रामरासवर्णनम्

रामरासवर्णनम्

२४

ब्रह्मोवाच । परार्द्धस्मरलावण्यं बिभ्रत् सुन्दरविग्रहः । कामिनीनां कामरसं पोषयन् राघवो बभौ ॥ १॥ सीतयार्द्धाङ्गसङ्गिन्या सह केलिरसं दधत् । ज्योत्स्नया चन्द्रवद्रामो रेजे नक्षत्रमण्डले ॥ २॥ मुग्धानां गोकुलस्त्रीणां जानक्याविष्टचेतसाम् । समूहं रसयन् रामो बभाराकृतिसौष्ठवम् ॥ ३॥ यन्नेति नेतीति वदन्ति वेदाः ब्रह्मादयो यन्न लेभुस्तपोभिः । तत्त्वं परं तच्छ्रुतिमूर्ध्वमृग्यं व्रजाङ्गनाभिः करयोर्गृहीतम् ॥ ४॥ गुञ्जाहारं दधदुरसिलसच्छीर्षमायूरचन्द्रो वेणुं बिम्बोष्ठदलकलितं बिभ्रदापूर्णनादम् । स्निग्धा च श्रीर्नट इव लसद्वेश सौन्दर्यसारो बिभद्रामः प्रमुदविपिनं वल्लवीर्मोदयानः ॥ ५॥ द्विपरार्द्धावसानेऽपि नित्यं क्रीडति राघवः । नान्तोऽस्य नित्यलीलानां स्वानन्दरसरूपिणः ॥ ६॥ राघवो मोदयन् गोपीस्ता एव सपरिच्छदाः । एवं योगी वै रमते रामो रमयतां वरः ॥ ७॥ निर्विकारो ब्रह्मणोऽपि प्रतिष्ठा परमास्पदम् । नास्य कामेन कोपेन लोभेन च महात्मनः ॥ ८॥ मनोविकारः समभूद्यथा संसिद्धियोगिनः । इत्येवं रामदेवस्य बाललीलां श‍ृणोति यः ॥ ९॥ स याति रामसायुज्यं परमानन्दनिर्वृतिः (तिं ?)। अथाहमभिधास्यामि रामरासं मनोहरम् ॥ १०॥ अदृश्यं यत् सुरेन्द्राद्यैश्चकार रघुपुङ्गवः । कोटिकन्दर्पलावण्यविजयी रघुपुङ्गवः ॥ ११॥ रामकण्टकरूपांश्च महादैत्यानजीहनत् । तेषां वधेषु संविघ्नं सहसा विनिवारयन् । महावीरो रामचन्द्रश्चकारातीव विक्रमम् ॥ १२॥ रमणमनुदिनं यो रामचन्द्रस्य पूर्णं प्रणतमतिरधीते मानवो रामभक्तः । स भवति शिवतुल्यो रामभक्त्या प्रपूर्णः परमसुखनिमग्नश्चिन्मयानन्दरूपः ॥ १३॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे केलिवर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४॥

२५

भुशुण्ड उवाच । श्रुत्वेदं रामचन्द्रस्य कौमारचरितं मम । मनः शीतलतामेति यद्वत् पीयूषधारया ॥ १॥ दत्त्वा वरं गोपिकानां नित्यमात्मप्रदं विधे । यच्चकार रघुश्रेष्ठस्तन्नः शंसितुमर्हसि ॥ २॥ चीर्णव्रतानां विप्राणां दण्डकारण्यवासिनाम् । यथा वरं ददौ रामस्तथा मे वद विस्तरात् ॥ ३॥ द्विपरार्धान्तेऽपि नित्यं सहजानन्दलोकगः । रासं चकार रामाभिः परमैश्वर्यभावितः ॥ ४॥ तत्रापि दिव्यरासे तु यानि यानि शुभानि च । चक्रे रासचरित्राणि तानि मे कथय प्रभो ॥ ५॥ एकपत्नीव्रते स्थित्वा सत्यं लोपितवान्न च । बहुकान्तारतिं दृष्ट्वा तथा न द्वेष्टि जानकी ॥ ६॥ तदेतत् कथयास्माकं रामचारित्रमद्भुतम् । श‍ृण्वतो मे महान् हर्षो रोमभेदश्च जायते ॥ ७॥ गद्गदश्च तथा कण्ठे चित्तस्यैव च निर्वृतिः । अहो धन्या अमी देवा मदङ्गविनिवासिनः ॥ ८॥ ये पिबन्ति शुभं नित्यं रामचन्द्रकथामृतम् । धन्योऽहं कृतकृत्यश्च तिर्यग्योनिगतोऽपि सन् ॥ ९॥ यत्पिबाम्यमृतं ब्रह्मन् भवद्वदनविच्युतम् । ब्रह्मोवाच । अहो परिणता बुद्धिस्तव सम्यग्विभाति मे ॥ १०॥ पुनः पुनः प्रश्नयसि यद्राराघवपतेः कथाम् । वक्षाम्यहं तु वक्तव्यमवक्तव्यं कदाचन ॥ ११॥ गोपनीयं शुकेनापि यद् योगीन्द्रेण धीमता । कथामृतैककुण्डस्य चत्वारो रक्षका वयम् ॥ १२॥ अहं शुकश्च शेषश्च तथा देवी तु जानकी । न ब्रूमः सकलं तत्तु गोपनीयं प्रयत्नतः ॥ १३॥ वाचकान् घातयिष्यामि मातृजारप्रसङ्गवत् । अधिकारिणमालोक्य कथञ्चित् कथयामहे ॥ १४॥ पञ्चाधिकारिणोऽप्यत्र षष्ठो नैवोपलभ्यते । त्वमण्डजौत्तरेयश्च धरणी च पतिव्रता ॥ १५॥ सौमित्रेयश्चोर्ध्वरेता तथा मारुतनन्दनः । तुभ्यं मया समाख्याता कल्पे-कल्पे युगे युगे ॥ १६॥ राममायाप्रभावेण पुनर्विस्मृतवानसि । शुकेन चौत्तरेयाय रामचारित्रमीर्यते ॥ १७॥ इहैव शुद्धसत्त्वाय गोलोके प्रेमभागिने । पुनश्च भगवान् शेषो व्याचष्टे धरणीं प्रति ॥ १८॥ लक्ष्मणाय तथा देवी जानकी प्रत्युवाच ह । तच्छ्रुत्वा सकलं प्रोक्तं लक्ष्मणेन हनूमते ॥ १९॥ पञ्चेमाः संहितास्तत्र सङ्क्षेपेण श‍ृणु द्विज । भौशुण्डी परमेयं षट्त्रिंशत्साहस्रमीरिता ॥ २०॥ चत्वारिंशत्सहस्रं तु लक्षमात्र मुदीरितम् । हनुमत्संहितालक्षं वायुलोके विराजते ॥ २१॥ समुच्चयस्तु पञ्चानां मयोक्ता ब्रह्मसंहिता । इत्येवं रामचरितं शतकोटिप्रविस्तरम् ॥ २२॥ प्रतिकल्पं प्रतियुगं अन्यदन्यद् विभाव्यताम् । नान्तस्तस्य चरित्राणां कल्पकोटिशतैरपि ॥ २३॥ किञ्चित् समाधावालोक्य श‍ृणु पुत्र निगद्यते । यत्पृष्टं तु त्वया गोपीरामयोः क्रीडनं परम् ॥ २४॥ तत्सुगोप्यं कथं वाच्यं वक्तास्यान्नारकी ध्रुवम् । अथापि शुद्धसत्त्वाय भक्ताय विमलात्मने ॥ २५॥ वाच्यमाचार्यवर्यैस्तु तच्छ्रुत्वा तत्परो भवेत् । सत्यं सत्यं मया नित्यं चिन्त्यते मूलमन्त्रवत् ॥ २६॥ तद्ध्यानामृतयोगेन तिष्ठाम्याकल्पमण्डज । तपस्तप्तं मया पूर्व तीव्रात्तीव्रतरं द्विज ॥ २७॥ तेन प्रसन्नः सीतेशः सदा मां दर्शनं ददौ । स्वलोकं दर्शयामास गोलोकात् परतस्तु यत् ॥ २८॥ तत्र रासविलासादि दृष्टवानहमद्भुतम् । प्रमोदविपिने पूर्वं रामश्चक्रे सुक्रीडनम् ॥ २९॥ तस्याप्यनुकृतिं कृष्णश्चक्रे वृन्दावने वने । श्रीरामो भगवान् पूर्णः कलाभिः पुरुषोत्तमः ॥ ३०॥ कोटिलक्ष्मीसहस्राणामंशिनी जनकात्मजा । एतयोरेव दिव्यांशौ राधाकृष्णात्मकौ व्रजे ॥ ३१॥ काले-काले समुद्भय कुरुतः शाश्वतीं रतिम् । रामांशो भगवान् कृष्णः सीतांशो राधिकेश्वरी ॥ ३२॥ अन्याश्च सकला गोप्यस्तदंशांशा उदीरिताः । द्वारिकायां रुक्मिणीयं महालक्ष्मी महेश्वरी ॥ ३३॥ अन्याश्च सत्यभामाद्यास्तदंशाः सहजात्मिकाः । क्वचिदावेशरूपेण क्वचिदंशस्वरूपतः ॥ ३४॥ क्वचित् साक्षात् स्वयं सीता रमते प्रभुणा सह । सैव रासेश्वरी तेन रमते रासमण्डले ॥ ३५॥ एकधा शतधा चैव कृत्वा रूपाणि सन्ततम् । तच्चरित्रं महागोप्यं मया ज्ञातुं न शक्यते ॥ ३६॥ कुरु कल्पशतं तीव्रां तपश्चर्यां स्वशोधिकाम् । तदा ते तादृशी भक्तिर्भविष्यत्यनपायिनी ॥ ३७॥ तदा श्रीरामचारित्रं श्रोतुमर्हस्यशेषतः । नोचेन्मामेव शप्स्यन्ति योगीन्द्रास्ते शुकादयः ॥ ३८॥ अनधिकारिणे मा ब्रूयादित्युक्तं प्रभुणापि मे । इति ब्रह्मवचः श्रुत्वा भुशुण्डो नाम वै द्विजः ॥ ३९॥ महतीमार्त्तिमन्वार्च्छत् प्राणान्तेऽपि गरीयसीम् । आकाशवाक् समुद्भूता तदा संश‍ृण्वतोस्तयोः ॥ ४०॥ ब्रूहि ब्रह्मन्नशेषेण मम चारित्रमद्भुतम् । रासलीलाविनोदाख्यं भक्तायाण्डजरूपिणे ॥ ४१॥ अयं हि सुमहान् योगी ममैकान्तरतिप्रियः । शान्तो दान्तस्तितिक्षश्च कोटिकल्पकृतश्रमः ॥ ४२॥ मद्भक्तो मत्परः शान्तो मदर्थत्यक्तसंस्मृतिः । एकान्तचारी विनयी भक्तानां प्रीतिवर्द्धनः ॥ ४३॥ ज्ञापयास्मै विशेषेण रामचारित्रमद्भुतम् । पीत्वा पीयूषवत् सर्वं नान्यस्मै कथयिष्यति ॥ ४४॥ इति दैवीं गिरं श्रुत्वा ब्रह्मा सञ्जातसम्भ्रमः । सम्पूज्य द्विजमाचष्टे रामलीलां मनोहराम् ॥ ४५॥ एतामैकान्तिकीं लीलां यो ब्रूयादनधिकारिणे । स पच्येत महाघोरे नरके दैवचोदितः ॥ ४६॥ (यः)कृष्णैकान्ततरो भक्तो रामभक्तिविवर्जितः । तस्मै न कथयेदेतां लीलां विश्वस्य पावनीम् ॥ ४७॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम पञ्चविंशोऽध्यायः ॥ २५॥

२६

ब्रह्मोवाच । श‍ृणु द्विज प्रमाणज्ञ रामलीलां मनोहराम् । दिव्यराससमायुक्तां सीताकौतुकवर्द्धिनीम् ॥ १॥ सर्वेऽप्यग्निकुमारास्ते षष्टिसाहस्रसङ्ख्यकाः । रामलीलारसाभिज्ञाः प्रापुर्निजतपः फलम् ॥ २॥ कल्पं सारस्वतं प्राप्य दण्डकारण्यवासिनः । श्रुतयश्चैव सञ्जाता गोपीरूपेण गोकुले ॥ ३॥ रामरूपमनुप्रापुः सरय्वास्तटयोर्द्वयोः । प्रमोदवनवासिन्यो जानक्याश्च महाप्रियाः ॥ ४॥ रामतत्त्वमनुप्राप्य मुमुहुः कामभाविताः । अन्याश्च दिव्यललना दिव्यरूपसमन्विताः ॥ ५॥ कृत्वा तपो वरं लब्ध्वा दिव्यमापुर्मनोरथम् । ततो निजवरं सत्यं कत्तु रामो महामनाः ॥ ६॥ कामतत्त्वेन ताः सर्वा रमयामास गोपिकाः । अथ प्रादुरभूत् कामः सहजानन्दलक्षणः ॥ ७॥ जानकीं वेपयामास सहजानन्दरूपिणीम् । सा वेपिता कामशरैः प्रादुर्भूय रघूद्वहात् ॥ ८॥ दिव्यवेशधरा भूत्वा क्षोभयामास राघवम् । सङ्क्षुब्धः कामबाणेन तामालिङ्गितुमीयिवान् ॥ ९॥ तमायान्तं समालोक्य स्वयमन्तर्बभूव सा । अथ खिन्नो राजसूनुर्विरहेण मृगीदृशः ॥ १०॥ इतस्ततो भ्राम्यमाणो दिशः शून्या विलोकयन् । पाण्डुक्षामवपुः साश्रुस्तब्धः पुलकपूरितः ॥ ११॥ दिने दिने व्यथापूर्णः प्रलीनसकलेन्द्रियः । पद्मपत्रविशालाक्षीं तामेव निजवल्लभाम् ॥ १२॥ ध्यायमानोऽन्तरा दृष्ट्या बहिः शून्याखिलक्रियः । अशुष्यद्राजतनयो दीर्यमाणः स्ववक्षसि ॥ १३॥ क्वचिच्चन्द्रमुपालेभे पूर्णबिम्बं सुधामयम् । क्वचित् पद्मवनं दृष्ट्वा दुःखी नेत्रे न्यमीलयत् ॥ १४॥ क्वचित् कैरविणीं वीक्ष्य बभूव च पराङ्मुखः । क्वचिद् रम्भावनं दृष्ट्वा स्पृष्ट्वा प्राद्रवदातुरः ॥ १५॥ क्वचित् कुञ्जलतां दृष्ट्वा वक्तुं समुपचक्रमे । क्वचिद् वसन्तमालोक्य मेने दावानलं विभुः ॥ १६॥ क्वचिदेकान्तसदने तामुपालभत प्रियाम् । अये ! कठोरहृदये दृप्ते जनकनन्दिनि ॥ १७॥ व्यथमानहृदं दृष्ट्वा नाद्यापि करुणा तव । सकृन्मे दर्शनं दत्त्वा महाविरहवर्धनम् ॥ १८॥ अन्तर्हिता त्वं किं ब्रूमः प्रेमशून्यकठोरताम् । क्वचिदाकाशमालिङ्ग्य प्रियाबुद्ध्या मुमोद सः ॥ १९॥ क्वचिन्नवदलं दृष्ट्वा चक्रे चुम्बनगां धियम् । क्वचित् खिन्नमनाः श्रान्तो शय्यामालिङ्ग्य संश्रितः ॥ २०॥ क्वचिद्धसन् क्वचिद्धावन् क्वचित् क्रीडारसं दधत् । क्वचिदुन्मत्तवज्जल्पन् क्वचित् कुर्वन् मनोरथान् ॥ २१॥ नैव लेभे रतिं क्वापि प्रियाध्यानपरायणः । सरयूघोष वासिन्यो दिव्याश्च ललनागणाः ॥ २२॥ रामनायकमालोक्य बभूवुः कामपीडिताः । काश्चित्तद्गुणमाकर्ण्य बभूवुः काममोहिताः ॥ २३॥ काश्चित् साक्षादमुं दृष्ट्वा निपेतुर्भृशमूर्छिताः । काश्चिच्चित्रगतं दृष्ट्वा जाताः कामशरार्दिताः ॥ २४॥ काश्चित् स्वप्ने समालोक्य पीडामापुः सुदुःसहाम् । एवं रामगुणाकृष्टाः समस्ता वामलोचनाः ॥ २५॥ विरहार्त्ताः श्रितैकान्ता दूतीभिः संन्यवेदयन् । तासां दूत्यो राममेत्य प्रोचुर्विरहजां व्यथाम् ॥ २६॥ दूत्य ऊचुः । अयि सुन्दर राघवोत्तम त्वमसि प्रेमभरैकभाजनम् । वनिताः स्मरबाणवेपिताः सदय त्वं परिपालय प्रभो ॥ २७॥ तव रूपविमोहिताः स्त्रियः कलिताः कामकरे कृताशयाः । कुलशीलविलज्जयातुराः पथि रुद्धाः सरितो यथाभवन् ॥ २८॥ अयि राजकुमार सम्प्रति व्यथितप्राणविमोचनोद्धुराः । न निभालयसे किमीदृशीः करुणावारिनिधिः स्वयं भवान् ॥ २९॥ अथ ते कठिनं यदा मनो व्रजरामाननवीक्षणाक्षमम् । मरणं तदिमा मृगीदृशः कलयिष्यन्ति विगर्हितं भुवि ॥ ३०॥ अयि कामपरार्द्धसुन्दर त्रिजगन्मोहनमञ्जुलाकृते । मृत एष मृगीदृशीगणः प्रणयश्रीपरिपालकस्तव ॥ ३१॥ अयि मन्मथमोहनाकृते किमियं ते प्रकृतिर्दुरत्यया । यदमूर्ललना निजाधरा मृतपानेन न जीवयस्युत ॥ ३२॥ वनितावधपातकोद्भवं भय मास्ते भवतोऽथवा न वा । रघुवंशविभूषणो भवान् कथमत्युग्रमधर्ममाश्रितः ॥ ३३॥ चरणाम्बुजनिर्गलन्मधुद्रव धारासुखितान्तराश्रयाः । मुनयोऽपि भवद्गुणामृतं ननु गायन्ति रजस्तमोलयाः ॥ ३४॥ अयि राघववर्यधुर्य ते चरणाम्भोजपरागकाङ्क्षिणीः । अबला मदनेन घातयन् हृदि चिन्तां महतीमवाप्स्यसि ॥ ३५॥ शिशुनैव विमोहितान्तरा वनितास्ता व्रतबन्धकर्शिताः । भवता वरदाननिर्वृता वचनेनैव न वञ्चिताः किमु ॥ ३६॥ इदमीदृशबालभाषितं धरणौ सम्प्रति विश्वसेत कः । अथ विश्वसनीयभाषितो दयितो यद्यसि तत् प्रसीद भोः ॥ ३७॥ निजशैशवकर्मविस्मरन् वरदानं यदि विस्मृतोऽसि भोः । तदिमा युवराज सम्प्रति प्रणयेनैव सुनिर्वृताः कुरु ॥ ३८॥ यदिचेच्छरणागता अमूः परिपातुं क्षमते न ते मनः । भवतः सुचिरस्थिरं व्रतं गतमेव प्रतिभाति मेऽधुना ॥ ३९॥ शरणागतपालनव्रतं यदि ते सुस्थिरमस्ति राघव । तदिमा रघुराज कन्यका विरहाम्भोनिधितः समुद्धर ॥ ४०॥ प्रभुणा करुणावता त्वया न विलम्बः करणीय एव चेत् । परिपालय घोषसुन्दरी र्निजनाथाः स्मरबाणपीडिताः ॥ ४१॥ रघुनाथ भवान् भवार्णवे प्रकटोऽभूर्निजसौख्यहेतवे । स कथं निजनाथसुन्दरी निवहं संव्यथयन् न लज्जते ॥ ४२॥ इति शुश्रुम देवकार्यकृत् कृतवेशः पुरुषोत्तमो भवान् । तदिमाः सुरलोकसुन्दरीः विरहार्ताः परिपालय प्रभो ॥ ४३॥ परिपालय नाथ सेवकान् निजलावण्यसुधैकसंश्रयात् । इति ते विरुदावली यथा न विशीर्येत् करुणारसाम्बुधे ॥ ४४॥ स्मरसुन्दर कापि मूर्च्छिता प्रमदं कापि तनोति मन्त्रवित् । मुहुरेव च कापि धावति त्रपया कापि निरोधिताभवत् ॥ ४५॥ प्रलपत्यपि कापि भूरिशः करुणां कापि निभालते तनुम् । जडवत् प्रणयेन काप्यभूद् बहुशः खिद्यति राम काचन ॥ ४६॥ पुलकानि बिभर्ति काचन स्वरभङ्गं कुरुते च काचन । प्रणयेन च कापि कम्पते मलिनाङ्गी खलु राम काप्यभूत् ॥ ४७॥ अथ कापि करोति रोदनं पृथुमुक्ताफललोचनाश्रुभिः । प्रिय कापि विलीनवृत्तिका भुवनं शून्यमिवैव वीक्ष्यते ॥ ४८॥ इति नित्यमुपस्थितं महत् कदनं घोषपुरीमृगीदृशाम् । कृपया क्षपयातिकोमल प्रकृते राम धनुर्धराग्रणीः ॥ ४९॥ अयि राम धनुर्धराग्रणीः प्रसभं राजकुमार पालय । नहि चेन्निहनिष्यते स्मरो निजनाथाः खलु घोषसुन्दरीः ॥ ५०॥ महतीं श्रियमाप्तवानसि स्मरसि त्वं किमु धेनुधोरणीः । अधुनापि तवैव गोपते हृदि वाञ्छन्ति गवेन्द्रतां प्रभो ॥ ५१॥ सततोत्सवभूरिभाग्यवा नसि साकेतपुरीपतेः सुतः । न भवन्तमिह त्यजन्त्यमी स्वसखायः खलु गोपपुत्रकाः ॥ ५२॥ महती खलु राम वर्तते भवतः श्रीर्गुरुगोपवेश्मसु । न तथा हृदयं धिनोत्यसौ नृप सम्पत्तिरपारकुञ्जरा ॥ ५३॥ पितृतो भवते प्रदर्शिता कमला कोटिगतौघसेविता । किमु विस्मरणे भविष्यति प्रणयावद्धगवेन्द्रवेश्मनः ॥ ५४॥ जननी तव गोपसुन्दरी रघुवर्य त्वयि पुत्रवत्सला । त्वमपि स्फुटराज्यसम्पदं प्रणयेनैव विधूय संस्थितः ॥ ५५॥ इति राम विगर्हणं तव प्रकटं प्रेमवशेन कथ्यते । नृपपुत्र न चेत् त्वमीश्वरः किमु लोके सुलभोऽसि मृग्यताम् ॥ ५६॥ नवनीतसमूहतस्करो व्रजरामापरिरम्भपेशलः । सुलभोऽप्यसि घोषभूषण स्वकलीलारसमात्रकौतुकी ॥ ५७॥ इति दूत्यपरायणाशयै र्व्रजदूतीनिवहैरुदीरितम् । वचनं सुनिशम्य राघवः प्रहसन् प्राह मनोज्ञया गिरा ॥ ५८॥ श्रीराम उवाच । सात्यन्तं मे प्रिया सीता हृद्गता बहिरुद्गता । मोहयित्वा सहृदयं हाहा कुत्र गता जवात् ॥ ५९॥ न तां विना क्षणं स्थास्याम्यहमीशोऽपि सम्पदाम् । सा मे विगर्हणं कुर्याद्यदि क्रीडेयमन्यतः ॥ ६०॥ तद्भ्रूविजृम्भवशगो बिभेमि व्रजदूतिकाः । तत्स्वीकृतिमहं कृत्वा श्रोष्याम्यन्याभिवाञ्छितम् ॥ ६१॥ जनकस्य गृहे जाता सा मे स्वप्नगताऽब्रवीत् । तां त्यक्त्वा कथमन्यासु कुर्वीय प्रणयोत्सवम् ॥ ६२॥ सा मे यदि प्रकुप्येत तदा किं मे भवेदिति । मुहुः सञ्चिन्त्य नान्यासां प्रणयं पालितुं क्षमः ॥ ६३॥ तद् व्रूत मद्वचस्तत्र गत्वा यूयं सुदूतिकाः । आश्वासयत ताः कान्ता भूयो मद्विरहातुराः ॥ ६४॥ भवतीभ्यो वरं दत्तं स्मरामि व्रजयोषितः । तत्र कालं प्रतीक्षध्वं यावत् सीतासमागमः ॥ ६५॥ तथाहं विधिवत् कृत्वा भूयः परिणयोत्सवम् । तस्यै महापदं दत्त्वा महिषीत्वेन भावितम् ॥ ६६॥ भवतीभिस्ततः सङ्गं करिष्यामि व्रजाङ्गनाः । इत्येवं भाषमाणे तु तस्मिन् राघवपुङ्गवे ॥ ६७॥ आययुर्मुनयः सर्वे दूतीनां पुरतः स्थिताः । स्थूलाक्षः शर्कराक्षश्च कम्बुर्मेधातिथिः शुकः ॥ ६८॥ नारदः पर्वतश्चैव सुधर्मा चैकलो द्विजः । मित्रभवनोऽप्यथो धौम्यः शतानन्दो विशारदः ॥ ६९॥ जमदग्निस्तथा रामो वशिष्ठो वामदेवकः । अन्ये चैव तपोवीराः प्रादुरासुर्मुनीश्वराः ॥ ७०॥ जाबालिः पिप्पलादश्च शाण्डिल्यो लोहितस्तथा । उद्दालको देवलश्च लोमशश्च महामुनिः । ते तत्र बोधयामासुर्धर्मज्ञं रघुपुङ्गवम् ॥ ७१॥ सुनय ऊचुः । श‍ृणु राम महाबाहो नैव वक्तुमिहार्हसि । त्वदङ्गसङ्गिनी सीता नोद्वाहं समुपेक्षते ॥ ७२॥ शैशवे शिशुरूपा सा तारुण्ये तरुणाकृतिः । तिरोभावे तिरोभूताविर्भावे प्रकटाकृतिः ॥ ७३॥ चन्द्रेण चन्द्रिकेवासौ त्वयैव सह वर्तते । गच्छ राम मनोज्ञं तत् प्रमोदवनमुत्तमम् ॥ ७४॥ तत्रस्था व्रजदेवीश्च रमयस्व चिरं प्रभो । ता एव प्रथमं तस्याः करिष्यन्ति विकैतवम् ॥ ७५॥ दूत्यं तया भवत्सङ्गं कारयिष्यन्ति योषितः । तास्वाविष्टा ततः सीता रंस्यते भवता समम् ॥ ७६॥ स्वयं च रंस्यते साक्षात् सीता सहजसुन्दरी । नात्र त्वया क्वचित् कार्यो विकल्पो रघुनन्दन ॥ ७७॥ तासामेव हितार्थाय भक्तानां व्रजयोषिताम् । त्वत्तः प्रादुरभूदेवा भेदेन दर्शनं गता ॥ ७८॥ पुनश्चान्तर्हिता भूत्वा प्रमोदवनमागता । तत्र सा शोभते नित्यं सरयूतीरवासिनी ॥ ७९॥ प्रमोदवनमध्यस्था तद्देवीभिश्च पूजिता । तासां मध्येऽनिशं भाति प्रमोदवनदेवता ॥ ८०॥ रक्ताशोकलताकुञ्जं सीतासौ तत्र कानने । त्वं तात गच्छ तत्रैव पूरयस्व मनोरथान् ॥ ८१॥ नेत्रोत्सवं तथास्माकं देहि राघवपुङ्गव । त्रैलोक्ये च महामोदं वर्द्धयस्व महामते ॥ ८२॥ नातो विलम्बनं कार्यं वयं दूत्यमुपागताः । तत्रैव सीतया सार्द्धं शोभन्ते व्रजयोषितः ॥ ८३॥ श्रुतिरूपा नित्यसिद्धा अग्निपुत्राश्च योगिनः । अन्ये च दिव्यमुनयो वाञ्छन्ति भवदागमम् ॥ ८४॥ योषिद्रूपं विधायैते कामेन क्षुभिताशयाः । त्वामेव नित्यं वाञ्छन्ति तत्र गच्छाधुना प्रभो ॥ ८५॥ इति तेषां वचः श्रुत्वा रामः प्रहसिताननः । महान्तमुत्सवं कृत्वा सर्वांस्तान् विससर्ज ह ॥ ८६॥ ओमित्युक्त्वा दूतिकाश्च विससर्ज नृपात्मजः । दूत्योऽपि तेन वाग्वन्धं कृत्वा प्रमुदिताशयाः ॥ ८७॥ आयाति भवतीनां वै नाथः सञ्जातकौतुकः । इति ताभ्यो व्रजस्त्रीभ्यः पृथक् सत्यं न्यवेदयन् ॥ ८८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम षड्विंशोऽध्यायः ॥ २६॥

