श्रीरघुनाथशतकम्
॥ श्रीः ॥
॥ नमो राघवाय ॥
अथ महाकविमहामहोपाध्यायश्रीचित्रकूटतुलसीपीठाधीश्वर-
जगद्गुरुरामानन्दाचार्यस्वामिरामभद्राचार्यप्रणीतं
श्रीरघुनाथशतकं प्रारभ्यते ।
॥ शार्दूलविक्रीडितम् ॥
श्रीसीताननचारुचन्द्रचटुलोऽचञ्चच्चकोरप्रभो
सीतानेत्रचकोरपार्वणविधो विश्वेन्द्र विश्वग्विभो ।
सीतासत्प्रियया सहैव विलसत्कोट्यश्वमेधिन्हरे
सीताश्री रघुनाथ राम रमसे श्रीचित्रकूटेऽवधे ॥ १॥
आनन्दात्मतनुं विकाररहितां ब्रह्मस्वरूपां शुभां
सच्चित्सौख्यमयीमपास्तसमलां गुण्यां सुपुण्यां सदा ।
द्यन्तीमुत्पलशक्ररत्नवनमुक्तापिच्छदूर्वामदं
मूर्तिं श्रीरघुनाथ राजसि वहन्सन्मानसेष्वन्वहम् ॥ २॥
नीलेन्दीवरकान्तया कमनया लावण्यलक्ष्मीपुषा
सीतालोचनभृङ्गजुष्टसुषमामाध्व्या सदा सौम्यया ।
दीव्यद्देवतयेव लब्धपदया श्रीसन्मनोमन्दिरे
मूर्त्या श्रीरघुनाथ मूर्छयसि वै कोटीर्मनोजन्मनाम् ॥ ३॥
कौसल्यासुकृताब्धिसोमसुषमां माधुर्यमन्दाकिनीं
माहेयीसुमनोमहोमहमहीं सौन्दर्यसारच्छविम् ।
रम्यां लोचनपुत्तलीं दशरथस्याजेर्मनोदेवतां
मूर्तिं स्वां रघुनाथ मद्दृगतिथिं कारुण्यतस्तां कृणु ॥ ४॥
यामिन्दीवरसौभगां भगवतीं नेत्रैस्त्रिभिर्धूर्जटि
र्दीपितभक्तिभिर्वितनुते नीराजयन्मङ्गलम् ।
श्यामा पारमहंससिद्धिगरिमा कारुण्यकादम्बिनी
सा मूर्ती रघुनाथ मूर्छयतु मे कामादिकांस्तावकी ॥ ५॥
शाश्वद्धर्मसुविग्रहा पदजुषां सङ्कल्पितानुग्रहा
वेधोविश्वविलक्षणा गुणचणा वात्सल्यवार्धिः शुचिः ।
सीतानेत्रयुगप्रपा कृतकृपा पापापहा पापिनां
देयात्कं रघुनाथ नाथितमला मूर्तिस्तव श्यामला ॥ ६॥
ब्रह्मानन्दघना प्रसन्नवदना सम्पुष्टनिष्किञ्चना
भक्तिश्रीसदना कृपामृतधना संस्वर्धुनी धन्विनी ।
तूणीरेषुधनुर्धरा करकरा वात्सल्यधाराधरा
मूर्तिस्ते रघुनाथ मङ्गलमयी जूर्तिं बलाद्धन्तु मे ॥ ७॥
भास्वन्मूर्ध्नि हिरण्यहेमगुजयप्रख्यं सुमौलिं वहन्
धत्से माकरकुण्डले श्रवणयोर्हारं हरं वक्षसि ।
पाणौ बाणशरासने कटितटे पीताम्बरं स्वेषुधी
नूनं ते रघुनाथ भूषणधृतिस्तेषां रुचो वृद्धये ॥ ८॥
