परावरतरा सीता सिता चासिता ॥ ३९॥
इतिबहुविक्लवातुरहृदो व्रजवामदृशः
प्रसभतरं विलप्य करुणास्मरवाणरुजा ।
वत वत सम्भ्रमेण बहुवीक्षितशून्यदृशः
सुभगतरस्वरेण रुरुदुर्विजने विपिने ॥ ४०॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम त्रयंस्त्रिंशोऽध्यायः ॥ ३३॥
३४
ब्रह्मोवाच ।
तत आविरभूद्रामस्तासां विरहकातरः ।
वामभागसमासक्तसीतालिङ्गितविग्रहः ॥ १॥
मधुराननसंशोभिकोटिचन्द्रोज्ज्वलस्मितः ।
तडित्कान्तिचमत्कारिपीताम्बरसमावृतः ॥ २॥
नवीनपुष्पग्रथितां पञ्चवर्णस्त्रजं दधत्
अनेकरत्नसञ्जुष्टहेमचन्द्रावतंसकः ॥ ३॥
सम्भ्रान्तपद्महस्ताभिस्तडिदुज्ज्वलकान्तिभिः ।
सम्पन्ननिष्ककण्ठीभिः श्यामाभिः शुभदृष्टिभिः ॥ ४॥
रत्नाकल्पमनोज्ञाभिः कान्तपीयूषवृष्टिभिः ।
सहस्राधिकरामाभिः संसेवितशुभाननाम् ॥ ५॥
कल्याणकारिणीं दिव्यां दिव्यकेलिविभूषिताम् ।
निजवामांससंसक्तां सहजानन्दरूपिणीम् ॥ ६॥
वामभागे प्रियां रामो जुषमाणः सुलोचनः ।
कस्तूरीतिलकोपेतपूर्णभालस्थलप्रभः ॥ ७॥
प्रेमासवरसास्वादपूर्णमान हृदुन्मदः ।
वामाक्षिहृदयोल्लासकारिवीक्षणकारकः ॥ ८॥
महामारकतोद्योतिमयूराकृतिकुण्डलः ।
दिव्यचूडासमावद्धमल्लीमाल्यमनोहरः ॥ ९॥
रत्नकेयूरसुभगबाहुद्वयविराजितः ।
रत्नहारमनोहारिविशालसदुरस्थलः ॥ १०॥
रत्नकाञ्चीगुणाबद्ध कटिवस्त्रविभूषितः ।
निम्ननाभिहृदोदग्रवलित्रयविराजितः ॥ ११॥
वामपादसमाक्रान्तदक्षपादप्रियाकृतिः ।
त्रिभङ्गीललिताश्यामवामकामदविग्रहः ॥ १२॥
लसन्नूपुरमञ्जीरकिङ्किणीपादपङ्कजः ।
नासाग्रमिहितोत्तुङ्गनवमौक्तिकमञ्जुलः ॥ १३॥
ताम्बूलीदलसंस्निग्धरञ्जिताधरपल्लवः ।
पुरुषायितकामिन्या क्रीडोचितलसद्वपुः ॥ १४॥
अश्मश्रुचिबुकोन्नद्धतिलबिन्दुविराजितः ।
महिलाजनदृग्भङ्गपीयमानमुखासवः ॥ १५॥
भूयः षोडशवर्षेण वयोमाधुर्यमञ्जिमा ।
नित्यलीलाचमत्कारि श्रीविग्रहविराजितः ॥ १६॥
तं वीक्ष्यं गतिमात्मानं प्रणयोल्लासिलोचनाः ।
सर्वास्ताः सहसा तत्र समुत्तस्थुर्मृगीदृशः ॥ १७॥
देवतास्तत्त्वरूपिण्यो यथापूर्वमचेतनाः ।
चैतन्यमुपलभ्याथ प्रविष्टे तु परात्मनि ॥ १८॥
काचित् तदीयकरपङ्कजमञ्जुलस्थे
कृत्वा सुखेन निदधाति निजे कपोले ।
काचिच्च सङ्गमयते नयनद्वयेन
काचिच्च वक्षसि च नाभिहृदे च काचित् ॥ १९॥
काचिच्च तस्य भुजदण्डमहीन्द्रभोग
श्रीखण्डवृक्षविटपप्रतिमं गृहीत्वा ।
अंसे दधाति च कापि च मूर्द्ध्नि कापि
काचित् सहर्षमुपगृह्य जहाति पापम् ॥ २०॥
ताम्बूलचर्वितकमञ्जलिना च काचिद्
गृह्णाति तन्निपतदर्द्धपथे निरुध्य ।
काचित् तदङ्घ्रिकमलं विरहज्वरेण
सन्तापिनि स्तनयुगे निदधाति तन्वी ॥ २१॥
अन्या च काचन निमेषविवर्जिताभ्यां
दृग्भ्यां प्रियस्य वदनाम्बुरुहं पिबन्ती ।
नैवाद्य तृप्तिमबला सुखसिन्धुमग्ना
चित्रार्पितेव विटपाश्रयिणी बभूव ॥ २२॥
काचित् तमोक्षणपथेन हृदि प्रविश्य
नेत्रे निमील्य पुलकौघविसंस्थुलाङ्गी ।
दोर्भ्यां दृढं समवगृह्य निबद्धमौना
योगीव चित्सुखमहोदधिनिर्वृतास्ते ॥ २३॥
काचिन्मनोजधनुषा भृकुटिद्वयेन
संयोज्य तीक्ष्णविशिखान् कुटिलान् कटाक्षान् ।
दृष्ट्वा रुषेव दशनैर्दशनच्छदं स्व
मैक्षिष्ट कान्तमतुलप्रणयाघ्नतीव ॥ २४॥