२७

अथागमच्छरत्कालः प्रमोदवनमध्यतः । उत्फुल्लपङ्कजवनः परागोद्धूलिताम्बरः ॥ १॥ सप्तच्छदोग्र सौगन्ध्यसमूहोन्मत्तदिग्गजः । मृदुचन्द्रकरस्पर्शसहजोत्फुल्लकैरवः ॥ २॥ उत्फुल्लमल्लिकावल्लीकुसुमस्तवकान्वितः । खेलत्खञ्जनदाम्पत्यसम्भ्रमोद्भूतमन्मथः ॥ ३॥ चकोरीवदनान्तःस्थ निशाकरकरामृतः हंसकारण्डवाक्रीडसलिलोद्धरणोद्धुरः । कञ्जकिञ्जल्कपुञ्जान्तर्लीनप्रचुरषट्पदः काशपुष्पप्रतीकाशचमरीपुच्छमण्डलः ॥ ५॥ प्रमोदवनसम्फुल्लमालतीसौरभान्वितः । सन्ततस्वच्छसरयूसलिलाचितबालुकः ॥ ६॥ गोपगोपीहृदुत्साहवर्द्धनः पुष्टिकारकः । दृष्ट्वेदृशं तु समयं रामो रमणकोविदः ॥ ७॥ गोधोरणीं पुरस्कृत्य प्रमोदवनमागमत् । तत्र गत्वा कृताकल्पः सहजोत्सवसुन्दरः ॥ ८॥ अङ्गलावण्यसन्दोहप्रकाशितदिगन्तरः । गोपानुवाच सकलान् भ्रातॄंश्च लक्ष्मणादिकान् ॥ ९॥ हे लक्ष्मण गवां गोष्ठं रच्यतां परितोऽत्र वै । गोपैः सार्द्धं शाद्वलानि चार्य्यतां मम धेनवः ॥ १०॥ अहमत्र करिष्यामि प्रमोदविपिनान्तरे । पूजां कामेश्वरस्याङ्ग देवदेवस्य सन्ततम् ॥ ११॥ भरतेन च शत्रुघ्न सार्धं त्वं गाश्च चारय । अत्र स्यात् कोऽपि चेद्विघ्नः प्रतीकार्यस्तथैव सः ॥ १२॥ प्रमोदवनकुञ्जेषु करिष्यामि मनोरथम् । ओमित्युक्तवन्तमथो विसृज्य लक्ष्मणं च तान् ॥ १३॥ अन्तः प्रमोदविपिनमियाय रघुनन्दनः । तत्र गत्वा शशिज्योत्स्ना विसतन्तुपटोज्ज्वलाः ॥ १४॥ सुधामयीः शरत्पूर्णा रजनीराजुहाव सः । द्विपरार्धान्तेऽपि नित्यास्तास्तस्य पुरतोऽभवन् ॥ १५॥ तासु क्रीडनमारेभे दिव्यकेलीविशारदः । तत्र स्थित्वा महाकुञ्ज जुगुञ्ज कलवेणुना ॥ १६॥ तत्र वेणुरवे गानमकरोदिदमादरात् । इत्येहि जनकनन्दिनि मदन्तः सन्तापहरणचन्द्रिकावतारविग्रहे मदङ्गसञ्जातप्रमोदवनलहरीलीलायितगते सहजचिदानन्दमयतारुण्य विलासवैभवाधिवासिते ॥ १७॥ चिल्लोकस्वामिनि कामिनीजनगर्वापहार मकरध्वजपताके वेदिमध्ये महामत्तमातङ्गगामिनि राकेशप्रभावलेपनिर्वहणवदनकान्ते कैशोरलीलामतिलङ्घ्यवर्तमाने ॥ १८॥ प्रमोदवन-वृन्दावन-मन्दारवन-कदम्बवन-पारिजातवनेश्वरि कुञ्जभुवनेश्वरि रक्ताशोकलतामण्डपमध्यस्थे स्मरमन्त्र-महाविद्ये श्रीमन्त्र-विद्ये महामन्त्रविद्ये महाश्रीयन्त्रनायिके महाचक्रनायिके मातङ्गकुलपूजनीयचिन्तामणिचरणनखचन्द्रिके ॥ १९॥ चञ्चलापाङ्गसङ्क्षोभितकोटिकन्दर्पकामिनीहृदये कोटिब्रह्माण्डकमलासमुच्चयरूपविग्रहे मन्दस्मितमात्रनिरस्तविरहशोके हा भामिनि हा चण्डि हात्यन्तकोपने हातिशयदुराराध्यशीले भूलीलादिविविधाकारावान्तरावताराति-निमग्नमानसे क्वासि क्वासीति ॐ ॐ ओं ॐ आनन्दवल्लिके क्वासि क्वासीति जगौ ॥ २०॥ ततस्तदाकर्ण्य सुवेणुनिःस्वनं प्रियोदितं मन्मथवेग वर्द्धनम् । स्मरोन्मदप्रोद्धतमानसा बहि र्हृदन्तरादाविरभून्नितम्बिनी ॥ २१॥ अशोकवल्लीवनमण्डपान्तराद् विनिःसरन्ती सहजारुणांशुका । घटस्तनी सन्मणिहारभूषणा स्फुरत्पदन्यासविरञ्चितावनिः ॥ २२॥ मरालगत्यञ्चितमञ्जुविग्रहा नितम्बभारोद्वहनाक्षमा रमा । मृदुस्मितदद्योतविभासितानना मनोहरापाङ्गविभूषितेक्षणा ॥ २३॥ अनर्घ्यकाञ्चीगुणनादिघण्टिका मनोज्ञकेयूरविलम्बिदोर्लता । त्रपानिमग्ना कलितावगुण्ठना सुवृत्तदीव्यज्जघनप्रभाम्बरा ॥ २४॥ सुकण्ठकण्ठी शुभसूत्रशोभिता सभागसौभाग्यसमूहसङ्गता । समानशीलैः प्रचुरैः सखीजनैः सनाथपर्यन्तपुरस्थलस्थिता ॥ २५॥ परिस्फुरच्चारुकपोलमण्डन प्रतिष्ठताटङ्कमणिप्रभाभरा । प्रसूनचित्रीकृतचारुवेणिका सुनासिकाशोभिमहामणित्रया ॥ २६॥ सुमञ्जुसिन्दूरसमूहसुन्दर प्रसर्पिसीमन्तितरत्नपट्टिका । ललाटपर्यन्तविराजिभूषण प्रभासमूहैः परिवेपितानना ॥ २७॥ सा राघवेन्द्रस्य जवेन सन्निधौ समेत्य कण्ठे मणिमालिकामधात् । तयोर्विनिर्वृत्य विवाहमङ्गलं सखीजनः कुञ्जगृहे विधानवित् ॥ २८॥ प्रवर्तयामास मिथो रतिक्रियां नवीनसङ्गोद्यदनङ्गकौतुकाम् । ततस्तयोस्तत्र दिने दिनेऽभव न्महोत्सवः पूर्णसखीमनोरथः ॥ २९॥ श‍ृङ्गारयामास रघूद्वहः प्रियां प्रियापि तं दिव्ययुवानमादरात् । एवं तदन्योन्यमभूत् कुतूहलं दाम्पत्यभावप्रणयेन सञ्चितम् ॥ ३०॥ परस्परालापनिरीक्षणादिषु प्रवृद्ध उच्चैः प्रणयस्य वारिधिः । अभूदमर्यादतरः समन्ततो यथान्यवार्ता धरणीं समाक्रमत् ॥ ३१॥ साकेतनगरद्वारा रासभूः सहवेश्मसु । सरयूतटकुञ्जेषु रत्नपर्वतसानुषु ॥ ३२॥ क्रीडास्थानेषु दिव्येषु महासाम्राज्यभूतिषु । वाटिकातटवापीषु प्रमोदवनमध्यतः ॥ ३३॥ दधौ केलिरसं रामो रामया सह सन्ततम् । क्वचिद् गुञ्जाविभूषाढ्यो वनमालाविभूषणः ॥ ३३॥ मयूरचन्द्रिकोत्तंसी वितेने नयनोत्सवम् । क्वचिच्चन्दनकाश्मीरमकरीपत्रचित्रितः ॥ ३५॥ रत्नाकल्पमनोहारी चकारातीव सम्पदम् । क्वचिच्च कनकोष्णीषरत्नस्तवकशोभितः ॥ ३६॥ हेमकञ्चुकलिप्ताङ्गो रेजे राजोत्तमो यथा । क्वचित् पीताम्बरधरः शुभ्रधौत्रविराजितः ॥ ३७॥ आबद्धचूडाचिकुरश्चकार प्रियया मुदम् । क्वचिच्च मल्लकच्छाढ्यः सुवर्णधृतकुण्डलः ॥ ३८॥ करस्थवलयोल्लासी रराज रघुनन्दनः । क्वचिन्नासामणिभ्राजी श्रीमदाननमण्डलः ॥ ३९॥ प्रियाकल्पितपुंवेशो रेजे श्रीरामचन्द्रमाः । क्वचित् किरातवेशेन सन्नद्धललनासखः । मृगयाभिरतिर्वीरो व्यरोचत वनान्तरे ॥ ४०॥ एवं विचित्ररचनान्वितकेलिकारः कन्दर्पकोटिकमनीयकलाकलापः । दासीजनप्रतिविभूषितदिव्यरामा तारुण्यमोदमदिरारसपानमत्तः ॥ ४१॥ अन्योन्यमुज्ज्वलरसोदधिहावभाव रिङ्गत्तरङ्गशतसान्द्रतरार्द्रमूर्त्तिः । चक्रे विलासरसिको विविधान् विलासान् श्रीमत्प्रमोदवनकुञ्जगृहे सुरम्ये ॥ ४२॥ इत्यं विहरतस्तस्य रामया सीतया सह । द्विपरार्द्धन्तिमभवद् ब्रह्मणो रजनी हि सा ॥ ४३॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम सप्तविंशोऽध्यायः ॥ २७॥