न्यस्तानर्थवरूथतः कथमिमेऽनर्थान्विहन्युर्बलात्
सौन्दर्यामृतसागरे कथममी दध्युश्छवेर्विप्रुषः ।
आधिक्यं किमु तन्यतां निरधिके तस्मादपार्थाः समे
नूनं स्वं रघुनाथ धातुमनसो बाभान्ति ते विग्रहे ॥ ९॥
॥ वंशस्थम् ॥
जयत्यशेषैनसतूलपावको
महापराधाऽहिजतार्क्ष्यशावकः ।
सुरद्रुमारामसमोऽभिकाम
तविवैद्यवर्णं रघुनाथ नाम ते ॥ १०॥
जयत्यजेयं द्विभुजं जरज्वरं
गुणाकरं निर्गुणमीड्यमैश्वरम् ।
पयोजपाथोजसरोजसुन्दरं
वरं नृरूपं रघुनाथ तेऽजरम् ॥ ११॥
जयन्ति संसारसमुद्रसेतवः
स्वलोकलीलाः स्वसुखैकहेतवः ।
कुपातकालातकधूमकेतवः
श्रुतीड्यगाथा रघुनाथ हे तव ॥ १२॥
जयत्यघौघौघविनाशचातुरी
त्वराकमानन्दमयं सुचिन्मयम् ।
सदात्मकं ब्रह्मविभूति राम ते
निरामयं श्रीरघुनाथ धाम ते ॥ १३॥
जयन्ति जाग्रज्जनदिष्टसत्पथाः
सदैव मर्यादितमानवप्रथाः ।
पुराणरामायणगा गतव्यथाः
श्लथत्च्छ्लथाः श्रीरघुनाथ ते कथाः ॥ १४॥
जयन्ति रामायणकोटिकोटिषु
श्रुतानि गीतानि मुनीन्द्रसूरिभिः ।
चरन्ति चैत्यं चरितानि सेविनां
पुनन्ति पापं रघुनाथ तेऽनघ ॥ १५॥
जयत्यदभ्रं शतकोटिविस्तृतं
सुरम्यरामायणमादिकाव्यकम् ।
सदैव वाल्मीकिमुखेन्दुसोमकं
जगत्त्रये ते रघुनाथ शाश्वतम् ॥ १६॥
जयत्यदो रामचरित्रमानसं
सुरामगाथाशतकोटिसारभृत् ।
दलं तुलस्यास्तुलसीरितं यथा
सदानवद्यं रघुनाथ तेऽमलम् ॥ १७॥
जयत्यनल्पाघविनाशकारिणी
विहारिणी सज्जनमानसाजिरे ।
प्रहीणगङ्गाशुचिता शुचिप्रिया
सदैव कीर्ती रघुनाथ तेऽनघा ॥ १८॥
॥ वसन्ततिलका ॥
सीतामुखाम्बुरुहमञ्जुलचञ्चरीकं
सीताहृदम्बुरुहपावनपुण्डरीकम् ।
सीताकराम्बुरुहलालितमव्यलीकं
सीतापतिं रघुपतिं रघुनाथमीडे ॥ १९॥
सैरध्वजीनयनचातकवारिवाहं
सौन्दर्यसारजितमन्मथकोटिकोटिम् ।
माधुर्यधुर्यमपराजितमप्रमेयं
वन्देऽनवद्यचरितं रघुनाथमीशम् ॥ २०॥
शृङ्गारसारसरसीभवचित्रभानुं
भास्वत्कुलाम्बुरुहभास्वरचित्रभानुम् ।
उद्दण्डचण्डतरचण्डनचित्रभानुं
नाथं प्रणौमि रघुनाथमनाथनाथम् ॥ २१॥
इन्दीवराम्बुधरनीलमणिप्रकाशं
कन्दर्पदर्पदलनाद्भुतकम्रकान्तिम् ।
कान्तालकं ललितहासमुदारकीर्तिं
श्रीशर्वरीशवदनं रघुनाथमीडे ॥ २२॥