अन्ये सुवर्णलतिकेव रुचा स्फुरन्त्यौ
तस्यांसयुग्ममवलम्ब्य विरोचमाने ।
तत्र प्रमोदवनदिव्यतमालकान्ति
मत्यद्भुतां पुपुषतुः प्रभयानुरूपे ॥ २५॥
काचित् तदीयममलं मुकुरायमानं
स्वच्छं कपोलतलमुत्प्रणया चुचुम्ब ।
अन्या तदक्षियुगलं रदनच्छदाभ्यां
ताम्बूलिकादलरसैरनुरज्यमानम् ॥ २६॥
एका तदीयमधरं मधुरं सुधायाः
संस्थानमन्दिरमिवापिवदाननेन ।
अन्या मदेन परिरभ्य निवृत्तलज्जा
स्वानन्दसिन्धुरसवीचिषु निर्ममज्ज ॥ २७॥
इत्थं रमण्यस्ताः सर्वाः प्रियदर्शननिर्वृताः ।
सन्तापं विजहुर्यद्वत्प्राप्यानन्दमयं जनाः ॥ २८॥
भूयस्तदङ्गसङ्गिन्यै सच्चिदानन्दशक्तये ।
पश्यन्त्यस्तदभेदेन नाभ्यसूयन् मृगीदृशः ॥ २९॥
एषास्य सहजानन्दशक्तिर्लीलाविनोदिनी ।
नानारसासवावासा प्रमोदविपिनेश्वरी ॥ ३०॥
एषा श्रीः सततं चास्य पुरुषस्य महात्मनः ।
यामाद्यां सहजां शक्तिं मुनयः सम्प्रचक्षते ॥ ३१॥
प्राप्स्यामो भूरिदौर्भाग्यमनया रहिता वयम् ।
प्रियोऽपि नास्मत्सविधे संस्थास्यत्यनया विना ॥ ३२॥
अहो चन्द्रमसः सेयं चन्द्रिकेव विराजिता ।
कोर्थोऽनया विनास्माकं दासीनां प्रभुतुल्यया ॥ ३३॥
वयमेनां समाराध्य कामदां कामयामहे ।
पुत्रीं जनकराजस्य प्रमोदविपिनेश्वरीम् ॥ ३४॥
जय देवि महाराज्ञि यासि त्वन्नः परानिधिः ।
नित्यं परिचरिष्यामस्त्वां वयं दासिका इव ॥ ३५॥
ततोऽनयाभ्यनुज्ञाताः समस्तास्ता मृगीदृशः ।
व्यरुचन् परितस्तस्य चन्द्रस्योडुगणा इव ॥ ३६॥
सोऽपि ताभिर्भावनिर्द्धूतविरहामलकान्तिभिः ।
स्वशक्तिभिः समग्राभिः शुशुभे पुरुषोत्तमः ॥ ३७॥
यूथव्यूहं समादाय वामदक्षिणयोर्विभुः ।
सरय्वाः पुलिनं रामः प्राविशत् केलिकाम्यया ॥ ३८॥
नित्यं विकसितानन्तदिव्यानेकसुरद्रुमम् ।
गुञ्जद्भ्रमरसङ्घुष्टनिकुञ्जललिताङ्गणम् ॥ ३९॥
वीचीभुजसमास्तीर्णकोमलस्वच्छवालुकम् ।
उपर्यास्तीर्णवनितावेषचन्द्राच्छचन्द्रिकम् ॥ ४०॥
मन्दारविपिनान्दोलसुरभ्यनिलसेवितम् ।
रत्नवेदीसमुत्थांशुसंव्याप्त गगनान्तरम् ॥ ४१॥
उदञ्चत्पञ्चमालापविकस्वरपिकस्वरम् ।
राजहंसवधूवृन्दानुकृतप्रमदागणम् ॥ ४२॥
नानारतिरहस्योत्थशब्दचाटुशुकीरवम् ।
उद्गतानन्दकन्दर्पसपर्यायोग्यसंविधम् ॥ ४३॥
प्रियेण तास्तत्र समेत्य निर्वृता
स्तदाननालोकसुधात्तभोजनाः ।
विधूतविश्लेषरुजो मृगीदृशो
निकाममापुः सकलान् मनोरथान् ॥ ४४॥
निजोत्तरीयैः कुचकुम्भलेपित
श्रीखण्डचन्द्रागुरुकुङ्कुमाङ्कितैः ।
अरीरचन्नद्भुत लीलनोत्सुका
प्राणेश्वरायातिमहार्हमासनम् ॥ ४५॥
तत्रास्थितोऽसौ शुशुभे रघूद्वहः
प्राणेश्वरो लोचनलास्यलालितः ।
पारेपरार्द्धस्मररूपदर्पहा
गोपाङ्गनामण्डलमण्डनाकृतिः ॥ ४६॥
परस्परालापनिरीक्षणस्मित
भ्रूविभ्रमाश्लेषकरग्रहादिभिः ।
सम्पूज्य संस्तुत्य तथात्मनः प्रियं
प्रियाः समेताः किमपीदमूचिरे ॥ ४७॥
गोप्य ऊचुः ।
ये सेवमाना ननु सेवमाना
असेवमानानपि सेवमानाः ।
ये सेवमानान् परितो सेवमाना
न सेवमानास्त इमे के वदस्व ॥ ४८॥
मातॄः पितॄन् स्निग्धतमानपत्य
भ्रात्रादिकान् सुहृदश्चात्मबन्धून् ।
हित्वा च पादाब्जतलं प्रपद्य
त्वं सेवमानान् परिपासि कच्चित् ॥ ४९॥
किंवा भवैकान्तरतानभव्यान्