२८

ततः प्रवर्तते घोरं तमो भावपिधायकम् । रवेरस्तमभूत्तेजः शशुभे ज्योतिषां गणः ॥ १॥ तारकौघाः प्रादुरासन्नुलूकाः सम्प्रपेदिरे । पद्मकोशान्तरे बद्धाः जुगुञ्जर्न मधुव्रताः ॥ २॥ मधुरोल्लाससंशोभि बभौ कैरविणीवनं विटपेषु च निद्राणाः पतङ्गा न च भाषिरे । संवीक्ष्य तामसीं वेलां रामः प्रोवाच जानकीम् ॥ ३॥ जनकनन्दिनि सम्प्रति वर्तते रजनिरुत्सुककोकगणार्तिदा । स्फुरदुलूककदम्बकमोद कृत्तिमिरघोरपटावृतकानना ॥ ४॥ कटु रटन्ति च सम्प्रति फेरवाः सुकलहंसरवश्च तिरोहितः । श्रवणयोः कुरुते कटुतामसौ किमपि चक्रवधू निवहारवः ॥ ५॥ न खलु सम्प्रति वञ्जुलकाननं विकसितं वितनोति दृगुत्सवम् । कुमुदिनी प्रविभर्त्ति विकासितां वितथसौरभसम्पदुपेक्षिता ॥ ६॥ किमपि गायति च भ्रमरावली विकटकुञ्जलतावनवेश्मसु । दधति रत्नगिरेस्तटभूमय स्तिमिरसङ्घकृतं स्वपराभवम् ॥ ७॥ इति निशम्य निशागमवर्णनं जनकजा समभाषत वल्लभम् । इयमहो रजनी न निवर्तते प्रलय एष विधेरपि नाशकः ॥ ८॥ भजति भूतगणः प्रकृतिं परां प्रकृतिरेति परे पुरुषे लयम् । पुरुष एति भवन्तममुं परं निजविलासरतं पुरुषोत्तमम् ॥ ९॥ त्वमधुनापि रतेर्न निवर्तसे सहजचित्सुखकेलिकलानिधिः । यदपि नाथ गता लयमीदृशाः शतश एव विरञ्चिहरीश्वराः ॥ १०॥ त्वमवधिः परमं पुरुषोत्तमः सततकालकलाकलनात्मकः । प्रिय भवन्तमुपेत्य गतोऽ प्यसावगत एव विवात्यत इत्यहो ॥ ११॥ अहमपि प्रभुणा भवता सह प्रमुदकाननकुञ्जविलासिनी । न कलये प्रणयेन च सम्भवं न विरतिं सुखकेलिमहोत्सवे ॥ १२॥ अथ यदि स्वपनस्पृहया प्रभो किमपि ते नयनेऽलसपक्ष्मणी । तदहमप्यधुना स्वपिमि क्षणं भवदुदारभुजान्तरवर्त्तिनी ॥ १३॥ भवदुरोनयनानननासिका हृदयपाणिपदावयवाश्रिता । विरचयामि सुषुप्तिरिवोछ्वस न्निगमशब्दमयीं विरतिं न किम् ॥ १४॥ निधुवनान्तमिता श्लथविग्रहा स्वपिमि नाथ कदा भवता समम् । स्वदयितस्य सुषुप्तिदशाजुष स्तव मुखेन्दुनिरीक्षणं मक्षमा ॥ १५॥ नहि निमीलितलोचनपङ्कजो ऽप्यथ भवानपि मां परिमुञ्चसि । सुखसुयन्त्रितदोःपरिरम्भण प्रणयकेलिकलाकुलविग्रहः ॥ १६॥ अलसलोचन एष सखीजनो ऽप्यलमिह स्वपितीति विभाव्यते । इह न सोऽपि जनोऽस्ति य एत्य नो दिशति नागलतादलवीटिकाम् ॥ १७॥ कथयतो रतिवल्लभयोर्मिथः सपदि कापि सखी सुसमाययौ । न युवयोरधुनापि दिनात्यये भवति सुप्तिरतीवविलासिनोः ॥ १८॥ नवनिकुञ्जलतावनमण्डपे कुसुमक्लृप्ततले कुरुथो न किम् । निधुवनक्रियया सहजं सुखं स्मरविलासकलाकुशलौ युवाम् ॥ १९॥ निधुवनश्रमसङ्गतनिद्रयो श्चरणवाहनमेत्य करोति या । किमु न साप्यहमद्भुतदासिका रहसि दम्पतिसुप्तिरहस्यगा ॥ २०॥ इत्थं सखीगिरं श्रुत्वा स्मृत्वा सीतारघूद्वहौ । शय्यामन्दिरमत्युच्चैराजग्मतुरनुत्तमम् ॥ २१॥ चन्दनागुरुधूपाढ्यं कर्पूरोज्ज्वलदीपकम् । शय्यान्तावनिविन्यस्त दिव्यास्तरणगैन्दुकम् ॥ २२॥ नानारङ्गसृतानेक दिव्यचित्रविचित्रितम् । कुञ्जवल्लीवनान्तःस्थमन्दारद्रुममूलगम् ॥ २३॥ रक्तपीतप्रभाशोभिरत्नवेद्पयुरि स्थितम् । सुवर्णसम्पुटन्यस्तताम्बूलोदलवीटिकम् ॥ २४॥ कल्पद्रुमप्रसूनस्त्रग्वासोलङ्कारभूषितम् । सम्भोगमल्लयुद्धान्त सुखदव्यजनाञ्चितम् ॥ २५॥ सुगन्धिमिष्टमधुरपक्वान्नादिसमायुतम् । प्रोद्भासिरत्नचषकोपेतमैरेयभाजनम् ॥ २६॥ द्यूतकेलिक्रियोपायचतुष्पद्यादि संयुतम् । हेमरत्नचतुष्कस्थपानीयकलशीयुतम् ॥ २७॥ रत्नज्योतिसमुद्भासिपृथुदर्पणमण्डलम् । वेश्माभ्यन्तरवेश्मान्तज्वलत्सुस्थिरदीपकम् । सखीजनकृतान्वीक्षा गवाक्षशतसङ्कुलम् ॥ २८॥ तत्र गत्वा निजालीभिः कृताकल्पां निजां श्रियम् । रमयामास रामेन्दुर्नवस्मररतोत्सवे ॥ २९॥ सख्यो जाम्बूनदीं मालां दत्त्वा सीताकराम्बुजे । रामस्य रोषयामासुः कण्ठे पुलकसुन्दरे ॥ ३०॥ तस्याः काञ्चीगुणग्रन्थिस्पर्शोत्कम्पिकरे प्रिये । सख्यस्तूर्णं विनिर्याताः शय्यामन्दिरतो बहिः ॥ ३१॥ तत्रैतयोः काकुवचःशताकुलं प्रभूतकन्दर्पशरोद्धुरं रतम् । बभूव भूयो न न नेति कान्तया निवार्यमाणोद्धुरकान्तखेलितम् ॥ ३२॥ प्रियः परीरभ्य मनोरमां प्रियां स्तनद्वयामर्दनजातसम्भ्रमाम् । चुचुम्ब बिम्बीफलकोमलेऽधरे रदव्रणारोपणजातवेदनाम् ॥ ३३॥ बलेन सा तस्य सुबाहुयन्त्रणां निवार्य नीवीं प्रददौ करं हि सा । द्वितीयकेन प्रसभं च पाणिना सुदूरयामास युवानमद्भुतम् ॥ ३४॥ बली स तस्याश्चरणद्वयं जवा न्निजांसमारोप्य मुखेन्दुमण्डलम् । चुचुम्ब सुस्निग्धकपोलभास्वरं वृतालकालीअमरीशताकुलम् ॥ ३५॥ हठात् समाकृष्य पदद्वयेन सा विव्याध वक्षस्थलमस्य कामिनः । ततोऽभवन्नूपुरकिङ्किणीरवः प्रसुप्तहंसौघवितीर्णसम्भ्रमः ॥ ३६॥ रामश्च तन्नूपुरयुग्मशिञ्जितैः मनः प्रभूतद्विगुणस्मरार्दितः । रदैर्विनिष्पिष्य रदच्छदं पुनः संरम्भतस्तत्परिरम्भमाचरत् ॥ ३७॥ सा रामचन्द्रस्य भुजद्वयान्तर स्थितार्दिता वक्षसि तेन वक्षसा । चचाल नालिङ्गनसङ्गमोद्भव प्रमोदसम्बन्धनिमीलितेक्षणा ॥ ३८॥ चुचुम्ब तस्याः स्फुटकोरकाकृती दृशोः [शौ ?] सकासी वदनं निभालयन् । तस्थौ पुनर्नीविगुणं पिधाय सा करद्वयेनोत्पुलकावलीतनुः ॥ ३९॥ स तत्करौ पङ्कजकोरकाकृती हठात् समुत्क्षिप्य बभञ्जनीविकाम् । तावत्तु सा चोरुयुगं सुवेष्टितं कृत्वा कराभ्यां च वराङ्गमप्यधात् ॥ ४०॥ स तन्नितम्बद्वितयं मनोरमं लिलेख सूक्ष्मैः करजैः स्मरोद्धतः । समालभच्च स्तनकुड्मलद्वयं स्ववक्षसा दीर्यदुदारकञ्चुकम् ॥ ४१॥ विदीर्यमाणा कुचकञ्चुकी च सा चकार तत्र द्विगुणं श्रियं रतेः । स्तनौ सुवेशेन यथा विरासतुः प्रमत्त चक्राविव पद्मिनीदलात् ॥ ४२॥ उदीर्णभासोः स तयोरुरोजयो र्नखावलीं सन्निचखान नायकः । स्फुटेन्द्रगोपापयवैः समाचितौ यथा लतायास्तवकौ विरेजतुः ॥ ४३॥ साप्यस्य वक्षस्थलमुद्धृतैर्नखैः पस्पर्श किञ्चित्स्मयदुर्मदेक्षणा । आवर्जयामास च दुर्लभत्वतः स्मरातुरस्यास्य हठेन वेगिताम् ॥ ४४॥ स उत्पतन्मन्मथवाणवेपितो मदोद्धतो बाहुबलेन यन्त्रयन् । चकार बालां मधुरांशुकच्युतां विस्पष्टदीव्यज्जघनद्वयप्रभाम् ॥ ४५॥ विलोड्यमाना सुरते प्रियेण सा बभूव सुस्वेदकणान्तविग्रहा । तथाप्यमुञ्चत्त्रपया न कर्हिचि न्नितान्तसंशोभिमुखावकुण्ठनम् ॥ ४६॥ पिधाय योनिं करपद्मसम्पुटे परस्परासक्तिसुसङ्गतोरुकाः । अधःस्थिताप्युच्छलतिस्म तस्य सा समानलज्जामदनद्वयाकुला ॥ ४७॥ तां केनचिद्वन्धबलेन कामुको निबद्ध्य निर्मुच्य तदोरुबन्धनम् । आरोपयामास निजोरुयुग्मके वराङ्गसौलभ्यसुनिर्वृतेन्द्रियः ॥ ४८॥ निजोरुसंस्थामबलां सुयन्त्रितां ततो निबन्धाच्चलितुं च नो क्षमाम् । ददर्श वक्त्रे परिचुम्बिताधरे पराङ्मुखी तावदभूज्जवेन सा ॥ ४९॥ तस्याः सुदीर्घामलकावलीं करे निगृह्य तां सम्मुखमन्वकूलयन् । ततोऽपि सा सम्मुखवर्त्तिनी प्रिया निमीलिताक्षी न बभाण किञ्चन ॥ ५०॥ सामर्षसक्रोधसहर्षसत्रप सहाससोन्मादनसाश्रुलोचना । बभूव तूष्णीमवशा सुयन्त्रिता कृताधरस्पन्दलवानुमेयगीः ॥ ५१॥ ततोऽस्य वक्त्रं शनकैः प्रपश्यती बभाण बाला मृदुवल्गुभाषिता । अलं जवेन प्रिय मुञ्च मुञ्च मां न नेति सम्मर्द्दविलोलविग्रहा ॥ ५२॥ स भाष्यमाणोऽपि जवेन योनिं बभञ्ज तस्याः खलु दीनयाचितम् । हाहेति वक्त्रे करकुड्मलद्वयं प्रकुर्वती काकुशताकुला च सा ॥ ५३॥ हठेन तेन व्यथितेव कामिना ररज्ज्ञ शय्यापि यथार्द्रयावकैः । कृतोद्धतां निर्दयसौरतक्रियां तत्याज मूर्च्छायितविग्रहां तु ताम् ॥ ५४॥ सखीजनस्तां प्रथमे रतोत्सवे बालां कथञ्चित्प्रतिलब्धचेतनाम् । संस्नापयामास सुमङ्गलोदकैः विधानविद्भिर्निगमैः प्रबोधिताम् ॥ ५५॥ इत्थं निशायामतिलङ्घ्य चेतनां चकार रामः प्रियया रतोत्सवान् । यावत्स शेते पुरुषो महोदधौ भुजङ्गराजे शयने सुषुप्तिभाक् ॥ ५६॥ गावश्च तस्य प्रसरन्ति सर्वतो निश्वासरूपा भुजगेन्द्रपालिताः । तौ कामिनौ निर्भरकामकेलिभिः संश्रान्तचित्तौ दधतुः स्वलीलाम् ॥ ५७॥ तदोल्वणा नाम जवेन राक्षसा उत्पेतुरुग्रा बलवत्सहिस्राः ॥ ५८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम अष्टाविंशोऽध्यायः ॥ २८॥

२९

अथोत्पेतुः परितः प्रमोदवनमुल्वणा नाम राक्षसाः । सोदरकाः सायुधाः सकवचाः सुतीव्रमतयो मदोद्धतास्तामसास्तामसीन्त्रपराक्रमा उल्मुकहस्ता अमङ्गलास्तालशतसमुच्छ्रायवपुषो दुर्दर्शनाः प्रज्वलद्द्वाग्निदृशो गिरिगण्डसमानांसाः पृथुतरनासाविनिः सरच्छ्वाससमुत्कम्पितद्रुमान् समुन्मूलयन्तः पादविन्यासप्रचालितधरणीभागाः सरागाननाः करालजटालकेशाः कृत्तिवाससो गणा इव विकटाटोपताण्डवप्रचण्डाः ॥ १॥ तान् लक्ष्मणोऽभिवीक्ष्य श्रीरामाज्ञापरायण स्तदाखिलकार्य प्रसाधनचतुरोऽक्षरब्रह्माकृतिः पुरुषोत्तमस्य द्वितीया मूर्त्तिश्चतुर्मूर्त्तेर्भगवतः सज्जीकृतधनुः सुतीक्ष्णविशिखधारासारै र्निवारितवांस्ते दृष्ट्वा शाद्वले चरन्तं रामधेनुकं सङ्क्षोभयाञ्चक्रुस्ततोवीरः सधेनुकं प्रमोदवनाभ्यन्तरे प्रवेश्य तानापततः प्रचण्डैः काण्डैर्विव्याध ॥ २॥ ते विद्धा द्विगुणसञ्जातरुषो लक्ष्मणं विषममुशलसमूहैरवाकिरन् । स निजकाण्डवर्षेण मुशलान् द्विधाकरोत् । तेन द्विधाकृता मुशला दूरादेव परावृत्ताः बभूवुः । कथञ्चन रविरिव पांसुप्रचयावकीर्णमारुताण्ड वरान्मुशलदुर्दिनात् स्वरूपं प्रकाशयामास । ते पुनरपि तं राजकुमारमाच्छादयन् शक्तिवृन्दैः, सञ्छिन्नः शक्तिवर्षेण मूर्छितो धरण्यां निपपात ॥ ३॥ ततो हाहाकृतं दिवि देवसैन्यं बभ्रामोवाच चाहो प्रभो लक्ष्मण कथं निर्विराज [ण्ण ?] इवासि संवृत्तः । सम्प्रति खलु त्वमेव गोधोरणीनायको नान्यमुपलभामहे । प्रभुस्तु योगनिद्रा वशंवदोऽधुना शेते क्षीरोदार्णवे प्राण प्रदस्त्त्वमेवास्य सहजकेलीनां लीलोपधानी कृतसमुद्रतनयैकबाहोः सान्द्रतराश्लेषज परस्परसुखानुभवरसिकस्य आदेशोऽसौ त्वां प्रमोदवनरक्षायै गवां पालनाय च महाविक्रमोर्जितमेकवीरं स्वानन्दविलाससाधनोपायम् ॥ ४॥ सखलु त्वं मैवं कार्षीः । भरतशत्रुघ्नावपि सम्प्रति क्वगताविति न प्रतीमो यतस्त्वमेकाकी महोल्वणैरमीभिर्युद्ध्यसे । संस्मर संस्मर स्वात्मानं समुत्तिष्ठ सज्जीकृतधनुः कोटिराक्षसकुलहन्यवे सौमित्रेयेति ॥ ५॥ लक्ष्मणस्तत्क्षणे प्रविधूयाङ्ङ्गव्यथां निजमहिमसंस्मृतिसुधाधाराभिस्तूर्णमुत्थाय घोरतरनाराचधाराभिर्दुर्दिनैः समाच्छादितवान् राक्षसमहोदरान् । ते च प्रबलतरभुजगेन्द्र भोगोपमभुजदण्डकुण्डलीकृतकोदण्ड निर्गलत्काण्डाग्रसञ्छिन्न शिरसो निपेतुः परितः प्रमोदवनं । तेषां पततां शरीराणिधरणीं कामयामासुस्समभूच्चारवोज्रनिर्घातघोरः । केचिच्च पलायमानाः क्ष्मां समाकम्पयन्, तेषां पलायमानानां चरणविन्यास संरम्भेण व्यशीर्यन्त भूमिभागाः । एवं निर्दलिताखिल विपक्षसैन्यो महावीरो धनुः प्रतिसंहृत्य गवां धोरणीमपालयत् । तावत् सुखं शेते जानकी कण्ठपाणिः सकललोकेश्वरः श्रीरामः ॥ ६॥ अथ यामार्धावशिष्टायां रजन्यां प्रभोः प्रबोधनाय वैतालिकवरवेशधारिणो वेदा विद्याधरीवेशधारिण्यश्च महोपनिषद उत्थानकमगायन् ॥ ७॥ वेदा ऊचुः । जय जय निजजनकरुणां कुरु कञ्जदलनयन स्वयमेवोज्जृम्भमाणाखिलसौभाग्यसदन जड़जीवात्मनां परिणममानस्य तेन तदीयैर्धर्मैः सम्बन्धः सपदि तदात्मनैव दृश्योऽसि ॥ ८॥ वयुनं नामैव ते येन परमहंसोऽपि त्वामखिलगुणातीत महिमानं वेद स्वे महिमनि प्रतिष्ठिततमम् ॥ ६॥ न खलु त्वमाधेयो निरपेक्षवृत्तेस्तवैतत्परं पदं यत् सूरयो धिया पश्यन्ति, यत्र काञ्चनी रत्नोपलघटिता भूर्यत्रैरम्मदीयं नाम सरो यत्र स्वानन्दं संविदेव वापी यत्र स्वात्मानन्दप्रसाद एव प्रासादः सबहुविधभोगसमुचितशिखराग्र निषण्णसत्त्वात्मकचित्तसमाक्रान्तो यत्र त्वमेवाधिराजो विजयसे ॥ १०॥ अथ दुस्तर्ककलितकलुषीकृतान्तःकरणानामेष लोको दुर्विभावनोऽन्तःसाधनशतं प्रयुञ्जानैरेव ते भवितव्यं मनोमयः प्राणवपुः प्रभारूपः सर्वकामः सर्वगन्धः सर्वरसः स एषोऽणुरात्मा चेतसा वेदितव्योऽयं तव लोकः सच्चिदानन्दघनो बाह्याभ्यन्तरो न तं कश्चन वेद तव चरणपरागपूतात्मानमृते ॥ ११॥ जय जय सदेकस्वरूप कलात्मक कालकलनातिग चिदेकप्रतिष्ठितनिखिलप्रपञ्चरचनैकाश्रय वाङ्मनसागोचर स्वानन्दसिन्धुलहरीगणसन्निमग्न निजान्तरानन्दिनीसहजालक्ष्मीपराम्बासंवलित नित्यनिकेतन निरवधिक्रीडार्थं विकल्पमानमिदं विश्वं तद्विशेषमेव विकृतिरपि त्वत्प्रकृतिरेवेति भेदेनापि मनोवाक् त्वामेवावलम्बते यथा नद्यः स्यन्दमानाः समुद्रसेवाभिसंविशन्ति तथैतानि नामानि सर्वाणि पुरुषं त्वामभिसंविशन्ति ॥ १२॥ अथेमे विद्वांसः कायवाक्चित्तमलनिर्वर्हणी त्वत्कथामृतधारान्तः कृतावभृथाः काय क्लेशकराणि तपांसि समापयन्ति । ये पुनः सतत एव सुखानुभवनिकेतनं त्वत्पदद्वयं भजमानाः शुद्धात्मस्वरूप स्फुरणेनान्तःकरणं कालप्रभावं सत्वादींश्च निर्जितवन्तः कुतः क्लेशकर्माण्यवरज्येयुः ॥ १३॥ यदेतदानन्दमयं यदेतदन्नमयादि च तस्यापि पुच्छप्रतिष्ठा च त्वं तव पृथिवी शरीरमात्मा शरीरमव्यक्तं शरीरमक्षरं शरीरं त्वं सर्वान्तरात्मा पहतपाप्मा दिव्यो देव एको रामचन्द्रः ॥ १४॥ अथेमे शार्कराक्षा मणिपूरकस्थं ब्रह्मोपासते सदेकशतनाडीस्थानं ते तदनेनैव वर्त्मना । त्वामेत्य न पुनर्दुःखालयमभिसंविशन्ति सोऽसि त्वमेको देवः सर्वभूतेषु स्थानेषु गूढः ॥ १५॥ अथामूष्वभिव्यक्तिस्थानेषु संश्चकास्ति सोऽसि त्वं प्रतिहतरजस्तमोविसरः शुद्धसत्त्वैकवपुः स्वकर्मोपार्जितनानापुरेशः कार्यकारणासंवृत्त निखिलांशाखिलशक्तिपरिवृढः कपीनां नैगमोक्तीनामावपनमसि ॥ १६॥ अथातिदुर्लभतरस्वतत्त्वप्रकाशनैकान्ततनौ विचित्रलीलारसामृता कूपारे त्वयि मग्ना मत्तासो जनासः किमिति मुक्तिं लवणोदरसदनेश तुल्यां स्पृहयेयुर्यत इमे पारमहंस्यव्रते स्थिताः पदपङ्कजपरागविचित्रितवपुषस्तन्निर्गलन्मकरन्द धारास्वादनिर्वृताः सततमेव विजयन्ते ॥ १७॥ अथास्मिस्त्वत्सेवौपयिके कुलाये परमात्मैकसखायो वत ये न । भजन्ति त उरुतरभीतिमहा वर्त्ते भवे भ्रमन्त एव तिष्ठन्ति ॥ १८॥ अथ ये मनोऽक्षगणं संयम्य दृढभूमिना योगेन हृदि निरुध्य परं तत्त्वं समुपासते । त्वद्भावमचिरेणापि यन्ति द्विषन्तोऽपि ते चरणयोः सायुज्यमीयुः प्रमेयबलमदः कतमः स्तोतुं क्षमो भवति ॥ १९॥ अथ भगवन् को नु त्वां जानी यादर्वाक् समस्तदैवतप्रसरं यतो साधुधियामखिलजगदादिभूतमृषि मनुजज्ञिरे आध्यात्मिका आधिदैविकाश्च ॥ २०॥ अथ त्वय्यखिलसाम्राज्यसुखाधिकसुखे रसात्मकविग्रहे समधिगते किममीभिः पुत्रापत्यकलत्रादिभिः कुतर्कैः सुदुर्भगैरिति व्यवस्य प्राचीना महाश्लोका महाश्रोत्रा महाशीलाः सर्वं परिहृतवन्तस्त्वयि च रतिं कृतवन्तस्त एवेदं भवात्मकं व्यसनं तीर्णवन्तः ॥ २१॥ अथेदं विश्वं सदेव सदुपादानकत्वादि तिहेतूपन्यासहतधियां दहनादिभ्य उत्पन्ना प्रभापि दाहिका किं न भवेदिति रघुकुलो त्तंसस्त्वमेव सत्त्वमेव सदिति मन्महे ॥ २२॥ अथ यथा भुजगः स्वगतमपि कञ्चुकं गुणबुद्ध्या नाभिमन्यते तथा त्वमजां नहि निरन्तराह्लादिसंवित्कामधेनुवृन्द पतेरजया तव किञ्चित् कृत्यमस्ति प्रभोः ॥ २३॥ अथ यदि भवान् स्वलिङ्गमुप संहृत्य कार्यं प्रति दृष्टिं मीलयति तदानुशायिनां ज्ञानसाधनं नास्ति न वा स्थूलं न सूक्ष्म न चोभयम् ॥ २४॥ अथास्यासतः प्रपञ्चस्य न जन्म घटते सतो वा दुःखादेर्न नाश आत्मनि भिदावकल्पते कर्म च न सम्भवति सेयं च नाम तव दृष्टिस्त्वय्येव बोधैकस्वभावे योऽयमबोधनिबन्धनो जीवः सोऽपि भिदया नैव वक्तुमर्हत् सद्विषयत्वाश्रयत्वयोरभावात्त्वयि ॥ २५॥ अथत्वय्यवर्तमानमपि मनो वर्त [ मान ? ] मिव भातु ये तु त्वद्वेदितारस्ते इदमशेषं त्वद्रूपतयेवाभिमृषन्ति नहि कनकमात्रदृशां कुण्डलादिकमवभासते ॥ २६॥ अथ त्वं स्वत एव व्यावृत्तकार्य कारणाद्युपाधिः सकलकारकशक्त्युपेतः स्वरूपशक्त्यैव राजसे मायया सह तदधीनैरपीड्यमानः ॥ २७॥ अथ यदि नित्यलीलस्य ते मायया सह विकृतिर्भवेत् ततः स्थावरा जङ्गमाश्च नानाकृतयो जीवा भवेयुः । सेयमीक्षैव तव परमकारुणिकस्य व्योम्न इव स्वपरभिदा शून्यस्य ॥ २८॥ अथ त्वं व्यापको नियन्ता सेव्य एवा मी त्वणवो व्याप्या नियम्याः सेवका एव त्वदुपलब्धाखिलवैभवभाजो नान्यथा प्रतिपत्तव्या क्षुद्रविस्फुलिङ्गा इव नाग्निकूटस्य तुलामधिरोहसि ॥ २९॥ अथ प्रकृतिपुरुषयोरुभयोरप्यजत्वान्न सम्बन्धो घटनामेति येनाध्यात्मिकरूपाः सोपाधयो जीवा जायन्ते ततः प्रकृतिविकार प्रलयेन सुप्तवासनत्वाच्छुद्धास्ताः परमात्मनि जीवाख्या शक्तयः सृष्टिसमये विकारिणीं प्रकृतिमासज्य क्षुभितवासनाः सत्यः सोपाधिकावस्थां प्राप्नुवन्त्येत्युच्चरन्ति सोऽयमचिन्त्यस्तवैव महिमा विजयतेतरां रघुवरशार्दूलस्य ॥ ३०॥ अथासौ हेतिरपि त्वद्भ्रूभङ्गमात्र नियुक्तः सर्वाण्येव वशयितुं शक्तो विहाय त्वद्भजनामृतधाराशीतल मनसो भक्ताख्यान् परमहंसान् ॥ ३१॥ अथ कोटिसमीररोधव्यग्रात्मानो न मनोरोद्धुं शक्ताः बहुभिः प्रत्यूहैर्हन्यन्त एव विना भवच्चरणनिदेशकदेशिकम् ॥ ओम् ॥ ३२॥ इत्यभिष्टूयोपरतेषु वेदपुरुषेषु स्तम्भ स्वेदादिविविधभावाकुलिताः स्खलद्गिरः सगद्गदाः पुलकविसरकदम्बायिततनवो बहुतरप्रेमाधौतकुचकुम्भकुङ्कुमाः खिद्यमाना इव भूयसा विप्रलम्भेन महोपनिषदो निर्भरसुरतश्रमशयानयोर्दम्पत्योर्युगलमस्तौषुः ॥ ३३॥ महोपनिषद ऊचुः । जय जय कान्तकेलीरसनिमग्नमनसोः कोटिरतिकन्दर्परूपलावण्य मुखयोः स्वाराज्यसुखसाम्राज्यसम्पदाविष्करणवतोरवहेलित वृन्दावनेश्वरीश्रीमद्वृषभानुजाश्रीमद्व्रजेन्द्रनन्दन रसयोर्गोलोकादुपरितनसहजचिल्लोकविलासस्वामिनोः स्वरूपशक्तिमात्राविर्भावितसखिसखीदूतिदूत विटचेटकादिसहायबललब्धकोककलालावण्ययोः श्रीमज्जनकनन्दिनीरघुकुलयोर्युगलाय नमः ॥ ३४॥ अथ युवाभ्यां दम्पतीभ्यां क्षन्तव्यो नो वैयात्यमदो यत् सुरतान्त विवसनयोः पुरुषायितविपर्यस्तभूषणवसननयनाञ्जनादि विविधाकल्पयोः परस्परकण्ठाश्लेषप्रभूत द्विगुणितसङ्क्षुब्धमनोभूपरवशयोः परस्परोन्मर्द्दक्षुभितवक्षसोः पुलकाञ्चितयो रधरबिम्बस्य सुधापानपरायणयोरीदृश निस्त्रपयोर्युवयोः समीपं भजामहे नर्मसख्य इव निकुञ्जकेलीभवनद्वारोद्धाटनलब्धानन्दकदम्बाः ॥ ३५॥ अहो क्व वयं बहुतरकर्मठकुलवञ्चितचित्ता अनेकयोगिज्ञानिगुरुजनकृतप्रत्यूहाः कुलाङ्गना इव गुरुलज्जावरुद्धप्रिय दर्शनस्पर्शनमुखामृतविधुरा लज्जयैव व्यतीततारुण्याः क्व च तव चेदं महोच्छृङ्खलममेयदिव्यरूपलावण्य वारिधिप्रसरणं सतत प्रियाभ्यामेव समासादिता प्रेम्णः पुरुषस्येव सीमा ॥ ३६॥ अहो अलौकिकत्वं केलीनां य द्विरञ्चिवसकस्य प्रावीण्यमतिवर्तन्ते ॥ ३७॥ अहो विचित्रता शोभातिशयस्य यन्निर्भररजनीरङ्गरसिकाभ्यां पूर्णीकृत्य निपीतोऽप्यनुक्षणं वर्धमान एवाविर्भविष्णुः ॥ ३८॥ अहो युवाभ्यामेव पूजितः परस्परालापपरिरम्भणचुम्बन नखरददानमन्दस्मितोन्मर्दनादि भिर्मन्दारकल्पद्रुमकुसुमसमूहैः केलीमनोरथकामतरुः कामदेवः । वत वत कथमप्यसुलभाय मनोमोहैककन्दाय सहजानन्दाय नमो युवयोः सुरताय ॥ ३९॥ अहो वयं त्रिगुणप्रवाहमार्गपतिताः कि प्राप्स्याम इमां गुणातीतां सच्चिदानन्दैकरसमयीं सहजानन्दिनीरघूत्तमयोः केलिकलामवलोकि तुमपि किं नाधिक्रियामहे दैववञ्चिताः ॥ ४०॥ अथ यद्यमुयोश्चिल्लोकस्वामिनोः सच्चिदानन्दरसदम्पत्योस्तल्पान्तभूमिकाभाजोः बहुकोटिजन्मार्जितसुकृतोद्भूतभाग्या एव वयं तर्हि नातिचिरादेवाभ्यां नित्यनिजविहारस्य भाजनतां प्राप्स्यामहे श्यामा रामा ललिता विशाखा रङ्गविद्या पूर्णमासी चम्पकलता दया नित्यसिद्धा इव वयमपि कोटिजन्मसाधनसिद्धाः ॥ ४१॥ इत्यभिलाषपूर्वकमभिलष्य ताः सर्वमहोपनिषदोऽतिशयित गुणवर्णनप्राप्तजडिमानस्तूष्णीं बभूवुः ॥ ४२॥ अथाविरासीच्च निकुञ्जमन्दिरे जालान्तरप्राप्तनिजावकाशः । सूर्यांशुदण्डप्रकरोऽतिकोमलः प्रोत्फुल्लशोणाम्बुजगर्भबन्धुः ॥ ४२॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासोनाम एकोनत्रिंशोऽध्यायः ॥ २९॥