दन्तप्रभाविजितदाडिमबीजराजिं
राजीवलोचनमघौघविमोचनञ्च ।
कोदण्डमण्डितकरं श्रितचण्डकाण्डं
यामो वयं हि शरणं रघुनाथमाद्यम् ॥ २३॥
प्रातर्दिवाकरकरोपमपीतवस्त्रं
वक्षोलसत्तुलसिकावनमालमीशम् ।
आजानुबाहुमजपौत्रसुतेन्दुराहुं
तं वै व्रजामि शरणं रघुनाथमार्यम् ॥ २४॥
श्रीजाह्नवीकरणकारणकारणाङ्घ्रि
पाथोरुहं मुनिवधूदुरितघ्नपादम् ।
लोकेश्वरं जनकनन्दिनीपूतपाणि
पद्मं व्रजामि शरणं रघुनाथमेनम् ॥ २५॥
हे हेमशैलतनुमारुतिमोदकारिन्
हे हेमपर्वतनिषण्णमनोविहारिन् ।
हे हेमभूषणशरासनबाणधारिन्
क्षिप्रं सनाथय जनं रघुनाथ राम ॥ २६॥
त्वत्पादपद्ममकरन्दमधुव्रतो हि
स्वप्नेऽपि नैव लभते भवतो नकारम् ।
तन्मां वसिष्ठकुलजं किल याचमानं
मा मां निराशय हरे रघुनाथ भिक्षुम् ॥ २७॥
॥ वैतालिकम् ॥
नवनीलतमालसुन्दरं सुभगं भीमभवाब्धिमन्दरम् ।
दशकन्धरशत्रुमन्वहं रघुनाथं शरणं समाश्रये ॥ २८॥
शरणं करवाणि सादरं सरलं सर्वहितैषिणं हरिम् ।
शरणागतवत्सलं प्रभुं रघुनाथं तमनाथसंश्रयम् ॥ २९॥
शरणागतवज्रपञ्जरं शरणं सर्वनृणां समाश्रयम् ।
शरणागतरक्षणव्रतं शरणं श्रीरघुनाथमाश्रये ॥ ३०॥
शरणं शरणामि शाश्वतं मरणत्रं शरणैषुणां नृणाम् ।
करुणं कलकञ्जलोचनं रघुनाथं नरनाथविग्रहम् ॥ ३१॥
न धनं न बलं न बान्धवा न हि माता न पिता न वा सुहृत् ।
निरुपाय उदस्तसम्बलो रघुनाथं शरणं श्रयाम्यहम् ॥ ३२॥
न जपो न तपो न साधनं नहि विद्या न विचारणा शुभा ।
कुगतिं कुमतिं च मादृशं रघुनाथाव जनं जनार्दन ॥ ३३॥
रघुनाथ कृपा हि तावकी सुरवल्लीसदृशी श्रुतौ श्रुता ।
किमहो मम भाग्यविप्लवात्कृपणा सा निरपत्रपाभवत् ॥ ३४॥
गणिकाशबरीजटायुषो विमला यत्र सरित्यथाभवन् ।
मयि सा रघुनाथ केन ते करुणा देवधुनी न्यशोषि भो ॥ ३५॥
न हि मादृश एनसां निधिर्न भवादृक्करुणानिधिः क्वचित् ।
विधिदत्तमिदं ह्यनन्वयं रघुनाथाव न नाथ्यतां जनः ॥ ३६॥
॥ शिखरिणी ॥
स्मरं कक्षं गुञ्ज मधुपमरविन्दं जलधरं
ललामं सौत्रामं गगनमविजातोयमुडुपम् ।
हरिं हारं हारं हरतनयहारं हरिधनुः
कविं जीवं सौम्यं जयति रघुनाथोऽधिकुधरम् ॥ ३७॥
दधानस्तूणीरं धनुरथ गभीरस्वनमयं