निन्दापरान् लम्पटान् नीचसत्त्वान् ।
कन्दर्पानुध्यानपथे प्रवृत्तां
स्त्वसेव्यमानान् भजसे नाथ कच्चित् ॥ ५०॥
किंवोभयभ्रष्टहृदः शिलामयान्
कुयोगिनो नासि पापेषु निष्ठान् ।
ईदृग्विधान् मानुषाख्यान् पशूंस्त्वं
प्रपूर्णरङ्गं भजसे नाथ कच्चित् ॥ ५१॥
इत्येवमुक्तो भृशमाभीरदारैः
परात्परो भगवान् रामचन्द्रः ।
श्रियायुतः कोटिकन्दर्पकान्तिः
स्मित्वा रेभे प्रतिवक्तुं महात्मा ॥ ५२॥
श्रीराम उवाच ।
विहाय संसारमपारसान्तरं
भवादृशान् भजतः प्राकृतौघान् ।
भजामि नित्यं निजवामाङ्गभागं
रमामपि प्रेयसीं संविहाय ॥ ५३॥
संसारिणो विषयैकान्तलुब्धान्
न मां परं भजतो नो भजामि ।
कामानुरूपां गतिमेषां ददामि
कुर्वे सुरानासुरीष्वेव भूषु ॥ ५४॥
नान्यानहं सेवमानान् भजामि
जनान् प्रसिद्धोभयधर्महीनान् ।
प्रपद्यन्ते ये यथा मां मनुष्याः
प्रपद्येऽहं तांस्तथा भावयुक्तः ॥ ५५॥
न वस्तुतोऽहं भजतो भजामि
कुतश्चैवाभजतो भूमिजन्तून् ।
आत्मारामः सन्निजैकान्तकेलि
र्लोकातीतः क्रीडमानश्च नित्यम् ॥ ५६॥
भजाम्यहं क्वापि भजतोऽपि जन्तून्
कृपावशस्तत्कृतमीक्ष्यमाणः ।
स्नेहातुरान् दैवदृष्ट्यावरार्थान्
तथातुरान् मानहीनानशक्तान् ॥ ५७॥
यत्सङ्गता मद्वपुषोंऽशवः प्रिया
यथेयं श्रीर्भाति वामाङ्गसंस्था ।
इतोपि सख्योऽभ्यधिका रासकाले
यदेवमन्तर्मयिमानसं वः ॥ ५८॥
मदङ्गसङ्गोपचिता शिखावद् यूयं
प्राणेभ्योऽपि मे प्रेयसीः स्थः ।
नपारयेऽहं भवतीप्रेमबन्धं
निष्कारणं मित्रभावं जुषाणाः ॥ ५९॥
भवतीनां वै विप्रलम्भानुभूत्यै
तिरोहितो भवतीस्थो मयात्मा ।
आविर्भावं प्रापितस्तत्क्षणेन
मा मा हिंसीज्जातवेदाः स्मरोत्थः ॥ ६०॥
तन्मेऽसूया नैव कार्या कदाचित्
प्रेम्णौदार्यं वीक्ष्यमाणाय शश्वत् ।
लोके प्रेम्णः पदवीं शिक्षयाणः
किं किं चित्रं नैव कुर्वे रमण्यः ॥ ६१॥
लीलावैचित्र्यात् सहजानन्दरूपा
प्यन्तर्द्धानं यावदेषा जगाम ।
नैवामुष्यां मद्वियोगः कदाचिद्
दृष्टो भूतः स्वप्नभावे सुषुप्तौ ॥ ६२॥
सम्पूर्णाः शरदो भजमानाः प्रियं
मां धन्या धन्या धन्यधन्याश्च धन्याः ।
प्राप्तं मनागीदृशं प्रेम दिव्यं
युष्मास्वेवं प्रियमेकान्तवत्यः ॥ ६३॥
संसेवनीयः किमुतान्यैर्मयापि
पुण्यस्तीर्थो भवतीपादरेणुः ।
स्त्रियो भूत्वा पौरुषं दिव्यमेवं
यूयं प्राप्ताः शङ्कराद्यैरलभ्यम् ॥ ६४॥
प्रेम्णामलेनान्तरात्मप्रसादात्
प्रीतः क्रीतो भवतीभिः सदाहम् ।
अविप्रयुक्तः सततं चैव रंस्ये
वश्यां वृत्तिं दर्शयानः समग्राम् ॥ ६५॥
नित्ये धाम्नि दिव्यसाकेतसंज्ञे
सरयपुलिने परे नित्यरम्ये ।
सीतालोके भूरि प्रमुदवने यत्र
क्रीडेऽहं तत्र तत्र स्थ यूयम् ॥ ६६॥
यूयं नित्याः कीर्तिता वेदमूर्ध्नि,
नित्यानन्दा नित्यगा नित्यसिद्धाः ।
लोकोऽयं वो नित्यसच्चित्सुखात्मा
किञ्चिज्ज्ञात्वा कामितो ब्रह्मविद्भिः ॥ ६७॥
तेऽमी स्थिताः पुरतोऽग्नेः कुमारा
ब्रह्म विन्दन्तः षष्टिसाहस्रसङ्ख्याः ।
तद्वत् स्थिताः श्रुतयोऽमूः पुरो वो
ब्रह्म विन्दन्तीः सततं कामयानाः ॥ ६८॥
अन्ये च सिद्धा ऋषयो ब्रह्मनिष्ठाः
ब्रह्मर्षयो वन्दिता नारदाद्यैः ।
नेमे लोकं प्राप्तुमर्हन्ति सख्यो
यद्यप्येते कामतत्त्वेन विद्धाः ॥ ६९॥