३०

ब्रह्मोवाच । प्रातरौत्थानिकं गीतमिदमाकर्ण्य दम्पती । प्रबोधमीयतुस्तूर्णं सुरतोत्थश्र मालसौ ॥ १॥ ताम्बूलवीटिकास्वादरञ्जिताधरसुन्दरौ । क्वचित्क्वचिन्नखाङ्कालिलिखितोल्लासि विग्रहौ ॥ २॥ निर्भरस्मरसम्मर्दमृदितावयवोद्धुरौ । लम्बमानालकस्तोमभ्रमरीमुखपङ्कजौ ॥ ३॥ निद्राव शेषसंवीतपतत्पक्ष्मणलोचनौ । रजनीसुखसंस्मारस्मयमानमुखाम्बुजौ ॥ ४॥ परार्द्धरतिकन्दर्पशोभानिर्मन्थनोचितौ । अन्योन्यगण्डफलकप्रतिबिम्बायताननौ ॥ ५॥ प्रातरारक्तसूर्यांशुभेदसङ्कुचदीक्षणौ । अन्योन्यविस्फुरद्भूषाङ्कितकण्ठादिविग्रहौ ॥ ६॥ स्मरसम्मर्दसङ्क्षोभविपर्यस्तधृताम्बरौ । अन्योन्यप्रतिबिम्बाङ्कस्फुरद्दर्पणमन्दिरौ ॥ ७॥ कामपूजालब्धरसप्रमादप्रसराविव । सहजानन्दिनीसीताश्रीमद्रघुवराभिधौ ॥ ८॥ ततो विधाय माङ्गल्यमारात्रिकमनुत्तमम् । सखीभिः कृतसंस्कारौ रेजतुर्दम्पती मिथः ॥ ९॥ प्रातराशादिकानेकसपर्यासाधनोत्सुकौ । सखीगणैः सेव्यमानौ सीतारामौ विरेजतुः ॥ १०॥ एवं विहरतोः कोटिकल्पान् प्राप्य क्षणानिव । बलकृष्णादयस्तत्रावताराः कोटिशो ययुः ॥ ११॥ एकदा सुखमासीनौ सीतारामौ कृतोत्सवौ । ता एव दूतिका एत्य प्रोचुर्वचनमादरात् ॥ १२॥ दूत्य ऊचुः । अहो प्रियौ वां स्वसुखैकनिर्वृतौ कच्चित् परस्यापि सुखानि जानथः । योऽयं जनः क्लिश्यति कोटिकल्पतो धृतव्रतो वा कृत आतुरान्तरः ॥ १३॥ उदारपाणिस्तु स एव गण्यते योऽन्यस्य दत्ते स्वयमापदं दधत् । अथो विभज्यैव वनक्ति यो जनो न सोऽपि मर्त्यः कृपणान्तरात्मवत् ॥ १४॥ इमां समासाद्य निजार्थकोविदां कथं नु जातो रघुसत्तमाधुना । सर्वं पुनर्विस्मृतवानसि प्रभो कमाश्रयिव्यन्त्यबलाजनास्तव ॥ १॥ अद्य स्मरस्यद्भुतदानमात्मनः प्रमोदवल्लीविपिने वर्तितुं यत् । तर्हि कृतस्त्रीनिवहोऽयमीदृशो विपत्तिमासादयतीति गर्हितः ॥ १६॥ इयं तु सद्वंशभवा भवन्मुखे लग्नेति लोकस्य महोत्सवोऽभवत् । अथान्तराछिन्न गणे विलोक्य स व्यमुञ्चदासां निजसौख्यहेतवे ॥ १७॥ तथापि ते राघववर्य नोचितं मनो निजानां विषये यदीदृशम् । समस्य सर्वोद्धरणक्षमस्य च प्रपत्तिमात्रेण वरोद्धुरस्य ते ॥ १८॥ तासां वताभीरमृगीदृशां कृते कियन्न पूर्वं विनिवेदितोऽसि भोः । तथापि किं ते करणीयमस्ति तन्न विद्महे स्वैरगतं रघूद्वह ॥ १९॥ अमूः समाराध्य भृशं सहस्रशः सदैवताग्र्यं भवतोर्युगं प्रियौ । अद्यापि न प्राप्तमनोरथाः कथं पुरा चिरं दत्तवरा वराङ्गनाः ॥ २०॥ इति तासां वदन्तीनां दूतिकानां पुरःस्थिता । शनैः श्रीरामरमणी तत्रैवान्तरधीयत ॥ २१॥ अयं खलु मदन्यासु संसक्तो धूर्तपुङ्गवः । यासां दूत्यमुपानिन्युः सहस्रं दूतिकाजनाः ॥ २२॥ इति मानापदेशेन तासामाराधनक्रियाम् । जानकी सफलीकर्त्तुं भक्तिरूपा व्यवर्तत ॥ २३॥ यदि मर्यादया रामो भक्तानुद्धर्त्तुमिच्छति । ज्ञानभक्तिस्वरूपेण तदा सीता विवर्धते ॥ २४॥ यदा सन्त्यज्य मर्यादां स भक्तानुद्दिधीर्षति । प्रेमभक्तिस्वरूपेण तदा सीतापि दृश्यते ॥ २५॥ अन्यदेवमतं ज्ञानमन्यच्च प्रेमलक्षणम् । द्वयोरैक्यमिहैवास्ति श्रीरामे फलरूपिणि ॥ २६॥ साङ्ख्यस्य योगतपसोर्ज्ञानविज्ञानयोस्तथा । परेण ब्रह्मणा कोऽपि सम्बन्धो घटते नहि ॥ २७॥ अयमेव च सम्बन्धो यः प्रेमाख्य उदाहृतः । स एव भक्तिशब्दार्थोऽन्यः स्यादौपचारिकः ॥ २८॥ भजन्ते यन्निमित्तेन लक्ष्मीनां कोटयः प्रियम् । सा सीता किं भवेल्लक्ष्मीर्नित्यश्रीविग्रहात्मिका ॥ २९॥ नित्या तदंशरूपैव राधा वृन्दावनेश्वरी । नो चेत् कथं श्रीकृष्णस्य लुठेच्चरणपद्मयोः ॥ ३०॥ एवं भक्तिस्वरूपेयं सीता राधादिरूपिणी । श्रीस्तदाराधनायुक्ता कथं तत्त्वेन गम्यताम् ॥ ३१॥ प्रिया सत्त्वेऽप्यसत्त्वे च नित्यं सा सुस्थिता प्रभौ । ऐकान्तिकी सा विज्ञेया छायेवावयवाश्रया ॥ ३२॥ न तां विना क्वचिद्रामो दृश्यते भक्तिसंयुतैः । दृश्यते चेत् स एवैषा सा सुरोभावहारिता ॥ ३३॥ अथवा विप्रलम्भस्य रसस्यातिभवाय सः । तादृशो भाव्यते भक्तैः स्वेच्छाकृतवियोजनः ॥ ३४॥ अधुना तु व्रजस्त्रीणामाराधनफलात्मिका । तास्वाविश्य प्रसन्नात्मा रंस्यते स्वामिना सह ॥ ३५॥ आविश्य च तथा स्वामिन्यानन्दमयविग्रहम् । रंस्यते व्रजवामाभिर्भूत्वा श्रीरामविग्रहा ॥ ३६॥ द्वात्रिंशच्च सहस्त्राणि मुख्या व्रजमृगीदृशः । तासां षोडशसाहस्रं स्त्रियो मुख्यतराः स्मृताः ॥ ३७॥ षोडशैव स्युराभीर्यो यासां वै मुख्यसंज्ञिताः । दश तासां मुख्यतमा यथावदवधारय ॥ ३८॥ रासचन्द्रा प्रभा श्यामा कला चन्द्रकला तथा । रङ्गविद्या चम्पलता चपला माधवी रमा ॥ ३९॥ तासां मध्ये मुख्यतमं द्वितयं परिकीर्तितम् । यत्राविश्य स्वयं सीता मोदिनोशक्तिरीर्यते ॥ ४०॥ वृन्दावने ययोरंशौ राधाकृष्णेतिकीर्तितौ । अभूदथान्तराविष्टा सहजानन्दिनी प्रिया ॥ ४१॥ ततो द्विगुणया कान्त्या रेजे श्रीरामचन्द्रमाः । अन्तर्हितायां सीतायां द्विगुणो द्योतवानपि ॥ ४२॥ तां कामयानोऽतिशयाद्बभूव स्मरपीडितः । स्मरमार्गणजां पीडां बिभ्रद् दूतीरुवाच सः ॥ ४३॥ व्रजत स्वामिनीः स्वाः स्वाः सम्पन्नो वो मनोरथः । ता आनयत रात्रीषु ज्योत्स्नोपेतासु दूतिकाः ॥ ४४॥ रंस्यामि ताभिः कान्ताभिः समेताभिः सहस्रशः । मत्तः कश्चिन्न भविता तासां वै विफलोचकः ॥ ४५॥ सहजानन्दिनीं शक्तिं तास्वारोप्य रमाम्यहम् । इत्युक्त्वा भगवान् रामः सच्चिदानन्दविग्रहः ॥ ४६॥ दूतीर्विसर्जयामास सर्वाः प्राप्तमनोरथाः ॥ ४७॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासोनाम त्रिंशोऽध्यायः ॥ ३०॥