प्रकाण्डं वैकाण्डं दलितदशकण्ठाटविवनम् ।
वसानः कौशेयं बलमपरिमेयं विलसयन्
घनश्यामो रामो जयति रघुनाथोऽधिकुधरम् ॥ ३८॥
विधुः श्रीकौसल्यासुजठरपयोधेर्गुणनिधि
र्दशास्याब्धेरौर्वो दशरथमखापूर्वमनघः ।
तमालाभो लाभो धृतमधुरमूर्तिर्दृशिमतां
स्वमर्यादातन्तून्वयति रघुनाथोऽधिकुधरम् ॥ ३९॥
कृपासिन्धुर्बन्धुर्विनतजनतानां हरहरो
हरिर्हृष्टः पुष्टः सततमथ सीतासहचरः ।
महात्मा पूतात्मा प्रथितपरमात्मा पदजुषां
नृणां दोषान्दूरं नयति रघुनाथोऽधिकुधरम् ॥ ४०॥
जुषाणः श्रीसीतावदनवनरुक्सारममलं
पुषाणः पार्थिव्याः परमरसराड्भावमनघम् ।
मुषाणो माहेयी मनसिजततं लक्ष्मणसखो
वरो वै वैदेह्या वसति रघुनाथोऽधिकुधरम् ॥ ४१॥
वपुः स्वीकुर्वाणः शुभदगुणरत्नाकरमहो
लसत्स्वेच्छारूपं क्षपितभवकूपं परमया ।
मया युक्तो मुक्तोचितविगतमायोऽपकरणो
जयन्कामं रामो लसति रघुनाथोऽधिकुधरम् ॥ ४२॥
क्वचित्सीतावक्षोरुहकलशपाटीररचना
रसं शन्तन्वानो विलसितविधानो रसपतेः ।
समञ्चन् शृङ्गारं प्रथितमुपहारं महिभुवो
रहो रासं रासं रसति रघुनाथोऽधिकुधरम ॥ ४३॥
कुटीरे वानीरे विधुविमलनीरे सुसरितः
सुतीरे सद्धीरे शिशिरितसमीरे तृणमये ।
विराजन् राजन्यो भुवनकुलधन्योऽवनिजया
प्रपन्नेषु प्रेष्ठो द्रवति रघुनाथोऽधिकुधरम् ॥ ४४॥
कृपादृष्ट्या वृष्ट्या कलितसुखसृष्ट्या त्रिजगतां
तुदंस्तापं पापं भवभयकलापं कलपदैः ।
भवानीजानीष्टो विबुधविनतेष्टो निजगिरा
जनानन्दस्यन्दं च्यवति रघुनाथोऽधिकुधरम् ॥ ४५॥
॥ पुष्पिताग्रा ॥
अभिनववनमुक्ततमालनीलं
निगममनुष्वभिगीतसौम्यशीलम् ।
जनकनृपसुतावरं वरार्हं
शरणमहं रघुनाथमेमि भक्त्यै ॥ ४६॥
मनसिजशतकोटिकाम्यकान्तिं
मनसिजशत्रुनिसृष्टशिष्टशान्तिम् ।
मनसिजतततप्ततापतान्तिं
मनसिजकं रघुनाथमाश्रयामि ॥ ४७॥
करुणमनसमद्भुतस्वभावं
प्रणतजनावनदीक्षमार्तरक्षम् ।
रघुकुलकुमुदेन्दुमीश्वरेशं
शरणमहं रघुनाथमाव्रजामि ॥ ४८॥
भवदवदहनेन दह्यमानो
विपिनकरीव करालकालकाल्यः ।
हरिणतृषिकृशः कुलौल्यलोभः
शरणमये रघुनाथसत्तटागम् ॥ ४९॥
विषयविषभुजङ्गदष्टसत्त्वो
मदनमनोरथभूतकाभिभूतः ।
मरणभयत आतुरो मुमुक्षुः