सर्वस्योर्ध्वं भाति वैकुण्ठधाम
ऊर्ध्वं वैकुण्ठाद्या [दा] दिवैकुण्ठधाम ।
राधालोकं तस्य चोर्ध्वं विभाति
सीतालोकस्तस्यचाप्यूर्ध्व एषः ॥ ७०॥
नातः परं लोकसंस्थागमेषु
दृष्ट्वा क्वचित् सरहस्येषु तेषु ।
चिल्लोकोऽयं मामकीनो मदात्मा
पूर्णः सदा पूर्णपूर्णः सुपूर्णः ॥ ७१॥
आनन्दात्मा स्वे महिम्नि प्रतिष्ठः
सत्याकारः सत्यधर्मा सुसत्यः ।
चिद्रूपोऽयं चित्प्रतिष्ठाप्रतिष्ठः
कालातीतो मायया चाप्यधृष्यः ॥ ७२॥
यस्माज्जातः पूरुषः कोऽपि कालः
श्रीमान् विष्णुर्लोकलोकेशनाथः ।
जिष्णुर्विष्णुः कृष्ण इत्याद्यनेकैर्नाम्नां
वृन्दैः कीर्तितः सोऽपि चांशः ॥ ७३॥
यल्लोकोऽसौ कीर्तितो रामलोकः
सीतालोकस्तत्र चानन्दलोकः ।
ईदृक्प्रेम्णा तमिमं प्राप्य यूयं
जाताः सख्यः कृतकृत्या पुरैव ॥ ७४॥
न यत्र दुःखं न जरा न मृत्यु
र्न कालबाधा प्रकृतेर्न प्रभावः ।
नित्ये सत्ये तत्र यूयं रमध्वं
रसेन संयुग्विप्रयोगात्मकेन ॥ ७५॥
संयोगाद्विप्रयोगो मे प्रियो नित्याभिभाषितः ।
रामात्मनाहं संयोगी रामात्मा विप्रयोगवान् ॥ ७६॥
संयोगरसभोगाय रामोऽहं वै वसे वने ।
विप्रयोगानुभूत्यै तु रामः साकेतपत्तने ॥ ७७॥
रसनामा तु रामोऽहं रामोहं रासनायकः ।
उभयोर्नित्यभोगाय प्रमोदवनमास्थितः ॥ ७८॥
गावो गोपास्तथा गोप्यो नित्यलीलापरिच्छदाः ।
राजन्ति स्वस्वभावेन प्रमोदविपिने मम ॥ ७९॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डिसंवादे रामरासो नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
३५
ब्रह्मोवाच ।
एवं श्रुत्वा रसिकेन्द्रस्य दिव्य
रसात्मनो राघवेन्द्रस्य वाचः ।
गोपाङ्गनास्तुष्टुवुस्ताः समस्ता
स्त्यक्त्वा वियोगप्रसवं चित्ततापम् ॥ १॥
अथेप्सितानां व्रजसुन्दरीणां
परस्पराबद्धकराम्बुजानाम् ।
मध्ये स्थितो रामचन्द्रो विरेजे
तत्कण्ठयोविलसद्वाहुयुग्मः ॥ २॥
इत्थं शतं सहस्रं च मूर्तीः कृत्वा निजात्मनः ।
रेमे रामो रमोन्मादचलच्चरणतालवृक् ॥ ३॥
तासां प्रेयो नाभिमध्योदरान्त
र्लोलान्योन्याबद्ध हस्ताम्बुजानाम् ।
एको हस्तः खे चलन् भावरीत्या
कामाम्भोजे भ्राजिनालो विरेजे ॥ ४॥
ताः प्रेयसो नूपुरकिङ्किणीनां
नादैः स्वाङ्घ्रिस्थायिनां नूपुराणाम् ।
नादान् मुहुर्मेलयित्वा नटन्त्यः
स्वारस्यमापुर्ललितं सामरस्यम् ॥ ५॥
तस्मिंश्च रासे तालशङ्खा मृदङ्गाः
सझर्झरा पटहाः झल्लरीश्च ।
भेरीवीणावेणुवाद्यप्रभेदाः
सम्मूर्त्तिकाश्चिन्मयाः प्रादुरासुः ॥ ६॥
दृष्ट्वा रासोत्सुकं रामं प्रेयसीश्चापि तस्य ताः ।
वाद्यवादनकारिण्यः प्रादुरासुर्वरस्त्रियः ॥ ७॥
ततानां विततानां च छादितानां समन्ततः ।
घनानां सुषिराणां च प्रादुरासीन्महान् ध्वनिः ॥ ८॥
तं ध्वानमनुकृत्याभूद्दिवि दुन्दुभिजो ध्वनिः ।
अवाकिरंश्च मन्दारमाल्यानि त्रिदिवौकसः ॥ ९॥
चलच्चरणनूपुरैर्ललितकिङ्किणीनां
गणै रनेकवलयैस्तथा विधुत बाहुवल्लीस्थितैः ।
अभूत् सततकाहलः किमपि तत्र कोलाहलः
सुवर्णमणिभूषणप्रकरसिञ्जितैर्मिश्रितः ॥ १०॥
प्रेयसीरनुचकार वल्लभो वल्लभं च ललना अनुचक्रुः ।
ते परस्परविधेयचातुरीवेधसः शुशुभिरे रसरासे ॥ ११॥