३१

रामो हि वीक्ष्य शरदागमफुल्लमल्ली वल्लीवनावृतमहीरुह शोभिकुञ्जाः । ता यामिनीः समदकामिजनावकीर्णा रन्तुं चिदेकरमणो हि मनश्चकार ॥ १॥ स्वां योगशक्तिमवलम्ब्य कृतप्रयत्न स्तत्तत्पदार्थविभवं सफलं चिकीर्षुः । सच्चित्सुखानुभवरूप रसात्मकोऽपि चिल्लोकवासिसुखदोऽनुचकार लीलाः ॥ २॥ पूर्णस्तदा परिदृढोऽभ्युदगादुडूनां नाथः स तन्मनस इत्यवदंश्च वेदाः । प्राचीदिशो मुखविलिप्तसकुङ्कुमश्री दीर्घाः शुचोऽपि विमृजन् भुवि वर्षणीनाम् ॥ ३॥ दृष्ट्वा प्रभुः कुमुदबन्धुमखण्डबिम्बं लक्ष्मीमुखाकृतिधरं नवकुङ्कुमाक्तम् । भूयः प्रमोदवनमस्य कलानुरक्तं रामो जगौ कलपदं सुदृशां मनोज्ञम् ॥ ४॥ आकर्ण्य तन्मुरलिकानुरवं मनोऽभूत् प्रोत्साहवर्द्धनकरं व्रजवामनेत्राः । श्रीरामचन्द्रकरमुष्टिनिबद्धचित्ता दोयुः प्रमोदवनमस्ति स यत्र कामी ॥ ५॥ कामोद्धता जवविलोलकबर्युदार केयूरहारमणिकुण्डलमास्यभूषाः नद्यो यथा बलविदारितदीर्घशैला स्ता लोकवेदपथलङ्घनपूरिताशाः ॥ ६॥ काश्चिद् दुहन्त्य उदिताः परिमुक्तदोहाः काश्चित् पचन्त्य इनतोऽनवतीर्य पाकम् । काश्चित् पतिप्रियसुतान् परिवेषयन्त्यः काश्चिच्छिशूनथ मुदा परिपालयन्त्यः ॥ ७॥ शुश्रूषयन्त्य इतरा पतिनामभाजोऽ श्नन्त्यश्च काश्चन जवेन विहाय तत्तत् । काश्चित्तनौ घुसृणलेपनमाचरन्त्यः काश्चिन्मृजन्त्य इतरा दृशमञ्जयन्त्यः ॥ ८॥ व्यत्यस्तक्लृप्तवसनाभरणाश्च काश्चिद् रामान्तिकं ययुरनङ्गशरौघविद्धाः । ता वार्यमाणवपुषः पतिभिः सुहृद्भि र्मित्रैः सहोदरजनैः खलु बन्धुभिश्च ॥ ९॥ श्रीरामवेणुनिनदापहृतान्तरास्ताः प्रेमैकमोहिहृदया नितरां निवृत्ताः । काश्चिद् गृहान्तरगता अनवाप्तयाना रामं निदध्युरुरुभावनिमीलिताक्षाः ॥ १०॥ भूयः सुदुःसहवियोगजतापतप्ता ध्यानावक्लृप्तपरिरम्भसुखाब्धिमग्नाः । साक्षात् तमेव परमात्मसुखानुभूतिं जारेतिभावनजुषोऽपि निवृत्तबन्धाः ॥ ११॥ हित्वा गुणव्यतिकरात्मकमर्त्यदेहं प्रापुः प्रमेयबलतो यतिनामलभ्यम् । ताः कामिनीर्निशि वने विजने समीप मभ्यागताः स्मरशरार्तहृदोऽपि वीक्ष्यः ॥ १२॥ ईशः पराशयविदप्यमलेन वाचां वृन्देन मोहमतुलं जनयन्नुवाच ॥ श्रीराम उवाच । सुस्वागतं व इह दारशिरोमणीनां मत्तः किमीप्सितमिति ब्रुवतानुरक्ताः ॥ १३॥ कश्चिद्व्रजेषु पशुपालनिकेतनेषु वर्वर्त्ति वार्त्तमभितो सदुपाश्रयेषु । तद्व्रूत यद्विसमये यदिहाभ्युपेता मत्सन्निधौ कुलवधूजनशङ्कनीये ॥ १४॥ सौन्दर्यवांश्च तरुणश्च सुविग्रहोऽहं किं वः प्रभूतवनविश्वसनक्रियार्हः । एषा निशा भयकरा भयदातिसङ्ख्य सत्त्वाङ्किता शशिकरैर्विशदीकृतात्मा ॥ १५॥ गोष्ठं प्रति व्रजत नेह च वर्तितव्यं स्त्रीभिः परिस्फुरदुरोजभरालसाभिः । युष्माकमाप्तसुहृदाः पितृमातृपुत्र भ्रातृप्रियप्रमुखबन्धुगणा विमृग्याः ॥ १६॥ अप्राप्य वश्च कुलिता भवितार एव तन्मा कुरुध्वमियतोमतिवृत्तिमुच्चैः । दृष्टं प्रमोदवनमृत्वधिराजजुष्टं पूर्णं निशाकरकरप्रकरावकीर्णम् ॥ १७॥ नित्योत्तरङ्गसरयूसलिलानिलौघ व्यालोलकुञ्जतरुपल्लवराजिशोभि । तस्माद् व्रजं व्रजत मा चिरमत्र साध्व्यः शुश्रूषत प्रियतमान् बहुमानपूर्णम् ॥ १८॥ क्रन्दन्ति वत्सनिवहाः शिशवश्च वस्तान् स्तन्यान्निदध्वमनुदुह्यत धैनुकानि । मत्स्नेहपाशविनिबद्धहृदो भवत्यः प्राप्तास्तदेतदुपपन्नतरं समन्तात् ॥ १९॥ प्रीयन्त एवमपि केऽपि जना विशेषा येषामहं स्वजनबन्धुधनादिभूमा । यद्भर्त्तृसेवनमकैतवतः स्वधर्मः स्त्रीणामिति प्रसभमाह च वैदिकीर्गीः ॥ २०॥ तत्किं प्रबोध्यमितराननुवृत्ति साध्यं युष्मासु साहजिकधर्मधिया सतीषु । शीलोर्ज्जितोऽपि भगलेशविवर्जितोऽपि वृद्धोऽपि जातजडिमोऽपि सदामयोऽपि ॥ २१॥ श्रीनिर्गतोऽपि पतिरेव परायणं स्यात् स्त्रीणामिति प्रकथनं भवतीषु किं स्यात् । स्वर्गापवर्गकुशलप्रतिकूलभूतं पूर्वप्रभूतयशसोऽपि विलोपकं च ॥ २२॥ दुःसाध्यमस्थिरमतीव भयावहं च निन्द्यं च जारसुरतं कुलकामिनीनाम् । भावो मयि श्रवणकीर्तनचिन्तनाद्यै रन्यत्र दर्शनमपि प्रकटं भवेन्नः ॥ २३॥ किं सन्निकर्षमितरे भुवने लभेयुः पूर्वार्जितैः सुकृतकोटिभिरभ्युपेताः । तद्यूयमक्षिभिरिदं मम रूपमुच्चै र्दृष्ट्वार्पितप्रणयपर्वतभारखिन्नाः ॥ २४॥ मोहात् प्रयात मदनुस्मरणेन तृप्ता स्तत्रैव वः सुफलमेष्यति गेहधर्मः । इत्यप्रियं निजमनोरथविघ्नभूत माकर्ण्य भूपतिकुमारवचोऽप्रमेयम् ॥ २५॥ खिन्नप्रभावमनसोऽतिवियोगतप्ता श्चिन्तामवापुरुपजात महार्तिमोहाः । वक्त्राण्यवाञ्चि बहुदुःखभरानुविद्ध श्वासानुशुष्यदधराणि विधाय बध्वः ॥ २६॥ अङ्गुष्ठसाग्रचरणेन भुवं लिखन्त्यो वाष्पैः सकज्जलकणैः कुचलेपमार्गाः । तूष्णीं बभूवुरथ तन्नयने विमृज्य भूयिष्ठरोचनभरोपहते मृगाक्ष्यः ॥ २७॥ रामं तदर्थविनिवर्त्तितलोकवेदाः प्रोचुः सगद्गदगिरः प्रसभं प्रवीणाः । गोप्य ऊचुः । नैवं प्रियो वदति कश्चन सुन्दरेन्दो त्वं यद्ब्रवीषि वचनं त्वभिलाषशून्यम् ॥ २८॥ जानीमहे ननु कयापि सपत्नभावा दस्मद्विषद्धृदयया परिशिक्षितोऽसि । क्रूरं वचः कथयता भवता हरिण्यो व्याधोत्तमेन च यथा किममूर्न विद्धाः ॥ २९॥ किं कुर्महे वयमनन्यगतिं प्रपन्ना स्तत्त्वं न चार्हसि नृशंसतयेति वक्तुम् । श्रीरामचन्द्र चरणाम्बुजमूलमाप्तान् भक्तान् भजस्यविरतं कृपया समेतः ॥ ३०॥ त्वं नस्तितिक्षसि तदेतदतीव नार्ह देवोत्तमस्य भवतः पुरुषोत्तमस्य । प्रेयांस्त्वमेव जगतां निजबन्धुरूपः स्वात्मा परायणमतः प्रणयं विदध्मः ॥ ३१॥ किं पत्यपत्यसुतबन्धुसुहृद्भिरन्यै स्त्वय्यात्मनि प्रणयिनि प्रियतास्पदैस्तैः । किं देहगेहविभवैः परमार्त्तिभूतै स्त्त्वां ये विना निरयशोकभरं जुषन्ति ॥ ३२॥ त्वं चेत् समग्रमभवः सुखवारिराशेः सर्वस्वमेव यदिदं नखतः शिखाग्रम् । पूर्वं जहार हृदयं हरिणेक्षणानां हासावलोकनसुधारसलेशदानैः ॥ ३३॥ श्रीपूर्णचन्द्ररचनावचनैरिदानीं यन्नो निवारयसि तत्तव नैव युक्तम् । बिम्बाधराश्रयसुधारससेचनेन नो जीवयस्यतनुतापभरेण तृप्ताः ॥ ४३॥ अस्मान् निजाङ्घ्रिसरसीरुहमध्ययाना भूयोऽप्यनन्यगतिकाः कतिचिन्मृगाक्षीः । नो चेद्वयं विरहपावकमध्यभूरि ज्वालावलीवलितविग्रहभस्मभूताः ॥ ३५॥ ध्यानेन ते चरणयोः प्रतिविष्टचित्ता भूयास्म योगिन इवात्मनि संविलीनाः । सीतापते यदि भवन्तमृतेऽन्यसङ्गं स्वप्नेऽपि वाञ्छति मनोजवशं मनो नः ॥ ३६॥ तर्हि त्वदङ्घ्रितलमब्धिसुतासमेतं सद्यः स्पृहाम निजसत्त्वविशोधनाय । यत्ते प्रमोदवननाथ वृतं तुलस्या योगीन्द्रमानसविभूषितराजहंसम् ॥ ३७॥ तन्नस्त्रिलोकशरणं चरणारविन्दं तापत्रयार्त्तिहरणार्थमुपार्थयामः । तस्माद्वयं जनकजारमण त्वयाद्य कार्या अनन्यगतयस्तु निजानुचर्यः । त्याज्या न कर्हिचिदनङ्गखलावसन्ना स्त्वादृक्कथं न शरणं शरणागतानाम् ॥ ३८॥ एतत्तवास्यमलकभ्रमरालिजुष्टं मध्यस्फुरन्मकरकुण्डलगण्डशोभम् । बिम्बाधरं हसितवल्गु विलोकयन्त्यः कृष्टाःस्म कामकरमुष्टिनिविष्टचित्ताः ॥ ३९॥ सीताकठोरकुचकुम्भविलिप्तभूयः काश्मीरकल्करुचिरञ्जनमञ्जु वक्षः । भूयो भुजौ च भुजगाधिपभोगभाजौ बिभ्राण एव हृदयं मदयस्यमन्दम् ॥ ४०॥ आकर्ण्य ते भुवनभूषण वेणुनादं नित्यावरुद्धमकरध्वजमूलमन्त्रम् । का स्त्री विहाय कठिनानि कुलव्रतानि दासीभविष्णुहृदया न चलेत् त्रिलोक्याम् ॥ ४१॥ गावो मृगाश्च विहगाश्च महीरुहाश्च वल्लीवनानि च निजैर्नयनैर्निरीक्ष्य । स्पृष्ट्वा च तावकवपुर्भुवनाद्वितीयं त्वं हर्षोत्करेण विसरत्पुलका बभूवुः ॥ ४२॥ त्वं सर्वतस्त्रिभुवनार्त्तिसमूहहारी जातोऽसि सम्प्रति महापुरुषाङ्कजुष्टः । तन्नो निजैकशरणाः करुणां विहाय विक्रीय मन्मथकरे किमु निर्वृतोऽसि ॥ ४३॥ इत्याकलय्य करुणानि वचांसि तासां योगेश्वरेश्वरकिरीटनिघृष्टपादः । रामः प्रहृष्य सकलाः व्रजवामनेत्राः स्वात्माश्रयोऽपि निभृतं रमयाञ्चकार ॥ ४४॥ ताभिर्युतः स भगवान् कमनीयमूर्त्तिः पारेपरार्द्धशतपञ्चशरावतारी । रेजे परस्परितकान्तिविशेषजुष्टो मध्ये तमाल इव काञ्चनवल्लरीणाम् ॥ ४५॥ शरत्समयचन्द्रमसं तदंशु व्याप्तान्तरं कुमुदकाननमध्यमस्थम् । तां कौमुदीं च स जगौ ललनाजनस्तु श्रीरामनाम विविधस्वरयुक्तमेकम् ॥ ४६॥ गोपीजनैः स्वरभृतैरुपगीयमान उद्गायमान उदितस्वरभृत्स्वयं च । गोपाङ्गनाशतकयूथपतिः स्रजा च श्रीवैजयन्त्यभिधया परिशोभमानः ॥ ४७॥ श्रीमत्प्रमोदवनमण्डलयोग्यलक्ष्मी कान्तो व्यरोचत चिरं विचरन् समन्तात् ॥ ४८॥ ज्योत्स्नामृतप्रविशदं पुलिनं सरय्वा आविश्य गोकुलनिकेतवराङ्गनाभिः । अक्षुब्धधीररमणप्रवराभिकः स निःशेषकोकजकलाकुशलो रमेशः ॥ ४९॥ उत्सङ्गसङ्गपरिरम्भणचुम्बनास्य हासावलोकननिघर्षणमर्शनाद्यैः । नर्मप्रहाससविलासविकर्षणाभिः संस्तभ्य वीर्यमबला रमयाञ्चकार ॥ ५०॥ क्वचित् कुञ्ज शय्याशतमवकरोद्भोगकृतये क्वचिद् भूमौ विश्वाधिकरमणमासैककलयन् । क्वचित् कुञ्जावासाङ्गणलसितकौशल्यकलितो मनोजस्योत्साहं यदि रुचददौ राघववरः ॥ ५१॥ एवं तास्तेन लोकोत्तरमदनचमत्कारभूम्ना सुखेन रामेण क्रीड्यमाना व्रजहरिणदृशो भूरिलीलामनोज्ञाः । अन्योन्यं लब्धमानाः कलितरतिकला दर्शयन्त्यः स्वकीयं प्रावीण्यं भूरि चक्रुः किमपि रघुपतौ कामुके दर्पभावम् ॥ ५२॥ काचिन्माने रघुपतिं पातयामास पादयोः । काचित्प्रणामयामासं मुखमध्यकृताञ्जलिम् ॥ ५३॥ काचित्संस्कारयामास दासीवन्निजविग्रहम् । काचिदुद्वर्तयामास लेपयामास काचन ॥ ५४॥ काचित्प्रसादयामास केशान् कङ्कतिकाकरा । काचिच्च विततां वेणीं ग्रन्थयामास राघवम् ॥ ५५॥ काचिच्च गुम्फयामास कटिभूषणमालिकाम् । काचिन्नियोजयामास प्रसूनावचये प्रियम् ॥ ५६॥ काचिद्भूषणसन्दोहं देहेष्वर्पयितुं हरिम् । काचिच्च कथयामास भां नयस्व वनाद्वनम् ॥ ५७॥ सर्वासां वचनं चक्रे जानकीव रघूद्वहः । ताश्च सर्वा ववृतिरे जानकीवत् प्रियोत्तमे ॥ ५८॥ अन्योन्यं सुदृढः प्रेमा ववृधे प्रतिवासरम् । ततस्ता मेनिरे दृप्ताः स्वात्मानमधिकं प्रियाः ॥ ५९॥ कदाचिद्राम एकान्ते सीताया रमणेच्छया । तासां सञ्जातदर्पाणां मध्ये चान्तरधीयत ॥ ६०॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम एकत्रिंशोऽध्यायः ॥ ३१॥