शरणमये रघुनाथगारुडीकम् ॥ ५०॥
जहि जहि रघुनाथ वासनाहिं
न कुरु विलम्बमनाथनाथ केकिन् ।
त्वयि खलु विमुखे सुबाहुशत्रौ
हरिशिशुमेनमशिष्यतीह भेकः ॥ ५१॥
नहि मम जपयागयोगशक्ति
र्न खलु समाधिविधौ च मे प्रतीतिः ।
गतदृश इव यष्टिरार्तबन्धो
त्वमसि सदा रघुनाथ मेऽवलम्बः ॥ ५२॥
जगति जनिमतामवमाननाढ्यः
शुनक इवास्मि कुटुम्बतो निरस्तः ।
कलिकलिलगतो यथा जरद्गौ
खनमहं रघुनाथतोऽप्यपेक्षे ॥ ५३॥
गुणगणजलधे कृपैकमूर्ते
भुवनपते प्रणतैककामपूर्ते ।
रघुवर वरणीयशीलसिन्धो
स्वजनमिमं रघुनाथ पाह्यनाथम् ॥ ५४॥
॥ उपेन्द्रवज्रा ॥
तव स्वभावो रघुनाथ ईदृ
ग्गृहीतरागा रिपवोऽपि यत्र ।
न बद्धवैरोऽपि दशाननस्त्वां
कदापि निन्दास्पदमाततान ॥ ५५॥
न कोऽपि मित्रं नहि कोऽपि शत्रु
स्तवत्त्रिलोक्यां रघुनाथ राम ।
अतो जगौ श्रीकविकोकिलोऽपि
मुहू रिपूणामपि वत्सलं त्वाम् ॥ ५६॥
वहन्नकेकान्प्रतिलोमलोकां
स्तथापि मातुः पयसि स्पृहावान् ।
ध्रुवं स्वभावो रघुनाथ तेऽय
मणोरणीयस्त्वमयप्रकाशः ॥ ५७॥
समस्तलोकेश्वरलोकपाला
यदाज्ञया स्वं चरितार्थयन्ति ।
स एव गाधेयवशंवदोऽभू
त्स कस्स्वभावो रघुनाथ चित्रम् ॥ ५८॥
त्वदीयपादाब्जरजोऽभिमर्शा
द्बभूव पूता ह्यघवत्यहल्या ।
तथापि पश्चात्तपसेऽभिमृश्य
पदस्पृशे त्वं रघुनाथ पापम् ॥ ५९॥
निरागसोऽप्याह विवासनं ते
पिता समात्रा परिणोदितः सन् ।
तथापि नो विव्यथिषे न निन्दां
चकर्थ रुष्टो रघुनाथ मातुः ॥ ६०॥
चकार पापं जडधीर्जयन्तो
बिभेद चञ्च्वा चरणौ कुजायाः ।
तथापि नो रोषवशं जगन्थ
कियान्मृदुस्त्वं रघुनाथ शीलात् ॥ ६१॥
विहाय राज्यं सुरदुर्लभं त्वं
सुवर्णमायामृगमन्वधावः ।
न वेद यत्नादपि ते स्वभावं
स्वभीष्टनाकं रघुनाथ वाकम् ॥ ६२॥
बबन्ध पौलस्त्यसुतावमेहो
भवन्तमुग्रैः किल नागपाशैः ।
भवानपीमं प्रजिघाय नाकं
कियद्विचित्रं रघुनाथशीलम् ॥ ६३॥
॥ इन्द्रवज्रा ॥
ये नाम जप्त्वा मुनयो दुरन्तं
संसारबन्धं तरसा तुदन्ति ।
स त्वं कथं शक्रजिता निबद्धः
कीदृक्स्वभावो रघुनाथ तेऽयम् ॥ ६४॥
यत्पादपङ्केरुहसेवया वै
सर्वज्ञतां यान्ति मुनीन्द्रवर्याः ।
मूढो यथा शत्रुमृतेरुपायं