प्रेयसीमधुरकण्ठसुस्वरैः प्रेयसो जयति कण्ठसुस्वरः ।
यत्प्रमोदवनवासिकोकिला मौनमापुरनुसर्तुमक्षमाः ॥ १२॥
मध्ये मध्ये कनकलतिकाजातमालैस्तमालै
र्मध्ये मध्ये विलुलिततडिन्मोदमानैः पयोदैः ।
मध्ये मध्ये कनकमणिभा सङ्गशीलैश्च नीलैः
प्राप्तुं शक्या नखलु रमणं राममासां विलासाः ॥ १३॥
एवं स ताभिः शुशुभे रमाभिः
कामप्यपूर्वां परमां दधानः ।
वेणं क्वणन्मध्यगतो दामिनीनां
मध्ये तडित्वानिव जातगर्जः ॥ १४॥
मुग्धाङ्घ्रीणां विलासै रणरणकरणत्किङ्किणीनूपुराद्यै
र्दोर्वल्लीनामुञ्चद्वलयकलकलैः सस्मितैर्भ्रूविजृम्भैः ।
सानङ्गैर्मध्यभङ्गैः कुचपटचलनैः कुण्डलैर्गण्डलोलैः
काञ्चीवेणीकलापैः श्लथलसदलकग्रन्थिभिस्ता विरेजुः ॥ १५॥
स्वेदाञ्चितानि वदनानि विभावतीनां
स्वेदाञ्चितानि च वपूंषि विलासलासैः ।
रासोन्मदप्रणयपाणिविकर्षितानां
रेजुर्नितान्तसुरतान्तगतानि यद्वत् ॥ १६॥
सीता शीतांशुसीता च सुधा श्रीः कमला कला ।
कामिनी कामदा कामा कमनीया कलावती ॥ १७॥
राधा कृष्णानुराधा च सुधाधारा मणीरमा ।
ललनाकोटियूथेषु षोडशैव सुमध्यमाः ॥ १८॥
एता मुख्यतमाः प्रोक्ता यथा कान्तस्तथैव ताः ।
स्वामिनीशब्दभाजश्च दामिनीतुल्यकान्तयः ॥ १९॥
रामेण सह नृत्यन्त्यो रेजिरे रासमण्डले ।
स्वस्वमण्डलमुख्याश्च प्रेयसा प्रतिलालिताः ॥ २०॥
जगुरुच्चैः स्वरेणैताः प्रियकण्ठस्वरोर्जिताः
शुद्धमिश्रप्रभेदाश्च स्वरजातीः सलक्षणाः ।
प्रियेण सह गायन्त्यः पुपुषुः परमां श्रियम् ॥ २१॥
काश्चित् परं वेणुरवानुमोहिता
प्रमत्तपुँस्कोकिलकण्ठजित्वरैः ।
स्वरैरगायन् वनिता वनान्तरे
प्रियेण साकं बहुजातसम्भ्रमाः ॥ २२॥
काश्चित्स्वयूथमवलम्व्य सह प्रियेण
गायन्त्य उच्चतरकण्ठरवाप्तमानाः ।
अन्याः सुनृत्यकलया दधतीः पटुत्व
मौत्सुक्यसङ्गतहृदो नदयाम्बभूवुः ॥ २३॥
कदाचिद् वनिता एव सर्वाः सञ्जगुरुच्चकैः ।
अनृत्यत् प्रिय एकाकी कलाचातुर्यदर्शनैः ॥ २४॥
कदाचिद् गायतोऽत्युच्चैः प्रेयसस्तुष्टिहेतवे ।
अनृत्यन् वनिताः सर्वाश्चातुर्याञ्चितविग्रहाः ॥ २५॥
काचिच्च रामपरिवर्तनजश्रमेण
श्रान्ता गुरुस्तननितम्बभरालसाङ्गी ।
स्विद्यन्मुखी श्लथलसद्रसना प्रियांसे
प्रादाद् भुजं तरलकूजितकङ्कणाढ्या ॥ २६॥
काचिद् भुजौ दृढतरस्मरपाणिपाशौ
कण्ठे निधाय दयितस्य च लम्बमाना ।
शम्पामयी स्रगिव मेचकमेघ लग्ना
रेजेतरां तरुणिरग्रिमधर्मकान्तिः ॥ २७॥
काचिन्मुखेन रमणस्य निजाङ्कसंस्थं
काश्मीरचन्दनकुरङ्गमदानुलिप्तम् ।
आघ्राय जातपुलका प्रणयोत्करेण
गोपी सुगुप्तगतिरेव मुहुश्चुचुम्ब ॥ २८॥
कस्यैचिदाकलितरासविलासनृत्य
विक्षिप्तकुण्डलमणीगणमण्डिते स्वे ।
गण्डे स्वगण्डफलकं श्रमतो दधत्यै
प्रादात् प्रियो हि लतिकादलचर्वितं स्वम् ॥ २९॥
अन्या च रासरसितैर्वलयैर्नदन्ती
कूजन्महार्हमणिनूपुरमेखलाद्या ।
पार्श्र्वस्थितस्य रुचिरं रमणस्य हस्तं
श्रान्ता स्तनोपरि निधाय सुखान्यवाप ॥ ३०॥
काचिज्जवेन दयितं परिरभ्य तुङ्ङ्ग
वक्षोजविक्षुभितमक्षि चुचुम्ब तस्य ।
इष्टं पृथक् पृथगनङ्गरसं निगूढ
रासान्तरे पुपुषुरद्भुतकेलिदक्षाः ॥ ३१॥
गोपाङ्गना रुचिरराजकुमारवर्य
हस्तद्वयाकलितगाढगृहीतकण्ठ्यः ।
रासक्रियाललितमण्डितमण्डलीषु