३२

अर्नाहते रसिकनायकशीर्षरत्ने रामे रमारमणमात्ररसाभिरामे । रामाः प्रभूतविरहार्त्तिभरे निमग्नाः स्वाङ्गानि वोढुमशकन्नहि तास्तदानीम् ॥ १॥ अन्योन्यमीक्षणपराः श्वसितानिलौघ चिन्तान्तरस्थविरहानलकीलदग्धाः । नो किञ्चनाभिलपितुं स्मरवाणविद्धाः शक्या बभूवुरपमृत्युभयात्त्रसन्त्यः ॥ २॥ रामस्य मन्मथकलारसिकस्य तास्ता लीलाः स्मरन्त्य उरुजातवियोगतापाः । आभीरिकाः सपदि तन्मयतामवापु र्येन प्रियोऽहमिति चेतसि मेनिरेऽमूः ॥ ३॥ याश्चावलोकहसितेक्षणभाषणादि ष्वैकात्म्यमेत्य रघुवंशविभूषणेन । उन्मत्तवत् प्रतिदिनं वनिता विचेरुः प्रेमोदयेन विपिनाद्विपिनं विशन्त्यः ॥ ४॥ क्वचिद्धसन्त्यो गायन्त्यो धावन्त्यः क्वापि संहताः । क्वचिदाकाशमालिङ्ग्य भवन्त्यः प्रेमविह्वलाः ॥ ५॥ क्वचिदुच्चैः क्रीडमानाः अन्योन्याबद्धबाहवः । केचित्परस्परोन्मन्दैर्विशन्त्यः कुञ्जमन्दिरम् ॥ ६॥ इत्येवं सुफलारम्भैर्भ्रमन्त्यो विरहातुराः । प्रमोदविपिनान्तःस्थान् प्रपच्छुस्ता वनस्पतीन् ॥ ७॥ भो अश्वत्थ महाबाहो वनस्पतिपते त्वया । क्वचिद् दृष्टो रघुपतिरस्माकं चित्ततस्करः ॥ ८॥ क्वचिद्वटतरो देव बहुपादविराजित । क्वचिद् दृष्टो न वा रामो हृत्वा नो हृदयं व्रजन् ॥ ९॥ भो भो अशोकविटपिन् बहुभद्रकारिन् किंस्विद्व्यलोकि भवता रसिकोत्तमः सः । यस्याङ्घ्रिपाणिमधुराधरकोमलानि जानाति सम्प्रति परं तव पल्लवानि ॥ १०॥ भो चम्पकद्रुम किमप्यथ पृच्छमान स्त्वं किं धुनोषि करपल्लवसङ्घमेव । पुष्पाणि ते रसिकराघवपुङ्गवस्य पीताम्बरेण सदृशानि विलोकयामः ॥ ११॥ भो नागकेशर महीरुहनागभूत पुन्नाग किन्नु युवयोर्योवदितो न वाभूत् । व्रीडा मनांसि खलु नः प्रणयेन रामो विक्रीतवान् मनसिजस्य खलस्य हस्ते ॥ १२॥ आम्रातक त्वमपि रक्तदलोऽसि नूनं मन्ये क्वचिद् रघुवरेण करे गृहीतः । कच्चित् परोपकरणेऽपि विचक्षणोऽसि यन्नाम ते कुरवकेति भुवि प्रसिद्धम् ॥ १३॥ योऽन्तः प्रमोदवनवासिनि सेवकानां कल्याणकारिणि तुलस्यमरेन्द्रवन्द्ये । अस्मान्निहत्य तव देवि पतिः स रामो यातः क्वचिन्न विदितो विपिनान्तरेऽस्मिन् ॥ १४॥ हे आलि मालति महासखि मल्लिकेऽस्म च्चित्तप्रसादनपरे नवजातिवल्लि । अस्मानिव प्रियतरो वत राघवेन्द्रो युष्मानपि व्यथितवान् विरहं प्रदाय ॥ १५॥ भो भो तमालविटपिन् बहुधासि दृष्टः किं पृच्छनीयमसकृद्भवते वतेदम् । यद्राघवेन्द्रजलदोत्तमसङ्गमेन जातोऽसि मेचकवपुः कपटैः प्रवृद्धः ॥ १६॥ पनसद्रुम कस्मात्त्वमस्थाने फलितोऽसि भोः । जानीमहे राघवेन्द्रसङ्गात् सञ्जातसम्भ्रमः ॥ १७॥ रसाल भवतो रम्या मञ्जरीः शिरसा दधत् । कौशल्यानन्दनः कान्तः क्व यातस्तद्वदस्व नः ॥ १८॥ पीलुप्रियालमधुकासननागरङ्ग श्रीरामपूगतरुतालकदम्बसालाः । कच्चिद्वनेऽत्र विचरन् जनकात्मजेशो दृष्टो न वा हृदयहारकतस्करो नः ॥ १९॥ धन्ये प्रमोदवनसन्ततशोभमाने हे नर्मदे सरयु हे सखि सूर्यकन्ये । कामोद्धतस्तव तटान्तनिरीक्षणोत्कः श्रीरामचन्द्ररसिकोऽत्र किमभ्युपेतः ॥ २०॥ मातः प्रमोदवनशोभिनिकुञ्जभूमे किन्नु त्वदीयसुकृतं वयमीरयामः । रोमाञ्चितासि नवशाद्वलकैतवेन रामाङ्गसङ्गसुखिता प्रणयोत्करेण ॥ २१॥ हे कृष्णसार ललना न भवादृशीना मस्मत्सखी समुचिता ननु वृत्तिरेषा । एकान्ततो यदसकृद्विपुलैः कटाक्षैः कान्तं प्रपश्यथ वधूजनवञ्चिशीलम् ॥ २२॥ सख्यो लता न भवतोषु कृतः स्वबुद्ध्या शाखाशतैर्विटपिभिः परिरम्भ एषः । उद्वीक्ष्य किन्नु विकसत्कुसुमाक्षिरन्ध्रैः कान्ताकुचग्रहपरं रसिकेन्द्ररत्नम् ॥ २३॥ जानीमहे बहुलसौरभसारिलिङ्गा देतास्युपायपदवीं खलु राघवेन्द्रे । तस्य प्रियाकुचविलिप्तसचन्द्रसार कालागुरुद्रवगुणैरिह वाति वायुः ॥ २४॥ एताः प्रमोदवनवल्लय एव धन्या या दूतिकाभिरलिनीभिरुपात्तमन्त्राः । श्रीराघवेन्द्रविलसत्तनुसङ्गिनीभि र्वाञ्छन्ति भोगमतुलं वयमेव यद्वत् ॥ २५॥ रे भूरुहाः कथयत क्व गतः स चौरः श्यामः सुतीक्ष्णनयनेषुधिपूर्णबाणः । प्राप्येत चेत्प्रणयरज्जुशतेन बद्ध्वा स्थाप्योऽधुना निजनिकेतन मध्य एव ॥ २६॥ एवं प्रियं विचिन्वन्त्यो गोप्यो विश्लेषभीरवः । अपश्यन् भूरिशः पत्युः पदानि विपिनान्तरे ॥ २७॥ ता रेखयोर्ध्वगामिन्या उच्चैर्वज्ज्राङ्कुशादिभिः । विज्ञाय वल्लभस्यैव प्रोचुर्वचनमादरात् ॥ २८॥ तस्यैव तस्करेन्द्रस्य पदान्येतानि कानने । शङ्खचक्राम्बुजाद्यङ्कैरङ्कितानि प्रपश्यत ॥ २९॥ दक्षिणस्य पदोऽङ्गुष्ठमूले चक्रं विराजते । अस्मादृशीनां नम्राणामङ्गोच्छेदन हेतवे ॥ ३०॥ मध्यमाङ्गुलिमूलेतु भाति कमललाञ्छनम् । अस्मच्चित्तद्विरेफाणां लोभनायातिशोभनम् ॥ ३१॥ पद्मस्याधो ध्वजं भाति सर्वानर्थजयध्वजम् । कनिष्ठामूलतो वज्रं भाति पापाद्रिभेदनम् ॥ ३२॥ पार्ष्णिमध्येऽङ्कुशो भक्तचित्तेभवशकारकः । भोगसम्पन्नयं धत्ते यवमङ्गुष्ठपर्वणि ॥ ३३॥ अथ वामपदाङ्गुष्ठमूलभक्तोन्मुखं दरम् । सर्वविद्याप्रकाशाय दधाति भगवानसौ ॥ ३४॥ पद्मादीन्यपि चिह्नानि दृश्यन्ते दक्षपादवत् । एतत्पदानुसारेण गवेष्यो रघुनन्दनः ॥ ३५॥ अत्रैव कानने क्वापि प्रियया सह वर्तते । इत्युक्त्वा गोपवद्ध्वस्तास्तत्पदानुसृतिं क्रमात् ॥ ३६॥ अन्वयुः सान्द्रविपिने समस्ता विरहातुराः । प्रियापदैः सुपृक्तानि तत्रैक्षन्त व्रजाङ्गनाः ॥ ३७॥ मध्य एवाविरभवत् कासौ धन्यतमा वधूः । अंसे विन्यस्य दोर्वल्लीं सह गच्छति यामुना ॥ ३८॥ इयं हि सहजानन्दकेलीनिर्वृतमानसा । अस्मान् हित्वा यदासक्तः क्रीडते व्रजवल्लभः ॥ ३९॥ सहजानन्दिनी नाम शक्तिरेषैव कामिनी । सा वल्लभमनाश्रान्तं रमयत्यनुरागिणी ॥ ४०॥ परस्परासक्तबाहुदण्डाभ्यां विधिपूर्वकम् । अत्र विक्रीडितं ताभ्यां भ्रमणाक्रीडनाभिधम् ॥ ४०॥ अत्र भूषासमारोपः प्रियायाः प्रेयसा कृतः । परस्परं सम्मुखस्थौ दृश्येते ललितैः पदैः ॥ ४२॥ अत्राभ्यां रचिता केलिः पुष्पावचयनाभिधा । विना पार्ष्णितलन्यासं पदान्येतानि पश्यत ॥ ४३॥ अत्र स्थित्वा कृतास्ताभ्यां विचित्राः कुसुमस्रजः । स्वं स्वं चातुर्यविभवं दर्शयद्भ्यां परस्परम् ॥ ४४॥ अत्र प्रियेण प्रेयस्याश्चक्षुषो रज्जनं कृतम् । स्पष्टं पङ्केरुहां पत्रं प्रोञ्छनैर्मलिनीकृतम् ॥ ४५॥ अत्र प्रियः स्वप्रियायै प्रादात्ताम्बूलवीटिकाम् । चूर्णं खदिरसारं च दृश्यतां पतितं भुवि ॥ ४६॥ अत्राभ्यां रचितं सौख्यं मन्मथोत्सवदायकम् । पद्मपत्रमयी शय्या व्यत्यस्ता दृश्यते स्त्रियः ॥ ४७॥ अत्र प्रियाभिरुच्यैव प्रेयस्या पुरुषायितम् । दृश्यतेऽन्तः प्रियवपुः परितः प्रेयसीपदे ॥ ४८॥ स्त्रस्तानि नवपुष्पाणि विग्रन्थिकबरान्तरात् । अहो हारलता भग्ना विकीर्णा मणयोऽमलाः ॥ ४९॥ तां कोमलाङ्घ्रिकमलामिह खिद्यमाना मंसे निधाय दयितामिह नीतवान् सः । नातः परं परिलसन्ति पदानि यस्याः स्वाधीनतागुणवशीकृतवल्लभायाः ॥ ५०॥ धन्याः परं युवतयो रघुनन्दनस्य भर्त्तुः पदाम्बुरुहसम्भवरेणवोऽमी । यां पद्मयोनिरघहन्यव ईश्वरश्च मूर्द्ध्ना दधाति कमला च नितान्तभक्ता ॥ ५१॥ यां कामुको रसितवानितरां विहाय भूयो वियोगभरकालदवाग्नितप्ताः । सात्मानमभ्यधिकमानममंस्त सम्यक् स्त्रीणां निजायनजुषां प्रमदेतरासाम् ॥ ५२॥ भूयोऽब्रवीच्च खलु सा प्रिय पारयामि नो गन्तुमध्वनि निकुञ्जविशीर्णपर्णे । आरोप्य सम्प्रति निजांसमितो नयेश्चे त्युक्तः प्रियश्च सहसा विदधौ तथैव ॥ ५३॥ ततोऽन्तरितवान् रामः सहजानन्दविग्रहः । तस्यै निजवियोगोत्थां वेदनामनुभावयन् ॥ ५४॥ ततस्तु ताः पद्मदृशः समस्ता यावद्रहस्यं दयितस्य मत्वा । नाग्रे प्रवृत्ताश्चलितुं साऽपि तावत् प्रियोत्तमाभिर्ददृशे प्रेयसीभिः ॥ ५५॥ प्रियस्य विश्लेषभरेण खिन्ना शून्यादिशश्चकितं वीक्ष्यमाणा । पुनः पुनः स्वल्पदुरात्मभावं दर्पं च सञ्चिन्त्य विलज्जमाना ॥ ५६॥ हा नाथ हे रमण सुन्दरवर्यधुर्य ! प्रेष्ठ प्रिय प्रियतम प्रणयामृताब्धे । दासीं विहाय ननु मां निविडे निकुञ्जे क्वासीति दीनवचनैरनुनाथमाना ॥ ५७॥ सा तान् व्रजाभीरवधूसमूहाना पृच्छमानान् स्वपतेरुदन्तम् । सर्वस्वहेतुं कथयाञ्चकार श्रीः स्वस्य मानं च तथावमानम् ॥ ५८॥ तयोक्तमाकर्ण्य मृगीदृशस्ता जग्मुः परं विस्मयमात्रहासाः । तया समेताश्च पुनस्तथैव वियोगभारव्यथिता बभूवुः ॥ ५९॥ उन्मत्तवत्तत्र वनाद्वनान्तरं गवेषयन्त्यो रघुनन्दनं प्रियम् । तद्ध्यानतस्तन्मयतामवाप्य तास्तस्यैव लीलां व्यदधुः परात्मनः ॥ ६०॥ कस्याश्चिद्राक्षसीयन्त्या रामायन्त्यपिबत्स्तनम् । खट्वायन्तीं परामन्या तोकायित्वा पदाहनत् ॥ ६१॥ दैत्यायन्ती परा काचित् कृत्वारामार्भभावनाम् । जहार जानुसम्मर्दैरिङ्गन्तीं नूपुरस्वनैः ॥ ६२॥ रामायन्ती बभूवान्या गोपायन्त्यश्च काश्चन । सर्पायन्तीं खगायन्ती जघान निजविक्रमैः ॥ ६३॥ वेणं क्वणन्तीमन्या तु काचिच्चानुजगौ स्वरैः । रामायन्त्याजुहावान्या नाम्नान्यां धेनुकायतीम् ॥ ६४॥ तत्रैका लक्ष्मणायन्ती भरतायन्ती तथा परा । शत्रुघ्नायन्त्यथो काचिद्रामेन्दुं परिववृरे ॥ ६५॥ अन्या माङ्गल्यकायन्ती गवेन्द्रायन्त्यथोऽपराः । रामायन्त्यभिशुशुभे व्रजे तं मातरौ यथा ॥ ६६॥ माभैसुरिन्द्रकोपेन त्राताहं ननु राघवः । वर्षर्तुः प्रलयासारा इत्युक्त्वा निदधेऽम्बरम् ॥ ६७॥ शुचौ पश्यत गोपाला दावाग्निं विश्वतोमुखम् । चक्षूंष्यपि दधध्वं चेत् क्षेममाप्तुमिहेच्छथ ॥ ६८॥ इत्युक्त्वा राममात्मानं मत्वा कोरकितानना । पपौ निमेषमात्रेण सर्वानाश्वास्य पावकम् ॥ ६९॥ काचिद् भुजङ्गमायन्त्याः कस्याश्चिन्मस्तकेऽनटत् । समुद्रं गच्छ दुष्टाहे भाषमाणा रुषारुणा ॥ ७०॥ काचिद्दाम्ना बबन्धान्यां द्रुमायन्त्याश्च मूलतः । सा च तां पातयामास स्तुवन्तं विविधैः स्तवैः ॥ ७१॥ एवं तन्मयतामेत्य तल्लीला व्यदधुः क्रमात् । गवेषयन्त्यो विपिनाद्विपिनान्तरमाययुः ॥ ७२॥ यावद्वनलताकुञ्जे चन्द्रज्योत्स्ना न दृश्यते ततोऽन्धकारगहनं वनं वीक्ष्यातिगह्वरम् । सर्वा निववृतुस्तस्मात्पृच्छ्यमाना लताद्रुमान् ॥ ७३॥ तमेव कान्तं मनसि स्मरन्त्य स्तमालपन्त्यश्च बहिः समक्षम् । तस्यैव चेष्टा विदधन्त्य उच्चै स्तदात्मिका नात्मगृहाणि सस्मरुः ॥ ७४॥ पुनर्निवृत्ताः पुलिने सरय्वा यत्र प्रियेणाभिरता पुराभूः । समेत्य सर्वाः स्वरमूर्च्छनाभि र्जगुर्यथा किन्नरवर्यवध्वः ॥ ७५॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम द्वात्रिंशोऽध्यायः ॥ ३२॥

३३

गोप्य ऊचुः । जयति प्रिय जन्मभृता भवता सरयूतटभूमिरुदञ्चशुभा । त्वदुदारमुखेन्दुविलोकनजं परिदीव्यति यत्र मुदां प्रसरः ॥ १॥ अथ चेद्बहुलार्तिरिहास्ति पते भवदेकपरास्वबलासु भृशम् । रघुनन्दन सापि परं भवता परिहार्यतमा स्मितपूर्वदृशा ॥ २॥ अथ याध्वसहस्र वियोगभवा प्रिय नार्त्तिरसौ ह्रियते भवता । तदिहैष्यति सन्ततमुज्वलतः करुणारस एव कठोरतरम् ॥ ३॥ प्रलयाभ्रगणाद्दववह्निभरात् पवनप्रचयाद्विविधारिभयात् । परिरक्षितवानसि नः प्रणयिन् विरहार्तिमहाभयभोगकृतः ॥ ४॥ अपि पद्मभवादिभिरर्थित इत्युदयत्वमितोऽसि ककुत्स्थकुले । धरणीभरसंहरणाय तथा निजभक्तजनामितदुःखकृते ॥ ५॥ तदिदं स्वजनाभयदानदृढं सकलेप्सितपूरणकल्पतरुम् । निजपाणिमिमं पुरुषोत्तम नः शिरसि प्रणयेन निधेहितमाम् ॥ ६॥ अयि वीरवर व्रजवल्लभ हे रघुवंशविभूषण चारुमते । निजदास्यकरीर्भज सुन्दर नः प्रियदर्शनचारुमुखाम्बुरुहम् ॥ ७॥ भुवनत्रयसन्तततापहरं जनपापहरं कमलासदनम् । चरणाब्जयुगं कुरु वक्षसि नः शमय स्मरदुर्जयवाणरुजम् ॥ ८॥ तव दर्शनसङ्गमसंस्पृहिता सुमहार्त्तिकरा विरहादधुना । हृदि सम्मथिताः रघुनन्दन नः कृपयाधरसिन्धुसुधाभिद्रवैः ॥ ९॥ रुचिरस्मरण प्रिय सम्प्रति न स्तव दिव्यकथामृतमेव गतिः । विबुधेश न चेद्विरहाग्निभरो भसितोत्तरकं कलयेन्न किमु ॥ १०॥ रघुनाथ भवत्परिरम्भभुवः प्रमुदः स्मृतिमात्रमिता अधुना । व्यथयन्तितमां हृदयानि न नः प्रतिकूलतया खलु चित्रमिदम् ॥ ११॥ मृदुलेन पदाब्जयुगेन भवान् यदि नाथ निकुञ्जवनेष्वटसि । तदिहेहि कठोरतृणाङ्कुरकै र्भृशमर्द्द्यत एव मनः खलु नः ॥ १२॥ विलुलत् कुटिलालकजालवृतं भ्रमरीगणसेवितमब्जमिव । स्मृतिमेति यथा तव नाथ मुखं भवतीव तथा व्यथितं हृदयम् ॥ १३॥ कमलाकरसेवनभाजनकं तव चारु पदाब्जयुगं जयति । स्तनकोरकयोः कृतमात्रमथो खलु यत् स्मरदुःखहरं भवति ॥ १४॥ विरहज्वरसम्भवतापहरं विषमेषुभवव्यथनाशमनम् । अधरामृतसीधुरसं रुचिरं रघुदेव वितीर्य सुखं वितर ॥ १५॥ यदुदारमनर्घ्यभवद्वदनं प्रविलोक्य रसोढतमो निमिषः । अधुना तदनेकदिनान्तरितं स्तवगम्य धिगस्तु दृशौ सुदृशौ ॥ १६॥ पतिपुत्रसहोदरबन्धुसुखं स्वजनं परिहृत्य जवात् स्वमितः । अबलाः प्रबलात्मभुवा ग्रथिताः क उदार जहातु भवन्तमृते ॥ १७॥ तदनेकरहस्यकथावसरे परिरम्भरसाकुलमात्तमुरः । तव कान्त तमालसमप्रतिमं स्मरतीः किमु मूर्छयसे वत नः ॥ १८॥ मृदुलोपलवत् कठिमानमिमं कुत एव भवानसि शिक्षितवान् । यदिमाः स्वगतीरिह नाक्षिकला कलनादवसि व्रजवामदृशः ॥ १९॥ भवतो वपुरङ्गशिरीषमृदु स्पृहया कठिनेषु कुचेषु यथा । कलयाम तथा भयमेति मनः पुलकाङ्कुरकण्ठरुगञ्चतु मा ॥ २०॥ स भवान् विजने विपिने निशि नः प्रविधाय खलु स्मरहस्तगताः । अवधिं गतवानसि किं नितरा मितरां भजमान उदारमनाः ॥ २१॥ अथ धन्यतमा खलु सा रमणी रमणीनिवहादपकृष्य वने । विजनेऽत्र भवन्तमतिप्रणयं प्रिय नीतवती बहुसाहसिका ॥ २२॥ अयि धूर्त्तधुरन्धर धीरमते विलपन्तमिमं रमणीनिवहम् । नयनेन निभालयले न कथं कलयन्नपि सन्तमघे रमणम् ॥ २३॥ प्रणयेन पुरा खलु यामनयो विलपत्यति सापि सहैव चिरम् । प्रणयिन्यबलेयमितोप्यपरा प्रिय कास्ति भवत्सविधे रमणी ॥ २४॥ नहि तत्र भवान् विजनेऽस्ति परं स्वयमेव नरेन्द्रकुमारमणे । न खलु क्षणमप्यसि केलिकला रहितोऽखिलकोककलैकपटुः ॥ २५॥ अथ या भवदङ्गसुसङ्गकरी त्वितरैव विभाति रमा खलु सा । नहि नाथ तया रहितोऽस्ति भवान् नहि सा सहते विरहं क्वचन ॥ २६॥ वयमीश तथा तव सङ्गमने प्रिय विघ्नलवं कलयाम कदा । युगलं खलु तद्भवतोः सुचिरं व्यतिभातु विशेषविलासकरम् ॥ २७॥ तनुकान्तिरिव प्रथिता भवतः प्रियसङ्गम एव सदा वसतु । इत एव भवत्वनिशं भवते ह्यबलाजनदुःखभरो विदितः ॥ २८॥ अपि नोदय तं स्पृहणीयुगणे भवती परिवेत्तु दशां खलु नः । अथवा विदितेदृशदुःखदशा किमु वेत्स्यति नित्यविलासपरा ॥ २९॥ स्वजनेषु तथापि परां करुणां परिपालय लोकपतेर्महिषी । निजनित्यविलासयुतं दयितं परिदर्शय नो नयनोत्सवदम् ॥ ३०॥ जनकस्य जगत्प्रणयैकजुषः करुणारसकोमलितात्महृदः । तनया भवतीति मनांसि च नः खलु विश्वसितं भवति त्वधुना ॥ ३१॥ इह वां सुरतान्तधृतश्रमयो र्मनुवारिकणाञ्चितविग्रहयोः । सुखदायि पटुः परिरम्भकरः परिवाति मरुद्वहुभाग्यभृतः ॥ ३२॥ असकौ ननु सौरभसारभरः परिवाति मुहुर्मरुताकलितः । यदिहोदयते कलकल्पलता युतमल्पतरोरधिकः पटिमा ॥ ३३॥ अयि वामविधे व्रजवामदृशां कलयिष्यति भूरि कदा नु भवान् । सहजं सहजेन मनोत्सवदं युगलं खलु दम्पतिभावयुतम् ॥ ३४॥ रघुनन्दन दर्शनदानकृते मुनयेऽत्रिसुताय नमोऽस्तु च नः । पुनरेव नमोऽस्तु रघूद्वह ते वरदाय निजात्मवरोत्तम हे ॥ ३५॥ पुनरेव नमोऽस्तु वधूमणये निमिवंशमहोत्सवदायिदृशे । इतराभ्य इदं खलु दत्तवती प्रणयेन धनं स्वरहस्यमपि ॥ ३६॥ त्रिजगल्ललनौघशिखामणये पुनरेव नमोऽस्तु नमोस्तु च नः । सहजात्मसुखाकृतये सहजा सहजात्मचिदाकृतये हृतये ॥ ३७॥ सहजामहिषीरतिरात्मसुखा प्रमदा पुरुषां जगेदकजनिः । अथ चिल्लतिकापि च चिन्निधिरि त्यवगच्छ नवात्मकनाम मनः ॥ ३८॥ श्रीर्माया मदना सरस्वतिपरा तारात्रया पद्मजा त्रैलोक्येश्वरवृंहिताङ्कसदनस्था सच्चिदानन्दिनी । पञ्चात्मा निखिलप्रपञ्चरचनाचातुर्यगा तुर्यगा तुर्यातीतकला परावरतरा सीता सिता चासिता ॥ ३९॥ इतिबहुविक्लवातुरहृदो व्रजवामदृशः प्रसभतरं विलप्य करुणास्मरवाणरुजा । वत वत सम्भ्रमेण बहुवीक्षितशून्यदृशः सुभगतरस्वरेण रुरुदुर्विजने विपिने ॥ ४०॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम त्रयंस्त्रिंशोऽध्यायः ॥ ३३॥

