श्रीरामसम्बोधनस्तोत्रम्
मत्स्य कूर्म किटे मर्त्यसिंह वामन भार्गव ।
राम प्रलम्बहन् कृष्ण कल्किन्(कल्के)पाहि दशाकृते ॥ १॥
॥ बालकाण्डः ॥
राम दाशरथे रक्ष कौसल्यातनयाग्रज ।
भरतस्य च सौमित्र्योः क्रीडापर मनोहर ॥ २॥
अधीतवेदवेदाङ्गधनुर्वेद महामते ।
कौशिकार्थित तल्लब्धबलातिबल पाहि माम् ॥ ३॥
ताटकाताटकेयारे गाधिजाध्वररक्षक ।
पादरेणुकणत्राताहल्य कल्यो वने मम ॥ ४॥
माहेश्वरधनुर्भङ्गप्रीतवैदेहतत्सुत ।
गृहीतपाणे सीतायाः स्वतातस्य नियोगतः ॥ ५॥
जामदग्न्यनिरुद्धाध्वन् धनुषा तत्तपोहर ।
प्रविष्टायोध्य भुञ्जान मानुषान् भोगसञ्चयान् ॥ ६॥
बहूनृतून् भुविजया सार्धं तं मानसार्पितं (सन्मानसार्चितं) ।
श्रिया विष्णुरिवाजस्रं तया शोभित पाहि माम् ॥ ७॥
॥ अयोध्याकाण्डः ॥
राज्यदानसमुद्युक्तजनकासङ्ख्यसद्गुण ।
मन्थराहितरोषेण कैकेय्या विघ्नितोत्सव ॥ ८॥
सन्त्यक्तराज्य तत्प्रीत्यै वनवासमहोदय ।
ससीतालक्ष्मणारण्यं प्रयातोद्दिश्य तापस ॥ ९॥
अनुयात जनेनापि दूरं साकेतवासिना ।
पितृभ्यां तमसातीरं प्राप्त वञ्चिततज्जन ॥ १०॥
शृङ्गिबेरपुरे लब्धनिषादक्षितिभृत्सख ।
तीर्णगङ्गासरित् भूयस्सन्निवर्तितसारथे ॥ ११॥
(भरद्वाजस्य) वचसा चित्रकूटमुपागत ।
सीतया प्राप्तविहृते रम्येष्वेतस्य सानुषु ॥ १२॥
पितुर्मरणतः पश्चान्मातुलस्य कुलात् पुरीम् ।
अयोध्यामागतेनात्मज(नकादर्शनो)द्भवात् ॥ १३॥
कोपात् सन्तप्तमनसा राज्यप्राप्तौ विरागिणा ।
वसिष्ठाद्यनुशिष्टेन निन्दिताप्तपुरोधसा ॥ १४॥
भ्रात्रा शिष्येण दासेन भरतेन (मुहुर्मुहुः) ।
शिरसा याचितास्मै तु दत्तश्रीपादुकाद्वय ॥ १५॥
तस्मिन्निवृत्ते सन्त्यज्य चित्रकूटगिरिं गत ।
अत्र्याश्रमं तत्प्रिययानसूयाभिख्यया ततः ॥ १६॥
दिव्याम्बराङ्गरागादिवस्तुना जानकीगुणैः ।
प्रीतया मानितात्मीयदारानिन्दिततत्पद ॥ १७॥
॥ अरण्यकाण्डः ॥
प्रविष्टदण्डकारण्य तद्वासिमुनिसत्तमैः ।
आशासानै(दैत्यवधं) स्वरक्षार्थमुपस्थित ॥ १८॥
प्रतिश्रुतावनैतेषां भवद्विषयवासिनाम् ।
विराधमाथिन्नात्मीयपादचाराञ्चिताश्रम ॥ १९॥
शरभङ्गादियमिनां वचसा(प्रीतमानस) ।
प्राप्तपञ्चवटीस्थान रम्ये गोदावरीतटे ॥ २०॥
वृषस्यन्त्या शूर्पणख्या पतित्वेनार्थितार्तया ।
सौमित्रिणा छिन्ननासाकर्ण तस्याः स्वबाहुना ॥ २१॥
तत्क्षणेन तदार्त्युत्थखरादिरिपुभञ्जन ।
चतुर्दशसहस्रत्रियामाचरनिषूदन ॥ २२॥
तच्छ्रुत्वा सरुषा पङ्क्तिवदनेन तनूजतः (? ) ।
सुन्दस्य स्वसहायेन मायामृगवपुर्भृता ॥ २३॥