स्वच्छन्दमेव बहुधा विदधुर्विहारम् ॥ ३२॥
कदाचिद् गोपतरुणीमण्डलान्तरमण्डनः ।
रामः सीतासमं रेजे क्वणद्वेणुयुताधरः ॥ ३३॥
कदाचित् स्वाङ्गकान्त्यैव प्रियामन्तर्हितां दधत् ।
चकार कौतुकं स्त्रीणां क्व गता महिषीत्यहो ॥ ३४॥
तासु सम्भ्रान्तचित्तासु स्थित्वा मण्डलमध्यतः ।
दर्शयन् सहजां लक्ष्मीं जयेति मुहुरीडितः ॥ ३५॥
साखिलव्रजकान्ताभिर्दीप्ताभिरपि मण्डले ।
अप्रधृष्यैव शुशुभे लोकसौन्दर्यजीवनी ॥ ३६॥
कदाचित्तस्या हस्तेन हस्तमादाय वल्लभः ।
जगाम कुञ्जभवने दासीवत्तास्तु तस्थिरे ॥ ३७॥
आज्ञापयिष्यति प्रभ्वी प्रभुर्वा किं न दूत्यमूः ।
सावधानतया तस्थुः कुञ्जद्वारलसदृशः ॥ ३८॥
कुञ्जालयं सुखं गम्य कृत्वा पूर्ण मनोरथम् ।
एताभ्यां पुनरेताभ्यां जयेत्युच्चैस्तरां जगुः ॥ ३९॥
सम्भुक्तिपानपरिधानविभूगणानि
लेपाग्ञ्जनालभनमार्जनव्यञ्जनाद्यैः ।
तौ ता विशेषधिषणा परिचेरुरुच्चै
र्दासीवदप्यनुपदं कलितावधानाः ॥ ४०॥
कान्तेन भूरितरकेलिषु कोविदेन
ताः संसदि प्रतिपदं बहुदत्तमानाः ।
नैतां प्रियां समनुलङ्घितुमीशिरेऽपि
पूर्वं विसोढविरहस्मृतिकातराक्ष्यः ॥ ४१॥
नैवापि तासु वनितासु कुमारकेण
सार्द्धं प्रभूतरमणोत्सवसम्भ्रमेषु ।
प्रत्यूहलेशमकरोद्यदमुष्य साक्षा
न्नित्याङ्गसङ्गमवतो सहजैव लक्ष्मीः ॥ ४२॥
अश्रान्तरासरसिको रमणः स इत्थं
गुप्तस्फुटं प्रकट केलिविधानदक्षः ।
रेमे रमैकरमितो रमणो रमाभि
राभीरराजकुलभूषणसुन्दरीभिः ॥ ४३॥
कदाचिन्नृत्यमानानां वनितानां प्रियैः सह ।
भ्रमरालिरभूद्वीणा कोकिलामुरजध्वनिः ॥ ४४॥
रामरासरसं वीक्ष्य देवा ब्रह्मशिवादयः ।
विचिन्त्यमाना मनसि बभूवुः प्रेमघूर्णिताः ॥ ४५॥
अस्तमाममरनागनगीनां रूपसारभरजोऽप्यभिमानः ।
किङ्करीवदिह दर्शनमापुरतो रसिकरासरसेषु ॥ ४६॥
आदित्या विश्वेदेवाश्च वसवस्तुषितास्तथा ।
भास्कराश्चानिलाश्चैव महाराजिकसाध्यकाः ॥ ४७॥
रुद्राः समुद्रा गिरयो नदा नद्योऽप्सरोगणाः ।
विद्याधराश्च यक्षाश्च गन्धर्वाश्चैव किन्नराः ॥ ४८॥
ग्रहनक्षत्रताराद्याः प्रह्लादश्च विभीषणः ।
ब्रह्मर्षयो वसिष्ठाद्यास्तथा देवर्षयोऽखिलाः ॥ ४९॥
लक्ष्मीनारायणौ चैव पार्वतीशङ्करौ तथा ।
गायत्री चापि सावित्री सरस्वत्यप्सरः शची ॥ ५०॥
सर्वे देवगणाश्चैव हर्षिताः स्वस्वचेतसि ।
योषारूपं समास्थाय रामरासे समाययुः ॥ ५१॥
तेषां विमानसन्दोहैरभवत् सङ्कुलं नभः ।
रामो नवघनश्यामो महारत्नविभूषितः ॥ ५२॥
लक्ष्मीं दधद् गोपिकाभिः संस्थितो रासमण्डले ।
स्वस्वभावानुसारेण सर्वेषां दर्शनं ददौ ॥ ५३॥
गोपीं गोपीमन्तरा रामचन्द्रो
रामं रामं चान्तरा गोपनार्यः ।
इत्थं जाते मण्डले मञ्जुलाभो
रेमे रामो रामया राजमानः ॥ ५४॥
श्रीहस्ताब्जबद्धसम्बद्धकण्ठ्यो
रन्योन्यं वा बद्धबाह्वोर्युवत्यः ।
वामं हस्तं चोर्द्धयित्वानयोश्च
मध्ये रेमे रामचन्द्रः कदाचित् ॥ ५५॥
इत्थं द्वेधा मण्डलं कल्पयित्वा
पर्यायेण क्रीडमानो वधूभिः ।
योगाधीशस्तत्र योगीव रामो
रेमे स्वानां सम्मुदं वर्धयानः ॥ ५६॥
रासक्रीडावेषविस्त्रस्तबन्धै
र्धम्मिलैः स्वैर्मल्लिकाः संवमन्त्यः ।
विद्युद्वल्लीजैत्रविद्योतिताङ्ग्यो