३४

ब्रह्मोवाच । तत आविरभूद्रामस्तासां विरहकातरः । वामभागसमासक्तसीतालिङ्गितविग्रहः ॥ १॥ मधुराननसंशोभिकोटिचन्द्रोज्ज्वलस्मितः । तडित्कान्तिचमत्कारिपीताम्बरसमावृतः ॥ २॥ नवीनपुष्पग्रथितां पञ्चवर्णस्त्रजं दधत् अनेकरत्नसञ्जुष्टहेमचन्द्रावतंसकः ॥ ३॥ सम्भ्रान्तपद्महस्ताभिस्तडिदुज्ज्वलकान्तिभिः । सम्पन्ननिष्ककण्ठीभिः श्यामाभिः शुभदृष्टिभिः ॥ ४॥ रत्नाकल्पमनोज्ञाभिः कान्तपीयूषवृष्टिभिः । सहस्राधिकरामाभिः संसेवितशुभाननाम् ॥ ५॥ कल्याणकारिणीं दिव्यां दिव्यकेलिविभूषिताम् । निजवामांससंसक्तां सहजानन्दरूपिणीम् ॥ ६॥ वामभागे प्रियां रामो जुषमाणः सुलोचनः । कस्तूरीतिलकोपेतपूर्णभालस्थलप्रभः ॥ ७॥ प्रेमासवरसास्वादपूर्णमान हृदुन्मदः । वामाक्षिहृदयोल्लासकारिवीक्षणकारकः ॥ ८॥ महामारकतोद्योतिमयूराकृतिकुण्डलः । दिव्यचूडासमावद्धमल्लीमाल्यमनोहरः ॥ ९॥ रत्नकेयूरसुभगबाहुद्वयविराजितः । रत्नहारमनोहारिविशालसदुरस्थलः ॥ १०॥ रत्नकाञ्चीगुणाबद्ध कटिवस्त्रविभूषितः । निम्ननाभिहृदोदग्रवलित्रयविराजितः ॥ ११॥ वामपादसमाक्रान्तदक्षपादप्रियाकृतिः । त्रिभङ्गीललिताश्यामवामकामदविग्रहः ॥ १२॥ लसन्नूपुरमञ्जीरकिङ्किणीपादपङ्कजः । नासाग्रमिहितोत्तुङ्गनवमौक्तिकमञ्जुलः ॥ १३॥ ताम्बूलीदलसंस्निग्धरञ्जिताधरपल्लवः । पुरुषायितकामिन्या क्रीडोचितलसद्वपुः ॥ १४॥ अश्मश्रुचिबुकोन्नद्धतिलबिन्दुविराजितः । महिलाजनदृग्भङ्गपीयमानमुखासवः ॥ १५॥ भूयः षोडशवर्षेण वयोमाधुर्यमञ्जिमा । नित्यलीलाचमत्कारि श्रीविग्रहविराजितः ॥ १६॥ तं वीक्ष्यं गतिमात्मानं प्रणयोल्लासिलोचनाः । सर्वास्ताः सहसा तत्र समुत्तस्थुर्मृगीदृशः ॥ १७॥ देवतास्तत्त्वरूपिण्यो यथापूर्वमचेतनाः । चैतन्यमुपलभ्याथ प्रविष्टे तु परात्मनि ॥ १८॥ काचित् तदीयकरपङ्कजमञ्जुलस्थे कृत्वा सुखेन निदधाति निजे कपोले । काचिच्च सङ्गमयते नयनद्वयेन काचिच्च वक्षसि च नाभिहृदे च काचित् ॥ १९॥ काचिच्च तस्य भुजदण्डमहीन्द्रभोग श्रीखण्डवृक्षविटपप्रतिमं गृहीत्वा । अंसे दधाति च कापि च मूर्द्ध्नि कापि काचित् सहर्षमुपगृह्य जहाति पापम् ॥ २०॥ ताम्बूलचर्वितकमञ्जलिना च काचिद् गृह्णाति तन्निपतदर्द्धपथे निरुध्य । काचित् तदङ्घ्रिकमलं विरहज्वरेण सन्तापिनि स्तनयुगे निदधाति तन्वी ॥ २१॥ अन्या च काचन निमेषविवर्जिताभ्यां दृग्भ्यां प्रियस्य वदनाम्बुरुहं पिबन्ती । नैवाद्य तृप्तिमबला सुखसिन्धुमग्ना चित्रार्पितेव विटपाश्रयिणी बभूव ॥ २२॥ काचित् तमोक्षणपथेन हृदि प्रविश्य नेत्रे निमील्य पुलकौघविसंस्थुलाङ्गी । दोर्भ्यां दृढं समवगृह्य निबद्धमौना योगीव चित्सुखमहोदधिनिर्वृतास्ते ॥ २३॥ काचिन्मनोजधनुषा भृकुटिद्वयेन संयोज्य तीक्ष्णविशिखान् कुटिलान् कटाक्षान् । दृष्ट्वा रुषेव दशनैर्दशनच्छदं स्व मैक्षिष्ट कान्तमतुलप्रणयाघ्नतीव ॥ २४॥ अन्ये सुवर्णलतिकेव रुचा स्फुरन्त्यौ तस्यांसयुग्ममवलम्ब्य विरोचमाने । तत्र प्रमोदवनदिव्यतमालकान्ति मत्यद्भुतां पुपुषतुः प्रभयानुरूपे ॥ २५॥ काचित् तदीयममलं मुकुरायमानं स्वच्छं कपोलतलमुत्प्रणया चुचुम्ब । अन्या तदक्षियुगलं रदनच्छदाभ्यां ताम्बूलिकादलरसैरनुरज्यमानम् ॥ २६॥ एका तदीयमधरं मधुरं सुधायाः संस्थानमन्दिरमिवापिवदाननेन । अन्या मदेन परिरभ्य निवृत्तलज्जा स्वानन्दसिन्धुरसवीचिषु निर्ममज्ज ॥ २७॥ इत्थं रमण्यस्ताः सर्वाः प्रियदर्शननिर्वृताः । सन्तापं विजहुर्यद्वत्प्राप्यानन्दमयं जनाः ॥ २८॥ भूयस्तदङ्गसङ्गिन्यै सच्चिदानन्दशक्तये । पश्यन्त्यस्तदभेदेन नाभ्यसूयन् मृगीदृशः ॥ २९॥ एषास्य सहजानन्दशक्तिर्लीलाविनोदिनी । नानारसासवावासा प्रमोदविपिनेश्वरी ॥ ३०॥ एषा श्रीः सततं चास्य पुरुषस्य महात्मनः । यामाद्यां सहजां शक्तिं मुनयः सम्प्रचक्षते ॥ ३१॥ प्राप्स्यामो भूरिदौर्भाग्यमनया रहिता वयम् । प्रियोऽपि नास्मत्सविधे संस्थास्यत्यनया विना ॥ ३२॥ अहो चन्द्रमसः सेयं चन्द्रिकेव विराजिता । कोर्थोऽनया विनास्माकं दासीनां प्रभुतुल्यया ॥ ३३॥ वयमेनां समाराध्य कामदां कामयामहे । पुत्रीं जनकराजस्य प्रमोदविपिनेश्वरीम् ॥ ३४॥ जय देवि महाराज्ञि यासि त्वन्नः परानिधिः । नित्यं परिचरिष्यामस्त्वां वयं दासिका इव ॥ ३५॥ ततोऽनयाभ्यनुज्ञाताः समस्तास्ता मृगीदृशः । व्यरुचन् परितस्तस्य चन्द्रस्योडुगणा इव ॥ ३६॥ सोऽपि ताभिर्भावनिर्द्धूतविरहामलकान्तिभिः । स्वशक्तिभिः समग्राभिः शुशुभे पुरुषोत्तमः ॥ ३७॥ यूथव्यूहं समादाय वामदक्षिणयोर्विभुः । सरय्वाः पुलिनं रामः प्राविशत् केलिकाम्यया ॥ ३८॥ नित्यं विकसितानन्तदिव्यानेकसुरद्रुमम् । गुञ्जद्भ्रमरसङ्घुष्टनिकुञ्जललिताङ्गणम् ॥ ३९॥ वीचीभुजसमास्तीर्णकोमलस्वच्छवालुकम् । उपर्यास्तीर्णवनितावेषचन्द्राच्छचन्द्रिकम् ॥ ४०॥ मन्दारविपिनान्दोलसुरभ्यनिलसेवितम् । रत्नवेदीसमुत्थांशुसंव्याप्त गगनान्तरम् ॥ ४१॥ उदञ्चत्पञ्चमालापविकस्वरपिकस्वरम् । राजहंसवधूवृन्दानुकृतप्रमदागणम् ॥ ४२॥ नानारतिरहस्योत्थशब्दचाटुशुकीरवम् । उद्गतानन्दकन्दर्पसपर्यायोग्यसंविधम् ॥ ४३॥ प्रियेण तास्तत्र समेत्य निर्वृता स्तदाननालोकसुधात्तभोजनाः । विधूतविश्लेषरुजो मृगीदृशो निकाममापुः सकलान् मनोरथान् ॥ ४४॥ निजोत्तरीयैः कुचकुम्भलेपित श्रीखण्डचन्द्रागुरुकुङ्कुमाङ्कितैः । अरीरचन्नद्भुत लीलनोत्सुका प्राणेश्वरायातिमहार्हमासनम् ॥ ४५॥ तत्रास्थितोऽसौ शुशुभे रघूद्वहः प्राणेश्वरो लोचनलास्यलालितः । पारेपरार्द्धस्मररूपदर्पहा गोपाङ्गनामण्डलमण्डनाकृतिः ॥ ४६॥ परस्परालापनिरीक्षणस्मित भ्रूविभ्रमाश्लेषकरग्रहादिभिः । सम्पूज्य संस्तुत्य तथात्मनः प्रियं प्रियाः समेताः किमपीदमूचिरे ॥ ४७॥ गोप्य ऊचुः । ये सेवमाना ननु सेवमाना असेवमानानपि सेवमानाः । ये सेवमानान् परितो सेवमाना न सेवमानास्त इमे के वदस्व ॥ ४८॥ मातॄः पितॄन् स्निग्धतमानपत्य भ्रात्रादिकान् सुहृदश्चात्मबन्धून् । हित्वा च पादाब्जतलं प्रपद्य त्वं सेवमानान् परिपासि कच्चित् ॥ ४९॥ किंवा भवैकान्तरतानभव्यान् निन्दापरान् लम्पटान् नीचसत्त्वान् । कन्दर्पानुध्यानपथे प्रवृत्तां स्त्वसेव्यमानान् भजसे नाथ कच्चित् ॥ ५०॥ किंवोभयभ्रष्टहृदः शिलामयान् कुयोगिनो नासि पापेषु निष्ठान् । ईदृग्विधान् मानुषाख्यान् पशूंस्त्वं प्रपूर्णरङ्गं भजसे नाथ कच्चित् ॥ ५१॥ इत्येवमुक्तो भृशमाभीरदारैः परात्परो भगवान् रामचन्द्रः । श्रियायुतः कोटिकन्दर्पकान्तिः स्मित्वा रेभे प्रतिवक्तुं महात्मा ॥ ५२॥ श्रीराम उवाच । विहाय संसारमपारसान्तरं भवादृशान् भजतः प्राकृतौघान् । भजामि नित्यं निजवामाङ्गभागं रमामपि प्रेयसीं संविहाय ॥ ५३॥ संसारिणो विषयैकान्तलुब्धान् न मां परं भजतो नो भजामि । कामानुरूपां गतिमेषां ददामि कुर्वे सुरानासुरीष्वेव भूषु ॥ ५४॥ नान्यानहं सेवमानान् भजामि जनान् प्रसिद्धोभयधर्महीनान् । प्रपद्यन्ते ये यथा मां मनुष्याः प्रपद्येऽहं तांस्तथा भावयुक्तः ॥ ५५॥ न वस्तुतोऽहं भजतो भजामि कुतश्चैवाभजतो भूमिजन्तून् । आत्मारामः सन्निजैकान्तकेलि र्लोकातीतः क्रीडमानश्च नित्यम् ॥ ५६॥ भजाम्यहं क्वापि भजतोऽपि जन्तून् कृपावशस्तत्कृतमीक्ष्यमाणः । स्नेहातुरान् दैवदृष्ट्यावरार्थान् तथातुरान् मानहीनानशक्तान् ॥ ५७॥ यत्सङ्गता मद्वपुषोंऽशवः प्रिया यथेयं श्रीर्भाति वामाङ्गसंस्था । इतोपि सख्योऽभ्यधिका रासकाले यदेवमन्तर्मयिमानसं वः ॥ ५८॥ मदङ्गसङ्गोपचिता शिखावद् यूयं प्राणेभ्योऽपि मे प्रेयसीः स्थः । नपारयेऽहं भवतीप्रेमबन्धं निष्कारणं मित्रभावं जुषाणाः ॥ ५९॥ भवतीनां वै विप्रलम्भानुभूत्यै तिरोहितो भवतीस्थो मयात्मा । आविर्भावं प्रापितस्तत्क्षणेन मा मा हिंसीज्जातवेदाः स्मरोत्थः ॥ ६०॥ तन्मेऽसूया नैव कार्या कदाचित् प्रेम्णौदार्यं वीक्ष्यमाणाय शश्वत् । लोके प्रेम्णः पदवीं शिक्षयाणः किं किं चित्रं नैव कुर्वे रमण्यः ॥ ६१॥ लीलावैचित्र्यात् सहजानन्दरूपा प्यन्तर्द्धानं यावदेषा जगाम । नैवामुष्यां मद्वियोगः कदाचिद् दृष्टो भूतः स्वप्नभावे सुषुप्तौ ॥ ६२॥ सम्पूर्णाः शरदो भजमानाः प्रियं मां धन्या धन्या धन्यधन्याश्च धन्याः । प्राप्तं मनागीदृशं प्रेम दिव्यं युष्मास्वेवं प्रियमेकान्तवत्यः ॥ ६३॥ संसेवनीयः किमुतान्यैर्मयापि पुण्यस्तीर्थो भवतीपादरेणुः । स्त्रियो भूत्वा पौरुषं दिव्यमेवं यूयं प्राप्ताः शङ्कराद्यैरलभ्यम् ॥ ६४॥ प्रेम्णामलेनान्तरात्मप्रसादात् प्रीतः क्रीतो भवतीभिः सदाहम् । अविप्रयुक्तः सततं चैव रंस्ये वश्यां वृत्तिं दर्शयानः समग्राम् ॥ ६५॥ नित्ये धाम्नि दिव्यसाकेतसंज्ञे सरयपुलिने परे नित्यरम्ये । सीतालोके भूरि प्रमुदवने यत्र क्रीडेऽहं तत्र तत्र स्थ यूयम् ॥ ६६॥ यूयं नित्याः कीर्तिता वेदमूर्ध्नि, नित्यानन्दा नित्यगा नित्यसिद्धाः । लोकोऽयं वो नित्यसच्चित्सुखात्मा किञ्चिज्ज्ञात्वा कामितो ब्रह्मविद्भिः ॥ ६७॥ तेऽमी स्थिताः पुरतोऽग्नेः कुमारा ब्रह्म विन्दन्तः षष्टिसाहस्रसङ्ख्याः । तद्वत् स्थिताः श्रुतयोऽमूः पुरो वो ब्रह्म विन्दन्तीः सततं कामयानाः ॥ ६८॥ अन्ये च सिद्धा ऋषयो ब्रह्मनिष्ठाः ब्रह्मर्षयो वन्दिता नारदाद्यैः । नेमे लोकं प्राप्तुमर्हन्ति सख्यो यद्यप्येते कामतत्त्वेन विद्धाः ॥ ६९॥ सर्वस्योर्ध्वं भाति वैकुण्ठधाम ऊर्ध्वं वैकुण्ठाद्या [दा] दिवैकुण्ठधाम । राधालोकं तस्य चोर्ध्वं विभाति सीतालोकस्तस्यचाप्यूर्ध्व एषः ॥ ७०॥ नातः परं लोकसंस्थागमेषु दृष्ट्वा क्वचित् सरहस्येषु तेषु । चिल्लोकोऽयं मामकीनो मदात्मा पूर्णः सदा पूर्णपूर्णः सुपूर्णः ॥ ७१॥ आनन्दात्मा स्वे महिम्नि प्रतिष्ठः सत्याकारः सत्यधर्मा सुसत्यः । चिद्रूपोऽयं चित्प्रतिष्ठाप्रतिष्ठः कालातीतो मायया चाप्यधृष्यः ॥ ७२॥ यस्माज्जातः पूरुषः कोऽपि कालः श्रीमान् विष्णुर्लोकलोकेशनाथः । जिष्णुर्विष्णुः कृष्ण इत्याद्यनेकैर्नाम्नां वृन्दैः कीर्तितः सोऽपि चांशः ॥ ७३॥ यल्लोकोऽसौ कीर्तितो रामलोकः सीतालोकस्तत्र चानन्दलोकः । ईदृक्प्रेम्णा तमिमं प्राप्य यूयं जाताः सख्यः कृतकृत्या पुरैव ॥ ७४॥ न यत्र दुःखं न जरा न मृत्यु र्न कालबाधा प्रकृतेर्न प्रभावः । नित्ये सत्ये तत्र यूयं रमध्वं रसेन संयुग्विप्रयोगात्मकेन ॥ ७५॥ संयोगाद्विप्रयोगो मे प्रियो नित्याभिभाषितः । रामात्मनाहं संयोगी रामात्मा विप्रयोगवान् ॥ ७६॥ संयोगरसभोगाय रामोऽहं वै वसे वने । विप्रयोगानुभूत्यै तु रामः साकेतपत्तने ॥ ७७॥ रसनामा तु रामोऽहं रामोहं रासनायकः । उभयोर्नित्यभोगाय प्रमोदवनमास्थितः ॥ ७८॥ गावो गोपास्तथा गोप्यो नित्यलीलापरिच्छदाः । राजन्ति स्वस्वभावेन प्रमोदविपिने मम ॥ ७९॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डिसंवादे रामरासो नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥

३५

ब्रह्मोवाच । एवं श्रुत्वा रसिकेन्द्रस्य दिव्य रसात्मनो राघवेन्द्रस्य वाचः । गोपाङ्गनास्तुष्टुवुस्ताः समस्ता स्त्यक्त्वा वियोगप्रसवं चित्ततापम् ॥ १॥ अथेप्सितानां व्रजसुन्दरीणां परस्पराबद्धकराम्बुजानाम् । मध्ये स्थितो रामचन्द्रो विरेजे तत्कण्ठयोविलसद्वाहुयुग्मः ॥ २॥ इत्थं शतं सहस्रं च मूर्तीः कृत्वा निजात्मनः । रेमे रामो रमोन्मादचलच्चरणतालवृक् ॥ ३॥ तासां प्रेयो नाभिमध्योदरान्त र्लोलान्योन्याबद्ध हस्ताम्बुजानाम् । एको हस्तः खे चलन् भावरीत्या कामाम्भोजे भ्राजिनालो विरेजे ॥ ४॥ ताः प्रेयसो नूपुरकिङ्किणीनां नादैः स्वाङ्घ्रिस्थायिनां नूपुराणाम् । नादान् मुहुर्मेलयित्वा नटन्त्यः स्वारस्यमापुर्ललितं सामरस्यम् ॥ ५॥ तस्मिंश्च रासे तालशङ्खा मृदङ्गाः सझर्झरा पटहाः झल्लरीश्च । भेरीवीणावेणुवाद्यप्रभेदाः सम्मूर्त्तिकाश्चिन्मयाः प्रादुरासुः ॥ ६॥ दृष्ट्वा रासोत्सुकं रामं प्रेयसीश्चापि तस्य ताः । वाद्यवादनकारिण्यः प्रादुरासुर्वरस्त्रियः ॥ ७॥ ततानां विततानां च छादितानां समन्ततः । घनानां सुषिराणां च प्रादुरासीन्महान् ध्वनिः ॥ ८॥ तं ध्वानमनुकृत्याभूद्दिवि दुन्दुभिजो ध्वनिः । अवाकिरंश्च मन्दारमाल्यानि त्रिदिवौकसः ॥ ९॥ चलच्चरणनूपुरैर्ललितकिङ्किणीनां गणै रनेकवलयैस्तथा विधुत बाहुवल्लीस्थितैः । अभूत् सततकाहलः किमपि तत्र कोलाहलः सुवर्णमणिभूषणप्रकरसिञ्जितैर्मिश्रितः ॥ १०॥ प्रेयसीरनुचकार वल्लभो वल्लभं च ललना अनुचक्रुः । ते परस्परविधेयचातुरीवेधसः शुशुभिरे रसरासे ॥ ११॥ प्रेयसीमधुरकण्ठसुस्वरैः प्रेयसो जयति कण्ठसुस्वरः । यत्प्रमोदवनवासिकोकिला मौनमापुरनुसर्तुमक्षमाः ॥ १२॥ मध्ये मध्ये कनकलतिकाजातमालैस्तमालै र्मध्ये मध्ये विलुलिततडिन्मोदमानैः पयोदैः । मध्ये मध्ये कनकमणिभा सङ्गशीलैश्च नीलैः प्राप्तुं शक्या नखलु रमणं राममासां विलासाः ॥ १३॥ एवं स ताभिः शुशुभे रमाभिः कामप्यपूर्वां परमां दधानः । वेणं क्वणन्मध्यगतो दामिनीनां मध्ये तडित्वानिव जातगर्जः ॥ १४॥ मुग्धाङ्घ्रीणां विलासै रणरणकरणत्किङ्किणीनूपुराद्यै र्दोर्वल्लीनामुञ्चद्वलयकलकलैः सस्मितैर्भ्रूविजृम्भैः । सानङ्गैर्मध्यभङ्गैः कुचपटचलनैः कुण्डलैर्गण्डलोलैः काञ्चीवेणीकलापैः श्लथलसदलकग्रन्थिभिस्ता विरेजुः ॥ १५॥ स्वेदाञ्चितानि वदनानि विभावतीनां स्वेदाञ्चितानि च वपूंषि विलासलासैः । रासोन्मदप्रणयपाणिविकर्षितानां रेजुर्नितान्तसुरतान्तगतानि यद्वत् ॥ १६॥ सीता शीतांशुसीता च सुधा श्रीः कमला कला । कामिनी कामदा कामा कमनीया कलावती ॥ १७॥ राधा कृष्णानुराधा च सुधाधारा मणीरमा । ललनाकोटियूथेषु षोडशैव सुमध्यमाः ॥ १८॥ एता मुख्यतमाः प्रोक्ता यथा कान्तस्तथैव ताः । स्वामिनीशब्दभाजश्च दामिनीतुल्यकान्तयः ॥ १९॥ रामेण सह नृत्यन्त्यो रेजिरे रासमण्डले । स्वस्वमण्डलमुख्याश्च प्रेयसा प्रतिलालिताः ॥ २०॥ जगुरुच्चैः स्वरेणैताः प्रियकण्ठस्वरोर्जिताः शुद्धमिश्रप्रभेदाश्च स्वरजातीः सलक्षणाः । प्रियेण सह गायन्त्यः पुपुषुः परमां श्रियम् ॥ २१॥ काश्चित् परं वेणुरवानुमोहिता प्रमत्तपुँस्कोकिलकण्ठजित्वरैः । स्वरैरगायन् वनिता वनान्तरे प्रियेण साकं बहुजातसम्भ्रमाः ॥ २२॥ काश्चित्स्वयूथमवलम्व्य सह प्रियेण गायन्त्य उच्चतरकण्ठरवाप्तमानाः । अन्याः सुनृत्यकलया दधतीः पटुत्व मौत्सुक्यसङ्गतहृदो नदयाम्बभूवुः ॥ २३॥ कदाचिद् वनिता एव सर्वाः सञ्जगुरुच्चकैः । अनृत्यत् प्रिय एकाकी कलाचातुर्यदर्शनैः ॥ २४॥ कदाचिद् गायतोऽत्युच्चैः प्रेयसस्तुष्टिहेतवे । अनृत्यन् वनिताः सर्वाश्चातुर्याञ्चितविग्रहाः ॥ २५॥ काचिच्च रामपरिवर्तनजश्रमेण श्रान्ता गुरुस्तननितम्बभरालसाङ्गी । स्विद्यन्मुखी श्लथलसद्रसना प्रियांसे प्रादाद् भुजं तरलकूजितकङ्कणाढ्या ॥ २६॥ काचिद् भुजौ दृढतरस्मरपाणिपाशौ कण्ठे निधाय दयितस्य च लम्बमाना । शम्पामयी स्रगिव मेचकमेघ लग्ना रेजेतरां तरुणिरग्रिमधर्मकान्तिः ॥ २७॥ काचिन्मुखेन रमणस्य निजाङ्कसंस्थं काश्मीरचन्दनकुरङ्गमदानुलिप्तम् । आघ्राय जातपुलका प्रणयोत्करेण गोपी सुगुप्तगतिरेव मुहुश्चुचुम्ब ॥ २८॥ कस्यैचिदाकलितरासविलासनृत्य विक्षिप्तकुण्डलमणीगणमण्डिते स्वे । गण्डे स्वगण्डफलकं श्रमतो दधत्यै प्रादात् प्रियो हि लतिकादलचर्वितं स्वम् ॥ २९॥ अन्या च रासरसितैर्वलयैर्नदन्ती कूजन्महार्हमणिनूपुरमेखलाद्या । पार्श्र्वस्थितस्य रुचिरं रमणस्य हस्तं श्रान्ता स्तनोपरि निधाय सुखान्यवाप ॥ ३०॥ काचिज्जवेन दयितं परिरभ्य तुङ्ङ्ग वक्षोजविक्षुभितमक्षि चुचुम्ब तस्य । इष्टं पृथक् पृथगनङ्गरसं निगूढ रासान्तरे पुपुषुरद्भुतकेलिदक्षाः ॥ ३१॥ गोपाङ्गना रुचिरराजकुमारवर्य हस्तद्वयाकलितगाढगृहीतकण्ठ्यः । रासक्रियाललितमण्डितमण्डलीषु स्वच्छन्दमेव बहुधा विदधुर्विहारम् ॥ ३२॥ कदाचिद् गोपतरुणीमण्डलान्तरमण्डनः । रामः सीतासमं रेजे क्वणद्वेणुयुताधरः ॥ ३३॥ कदाचित् स्वाङ्गकान्त्यैव प्रियामन्तर्हितां दधत् । चकार कौतुकं स्त्रीणां क्व गता महिषीत्यहो ॥ ३४॥ तासु सम्भ्रान्तचित्तासु स्थित्वा मण्डलमध्यतः । दर्शयन् सहजां लक्ष्मीं जयेति मुहुरीडितः ॥ ३५॥ साखिलव्रजकान्ताभिर्दीप्ताभिरपि मण्डले । अप्रधृष्यैव शुशुभे लोकसौन्दर्यजीवनी ॥ ३६॥ कदाचित्तस्या हस्तेन हस्तमादाय वल्लभः । जगाम कुञ्जभवने दासीवत्तास्तु तस्थिरे ॥ ३७॥ आज्ञापयिष्यति प्रभ्वी प्रभुर्वा किं न दूत्यमूः । सावधानतया तस्थुः कुञ्जद्वारलसदृशः ॥ ३८॥ कुञ्जालयं सुखं गम्य कृत्वा पूर्ण मनोरथम् । एताभ्यां पुनरेताभ्यां जयेत्युच्चैस्तरां जगुः ॥ ३९॥ सम्भुक्तिपानपरिधानविभूगणानि लेपाग्ञ्जनालभनमार्जनव्यञ्जनाद्यैः । तौ ता विशेषधिषणा परिचेरुरुच्चै र्दासीवदप्यनुपदं कलितावधानाः ॥ ४०॥ कान्तेन भूरितरकेलिषु कोविदेन ताः संसदि प्रतिपदं बहुदत्तमानाः । नैतां प्रियां समनुलङ्घितुमीशिरेऽपि पूर्वं विसोढविरहस्मृतिकातराक्ष्यः ॥ ४१॥ नैवापि तासु वनितासु कुमारकेण सार्द्धं प्रभूतरमणोत्सवसम्भ्रमेषु । प्रत्यूहलेशमकरोद्यदमुष्य साक्षा न्नित्याङ्गसङ्गमवतो सहजैव लक्ष्मीः ॥ ४२॥ अश्रान्तरासरसिको रमणः स इत्थं गुप्तस्फुटं प्रकट केलिविधानदक्षः । रेमे रमैकरमितो रमणो रमाभि राभीरराजकुलभूषणसुन्दरीभिः ॥ ४३॥ कदाचिन्नृत्यमानानां वनितानां प्रियैः सह । भ्रमरालिरभूद्वीणा कोकिलामुरजध्वनिः ॥ ४४॥ रामरासरसं वीक्ष्य देवा ब्रह्मशिवादयः । विचिन्त्यमाना मनसि बभूवुः प्रेमघूर्णिताः ॥ ४५॥ अस्तमाममरनागनगीनां रूपसारभरजोऽप्यभिमानः । किङ्करीवदिह दर्शनमापुरतो रसिकरासरसेषु ॥ ४६॥ आदित्या विश्वेदेवाश्च वसवस्तुषितास्तथा । भास्कराश्चानिलाश्चैव महाराजिकसाध्यकाः ॥ ४७॥ रुद्राः समुद्रा गिरयो नदा नद्योऽप्सरोगणाः । विद्याधराश्च यक्षाश्च गन्धर्वाश्चैव किन्नराः ॥ ४८॥ ग्रहनक्षत्रताराद्याः प्रह्लादश्च विभीषणः । ब्रह्मर्षयो वसिष्ठाद्यास्तथा देवर्षयोऽखिलाः ॥ ४९॥ लक्ष्मीनारायणौ चैव पार्वतीशङ्करौ तथा । गायत्री चापि सावित्री सरस्वत्यप्सरः शची ॥ ५०॥ सर्वे देवगणाश्चैव हर्षिताः स्वस्वचेतसि । योषारूपं समास्थाय रामरासे समाययुः ॥ ५१॥ तेषां विमानसन्दोहैरभवत् सङ्कुलं नभः । रामो नवघनश्यामो महारत्नविभूषितः ॥ ५२॥ लक्ष्मीं दधद् गोपिकाभिः संस्थितो रासमण्डले । स्वस्वभावानुसारेण सर्वेषां दर्शनं ददौ ॥ ५३॥ गोपीं गोपीमन्तरा रामचन्द्रो रामं रामं चान्तरा गोपनार्यः । इत्थं जाते मण्डले मञ्जुलाभो रेमे रामो रामया राजमानः ॥ ५४॥ श्रीहस्ताब्जबद्धसम्बद्धकण्ठ्यो रन्योन्यं वा बद्धबाह्वोर्युवत्यः । वामं हस्तं चोर्द्धयित्वानयोश्च मध्ये रेमे रामचन्द्रः कदाचित् ॥ ५५॥ इत्थं द्वेधा मण्डलं कल्पयित्वा पर्यायेण क्रीडमानो वधूभिः । योगाधीशस्तत्र योगीव रामो रेमे स्वानां सम्मुदं वर्धयानः ॥ ५६॥ रासक्रीडावेषविस्त्रस्तबन्धै र्धम्मिलैः स्वैर्मल्लिकाः संवमन्त्यः । विद्युद्वल्लीजैत्रविद्योतिताङ्ग्यो गोप्यो रासे नाटकं चक्रुरुच्चैः ॥ ५७॥ रासे समुद्भूतरमाविलासे श्रीरामचन्द्रेण समं नटन्त्यः । धम्मिलवल्ल्युप्तनितम्बभारं वोढुं न शक्ता वनिता बभूवुः ॥ ५८॥ नितम्बौ त्रस्तकाञ्चीको कुचौ विगतकञ्चुकौ । धम्मिलान् बन्धनोन्मुक्तान् वहन्त्यो रेजिरे स्त्रियः ॥ ५९॥ खेचरौघाः सह स्त्रीभिश्चन्द्रश्चोडुगणैः सह । रामरासं समालोक्य विस्मितोऽभून्निरन्तरम् ॥ ६०॥ यावद्विजहार भगवान् ताव त्कालं रजनीशः संस्थितोऽभूत् । चन्द्रेण स्वस्यां गतौ विस्मृतायां स्वस्वस्थाने खेचराश्चापि तस्थुः ॥ ६१॥ यावन्तस्ता मण्डले गोपनार्य स्तावद्रूपो राघवेन्द्रो बभूव । अन्योन्यं चालक्ष्य लीलाविनोदं रेमे ताभिर्भूरि दाक्षिण्यशाली ॥ ६२॥ तासां प्रभूतश्रमकर्षितगोपिकानां वक्त्राणि वारिकणसंवलितालककानि । हस्ताम्बुजेन स ममर्षतरां ततोऽमूः पीयूषपातसुखिता इव सम्बभूवुः ॥ ६३॥ इत्थं हरेर्भगवतः पुरुषोत्तमस्य रामस्य राघवकुलामलकीर्तनस्य । यः संश‍ृणोति रतिरासविलासलीलां सः रामसम्पदमुपैति विमुक्तकामः ॥ ६४॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥

३६

ब्रह्मोवाच । रामस्य रासं नयनैर्निपीय ते दण्डकारण्यजुषोऽग्निपुत्राः । कामेन सङ्क्षुब्धहृदः समन्ता त्तन्मण्डलं तुष्टुवुः कल्पिताशाः ॥ १॥ सुनय ऊचुः । प्रावृट्समुन्नतनवीनघनाभिरामं योषासमूहपरिकल्पितमण्डलस्थम् । पीताम्बरद्युतितडित्प्रकराभिरामं रासस्थितं रघुपतिं सततं भजामः ॥ २॥ श्रीमत्प्रमोदवनमञ्जुलकुञ्जवीथी विद्योतमानपरिपूर्णकलाहिमांशुम् । सामस्वरक्वणितवेणुसनाथपाणिं रासस्थितं रघुपतिं सततं भजामः ॥ ३॥ रत्नावलीयुतसुवर्णसुदिव्यमौलि मुक्तास्त्रगद्भुतसुलक्ष्यविशालवक्षः । श्रीवत्सलक्ष्मसुभगोत्तमदिव्यगात्रं रासस्थितं रघुपतिं सततं भजामः ॥ ४॥ उद्यद्विशालमणिमञ्जुलतुङ्गनासं गण्डस्थलप्रतिफलत्कलकुण्डलाग्रम् । कस्तूरिकातिलकभूषितभालदेशं रासस्थितं रघुपतिं सततं भजामः ॥ ५॥ केयूरलम्बनललामभुजद्व याग्र बन्धोद्गृहीततरकौस्तुभशोभि कण्ठम् । पादाम्बुजक्वणितनूपुरकिङ्किणीकं रासस्थितं रघुपतिं सततं भजामः ॥ ६॥ एकद्वयत्रिचतुरादिभृतक्रमात्त तालप्रबन्धरचनानयनाभिरा मम् । सङ्गीतशास्त्रवितताछलका गुरुं तं रासस्थितं रघुपतिं सततं भजामः ॥ ७॥ नृत्यन्तमद्भुतकलानिकरप्रवीण मानापलापरचनैकविधानदक्षम् । वंशीधरं नटवरं वरदोत्तमाङ्गं रासस्थितं रघुपतिं सततं भजामः ॥ ८॥ अङ्गोन्मिलन्मलयजद्रवजातभक्तिं रङ्गत्त्रिभङ्गकलितातिललामकामम् । कैशोरवेशमतिवर्त्य परिस्फुटन्तं रासस्थितं रघुपतिं सततं भजामः ॥ ९॥ मन्दारमूलमधिगम्य विराजमानं गोपाङ्गनाविरचितोत्तममण्डलास्यम् । पोतांशुकच्छविनिबद्धकटिप्रदेशं रासस्थितं रघुपतिं सततं भजामः ॥ १०॥ मन्दस्मिताधरसुधारसरञ्जितोष्ठं लोलालकावलितमुग्धकपोलदेशम् । पादाम्बुजप्रथिततालविधाननृत्यं रासस्थितं रघुपतिं सततं भजामः ॥ ११॥ ताम्बूलिकादलसुचर्वणचारुराग संवर्धगोपरमणीक्षणचुम्बनोग्रम् । तत्तुङ्गवक्षसिजमर्दनलग्नहस्तं रासस्थितं रघुपतिं सततं भजामः ॥ १२॥ सीतानिरन्तरविभूषितवामभागं मध्यस्थलच्छविविनिर्जितसिंहमध्यम् । मन्दस्मितप्रसर मण्डितमण्डलास्यं रासस्थितं रघुपतिं सततं भजामः ॥ १३॥ श्रीरत्नवेदिविपुलीकृतमण्डलान्तः कोटिप्रकारपरिक्लृप्तनिजप्रकाशम् । वामाङ्गसङ्गिसहजास्पृहणीय केलिं रासस्थितं रघुपतिं सततं भजामः ॥ १४॥ श्रीमत्प्रमोदवनकल्पितमण्डलाब्ज सत्कर्णिकार्पितरमारमणैक मूर्तिम् । स्वस्वामिनीसमनुवाञ्छितदिव्यरासं रासस्थितं रघुपतिं सततं भजामः ॥ १५॥ ब्रह्मेन्द्रशङ्करमुखत्रिदिवालयौघ हस्ताम्बुजच्युतसुरद्रुमपुष्पवृष्टिम् । कोटीन्दुजित्वरकिरीटमणिप्रभाढ्यं रासस्थितं रघुपतिं सततं भजामः ॥ १६॥ जय जय जय सहजानन्दरसनिर्भरनिजविलासमोहितब्रह्मादिसुरसंस्तूयमान कुटिल गोपाङ्गनाजनकटाक्षसमुद्भूतनूतनकन्दर्पशरलक्ष्यीकृतचित्त कुन्दवनेश्वरिमनोरथपूर्तिप्रभावप्रेमपरिपालक सच्चिदानन्दमयपरब्रह्म रस स्वानन्दैककन्द सहजकल्याणगुणनिधान नमस्ते नमस्ते ॥ १७॥ किं त्वामशेषमतिसाक्षिणमर्थयामो जानासि सर्वमपि नः स्पृहणीयमर्थम् । अस्यैव तावकविलासरसस्य नित्यं पात्राणि किं नहि भवाम वयं स्मरार्ताः ॥ १८॥ किं वा सहस्त्र जनुरर्जितकोटिपुण्य नैष्कर्म्यसिद्धिसुहितेन ननु त्वयैव । दत्तामलभ्यवरभाजनतामुपेत्य नित्यं भजाम निजवाञ्छितलाभतृप्ताः ॥ १९॥ नो चेद् वयं विरहपावकदग्धदेहाः स्नेहानुबन्धमहिमोद्धृतमोक्षसौख्याः । त्वत्पादपद्मपदवीं समुपेत्य भूयो जन्मान्तरेऽपि कलयाम न किञ्चिदिष्टम् ॥ २०॥ इति तेषां द्विजेन्द्राणां दण्डकारण्यवासिनाम् । श्रुत्वा विक्लवितं रामः प्रहसन्निदमुक्तवान् ॥ २१॥ श्रीराम उवाच । सुविहिततपसो मुनीन्द्रवर्या दहनसुताः खलु दुर्लभोऽयमर्थः । श्रुतिभिरपि मदेककामुकीभिः शतशतकल्पजनुस्तपस्विनीभिः ॥ २२॥ तदपि मयि निवेद्य वाञ्छितार्थे यदि न भवन्त उपेतवान्छिताः स्युः । इदमपि न ददेत तद्भवद्भ्यो दुरधिगमोऽपि मयोपकल्पितोऽर्थः ॥ २३॥ कृष्णावताररूपेण समनुक्रीडता मया । आगामिनि भवे यूयं कृतकृत्या भविष्यथ ॥ २४॥ कृष्णो नाम ममैवांशो जनिता नन्दगोकुले । तद्द्वारा मां समासाद्य फलितार्था भविष्यथ ॥ २५॥ इयं च सहजाशक्तिः सच्चिदानन्दलक्षणा । तत्रैवांशेन भविता राधानाम्नी मम प्रिया ॥ २६॥ तयाविष्टासु सर्वासु सुन्दरीषु रतिं भजन् । विहरिष्याम्यहं तत्र दिव्ये वृन्दावने वने ॥ २७॥ सीता लोकस्य सामग्री समस्ता खलु तत्र माम् । उपस्थास्यति विप्रेन्द्राः स्वस्वांशेन विनोदकृत् ॥ २८॥ तावद्यूयं जातवेदःकुमाराः शुद्धप्रेमाणः सततं मां भजध्वम् । ईदृग् लीलाकारमीदृक् स्वरूप मीदृग्भावं प्राप्स्यथोच्चैः प्रसादात् ॥ २९॥ इति तस्माद्वरं लब्ध्वा दण्डकारण्यवासिनः । मुनयस्तत्र सिद्धार्थास्तस्थुर्थ्यानपरायणाः ॥ ३०॥ एवं स रसिकेन्द्रस्य विलासो राससंज्ञितः । त्रैलोक्यं शोभयामास कामतत्त्वेन जृम्भितः ॥ ३१॥ नद्यः स्तब्धतया तस्थुर्लतावृक्षाश्चकम्पिरे । दद्रुवुश्चैव पाषाणाः साध्यसत्त्वानि तत्यजुः ॥ ३२॥ जहौ शम्भुः समाधिं च विश्वकृद्विश्वकल्पनाम् । भ्रमणं शिशुमारान्तस्तत्याज ग्रहमण्डलम् ॥ ३३॥ सर्वे बभूवुः सहसा परमानन्दनिर्वृताः । रामरासरसोन्मादवासिताखिलवृत्तयः ॥ ३४॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम षट्त्रिंशोऽध्यायः ॥ ३६॥ Encoded and proofread by Vishal Pandey
% Text title            : Rama Rasa Varnanam
% File name             : rAmarAsavarNanam.itx
% itxtitle              : rAmarAsavarNanam (bhushuNDirAmAyaNAntargatam)
% engtitle              : rAmarAsavarNanam
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishal Pandey
% Proofread by          : Vishal Pandey
% Description/comments  : bhushuNDirAmAyaNam | pUrvakhaNDa | adhyAya 24-36||
% Indexextra            : (Scans 1)
% Latest update         : August 31, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org