विलोभितात्मदाराथ तया प्रेरित तद्गृहे ।
मारीचानुगतैतस्य प्राणहारिन्ननुद्रुत ॥ २४॥
जानकीवाक्यतप्तेन लक्ष्मणेन दशास्यतः ।
विजनादाश्रमपदात् गृहीतप्रिय चोरतः ॥ २५॥
मध्येमार्गं खगेन्द्रेण विरथेन कृताजिना ।
तत्प्राणहारिणाशोकवनिकास्थापितप्रिय ॥ २६॥
निवृत्तारण्यतस्सीताऽदर्शनात्तप्तमानस ।
अरण्येषु महीध्रेषु सरित्सु सरसीषु च ॥ २७॥
महिलाविचितोन्मत्तदशापन्न स्मरार्तिमन् ।
कृतसंस्कारगृध्रेश ब्रह्ममेधविधानतः ॥ २८॥
तन्मोक्षदायिन् सत्येन जितलोकप्रदानतः ।
शुश्रूषया च धनुषा जितदीनार्यशत्रुक ॥ २९॥
हतयोजनबाह्वाख्योदरतूरकबन्धक (? ) ।
(ततः प्रस्थाय) शबरीं प्राप्त सम्पूजितैतया ॥ ३०॥
॥ किष्किन्धाकाण्डः ॥
पम्पातीरे हनुमता सङ्गताथाग्रजन्मना ।
वालिना सूनुना भानोर्निरस्तेन समन्त्रिणा ॥ ३१॥
ऋश्यमूकाद्रिशिखरे कृतसख्याग्निसाक्षिकम् ।
सालभञ्जनसञ्जातप्रत्ययेन तदुक्तितः ॥ ३२॥
हतवालिन् पुनस्तस्मै दत्तवानरराजत ।
सहतारारुमं वर्षाकाले माल्यवदाह्वये ॥ ३३॥
गिरौ सीताविरहजं प्राप्त दुःखमगोचरम् ।
वाचां, कनीयसाश्वस्त कुपिते मत्तचेतसि ॥ ३४॥
ग्राम्यभोगरते भानुतनये स्वानुजे पुरीम् ।
किष्किन्धां याति तद्द्वारे विहितज्यारवे सति ॥ ३५॥
भीतेन हनुमद्वाक्यात् सुमित्रात्मजसान्त्वने ।
तारां प्रेषयता तेन कपीन् सङ्गृह्णताखिलान् ॥ ३६॥
अरण्यपर्वतनदीवासानतिबलोत्कटान् ।
दिक्षु प्रेषयता सर्वास्वशेषान् वदताद्भुतान् ॥ ३७॥
तेभ्यो देशान् समन्विष्टवैदेहतनयात्मजे ।
वायोरर्पितकार्यत्वाद्दत्ताङ्गुलिविभूषण ॥ ३८॥
ताराङ्गदादियुक्तेन तत्र तत्र विचिन्वता ।
सीतां कालात्ययात्तीक्ष्णदण्डत्वाद्वानरप्रभोः ॥ ३९॥
भीतेनाश्वस्तमनसा सम्पातेर्वचसा पुनः ।
स्वभ्रातृवधदुःखस्य तस्मै दत्तजलाञ्जलेः ॥ ४०॥
अशोकवनिकावाससीतादर्शिस्वचक्षुषः ।
रामसाहाय्यकरणसमुत्थितगरुत्मतः ॥ ४१॥
॥ सुन्दरकाण्डः ॥
महेन्द्रशैलारूढेन तूर्णं तीर्णपयोधिना ।
अनाश्वस्तेन तन्मध्ये सिंहिकाद्यनिरोधिना ॥ ४२॥
प्रविष्टेन पुरीं लङ्कां रात्रौ तद्देवता जिता ।
शीधुपानमदाविष्टनिद्राणस्य वधूस्ततः ॥ ४३॥
दशास्यस्यालोकयता निराशेनापि दर्शने ।
वैदेह्याः शिंशपामूले वसन्त्यास्तत्तरोः पुनः ॥ ४४॥
दलावृतेन कथिताशेषराघववृत्ततः ।
प्रत्ययार्थं सशङ्कायः सीताया भूरुहात्ततः ॥ ४५॥
अवतीर्णेन दत्तस्वकरभूषेण सीतया ।
आलोकितेन शस्तेन कृतसम्भाषणेन च ॥ ४६॥
उक्तकाकादिवृत्तेन दत्तचूडाविभूषतः ।