पृच्छस्यहो श्रीरघुनाथ मित्रम् ॥ ६५॥
सीतागतिं भो रघुनाथ पृच्छ
स्येणादिकानज्ञवदार्तचित्तः ।
मुक्तिं कथं रासि जटायुषे वै
कीदृग्विरोधीव तव स्वभावः ॥ ६६॥
सूर्यस्य सूर्यस्य हि सौरिमित्रं
विष्णोश्च विष्णोः कपयः सहायाः ।
लक्ष्म्याश्च लक्ष्म्याः रघुनाथ कष्टं
सर्वं स्वभावस्य समञ्जसं ते ॥ ६७॥
सीता विराजत्यथ मानसे ते
लङ्कां तथापि प्रहिणोषि वातिम् ।
नूनं लघून्वर्धयितुं तवेष्टा
चेष्टा विशिष्टा रघुनाथदृष्टा ॥ ६८॥
सङ्कल्पतो यस्य विरञ्चिसर्गो
जाग्रज्जगत्यां यश आतनोति ।
स त्वं कथं शोषयितुं समुद्रं
सन्धातुमैच्छो रघुनाथ बाणम् ॥ ६९॥
दुर्वार्यकालोऽस्ति धनुर्यदीयं
संवत्सरात्मा यदमोघबाणः ।
स त्वं कथं राक्षसनाशनाय
निर्देष्टुमैक्षो रघुनाथ कीशान् ॥ ७०॥
नूनं स्वभावो रघुनाथ तेऽसौ
सङ्क्रीडसे यल्लघुभिश्च कीशैः ।
मित्रे च सुग्रीवविभीषणौ ते
पुत्रो वयः श्रीहनुमांस्त्वदीयः ॥ ७१॥
तं ते स्वभावं परितो निशम्य
श्रुत्वा त्वदीयाञ्च दयालुताम्भो ।
त्वन्निष्ठचित्तः शरणं प्रपद्ये
त्वमातुरं मां रघुनाथ रक्ष ॥ ७२॥
॥ उपजातिः ॥
यत्सच्चिदानन्दवपुर्बिभर्षि
स्वप्रीतये श्रीरघुनाथ रम्यम् ।
तदेव दृष्ट्वा प्रतिबिम्बभावे
मुग्धो नरीनर्त्सि कियद्विचित्रम् ॥ ७३॥
न मोदसे त्वं पदपद्मधूल्या
पापामहल्यामपि तारयित्वा ।
चेखिद्यसे वै रघुनाथ तत्के
पादस्पृशे कीदृगहो स्वभावः ॥ ७४॥
विभज्य चापं तृणभञ्जमाजे
र्न वा स्म दर्पं रघुनाथ यासि ।
स्वयंवरे जानकिजैत्रमालां
गृह्णासि नम्रो विनयः कियांस्ते ॥ ७५॥
कुठारपाणेः परुषाक्षराणि
स्वीकृत्य वाक्यानि यथाशिषस्त्वम् ।
न रोषमागाः कृतपादपूजो
लोकातिगं ते रघुनाथ शीलम् ॥ ७६॥
गुहं निगूहन्भरतन्भुजाभ्यां
चकर्थ मित्रं ननु मित्रमित्रः ।
स्वपादपाथोजमरन्दतोयं
कैवर्तकेभ्यो रघुनाथ रासि ॥ ७७॥
चकार यद्यप्यहितं प्रियायाः
काकायमानो जडधीर्जयन्तः ।
तथापि तस्मै ददिथासुदानं
विलक्षणं ते रघुनाथ शीलम् ॥ ७८॥
पितुः क्रियायां भरतं नियुज्य
जटायुषः श्राद्धमहो चकर्थ ।
तस्मै ह्यदाः स्वीयगतिं च भक्तिं
कीदृक्स्वभावो रघुनाथ तेऽसौ ॥ ७९॥