गोप्यो रासे नाटकं चक्रुरुच्चैः ॥ ५७॥
रासे समुद्भूतरमाविलासे श्रीरामचन्द्रेण समं नटन्त्यः ।
धम्मिलवल्ल्युप्तनितम्बभारं वोढुं न शक्ता वनिता बभूवुः ॥ ५८॥
नितम्बौ त्रस्तकाञ्चीको कुचौ विगतकञ्चुकौ ।
धम्मिलान् बन्धनोन्मुक्तान् वहन्त्यो रेजिरे स्त्रियः ॥ ५९॥
खेचरौघाः सह स्त्रीभिश्चन्द्रश्चोडुगणैः सह ।
रामरासं समालोक्य विस्मितोऽभून्निरन्तरम् ॥ ६०॥
यावद्विजहार भगवान् ताव
त्कालं रजनीशः संस्थितोऽभूत् ।
चन्द्रेण स्वस्यां गतौ विस्मृतायां
स्वस्वस्थाने खेचराश्चापि तस्थुः ॥ ६१॥
यावन्तस्ता मण्डले गोपनार्य
स्तावद्रूपो राघवेन्द्रो बभूव ।
अन्योन्यं चालक्ष्य लीलाविनोदं
रेमे ताभिर्भूरि दाक्षिण्यशाली ॥ ६२॥
तासां प्रभूतश्रमकर्षितगोपिकानां
वक्त्राणि वारिकणसंवलितालककानि ।
हस्ताम्बुजेन स ममर्षतरां ततोऽमूः
पीयूषपातसुखिता इव सम्बभूवुः ॥ ६३॥
इत्थं हरेर्भगवतः पुरुषोत्तमस्य
रामस्य राघवकुलामलकीर्तनस्य ।
यः संशृणोति रतिरासविलासलीलां सः
रामसम्पदमुपैति विमुक्तकामः ॥ ६४॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥
३६
ब्रह्मोवाच ।
रामस्य रासं नयनैर्निपीय
ते दण्डकारण्यजुषोऽग्निपुत्राः ।
कामेन सङ्क्षुब्धहृदः समन्ता
त्तन्मण्डलं तुष्टुवुः कल्पिताशाः ॥ १॥
सुनय ऊचुः ।
प्रावृट्समुन्नतनवीनघनाभिरामं
योषासमूहपरिकल्पितमण्डलस्थम् ।
पीताम्बरद्युतितडित्प्रकराभिरामं
रासस्थितं रघुपतिं सततं भजामः ॥ २॥
श्रीमत्प्रमोदवनमञ्जुलकुञ्जवीथी
विद्योतमानपरिपूर्णकलाहिमांशुम् ।
सामस्वरक्वणितवेणुसनाथपाणिं
रासस्थितं रघुपतिं सततं भजामः ॥ ३॥
रत्नावलीयुतसुवर्णसुदिव्यमौलि
मुक्तास्त्रगद्भुतसुलक्ष्यविशालवक्षः ।
श्रीवत्सलक्ष्मसुभगोत्तमदिव्यगात्रं
रासस्थितं रघुपतिं सततं भजामः ॥ ४॥
उद्यद्विशालमणिमञ्जुलतुङ्गनासं
गण्डस्थलप्रतिफलत्कलकुण्डलाग्रम् ।
कस्तूरिकातिलकभूषितभालदेशं
रासस्थितं रघुपतिं सततं भजामः ॥ ५॥
केयूरलम्बनललामभुजद्व याग्र
बन्धोद्गृहीततरकौस्तुभशोभि कण्ठम् ।
पादाम्बुजक्वणितनूपुरकिङ्किणीकं
रासस्थितं रघुपतिं सततं भजामः ॥ ६॥
एकद्वयत्रिचतुरादिभृतक्रमात्त
तालप्रबन्धरचनानयनाभिरा मम् ।
सङ्गीतशास्त्रवितताछलका गुरुं तं
रासस्थितं रघुपतिं सततं भजामः ॥ ७॥
नृत्यन्तमद्भुतकलानिकरप्रवीण
मानापलापरचनैकविधानदक्षम् ।
वंशीधरं नटवरं वरदोत्तमाङ्गं
रासस्थितं रघुपतिं सततं भजामः ॥ ८॥
अङ्गोन्मिलन्मलयजद्रवजातभक्तिं
रङ्गत्त्रिभङ्गकलितातिललामकामम् ।
कैशोरवेशमतिवर्त्य परिस्फुटन्तं
रासस्थितं रघुपतिं सततं भजामः ॥ ९॥
मन्दारमूलमधिगम्य विराजमानं
गोपाङ्गनाविरचितोत्तममण्डलास्यम् ।
पोतांशुकच्छविनिबद्धकटिप्रदेशं
रासस्थितं रघुपतिं सततं भजामः ॥ १०॥
मन्दस्मिताधरसुधारसरञ्जितोष्ठं
लोलालकावलितमुग्धकपोलदेशम् ।
पादाम्बुजप्रथिततालविधाननृत्यं
रासस्थितं रघुपतिं सततं भजामः ॥ ११॥
ताम्बूलिकादलसुचर्वणचारुराग
संवर्धगोपरमणीक्षणचुम्बनोग्रम् ।
तत्तुङ्गवक्षसिजमर्दनलग्नहस्तं
रासस्थितं रघुपतिं सततं भजामः ॥ १२॥
सीतानिरन्तरविभूषितवामभागं
मध्यस्थलच्छविविनिर्जितसिंहमध्यम् ।
मन्दस्मितप्रसर मण्डितमण्डलास्यं
रासस्थितं रघुपतिं सततं भजामः ॥ १३॥
श्रीरत्नवेदिविपुलीकृतमण्डलान्तः
कोटिप्रकारपरिक्लृप्तनिजप्रकाशम् ।
वामाङ्गसङ्गिसहजास्पृहणीय केलिं
रासस्थितं रघुपतिं सततं भजामः ॥ १४॥
श्रीमत्प्रमोदवनकल्पितमण्डलाब्ज
सत्कर्णिकार्पितरमारमणैक मूर्तिम् ।
स्वस्वामिनीसमनुवाञ्छितदिव्यरासं
रासस्थितं रघुपतिं सततं भजामः ॥ १५॥
ब्रह्मेन्द्रशङ्करमुखत्रिदिवालयौघ
हस्ताम्बुजच्युतसुरद्रुमपुष्पवृष्टिम् ।
कोटीन्दुजित्वरकिरीटमणिप्रभाढ्यं
रासस्थितं रघुपतिं सततं भजामः ॥ १६॥
जय जय जय सहजानन्दरसनिर्भरनिजविलासमोहितब्रह्मादिसुरसंस्तूयमान
कुटिल गोपाङ्गनाजनकटाक्षसमुद्भूतनूतनकन्दर्पशरलक्ष्यीकृतचित्त
कुन्दवनेश्वरिमनोरथपूर्तिप्रभावप्रेमपरिपालक सच्चिदानन्दमयपरब्रह्म
रस स्वानन्दैककन्द सहजकल्याणगुणनिधान नमस्ते नमस्ते ॥ १७॥
किं त्वामशेषमतिसाक्षिणमर्थयामो
जानासि सर्वमपि नः स्पृहणीयमर्थम् ।
अस्यैव तावकविलासरसस्य नित्यं
पात्राणि किं नहि भवाम वयं स्मरार्ताः ॥ १८॥
किं वा सहस्त्र जनुरर्जितकोटिपुण्य
नैष्कर्म्यसिद्धिसुहितेन ननु त्वयैव ।
दत्तामलभ्यवरभाजनतामुपेत्य नित्यं
भजाम निजवाञ्छितलाभतृप्ताः ॥ १९॥
नो चेद् वयं विरहपावकदग्धदेहाः
स्नेहानुबन्धमहिमोद्धृतमोक्षसौख्याः ।
त्वत्पादपद्मपदवीं समुपेत्य भूयो
जन्मान्तरेऽपि कलयाम न किञ्चिदिष्टम् ॥ २०॥
इति तेषां द्विजेन्द्राणां दण्डकारण्यवासिनाम् ।
श्रुत्वा विक्लवितं रामः प्रहसन्निदमुक्तवान् ॥ २१॥
श्रीराम उवाच ।
सुविहिततपसो मुनीन्द्रवर्या
दहनसुताः खलु दुर्लभोऽयमर्थः ।
श्रुतिभिरपि मदेककामुकीभिः
शतशतकल्पजनुस्तपस्विनीभिः ॥ २२॥
तदपि मयि निवेद्य वाञ्छितार्थे
यदि न भवन्त उपेतवान्छिताः स्युः ।
इदमपि न ददेत तद्भवद्भ्यो
दुरधिगमोऽपि मयोपकल्पितोऽर्थः ॥ २३॥
कृष्णावताररूपेण समनुक्रीडता मया ।
आगामिनि भवे यूयं कृतकृत्या भविष्यथ ॥ २४॥
कृष्णो नाम ममैवांशो जनिता नन्दगोकुले ।
तद्द्वारा मां समासाद्य फलितार्था भविष्यथ ॥ २५॥
इयं च सहजाशक्तिः सच्चिदानन्दलक्षणा ।
तत्रैवांशेन भविता राधानाम्नी मम प्रिया ॥ २६॥
तयाविष्टासु सर्वासु सुन्दरीषु रतिं भजन् ।
विहरिष्याम्यहं तत्र दिव्ये वृन्दावने वने ॥ २७॥
सीता लोकस्य सामग्री समस्ता खलु तत्र माम् ।
उपस्थास्यति विप्रेन्द्राः स्वस्वांशेन विनोदकृत् ॥ २८॥
तावद्यूयं जातवेदःकुमाराः
शुद्धप्रेमाणः सततं मां भजध्वम् ।
ईदृग् लीलाकारमीदृक् स्वरूप
मीदृग्भावं प्राप्स्यथोच्चैः प्रसादात् ॥ २९॥
इति तस्माद्वरं लब्ध्वा दण्डकारण्यवासिनः ।
मुनयस्तत्र सिद्धार्थास्तस्थुर्थ्यानपरायणाः ॥ ३०॥
एवं स रसिकेन्द्रस्य विलासो राससंज्ञितः ।
त्रैलोक्यं शोभयामास कामतत्त्वेन जृम्भितः ॥ ३१॥
नद्यः स्तब्धतया तस्थुर्लतावृक्षाश्चकम्पिरे ।
दद्रुवुश्चैव पाषाणाः साध्यसत्त्वानि तत्यजुः ॥ ३२॥
जहौ शम्भुः समाधिं च विश्वकृद्विश्वकल्पनाम् ।
भ्रमणं शिशुमारान्तस्तत्याज ग्रहमण्डलम् ॥ ३३॥
सर्वे बभूवुः सहसा परमानन्दनिर्वृताः ।
रामरासरसोन्मादवासिताखिलवृत्तयः ॥ ३४॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम षट्त्रिंशोऽध्यायः ॥ ३६॥
Encoded and proofread by Vishal Pandey