उक्तस्वदैन्यवाक्येन स्वमुद्दिश्य तु जीवनम् ॥ ४७॥
अनुज्ञातेन रचिताशोककाननभङ्गतः ।
प्रासादभेदिना रम्यतोरणं समुपेयुषा ॥ ४८॥
दासोऽहं कोसलेन्द्रस्येत्यादि श्रावयता वचः ।
किङ्करान् पञ्च सेनेशान् सप्त मन्त्रिसुतानपि ॥ ४९॥
जम्बुमालिनमक्षं च युद्धे हतवता बलात् ।
वलारिजिद्विसृष्टेन ब्राह्मणास्त्रेण बन्धनात् ॥ ५०॥
रज्ज्वन्तराणां संसर्गाद्विमुक्तेनाञ्जसा पुनः ।
तज्ज्ञात्वापि कृतां पीडां सहमानेन राक्षसैः ॥ ५१॥
प्रविष्टेन दशग्रीवसभां यातुभिरावृताम् ।
कथितस्वकपीशानसख्यमुख्यप्रवृत्तिना ॥ ५२॥
कुपितेनारिणा हिंसां कर्तुमुद्युञ्जता पुनः ।
विभीषणवचोभङ्गीविनिवर्तितचेतसा ॥ ५३॥
दहतास्य प्रियं वालमित्यादिष्टवता भटान् ।
दग्धवालेन वालाग्निदग्धारिपुरवेश्मना ॥ ५४॥
वैदेहीकरुणावाक्यशीतलाङ्गूलवह्निना ।
प्रस्थितेन पुनः शैलं त्रिकूटमधितिष्ठता ॥ ५५॥
तीर्णवारिधिना सर्वैर्नन्दितेनाङ्गदादिभिः ।
तेभ्यः प्रोक्तस्ववृत्तेन पानेऽनुमतिदायिना ॥ ५६॥
मधुनो वारितवता तद्वनावनवानरान् ।
दधिवक्त्रमुखानात्मसन्निधानमुपेयुषा ॥ ५७॥
विज्ञापितात्ममहिलादृष्टिवाक्य हनूमता ।
प्रशंसित परिष्वक्तमारुतात्मज ते नमः ॥ ५८॥
॥ युद्धकाण्डः ॥
श्रुत्वा हनुमतो वाक्यं हरिवीरैर्वृताध्वनि ।
सुग्रीवप्रमुखैस्तीरं प्राप्त सिन्धुमहीपतेः ॥ ५९॥
तत्रागताय सन्त्यज्य पूर्वजं कालचोदितम् ।
(सत्य)वाक्यमशृण्वन्तं मैथिलीदानगोचरम् ॥ ६०॥
स्वनिन्दनपरित्यक्तपुत्रदाराय धीमते ।
आत्मानं सर्वलोकानां शरण्यं भजते गतिम् ॥ ६१॥
सुग्रीवादीन् पुरस्कृत्य स्वाकिञ्चन्यपुरस्सरम् ।
विभीषणाय सर्वेभ्यो भूतेभ्योऽभयदायक ॥ ६२॥
इममाशङ्कमानानां सुग्रीवादिवनौकसाम् ।
परिहारकर स्वीयसामर्थ्यस्य प्रदर्शनात् ॥ ६३॥
भूयस्तदनुमत्या तमङ्गीकृत्याभिषेचनम् ।
कृतवांस्तस्य तद्वाक्यात् समुद्रं शरणागत ॥ ६४॥
दर्भानास्तीर्य तत्तीरे प्राङ्मुखाञ्जलिबन्धन ।
उपाधाय भुज स्वीयं शयान प्रतिवारिधिम् ॥ ६५॥
तस्मिन्नदत्तवदने सन्त्यक्तक्षम कोपन ।
चापसंहितहैरण्यगर्भास्त्रास्मिन् समागते ॥ ६६॥
निष्कोपोत्तरपाथोधितीरस्थासुरमर्दन ।
तेन तद्वाक्यतो बद्धनलसेतो तदम्भसि ॥ ६७॥
तीर्णवारिनिधे शाखामृगसङ्गैः सहाचिरात् ।
तस्य दक्षिणतीरे तु प्राप्तलङ्कापुरान्तिक ॥ ६८॥
अध्वयानपरिश्रान्त त्रातवानरसैन्यक ।
सुवेलशैलशृङ्गस्थ सुग्रीवप्रमुखैः सह ॥ ६९॥
दृष्टत्रिकूटमूर्धस्थलङ्कापुर समन्ततः ।
तदीशमकुटीभङ्गकृता वानरभूभृता ॥ ७०॥