अम्बात्रये जागृति वत्सलाढ्ये
यद्भिल्लभामां जननीमकार्षीः ।
इदं हि ते श्रीरघुनाथ नूनं
दिव्यस्वभावानुगणं चरित्रम् ॥ ८०॥
स्वयं समर्थोऽतिरथोऽपि वीरः
सुग्रीवमुख्यांश्च विभीषणं च ।
चकर्थ मित्राणि निजान्सहाया
न्तदेव ते श्रीरघुनाथ शीलम् ॥ ८१॥
॥ इन्द्रवंशा ॥
तं ते स्वभावं परिमृश्य शत्रुह
न्संसारसिन्धौ पतितोऽतिपामरः ।
पापी प्रपद्ये तव पादपल्लवं
दीनानुकम्पिन् रघुनाथ रक्ष माम् ॥ ८२॥
यद्यप्यहं जातु जडोऽतिजाल्मको
मायापिशाची परिभूतसत्वकः ।
किन्तु त्वमप्यार्तिहरो हरार्चित
स्तस्मात्प्रपन्नं रघुनाथ पाहि माम् ॥ ८३॥
नैवास्ति मादृग्भुवनेषु पातकी
त्वादृच्च नैवास्ति जगत्स्वघापहः ।
इत्यावयोर्ब्रह्मकृतं ह्यनन्वयं
त्रायस्व यत्नाद्रघुनाथ मा त्यज ॥ ८४॥
जानन्नपि स्वं दुरितैकसागरं
वात्सल्यवार्धिञ्च भवन्तमीश्वरम् ।
त्यक्त्वा त्रपां त्वां शरणं समाश्रये
नूनं व्रतं नो रघुनाथ हास्यसे ॥ ८५॥
यस्यां कृपादेवसरित्यनेकशः
क्रूरान्नृशंसान्प्रपुनासि पापिनः ।
तस्यां कथं पापशिरोमणिं हि मां
पूतं विधातुं रघुनाथ लज्जसे ॥ ८६॥
एकत्र गर्जन्कलिकालकुञ्जरो
मद्बुद्धिवल्लीं प्रसभं जिघत्सति ।
अन्यत्र मामाधिप्रियं पिशाचिनी
नेतुं विनाशं रघुनाथ नाथते ॥ ८७॥
यद्यप्यहं क्रूरकुकर्मपाप
भुग्दण्ड्यो भवेयं नहि नाथ विस्मयः ।
किन्तु त्वदङ्घ्रौ पतितस्य पीडया
लोकापवादो रघुनाथ ते भवेत् ॥ ८८॥
कामं व्रजेयं नरकेष्वनेकधा
पापच्यमानः कटुकर्मजाग्निना ।
किन्तु त्वदङ्घ्र्यम्बुजभावनासवो
मा मानसान्मे रघुनाथ हीयताम् ॥ ८९॥
मा याहि दूरं पतितं पुनीहि भो
मा धेहि धीमन् जनदूषणं हृदि ।
मा देहि दीनं कलये कदाचन
मा पाहि पापं रघुनाथ पाहि माम् ॥ ९०॥
॥ द्रुतविलम्बितः ॥
मरकताम्बुजवारिदसुन्दरं
समरकर्कशकाण्डधनुर्धरम् ।
विगतकल्मषदिव्यगुणाकरं
तमधुना रघुनाथमहं भजे ॥ ९१॥
कमललोचनमाधिविमोचनं
जलजरोचनरोचनरोचनम् ।
कुधरशोचनशोचनशोचनं
तमधुना रघुनाथमुपाश्रये ॥ ९२॥
परमकारुणिकं करुणार्णवं
नवलनीरदनीरजविग्रहम् ।
दशरथात्मजमात्तधनुश्शरं
शरणदं रघुनाथहं श्रये ॥ ९३॥
जनकजाननचन्द्रचकोरकं
भरतमाधिहरं भरताग्रजम् ।
