श्रीरामसौन्दर्यलहरी

श्रीरामसौन्दर्यलहरी

यद्दीनेषु धरासुतारमण ते नेत्रद्वयं जात्वपि प्रान्तेक्षाकनिताखिलार्त्यपगमद्‍ध्यानाद्यकुर्वत्स्वपि । नित्यं प्रेमदयोर्जितं निविशते तत्सन्ततं भक्तितः त्वत्सेवैकहृदः कथं न विषयीकुर्यात्तथा नः कृशान् ॥ १॥ मुग्धं राम तवाननं सहृदयं लोकस्य सम्पश्यतो नेत्रं विस्तृतपक्ष्मविभ्रममितो नापैति लक्ष्म्या यया । शीतांशुं विमलं न सा बहुशरद्राकोद्भवास्वेकदा श्रीष्वप्यार्य गतासु तादृशि मनाग्लक्ष्येत भिन्ने किमु ॥ २॥ चन्द्रं तवाननसमं द्रुहिणो विधातु- मेकैकया प्रतिदिनं कलया युनक्ति । पर्वण्यवेक्ष्य स तयोर्विषमत्वमुच्चै- रादर्शमाक्षिपति ता हि तथाधुनापि ॥ ३॥ रामाह्नि ते सदृशतां कमलानि दृग्भ्यां गन्तुं जलेषु वरदं समुपासतेऽर्कम् । तत्कान्तिलेशमनवाप्य ततोऽपि रात्र्यां शुष्यन्ति मीलनमिषादतिदुःखितानि ॥ ४॥ रम्यं दृशौ जगति राघव ते सिसृक्षु- र्धाताब्जकोटिमसृजत्करपाटवाय । सृष्ट्वाथ ते स तु तयोरनुरूपमेकं लब्धुं पुनः सृजति पद्मकुलं न लेभे ॥ ५॥ स्निग्धानि राम नव सान्द्रतराणि भान्ति पक्ष्माणि नीलनिबिडानि दरोन्नतानि । प्रायेण लग्ननयनाम्बुरुहप्रवेक- नीलान्यनुक्षणनिमेषकुलैरिव स्वैः ॥ ६॥ नीलोत्पलादहनि पद्मकुलाद्रजन्यां लक्ष्मीरपैति कुत इत्यवधार्य वेधाः । त्वन्नेत्रयोर्विरचितामनपायिनीं तां कर्तुं चकार नृप पक्ष्ममिषेण वप्राम् ॥ ७॥ आप्रान्तमायतनते रघुवंशचन्द्र देव भ्रुवौ नयनयोर्जितमार भातः । सञ्जातरक्तनलिनज्वलदग्रभागे वल्ल्याविवाद्भुततरे जगतीह केऽपि ॥ ८॥ मुग्धाङ्गनाजयसिसाधयिषोदयेन स्वप्रार्थितेन मदनः कमलासनेन । तं संहितं सुमुख माद्यति नेत्रकोणं त्वद्भूधनुष्युपरिपक्ष्मगुणेऽधिगत्य ॥ ९॥ दीर्घं विशालमलमुत्तरकोसलेन्द्र मध्ये विशेषकविशोभ्यलिकं तवाच्छम् । त्वद्वर्ष्मनिष्कुटतटेषु सदा चरन्त्या विश्रान्तिपीठमिव राजति रूपलक्ष्म्याः ॥ १०॥ रेखात्रयेण तव राम लसल्ललाटं तिर्यग्विभाति ननु सूक्ष्मतरेण मध्ये । सम्भावितर्धवदनोज्ज्वलताप्रवाह- वेगाहितानभिहतायतसत्रिनिम्नम् ॥ ११॥ तीक्ष्णोन्नताग्रमहिमांशुकुलावतंस घ्राणं मनाक् तव विजृम्भितचम्पकश्रि । सौन्दर्यनिर्झरचरद्वनिताक्षिमत्स्या नादातुमत्र बडिशं निहितं नु भाति ॥ १२॥ काकुत्स्थ ते सुमनसां चयमब्जयोनि- र्नासां ततान तिलपुष्षसमां गृहीत्वा । तन्निर्गतस्य पवनस्य यतः स गन्धो यः स्यात्तरामुपवने चरतो वसन्ते ॥ १३॥ ओष्ठोपरि स्फुरदनङ्गसमाङ्ग निम्नम् गाढं तवोल्लसति दाडिमबीजदघ्नम् । त्वामेव चेतसि शुचिं सततं दधत्याः स्वप्नोपभोगदशनक्षतमङ्गनायाः ॥ १४॥ निर्माय ते मृदुतयोत्पलभास्वरोष्ठं भूयः परीक्षितुमिमं चतुराननेन । तस्मिन्नसान्द्रनिहिताग्रकनिष्ठिकाया विद्योतते पदमिवोष्ठतलोर्ध्वनिम्नम् ॥ १५॥ लक्ष्येत राम तव चेदधरः कवीन्द्रैः कथ्येत विद्रुमगणेषु कथं तथा श्रीः । ज्ञायेत चेत्स मधुरोऽतिशयः सुधायां स्पृश्येत चेदभिनवे मृदुता शिरीषे ॥ १६॥ बिम्बैः फलैर्जगति यत्कविनाधराणां रामोपमामधरबिम्बपदं प्रयुक्तम् । तत्तेऽधरस्य गुणवाचि कथं न वा स्या- दत्यन्ततुच्छमिति बिम्बफलं किलातः ॥ १७॥ मुक्ताफलानि भुवि यान्यतिसुन्दराणि तान्येव चेदवनिचन्द्र नरो दिदृक्षुः । स्वच्छं समुज्ज्वल्लमिदं निशताग्रशालि पश्येत्समं स मसृणं तव द्न्तजालम् ॥ १८॥ ऊर्ध्वं स्थितेषु भरताग्रज तेऽप्यधस्तात् सत्स्वम्बुजाक्षतनयः सममानसिद्‍ध्यै । चक्रे ध्रुवं तनुशलाकिकयान्तरन्त- र्लेखाः कृशा विरलसन्धिमिषादनेकाः ॥ १९॥ सौमित्रिपूर्वज तवानिशमास्यभाजः शुद्धात्वषः सुमुख वागधिदेवतायाः तेजो बहिः प्रसरदेव शरद्धवाच्छ ज्योत्स्नाविशोभि तनुहास इतीर्यतेऽन्यैः ॥ २०॥ मन्दस्मितं दशरथात्मज ते यदच्छं त्वद्वक्त्रपूर्णशशिजा ननु चन्द्रिका सा । आलोकतः सरसतां यदमुष्य चन्द्र- कान्ताननं भजति हि प्रमदाजनस्य ॥ २१॥ सङ्क्षिप्तशब्दमपि दुर्ग्रहमर्थजालैः यद्रोचते विबुध ते वचनं पशुभ्यः । तन्मन्दहासशरदुद्भवचन्द्रिकोष्ठ पीय्यूषसङ्गजमहो मधुरत्वमस्य ॥ २२॥ आदीयते स्म सुत कोसलराजपुत्र्याः वाग्भ्योऽनु ते किसलयैर्मृदुता नवीनैः । आहोस्विदत्र किमु सुस्मित वैपरीत्यं वाक्तां तवापुरुत तानि नु यन्न भेदः ॥ २३॥ सम्पश्यतां गुणागणाम्बुनिधे खनीं नः वृत्तां स्थितां भवति ते चुबुकादधोऽत्र । धात्रोन्नमय्य मुखमेतदवेक्षितुं ते दत्तादिमाङ्गुलितलाग्रखनीति शङ्का ॥ २४॥ आदर्शसाम्यमनुचिन्त्य निषेधयामो गण्डद्वयस्य तव राम कवीन्द्रबद्धम् । अस्मिन्यथाऽभिमुखसंस्थितमच्छमेव- मन्यत्र न प्रतिफलत्युपमानमात्मा ॥ २५॥ मन्दस्मितस्य विशदैस्तव तैर्महोभी रामाभितो विततमच्छकपोलयुग्मम् । सान्द्रं सरोरुहभुवा परितो विलिप्तं शुद्धामृतस्य कणिकाभिरिवाद्य भाति ॥ २६॥ ऊर्ध्वस्फुरन्मकरकुण्डलभाविलिप्त- रन्ध्रश्रुतिद्वययुजी तव राम नेत्रे । सौन्दर्यनिर्झरमहृदयुग्मतोऽलं तीरे झषाविव ततः पतितौ चलन्तौ ॥ २७॥ श्रीराम कामसम वृत्ततया त्वदीयं कर्णद्वयं प्रतिनिधीकृतशष्कुलीकम् । दोर्मूलदेशयुगले विनिहीर्षयाऽऽभा- मुत्तभ्य कुण्डलयुगस्य शनैरुपैति ॥ २८॥ अन्तर्जनस्य तव योऽस्ति गुणाढ्य रागः स्थातुं शशाक न मुहुः स समेधृमानः । शिष्टस्ततः श्रवणरन्ध्रयुगादुपास्ते निर्गत्य तत्कनककुण्डलयुग्मरूपात् ॥ २९॥ अङ्गस्य यस्य भुवि या कमनीयभूषा सा निर्मलापि यदि तच्छ्रियमातनोति । गण्डप्रभाव्यतिकरादिव कर्णभूषे काष्ठामुपेत्य तु विभूषयतस्तवास्यम् ॥ ३०॥ श्रीराम ते सदय लोचनयोरुपान्ते रागो विनिर्जितनवाङ्कुरकान्तिदर्पः । मन्ये तमद्य मनुजेषु निजानुरागं दृग्भ्यां स्वतः प्रकटितं प्रचुरञ्जनाय ॥ ३१॥ आताम्रकृष्णसितनेत्रयुगात्स्रवन्त्यो भासो विभान्ति बहुवर्णमनोज्ञरूपाः । पृज्याग्रतस्तव मुदे गगनान्तराले सिद्धेन राम रचिता इव चित्रलेखाः ॥ ३२॥ भूतेषु जन्मसु न यैर्बहु चेदकारि पुण्यं न तेषु पुरुषोत्तम तं कटाक्षः । इष्टार्थदः स तु सुधारसपूरतुल्य- स्तापं हरन्परम मां विषयीकरोति ॥ ३३॥ पश्चात्कृतस्य पशुना बुध चामरस्य मूर्ध्नि त्वयाऽद्य विधृतस्य सुकेशराशेः । नेहेऽस्मि साम्यमनुवर्णयितुं सुगन्नु यानञ्जनस्य विमतेरपहास्यतायाः ॥ ३४॥ दृग्भ्यां सरोरुहरुचिक्षतिकृत्सुधाव- द्बिम्बाधरेण हसितेन सचन्द्रिकं च । पद्मेक्षणाननसुधाकरमण्डलं ते नः पश्यतां शशिसमीक्षणतो विरक्तिः ॥ ३५॥ आस्यं त्रिलोकमपि दाशरथे स्फुटाक्षं विस्मेरमावहत उज्वलतागुणस्य । विश्रामभूरुहमनाप्य न पापकृत्कः जङ्घालमेणधरदर्पभिदाकृतीदम् ॥ ३६॥ उन्निद्रमर्धमहिमांशुमहोभिरर्ध- निद्रायितं च कमलं विधुनैकदा चेत् । तेनातिसुन्दर तवैव समीक्रियेत ग्रीवा तु सुन्दरतया रहितो हि कम्बुः ॥ ३७॥ आश्लेषसक्तहृदयेन यदा यदा ते कण्ठो व्यलोकि सुयशो वनिताजनेन । रागस्तदीयमनसोऽत्र तदा तदालं सक्तस्ततोऽस्ति नु भवानतिरक्तकण्ठः ॥ ३८॥ सत्वेन राम मिलितेन सहातिरिक्तै- स्तैरामणीयकरसैः स्वकरोपपीडम् । ते पिण्डितेन रचितस्य गलस्य तिर्य- गाकुञ्चनात्त्रिवलि विश्वसृजोदगात्किम् ॥ ३९॥ लोकत्रयस्य विजये मदनेन साक्षा- द्यः पूर्यते मुस्वमरुद्भिरनन्यसाध्ये । शङ्खः स एव तव कण्ठमिषेण राम हारैरनर्घतरलैरमलैर्विभाति ॥ ४०॥ स्कन्धौ तवामरनिभाच्छसुवर्णकर्ण भूषाप्रभारसझरस्य कपोलयुग्मम् । आक्रम्य सम्प्रवहतः पूनरप्यधस्तात् व्यूढत्वमापतुरिवाधरणाय कामम् ॥ ४१॥ सृष्ट्वा विधिस्तव शरण्य विशालमंसं मेने पुनर्बहुविशालतया विहीनम् । जत्र्वङ्गमस्य समवायि चकार सोऽत- स्तस्मान्न सम्प्रति विभो वयि दृश्यते तत् ॥ ४२॥ सङ्ख्यावतां जगति राम भुजोत्तमाङ्ग- मंसं वदन्ति निकराः प्रथितोरुकीर्त्या । तेनाहमेव भुजतश्च किलोत्तमाङ्ग- मित्युन्नतिं किमभजन्नु तवांसयुग्मम् ॥ ४३॥ शुद्धा प्रभा बहुगुणैरमलं स्वहार- माच्छाद्य राम निबिडोपरिसंसरन्ती । अत्युन्नतादिव तवांसगिरेर्गलन्ती सौन्दर्यहृद्यरसजा लहरी विभाति ॥ ४४॥ यत्ते नरेन्द्र सकलाननिवारिताभ्यो बाहू जनानुपनतानवतो विपद्भ्यः । गम्भीरसत्त्वगुणयुक्ततया ततोऽमूं सद्वृत्ततां नु किमवापतुरेव तौ द्वौ ॥ ४५॥ सङ्ग्राममूर्ध्नि रिपुषु स्वबलेन साकं प्राणान्विहाय पतितेष्वथवा द्रुतेषु । आवेशतस्तव भुजौ विरतिं भजेते दार्ढ्यं यतः सरलता न तयोः शिलायाः ॥ ४६॥ यावत्प्रभो न भुजयोस्तव सत्त्वमन्तः प्राप्नोति मानमधुनास्ति तदैव तावत् । तस्माद्ध्रुवं दृढतया दरमप्यभिन्नौ नुन्नौ न तेन शिथिलत्वमिमौ लभन्ते ॥ ४७॥ मध्येऽभिराम तव शैशवसम्प्रयुक्तं पीनत्वमद्य परिगृह्य च यौवनेन । बाहोर्न्यधायि ननु तद्यदनुप्रवेशे पीने तनुत्वमतनुत्वमपीनयोश्च ॥ ४८॥ सृष्ट्वा मिथस्तव भुजौ सदृशौ विधाता भूयः परीक्षितुमनुत्तम तत्समत्वम् । आकर्षति स्म दृढमेव ततोऽतिदैर्घ्य- माजानु राम समजन्यनयोस्तु नूनम् ॥ ४९॥ पारावारपयोविशोषणचणैबाणैर्निहत्याशरान् क्लिष्टान्साधुजनान्ररक्ष कृपया धर्मञ्चयोऽस्थापयत् । सोऽयं श्रीजनकात्मजासहचरो निश्श्रेयसाधीश्वरः क्षेमस्थैर्यजयानभीप्सितमथो भद्रञ्च दद्यात्सताम् ॥ इति श्रीरामसौन्दर्यलहरी समाप्ता । ॥ शुभमस्तु ॥ Incomplete composition by sArvabhauma Encoded and proofread bu Sunder Hattangadi
% Text title            : Rama Saundarya Lahari
% File name             : rAmasaundaryalaharI.itx
% itxtitle              : rAmasaundaryalaharI
% engtitle              : Rama Saundarya Lahari
% Category              : raama, laharI
% Location              : doc_raama
% Sublocation           : raama
% Author                : Sarvabhauma.  Sanskrit commentary (in the scan) is by Chenna Bhatta in 14th century
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Commentary and Tamil translation)
% Latest update         : July 4, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org