पुनः सङ्गत तत्स्तोत्रपर तत्साहसाक्षम ।
निरुद्धलङ्कानगर काननालयपुङ्गवैः ॥ ७१॥
शक्रजित्प्रेरितैर्नागपाशैर्बद्धाङ्ग पक्षिणाम् ।
नाथेन मुक्तगात्रास्माद्बन्धनादपि कर्कशात् ॥ ७२॥
हतधूम्राक्ष पुत्रेण मरुतो वालिसूनुना ।
वज्रदंष्ट्रासुहननकर मारुतसूनुना ॥ ७३॥
हताकम्पन नीलेन हत(कपि) सेन महीभृता ।
हतरावणसैन्येशप्रहस्ताह्वयराक्षस ॥ ७४॥
प्रथमायोधने पङ्क्तिमुखप्रेरितशक्तितः ।
विद्धलक्ष्मण तेनानुद्धृतावरज शत्रुणा ॥ ७५॥
वायुसूनोस्तु सौहार्दाद्भक्त्या परमयापि च ।
उद्धृतौ ॥। ॥। कनिष्ठाश्रितवत्सल (? ) ॥ ७६॥
समितावधिरूढांससदागतिसुतोत्तम ।
पराजितस्वबाणार्तिमुक्तचापदशानन ॥ ७७॥
गत्वा विश्रम्यतां लङ्कामित्यनुज्ञाप्रदेशितुः ।
रक्षसां स्वाशुगस्मृत्या व्यथितारातिमानस ॥ ७८॥
तद्भयेनातिनिद्रस्योत्थापितस्यातियत्नतः ।
गिरिमात्रशरीरस्य कुम्भकर्णस्य युध्यतः ॥ ७९॥
कपिराजनखाल्लूनकर्णनासस्य नर्दतः ।
वधकारिन् वालिसूनुहस्ताहतनरान्तक ॥ ८०॥
हनुमत्संहृतस्वर्गनिलयान्तक तेन च ।
हतत्रिशीर्षातिकायप्राणासंहारिलक्ष्मण ॥ ८१॥
रावणीरितविध्यस्त्रविवशाङ्गानुजादिभिः ।
सार्धं वायुसुतानीतदिव्यौषधविशेषतः ॥ ८२॥
विमुक्तपीड सुग्रीवहतकुम्भ हनूमता ।
निकुम्भप्राणहरण मकराक्षहर स्वयम् ॥ ८३॥
निकुम्भिलायां शक्रारिकृतहोमविघाततः ।
विभीषणवचोजातात् कुपितेनेन्द्रवैरिणा ॥ ८४॥
सार्धं कृताजिना नानादिव्यास्त्रज्ञेन धीमता ।
धर्मात्मेत्यादिपद्येन प्रतिज्ञां कुर्वता ततः ॥ ८५॥
सौमित्रिणा स्वानुजेन हतप्राणेन्द्रशात्रव ।
मिषत्सु वानरेन्द्रेषु नानामूर्तिधर स्वयम् ॥ ८६॥
हतमूलबलाढ्येन शौर्यवीर्यादिसम्पदा ।
नानास्त्रविदुषा देवसङ्घगर्वापकर्षिणा ॥ ८७॥
कृताजे पङ्क्तिवक्त्रेण स्यन्दनं जम्भभेदिनः ।
आरुह्य सूतेनानीतं दिव्यं मातलिनास्त्रतः ॥ ८८॥
अनेकधा विलूनारिदशशीर्ष स्वयम्भुवः ।
अस्त्रेण संहृताराते पूर्वजस्योत्तरक्रियाम् ॥ ८९॥
कृतचित्तसमाधान न चिकीर्षोर्जुगुप्सया ।
विभीषणस्य तेनैव विहितारातिसंस्कृते ॥ ९०॥
प्रलापवाक्यैस्तत्स्त्रीणां निजपारम्य(सूचकैः) ।
ज्ञापितोत्कर्ष सीतायां श्रुत्वा विजयमाहवे ॥ ९१॥
निजं हनूमद्वाक्येन सन्तुष्टौ राक्षसीगणम् ।
अपराधिनमप्यस्माद्रक्षन्त्यां दयया ततः ॥ ९२॥
विभूषितायां भूषाभिः स्नातायां निजमन्तिकम् ।
विभीषणेनानीतायामशोकगहनादरेः ॥ ९३॥
निजचारित्रसन्देहात् प्रविशन्त्यां हुताशनम् ।
समागतैर्ब्रह्ममुख्यैर्दैवतैर्विहितस्तुते ॥ ९४॥