ललितलक्ष्मणलालितलालसं
तमनिशं रघुनाथमहं भजे ॥ ९४॥
महितमारुतिमञ्जुलमानसं
महितमारुतिमञ्जुलमानसम् ।
महितमारुतिमञ्जुलमानसं
तमनघं रघुनाथमुपब्रुवे ॥ ९५॥
भवभवं शरणागतवत्सलं
भवभवं शरणागतवत्सलम् ।
भवभवं शरणागतवत्सलं
तममलं रघुनाथमहं श्रये ॥ ९६॥
जनकजामहितं महिताहितं
जनकजामहितं महिताहितम् ।
जनकजामहितं महिताहितं
सुखकरं रघुनाथमहं गृणे ॥ ९७॥
हरिमहं रघुनाथमिमं भजे
हरिमहं रघुनाथमिमं भजे ।
हरिमहं रघुनाथमिमं भजे
हरिमहं रघुनाथमिमं भजे ॥ ९८॥
हरिमयं रघुनाथमुपास्महे
हरिमयं रघुनाथमुपास्महे ।
हरिमयं रघुनाथमुपास्महे
हरिमयं रघुनाथमुपास्महे ॥ ९९॥
॥ रथोद्धता ॥
नीलकञ्जनवकञ्जसुन्दरं
भीमदुस्तरभवाब्धिमन्दरम् ।
सर्वसद्गुणमनोज्ञमन्दिरं
भावयामि रघुनाथमादरात् ॥ १००॥
शार्ङ्गसायकनिषङ्गधारिणं
सत्प्रपन्नभवभीतिहारिणम् ।
मैथिलीमहमनोविहारिणं
मानयामि रघुनाथमन्वहम् ॥ १०१॥
ताटकासुभुजदर्पहारिणं
कौशिकाध्वरविकासकारिणम् ।
ऐश्वरेण मुनिदारतारिणं
तं सदैव रघुनाथमाश्रये ॥ १०२॥
वीरमीश्वरपिनाकभञ्जनं
भार्गवेन्द्रमदगर्वगञ्जनम् ।
जानकीजयमशेषरञ्जनं
राममेव रघुनाथमाद्रिये ॥ १०३॥
चित्रकूटशुचिशैलवासिनं
जानकीहृदयसद्मकासिनम् ।
तापसं हरिसुतैकशासिनं
राममत्र रघुनाथमेम्यहम् ॥ १०४॥
जानकीशमविवंशभूषणं
भग्नघोरखरमस्तदूषणम् ।
एणनाशनमनर्घ्यपूषणं
चिन्तयामि रघुनाथमीश्वरम् ॥ १०५॥
शीलतुष्टशबरीजटायुषं
भावपुष्टहनुमद्वनायुषम् ।
रावणान्तकविभीषणायुषं
रामभद्ररघुनाथमीड्महे ॥ १०६॥
रामभद्रचरणाम्बुजं श्रये
रामभद्रमनिशं समाद्रिये ।
राघवेन्द्रसुगुणावलीं ब्रुवे
राघवं च रघुनाथमाह्वये ॥ १०७॥
रामचन्द्रचरणाब्जकिङ्करं
जानकीचरणचारुचारणम् ।
गिर्धरं गिरिधरं गिरापते
दर्शनेन रघुनाथ नाथय ॥ १०८॥
इति श्रीरघुनाथस्य शतकं देवभाषया ।
श्रीरामभद्राचार्येण गीतं स्यात्तुष्टये श्रियः ॥
॥ श्रीसीतारामार्पणमस्तु ॥
इति श्रीतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्य-
स्वामिरामभद्राचार्यप्रणीतं श्रीरघुनाथशतकं सम्पूर्णम् ।
॥ श्रीराघवः शन्तनोतु ॥
Encoded and proofread by Vishal Pandey