श्रीहनुमत्कृता श्रीरामस्तुतिः
नमो रामाय हरये विष्णवे प्रभविष्णवे ।
आदिदेवाय देवाय पुराणाय गदाभृते ॥ १॥
विष्टरे पुष्पके नित्यं निविष्टाय महात्मने ।
प्रहृष्ट वानरानीक जुष्ट पादाम्बुजायते ॥ २॥
निष्पिष्ट राक्षसेन्द्राय जगदिष्ट विधायिने ।
नमः सहस्र शिरसे सहस्र चरणाय च ॥ ३॥
सहस्राक्षाय शुद्धाय राघवाय च विष्णवे ।
भक्तार्ति हारिणे तुभ्यं सीतायाः पतये नमः ॥ ४॥
हरये नारसिंहाय दैत्यराज विदारिणे ।
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृत वसुन्धरे ॥ ५॥
त्रिविक्रमाय भवते बलि यज्ञ विभेदिने ।
नमो वामन रूपाय नमो मन्दर धारिणे ॥ ६॥
नमस्ते मत्स्य रूपाय त्रयी पालन कारिणे ।
नमः परशुरामाय क्षत्रियान्त कराय ते ॥ ७॥
नमस्ते राक्षसघ्नाय नमो राघव रूपिणे ।
महादेव महाभीम महाकोदण्ड भेदिने ॥ ८॥
क्षत्रियान्तकरक्रूर भार्गव त्रास कारिणे ।
नमोऽस्त्व हिल्यासन्ताप हारिणे चाप हारिणे ॥ ९॥
नागायुत वलोपेत ताटका देह हारिणे ।
शिला कठिन विस्तार वालिवक्षो विभेदिने ॥ १०॥
नमो माया मृगध्वंस कारिणेऽज्ञान हारिणे ।
दशस्यन्दन दुःखाब्धि शोषणागस्त्य रूपिणे ॥ ११॥
अनेकोर्मि समाधूत समुद्रमद हारिणे ।
मैथिली मानसाम्भोज भानवे लोक साक्षिणे ॥ १२॥
राजेन्द्राय नमस्तुभ्यं जानकी पतये हरे ।
तारक ब्रह्मणे तुभ्यं नमो राजीव लोचन ॥ १३॥
रामाय राम चन्द्राय वरेण्याय सुखात्मने ।
विश्वामित्र प्रियायेदं नमः खर विदारिणे ॥ १४॥
प्रसीद देव देवेश भक्तानामभयप्रद ।
रक्ष मां करुणा सिन्धो रामचन्द्र नमोस्तुते ॥ १५॥
रक्ष मां वेद वचसामप्यगोचर राघव ।
पाहिमां कृपया राम शरणं त्वामुपैम्यहम् ॥ १६॥
रघुवीर महामोहमपाकुरु ममाधुना ।
स्नाने चाचमने भुक्तौ जाग्रत्स्वप्न सुषुप्तिषु ॥ १७॥
सर्वावस्थासु सर्वत्र पाहिमां रघुनन्दन ।
महिमानं तवस्तोतुं कः समर्थो जगत्त्रये ॥ १८॥
त्वमेव त्वन्महत्त्वं वै जानासि रघुनन्दन ।
अतस्ते शरणं यामि सर्वभावेन सर्वदा ॥ १९॥
इति स्कन्दपुराणान्तर्गता श्रीहनुमत्कृता श्रीरामस्तुतिः समाप्ता ।
Encoded and proofread by Prabhav Tengse