तातं निजं पुरस्कृत्य दत्तसीत कृशानुना ।
शक्रादिवरलाभेन समुत्थापितवानर ॥ ९५॥
कृताभिषेक लङ्कायां रावणावरजस्य तु ।
यक्षनाथविमानेन पुष्पकेणाशुगामिना ॥ ९६॥
प्रतिप्रयात वैदेह्यै प्रोक्तस्वचरिताध्वनि ।
सुग्रीवप्रमुखैःस्सार्धं सहदारैः प्लवङ्गमैः ॥ ९७॥
भरद्वाजाश्रमं प्राप्त वर्षे पूर्ण चतुर्दशे ।
आर्ताय भरतायाथ प्रेरितानिलसम्भव ॥ १८॥
अभियातामुना सार्धं वसिष्टाद्यैः समन्त्रिभिः ।
नन्दिग्रामगत त्यक्तजट स्नात विभूषणैः ॥ ९९॥
भूषिताङ्गाभ्यनुज्ञातयान यक्षमहीभृते ।
स्यन्दनारूढ संप्राप्तसाकेतनगर जनैः ॥ १००॥
पौरैरस्माद्गत प्राप्त निजतातगृहोत्तमम् ।
वसिष्ठाद्यैः ससचिवैरभिषिक्त पितुः पदे ॥ १०१॥
विभीषणाय दत्तस्वकुलनाथात्मभक्तये ।
विसृष्ट भानुतनयमुखवानरसञ्चय ॥ १०२॥
॥ उत्तरकाण्डः ॥
वत्सरान् दशसाहस्त्रान् दशवर्षशतान्वितान् ।
नीतिशास्त्रप्रकारेण पालितावनिमण्डल ॥ १०३॥
कृताश्वमेध रचितवाजपेय पुनः पुनः ।
तथा बहुसुवर्णादिक्रत्वनुष्ठानतत्पर ॥ १०४॥
सामन्तराजमकुटीखचितैर्मणिमण्डलैः ।
नीराजितपदाम्भोजद्वन्द्व भूजनरञ्जन ॥ १०५॥
हृष्टैर्दशास्यनिधनादभिनन्दित योगिभिः ।
कुम्भोद्भवमुखैः प्रोक्तरावणादिकथागणैः ॥ १०६॥
अन्तर्वत्न्यां तु सीतायां वनवासरतौ पुनः ।
तद्व्याजाज्जनवार्तार्तचेतो वाल्मीकिसद्मनि ॥ १०७॥
लक्ष्मणस्थापितात्मीयदार तस्यामथाश्रमे ।
मुनेर्यमौ प्रसूतायां नाम्ना कुशलवौ सुतौ ॥ १०८॥
तयोर्वृद्धिमतोस्तेन मुनीन्द्रेणोपनीतयोः ।
अधीतसाङ्गसशिरोवेदयोर्मुनिना कृतम् ॥ १०९॥
तेन रामायणं वाचो विधेयं कुर्वतोः सतोः ।
क्रियमाणे वाजिमेधे जानानां पुरवासिनाम् ॥ ११०॥
तथा जानपदानां च राज्ञां संसदि योगिनाम् ।
ताभ्यां विज्ञापितस्वीयप्रबन्ध भ्रातृभिः सह ॥ १११॥
श्रवणादस्य सन्तुष्टमानसाम्बुज ? ? ।
चरेभ्योऽप्यचरेभ्योऽपि दूर्वादिभ्यस्त्वहेतुकम् ॥ ११२॥
साकेतदेशवासिभ्यो दत्तमोक्ष दयानिधे ।
विजयीभव नित्यं त्वमयोध्याधिपनन्दन ॥ ११३॥
मङ्गलं राघवायास्तु मङ्गलं लक्ष्मणाय च ।
मङ्गलं भरतायास्तु शत्रुघ्नायापि मङ्गलम् ॥ ११४॥
सीतायै मङ्गलं भूयात्तनयाय सदागतेः ।
तत्सेवनपरायास्तु तद्भक्तिस्नेहराशये ॥ ११५॥
पुराय भूयात् साकेतनाम्ने दिव्यर्धिमीयुषे ।
अस्तूत्तराय देशाय कोसलायापि मङ्गलम् ॥ ११६॥
सम्बोधनमिदं स्तोत्रं सूनुना वादिभीकृतः ।
वेङ्कटेशेन रामस्य रचितं जयतात् सदा ॥ ११७॥
इति श्रीरामसम्बोधनस्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan